#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00053 Uniform title: īśvarapratyabhijñākaumudī Author : bhaṭṭāraka sundara Manuscript : Research and Publications department, Jammu and Kashmir Government Srinagar manuscript no. 1089 Description: īśvarapratyabhijñākaumudī bhaṭṭāraka sundara research and publications department, jammu and kashmir government, srinagar manuscript no. 1089 no. of folio : 82 pages : 164 size of ms 20.3 cm x 14.5 cms script : śaradā Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0 february 9, 2009 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमः श्रीगणाधिपतये सवल्लभाय नमो नमः || ओं श्रीविद्यपादुकाभ्यो नमः || ओं नमः शिवाय || ओं यत् तत् सत् परमप्रकाशमहमित्यन्तःस्फुरच्चिद्घनं यन्मात्रादित्रयात्मविश्वमखिलप्रोल्लासयत्यन्यथा || यत्रोदेति परापारापरतरा चिच्चन्द्रश्यौतिच्छजा श्रीसादादिधरान्ततत्वप्रभवं सैवं महः स्ताच्छ्रिये || १ || ओं श्रीत्रैयम्बकनाथमाद्यगुरुभिर्वन्द्यं तथैवापरं सोमानन्दमथोत्परं गुरुवरं श्रीलक्ष्मगुप्तं तथा || श्रीमच्चुक्खलकं तथा परतरं श्रीशम्भुनाथं गुरुं श्रीभट्टारकमाश्रये भिनवगुप्ताख्यं च भट्टारिकाम् || २ || ओं हेरम्भवटुकौ स्तौ मे प्राणापानौ विभूतये बहिरन्तश्चरौ शुद्धौ प्राणभ्यद्देहधारकौ || ३ || ओं यदन्तन्निखिलं विश्वं दर्पणेन गतादिवत् मात्रादिशूलभा रूपा सा काचिच्चित् सुधाच्छजा || ४ || ओं महायास्तात् स्वेष्ठदेवी शिवशक्त्यैक्यभाविनी | बहिरन्तश्चारशीला चित्क्रियाज्ञानरूपिणी || ५ || सादादिगर्भपीनाङ्गी श्रीविद्या साधकेष्ठदा | मामाविश्य मदज्ञानतमोविध्वंसवयम् || ६ || प्रत्यभिज्ञां विलोक्यैव गद्यैः पद्यैश्च गुम्फिताम् | विद्यन्तिपाठकाः सर्वे नो शक्तावयमित्युत || ७ || तदहं सरलांसद्वीं? पाठकामोदनिर्भरां | विमर्शिनीं करोम्यद्य गद्यमार्गानुसारिणीम् || ८ || श्रीमच्छ्रीपूर्वगुरुभिः सूत्रितायाद्विसङ्ख्यया | शतयोः प्रत्यभिज्ञाया यथा गुरुनुसारतः || ९ || हसन्तु वाथ निन्दन्तु शक्तिपातलसच्छजाम् | रोद्धुकामः कः प्रसरदधो भुवनजं पयः || १० || क्षमन्तु गुरवः पुन्ये सहा याः सन्तु चापरे | करोमि विवृतिं लाघ्वीं यथाबुद्ध्यनुसारतः || ११ || इह खलु प्रेक्षावन्तः स्वार्थपरार्थकारुण्यादीन् हृदन्तन्निधाय प्रवृत्तिनिवृत्ति कर्तुं प्रारिप्सन्ते | तदन्यथोपपत्यान्यथोपपत्तेच्चेत्येवं साम्प्रदायिकसम्प्रदायक्रम इति सिद्धोयं शास्त्रविदुपदेशक्रमः || अथ च परार्थकारुण्यातया शास्त्रमभिदधानः | स्वात्मपरमेश्वरतादात्म्यनुभवहेतवे परत्र समस्तसंपत्समवाप्तिप्रयोजनावसरवर्तनाय (+दादा?) च शास्त्रार्थमवतारयति ग्रन्थकारः || ओं कथञ्चिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् || समस्तसम्पत्समवाप्तिहेतुं तत् प्रत्यभिज्ञामुपपादयामि || १ || कथञ्चित् पूर्वोल्लङ्घितजन्मजन्मानन्तरं महेश्वरस्य दास्यमासाद्य | समस्तसम्पत्समवाप्तिहेतुभूतां तत्प्रत्यभिज्ञां तस्येश्वरस्य प्रतीपमाभिमुख्येन ज्ञानं उपपादयामि शब्दानुवृत्या स्वरूपेण भावयामि यतो दि जनस्याप्युपकारमिच्छन् || तदभ्यासान्न भवमात्रेणैव हि तत् तदभिमतसिद्धेः || इत्येवमादिसूत्रपदयोजना || २अ) एवं हि सामान्यतोऽर्थः विशेषतश्चाहुः ननु महेश्वरस्य दास्यमित्यत्र को नाम महेश्वरः | वा देहो जडः(?) वा ज्ञानेन्द्रियाणि वा कर्मेन्द्रियाणि वा प्राणः वा मनः | अहङ्कारो वा | वा बुद्धिः | वा तेषां संघात इति इत्यत्राहुश्च महेश्वरो हि नाम महांश्चासावीश्वरो मं महेश्वरः || ऐश्वर्यादिगुणगणसम्पन्नः | अत एव च परमः | उत्कृष्टतम इति सर्वमयः | सर्वव्यापी सर्वस्वभावः | सर्वोत्तीर्णस्वभावश्चेति चोच्यते || तथा च प्रत्यभिज्ञायामेव || विश्ववैचित्र्यचित्तस्य समभित्तितलोपमे | विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे || १ || प्रमातरि पुराणे तु सर्वदा भातविग्रहे | किं प्रमाणं न वाभासः सर्वप्रमितिभागिनि || २ || मेयं साधारणंमुक्तः स्वात्माभेदेन मन्यते | महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् || ३ || स्वात्म वै सकृजन्थ?नामेक एव महेश्वरः | विश्वरूपोऽहमिदमित्यखण्डामर्शवृंहितः || ४ || इत्थं तथा घटपटाद्याभासजगदात्मना | तिष्ठासो नेवमिच्छैव हेतुना कर्तृता क्रिया || ५ || तथा च तन्त्रालोके || अनस्तमितभारूपंस्तेजसां तमसामपि | य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च || १ || स एव सर्वभावानां स्वभावः परमेश्वरः || २ || भावजातं द्रितस्यैव शक्तिश्चेश्वर ता?मयी | शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति || ३ || २ब्) तादात्म्यमनयोर्न्नित्यं वह्निदाहकयोरिवे | स एव भैरवो देवो जगत्कारणलक्षणः || ४ || स्वात्मादर्शे समग्रं हि यच्छक्त्या प्रतिबिम्बितं | तस्यैवे वा? परादेवी स्वरूपामर्शनोत्सुका | पूर्णत्वं सर्वभावेषु यस्य नाल्पं न चाधिकम् | एष देवोऽनया नित्यं देव्या क्रीडारसोत्सुकः || ६ || विचित्रान् सृष्टिसंहारान् विधत्ते युगपद् विभुः | अतिदुर्घटकारित्वमस्यानुत्तरमेव तत् || ७ || एतदेव स्वतन्त्रत्वमैश्वर्यं बोधरूपत् | परिच्छिन्नस्वभावत्वं हारुस्य? किल लक्षणं | जडाद् विलक्षणो बोधो यतो न परिमीयते | एवमस्य स्वतन्त्रस्य निजशक्त्यपभेदतः | स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः || ९ || प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाश्यते | अनपह्नवनीयत्वात् किं तस्मिन् मानकल्पनैः || १० || प्रमाणान्यपि वस्तुनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || ११ || कामिके तत एवोक्तं हेतुवादविवर्जितं | तस्य देवादिदेवस्य परापेक्षा न विद्यते || १२ || परस्य तदपेक्षत्वात् स्वतन्त्रोऽयमतः स्थितः | विभुत्वात् सर्वगो नित्य भावादाद्यन्तवर्जितः || १३ || विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः | ३अ) ततोस्य बहुरूपत्वं प्रोक्तं दीक्षोत्तरात्मिके || १४ || भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च | बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते || १५ || यो यदात्मकताविष्ठस्तद्भावं संप्रपद्यते | व्योमादिशब्दविज्ञानात् परो मोक्षो न संशयः || १६ || इत्यादिना बहुबहुश एव श्रीमदभिनवगुप्ताचार्यपादाः || विनत्यवितन्यन् (?) तन्त्रालोकादौ तथा चोपनिषत्सु || आनन्दादेव खल्विसानिर्थतानि जायन्ते आनन्दे प्रवधन्ते | आनन्द एव प्रणीयन्ते | आनन्द एव पिधानत्वं यान्ति | आनन्ददेवाघ्नः? नुग्रही भवन्तीति ब्रह्म | आनन्द इति || आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्च नेति च || यतो वाचो निवर्तन्ते ह्यप्राप्य मनसा सह | आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्च नेति या || यतो वे मानिर्थतानि जायन्ते | येन जातानि जीवन्ति | यस्मिन्नभिसंविशन्ति | यस्मिन् प्रलीयन्ते | तद्विजिज्ञासस्व तद् ब्रह्म || तत्र ब्रह्मेति नाम बृह बृह बृद्धौ || एकत्वे सति बहुत्वसम्पन्नत्वेन वा सम्पादनत्वेन च वृद्धिमापन्नः सनी ब्रह्मेत्युच्यते || तथा च || सदा सृष्टि विनोदाय सदा स्थिति मुखासिने | सदा त्रिभुवनाहारब्दण्डायस्वामिनेन म इति || विश्ववैचित्र्यचित्तस्य समभित्तितलोपमे | इत्यादिना च || प्रत्यभिज्ञयां एवमस्य ब्रह्मसंज्ञा || तत एव चोभयन्छायाधारित्वाच्चिदचितोन्नपुंसकनित्रेशः || न तु ब्रह्मेति नपुंसकत्वं शिवस्य स्यादिति न विनोधः || इत्यलं || तथा च वेदः || प्रजापतिश्चरतिगर्भेन्तर्जायमानो बहुधा विराजते | तस्ययोनिं परिपश्यन्ति धीनास्तस्मिंस्तिष्ठन्ति (+प्रभिकौ?) ३ब्) भुवनानि विश्वाः || वेदाहमेनं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् | तमेव विदित्वाति मृत्युमेतिनान्यापन्था विद्यतेयनाय || ये देवत्ये आतपते | यो देवानां पुरोहितः | पूर्वो यो देवेभ्यो जातः || न च रुचाय ब्राह्म्यं रुचं ब्राह्म्यं जनयन्तो देवाः अग्रेयद ब्रुवनी विद्यास्तस्य देवा आसन्धशीः श्रीश्चते लक्ष्मीश्चते | पत्न्या अहोरात्री | पार्श्वेनक्षत्राणि || रूपमश्विनौ व्याप्तं || अर्धमासामासाधतवः परिवत्सराः न सत्सृशंतिष्ठन्ति | रूपमस्य न चक्षुषा पश्यति कश्चनैनं हृदामनीषा मनसाभिरतप्तोय एवद्विद्वरमृतास्ते भवन्ति || हिरण्यगर्भः समवर्तताग्रे भूतस्यजातः पतिनेक आसीत् | सदधार पृथिवीं द्यामुतेमां कस्मैदेवाय ह विषाविधीम इत्यादिना || तथा च | नाना विधवर्णानां रूपं धत्ते यथा मलः स्फटिकः | सुरमानुष्यपशुपादपरूपत्वं तद्वदीशोपि || गच्छति गच्छति जल इव हिमकरविश्वं स्थिते निर्थतिंयाति | तनुकरणभुवनवर्गे तथा यमात्मा महेशानः || तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसन्तानं | भोक्ता च तत्र देहे शिव एव गृहीतपशुभावः || इत्यादिना बहुधापरमार्थ सारांजो? प्रोक्तगुणगणोयं परमशिवः परमेश्वरश्चिन्दचिन्दुत्तिस्सर्वस्य स्वात्मा महेश्वर इति सिद्धः || तन्मयमेवबीजभूतस्सर्वस्य बीजप्रधान इति कथ्यते || अनादिमानप्रतिमस्वभाव इति गीतास्व [+ अन्वान्यः साज्ञादिभिः प्रकृति पुरुष व्य?जेन | मीमाकैवर्मकर्म?व्याजने तार्किकैरनुमानादि व्याजेन च अनादिमत्पनं? ब्रह्मेति च * * इति? श्रुति विकल्पमविकल्पादि व्याजेन च | रैयायि कैवा देवबुद्धिप्राणशा *?व्याजेन च **** *? न्नसारतः प्रमाणीर्थतमस्त्य? प्रमाणतयैव | तत्मन्वमाविद्यकमेव | विद्दतत्त्युविधा * * * * * * ? पमुखमालिन्य हेतुमेव निर्मल दर्पण स्वासकालष्य विरचतं देविहासौ *?] [+तथा च मुक्तवल्यां अविद्या योनिजाभावाः सत्यम् बहुधा इव | क्षणमुद्भूधागच्छन्ति ज्ञातैकसागरे लयम् | मृदादीनां कारणत्वं यदिनेष्टं घटां प्रति अविद्यायाःकारणत्वं कथं सिद्धेतुसांविदा || २ || तथा च वशिष्ठपादैः || तस्मिंन्चित्दर्पणेच्छरेसमस्ता? वि * * * * * * ** ** * **?] [+* ? भगवद्वाक्यते | यथा तदीनां बहवो स्ववेगा इत्यादिनातन्नैव ततो? * * * *?] ४अ) एवं बहुधाविराजमानो बहुधाव्याप्त इति बहुश एव कृत परिणामो विराडिति च कथ्यते || नन्ध्वेकस्येवं भूतस्य कथमनेकपरिणामः || एकस्येकत्वादेव | अनेकस्याचानेकत्वा वगमात् || यथा गौरयं वा गौरियमिति चैकरोत्वावगमः || तथैतागावः पश्योद्यानोपविष्ठा इति || इत्यत्रानेकस्यानेकत्वा देव || इत्यनेन कथमेकस्यानेकत्वावगमः || अत्रोच्यते || ठ सर्वत्रैवपुराणेति हास वैष्णवशैवयोगव्याकरणादि ष्वेकस्यानेकत्वावगमः सिद्धः || तथा हि || जन्माभ्यस्य यतोन्वयादि तरतश्चार्थे ष्वभिज्ञः सुरायते?ने ब्रह्महृदाय आदिकवये मुह्यन्ति यत्मुरयः तेजोवारि मृदां यथा विनिमयो यत्र त्रिसर्गो मृषाधाम्ना स्वेन सदानिरस्त कुहकं सत्यं परं धीमहि || १ || अत्र पुराणादावेवास्य जगतोजन्मादि प्रोक्तं || इत्यनेनैकत्वेपि सति बहुधात्वं सिद्धमेव | अर्थेषु चाभिज्ञ अहमिति स्वरूपतया || य एव च ब्रह्मण आदिसृष्टुन्येदादिदाता च || यत्र च सूरयो मुह्यन्ति || यतो वाचोनिवर्त्तन्त अप्राप्यमनसा सहेति || तेजो वारि मृदां यद्वद्विनिमयो भ्रमस्तथा जगन्मृषेति तत्र ब्रह्मणि || स्वेन च धाम्नाय च क एवा द्वितीयः सिद्धः | तमेवं भूतमद्वितीयं सच्चिदानन्दं ब्रह्मसत्यं धामृधीमहि ध्यायेम | नुम इति सर्व विघ्नोपशमायेत्यर्थः || [यथा वा | अधोधोविनिविष्ठेषु भेद संख्येषु धामसु | एकं बिन्दुरथापि प्रादन्येषु पाक्ततान्त्यगा *? | ठ स्वपृष्ठगां च तां सङ्ख्यं विनिविश्यैकतः कि?पेती | इत्यादिनाचैकस्येव बहुत्वापादानं || ] [यथा ह्याचौतत्रमासानु?सारेण तद्युक्त्याश्रयेणच | मुखं बिन्दुं कृत्वाक्त च युगमःअस्तस्य अदाधोहरार्ध्वं योध्यायेदित्यात्युपदेशानुसारेण परमोपदेशगत्यावायु *? दा ज्ञाते परमार्थे कुण्डलिनीं त्रिकोण कृतिं विभाव्य बिन्दुत्रयकोणत्रय सुत्तिं? च | *?त्स्वरूप एवा कारादि क्षकारान्तवर्णप्रत्ययः | लिप्याकारेण | आधारत्वाश्चत्तस्यास्त्रिकोणा कृएरिति सद्धोशमुपदेशमार्ग एकस्यैव बहुधाकृत्या यवैकस्या एवर्थ मेराणा?र्थताया मु?हस्रल्लक्ष्यपरात पर्यन्ताधीय सङ्ख्य] ४ब्) तथा च साङ्ख्य अपि || मूलप्रकृति रविकृतिर्महदाद्याः प्रकृति विकृतयः सप्त षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः || इत्यत्रैकस्यैवानेकत्वं सिद्धं || अथ च || तत्रैव || जन्ममरणकरणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च || पुरुष बहुत्वं? सिद्धं त्रैगुण्यविपर्ययाश्चैव || इत्यादिना एवं सर्वत्र यथोक्तेषु ग्रन्थेष्वेकस्यैव बहुविधत्वं प्रसिद्धमेव || कवयोपि चैकस्य मुखस्य वा चन्द्रमस अनेकत्वं यथा बर्णयन्त्येव || मुखकमलमिति || यन्मुखं स चन्द्र इति || एवमेव बहुधात्वं वर्ण्यन्ते || चन्द्रमसोप्येवमेव | पश्यचन्द्रमुखिचन्द्रमण्डलं व्योममध्यसरसीसरोरुहम् || इत्यादिना || अत्र च कवयः किं न वक्ष्यन्तीति || एवं च वैयाकरणा अपि || तद्यथा || ह्रस्वदीर्घप्लुतत्वाश्चत्रैसुर्योपनयेन च सानुनासिक्य भेदाश्चाप्य कौरष्ठादशात्मक इत्येकस्या कारस्याष्ठादशात्मकत्वं || अथ च सम्स्कर्ता | इत्यस्यर्थ पस्याष्ठाधिकशतात्मकत्वं प्रसिद्धमेव शेषपाणिनि वररुचि नानामतेषु || यथा || सम्स्कर्ता || सम्स्कर्ता || इत्यत्र समः सुटि || अलोन्द्यस्य || अत्रानुनासिकः पूर्वस्य तु वा || अत्ररुप्रकरणेन पूर्वस्यानुनासिको वा स्यात् पखरवसानयोन्विसर्जनीयः || विसर्जनीयस्य सः इति प्राप्त [अनुनासिकात्परोनुस्वातः मननामिकं विहाययरोः? पूर्वस्मात्परोनु स्वारा गमः स्यात्] तदप वा देवाशरीति पाक्षिके विसर्गे प्राप्ते | ५अ) तथा हि | रस भावतदभासभाव शन्त्यादिरक्रमः भिन्नोरसाद्यलङ्कारादलङ्कार्यतया स्थितः || तत्र रसोमासपद्यस्य वा गद्यस्य च जीव इति कथ्यते | व्यज्यापरनामा भोरट पर पर्याय इति रस तत्वविदः || मानकरसत्या येन चर्वणात्मा घण्टानुरणवत् सर्वत्र संबोध्यः संश्राव्यश्च तं विना हि कार्या भावाद्यत्र तत्र बोद्धव्यः || न हि निर्जीवं शरीरं क्वाप्युपयुक्तम् || इत्यलंङ्कार संयुक्तानां सो वक्तव्यः | ५ब्) संस्स्कर्ता? संस्स्कर्ता? || १ || समोवालोपमेके इति भाश्य लोपस्यापिरुप्रकरणस्था त्वादनुस्वारानु नासिकाभ्यामेकसकारर्थ पद्वयं द्विस कारंत्चक्तं? || २ || तत्रा न चिचेति सकारद्वित्वपकेत्रिसकारमपि रूपद्वयं || ३ || अत्रस्वानु विसर्गजिह्वामूलीषो? पस्मानीययमानामाकारोपरिशषु? च पाठस्योपसज्ञ्या?नत्वेनानुस्वारस्याप्यश्त्वात् || अनुनासिकवतां त्रयाणां शरः खश इति कद्वित्वेषट् || ६ || ततोनुस्वारव वतामनुस्वारस्यापि द्वित्वे द्वादश || १२ || एवमष्टादशानां तकारद्वित्वे | वचनान्तरेण पुनद्वित्वं च || जातं || भेदाः || ५२ || एकतं द्वितं त्रितं चेति चतुष्पञ्चाशत् || ५४ || तत्राणोनुनासिकत्वेष्ठोत्तरशतं || १०८ || इत्येवमेकस्यैवाष्ठोत्तरशतं | कथं द्रा?तमिति भावः || एतदेव च स्फुटी क्रियते || तथा हि || स/स्स्कर्ता सं/स्स्कर्ता || स/स्कर्ता | संस्कर्ता || स/स्स्स्कर्ता || संस्स्स्कर्ता तत्र संस्स्क्कर्ता | संस्क्कर्ता || संस्स्स्क्कर्ता || तत्र येषां न || तेपि भेदाः || ३ || जातं प्रथमं भेदाः || ६ || एषां षण्णामपि अनुस्वारद्वित्वे | जातं | १२ | अनुनासिकवतां कद्वित्वे षट् || जातं | ६ | ६ | ६ | भेदाः | १२ | तत्र येषां तकारद्विद्वं | ते | १२ | येषां न तकारं द्वित्वं तेपि || १८ | येषां व्रूचनान्तरेण अनचिचेति | त्रिन्वं | तेपि भेदाः | १२ | येषां न | ते पूर्वमेवद्वितत्वेन प्रतिपादिताः | जाताः भेदाः || ५४ || तेषां च भेदानां | ५४ | दधि/ | दधि इतिवत् भेदाः || १०८ || एतदेवचाति स्हुधी क्रियते मया || अनुस्वारवतां त्रयाणां कत्वित्वे | प्रथमं || ६ || तेषां यण्णामप्यनुस्वार द्वित्वेन || १२ || तथानुनासिकवतां कद्वित्वे || ६ || एवं भेदाः || १२ || तत्र येषां तकारद्वित्वं | ते || १२ || येषां न तकारद्वित्वं || तेपि || १२ || येषां वचनान्तरेण त्रितत्वं || ते || १२ || येषां न | ते पूरुमेवद्वि तत्वेन || जाताः || ५४ || तेषामेव च | अणुप्रगृह्यस्यानुनासिक इत्यनेन || दधि/ | दधि इतिवत् जाताः || १०८ || तदनेनाष्ठोत्तर शतभेदाः | कथमेक न *? व जाता इति वदत्रापिज्ञेयमितिभावः || १०८ || तथा चालङ्कार रस चर्वण तृप्तात्मनस्तुमम्म जालकादयोपिह्येकस्यैवरसस्य दशसाहस्र स्वरूपत्वमभि व्यक्ती क्रियन्त एव [+अस्फुट वात्यून्यमत्त्रस्ये तत्पत्रं स्फुटात्वेन लिखितं || एवं गवाद् इत्यादा यभ्यु त्य *? म् | भेदः || ११८ || तत्रैव ] ६अ) तथाहि रसभाव तदाभासभावशान्त्यादिरक्षमः ----------- ६ब्) तथा च ध्वन्यालोचने श्रीमदभिनवगुप्तपादा एव || काव्यस्यात्माध्वनि रितिबुधैर्यस्समाम्नात पूर्वस्तस्याभावं जगद्वरपरेभाकुसाह्वस्तमन्ये || इत्यादिना || अत्र काव्यस्यात्माध्वनिः | नवविधोरस इति प्रोक्तः || स च शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः वीभत्सरौद्रौ च तसाः शान्तोपि नवमः स्मृत इति || अथ च || रस स्वरूपमाह || कारणान्यथ कार्याणि सहकारीणि यानि च रत्यादिस्थायिनोलोकेतानि चेन्नाट्यकाव्ययोः || विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः व्यक्तस्सतैविभावाद्यैः नर्थ?यी भावोरसः स्मृत इति रस स्वरूपं || तस्य च भेदास्तदेक पञ्चशत् || ५१ || तथा हि || अर्थान्तर संक्रमित वाश्यात्यन्ततिरस्कृत वाश्यश्चेति | अविवक्षित वाश्यस्यत्वौ भेदौ २ असंलक्ष्यक्रमव्यङ्ग्यः क्रमोद्योतितश्चेति विवक्षितान्य परवाश्यस्य द्वौभेदौ २ असंलक्ष्याक्रमव्यङ्ग्योपि न स भाव तदाभास भावशात्रादिरक्रम इत्यनन्त भेदोप्येक एव गण्यते || १ || क्रमोद्द्रोतितस्तु शब्दशक्तिमूलः | अलङ्कार वस्तुत्थपत्वेनद्विधः | तदेवं || ५ || तत्रैवार्थ शक्तिमूलस्तु स्वतः सम्भवीकविप्रतिभानिर्मितः | कविनिबद्धवक्त्रप्रतिपादितो वेति त्रिविधः || एते च भेदाः वस्तु वालङ्कारो वेति द्विविधाः षड्व्यङ्जकः | तत्र वस्तुवालङ्कारौव्यङ्ग्य ७अ) इति द्विगुणा इति द्वादश || १२ || उभयशक्तिमूलस्त्वेक एव || एवमर्थशक्तिमूलोद्वादशविधः || १२ || एवमर्थशक्तिमूलोभय शक्तिमूलाः || १३ || पूर्वैः पंचभिर्भेदैस्सह जाताः || १८ || अष्टादशानां पदवाक्यप्रकाश्यत्वेन द्वैविध्यात् षड्त्रिंशत् || ३६ || एतन्मध्यादुभय शक्तिमूलस्य पदप्रकाश्यत्वाभावादेकोभेदः पातनीयः || तेन पंचत्रिंशदेव || ३५ || ततः प्रबन्धेप्यर्थशक्तिस्थोरिति प्रबन्धगतत्वेनार्थ शक्तिमूलाद्वादश | १२ | एवं सप्त चत्वारिंशत् | ४७ | ततः पदैकदेशरचना वर्णेष्वपिरसादय इत्यलक्ष्यक्रम व्यङ्ग्यस्यपदैकदेशगतत्वेन रचनागतत्वेन वर्णगतेनापि शक्त्यात्? प्रबन्धगतत्वेन च चत्वारोभेदाः || तदेवमेक पंचाशद्भेदाः भास्कार्याम् || तेषामिति तेषामेक पंचाशत्सख्यानां शुद्धानां स्वप्रभेदैरेक पञ्चाशता गुणनेनकौधिकषड्विंशतिशतानिभेदाभवन्ति || ३६ ११ || तेषां पुनरपि सन्देहत्वेनाङ्गाङ्गिभावेन चैकव्यञ्जनानु प्रवेशेन चेति त्रिविधेन सङ्करेणैकविधया च संसृष्ठेति चतुर्भिर्गुणनेन चतुरधिकचतुः शतोपेतदश सहस्राणि भवन्ति || १०४०४ || एतेषां शुद्ध भेदैरेक पञ्चाशद्रूपैः सहयोजने जातं शरेषु युगखेन्दवः || १०४५५ || [तथा च त्रिकशास्त्रादौ | अधोधोविति विष्ठेषु भेदसङ्ख्यषुधाम एकं बिन्दुरष्यापि? प्रागव्येषु प्रार्थनान्त्यगाम् स्वपृष्ठगं | च तं माज्ञां विति विसैकता क्षिपेत् | इत्यादिना बहुधा] इत्येवमेकस्यैव रसस्य दशसहस्र भेदाः || तथापि दिङ्मात्रेणैवो च ह्यताः आनन्द्यात् ग्रन्थ विस्तरभयाश्चेत्यलम् || तथा च शक्तिस्ततौ || ७ब्) आ ई पल्लवितैः परस्परयुतैर्द्वित्रिक्रमात्यक्षरैः काद्यैः क्षान्तगतैः क्रमादिभिरथ क्षान्तच्चैतैस्तैः सुरैः || नामानित्रिपुरे भवन्ति खलुयाभ्यन्तगुह्यानिते | तेभ्यो भैरवपत्निविंशति सहस्रेभ्य परेभ्योरमः || इत्यनेन देव्याश्चैकस्याविंशति सहस्राधिकनामानि || इत्यलमप्रस्तुत प्रशंसा मात्रेणानेन प्रसङ्गमात्रेण च दिङ्मस्त्रमुदाहृतम् || प्रकृतं चानुसरामः || एवं परमेश्वरे सिद्धे चैकस्मिन् तस्यैव च कथंचित् | दास्यमासाद्य || कथंचित् कतिचित्कालानन्तरं || तद्विद्धि प्रणिपातेन परिप्रश्नेनमेवया | उपदीक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिन इति श्रीभगवता स्वयमेवोपदेशः कृतः स्वभक्तान्प्रति || अथ च तं तं गुरोर्गुरुमालोक्य | तं च संप्राप्य यथा परम्परया मधुलुब्धो यथा ध्यत्मा इत्यादि तत्सङ्गप्रणिपातपरिप्रश्न सेवाद्यनन्तरजातसद्बुद्धिप्रसादेन लब्धाभ्यन्तदुर्लभ पारमेश्वरदासभावत्वात् || पूर्वोपार्जितजन्मशतसहस्रानन्तरपरिपक्वसत्कर्मवशात् || दास्यं हि दीयत अस्मै यथाभिलषितमितिदासः || अथ च दस्वक्षेपण इत्यनेनाज्ञानान्ध्यंतिरस्कृत्य ज्ञानभास्करोदयसंपर्कात् तत् समावेशसंपत्तिमास्वाद्य स्वात्मैक्यभावनया परमेश्वरतामास्वाद्येत्यर्थः || यश्चास्मत्परमेष्ठि [+पृच्छाम इति भावः] पाद्यैः आसाद्य इत्यत्रा वृत्तियोजनेद्वौणिचावित्यादिना स्वरादिणि चास्वात्मना परमेश्वरदास्य मासाद्य आश्रित्य || हेतु मालिशाचा परम प्यासादयित्वा चेति [+उक्तिः] परमेश्वर समापत्तितादात्म्य चेतसा लौकिकं [+च तादैव्योवाच इत्यर्थः] वचसांप्रवृत्तिः [+ यत्प्रोक्तं तत्] || तत्रैव च स्वयमेव प्रोक्तम् ८अ) पूर्वं तत्र भवद्भिस्तश्चन नयि?चारयन्ति परामृश्यन्ति स्वसूत्र विमर्शिन्याम् || तथा हि || यद्यप्यायातदृढीश्वरशक्तिपातस्य स्वयमेवेयमियती परमेश्वरर्थमिवभ्येति हृदयगोचरं | तत्वत्र पुरुषकारः स्वात्मेयः कोपिनिर्वहती [तस्यमापेयमान्धतम सप्रख्यस्यामायेयं शुद्धप्रकाशरूपं प्रत्यपायतानुपपत्तः?] त्यादिना || इत्यनेन हि कथं तैः पूर्वमेतदुक्त्वा | कथं पुनरुक्तं हेतुमण्णिचापरस्याप्यासाद्यासादयित्वा || इत्ये तत् प्रामादिकं || तथापि साक्षाद्भगवद्वाचः [साक्षाद्भगवत् स्वरूपाणां परमगुरूणां] प्रमाणतरा इति किंजानीम इत्यलं रहस्योद्घटनेन || तथा च स्वयं भगवतापि प्रोक्तमेव || बहूनां जन्मनामन्ते ज्ञानवार्मां प्रपद्यत इत्यादिना || सूत्त्रविमर्शिन्यामपि पुनः || तस्यमायीयस्यान्धतमसप्रख्यस्य शूद्धप्रकाशरूपं स्वप्रतिद्वन्द्विनं प्रत्युपापतानुपपत्ते रित्यादिना च || इत्यलमत्र महागुरुभिन्नादेव महात्मनां प्रमादोपिमर्षणीयो हिमादृशै किं वा जानौ स एदृत्रहस्यचारया हेतुमण्णिच् अपि प्रमाणतरं | वाशुरादिणिच् अपिप्रमाणतममित्यर्थः || [अर्थ तस्तु हेतुमण्णि चैव प्रमाणं | सर्वं शास्त्रस्य हेतुमत्वात् | इत्युक्तं] ततः समस्त संपत्समवाप्ति हेतु भूतां तत्प्रत्यभिज्ञामुपपादयामि || समस्ताश्च ताः सम्पदः | तासां समवाप्तिः नीलपीतादि व्यक्ताव्यक्तैकीकरणशील तत्समावेवाप्तिः तस्या हेतु भूतां || तत्पठनानुभवाद्या सहृदन्त संकुचिततात्पर्यतया हि तत् समावेश सिद्धस्तेस्या हेतुं भूतामिति || अत एव च तद्धेतु भूतामिति || तथा च || आगमदीपालोकास्तस्य प्रकाशयन्ति किमपि सा ८ब्) हात्स्यं || इत्याद्युक्तेः || तामेव च हेतु भूतां तत्प्रत्यभिज्ञामुपपादयामि || उपपरमेश्वर सामीप्यं प्रापयामीति भावः || तस्यैवं भूतस्य महेश्वरस्य प्रतीपमाभि मुख्येन ज्ञानं || अयं देवदत्तः | सोयंशुक्लवासोवामनदत्त इत्यादिवत्प्रत्यक्षतया | यं घट इति वत्प्रत्यक्षे तया चोपपादयामि || अन्यानपि प्रकाशयामीत्यर्थः || भोलोका अनुत्तरमार्गमाविश्य प्रत्यभिज्ञाशास्त्रावलोकनानुभवाश्य सयुक्त्या पारमैश्वर्यं करामलकवदिति प्रकटोयं वादः प्रबुद्धान्प्रति इति चोद्योच्यते || अप्रबुद्धानां तु कथवैवनास्तीति || [तथा च सिद्धान्तारर्त्थवल्यां | अद्वैतमप्यनुभवामि करस्थविखुद्वल्यंश * * ?निर्णयननव वेह्ये? | एवं च जीवनमपि प्रतिभासनं च निःशेषसाभिशमनं दो?पप्रसिद्धमिति] तथा च || ज्ञेयत्वमप्युपगता हृदयेन रोढुं शक्ताः प्ररूढामनसामुपदेशवाचः | आर्द्रत्वमादधति किं नलिनीदलानां श्लिष्ठा निरन्तरतयापि नभोम्बुधाराः || इत्यादिनां || अथ च महाजनो येनगगतः सपन्थेति || तेन जनस्या प्रबुद्ध प्रबुद्ध स्वप्रबुधादिभेदेनापि सर्वस्यात्राधिकारः || तस्मात् प्रत्यक्षतया यः यः कश्चित् प्रत्यभिज्ञानुभवाव्यास समावेशदशापन्नः सन् | सससिद्धतीति प्रकटोयं वादः || तथा च || घटोमदात्मनां वेत्ति | वद्प्यहं च घटात्मना | सदा शिवात्मना वेद्मि वेद्म्यहं च शिवात्मना || स्पन्दे च || यस्मात् सर्वमयोजीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्म्य प्रतिपत्तितः तेन शब्दार्थचिन्तासु न सावस्था न या शिवः भोक्तैवभोग्यभावेन सदा सर्वत्रसंस्थितः || इति वायस्य संवित्तिः क्षीत्वात्वेनाखिलं जगत् | संपश्यन् समतं युक्तो जीवन्मुक्तो न संशयः || पुनस्ताश्च प्रत्यभिज्ञायामेव || वर्तमानावभासानां भावानामवभासनम् | ९अ) अन्तः स्थितवतामेव घटते बहिरात्मना || प्रागिवार्थो प्रकाशः स्यात् प्रकाशात्मतया विना | न च प्रकाशो भिन्नः स्यादात्मर्थस्य प्रकाशता || २ || भिन्ने प्रकाशे चाभिन्ने सङ्करो विषयस्य तत् | प्रकाशात्माप्रकाशोर्थो ना प्रकाशश्चमिच्छति || ३ || इदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः मोहमित्ययं || ४ || सोऽन्तस्तथा विमर्शात्मादेशकालाद्य भेदिनि | एकाभिधानविषयेमितिर्वस्तुत्य बाधिता || ५ || [केचिच्च हेतुमण्णि चैव द्वयमेव स्वयमासाद्य | वान्यमप्यासादि प्रत्यभिज्ञायास्सर्वत्राधिका * * ?|| || ] प्रकाशस्यात्म विश्रान्तिरहं भावो हि कीर्तितः | उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधरः || ६ || स्वातन्त्र्यमथकर्तृत्वं मुख्यमीश्वरतापि च | इत्यादिना सर्वत्र प्रकाशात्मा चिद्वपुरद्वयः परमार्थस्वरूपः सर्वदाजृम्भत इति शिवम् || ७ || न च तत्र वेत्यवेदनवेदकादिचिन्तापिलेशतोपि || इत्येवमनेन समस्त संपत्समवाति हेतुत्वं प्रदर्शितं प्रत्यभिज्ञायाः || एवं च समस्तसंपत्समवाप्तेर्हेतुत्वं प्रदर्शितं परमेश्वर प्रत्यभिज्ञायाः षष्ठी तत्पुरुषेण || बहुब्रीहिणातु समस्तसंपत्समवाप्तिर्हेतुर्यस्याः प्रत्यभिज्ञाया इति || तस्माद् बहुब्रीह्याश्रयणेन प्रत्यभिज्ञोपायत्वं नीलमुखादेः || सर्वस्यचित्स्वरूपेणैव प्रतिभासात्तज्ज्ञानेन हि तदाप्तेरिति सिद्धोयमुपदेशमार्गः || षष्ठी तत्पुरुषेण तु परमेश्वर प्रत्यभिज्ञे बहिहेतुस्तत् तत् सम्पत्तेरितिभावः || तथा चास्मत्परमेष्ठि पादारं || बहुब्रीहिणा रूपायः सूच्यत इत्यादिन || ९ब्) इत्येवमाद्यकारिकायाश्चार्थः सिद्धः प्रथमः || अथापरार्थस्तु || समस्तसंपल्लाभ हेतुं महेश्वरस्यदास्यं कथं चिदासाद्य यतोजनस्याप्युपकारमिच्छन् | अत एव तत् प्रत्यभिज्ञामुपपादयामीतिसम्बन्धः || यतो हि महेश्वरदास्यात्मकत्वेन वै समस्तसंपत् समवाप्तिरिति भावः || न तु समस्तसंपत्समवाप्ति हेतु भूतां तत्प्रत्यभिज्ञामिति || महेश्वरस्यदास्यात्मकत्वे हि सिद्धे तत्प्रत्यभिज्ञोदय इति केचित् || अथ च गुरुमुखानुसारतोर्थः || महेश्वरस्यदास्यं कथञ्चि च साद्यसंप्राप्य स्वात्मनः || शुरादिणि चा || तथा च महेश्वरस्यदास्यमासाद्य | प्रापव्य च | आसादथित्वेत्यर्थः || हेतुमण्णि चा च एवं जनस्याप्युपकारमिच्छन् || अत एव च समस्त संपत्समवाप्ति हेतु भूतां तत्प्रत्यभिज्ञामुपपादयामि | तस्या एव हि समस्तसंपत्समं वाप्ति हेतुत्वं || पुतश्च जनस्याप्युपकारकारणत्वं च || तस्या एव हि तद्दास्यभावजननत्वं च || अतः सैव सर्वत्र हेतुरिति पूर्वगुरवः || तथा च पुरस्तात् || तैस्तैरप्युपया चितैरुपनतस्तन्व्याः स्थितोप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो नरन्तुं यथा | लोकस्यैष तथा न वेक्षितगुणः स्वात्मापि विश्वेश्वरोनैवालं निजवैभवायतदियं तत्प्रत्यभिज्ञोदिता || तदर्थमेवेयं संमस्तसंपल्लाभादि हेतुतयोपदिष्ठा || यतश्च सर्वोयं भावराशिः प्रकाशविमर्शविस्तृतोल्लोलराशितया विस्तृतिमापन्नः सन् | जगदिदमितिव्यपदेश्य एव || अन्यथा तदभावात् खपुष्पादिवत् || स्यात् || तस्मादुल्लोलकल्लोलादयस्तदत्रन्नास्तत् स्वरूपपरिप्लुतास्तन्मया १०अ) एवेति न किमपि बाह्यस्पन्दप्रमेयविषयं नाम | यन्प्रमातृतामनुगतं सद्बाह्यं वेद्यमितिमन्येत || इति न किमपि || तथा च पुरस्ताती || स्यादेतदवभासेषु तेष्वेवावमितेसति | व्यवहारे किमन्येन बाह्येनानुपपत्तिनां || तथा च || अवयविनोव्यत्त्यनुपपत्तिः समवाया सिद्धिः || कम्पाकम्पावरणावरणरक्तारक्तादिण्भगभेदादिविरुद्धधन् मधोनाः || अणुसंचयबाह्यवादेपि संचयस्यान्यस्याभावेणव एव || ते च यदि परस्परं संयुज्यन्ते तदेक परमाणुमात्रता || अथान्यत्रैकोन्यत्र चापर इति बहव एवेति न किंचिद्बाह्यं नामयन्नाम्ना प्रसिद्धं हि स्यात् || परंत्वेकपरमाणुः अथ च बहवः परमाणोदिभागभेदग्राहिणः || तथा च देवना ह्येषा?