#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00237 Uniform title: āśaucyadiipikaa Author : vedajñāna Description: E-text created from IFP/EFEO transcript T00370 pages 326 to 400 Copied from a manuscript belonging to Sundaradiksitar Tirunelveli This is another of the works by vedajñāna who lived in Vyaaghrapura in Tamil Nadu. As its name suggests it deals with matters of purity and impurity as prescribed by the Siddhaantaagamas. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Publisher : Publication year : Publication city : Publication country : India #################################################### आशौच्यदीपिका अनुकूलस्मृतिस्नेहामाप्तोक्तिमयवर्तिकाम् | शैववर्गपरिग्राह्यां करोम्याशौचदीपिकाम् || महतापदखिलतन्त्र बृन्दप्रभव शैव तन्त्र दीक्षापविनित कलेबराणामनवरतशिवपूजन धुनद्धराणाममृत * त्पैरणयुरीण शिवपूजने विशिष्ये सूतकनिषिद्ध परिवर्जन परिज्ञातहेतुभूताशौच प्रकाश संपादिका कापि दीपिका प्रवर्तते | अस्यास्त्वाप्तोक्ति वरवचन पंक्तिनतिनिर्मलाकावर्तीका तस्यास्त्त्वनुकूलस्मृति * * संहति स्नेहतया गृह्यते | अत्र सिद्धान्तः परोक्षार्थैक साधनायोवक्ति सोयमाप्तस्यात्तस्मादाप्तवरः शिव इति | प्. ३२७) पौष्करे - आप्तोक्तिरागमस्सोपि सचेदानीं विचार्यते | आयुर्वेदात्सुगणिता मन्त्रवादाच्च सास्वयात् | रसोपदिष्टदाटोपादाप्तस्सन् परिगृह्यते | सेयं आप्तोक्तिरपि चतुर्विधा - शैव पाशुपत सोमलाकुल भेदात् | तास्वपि शैवतन्त्रमेश्रेष्ठम् | तदनुष्ठावञ्च न तन्त्र सांकर्येण कर्तव्यम् | तदुक्तं मकुटे - शैवं पाशुपतं सोमं लाकूलञ्च चतुर्विधम् | तेषु श्रेष्ठतमं शैवं मूर्ध्वस्रोतस्समुद्भवम् || वेदसारमिदं तन्त्रन्तस्माद्वैदिक आचरेत् | वेदान्तार्थमयं ज्ञानं सिद्धान्तं परमं शुभम् || ऊर्ध्वस्रोतोद्भवाच्छ्रेष्ठमष्टाविंशति सम्ख्यकम् | ज्ञायतेनेनेति करणव्युत्पत्या ज्ञानपादं तन्त्रविशेष ज्ञान साधनमित्यर्थः | वेदसारार्थदं ज्ञेयमन्यत्त्वन्यार्थ साधकमिति कामिका - सिद्धान्तं वेदसारत्वादन्यद्वेदबहिष्कृतम् | सिद्धान्तविहिताचारो वैदिकाचार उच्यते || तस्मात् शैवतन्त्रस्य ऊर्ध्वस्रोतोद्भवत्वाद् वेदान्तसिद्धान्तज्ञानहेतुत्वादितरतन्त्राणामन्यार्थ- बोधकत्वाञ्चैतदनुष्ठातुर्वैदिकत्वमेव तस्मादेतत्तन्त्रानुष्ठान तन्त्रान्तरासांकर्येणानुष्ठेयम् | प्. ३२८) तन्त्रान्तरसांकर्येण तदनुष्ठाने कामिकादिषु दोष श्रूयते - शैवभेदमिदं ज्ञेयं संकरन्न समाचरेत् | तन्त्रसंकरदोषेण राजराष्ट्रं विनश्यति || अष्टाविंशतिसंख्यानामेतेषां कामिकादितन्त्राणामन्योन्यसांकर्यं न दोषावहम् | तदुक्तं वीरतन्त्रे - अष्टाविंशतिभेदेन शैवमेवं विधीयते | एतेषां संकरञ्चैव न दोषाय प्रकल्पयेत् || नन्वेवं तर्हि तस्य सिद्धान्तस्य प्रमाणतया शिवदिव्यजनप्रणीत पूर्तिवचनानान्तत्र संग्राह्यत्वमुपपन्नमिति चेन्न तद्विरुद्धस्मृतिवचनपुराणादीना त्याज्यत्वेपि तदविरोधिवचनानां ग्राह्यत्वस्य सम्मतत्वात् | तदुक्तं कामिके - कर्तव्यञ्चेदनुष्ठेयं शैव कर्माविरोधियत् | विरुद्धञ्चेत्परित्यज्यं न तु शैवं परित्यजेत् || संग्राह्यं वैदिकं सर्वं शैव वाक्याविरोधि यत् | शैववैदिकमेवोक्तं वैदिकं शैवमेववा || वैदिकान्तर्बहिर्भूतं शैवं शैवात्तदप्यथ | तथापि वैदिकाच्छ्रेष्ठं शैवं तस्मात् परन्नहि || अस्याश्च दीपिकाया आशौ च पदार्थ प्रकाशद्वारा आचार्य पादसिद्धसूतकनिषिद्ध परिवर्जन ज्ञानोपबृंहितसाध्यो मोक्षः फलं तत्कामिनश्शैवास्त्वधिकारिणस्ते च शैवास्सप्तत्वियाः | प्. ३२९) यथा वीरतन्त्रे - शैवास्सप्तविधा ज्ञेयास्तेषां भेदं शृणुष्वह्य | अनादिशैवः प्रथमः आदिशैवो द्वितीयकः || तृतीयस्तु महाशैव चतुर्थं श्चानुशैवकः | पञ्चमो वान्तरशैव षष्ठः प्रवर उच्यते || सप्तमश्चान्त्यशैवश्च शैवानां भेद उच्यते | अनादिशैवस्सशिवश्चादिशैवश्शिवद्विजः || विप्रश्चैव महाशैव क्षत्रियो वैश्य एव च | अनुशैव समाख्यातश्शूद्रश्चावान्तरस्मृतः || स्वर्णांषष्ठमध्यास्तु कुलालः पाश्वस्तथा | प्रवरशैव समाख्यातः प्रोच्यन्ते सकलं मया | अन्यासामेव जातीनामन्त्यशैवमिहोच्यते | इत्येतश्चानादि शैवः परश्शिव आदिशैवश्शिव द्विजः - सतु शिव सृष्ट्यैव ब्रह्ममुखाज्जातः | महाशैवो विप्रः स तु शिवसृष्टिं विना ब्रह्ममुखमात्रजातः | तदुक्तं सुप्रभेदे - शिवसृष्ट्य समुद्भूता ब्रह्मवक्त्र चतुष्टयात् | ये भूमौ ब्राह्मणा जातास्ते शिव ब्राह्मणाः स्मृताः || शिवसृष्टिं विना यस्मात् जायन्ते केवलं मुखात् | प्. ३३०) सामान्यब्राह्मणाः प्रोक्ता दीक्षया प्रापयेच्छिवम् | आचार्य इति शेषः | कामिकेपि - शिवसृष्टिं विनाये तु जायन्ते ब्रह्मणो मुखात् | ते सामान्या न तेषां तु परार्थे चाधिकारिता || यदि मोहेन कुर्वीरन् राजराष्ट्रस्य नाशनमिति क्षत्रिय वैश्यावनुशैवौ - अवान्तरशैअश्शूद्रः स्वर्णांबष्ठान्तरलिक कुलालपारशैवास्तु प्रवरशैवाः ततोन्याजातयोन्त्यजशैव इति अत्रानादिशैव व्यतिरिक्तानां शैवानामधिकारः | अथाशौचन्निरूप्यते - आशौचन्नाम् कर्मणः क्रियानार्हत्वलक्षणम् | पुरुसस्थं किञ्चिदप्रयत्यं - तन्त्रिविधं कालापनोय स्नानापनोय कालस्नानापनोय त्रिभेदात् | तत्र कालापनोधं अन्तरशव ग्रामाशौचं - तत्र तु यावत् ग्रामात् प्रेतनिर्गमनं तावदेवाशौचं ग्रामस्य न तत्र स्नानापेक्षास्नानापनोद्यं बन्धुमात्र मरणाशौचं - न तत्र कालापेक्षा कालस्नानापनोद्यं पूर्णाशौचादि - तत्र कालापगमे अघान्ते संभवे स्नानस्य विहीनत्वात् अस्य च निमित्तानि जननमरण दहन मनुगमनं निर्हरणं रोदनं सूतकान्तर्भोजनं संपर्कं वपनाकरणं सपिण्डस्त्यकरणमिति दशविधानि | अत्र संग्रहश्लोकः - प्. ३३१) जनिमृति दहनानुयान रोदैर्नवसप्तनिर्हरणाशवत्वमोक्षैः | अवियुतिमृतिकान्तभोजनाभ्यामशुचिवपुर्ग्रहणक्रियास्वनह्वीम्? || अत्र क्रमो न विवक्षितः | जननञ्च गर्भस्राव पातापप्रसव सुखप्रसव भेदेन चतुष्टयम् | तत्र स्रावश्चतुर्थमासपर्यन्तं गर्भनिस्सरणम् | पञ्चमषष्ठयोः पातः | अत ऊर्ध्वं शवप्रसवः | दशममासादिषु सुखप्रसवः | तत्र मातुस्स्रुवे पाते च माससंख्य दिनमाशौचम् | तथा कामिके - माससंख्यादिनम्मातुस्स्त्री पुंसोर्गर्भनाशने | प्रायश्चित्तसमुच्चये विशेष उक्तः | मातुर्गर्भ विनाशेतु त्रिमासा त्रिदिनं स्मृतम् | ऊर्ध्वं षण्मास पर्यन्तं चत्वारि पञ्चषड्गुक्र मादिति | अस्मिन् पक्षे त्रिमासपर्यन्तं त्रिदिनं षाण्मासपर्यन्तम्माससंख्या दिनानि | अत ऊर्ध्वं सूतिका विहिताशौचं भवति | तत्रै तदूर्ध्वं सूतिकाशौचमिति | तत्र स्त्री जन्मनि - चत्वारिंशद्दिनानिस्युर्जनन्यास्त्री प्रसूतके | त्रिंशत्पुं प्रसवे ज्ञेयं पिकस्तु यमलोद्भव इति || यमलं जन्मनि तु शुक्लस्य वायुना भेदे सतिरूपद्वयं भवति | सुप्रभेदे - गर्भाशयाते? काले वायुना भिद्यते यदा | शुक्लं रूपद्वयं गत्वा वर्धतेति शनिस्तदेति || प्. ३३२) शैवपुराणे च - वायुना बहुशो भिन्नो यथास्वं बहुपत्यतेति | स्रावे पाते पितुस्नानं पात एव ज्ञातीनां स्नानम् || यथा प्रायश्चित्तसमुच्चये - स्नानं सर्वत्र तत्पितुः आरभ्य पञ्चममासात् ज्ञातीनां स्नानमिष्यत इति | अव प्रसवस्त्रिविधः | मृतजात जातमृत सुजातभेदात् | तत्राद्ययोः ज्ञातीनां सद्व्यश्शुद्धिः | तदुक्तं किरणे - पतनात्पूर्ण गर्भस्य शुदिर्ज्ञानात्क्षणात्मिकेति | कामिके - पूर्णगर्भस्य नाशे तु शुद्धिर्ज्ञानात् क्षणात्मिकेति | ज्ञानरत्नावल्यामपि - स्रावणात्पूर्णगर्भस्य शुद्धिर्ज्ञानात्क्षणात्मिकेति | पितुस्तु दशाहमाशौचम् | यथा कामिके - पित्रोर्दशाहमेव स्यात् सर्वदाशौचमग्रजा इति | सुजाते तु पित्रादि ज्ञातीनां पूर्णमाशौचम् || सुखप्रसवोपि पूर्ववन्त्रिविधः - तत्राद्ययोश्शाखा शौचन्न कर्तव्यं जननाशौचमेवानुष्ठेयं तथा चावप्रसववत् ज्ञातीनां प्रसवशुद्धिः | यथा ज्ञानरत्नावल्याम् - यदि जीवञ्जातो यदिमृतो मृतोबा जायते यदि | शावाशौचन्नकर्तव्यं सूत्याशौचं न समाचरेदिति || अत एवा दन्दशाहम्मरणेपि ज्ञातीनां शिष्टाहं सूत्याशौचमस्ति | प्. ३३३) यथा संग्रहे - अन्तर्दशाहे जातस्य मृतौशिष्टाहमिष्यते | पितुस्त्वन्तर्दशाहे अन्त्यदिने तत्प्रभाते वा शिशुमरणे द्व्यहं त्र्यहं क्रमेणाशौचं भवति | पितुस्तु द्व्यह मन्त्याहे प्रभाते त्र्यहं भवेदिति | नन्व च प्रसवे मृत जन्मनि सद्यश्शुद्धि | सुखप्रसवे मृतञ्जन्मनि सूत्याशौच पूर्णमित्यत्र किलियामकमिति चेदुच्यते | जीवञ्जात इति वचनमेव नियामकं न चतस्यावप्रसवेपि प्रसक्तिरिति वाच्यम् | पूर्णगर्भनाशे सद्यश्शौचं विधायककामिकादि वचनाविरोधियत् | न च तर्हि अप्रसवेपि दशाहमर्धमरणे शिष्टाहविधिर्नस्यादिति वाच्यम् | प्रबलमृतजनननिमित्तागतानुवर्ति मानस्याशौचस्य निवर्तयितुमशक्यत्वात् पूर्णगर्भनाशविषय कामिकादिवचनस्यावप्रसवदशाहमर्धमरण विषयतया वक्तुमशक्यत्वाच्चेत्यलमति प्रसंगेन - सुजातमपि द्विविधम् - स्त्रीजनन पुंजननञ्च प्रथमे जातायाः कन्यकाया यत् मातृपितृ तद्भ्रातृ तत्सुत पितामहाना दशात्रमाशौचम् | तथा कामिके - भातृपितृपितृव्योन्ये बान्धवा ज्ञातय स्मृताः | ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रवीधीयते || ति | स्मृतावपि - कन्यका जनने भ्रातृ पितृतत्भ्रातृ तत्सुताः | प्. ३३४) पितामहश्च तद्भ्राता शुध्यन्त दशरात्रत इति | पुंजनने तु आशौचिनस्त्रिविधाः - पूर्णाशौचिनस्त्र्यहाशौचिन पक्षिण्याशौचिनश्चेति सप्तपुरुष पर्यन्तं सपिण्डाः पूर्णाशौचिनः | ततः पञ्चपुरुष पर्यन्तं समानोदकास्त्र्यहाशौचिनस्ततः परंयावत् बान्धव परिज्ञानं पक्षिण्याशौचिनः | यथा कामिके - आसप्तपुरुषाद्ग्राह्यन्तपु * मृतसूतयोः | ततोपि त्र्यहमाशौचं परितः पञ्चपूरुषात् || तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदिबान्धवः इति पूर्णाशौचित्वञ्च ब्राह्मणानान्दशाहं क्षत्रियाणां द्वादशाहं वैश्यानां पञ्चदशाहं शूद्राणाम्मासमानं तथा कामिके - विप्रे शुद्धिदं दशाहं स्यात् क्षत्रिये द्वादशाहिका | दशपञ्चाहिका शुद्धि वैश्ये शूद्रे च मासिकेति || स्वायंभुवे च - ब्रह्मणान्दशाहञ्च क्षत्रिये द्वादशाहं भवेत् | वैश्य पञ्चदशञ्चै शूद्राणां त्रिंशति स्मृता || सुप्रभेदे च - दशाहाश्शुद्धिर्विप्रस्य द्वादशाहान्नृपस्य तु | वैश्यस्य पक्षतश्शुद्धिं मासाच्छूद्रस्य चोच्यत इति || प्. ३३५) षट्सहस्रिकालोत्तरे - नाधिकारीह्यनुष्ठाने यद्दशाहं भवेद्विजः | द्वदशाहिं नृपञ्चैव वैश्यः पञ्चदशाहतः || न्वर्तित जपध्यान शूद्रोसनथक्षत इति अस्य च वर्णप्रयुक्ताशौचस्या श्रमवशेन संकोचो भवति | यथा ब्रह्मचारी वानप्रस्थ सन्यासिनां सद्यश्शौचं गृहस्थस्य न कदापि संकोचः | तत्संकोचक प्रमाणाभावाच्चतुर्णामपि वर्णानां शैवावलंबनेत्र शिवाश्रमस्वीकारेसति समयविशेष निर्वाणाभिषेकरूप चतुर्विधेन प्रतिवर्णं समधिपुत्र साधकाचार्य नामानः क्रमेण जना भवन्ति | समयीदीक्षितश्चैव साधकोन्त्योगुरुस्तथा चतुर्थसंस्थिता वर्णास्वनियोगवशगा इति | तत्र