#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00502 Uniform title: ājaḍapramātṛsiddhi Author : utpaladeva Commentator : haribhaṭṭa śāstrī Editor : Madhusudan Kaul Shastri Description: Taken from KSTS volume 34 Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Publisher : The Research Dept. Jammu and Kashmir State Publication year : 1921 Publication city : Srinigar Publication country : India #################################################### यथा सदसताम् नैव विशेषो ऽस्ति निजात्मनि | जदाजडानाम् अप्य एवं नास्त्य असाव् इति निश्चयः || १ || विज्ञानसन्तानवादिनां मते सर्वेषां भावानां क्षणिकत्वात् स्वलक्षणात्मके प्रातिस्विके स्वरूपे विशेषाभावः संतानिन एकस्यानुसंधातुर् अनभ्युपगतत्वात् | एवं चेतनाचेतनानाम् अपि स्वात्मनि निर्विशेषत्वम् || प्रख्योपाख्या च सत्ता यद् यद् असत्ता विपर्ययः | नैतत् स्वरूपं स्पृशति वस्तुनो ज्ञातृगाम्य अदः || २ || प्रकाशविमर्शलक्षणाभ्यां प्रख्योपाख्याभ्यां तदभावेन च भावानां सदसत्तयोर् व्यवस्थापयितुम् इष्टयोर् अपि वस्तुनः स्वरूपस्पर्शाभावः, यतस् तत्प्रख्यादि ज्ञातुर् धर्मस् ततस् तत्स्वरूपव्यवस्थानाभावः || प्रख्योपाख्याविषयताप्य अर्थस्यात्मा न युज्यते | परापेक्षितया नैकरूपत्वे सत्त्वलऽऽन्घनात् || ३ || न च प्रख्यादिविषयत्वे ऽपि पदार्थस्वरूपतोपपद्यते परप्रकाशाधीनत्वात् तस्य | किं चानेकाकारत्वे ऽपि वस्तुसत्ताया अप्रतिष्ठानात् | तस्माद् अन्योन्यं वस्तुतदभावयोर् निर्विशेषत्वम् | मा भूद् विशेषः प्रख्यादिभावाभावौ ततः पुनः | सिद्ध्यत्य एव विशेषो ऽत्र तावता च प्रयोजनम् || ४ || निर्विशेषत्वाभ्युपगमे ऽपि सदसतोर् वस्तुनोः प्रख्यादि भावाभावाव् अविकलाव् एव तद् अवलम्ब्य पुनर् विशेषवत्त्वस्य सिद्धेः, ततः साकल्येन भावेष्व् अर्थक्रियापि सिद्ध्येद् एव || एवम् अप्य अवभासानुषक्ता सत्तोचिता भवेत् | तदपेक्षां विना भावाभावयोर् अविशिष्टता || ५ || इत्थं च वस्तुसत्तायाः प्रकाशलग्नाया एवौचित्यं प्रकाशमानतालक्षणं संभाव्यते ऽन्यथा संविदनुषऽऽन्गं विना सदसतोर् अन्योन्यनिरपेक्षत्वात् स्वस्वरूपनिष्ठयोर् विशेषानुपपत्तेः || कथं स्याद् अविशेषो ऽत्र यावतार्थक्रियां हि सन् | कुर्यान् नान्यस् तथाप्य अर्थो निर्विशेषो निजात्मनि || ६ || यस्मात् सत एव वस्तुनो ऽर्थक्रियाकारित्वम् असतस् तदभाव इति कथम् अविशिष्टत्वम् अर्थक्रिययैव तद्भावोपपादनात्, इत्य आक्षेपः | तत्राह तथाप्य अर्थक्रियायास् तत्तत्प्रमात्रधीनतया नैसर्गिकत्वाभावाद् विना संविदाश्रयताम् अर्थस्य स्वात्मनि विशेषाधायक्त्वासिद्धेः || एवम् अर्थक्रियाभासोपाधिसंभेदम् आगतः | सन्न् अर्थः स्यात् स्वरूपेण नासतस् तु विशिष्यते || ७ || उक्तप्रकारेण संविद्य अप्रतिष्ठानाद् अर्थक्रियाकारिभिस् तत्तदाभासोपाधिभिः संभिन्नस्यार्थस्यार्थस्वरूपेण