दिक्षु संचेयमानेष्वन्यत्रैकोत्यत्रापर इति न कोदेवनाक्ष इति न बाह्यं नाम किंचित् तत्वतः || इत्येवमस्तत् परमगुरुभिस्सूत्त्रविमर्शिन्यां वितत्यनिर्णीतमेव || तस्मात् सर्वमेतश्चिदाभासमात्रं चिदात्मकं चेति प्रकाशानन्दापनं यत्तत्मुदिति परमशिव इति कथ्यत एव || तथा च || वर्तमानावभासानाभवानामवभासनम् || अतः स्थितवतामेव परटते बहिरात्मना || १ || प्रागिवार्थो प्रकाशः स्यात् प्रकाशात्म तया विना | न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता || २ || भिन्ने प्रकाशे चाभिन्ने सङ्करोविषयस्य तत् | प्रकाशात्मा प्रकाशोर्थो ना प्रकाशश्च सिद्ध्यतीति || तत् तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् | न ह्यभिन्नस्य बोधस्य विचित्रा भास हेतुता न वासना प्रबोधोत्र विचित्रो हेतुतामियात् | तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनं || तदेतदेव निश्चितं || प्रकाशविमर्शात्मकभावाः प्रकाशानन्दघनास्तरुन्भूता बुहुधा इव तत्रैव लीयन्त इति तेपि प्रत्यभिज्ञाहेतव इति बहुब्रीहिणा || अथ च प्रत्यभिज्ञासमस्तसम्पत्समवाप्तेर्हेतुरिति १०ब्) षष्ठी तत्पुरुषेण च द्योत्यत एव || इत्येवं प्रथमसूत्रव्याख्या एवं च प्रत्यभिज्ञा शास्त्रार्थ गर्भीकारेण चायमधिकरण सिद्धान्तः || यस्मिन्नर्थे सिद्धे तदन्वयव्यर्थान्तराण्यापि सिद्ध्यन्ति सोधिकरणसिद्धान्तः || यथा इन्द्रियादि व्यतिरिक्त आत्मा दर्शनस्पर्शनाव्यमेकार्थानुग्रहणात् || इत्यस्मिन्नर्थे सिद्धे | आत्मनो व्यतिरिक्तानि | नियतविषयाक्ये क्रियाणीन्यपि हि सिद्धम् || एवमाद्यसूत्रार्थ प्रयोजनेनुभव पथं याते सति | सर्वत्र सिद्धिरितिभावः || रोहणलाभेरत्नसंपद इव || तथा चोपद्घातोप्ययमाद्यश्लोकः || तथा हि || सर्वशास्त्रार्थ गर्भीकरण हेतोरुपस्घात इति || तथा च || निर्णीयते यत्र पदैक देशेचैकत्र सर्वागमशास्त्रसारं | तज्ञैरुपोद्घात इति प्रसिद्ध्या प्रोक्तस्तु पूर्वैरुपलक्षणीयः || १ || यत्रकवाक्येत्वाद्यस्थे सर्वशास्त्रार्थ निश्चयः | स उपोद्घात इत्याष्यः? सर्वलक्षणसंयुतः || २ || तस्यचार्थः || उप इत्यात्मनः समीपे | उद्घातः | उद्गमनं || हनहिंसागत्योः || १ || अथ च || उप इत्यात्मनः समीपमुपविश्य | उद्घातः प्रमेयविषयमोहस्य || २ || अथ च || उप इत्यात्मनि प्रविश्य || उदिति शास्त्रादौ ज्ञायते स्वात्मानमिति च || ३ || उप इत्यात्मनः परमेश्वर समीपगमनेन | उद्गम्यते परमेश्वर सम्पत्तिमिति च || ये गत्यर्थास्ते ज्ञानार्था इति च || तथा च पूर्वैरपि || उप इत्यात्मनः समीपे टङ्कवदीश्वराभिज्ञानलक्षण उत्कर्षो हन्यते | विश्राम्यते येन || उप इत्यात्मनः समीपे | उदितिशास्त्रस्योर्ध्व एव हन्यते प्रमेयविषयोव्यामोहोयेनेति | वा ज्ञायते प्रमेय विषयतत्वं येनेति वा || ११अ) तथा || उप इत्यात्मनि | उदिति शास्त्रस्योर्ध्व एव हन्यते ज्ञायते परमेश्वर तत्वं येन || ये गत्यर्थास्ते ज्ञानार्था इति || हन हिंसा गत्योरित्यस्य गत्यर्थत्वात् तेन च ज्ञानार्थात्वादिति भावः || एवमनेनाथमुपोद्घातः प्रथमश्लोक इत्यलं || यश्चपरमगुरुभिः चतुःश्लोकगुम्फितोयमुपोद्घात इति | तत् तैः परमेश्वर च स्यमासाद्य प्रथमश्लोकेन | तच्छक्तिद्वयात्मकं च ज्ञानक्रियात्मकं चासाद्यसाङ्गां परमेश्वरं विभाव्य | उपोद्घात | इत्याख्ययोपदिष्ठमिति || अस्माभिश्च परमेश्वरदास्यात्मकत्वेन वै ज्ञानक्रियाशक्ति स्वरूपमपि निर्दिष्टं || आश्रयासिद्धौ तद्गुणग्रहणे सिद्धेसिद्धाभिप्रायत्व प्रसङ्गात् || यथाब्राह्मणोयं | इत्यत्र जातिगुणक्रियात्मक ब्राह्मणवदत्रामिवेद्यमिति || अलं च बहुना || तदिदानीं विषयप्रयोजनाद्यभिधीयते प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते | यावत् प्रयोजनोक्तं तावत् तत्केन गम्यत इति || एवं प्रयोजनमत्र परमेशता लाभेन तत्समावेशापत्तिसम्पत् || परमेश्वरतालाभे हि समस्तास्तन्निः ष्यन्दमययस्सम्पदः प्रसरन्ति रोहण लाभेरत्न सम्पद इव || इत्येवं प्रयोजनं अभिधेयश्चात्र परमेश्वर स्वरूपतादात्म्यसमापत्ति हेतुरिति अभिधानं चास्यशास्त्रस्य प्रत्यभिज्ञाकौमुदी || अधिकारी [लाभमूभयत्रमज्जतः || इत्येवं परमात्मनि स्वप्रकाशे स्वभावेविद्यादि स्पर्शाभावः अपरस्तु जीवः | तस्यचातिविषमालङ्कार मा शृधदति विषमालङ्कारदृष्टन्तः || तथा हि || न केवलमात्मरवना रूपेष्ठानाप्तिः | अपि तु स्वाश्रय?ताख्य मृतशस्टपि? सम्भवा च तिर्यथै?स्यालङ्कारः | अथा | मंहिकामुतमन्त्रा? साच्छशः श | तां शमास्तितः | ग्रसते साश्रयतंत्र तमन्यः सिद्धिकामुतः || इत्येवं यथास्य शशोनाच्छयनाश?] [+ * * * *? मातरिपुराणे | वेदकवेद्यवेदनात्मनि चैकेनापरोस्ति वेद्यादि भावः | तत्कदासः | दोवाप * * * ? स्वरः | यद्दास्यात्मकत्वमाश्रयेत् | इति सर्वोयं भ्रमैति | इत्यत्राहुः ||परमार्थतोतद्वै *? ध्यं | परं कर्तरिष्णतरिस्वात्मन्यादि सिद्ध इत्यादिनसिद्धेपरमेश्वरे | किन्तु मोहवशादस्मिन्दित्यादिना च सिद्धे मोहात्मजीवे | तपोः परस्परं व्यवहारा भेदतः | किचिद्भेदः | नन्त? वाध्याः | अण्डितास्तितदेव तद्वानतत् इति ] [+ तथा च वेदः | द्वौ मुपलौसयुजासोखा यौसमानं वृक्षंपदिषम्बजाते | तपोः न्यः पिप्पलं वात्मपरमात्मतोन्भेदः | इत्यनेन प्रभुदासात्मकत्वं सिद्धंद्वयेन | एकः प्रतः | एकश्चदासः | परमात्मजीवात्मनेन सिद्धौ उभौ पूर्वं प्रोक्तं चान्यत् | एतयोक्त्य?क्षणं बहुबहुधा| पुरस्ताद्बक्ष्यत च || एतश्चालङ्करमार्गे लङ्कारकारकैर्भेदेनं दर्शितं || अतगुण विषमालङ्कार द्वयोन || तथाभि यधितदीयं वर्णं सम्भवन्त्यमपि योग्यतायां नूतमपि न*?ह्लीयात् तदातद्गुणो गुणलङ्करः | परमात्मवत् || यथा च दृष्टान्तः | राजहंसतवसवैशुभ्रता धीयतेन च न चाप धीयए | गाङ्गसम्क्षमितसावया * *?] [+चन्द्र समो नाशेसति स्वात्मनोपि नाशाः | राहूनस्त चन्द्र कृतः || तद्वदस्रापि जीवस्य प्रकाशानन्द स्वरूपनाशे जीव भावन? यास्या? सान्माया कालष्येण स्वात्मनो विप्रग्रति रिन्यनयोः परस्परभेदः | प्रभुजीवयोः | इत्यनया मथात हुणातिवैअस्या राङ्करसादृशं || इति शुभम् || ४ || ४ || अतद्गुणलजारः * * * * * * ?] ११ब्) चात्रपरमेश्वर शक्तिपातोन्मिषज्ज्ञानाङ्कास्तमिताज्ञानतमो हृदयः प्रबुद्ध इति कथ्यते || अप्रबुद्धस्यानधिकारात् || तथा च || ज्ञेयत्वमप्युपनीता हृदयेन रोढुं शक्ताः प्ररूढमनसामुपदेशवाचः || आर्स्रत्वमादधति किं नलिनी दलानां श्लिष्ठानिरन्तरतयापि नभोम्बुधारा इति पुनः स्वप्रबुद्धस्य च सिद्धत्घात्पुनः सिद्धेर्हेतोरनुर्योगात् || तत्प्रबुद्ध एवाधिकारीति कथ्यते || तथा च || रामं प्रतिस्ती वासिष्ठोपदेशवाक्यं || अहं बद्धो विमुक्तः स्यामिति यस्यास्तिनिश्चयः | नात्यन्तमज्ञोनतज्ञः सोस्मिश्फास्त्रेधिकारवात् || इति प्रबुद्धः || उपायोपेयभावश्च सम्बन्धः || उपायश्चात्र प्रत्यभिज्ञात्मकं शास्त्रं | उपेयश्च समस्तसंपत्समवाप्तित्वमिति सिद्धम् || अलं चाति विस्तरेण || इत्येवं प्रथमश्लोकार्थः || इति श्रीमद्भट्टारकानन्दनाथरचितायां प्रत्यभिज्ञाकौमुद्यां प्रथममाह्निकं समाप्तं || शूभमस्तु श्रीविद्योपासकानां तद्दयामात्रस्फूर्जश्चिच्छजानाम् || || इदानीं य साङ्ख्यादयः प्रधानकारणतया | तथामीमांसकादयः कर्मकारणतया || तथा नैयाविकादयोपि ह्यात्मकारणतया | बोद्धादयोपि चात्माभावकारणतया शरीरादि || १२अ) पातञ्जलादयोपि हि योगसाधान कुम्भकादि धारणा परत्वकारणतया || वैष्णवाश्च विष्णुकारणतया तथा शैवाः शवकारणतया च || शाक्ताश्च शक्तिकारणतया कणास्त्वद्दीप्तीनां रविशशिकृषाणु प्रभृतय इत्यादिना शैवाश्च शिवकारणतया | इति किंचित् स्थूलं | वा सूक्ष्मे प्रपञ्चितं | तत्सर्वं प्रमाष्ययत् किंचिदनुत्तरनिस्पन्दाख्यं तदिति स्वरूपं परममुत्कृष्टतमं तत्वं || सप्तादशं | वाष्ठादशं | तदेवेदानीं द्वितीयाह्नि केन लक्षयति शक्तिसंचय कारणतया || ननु यदुक्तं समस्तसंपत्समवाप्ति हेतुं तत्प्रत्यभिज्ञामुपपादयामि | इति तत्समस्तसंपत्समवाप्ति हेतुः प्रत्यभिज्ञात्मकं शास्त्रमेव || तत्र च प्रत्यभिज्ञायाः शास्त्रत्वाच्छास्त्रस्य चागमप्रामाण्यादत आगमप्रमाणमेव प्रमाणमीश्वरसिद्धौ चतुरप्रमाण्यत् || चतुष्प्रमाणानि तु परोक्षवृत्यवबोधनाय माहेश्वराण्येव पूर्वसिद्धानि निर्दिष्थानि || तेभ्यश्चागम एव प्रमाणमाप्तवाक्यात् || इत्यनेनाप्त प्रामाण्यवचनमेवेश्वर सद्भावो प्रामाणं || इत्यनेन चेश्वरः कार्यं | आगमम्तु कारणमित्यत्रत्रा आगम एवेश्वरोनाम ईश्वरस्तु घटादिवत् कार्यमिति कथं || इत्याह || ओं कर्तरिज्ञातरि स्वात्मन्यादि सिद्धे महेश्वरे | १२ब्) अजडात्मानिषेधं वा सिद्धिं वा विदधीतकः || २ || महांश्चासावीश्वरश्च माहेश्वर्यादि शक्तिचक्रभरिततनुः संपूर्णा चिदानन्द प्रकाशवपुरद्वितीया खण्ड च मत्कारैकलक्षणः | अहमिति स्फुरद्वपुः | स्वस्पन्दनोदन्ताविश्वशक्तिभरिततनुस्संपूर्णश्च || तथा च || न तत्र सुर्योभाति न चन्द्रतारकंनेमाविद्दुतोभान्तिक्ततोय मग्निः तमेव भान्तमनुर्भातिसर्वं तस्य भासा सर्वमिदं विभाति || तथा च पुरस्तात् || या चैषा प्रतिभा तत् तत्रदार्थ क्रमरूषिता अक्रमानन्त चिद्रुपा प्रमाता प्रमाता स महेश्वर इति मूलशास्त्र एव || श्रीमदभिनवगुप्ताचार्यपादाश्च निराभासात् पूर्णादहमिति पुराभासयति यद्द्विशा || खामाशास्ते तदनु च विभङ्क्तुं निजकलाम् | स्वरूपादुन्मेष प्रसरणनिमेष स्थिति ज्वाषस्तदश्वैतं वन्देपरमशिवशक्त्यात्मनिखिलम् || इत्यादिना च चिदर्कमण्डला कृतिः | तस्मिंश्च सिद्धे महेश्वरे हमित्यनेन भासमानेनन्तरमिच्छोन्मेषमात्रेणेदं जगत्प्रमेयतास्पदं प्राप्तं जगदित्युच्यते स्पन्दात्मकतया | सद सद्व्यक्ताव्यक्तादि रूपं || तथा च || हिरण्यगर्भः समवर्तताग्रे भूतस्यजातः पतिरेक आसीत् | सदधार पृथिवींद्यामुतेमां कस्मैदेवा यरुविषाविधीम || योविश्व चक्ष्वारुत विश्वतो मुखो विश्वतो हस्तरुत विश्वतस्मात् ||| १३अ) इत्यादिना || एवमेव च तस्मिन्परमेश्वरे ह्यादिसिद्धे || तथा च कर्तरि क्रियाशक्ति युते | तथा ज्ञातरिज्ञानशक्ति युते च | अत एव च स्वात्मनि | आत्मनो हि ज्ञानक्रियात् संयोगाज्ज्ञेयादि व्यवहार इति स्थितम् || तथा हि || जानाम्यहं घटदि | करोम्यहं क्रियादि || इत्येववं ज्ञानक्रियामये स्वात्मनिपरमेश्वरे सिद्धे || कः परो अजडात्मा ज्ञातासन् ज्ञातृत्वमेवाविहाय | जन्मान्ध्यमाश्रितः सन् तस्यैव महेश्वरस्य सिद्धिं | ईश्वरोनामकश्चिदस्तीति | वा निषेधं बोद्धादिवत्कर्तुमुत्महेत || न किंच्चित् || इश्वरोनास्ति | यदि स्यात् तर्हि घटदिवत् प्रत्यक्षेण पश्येतमन्यः? इति नास्ति || अत एव च प्रोक्तं || अजडात्मेति || बोद्धादयस्तु सर्व एव हि देव प्रिया इति कथ्यन्ते || तथा च | बोद्धाः खलुवयं लोके सर्वत्रख्यातकीर्तयः | विकल्पमात्रशब्दार्थ परिकल्पनपण्डिता इति मञ्जर्याम् || ते च विकल्पमात्रेणैव शब्दार्थयोर्जीवन्ति || पुरस्ताश्च ननुस्वलक्षणाभासमित्यादिनातन्मतमुत्थाप्य | [पश्चाद्दशार्धार्ध चन्द्रपुष्टिघातशतसहस्राण्यवत्ये प्राप्नुवन्ति दशावंप?हिणहस्ततलं तनयदर्ध चन्द्रश्यपात् इति कश्मीरभाषया कृमुषिघांतं * *? इति कशमीरशुषया | तयोः शतं | वा सहस्रं |] तत्र चजलमकुल?मात्रेण घृतलाभः कियानिति | महात्मनां प्रमादेन स्वात्मानं दूषयन्त्यम् || एवं न कोपि शक्त इति || सर्वो हि ज्ञान वा ज्ञानमालम्ब आदिसिद्धो महेश्वरः सर्वशक्तिः १३ब्) सर्वगुणप्रकाशित वपुश्चेति तस्यैवं विदधीत अव्याप्तेः || तथा च || जन्माद्यस्य यतोन्वयादि तरश्चार्थे ष्वभिज्ञासुराट्टेने ब्रह्महृदाय आदिकवये मुह्यन्ति यत्सुरयः | तेजोवारि मृदां यथा विनिमयो यत्र त्रिसर्गो मृषाधाम्नास्वेन सदानिरस्त कुहकं सत्यं परंधीमहि || तथा चोत्तरमीमांसायामादित एव ब्रह्मणोलक्षणादि द्वारैण प्रतिपादनम् || अथातो ब्रह्मजिज्ञासा || अथा त इत्यनेन पूर्वमीमांसा कर्मकाण्डनन्तरमुत्तरमीमांसायां ब्रह्मजिज्ञासित व्यमितिशेषः || तत्र च ब्रह्म | वृह वृह वृद्धौ || एकः सन् स्वस्पन्दनमात्रात्मकं विश्वमिति रूपतया भासयति | आदावह्यमित्येवासीत् पश्चाश्चेदमिति वेद्यमापन्न्यं नीलपीतादिरूपं || तद्धारणषुक्त्या च वृद्धिमापन्नमिवास्वरवश्चित्र गन्ध च नगरादिव ब्रह्मेति कथ्यते || तस्यैव च जिज्ञास्ट्प? ज्ञातुमिच्छा || ज्ञाते ब्रह्मणि सर्वं हि विश्वं ब्रह्मेति कथ्यत एव || कारणकार्ययोरविभागात् अविभागेन चैक्यापत्तिप्रसज्ञात् || तत् तत्सम्पत्ति प्रवृत्तेश्च || तत् तदैश्वर्यादि गुणगणसंभवाश्चेति तस्माद्ब्रह्मजिज्ञासितव्यमिति भावः || १ || ततश्च जन्माद्यस्य यतः || २ || अस्य च जगतो यतो ब्रह्मणो जन्मादि वर्तत इति शेषः || यतश्च || श्रीस्पन्दे || यश्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्ति चक्रविभव प्रभवं शङ्करंस्तुमः || १ || यत्र स्थितमिदं सर्वं कार्यं यस्माश्चनिर्गतम् | तस्यानावृत रूपत्वान्ननिरोधोस्थि कुत्रचित् || २ || जाग्रदादि विभेदेपि तदभिन्ने प्रसर्पति | १४अ) निवर्तते निजान्नैव स्वभावादुपलव्वृत्तः || ३ || इत्यादिना || तथा च | ईक्षतेन्ना शब्दम् || ३ || यत ईक्षतृत्वात् ब्रह्मण एव प्रधानादि न कारणम् || ईक्षतृत्वं च || स ईक्षत बह्वस्याम् प्रजाये येति || अत एव च प्रधानाद्य शब्दं || तस्य जडत्वादत एवा शब्दमपि || यथा स ईश्वर ईक्षत इति तया न प्रधानादि लक्षणं ईक्षतृत्वेन | प्रधानमैक्षत || बह्वस्यामिति न इत्यनेन यदस्ति तत्ब्रह्मेति | अतस्सर्वं तदैश्वर्यविप्रुड्भित्व हिर्जंतं विश्वमिति निर्णीयते || प्रधानं च || प्रधानं प्रकृतिस्त्रयां अथ च सत्वरजस्तमसां साम्यावस्था प्रकृतिः || नत्वश्यत् || सा चा नित्या || सा च द्वादशमं तत्वं शिवतत्वादधः || तथा च || शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभाविभुं प्रभुनेति च || यत्त श्रीमत्सिद्धकपिलादयं उष्णीशं दक्षिणतो निधाय तन्महिमात्वं ब्रुवन्ति || तत् तेषामेवोपयोग्यं | न चानुत्तरशास्त्रादौ || तेपि च कपिलादयः पश्चादध्वत्तरमार्गमेव प्रविष्ठाः || [नदीनां बह्वस्भवोगवत्?] तेषा च एवं तत्वाभ्यासान्नास्मिनमेनाहमित्य परिशेषम् | अविपर्ययाद्विश्तद्धं केवलमुत्पत्यते ज्ञानमिति || १ || सङ्घात परार्थत्वात् त्रिगुणादि विपर्ययादधिष्ठानात् | पुरुषोस्ति भोक्तृ भावात्कैवल्यार्थं प्रवृत्तेश्च || २ || वत्स विवृद्धि निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य | पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य || ३ || एवं हि यत्र तत्र यथा तथा ब्रुवन्ति | तश्च सर्वत्रानुत्तरमार्गप्रवर्तनमिति भावः || तथा च भगवान् || यथा नदीनां बहवोम्बुवेगाः समुद्रमेवाभिमुखाद्रवन्ति | तथा तवामीनर १४ब्) लोकदेवा विशन्ति नाशायसमृद्धवेगाः || यथा प्रदीप्तं दहनं पतङ्गा विशन्तिनाशायसमृद्धवेगाः | तथैव नाशायसमृद्धवेगास्तवापि वक्त्राण्यार्भितो ज्वलन्ति || तत्सर्वमेतत् तदुन्मेषमात्रजातं | यद्भूतं यश्च भव्यं यश्चास्ति वा || तथा च यस्मादन्योन परोस्ति जातोय आविवेश भुवनानि विश्वाः प्रजापतिश्चरति गर्भेरन्तर जायमानो बहुधाविराजते | तस्य योनिं परिपश्यन्ति धीरास्तमिस्तिष्ठन्ति भुवनानि विश्वाः || वेदाहमेनं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् | तमेव विदित्वाति मृत्युमेतिनान्यापन्था विद्यते यनाय || यो देवेभ्य आतपते | यो देवानां पुरोहितः | पूर्वा यो देवेभ्यो जात इति तन्त्रालोके च || किं च या वदिदं बाह्यमान्तरो पायशा स्मृतं || तत्प्रकाशात्मता मात्रं शिवस्यैव परं वपुः || नीलं पीतं मुखं रुखं प्रकाशः केवलः शिवः | अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोपरः || उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः | इदं द्वैतमयं भेद इदमद्वैतमित्यपि || प्रकाशवपुरेवायं भासते परमेश्वरः || अस्यां बूमौ मुखं दुःखं बन्धमोक्षौ चितिर्जडः | घटकुम्भवदेकत्वा च्छब्दास्ते प्येकमेव वा || प्रकाशेप्य प्रकाशांशः कथं नाम प्रकाशतां | प्रकाशमाने तस्मिन्वा तन्द्वैता तस्य लोपिता || अप्रकाशे च तस्मिन् वस्तुता कथमुच्यते | न प्रकाश विशेषत्व मत एवोपपद्यते || अत एव प्रकाशोयमिति वादेत्रमुस्थिते सूरादावादिताः सद्यं विभिन्नज्ञानवादिनः || प्रकाशमात्रमुदितमप्रकाशनिषेधनात् || १५अ) एकशब्दस्य नत्वर्थः सङ्ख्यादिग्व्यक्तिभेदभाक् || ईशशक्तिः परादेवी न परत्राश्नयायतः | न चैषशक्तिमान्देवो न कस्याप्याश्रयोयतः || नैष ध्येयो ध्यातृध्यानध्येयादि वर्जनात्परं पूज्यः प्रजनाभावात् तथा भावन्नपूजकः नदीक्षादीक्षकोवापि दीक्षा वान्परमेश्वरः || स्थानासन निरोधान्घसन्धाना वाहनादिकम् | विसर्जनान्तं नास्त्यत्र कतृकर्मक्रियोचितम् || न सन्न चासत्सदसन्न च तन्नोभयोज्झितं दुर्विज्ञेया हि सा वस्थाकिमप्ये तदनुत्तरम् || इत्यादिनावितत्य वितत्यनिर्णीतं || [हन् परमेष्ठिपादैः] अलं च बहुना || तदेवं सिद्धे परमेश्वरे निरस्त समस्तकारणोपाधि वर्जिते | कः समर्थस्तत्सिद्धो अयं ईश्वरोस्ति | वानास्तीति || एतश्चैत देव सूर्योलोकानां प्रातरुदेति || शृण्वात || अपां निधिश्चायं शश्वद्रत्ना करं इति श्रूयते || तस्मादत्रकोपि सिद्धिनिषेधौ न कर्तृमुत्सहृत इत्यलं || तथा च || अतीतः पन्थानं तव समहिमावात्मान सयोरतद्व्यावृत्त्यायं चक्तितमभिधत्ते श्रूतिरपि | सकस्यस्तो तव्यः कतिविधगुणः कस्यविषयः पदेत्वन्वाचीने पतति न मनः कस्य न वचः || इत्यादिना अथोच्यते || आगमाद्यपि तत्र न प्रवर्तते | प्रमाणानां हि चतुः सख्यानां | आगमान्तानां || अयं घटः | इति प्रत्यक्षं घटोयं न घटभावः | प्रत्यक्षत्वात् | पटादिवत् || इत्यनुमानं घटसामान्यसदृशोयं घटह् | तत्क्रियाकारित्वात् || १५ब्) इत्युपमानम् || भो आप्तकिमिदं द्रव्यं नाम यदेतत्प्रत्यक्षतामेति | तस्य च प्रतिब्रूते || गटोयं घटोयं घटोयमिति | तत्क्रियाकारित्वात् || अयं च घट इति शिक्षय यथा नवैपरीत्येन घटकार्ये पट इति कस्याप्यर्थ आनयिष्यसि || इत्येवं घटकार्य एव चतुष्प्रमाणानियावत् सिद्धिमुत्सह्यन्ते नातश्च परत्र दुरादौ || अथचारोग्यकामाः शिवां सेवन्तां सेवध्वमित्यनेन भवतु वा न नैरोग्यमित्यागमः || तद्योयं प्रमाण प्रमेयादि व्यवहारः | सतुघटोयं | पटोयमित्यत्र चतुष्पंच पदादौ || तद्यतोवाचो निवर्तन्त अप्राप्यमनसासह्यत्योदिना प्रमाणादिभिः सिद्धिं वनिषेधं कर्तुं चालमित्यलमतिमंतृ न भाषाभिः || महात्मना प्रमादोपिमर्शनीयो हि सादृशैरित्यलमति विस्तरेण || यानि च सर्वाण्येवसारशास्त्राणि सृष्टिस्थिति लयोस्पादकानितानि सजण्येव तत एव प्रारुर्भवन्ति | तान्येव च तत्सिद्धिनिषेधौ कर्तुं कथमुत्सह्यन्ति अनन्वयादर्याप्तेश्च || तथा च || दशाष्टादशवस्वष्ठभिन्नं यस्फासनं विभोः | तत्सारंत्रिकशास्त्रं हि तत्सारं माणिनीमतमित्यनेन पंचब्रह्ममुखाश्चतुः षष्ठि तन्त्रप्रादुर्भावः || तेपि च कथं तत् स्वभावं प्रादुर्भावयन्ति || [तत एव प्रादुर्भावात्] इत्यत्र भूतविभत्या नित्येश अत एव | आदि सिद्ध इत्यर्थः || कर्त्तरि | ज्ञातरि || १६अ) कर्ताज्ञाता महेश्वर इत्यभिधानेन | घटोयमितिवत्प्रत्यक्षतां यायात् || अयं ईश्वर इति | तत् भूत विभक्त्यैव हि नित्यशः कृत इति || अथ च ज्ञातं कर्ता महेश्वर इत्यादिना | यैव हि ज्ञानशक्तिः | सैव च क्रियाशक्तिः || ज्ञानपल्लव स्वभावैव हि क्रिया || यज्ज्ञानं सैव क्रिया या क्रिया | तदेव ज्ञानमिति || इत्यनयोन्बीजाङ्कुरवदुपस्थित्यानाप्यत्र क्रमः || तस्माद नवद्यं सर्वमिदं || तेन चायं द्वितीय श्लोकोपि निरवद्य एवेति भावः || २ || नन्वेवं विधे परमेश्वरे सिद्धे चिदात्मनि विश्वावभासके || ततस्तु सर्वत्र चराचर स्थिरास्थिर नीलपीतादि जगद्वैचित्त्रेहमिति स्वरूपेण भासमानस्स एव सर्वत्र सर्वास्वदशासुप्रकाशमानस्सन् | तत् किं नेन्द्रियैरनुभवपथमेति | अयमीश्वर इत्यनेनानुभवेन घटोयमितिवत् || सर्वं खल्विदं ब्रह्मेत्यादिनां सर्वत्र तस्यैव प्रवर्तनात् || प्रोच्यते || इत्याह ऋ/ किन्तु मोहवशादस्मिन् दृष्टेप्यनुपलक्षिते | शक्त्याविष्करणे नेयं प्रत्यभिज्ञोपदर्श्यते || ३ || शारीर *? का यां? क भाष्ये तु || पश्वादिभिश्चा विशेषात् || यथा हि पश्वादयो हरि ततृणपाणिं नरं दृष्टा | तत्सामीप्यमायान्ति यान्ति च | परस्परव्याप्ति विशेषात् || तमेव च दण्डपाणिं पुरुषं दृष्ट्वा तस्मात् पलीययतरं? गच्छन्ति? अव्याप्तेश्च || एवं पश्वादिभिर्जीवानामविशेषः || व्याप्तौ प्रवृत्तेः | अव्याप्तो चा प्रवृत्तेः || एवं च माययापहृतज्ञानश्च स्वरं भावमाश्रिता इत्यादि ना च मुषित पारमार्थास्सन्तः || ततश्च || नत्यां कीट इवा वत्तादावर्तान्तरमाशुते | व्रजन्तो जन्मनोजन्म लभन्ते नैव निर्वृतिम् || इत्यादि जन्मजन्मान्तरमाश्रित्य १६ब्) नैव निर्वृतिं लभन्त इति || ततश्च || सत्कर्मपरिपाकान्ते करुणानिधिनोद्धृताः || प्राप्यतीर तरुच्छायां विश्राम्यन्ति यथा सुखमित्यादिना || केनापि कृपालुनानद्यावर्तादाकृष्य | ततश्च तरुच्छायामासाद्य सूर्यकिरणोदये यथा विश्राम्यन्ति | तथा केनापिस्तरुणादत्तो पदेशादिनाचैते विश्राम्यन्ति | इतिदाष्ठ्रान्तिकयोजना || इत्यनेन पारमेश्वर तत्वे सर्वदाभातभासमानरूपेपि || सोयं वा मनदर्त इत्यादिवत् || अहं करोमि | अहं गच्छामि | अहं पश्यामि | इत्यादिना च चक्ष्वारिन्द्रियाग्नौ ह्योप्यसौ | मायया विद्यया राहुग्नस्तहिमांश्तवदभ्रमण्डलास्फादि तरविमण्डलवश्चा प्रत्यक्षोसौ महशुपाधिना || किं तत्र हिमांश्तन्नास्ति | किं वा तत्र भास्करो शृष्ठेन्नास्ति || तथा च साङ्ख्याः || अतिदुरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानात् | सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिघाताश्च बाह्यप्रमेयानुपपत्तिः || तत्राति दुराद्यथा || वियतिपतत्त्रीचोदीयते || अतिदूरतया सन्नपि न दृश्यते || किं तत्रयियति | पतत्त्रीनास्ति || सामीप्याद्यथा || लोचनस्थमञ्जनमतिसामीप्यान्नदृश्यते || इन्द्रियघाताद्यथा || अन्द्धत्व बधिरत्वादेन्नदृश्यतेनापि शृणोति | मनो नवस्थानाद्यथा || कामाद्यपहृतमनः न दृश्यते नापि पश्यति || सौक्ष्म्याद्यथा || क्षीरे घृतं || व्यवधानाद्यथा || कुड्यादिव्यवहितं राजदारादि न पश्यति || अभिभवान्यथा | दोहनेनसौरभीयेषु पयसः || समानाभिघाताद्यथा || इक्षौ शर्करखण्डमधुरादयः सर्वे मधुरभेदाः परणमन्ति || इत्यनेन हिते सर्वे तत्रामृष्ठेः प्रत्यक्षतया न सन्ति | परं रूपाधिवशाच्च्छन्नाकथन सन्तीति प्रकटोयं प्रवादः || एवं च माया परिग्रहवशाब्धोधोमलिनः पुमान्पशुर्भवति || इति पर्मार्थसारे || यथा राजायोद्धं गतः || इत्यहन्निशं १७अ) दृष्टेपिराज्ञि गृहबहिर्गमनाददृष्ठ इवेतिकोविरोधः || एवं हि | ननुप्रत्यभिज्ञा न दर्शनमपि तत्प्रतारकतामात्रमिति निश्चयः || मैवम् || अत आह च || शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते || इति || ज्ञानं क्रिया चेति द्वेशक्ती || हंसस्येव द्वौपक्षौ || प्रसिद्धे || तयोराविष्करणेन प्रदर्शनेन कृतलक्षणादिना प्रत्यभिज्ञा प्रदर्श्यते || कुर्म इत्यर्थः || कथं ज्ञानशक्तिः || कथं वा क्रियेति निर्देश एवतन्निर्देशः | तस्य च निराभासात्मकत्वेन कृतेपि तल्लक्षणोपाख्याने निराश्रयत्वाद्विरोधापत्ति प्रसङ्गाश्च व्याघातादि दोषप्रवृत्तेश्च || तथा च || विकल्पो निर्विकल्पस्य स विकल्पस्य वा भवेत् || आद्येव्याहृतिरत्यत्रानवस्थात्माश्रयादय इति || तस्याप्यन्यस्तस्याप्यत्य इत्यनवस्था पातः || एवमप्यनवस्थास्याद्यामूलक्षितिकारिणी || सविकल्पस्य विकल्प इत्यनेन चापरत्र चक्रकादि प्रसङ्गात् || पूर्वस्य पूर्वापेक्षितमध्यमापेक्षितोत्तरापेक्षित्वं चक्रकम् || यथा स विकल्पस्य विकल्पस्था विकल्पेन वर्तते यस्समविकल्प इत्येत्र || अथ च निर्विकल्पगुणादि कथनविधौ चानाश्रयत्वेनाश्रया सिद्धत्वादि विरोधाश्च यथा || आश्रगा सिद्धस्तु || गगनारबिन्दं सुरभि | अरबिन्दत्वात् || मनौजारबिन्दवत् || इत्यादिवन्निर्वषय वादादिनामौननस्थातव्यमिति भावः || ध्याने वा कुर्मवदुपस्थित्या संकोचंदङ्गादिनामौनेन स्थातव्यमित्यलमति विस्तरेण || यतो वाचो निवर्तन्त इत्यादिना च || तथा अतीतः पस्थानं तव सम हिमावाङ्मनसयोरतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि | सकस्यस्तोतव्यः कतिविधगुणः कस्यविषयः पदेत्वन्वाचीने पतति नमनः कस्य नव च इत्यादिना च || तज्ज्ञानक्रियाशक्ति द्वयप्रकाश एव गुणादि कथने न तत् प्रकाश इति सिद्धोयमुपदेशमार्गः || ३ || ३ || ३ || तदेव च प्रदर्श्यते || ३ || ३ || ३ || ३ || १७ब्) इदानीं यदे तत् प्रोक्तं | परमेश्वरे स्वतः प्रकाशमानेपि | मोह्यतिमिरस्थरि | बुद्धिप्रयोगेन ना भाद्येव || तदेव च प्रकाशयति युगलेन || ओं तथा हि जदुभूतानां प्रतिष्ठा जीवदाश्रया ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतं || ४ || ओं तत्र ज्ञानं स्वतः सिद्धं क्रियाकायाश्रितासती | परैरप्युपलक्ष्येत तयान्य ज्ञानमूह्यते || प तथा च दर्श्यते | रु *?रु भूतानां नीलानीलस्थलास्थूल घटपटतटादीनां प्रतिष्ठा | स्थितिर्जीवदाश्रया | जीव एवाश्रयो यस्याः || तथा हि || अहं पश्यामि | अहं भुञ्जामि | अहं गच्छामि | अहं शृणोमि || इत्यादिनायो व्यवहारः स तु चिदामाश्रय एव || अहमित्यारोहेणाहमित्यत्र च विश्रान्तेः || तं विना प्रमेयराशेः पाषाण प्रख्यत्वेनानित्येशत्व प्रसङ्गात् || न हि निर्जीवं किंचित् वाप्युपयुक्तमितित्यायात् || उदयं | एतत् | इदं | स इत्यादिनाया स्थितिस्सा जीवदाश्रयेति सिद्धं || तद्विनास्वरूपा सिद्धेः || यतश्च | अहं पश्यामि | अहं जानामि | एतदहं निश्चनोमि || यन्यत्राहमिति स्वस्वरूपेण भासमानोध्याताकश्चिन्नस्यात् तत् क एवं वदेत् || अहं पश्यामीद्यादिना || तत् सिद्धमेतज्जीवदाश्रया जडप्रतिष्ठेति || जदुंप्रति च जडस्यं ज्ञानज्ञेयादिव्यवहारात प्रवृत्तेरिति हि स्थितम् || अत एव च ज्ञानं | अहं जानामि || क्रिया च | अहं करोमि | इत्येवमुभेज्ञान कर्मणी | जीवतां जीवयुक्तानां स चेतनानां | भूतानां चराचराणां | जीवनं || जीव एवमतमिति | तद्विना व्यवहारा निष्पत्ति प्रसङ्गात् || सर्वोयं भावराशिन्देह वचश्रयी भूतस्सात् | आश्रयिणमपेक्ष्यत इत्यत्र कोयं वितर्कः || ४ || १८अ) एतदेव च युक्त्यादर्शयितुमाह || ओं तत्र ज्ञानं स्वतः सिद्धं क्रियाकायाश्रितासती | परैरप्युलक्ष्य ततयात्यज्ञानमूह्यते || ५ || एतश्च पूर्वमेवप्रतिपादितं || जानाम्यहं घटः | करोम्यहं क्रियाः || इत्येवं सिद्धे || तस्मात् परैः अन्यैरपि चोपलक्ष्यन्त एव || अयं जानाति | करोति चायमिति वा || इत्यत्र कायुक्तय इति सिद्धम् || लोकेपि चायं व्यवहारोन्यैरप्युपलक्षित एव || यथा || राजानुज्ञया तत् कार्यार्थं प्रेषित * *?स्सन् | तत्पदं प्रत्यनुगच्छति || तत्पदं च प्राप्वा तत्र तत्र तत् तत् कार्यादि विधाय पुनरप्य गच्छति || तत्र च गमन क्रियया | तत् तत् कार्यं निर्वाहादिज्ञानेन च राजकार्यं विधाय | एवं कार्यं | चैवं नेति विधिना | पुनरप्यागत्य राजसामीप्यं प्राप्त्वा | राज्ञे निवेद्य | इत्थं कृतमकृतं वेद्यादिना | तत्पुनरुद्यमी पुरुष व्याघ्रश्चासौ | इत्यादिस्तु स्या प्रस्तुतश्च || इत्यत्र स्वानुष्ठितोयं ज्ञानक्रिया व्यवहारः परैश्चोपलक्षित इति भातभासमान रूपोयं लोकव्यवहारः सिद्धः || तत् तत्र ज्ञानं स्वतः सिद्धं क्रियाकायाश्रितासतीत्यादि सर्वं सिद्धं निरवद्यमेवेति || इत्थानवेनायमुपोद्घात इति प्रसिद्धः || कृतलक्षणश्चास्मत् परमेष्ठिपादैः पूर्वमेवेति || सर्वशास्त्रार्थ निश्चयोय तवभासते | तदुपोद्घात इति प्रथितः || तथा च || उदिति शास्त्रस्योब्ध एव | उदिति परमेश्वर समीपेह्यन्यते प्रमेय विशयो व्यामोहोयने || अथ गम्यते ज्ञानं वा | इत्यादिना च || तदियं पंचश्लोकी श्रीमदाचार्यमुखनिर्गता सर्वशास्त्रार्थ प्रयोजना || १८ब्) तथा च || उप इति परमभक्तिदार्ढ्य प्राप्तपरमेश्वर समावेशा पत्या | उत् उत्पन्नः | घातः | इदन्तापन्नस्य सर्वस्यास्य प्रमेयराशेरित्युपोद्घातः || १ || अथ च || उप परमेश्वर समीपे | उदिति | उत्पद्यते | घातः गमनं || २ || अथवा || उप | ईश्वरात्मसमीपे | उत् | उत्कर्षोहन्यते विश्राम्यते येन || ३ || उपपरमेश्वर समीपे | उदिति | ऊर्ध्व एव शास्त्रादौ प्रमेयराशिमयो मोहोहन्यत अपसार्यते येन || ४ || उदिति परमेश्वर समीपे ज्ञायते प्रमेयायां स्वस्वरूपमिति || ५ || गत्यर्थत्वा द्वाहन्तेः ज्ञानमर्थो ज्ञायत इत्यनेन ये गत्यर्थास्ते ज्ञानार्था इति स्त्रियं हन्तीत्यत्र स्त्रियं गच्छतीति || इत्ययमुपोद्घात इति कृतलक्षणोमुक्तिद्वारमार्ग इति सिद्धः || तथा च || स्वपदा स्वशिरच्छायां यद्वल्लङ्घित्तमीहते | पादोद्देशेशिरोनस्यात् तथेयं बैन्दवी कला || १ || शैवी मुखमिहोच्यते | इत्यादिना च || शास्त्रसारमुखयुक्त्या मुक्तिद्वार एवायमुपोद्घात इति सिद्धः || वयमपि तदुपदेशानुभवाभ्यास पटवश्चाप्त तत्परमार्थाश्चादि श्लोकेनैव तत्सत्गत्या परमोपोद्घात इत्यादिना व्यवहृयाम इत्यादिशन्ते || तत एव च पंचश्लोक्या अपि परमार्थ सङ्गतेः || यथा सर्वशास्त्रपरमार्थस्य पंचश्लोकपाधादनुभवानुभवः || तथाद्य श्लोकेन पंचश्लोक परमार्थप्रकाश इति सर्वमन इति श्रीभट्टारकानन्दरचितायां प्रत्यभिज्ञाकौमुद्यां द्वितीयमाह्निकाम् || [+ * * *? किं कथ्यते मया || तिमिरादपितिमिरमिदं गण्डस्यपरि महानयं स्फोट इत्यादि वदयं वदस्म आत्यश्लोकेन सर्व एव प्रबुद्धा प्रबुद्धस्वप्रबुद्धादयस्तादात्त्यतदापत्ति परम प्रकाशस्वरूपास्तत् स्वभावद्योतिनस्तत् स्वभावाश्च नकश्चिदन्यः | वेदकवेदं नवेत्यादि स्वरूपः इति सर्वे तत्पदार्थ ढाः कथं चिदासाद्य महेश्वरस्य दास्य मित्यनेन स्वमत्मलश्लोकेन | ततो द्वितीयेन कर्तरि ज्ञातरि स्वात्मन्यादि सिद्धे महेश्वर इत्यादिना | तयान्य ज्ञानमुह्यत इत्यत्येन श्लोकचतुष्केण न कोपि वेदितुं समर्थो वा प्रबुद्धः वा बुद्धः | वा स्वप्रबुद्ध इत्यादिना चैकेनास्य मार्गेणैकधा किंचित् | अथैकधा च किंचित् | इत्यत्र महान्हासय य *? दिष्ठानामपि | असदृत्यसत्यतया पादनं सत्यस्य चासत्यतया पादनं च | तत्रेतन्नप्रमाणं | इत्यत्रसर्वत्र प्रतारकता *? त्रमेव || अत्रब्रूमः || सर्व एव तत्पदप्राप्ता एवेति यत्योक्तं | वाप्रोच्यते च सर्वस्य स्वात्मा महेश्वर इति सर्वोस्वात्म स्वर्थपा एव, घटो मटत्पना वेत्तीत्यादिना यस्मत्सर्वमयोजव इत्यादिना च | तत्सर्वं सत्यमेव नप्रथारकता मात्र || तथा हि | यथा पादे पादागतस्य सर्वो मृ *? दृसश्य मनुभूय | जानतः पारदेशेयं तत्पृष्थश्च तत्तन्निक्ले? कर्णयं ? दताम ? तदुदज्ञानवतां च ज्ञापयन् आप्त इत्युच्यते || अयं पारदेशोयनिर्णयी | करमृल?