चतुर्ष्वपि वर्णेषु साधकाचार्ययो सद्यश्श्चौचं समधिपुत्रकयोस्तु आदिशैव महाशैवानुशैवेषु वर्णोक्ताशौचस्य न कदापि संकोचः | अवान्तरशैवानान्तु समधिपुत्रकयो स्त्वसस्य संकोचः | पुत्रकस्यापि सर्ववर्णेषु पूजाकाले सद्यश्शौचं | तत्र समयिनो द्विविधाः | सन्ध्योपास्तमात्र पराश्शिव कर्मण्यपिरताश्चेति तत्र प्रथमानां समयिनां नित्यस्नानजपध्यान मात्रवतां स्नानानुष्ठान जपपराणां देवालय कर्मरहितानामवान्तर शैवानां पञ्चविंशतिरात्रमाशौचं - प्. ३३६) देवालये विधिवत् सम्मार्जनालेपनादिशिवकैङ्कर्यगताञ्चर्या पादप्रोक्त दासमार्गानुष्ठान वतामवान्तर शैवानान्द्वितीयानां समयिनां विंशतिरात्रमाशौचं तथा कामिके - शिवकर्मरताये तु शूद्रभस्मादि संयुताः | दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परा | इति अत्र - क्रियामूर्तेर्महेशस्य आलसे सुसमाहिताः | शनैस्सम्मार्जनं कुर्वन् मार्जन्यामृदु सूक्ष्मया || विशुद्धं गोमयं ग्राह्य लेपयेच्छंकरालये | आत्मान * मोद्भवैः पुष्पै समादाय शिअस्य तु || मालां गृहीत्वा यो दद्यात् शुभावन्ति समन्विताः | स्तोत्रगानादिकं सर्वं यः कुर्याद्दागमार्ग इति शिवज्ञानबोधसंग्रहे दासमार्गश्शिवकर्मशब्देनोक्तः | पर इत्यनेन दासमार्ग रहिता अन्ये उक्ताः | विशेष दीक्षा संस्कारवतां पुत्रकाणां भस्मरुद्राक्षधारिणा महेश्वरपूजावता मवान्तरशैवानां सूतके मृतके च | पञ्चदशाहमाशौचम् | तदुक्तं कामिके - ये च महेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः | तेषां पञ्चदशाहेन शुद्धिः स्यान्मृतसूतके || माहेश्वरा महेश्वरपूजावन्त इत्यर्थः | स्वायंभुवे च - लिंगार्चनशिवभक्तानां आशौचं पक्षमाचरेत् | प्. ३३७) इति | ज्ञानरत्नावल्यां च - अमद्यपा कुलीनश्च नित्यं धर्मपरायणः | दीक्षितश्च भवेच्छूद्रः पक्षैकम्मासमन्यथेति | प्रवरशैवान्त्य शैवयोस्तु चिन्त्यौ - समयविशेषयोरसंभवतोरपि समयि विशेष्यो स्वस्वजात्युक्ताशौ चस्यावान्तर शैवत्वन्न संकोचः | तत्संकोचे प्रमाणाभावात् | ननु क्रमाशौचं गुणाशौचं निरस्यन्दूरतः कलावित्यादि स्मृतिभिरवान्तरशैवस्यापि समयिपुत्रकत्वालंबनाशौचस्य गुणाशौचतया निरस्यत्वमे वेति च कामिकादिः प्रमाणः यथा - शिवागमविदां तद्वत् शिवाश्रमनिषेविणामिति | शिवधर्मेपि- सर्वेषामेव वर्णानां शिवाश्रम निषेविणाम् | शिवधर्मश्शिवोक्तः धर्मकामार्थमुक्तये || ब्राह्मणः क्षत्रियो वैश्य स्त्रीशूद्रो वा शिवाश्रमी | ब्रह्मचारी गृहस्थो वा वानप्रस्थोय भिक्षुक इति | ननु - निर्वाण दीक्षितानान्तु सूतकं नैव विद्यते | शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् || समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा | काम्यकर्मन्या शौ चं तच्चस्नानान्तिवर्तत || इति प्. ३३८) कालोत्तरादिषु निर्वाणदीक्षितानां सूतकाभावः प्रतीयते तेष्वेव पुरः कर्तव्यन्तस्माल्लौकिकैरपि दीक्षितै रित्यादिभिस्तेषामेव सूतकसद्भावश्च प्रतीयते | तथा च सर्ववर्णेष्वपि साधाका चार्ययोस्सद्यश्शौच वर्णनमनुपन्तमिति चेदुच्यते | उभयविधवचनानामपि शिवप्रनीततया प्रामाण्यस्थ सद्भवेन निर्वानदीक्षायान्तरतम्य कल्पनया परस्परविरोधः | परिहरणीयः | अत्रैव बालरत्नावली कारज्ञानशंकराचार्यैर्विप्रतिपत्तिमुद्भाव्य आचार्याणां पुनर्दाहेतदन्दपि दशरात्रकम् | सर्वेषमेव वर्णानां सूतके मृतके तथा || दशाहेनैव शुद्धिस्यादिति शातातपोब्रवीत् | मन्त्रवर्जन्तु शूद्राणां द्वादशाहे स पिण्डनम् || कर्तव्यं सर्वदायत्नातथैव प्रजापतिः | आंगिर ऋषिः - शिष्यश्च दासमृतकौ स्वस्वपिण्डात्ययातिके | गुरुस्वामि समाशौचमिति तत्कुलवासिनः || निर्वाण दीक्षायां शिवमलाकधर्म भजनाभ्यां वा लोकधमिण्यामपि सदाशिवलोकाय स्तनलोकधर्म भजनाभ्यां वा सूतके पृथक् पाकसहित तद्रहिताभ्यां वा भेदं परिकल्प्य सूतका भावाभाव वचनानां परस्पर विरोधः परिहृतः | तथा च शिवधर्मिण्या दीक्षितानां सदाशिवादिलोकः | लोकधर्मिण्या दीक्षितानाञ्च पृथक् पाकवतां सद्यश्श्चौचम् | प्. ३३९) पृथक् पाकरहितानां निर्वाणदीक्षितानान्तु सूतकमतस्थितम् | शिवधर्मिणी दीक्षाद्यवलंबनेनैव समयास्सद्यश्शौचमुक्तमिति नानुपपन्नम् | ननु तर्हि येषां सूतकमस्ति तेषां निर्वाण दीक्षितानां कियद्दिनमाशौचमिति चेदुच्यते | आदिशैव महाशैवानुशैवावान्तरशैवेषु सर्वेष्वपि तेषान्त्रिदिनमेवाशौचम् | उक्तं प्रायश्चित्त समुच्चये - नहानिर्न पृथक्पाकस्तस्याशुद्धिश्शिवात्मिके | कालोत्तरेपि - अहन्यहविकर्तव्य मन्तर्यागण्टिनत्रयम् | चतुर्थेहनि नित्यन्तु कर्तव्यन्तेन पूर्ववत् || न चात्रान्तर्यागः प्रतिपाद्यन्ते तेन सूतकं विधीयत इति वाच्यम् | अन्तर्यागविधानस्य स्वविनाभूतस्य सूतके गमकत्वात् न च सूतके समयिनां बहिर्यागस्यैव विहिततयान्तर्याग विधानमुपपन्नमिति वाच्यम् | अन्तर्यागविधान मनुचितं तत्र बहुलमुपलंभेन निर्मातुमशक्यत्वात् तर्हि उभयविधवचनानां परस्परविरोधादप्रमाण्यादिति चेन्न | भक्तिज्ञानवैराग्य दाढर्यादाढयाभ्यां व्यवस्थोपपत्तेः | उक्तञ्च कामिके - भक्तिज्ञानवैराग्य मेतेष्वन्यतमन्तु वा | यस्य सम्यक् भवेत्तेन कार्यं समयिनार्चनमिति || प्. ३४०) मन्दं मन्दतरं वापि यस्येतत्रितयं भवेत् | अन्तर्यागश्च तेनापि कर्तव्य इति - तस्मादादि चतुर्ष्वपि शैवेषु पृथक् पाकरहितानां निर्वाण दीक्षितानां त्रिरात्रमाशौचम् अवान्तरशैवेषु समयनश्च सन्ध्योपास्तिमात्रतः पञ्चविंशद्दिनं शिवकर्मरतस्य समयिनः विंशद्दिनमाशौचम् | पुत्रकस्य पञ्चदशदिनं भवतीति निरवधं | एवं रुद्रकन्यानामपि नक्रादि पञ्चाचार्याणामपि पञ्चदशाहं तदुक्तं कामिके - तथैव रुद्रकन्यायां पञ्चाचर्योपि सम्मतमिति | चन्द्रज्ञाने तु - रुद्रकन्यानाञ्चतुर्दशाहमुक्तम् - तद्यथा - जन्माशौचं मृताशौचं चतुर्द्दशाहेन शुध्यति | पञ्चाचार्याः - नर्तको मदर्कश्चैव गायको वंशकस्तथेत्यादिनोक्ताः आगमविहित द्राविडगानवतां पञ्चदशाहमाशौचं मुक्तं कामिके - शिवज्ञानविदां तद्वच्छिवाश्रम निषेविणामिति | देवदासीनान्तु विंशतिदिनैश्शुद्धिः | तथैव कामिके - दिनैर्विंशतिभिश्शुद्धिर्द्देवदास्याः प्रकीर्त्यत इति चन्द्रज्ञाने तु देवदास्या आशौचं पक्षान्तमित्युक्तम् | जन्माशौचं मृताशौचं पक्षाहेन विशुद्धयति | प्. ३४१) स्वायंभुवेपि - रुद्रकन्यादिनां विशेषतः प्रदर्शितः - रुद्रस्यगणिकानाञ्च आशौचञ्च तयोदश | तपस्वी देवदासीनां पक्षमेकमाशौचम् || विष्णुदासकदासीनान्दशपञ्चकमेव चेति | अत्र रुद्रकन्यानां देवदासीनाञ्च स्वरूपकर्म चाशौचञ्च विस्तरेण कारणे प्रदर्शितम् - दत्त क्रिताभिभूता भक्तामृतालंकारदासिका | रुद्रकन्या च सप्तैता ममकर्म नियोजिताः || या स्वदामकृष्यादि विषये भक्तिमज्जने | सा दत्ता इति विख्याता क्रीताया लक्षणं शृणु || दास्यर्थं मम भक्तेन द्रव्यलोभेन वा पुनः | वित्तं गृहीत्वा या दत्ता सा विक्रीतेति कीर्तिता || कुडुम्बमरणार्थाय गायन्ती मममन्दिरम् | जीवनाय भवेद्दासी चिह्निताभिभूतकोच्यते || या भक्ता स्वयमेवाहं दासीस्यमिति शांभवे | आलयेर्पित चिह्ना स्यात् सा हि भक्ताभिधीयते || या पूर्वं ममगेहे तु दासी कन्यात्र निष्ठिता | आमृता कुत्रचित् क्षोभा कालार्चान्यात्र देशिकैः || आसक्तैरर्पिता दासी समृता कथ्यतेधुना | कारितारा नटैर्गान नृतयोरति शिक्षिताः || प्. ३४२) राजनाटकशालायां शिक्षयन्ती तथापरा | सा शिष्यालंकृता वस्तु भूषणैरति सुन्दरी || तोषणार्थम्ममेशस्य मन्दिरे भूभृता पुनः | बिहिताकृतचिन्हा स्यात् साह्यलं कारदासिका || ऋषिभार्यावरारोहा ममसंपर्कतः पुनः | तैस्त्यक्ता ममगेहे तु ता स्मृता रुद्रकन्यकाः || एवं प्रोक्ता बहुविधा दृश्यन्ते मममन्दिरे | दास्यः पुण्याधिके लोके ममकर्मपरायणाः || याः परंपराया मास स्तासां पुण्यावधिः कुतः | यास्तु संकरजातीया शुद्धास्ताश्चवरांगनाः || मममन्दिरकर्माणि विदध्युः चिह्निताः पुनः | आसां लक्षणभेदन्ममदीक्षा विधानतः || तथिवा चारभेदश्च तासां कर्मानुरूपतः | रुद्रगणिकस्तासां जननादि न विद्यते || आरात्र गीतनृत्तानि कर्मतासां विधीयते | अन्यासान्देवदासीनान्तत्तत्कर्माणिमे शृणु || मार्जन प्रोक्षणालेप चूर्णकर्माणि देशिकः | तण्डुलानयनं पात्रशोधनं गाननृत्तयोः || सेवनं वेणुवीणादि वादनञ्चैव मादिकम् | शंकया वाभिमानेन वंशनेनान्यतोपि वा || प्. ३४३) विदध्युस्सर्वकर्माणि रुद्रकन्याविशेषतः | याश्च संकरजातीया ममदास्य इति स्मृताः || धौतवस्त्रा करिष्यन्ति सर्वकर्मणि तस्त्रियः | याभ * * त्र सर्वासुममदसीति विश्रुता || तत्पुत्री पौत्रिकादीनां विहितं कर्मच्छृणु | मांगल्य सूत्रधारणं कर्तव्यं शिवसन्निधौ || पारंपर्यागतानाञ्च नरानामविशेषतः | ब्राह्मणी तुल्यत्ना वस्त्र धारणादिषु कल्प्यते || * * शात् बन्धञ्च वस्त्राणामधः कृत्य च धारणम् | त्रिपुण्ड्र धारणञ्चैव शिवदीक्षा पुरस्सरम् || सूतके मृतकेन्योन्य माशौचञ्चार्धमासकम् | तस्यां त्रिणेत्रमेकाहं पक्षी * हरति क्रमः || सर्वत्र मृतके सूतेप्य * ञ्च दशाहिकम् | न वृद्धबाल नियामकेनेव स्त्री पुंसयोः क्रमः || अस्ति चैककुल ज्ञानं यावत्तावदधं भवेत् | तासां तु पुत्रिकाभावे गृहीत्वा * * लोतभवाम् || पुत्रिका * द विधिना तया कर्माणि कारयेत् | रुद्रकन्यादि दासीना नर्तानाञ्चैव देशिकः || कुलद्वयं भवेत्तासां पूर्वञ्चापरमेव च | समानवंशजातीनां मधञ्चोम * तो भवेत् || प्. ३४४) गोत्र सूत्रम्रान्तरञ्चैव दत्तानामग्र जन्मनाम् | पूर्वत्र पितॄणाञ्च पूर्णमाशौचमिष्यते || आसान्तु गोत्रसूत्रञ्च नेष्यते देशिकोत्तमः | अनुष्ठेयं ततः पूर्वा परयोर्वंशजन्त्वधम् || * र्द्द्धमासप्रकुर्वीत त्रिरात्रं दिनवर्तनम् | परत्रवंशदत्तानामपि पञ्चदस्शान्हिकम् || मातृबन्धु सुबन्धूना मन्योन्यं सूतकेमृतौ | अधं पञ्चदशाहं स्यात् पारशैवादिनामपि || यथा बीजक संबन्ध मात्रनश्च तपस्विनाम् | आशौचयोनि संबन्धादर्धमासं विधीयते || रुद्रकन्यादिदासीना पारशैव तपस्विनाम् | अधं पञ्चदशाहं स्यादज्ञानमुभयत्र च || दत्तानामुभयप्राप्तर्विद्यते देशिकोत्तमम् | तस्मात्तु देवदासीना माशौचञ्चाथमासिकम् || यास्तु कर्मन्दिरे दास्यवर्गभेदेन कल्पिताः | तदभिन्न कूलायां तस्मादधसंबन्धवर्जिताः || तासान्तु पुत्रिकादीनां योन्योन्यमिष्यते | न च सूतके भूतके तासामुभयोर्वंशयोरपि || संबन्धादेकतस्थाने सांनिध्यं * * * * दा | सान्निध्यात् स्पर्शनादीनां भयेच्चावर्जनीयता || प्. ३४५) ततः * * नि संबन्धा द्व्यदाशौचं विधीयते | तत्तुपूर्णं भवेद्यावदुभयोर्वंशयोर्मृतौ || तस्मादन्यत्र का दानधर्मतः साधकानुभूतिकेत्थाअस्थानीका ननुमोद्य च | तया कर्माणि कुर्वीत गृहीत्री जननी सह || यदा ब्राह्मणेन चतुष्टय वर्णे * * वाहः कृतः | तदा ब्राह्मणीमरणे पुत्रजनने च भर्तुस्त्र्यहम् || शूद्रा मरणे च तत्पुत्रजनने च भर्तुरेकदिनम् | ब्राह्मणीक्षत्रिया वैश्या शूद्रासुतानां तत्तन्मातृमरणे च तत्तत्पुत्रजननमरणेषु तत्तन्मातृ जात्युक्तमाशौच वति | क्रीतां हित्वा वरासुञ्च यावद्वंशद्वयं स्मृतिः | अधमेवं भवेत्तासा मर्धमासमिति स्मृतम् | अधसंकोचनात्तासां