सत्तासंओअत्ताव् अपि पुनर् असतो ऽर्थाद् विशेषो न सिद्ध्येत् || तत्राप्य अर्थक्रिया सिद्धसत्ताकार्थे न वर्णिता | समम् एवानयोस् तेन प्रतिष्ठा संविदाश्रया || ८ || तयोर् उभयोः सदसतोर् मध्ये ऽपि प्रागसिद्धे ऽर्थे ऽर्थक्रियाया अव्यवस्थितत्वात्, अथ च पूर्वसिद्धे ऽर्थे तत्सिद्धेर् नार्थक्रियैव वस्त्वात्मा; तस्माद् भावाभावयोर् अक्रमम् एव संविदधीनैव सिद्धिस् तन्निष्ठत्वाद् एव भावव्यवस्थितीनाम् || संविद् अप्य अपरामर्शरूपा चेत् तद् असाव् अपि | अभावेन जडेनाथ तुल्यैव प्राग्वद् आत्मनि || ९ || निर्विमर्शस्य प्रकाशस्यापि स्फटिकादिवद् विश्वावभासने ऽप्य अस्वतन्त्रत्वात् स्वात्मन्य असता जडेन च भावेन सादृश्यम् एव स्यात् परस्परवृत्तपरिज्ञाने ऽनेलमूकप्रायत्वात्, एतेन शान्तब्रह्मवादनिरासः कटाक्षितः || सैवं भूतात्मना स्वेनाप्य अलब्धपरिनिष्ठितिः | कथम् अन्यस्य भावस्य प्रतिष्ठास्पदताम् इयात् || १० || निर्विमर्शा संवित् स्वतो ऽ लब्धसत्ताका परं व्यवस्थापयितुं नालं गगनकुसुमम् इव सौरभादिजनने || इदम् इत्य उचितः संवित् प्रकाशे ऽन्यस्य वस्तुनः | प्रतिष्ठात्मकतां गच्छेद् अहम् इत्य आत्मना पुनः || ११ || भिन्नं वस्तु इदंताविमर्शेन प्रकाशनार्हं सत् पुनर् अहंतात्मना व्यवस्थाम् इयात् | संविद् एव विश्वस्फुरत्तामयी स्वस्वातन्त्र्याद् एव विचित्रार्थात्मनाविभिन्नप्रकाशमयेन प्रस्फुरन्ती विश्वजीवितं, तद् अहंताविश्रान्तिं विना स्वतो ऽसिद्धं कथं व्यवहार्यं स्यात् || व्यतिरेकेतराभ्याम् हि निश्चयो ऽन्यजडात्मनोः | व्यवस्थितिः प्रतिष्ठा च सिद्धिर् निर्वृत्तिर् उच्यते || १२ || ज्ञातरि व्यवस्थितत्वे सन् जडो ऽन्यथासन्, स्वात्मान्यसंरम्भत्वे स्वप्रकाशत्वं तदभावे नास्तीत्य अन्वयव्यतिरेकाभ्यां हि स्वपरत्वनिश्चयः, स च व्यवस्थाप्रतिष्ठादिशब्दैर् उच्यते || एवम् आत्मन्य असत्कल्पाः प्रकाशस्यैव सन्त्य अमी | जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः || १३ || इत्थं जडभावानां संविद्विश्रान्तिं विनासत्कल्पत्वात् स्वात्मन्य असत्स्वभावानां ज्ञातुः प्रकाशस्वभावस्य संबन्धितयैव सत्त्वं, तस्मात् संवित्प्रकाश एव स्वात्मोच्छलत्तया स्वमायाशक्त्युल्लासिते विश्ववैचित्र्ये जडाजडभावराशिद्वयेन वेद्यवेदकात्मकेन स्वरूपानतिरिक्तेनातिरिक्तेनेव प्रश्पुरेत्, -- इति स्वातन्त्र्यवादस्य प्रोन्मीलनं सूचितवान् आचार्यः || न चैवानुभवो ऽप्य अस्ति भिन्नाभिन्नविनिश्चयम् | मुक्त्वान्वयस्य प्रकाशस्य विमर्शरहितात्मनः || १४ || संयोजनवियोजनात्मकं स्वातन्त्र्यं विहाय सतो जडप्रकाशस्य नैव संरम्भात्मानुभवो निर्विमर्शात्मकत्वात् | एतद् एव हि प्रत्यवमर्शस्य माहात्म्यं यद् विश्वं स्वात्मैक्येनान्तःस्थितं बहिरिदंतयोद्भासयन् उद्भास्यमानम् अपि पुनः पूर्णाहंताविश्रान्त्यभेदम् आपादयेत् || इदम् इत्य अस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर् विमर्शः सो ऽहम् इत्य अयम् || १५ || इदम् इति विच्छिन्नतया विमृश्यस्यास्य जडस्य या संवित्स्वरूपविश्रान्तिलक्षणा कृतार्थता सो ऽयम् अहम् एव तत्तद्भाववैचित्र्यात्मना प्रकाशे इति चैतन्यप्रकाशतादात्म्याद् अहंप्रत्यवमर्षात्मा जीवितस्थानीयः, यदाश्रयाज् जडम् अपि वस्तु विम्रष्टृस्वभावप्रमात्रैक्याद् अहंभावविश्रान्तेर् अजडत्वम् आयाति | अजडाश् च वस्तुतः परप्रमात्रेकस्वभावाः, -- इत्य अद्वैतो ऽजडप्रमातृभाव एव सर्वतः पारिपूर्ण्येन विजृम्भते इति तात्पर्यम् || द्विधा स एष एवात्मा मितो ऽपरिमितस् तथा | प्राणादिना निरुद्धो ऽणुः परमात्मा त्व् अखण्डितः || १६ || स एव संविदात्मा परमेश्वरः स्वेच्छया विश्वक्रीडोल्लिलासयिषायां प्राणाद्यात्मताम् अवभास्य तत्प्रमातृत्वेन संकुचितीभूय जीवताम् एति, प्राणाद्यनिरुद्धस् तु विश्वनिर्भरितात्मतया पूर्णः स्वतन्त्रश् चिदात्मैवेति परिमितापरिमितत्वेन द्विविधत्वम् || उभयो ऽप्य एष पर्यन्तभूमिः सर्वार्थसंविदाम् | एक एवानुसन्धानाद् अतो ऽन्यो नोपपद्यते || १७ || द्विविधस्याप्य अस्य प्रकाशात्मनः समस्तभावाभावात्मिकानाम् अर्थसंविदां विश्रान्त्यास्पदत्वम् | स च पौर्वापर्यानुसंधातृतया संविन्मात्रस्फुरत्तैकरूप एव यस्माद् अतो भेदानुपपत्तिः || न चाप्य अव्यतिरेकात्मविमर्शात्मन्य अहंविदि | भाति पर्यन्तवर्तिन्यां भासनाद् अधिकं जडम् || १८ || न च विश्वाभिन्नप्रत्यवमर्शस्वरूपे ऽहंप्रकाशे सर्वज्ञानविश्रान्तिभूमौ तत्प्रकाशाधिक्येन जडस्य सत्ता, तस्य संवित्प्रकाशाद् भेदाभेदविकल्पैर् उपहतत्वात्, अत एक एवाजडप्रमाता स्वस्वातन्त्र्येण स्वाभिन्नं भावजातं स्वात्मन्य एवोद्भासयन् विलापयांश् चाप्रच्युतस्वात्मस्थितिः प्रस्फुरतीत्यर्थः || न सिद्धो ऽप्रथनाद् एव ज्ञानादिसमवायय अपि | तत् प्राणादि प्रमेयं स्यान् न प्रमातान्यतो भ्रमात् || १९ || ज्ञानादिगुणैः समवेतो ऽपि परिमितप्रमाता विमर्शवैधुर्याद् एव न सिद्ध्यति निर्विमर्शत्वे जाड्यप्रसऽऽन्गात्, तस्माद् व्यवच्छिन्नां भ्रान्तिम् आश्रित्य प्राणपुर्यष्टकमातुर् वेद्यत्वं स्यान् न परमार्थप्रमातृभावः संभाव्यते || यद्य अप्य अर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते | जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता || २० || मायाव्यवहारात्मनि लोकयात्रायां यद्य अपि प्राणादि संकोचवति जीवे सर्वेषां बाह्याभ्यन्तराणां विषयाणां व्यवस्थितिर् नियन्त्रिता तथापि संकुचितात्मनि तत्र मितप्रमातरि संकोचापहस्तनेन परप्रमात्रेकात्मतया शिवात्मन्य एव सा तिष्ठति प्राणादेश् चित्प्रकाशाद् अव्यतिरेकित्वात्, शिवस्यैव स्वेच्छया समुल्लासितायाः पशुभूमिकाया ग्रहणेनाणुभावाभ्युपगमात् || तदात्मनैव तस्य स्यात् कथं प्राणेन यन्त्रणा | साधिता प्रत्यभिज्ञायाम् अख्यातेर् जीवता परम् || २१ || तस्माद् वस्तुतः शिवस्वभावाभिन्नेन प्राणादिप्रमात्रा संकुचितशुक्तिकेन कथम् अनवच्छिन्नप्रकाशानन्दमयपूर्णाहंतास्फुरत्तात्मनः