वत् || इत्येवं तो पूर्वे गुरवोपिता चात्म्य तत्स्वरूपाविष्ठास्तत्तन्निर्णयान्ब्रुवन्ति | तियेव साद्य श्लोकः सिद्धः | ततश्च तत्परं | यदस्ताभिन्दृष्ठ पूर्वं परम पदं तश्च कश्चिदपि नजानाति | नापि ब्रूयात् | जानाति च पुरस्तात् | यदा मोहं *? गलति | इत्यनेन श्लोक चतुष्केण | कर्तरि ज्ञातरीत्यादिना | आदि श्लोकेन च | ज्ञातमस्माभिः | एवमेव शिवादि भूमिपर्यतं सृष्टि स्थिति क्रमं तत्ब?रूपतया वेद्यवेदका भावरहितं परमं शान्तं निर्विकल्पं शिव तत्द्वमिति सिद्धण | भवतामपि शिष्याणा अपदे च मार्गेणा सादयामीति भवन्तोपि तत्यैप्राप्ताः प्रापयामीति शुभं ||] १९अ) अथेदानीं परमेश्वरं ज्ञानक्रियात्मकं शक्तिद्वयेन दृढी कृत्य तत्र ये त्वन्ये पूर्ववृद्धाबोद्धादयश्चोष्णीशान्कुटि?लान्दक्षिणतो निधाय | स्वमतदृढीकरणाय | परमेश्वरं स्वात्मरूपं मेघमायाच्छादित भास्करमण्डलवन्नास्तीति वादिनो देव प्रियाः शरीरेन्द्रिय प्राणादिभिः स्थगयन्ति | शरीरमात्मा | वा प्राणः | वा बुद्धिः | वा नभ इति वदन्तः तेषामिदानीं | मल्लानामिव भुजदण्डान्संपाद्या || भूमावुप शाध्य च | स्वमतं शैवाभिधं चिदात्मानं स्वप्रकाशरूपं दृढी कर्त्तुमाह || [मादोमन्दनाय तन्मतमुत्थापयि तु] ओं ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः | साभिलापं विकल्पख्यं बहुधानापि तद्द्वयं नित्यस्य कस्यचिद्द्रष्टस्तस्यात्रा नवभासतः | अहं प्रतीति रप्येषाशरीराध्यवसायिनी || ७ || नन्विति पूर्ववृद्धबोधवृद्ध प्रश्ने || अहोशैवाः || बोद्धाः खलुवयं लोके सर्वत्र ख्यातकीर्तयः विकल्पमात्रशब्दार्थ परिकल्पन पण्डिताः || यश्च सर्वस्य स्वात्मा महेश्वर इति प्रोच्यन्ते | तत्पीतमध्वादिरसोन्मत्तचित्ततया | वासावधान मनस्कद्वेन || यद्यत्राद्यः | तत्फलं भवत्भाषाभिः || ताश्चोन्मत्तवदुपेक्षणीया इति || अथापरेण || दॄष्टायं | श्रोतायं घ्रातश्चायमिति यः स आत्मापरमेश्वर इति || तत्रापि च मनः | अथ बुद्धिः | अथाहङ्कारः || वा शरीरं | वा प्राणः || वा कल्पितं नभ इति || चेतयतीति चित् आत्मा मनः वा बुद्धिः || निश्चयात्मिका || सर्वत्र साक्षिभूता || इयमात्मेति कृत पूर्वनिश्चयात् || १९ब्) इयमात्मा परानन्द इति || तत्सैवास्तु परमेश्वर इति किमात्मना || अथ च || यद्यात्मानामकश्चित् स्यात् || तर्हि किं न लक्ष्यते | दर्शनाभावान्नास्तीति || नासतो विद्यते भावोना भावो विद्यते सत इत्यादि भगवद्वाक्य दर्शनात् || अथ च || यत् सत् तत् सदिति प्रोक्तं यदमत्तदसत्परं | घटोस्ति भूतले चान्यद् घटोनास्तीति चान्यथा || तद्यद्यात्मा स्यात् तत् हृद्रक्ष्यत् || दर्शनाभावास्तीति || तस्माज्जगति व्यवहारोयं स्फुटः || इहस्व लक्षणाभासं ज्ञानं निर्विकल्पाख्यं || साभिलापं विकल्पाख्यं चापरं स विकल्पाख्यं च || तेन द्वयेनैव च व्यवहारसिद्धिः || तथा हि दूरात्कश्चिदागतः सन् दृष्टोदूरतः कश्चिदयं साकार इति || तदनुकश्चित् | वा किंचिदिदं निश्चिनोति च || तदनु किंचित्समीप्ये प्राप्तः | सोयं वा न | वा कश्चिदिति च || तदनु च निकटतरं प्राप्तौ मनां स एवायं | नान्य इति वदति च || उति निर्विकल्प ज्ञानं | तदनु शिक्षादिशूत्वातस्मादयममुकजात्या | अमुकवर्णेन च सर्वलक्षणकल्पनया स विकल्पेन च गृह्य त एव || मनसा | तथा बुद्ध्या च | तथा दाविन्द्रियादिभिश्चेत्ये तदेव व्यवहार सिद्धेर्हेतुतया ज्ञानयुगलं मन आदि सह एतत्युगं विनानात्मादि किंचित् || अयुक्तेश्च [+अनवभासतः] || छूरि च || २०अ) तथा हि || भेदेन प्रतिभासादन्य परत्वादभेदवचनानाम् व्यवहार विप्रलोपादद्वैतकथा कथामात्रमित्यादिना || तदनेन सिद्धं | आत्माकश्चिन्नास्तीति || ७ || इदानीं त एव बौद्धवृद्धाः शैवान्प्रति परस्परसंवादमात्रेण प्रतिवदन्ति सिंहावलोकित भ्याययुक्त्या || ओं अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी | कथं भवेन्ननित्यः स्यादात्मा यद्यनुभावकः || ८ || भो शैव || चेत्प्रश्योसे || भवन् मतेन चेदात्मानस्यात् | तत् ह्यनुभव विध्वंसे संजात सति | यथा घटोयमिति सृष्ठ प्रत्यये सति | प्रत्यक्षे | तदनन्तरं च यः पूर्वं मया दृष्टो घट इति | पूर्वं दृष्ट आसीत् | स एवेदानी मनुभवसंस्कार वशात् स्मरण पथमेतीतिस्मरणानुमान ज्ञातं चाभात्यस्य | सामेमातेतिवत् | इत्यनेनानुभवेनष्ठे पूर्वप्रसिद्धे || तत्सांकारमात्रात् स्मरणे | तदनन्तरं च सिद्धे को हि नामस्मरणानुभवज्ञाता यद्यात्मा हि न स्यात् || अहं जानामि | अहं करोमि | अहं पश्यामीत्यादि व्यवहृतेरात्मन एव || तं विनानापि कश्चिच्छरीरादि प्रमाता चिद्रूपो जदु इत्थं कर्तुं शक्नुयादित्यनेनात्मा कश्चिदस्त्येवेति शैवमतदार्ढ्यमेवनापि बोद्धवृद्धास्तदा भासमात्रेणापि वकुमलमिति || तथा च स्पन्दे जाग्रदादिविभेदेपि तदभिन्ने प्रसत्पति | निवर्तते निजान्नैव स्वभावादुपलब्ध्यत इति || तथा च || शब्दस्पर्शादयो वेद्या वैचित्र्याज्जागरे पृथक् २०ब्) ततो विविक्ता तत्संविदैक्य रूपान्नभिद्यत इति || तदयमात्मानामप्रमाता प्रमेयादिङ्नाहक इति कथ्यते || ८ || इत्येवं सिद्धे वृद्धाः प्रत्याहुः || ओं सत्यस्यात्मनि दृङ्नाशात्तद्द्वारादृष्टवस्तुषु स्मृतिः केनाथ यत्रैवानुभवस्तत् पदैव सा || ९ || भो शैव || भवदात्मनि सत्यपि किं तेन || पूर्वं हि घटोयमित्यनुभवै जाते | पश्चात्तन्नाशे च जातेसति || पूर्वघट विस्मृतौ सत्यां तत् संस्मृतिः | केन हेतुना || केन प्रमात्रा ज्ञात्रा वा केन च प्रमेयेणेति वितर्कः || पुनरप्याहुश्च वृद्धाः || अथेति भो शैव || यत एवानुभवस्तत्पदैव || घटोयमिति योनुभवस्तत् पदा सा स्मृतिः || यापीयं मातानुभविता | सा स्मरण पथमेति सामेमातेतिवत् || यतो हि पूर्वानुभवसंस्कारात् स्मृति संभव इत्युक्तम् || १० || अतश्चाहुर्वृद्धाः || ओं यतो हि पूर्वानुभवसंस्कारात् स्मृति संभवः || यद्येवमन्तर्गर्त्तनाकोर्थः स्यात् स्थायिनात्मना || १० || तद्यद्येवं यत्रैवानुभवस्तत् पदैव हि सा स्मृति रित्युक्तं प्रोच्यते च || तदनुभवमार्गोयं स्मृस्यादि कार्याणि निर्वाहयितुं समर्थोस्तु | किं च तेनात्मना || एवं च सिद्धे तु व्यवहारमात्रे | अन्तर्हृदि यथा गडुराया सा यैव महद्द्वः खदानायैव || मारितोहमनेनान्तर्दुःखेन इत्यादिनाकोर्थः स्यात् किमपि न तेनात्मना || परं तु किं करोमीति दुःखं || २१अ) तस्माश्च तत् सत्तया वा सत्तया न किमपि प्रयोजनादि || यथा कश्चिद्वक्ति || आकाशोस्ति | देवाः सन्ति || मनुष्या भुञ्जन्ति || इत्यादयो यथोन्मत्तवदुपेक्षणीया इमे भावाः तद्वदात्मास्तीति न बुद्धिपदमारूढुं समर्थ इति हित्रजध्वं तच्छङ्का मात्रमपि || १० || तस्मात् यतश्चैतदत एवैतत् || इत्याहुः || ओं ततोभिन्नेषु धर्मेषु तत् स्वरूपाविशेषतः | संस्कारात् स्मृति सिद्धौ स्यात् स्मर्ता दृष्टेवकल्पितः || ११ || तस्मादेव संस्कारानुगुणगणेषुधर्माषु सत्सुभिन्नेषु चात्मनः | आत्मनः स्वरूपस्या विशेषात् | विशेषदाना भावात् || तदनन्तरं चानुभवसंस्कारात् स्मृति सिद्धौ सत्यां यथा दृष्टा पूर्वोक्तलक्षणोपि कल्पित एव | तथैव च स्मर्तापि कल्पित एवेति कल्पनाभिः कल्पित इति सिद्धम् || तथा चास्मद्गुरुवरपादाः || अनुभवेन हि संस्कारोहगन्यते स्वोचितः || संस्कारश्च प्राक्तनरूपां स्थितिं स्थापयतीति || यथा कृष्टशाखादेश्चिर संवर्ति तस्य विवर्त्यमानस्य च भूर्जदेः || आत्मनोधर्मास्तु || बुद्धिः || मुख | दुःख | इच्छा | द्वेष | प्रयत्न | धर्म | अधर्म | संस्कारा इमे गुणा | आत्मनः || ११ || इदानीं बोद्ध वृद्धैश्चात्मनः कल्पितत्वमापाद्यतेन चानित्यत्वादि धर्मानारोप्यात्मनः स्वरूपे विशेषा भावादित्यादिना | अथ च तच्छक्ति द्वयमपि ज्ञानक्रियात्मकं कारणाश्रया भावे | कार्याश्रया २१ब्) भावादिति तदपि ज्ञानक्रियात्मकं युगलमप्रमाणीं कर्तुं तदपि निराकर्तुमाह || ओं ज्ञानं च चित्स्वरूपं चेत्तदनित्यं किमात्मवत् | अथापि जदुमेतस्य कथमर्थ प्रकाशता || १२ || ज्ञानक्रिये हितद्गुणे | तस्मादात्मनो गुणिनोभावाद्गुणा | अपि न विद्यन्त एवेति सिद्धम् | अत आत्मनो धर्मयोगेनानित्यत्वप्रसङ्गात् | अतस्तद्गुणयोरप्य नित्यत्वप्रसङ्ग इति व्यातिरेव गुणगुणिं स्ममयायादिति || तयोश्चा भेदादिति || एवं चिद्रुपस्य स्वात्मनो यथा धर्मयोगादनित्यत्व प्रसङ्गः || तथा तद्गुणयोरपि परस्पराभेदात् || तथा नित्यत्वे सति जात्यादि दोष प्रसङ्गात् | आत्मतद्गुणयोरप्यनित्यत्वप्रसङ्गात् || तदेवं जात्ये सति | प्रकाशमानता कथमस्य वा तद्गुणयोश्च अनित्यत्वजाद्यत्वे सतिपाषाणप्रख्यत्वादितिकोयं विदृद्धधर्मापत्ति प्रसङ्गः || एवं हि ज्ञानस्या नित्यत्वेन जाद्यत्वे सति कथमर्थ प्रकाशता स्यादात्मवत् || ज्ञानं हि चित्स्वरूपं || अनित्यत्वे सतिः धर्माधर्मादि गुणत्वात् | घटादिजडवत् || इत्यनया व्याप्त्याहं जानामि वाहं कन्निमीति वृद्धवारः कथ सिद्ध्येत् यस्तु घटादिवज्जडः सकथमिति || इत्येवं वृद्धबौद्धव्याप्तिः || यतश्चैते विकल्पमात्रशब्दार्थ परिकल्पन पण्डिता इति निश्चिताः || [तथा च बौधाः खलुवयं लोके सर्वत्रख्यात कीर्त्तयः | तत् तद्विकल्प शब्दार्थ परिकल्पन पण्डिता] एवं ज्ञाने सिद्धे | तत्पल्लव स्वभावात्क्रियायास्तामपि निवारयितुमाह || ओं क्रियाप्यर्थस्य कायादेस्तत् तद्देशादि जातता | नान्यादृष्टेन्न साप्येका क्रमिकैकस्य चोचिता || २२अ) इह हि पचति देवदत्तः || आयाति वामनदत्तः || याति च लोहितोष्णीयोविप्रः || इत्यादौ | तण्डुल | इन्दन | वह्निपाकादि क्रमेणक्रियानेका | गृह गत देवदत्तस्वरूपाद्बाह्य देशगत देवदत्तस्वरूपमित्येता व देवलभ्यते || अथ च देवदत्तो गृहेस्ति | बहिन्नास्ति | वा बहिरस्ति | गृहे च नास्त्येता वदेव हि क्रिया मात्रं लभ्यते | नत्वन्यत् किंचित् | अदर्शनात् | न चासौ क्रियानाम | वा ज्ञानं कस्यापि ज्ञानिनः | जडाजडस्वभावात् क्रमिकस्य विद्यते || यतः सा चैका | अनेकस्वभावा | तत्परं च निष्क्रियस्यात्मनोन विद्यत एव || एकस्यानेक स्वभाव विरोधापत्ति प्रसङ्गात् || इत्येवमनेनात्माभावे सिद्धे | आश्रया सिद्धत्वेन चाश्रयय सिद्धत्वे च सिद्धे | तदनन्तरमेव पुनरपिस्थणानिखनन्यायेन तदेव दृढयित्तमाह || १३ || ओं तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते | नान्यन्नान्योस्ति सम्बन्धः कार्यकारणभावतः || १४ || एवं हि तत्तन्मृदादि पिण्डे सति | तत् तद्घटादिभवत्येवा वश्यकतयानान्यत् || इति व्याप्तिन्निश्चिता | तन्मृदो घटः | तनुभ्यश्च पट इति परमेश्वर नियति तत्वेन कृतोय क्रमः न चान्यत् | मृदः पुष्पादीनि वा फलादीनि चेति || नापि च तन्तुभ्यो घटादीनि | वा तिलतैलादीनि चेति ह्यव्याप्तिः | वातिव्याप्तिश्च || नापि चात्रेश्वर ज्ञानक्रिययोः कार्यकारणभावाद्यते सस्वन्द्धोस्त्यन्यः || येन वै २२ब्) परीत्यमपि प्रसज्येतेति नस्यात् || तस्मादेवमेव सिद्धोयं क्रमः क्रमिकानामन्वय व्यतिनेकेन नियति तत्वदार्ढ्यमापन्नः सिद्ध इत्याह || १४ || ओं द्विष्ठस्यानेक? रूपत्वात्सिद्धस्यान्या न पेक्षणात् | पारतन्त्र्यादि योगाश्च तेन कर्तापि कल्पितः || १५ || द्वाभ्यां तिष्ठतीति | वाद्वयोस्तिष्ठतीति द्विस्थः | मल्लयोरिवद्वयोः || वाहस्ततदयोः || वा परशु हस्तयोश्च || तयोश्च द्वित्वेनानेक रूपत्वात् एकस्य हि द्वितीयेन सम्बन्धेनेक विधत्वात् || तथा च परात्रिंशिकाया *? कायां श्रीमदभिनवगुप्ताचार्य कृतायाम् || अधोधोविनिविष्टेषु भेद संख्येषु धामसु | एकं बिन्दुरथांपि प्रागन्येषु प्राक्तनान्त्यगाम् | स्वपृष्ठगां च तां सङ्ख्यं विनिविश्यैकतः क्षिपेत् इत्यादिना || अनेन || एक दश | शत | सहस्र | अयुत | लक्ष्य | दशलक्ष्य | कोट्यादि | परार्धान्ताचैकस्मिन्नेव प्रवर्धते || अतोमूलस्तम्भ भूत एक एवासौ प्रणववदुपस्थित्या सर्वत्रचातुर्वेदादिषु || इत्येवं दाद्धान्तिके शिवस्यैकस्य द्वितीयशक्त्या सहजच्छाय येव सम्बन्धे सति चानेकता सिद्धा | सत्येकत्वे चैकत्वं सर्वत्र प्रसिद्धं | न तत्र सूर्यो भाति न चन्द्रतारकं ने मा विद्युतो भान्ति कुतोयमग्निः | तमेभान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातीति || २३अ) अतोद्विष्ठस्यानेक रूपत्वादिति सिद्धम् || अथोश्यसे अनयोर्द्वयोः पूर्वसिद्धोयं सम्बन्धो नाम || तद्यदिस्यात् तर्हि | अन्यापेक्षा न स्यात् | स्वातन्त्र्यात् || अतोन्यापेक्षया स्वातन्त्र्यं विहाय पारतन्त्र्यादि सम्बन्धोपि परमेश्वरस्य || तदेभिर्गुणैकर्त्ता कल्पित इति सिद्धः || निर्मल आकाशे चैकस्मिन्ननेक सितरक्त नीलकृष्णादि भेदकल्पित त्वात् || तदनेनात्मानामन कश्चिदिति सिद्धम् || परं तु निर्विकल्प सविकल्पात्मक ज्ञानद्वयेन सिद्धोयं व्यवहारमार्ग इति किमनेन संशयमार्गप्रवृत्तेन कष्ठेनात्मास्तीति व्यापारमार्गेणेत्यलम् || १६ || इत्यनेन पूर्वपक्षेण वृद्धबौद्धानां स्वपक्षस्थापन स्थितिः सिद्धा || अन्यत्र च शामे अहो शास्त्राणि व्यर्थानि चतुर्वेदाश्च वा तथा | मीमांसात् तत्कशास्त्राणि योगवेदान्त दृष्टयः || १ || अष्टादश पुराणानि तदङ्गानि च नित्यशः | साङ्ख्यादीनि च शैवादि रहस्यानि यथा पदं || २ || सर्वाण्ये तान्यात्म मूलाश्रयाणि प्रवदन्ति च आत्मैव || तद्गुणे ज्ञानक्रिये परम चोदिते || ३ || आश्रया भावमात्रेण कुत आश्रयिणां श्रमः | शैव वृद्धास्तद्भवद्भिस्त्रिक शैवागमानि च || ४ || दग्धानि निर्मूल तया वारितानि पुनः पुनः || कुत आत्मां कुतश्चात्रतज्ज्ञानं वा कुतः क्रिया || ५ || तत्सद्भावेपि किं नाम प्रामाण्यमितिकथ्यताम् | निर्विकल्पविकल्पाभ्यां ज्ञानद्वयमपेक्ष्यते || ६ || अतोन्यन्नास्ति किं मपि बोधाबोध विशेषव्यत् | २३ब्) चित्स्वभावो चित्स्वभाव उदासीनवदा स्थितः || ७ || अहो प्रारब्धमात्रेणाप्यलं शास्त्रमहाम्बुधेः | अथवे भावनामात्रस्तुत्या चालं विरोधतः || ८ || क ईश्वरोथ किं दास्यं तस्य निष्फलताश्रयं | तथा जनस्योपकार इत्येवं परवञ्चनां || ९ || तस्मान्नमोस्तु तद्बुद्ध्यै तत्व मात्रे नमो नमः तच्छास्त्रार्थ प्रदीप्ताय स्वात्मने शम्भवे नमः || ११ || अलंबा बहुनोक्तेन विमर्दोत्राशिंभते | महात्मनां प्रमादोपि मश्मनीयो हिमादृशैः || बौद्धवृद्धावयं पूर्वो पूर्वैः पूर्वतरैर्मृताः [भो शैव शिवमार्गान्ध्य चारिन्किंनोथलजसे] भो शैव शिवमार्गान्ध्यचारिण किं नोलज्जसे || १२ || इति श्रीमद्भट्टारकानन्दनाथकृतायां प्रत्यभिज्ञा कौमुद्यां तृतीयामाह्निकम् समाप्तिमगमत् || ओं पूर्वपक्षतया वृद्धानाश्वास्याथ विमतृयत् | प्रकाश्यते शैव सारोत्तरपक्षः स्वसिद्धये || १ || इदानीं प्रत्युत्तरदानेन | बौद्ध वृद्धानां परमेश्वरे स्वात्मनि विश्रान्ति मासाद्य ततश्च मूलाधारे स्वात्मन्यहं रूपे सिद्धे | अधेयं सर्वं विश्वमपि सिद्ध्येदिति दर्शयितुमाह || ओं सत्यं किन्तु स्मृति ज्ञानं पूर्वानुभव संस्कृतेः | जातमप्यात्कनिष्ठं तन्नाद्यानुभववेदकम् || १७ || भो बौद्धवृद्धाः || यद्भवद्भिः नोक्तं | तत्सत्यमित्य बाङ्गीकारेण प्रत्युत्तरम् || किन्द्वितिपरं द्विति || स्मृति ज्ञानं नाम | सामेमातेति वद्या पूर्वमनुभूता सामेमातेति || इत्येवं पूर्वानुभवसंस्कृतेः स्मृति ज्ञानं || योसौ गौर्मयानुभूतो दृष्टपूर्वस्स इदानीं मयमिति || यद्येवं | तथापि स्वात्मनिष्ठं तत्स्मरण ज्ञानं स्वात्मजातिविजाति गुणक्रियादि सम्पन्नं तत्रैव च २४अ) निष्ठं तत् स्वरूपेणैव च स्थितं नान्यथेति || यथा लोहितोष्णीषा ऋत्विजाः प्रचरन्ति || शुक्लवाससमानय || देवदत्तगामत्याजशुक्लां दण्डो न || इत्यादौ शुक्ल वासौ ब्राह्मणजातितद्गुण तत्क्रिया युक्तमेव ब्राह्मणमाह्वयन्ति || न तु क्षत्रियादि धर्मादि युक्तामिति || अथ च || चक्षुर्मात्रग्राह्यं रूपं || श्रोत्र ग्राह्यः शब्दः | जिह्वामात्रग्राह्यो रसः | घ्राणग्राह्यः शब्दः त्वक् ग्राह्यः स्पर्शः || न चात्र चाक्षुषः शब्दः | स्रौत्रं वा रूपं जिह्वया च गन्धः | घ्राणेन चरसः || त्वा वा च शब्दादि || इत्येवं स्वात्मनिष्ठत्वं सर्वत्रैव चातुर्वल्यादौ प्रसिद्धमेव || एवमनुभवस्मरण ज्ञानादावपि अनुभवो हि स्वात्मानुभवरूप एव निष्ठः || न स्मरणादौ || एवं स्मरण ज्ञानमपि स्वात्मन्येव निष्ठं सन्नानुभव पदवीमारोढुमर्हतीति || स्वात्मनिष्ठत्वात् एवं सति यत्स्मरण ज्ञानं स्वात्मनिष्ठं तत्कथमाद्यानु भूतानुभववेदकं हि स्यात् || ता शद्यद्भवद्भिः प्रोक्तं | यतो हि पूर्वानुभव संस्कारात् स्मृति संभव इत्यनेनैव व्यवहारे सिद्धे किमात्मनान्तर्गर्त्तनेति | ज्ञानानां स्वात्मनिष्ठत्वात् तत् कथमिति || १७ || तथाप्य परयापि युक्त्यापि पूर्वोक्तमेव दृढयति || यतश्च ओं दृक्स्वाभासैवनान्येन वेद्या रूपदृशेवदृक् | रसे संस्कारजात्वं तु तत् तुल्यत्वं न तद्गतिः || १८ || तत्र दृक् स्मरणं | स्वाभासैव | स्वप्रकाश चिदात्मकत्वे नैव प्रसिद्धम् || अत एव नान्येनानु भवादिना वेद्यं च | यथा हि रूपदृशा रस ज्ञाना वाप्तिः || इति पूर्वोक्तमेव || अथोच्यसे || अनुभवसंस्कार जत्वं तु कथं || कथमनुभवसंस्कारेण स्मृत्युत्पत्ति प्रवृत्ती || इति तन्न || तश्चान्योन्यं स्पर्धावृवृद्धयोः यथाद्वयोः पण्डितयोः | यथा द्वयोर्मल्लयोः | द्वयोर्वा शिवं योः | वामेषयो || [+वृद्ध + वृद्ध] २४ब्) वाद्वयोश्चकोरयोः परस्पर युद्धादिना || न चैतत्तद्गतिरिति || न तेन तज्ज्ञाना वाप्तिरिति न चेति || तस्मात् स्वात्मनिष्ठत्वान्नतेन तज्ज्ञानं लब्धिरिति भावः || १८ || भो पृच्छक || अथोच्यसे || ओं अथा तद्विषयत्वेपि स्मृतेस्तदवसायतः | दृष्टालम्बनता भ्रान्त्या तदे तदसमञ्जसम् || १९ || अथोच्यसे | असत्यप्यनु व भविषयत्वे | स्वात्मनिष्ठकल्पनया || तथापि च भ्रान्त्याशुक्तौरजतादिवत् आलम्बनता लम्बनत्वं दृष्टमेव | अनुभवेनैव हि स्मृति सिद्धेः || इत्येवमदसमञ्जस्यमेव || यथा हि मध्याह्नार्कमरीचिष्वि वा *? प्रतिभासः || शङ्खदाविवरजत प्रतिभासः | रज्ज्वां वा सर्पाभासः || इत्यादौ यो भ्रमिमात्रतयाभासः | स आभास एव | न च तत्र प्रामाण्यं | तथा हि पुरातान् प्रतिपादयिष्यति || रजतैक्य विमर्शेपि शुक्तौ न रजतस्थितिः | उपाधिदेशासंवादाद् द्विचन्द्रेपि नभोन्यथा || इत्येवं न प्रामाण्यमिति निर्दिश्यते || इति भ्रान्त्यायो भ्रमस्सो न प्रमाणतयास्ति || १९ || एतदेव दृढयितुं पुनरत्यन्यया युक्त्या दर्शयति || ओं स्मृति तैव कथं तावद्भ्रान्तेश्चार्थ स्थितिः कथम् | पूर्वानुभवसंस्कारापेक्षा च किमितीष्यते || २० || यत्र हि भ्रान्तित्वं शूक्तौरजतवत् तत्र कथमर्थस्थितिः || तदभावे कथमनुभवः | तदभावे च कथस्मृति सम्भवः | वृकस्यमूलाभावाच्छाखादेर भावात् इति हि सिद्धम् || एवं हि सिद्धे पूर्वानुभव संस्कारापेक्षा च कुत्र वा कथमितीष्यते || इत्थं पुरस्तात्प्रतिपादयिष्यति || इत्येतद् भवदुक्तं नाम न प्रामाण्यतनो पल्लवायत इति न प्रमाणम् || वाच इमा उन्मत्त वाचो वडपेक्षणीया इत्यासमञ्जस्यं सर्वत्र भवद्दुक्त्युक्तिषु [तथा च | इह खलु प्रतिपत्सितमर्थं प्रतिपादयन् आपधीय वचनो भवति प्रेक्षावतां | अप्रतिपिसितं तु प्रतिपादयन् ना सौ लौकिकौ * * * * ? इति प्रेक्षावाप्तिनन्मत्तवहन्मत्तवदु प्रेक्षणीय एवे * * *?] अथान्यथापि परया युक्त्या दर्शयति || तदेव चास्फुटी? करोति || २५अ) ओं भ्रान्तित्वे चावसायस्य न जडाद्विषय स्थितिः | ततो जास्त्ये निजोल्लेख निष्ठान्नार्थ स्थितिस्ततः || २१ || अनेनैव हेतुना पूर्वोक्तेना वसायस्यानुभव स्थित्या | तस्य च भ्रान्तित्वेनावस्थित्या | तेन च जात्यत्वात् तस्मान्नविषयानुभव स्थितिः || भ्रान्तित्वेन शुक्तौरजतवत् सर्वत्रा प्रामाण्यामेव || अथ चेत् अजात्ये सति | ततस्तस्मात् हेतोः | निजोल्लेखनिष्ठात् स्वात्माशविस्रान्तेस्ततस्तम्साज्ज्ञानात् | नार्थस्थितिः | न तस्मात् प्रमेयता सिद्धिरयमित्यादिवत् || यतस्सर्वत्रायं प्रसिद्धः स्वात्मांशनिष्ठत्वावभासः || अनुभवस्यानुभवे विश्रान्तित्वं स्मरणे च स्मरणविश्रान्तित्वं | इत्यभिज्ञायां च प्रत्यभिज्ञा विश्रान्तित्वं चेति सिद्धम् || [तत्र घटोयं पटोयमित्यात्यनुभवः | स एव * * * * * * *? यो मयादृष्टः स एवेचनीमहं स चापि इति प्रत्यभिज्ञानं] न कोपि केन चिद्गृह्यत इति | निजोल्लेखनिष्ठत्वात् || अथ च || प्रामादमारुह्य || प्रामादादीक्ष्यत इत्यत्र लिब्लो?पेपंचमी || इत्यनेन प्रासादमारुह्येक्ष्यत इतिवत् || तथा ततस्तमवलम्ब्य परं ज्ञानांशं तथापि स्वांशनिष्ठत्वान्न तेनाप्यर्थ सिद्धि [इत्यनेनापि न किंचित् सिद्धिः] रिति प्रोक्तमेवास्मत्परमगुरुभिः || २१ || एवं हि सति चित्स्वरूपस्वात्महं भावाभावेनुभव स्मरणादीनि ज्ञानानि किल सर्वाण्येव बोध्यबोधक हीनानिस्युरित्यनुभवास्यहमिति को ब्रूयात् || वास्मराम्यहमिति च || पूर्वमेतद्दृष्टं मया इदं पश्याम्यहं || जातश्च पश्यन्नहमग्रतः || इत्यादि परस्परानुगति हीनमेवस्यात् यद्यनुभावक आत्मानुभवितानस्यादिति दर्शयितुमाह || ओं एवमन्योन्यभिन्नानामपरस्पर वेदिनाम् ज्ञानानामनुसन्धान जन्मानश्येज्जन स्थितिः || ओं न चेदन्तः हतानन्त विश्वरूपो महेश्वरः स्यादेकश्चिद्वपुर्ज्ञान स्मृत्यपोहन शक्तिमान् || २२ २३ || २५ब्) एवं हि सति चित्स्वरूप स्वात्माहं भावाभावेनुभवस्मरणादीनि ज्ञानानि किल वा सर्वाण्येव बोध्यबोधकहीनानि स्युः || एवं सति | अरभवास्यहमिति स्मरास्यहमिति च को ब्रूयात् | जातद्सृष्ट पूर्वमासीत् | इदं पश्यामि | एतश्वद्रष्ठुं भविष्यति | इत्यादिना चान्यत् परस्परानुगति हीनमेव हि स्यात् यद्यनुभावक आत्मानुभवितानस्यादिति दर्शयितुमाह || ओं एवमन्योन्य भिन्नानामपरस्पर वेदिनाम् | ज्ञानानामनुसन्धान जन्मानश्येज्जन स्थितिः || २४ || ओं नचेदन्तः कृतानन्त विश्वरूपोमहेश्वरः | स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहन शक्तिमान् || २५ || एवं हि सति अन्योन्य भिन्नानां परस्परभिन्नस्वभावानां | तथा परस्पर वेदिनां च | स्वात्मांशेन भिन्नेनभिन्नस्वभावत्वात् || घटपटतटनीलपीतादिवत् परस्पर वेद्यवेदनाभावात् | न हि नीलं नामपीतं दृश्यते | तथापीतं वा नीलं रक्तं च || घटोवानपटः | स वानघट इत्यादि || योनुभव एवं सनस्मरणं | यत्स्मरणं | तन्नानुभव इति | तत्तद्भिन्नां शपातिनामित्युक्तेः || अत एवोक्तं मूले | अन्योन्यभिन्नानामपरस्परवेदिनां | ज्ञानानामनुभवादीनां यानुसन्धान जान्माजन स्थितिः || एकस्यान्योनुरीत एव || तदभावे हितदभावात् मृदभावे घटभाववत् || वातन्त्वभावेपटभावात् | इत्येवमनुसन्धानजन्मा एवं व्यवहारेणानु प्राणिता जनस्थितिन्नश्येत् | कोपि न व्यवहर्तुं शक्नुयात् || कदा तदा तदा कदा || इत्यपरश्लोकेन हि सम्बन्धः || तथा हि || २४ || २६अ) ओं न चेदन्तः कृतानन्त विश्वरूपो महेश्वरः | स्यादेकश्चिद्वपुज्ञेनस्मृत्यपोहन शक्तिमान || २५ || यदिनान्तर्हृदब्जकोश विवरान्तरहमिति स्वरूपेणाहं जानामीति | तथाहं करोमीति कर्ता ज्ञाता महेश्वरो हि स्यादेकश्चिद्वपुरिति सम्बन्धः तथा ज्ञानस्मृत्यपोहन शक्तिमान् || तत्र ज्ञानमनुभवः || सरणं च स्मृतिस्सामेमातेतिवत् | अपोहनं नामगौरयं नागौरश्व इति शक्तिमान् || अयं चात्राशयः || अनुभवस्मरणादिष्वनुस्यूत एवात्मा चित्स्वरूपभया भातभासमानरूपः सूत्रेमणिगणवदादि सिद्धो महेश्वरो | भूतभविष्यद्वर्तमानादिषु स्थित इत्यत्रकोन्यो ब्रूयादिति सिद्धमेव || तथा च | शब्दस्पर्शादयो वेद्या वैचित्र्याज्जागरे पृथक् | ततो विभक्ता तत्संविदेकरूपान्नभिद्यत इति || तथा च स्पन्दे || जाग्रदादि विभेदेपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वभावादुपपलब्द्धृतः || अहं सुखी च दुःखी च रक्तश्चेत्यादि संविदः | सुखाद्यवस्थानुस्युतेवर्त्तन्तेन्यन्त्रताः स्फुटमित्यादिना || इत्येवं सर्वत्रायमनुस्यूत एवात्माहमिति भासन रूपोनुभवस्मरणाढौ कर्ताज्ञाता महेश्वर इति सिद्धो ज्ञानप्रकाशानन्दमयचिद्वपुः परमेश्वर इत्यनेन बौद्धमतनिरासः || तेन च स्वपक्षस्थान दृढाशयत्वमिति सिद्धम् || इत्थं चानेन मार्गेण बौद्धवृद्धमतान्तरं निराकृत्य स्वपक्षस्य स्थापनेन दृढास्थया || यद्भुतं यश्च वा भव्यं वर्तमानं च यत्पुनः | सर्वत्र प्रोत एवात्मा तत्रतत्रार्क विम्बवत् || अथातः प्रत्यभिज्ञायाः कौमुद्याः कर्तुमुत्सहे || प्रारम्भमृडामार्गेण विचार्यगुरुशास्त्रतः || २५ || इति श्रीप्रत्यभिज्ञा कौमुद्यां भट्टारकानन्दकृतायां चतुर्थमाह्निकम् || २६ब्) इदानीं बौद्धवृद्धानामुपेक्षणीयमुन्मत्तादिवन्मतं | कुममत पूमतमोमालिन्यं सर्वमात्मेति चैतन्यानलस्फुरज्ज्वालामहत्तेज सा निराकृत्य | स्वमतदृढी करणयुक्त्या परमेश्वर स्वरूपस्सर्वमात्मेति सर्वत्रानुस्यूत एवेति | पंचमाह्निकाद्यावद्ग्रन्थ समाप्तिं शास्त्रार्थ गर्भीकरण युक्त्या प्रतिपादयितुमाह || अथातश्च ग्रन्थारम्भः || ओं स हि पूर्वानुभूतार्थोपलब्धा परतोपिसत् | विमृश्यन् स इति स्वैरीस्मरन्नीत्य न दिश्यते || २६ || एवं हि सिद्धे पारमेश्वर स्वरूपे स्वात्मनि तमेवात्मानं स्मरतीत्य पदिश्यते | अहं स्मरामीत्यनया युक्त्यास्मर्तायमेव | यः पूर्वमनुभवानुभावकः | यश्च पूर्वमनुभावयन् मयेदं दृष्टं घटादि प्रत्यक्षानुभवेन | तत्पुरतश्च | यन्मयापूर्वं दृष्टमासीत् तदेवेदानीमहं स्मरामि | सामेमातेतिवत् || अथ च | परदेशानुभूतमिह स्मरामीतिनामजातिदेशकालादि योजनया सर्वमनुभूयत एव || इत्येवं विमृश्यन् स्वेच्छाचारतया | ततश्च स्मरत्ययमितिव्यपदिश्यते || यदि चैवमात्मानस्यात् तत् कस्येयमाख्या || २६ || तथा हि || ओं भासयेश्च स्वकालेर्थात् पूर्वाभासितमामृशन् | स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना || २७ || यश्चमया दूरात् किंचिदिदमित्यनुभूतं सद्वस्तुमात्रमेव केवलं स्वलक्षणं नामजात्यादिराहित्येनैव पूर्वं || तदेव चाहमेवेदानीं साकल्येन च स्मरामीति | *?र्थोयं | ब्राह्मणोयं | श्यामोयमिद्यादिनान्नासजातिगुणादि साकल्येन गृह्यत एव || इत्यने २७अ) नयोमयादृष्ट पूर्व आसीत् स एवायं ब्राह्मण इति तदनन्तरं जात्यादि युगनुभवस्मृति ज्ञानं सिद्धमेव | इत्येनेनानुभवितास्मर्तात्मासिद्धः स्वत एवेति सिद्धम् || २७ || एवं पूर्वोक्तं यत्तदेव च दृढयति भवे || ओं न च युक्तं स्मृतेर्भेदेस्मर्यमाणस्यभासनं तेनैक्यं भिन्नकालां संविदां वेदितैष सः || २८ || ओं नैव ह्यनुभवोभातिस्मृतौ पूर्वोर्थवत् पृथक् | [प्रागन्ध भूवमहमित्यात्मारोहणभासनात्] एवं हि यत्यनुभवस्मरण यरो परस्परं चेदो हि स्यात् | तथ्येकोनुभवः | द्वितीयं स्मरणं नाम | इत्यनेन य एवानुभविता स एव कथं स्मर्तेत्यपदिश्येत द्वयोर्भिन्नत्वात् || तेन च परस्परसङ्गति हीनाकिलजन स्थितिः स्यात् द्वयोज्ञानयो हि ज्ञातृद्वयदर्शनात् || तौ च काविति न कश्चित् | तस्मादनयोरभेदापत्तेः | य एवानुभविता स एव च स्मर्तेति कथ्यते || [यतोसौ वेदितेति कथ्यते | यतश्च] मया प्रागनुभूतं मिदमित्यनेन | वा प्रागन्ध भूवमहमित्यात्मन्यारोहेणाभासात् || अनेनानुभवस्मरणयोरभेदेन वेदकस्यात्मारोहेण भासनमिति सिद्धं अत एव च पूर्वोनुभवोनामस्मृतौ पृथक् नाभाति | प्रागन्धभूवमहमित्यात्मारोहेणैव भासनात् || अतश्चैवमेव सिद्धं | यो यमात्मा स्वप्रकाशवेदक स्वरूपः स चानुभविता पूर्वं | स्मर्तेति पश्चात् कथ्यत एव | नात्य इति || यतश्चा सा वेव वेदितां || एष एव च स इति सिद्धः || परंतु पदार्थानि घटोयं | पटोयं | नीलमिदं | पीतमिदं | इत्यादीनिपरम रभिन्नानिवेद्यानि | न चैवमात्मावेदक इति सिद्धम् || २९ || २७ब्) ननुयद्येव मनुभवस्मरणादावात्मा व्यापकः स्वप्रकाशकर्तृत्वेन सर्वासुदशासु सर्वकालं स्फुरित एवप्रवर्ततेसु भवितृतया तत्कर्तृत्वेन च | इति यदुक्तं | तदव्याप्तित्वेना योग्यमेव || लोकोत्तरवर्णनेनसर्वत्र प्रमातृसत्वेन प्रमेयास्पदाभावात् || तथा च योग्यवलोकने हि मृत्पाषाणादि च सुवर्णायते | तथा वा सुवर्णादि च मृत्पाषाणं तायातीति तत्र किं न योगादिदशास्वप्रमातृप्रमेयादि व्यवहारो स्यात्मन इति तदव्याप्तेरेव न सकृत्रतद्व्यापकत्वसिद्धिः || इत्याह || ओं योगिनामपि भासन्तेन दृशोदर्शनान्तरे | स्वसंविदेकमानास्ता भान्तिमेय पदेपि वा || ३० || दर्शनान्तरेनुत्तरदर्शनविशेषेस्वसंविदेक निष्ठतया परमसमाधौ | दृशोज्ञानानि वेद्यानि | घटादि नीलानीलादीनि | न तत् स्वरूपतया | अयं घटः | अयं पटः | इदं नीलं | इदं पीतं वा | इत्यादि न नियति तत्वा भात क्रमेणाभान्ति | अपितु तत् तद्घटादिज्ञानेपि मेयपदप्राप्ते स्वयं चिद्रूपतयैवा भान्ति | तस्ययोगिनस्सर्वमिदं विश्वं चिन्मयमेव | अचिद्रूपस्या बाह्यवेद्याभावात् || तत्सर्वं तस्य प्रकाशानन्दमयमिदं जगदितिभावः || तथा च || योगिनां तु विशेषोयं सम्बन्धे सावधानतेति || तता च श्रीस्पन्दे || गुणादिस्पन्दनिष्म्स्य?