स्थाननाशं भवेद्ध्रुवम् || तस्मात्परीक्ष्य कर्तव्यं राजराष्ट्राभिवृद्धये | मोहाद्वा डंभवृत्या वा स्वजात्युक्त मधन्तुयः || कृत्वा तु गृहं गच्छेत् स्थाननाशं भवेद्ध्रुवम् | तद्दोषशमनार्थाय प्रायश्चित्तानि कारयेत् || तस्मात् सर्वप्रयत्नेन आशौचं सम्यगाचरेत् | कामिके - उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा | क्रमेण सूतकं ग्राह्यं दशषट्त्र्येक वासरम् | प्. ३४५ब्) सूतकं तत्सुतादीनां मातृपक्षे यथामतमिति | किरणेप्येवमेव श्लोकः | ब्राह्मणेन विधिनोद्धानां क्षत्रिया वैश्या शूद्राणां भर्तृमरणे एकादशद्वादशत्रयोदश दिनैर्विशुद्धिर्भवति | तथा क्षत्रियो द्वायोश्चतुर्दश पञ्चदशदिनैश्शुद्धिः | वैश्योढायाश्शूद्राया अष्टादशदिनैश्शुद्धिः | विधिमन्तरेण ब्राह्मणादिपरिगृहीत क्षत्रियादीनां तिसॄणां स्त्रीणां भर्तृमरणे स्वभर्तृजात्युक्ताशौचदिनादुपरि एकद्वित्रि चतुदिनाभ्या सेनाशौचं भवति | तदुक्तं कामिके - विप्रस्यविधिनोढासु रक्तासु तिसृष्वथ | एकद्विद्वित्रिदिनाभ्यासाज्जादीनां ब्राह्मणादितः || अन्यायजानामशुचि द्वित्रिवेददिनाद्धितः | अत्र वेदशब्दो न भूतसंव्येया चतुस्संख्या वचनः | अनुलोमजातानां सवर्णांषष्ठ पारशव मत्गुरप्युग्रपूत्त्यकनाम्नां षण्णामपि द्वित्रिपक्ष्याशौचम् | पितृपक्ष्याशौचदिनादुपरि एकद्वित्रिदिनाभ्यासेन भवति | तदुक्तं स्वायंभुवे - विप्रस्य नृपकन्यायां जातस्सवर्ण नामकः | एकादशाहमाशौचं द्विजवत्कर्म चाचरेत् || विप्रस्य वैश्यकन्यायां सञ्जातोम्बष्ठ उच्यते | सूतकं प्रेतकञ्चैव आशौचञ्चादशक्रमात् || इतरेषामपि स्वस्वमातॄणामुक्तन्यायेन विदितव्यः | प्. ३४६) अनुलोभानां स्वरूपन्तु सुप्रभेदेकथितम् | सवर्णं प्रथमं विद्यादंबष्ठकं द्वितीयकम् | पारशवन्तृतीयन्तु जायन्ते ब्राह्मणोद्भवाः || मद्धरत्युग्रनामा च जायते तौ नृपस्य तु | वैश्यस्य चूचुको ज्ञेयस्सस्वलुलोमण्षडेव तु || इति संप्राप्यविधिना विप्रोराजकन्यां समन्त्रकम् | तत्र जातस्सवर्णस्तु अनुलोमेषु पूजितः || पीतस्त्री विप्रसंयागादंषष्ठो नामजायते | शूद्रस्त्री विप्रसंयोगाज्जातः पारशवस्मृतः || रक्तस्य पीतकन्यायां जातो मद्गुरिति स्मृतः | कृष्णायां रक्तसंयोगाज्जातश्चोग्र इति स्मृतः || कृष्णायां पीतसंयोगाज्जातशूचुक एवेचति | उक्तं कामिके - सूतकं दासदास्योस्तु अधिष्ठातृकुलोचितमिति च | त्रयोदश दिनैश्शुद्धओ मृतको ब्राह्मण स्मृतः | करकोलकगोपालौ त्रिंशद्दिनशुचीमतौ | भट्टाचार्यश्चालयश्चापि चतुस्त्रिंशद्दिनैश्शुचिः || पञ्चत्रिंशद्दिनैश्शुद्धौ कुंभकारकजल्पिनौ | * सूचितांबूलाजकतैलष्षट्त्रिंशता शुचिः || द्वतादि तैलविक्रियान्ताना मेतेषामाशौचञ्च चन्द्र ज्ञाने स्पष्टमुक्तम् | प्. ३४७) दूताशौचमथ शृणु | त्रिंशद्दिनैज्जन्माशौचम् | मृताशौचं त्रयोदाशाहेन शुद्धिः | करकोलस्य जन्माशौचं मृताशौचं त्रिंशद्दिनैश्शुध्यति | गोपालस्य मन्त्राशौचं मृताशौचं त्रिंशद्दिनैश्शुध्यति भट्टार्यस्य जननमरणाशौचं त्रिंशद्दिनम् | (अन्येषां सर्वाशौचम् | उक्तंकामिके - प्रतिलोमिषु नाशौचं ते नित्या शुचयो यतः | इति जननेस्तिक्रान्तं जननाशौचं नास्ति | पितुष्षट्त्रिंशद्दिनम् | रजकस्य षट्त्रिंशद्दिनम् | तैलविक्रयस्य च षट्त्रिंशद्दिनं अन्येषां सर्वाशौचं) कुलालस्य षट्त्रिंशद्दिनं कुंभकारस्य पञ्चत्रिंशद्दिनम् | जिल्पिनः पञ्चत्रिंशद्दिनं सूचकस्य षट्त्रिंशद्दिनम् | तांबूलकस्य षट्त्रिंशद्दिनम् | रजकस्य षट्त्रिंशद्दिनम् | तैलविक्रयस्य च षट्त्रिंशद्दिनम् | अन्येषां सर्वाशौचं उक्तं कामिके - प्रतिलोमिषु नाशौचं तेनित्या शुचयो यतः | इति जननेस्तिक्रान्तं जननाशौचं नास्ति | पितुस्नानं मातृं तथा च संग्रहे - पितु स्नानन्तदन्येषां न च तत्सूतकात्यये इति | मरणन्द्विविधम् - सुमरणन्दुर्मरणञ्च | आद्यं द्विविधम् | स्त्रीमरणं पुंसरणमिति | पुंमरणो नाम प्राक् सद्यः | प्. ३४८) दन्तु जन्मनः प्रागेकाहं चूडा च * थ वञ्चिं? सपातितु | दशदिन क्षत्रिया मरणे तत्पुत्रजनने च षट्दिनम् | वैश्याम्मरणे तत्पुत्रजनने भर्तुकरणात्प्राग्दिनम् | उपनयनात्प्राक् ततोपि कञ्चि दधिकम् | उपनयनात्परं पूर्णाशौचम् | तथा ज्ञानरत्नावल्याम् | आनामकरणात्पद्य एकाहन्दन्तजन्मनः | चूडायास्त्रिदिनं प्रोक्तं ततोत्यधिकमाव्रतम् || तदुर्ध्वं पूर्वच्छुद्धि सर्ववर्णेष्वयं विधिः | कामिके - नाम्नः प्राक्दन्तजनना ततोपनयनावधि | स्नानमेकदिनं प्रोक्तं त्रिदिनञ्च क्रमेण तु || तदूर्ध्वं दशाहं स्यात् ज्ञातीनामिति | कामिके तु निवृत्त चूडक्षत्रियादेर्विशेष उक्तः | यदा निवृत्त चूडः स्यात् क्षत्रियो षट्दिनैश्शुचिः | वैश्यस्तु नवभिश्शुद्धश्शुद्रो द्वादशभिर्दिनैः || ज्ञानरत्नावल्यां सूचितं ततोप्यधिकमावृतादिति तस्माच्चूडा करणानन्तरमुपनयनात्पूर्वं ब्राह्मणस्यापि चतुर्दिनं पञ्चदिनं वा आशौचं भवति ब्राह्मणस्य मौञ्जीबन्धनमुपनयनं क्षत्रियस्य धनुर्ग्रहण वैश्यस्य व्रतोदग्रहणं तद्वयमात्रतः पूर्णाशौचं तथा च कामिके - प्. ३४९) आमौञ्जी बन्धनाद्विप्रः क्षत्रियस्य धनुर्ग्रहात् | त्रिदिनं कथ्यते स्त्रीषु क्षौरादष्टम वर्णाच्च विवाहात्पूर्ववत्क्रमादिति | दत्तानुढायाः कन्यायामरणे प * * ज्ञात्योरपि त्रिदिनमाशौचं भवति | उक्तं संग्रहे - त्रिरात्रं परतो ज्ञात्योर्दत्तानूढामृतावधमिति | तदूर्ध्वं तु कन्यायां सापिण्डयं नास्त्येव | भर्तृकुल एव सर्वमनुष्ठेयं तथा च चन्द्रज्ञाने - अन्यगोत्रप्रविष्टानां दायमाशौच मिष्यते | ज्ञातित्वञ्च निवर्तन्ते तत्कुले सर्वमुच्यते || तस्याश्च स्त्रियो भर्तुर्यद्यदाशौचं तत्तस्थ अपि भवति | तथा च चन्द्रज्ञाने - यद्यद्भर्तुराशौचं भार्ययास्तन्न संशय इति अत्र उपनयनात्पूर्वकालीन पुंमरणेष्वपि विवाहात्पूर्वकालीन स्त्रीमरनेषु च सर्वत्रमातृपित्रोस्सस्र्वदा दशाहमाशौचम् कृते नामकरणे भ्रातॄणाञ्च दशाहं - तथा च कामिके - भ्रातॄणाञ्च दशाहं स्यात् कृतेना न तु सर्वदा | पित्रोर्द्दशाहमेवं स्यात् सर्वदाशौचमग्रजाः || अत्र सपिण्डाना त्रिदिनाशौ च विषये समानोदकवर्गाणामेकदिनाशौचं भवति एकदिनाशौच विषये स्नानम् | तथा च कामिके - प्. ३५०) त्रिदिनञ्च सपिण्डानां यत्रतत्रैक वासरम् | समानोदक वर्गाणा माशौचं विहितं विधौ || ऊर्ध्वदन्तोद्भवात्पूर्वं स्नानन्तेषां प्रकीर्तितम् | दन्तोद्भवादिति एकाह विषयञ्च | कन्याबालमरण विषयाशौच सर्ववर्ण साधारणः | तथा च ज्ञानरत्नावल्याम् - सर्ववर्णेष्वयं विधिरिति स्मृतौ च | वयोवस्थाश्रिताशौचं वर्णानां तुल्यमुच्यत इति उपनयनात्पूर्व कालीनमरणेषु स पिण्डानामाशौचं नास्ति मातुः पितुश्च सोदराणाञ्च त्रिरात्रं त्रिषुमासेषूक्तमाशौचं भवति | तथा च संग्रहकारः - पित्रोर्भ्रातृभवेन्नान्येष्वनुपेतात्वधमिति स्मृतौ तु बालासंस्कारनिबन्धन माशौच मुक्तम् | यथा च संग्रहकारः - दाहेहः खनने सद्योदन्तोत्पत्तेरतः परम् | खननेहस्त्र्यहन्दाह्ये त्यागे च त्र्यहमिष्यते || इति संस्कारह्यदापिकालस्तत्रैवोक्तः | चौलापरं भवेददाहो नाम्नः प्राक् खननं स्मृतम् | दाहोवा खननन्दन्तात् परन्त्यागस्सवाथ तत् | इति | दहनखननविधिस्वरूपं सर्वं सुप्रभेदे चर्यापादेद्रष्टव्यम् | उपनयादूर्ध्वपरेण तु आशौचिनः पञ्चविधाः - पूर्णाशौचिनः स्त्र्यहाशौचिनः पक्षिण्याशौचिन अहराशौचिनः सद्यश्शौचिनश्चेति | प्. ३५१) जननवत्पित्रादि संपिण्डाः पूर्णाशौचिनः | पूर्णाशौचित्यञ्च ब्राह्मणस्य दशाहादिना पूर्वमेवोक्तं कामिके - आसप्तपुरुषा ग्राह्यन्तत्पुंसांमृत सूतयोरिति | ततः पञ्च पुरुषपर्यन्तं समानोदकारस्त्र्यहाशौचिनः | शिष्यसंबन्धिनाञ्च त्रिदिनमाशौचम् | तथा च कामिके - ततोपि त्र्यहमाशौचं परतः पञ्चपूरुषात् | शिश्येक गुरुसंबन्धात् गुरुसंबन्धिनश्च ये || त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकमिति | मातामही मातामहमातुल मातुभागिनेय मातृस्वसृस्वपुत्रीदौल्या इत्यष्टौ जनास्सन्निधौ त्र्यहाशौचिनः | स्त्री मृतौ माता पितृस्वपुत्रीदौहित्रस्वस्त्रीय भर्तृस्वस्त्रीय नप्तृस्त्रियाश्च षट्जनसंनिधौ त्र्यहाशौचिनः | तदुक्तं संग्रहे - भागिनेये च दौहित्र्ये मृते च त्र्यहमिष्यते इति अदितः प्रतिपादितोर्थोयं संग्रहश्लोकस्सुखबोधार्थमुच्यते पुंमृतौ मातृपितरौ पुत्री दौहित्र * * तः | भर्तृ स्वसुत षष्ठस्ते प्रत्यक्षे त्र्यहाधिन इत्यक्षे प्रत्यक्ष इत्यर्थः | विज्ञायमानबान्धवाः पक्षिण्याशौचिनः | तदुक्तं कामिके - यावद्विज्ञानमिति | स्त्रीमृतावष्टत्रिंशज्जनाः पुं मृतौ षड्विंशतिजनाश्च योनिसंबन्धाः पक्षिण्याशौचिनः तथाहि स्त्री मृतौ जनकजनककोटौ चत्वारः | प्. ३५२) जनककोटावष्टौ स्वात्मकोटौ पञ्चदशस्वजन्यकोटौ सपस्वजन्यकोटौ सप्तस्वजन्यकोटौ चत्वारः | पुं मृतौ जनककोटौ द्वौ जनककोटौ चत्वारः | स्वात्मकोटौ चत्वारः | स्वजन्यकोटौ द्वौ आहत्य सपिण्डानेतान् द्वादशपूर्वोक्त षड्विंशति जनाः पक्षिण्याशौचिनः उक्तं संग्रहे - मातृस्वसृसुतापुत्रवित्यादि तत्प्रतिपादितार्थ संग्रहश्लोक सुखबोधार्थमुच्यते - माता पिता पितृव्यो मातुलस्तथा | मातृ स्वसामातुलानि पितृस्त्री पितृष्यसा? | मातृष्वसुर्मातुलस्य पितृष्यस्य पितृष्वसुः | स्त्री पुत्रस्नुषास्वस्याः स्वसाभ्राता तदंगना || स्वसुभ्रातुस्नुषा पुत्री पुत्रस्य दुहितापि च | स्वपौत्री च स्वदौहित्री स्वदौहित्रं तदंगना || अष्टत्रिंशज्जनाह्येतेस्त्रीमृतौ पक्षिणी जुषः | सपिण्डाद्वादशैतेषु मुक्त्वान्ये पुंमृतौ तथा इति कामिके च - ऊढामरणे मातापित्रोस्सोदरीमृतौ | भ्रातृर्भागिनेयमृतौ मातुलस्य पक्षिणी प्रतिपादिता || यथा - पक्षिणी स्यात्प्रदातायाः पित्रोस्सोदरी मृतौ | तत्सुतानाञ्च प्रायेण पक्षिणी द्विजसत्तमाः || इति प्रदत्ताया ऊढाया इत्यर्थः | पक्षिणीनान्दिनद्वयं रात्रिर्वा रात्रिद्वयं दिनं वा भवति | प्. ३५३) तदुक्तं कामिके - दिवसद्वयमध्यस्थ रात्रिर्वा रात्रिमध्यगम् | दिनं वा पक्षिणीत्युक्ता ज्ञात्वेवं कर्मकारयेत् || अहराशोचिनस्तु पूर्वोक्ता एव पक्षिण्या शौचिनः | परोक्षे अहराशौचिनः | तदुक्तं संग्रहे यथाहि - योनिसबन्धेष्वहर्विधिरसन्नि * * ति | शिष्यगुरुसंबन्धिव्यतिरिक्ताश्शैव मार्गस्था दीक्षिता अपि दिनाशौचिनः | तदुक्तं कामिके - तेभ्योन्यैव शैवमार्गस्था गृहिणोगृहिणोपि वा | दिनमेकं क्षयेयुक्तेशावाशौचाय विवक्षिताः || इत्ययञ्च त्र्यहपक्षिण्यहर्विधि - वर्णसाधारणः | उक्तं संग्रहे सद्यश्शौचिनस्तु मातुः पितुश्च गुर्वादेस्सोदके स्रावेमातृसन्धौ वयस्यधम् | सवर्णसमंहिति विज्ञानेश्वरघोषितमिति बान्धवाः | आत्मबान्धवानां पक्षिण्या विहितत्वात् उक्तं संग्रहे बन्धौस्तानमिति बान्धवानां त्रयाणां स्वरूपं विज्ञानेश्वरे प्रदर्शितम् | तद्यथा - आत्मपितृष्वसुः पुत्राः पितृमातृस्वसुस्सुताः | पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः || मातृपितृष्वसुः पुत्रा मातृमातुष्वसुस्सुताः | मातुर्मातुल पुत्राश्च विज्ञेयामात्म बान्धवाः || इत्यत्र सद्यश्शौचे च स्नानानान्तमेवाघम् | उक्तं गिरिस्मृतौ - प्. ३५४) सद्यश्शौचन्तु वान्यस्या दाशौचं संस्थितस्य तु | यावत्स्थानं न कुर्वन्ति सचेलं बान्धवा इति || स्यालदीनाम्मरणे तत्संबन्धिनां स्नानादेव विशुद्धिः | तदुक्तं ज्ञानरत्नावल्याम् - स्यालके तत्सुते मित्रे दौहित्रे भगिनी पतौ | जमात्रादौ मृतेवापि स्नानादेव विशुध्यति | इति अ * * दौहित्रपदं भिन्नदौहित्री पददीक्षा संस्कार संस्कृतानान्निषिध्यतीत्यर्थः | यात्राभृगुपतनादिमरणं सदाचार्यानुमत्या कृतवतामपिमरणे सद्यश्शौचन्तत्रैव | तीर्थयात्रा भृगोर्माता सन्यासो वह्निवेशनम् | महापथ प्रवृत्तिश्चमौख्य च नेशनादिकम् || इत्यदिपशुजातीनां दीक्षितो न समाचरेत् | अत्यन्तं क्लिष्टदेहश्चेत् दोषक्षयपीडितः | सतामाचार्य विप्राणां गृहीत्वा संमतिन्ततः || तत्कालोचितमालोच्य कार्यं निष्कृतिपूर्वकम् | तदापि सूतकं नास्ति स्नानदेव परिशुध्यति | ब्रह्मचारिणो भौतिकस्य नैष्ठिकस्य वानप्रस्थस्य यतेश्च सपिण्डमरणे चाशौचं नास्ति | तदुक्तंप्रोद्वीते - ब्रह्मचारी जटाधारी सन्यास्याशौच वर्जितः | वान्प्रस्थयतिश्चापि आशौचं वर्जयेत्सदा || प्. ३५५) कूर्मपुराणे च - नैष्ठिकानां वानप्रस्थानां यतीनां ब्रह्मचारिणाम् | नाशौचं कथ्यते सद्भिरिति | पतितस्यापि मरणे सपिण्डानान्नाशौचम् | तत्रैव पतिते च तथामृते | पतितानां न चाघं स्यान्नान्त्येष्टिर्नास्ति सञ्चयः | नचाश्रुपातः पिण्डो वा कार्यं श्राद्धादिकं त्वचादिति || शिवधर्मिणीदिक्षितस्यापि नाशौचम् | उक्तं कामिके - शिवव्रतधरस्यास्य न मृतन्न च सूतकम् | पूर्वाग्रानपेक्षत्वा दस्त संहारहेतुतः || सुप्रभेदे च - सम्यक् ज्ञनिस्वधर्मस्थो न त्यजेत् ज्ञानिनान्ततः | शुध्यते तत्क्षणात् ज्ञानी अज्ञानी चोक्तभाक् भवेदिति || लोकधर्मिण्यामपि पृथक् पाकभुजान्निर्वाण दीक्षितानां सूतकं नास्तीति पूर्वमेवोक्तम् | यथा प्रायश्चित्त समुच्चये - निर्वाण दीक्षितानान्तु पृथक् पाकभुजामपि | आशौचि योगन्त्यजतां नस्यातां मृतसूतके || अत्र ब्रह्मचर्यादीना माशौचा भवपादनेपि सद्यश्शौच विधेस्स्नानमात्रं कर्तव्यम् | तदुक्तं संग्रहे - आघोराश्रमिणोर्नाशे वर्णोक्तमन्यथा मृतौ | सद्यराशौ गृहिण्येवं सद्योन्येषु सदामिथ || इति प्. ३५६) प्रायश्चित्तसमुच्चये - अस्तसंसारबीजत्वात् सत्क्रियाढ्यतः | क्षणमात्रं भवेत्तच्च स्नानादेव निवर्तत इति दानादौ सद्यश्शौचमुक्तम् | ज्ञानरत्नावल्याम् - दाने यज्ञे विवाहे च संक्रमे देशविप्लवे | आपद्यपि च काष्ठां वा सद्यश्शौचं विहीयते इति | कूर्मे तु - काम्यव्रतेषु दानार्चनरहिततया व्रतकरणं प्रकारान्तर विषयेण उक्तम् | काम्योपवासे प्रकान्तेत्वन्तरामृतसूतके | तत्र काम्यव्रतं कुर्याद्दानार्चन विवर्जनमिति || तत्रैव रोगिणस्सूतिकादिनिमित्त स्नानप्राप्तौ सत्यां तस्य शुद्धिविशेषः प्रदर्शितः - आतुरो स्नानमापन्ने दशकृत्वोभ्यनातुरः | सृष्ट्वासृष्ट्वा बहिस्नाया तदासौ शुद्धिमाप्नुयादिति | महाकर्मादि प्रवृत्तानां व्रतचान्द्रायणादि प्रवृत्तानाञ्च सद्यश्शौचं यथा प्रायश्चित्तसमुचये - महाकर्मप्रवृत्तानां यज्ञशेषकृतौ तथा | विवाहे वोढुः प्रक्रान्ते कन्यादानोद्यतस्य च || देवोत्सवप्रतिष्ठायां आचार्ययजमानयोः | परिचारकमर्त्यानां सद्यश्शौचं विधीयते || प्. ३५७) व्रते चान्द्रायणादीनां होमपारायणादिषु | श्राद्धे च तीर्थयात्रायां सद्यस्स्यादिति - राजसेवकमर्त्यानां युद्धे मरणस्सद्यश्शौचं प्रायश्चित्त समुच्चये - राजसेवकमर्त्यानां मृतौ युद्धे च बान्धवाः | सद्यश्शुद्धस्तदानी तदूर्ध्वदेहिकमिष्यते || ऊर्ध्वदेहिकमपि तदानीमेव कर्तव्यम् | न तु दुर्मृतवत् कालान्तर इत्यर्थः | अभिषिक्त क्षत्रियस्य शिवभक्तानान्त्रिणाञ्च नाशौचम् | कामिके - राजानस्सर्वदापूता अभिषेकेण संयुताः | महान्तो मन्त्रिणश्चापि यदिभक्ता महेश्वरा || इति चन्द्रज्ञाने च - प्रतिष्ठाचोत्सवे चैव अष्टबन्धन कर्मणि | दीक्षायाञ्च विशेषेण अंकुरं कारयेद्बुधः || महोत्सवारंभकाले तु नैमित्ते कृतदेशिकः | नैमित्ते कृतमध्ये तु सूतकानां प्रवेशनम् || ज्येष्ठपत्नी सुपत्नी च मातृपत्नी तथैव च | एकां पत्नीं प्रसूतञ्च दीक्षितानान्न विद्यते || आशौचं न चमेक्रमं पद्मपत्रमिवांभसि | यतीनां पथिकानाञ्च योगिनां ब्रह्मचारिणाम् || तथा च शिवभक्ताना माशौचं न च विद्यते | प्. ३५८) आरब्ध क्रियाणामाशौचं नास्तीत्युक्तम् | यथा - यः क्रियाञ्चैव चारभ्य क्रियापूर्तेरधोद्भवः | कर्तारश्चेत्पुरातेषां निर्द्दोषमिति कथ्यते || सहस्रेपि - कृच्छ्रादावृतसवश्राद्धदानहोमतत्वोध्वये | प्रारब्धे तत्प्रवृत्ताना सद्यश्शौचमधागत मित्याशौचमध्ये कृच्छ्रादि समाप्तिश्चेच्छिष्टाहमघं भवति | तद्बहिश्चेत्तिरात्रमित्यादि वक्ष्यमाणाति क्रान्ताशौच विधिर्भवति | यथा संग्रहे - कृच्छ्रादीनां समाप्तिश्चेदधे शिष्टोहमिष्यते | तद्बहिश्चेत्त्रिरात्रादिरित्याह भगवान्मनुरिति || दुर्मरणमपि द्विविधम् - बुद्धिपूर्वकृतं प्रमादकृतञ्चेति | तत्र प्रथमे सपिण्डानां सद्यश्शौचम् | तदा तूष्णीमेव तस्य संस्कारः | कालग्रहे - प्रमादाद्दुमृतौ सद्यश्शौचञ्च समाचरेदिति - अत्र मरणस्य बुद्धिपूर्वत्वन्नाम मरणसाधन प्रवृत्तिरेव बुद्धिपूर्वत्वम् | ननु मरणस्य कोत्यकामनीयत्वात् तादृशी च प्रवृत्ति अशनौ निर्ज्जगमिष्यति वा | सर्पे प्रसर्पति वा | कुडये? विपदिष्यति वा | दियक्षत्यग्नौ जृंभति वा कूलं कषायां नद्यादिप्रवहत्यां वा संभवति | एवं बहुविध मन्यदत्यूह्यम् | प्. ३५९) दुर्मरणविषयञ्च बहुविधाः | तथाहि - ये क्रोधेन सर्पादिविषेण वा शस्त्रेण वा विष भक्षणेन वा गिरिवृक्षादावारूह्य पतनेन वा प्राणान् परित्यजन्ति ते दुर्मरणविषयाः | तदुक्तं सार्धत्रिशतिकायाम् - क्रोधात्प्रा * श्चद्विषाद्वह्ने जस्त्राच्च विषभक्षणात् | गिरिवृक्षात्प्राणहानि षाण्मासात्परिवत्सरात् || पुनस्सष्कारं कृत्वा दर्भाणाञ्चैव पूर्ववदिति | एतादृशानाम्मृतानामाशौचन्नास्ति | प्रमादाद्दुर्मृताना माशौचोदका नादिकमनुष्ठेयमिति कूर्मपुराणे प्रदर्शितम् | यथा - विषाद्युपहतानाञ्च विद्युता पार्थिवैरपि | सद्यश्शौचं समाख्यातं संघातमरणेपि च || अथ कश्चिप्रमादेन भ्रियतेग्नि विषादिभिः | तस्याशौचं विधातव्यम् कार्यञ्चैवोदकादिकमिति | एषां मरणे सपिण्डानां भस्मान्त दीक्षेनोक्तं यथा - क्रिया हीनस्य मूर्खस्य कतर्यस्य तथैव च | ऋणग्रस्तस्य डंभस्य भस्मान्तं सूतकं भवेदिति || आशौचिनः - द्रव्याष्यप्यशुचीनि तथा स्मृतिः - द्रव्याणि स्वस्यसंबन्धादधे सन्त्यशुचीनि वै | इति | तच्छुध्यैव तेषां शुचिः - तत्रैव - स्वामिशुध्यैव शुध्यन्ति वारिणा प्रोक्षितान्यपि | प्. ३६०) इति मृत सूतका प्रशंसकल्पितानान्तत् पूर्वं वा संकल्पितानां द्रव्याणामाशौचं नास्ति | तथा च ज्ञानरत्नावल्याम् - सर्वेषां वृद्धिशावादौ नास्ति सूतकम् | संकल्पितानन्द्रव्यैर्दान पूजादिकं कारयेत् || तथा च पूर्वरोगा च पूर्वसंकल्पितैरपि इति | हिरण्यादीन् कानिचिद्द्रव्याणि स्वत एवाशौचेपि शुद्धानि | तदुक्तं कूर्मपुराणे - हिरण्य योन्यगोच्छाद्य तिलां न शुद्धसर्पिषां | तिलानिक्षु च शाकञ्च लवणं काष्ठकैव च || तोयन्दधिघृतन्तैलमौषधं क्षिरमवे च | आशौचिनां तृणाद्ग्राह्यं शुष्कानं चैवनित्यशः || पुत्रजन्मदिने द्रव्याणामाशौचं नास्ति देवतासांनिध्येन पुण्यदिनत्वात् तदुक्तं आदित्यपुराणे - देवाश्चपितरश्चैव पुत्रो जातो द्विजात्मनाम् | आयान्ति तदहस्तस्मात् * संपूर्णञ्च सर्वदा || तत्र दद्यात् सुवर्ण्यन्तु भूमिंगां तुरगं तथा | छत्रं चागवस्त्रं माल्यं शयनञ्चासनं गृहमिति || तत्र स पिण्डानां अपि प्रतिग्रहेधिकारोस्ति | पितुश्च दानाधिकारः तदुक्तं त्रिलोचाचार्यवयेण - प्रसूतौ कर्वना नाभिः प्राग्दाने योग्यता पितुः | प्. ३६१) आशौचनान्त न्येषान्निषद्धः प्रतिग्रह इति | नाभिकर्तनात्पूर्वमित्येतत्प्रकारान्तरम् | यावच्छुवावस्थानञ्च ग्रामस्याप्याशौच मस्ति | बहिश्शवरगमनानन्तरमेव शिवपूजादि कर्तव्यम् | तदुक्तं कारणे - शामो द्वादश दण्डारिन्ता वास्तौ यदिमृतस्तुतम् | परित्यज्य शिवं पूज्य नित्यनैमित्तिकं चरेत् || ग्रामाद्बहिर्गते प्रेते शिवपूजां समाचरेदिति | एकादशधनुरन्तर वीथ्यन्तरे मृतस्यावस्थाने इतरवीथिषु शिवपूजादिकं कर्तव्यं | तदाहमनुः - नाद्यादन्तश्शवे ग्रामे नाधीयान्ना जुहेति च | तानि वीथ्यन्तरे कुर्या धनुरेकादशान्तर इति || अन्तश्शवेत्यग्निहोत्रादिकं श्रोतकर्म कुर्यादेव | स्त्र्यन्तरे श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव बलीयसी | तस्मादन्तश्शवेग्रामे जुहुयाच्छ्रौत पावकमिति || कुटिकपत्तनखर्वटराजधानीषु अन्तरशवदोषो नास्त्येव | तथा स्मृतिः - कुटिके पत्तने चैव खर्वटे राजधानिषु | कर्मणैवार्चनं कुर्यादुक्तदोषो न विद्यते || इति कटिकादि स्वरूपञ्च सुप्रभेदेवर्णितम् | विप्राणाञ्च सजात्यानां वा सोग्राम इति स्मृतः | शूद्रैरधिष्ठितं यत्तत् खेटकं परिकीर्तितम् || प्. ३६२) तेषां सीमान्तरे येषां वासं कुटिकमुच्यते | चतुरंग समाकीर्ण नृपभृत्यैस्समाकुलम् || राजवेश्म समायुक्तं राजधानी प्रकीर्त्यते | दीपान्तरगतद्रव्य क्रयविक्रकैर्युतम् || पत्तनं त्वाब्धितीरे तु तयोरन्ते तु खर्वटमिति | अयञ्च दशाहविधिराहिताग्नेर्द्दहदिनादिः | अनाहिताग्नेर्मरण दिनादि समाकुलम् तदुक्तं कामिके - कृतकृत्यानि कार्यस्य मृतस्य दहनादितः | अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितमिति || आदिमदिनवद्वाशौच विषयोदय माश्रित्य प्रवर्तनीयम् | तदुक्तं ज्ञानरत्नावल्याम् - रात्रौ स्त्रियो रजो योगे जन्ममृत्योश्च संभवे | पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविरिति || सूतकमध्ये सूतकसंभवे मृतकमध्ये मृतकसंभवे पूर्वेणैवोत्तरस्य शुद्धिः | तदुक्तं कामिके - सूतके सूतकं भूयो यद्यपि स्यद्विजोत्तमाः | प्राक्रोषेणैव शुद्धिस्स्यात् मृतके मृतकं तथा || सुप्रभेदे च - सूतके सूतकं वापि प्रेतके प्रेतकन्तु वा | प्राप्ताशौचदिनं सर्वं पूर्वाशौचाद्विनश्यति | प्. ३६३) चन्द्रज्ञाने च - सूतकं सूकेनैव शावं शावेन शुध्यती ति | शावाशौचमध्ये सूतकसंभवे शावाशौचेन नश्यति | सूतकमध्येशावाशौचसंभवे सूतकेन शावाशौचं नश्यति | उक्तं चन्द्रज्ञानकामिकयोः - शावाशौचे समुत्पन्ने सूतकन्तु यदा भवेत् |शावेन शुध्यतीति | न सूतिश्शावशोधिनीति | ज्ञानरत्नावल्यामपि - शावेनाशुध्यते वृद्धिर्नवृद्धया शुध्यते शवः | दिर्घाशौचेनाल्पाशौचं नश्यति | अल्पाशौच मध्ये दीर्घाशौचमागतं चेन्न नश्यतीति | तदुक्तं कामिके - मृतके मृतकञ्चेत्स्या सूतके सूतकन्तथा | तत्राधिकेन शुद्धिस्यान्न च न्यूनदिनैश्शुचिरिति || पूर्वस्यान्तदिनेवाशौचान्तरं समुत्पन्नं चेत् पूर्वाशौचादिनादुपरि द्विदिनमाशौचम् | पूर्वस्यान्तदिने तद्भवति चेत् तदुपरि त्रिदिन माशौच मनुष्ठेयम् | तदुक्तं चन्द्रज्ञाने पूर्वस्यान्तदिने यदि द्विदिवसाच्छुध्येत् प्रभाते त्र्यहमभूदिति सपिण्डानां दशाहात्परतः अतिक्रान्तदशाहाशौचं मासत्रयमध्ये श्रवणे त्रिरात्रमनुष्ठेयम् | तदूर्ध्वमब्दपर्यन्तं तत् श्रवणे