शिवस्यावभासननिरोधः स्यात् तथात्वे तस्य स्वयं स्थातुम् अशक्यत्वात् केवलम् अपरिच्छिन्नस्वशक्तिविकासस्याप्रथनम् एव बन्धकत्वपर्यायं जीवत्वं, तस्य चेश्वरप्रत्यभिज्ञायां शास्त्रे सविस्तरं निर्णीतत्वाद् इति तत एव विवेच्यम् || नार्थव्यवस्था प्राणादाव् अहंभावनिरोधतः | प्रकाशस्यात्मविश्रान्तिर् अहंभावो हि कीर्तितः || २२ || उक्ता सैव च विश्रान्तिः सर्वापेक्षानिरोधतः | स्वातन्त्र्यम् अथ कर्तृत्वं मुख्यम् ईश्वरतापि च || २३ || प्राणादौ परिमितप्रमात्रास्पदे जडे स्वात्ममात्रस्फुरत्तात्मनः परामर्शस्य निरोधान् नैव वस्तुव्यवस्था तस्याः संविन्निष्ठत्वात्, यतो या संविदः स्वात्ममात्रविश्रान्तिः स एव पूर्णाहंताविमर्शस्वभावो ऽहंभावो ऽर्थव्यवस्थापको गीयते | सैव विश्वभावानां पर्यन्तप्रतिष्ठाभूमिकत्वाद् विश्रान्तिः, विश्वप्रसरणे स्वव्यतिरिक्तसामग्रीनिरपेक्षत्वात् स्वातन्त्र्यं, तद् एव कर्तृत्वं मुख्यम् ऐश्वर्यम् अप्य आगमेषूद्घोष्यते || मायाभिदास् तच्छक्तेर् एव चान्याप्रसिद्धितः | तदख्यातिमयं ह्य एतज् जगन्निर्मातृतेशिता || २४ || माया नाम शक्तिः शिवस्य शक्तिमतो ऽव्यतिरेकिणी स्वरूपगोपनात्मिका क्रीडा, तन्निमित्ताद् एव यस्माद् अख्यातिमयम् एतद् विश्वं भासते व्यतिरिक्तकारणस्य भेदाभेदविकल्पोपहतत्वेनाप्रसिद्धत्वात्, तस्माद् विश्वाभासानां निर्मातृत्वम् ईश्वरत्वम् || एकैव चानुसंधानात् सा प्रोक्ता सर्वसंविदाम् | स्वसंवेदनपर्यायमातृतत्त्वम् अनादि तत् || २५ || सैश्वरी पराशक्तिः समस्तानां विच्छिन्ननीलासिसंविदां संयोजनवियोजनादौ कार्ये पूरापरादिकोटाव् ऐक्यानुसंधानम् आश्रित्य तदाधारभूतान् अवच्छेदिनी एकैव, तद् एव स्वसंवेदनपर्यायं मातुर् अनादि तत्त्वम् उच्यते || भावव्यवस्था यन् निष्ठा तस्याहंभावभागिनः | व्यापित्वम् अनुसंधानं तज् जडस्य न युज्यते || २६ || यत्र सर्वार्थानां व्यवस्थितिः प्रतिष्ठिता तस्य संविदात्मनः पूर्णाहंतापरामर्शसारस्याजडप्रमातुः स्वातन्त्र्याविनाभाववत्त्वात् सर्वत्रानुसंधानात्मकं व्यापित्वम् अस्ति, तच् चास्वतन्त्रस्य जडस्य न घटते विमर्शसारत्वाभावात् || ततो भेदे तु भासस्य घटते भासमानता | तेनोक्तम् प्रत्यभिज्ञायां तदद्वयमयं जगत् || २७ || अजडत्वम् आश्रित्य पुनर् एतावति भेदोल्लासात्मके विश्वस्मिन् नीलसुखादेर् भासस्यापरिक्षीणान्तःस्थितेर् एव ज्ञानशक्त्या बहिर्भासिनः प्रकाशमानताया घटनात्; अथ चाभेदम् अवलम्ब्य जडस्य पुनः प्रकाशनोपपत्तेर् अन्यथा त्व् अप्रकाशनात् | तेन हेतुना श्रीमदीश्वरप्रत्यभिज्ञायां संविदद्वयप्रकृति विश्वम् उक्तं भवतीति शिवम् || [प्रमातृसिद्धाव् आचार्योत्पलदेवकृतौ मनाक् | चन्द्राब्ध्यष्टेन्दुशाकाब्दे शास्त्री वृत्तिं हरो व्यधात् || [शाक एर १८४१]] इत्य अजडप्रमातृसिद्धौ श्रीमान्महामाहेश्वराचार्योत्पलदेवपादविरचितायां वृत्तिः समाप्ता ||] ########### END OF FILE #######