न्दः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः सततं स्युर्ज्णस्यापरिपन्थिनः || अप्रबुद्धधियस्त्वेते स्वस्थितिस्तलनोद्यताः || पातयन्ति दुरुत्तारौपरेसं सारवर्तमनि || अतः सततमुद्युक्तः स्पन्दतत्व विविक्तये | जाग्रदेवनिजं भावमचिरेणाधिगच्छति || तथा च श्रीभगवान् | यानिशा सर्वभूतानां तस्यां जागन्निसंयमी | यस्यो जाग्रति भूतानि सानिशा पश्यते मुनेरिति || २८अ) तथा च | यदस्तियद्भाति तदात्मरूपं न चान्य च भाति न चान्यद्रूपं | स्वभावसंवितृतिभाति केवलाग्राह्यं ग्रहीतेति मृमाविकल्प इति || इत्यनेन प्रमातृ प्रमेयादि पदेपि तेषां तत् स्वभावावभासात् || इत्यत्र किमाश्चार्यादि दशया || तेन ते स्वातन्त्र्यश्वैर्य शक्तित्वेने स्वरवद्यत् कुर्वन्ति | तद्भवत्येवावश्यकतया | किं पुनराश्चर्यं मोहनस्तम्भनादौ विशेषे || तस्मादनेन सर्वत्र तेषां तदैक्य प्रथामात्रानुभवस्मरणादौ कथं न तथात्वेनानुभवो हि स्यादितिभावः || अत एव च न तस्यानुभवस्मराणादौ कश्चिद्विपर्यय इति हि स्थितम् || ३० || अत एव चैतत् सिद्धौ पूर्वोक्तमेव दृढयति || ओं स्मर्यते यद्दृगामीन्मेसैवमित्यपि भेदतः तद्व्याकरणमेवास्यामवादृष्ठमिति स्मृतेः || ३० || सादृग्मे आसीती | इत्येवं भेदने यत्स्मर्यते | तन्मयादृष्टमित्यस्याः स्मृतेः तत् तस्यात्मनो व्याकरणमेव || विभज्याकरणं | नतु सान्या || [व्याख्यां] इत्येवमात्मनोनुभवस्मरणादौ प्रवृत्तिः || ३० || पुनरप्येत देवदृढयति || अनुभवस्मरणादौ स एक एवव्याप्रियते बोधकर्तृ प्रमातृत्वेनेति दर्शयति || ओं या च पश्यास्य हमिमं घटोयमिति वा वसामन्यते समवेतं साप्यवसातरिदर्शनं || ३२ || पश्यास्य हमिमं घटं | वद्येतामापन्नं वस्तुमात्रं | घटोयमिति वा | इत्यनेन द्वय रूपेण भातभासमाना च याव सा | अवसायः | स चा वसायि कर्तरि | हेतुभूते स्वप्रकाशे स्वात्मनि समवेतमेव मवसायसमवाय सम्बन्ध विशेष युक्तं मन्यते || तत्स्वभावात्तस्य || तयोश्च ग्राह्यग्राहक सम्बन्धादपि || तयोश्च गुणगुणिवत् || क्रियाक्रियावतोर्वा | सम्बन्धवत् || जातिव्यक्तिसम्बन्ध बद्धास्तेदत्वेनाश्रयाश्रयय विनाभाव विशेषात् || इत्युक्तं वक्ष्यते च || ३२ || इदानीमयमेवात्मनुभविता कर्ता २८ब्) ज्ञाता महेश्वरः सर्वत्रव्यापकश्चिदर्कवदिति निगमयति || ओं तन्मया शृशृते दृष्टोयं स इत्यामृशत्यपि | ग्राह्यग्राहक ना भिन्ना वर्थौभातः प्रमातरि || ३३ || एवं हि मयादृश्यते || वा दृष्टः | अयं स इति त्रिपुटीमयेनाहं स्वरूपात्मन्यामृशत्यपि प्रमातरिभिन्नतया || अथ चातः | ग्राह्यमेतद्घटादि | ग्राहकश्चायमात्मा प्रमाता || इत्येवं द्वावर्थो प्रमातरिभातः | ग्राह्यग्राहकतयाभिन्नावर्थौ स्वात्मनोभातः || तथा च || प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः | उक्ता च सैव विश्रान्तिस्सर्वापेक्षानिरोधत इति || तथा च || विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यत इति च || तथा च || स्वभावमवभासस्य विमर्शं विद्वरन्यथा | प्रकाशोर्थोपरक्तोपि स्फटिकादिजडोपम इत्यादिना च || तस्मादेवं सिद्धं | इत्येवं तदित्यस्यार्थः || इति श्रीमत्तृत्यभिज्ञाकौमुद्यां भट्टारकानन्दनाथकृतायां पंचमाह्निकं समाप्तिमगमपराद्भट्टारिका सहायतयेति शुभमस्तु श्रीपत्यभिज्ञापवित्त्रित हृदयानाम् || इदानीं यत्सदसन्नीलपीतादि स्थूलास्थूल चराचरादिजगदिदमाभाति | तत्सर्वं चिन्मयमेव | परमेश्वरोन्मेष चिश्श्फटा?मात्र स्वरूपं स्वात्मन्यध्यासेनारोपितं सत् | तरङ्ग इव वारिधावितिनिश्चितं | स्वस्वात्म परमेश्वरान्तस्सत्? सदस्सद्रूप तयैव बहिराभाति | सतस्सज्जायत इत्युक्तेः | तदन्तः स्थितिं विनाबहिः प्रसरायोगात् | मयूराण्डरसवदिति सूत्रद्वयेन प्रतिपादयितुमाह || ओं वर्तमानाय २९अ) भासानां भावानामवभासनं | अन्तः स्थितवतामेव घटते बहिरात्मना || ओं प्रागिवार्थो प्रकाशः स्यात् प्रकाशात्मतया विना | न च प्रकाशोभिन्नः स्यादात्मार्थस्य प्रकाशता || ओं भिन्ने प्रकाशे चा भिन्ने सङ्करोविषयस्य तत् | प्रकाशात्मा प्रकाशोर्थो || ना प्रकाशश्च सिद्ध्यति || प्रत्यक्षेण हि भासमानानां घटादिभावानां | भवन्तीतिभावा हि पदार्थाः तेषामव भासोनाम प्रकाशः | प्रत्यक्षभूते चित्स्वरूपे स्वात्मनिह्यन्तः स्थितवतामेव मयूराण्डं सुवर्णादिरसवद्बहिः प्रकाशो नियति तत्व कृतो | घटोयमित्यादिना विद्यावच्छिन्नोयमाभासोन्तर्बहिराभासरूपो न घटादिना प्रमेय पदवीमा रूढ इति सिद्धोयं क्रमः || अथं च यद्येवं हि न स्यात् तर्हि प्रत्यक्षतया पूर्वं ज्ञाते घटन्तेर्ज्ञानेनाज्ञात इव स्यात् | परस्परव्याप्तभावात् | अव्याप्तेश्च || तत् केन कं गृह्णीयात् तत् कार्यं कारणे सदेव बहिः प्रत्यक्षी भवि तु मर्हतीति | यथा मयुराण्डरसवत् सुवर्णताम्रनीलादि युक्ता देव हि रसात्तन्मयुरप्रस्फादि तत् तद्विचित्रतया बहिर्यातीति सिद्धान्तः || नैव च प्रकाशोनामवस्तुनोभिन्नः || परस्पर समवायात् || यतश्च प्रकाशो नामार्थस्यात्मेति सिद्धम् || एवं हि स्वात्मन्य भिन्नश्च | एक एव सर्वत्र व्यापक इत्यर्थः | यदिवस्तुनो भिन्नेतदा विषयाणां सङ्करः || घटमानय | पटमानयेत् | पटमानयेन्यादौ मृदमानयेत | इत्यादिना विनाबोधनौ ज्ञानात्मकरोपि हि स्यात् || इत्यनेन प्रकाशोर्थोपि २९ब्) प्रकाशात्मैव || यतश्च हेतोन्ना प्रकाशो हि सिद्ध्यति || वेद्यस्य हि वेदकाभावे पाषाणवत् केन गृह्यत इति भावः || तस्मातृरमेश्वरे स्वात्मनियत् किं च न तद् बहिरप्यस्ति वान्तरपीतिनिरपवादः परिकरः || यदन्तस्तद् बहिरित्युक्तत्वात् || तथा च सांख्याः || असदकरणादुपादानग्रहणात् सर्वसंभवात् | शक्तस्यशक्यकरणात्कारण भावाश्च सत्कार्यामित्यादिना || असत अकरणादप्रत्यक्ष द्वाद्वाह्ये | समवायसिद्धेश्च परस्परं | सर्ववस्थात् पाद न शक्त्यभावादेकस्य वस्तुनः || शक्तस्य कर्तुश्च सक्यकरणा देव || यदेव हि शक्यते कर्तुं तदेव करोति | यथामृत् घटं | तन्तवः पटमिति वा | न घटः पटं | नापितन्तवो घटमित्यादि च || कार्येषु प्रतिकारण भावाश्च || यथा मृत्तन्तु सुवर्णानां तस्मात्कारणे सदेव कार्यमयपदवीं बहिरप्यधिरोहति अथोच्यमेवं बाह्यार्थवादिन्नुल्लेखमालया | बाह्यार्थभिन्नया [वेद्यं] बाह्यं नामास्तु तत्वतः || बोधाश्भिन्नं प्रमारूपं तत् तद्घटपटादिभिः | भिन्नस्वरूपं विलसत्कल्पना जालसञ्चितं || किं भवत्कल्पनाकारबाह्येनानेन तत्वतः | पूर्वपूर्वतरा वृद्धावयं बाह्यर्थवादिनः || इदानीं बाह्यार्थवादमुत्थाप्यल्लेखतया || तस्यापि च पश्चात् द्वात्मांशोविलोप्य || सर्वमिदं चिन्मयमेव चिद्वपुषि परमशिवस्वरूपेन्तःस्थं बहिराभातीति प्रकटोयं वादोत्र न किमपि बाह्यं नामेति दर्शयति सूत्रस्वयेन || ओं तत् तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् | नह्यभिन्नस्य बोधस्य विचित्राभास हेतुता || न वासना प्रबोधोत्र विचित्रो हेतुतामियात् | ३०अ) तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनं || ३ || यश्चोल्लेखतया तत् तदा कस्मिकाभासोहमेवमेव करोमिवा जानामि | वा | एवमहं गच्छामीत्यादिना च | बाह्यमनुमापयेद्यदि | न चा भिन्नस्य बोधस्य विचित्राभास हेतुता इति कथमा कस्मिकाभासो बाह्यमनुमापयेत् | भ्रमिमात्रेणैव हृदयङ्गमत्वात् || नापिवासना प्रबोधोबाह्यमनुमापयेत् || सापिचोल्लेख प्रकारेणैव मृगतृष्णैव भ्रमिमात्रतया कथमनुमापयेत् || यथा भोममात्मन् | इह जीविकानास्ति | अहं गच्छामि राजद्वारमार्गं | तत्र प्राप्त्वा राज्ञः स्वमनो राज्यं संश्राव्ययद्राजादास्यति | तदर्ध भागस्या श्वंस्वगतिं मार्गगामिनं गृह्णामि || तमारुह्य च परं देशं गच्छाम्य शक्तेः तत्र लक्ष्यपरिमितं धनं निर्जित्य | स २०००० गृहे प्रेष्यामि | स २०००० गुरोः || स २०००० पत्न्याः || स २०००० मित्राणां || स २०००० अलङ्कारवस्त्राभरणादीनि || इत्येवं वासनादयर्का केन च कृताः स्थिराश्चा स्थिराश्चानाश्रय विशेषात् || एवं वैचित्र्ये च किं निबन्धनं || किमपि न || अतस्तयोराकस्मिक वासनाबोधयोरपि स्वात्मान्तः कल्पितेना कारेण बहिः प्रसराणात्तन्मयमेवेदमपि युगलवेत्ये वेदकतामापन्नं सदात्सोलास इत्येव कथ्यते || तेन विना सिद्धेरिति च प्रोक्तं || अतोयत्प्रोक्तमत्तः स्थमेवबहिः प्रकाशयति तदेव सारं || नापि च बाह्यं नामानेनापि किंचिदिति भावः || ३ || ३०ब्) अथानन्तरमेवं निश्चिते मति सर्वमिदं विश्वं स्वप्रकाशचिन्मयमेवातो बाह्यस्य वेद्येस्या भावाद्यद्भवति तद्वदेकाभिमतमिति दर्शयति || ओं स्यादेतदवभासेषु तेष्वेवावसिते सति | व्यवहारे किमन्येन बाह्येनानुपपत्तिना || ३८ || भोबाह्यार्थवादिन् | अवभासेषु विमर्शात्मकप्रकाशेषु | तेष्वेव च व्यवहारे वसिते निश्चिते | सति || अवभासान्तर्व्यहारोस्ति बहिरपि प्रकाश्यते | घटोयं नीलं पीतं रक्तं वेदमित्यादिना | इत्येवं निश्चिते सति अन्येन बाह्येनानुपपत्तिना | अयुक्त्येदमिति स्फुरितेन | न तु युक्त्या | तया न किंचिदिति | अयुक्त्या तु किंचिदिति || इतीमावाचो बाह्यार्थसत्तावाद कुण्ठिताः कुकार्य संपादन बद्धकक्ष्याश्चन कार्यार्हा इत्यलमेभिर्वाशोभिः || ३८ || अतश्च || ओं चिदात्मैव हि देवोन्तः स्थितमिच्छावशाद्बहिः | योगीवनिरुपादानमर्थ जातं प्रकाशयेत् || ३९ || इदानीं निगमत्यपि || अयं स्वप्रकाशश्चिदात्मान्तः स्थितं भावजातं पूर्वोक्तं स्वेच्छयो शेषदशया बहिरप्ययमिदमित्यादि रूपेणाभासयति || कथं निरुपादानं | समवाध्यसमवाय | निमित्तादि बाह्येत्येन सम्भारेण || क इवयोगी यथा | सोपि योगदशायां | स्थितः || ३१अ) सर्वमिदं विश्वमुन्मीलयति | वा निमीलयति च | निरुपादान सम्भारमेव || उदयं प्रभुर्विश्वसाक्षीविश्वोत्पादकोथ पालकोपि स्वान्तःस्थं विश्वमेतद् बहिःप्रकाशयति [तथा च बद्धानारायणः || विरुपादान सम्भारमभित्तावेतन्वते जगश्चित्रं नमस्तस्मैकलान् लाघ्याय शूलिने ||] इति किमयं वागाडम्भर पूलिधूसरतमोमालिन्य स्वीकार इत्यलं || ३९ || ननुयद्येवं | तर्हि चतुर्विधप्रमाणेषु प्रसिद्धमनुमानाख्यं प्रमाणमप्रत्यक्ष वेद्यगमकं धूमप्रत्यक्षेग्निर्वामकमिति तदेव प्रमाणतरं सर्वत्रशास्त्रेषु | इति तदेव बोधय तु बाह्यं वान्तरं चेति प्रत्याह || ओं अनुमानमनाभातपूर्वेनैवेष्ठमिन्द्रियं | अभातमेव भीजादेर्बाह्यस्याभासवस्तुनः || आभासः पुनराभासाद्बाह्यस्यासीत्कथञ्चन | अर्थस्य नैव तेनास्य सिद्धिन्नाप्यनुमानतः || ४० || ऐन्द्रियमनुमानं | पूर्वमनाभाते | धूमवत् | अग्न्यादौ वस्तुनि | अतीन्द्रिये | नवेष्ठं | न प्रमाणमित्यर्थः | आभात एवेन्द्रियादि प्रवृत्तेः | अनाभाते तु | गुरुवासरसोमवासरयोर्वृद्धिर्भवत्येव || तद्दैव वशान्नाभूत् || इत्थमेवानाभासात्मनि च कुरादिना व्यापारोपिनेष्ठः || धूमदर्शनादत्राग्निरस्ति तत्र नासीदिति केचमनुमानप्रवृत्तिः || ततो बीजादावपि बाह्यस्या भासवस्तु न आभातमेव || बीजादवस्यमङ्कुरोत्पादः || इति दृश्यत एवप्रत्यक्षतया | ततोन्तर्वर्त्ति वस्तुन आभासात्वा ह्यस्याभासः घटोयमित्यनेन न सिद्ध्येत् || अव्याप्तेः || तेन चास्य बाह्यस्य सिद्धिर्नाप्यनुमानतः | अतीन्द्रियादावप्रवृत्तस्य | अपि तु या वद्दूरं चक्षुर्मात्र ग्राह्योघटस्तावदनुमानप्रवृत्तिरित्येतदनुमानादि कथमतीन्द्रिय प्रवृत्ति निमित्तम् || ३१ब्) आतश्चानुमानादपि बाह्यस्य न सिद्धिरितिभावः || ४० | ४१ || इदानीं निगमयति || ओं स्वामितश्चात्मसंस्थस्य भावजातस्य भासनं | अस्त्येव न विनातस्मादिच्छामर्शः प्रवर्तते || ४२ || आतश्च स्वामितस्तु स्वात्मसंस्थस्य भावजातस्य भासनं बहिरन्त्येव || न च तस्माद्विना तस्येच्छामर्शो हि प्रवर्तते [इच्छामशो हि नाम किंचित् कर्तुमकर्तुं प्रवर्तते] || ४२ || यतश्च ओं स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोर्थो परक्तोपि स्फटिकादिजडोपमः || ४३ || यतश्चावभासस्य बोधात्मकस्य विमर्शशक्तिः स्वभावमेव विदुः || अन्यथा प्रकाशोर्थो परक्तोपि स्फटिकादिवज्जडप्राय एव हि स्यादिति निश्चयः || अत्रायं भावः || अहमित्यन्तः स्फुरदात्मा चिदचित्स्वभावो बाह्य प्रतिबिम्बितस्सन् विमर्शशक्त्यासु व्यापारेण | अहं जानामि | करोमि || गच्छामि | मुपामि चेत्येवमादौ विमर्शव्यापारेणार्ह्यानर्हादि स्वसुक्रियादौ व्याधृतः सन् | व्यवहरतीति | अत आत्मनस्सहजा विमर्शशक्तिरिति कथ्यत एव || विना तेन पाषाण प्रख्यत्व प्रसङ्गात् || ४३ +१ || तस्मादेवं सिद्धे | ओं आत्मानमत एवायं ज्ञेयी कुर्यात् पृथक् स्थितिः | ज्ञेयं न तु तदौन्मुख्यात् खण्डेतास्य स्वतन्त्रता || ४७ || अत एव च यज्ज्ञेयं तदप्यस्यात्मैव बाह्यार्थवादनिरासात् || अत एव चायमात्मा महेश्वरः | स्वात्मानमेवभिन्नयत् || ज्ञेयी कुर्यात् बाह्यार्थ त्वेनाभासयति || भिन्न स्थित्या स्वात्मनः || निश्चतस्तु ज्ञेयं नामनलोशतोपि | न भूतं | नास्ति | नोभावि च तत् सत्तायां चास्यात्मनः स्वतन्त्रता खण्डेत | विनश्येत || तत् संगेन हि तत्संङ्ग | स्यात् तेन च तादात्म्य प्रतिप्रतिपत्न्या तदात्मकता स्वरूपलाभास्स्वात्म रूपप्रश्यावः स्यात् इति हि स्थितम् || ४७ || ३२अ) तथा चास्मत्परमेष्ठिपादा अपि || निराभासात् पूर्णादहमिति पुराभासयति यद् द्विशाखा माशास्ते तदनु च विभङ्कुनिजकलाम् | स्वरूपा तन्मेषप्रसरणनिमेष स्थिति ज्वषस्तदद्वैतं वन्दे परमशिवशक्त्यात्मनिखिलम् || इत्यादिना अत एव च हेतोः || ओं स्वातन्त्र्या मुक्तमात्मानं स्वातन्त्र्यादाद्वयात्मनः | प्रभुरीशादि संकल्पैर्निर्माय व्यवहारयेत् || ४८ || अतश्च स्वतन्त्रता सिद्धन्पादात्मनः आत्मानं स्वातन्त्र्यादमुक्तं प्रभुर्महेश्वरः | स्वेच्छया विमर्शशक्त्यात्मना | इत्थं करोमि इत्थं गच्छामि || एवं महंभवामि | एवं स्वात्मानाभावयामीति च निर्माय | ईशोहं | शिवोहं | सदा शिवोहमित्यादिना चक्रीक्रीडित्तमिच्छति | एवं तस्येच्छा विमर्शात्मकं शक्तिसंचय प्रवर्तनमित्यत्र परमेश्वर एव हेतुः || ४८ || एवमस्य परमेश्वरस्य पंच वत्यि पंचशक्ति स्वातन्त्र्यात् स्वातन्त्र्यमिति दर्शयति || ओं नाहन्तादि परामर्श भेदादस्यान्यतात्मनः | अहं मृश्यतयैवास्य सृष्ठेस्तिङ्वश्य कर्मवत् || ४९ || अत्रायमाशयः || अहं शिवः | अहं जीवः | अहं ब्रह्म | अहं विष्णुः | अहं वा महेश्वरः || इत्यादिनाहन्तादि रूपेणनास्यान्यत् | अन्य स्वरूपता || शिवोहं शिव एव | ब्रह्माहं | ब्रह्मा | विष्णुरहं विष्णुरेव || परंतु तत्र तत्राहमिति स्वरूपशिष्ठत्वादहमिति न लुप्तो भवति || यथा कनके कटककुण्डलमाला कङ्कनमुद्रिकादिभेदेषु कनक एवावशिष्यते | न कुण्डलादि | तदुदयं मपि स्वात्माहमिति विशिष्ठ रूपतयाशिष्येत इति || तथा च || नानाविधवर्णानां रूपं धत्ते ३२ब्) यथामलस्फटिकः | सुरमानुष्य पशुपादप रूपत्वं तद्वदीशोपीत्यादिना परमार्थसारसंग्रहे || तदत्राप्यहन्तैव पारमार्थिकी समनन्तर प्रत्यया नान्यत् || तत्र च किंवत् || तिज्वाश्य कर्मवत् || यथा जुहोति जुहुतः | जुहुन्ति | इत्यादावेक द्वित्रिभेदा एव || न तु ह वनक्रिया भेदः || सा च सर्वत्रमाधारणेति सिद्धम् || ४९ || नन्वेवं विधायाः पराचितेः कथं संकल्पविकल्पादिकमपरषा स्वरुपमित्याह || ओं माया शक्त्याविभोः सवैभिन्न संवेद्य गोचरा | कथिताज्ञान संकल्पाद्यवसायादि वामभिः || ५० || मीयते प्रमीय तेन या घटादिनीलानीलादि जातं भिन्ना कारतयेति माया || तथा च माया बिम्बोवशी कृत्यतां स्यात् सर्वज्ञा ईश्वरः | अविद्या वशगस्त्वन्यस्तद्वैचित्र्यादनेकधेति || इत्येवमविद्या वशगो जीवस्सैव च चितिरिति कथ्यते | तेनैव च वशगत्वेन सा चित् भिन्नसंवेद्यगोचरा | घटोयं | गौरियं | इत्यादिना वैचित्र्येण || ज्ञानसंकल्पादिनामभिस्सैव च प्रोक्ता | ज्ञानं च | संकल्पश्च | तथाध्यवसायश्च || इत्येतैनामभिः प्रोच्यन्ते || तत् तदध्यासादविद्यावशगत्वेनेति भावः || ५० || नन्वेवमनुभव संकल्पदि स्मरणादिषु विकल्पत्वात्शूलत्वेन च वर्तमान स्वभावत्वादस्तु चितेरन्तु वर्तनं || यत्रत्वभिलाप संजल्पादि निष्कलावार्थायामनुभवदशामात्रे किचिदिदमित्येव हि स्यात् || तत्र च कथमेतत्प्रवृत्तिः | एतदप्रवृत्तौ हि | न किंचिदवैदिषमिति वदप्रवृत्तिरेवचितेरिति कथं सर्वत्रायमात्मा व्यापकः विश्वसाक्षी सर्वत्रप्रोत एव इत्येवं निवारयन्दर्शयति || ३३अ) ओं साक्षात्कारक्षणेप्यस्ति विमर्शस्योदयः कथम् | धावनाद्युपपद्येत प्रतिसन्धानवर्जितम् || ५१ || उरादागतस्य | दूरदृष्टस्य किंचिदिदमितिमृश्यमानेन तत्रापि विमर्शोनामास्त्येव || तं विनानुभवमात्रासिद्धेरिति वक्तव्यम् || तदनन्तरं चायं स इति जातिगुणक्रियादिवानसौव्या प्रियते च इत्यनेनात्रापि विमर्शवांश्चिदेव प्रवर्तमानोनुभवितुमुत्सैहत इति भावः || तद्विपर्यये तु | राज्ञा कृताज्ञस्तत्कार्यार्थं धावन् प्रतिसन्धाने वर्जितमभिलापादिर्वाहित्ये नैव कथं तद्वावनाद्युपपद्यते || यद्येवं तत्र विमर्शवान्बोधनो स्यात् || तथा च स्पन्दे || अतिक्रुद्धः प्रहृष्ठो वा किंकरोमीति वा मृशनी | धावन्वायत् पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठित इति ननु परमेश्वरे सर्व कर्तृत्व स्वरूपे सिद्धे | यश्च तस्यास्तदेवस्त च बहिराभाति | भासयति चायमहं स्वरूपेणैव | इत्यत्र च यदिदमिति रूपेण घटाद्याकारतया भासयति तत्र किं कारणमित्याह || ओं घटोयमित्यध्यवसानाम रूपातिरेकिणी | परेशशक्तिरात्मेव भासतेनत्विदन्तया || ५२ || ओं केवलं भिन्न संवेद्यदेशकालानुरोधतः | ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते || ५३ || नाम्ना रूपेण चोद्रिक्ता | या घटोयमित्यवसा अवसायः | निश्चयः अयं घट इति रूपेणेति सा परेशस्यप्रभोः शक्तिरेव स्वस्वरूपशिवभासते || अन्तरात्मतया | नत्विदन्तया | वेद्यतयाभासत इति भावः || परं तु केवलं भिन्न संवेद्यतया देशकालानुरोधने | ज्ञानां स्मृतिः | अवसायादि ससक्रमं भासत इति भाव || ३३ब्) घटोयं | पटोयं | इत्यादीनि भिन्न संवेद्यानि | तत्र च यद्देशकालानुरोधः || देशे कुत्रापि वा काले तत् संभवात् || तत्र ज्ञानं नाम | अयमिदमित्यादिनानुभव रूपेण || तत्पुरतश्च तत्स्मरणं | पूर्वं मयानुभूतं यत्तदेव च तदिति || तत्र चावसायोनिश्चय इत्येतद्विश्व व्यवहारमार्गानुसरणं || इत्येत देव च सक्रमं प्रतिभासते | परमार्थतस्तुना क्रमः | नापि क्रम इति तदवशिष्यते केवलं ज्ञानं ब्रह्माख्यं पारमेश्वरं तत्वमिति न किंचित् सक्रमं प्रतिभाति तथा च विज्ञान वादिनोपि || यदाभासं प्रमेयं तद्विज्ञानाना हृते पुनः | ग्राहकाकारसंवित्योस्त्रयं नातः पृथक् कृतम् || इत्यादिनैकस्यैव बोधस्यत्रयात्मतया प्रतिभासान्नान्यत् || ५३ || इति श्रीमद्भट्टारकानन्दनाथरचितायां प्रत्यभिज्ञाकौमुद्यां षष्ठममाह्निकं समाप्तिमगमत् || इति शुभमस्तु श्रीशिवपासकानां इदानीं स्वात्मनि माहेश्वरे परभैरव स्वरूपिणी यदहमनहं स्वरूपद्वयं स्वभावेनैवा भाति | तन्नक्वापि हानिस्तत्स्वरूपस्यति प्रकाशयन्कारिकात्रयेणाह || ओं अहं प्रत्यवमर्शोयः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः सह्युक्तोद्वया क्षेपीविनिश्चयः || ओं भिन्नयोरवभासो हि स्याद् घटाघटयो द्वयोः | प्रकाशस्यैव नान्यस्यभेदिनस्त्व वभासनम् || ओं तद तत् प्रतिभा भाजामात्रैवातद् व्यपोहनात् | तन्निश्चयनमुक्तो हि विकल्पोघट इत्ययं || ५६ || यश्चान्तरहमिति प्रत्यवर्शः | अहं करोमि || अहं जानामि || अहं सुपामि | अहं गच्छामि || इत्यादौ यदहमित्यवमर्शोनाम | ३४अ) स चाहमित्येव रूप एव || शुद्धस्वातन्त्र्य लक्षणश्चित् पूर्णा हन्तात्मकस्सर्वत्र भासमान स्वभावश्च | न च तस्य गच्छामि करोमीत्यादिना महौपाधिस्पर्शादिना नानात्वमेव | तेन च स्वस्वरूप प्रश्याव इति वेदितुं शक्नुयात् || निराभासात् पूर्णादित्याद्युक्त लक्षणात् || यतोयं प्रकाशात्मा | सदा प्रकाशमाचिद्वपुः || अत एव च वाग्वपुः || अन्त क्लीनपरावाग्रूपपरमार्थः शुद्धसंविद्वपुरित्यर्थः || अमौन हि विकल्पोनाम || अपितु द्वयाकेपी विनिश्चयः || अहमनहं रूपस्य विनिश्चयोनामेति भावः || एतदेवचाह || भिन्नयोर्घटाघटयोर्द्वयोरेवावभासो नामावुभासनं | इदमित्यनेन | प्रकाशस्यैव | न चान्यस्य कस्यचिद् भेदिनस्त्ववभासनमिति || तदितरस्य हि प्रकाशतानुपपत्तेरिति हि सिद्धम् || तथा च || मात्रा प्रमात्रा च | तदतर्प्रतिभाभाजा | घटोयं न पट इति || अतत्व मोहनाश्च | सर्वस्य तत् स्वरूपत्वा देव | तन्निश्चयनं च निश्चयीकरणं | पृथग् ज्ञानं नाम | घट इति विकल्पः व्यपोहनाभावात् तदतदोः | परस्पर सा कल्येन च घट इत्ययं विकल्प इति || एतदपि माहेश्वर्यं तत्त्वमेवेति नान्यद्वेप्यदि || वाह्यतस्तु घट इत्ययं विकल्पं इति सिद्धोयं क्रमो नाम तस्मात् सर्वपरिगृहीतः सर्वस्यायमात्माहमिति स्वरूपसंभिन्नश्चा साविति || ५६ || ननु शुद्धप्रमातृ स्वरूप अहमित्यात्मनि कथमनहमित्यध्याहार अध्यासेनानुपयोगत्वात् || य एवं म कथमेवं | य एवं च स कथमेवमिति भ्रममात्रं भिन्दन्नाह || ओं चित्तत्वं मायया हित्वाभिन्न एवा व भातियः | देहे बुद्धावथ प्राणे कल्पितेन भासीवया || प्रमातृत्वेनाहमिति विमर्शोन्य व्यपोहनात् | विकल्प एव स परप्रतियोग्यवभासजः || ५७ || अत्रायमाशयः | अहमित्यवमर्शोद्विधा | शुद्धोमायीयश्च || तत्र शुद्धः ३४ब्) प्रकाशमानसं विद्रुपः | अशुद्धस्तु शरीरदण्डा प्राण बुद्ध्यादौ प्रमातृताहं रूपेण स्थितः प्रकाशमान स्वरूपं हित्वा प्रधानीकृत्य तत्प्रमातृताभिमानतया व्याप्रियते | अहमेव देहादिः || वा नीलानीलौ च प्रमेये प्रमातृत्वाभिमानवान् | इत्यनेन चित्तत्वं मीथात्मीकरण युक्त्या हित्वा देहादौ नभः पर्यन्ते प्रमातृत्वेन भिन्नावभासवदाभाति || अहं देही | अहं प्राण इत्यादि च || अन्योनेति व्यपोहनात् || विकल्प एव सः || परप्रतियोग्यवभासजः || अहं देही न प्राणः | अहं वा प्राणः | न बुद्धिः || अहं वा बुद्धिः | न नभ इत्यादि परप्रतियोगित्वं || तत्र चावाकाः पाकजोत्पत्तिपरिणामादि बलादस्थिरं शरीरमात्मेति मत्वानः || मन्यन्ते च || ततश्च काणादप्रभृतयो ज्ञानमुखाद्याश्रय भूतां | बुद्धिमेवात्मानं मन्यन्ते || ततोपि केचन श्रुत्यन्तविदो वुभुक्षापि पासायोग्यं प्राणमेवात्मनं मन्यन्ते || अपरे च शून्यब्रह्मवादि साङ्ख्य प्रभृतयस्सकल वेद्य राशिविनिर्मुक्तं शून्यत्वान्नभस्तुलं महाभूताकाश स्वभावं नभस्तत्वं प्रमातृत्वेनात्मानमाहुः || अयमत्राशयः || माया वशत्वेन चित्तत्वं विहायन्देहे बुद्धावित्यादौ यः प्रमाता | सोपि विकल्प एवान्यव्यपोहन व्यापारात् || परप्रतियोग्यत्वाश्च || इत्यनेन युद्धाहं रूपस्य न कापि शुद्धाशुद्धादिशङ्का || परंतु माया संपर्क वशाश्चिदचिदादि संस्कारात् तत् तदध्याहार इत्यवधातं || ५७ || अपि च || ओं कदाचित्कावभासे या पूर्वाभासादि योजना संस्कार्कल्पना युक्ता सापि भिन्नावभासिनि || ५८ || योहं बालः स एवाहं तरुणः | यस्तरुणः | स एव च वृद्ध इत्यादिनाया पूर्वाभासादि योजना | कदाचिद्भवेदेहादौ || पूर्वानुभवसंस्कारात् | सापि च भिन्नावभासिनि कल्पना प्रोक्ता | इत्यनेन मायावच्छिन्नस्मन् क्रिडति प्रभुरेवेति तत्र काक्षतिरिति सर्वमनवद्यम् || ५८ || ३५अ) इदानीसमुमेवार्थं पूर्वोक्तं चतुः श्लोकार्थेनान्यया युक्त्यानिगमयति || ओं तदेवं व्यवहारेपि प्रभुर्देहादिपाविशन् | भान्तमेवान्तरर्थो घमिच्छया भासयेद्बहिः || ओं एवं स्मृतो विकल्पे वाप्यपोहन परायणे | ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् || ओं किन्तु नैसर्गिको ज्ञाने बहिराभासनात्मनि | पूर्वानुभवरूपस्तु स्थितस्सस्मरणादिषु || ६२ || ओं सनैसर्गिक एवस्ति विकल्पे स्वरैचारिणि | यथाभिमत संस्थाना भासनाद्बुद्धि गोचरे || ६३ || तत् तस्माद्धेतोः | प्रभुर्देहादिमाश्रित्य | अहं करोमि | अहं जानामीति व्यवहरन् | अन्तःस्थमेवार्थोघं बहिः स्वेच्छथैवोन्मेषेण भासयेत् || तस्मादस्य प्रभोः | अनुभवे | ततः स्मृतौ | ततो विकल्पे ततश्चापोहन परायणे | गौरयं नाश्च इति निश्चये वा ज्ञाने चान्तराभासः स्थित एवेति निश्चयः || तस्माश्च बहिराभासनात्मनि घट इत्यनुभवे | स्मरणे पूर्वानुभवोनाम स्थितः प्रतिष्ठित इव || सोयं यो मया दृष्ट इति || सोयं देवदत्त इति वश्च || तस्मात् प्रभोरन्तःस्थं भावजातं बहिरपि प्रकाश्यत इति तदपि चिदद्वय रूपमेवभावजातं प्रकाशमानं प्रकाशात्मकमेवेति सिद्धम् | अतश्च स पूर्वानुभव रूपः स्वैरचारिणि विकल्पे स्वेच्छा चारिणि घटादिविकल्पे | नैसर्गिकः स्वाभाविक एवास्ति सोयं देवदत्तः | सचायं वामनदत्तः | यो महायज्ञादौ निमन्त्रित आसीत् || इत्यादिनाभिमत संस्थाना भासनान्निर्मलायां बुद्धौ प्रकाशनात् || अत एव च तदेव माहेश्वरं तत्वयश्च सर्वत्रानुभवस्मरणादौ व्याप्तसदहमिति स्वरूपेण ३५ब्) स्वात्मान्तरस्थं बहिरपि प्रकाशयति || इत्येवमहं बोधलक्षणा वृत्याहं बहिरन्तः प्रकाशयत्येक इति भावः || ६२ || इदानीमनेनान्तः स्थितमेव बहिःप्रकाशयति प्रकाशात्मा प्रकाश्यमर्थं | इत्थं जानन्नेव प्रत्यभिज्ञामासाद्य सर्वमेवेश्वर प्रत्यभिज्ञात्मकं विज्ञान सा स्वाद्य कृतकृत्योभवत्येवेत्यधिकरण सिद्धान्तदिशानायाससिद्धमित्येवं दर्शयन्नाह || ओं अत एव यथा भीष्ठ समुल्लेखावभासनात् | ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः || ६३ || अयं चात्रभावः || सर्वस्य जीवत इत्यत्र जातावेकवचन विभक्तिनिर्देशः || यथा | शक्तित्रिपुनतालोक शास्त्रका व्याद्यवेक्षणात् | काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे || अत्र तस्य काव्यस्योद्भवेनिर्माणे | एते हेतव एव हेतुः | एकवचनान्तेन | न तु हेतव इति बहुवचननिर्देशने || इत्येर्थमत्रापि सर्वस्य जीवत इत्यनेनमन्येषां जीवाश्रयाणामिति || तथा हि || गृहात्बहिर्निर्गतः सन् || ग्रामतरुणं तरुण्या नववञ्ज्वलमङ्जरी सनाथकरम् | पश्यन्त्या भवति मुहुर्मलिना हितरां मुखच्छाया इत्येवं पश्यन् | देवदत्तो विमृश्यति | किमियं सरोरुहपत्त्राक्षी सलिनमुखाजातेति || ततश्चनायं स्वरूपसौन्दर्यादि गुणयुक्त आसीत् | एवं तरुणं दृष्ट्वामोहितेति || तस्माज्ज्ञायते | वञ्जुललता गृहे चतुसङ्केतानागतासीति व्यङ्ग्यं || इत्यनेन मलिनमुखा जाता || इत्येवं विज्ञाय स्वकार्यप्रवृत्तिं प्रवृत्तः || इत्यनेना स्यास्य ज्ञानक्रिये स्वत एव ३६अ) सिद्धे सर्वस्यापि जीवत इति || इत्येवं सर्वत्रपश्वादावपि ज्ञानक्रिये स्वत एव सिद्धे || पशुरपि गृहान्निर्गत्यमार्गे वारण्ये | वारामादौ यद्यत् तृणाद्युपभोज्यं जानाति तदेव भुञ्जति | यन्न कण्वकतृणादि भुञ्जति || अतश्च तस्यापि ज्ञानक्रिये सिद्ध एव || इत्यनेन पशोरपि ज्ञानक्रिये स्वत एवसिद्धे | तत्कस्य न सिद्ध्येत ज्ञानक्रियाख्य युगलमि *?