एकदिनमनुष्ठेयम् | प्. ३६४) अतऊर्ध्वं स्नानमेव तथा कामिके - अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् | त्रिके तद्दिनैकं स्यात् स्नानमेवोर्ध्वमब्दत इति | कूर्मपुराणे च - अतीते दशकेभ्योक्तं सपिण्डानां त्रिरात्रकम् | तथा च मरणे स्नानमूर्ध्वं सांवत्सरादिति || त्रिदिनाशौचिनमहराशौचिनाञ्चाति क्रान्ताशौच विषये दिनं सद्यः क्रमेण भवति | पक्षिणाशौचिनान्तु दशाहमध्ये तच्छ्रवणे एककालः | दशाहात्परत श्रवणे स्नानमात्रतः | सत्याशौचेदिनं सद्यस्सूतकामरणाशौचिनोः | पक्षिण्यधिष्वधान्त स्रुक्सेककालोन्यथाप्लव इति दशाहमध्ये मरण श्रवणे सपिण्डानां सर्वेषामपि शिष्टोहमेवाशौचम् भवति उक्तं संग्रहे - शिष्टाहमपि सर्वेषां एव ज्ञा * * * दशा | हमध्ये अस्थिसञ्चनयात् पूर्वं माता पित्रोर्मरणश्रवणे पुत्रस्य शिष्टाहन्तदूर्ध्वश्रवणे श्रवणदिनमारभ्य दशाहन्तदपि संग्रहे - प्राक्सञ्चयनात्सुतस्यास्थिं तदूर्ध्वन्दशातृकमिति | दशात्परं संवत्सराद्यथा अतौर्ध्व दशाहिके तु तौ देहिके माता पित्रोर्मरणे मातृकमिति | संपत्न्याष्टा मरणे ते दशाहमाशौचम् | वत्सरात्परमकृतौर्ध्वदेहिके श्रुतेमातापित्रोर्विषयेदशाहं मातृसपत्न्याविये त्र्यहम् | प्. ३६५) कृतौर्ध्व देहिके तु मातापित्रोस्त्र्यहं दिनन्तस्य भवति तथा प्रायश्चित्तसमुच्चये - पितरौ चेन्मृतौ स्यातां दूरस्थोपि पुत्रकः | श्रुत्वा तद्दिनमारभ्य दशाहं सूतकं भवेत् || अतीतेब्देपिकर्तव्यं प्रेतकार्यं यथाविधि | पितृपत्न्यामतीतायाः मातृवजिज द्विजोत्तमाः || संवत्सरेप्यतीतेपि त्रिरात्रिमशुचिर्भवेत् | संग्रहेपि स्पष्टमुक्तम् - दशरात्रं सदापित्रोः परोक्षमरणश्रुतौ | त्र्यहं मातृसपत्नाभ्यां दशाहं वत्सरादधः || कृतौध्वे देहिके अब्दे दिनं तस्यास्त्र्यहं तयोरिति | अत्र जननमरणनिमित्ताशौचयेपि स्वाध्याय सकर्मणाञ्च * * * गः | अत्र मरीचिः - सूतके कर्मणान्त्यागस्सन्ध्यादीनां विधीयते | यथा स्मृत्यन्तरे - (सूतके चतुर्णां समयादीनां क्रमेणैक द्वित्रि चतुर्द्दिनान्येवानध्याय दिनानि - यथा तत्रैव) दानं दानं प्रतिग्रहं होम स्वाध्यायो देवतार्चनम् | वैश्वदेवादिकं सर्वं सूतके विनिवर्तते || अदिवदेवताभयः - मतंगे च - न * * * वृत्तेन न कारण ज्ञानमुत्तमम् | पुण्यकालेषुनाध्येयन्त्राभोत्पत्रिषु सुव्रत | प्. ३६६) सूतके चतुर्णां समयादीनां क्रमेणैक द्वित्रि चतुर्दिनान्येवानध्यायदिनानि - यथा तत्रैव - एकं द्वेत्रीणि चत्वारि द्वित्वं नानान्तवस्तिनाम् | प्रकर्तव्यं प्रतिष्ठायाचार्य यजमानयोः || परिचारकमर्त्यानां सद्यश्शौचं विधीयते | व्रते चान्द्रायणादीनां हेमपारायणादिषु || श्राद्धे च तीर्थयात्रायां सद्यस्स्यादिति | अनध्याय वृत्तानां यथाक्रमं * * देयेपि || एकवृध्या चतुर्णां स्युरनध्ययदिनानि तु | सूतकेपि शैवेशवार्चन मनुष्ठेयम् | यथा अंशुमति - प्रजालोपो न कर्तव्यस्सूतिके प्रेतकेपि च | शिवमन्त्रेण कर्तव्यं स्नानमात्रेण शुध्यति || अथाशौचं न भवेत्तत्र पद्मपत्रमिवांभसि | मतंगे च - देवाग्नि गुरुकार्याणां विच्छेदो नैव विद्यते | कालोत्तरेपि - एक कालं त्रिकालं वा चतुष्कालमथापि वा | अपूज्य परमेशानं भुक्ते यस्तुप्रमादतः || प्रायश्चितं प्रकर्तव्यं अन्यथा नरकं व्रजेत् | पूजालोपो कर्तव्यस्सूतके मृतकेपि च || प्. ३६६) जलबुद्बुदवच्चैव तस्माल्लिंगं सदार्चयेत् | इति अयष्ट्वा तु क्रमान् भुंक्ते अजापि मूतरेतसि | अहोमीमलमश्नीयाद्दाता च विषमश्नुते || तथा स्कन्दे - अकृत्वा पूजनं शंभो यो भुंक्ते परमेष्ठिनः | क्रूर पञ्चमलञ्चैव सोश्नात्येवं न संशयः || ब्रह्मकैवर्ते च - ईशानार्चनवर्जित भोज्यमन्नं कीडंमलं तत्कुणपं वदन्ति | बहिष्कृतस्सर्वजनैस्सपापी प्रयाति घोरां नरकां नशेषात् || शिवधर्मे - अर्चयित्वा महादेवं आपन्नोपि सदाबुधः | वरं प्राणपरित्यागश्शिरच्छेदोपिमे वरम् || नत्वनभ्यर्च्य भुञ्जीयात् भगवन्तं त्रिलोचनम् | एवं निर्वहते यस्तु यावज्जीवं शिवार्चनम् || मनुष्यचर्मणाबद्ध स रुद्रो नात्र संशयः | इदं शिवार्चनं भक्तिज्ञानवैराग्यान्यतमदार्व्यवतां बहिरेव कार्यं तद्रहितानामन्तरेव कार्यम् | यथा कामिके - भक्तिज्ञानञ्च वैराग्यमेतेष्वन्यतमन्तु वा | यस्य सद्य * वे * * कार्यं समयिनार्चनम् || मन्दं मन्दतरंवापि यस्यैतन्त्रितयं भवेत् | अन्तर्यागं स्तुतेनापि कर्तव्य इति | अंशुमति - प्. ३६७) अन्तर्यागं कुर्वतस्तु लिंगार्चनं गुरुणा स्वजातिना अन्येन वा कारयितव्यमित्युक्तं तद्यथा - स्वकर्मानुष्ठितञ्चैव जनहीनं तु भस्मकम् | मानसञ्च यजेद्धीमान् सर्वन्दानसंकल्पनम् || तल्लिंगमर्चयित्वा न तु गुरुणा स्वजातिना | अनेनैवार्चनं कुर्यात् अन्तेपुष्पाञ्जलित्रयम् || आशौचान्ते च कर्तव्यं पूर्वमार्गे यजेत्ततः | अत्र पुष्पाञ्जलि दानान्मनसार्तित दकृदुच्चालितमग्न्य सन्निधावेव कर्तव्यन्नवोपरितस्य पूजामण्टपप्रवेशे योग्यत्वादनेन दृढम्मातापि आत्मार्थपूजनमेव कार्यम् | यथा किरणे - आत्मार्थं पूजयेन्नित्यं सूतकं प्रेतकं नहि | परार्थमर्चनन्नित्यं पूजनं नैव कारयेत् || स्वकर्माणि सदाकुर्यात् देवकर्माणि नैव हि | अंशुमति च - इति ज्ञात्वा तु यत्नेन पूजयन्सदाशिवः | सूतके प्रेतकेशौचे आत्मार्थञ्च विशेषतः || सूतकरहितेनापि पृथक् पाक्भुजा निर्वाणदीक्षितेन परमार्थ पूजनं विकल्पेन कर्तव्यम् | यथा कामिके पृथक्पाकभुजो यदि स्वार्थे वाथपरार्थे वा विधान मिदमीरितम् | परित्यजेत्परार्थं वा लोके संवरणाय च | प्. ३६८) तस्य जपप्रदक्षिणादेरपि न परित्यागः | उक्तं कालोत्तरे - जपप्रदक्षिणादीनि कर्तव्यानि प्रयत्नतः | आशौचिनां सर्वेषामपि बाह्यप्रकारप्रवेशनेन दोषः | तदुक्तं कामिके - एतेषामपि सर्वेषा प्रकारस्य प्रवेशनम् | अग्रमण्टप बाह्ये तु न दोषाय प्रकल्पते || इति तत्रैव ये दीक्षितानां आशौचिनां विशेषाः प्रदर्शिताः यथा - आशौचानान्त्रिवर्णाना मन्तर्मन्तर्मण्टपवेशनम् | दीक्षितानां न दोषाय भवेदेव मूनीश्वरः || ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् | तद्बहिर्वेशन्तेषान्नदोषाय प्रकल्पत || इति सूतकिभिः प्रेतकिभिर्गा पूर्वाणां स्पर्शने तत्पुष्पाणान्तत्पुष्प स्पृष्टभासानामपि परित्याग एव तदुक्तं कालोत्तरे - सूतकी पुष्प्ससंस्पर्शे पुष्पभाण्डानि वर्जयेत् | अघोरास्त्रेण मन्त्रेण लक्षहोमं समाचरेत् || प्रतके स्पर्सने दोषो लक्ष * * मन्तथैव चेति | रुद्राक्षाणान्द्धारणं वर्ज्यं स्कन्दकालोत्तरे - रुद्राक्षं धारयेत् स्त्री तु दीक्षासंस्कार संयुता | सूतके मृतके वापि रुद्राक्षं नैव धारयेदिति | प्. ३६९) रजस्वला चण्डालस्पृष्टापि वर्जयेदिति - ब्रह्मकैवर्तेपि - केचित्सूतकशवयोर्जलमलोत्सर्गे च संगे स्त्रियाश्शुद्धाचक्षमलिकादीन्तदधते स्वायुक्षय स्यादिति केषाञ्चिन्मते मन्त्रपुरस्सरं कण्ठयोर्भुजयोर्वा भूतानां रुद्राक्षाणां वर्ज्यन्नास्ति महत्यामालाया एव वर्जनम् | तदुक्तं तत्रैव - अन्ये पापहरं सदा धृतिमति प्रोच्ये भुजेकण्ठयोरक्षं मन्त्रपुरस्सरन्तु महतिर्माला न धार्या शुचाविति - रजस्वलानार्यस्तु विंशतिदिनादूर्ध्वं पुनश्चरजः प्रादुर्भावे त्रिरात्रमशुद्धिः | तदुक्तं प्रायश्चित्त समुच्चये - रजस्वला तु या नारी पुनरेव रजस्वला | सा विंशतिदिनादूर्ध्वं त्रिरात्रमशुचिर्भवेदिति || सुप्रभेदे तु - दिनत्रयेपि प्रत्येकं शुद्धिविशेषो दर्शितः | तद्यथा - प्रथमेहनि चण्डाली द्वितीये ब्रह्म धातकी | त्र्तीये रजकी प्रोक्ता चतुर्थेहनि शुध्यति || तस्याश्च तस्मिन् दिनत्रयेपि स्नानादि परिवर्जनीयम् | एकभुक्तमञ्जलितः अरवर्वपात्रतो पात्रोदकपानं च कर्तव्यमिति तत्रैव - त्रिरात्रमलविद्धा सा स्नानादि परिवर्जिता | एकभुक्ता न खर्वेण वारि साञ्जलिना पिबेत् || प्. ३७०) इति चतुर्थेहनि दन्तधावन पूर्वकं स्नानं कृत्वा पञ्चगव्यं घृतं वापिप्राश्य शिवं पूजयेत् पूर्वदिनत्रयेपि अन्ताश्शिवार्चनं कर्तव्यं तथा च ज्ञानरत्नावल्याम् - स्नायात् संस्कृत्य दन्तादिमलान्मृत्तिकया मुहुः | पञ्चगव्यं घृतं वापि प्राश्य संपूजयेच्छिवम् || अन्तर्यागः प्रकर्तव्यस्तदापूर्वदिनत्रये | अन्तर्यागकरणे चतुर्थेहनि अघोरमन्त्रस्य सहस्रजपं कृत्वा पञ्चगव्यं प्राश्यशिवं पूजयेत् | प्रायश्चित्त समुच्चये - यद्वान्ते घोरमन्त्रस्य सहस्रं परिवर्तयेदिति | अत्र रजस्वलानां सजातीयानां विजातीयानां अन्योन्य स्पर्शने शुद्धिवेशेषाः पराशरेण प्रदर्शिताः - तद्यथा - स्पृष्ट्वा रजस्वलान्योन्यं ब्रह्मणीक्षत्रियान्तया | अर्द्धकृच्छ्रञ्चरेत्पूर्वा पादमेकं तथापरा || स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजान्तथा | कृच्छ्रेण शुध्यती पूर्वा शूद्रास्नानेन शुध्यति || व्यासः - रजस्वला यदान्योन्यं स्वगोत्रे चैकभतृके | कामम कामतोवापि स्पृष्ट्वा स्नानेन शुध्यति || रजस्वला स्पर्शे कामतो अकामतो वा सन्देहेन वा शिवार्चने स्वजातीश्वरमन्त्रस्य सहस्रं सहस्रार्थं वाष्टोत्तरशतं क्रमेण कर्तव्यम् | हीनजातीय रजस्वलास्पर्शे हीनस्य पूर्वोक्तसंख्यर्ध जपः कर्तव्यः तदुक्तं प्रायश्चित्तसमुच्चये - प्. ३७१) स्वजात्युदक्या संस्पृष्टं काम्यं यदिशिवं यजेत् | सजतीश्वरमन्त्रस्य सहस्रं प्रजपेत्तदा || अज्ञानतोर्चने तस्य तदर्थं जायते शुचिः | जपेदष्टोत्तरशतं सन्देहे सम्पुअस्थिते || हीनजातीय संस्पर्शे क्रमाद्वित्रि चतुर्गुणम् | उत्कृष्टजाति संस्पर्शे हीनस्तस्यर्धमाचरेत् || इति | सकामा कामयोर्भेद षट्सहस्रिकायां प्रदर्शितः - यथा - दैवाद्रोगात्तथा मोहाद्राजचोरभयादिभिः | एभिर्दोषैरकामित्वं शेषं ज्ञेयन्तु कामत || इति रजस्वला स्पृष्टस्योदकस्य स्पर्शने स्नानाच्छुद्धिः | उदक्याद्युदकस्पृष्टो स्नानं कृत्वा विशुध्यतीति | ननु स्त्रीणां भर्तृशुश्रूषणैक धर्मतया स्वतन्त्र्या भावाद्दीक्षा संस्काराधिकारभावेन कथं शिवपूजा प्रसक्तिरिति चेन्न | तासां भर्क्त्याधनुमत्या शिवसंस्कारे अधिकारप्रदर्शनात् | नाधिकारस्स्वतोनार्या शिवसंस्कारकर्मणि | योगाद्भर्तुर * व भक्तियुक्ता यदीश्वरे || तथैव भर्तृहीनायाः पुत्रदाराभ्यनुज्ञया | अधिकारो भवत्येव कन्यायाः पितुरनुज्ञयेति || प्. ३७२) जननमरण निमित्ताशौचस्य उत्तरप्रबन्धेन प्रतिपादितस्यान्ते संभवकालस्नान मुदकस्पर्शनञ्च ब्राह्मणेव कर्तव्यम् | क्षत्रियेण स्नानं वाहनादि स्पर्शनञ्च कर्तव्यम् | वैश्यानामपि स्नानं वृतोदस्पर्शनञ्च कर्तव्यम् | शूद्रेणापि स्नानं यष्टिस्पर्शनञ्च कर्तव्यम् | उत्तरसंग्रहे - अघान्ते सुमखे स्नात्वा विप्रस्पृष्टो बुशुध्यति | नृपादीन्वाहनादीनान्यथा अब्रवीन्मनुरिति | अत्र बाह्यस्मतयस्सन्ति दीक्षितानां शैवानान्तु अघान्ते कर्तव्य विशेषोस्ति | अन्तर्यागं बहिर्यागं वा सूतकमध्ये कृतवतां पुत्रकादीना माशौचिनामाशौचान्ते स्नानमेकाहं नक्तभोजनमघोरजपसाहस्रं दशांशहोमश्च कर्तव्य उक्तं समुच्चये - आशौचिनां समयीनां सन्ध्योपास्ति रमन्त्रका | न कार्यो लिंगसंस्पर्शः कार्यमन्तश्शिवार्चनम् || भक्तिवैराग्ययुक्तानां लिंगार्चाहित चेतसाम् | नाशौचं समयस्थानां पूजाकाले मनीषिणाम् || तदन्ते