भावः || अत एवोक्तं || ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवत इति || कुतः || पूर्वोक्त यथाभीष्ठ समुल्लेखावभासनात् || इत्येवमधिकरणसिद्धान्ते न परमानुमानेना नाथामसिद्धं प्रत्यभिज्ञात्मक शास्त्रार्थ समुश्चयमिति भावः || यस्मिन्नर्थे सिद्धे तदनुया पून्यप्यर्थान्तराण्यापि सिद्ध्यन्ति | सोधिकरण सिद्धान्तः || यथा स्वात्मा परमेश्वरो बोधरूप स्वस्वभावो न भवस्मरणादौ व्याप्रियत एवा || अहं जानामि | अहंकरोमीत्यादिना || इत्यस्मिन्नर्थे हि सिद्धे | तदनुयायून्यप्यर्थान्तराणि || कर्ताज्ञाता च महेश्वर इत्यपि सिद्ध्येत् || तत् सर्वोयं जीववान्ज्ञानक्रियादि युक्त इति सिद्धम् || ६३ || इति श्रीमत्प्रत्यभिज्ञाकौमुद्यां श्रीभट्टारकानन्दनाथकृतायां सप्तममाह्निकं समाप्तिमगमत् || ३६ब्) इदानीं यदेभिर्बौद्ध वृद्धैः पूर्वं प्रश्नतमोमालिन्यमुत्थाप्यात्मानुभवाद्यनुभावक एव नास्ति | अनुपलम्भात् || स च कोयं | वा शरीरं | वा प्राणः | वा बुद्धिः वा नभ इत्यादिना | स्वमुखमालिन्यमेवरचितं | तदिदानीं तन्मतमालिन्यं निराकृत्यात्मानं दर्शयति प्रत्यक्षतया परमन्देहापनुत्तये च || ओं या चैषा प्रतिभातत् तत् पदार्थ क्रम रूषिता अक्रमानन्त चिद्रुपा प्रमाता स महेश्वरः || ६४ || यदयं प्रकाशानुत्तर रूपो महेश्वरः | अहमिति विमर्श स्वभावः | तत् स एव स्वातन्त्र्यानन्द चिदात्मा बोध इति कथ्यते सर्वत्रानुस्यत एवानुभवस्मरणादिषु सर्वदासंविन्मात्ररूपं इति हि पूर्वं प्रतिपादितमेव || तत् सैव च संविच्छैवं विधा | तत् तत्पदार्थ घटादि प्रतिबिम्बमयी नानात्वमापाद्यते || स्वयं च चिदाभासैक स्वरूपा तत् तत्स्पर्शास्पर्शव्यतिरिक्ता | अत एव चाक्रमानन्तचिद्रूपेति कथ्यते || अत एव च सैव यतो मातृमानमेयादि त्रिपुटीमयी तदैक्यता पादकबोध स्वभावा प्रमातेति | महेश्वर इति कथ्यते || तदात्मकत्वात् || तयोश्चान्योन्यं व्याप्तश्चेति सम्बन्धः || तथा च तन्त्रालोके || एकस्यसंविन्नाथस्य ह्यान्तरी प्रतिभातनुः | सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपासते || आन्तरी प्रतिभा स्वातन्त्र्य शक्तिः || तत् तत्सौम्यारौश्रदिनियताकारा वच्छिन्नत्वान्मितं || एतदेव च विभज्यदर्शयति | अस्यस्यात् पुष्टिरित्येषा संविद् देवी तथोदितात् || ध्यानात् संजल्पसंमिश्राद् व्यापाराश्चापिरह्रितः || तस्माद् बिम्बेश्वरो बोधभैरवः समुपाश्यते | अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जानैः || येपि बोधाद्विभिन्नं ३७अ) हि किंचित् पूज्यतया विदुः || तेपि बोधं विविञ्चना बोधाभेदेनमन्यते || इत्यादिना || तथा चान्यत्र || इयमात्मापरानन्दा संविदेषास्वयं प्रभा || एषा संवित् स्वयं प्रभा | स्वप्रकाशा अवेत्यद्वे सत्य परोक्षत्वात् व्यतिरेके घटादिवश्चेति || यत्र यत्रा वेद्यत्वेमत्र परोक्षत्वमस्ति | तत्र तत्र स्वयं प्रकाशत्वं || यथा संवित् || यत्रयत्रा वेद्यत्वे सत्यपरोक्षत्वं नास्ति | न च तत्र स्वप्रकाशत्वं | यथा घट इति व्यतिरेक दृष्टान्तः || इत्येवं पूर्वकृतोयमन्वयव्यतिरेक व्यवहारः || तथा चैतन्यमात्मेत्यादि संविद एवेवैवं ग्रहणात् || तथा च | न तत्र सूर्योभाति न चन्द्रतारकं ने मा विद्युतोभान्ति कुतोयमग्निः | तमेवाभान्तमनुभाति सर्वं तस्य भासासर्वमिदं विभाति || तथा च वेदः || हिरण्यगर्भः समवर्तताग्नेभूतस्यजातः पतिरेक आसीत् सदधार पृथिवींद्यामुतेकां कस्मैदेवाय ह विषाविधीम || इत्येवं स एव प्रमाता महेश्वरो नामेदानिं पूर्वप्रसिद्धः सर्वत्रध्यातृ ध्यानध्येय रूपः | परमशिवः | शिवादिक्षित्यन्त षट्त्रिंशत् तत्व हेतुस्सर्वशक्तिकारणमिति सिद्धः || ६४ || इदानीं वद्य वेद्यवेदकयोर्व्याप्तेः परस्पर सम्बन्धेनान्योन्यं सम्बन्धपाणि ग्रहणं प्रदर्श्यते || ओं तत् तद्विभिन्नसंवित्तिमुखैरेक प्रमातरि | प्रतितिष्ठत्सुभावेषु ज्ञातेय मुपपद्यते || ६४ || यश्चेदानीमान्तरत्वात् प्रमात्रैक्यने बहिरनुसरणं भावानामिति यदत्र वेद्यवेदकयोः परस्पराव गति सम्बन्धः || स एव चानयोत्बन्धु समागमोनाम सम्बन्धः || ज्ञातेयं बन्धता तेषां क्रमाद् भावसमूहयोः || तयोः परस्परं बन्धुतेति भावः | घटादिषु भावेषु हि प्रमातरि प्रतितिष्ठत्सुसत्सु गच्छत् सुसत्सु ३७ब्) एव परापनयनं विनैव | घटोयमित्यादिना परस्परबन्धुत्वं हि सुगमेवेति तद्विदः || अतः सिद्धोयं विद्वत्क्षमः वेद्यवेदयोरान्तरयोरेव बहिरपिवेद्यवेदनक्रमोस्यतित इति भावः || ६५ || इदानीं यद्येतदभावे | कथं हि तयोः परस्परसम्बन्धो नामेति दर्शयति || ओं देशकाल क्रमज्वषामर्थानां स्वसमापिनाम् | सकृदाभास साध्यो सा वन्यथा कः समन्वयः || ६६ || यद्येवं न स्यात् | तर्हि कथं समन्वयो नाम हि स्यात् || तदनपेक्षि तस्य हि तदनपेक्षा प्रवृत्ति प्रसङ्गात् || तदपेक्षि तस्य च तदपेक्षा प्रवृत्ति प्रसङ्गादेवेति तद्विदः || तस्मात् सकृदाभाससाध्यो | परचिद्बोधैक साध्यो | साधनार्हः || समन्वयः सम्बन्धः कः | कोपि न || अर्थानां तत् तत्घटादीनां देशस्य कालस्य | क्रमंज्वषन्ति मेवन्क्रीति | के दृशानां सतां | स्वसमापिनाम् || स्वस्मिन् रूपे | आन्तरे स्वात्म स्वरूपे समाप्तिं यातानाम् || तद्वृतिरिक्तत्वेन हि कस्समन्वय इति सम्बन्धः || अतश्चैकोदेश वृत्तिः | अन्यश्च कालवृत्तिः | अन्यश्च क्रमवृत्तिः || अथ च देशकालयोः क्रमज्वषामिति | एतत् स्वभावानामर्थानां बोधैकसाध्योसौ क्रमोन्यथा | तदभावे यावत् स्वसमाप्तिं | क इति सम्बन्धः || ६६ || ननु देशकाल क्रमज्वषामर्थानां किं सकृदाभाससाध्यः सम्बन्धः || यतो हि | अनुमान प्रक्रियासु हि धूमोग्निहेतुः | यत्र न धूमोग्निरपि न तत्रेति हेतु हेतु मतोरभेदविवक्षया हेतुरेव हेतुमन्तं श्रावयेत् इति किमनेन पुनरपि तुच्छतरेण बोध्यबोधनैक्य रूपेण व्यवहारेणेत्याह || ३८अ) ओं प्रत्यक्षानुपलम्भानां तत् तद्भिन्नांशपातिनाम् | सकृदाभास साध्यो सा वन्यथा कः समन्वयः || ६७ || इह घटे प्रत्यक्ष दृष्टे | गौर्नलभ्यते || तदनन्तरं च ग्रावादयोपि प्रत्यक्षेणैव पश्यति || इमागाव इति || ततोन्धत्व बधिरत्वादेर्यदि घटं न पश्यति | तद्गवादयोपि हिनं पश्येन्त्येव | इत्येवं प्रत्यक्षाभ्यामनुपलम्भैश्च यत्कार्यकारणभावः | परस्परं | सचैक प्रमातृज एव || आत्मज एव || प्रतृत्वेन सर्वत्र बोध स्वरूपात् || अन्यथा हि धूमादीनां हेतु हेतुमतां पूर्वत्र प्रसिद्ध स्वात्मांशमतनिष्ठानां परस्परबोधना सम्भवात् || तथा च || तत् तद्भिन्नांशपातिनामिति || तदेवं सिद्धं || सकृदाभाससाध्यो यदि समन्वयो न स्यात् || तर्हि भिन्नांशपातिनां प्रत्यक्षादीनां हि कः समन्वयः | कोपिनेति हि स्थितम् || तथा हि पर्वतोयं वह्निमान् | धूमवत्वात् यो यो धूमवान् समोग्निमान् || यथा महान सः | यो यो न | समोना यथामह्नदः || इत्यादौ हि कोन्वयो धूमाग्न्योः परस्परम् || प्रकाशाप्रकाश स्वभावत्वात् || इत्यनेन भिन्नांशत्वात् प्रमातृ बोधांशं विना न कापि युक्तियुक्तिमतां || तदन्यथा कः समन्वय इति कथितमितिभावः || ६७ || तस्मात् पूर्वोक्तमेव निगद्रढयितुमाह [+सनन] ओं स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसम्भवे || पूर्वानुभवसम्भावे साधनं सैवनापरं || ६२ || एवं पूर्वोक्तमेव यैव संवित् पूर्वानुभवे | घटोयमित्यादौ || सैवस्मृतौ पश्चात् तन्मया दृष्टमित्यादौ || इत्यनेनानयोर्बध्योबोधकयोः परस्परसम्बन्धाभिधो | जनव्यवहार इति सिद्धम् || इति श्रीमद्भट्टारकानन्दनाथकृतायां प्रत्यभिज्ञाकौमुद्यां अष्टममाह्निकम् || इदानीं येप्यन्ये बाध्यबाधकालोकानालोकादि व्यवहाराश्चान्ये भाववादि पूर्वप्रसिद्धा चार्यकृताः || बोधात्मक स्वात्मना किं प्रयोजनं || वाध्यबाधकादि व्यवहारेण हि कार्यकारणाद्युपलब्धेरित्यलं वेदकात्मनाहं रूपेणात्मना || इत्येवं सन्धानस्तानेवं भूतां नादौ संवादमात्रेणाङ्गी कृत्य || पश्चात् तेषां मतमपि स्वात्ममत आलोद्व्य? || बाह्यान्तरव्यवहारश्चैक प्रमातारं विनान सिद्ध्यतीत्याह || ओं वाध्यवाधकभावोपि स्वात्मनिष्ठा विरोधिनाम् || ज्ञाना न मुदियादेक प्रमातृपरिनिष्ठितेः || ६९ || शुक्ताविदंरजतं इत्यत्र शुक्तिशुक्लादिगुणनेन योरजता देर्बाधः || सै च प्रमातृ पेक्ष्यां विना न सिध्यति || शुक्तौ न रजतं | शुक्तिकामौ कॢत्व प्रसङ्गात् || शुक्ति काशौ कॢत्वमेवात्र प्रमाणमिति || न रजत ज्ञानमज्ञानादिना || परस्पर विरोधा पत्तिप्रसङ्गात् || इत्थं तेन परस्परं ज्ञानयोस्स्वात्मांशनिष्ठत्वात्परस्पर हेतु हेतु सम्भाव विरोधात् || कुत्र शुक्तिः कुत्र च तत्र रजतादि | कुत्रतच्छौ कॢं चेति परस्पर विरोधादनयोस्तस्मादत्रैक प्रमातृता हेतु सम्भावं विना न तत्रापि परस्पर विरोधाविरोधज्ञानाव गतिरिति भावः || इत्थं नापि तत्र बाध्यबाधकादि व्यवहारस्य स्वत एव सङ्गतिरपि त्वेक प्रमाता बोधात्मा स्वयमात्मानस्यात् साक्षी इदानीं संभावमात्रेणान्यथापि प्रमातृ पेक्षां विना न सिद्ध्येत् प्रमातारं विना सिद्धेः || इत्यपि दर्शयन्नाह || ओं विविक्तभूतल ३९अ) ज्ञानं घटाभावमतिर्यथा तथा चेच्छुक्ति ज्ञनं रुप्य ज्ञाना प्रमात्ववित् || ७० || ये अभाव वादिन् यत्येवं वदसि | शुद्धं भूतलज्ञानं | इह भूतले घटोनास्तीति || यथा च घटाभावमतिः | घटाभावप्रतीतिः || भूतलस्य शुद्धत्वात्वेक वलभावेन | तथैव चेच्छुक्ति ज्ञानमपि केवलं | रुप्य ज्ञाना प्रमात्ववित् रुपज्ञानाभाव हेतुरिति || तश्चनास्ति || ७० || यतश्च || ओं नैवं शुद्धस्थल ज्ञानात् सिद्ध्येत् तस्या घटतात्मता || न रूपलब्धियोग्यस्याप्यत्रा भावो घटात्मता || ७१ || नायं नियमं | शुद्धस्थल ज्ञानेन | इह भूतले घटोनास्तीति | तेना घटात्मता न सिद्ध्येत् || किं नो पलब्धि योग्यस्याप्यत्र भूतले घटोस्तीत्यत्रापि घटाभाव एव || स्थूलघटायोः स्वस्वभिन्नांशे स्वरूपसम्भवात् || न च घटस्थल योरन्योन्यं हेतु हेतुमद्भावः | भिन्नांसत्वात् || तद्यथा शुद्धस्थल ज्ञानेन घटा भावमतिः | तथा शुद्ध सूलज्ञानेनापि | परस्पर भिन्नांशत्वात् || इत्यनेन हि शुद्धाशुद्धस्थूलज्ञानं सममेवेति किमनेनापि वेद्यवेदकभाव एक प्रमातृतां विना न सिद्ध्येदितिभावः || ७१ || तदेवेदानीं दर्शयति || ओं विविक्तं भूतलं शश्वद्भावानां स्वात्मनिष्ठितेः || तत्कथं जात्ततज्ज्ञानं भिन्नस्याभावसाधनम् || ७२ || भूतलं सर्वदा विविक्तमेव घटादीनां भावानां स्वात्मनिष्ठितः | स्वात्मांश घटस्थलादिनिष्ठत्वात् | अयं घटाः | इदं च सूलमिति || न च घटोयमित्यनेन सूलत्वा व गमस्त्यात् परस्परैक्यावगमात् || न च स्थूलमिदमित्यनेन घटप्रतीतिः | न च तत् तयोः || ३९ब्) तस्माद्युक्तमेतत् || विविक्तं भूतलंशश्वद्भावानां स्वात्मांशनिष्ठत्वात् || तस्मादेव हेतोस्तज्ज्ञानं तत्स्थूलज्ञानं कथं स्वात्मनो भीन्नस्य घटस्या भाव साधनम् | अभाव हेतुः स्यादिति न कदापि भीनयोः परस्पर हेतु हेतु सद्भावः || ७२ || न चैवमभावमात्रेण किं चिदुपनतमित्याह || ओं किन्त्वा लोकचयोन्धस्य स्पर्शो वोष्णादिदिकोमृदुः | तत्रास्ति साधयेत् तस्य स्वज्ञानमघटात्मताम् || ७३ || अन्धस्य प्रकाशव्यतिरिक्तात्मनः चक्षुरभावाद्य आलोकपुञ्जस्तेन चोष्णादिकस्पर्शः | त्वगिन्द्रिय वृत्त्या || तेन च तस्या घटात्मतामपि स्पर्शवत्या व्यक्तीभवति || इत्येतदस्येवावश्यकतया न च तदस्ति स्पर्शो उष्णादिक एवा घटात्मतां साधयति || तत्रापि च चित्स्वरूपप्रमाता व्यापकस्तेन स्पर्शादिना हेतुना जानात्येव || नत्वत्रस्पर्श एव हेतु | स्वांशात्मनिष्ठतया भिन्नस्वभावत्वात् इति प्रोक्तं वक्ष्यते च || ७३ || न चैवमपि किंचिदासाद्यते प्रयोजनादि || इत्याहुः || ओं पिशचः स्यादनालोकोप्यालोकाभ्यन्तरे यथा अदृश्यो भूतलस्यान्तः निषेध्यः ससर्वथा || ७४ || इह भूतलोपिशाचस्थापनास्ति || इह वहवटे यक्षः प्रतिवसतीतिवत् || परंत्व प्रत्यक्षतया || तत्र च पिशाचोनास्तीति नवाश्यं || वक्त्रमशक्त्यंत्वात् || आगमप्रमाणेनसर्वप्रमाणप्रमाणेन साध्यसिद्धत्वात् || यदि चा प्रत्यक्षोपि तत्रपिशाचस्तथाप्यत्र प्रत्यक्ष एवागमप्रामाण्य सिद्धेरितिभावः || ४०अ) एवं यथेह भूतले घटोनास्तीति निषेधो व्यवहर्तुं शक्त्यते तथेह भूतलेपिशाचोनास्तीति न व्यवहर्तुं शक्तयात् || आप्तवाक्य विरुद्धापत्ति प्रसङ्गात् || घटस्तु साक्षादालोकेपि प्रत्यक्षतयानिषेद्धं शक्यते | घटसमीपेय आलोकस्तस्य च घटोपाधेन नवस्थानात् || अतस्तद्व्यतिरिक्तो निषेध्य एव सर्वथा || पिशाचस्त्वा लोकमध्ये वा भूतलमध्येपि सत्वेनालोकतां न प्रतिहन्ति | अतश्चानिषेध्य एव इत्यनेनापि न किंचिदन्योन्यस्य साधको हेतु हेतु सद्भावतया यः प्रसिद्धः स्यादितिभावः || परंत्वेक प्रमातृत्वे मृतिसर्वं सर्वत्रसिद्धेदितिकोयं निषेधव्यवहारः || येन व्यवहारेण हि स्वस्वरूपसिद्धं विहाय | परंसर्पज्जुवदाभातमाश्रयेदिति नात्र व्यप्तिः || नह्यकृतके प्राप्ते कृतकमाश्रयेदिति हि व्याप्तिः || तस्मादत्राप्याभास एव प्रमातृतया प्रकाशात्मा प्रकाश्यमर्थमाभासयतीति सर्वसिद्धान्त निश्चयः || इदानीमभाववादिनामपि स्वमुखमालिन्येन नभस्तमो धूमरजोमालिन्यादिवत् मतं निराकृत्य | स्वपक्षस्थापनं निगमयति स्वप्रकृतयोजनेन || ओं एवं रुप्यविदाभावरूपाशुक्तिमतिर्भवेत् | नत्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यावेदिका एवं सिद्धे शुक्तिकाज्ञानेशुक्लस्वभावे सिद्धे | रजताभावरूपाशुक्तिमतिरपि सिद्ध्येत् || न च तत्राद्य रजतज्ञानस्या प्रामाण्यां सिद्ध्येत् || परस्परभिन्नस्वभावत्वादित्युक्तं | वक्ष्यते च | तत्सर्वोयं व्यवहारः प्रमात्रेपक्षां विना सिद्ध्येदिति हि सिद्धम् || ७८ || ४०ब्) ननु यदि शुक्तिकादेर्भ्रममात्राद्रजतज्ञप्तिन्नास्ति तर्हितत्रैवानुमानसाधनेन रजतप्रतीतिरस्तु || तथा हि || यत्र यत्र हि सौक्ल्यं | तत्र तत्र हि रजतज्ञप्तिः | यथा हि नवनिधि विषयेषु शुक्लरक्तादिनारुप्यसुर्णादि बुद्धिः | यत्र यत्र न वनिध्यादौ शुक्लाशुक्लप्रतीतिः | तत्र तत्र सुवर्णासुवर्णादि प्रतीतिरपि || यत्र न तत्र नापि | यथा काकिन्यादि सङ्खशुक्तिविषयादौ || इत्येवमनुमानतो व्यवहृतेः शुक्तावपि रजतप्रतीते सुत्किं न ज्ञानं ज्ञानान्तरगम्यं | नापि चात्र स्वात्मांशनिष्ठामात्रं भवन्मतविरुद्धमति कृत् || इत्यत्राहुः || ओं धर्म्यसिद्धेरपि भवेद्वाधानैवानुमानतः || स्वसंवेदनसिद्धा तु युक्ता सैक प्रमातृजा || ७७ || यदुक्तं नवनिध्यादावित्यादि || तद्वयं न मृषामहे || अनुमानादौ पक्षसपक्षविपक्ष हेतु हेतु सद्भाव सत्तायामनुमानादि व्यवहारः || न तु शुक्ताविदं रजतमित्यादौ | पक्षाभावे सपक्षाभावात् | तदभावे च विपक्षाभावादपि | मूलाभावेशाखा पल्लवाद्यभावात् || अथ च भ्रमिमात्र प्रकाशनेन च विषयाभावात् तदभावे च विषययभावादिति हि सिद्धम् || अत एव च धर्म्य सिद्धेर्वाधानामानुमानतोपि न भवतीति || प्रकाशमानसदातन नित्य व्याप्त विश्वैक रूपरूपे तु सिद्धे स्वात्मनि सापिवाधानामसिद्धा | सिद्ध्यति चेति गूरुवराज्ञा | स्वात्मानुभवश्चेति सिद्धोयं व्यवहारः || न चैतद्विना कापि युक्तिर्वा भ्रमिमात्रप्रतीतिश्चेति सिद्धम् || ७७ || ४१अ) इदानीमेतन्निगमयति सर्वं || ओं इत्थमन्यर्थभिन्नार्थावभास खचिते विभौ | समलोनिर्मलोवापि व्यवहारोनु भूयते || ७८ || इत्थमनेन पूर्वोक्तप्रकारेणात्यर्थं भिन्नाये पदार्थाः | नीलानीलादयः पदार्थाः | तैः खचिते व्याप्ते विभौ | आद्येशि वाख्ये परमतत्वे स्वात्मनि | समलः || घटोयं | पटोयमित्यादि | निर्मलश्च सोहमित्यादि च यत्किंचिदस्ति | शुद्धामशुद्धं स्थूलं सूक्ष्मं च | तत्सर्वमेव तत्रैवानुभूयत इति || अयमत्राभिप्रायः || शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते | शक्तयोस्य जगत्सर्वं शक्तिमांस्तु महेश्वर इत्यनेन शक्तिमात्योजः परमेश्वर इति वेदक इति ख्यातस्स एव | या चाभ्याशक्तिरिति सापि वदेकान्तर्भूतत्वेन चित्स्वभावा बहिरप्युन्मेषच्छजाया प्रमरतीत्येवं चित्सुधाच्छजामात्ररूपांसतिचिन्मात्र रूपैवेतिनान्य द्वेद्यंनामेति भावः || तथा च पुरस्तात् || भावाभावावभासानां बाह्यतोपाधिरिष्यते || नात्मासत्ताततस्तेषामान्तराणां सतां सदेत्यादिना || तस्मादुक्तं युक्तमेव || भिन्नार्थावभासखचिते विभौ | समलोनिर्मलो वापि व्यवहारोनुभूयत इति || इत्येवं सिद्धं || मकुरबिम्बदवभासमाने जगत्यस्मिन्वेद्य वेदकाभिमत भ्रमिमात्रं न किमपि व्यवह्रियते || यथा गन्धर्वनगरं यथा वारिमरुस्थल इत्यादिनायत् प्रसिद्धतरमिति भावः || तत्सिद्धोसौ प्रमातानाम स्वात्मा महेश्वरः || सर्वज्ञाता कर्ताचानुभविता शिव एवेति सिद्धम् || इति श्रीमद्भट्टारकानन्दनाथरचितायां प्रत्यभिज्ञाकौमुद्यां नवममाह्निकं समाप्तम् || ४१ब्) इदानीं यदेतत् समलोनिर्मलोवापि व्यवहारोनुभूयत इत्यादि प्रोक्त पूर्वमस्ति | तदेवमायेव क्रमगत प्रत्यक्षा प्रत्यक्षतया भासमानं ध्वनोद्यन्यथा || ओं तात्कालिकाक्षसामक्ष्य सापेक्षाः केवलं क्वचित् | आभासा अन्यथान्यत्रत्वन्धान्धतमसादिषु || ७९ || अयं चात्रभावाभावप्रकाशः || आन्ध्यबाधिर्यादि विशेषा प्राप्तौ पुरुषस्यानुभावकस्यानुभवाः प्रत्यक्षतया घटोयं पटोयं | नीलमिदं | पीतमिदं | इत्यादिनास्कुलं? भवत्येव || आध्यबाधिर्यादिमहोपाध्यभावात् || इत्येवमुक्तं क्वचित् || अन्यत्रापरथा च || आन्ध्यबाधिर्यतारतस्यात्वपाधिनात एवानुभवाः प्रत्यक्षगोचरा | अप्रत्यक्षतां यान्ति | कुत्रापि च || प्रत्यक्षा प्रत्यक्षतां च यान्तीति || यथा किं शृणोषि | श्रुतं परं तु मन्दंमन्दं || किं सृणोषि | किमपि न || एवमन्धतमसादिष्वपि || धावन्कार्यार्थं दिवापश्यन्सर्वं गच्छति || अथचोत्पन्नेन्धकारे किमपि न पश्यत्यपि || तामसोपाधि वृद्धिवशात् || इत्यनेनानुभवस्यायमेव विशेषः || अनुभावका तु तादृक् स्वशुवो | यश्च दिवालोक विषये | वारात्रौचान्धकारविषया वगाहिते सर्वस्मिन्विश्वेपि तादृक् स्वप्रकाशबोधकनित्यनिरावरणसर्वव्यापि स्वभाव इति तत्र न क्वापिहानिरिति | न द्वित्वं | न बहुत्वं चेति सिद्धम् || ७९ || इदानीं योनुभव रूपोनुभवात्मको बोधस्तस्या च न भेदभ्रान्तिरिति दर्शयन्नाह || ओं विशेषोर्थावभासस्य च वातद्विषयस्य च सत्तायां क्वचित् || विकल्पेषु भवेद्भाविभवद्भूतार्थगामिषु || ८० || योघटोमयानुभूतोर्यंस्तं स्मरामि | पुरस्ताश्च | तमेवानुभविष्यामि || ४२अ) इत्यादौ योनुभवस्स एव त्रिकालव्यापीनापि च तस्य भेदः वानुभवस्य | वा [घटादेः] नुभावकस्य चेति परंत्वन्धत समादौ महोपाधिवशाद् भेद एवेति भावः || ८१ || ननु च घटपटनीलानिलादौ परस्परविशेषा विशेषस्रूपपद्यतां | प्रत्यक्षतयास्भटन्वात् || यत्र चान्तरेण | मुखोपलब्धिस्तदवभासस्य | वैचित्र्यं कथमित्याह || ओं मुखादिषु च सौख्यादि हेतुष्वपि च वस्तुषु | अवभासस्य सद्भावेप्यती तत्वात्तथा स्थितिः || ८२ || येषु स्रक्रुन्दनहारादिषु सौख्यादि हेतुषु वस्तुषु | अहं मुखी | अहं विश्रामामि || इत्यादिना मुखादि हेतु ष्वयभासस्य सद्भावेपि | तथा पूर्ववत् तत्र न स्थितिः | आन्तरत्वात् | कदापि तथादि शब्दादहितृण कष्टकादौ दुःखादि प्रवृत्तौ च सत्यां | अहं दुःखीति || तथापि न पूर्ववत् || कदाकदाचिदनुभूतत्वात् || वाननुभूतत्वात् || घटादयस्तु भावास्सर्वत्र सर्वदा प्रसिद्धा इति सर्वास्ववस्थासु वा सर्वत्र कालेषु च भातभासमान स्वभावाः सिद्धा इति || मुखादौ तदनुपयोगान्नतादृगनुभवभङ्गिः || ८२ || अथ चोल्लेखेन यत्र मुखादयोनुभूयन्ते | तत्र च तथैवस्थितिरित्याह || ओं गाढमुल्लिख्यमाने तु विकल्पेन मुखादिके | तथा स्थितिस्तथैव स्यात् स्फुटमस्योपलक्षणात् || ८३ || एवं हि विकल्पोल्लेखनेनाभिज्ञाते मुखादौ स्फुटत्वेनोपलक्षणात् तथा स्थितिरपि तथैवः पूर्ववदिति संबन्धः न किमपीतिभावः || ८३ || ४२ब्) एवं निश्चिते सर्वत्र सर्वदान्तरेवस्थितौ विश्वस्य सिद्धायां बाह्याथवान्नापि बाह्यंनापि किमपि घटादिवृतिरिक्ततया भातीत्याह | निगमनेन || ओं भावाभावावभासानां बाह्यतोपाधिरिष्यते | नात्मासत्ता ततस्तेषा मान्तराणां सतां सदा || ८४ || अयं चात्रभावः || सर्वेषा चिदचिन्मयानां नीलानिलादीनां विश्व वैचित्र्य चित्रितानामन्तरेवस्थितिर्बहिरपि प्रकाशते || न चान्तरं विनाबहिर्भावो हि कल्पते || कारणाभावे हि कार्यानुदयात् || सतिकारणे कार्यसंयोगात् || इत्यनया व्याप्त्या हेतु हेतु मतोश्चाभेद विवक्षया सिद्धं चैतत् || अन्तरे सति बाह्यत्वं नाम प्रसिद्धमिति भावः || तत एव च तेषां बाह्यत्वेन या सत्ता | घटोयमित्यादिना | सा चा सत्तैवेत्याहुः | अध्यासमात्रेण च सा सिद्धिः | वा गगनभ्रान्तचित्र नगरादिवश्चेति बाह्यनाम न किमपि स्वरूप तया प्रतिभाति || एतश्च पूर्वं बहु श एवम्रतिपादितमेव || अत एवोक्तं | ततस्तेषामान्तराणां सतां सदेति | तत एव चोक्तं || भावानां | घटादीनां | घटोयमित्यादिना || अभावानां च | न पटोयमित्यादीनां च ये वभासाः अवभासनं || प्रत्यक्षतया | अयं | स इत्यादिना प्रतीतिः तेषां च भावाभासानां | अभावाभासानां च बाह्यता | या अयमिदमित्यादिना | सा चोपाधिरिति कथ्यताम् || न च तत्वरूपता तेषामिति वक्ष्यते च वोक्तं च || तत्सिद्धेयं दशा || अन्तरस्थितानां भावानां बाह्यतापि प्रसिद्धा बीजाङ्कुरवत् सिद्धा | वाम यूराता?रसवश्च सुवर्णतार तस्यादिना च || ४३अ) असदकरणादुपादान भ? न हणात् सर्वसम्भवा भावात् | शक्तस्य शक्यकरणात् कारणभावाश्च सत्कार्यमिति साङ्ख्या विवेकवन्तः || ८४ || अत एव च | ओं अन्तरत्वात् प्रमात्रैक्येनैषां भेदनिबन्धना | अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः || ८५ || आन्तरत्वेन च प्रमात्रैक्येन चैतेषामर्थ क्रियाभेदनिबन्धना | सति बाह्यत्वे च सा भेदनिबन्धनार्थ क्रियाभिन्नाव भास हेतुतया न तु स्वत इति सम्बन्धः || ८५ || अत एव च || ओं विकल्पयोयमुल्लेखः सोपि बाह्यः पृथक् प्रथः | प्रमात्रैकात्स्यमान्तर्यं ततो भेदो हि बाह्यता || ८६ || अन्तर्यं तु प्रमात्रैकात्म्यमिति हि सिद्धम् | ततोपि भेदस्तु बाह्यतेति कथ्यते || यतस्तु यो यमुल्लेखो विकल्पविषये | एतत् | इदं | अयमित्यादिना | सोपि चान्तरत्वेसति बाह्यः | पृथक्तथेति कथ्यते इति सर्वमेवावधातम् || ८६ || तस्मात् तदुल्लेखादि सर्वेश्वर महिम्नैवतदिच्छयैवेत्याहुः || ओं उल्लेखस्य मुखादेश्च प्रकाशो बहिरात्मना | इच्छातोभर्तुरध्यक्ष रूपोक्षादि भुवां यथा || ८७ || एवं हि सत्यान्तरत्वे या बाह्यतया स्थितिर्वा प्रकाशादिना | वोल्लेखादिना च | मुखदुःखादेः | मुख्यहं | दुःख्यहं वेत्यादिना च | सा च भर्तरात्मनच्छात एव | पश्यश्छ्यणुन्स्पृशन्जिघ्रन्नित्यादि नाना वृत्या | यथा क्षादि भुवां मध्यक्षरूपः | दृष्टो मया | श्रुतो वा | घ्रातो वा | आस्वादितो वा | स्पृष्टो वेत्यादिना च एवं यत्क्रियते स्वच्छयात्मा महेश्वरस्तत् क्रियत एव || ८७ || तस्मादेवमेव पूर्वोक्तं निगमयति || ओं तदैक्येन विनास्ति ४३ब्) संविदां लोकपद्धतिः | प्रकाशैक्यात्तदेकत्वंमातैकः स इति स्फुटम् || ८८ || तत् तस्माधतोः | अनुभवस्मरणादौ यद्धोधैक्यं | य एवानुभवः | तदेव हि स्मरणां | यश्चस्मरणं | तदेव च पुरस्तात् || इत्यनेन यो बोधोबोधाबोध गृहीता प्रमातेति स एक कथ्यते || स च सर्वत्रानुस्युत एव || तथा च जाग्रदादि विभेदेपि तदभिन्ने प्रसर्पति | निवर्तते निजान्नैव स्वरूपादुपलब्ध्यतः || इत्यादि स्पन्दे | तस्मात्प्रकाशैक्यात् | सर्वत्रैकत्वमेव सिद्धम् | दर्पणं नगरवत् || यतश्च तेन विनासे विदां ज्ञानानां लोकपद्धति व्यवहारः लोकपद्धति व्यापारोपगमोपि च नास्ये वेति निश्चयः || इत्येवं पूर्वोक्तं बोधलक्षणोक्यं पश्चात् सूचितं सावधानतयेति सिद्धम् || ८८ || तस्मादेवमेव सिद्धम् || ओं स एव विमृश्यत्वेन नियतेन महेश्वरः | विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः || ८९ || स एव हि बोधोविमर्शशक्तिभाक् नियतं | महेश्वर इति कथ्यते महान्नैश्वर्यमय इति कथ्यते || यतश्च स्वभावमवभासस्य विमर्शं विद्वरत्यथा | प्रकाशोर्थो परक्तोपि स्फुटिकादिजडोपमः || एतदेव च तस्य विमर्शोनं नाम || एकोहं | बहुस्यामिति | स ऐक्षत बहुस्यां प्रजायेयेति || एवमहंभावनया विमर्शः || ततश्चाहं करोमि | अहं गच्छामि || अहं जानामीति यो विमर्शस्तच्छक्तिमान्नसौ जयति | ये नैव च विमर्शेन सृष्टि स्थिति प्रलयपिधानानुग्रहान्कर्त्तमकर्त्तमन्यथा कर्त्तं शक्त इति | तेन च स एव हि विमर्शोनाम तस्येवं तु तस्य परमेश्वरस्य शुद्धे स्वस्वभाववन्निर्मले ज्ञानक्रिय एव वयतोहेतोः || ज्ञानं च क्रिया च | त एव हि ज्ञानक्रिये | यतोपि विमर्शेन जानामीदं | करोमि चेदमिति च || जानात्येव || करोत्येव च || इत्येवं शुद्धस्वरूप एव प्रभो ज्ञानक्रिये शक्ती स्वात्मनो बहुधा सम्पादनार्थं स्वोपकरणे मते || ४४अ) इति तदनेन सर्वोयं भावनाशिः || ज्ञातमिदं मया | घटोयमिति || ततश्च जलापहारणो क्रियामयं करोतीति जानाति च करोति च तत् तत् क्रियामात्रमपि || इत्येवं तस्यात्मनस्स्वस्वभाव सिद्धे ज्ञानक्रियाख्ये || त एव च स्वात्मन एव स्वतः सिद्धे | प्रत्यक्षतया | घटोयमिति ज्ञात्वा करोमीति च जानाति | वा करोमि च || इत्येवं सर्वमिदं विश्वं ज्ञानक्रियामयमेवेति भावः || एवं चादौ कर्तरि ज्ञातरि स्वात्मन्यादि सिद्धे महेश्वरे || इत्यादिना | पश्चाश्च विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यत इत्यन्तेन च ज्ञानक्रिया सम्पुटितत्वेन शास्त्रमिदं गुम्फितमितिभावः || अनेनैव च तात्पर्येणादावपि परमेश्वरे सिद्धे | कर्तरिज्ञातरिस्वात्मनीत्यादिना || पश्चाश्च प्रमात्रैक्यात् तदेकत्वं मातैकसतति स्फुटमित्यन्तेन च तस्मिन्नेव च सिद्धे शिवशक्ति तत्व द्वयमेकत्र सिद्धमिति भावः || शक्तिश्च शक्तिमांश्चैव पदार्थ द्वयमुच्यते | शक्तयोस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वर इत्यनेन शिवशक्ति द्वयमेवसिद्धमितिभावः || तदा वरणकमेववेदं सर्वमिति च तात्पर्यार्थः || अयमत्रभावः || स्वपदास्वशिरच्छायां यद्वल्लङ्घित्तमीत्यते | पादोत् देशेशिरो न स्यात् तथेयं बैन्दवी कला || इत्येवं स्वरहस्योद्घाटनं स्वरहस्येन विचार्य | रहस्यं रहस्योद्घाटनं च मनसैवभाव्यमिति भावः || शुभमस्तु सर्वजगतां || ८९ || आदितः || ४४ब्) इति श्रीमद्भट्टारकानन्दनाथ रचितायां प्रत्यज्ञाकौमुद्यां दशममाह्निकं समाप्तिमगमत् || इत्येवं ज्ञानाधिकारः सम्पूर्णीकृतोयं विवृतिकौमुद्यां भट्टारकेणतरुवरचरणरजः प्रभाकरध्वस्ततमोमोहान्ध्यविलसश्चिदानन्द लहरीभरेण | शुभायास्तुतमाम् || ओं इत्थं ज्ञानाधिकारस्य यथा बुद्ध्यनुसारतः | भट्टारकानन्दनाथैर्कृता विवृत्तिरुत्तमा || १ || बालबोधनशीलाख्यामधुरा सरलाकृतिः | तत् तद् गुप्तार्थतिरमाग्राङ्कुशाकर्षणशालिनी || २ || इत्थमसंस्कृत दुर्वचनान्ध्योन्दूलनैक चतुराशुभसारा संस्कृताढ्यवचनैवृतभाराज्ञानवज्जनमनः | कृपारा || ३ || श्रीप्रबुद्धपरमामृतधाराह्य प्रबुद्धसरसीकृत क्षारा | सज्जनैस्तु स्ववचः कृतहारास्वप्रबुद्धकृतमोहनमारा || ४ || शक्तिपातचिदम्भोधिरसास्वादमनीषया | श्रीमद्भट्टारकेनापि कृतोयं विवृति श्रमः || ५ || एवं ज्ञानाधिकारोसौ ज्ञानशक्ति स्फुरद्वपुः | श्रीविद्यायाः कटाक्षेण भूवाद्विघ्नौघशान्तये संवत्सरे गुणमुन्यङ्किते तथा नभस्य कृष्णेपि चतुर्दशीति || थौ | मध्याह्नदिष्टेपि तथामघोदये ज्ञानाधिकारोयमगात् समाप्तिम् || एवं पूर्वावमारेण ज्ञानशक्तिः | परीक्षिता | अथा परनुमात्रेण क्रियाशक्तिः परीक्ष्यते शुभमस्तु सर्वजगतां परहितनिरताभवन्तु भूतगणाः || दोषाः प्रयान्तशान्तिं सर्वत्रसुखीभवन्तु लोकाः || शुभमस्तुसाधकानां || ४५अ) ओं नमः श्रीविद्यापादुकाभ्यः || श्रीगुरुवरचरणेभ्यो नमः || ओं नमस्कृत्य परां विद्यां श्रीसम्भुं शङ्करं परं | गुरुनाथं गणपतिं नुत्वा सर्वार्थ सिद्धिदम् || १ || ज्ञानाधि कारमालोड्य विविश्य च पुनः पुनः | सम्पूर्णीकृत्य च ततः पूर्वशास्त्रविदागमैः || तस्मादङ्गङ्गि भावेन साहचार्याढतोन्यथा | क्रियाधिकारं प्रकटीक्रमो गुर्वाज्ञयावयं || ३ || ज्ञाने सिद्धे तत्पुरस्तात् क्रियाप्यावश्यकीमता || जाते ज्ञान क्रिया तत्र सिद्धैवनियतिक्रमात् || ४ || प्रोक्तोदानीं क्रियानामक्रियाज्ञानार्थ रूपिणी | तदिदानीं प्रवक्ष्यामः क्रियाधिकारसन्ततिम् || ५ || ओं अत एव यदप्युक्तं क्रियानैकस्य स क्रमा | एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् || ६ || यश्चैवमन्यमतादिभिः पूर्वोक्तं | एकस्य च परमेश्वरस्य सक्रमयाक्रियया कथं सम्बन्ध इत्यादिना पूर्वं | तच्च प्रत्युक्तमेव || दूरीकृतमिति भावः || पश्चादन्योन्यप्रश्नोत्तरतया चैकस्यैव बोधस्वरूप स्वात्मपरमेश्वरस्य समर्थनात् | इत्युक्तमेव || वक्ष्यते च || इत्थमनेनैकस्यानेकेन सम्बन्धः कथमिति यत्तन्न | अयुक्तेरिति सिद्धम् || नन्वेक एव महेश्वर इत्येत्थं सिद्धे | क्रियायाश्चानेक कालाकारविधानभङ्ग्या स्वरूप निष्पत्तेः कथमेकस्यसिद्धस्यानेकया सम्बन्ध इति तथापि स एव विरोधः पुनरप्यापतेत || इत्थं किमपि नायातम् || अत्रोच्यते || सद्येकस्मिन्नेव महेश्वरे सिद्धे | नापिकश्चिद्विरोधो नाम मूलस्थिता चैकत्वेन || ४५ब्) नानानेकत्वविरोधाभावात् || यथावृक्षादयः | तत्र मूले सिद्धे वृक्षाढौ शाखादीनामनेकत्व विधानं सिद्धमेव || [अथ श्रीमालिनी विजयोत्तरे || या सा शक्तिर्जगद्धातुः कथिता समवायिनी | इच्छात्वं तस्य सा देवि * *? प्रतिपाद्यते | १ || सैकापि सत्यनेकत्वं यथा गच्छति तच्छणु | एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितं | ज्ञानी? जगन्त्यत्र ज्ञानशक्तित्रि? गद्यते? | एवं भवद्विदं सर्वमिति कार्यो दुखी?यदा जाता तदैव तत्तद्वत् कुर्वन्त्यत्र किम्? मत् | एवं यथाद्विरूपैव पुनर्भेदैरनेकधा मतोजाधिवशाद्याति चिन्तामणिरिवेश्वरी | तत्र तावत् समायन्नामतृभावं विभिद्यते | द्विधा च नवधा भेदैः पंचाशत्वासमालिनी || इत्यादिना प्रकाशितयोमर्थः श्रीमन्मालिनी विजयोत्तरे ||] जातश्च पूर्वं सिद्धान्ती कृतमेव || यथा वैयाकरणादौ || यथा चा लङ्कारशास्त्रादौरसभेदाः || अकारादीनां चाष्टादशभेदानि || इत्यादिनाचैकस्य बहवोभेदा यथा पूर्वं प्रतिपादिताः | तथा ब्रह्मणोपीत्यादिना प्रोक्तमेव पूर्वं तथैकस्यैव महेश्वरस्यानन्त क्रियाभेदमात्रेणापि योजनान्नदोष इत्यर्थः एतश्च पूर्वं संस्कर्ता इत्यादिना प्रतिपादितमेव पश्चान्निश्चयेनैकस्यैव बोधाबोध स्वभावस्य समर्थनान् तदेक एवासौ नानाशक्ति चक्रं भजन्ने एवाहमित्यत इदन्तास्पदारोह समर्थनात् || इत्यनेन चाक्रमोसौ क्रमप्राप्तं शक्तिद्वयं ज्ञानक्रियाख्यं भजत इति भावः || १ || ननु चाक्रम स्वभावे परमेश्वरे भगवति कथं स क्रमत्वविरुद्ध संयोग इति || परस्परा व्याप्ति हेतु प्रसङ्गात् || अग्निनासिञ्चेदितिवत् || तद्यदुक्तं || अक्रमस्य स क्रमत्व संयोगादिद्यादिना || इत्याह || ओं स क्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः || घट तेन तु शाश्वत्यः प्राभव्यः स्यात् प्रभोरिव || २ || तत्र यदा प्रभुः स्पन्दनमात्रेणोन्मेषदमया विश्वमुत्पादयित्तुमुत्सहते | तदादावेव ज्ञानक्रियात्मकं शक्ति यगलं परस्परैक स्वभावमपि भिन्नाकारतया भासयति | तदास्य प्रभोर्माया संपर्काद विद्याख्ययानियत्या च यज्ज्ञानक्रियात्मकं शक्तियुगलं तन्नियति पूर्वकतया स्थूलमित्युच्यते || तस्यैव च स क्रमत्वमिति कथ्यते | अत एव चोक्तं || सक्रमत्वं नाम लौकिक्या नियति शक्त्या वृतायाः क्रियायाः कालशक्तिसंयोगेन घटते || आसीत् || स्यात् | वर्तते वा | इत्यादिकालाकारेण || न च तच्छाश्वद्यानित्यायाः प्राभव्याः | प्रभोरियं प्राभवी || तस्याः || सूक्ष्मायाः | अहन्नामयय इति | प्रभोरिव यथा न देशकालाकारादि स क्रमस्तथा || ३ || ४६अ) इदानीं क्रिया या अङ्गाङ्गिभावेन कालादीन्निरूपयति क्रियाधिकारप्रस्तावात् || ओं कालः सूर्यादि साञ्चारस्तत् तत् पुष्पादिजन्म वा | शीतोष्ण वाथ तल्लक्ष्यः क्रम एव स तत्वतः || ३ || तत्र ये नियति शक्तिपरिनिष्ठिताः सूर्याचन्द्र | सहकारमल्लिका कुटजादि | शीतोष्णादि परभ्यतमदविलासादिय इत्यादिना यः कालः परिसमाप्यते | दिने सूर्यः | रात्रो च चन्द्रमा | पद्मात्याषाढश्रावणादौ || मल्लिकादीनि श्रावणे | कुटजानि ज्येष्ठे | परभ्यतमदविलासानि | वसन्तादौ || शैत्यं चोदगयने | औष्ण्यं च दक्षिणायने च || इत्येवं यः क्रमस्स काल इति कथ्यते || सैव च क्रिया शक्तिरिति चोच्यते || ३ || इदानीं कालादीनां क्रमोनिरूप्यते || ओं क्रमोभेदाश्रयोभे चोप्याभाससदसत्वतः | आभाससदसत्वे तु चित्ताभासकृतः प्रभोः || ४ || घटः | पटः | नीलं | पीतं च | इत्यादिना च यो भेदोभेदाश्रयः | स क्रम इति कथ्यते || स भेदश्चाभास सदसत्वतः || इह भूतले घटोस्ति | इह च नास्तीति | एवं यदा भाससदसत्वं | स एव हि भेदोनाम || आभाससदसत्वे च प्रभोन्महेश्वरस्येच्छामात्र कृत एव || नान्यथेति सिद्धम् || ४ || तश्चित्राभासत्वमेव दर्शयति || ओं मूर्तिवैचित्र्यतो देशक्रसमाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः || ५ || पदार्थस्य स्वरूपं मूर्तिः | तद्वैचित्र्येण यः देश क्रमः | एतत् गृहं | एतत् प्राङ्गनं | इयं च विपणिः | एतदुत्यानं | एतश्चारण्यां इत्यादिनादेशक्रममाभासयति || तथा क्रिया वैचित्र्येण च कालक्रममाभासयति | तत् तन्मूर्तौ वा देशे च यः क्रमः सा क्रियेत्युच्यते || तत्वे चित्र्येण च कालक्रममप्याभासयति || कृत्ऽम् मया करोम्यहं | ४६ब्) करिष्यामि चाहमित्यादिना च कालक्रममपिश्वेनाभासयत्यसौ || इत्येवं क्रियाशक्तिनिरूपणमेव || ५ || एवं सर्वत्रयः क्रमाभासन क्रियात्मकः स च काल वशग एवेति दर्शयन्नाह || ओं सर्वत्राभासभेदोपि भवेत् कालक्रमाकरः विच्छिन्नभासः शून्यादेर्मातुर्भातस्यनो सकृत् || यश्च सर्वत्रभासभेदस्स च पूर्वोक्तः कालक्रमवशग इत्यर्थः || परंतु शून्यादेर्विच्छिन्नभासः || देहे बुद्धौ | अथ प्राणे | कल्पितेनभसि च प्रमातृत्वेनाहमिति विमर्शोन्य विपोरुनात् | विकल्प एवेत्यादिना पूर्वमेव यच्छून्या भासादि | तस्यैव चा भासभेदः || नान्यस्य च प्रमातुर्भातस्य सकृत् || अविच्छिन्नबोधात्मकस्य स्वात्मन इत्यर्थः || तस्य च तत् स्पर्शाभावादम्भोजदलवदप्सु || ६ || तस्मादेवमेवाह || ओं देश क्रमोपि भावेषु भान्ति मातुर्मितात्मनः | स्वात्मैव स्वात्मना पूर्णाभावाभान्त्यसि तस्य तु || ७ || मितात्मनस्तस्यैव शून्यादेः प्रामातुर्देशक्रमादिभासते || स्वात्मना पूर्णाहन्ता चमत्कारमयाः पूर्णाश्च भावाभान्त्यमितस्य | अपरिमित स्वस्वभावस्य | प्रमशिवस्य स्वात्मन इति भावः || ७ || एतत् क्रमेण च यत्प्रतिज्ञातं | तद्दृढयतुं निगमयति || ओं किन्तु निर्माणशक्तिः साध्येवं विदुष ईशितुः परमेश्वरेच्छयैव तथा विज्ञान विज्ञेय भेदो यदवभासते || ८ || यदेवं करोतीत्यादि कृत्यं किंचित् तत् सर्वं परमेश्वरेच्छयैव | तथा च विज्ञान विज्ञेयादि च यत्तदपि तदिच्छैव तं विनातृणमपि कुष्णी कर्तुमसमर्थः कश्चित् परं तु तदिच्छवैव || यद्भ्वति || तद्भवत्येव | यन्नतन्नेति भावः || ८ || इति श्रीमद्भट्टारकानन्दनाथकृतायां प्रत्यभिज्ञाकौमुद्यां क्रियाधिकारे प्रथममाह्निकम् || ४७अ) इदानीनीं क्रियावदन्येपि सम्बन्धादय एकानेक विषया अपि सत्या एव | दृष्टविषयोपयोग्यादृढाः स्थिरा इत्यर्थः || सर्वदोपयोगिनामेषामर्थ वत्वेनापरिहरणीयत्वात् || तदेतेपि सत्या अन्यचेद्विचन्द्रादयं सत्या इत्यर्थः || इत्येवं सूचयन्नाह च || ओं क्रिया सामान्य सम्बन्ध द्रव्यदिक्काल बुद्धयः | सत्याःस्थैर्योपयोगाभ्यामेकारोकाश्रयामताः || ९ || एते सर्वेसामान्यादयः कार्योपयोगिनोमताः || अतश्च सत्याश्चते || परं तु | एकानेकाश्रया मता इति भावः || तथा हि || चैत्रो व्रजति | तण्डुला विक्लिद्यन्ते एधाज्वलन्ति | इत्यत्रैकानेक रूपश्चैत्रादिभावः || तत्र तत् तद्देशकालाकारभिन्नोशौ चित्रादि रूपश्चैत्रोनेक स्वभावोपि | अयं चैत्र इत्येक रूपतामपरित्यजन् भासते | स एवानेक रूपोर्थः क्रियेति || तथैव च प्रतिभासात् परमार्थिकी || सत्या तत्रैकाश्रवश्चैत्रः || अनेकाश्रयाणि च तण्डुलादीनि || वा द्विचन्द्रादितानि च स्थैर्योपयोगाभ्यामेकानेकाश्रयाणिमतानि || इत्यनेनापि क्रियापचनादि साध्यत एव || इति क्रियोपयोगार्थमेतद्युक्त मुक्तमित्यर्थः || ९ || इत्थं क्रियानन्तरं सामान्यं कथयति || ओं तत्रैकमान्तरं तत्वं तदेवेन्द्रियवेद्यताम् संप्राप्यानेकतां याति देशकालस्वभावतः || १० || एकमेवान्तरं तत्वं नामजडुबोधरूपं | तत् तदिन्द्रियवेद्यता | घटोयमित्यादि वृत्यासंप्राप्य | अनेकतां भजत एव || तत् तदनु वृत्त एव भवति || देशकालादि स्वभावानुवृत्तेः || १० || ४७ब्) इत्येवं बाह्याभ्यन्तरस्थूल सूक्ष्मनिर्विकल्प स विकल्पादिकर्मादिकल्पनामन एव करोतीति वदति क्रमप्राप्तेश्च || ओं तद्द्वयालम्बना एतामनोनुव्यवसायिसत् | करोतिमातृव्यापारमयीः कर्मादिकल्पनाः || ११ || एवं सतिमन अन्तःकरणरूपो बाह्यान्तश्चरणशीलः प्रमातृव्यापारमयीः कर्मादिकल्पनाः करोति || सर्वत्र क्रियादावनुव्यवसायिसत् बाह्याव्यन्तरका *? चयति || इत्यादिनिवृत्तं सकृ?मिति || ११ || इदानीं सम्बन्धमपि व्यनक्ति क्रमप्राप्तं | ओं स्वात्मनिष्ठाविविक्ताभाभावा एक प्रमातरि || अन्योन्यान्वय रूपैक्य युजः सम्बन्धधीपदम् || १२ || सामान्यं प्रदर्श्य सम्बन्धं दर्शयन्नाह || घटादयो हि भावाविश्ववैचित्र्यचित्रिताः स्वात्मांशनिष्ठा एव || घटो हि घट एव || नीलमिदमिति नीलमेव || पीतमिदं इति च पीतमेव || रक्तमिदमिति च रक्तमेव | न च पीतं नीलं | वा रक्तं || वा न सितं | नीलं वा रक्तमित्यादिना घटादयोभावास्स्वात्मनिष्ठाः स्वात्माशनिष्ठा एव | पूर्वोक्तत्वात् || तथा विविक्ताभाः | घटोयं पटोयमित्यादिना स्फुटावभासमानाः | तेपि चैकप्रमातरि स्वात्मनि बोधात्मकेन्योन्यान्वय रूपस्य वदैक्यं तद्भाजोभजनशीलाः बोधस्तु जानाति च करोति चेत्यादि युक्त्या यदेवेतज्जानाति | वा करोति चैक परमार्थ रूपस्सन् | तत्रयोयं ज्ञानज्ञेयसम्बन्धस्स एवान्योन्यान्वयः || ४८अ) ज्ञानस्य हि ज्ञेये नैक्यपोपत्तेः || ज्ञेयस्य वा ज्ञानेनेति || तथा हि || ज्ञातोयं मया घट इति || इत्येवमेक प्रमातरि ज्ञानविषयेहमिति स्वरूपे या विश्रान्तिस्सैव च सम्बन्धः परस्परमिति कथ्यते न चान्यत् || अथ च दे || व || द || *? || *? || गां || आ || न || य || इत्यनेन प्रहरे || प्रहरे || असहोश्चारिता निगामानयेद्यादीनि पदानि न वाक्यम् || सान्निध्याभावात् || इत्यनेन सान्निध्याभावे योग्यता भावात् तदभावे लोकव्यवहारानुत्पत्तेस्ततश्च सर्वं जगदन्धतमसप्रख्यमिति न किंचिदवशिष्यते || तत एव च || देवदत्तगामानय || इत्यनेन | भो देवदत्त | त्वं | गामानय || इति सान्निध्येन च योगितया | योग्यतोत् पत्तेस्सम्भवाश्च सर्वत्रेति सिद्धोयं लोकव्यवहार हेतुः सम्बन्ध इति || १२ || इदानीं क्रमप्राप्तं सामान्यं दर्शयति || ओं जातिद्रव्यावभासानां बहिरप्येकरूपतां व्यक्त्यैकदेशभेदं चाप्यालम्बन्ते विकल्पनाः || १३ || यथा गो व्यावृत्तित्वं गोत्वं || इत्थगोत्व सामान्ये सिद्धे | तत्र च गोत्वमिदं || इत्यनेनाबाल्यवृद्धान्तं सर्वं गोत्वमिति कथ्यते || अथ चानेन शुक्लादि कृष्णान्तं सर्ववर्णमयं गोत्वमिति च कथ्यते || इत्यनेनैक रूपत्वं || अथ च व्यक्तिद्वारा शूक्लागौः | वृद्धागौः || कृष्णागौः || इत्यनेन व्यक्तिभेदेनापि स्वात्मांशपरिनिष्ठितेरेक भेदं च विकल्पना आलम्ब इत्येवं क्रियाशक्ति प्रसरश्चैतदङ्गाङ्गि भावेन || १३ || न्ते || ओं क्रियाविमर्शविषयः कारण्यानां समन्वयः || अवध्यवधिसद्भावान्वया लम्बादिगादिधीः || १४ || तत्र विमर्शविषयः क्रियेत्युच्यते | करोम्यहं हतं वा मयेति विमर्शः क्रियेति || अथवा कारकानां तण्डुलादीनां समन्वयः | पचनक्रियेत्युच्यते || अथ च इयत्परिमितं स्तं?ननमाश्रिद्य घटोयं तिष्ठतीति | इत्यनेनयः सम्बन्धस्म एवा लम्बनं यस्यास्मा च दिगादिधीः | इयत्परिमिता हि पूर्वादिक् इतादिना || इत्यनेन विमर्शविष्यः | कारकानां समन्वयः क्रियेत्ति | पचन क्रियावत्तण्डुलादिना || अथवा वध्यवध्यसद्भावान्वयादिगादीधीश्चतिभावः || १४ || एवमेकानेक रूपैरेव क्रियादिभिः प्रमातुर्यः क्रियासंवादो व्यवहार तवा | सचन भ्रम इति ब्रान्तिं भिन्दन्नाह || ओं एवमेवार्थ सिद्धिः स्यान्मातुरर्थ क्रियार्थिनः | भेदाभेदवतार्थेन तेन न भ्रान्तिरिदृशी || १५ || एवमेवार्थ क्रियार्थिनः प्रमातुरेव | घठ महंजानामीति | ज्ञातासन् | तत् सिद्धिरस्ये वेति हि *? टोयमर्तह्ः || सर्वत्रानु स्यूत एवासौ स्वस्वभावात्मा बोधाबोधसरूपः | अहं जानामीति | पश्यामि | शृणोमि | इत्यादि विन्दन्नपि ज्ञाता | कर्तेत्युच्यत एव || तसमदर्थ क्रियार्थिनः प्रयोजनसिद्धिस्तात्कालिकी | भेदाभेदमयेनार्थेन | घटादभिन्नेन | अन्येभ्यथ्च?भिन्नेन घटादिना | तस्मादेवं न भ्रान्तिरिति भावः || १५ || इति श्री मद्भट्टारकानन्दनाथरचितायां प्रत्यभिज्ञा कौमुद्यां क्रियाधिकारद्वितीयमाह्निकम् || तस्मत्क्रियासम्बन्धादि बुद्धयो न भ्रान्ति स्वभावा इति सिद्धम् || ४९अ) एवं क्रिया सामान्यसम्बन्धादिनाया प्रमितिः सा च न भ्रान्तिरिति साप्रमैव दृढयति || द्वाभ्यां || ओं इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते | वस्तु प्रमाणं तत् सोपि स्वाभासोभिरवोदयः || सोनतस्तथा विमर्शात्मा देशकालाद्य भेदिनि | एकाभिदानविषये मितिरस्तुन्यबाधिता || १७ || इदं घटादि स्यात् | एतादृ *?रिमितं | इतेतद्य स्वपादस्ति भाति च | तद्वस्तु आप्तमाणं तत् अयमिदमेतादगिति प्रत्यक्षेण दर्शनात् || इत्यनेन च सोम्या भासोभिनवोदय इति | चेदसं उत्थितस्तरङ्ग इव चिद्घनः स एवचान्तर्विमर्शात्मा विमर्शस्वभावः | स्वभावमवभासस्य विमर्शं विद्धरन्यथेति पूर्वमुक्तत्वात् | तत्तत्र चैकाभिधाने घटोयमित्यादौ साप्रकाशात्मामितिः प्रमितिः | घटादौ वस्तुन्या वाधित विषयेति सर्वसरवस्यम् || तथा च || स्पन्दे || जाग्रदादि विभेदेपि तदभिन्ने प्रसरयतिति वर्तते निजान्नैव स्वभावादुपलब्ध्यत इत्यादिनोपलब्धात्मा सर्वत्रानुस्युत एवेत्यर्थः || १८ || एवं तत्र प्रमासायथाबाह्यावेदककरणादि नानाद्वेन नानाद्वमेव च सा भजत एव || न च तस्य वेदकस्य तत्त्वतो भेद इत्याह द्वाभ्यां || ओं यथा न चि यथार्थिन्यं यथा व्युत्पत्ति भिद्यते | आभासोप्यर्थ एकस्मिन्ननुसन्धानसाधिते || ओं दीन्*?व्यत्तोव्य? पुरुषधूम चन्द्रलतादिभिः | यथा वभासाभिद्यन्ते देशकालविभेदिनः || १९ || यत्र रुचिस्तत्र च विधिरित्यनेन यथारुचि | वायथार्थित्वं | वायथा व्युत्पत्ति नानात्वेन चाभासा एकत्वेनाप्यनेकस्थित्या भासन्ते || तदनेकत्वमेव हि दर्शयति || यथा सायं सन्ध्यारिगीलाभ्रमण्डल ४९ब्) प्रकाशित रक्तनीलपीतादि नानावैचित्र्येण | हस्तिरथश्वसदातिगौ रथवाहा स्ववाहखङ्ग चर्मधरादि नाना वैचित्र्येण चाभासभेदाभान्ति कारणाक्षि सान्द्यादि राहित्ये नैव च || तथा च भोजनेका सर्वत्र प्रसिद्धैका च | तत्र यथा रुचि यथार्थित्वं | यथा व्युत्पत्या च | रुचिराभासभेद एकस्मिन्नेव च भोजनार्थे | भिद्यते नाना त्वेन | तद्यथा | कश्चिद्भूञ्जति | अन्न कश्चि खेचर्यादि कश्चिदपूपादिकं | कश्चिद्मांसादि? | कश्चिच्चशाकादि || कश्चित्केनापि प्रकारेण | कश्चित्केनापि प्रकारेणापरथा इत्येवमेकस्मिन्नर्थेनुसन्धानसाधिते | आभासभेदाभिद्यन्त एव | अथ च | पूर्वोक्ता भ्रमण्डलदत्ताग्निनादीर्घवत्तरू?ध्व | पुरुषाकृति | धूमचन्द्रलतादि विशेषैनाभासभेदाभिद्यते एव | १९ || अथान्यथापि वणायति || ओं तथैव सर्घटद्रव्यकाञ्चनोज्ज्वलतादयः | आभासभेदाभिन्नार्थ कारिणस्ते पदं ध्वनेः || २० || तथा च घटदुव्योनामकेनापि जलानयंनार्थं | केनापि न यनार्थं च केनापि नदीपान प्रतरणार्थं च केनापि कस्यापि घटाभावात्तदर्थं च | केनापि मलापहरणार्थं च | तथा च काञ्चनमपि | केनापि कटकार्थं | वाक्तण्डलार्थं | केनापि मुद्रिकार्थं | केनापि परार्थमित्यादिना | एवमुज्ज्वलनीलपीतादयः | कस्यापि वस्त्रार्थं | कस्याप्यन्यदर्थमित्येवमादय आभासभेदाभिन्नार्थकारिणो मताः | परंतु ध्वनेः शब्दव्यापारस्य पदं शूनं | तेनै च तत्प्रवृत्तेरिति भावः परंतु तेषामाभासभेदान्नियतार्थक्रिया || इति वदति || स्वयेन || ५०अ) ओं आभास भेदा स्वस्थानां नियतार्थ क्रियापुनः | सामानाधिकरिण्येन प्रतिभासादभेदिनाम् || ओं मृथस्दीपप्रकाशानां स्रोतमांसागरे यथा | अविरुद्धावभासानामेककार्या तथैक्यधीः || २२ || अयं घटः | अयं पटः | इदं नीलं | इदं च मीतं || इत्यादि नानात्वेन यदेतद्विश्वमाभाति च | तन्नियतार्थ क्रियामात्रमेव | नियतार्थ क्रियामात्रमेव हि प्रयोजनं विधेरवन्ध्ये स्फतयेति स्थितम् || यदा च सर्व मेतदभिधेयं प्रमेयताधि रूढं, पृथग् भूतमनुभवयथाधि रूढमनुभविन्दतान्तत्मग्रं चिन्मयमेव स्वप्नकाशैक वपुषं सामानाधिकारिण्येन स्थित सदभेदिनं नियतार्थ क्रियामात्रभग्नवृत्तमपि सर्वस्यास्य चिन्मयत्वेन स्फुरणात् || तदेव च दर्शयति || यथा दीपादि प्रकाशानां | प्रकाशान्तवर्ति प्रकाशान्तरितप्रकाशसंचयानां यथैक्यधीः ऐक्यधियैव हि प्रकाशानां दीप इति संङ्ख्यया परिनिष्ठित घटादि नाना वैचित्र्यात् भिन्नानां च तेषां तथा त्वावगमा भावात् | एवं च मागते समुद्रादौ स्रोतसां च | एवं च तेषामविरुद्धावभासानामेकाधीः | दीपोयमिति | प्रकाशकस्सर्वत्र || सागरोयमिति वा | स्रोतसामैक्यधी विषायाश्च || अत्रायं भावः | आभासेन भेदविशेषधियानियतार्थ क्रियासामानाधिकारिण्येन चाभेद विशेषधियानियतार्थ क्रियेति हि स्थितम् || २२ || ५०ब्) ननु तत्स्थितमेव दृढतया बौधमतेन यदात्मनिरमनं | यश्च वस्थनां नियतार्थ क्रिया स्वाभाविका सा च भवत्येवा वश्यकतया तत्किंचिदात्मा परमेश्वरो नामयोनुभविता | इति हि स्थितं || इत्याह | ओं तत्राविशिष्ठे वह्न्यादौ कार्यकारणतो ध्यताता | तत्तश्च दार्थताद्यात्मा प्रमाणादेकतो मतः || २३ || यत्र धुमस्तत्राग्निर्यथा महानसः | पर्वतोयं वह्निमान् धूमवत्वात् || इत्येवमविशिष्ठे वह्न्यादौ गन्धवती वा पृथ्वी | यत्र यत्र गन्धवत्त्वं | तत्र तत्र पृथ्वीत्वं || वाशीत स्पर्शवत्य आपः || इत्यादौ च कार्यकारण भावः | तथोष्णतादि च | पुरुश्च तत्त्तच्छब्दार्थयो द्वर्थमं वा | एकतः प्रमाणा देव स्वात्मनः प्रकाशस्वरूपादभिमतः | तेन विनासिद्धेरिति हि स्थितम् || जानाम्यहं, करोम्यहं गच्छाम्यहं | सुपाम्यहमित्याना कर्तृत्व प्रवृत्तेः || तत्सर्वमेवस्वात्मनो वश्यमिति कारण कार्ययोस्संगतेरिति भावः | तस्मादेकत एव प्रमाणादिति हि प्रोक्तमिति || २३ || अत एव चाह || ओं मातुर्देशादिकाध्यकान्तर भिन्ने स्वलक्षणे तात्कालिकी प्रवृत्तिः स्यादर्थिनोप्यनुमानतः || २४ || तत्र मातुः प्रमातु स्वात्मनः | स्वलक्षणे स्वलक्षणा भासविषयेपि ज्ञाने तात्कालिकी प्रवृत्तिः स्वाभाविकसम्बन्ध संबद्धविषयत्वात् || एवं चानुमानतोपि || नह्यनुमानं नाम किंचित्प्रतिप्रमातृतया भवितुमर्हतीति सिद्धम् || ५१अ) नापि च स्वलक्षणादौ प्रमाता स्वात्मनापि प्रकाशको भवितु मर्हतीति च || तत्स्थितोयं सर्वत्र प्रमातृ रूपोयमात्मानुभवितेति चालं || २४ || इदानीमनेकप्रमा स्थित्यानेकानुभवत्वसिद्धावमितस्यैवानि वारितमेकप्रमातृत्वमिति दर्शयति || ओं दूरान्तिकतयार्थानां परोक्षाध्यकतात्मना | बाह्यान्तर तयार्थानां व्यञ्जकस्यान्यथापिवा || ओं भिनावभास च्छायायामपि मुखावभासतः | एक प्रत्यवमर्शाख्यादेकत्वमनिवारितम् कुत्रचिद्दूरेण | वियतिमतत्त्री | कुत्राप्यन्ति केन च लोचनस्थाञ्जनवत् || परोक्षत्वं नाम || वेदान्ति मतान्तर्भावि ब्रह्मवत् || अपरोक्षत्वं च | घटोयमित्यादिवत् || वाध्य च शोषादि पीडा | आभ्यन्तरीमानमि पीडा च || तथा व्यञ्जकस्य च लोचनादेरनत्व बधिरत्वादेः || एवमनेन भिन्नावभासच्छायामपि स्वात्मन एवानुभवितुः प्रमातुरेकत्वमनिवारितमिति संबन्धः || तथा च | दर्पण बिम्बेषद्वन्नगरग्रामादि चित्रमविभागि | भातिविभागेनैव च परस्परं दर्पणादपि चेति || तस्मादेवमेव || ओं अर्थक्रियापि सहजानार्थानामीस्वरेच्छया नियता साहितेनास्यना क्रियातोन्यथा भवेत् घटामानय घटं नय | इत्याद्यर्थ क्रिया सहजान घटादेः | अपि तु यद्यनुभवितायच्छेत्तत्मासिद्धा न तु स्वत इति परमेश्वर एव सर्वत्र हेतुरिति सिद्धोयमुपदेशः तस्मान्नघटभङ्गदिनान्यथाभवत् || २९ || ५१ब्) ननु पदे तत्प्रोक्तं || आभासभेदाद् वस्थानां नियतार्थ क्रिया || तत्कथं || शुक्त्यादौ प्रत्यक्षतया भातरजतादि निवृत्तेरित्याह || ओं रजतैक्यविमर्शेपि शुक्तौन रजत स्थितिः | उपाधि देशासंवादाद् द्विचन्द्रेपि नभोन्यथा || अत्रायं भावः | यथा घटस्य प्रवृत्ति निवृत्ति योग्यावस्थिति न च तथा शुक्ते रजतादि स्थितौ || तत्र भ्रान्त्या रज्ज्वां सर्पवत् वाकाचादौ जलादिवत् || भ्रमेस्तु भ्रमादेव || न स्थितिरनुभवयोग्या || अन्यत्र च योग्या || इति स्थितोयं लोकव्यवहारः || शुक्ताविदंरजतमिति भ्रान्तिः | तदनु भवे जाते पश्चान्नरजतमिति बुद्धिः || यथा हि घटोयमिति बुद्धिस्त्रिकालान्तर्वर्तिनी तत्र चाव्यभिचारयुक्ता इयं च भ्रान्ति स्वभावा शौक्लादि गुणकृतमनो भ्रमानप्रमाणमिति तद्विदः || तश्चोपाधि देशसम्बन्धात् || यथा द्विचन्द्रेपि नभः स्थूलं || इति सर्वदातमेव || २३ || एवं परमेश्वरा यत्ता सर्वैव सृष्टिः प्रमातृप्रमाण प्रमेयादि चित्रा || इति दर्शयन्नाह || ओं गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता भावानामित्थमेकत्र प्रमातर्युपपद्यते || घटजातेः सर्वत्रा विशेषात् || शब्दादिभिश्च विशेषात् || अतो विशेषाविशेषाद्भावानामित्थमेकत्र प्रमातदुपपद्यते परस्परं भेदा भेदा विरोध इति भावः || २३ || ५२अ) इदानीं श्रीमच्छास्त्रादौ कर्तरि ज्ञातरि स्वात्मन्यादि सिद्ध इत्यादिना श्लोकद्वयेन यदात्मनः परमेश्वरस्य प्रमाणाद्य प्रवृत्तेः सर्वविश्वसाक्षी सर्वोत्तिर्णः सर्वप्रकाशात्मा बोधाबोधस्वभावो विमर्शात्मकचित्तवृत्तिः स्वात्मा परमेश्वर इति यत्प्रोक्तं तदिदानीमपि सिद्धि कृत्यैवमेवसंपुटीकरणाय पुनरप्येवमेव दर्शयन्नाह || ओं विश्ववैचित्र्यचित्रस्य समभित्ति तलोपमे | विरुद्धाभावसंस्पर्शे परमार्थसंतीश्वरे || प्रमातरि पुराणे तु सर्वदाभातविग्रहे | किं प्रमाणं नवाभासः सर्वप्रमिति भागिनि || अप्रवर्त्तित पूर्वोत्रकेवलं मूर्भतावशात् | शक्तिप्रकाशेनशादिव्यवहारः प्रवर्त्यते || २३ || अत्रायं भावः || यथायं स्वात्मा सर्वप्रकाशात्मा न चास्य तथा प्रकाशकः कश्चित् || प्रकाशस्यान्यप्रकाशात्मकात्मकानुपत्तेः || अनवस्थादि दोषप्रसङ्गपातात् || तस्मात् सर्वप्रमितिभागिनि किं प्रमाणं नामानुमानादि नवाभासविशेषः | किमपि न हेतुतयेति स्वात्मन एवानेन मुखमालिन्य स्फारकलङ्कः || न च तत्र किमपि लेशतोपि विकारेण शक्यविकारे इति || तस्मिंश्च विश्ववैचित्र्य चित्त्रस्य भित्तितलोपमे | आधारे || परस्पर विरुद्धानामभावसंस्पर्शे च | तथा च परमार्थसति | तथा चैश्वर्यादि गुणगणयुक्ते | प्रमातरि | तथादि शिद्धत्वेन पुराणे च || सर्वदा चाभातं विग्रहे च | न वा भासो विश्ववैचित्र्यव्यवहार हेत्वर्थं | ५२ब्) यत्र पूमस्तत्राग्निरित्यनुमानाख्यया प्रसिद्धः किं तत्र साधयेदित्यहोलोकनैपुण्यमिति || यश्च सर्वप्रमातास्या देव किं तस्यान्यः प्रमातादिकस्तत्स्थितावदृष्ठेरिति स्थितं || ननु तत्र भवद्भिर्यत् प्रत्यभिज्ञाख्यं शास्त्रं तत्प्रमाण स्थित्या परिणतं | आगमप्रमाणाख्यं प्रतीपमाभिमुख्येन ज्ञानं प्रत्यभिज्ञानं प्रत्यभिज्ञाख्यशास्त्रपाधेनाभिमुख्येन ज्ञानं भवत्येव || इति तदप्यसत् || तत्राप्राप्तेः || इत्याह || पूर्वमपि प्रोक्तं | इदानीमपि वदति || यदेतज्ज्ञानक्रियात्मकं शक्तिद्वयं वर्तते | तदेव तद्धर्म सहचरिणं | तेनैव चेदं भावो पमन्नस्य विश्वस्य व्यवहृति योगात् | तस्मात् तद् दर्शनेन तद्दृष्टेरिति त एवदर्शयन्नाचार्यः प्रत्यभिज्ञाख्यं शास्त्रार्थं दर्शयति | तस्मिन् ज्ञाते तज्ज्ञानावगतिश्चेति सिद्धं || तथा च | शक्त्या विष्करणेनेयं प्रत्यभिज्ञो पदश्यते || पश्चाश्च शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यत इति च तस्माश्च | अप्रवर्तितपूर्वोत्र केवलं मूढता वशात् | शक्तिप्रकाशे नेशादि व्यवहारः प्रवर्त्यते || केवलं मूढभावा देव | पूर्वं न प्रवर्तितः | ज्ञानक्रियाशक्तिद्वयप्रकाशेनत्वेशादि व्यवहारः प्रवर्त्यते || इति स्थितं मलं चाति विस्तरेण | प्रकृतसमाप्तेरत्यवाच्यवाचकाद्य योगात् || तस्माद्यतो वा चोनिवर्तन्त अप्राप्यमनगा सह | आनन्दं ब्रह्मणो विद्वान्न विभ्येति कुतश्चनेति श्रूयतयोपि || अतीतः पन्थानं तवरामहिमावात्मान सयोरतद्व्यावृत्यायं ५३अ) चकितमभिधत्ते श्रतिरपि | सकस्यस्तोतव्यः कतिविधगुणः कस्य विषयः पदेत्वन्वाधीनेपततिनमनः कस्य नवच इत्यादितम् || २३ || इति श्रीमत्मपर्त्यभिज्ञा कौमुद्यां भट्टारकाकृतायां क्रियाधिकारे तत्फलप्रमेयादि निरूपणं तृतीयमाह्निकं समाप्तिमगमत् || आदितः || १२० || इदानीं परमेश्वर एव कर्ता ज्ञाता स्वात्मा परिपूर्णसश्चिदानन्द लक्षणो नान्य इति स्थिरी कृत्य पुनरपि तत्कर्तृत्वमेव प्रतिपादयति || ओं एष चारन्त शक्तित्वादेवमाभासयद्यमून् | भावानिच्छावशादेषाक्रियातिर्मान्दताम्यसौ || एष परमेश्वरः | भावान् घटादीन् | अनन्त कर्तृत्वादि शक्ति चक्रसाहचारित्व भावेनाभासयति || स्वस्मत आन्तर्याद्वहिर्भावेन | घटोयमित्यादिना प्रत्यक्षीकरोति स्वेच्छोन्मेषप्रवृत्या || एषैव च क्रियानाम शक्तिरिति गीयते || असावेव च क्रियानित्मर्दता परमुहायाकथ्यते || निर्मार्दात्वं चेश्वरस्य स्वाभाविकशक्तिरिति च कथ्यते || तथा च || यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ | तं शक्ति चक्रविभवप्रभवं शङ्करं स्तुमः || १ || यत्र स्थितं मिदं विश्वं कार्यं यस्माश्चनिर्गतं | तस्यानावृतर्थ पत्वान्ननिरोधोस्ति कुत्रचित् || २ || जाग्रदादि विचेदेपि तदभिन्ने प्रसर्यति | निवर्तते निजान्नैव स्वभावादुपलब्द्धतः || इत्यादिना स्पन्दे || ५३ब्) ननुजडस्यापि कर्तृत्व शक्तिः परमार्थतो दृश्यत एव || यथाम्धदोघटदि दृश्यत एव || तथा च बीजादत्थुरादिनानानाधान्यादि सृष्टिर्वा || तथा च || जडाज्जलरूपा स्फुरकृतिन्दोस्तत्तत्क?पकशविकादिव्यापारैर्जन्रूत्पत्तिः | इति किमीश्वरोनामकर्तृत्व शक्तिमान्कर्तेति गीयते || परस्यापि हि जडादेस्तच्छक्तेः || इत्याह || ओं जडस्य तु रसा शक्तिस्सत्ता पद सतः सतः | कर्तृकर्मत्व तत्त्वैव कार्यकारणता यतः || २४ || जडस्य बीजादेर्यदि कर्तृत्वादि शक्तिः तथापि स्वान्तर्वर्ति तत्प्रकाशमानतया तत्तत्प्रवृत्ति हेतोः | नतु स्वतः पश्चाश्छवा कारेपि तत्त्प्रवृत्ति योगप्रसङ्गात् || नापि हि तद्दृश्यते कदाचित्कथञ्चित् || तस्माद्युक्तं || साकर्तृत्व शक्तिः जडस्यबीजादेर्थ या सतः सतः सत्ता || सा च कर्तृ कर्मत्व तत्रैव || कार्यकारणता || अङ्कुरबीजादेः || तत्कर्ता च परमेश्वर इति भावः पाश्चात्य भाव्य इति स्थितम् || २४ || यतश्चैवं || ओं यदसत्तदसद्युक्तानामतः सत्द्वर्थपता सतोपि तपुनसत्ता लाभेनार्थोथ चोश्यते || २५ || ओं कार्यकारणता लोकेसान्तर्विपरिवर्तिअः | उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः || २६ || यदसत् | तदसत् | शशिविषाणादि वा स्थिरं घटादि चास्थिरस्मेव || तर्हि मत्द्वर्थ पतासतोवस्तुनो दृश्यते || घटादेरिव || सतश्च वस्तुनोन पुनः सत्ता तल्लाभे नार्थोन प्रयोजनं प्रयोजने सिद्धे पुनर्वैयर्थ्यात् || ५४अ) अत एव हि तस्य कस्यापीश्वरस्यैव शक्तितः | लोकेकार्यकारणता सान्तर्विपरिवर्तिनः | उभयेन्द्रियवेद्यत्वं चान्तर्बहिश्चरर्थपेणो भयेन्द्रियवेद्यत्वेन वत्तत एव || परं तु परमेश्वरशक्त्यैव नतु स्वत इति भावः || अत एव परमेश्वर एवान्तर्बहिर्हेतुरितिकथ्यते || २७ || ओं एवमेकाक्रियासैषा सक्रमान्तर्बहिः स्थिता | एकस्यैवोभयाकारा सहिश्णो भ?पपादिता || ओं बहिस्तस्यैव तत्कार्यं यदन्तर्यदपेक्षयां | प्रमात्रपेक्षया चोक्ताद्वयी बाह्यान्तर स्थितिः || ओं मातैव कारणं तेन स चाभासद्वय स्थितौ | कार्यस्य स्थित एवैकस्तदेकस्य क्रियोचिता || २८ || एवमेकस्य वै परमेशस्यो भयाकारान्तर्बहिश्चरण स्वभावा सहिष्णोश्चोप पादिता | सक्रमा क्रियाशक्तिः || तथैव बाह्याभ्यन्तरीद्वयी स्थितिः प्रमात्र पेक्षयैव || तस्मान्मातैव प्रमाता परमेश्वर एव कारणं द्वयी स्थितौ | तस्माश्चैकस्यैव प्रमातुः क्रियो चितां | नान्यस्य जडादेत्वी जादेश्चेति सर्वमतनिरासः | तस्माद्युक्तं कर्तरि ज्ञातरि स्वात्मन्यादि सिद्धे महेश्वर इत्यादिना || २९ || तथा चा परथापि | ओं अत एवाक्तारेपीष्ठोसिमितं परमेश्वरः | तदन्यस्यापि बीजादेर्हेतुता नैवयुज्यते || ४१ || गतार्थमेतत् || ४१ || नन्वर्थारस्त्वास्तां | यदेतत्कुम्भकारो मृदादिसंगृह्य | घटादि ग्राह्यं स्वयमेव जनयति || तथापि किं तेन प्रमात्रादिना वापरमेश्वर हेतुना वा || इत्याह || ओं तथा हि कुम्भकारोमावश्वैर्यैव व्यवस्थया | ततन्मृदादिसंस्कार क्रमेण जनयेद्घटम् || ४१ || अयमत्रभावः || कुम्भान्मृदादि कार्यात्करोतीति कुम्भकारोनिमित्तः | ततन्मृदादिसंस्कारान् संस्कारविशेषान्जपयेत् | जनयति || ईश्वर व्यवस्थायैव यथेश्वरो गुणत्रयमयीं प्रकृति स्वामधिष्ठाय यथा क्रमेण वेद्यवर्गान्जनयति || एवमेवेत्यर्थः || परं तु तत्रापीश्वर एव निमित्त मात्रं | कुम्भकारस्यापि चित्द्वर्थ पयाबुद्ध्यैव तत्तत्संभाविता कारनिष्पत्तेः | तविना सिद्धेरिति स्थितमेव पूर्वत्र || अत एवात्कुरेपीष्ठो निमित्तं परमेश्वर इति || तस्मात्सर्वत्रा वस्थिते कार्यकारण हेतु हेतुमद्भावादौ निमित्तं हेतु तया साक्षितया च परमेश्वर एव कारणं || तथा च || ईकारेन्ना? शब्दं प्रधानादि न कारणं तस्माद्ब्रह्मणः || तथा च वेदः || यस्मादन्यो न परोस्ति जातोय आविवेशक्त वनानि विश्वा इत्यादिना ननुयोगिनस्तत्तत्संस्कारा * * * * * ? कथं जनयन्ति संकल्पादिना इति पुनरप्यापतिता परमेश्वरादन्यत्कारणसत्कथा || इत्यत्राप्याह च || ओं योगिनामपि मृद्धीजेविनैवेच्छावमेन तत् घटादि जायते तत्तत्स्थिर स्वार्थ क्रियाकरम् || ४२ || अत एव योगिनोपि न किंचित् हेतुतव्येश्वरवत् || वदि च कुम्भकारादि व्यर्थद्ध्व? तया मृदादिसंस्कारं विनैव स्वसंकल्पतया योगिनां सृष्टि प्रभवप्रलयौ || तयापितो योगिनोपीश्वरी भावा वलम्भनेनैव तत्तदा पाद्यन्ते | नतु तदवलम्भनने विना जातेयोगिनः | परमेश्वरता दात्म्यं संपादित स्वरूपा इति हि प्रसिद्धिः || तदिच्छा वशेन योगिनां यदेतद्घटादि जलानयनादि प्रयोजन संपादकं यद्घटादि जायते | तदपीश्वरोर्थत्वैव || इति तत्रापि महेश्वर एव हि कारणं || ४२ || एतदन्यत्र वा कुत्रापि कार्यकारणतादि हेतु हेतु मद्वा? वादावपि परमेश्वर एव कारणमिति वदति || न चान्यज्जडादि || ओं योगिनिर्माणता भावे प्रमाणान्तरनिश्चिते | कार्यं हेतुः स्वभावो वात एवोत्पत्ति मूलजः || ४३ || ओं रूपस्तत्तत्प्रमात्रेकवह्न्या भासादितो भवेत् | परोक्षादप्यधिपते बूमाभामादिनूतनम् || ४४ || ओं कार्यमव्यभिचार्यस्यजित्गमन्यप्रमातृगात् | तदाभासस्तदा भासादे वत्वाधिपतेः परः || ४५ || तथा हि | ओं अस्मिन्मतीदमस्तीति कार्यकारणतापि या | साप्यपेक्षविहिनानां जडानां न पपद्यते || ४६ || कथमिति चेदुच्यते || ओं न हि स्वत्मैकनिष्ठानामनुसन्धानवर्जिना || सदसत्तापदेप्येष सप्तस्यर्थः प्रकल्पते || ४७ || कथमिति चेत् || ओं परस्पर स्वभावत्वेकार्यकारणयोरपि | एकत्वमेव भेदहि नैवान्योन्य स्वभावता || ४८ || तथा च || ओं एकात्मनो विभेदेन क्रियाकालक्रमानुगा | ५५ब्) तथा स्यात्क *? तैवेवं तथा पर्णमत्तया || ४९ || अयमत्रभावः || योगिनिर्माणता भावेनिश्चितेसति | वत्कार्याकारणादि मृद्घटादौ | तत्रापि च हेतु हेतु मश्भवेनाभिमतसिद्धिः || परंतु चिद्रूपो महेश्वर एव हि कारणमिति भावः || तथा च | वनं गतः * * *? जाडादि पर्शतादौ पूमदर्शनादिनाग्निं परीक्ष्यते | अस्यद्र?पर्वतेग्निनाव्याप्तो पूम इति || अस्य च कार्यमव्यभिचारि | व्याप्तेः परस्परं तदाभासादौ गोपालघटिकादावुष्णत्वादिना बहिर्निर्गतोयो धूमाभास * * *? स्तत्राप्यधिपति ज्ञापकोन्य उष्णो * *? इति स्थितोयं परस्पर व्याप्त्या कार्यकारणभावेन ज्ञाप्यज्ञापकभावादिना || तत्रापि च महेश्वर एवमाक्षितया ज्ञापक इति स्थितम् || तथा चान्यत्र | धूमेमत्यग्निरप्यस्ति || इति व्याप्त्यापियो विशेषस्सोप्यपेक्षाविहीनानां | स्वात्संनिष्ठा तथा पूर्वोव्यात्वान्नान्योन्यव्याप्ति सिद्धेरे शु?चस्य कारणं *? | एतद्वा कार्यमिति || यतो हि | कार्यकारणयोः परस्पर स्वभावत्वे सिद्धे तथैकत्वं || भेदेतु नैवान्योन्य स्वभावता | परस्पर ज्ञानज्ञेयादि व्यवहारः | सत्ततकदाचित् स्वात्मां स?निष्ठत्वात् || तथा चैकात्मनश्च विभेदेसति क्रियाकलादि क्रमेण | तत्तथा परिणमत्तया कर्तृतेति तथापि किं || तत्परमेश्वरेकर्तरि ज्ञापके सिद्धे सर्वनिरवस्यमेवेति भावः || तथा च पूर्वं || नश्येज्जनस्थितिः | न चेदन्तः कृतानश्च विश्वरूपोमहेश्वरः | स्यादेकश्चिद्वपु ज्ञानस्मृत्यपोहनशक्तिसानित्यान्दिना || ४९ || ५६अ) इदानीं सर्व चैतन्निगमयितुं परमेश्वर एव सर्वत्र हेतुः कर्ता बोधाबोधस्वभावोनुभविता | स्मत्ता च सिद्धोयमिति दर्शयति || ते *? नाज न स्थितिरवेनश्येदिति दर्शयति || ओं न च युक्तं जडस्यैवं भेदाभेदविरोधतः | आभासभेद एकत्र चिदात्मनि तु युज्यते || ५० || न हि जडाजदुस्य भेदेन केनापि | घटस्येव दण्डेन अभेदेनापि केन | घटस्येव घटेन | तण्डस्येव च दण्डेनपि || एतद्विरोधेना भास भेदोस्ति || घटः | पटः | इत्यादिना || सर्वेषां स्वात्मांशमात्र स्थितेन च भिन्नं भिन्नस्य ज्ञान हेतुरिति भावः || परंत्वेकत्र चिदात्मनि सिद्धेनुभावके वास्मत्तरि च सर्वं चैतद्वश्यमिति नयो?