तेन कर्तव्यं एकाहं नक्त भोजनम् | अघोर जपसाहस्रं गड्ढुक स्नानहोमयुगिति || प्रेतकसूतक संबन्धे शिवार्चनं परित्यक्तवतां पुत्रकादीनां यावदाशौच वासरन्तावद्दिनमाशौचान्ते त्रिकालस्नान पूजाघोरसहस्र जपग्निहोमपुरस्सरन्नक्त यावद्भोजनञ्च कर्तव्यम् | प्. ३७३) यथा तत्रैव - प्रेतसूतक संबन्धि नित्याहानिं करोति यः | तस्य तावतिकाशुद्धिर्या यदाशौच वासरम् || त्रिकालस्नान पूजाग्नि जपहोमपुरस्सरम् | कार्यं घोरसहस्रेण नक्तं यावद्भोजनमिति || मरणवद्दहनमपि पुरुषशुचिं करोति | तथा स्मृत्यन्तरे - मृताशौच निमित्ते द्वे हननम्मरणन्तथा | ज्ञातीनां मरणादेव दहनं दाहकस्य त्विति || अत्र सपिण्डव्यतिरिक्तस्यापि दाहकस्य मरणाशौचं भवति | उभयोरपि मरणदहनयोर्मृताशौच निमित्तकत्वतुल्यत्वात् | अस्य वदाहाशौचप्यस्य मरणाशौचादपि प्रबलतया तन्नश्यत्वं नास्ति - उक्तं कामिके - सूतकाद्विगुणं शावं शावाद्विगुणमार्तवम् | आर्तवाद्द्विगुणा सूतिः तस्मादपि च दहक इति || पितृदाहाशौचं विना दाहाशौचं दाहाशौचमध्ये नश्यति | उभयोरत्तुल्यसंख्यतया निमित्तैक्येन च समत्वात् | उक्तं प्रायश्चित्तस्समुच्चये - सन्निपाते तुल्य संख्याशौचयोश्शुध्यते सममिति | तच्चघ्रिद्विविधम् | प्रथमदनं पुनर्दहनमिति | साक्षाच्चरितस्य दहनं प्रथम दहनम् | प्. ३७४) अत्र सपिण्डानामाशौचं न वैषम्यम् | अस्थित्वाकृतेर्वा दहनं पुनर्दहनम् | उक्तं स्मृतौ - अस्नापलाशबृन्दैर्वा यध्वा तु प्रतिरूपकम् | क्षीरप्रक्षालनं कृत्वा तदस्थिप्रेतवद्दहेत् || आकृतिदहनं सुप्रभेदेपि वर्णितम् | यथा - वाचायुक्तस्य मरणं शस्त्रेणैव क्रमादितः | वसूरिक्षयकुष्ठाधै रात्मघातककारणम् || जलेन शृंगिणावापि वह्निना वा विशेषतः | एतैस्तु मरणं येषां तेषामाकृतिरुच्यते || सर्पेण पशुनागैद्देशान्तरं गते | द्वादशान्तादतिक्रान्ते चाकृतेर्दहनं स्मृतम् || शस्त्रादिमरणं येत्र कार्यं संवत्सरोपरि | अमन्त्रेण दहेद्देहं खनित्वा वाय भूतले || सुदर्भैरावृतं कृत्वा सूत्रेणावेष्ट्य चाकृतिः | प्लाश पत्रैरावेष्टय सूत्रेण परिकल्प्य वै || मृतवत्सर्वकर्माणि कारयेत्तु विचक्षणः | आकृतेर्दहनं प्रोक्तमिति | ज्ञानरत्नावल्यां तु आकृतेः करणं कुशेन वा पिष्ठेन वा * मयेनवेत्युक्तम् | यथा - देशान्तरे विपन्नस्य मृत्तिकामध्यदेशकम् | कौशीन्तत्प्रतिमां कृत्वा वैष्टीं वा गोमयोद्भवाम् || प्. ३७५) पञ्चगव्यप्लुतान्तस्यान्तल्लिंग मुपकारयेदिति | स्वायंभुवे - देशान्तरे मृतस्यास्य अन्त्येष्टिर्दीक्षितस्य च | मृतस्य प्रकृतिं कृत्वा कर्तव्या च कुशैरपि || कूर्मे च - देहाभावे पलाशैस्तु कृतप्रतिकृतिं पुनः | दाहः कार्योन्यथान्यायं सपिण्डैश्रद्धयान्वितैः || दुर्मृतानां पुनर्द्दहनपूर्वकाले बुद्धितत्वयोन्यष्टक मध्यवर्तिपिशाचत्व निवृत्यर्थमघोर मन्त्रलक्षजप रुद्रबलिपूर्वक माक्र्तिदहनन्तत्रैवोक्तम् | यथा - अथ प्रमादतश्चोरसर्पवह्निहतात्मनाम् | हस्तिव्याघ्रनदीवेग संग्राहहतजीविनाम् || उद्धृत्यात्मवियुक्तानां अन्येषामात्मघातिनाम् | अपिदेहं दहेत्पूर्वन्तूष्णीमेव शिवाग्निना || जपत्वालक्षमघोरस्य दद्याद्रुद्रबलिं यथा | स्नात्वाचमय तथागम्य भोजयेच्च तपोधनान् || महाव्रतधरानष्टौ यद्वा पाशुपतादिकान् | वस्त्रैर्द्दक्षिणया चैतान् तोषयित्वा विसर्जयेत् || दर्भैः पुत्तलिकां कृत्वा तद्देहप्रतियातिकाम् | शेषं पूर्ववदापाद्य योजयेदमले पदे || इति प्. ३७६) ब्राह्मपुराणे - अब्दान्तेवाथ षाण्मासे पुनः कृत्वा संस्कृतिम् | त्रिरात्रमविर्दत्वा पिण्डं कुर्यात्क्रियादिकम् || देशान्तरगतस्य द्वादशान्तात्यये आकृतिदहनपूर्वकं और्ध्वदेहिकं तस्य कर्तुः पत्न्या अपि वैधव्यं कार्यम् | एवं कृतेनन्तर देशान्तरगतः पतिः पुनरागतश्चेत्तेन तस्याः पत्न्याः द्वाहपूर्वं मांगल्य मुत्तरीयेण कण्ठेसमारोपणीयम् | तदुक्तं सुप्रभेदे - देशाद्देशान्तरं गते - द्वादशब्देत्वतिक्रान्ते आकृतेर्दहनं स्मृतम् | तस्य पत्न्यास्ति चेत्तत्र वैधव्यं कारयेत्क्रमात् || बलिकर्माणि चान्यानि त्वाचैव समन्त्रकम् | पश्चात्तदागते सापि मांगल्याभरणं तथा || मांगल्यमुत्तरियेण पत्न्याः कण्ठेतिरोपयेत् | इति | अस्य पुनर्विवाह विधिः कालादर्शे प्रदर्शितः - कामिके तु - तिथिवारनक्षत्रदोषे दहाजन्ममरण संभवे च यथा - भद्रे त्रिपादनक्षत्रे शुक्रांगारबृहस्पतौ | दहनं मरणं येषास्तत्कुलक्षयकारणम् || तदर्थमेव कर्तव्यं पुनर्दहनमादरादिति | भद्रा नामद्वितीया सप्तमीद्वादश्यः | त्रिपादनक्षत्राणि कृत्तिको फल्गुन्युत्तराषाढ पुनर्वसु विशाख पूर्वाभाद्रपदनक्षत्राणि षट् अन्येषामपि स्मृतिषु पुनर्दहनमुक्तम् | प्. ३७७) मन्त्रवत्संस्कृतस्यापि असमाप्तोदकस्यार्वा * * रादिनादूर्ध्वं पूनर्द्दाहो विधीयत इति - अमन्त्रपूर्वन्दग्धानामंगवैकल्यशोषणम् | अनुभाव मृतानाञ्च पुनर्दहनमिष्यत इति || इदञ्च पुनर्दहनं द्विविधम् - अंधमध्यक बाह्यकमिति | तत्र प्रथमे * ष्टात्मे सर्वेषामाशौचं यथाह संग्रहे - रजा यज्वा पुनर्दाहे शिष्टाहमिति | अधबाह्यकमपि द्विविधम् - यज्वपुनर्दहनमयज्व पुनर्दहनमिति | तत्राद्ये दशाहं यथा प्रायश्चित्तसमुच्चये - आहिताग्नेः पुनर्दाहं तदापि दशरात्रकमिति | द्वितीये त्र्यहं यथा तत्रैव कालाद्दाहे पुनस्त्र्यहमिति | संग्रहे तु - अस्थिदाहे प्रागधग्रहणाग्रहण विकल्पेन पूर्ण स्त्र्यहाशौच विकल्प उक्तः यथापूर्वं प्राक्चेदधाग्रहः | अस्थिदाह इति सर्वत्रपुनर्दहने सुतानान्दशरात्रं यथा तत्रैव सुतानन्तु दशरात्रमिहेष्यत इति | अधुना सामान्य मत्यानामनुगमन निर्हाण व्धानमुच्यते | शैवानामनुगमन निर्हरणयोर्विशेषमनन्तरं वक्ष्यामः | अनुगमने तु तद्दिनमेव कर्मानर्हत्वं स्नानाग्निस्पर्शन घृतप्राशन पुनस्नान प्राणायामैस्सजातीयावानुगमने विजातीयापि शुद्धिः | प्. ३७८) उक्तं प्रायश्चित्तसमुच्चये - अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा | स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्यविशुध्यतीति | विप्रस्य शूद्रानुगमनेत्र्यहं वैश्यभूपयो प्रेतानुगमनेद्व्यहं तेषामधिकसहस्रगायत्रीजप नदीस्नानाभ्यां शुद्धिः | सद्रस्यद्विजादि प्रेतानुगमने स्नानेन शुद्धिः | वैश्यनृपयोर्वाग्रे प्रेतानुगमने स्नानाग्निस्पर्शनज्यापानैश्शुद्धिः | ब्राह्मणस्य वैश्यभूप प्रेतानुगमने क्रमेण पक्षिसहरष्टोत्तरशत गायत्री जपस्नानाभ्यां शुद्धिः | शूद्रस्य शूद्रप्रेतानुगमने शवस्पर्शने च दिनमन्यथैककालः | उक्तं संग्रहे - स्नानाग्नि स्पर्शनज्याश पुनस्नानसुसंयमैः | द्विजातयोविशुध्यन्ति सजतीय शवानुगाः || त्र्यहं शूद्रानुगे विप्रेद्वयहं विट्भूपयोस्ततः | नदी स्नानञ्चगायत्र्या सहस्रं साष्टकं जपः || द्विजप्रेतान् शूद्रश्शुध्येत् स्नानेन वणिक् नृपौ | स्वाग्रप्रेतानुगौस्नानवह्निस्पर्शज्यापानत इति || ब्राह्मणस्यविट् भूपप्रेतानुगमने सति पक्षिण्यहर्नदीस्नानं गायत्र्यष्टशतं जपः | शूद्रप्रेतानुगे रुद्रे शवस्पर्शा हरन्यथा एककाल इति | प्रायश्चित्तसमुच्चये तु विप्रस्य क्षत्रिया यनुगमने एकद्वित्रिदिनानि | प्. ३७९) क्षत्रियवैश्ययोश्शूद्र शवगमने दिनपक्षिणावित्युक्तम् | यथा - क्षत्रादीनामनुगमेकद्वित्रिरात्रैर्विशुध्यति | क्षत्रिय वैश्यौ शूद्रशवं गत्वाहः पक्षिणी मनुरिति || निर्हरणञ्च प्रेतालं करणवहन दहनादिरूपम् | तत्र निर्हरणे कृते सोदकानां त्र्यहाशौचिनामप * शाहं अनुपनीतमृतौ सपिण्डानां पित्र्यहाशौचिनान्दशाहम् | योनिबन्धूनां पक्षिण्याशौचिनामपि त्र्यहम् | विजातीयानान्तु शवजात्युक्तमाशौचं भवति | उक्तं संग्रहे - दशाहं सोदकं ज्ञात्योस्त्रिरात्रं योनि बन्धुषु | विजातीषुशवोक्तंस्या प्रेतनिर्हरणे कृत इति || मृतसंबन्धरहितस्य सजातीयमात्रस्य प्रेतनिर्हरणे कृते एककालमाशौचं रात्रौ वा सूर्यदर्शनम् | अहन्या नक्षत्र दर्शनम् | ग्रामान्बहिर्वासञ्चाग्नि स्पर्शनम् | पञ्चगव्य घृतयोरन्यतर प्राशनञ्च कर्तव्यम् | उक्तं कामिके - प्रेतस्पर्शकृतोयस्तु वाहको ग्रामबाह्यतः | नक्षत्रदर्शनाद्वापि वसेयुस्सूर्य दर्शनात् || स्पृष्त्वान्तेग्निं पिबेयुस्ते पञ्चगव्यं धृतन्तु वेति | दृष्ट्वार्थं प्रेतनिर्हरणे सपिण्डेभ्योपि द्विगुणं स्वजातीयानां भवति | सजातीयानान्तु शवजात्युक्तमाशौचम् | प्. ३८०) यथाह गौतमः - दृष्ट्वार्थं प्रेतनिर्हारे ज्ञातिभ्यो द्विगुणन्त्वधम् | विजातीनां सजातेस्तु शवजात्युक्तमिति || यतीन्द्रशवनिर्हरणे सद्यश्शुद्धिमहाफला वाप्तिश्च भवति तदुक्तं संग्रहे - यथा - * नथ निर्हारे सद्यश्शुद्धिर्महाफलमिति | ज्ञानरत्नावल्यामपि - असहायमनाथञ्च गतासुं शिवयोगिनम् | नीत्वा संस्कारयेद्यस्तु सोनिष्ठैः प्रयुज्यते || इदं सर्वं सामान्यमर्त्यानां भवति | उक्तं कामिके - इदं सामान्य मनुष्याणां परिकीर्तितमिति | शैवानान्तु शैवप्रेतस्य वहने दहने वा दीक्षिताना मघोर द्विगुणशतजपाच्छुद्धिः | प्रायश्चित्तसमुच्चये - कुर्युस्ते द्विगुणं जप्यं शिवप्रेताय दीक्षितैः | स्कन्धोयैश्रद्धया दत्तं तद्वाहका अपि || साधकाचार्यपुत्राकाणां मृतानां स्नपनादिकर्मणि कृते स्नान संहिताश्शतजपाच्छुद्धिः | उक्तं ब्रह्मशंभौ - साधकाचार्यपुत्राणां सपतनादिकम् | कृत्वा स्नात्वाशतं जप्त्वा संहितां पूजयेच्छिवम् || प्. ३८१) अनुगन्तॄणान्दीक्षितानामघोरशतजपाच्छुद्धिः | वाहकानान्दाहकं नामन्त्येष्टि गुरुणाञ्चाघोरशत द्वयजपाच्छुद्धिरिति - तत्रैवोक्तम् - स्कन्धन्दत्वाथवा दाहं कृत्वा स्नात्वाशतद्वयम् | जपेदघोरन्तथान्त्येष्टिगुरुणामप्यनुगाश्शतम् || दीक्षितस्य दीक्षितशववहने फलमप्युक्तम् - ज्ञानरत्नावल्याम् - व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् | विपन्नं योवहेत्तस्य नाकाले मरणं भवेत् || अत्र वा शब्देन ब्राह्मणोपि योजनीयः | तथा च व्रतस्थस्या व्रतस्थस्य वा ब्राह्मणस्य वदितरस्य वा शिवदीक्षित मात्रस्य प्रेतस्य वहने अकालमरणन्नास्तीत्यर्थः | दीक्षारहितहीन व * नुगमनन्न कर्तयवम् | तत्करणे स्नान स्वजातीश शतजपाभ्यां शुद्धिः | यथा तत्रैव - नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतो रतः | अनुगम्यांभसि स्नात्वा स्वजातीशं शतं जपेत् || दीक्षारहितानां सपिण्डानां दीक्षितशवस्पर्शो न कर्तव्यः | तत्रैव - अदीक्षिता स्सपिण्डान् न स्पर्शेयुः च दीक्षितानिति | दीक्षितानामदीक्षित शवस्पर्शनात् स्नानं ग्रामात् बहिरात्रिःशनक्षत्र दर्शनं वासः | अग्निस्पर्श घृतप्राशन संहिताशतद्वय जपतद्दिनोपवासाश्च कर्तव्यम् | यथा तत्रैव - प्. ३८२) दीक्षितोदीक्षितशवं स्पर्शनादिकरोति यः | स स्नात्वा बाह्येतत् ग्रामाद्यावन्नक्षत्र दर्शनम् || उषित्वा स्पृशेत्प्राश्य घृतं स्नात्वाथ संहिताम् | जपेछतद्वयन्तत्र समयी सोपवासकमिति || सस्नेहमनुष * स्थिस्पर्शे अघोरशतञ्जपेत् | निस्नेहस्पर्शे स्नानादित्यदर्शनपूर्वकाचमनं वा कर्तव्यम् | यथा तत्रैव - नारं स्पृष्ट्वा स्थिरस्नेह स्निस्स्नेहं स्नात्वाघोरं शतञ्जपेत् | अस्नेहस्पर्शने स्नायात् अर्कं वाचम्यदर्शयेत् | रोदो नाम आतुरव्यञ्जनम् | * * स्य