पि विरोधः || उदिते च भास्करे सर्वेषां दीपादीनां हेतुनामस्तत्गतत्वात् | तत्राप्राप्तपादत्वात् || तत्स्थितोसौ सर्वत्र सर्वदा हेतुद्महेश्वर इति सिद्धोयमुपदेशः || ५० || एवं सर्वत्र चिदेकत्वे सिद्धेपि | अहत्र रूपत्वेन || इदं भावोपपन्नस्य च विश्वस्याभासभेद एव प्रमाणं स्वरूपं || तश्च चिकीर्षा लक्षणैकत्व परामर्शनेन विनानसंभवति || अहं करोमीत्यामर्शनेन विना || स ईक्षित बह्वस्यां प्रजाये येत्यादिना || तदेव च दर्शयति || ओं वास्तवेपि चिदेकत्वेन स्यादाभासभिन्नयोः | चिकीत्षालक्षणैकत्व परामर्शं विनाक्रिया || ५१ || आभासभिन्नयोः | घटाघट | नीलपीतरक्तादि बोधयोः | अहं ककरोमीति परामर्शं विनान क्रियासिद्धिः || तदन्तरालवर्तित्वात्तस्याः || तस्यां वातस्येति युगपद्भावोन्योन्यं सिद्धः || ५६ब्) अनेनैव च विमर्शेन चिकीत्षा लक्षणं | ज्ञानशक्तिः | तदनन्तरं च क्रिया || इति ज्ञान क्रियात्मकं शक्तियुगलं परमेश्वरस्य जगत्क्रीडन स्थित्यर्थं सिद्धमेवति भावः || तथा च पूर्वं || ज्ञानक्रिये स्फुटी एव सिद्धे सर्वस्य जीवत इति | जानाम्यहं करोम्यहमिति च व्यवहारमात्र सिद्धत्वात् || इत्यनेन ज्ञानाधिकार क्रियाधिकार नीत्याज्ञानक्रिया शक्ति युगलं सिद्धमिति भावः || ५१ || ततश्च तदेव स्फुटयति || ओं इत्थं तथा घट पटाद्याभासजगदात्मना | तिष्ठासोतवेमिश्चैव हेतुता कर्तृता क्रिया || ५२ || घट पटादिना भासभेदेन यज्जगदाभाति || इदमित्यनेन || साचतस्येश्वरस्येच्छैव || सैव च हेतुता | सर्वत्र हेतुरुता | वाकर्तृता च सर्वत्र कर्तृगुणवती च | सैव च क्रियेति || ज्ञानपल्लव स्वभावै व हि क्रियेत्युच्यते || तस्मादीश्चरादादाविस्फा | ततोज्ञानं | ततश्च क्रियेत्युच्यते || इच्छाज्ञान क्रियात्मकं शक्ति त्रयमाश्रित्य परमेश्वरः स्वयं प्रभाभावितनिशेष विश्वाकृतिर्मातृमानमेयादि कल्पनयाविभिन्ना कारेण विश्वमाभासयति || तथा यतो या इमानि रुता निजायतो येन जातानि जीवन्ति | यस्मिंश्च प्रलीयन्ते | यत्रभिसंविशन्ति | तद्विजिज्ञासस्व | तद्ब्रह्ममहद्योनिर्विश्वस्य || यो विश्व च क्षुहत विश्वतो मुखो विश्वतो हस्त रुत विश्वतस्मात् || वेदाहमेनं पुरुषं महान्तमादित्य वर्णं तमसः परस्तात् || अहमेवासमेवाग्रेनात्यद्यत्सदत्परं || ५७अ) पश्चादहं यदेतश्चयो वशिष्यते सोस्त्यहं || यस्मादन्योन परोस्ति जातोय आविवेशभुवनानिविश्वाः || तथा च तन्त्रालोके || किञ्चयावदिदं बाह्यमन्तरोपायसंमतम् | तत्प्रकाशात्मता मात्रं शिवस्यैव परं वपुः || १ || नीलं पीतं मुखं दुःखं प्रकाशः केवलं शिवः | अमुष्मिन्परमाद्वैते प्रकाशत्मनिकः परः || २ || इदं द्वैतमयं भेद इदमद्वैतमित्युत | प्रकाश वपुरेवायं भासते परमेश्वरः || ३ || अस्यार्थसौ मुखं दुःखं बन्धमोक्षो चितिर्जडः | घटकुम्भवदेक्यार्थः शब्दास्तेप्येकमेव च || ४ || प्रकाशेप्यप्रकाशांशः कथनामप्रकाशतां | प्रकाशमाने तस्मिन्वा वस्तुता कथमुच्यते || ५ || अत एव प्रकाशोयमिति वादेत्रस्वस्थिते | तरादावादिताः सत्यं विभिन्नज्ञानवादिनः || ६ || प्रकाशमात्रमुदितमप्रकाशनिषेधनात् | एकशब्दस्यनत्वर्थः सङ्ख्यादि व्यक्ति भेदभाक् || ७ || नैव शक्तिर्महादेवी न परत्राश्रितो यतः | न चैषशक्तिमान्देवो न कस्याप्याश्रयो यतः || ८ || नैषध्येयो ध्यातृभावान्नध्याताध्येय वर्जनात् | न पूज्यः पूजकाभावात् पूज्याभावान्नपूजकर || ९ || न मन्त्री न च मन्त्रोसौ न च मन्त्रपिता प्रभुः | नदीक्षा नदीक्षको वापि न दीक्षा वान्महेश्वरः || १० || स्थानासननिरोधान्घसन्धानावाहनादिकम् | विसर्जनान्तंनास्त्यत्र कर्तृकर्मक्रियोज्झिते || ११ || नसन्नचासत्सदसन्न चतन्नोभयोज्झितं | दुर्विज्ञेया हि सावस्था किमप्ये तदनुत्तरम् || अलं चाति विस्तरेण महागुरुभिर्किन्त?रयाप्रकाशि इति श्री मद्भट्टारकानन्दनाथकृतायां प्रत्यभिज्ञाकौमुद्यां चतुर्थमाह्निकं क्रियाधिकारे || || क्रियाधिकारः समाप्तः || ओं सुस्यस्तु? प्रजाभ्यः || || ५७ब्) ओं श्रीविश्वेश्वरायेष्थ? देवाय नमः || श्रीगुरवे नमः | अथात आगमाधिकारश्चित्युते || ओं शिवादिक्षिन्यन्तं यदमलपरिस्फुर्तिविलत्मुधाधारासारं नियति विषयं यन्मयमपि | यदन्तः सृष्ट्यादि स्थितिलयपिधानादि कलना तदाभासं वन्दे परमशिवशक्त्यात्मगिरिशम् || १ || एवं ननुस्वलक्षणाभासमित्यादिना बौधमतादि सन्तमसान्धकारे प्रवृत्ते | ततस्तन्मताधिकार प्रवृत्तये | यद्येव मन्तर्गस्तवाकोर्थः स्यात्स्थायिनात्मनेत्यादिना स्थणानिखनन्यायेन तन्मतान्धकारे दृढीकृते सति | ततश्च तन्मतनिरासार्थं | न चेदन्तः कृतानन्त विश्वरूपो महेश्वर इत्यादिना तन्निरस्य | ततश्च सहि पूर्वानुरूतार्थोपलब्धा परतोपि सत् | इत्यादिना प्रचण्डभास्करोदयने विमर्शात्मकविमर्शस्वभाव महमिति स्वरूपं दृढीकृत्य | ततश्च तस्यैश्वर्यात्मकस्य ज्ञान क्रियात्मक शक्तिद्वय संघट्वानार्थपंच | ज्ञान क्रिये स्फुट एव सिद्धे सर्वस्य जीवत इत्यादिना शक्तिद्वय स्वरूपं च सर्वस्य विभाव्य | तदनु च ज्ञानाधिकारे ज्ञानंधक्रियाधिकारे च क्रियां तत्तदभिसन्धानदिशातत्तदभिसन्धाय || इदानीं क्रमप्राप्तं परमोत्तमं शिवादिक्षिति पर्यन्त षट्त्रिंशत्तत्व प्रोक्तलक्षणतात्पर्यतयागमाधिकारस्तदौ पूर्वसिद्धशिवतत्वानुसिद्धज्ञान क्रियात्मकशक्ति द्वयलक्षण प्रतिपादनद्वारामातुरेव ५८ब्) तच्छक्ति द्वयं प्रोक्त लक्षणं सिद्धं || इति तच्छक्ति तत्वं प्रोक्तलक्षणं सिद्धं | तेन च प्रमाता स महेश्वर इत्यादिना प्रमाता महेश्वरः शिव इत्याख्यया प्रथितः प्रोक्तलक्षणः सिद्ध एव शिव इति प्रतिपादयितुमाह || || ओं एवमन्तर्बहिर्वृत्तिः क्रियाकालक्रमानुगा | मातुरेव तदन्योन्या वियुक्ते ज्ञानकर्मणी || १ || अन्तर्बहिर्वृत्ति प्रसरत्स्वरूपाया क्रिया | एव महं करोमि | एवं कुर्वे | एवं कृतमित्यादितायेन्तर्वा | बहिर्वा वृत्ति प्रसरः | बहि प्रसरणं | अहं पचामि | अहं करोमि | अहमेवेर्थं जानामि च तदेव | इत्येवं यो बहिर्वान्तः कालक्रमानुगतोपि प्रसारः | सच क्रिया ज्ञानात्मक एव | तद्द्वये न विना सिद्धेः | तद्द्वये चाहमित्यन्तः स्फुरद्रूपस्य प्रकाशमानवपुष आत्मन एव | न च बुद्ध्यादेः || बुद्ध्यादीनां यदीयैश्वर्यविप्रूत्ठिव्कृ?तकृत्यत्वात् | स्वतश्च जदुप्रायात्पाषणादिवत् || तस्मादन्योन्यावियुक्त अन्येन्यसंयुक्ते सम्बन्द्धए ज्ञानक्रियेतस्येति संबन्धः यतस्स एव करोति | स एव च जानाति || अन्त इत्यनेन शिव तत्त्व शक्ति तत्व लक्षणं द्वधात्मना प्रतिपादितमिति सम्बन्धः || १ || ५८ब्) इदानीं क्रमप्राप्तौ सदाशिवेश्वरौ निरूपयति || ओं किन्त्वान्तरदंशोद्रेकात्मादाख्यं तत्व?मादितः | बहिर्भाव परत्वेतु परतः परमेश्वरम् || २ || अयं चक्रमः | अन्तर्ज्ञानशक्ति चुम्बितभावतया योन्तर्विमर्शः | अहमिति स्वरूपेणाहमस्मिकर्ता | स एव विमर्शः सादाशिव इति तत्त्वं | यां च बहिरात्मतया | एवमहं करोमीति स्थूलविमर्शात्मकस्वरूपेण श्वेर तत्त्वस्वरूपमिति तद्विदः इत्यनेन ज्ञानक्रियात्मकमेवेदं सर्वमिति तदिच्छैव सर्वत्र हेतुकमिति || २ || तथा हि || ओं ईश्वरो बहिरुमेषो निमेषोन्तः सदाशिवः || सामानाधिकरिण्यां च सद्विद्याहमिदं धियोः || ३ || तस्यैव प्रभोर्बहिरुन्मेष ईश्वर इति तत्वप्रख्यातिः | इदं भावेन || अन्तश्चोन्मेषः सदाशिवेति हानिमेषतनुहं भाव हेतुतया | च तद्द्वयं तदधीनं तदुद्कुतमेवेश्वर सदाशिवमिति सम्बन्धः || तयोश्चाहमिदं धियोः सामानाधिकरिण्येनाहन्तायामिदन्तास्पदत्वेनाश्रयि भावादहमिदं धियोः सद्विद्या | शुद्धविद्या स्वात्मनिविश्रान्ति हेत्वर्थं सर्वस्यास्यजगतोमाषासम्बिकावद्वटधानिकावश्च स्वरूपापत्तेरिति सिद्धम् || ३ || ननु किं रूपेयं विद्या अतश्चैव माह || ओं इदं भावोपपन्नानां भेदवर्ति मुपेयुषां भावानां बोधसारत्वाद्यथा वस्ववलोकनात् || ४ || ओं अत्रापरत्वं भावानां मतात्मत्वनेभासनात् | परताहन्तयाच्छादात्परापरदशा हि सा || अत्रायं भावः || बहिर्भावम्धसरणे तदभेदापत्तेः परा | तद्भेदापत्तेश्चा इत्येवं शुद्धविद्यालक्षणं || || परापरेति * *? च प्रसिद्धा || ५९अ) प्रसिद्धा | अत एवेयं शुद्धविद्या | अहन्ताच्छादाच्छुद्धं विद्यात्मकं स्वरूपं यस्याः | या च चतुः षष्ठि तत्रोक्त प्रथमभूमिका परस्वरूपा मयूराण्डरमवद्वटदानिकास्वरूपवन्माषाशम्बिका स्वरूपवश्च स्थिता श्रीविद्येतिगीयन्ते | साधकोत्तमैरिति || साचाहमावृत्याशिवतत्वादनन्तरं शक्तितत्वं यत्परमं शुद्धं विश्वोत्तिर्ण स्वरूपं सासैव || इदं भवोपपन्नत्वेन चाङ्कादनस्वरूपद्वाच्छक्तिरिति गीयन्ते शक्यतेन यागो तुमिति मिति शक्ति त द्विद इति निरस्तसममुभावेन शुद्धविद्येति कथ्यते || ५ || इदानी महन्तेदन्तयोः स्वरूपप्राधान्येन तस्या एवद्वैविध्या तत्त्वै विध्येन तत्व द्वयं यद्बहिः प्रसृतं | तदेव क्रमप्राप्तं दर्शयति || ओं भेदधीरेवभावेषु कर्तुर्बोधात्मनोपि वा | माया शक्यैव साविद्येद्यन्ये विद्येश्वरा यथा || ६ || विद्या तत्वे स्थितास्सर्वज्ञा सर्वकर्तारश्चेति विद्येश्वराः बोधकर्तृता मयस्यपि भेदेनेक्षणं विद्येति कथ्यते | यतो मायाशक्तिरप्येषा विद्यैव संसारोत्तिर्णत्वात् | तत्रस्थाश्च मन्त्रेश्वर विद्येश्वरा इति स्थितम् || यतश्च मायाशक्तिरेव स्वरूपभेदविपर्यया भासमत्तामात्रेण विद्येति कथ्यते || एतदेव चापरश्लेकतात्पर्येण कथ्यते || ७ || तथा हि || ओं तस्यैश्वर्य स्वभावस्य पश्तभावेप्रकाशिका | विद्याशक्तिस्तिरोधानकरीमायाभिधापुनः || ८ || संसारिणां स्वात्मन ऐश्वर्यस्यवेद्यवेदकभावेन यासाविद्येति कथ्यते | वेत्तिस्वंरूपमनयाविद्येति || तस्यैव च स्वातन्त्र्यस्य तिरोधान करीया सामायेति कथ्यते || अत एव पश्तभावेति || इदं नीलं | इदं च पीतं | इदं च शुक्लमितियज्ज्ञायते | ततश्च तत्तत्त्वं ततश्च तदेवस्वात्मा भेदेन यज्ज्ञायते सा विद्या | साविद्येति कथ्यते || ५९ब्) एवं चेदं नीलं | इदं च पीतं | इदं च शुक्लमित्यादिनायज्ज्ञानं | तत्तत्वा ज्ञानेन स्वात्मैश्वर्यादि विज्ञानाभावास्य शक्तिर्विजृम्भते | सामायेति कथ्यते || इत्यनेन मायाविद्या तत्व द्वय स्वरूपं निर्णीतमिति भावः || || तत्तिरोधानमेवस्फुटयति || ओं भेदेत्वेकरसे भाते हन्तयानात्मनीक्षते | शून्ये बुद्धौशरीरे वा मायाशक्तिर्विजृम्भते || ३ || यदा भावा भेदेन भासन्ते | देहादिचाहमिति प्रमातृत्वेन | तदामायाशक्तिविकास इति हि स्थितम् || अनात्मनि शून्ये | वा बुद्धौ | वा शरीरे च | अहन्तया चैक्षिते सति | सति च भेदे | इदमिदमित्यादिना | तस्मिश्चैकरसस्वरूपे भेदरसमयेन भासमानेसति | मायानामदत्ताश्रया कृतास्पदा स्पन्धते तरामिति भावः || ३ || अतश्च समायावीस्वम्भाद्व्यतिरेकिणि प्रमेये | मातासत् | कालादि पंचकव्याप्त इति कथ्यते || तदेव च दर्शयति || ओं यश्च प्रमाता शून्यादिः प्रेमेयेव्यतिरेकिणि | माता समेयः सत्कालादिकपंचकवेष्टितः || ९ || अतश्च मायावित्वाद्व्यतिरेकिणि प्रमेये समातामेयंः सत् [+मेयं जायमन्] | कालविद्या | कला | रग | नियतिभिर्व्याप्तश्च प्रोत एव च मायास्थुले पञ्च शाखा स्वरूपे वेष्टित इति कथ्यते | तेन च बद्धस्त्रणमपि कुब्जयितु मसमर्थ इति का कथा स्वस्वरूपदर्शनादौ || इत्येतत्पूर्व प्रसिद्धमिति भावः || ९ || ६०अ) नव? चयोत्रमेयः कालादि पंचकवेष्टितः प्रोक्तः पूर्वं | सकतिविधद | इत्याह || ओं त्रयोविंशतिधा मेयंयत्?कार्यकरणात्मकं | तस्याविभागरूप्येकं प्रधानं सूलकारणं || १० || तत्रस्थूलसूक्ष्मत्व भेदेन कार्यकारणसंज्ञानि | शब्दस्पर्शरूपरसगन्धाख्यानि पंच | तन्मात्रसंज्ञानिकारणानि सूक्ष्माणि? || ५ || तत्कार्याणि च पृथिव्यप्तेजो वाध्वाकाशसंज्ञानि च | पंचस्थुलानि || श्रोत्त्रत्वदक्षिजिह्वा प्रासिकाख्यानि पंचज्ञानेन्द्रियाणि | तथा वाक्राणि | पादपायपस्थाख्यानि कर्मेन्द्रियाणि पंच | मनबुद्धिः अहङ्कार इति त्रिधान्तः करणमिति त्रयोविशति भेदस्यकार्यकरणात्मनः प्रमेयस्य सूलभूतैकाविभागा प्रधानाख्या सूलकारणं || तथा च || सूलप्रवृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त | षोडशकस्तु विकारोन प्रकृतिर्न विकृतिः पुरुषः || १ || तथा च प्रकृतेर्महांस्ततोहङ्कारस्तस्माद्गणश्च षोडशकः | तस्मादपि षोडशकात्पंचभ्यः पंचभूतानि || इत्यादिना || इत्येन नस्थुल सूक्ष्मत्व भेदान्मेयपद्धतिः सिद्धा सांख्येहतान्ते || १० || नन्वेवं सति किंकारणं किं वा कार्यमित्याह || ओं त्रयोदशविधाचाथ बाह्यान्तः करणावली | कार्यवर्गश्च दशधास्थूल सूक्ष्मत्व भेदतः || ११ || पंचज्ञानेन्द्रिया.इ | पंचकर्मेन्द्रियाणि च | मनोबुद्ध्यहङ्कारा इति त्रयोदशविधाभ्यन्तर वर्ति बाह्यवर्तिकरणावली || कार्यवर्गस्तु दशधा पारेणेति सिद्धं || || पृथिव्यप्तेजो वाध्वाकामशब्दस्पर्शरूपरसगन्ध || ६०ब्) इति श्रीमदादिगुहगुहवरोत्पलदेवरचित प्रत्यभिज्`नाभट्टारककृत प्रत्यभिज्ञाकौमुद्यां श्रीमदागमाविकारतिरूपणे प्रथममाह्निकं तत्वनिरूपसम्पूर्णीकृतं भट्टारकेनतिशूभम् || || ओं विश्वेत्तीर्णं विश्वमयं वेद्यवेदं नवेदकम् | साकास च निराभासं पूर्णानन्दं प्रभुं स्तुमः || १ || एवं शिवनिरिक्ष?त्यन्तं यज्जगदुल्लसितस्वरूपं | तश्च मादमानमेयादि *? शिभाजं | वेदकवेदनवेद्यापन्नं च | ज्ञातृज्ञान्ज्ञेयस्वभावं च कुत्राप्यहन्तृ पूर्णत्वभावनया पूर्णा चिद्विकासं | कुत्रापीदन्तास्पदतयात्रिपुटीकृताश्रयं च | तत्र तस्मिंश्चाधिकारिणष्केप्यहन्ताविमर्शात्मकाः | केप् चेदन्ताविमर्शात्मकाश्चेति प्रकाशयितुमिदानीमपरमाह्निकाधिकारमातनोति | शिवाक्षित्यन्तं विश्वं प्रविभब्क्तातत्तदधिकारो न भेदेन प्रतनोति || ओं तत्रैतन्मातृतामातृ स्थितो हत्रोधिदैवतं | भिन्नप्रमेयप्रसरे ब्रह्मविष्णुव्यिवस्थितौ || १ || तदेव सहन्तृतया पूर्णास्वरूपासर्वोस्वभावेन स्वात्मनि विश्रान्ति तया सर्वमिदमहमेवेति विमर्शात्मकतया यत्र्पूर्णतास्पदत्वं | तत्रास्य विश्वस्य | रुद्रोधिकारी | यत अन्तर्मुखतया स्थित्याध हिर्मुखप्रसर्पणातितीयनेत्रो भवति यतश्चरुक | संसाररोगं | कौमिगच्छामि | सुपामि | इत्यादि प्रसिद्धं | द्रावयति | अन्तर्मुखत्वेन स्पृश्यत इति रुद्रः || तथा च|| यदासंहाराख्यायां मधिष्ठातृ देवतात्वं तद्रशासंपादनेन स्वोपासकलोकस्यतद्रशादानेन च| तद्पशाख्यानावेशसमापन्नस्यस्वाभिमुख्यसंपादनेन च भजमानो भट्टारक ईश्वर एव रुद्रोभगवान् | यो मायापदेपै प्राणपानात्मक ६१अ) धर्माधर्मसूर्येन्दु दिननिशादिविमुक्तमध्यमज्योती रूपप्रमातृस्वरूपस्पर्शादुर्मीलिततृतीयनेत्रो भवतीत्यादिनाप्रोक्तमेव पूर्वगुरुभिः || ततश्च भिन्न प्रमेयप्रसरेसम्पादनाभ्यामेनाधिष्ठातृ देवतात्वं भजन् | ब्रह्मा || ततश्च प्रसृते भिन्ने प्रमेये तत्सन्तानं प्रवहनलक्षणे प्रसरेधिष्ठातृ देवता विष्णुः || अत एव च तयोः प्रमेय प्रसरत्त पश्येदं नीलमिदं पीतमित्यादिप्रकाशात्मनः प्राधान्येनाहमिति प्रधानदशावेशशून्यत्वान्नतृतीयनेत्रोन्मेलनम् || अयं भावः || अहमित्यवमर्शस्वभावादधिदैवत्वं तृतृस्य इदमित्यवमर्श स्वभावाद्ब्रह्मविष्णु व्यवस्थितौ | न च तयोरान्तरनिमेषोपि स्वाभाविक इति हि स्थितम् || १ || अत एव हेतोश्च || ओं एषप्रमाता मायान्धः संसारीकर्मबन्धनः || ततश्च || विद्याभिज्ञापितैश्चर्यचिद्घनो मुक्त उच्यते || २ || ओं स्वात्मा रूपेषु भावेषु प्रमाताकथ्यते पतिः | मायातो भेदिषु क्लेशकर्मादि कलुषः पशुः एष मायान्धः संसारीजीवः कर्मबन्धनः कर्मणा || ३ || बद्ध इत्युच्यते || एकदाचिन्तयन् | ततश्च कुर्वन् | तत्र चानुसरन् | इत्थं | इत्थं चकुर्वन् | कर्मबन्धनः संसारीतिकथ्यते | तदनन्तरं स आद्यदत्तोपदेशमाशेण विद्याभिज्ञापितैश्वर्यश्चिद्घनश्चात एवमुक्त तत्रुच्यते योगी || अत एव चाहमिदं सर्वमिति भावयन् प्रमातृ सर्वग्राह्यग्राहकादिभावराशिदृष्ठस्वस्वभावः प्रमातापतिरिति कथ्यते | तर्पनन्तरमिदन्तास्पदत्वेन मायातोभेदिषु प्रश्चरिति || ६१ब्) तत्र योयं पशुभावः सयमलत्रयोद्भवः | मलत्रयदूषित इति तदेव प्रकटयति || ओं स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधानवं मलमिदं स्वस्वरूपापहानितः भिन्नवेद्यप्रमात्रैव मायाख्यं जन्मभोगदम् | कर्तुर्यबोधेकार्मत्त मायाशक्त्यैव तत्त्रयम् || ५ || चिदात्मनोबोधस्य हानिः | तस्य च बोधस्याबोधता | एतत् स्वस्वरूपापहाने द्विधाणवं मलमित्याहुः || आगमाधिकारिणः || ततश्च भिन्नवेद्यप्रथैवमायाख्यं मलमित्याहुः | तदेव च जन्मभोगदम् || जन्मभोगयोतकारणमिति अहं कर्तेत्यबोधेतु कार्ममलमित्याहुः | परं तु परमार्थतः | एतदाणवमायीय कार्ममलाख्यं त्रिपुटीमयं समस्तं मायाशक्तिमूलस्तम्भभूतं | त्द्बीजप्रधानाख्यमित्याहुरागमवादिनः || ५ || इदानीं पशूनां मलत्रयबद्धानां लक्षणं निरूपयति || ओं शुद्धबोधात्मकत्वेपि येषांनोत्तमकर्तृता | निर्मिताः स्वात्मनोभिन्नाभत्रातेकर्तृताद्ययात् || ६ || वेद्यराशिविरक्त चित्तानामपि पूर्णाहन्ताकर्तृत्वशून्यत्वात् स्वात्मनोभिन्नास्तेप्रतिपादिताः || पूर्णाहन्ता वैयर्थात् || अत एव च कर्तृतात्ययादित्यादि च || ७ || अत एव चात्येप्येवमेव || ओं बोधादिलक्षणैक्येपि येषामन्योन्यभिन्नता | तत्रेश्चरेच्छा भेदने ते च विज्ञानकेवलाः || ७ || तेषां बोधादिलक्षणैक्येपि यदन्योन्यं परस्परं भिन्नता | भिन्नत्वं | तेपि च भेदमया एव विज्ञानकेवला इति नामानापि बाह्या एव || परवध्वरेफपातथैवतिर्मणात्? | ते साङ्ख्यपुरुषप्रायाविज्ञानकला उच्यन्ते || ८ || ६२अ) इदानीं तत्दृष्टिमाह || ओं शून्याद्या बोधरूपास्तु कर्तारः प्रलयाकलाः | तेषां कार्ममलोप्यस्तिमायीयास्तु विकल्पितः || ९ || शून्यैबुद्धौ शरीरेवा कल्पितेन भासीववा | इत्यत्र जडाजडस्वभावादहमिति चमत्कारयोगनेयत्कर्तृत्वं | तत्प्रलयाकलावधित्वं || प्रलये | अकलाः | कलातत्वो पलक्षितकारणकावरहिताः अबोधर्थपाः कर्तार इति || तेषां च कार्ममलोप्यस्ति | मायीयस्तवान || इतिविकल्पित एव || ९ || इदानीं मायाख्य मलस्यविषयतां प्रतिपादयितुमाह || ओं बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ | भिन्नवेद्यजुषां मायामलं विद्येश्वरा यथा || ३ || येषां कर्तृत्वमप्यहमित्येवं कार्मोत्तिर्णत्वेन | भिन्नवेद्यभाक्त्वेन च तेषां विद्येस्वराख्यानां मायामलं प्रवर्तत एव || तदास्पदत्वात् || ३ || अथ च || ओं देवादीनां च सर्वेषां शुविनां त्रिविधं मलम् | तत्रापि कार्ममेवैकं मुख्यं संसारकारणान् || ९ || भाविनां संसारिणां || विद्येश्वरविज्ञानकलास्ततावन्नभाविनः मायान्ताध्वातिक्रमात् प्रलयाकला अपि तथैव | ये च मायातत्वान्तरिताश्चैतदन्तुरालवर्तिनःदेवादयश्च स्थावरान्ताश्चतुर्दशधाशास्त्रेषु परिगणितास्तेसर्वेभाविनः संसारिणः || तेषां च त्रय एवयगपर्मला इति सिद्धम् || परं तु संसारकारणं मुखतया कार्ममलमेवेति सम्प्रदायः || तथा च साज्ञाः || अष्टविकल्पोदैवस्तैर्यग्योनयश्च पंचविधो भवति | सानुषकश्चैकविधोस्समासतो भौतिकः सर्ग इत्यादिना || ९ || ६२ब्) इदानीं देवकीनां द्वैविध्यमाह || ओं कलोत्वालितमेतषु चितत्त्वं वद्दतलयं? | अचिद्रूपस्य शून्यादेर्मितं गुणतयास्थितं || ओं तत्र च | मुख्यत्वं कर्तृता याश्च बोधस्य च चिदात्मनः | शून्यदौतद्गुणे ज्ञानं तत्समावेशलक्षणम् || ११ || देवादीनां संसारिणां यश्चैतन्यं कर्तृतां यस्याप्राधान्यान्मलेन संविन्भागस्य निमज्जितत्वात् कर्तृताम्यं चिद्रूपस्य तत्वं स्वातन्त्र्यं कलाख्येन परमेश्वर शक्त्या उपोद्बलितं मलेनन्यकृतं शून्याददेह पर्यन्तस्या मायाप्रमातुः सम्बन्धितद्गुणत्वेनाप्रधानत्वेन स्थितं | यतोमितं | इदन्ता मन्नदेहादि शून्यान्त प्रमेयभागनिमग्नत्वात् || एतदेव च तत्वं कलोद्बलितं न्यकृतं शून्यादेरचिद्रूपस्यमितं | अत एव च गुण तया प्रधान तया स्थितं सत् | अज्ञान पूमपटलेनन्यक्कृतस्वरूपत्वात् || एतदेव च शून्यादेरहन्तृ रूपस्य स्वरूपं | देहादिप्रमातृत्वात् || अप्रधानं तत्र च || यदागुरुकृपया अहं कर्तृताया मुख्यत्वेन बोधस्य च चिदात्म स्वरूपस्य च | मुखत्वेन | परमार्थत्वात् || शून्यादेश्चाप्रधान्याद्यज्ज्ञानं | तदेवसमावेशलक्षणं || तत्समावेशयुक्तिरितिभावः || कर्तृता या मुख्यत्वं | अहन्तृ रूपायाः अहं शून्यः | अहं देहः | अहं बुद्धिरित्यादौ चाप्रधानभूते | एत देवविज्ञानमानन्दं ब्रह्मे ब्रह्मविदः | ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेः || एतदेव च विज्ञान तत्समावेशलक्षणमित्याहुः || सा च समावेशदशेद्यभिधीयते || अहं कर्तृत्व प्रधान्नात् || ११ || इत्ययं तुर्या? पातुर्या?तीता च तद्दशापन्नस्येति सिद्धम् || ११ || ६३ब्) इदानीं या इमा अवस्थाः पशोः प्रतिभासन्ते | ता अप्याह विज्ञानतुच्छ स्वभावत्वात् || ओं शून्ये बुद्ध्याद्य भावात्मन्यहन्ता कर्तृता पदे | अस?जारूपसंस्कारमात्रिणिज्ञेयशून्यता || १२ || साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरकामता | जीवनाख्याथवा प्राणेहन्ता पर्युष्ठकात्मिका || १३ || ओं तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमं | सवेद्यमपवेद्यं च मायामलयुतायुतम् || १४ || शून्येबुद्धौ शरीरेवा | इत्याद्यहन्ता कर्तृत्वा भावे | अप्रत्यक्षेणचप्रमेयादौ ज्ञेय शून्यता | न किंचिदवेदिषमित्याद्युक्तेः || तदेव च सुषुप्तमिति कथ्यते | सैव चाक्षाणा मान्तरी वृत्तिः निरिन्त्रियव्यापारवृत्तेः | परं तु प्राणादेः प्रेरकत्वं च व्यापृतत्वमिति भावः || सैव च प्राणस्य जीवणाख्या मुर्यष्ठकात्मिका हन्ता हन्तृत्वमिति || पुहुष्ठकं च शब्दस्पर्श रूपरसगन्धाः | मनोबुद्ध्यहङ्कृतयः || त एतत्पुर्यष्ठके तस्या हन्तृ रूपप्राधान्यात्तदवस्थायां एतावन्मातृरूपेज्ञाने सौष्ठप्तं प्रलयोपममिति कथ्यते || सर्वत्र प्रमाणप्रमेयादिवैयर्थ्यात् || तदेव च सवेद्यं | किंचिद्दर्शनात् | अपवेद्यं च || अदर्शनात् || नकिंचिदवेदिषमिद्यदिना || ६३ब्) परश्च सवेद्यत्वेमति | मायामलेन युतं | वावेद्यत्वे च सति मायामलरहितमिति कथ्यते || एतदवस्थामात्रं पशोरिति पूर्वविदः || १४ || इदानीं तस्यैव च पशुस्वभावस्यसुप्रमिति कथ्यते || तदाह || ओं मनोमात्रपदेप्यक्षविषयत्वेन विभ्रमात् | स्पष्टावभासाभावानां सृष्टिः मुप्नपदं मतम् || १५ || यत्र च मन अन्तः करण प्रवृत्तौ सद्यां स्पष्टावभासाः | घटोयं | स्थूलोयं | नीलमिदं पीतमिदमित्यादिना ये वभासाः | विभ्रमादक्षविषयत्वेन | सा चान्तरी सृष्टिः मुप्रमिति कथ्यते पशोः || १५ || तत्र या च जागरे सर्वै ज्ञानकर्मेन्द्रिया द्यैर्वा मनसाधिया च ज्ञानज्ञेयाधिकरण सृष्टिः प्रत्यक्षतया स्पष्टस्तभावा | इदमिदमित्यादिना | स्थिरा मन्यतया स्पष्ट स्वभावा | न च स्वप्नादि वदसत्यत्वेना स्पष्टस्वभावा || सा च सर्वप्रमातृणां जागर इति कथ्यते साधरणः || १९ || पुनश्च || ओं हेयात्रपीयं प्राणदेः प्राधान्यात्कर्तृतागुणेतद्धानो पचयप्रायमुखदुःखादियोगतः || १९ || यत्राहं केत्मताया गुणत्वे सति | प्राणादेश्च मुख्यत्वे | तस्य च प्रमेय राशेर्हानोपचयप्रायमुखदुःखादि योमाद्यद्गुणत्व मुप्रधानत्वं कर्तृत्वस्य | तस्माद्धेतोर्हेयात्रयीयं | जाग्रत्मुपसुषुप्तादि रूपावस्थामनः क्षोभात्मिकेति सिद्धम् || १९ || इदानीं तुर्यामभिव्यनक्ति सौषुप्तरूपेण वा तुर्यातीतां च || ओं प्राणापानमयः प्राणः प्रत्येकं स्वप्न जाग्रतोर तच्छेदात्मासमानाख्यः सौष्वप्तेविष्ववत्द्विव || १८ || ओं ऊर्ध्वोर्ध्वगम्युदानाख्यस्तुर्यगो रूतभूद्मयः | विज्ञानाकलमन्त्रेशोव्यारोविश्वात्मकः परः || १९ || ६४अ) अत्र प्राण इति प्राणन रूपाजीवनस्वभावाचिद्रूपा स्थितिः | जीवात्म परपर्याय इति || स च जागरे वा स्वप्ने प्राणापान मयः | प्राणस्योर्ध्वाधोगमनवृत्या सा च वृत्तिस्स्वप्ने वा जागरे समानैव समानवायुस्तुतस्चेदात्मा | तच्छेदवृती | तदूर्ध्वगमनवृत्त्या || प्रवेशनिर्गमनाभासादि वाश्यानघृतादिवन्नकिंचिदवेदिषमित्यादि वृत्त्यासुषुप्तादौ || तत्र प्राणापानवृत्या जागरस्वप्ने | ऊर्ध्वाधो गमनभावेन प्राणस्या || समानेन च सौषुप्तादि वृद्या | तयोर्गत्यभावादिव || ततस्तयोश्चोर्ध्वमार्गेण प्रवहणं सकलस्यभेदस्या भेदसारतयौ दानलक्षणं हृदयाद्विज्ञानकलादारभ्य सदाशिवान्तं सा च तुर्यात्मिकादशा || यत्र प्राणादीनामूर्ध्वमार्गप्रवहणं || ततश्च विलीने तु भेदे सर्वस्या चराचरात्मकस्या भेदवृत्तेः प्राणादि वृत्तिवानरूपाविश्वात्मकपरशिवोदिता तुर्यातीतरूपा | यत्र च प्राण एवप्रमाता | प्राणापानसमानो दानव्यान रूपश्चेति सामानाधिकरिण्यागा || विज्ञानाकलश्चासौमन्द्रश्चासौ | ईशश्च सदाशिवेश्वर रूपोयोसाविद्युदानः || स एव हुतदुद्मायः || सर्वस्यास्य ज्वलनहेतुत्वात् | स एव च परोविश्वात्मकः || अत्रायं भाव || ६४ब्) यदैतेप्राणादयः पचभिन्न स्वभावाः भिन्नकाराश्च? तदास्वस्वावृत्ति मवष्ठभ्यपरिस्पन्द मात्राश्रयाः तदा? च जाग्रत् | * *? सुषुप्तं | तुर्या | तुर्यातीता चेति पंचप्रकाराः || य च चार्विणीने विश्वेस्मिंज्जगति प्राणादीनां च सुषुम्णायाशास्तत्वेसति सर्वत्रैकः शुद्धः चान्तस्वरूपः परमार्थ उदेति | न तदाकपि कामना || तथा च सर्वतीत पदालम्भी पूर्णेन्दुशशिराशयो इत्यादिना || एवं तत्वाच्य सान्नास्मिनमेनाहमित्यपरिमेषण् | अविपधा द्विशुद्धकेवलमुत्पद्यते ज्ञानं || तत्र च | सस्यज्ज्ञानाधिगमाद्धङ्गदीनामकारणप्राप्तौ | तिष्ठति संस्कारवशाश्चक्रभूमिरिव मृतशरीरः | ततश्च प्राप्तेशरीरभेदेच रितार्थत्वात् विनिवृत्तौ | एकान्तिकमान्तिकमुभयं कैवल्यमाप्नोति || इत्यादिना साङ्ख्यशास्त्रेषु वितत्यवितत्यनिर्णीतमेव || तथा च | तमविष्ठात्र भावेन स्वभावमवलोकयन् | स्मयमान इवाम्तेयस्तस्ययं?कुसृतिः कुतः || १ || तदास्याकृत्रिमोधर्मोज्ञत्वकर्तृत्वलक्षणः | यतास्तदेप्सितं सर्वं जानाति शकरोति च | अयमेवोदयस्तस्य ध्येयस्यध्यायिचेतसि | तदात्मता समापत्तिरिच्छतः साधकस्यया || ३ || इति श्री स्पन्द || प्. ६५अ) तथा च तन्त्रालोके || इत्थं विश्वाध्वविलयमयत्नेनैवलीयते | भैरवीय महाचक्रेसंवित्तिपरिवारिते ततस्तद्दाद्वविलयात्तत्संस्कारपरिक्षयात् | प्रशाम्यस्भावयेश्चक्रं ततः शान्तं ततः शमण ततो नन्तरं तत्संस्कारस्यापि परिक्षयाच्छान्तं | यावदन्ते शमंतश्चक्रप्रशान्त्या शुद्धमेव संविन्दात्रमनुसन्दध्यादित्यर्थः || २ || अनेन ध्यानयोगेन विश्वं चक्रेविलीयते | तत्सविदिततः संविद्विलीनार्थैवं भासते || ३ || एवं प्रदक्षिणं विश्वं स्वसंविदिविलापयेत् | विसृजंश्च ततोभूयः शम्बक्?भैरवतां ब्रजेत् || ४ || शक्तयोस्य जगत्सर्वं शक्तिमांस्त्रमहेश्वरः | इति माङ्गलशास्त्रेतु श्री श्री कण्ठोन्यरूपत् || ५ || निजानन्देप्रमातृशमात्रे हृदिपुरः स्थितः | शून्यता मात्रविश्रान्ते निरानन्दं विभावयेत् || ६ || तत्रानन्दं प्रमेयं शपूरणासृ *?तिर्वृतः | परानन्दनीतस्तिष्ठे दपानशशिशोभितः || ७ || तदनन्तस्फुरन्मेय सङ्घट्ठैकान्तनिर्वृतः | समानभूमिमागत्य ब्रह्मानन्दमयोभवेत् || ८ || ततोपि मानमेयौघ कलनानासतत्परः | उदानवह्नौ विश्रान्तो महानन्दं विभावयेत् || अत्रटीका च || इहं खलुधो?गी पुराप्रथमसशून्यं | शून्यमित्युक्तं शून्यं च भावयेदित्युच्यते || अभावः समुदिष्ठो यत्रभावः क्षयं गत इत्यादिनि रूपितम्ब रूपेसंविदेकात्मनि || ६५ब्) शून्यतामात्रेविश्रान्ति माश्रित्य प्राणाद्युदयविश्रामधामनि हृदिविषयेनिजेनिरुपाधित्वात् स्वभाव भूत? आनन्दोयस्यैव विधप्रमेयाद्यं शान्तरापेक्षया प्रमातृ समात्रेस्थितः स्वात्मानमेवकेवलतया साक्षात्कुर्वन्नवस्थितस्सन्ननन्तरं प्राक्संवित्प्राणेपरिणतेति नीत्याप्रमाणात्मनः प्राणस्य कृदयाद्स्वदशान्तं रेचकक्रमेणोदये | कथञ्चिद्बहिरौन्मुख्यान्निरानन्दं निजात्प्रमातृ सम्मतादानन्दान्निष्क्रान्तं दशाविशेषं विभावयेल्लक्षयेदित्यर्थः || अपानात्मनि प्रमेयेपुनरुदयति परेण प्रमेयेन कृतमानन्दं विभावयेद्यतस्तत तस्या प्रमेयोदयदशाया मसौ परानन्दनिष्ठस्तिष्ठेद्यतोनन्तायेप्रमात्राद्यपेक्षया प्रमेयलक्षणा अशास्तत्कर्मकायेयं पुराणा तत्तदर्थग्रहणेन नैराकाङ्क्ष्यसैवपानंपीतिस्तेननिवृतिः स्वात्ममात्रविश्रान्तोयस्मादपान एवाप्यायकारितया शशीतेन शोभितः | पुरकक्रमेण ज्वा? दशार्थद्व्यदयंयावद्दशामविशयान इत्यर्थः || ततोपि हृदये कुम्भकवृत्याक्षणं विश्रम्यतेषां समनन्तरो ब्रानानीलमुखादिरूप तयानन्तानां प्रतिभासमानानां मेयानामन्योन्यमेलनात्मायोसौसङ्घट्टास्तेनैकान्तेनाव्यभिच अरेण निर्वृतस्मन् | सममेवसमानमेयात्मनीकारात्मसारभूमिमासाद्यमेयेन सम्रूपकृतत्वाद्वृंहितेन ब्रह्मरूपोयोमायानन्दस्तन्मयोभवेदित्यर्थः || तदनन्तरमपि मानमेययोः सूर्यसोमात्मनोः प्राणापानयोः य ओघः प्रवाहस्तस्य याषट्कतारिवरारोहमेहस्राण्येकविंशति रित्यादिनानिरूपित स्वरूपाः कलनाः | तासां ग्रासतत्परः | तद्घटनपरायणोयौ || ६६अ) मध्यमार्गेणोर्ध्वगामित्युणापानाद्यवान्तरक्षोभतया विश्रान्तो महान्तं प्रमाणादि दशाधिशायिनिनिरानन्दादिवैलक्षण्यादुर्कृष्ठं प्रमभ्रससमतमानन्दं विभावयेत्स्वात्ममात्रविश्रान्ति रूपतया विमृशेदित्यर्थः || नन्वेवं परामर्शेनास्यकिं स्यात् इत्याह || ओं तत्रविश्रान्ति मह्येतिशाम्यद्यस्मिन्महाचिषि || निरुपाधिर्महाव्याप्ति व्यानाख्योपाधिवर्जिता नह्यत्रसंस्थितिः कापिविभक्ता जडरूपिणः || यत्रकोपि व्यवच्छेदनौस्तियद्विश्वतः स्फुरत् | यदनाह तसंवित्तिः परमामृतवृंहिताम् || यत्रास्ति भावनादीनां नमुख्याकापि सङ्गतिः | तदेव जगदानन्दसस्सभ्यशम्भु रूचिवान् || अस्मभ्यं शम्भुनाथ आदिशत् || नपुनरेतदम्भाभिः स्वोपज्ञमेवोक्तमितिभावः || || इत्यलमतिविस्तरेण महात्मना मुपदेशवाचोनापि विस्तृतया लोश्या इत्यर्थः || तदात्मनां क्षोभप्रसङ्गात् || इत्येवं जाग्रत्स्वप्नसुषुप्तादितुर्यातुर्यातीतपदस्थात्वं स्पष्टी कृतं पूर्वगुरुभिः प्रसङ्गश्चास्भाभिः प्रोक्तं नदोशः || ६६ब्) इति श्रीमत्परमाचार्य श्रीमदुत्पलदेवरचितप्रत्यभिज्ञाभट्टारककृतप्रत्यभिज्ञा कौमुद्यां आगमाधिकारस्य द्वितीयमाह्निकं समाप्तिमगमत् शूभमस्तु शिवभक्तानां नराणां च त्रिकशास्त्रविदितत्त्वानां शिवशक्ति नरात्मनां त्रिकानां परमार्थ विदां च दृष्टिपातोदयोस्तु सद्गुरूणां च स || || न्वृदा || इदानीं ज्ञानक्रियाशक्ति द्वय मयं परमेश्वरं विभाव्यहं सोयथाद्विपक्षी | इत्येतावताग्रन्थेनैतत्तात्पर्यं च || इदानीं तत्स्वरूपस्यमहिमाचित्कृते पुनः पुनरपि च पदेत्वन्वाचीनेपततिनमनः कस्यनव च इत्याद्युक्तत्वात् || पुनः पुनस्तन्महिमावर्णनेवालभ्यात् || तथा च महिमात्वमपि वर्णनीयशिष्ठतयाक्रमप्राप्तमिति महिमात्वं वर्ण्यतेध्वना || ओं स्वात्मैव सर्वजन्तुनामेक एव महेश्वरः विश्वरूपोहमिदमित्यखण्डमर्शवृंहितः || १ || परमेश्वरः स्वात्मा सर्वस्यास्य जीवतः | आत्मखल्वविश्वमूलमित्यादि निरूपित यक्त्या भास्करबिम्ब इवसर्वत्र व्यापी महेश्वरो ज्ञाताकर्ता हमित्यवभासमानः | वेदकवेदनवेद्यरूपः | परमार्थ स्वभावोतिरिच्यते || तथा च | जाग्रदादि विभेदेपि ६७अ) तदभिन्नेप्रसर्पति | *? वर्तते निजान्नैव स्वभावादुपलब्ध्यतः || अहं सुखी च दुःखी च रक्तश्चेत्यादि संविदः मुखात्यवस्थानुस्यूते वर्तन्तेन्यत्रताः स्फुटम् || इत्यादिना प्रोक्तलक्षणः स्वात्मा महेश्वरः सर्वत्र चैक एव विश्वरूपः | विश्वसाक्षी | अहिमित्यवभासमानः प्रत्यक्षरूतस्वभावः प्रत्यक्ष एव क्रियादि गोचरः || तथा च | यं जानन्ति जडा अपि | जलहार्योपियं विजानन्ति | यस्यैव च नमस्कारः सकस्यस्फुटो न भवति कुलनाथः || तथा च वेदः || उतैनं*?