श * व स्पर्श * * तरोदेदिनन्तद्रहिते तु अस्थि सञ्चयनात्पूर्वमेककालः तदूर्ध्वं स्नानमेव - नृपवैश्ययोस्तु स्ववर्णरोदे सञ्चयनात् प्राक् सचेलस्नानम् | तदूर्ध्वं स्नानमात्रम् | ब्राह्मणस्य तु | स्ववर्णरोदने सञ्चयनात् प्राक् स्नानम् | तदूर्ध्व माचमनम् | उत्कृष्टस्य निकृष्टरोदे सञ्चयनात्प्राक्दिनं तदूर्ध्वं स्नानम् | नृपवैश्ययोश्शूद्ररोदे सञ्चयनात्प्राक्द्वयहम् | तदूर्ध्वदिनम् | विप्रस्य शूद्ररोदे सञ्चयनात् प्राक् त्र्यहम् | तऊर्ध्वं दिनम् | उक्तं संग्रहे - तथा रोदे स्नानमेवास्थिसञ्चये स्नानं स्ववर्णरोदेस्थिनाञ्छिते नृपवैश्ययो स्सञ्चिते सचेलं तद्विप्रस्याचमनाप्लवौ | प्. ३८३) निकृष्टेष्ट्वाप्लवाचामौ वर्णाग्रे तु दिनाप्लवौ | प्राक् पश्चादस्थिशयनादातुर व्यञ्जनम्मिथः || अकृतेस्थिचये शूद्रा दातुरव्यञ्जने कृते | द्व्यहं द्विजे त्र्यहं विप्रे दिनं सर्वेषु सञ्चित इति || अत्रातुरव्यञ्जनविषये विशेषप्रतिपादकानि कूर्मवचनानि अनुसन्धेयानि | यथा - अनस्थि सञ्चिते शूद्रे रौति चेद्ब्राह्मणस्य वै | त्रिरात्रं स्यात्तथाशौचञ्चैकाहन्त्वन्यथाभवेत् || अस्थि सञ्चयनादर्वागेकाहं क्षत्रिय वैश्ययोः | अन्यथा चैव सद्योति ब्रह्मण स्थानिनामेव तु || अनस्थि सञ्चिते विप्रे ब्राह्मणे शैति चेत्तदा | स्नानेनैव भवेच्छुद्धिस्सचेलेन न सम्शय || इति प्रेतान्न भोजनं द्विविधम् - बुद्धिपूर्वमबुद्धिपूर्वमिति | तत्र बुद्धिपूर्वे तदाशौच निवृत्तिपर्यन्त मशुद्धिस्तन्निवृत्तौ स्नानेन शुद्धिः | दुर्भिक्षादौ भोजनदिनमाशौचं प्रायश्चित्तं च कर्तव्यम् | यथा कूर्मपुराणे - यस्तेषामन्त्रमश्नाति सकृदेवापि कामतः | तदाशौचे निवृत्ते तु स्नानं कृत्वा विशुध्यति | यावत्तदन्तमश्नाति दुर्भिक्षादित्यतो नरः | तावन्त्यहान्याशौचं प्रायश्चित्तं ततश्चरेदिति | प्. ३८४) अबुद्धिपूर्वे यावद्भुक्तं जीर्णमाशौचम् | यथा - संग्रहे - यावद्भुक्तञ्जीर्णं पतत्यथ इति | अत्र प्रायश्चित्तन्तु दशवारं गोक्षीरपानं चान्द्रायणञ्च कर्तव्यम् | उक्तं स्वायंभुवे | शावान्त्रं सूतकान्तञ्च सीमन्तान्नं तथैव च | गोक्षीरं दशवारे भुक्त्वा चान्द्रायणं चरेदिति | चान्द्रायण स्वरूपं किरणे द्रष्टव्यम् | कालोत्तरे तु प्रायश्चित्तमुक्तम् | तत्रके सूतके वाथ भक्षितं सूतवृद्धिके | कामतो घोरमन्त्रस्य सहस्रपरिवर्तयेत् | ज्ञानरत्नावल्याञ्च - सूतकांनादि भोजनानां बहुविधानां प्रायश्चित्तमुक्तं तद्यथा - अब्दमंगलके पुंसि सीमन्तोन्नयने तथा | प्रसूति सूतके भुक्त्वा जपेद्घोर सहस्रकम् || नामधेये च निष्क्रामे तथान्न प्राशनेमतम् | चौले वरते च गोदाने विवाहे च शतं जपेत् || चतुर्थ्यतान्नं भुक्त्वा तं सहस्रं परिवर्तयेत् | पाकयज्ञे हविर्यज्ञे सोमयागे शतञ्जपेत् || यः प्रबन्धं प्रयातस्य भुक्त्वा संवत्सरावधि | सद्यश्श्राद्धं समारभ्य दक्षिणस्यायुतञ्जपेत् || एकोद्दिष्टे सपिण्डे च सहस्रकम् | प्. ३८५) यद्वा सद्यश्श्राद्धे यदा भुङ्क्ते दोषस्तत्र न विद्यते | उक्तस्थानेषु यो भुङ्क्ते जीर्णे स्नात्वा पुरोक्तवत् || प्रायश्चित्तं विधायैवं यजेदीशं न चान्ययेति | अधसंपर्को नाम - अधिभिस्सहासनं सहशयनं सह पङ्क्ति भोजनादयः | तस्मिन् कृते यावत्संपर्कदिनमाशौचं भवति | यथा कूर्मे - यस्तैस्सहासनं कुर्याच्छयनादीनि चैव हि | बान्धवा बान्धवो वापि सदशाहेन शुद्धयति || अत्र दशाहविधिः | दशदिन संपर्कविषयम् | स्मृत्यन्तरेषु संपर्कदिन संख्याशौच्याह्नानादुक्तं संग्रहे - अधिसंपर्कतोशौचं भवेत्तद्दिन संख्यकमिति | इदं संपर्किकाशौचं द्रव्यक्रिया स्त्रीणान्त भवति | यथा तत्रैव - न तु द्रव्यक्रियास्त्रीणां संपर्किकमधं भवेतिति | संपर्किकाशौच व्यतिरिक्ताशौचे तदाशौचि द्रव्यस्याशुद्धित्वाद्देवपूजादौ तद्द्रव्य संबन्धे स्नपनशान्ति होमादिकर्तव्यम् | तदुक्तं चन्द्रज्ञाने - आशौच द्रव्य संबन्धं कारयेद्यदिमन्त्रवित् | तदस्तु देवपूजानां स्नपनं शान्तिहोमकम् || शुद्धान्नं दापयेत्पश्चाद * धान्न समन्वितम् | शंखध्वनि समायुक्तं वाद्यघोषसमाकुलमिति || प्. ३८६) अत्र मृतकाशौचे यावदाशौचदिनमंगस्पर्शेन कर्तव्यः | सूतके च तद्दिनमनाशौचिनवत् स्पर्शेस्नानम् | अन्याशौचिनस्तत्पर्शे कृच्छ्रमनुष्ठेयम् | यथा तत्रैव - आन्तरशंखेंगस्पर्शनंत्यजेत् | सूतौ चतुर्दिनं स्पर्शनोघस्य तु स्नानाकृष्णो न्याशौचिनः स्मृतिः | प्रायश्चित्तसमुच्चयेविशवस्पृगादिभिस्पर्शस्नानमुक्तम् | शवस्पृष्टमृतनिस्तं श्मशानं प्रतसूतके | सूतिकैर्दाहकै स्पर्शे स्नानाच्चैव विशुध्यति || रजस्वलास्पर्शे स्नानत्रयमुक्तम् | तत्रैव - रजस्वलांगस्पर्शे स्नानत्रयमथा चरेदिति | सूतिकायास्तु दशाहपर्यन्तन्दर्शनं भाषणञ्च निषिद्धः | यथा समुच्चये तत्र पुंसवे मातु नालोकादिलक्षणमाशौच दशरात्रं स्यादनशिकारलक्षणं द्वाविंशति | रात्रं स्यात् स्त्री प्रसूतौ दशाधिकमिति आमं विना आशौचिस्पर्श द्रव्याणां परित्यागः | तत्स्पृष्टान्नभाजने कुशोदुम्बरकथिपानेन शुद्धिः | उक्तं स्मृतौ - द्रव्याणाञ्च संस्पर्शे नामं सर्वं समृत्सृजेत् | भुक्त्वा प्रश्न्यै तयाशौचा केशकीटैश्च दूषितः || कुशोदुम्बर बिल्वाद्यैः पनसांबुजपत्रकैः | शंखपुष्पसुवर्चादि काथं? पीत्वापि शुध्यतीति || प्. ३८७) जनिमृतिविहित वपनाकरणमपि पुरुषस्य कर्मानर्हतामत्पादयति | तदुक्तं स्मृतौ | यस्य केशाश्शिरो जाता दशमेहनि वापिताः | आशौचं तत्र लीयेत तस्मात्केशांस्तु वापयेदिति || जनने दशदिनेपितुर्वपनं विहितम् | मरणे तु प्रथमदिने | अनुभाविनाञच सर्वेषामपि वपनं विहितम् | दसमेदिने विशेषवपनं विहितम् | तत्तदकरणे तेषामाशौचस्यानिवृत्तिः | वपननिषेधे तेषान्नदोषः | तर गर्भवतो वपनं निषिद्धम् | यथा स्वायंभुवे | श्वानुगमनञ्चैव? वपनं सिन्धुसेवनम् | अन्तर्वर्तौ पतिः कुर्वन्नप्रजा भवति ध्रुवम् || स्मृतावपि - क्षौरं वानुगमनं नखकृन्तनञ्च श्राद्धञ्च वास्तुकरणन्त्विति | दूरयानम् | उद्वाहमम्बुधि जलस्पर्शो पयोगमायुः क्षयं भवति गर्भका पतीनामिति | पितृदीक्षा मध्ये ज्ञतिमृतिवपनं न कर्तव्यम् | यथा तत्रैव - पितृ दीक्षाञ्च कुर्वीरन् जातिक्षौरं न कारयेत् | द्वयोर्भार्ययोर्गर्भिण्योरेकस्याः पुंसवे वपनं न कर्तव्यम् | यथा तत्रैव - द्विभार्या गर्भिणी चैव एकभार्या प्रसूतिका | वपनं नैव कुर्वीत नामकर्माणि कारयेदिति || मात्रादिमरणे गर्भवतो वा वपनं कर्तव्यम् | प्. ३८७ब्) यथा तत्रैव - माता पितृगुरुणाञ्च मातुले पूर्वजे भगे | श्वसुराचार्य पत्नीनां गर्भवानपि वापयेत् || मातृ दीक्षायां पितृमरणे दहनमेव पितृ दीक्षायां मातृमरणे दहनं वपनञ्च भवति | यथा तत्रैव - मातुस्तु पूर्वं दीक्षायां पितॄणान्दहनं भवेत् | पितुस्तु पूर्व दीक्षायां दहनं वपनं क्रमादिति | रात्रि दाहे वपनं विहाय पिण्डदानं कृत्वाश्वो भूते वपनं कार्यम् | तदाह कात्यायनः - रात्रौ दग्धा तु पिण्डान्तं कुर्याद्वपन वर्जितः | श्चो भूते वपनं तत्र केशमात्रं विधीयत इति || सपिण्डीकरणाकरणमपि मुख्य कर्तुः पुरुषस्य कर्मानर्हतामापादयति | उक्तं संग्रहे - मुख्यकर्तुरधं तावद्यावत्प्रेत विमोचनमिति | सपिण्डीकरणं नाम प्रेतत्व विमोचनम् | प्रेतकर्मामन्यतमं कर्मदहन पाषणस्थापनतोयादान पिण्डदानं च शयन नग्नप्रच्छादनैकोक्ता वृद्धभोजननलश्राद्धैकोद्दिष्टपञ्च श्राद्धसोतकुंभ श्राद्धानि तत्पूर्वकर्माणि तत्र पिण्डीकरणं मुख्यस्यैव * * * राणि तु मुख्यस्यापि तत्र संस्कार कतॄणां कालादिशोधितानां अलिंग * जातीनां पूर्वस्य पूर्वस्याभावे वरस्य वरस्यमुख्यमिति | प्. ३८८) पूर्वस्य पूर्वस्या सन्निधौ परस्य परस्य मुख्यत्वं भवति | तत्कर्तृ संग्रहश्लोकः | क्रियापुत्रस्त्रितया दिन्योदरतद्भ्रातृमातृस्नुषा स्वस्रे तज्जपिण्डसांबुजननि सपिण्डसाख्योदका शिष्यद्मुखे वरवोवर सखानृपावेत जनाविंशतिः | पूर्वा संभवतः परः परूहप्रेतस्यसंस्कारक इति | अत्र पुत्र भ्रातृत अपुत्रादिना क्रमेण कर्तृत्वमुक्तम् | तत्र मुख्यतः पञ्चधा शुद्धः | संस्कारान्ता पिण्डदानान्ता सञ्चयनान्ता एकोद्दिष्टान्ता सपिण्डीकरणान्ता चेति | चौआत्पूर्वं संस्कारान्तात्तत्र खननस्यैव संस्कार तयातोयदानायोव्यात् - उक्तं स्मृतौ - दाहन्त्ये वोदकं पिण्डमिति | ततः परमाब्दिकं पिण्डदानान्तन्द दूर्ध्वमष्टमाब्दात् सञ्चयनान्ता एकोद्दिष्टान्ता तदूर्ध्वं सपिण्डीकरणं भवति | अमुख्य कर्तृस्तु चतस्र एवशुद्धयः तस्य सपिण्डीकरणायोग्यात् मरणोपि एकोद्दिष्टान्त एव शुद्धेः | उक्तं संग्रहे - एकोद्दिष्टान्त एवासौ संस्कृताशुचितामियादिति | अत्र समान्य मर्त्यानां निरूपणं तोयपिण्डदान श्राद्धादि निरुपणञ्च स्मृतिषु बहुशः प्रपञ्चितं नेह प्रतन्यते | शैवानान्तु समयिपुत्रकाचार्याणामन्यत्र स्मरणे स्थितस्य संभावित समय धर्माध्ययन निर्हरण द्वारा शिवी भावातर्थमन्त्येष्टिर्गुरुणां कर्तव्या | प्. ३८९) ततश्श्विवीभूत मृतदेहस्य शिवाग्निना संयोजन संस्कारः | कर्तव्यः | ततस्तस्मिन्नेव दिने क्रमेण नण्नप्रच्छादनं वपनन्द्वार वामपार्श्वेसारमशशव पीठिकान्यतर कूर्चस्थापनं समयिपुत्रकरणे स्कन्दनामपूर्वकं स्कन्द * * * न् प्रति पृथक् पृथक् तर्पणत्रयं साधकाचार्य मृतायीश सदाशिव शान्तान् प्रति पृथक् पृथक् तर्पणत्रयं मृतनान्नैक पिण्ड दानस्नानं तर्पणसंख्यया वृद्धिभोजनञ्च कर्तव्यानि | द्वितीयादि दिनेष्वपिधायदाशैमेकोत्तर वृद्धितर्पण * * क * पिण्डदान तर्पणसंख्या वृद्धिभोजनानि कर्तव्यानि | चतुर्थपञ्चमनवमेषु वृद्धिभोजनान्तेनवश्राद्धमेकमेकादर्शदिने नवश्राद्धमेकम् | प्रथम तृतीय पञ्चम सप्त नवमाना मन्यतरदिने अस्थिसञ्चयन माशौचान्त्यदिने पाषाण स्थापन वी * * * राद्वासनं कर्तव्यम् | आशौचानन्तरदिने महदेकोद्दिष्ट पञ्चदशैकोद्दिष्टानि कर्तव्यानि | एकोद्दिष्टानन्तरदिने समयिपुत्रक मृतानां स्कन्दचण्ड गणेश संयोजनात्मकं साधकाचार्याणामीश सदाशिवशान्त संयोजनात्मकं सपिण्डीकरणं कर्तव्यम् | अनेन सपिण्डीकरणेन निरस्ताधसंबन्धेरब्दपर्यन्तं सोदकुंभश्राद्ध पञ्चदशमासिकाब्दिकानि अष्टकादीनि शिव श्राद्धानि च सर्वाणि कर्तव्यानि | प्. ३९०) चतुर्थ पञ्चमनवमेषु एतत्सर्वं कामिके प्रपञ्चितम् | तद्यथा - नग्नप्रच्छादनन्दद्व्याद्दीक्षिताय कुडुंबिने | दाहान्तेमृतमुद्दिश्य वस्त्रतण्डुल संयुतम् || पीठपिठोक्तरीत्या तु सत्रिमेखलमाचरेत् | पुरस्तात्तालमात्रेणावटं कुर्यान्नवं गुरुः || होमयांभोभिरालिप्य न्यसेत्पीठस्य मध्यमे | कूर्चप्रादेशमात्रन्तु केवलन्त्ववटं हि वा || कृत्वेष्टिकां वा पाषाणं शरावेवा निधाय च | कूर्चं पुरोदितं कृत्वा तत्रैतत्कर्मवानयेत् | प्रत्यहं तर्पणं कामी ईशस्कन्दादि नामतः | पृथक् पृथक् त्रिधा कार्यं तर्पणं प्रथमेहनि || प्रत्यहं वर्धयेदेक द्वादशान्तं पृथक् पृथक् | पञ्चसप्तति संख्यात स्तर्पणं प्रतिभोजनम् || तर्पयेद्विशतं पञ्चपञ्च समन्वितम् | ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादशस्मृताः || वैश्ये पञ्चदशप्रोक्ताश्शूद्रे त्रिंशत्प्रकीर्तिताः | आशौचं यावदेतेषां तावत्पिण्डोदकक्रिया || एतत्सर्वञ्च तन्नाम्ना स्वधाक्तेन ददात्विति | चतुर्थे पञ्चमे वाह्निनवाहैकादशाहयोः || प्. ३९१) मृतमुद्दिश्य यद्दानन्तवश्राद्धमिति स्मृतम् | नव श्राद्धञ्च मन्त्रन्तु पिण्डोदकविवर्जितम् || अनुदकमधूपञ्च गन्धमाल्यविवर्जितम् | एकत्रिपञ्च सप्ताहे नव भाण्डे तु मृण्मये || अस्थि संग्रहणं विप्रप्रमुखाणां क्रमेण वा | तृतीयेत्यथवादेही कुर्यात्सञ्चयनन्ततः || मृतमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् | तत्कूर्च मिष्टिकायुक्तं पाषाणं पीतिकाञ्च वा || आतोद्य सहितञ्चैव निक्षिपेत्तीर्थमध्यमे | आशं * क्ते प्रकर्तव्यमेकोद्दिष्ट मथद्विजाः || एकादशे त्रिपक्षेवा तथा च प्रतिमासकम् | संवत्सरान्ते तु षाण्मासे सांवत्सरिक संयुतम् || षोदशश्राद्धमित्युक्तं दानमेतेषु यत्कृतम् | एकोद्दिष्ट द्वितीयाहे सपिण्डी करण क्रियाम् || अर्ध्यात्सपिण्डीकरणं यस्य संवत्सराद्भवेत् | तस्याप्यन्नं सोदकुम्भं कुर्यात् संवत्सराविति || पुनर्दहनादौ त्रिदिनेन पिण्डसमापने प्रथमदिनेत्वेकपिण्डः | द्वितीये चत्वारः तृतीये पञ्चदेयम् | उक्तं कामिके - प्रथमेत्वेकपिण्डस्तु द्वितीये चत्वारस्तथा | तृतीये पञ्चवै दद्यात्त्रिदिनादमतो विधिः || प्. ३९२) इति दशाह मध्ये दशंक्रामन्त्योरन्यतरपाने औरसपुत्रव्यतिरिक्तानां सर्वेषां सपिण्डानां तत्रैव पिण्डसमापनं कार्यम् | तथा स्मृतिः - दशाहमध्ये संक्रान्ति दर्शो वाथ भवेद्यदि | तोयं पिण्डं समाप्येत तद्दिनेत्वरसेतरः || अत्रतिलोदकदानन्तु चतुर्णामपि वराणां यावदाशौचं प्रतिदिनं एकं वा त्रयं वा प्रतिदिनमञ्जलि वृध्या वा कर्तव्यम् | कालोत्तरे तु - उदकदानमुक्तम् यथा - जले पिण्डं विनिक्षिप्य वह्नौ वा तद्भावतः | भूमौतिलोदकं दत्वा हृन्नाम्ना स्वधाय सहेति || मृतनाम्नां हृदयेन स्वधा इत्यर्थः | सुप्रभेदे च - तीर्थं गत्वा यथान्यायं स्नानं कृत्वा सपिण्डकैः | तिलोदकन्तु दातव्यं तस्यान्तन्नाम पूर्वकमिति || कामिके तु क्वचित्तर्पणायमुक्तम् - ततो जलाशयं गत्वा स्नात्वा सत्प्रस्तीर्य सत्कुशनि तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा - शुद्धाति वेशा दीशान्तपर्यन्तनामयुक् | स्कन्दपूर्णो गणेशान्तनामवाक्भव पश्चिमम् | उक्त्वाथौहं मन्त्री त्रिस्वधान्तं तर्पयेत्पुनरिति | प्. ३९३) क्वचिदैकेक वृद्धया तिलोदकदानमुक्तम् | तत्पूर्वमेव प्रदर्शितम् | अधनिर्णयेपि पक्षत्रयमुपन्यस्तम् | यच्च यदाशौच प्रतिदिन प्रतिदिनमेकमिति | क्वचित्प्रतिदिनं त्रयमित्यपरे | अञ्जलि वृद्धयेत्यन्य इति | एतत्सर्वं प्रेतकर्म पितृन्यमृतौ ब्रह्मचारिणा न कर्तव्यम् | तत् करणे पुनरुपनयनादिकं भवति | यथा स्मृतिः - दहनादि सपिण्डान्तं ब्रह्मचारि करोति चेति | अन्यत्र मातापित्रो स्यात्पुनरुपनीय प्रतीतिरिति | अस्यां तु दैव क्रिया दीक्षितानामेव पुत्रादीनां मुख्य - (कर्तृतयाशू मन्त्रोगुरुणा पितृणाथवा | सुतेन वाथ पत्न्यावा कार्यो ना दीक्षितैः) कर्तृत्वमुक्तम् कामिके - प्रेतस्य तु पुत्रै श्राद्धं देयं हि दीक्षितैः | ज्ञाति बन्धुसुहृच्छिष्यै भृत्याचार्यैश्च दीक्षितैः | पुत्राभावे तु पत्नी स्यात् पत्न्याभावे तु सोदरः | कालोत्तरेपि - संस्कारो ह्यखिलोदितया श्रमन्त्रो गुरुणापितृणाथव सुतेन वाथ पत्न्या वा कार्यो ना दीक्षितैः क्वचिदिति | दीक्षयाश्रवणे योग्यादिक्षया पूजने क्षमः | दीक्षयाश्रम धर्मास्तु लभते तु यथार्हतः || दीक्षया प्राप्यते ज्ञानन्दीक्षया सिद्दिभाक् भवेत् | शिवदीक्षा विशुद्धात्मा स तत्रैवाधिकारतः || प्. ३९४) इदमपि | एतन्मन्त्रमयं श्राद्धं ज्ञानं ध्यानसमन्वितम् | समयज्ञादिकैः कार्यं गुरुणांमन्त्रसिद्धये || अन्त्येष्टिकर्तृत्वञ्चाचार्यादीनां भवति | पूर्वपूर्वाभावे परस्य परस्य उक्तं कालोत्तरे च | आचार्येण चतुर्णाञ्च साधकेन त्रयस्य तु | द्वयोस्तु पुत्रकेणैव समयज्ञै स्वसन्ततेः || अभावादेव सर्वेषां समयज्ञेन कारयेत् | आचार्यस्साधको वापि पुत्रकस्समयी च वा || प्रतीनां ग्रहणं वापि मृतं संस्नाप्य भूषयेत् | दीक्षितानामेव शिवश्राद्धं कर्तव्यं यथा ज्ञानरत्नावल्याम् - दीक्षमयमिदमिदं श्राद्धं यथोक्तं सा गतिप्रदम् | कर्तव्यं दीक्षितानां च अंगजेन तु शांकरे || अत्र दीक्षितानां शैव श्राद्धमेव कर्तव्यमान तु वैदिकम् | (कृतञ्चेत्तु शिवलोकं न गच्छति | वीरभद्र संहितायामपि दीक्षितानां मृते शैवश्राद्धमेव माचरेत् न वैदिकमिति | मोहशूरोत्तरे च - दीक्षितानाञ्च शैवाना श्राद्धं स्याच्छैवमेव हि |) उक्तं कारणे - दीक्षिताः पञ्चदीक्षाभिरेतेषां मरणं नृणाम् | शैवमेव प्रकुर्वीत श्राद्धमेवं समाचरेत् || प्. ३९५) अत्र न वैदिकमिति | मोहशूरोत्तरे च - दीक्षितानाञ्च शैवानां श्राद्धं स्युच्छैवमेव हि | न वैदिकं कृतञ्चेत्तु शिवलोकं न गच्छति | वीरभद्र संहितायामपि दीक्षितानां मृते शैवं श्राद्धमेव माचरेत् वैदिकमिति | कर्तुश्रद्ध्या वैदिक श्राद्धकरणेच्छायां शिव श्राद्ध करणानन्तरमेव वैदिकश्राद्धं कर्तव्यमिति | यथा तत्रैव - तत्कार्यञ्चेत्तथाशैवं वैदिकंपरमतो विधिरिति | नन्दीश्वरकामिकाया न तु - शिव संस्कार सिद्धानान्त्रराणां मरणे सति | पूर्वं कुर्याच्छिवश्राद्धं परतश्चापि वैदिकमिति || तेषामेव शिवश्राद्धकरणेन वैदिकश्राद्धमातृकरण दोषोपि भवति | तत्रैव - शिवश्राद्धमकृत्वा यो वैदिक श्राद्धमाचरेत् | दीक्षितश्चमृतश्चो भावेतौ निरयगामिनाविति || ननु शिवधर्मिणी संस्कर्ता शिवधर्मी वा लोकधर्मी वा पुत्रको वा समयी वा नाद्यस्तस्याशौचा भावेन पिण्डोदकदाना च प्रसंगान्नचेष्टापत्तिः | तस्य लोक व्यवहारार्थं पिण्डदानविधानात् | न द्वितीयस्तस्यापि त्रिदिनाशौच तथा त्रिदिनादेव पिण्डमापन प्रसंगात् न चेष्टापत्तिः | प्. ३९६) आचारविरोधात् | न तृतीयस्तत्रा चारविरोधा भावेपि तस्यैव नियमतया कर्तृत्वानुपपत्तेः | न चेष्टापत्तिः | अन्येषामपि कतृत्व दर्शनात् | न चतुर्थस्तस्यावान्तरशैवेषु पञ्चविंशति दिनाधिकाशौचतया पिण्डसमापनाचार विरोधापत्तेः | न च शिवधर्मिणस्संस्कर्तु राशौचतावेपि पितृमृतौ ब्रह्मचरिवद्दाहाशौ चेन पिण्डदानं स्यादिति वाच्यम् | स्नानैकेन सद्यश्शौचस्य स्नानानन्तर पिण्डदान प्रयोजकत्वानुपपत्तेः | न च दास्याशौचाभावेपि ब्रह्मचारिमृतौ तस्य दाहकस्य दाह्यजात्युक्ताशौचद्दाह्य शिवधर्मि जात्युक्ताशौचेपि पिण्डदानं स्यादिति वाच्यम् | अवान्तरशैवेषुजात्युक्ता शौचस्यापि त्रिंशत्पञ्च विंशति पञ्चत्रिदिन रूपतया व्यवस्थापत्तेः | अपि च पुत्रकमरणे शिवधर्मिणो लोकधर्मिणो वा (दाहाशौचेनाशौच विस्तरस्यादिति वाच्यं दाह्या वान्तरशैवेषु पुत्रक मृतौसमयिनः | कर्तुरधिकाशौचस्य दाहाशौचेन) संस्कारकत्वे पिण्डदाना भाञ्च वास्यात्रिदिनपिण्डसमापनम् | यावद्व्येते शिवधर्मिणो नाशौचित्वात् त्रिकोकधर्मिण स्त्रिदिनाशौचत्वाच्च | न च सङ्कुचिताशौचस्यापि सोदकस्य दाहाशौचेन वर्तयोरपि पुत्रकविदाहशौचेनाशौच विस्तरस्यादिति वाच्यम् | प्. ३९७) दाह्यावान्तरशैवेषु पुत्रकमृतौ समयिनः कर्तुरधिकाशौचस्य दाहाशौचेन संकोच प्रसंगात् अतः कथमपि * * स्येति चेत् | अत्रोच्यते यावद्दहन निमित्ताशौचमे पिण्डदान प्रयोजकमिति सकलशास्त्र सिद्धम् | मृति निमित्ताशौचोदकदानमात्र प्रयोजकम् | तथैव मुख्यकर्तृव्यतिरिक्तानां सपिण्डानां पिण्डाना भावात् | उदकदानमात्र * * * नात् उतरनिमित्ताष कप्रयुक्ताशौचस्यकर्मपर्यु दासमात्र प्रयोजकत्वं अस्य च दाहाशौचस्य दिन संख्यया मरणाशौच संख्य प्रयोजिका गुरुदाहकनिष्ठ मरणाशौचन्नतत्प्रयोजकम् | सोदकस्य त्रिदिनाशौचस्यापहत् ब्रह्मचारी मृतौ दाहकस्य पितुर्दशाहाशौचे दाह्यनिष्ठन्तत्रापि त्र्यहपक्षिण्य हस्सधश्शौचानि संभावितानि किन्तु जात्युक्ताशौचन्तत्क्वचित्तदास्यगतं प्रयोजकं यथा गृहस्थस्य पितुर्मृतौ ब्रह्मचारिणो पुत्रस्य दाहकस्य दाहाशौचे पितृगतमाशौचं क्वचिद्दाह्य सजातीय कनिष्ठजातिमुपादाय विधानाभावे जात्याशौचं (त्वाभावात् वस्तुतो लोकधर्मिणस्सूतकरहितस्य सहपाकनिमित्ताशौचस्य) तच्च त्रिषु वर्णेषु एकरूपन्तत्र वैषम्य वचनात् मातुस्त्रिंशत्पञ्च विंशति पञ्चदशदिनरूपेण चतुर्विधन्तथान्याशौच भेदस्यादिति वाच्यम् | प्. ३९८) लोकधर्मिण स्त्रिदिना शौचस्य जातिमुपादाय विधानाभावे जात्याशौचत्वाभावात् वस्तुतो लोकधर्मिणस्सूतक रहितस्य सहपाकनिमित्ताशौचस्य जातिमुपादाय विधाया भावेन जात्याशौचत्वाभावात् वस्तुतो लोकधर्मिणस्सूतकरहितस्य सहपाकनिमित्ताशौचस्य संपर्काशौच तुल्यत्वात् इयांस्तु विशेसः संपर्कदिनमाशौचं संपर्कनिमित्ते सह पाकनिमित्ते कर्तृदिनमिति तत्रैवास्ति | शिवधर्मिमृतौ शिवधर्मिणो दाहकस्य दाह्यशिवधर्मि सजातीय निष्ठाजात्याशौचेनापिण्ड दानमस्तु | तथा च कथमाचारविरोधः | न चादिशैव महाशैवानु शैवानां विरोधाभावेपि अवान्तर शैवे जात्यानवस्थेति वाच्यम् | तत्रापि शिवधर्मिणस्सजातीयानां केवल समयि पुत्रकाणां शिवाश्रम संबन्धेन संनिकृस्तयोस्समयि पुत्रकयोर्गृहीतयोरपि शिवार्चन संबन्धेन संबन्धयितृगतजात्याशौचे नैव पिण्डदान व्यवस्यसिद्धेः | संनिकृष्ट प्रकृष्टयोस्संनिकृष्ट ग्रहणमंतरंगे बहिरंगयोरन्तरंग ग्रहस्य लोकवेद सिद्धत्वात् | एवं पुत्रकमृतौ समयिनस्संस्कर्तृत्वेपि अवान्तरशैवानान्न दोषः | न च दास्य पुत्रकाशौचेन दाहकसमयाशौच संकोचस्स्यादिति वाच्यम् | इष्टापत्तेः | शिवार्चन धुरन्धरपुत्रक संस्कारेण गताशौच संकोचस्य समयिनो भूषणत्वात् | प्. ३९९) अथ वचनाभावे नाशौच संकोचस्तस्य न युक्त इति वेदस्तु वा तथा का नो हानिः - न चाशौचविस्तरे सति समयिनः पुत्रकमृतौ पञ्चदशदिनान्ते एकोद्दिष्टकरणन्न स्यादिति वाच्यम् | समयिनस्तदानीमाशौच सत्वेपि कर्तुस्तात्कालिकी शुद्धिश्शुद्धिः पुनरेव सः इति स्मृतिबलेन एकोद्दिष्ट कतृत्वोपपत्तेः | तर्हि तदनन्तरदिने सपिण्डीकरणं न स्यादिति चेत् सत्यम् | तत्र संभवेपि कालान्तरस्य त्रिपक्षादेरपि विहिततया तत्र सपिण्डीकरणोपपत्तेः | सर्वैरप्याशौचानन्तरदिने दाशौचानन्तरगमने कालान्तरे सपिण्डीकरणस्यांगी कृतत्वात्तस्माद्दाह्य जात्युक्ताशौचेन दाहकस्य व्यवस्थायां न कदाचिदप्य * * * रिति सर्वं निखयम् | एवमुक्त विधदशनिमित्ताशौचेषु मध्ये प्रेतकर्मान्तिकं कर्मभूति सपिण्डीकरण निमित्ताशौचस्य सपिण्डीकरणेन निवृत्तौ मुख्यकर्तुस्सर्वपापशुद्धिः | सपिण्डीकरणादूर्ध्वंशिवलोकं सङ्गच्छतीति | उक्तं कामिके - यस्यैतानि न कुर्वन्ति श्राद्धानि नव षोडश | पिशाचत्वञ्चिरन्तस्य दत्तैश्श्राद्धैश्शतैरपि || द्वारे च भस्मनिचये आकाशे च यथाक्रमम् | त्र्यहानि त्रीणि चैकञ्च प्रेतीभूतस्सदीव्यति || प्. ४००) सपिण्डीकरणादूर्ध्वं शिवलोके गच्छतीति | षट्सहस्रिकायाम् - इत्येतच्छिवभक्तानां संस्कारञ्च यथोदितम् | रहस्यं परमाख्यातमपवर्ग फलप्रदम् || शैवागमरहस्यानां संप्रदायप्रवर्तकः | वेदज्ञानमुनीन्द्रेति विशुतोय स्वयंशिवः | तस्य शिष्येण तन्नाम धारकेण तपस्विना | शैवानां विनियोगार्थं कृताचाशौच्यदीपिका || इति श्रीमद्व्याघ्रपुरिनिवासि वेदज्ञानदेवशिरचिताशौच्यदीपिका समाप्ता | ########### END OF FILE #######