पा अद्यशन् | उतैनमुदहार्यः | उतैनं विश्वारूतानिसदृष्ठो मृडायातिन इत्यादिना || यः हस्तिनि द्विपिनि | यो हिरण्यो गोष्ठश्वेषु पुरुषेष्वन्ता || इत्यादिना || स एव चाहमित्यनेनैव निश्चित इति सर्वमवधातम् || अहमात्मा गुडाकेशसर्वभुताशय स्थितः | अहमादिश्च मध्यं च भूतानामन्त एव || अन्तश्चरमि भूतेषुमुहायांविश्वतो मुखः | त्वं यज्ञस्त्वं वषट्कार आपोज्योतीरमोमृतमित्याद्युक्तेः || अथवा बहुनोक्तेन किं ज्ञाने नतवार्ज्वन | विष्ठभ्याहमिदं कृत्द्रुमेकाशेन स्थितो जगत् || ६७ब्) तथा चैतन्य मात्मा || तत्तकानु *? नतु कवत्कार्यं यागत्मपादयतीति न तु कः || जन्मद्यस्य यतोन्वयात् || ईक्षतेत्वा शब्दमित्यादि व कृत्यादे *? रासः || तस्मादात्मैव महेश्वरो यमिति स्वरूपः स्वत एवसिद्ध इत्यलं || १ || इदानीं तदुत्पादनेकारण कार्यविभागोपि तत्र दर्शयति || तस्य च निमित्तत्वं || ओं तत्रस्वसृष्ठेदंभागे बुद्ध्यादिग्माहकात्मना || अहङ्कार परामर्श पदनीतमनेन तत् || २ || स्वेच्छपैव सृष्टेदं भावरूप एव सर्वस्मि कार्ये बुद्ध्यादि सद्कुचद्रूपाहं भावग्राहकात्मना | हङ्कारपरामर्श पदं नितमनेन कर्ता परमेश्वरेण || अहं मनुष्यः | अहं पशुः | अहं वामनः | कृषः स्थूलः वामन इत्यादिना हङ्कार परामर्श पदं नितमिति भावः | परंतु सङ्कोचाहन्तन्तायातादात्म्येन | नतु शुद्धपरिपूर्णाहं रूपेण परमेश्वरवत् | तेपि स्युरितिभावः || २ || तस्मदेव हेतोश्च || ओं स्वस्वरूपापरिज्ञानमयोनकेः पुमान्मतः | तत्र सृष्ठो क्रिया *? भोगो दुःखसुखात्मकः || ३ || तस्मात्पूर्वोक्ता पूर्णाहन्ता स्वरूपेणैव स्वस्वरूपस्यापरिज्ञानादनिश्चित स्वभावादेकः पुरुषोनेक इति ६८अ) भासन रूपः प्रतिभाति || तथा च जन्ममरण करणानां प्रतिनियमादयगत्प्रवृत्तेश्च | पुरुष बहुत्वं सिद्धं त्रैगुण्याविपर्ययाश्चैव || १ || सङ्घतपरारूत्वत्रिगुणादि विपर्ययादधिष्ठानात् | पुरुषोस्ति भोक्त्या भावात्कैवल्यार्थं प्रवृत्तेश्च || ३ || वत्सविवृद्धिनिमित्तं क्षीरस्य यथाप्रवृत्तिरज्ञास्य पुरुषविमोक्षनिमित्तं तथा प्रवृत्ति प्रधानम् || ३ || तस्मात्पुरुषोस्त्यनेकधा | इति साङ्ख्यशास्त्रे || परमार्थ तस्तुनकश्चिदनेक इति निश्चितम् || चित्स्वरूपस्यानेकदर्शनानुपपत्तेः || परं तु तत्तद्देहप्राण शून्य बुद्ध्यादिकृताहं भावनया सङ्कोचग्रहणात् || तद्वशाश्चानेकोत्पत्तेरिति किमेतत् || तस्यैव च सृष्टौ भोजस्पदाय क्रियानन्दौ || प्रमान्भोक्ता | एकानेक रूपः क्रिया भोगः || पचनादि रूपः || तस्यां क्रियायां सङ्कुचित रूपसत्वेनय आनन्दः || अहो | अहो इत्यनेन तदपि स्थूल तयानहं भावनया च दुःखमेव | इमौ च तस्य क्रिया नन्दौ भोगः | परं तु दुःख मुखात्मकः || इत्यभावेव दुःखमेवेति तदर्थं ने एवदात्मन इच्छामात्रेण बहुस्यामित्यादिना | इति तदपि तद्स्फयैव || परं तुं जीवार्थं भोग इति कथ्यते || ३ || ६८ब्) इदानीं पशोस्सक्त चितस्वभावस्य संकोचाकारेण पदार्थ दृब्द्ध?ज्ञानक्रियात्मकतया मत्वाजस्तमांस्ति प्रतिपादयितुमाह || ओं स्वात्मार्थ येषुभावेषु पत्युज्ञानं क्रिया च या | माया तृतीये ते एव पशोः सत्वरजस्तमः || ४ || श्रीमद्भगवतो विश्वेश्वरस्य प्रकाशविमर्शात्मकं पदेतज्ज्ञानक्रियाशक्ति द्वयं शुद्धाहं भावमयं | तदेवसङ्कुचद्रूपमविद्यामयं मायापरपर्यायं मायातृतीयं पशोः सत्व रजस्तमः स्वभावात्मकं गुणत्रयमिति कथ्यते || तथा च सत्वं लघुप्रकाशकमिष्ठमुपष्ठाम्भकं चलं चरजः | गुरुवरणकमेवतमः प्रदीपवश्चार्थतो वृत्तिः || इत्यादिना साङ्ख्ये || तत्रज्ञानं नामाशुद्धं सत्वमिति कथ्यते लघु प्रकाशकत्वात् || अशुद्ध क्रियात्मके चेष्टमुपष्ठम्भकं चलं चरज इति कथ्यते मलाख्यया विद्यया वरण कर्त्वाद्गुरुवरणकमेव तम इति व्यवहारादौ गुरुवरण कर्त्वाद्वृहदाच्छादकत्वात्तम इति || इत्येतत्रयं शुद्धं प्रभोरिच्छा ज्ञानक्रियात्मकं | आनन्दसत्वरज आत्मकं तदेवत्रयं || तदेव चाशुद्धं मविद्यापि हि तं सत्वरजस्तम इति पशोः पाशत्रयं | तैश्च बद्धो बद्ध इति कथ्यते || यतः प्रकाश प्रकाशा प्रकाश | अप्रकाशमयत्वेन पशोरेतत्तयं || तदेव च ६९अ) प्रकाशविमर्शत्मकं परमानन्दात्मकं चेच्छाज्ञानक्रियात्मकं शक्तित्रयमिति भावः || एतश्च पुरस्तात्प्रतिपादयिष्यति || सत्तानन्दः क्रिया पत्युस्तदभावोपि सापशोः | द्वयात्मा तद्र्जोदुःखं म्लेषिसत्वतमोमयमित्यादिना || ४ || इदानीं प्रभुजीवयोरन्योन्यं भेद इति दर्शयन्नाह च || ओं भेदस्थितेः शक्ति मतः शक्तित्वंना पदिश्यते || एषां गुणानां करणकार्यत्वपरिणामिंआम् || ५ || सङ्कुचितप्रकाशमात्रस्वभवोयं पुरुषो नास्य चनैसर्गिकप्रमेय पद्धतिः || सृष्टिस्थिति संहारादौ तस्या यत्स्वतन्त्र्यं हि स्यात् || ततस्तदभावात्तद्गुणा इति कथ्यते || सङ्गशन्गविभागत्वात् || तस्माद्भेद स्थितेः शक्तिमतः | प्रमेयादीनां शक्तिमत्वं नामदिश्यते || गुणगुणिनोरिवसंयोगात् || नतु समवायात् || समवायस्तुप्रभुनेति निश्चितं इत्यनेन संयोग एवद्वयोर्मल्लयोर्यथा || तयोश्च संयोगोविभागश्चेति || प्रभुना चाविभाग्या दुद्भुतानुद्भूतत्वं तत्र निश्चितमेव तस्य च विश्वस्य तन्मयत्वात् || जीवादौ चातन्मयत्वादिति व्यवहृतमेव कथ्यते || निश्चितमित्यर्थः || तस्मात्पशोर्येषां गुणानां कारणेन | कार्येण च परिणामिनामिनां प्. ६९ब्) शक्तित्वं चना पदिश्यते || एते गुणा अस्यपशोः शक्तय इति || अपि तु प्रभुनास्वेच्छयोत्पदिता बहुस्यामित्यादि वृत्तातच्छक्तय एव || शक्तिश्च शक्तिमाश्चैव पदार्थ द्वयमुच्यते || शक्तयोस्य जगत्कृत्सशक्तिमांस्तु महेश्वर इत्यादिना || तदेतदेवनिश्चितं || परमार्थतस्तु तच्छक्तयोपि || परस्पर भेदानुपपत्तेः || तथा च स्पन्दे || यस्मात् सर्वमयोजीवः सर्वभावसर्वसमुद्भवात् | तत्संवेदन रूपेण तादात्त्यप्रतिपत्तितः || १ || तेन शब्दार्थ चिन्ता स्वन सावस्थानयः शिवः | भोक्तैव भोग्यभावेन सदासर्वत संस्थित इति वायस्यसंवित्तिः क्रीडात्वेनाखिलं जगत् || संपश्यन्सततं युक्तो जीवन्मुक्तोन संशय इत्यादिना || भेदोपपत्या तच्छक्तित्वमावश्यकमत्मीकृतं सदैव || परं तु प्रकाशविमर्शा प्रकाशा विमर्शात्मक धतत्वेन विद्याविद्याख्यभेदेन च प्रतिभासान्नाभेदः || सजीवोमलगुण्ठित इत्यादिविमर्शात् || मायाविम्बोवशीकृत्यतां स्यात्सर्वज्ञा ईश्वरः | अविद्यावशगम्वन्यस्तद्वैचित्र्यादनेकधा || १ || नद्यांकी जा इवावर्ता च वर्तान्तर मास्तेर्थे ब्रजन्तोजन्मनोजन्मलभन्ते नैव निर्वृत्तिम् || २ || तथा च | सत्कर्मपरिपाकान्ते करुणानिधिनोद्ध्यताः | प्राप्यतीरतरुच्छायां विश्राम्यन्ति यथा मुखमित्यादिना || ७०अ) तस्माच्छक्ति मतोभेद स्थितेः शक्तेः शक्ति मत्त्वं च ना पदिश्यते | एषां गुणानां | कारणकार्यत्व परिणामिणामिति सम्बन्धः || तत्स्थितमेतयोरेव परस्परभेद इति सिद्धम् || यश्च स्पन्दे यस्मात्सर्वमयोजीव इत्यादिना | तश्च मलशुद्धौ | अविद्यानिवृत्तौ | गुणत्रयक्षये | स्थूलशरीरा हभा?वविलये | निर्वासने च सूक्ष्मशरीरे | गलिते च तथा कारणे | वेदक | वेदन | वेद्यैक्यता पत्तौ प्रशान्तमानससंपङ्कर्दभेदोपपत्तिः तथा च || यथा उञ्जादिषीकैवमात्मायुक्त्या समुद्ध्यतः | शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायत इति जातदभावेहि कथमनयोरभेदोपपत्तिरिति सिद्धम् || इदानीं तदेव विभागयितुमाह || ओं सत्तानन्दः क्रिया पत्युस्तदभावोपि सापशोः | द्वयात्मातद्रजदुःखं श्लेषिसत्वतमोमयम् || ६ || एवं हि तस्यैस्वर्यस्वभावस्य याजगत्सर्जनरूपापारमार्थिकपरमास्वेच्छा | सर्वमेतदहं सृजामीति | बहुः स्यामित्यादिना स एव च तदैक्योदयः | परमार्थर्थ परसत्ता | सत्वमिति कथ्यते || तथा च सास्फुरत्ता महासत्तादेशकालाविशेषिणी | सैषामारतया प्रोक्ता हृदयं परमेष्टिन इत्यादिना || इत्थं विश्वसत्तायां सिद्धौ | स्वभावमवभासस्य विमर्शविदुरव्यथा | प्रकाशोर्थो परर्थोपि स्फटिकादिजडोपम इत्यादिना प्रकाशस्य विमर्शात्म कत्वाद्यश्च तत्र विमर्शश्च सङ्करैकरमतयासम्पादनविश्वस्य सा च क्रियेत्युच्यते || तत्र प्रकाशविमर्शजगतां यदैक्यविवरणं तन च स्वात्मन्यहमिति यः परमानन्दोदयस्म चानन्द इति कथ्यते || सर्वमहं ब्रह्मास्मि | ब्रह्माहमहं बीजप्रदोमत इत्यादिना विमर्शोदयः परमानन्द इति वृथ्यते || एतत्त्रयं च पत्युः स्वयं प्रभोः | परमेश्वरस्य * *? दिशक्तिगणयुतस्य सर्वतः सञ्चारिणः | स्वात्मनः स्वस्वभावस्य | प्रकाशविमर्शानन्दात्मकस्वैतत्स्वरूपमित्याहुः | आगमविदः || तदेतस्माद्व्यतिरिक्त च तदभावः | एदृक्तत्ताभावः | सापि च तमसा व्याप्ता सत्तापशोः | पशुस्वभाववैसत्तापि || तमसावृतत्वात् पुनश्चैतद्स्वयात्मातश्चाजः दुःखमेव || श्लिष्टे परस्परमिश्रेमलिन्तेसत्वतमसीयत्र || इत्येतत्पशुप्रमातृस्वरूपमित्याहुरागमवादिनः || ६ || इदानीं प्रमातृ तत्वमुपपाद्य | प्रमेयतत्त्वमपि तथा प्रतिपाद्यते || * *? ओं येप्यसामयिकेदन्ता परामर्शभुवः प्रभोः | तेपि भिन्ना विमिश्राश्च तथा चित्त्रावभासिनः || ८ || ओं तेतुभिन्नवभासार्थाः प्रकल्प्याः प्रत्यगात्मनः | तत्तद्विभिन्नसंज्ञाभिःस्मृद्युत्प्रक्षादिगोचरे || ३ || ओं तस्या ७१अ) माधारणी सृष्टिगंशसृष्टपजीविनी | सैषाप्यज्ञातया सत्यैवेशशक्त्यात रदात्मना || ९ || ओं स्वविश्रान्त्युपरोधाया चलया प्राणरूपया विकल्पक्रिययातत्तद्वर्णावैचित्र्यचित्रया|| १० || अत्रासामयिकत्वेन सर्वदात्वं धुनोति || तेसर्वदा प्रत्यक्षतया स्फुट इति भावः || परामर्शभुवः परामर्शस्थानानि आश्रयाणीत्यर्थः || ते चनीलादयः स्फुटतयाभिन्नाः विमिर्शाश्च ज्ञानमत्तेभेदाभावप्रतिपत्तेः || तथा चित्त्रावभासिनश्च | स्फुटत्या || तेपि च भिन्नस्वरूपेणावभासार्थाः स्वरूपाः | प्रत्यगात्मनः कूटम्कुस्यजीवस्यपशोर्थ अनारोपितं तत्त्वं कूटस्थ स्थत्वं || तत्तद्विभिन्नाभिर्घटपटादिनीलरक्तादि संज्ञाभिः | स्मरणानुभवोत्प्रेक्षादिमोचरेविषयेषु || तस्य च पशोः सृष्टिरीशसृष्टपजीविनी | ईश्वरकारणे नाहमितिभावतया चित्रावभासयत ज्ञेयत्वात् | तद्दलब्ध तु चिश्च मत्कारविशेषाश्च || तस्य च सृष्टिः प्रमाणप्रमेयादि व्यवहारतय प्रसिद्धा | साचेशशक्त्या | ऐक्यावबोधेनाज्ञातया सत्यैव | मायाविलापरितत्वात् || जगतोस्य प्रमाणप्रमेयादत्रीलानीलदेर्वा || तथा स्वविश्रान्त्युपरोधाया चलया | तथा प्राणरूपया | ७१ब्) स्वरूपविश्रान्ति लक्षण पादानै?श्वर्योपरोधप्रयोजनार्थ सचलया | स्वस्वरूपेसदा *?आनत्वात् मायाख्ये || तत्रैव चाचलया | प्राप्तः प्राणरूपया | पुनः विकल्प क्रियया तत्तद्वर्णवैचित्र्या च त्वया || तत्तन्निलपीतादि वर्णवैचित्र्यचित्रया | तदसाधारणी सृष्टिः पशोरेवनाश्यस्येति सम्बन्धः || तस्मात्तानाभासानीश्वरसृष्टानेवोपजीवयतीति सर्वापाशवीसृष्टिरीश्वर सृष्ट्युपजीविरीति कथितम् || १० || तथा चान्यथापि च || ओं साधारणोन्यथा चैषः सर्गः स्पृष्टावभासनात् | विकल्पहानेनैकाग्र्यत्क्रमेणेश्वरता पदम् || ११ || एषचैश्वरस्सर्गः साधारणः सर्वत्रनीलपीतादि प्रसिद्धेस्सादृश्यतया साधारणतया च || इत्येवं साधारणत्वं || असाधारणत्वं च | द्विचन्द्रादि कुत्रापि तद्दर्शनात् || दृष्टं चानूरमल्लेन शतचन्द्रं नभस्तलमित्यादिना च || तथा यथा गन्धर्वनगरं | यथा वारिमरुत्स्थूल इत्यादौ चान्यथा सृष्टिः || यतस्स्पष्टावभासनात् || || तत्रैतद्विकल्पहानेनैकाग्र्यत्वेन | सर्वमिदं विश्वममृतमयमेकमनेकारविषयं रूढं रशान्तं | चित्स्वभावं तत्स्वरूपं चेति विकल्पहानेनैकाग्र्यसम्पत्तेः प्राहुत्भावात्क्रमेणेश्व ईतापदं | ईश्वरत्वापादनं | माहेश्वरसंपद्विवृद्धिः || ७२अ) तद्वृद्धौ चेश्वरत्व सिद्धिः || अत्रविकल्पहानिरेव परमेश्वरसंपल्लाभे कारणं || यतः तत्संपत्तिश्च विघ्नसंपत्तिकारण | विघ्नाना मुदयेश्वसम्पत्तेः प्रश्याव इति विकप संपत्तिः तदभावेस्वसम्पत्ति प्रादुद्भावः || प्रोक्तो च || जातेदेहप्रत्ययद्वीपभङ्गे प्राप्तैकप्येनिर्गलेबोधसिन्धौ अव्यावत्यैवेन्द्रियग्राममन्तर्विश्वात्मात्वं नित्यमेकोवभासि || अत्र क्रमेणेत्यनेन || विकल्पहानेनैकाग्र्यत्वलाभः | तल्लाभेन क्रमलाभः || क्रमस्योल्लङ्घनेनिःशेषत्वे जातेपरम् पदेश्वरत्व लाभः || तथा च साङ्ख्यः || प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ || एकान्तिकमात्यन्तिकमुभयं कैवल्य माप्नोति तथा च परमेश्वरता लाभे हिसमस्तास्तन्निःष्यन्दमध्यस्सम्पदः प्रसर्पन्ति || रोहणलाभेरत्नसम्पद इवेतिशुभमस्तशम्भुनाथ पदारविन्दो पासकानां तन्मयी भूतचित्तानां | अतीतवर्तमानभविष्यदैकीभावना पदार्थानां परमपदा रूढ हृदयानां ||स्वात्माशस्थविश्वतदैक्यभावनापवित्त्रितहृदयानां | श्रीशम्भुनाथभासकरसमुत्बलहृदम्बुजानामित्यलं || ११ || ७२ब्) एवं सर्वत्र विकल्पेनिवृत्ते | दृष्टेसमत्वेस्वपरविभागयोः मोक्षाव * *? महेश्वरतन्मयता मासाद्यसाक्षान्महेश्वर एवेति प्रतोनति || ओं सर्वो समायं विभव इत्येवं परिजानतः विश्वात्मनोविकल्पानां प्रसरेपि महेशता || १२ || नह्येवमात्मा जीवोपि पशुरिवबद्धः कश्चिदन्योस्ति | अपि तु स्मयमान इवास्ते यस्तस्येयं कुसृतिःकुत इत्यादि निरूपित युक्त्यायमेवमहेश्वरोनामसर्वमिदमवलम्ब्य सर्वस्यान्तः समाविष्टः स्वात्मस्थगनशीलोसौ महेश्वर इति सिद्धः ||अ तथा च || यस्मात्सर्वमयोजीवः सर्वभावसमुद्भवात् | तत्संवेदनरूपेण तादात्स्य प्रतिपत्तितः || १ || तेनशब्दार्थचिन्तासुनसावस्थानजाः शिवः| भोक्तैव भोग्यभावेन सदासर्वत्र संस्थितः || इति वायस्य संवित्तिः क्रिडात्वेनाखिलं जगत् | संपश्यन्मततंयुक्तो जीवन्मुक्तोनसंशयः || ३ || तथा च || गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् | लब्द्धत्मलाभाः सततं स्युर्ज्ञस्यापनिपन्थिनः || ४ || अप्रबुद्धधियस्वेते तेस्वस्थितिस्थगनद्यता?? पातयन्ति दुरुत्तारेघोनेसंसारवत्मनि || ५ || अतः मृततमुद्युक्तः स्पन्दतत्वविविक्तये | जाग्रदेवनिजां भाव मचिरेणाधिगच्छति || ६ || ७३अ) इत्यनेन पथासर्वश्नायं ममैवविभव इत्येवं जानन् | विकल्पमध्ये प्रसरन्नपि कोभाभावान्महेशता | महेश्वरता दात्म्यन्महेश्वरोयमिति प्रवृत्तिरम्य || सर्वातीतपदस्थत्वादस्य || सर्वमिदमस्यविभवमिति श्रुतेः || अत एवचोक्तं || स्युर्ज्ञस्यामरिपन्थिनः इति|| तदेननाव्यस्याभावादन्योनकश्चिदस्ति नास्ति | न भूतः | न च भविष्यति || सर्वस्यास्येतत्स्वरूपप्रथनात् || नान्यापन्थाविद्यते यनाय | योदेवेभ्य आतपते | योदेवानां पुरोदितः | पूर्वोयोदेवेभ्यो जातो | इत्यादिना || हिरण्यगह्यः समवर्तताग्रे भूतस्यजातः पतिरेक आसीत् इत्यादिना च || अहमेवासमेवाग्रेनान्यद्यत्सदसत्परं पश्चादहं यदेतश्च योवशिष्येन्तसोस्म्यहम् || सर्वस्य चाहं हृदिसन्निविष्टो मत्तः स्मृतिज्ञानमपोहनं च | वेदैश्च सर्वैरहमेववेद्योवेदान्तकृद्वेदविदेवचाहमित्यादिना || अहमात्मागुडाकशसर्वभूताशयस्थितः | अहमादिश्च मध्यं च भूता नामन्त एव च || नाहमस्मिनचान्योस्ति ध्येयं चात्र न विद्यते || आनन्दपदसंलीनं सररसमरसीगतं || योविश्वचक्ष? रुतविश्वतो मुखोविश्वतोहस्त रुतविश्वतस्मात् | सत्वाहुन्यां नाग्रतेसंयजत्रैत्द्यवापृषिव्यो?जनयन्देव एकः || इत्यादिनास्य सर्वमिदं स्ववपुश्चतं | भासते च भाति चेतिस्तर्थं ७३ब्) एवमनेन प्रकारेणैतदप्येवमेव || इत्याह || ओं मेयं साधारणं मुक्तः स्वात्मभेदेन मन्यते | महेश्वरोयथा || बद्धः पुनरत्यन्त भेदवत् ||१३ || अयं चात्रभावः || यदेतत्साधारणं मेयं | सदाशिवेश्वरादिक्षित्यन्तं तदेव सर्वमिदं स्वात्मा भेदेनमन्यते तराम् || सर्वोयं भावराशिर्समैवविभव इत्युक्तत्वात् || मत्तो विनिर्गतं विश्वं मध्येव प्रविलीयत इत्यादिना || अहमेवाक्षयः कालोदाताहं विश्वतोमुखः | मृत्युः सर्वहरश्चाह मुद्भवश्च भविष्यतामित्यदिना || तत्र यथामहेश्वरस्तथैव स्वात्माभेदेनविश्वमेतन्मन्यते ||अ यत एवागतं विश्वं ततस्तत्रैवलीयत इति || अथैतद्विपर्ययेण बद्धो प्रबुद्धतया स्थितः पुनरत्यन्त भेदवत् || अत्यन्त भेदमयः पशुरिवप्रवृत्तोजगत्यस्थिन्निति सम्बन्धः || नद्यांकीजा इवावर्तादावर्तान्तरमाश्तते | ब्रजन्तो जन्मतो जन्म लभन्ते नैव निर्वृतिम् || इत्याद्युक्तदिशातेबद्धा इति कथ्यते || * *?न्ते मायापाशवशीकृतं माणावादिपाशैरिति बद्धः || ७४अ) अत एवात्यन्तभेदमयोपि | नीलंनीलमेव | पीतं पीतमेवं | घटः घट एव | पटः पट एव | अश्वोपि अश्व एव | इत्यादिनानाप्रवृत्तेरत्यन्तभेदवान् || तदप्रवृत्तो हि सर्वोयं भावराशिर्मदभिन्नतया स्फुट इति कथ्यते || अत्वन्मयमेतदशेषमिदानीं भाति ममत्वदनुग्रहशक्त्या त्वं च महेशसदैव ममात्मा स्वात्ममयं ममतेन समस्तां || १ || स्वात्मनिविश्वगते त्वयि नाथे तेन न संसृति भीति कथास्ति || इत्यादिना पुरुश्च सकथं केन प्रकारेण विभाति || इत्याह || १३ || ओं सर्वथात्वन्तरालीनानन्ततत्वौघनिर्भरः | शिवश्चिदानन्दघनः परमाक्षरविग्रहः || १४ || स साक्.आच्छिव इति | अहमिति स्वरूपतया प्रथमानुस्स्वात्मन्यन्तर्ल्लिनेजगति तन्मयो तन्मययश्च मयूराण्डरसवत् निर्भरितवपुर्विश्वात्मना धृतशरीरःसर्वव्यापी व्यापकादि करणरूपश्शश्वद्भासमानप्रकाशानन्दादि चिद्घनः साक्षाच्छिव इति कथ्यते || परमाक्षरेणाहमिति स्वरूपेण || तत्रापिहि | अकारादि हकारान्ताक्षरमात्रादि स्वात्मान्तर्णीनव्याप्त्याव्यापक स्वरूपत्वात् || ७४ब्) स्त?त्येतन्निष्कलं वपुः | ततस्ततोनन्त रूपत्या अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः | क ख ग घ ङ च छ ज झ ञ | ट ठ ड ढ ण | त थ द ध न | प फ ब भ म | य र ल व | श ष स ह | लं क्ष इत्यादि नाना वैचित्र्येण विरा *? पतया च भातं भासमानं भातिच परमार्थः ततश्च तास्ता विद्याः || यथा शिवादिक्षित्यन्त मण्डतया भातं भासमानं विभाति || तद्विसृष्टो च शक्तिः | सदाशिव ईश्वर || शुद्धं विद्यामाया | विद्या शिव काल कला राग नियतिः प्रकृतिः पुरुष मनः बुद्धिः अहङ्कार शब्दस्पर्शरूपरसगन्ध श्रोत्रं त्वक् चक्षुः | जिह्वा घ्राण वाक्पाणि पाद पायु उपस्थ आकाश वायुः तेजः आप् पृथ्वी चेत्यतो ब्रह्मादि पिपीलिकास्तं जगत् च च चरात्मकमिति भावः || इत्येवं परमाक्षरविग्रहवद्द्वैत प्रथासिद्धा || अथ च परमेणोत्कृष्टतमेनाक्षर रूपेणा विनश्यत् स्वभावेन विग्रहोविशेषण सृ?ष्टिस्थितिलयादि पंच कृत्यं || १४ || एवमेन प्रकारेणे स्वरत्वे सिद्धे प्रत्यभिज्ञाख्या पनादिनाहेतुना | इदानीमधिकरणसिद्धान्त दिशा सर्वमेतच्छास्त्रार्थं प्रबुद्धं प्रतिनियमयत्याचार्यः || यस्मिन्नर्थे सिद्धे || तदनुपायूत्यर्थान्तराण्यपि सिद्ध्यन्ति | सोधिकरण सिद्धान्त इत्यादिना || ओं एव मात्मानमेतस्य सम्यज्ज्ञानक्रियेतया | पश्यत्यथेप्सितानर्थान्जानाति चकरोति च || १५ || ७५अ) एवमित्यनेन महेश्वरो यथा | ज्ञानक्रियावात् | यज्ञानाति | वाकरोति | सृष्टिस्थिति | संक्यति पिधान | अनुग्रहादि रूपतया पंचकृत्यमयः शिव इति व्यपदिस्यते चतुः षष्टि तन्त्रमिमांसान्या यविस्तारादौ यथा | तथा यमपि सिद्ध इति सिद्धे | परमार्थ रूपे | तदनुया यूनि च ज्ञानक्रियादीनि सर्वाणि कार्याणिकारणानि च सर्वाणि सिद्धात्येवेति सिद्धन्तः || ईश्वरो हि बहिरुन्मिषति च वानिमिषति च | तद्वत् || यथेप्सितान् | सृष्ट्यादीन् || ज्ञानक्रियारूपद्वयेन हंसवदुन्दीयते | उपविशति | गच्छति च सर्वथा सर्वदा सर्वत्रेति निर्विवाददशापन्नस्य निर्विवादमाहेश्वर स्वरूपख्यातिः अनन्तत्वोघनिर्भरा | चिदानन्दपरिपूर्णा स्वभावा महाव्योमात्मकचिद्ज्योतिरत्यन्तनिर्जादिनी षष्टिं शतत्वनिर्भरैक वपूर्भासनरूपा चिदचित्परमार्थ स्वभावा | सदातना | शाश्वते निजालया अस्ति मितसोमसूर्याग्निनेत्रा | सर्वनेत्राधिकृता सर्वधर्मोन्तरा चि *? जाप्लुष्टा परमाक्षरविग्रहा च ति हृदयगोचरमिति निर्विवादोय मुपदेशमार्गः || १५ || ७५ब्) इत्येवं शास्त्रार्थः परमार्थ सारसङ्ग्रहः | न मयास्वकपोलकल्पित कृतः | स्वधियाकृत विमर्शनेन तत्तदर्थ्शीलकल्पितपरमार्थः | परं प्रत्युपकारार्थं प्रकटीकृतः || अपि तु यत्पूर्वगुरुभिर्यथा प्रतिपादितसारस्तथैव नियमिततत्वेन प्रतिपादितः|| इत्याहापरश्लोकतात्पर्यसङ्ग्रहेन परं प्रति || ओं इति प्रकटितो मया मुघट एषमार्गो नवै महागुरुभिरुच्यतेस्म शिवदृष्टिशास्त्रेयथा | तदत्रनिदधत्पदं भुवन कर्तृता माविशन्विभाव्यशिवतामयी मनिशमाविशन्सिन्च्य?ति || १६ || इत्येवं मया | उत्पलदेवाख्येन परमाचार्यवर्यपूजितपदारबिन्दयुगलेन | एषमार्गः शैवः त्रिकाभिधः | अनुत्तरमार्गानुसारिपरमार्थः नवनव एवक्षणात्क्षणं | सुघट एव यस्मात् | प्रत्यभिज्ञाशात्रसङ्ग्रहेगुरुमुखाल्लब्ध परमार्थे शिवतत्त्व लाभोवश्यं भावि | इति सुघट एव || अनशन कृच्छतप्तादि पंचाग्नि कर्मादि चान्त्रायणानुष्ठानादियक्याप्राणाभ्यास हेतुरुतया वाविना ७६अ) युक्ति मरामर्शात् | अत एवहेतोः सुघट इति | शास्त्रपठनसिद्धेः सिद्धत्वात् || एतश्च मया सुत एव न प्रोक्तं | विनाध्यानादि नैपुण्येन शास्त्र पठन सिद्धेः | सिद्धोयमुपदेशमार्ग इति || अपि तु महागुरुभिर्यथा [+श्रीसोमानन्दपादैः] शिवदृष्टादि शास्त्रेषु पूर्वं प्रोक्तस्त | अनेन न ज्ञानादेरुत्पलदेवस्यहानिक्लेशतोपि यत्पूर्वैः प्रोक्तं सिद्धिकृतं स्यात्तत्प्रप्रमाणमिति [+तदेव] || यथा स्वयं भगवता ज्ञानादि श्रीभगवद्गीते मनिषदाप्रमाणी कृतं | तदेव सर्वत्र प्रमाणतरमित्याहुः | यद्यदाचरति श्रेष्टस्तत्तदेवेतरोजनः | सयत्प्रमाणं कुरुते लोकस्तदनुबर्तते || इत्यादि निरूपितशुक्त्या यत्पूर्वैरेव प्रतिपादितं तदेव प्रमाणमिति || अत एव महागुरुभिरुच्यते स्मशिव दृष्टि शास्त्रे यथेति युक्तमुक्तं || तस्मादत्र हेतोः निदधत्पदमत्र | अत्रैव कृता श्रयोयदिस्यात् | ऊहि भुवन कर्तृतामिवाविशन् महेश्वरवत् || स एव करोति | संहरतिय || ७६ब्) तत एव भुवनकर्तृतां शिवता मयीं विभाव्य || शिवस्वरूपां शिवस्वभावां विभाव्यनिश्चित्य | सद्यस्तत्क्षणमेवाविशन् शिवतन्मयी भावं विभाव्य सिद्धति | सिद्ध्येत् || कृतकृत्यो भवतिति युक्तार्थः || सम्बन्धार्थश्चायमेव || तथा च तन्त्रालोके || योगुरुः स शिवः प्रोक्तोयः शिवः सागुरुः स्मृतः | उभयोरन्तरं नास्ति गुरोरपि शिवस्य च || १ || तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः | सृष्टौ स्थितौ लये तुर्ये तेनैताद्वादशोदिताः || २ || नावान्पूर्णस्वभावोसौ परमः शिव उच्यते || तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः || ३ || तासामपि च भेदाशन्यूनाधिक्यादियोजनम् || तत्स्वतन्त्र्यबलादेव शास्त्रेषु परिभाषितम् || ४ || एकवीरो यामलोथ त्रिशक्तिश्चतुरात्मकः | पंच मुत्तिः षडाम्नाय सप्तकोष्ठविभूषितः || ५ || नवात्मादशदिग्छक्तिरेकादशकलात्मकः | त्वादशारमहाचक्र नायको भैरवस्त्विति || ६ || एवं यावत्सहस्रारे निरसंख्यानेपि वाप्रभुः | विश्व चक्रे महेशानो विश्वशक्तिर्विजृम्भते || ७ || शक्तिश्च शक्तिमांश्चैव पदार्थद्वय मुच्यते | शक्तयोस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः || ८ || तेषामपि च चक्षाणां स्ववर्गानुसमात्मना | ऐक्येन चक्रशो भेदस्तत्र तत्र निरूपितः || ९ || ए *? स्य संविन्नाथस्यह्यातरीप्रतिभाती *? | सौम्यं वान्यन्मितं संविदूर्मिचक्रमपासते || १० || अस्यस्यात्सृष्टिरित्ये पासं विद्देवी तथोदितात् | द्यानात्संजल्पसंस्मिश्राद्व्यपाराश्चापि बाह्यतः || ११ || तस्माद्विश्चेश्वरो बोधभैरवः समुपास्यते | आवच्छेदानवश्छिद्यां भोगमोक्षार्थिभ्र्जनैः || १२ || तेनाविच्छिन्नता सर्व रूपाहं ताप्रथात्मनः | स्वयं प्रथम्यनविधिः सृष्ट्यात्मस्य च पूर्वशः || १३ || पूर्वशः पूर्वभावि || १३ || सोयमात्परमावृत्त्य स्थितोजडपदंमतः | आवृता नावृतात्मा तु देवादिस्था वरान्तगः || १५ || तस्य स्वतन्त्रभावो हि किंकिं यन्नविचिन्तयेत् | तदुक्तं त्रिशरः शास्त्रे सबुद्ध इतिवेत्तियः || १५ || तत्राद्ये स्वपरामश्शेनिर्विकल्पैधामनि | यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितं || १६ || यथा विस्फारित दृशामनुसन्धिं विनाप्यलं | भतिभावः स्फुटस्तद्वत्केषामपि शिवात्मना || १७ || भूयो भूयो विकल्पं शरिश्चयक्रमचर्वनात् | यत्परामर्शमभ्येति ज्ञात्रोपाय तु तद्विद्धः || १८ || यत्तत्तत्कल्पना कू?प्तबहिर्भूतार्थसाधानं | क्रियोपायं तदाम्नातं भेदोनात्रापवर्गतः || १९ || ७७ब्) इत्येवं महागुरुभिस्तंत्रालोके वान्यत्र वितत्यवितत्यप्रोक्तपूर्वं | तदत्रपि पूर्वप्रोक्तमेवात्रापि निग्रदितं | तदस्मिन्निदधत्पदं | भुवनकर्तृतामाविशन् | ततश्च शिवावार्थां विभाव्य || ततोनन्तरमनिशसाविशन् | ततश्च सिद्ध्यति || कृतकृत्योभवतीत्यर्थः || १९ || ननुयदेतत्पूर्वं प्रतिपादितं शास्त्रादावेव | कर्तरि ज्ञातरि स्वात्मन्यादि सिद्धेमहेश्वरे | अजडात्मानिषेधं सिद्धिं वा विदधीतकः || १ || किन्तु मोहवशादस्मिन्दृष्ट वाप्यनुपलिक्षिते | शक्याविष्करणे नेयं प्रत्यभिज्ञो पदश्शृत इति अनेनैतदेवोपलक्षते || कोनिषेधं | वासिद्धिं कर्तुं शक्तयात् || तदत्रास्मिन्सृष्टेप्यनुपलक्षित एव | तस्मात्तस्य ज्ञानक्रियाशक्ति द्वयाविष्करणेन तद्रत्यभिज्ञोपद्सर्ग्य?त इति सम्बन्धः || इति किमेतदुक्तं तदत्रनिदधत्पदं भुवनकर्तृता माविशन्विभाव्यशिवतामयी मनिशमाविशन्मिध्यति || इत्यत्र किं सिध्यति | ज्ञानक्रियात्मकं शक्ति युगलमिति चेत् || इत्यतः किंप्रतारकतामात्रतया परमेश्वरसिद्धिः प्रत्यभिज्ञापठनादिनानुभवेनेति प्रोक्तं || इत्यत्राहाचार्यः || अत्रापरेप्रद्यवतिष्ठन्ते | ओं तैस्तैरप्युपयाचितैरुपनतस्तन्नाः स्थितोप्यन्ति केकान्तोलोकसमान एवसपरिज्ञ्नतोनरन्तु यथा | लोकस्यैष ७८अ) तथा नवीक्षित गुणरस्वात्मपि विश्वेश्वरोनैवालं निजवैभवायन्तदियं तत्प्रत्यभिज्ञोदिता || २० || यथा कांचित्कामिनी | अहस्मि शंगलितव्यापारासती || परंतु तत्कामुकध्यानतत्परमानमासन् | कथमहमनेनश्लिष्यामीति | कथमह मनेनवाचं संभाषे कथं वाह मनेनोपविश्यामीति विनश्यद्व्यापारान्तुरासती चैतदेवस्मरतीति || तदनन्तरमेव दूतीसंप्रषणादि व्यापारेण | वामदनलेखनद्वारावा | विरहक्षामी भवद्गत्रलतिकातिष्ठतीति || तदनुयथा तथासविधवत्तिनि प्रियतमेसमीपं याते च | जनसाधारणता पापादिते | पितृमातृभ्रातृसुतादि साधारणतया तन्निकटवर्तिनि तज्ञारावलोकनादि हृदयं न पूर्णता मभ्येति || तत्रापि रहः स्थानावेशाभावात् | यदाचदैव वशाद्रहः संयोगेप्राप्ते यथा तथालिङ्गनादि अम्बनादिस्ततमतृनादिसिद्धौ जातायां हृदयानन्दे जाते परमानन्दोदयोब्रह्मानन्द इतिथ्यते || तथा च | अतिक्रुद्धः प्रकृष्टो वा किंकलीति वा मृचनि || धावन्वा यत्पदं गच्छेत्तत्त्र स्पन्दः प्रतिष्ठितः || अत्राति प्रकृष्ठत्वं महदानन्द तत्वेन लक्ष्यत इत्यर्थः || एवं मोहापसरणेसिद्धे यथा परमानन्दोदयः | तथैवदेहाहंशुवेनष्टे परमेश्वरता वाप्तिः || तथा च || यथा मुञ्जादिषीकैवमात्मा ७८ब्) युक्त्या समुद्ध्यतः | शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायत इति || अथ च || जातेदेह प्रत्ययद्वीपभङ्गे प्राप्तैकब्रनिर्मबोधोधसिद्धौ | अव्यवर्त्यैवेन्द्रियग्रासमन्तर्विश्वात्मात्वं दित्यमेकवोभासि || इत्यनेन यावन्मोहस्तावदज्ञानबुद्धिः | मोहापसारेसिद्धे सर्वं सर्वदा सर्वत्र भवत्येव || नायिकानायकयोरिव || इत्येवं गुरुवचनाज्ज्ञानक्रियात्मकं शक्तित्वयं परीक्ष्यतदनन्तरमेव तद्द्वारापरमेश्वरोत्कर्ष हृदङ्गमीभावो जायते || तत्क्षणमेव पूर्णानन्द स्वरूपाजीवन्मुक्तिः समावेशाभ्यासरसेनपारमैस्वर्यविभूतिलाभेप्रत्यभिज्ञैव परसिद्धिदायिनी मतेति सिद्धम् || तथा च तन्त्रालोके || तत्राद्येस्वपरामर्शे निर्विकल्पैकधामनि || यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् | यथा विस्फारित दृशासनुसन्धिं विनाप्यलम् | भाति भावः स्फुटः तद्वस्केषामपि शिवात्मता || २ || भूयो भूयो विकल्पं शरिश्च वक्रम चर्चनात् | यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विद्वः || ३ || यत्तत्कल्पनाक्याप्तबहिर्भूतातासाधनं | क्रियोपायं तदाम्नातं भेदो नात्रापवर्गतः || ४ || यतोनान्या क्रियानाम ज्ञानमेवमितत्तथा | रूढेग्रगान्ततां? प्रातिमिति श्रीगमसासने ७९ब्) योगोनान्यः क्रियानान्यातत्वारूढा हि यामतिः | स्वचित्तवासनाशास्त्यैसाक्रियेत्यभिधीयते || ६ || स्वचित्तेवासनाकर्म मलसावाप्रसूतयः | तासां शान्तिनिमित्तं यामतिस्संवित्स्वभाविका || ७ || सादेहारम्भिभाह्यस्थतत्वब्राताविशायिनी | क्रियासैव च योगः स्यात्तत्वानां चिल्लयीकृता || ८ || लोकेपि किलगच्छामीत्येव मन्तः स्फुरैव या | सादेहं देशमक्षांश्चाप्याविशतीगति क्रिया || ९ || तस्मात्क्रियापिवानामज्ञानमेव हि मानतः | ज्ञानमेव हि मोक्षाययुक्तं चैतदुदाहृतम् || १० || मोक्षो हि नामनैवान्यः स्वरूपप्रथनं हि सः | स्वरूपं चात्मनः संविन्नान्यत्तत्र तुयः पुनः || ११ || तस्मात् संवित्वमेवे तत् स्वातन्त्र्यं यत्तदप्यलम् || विविश्यमानंधह्वीषुपर्यवस्यति शक्तिषु || १२ || तस्माज्ज्ञानक्रियेमोक्षायेति निजायः || तदनन्तरं समावेशलाभोनेन ज्ञानक्रियात्मकद्वारेणेति शुभमस्तु शम्भुनाथ पादारधिन्दयुगलप्रसृतरसपवित्रं हृदयानां परमेश्वर *?क्तानामिति शुभमित्यलमतिविस्तरेण || ७९ब्) इदानीमेच्छास्त्रस्य म * *?लतामास्वाद्य एतत्कत्पता चाप्याश्रोतव्या जनैः || यद्बुद्धिरीदृशीरीद्यश्विधशास्त्रकरण प्रवृत्ता सत्तमहान्माहेश्वराव तार एवसिद्धोजयति परोपकारपर इति स च क इत्याह || ओं जनस्यायत्र सिद्ध्यर्थ मुदयाकरसूनुना | ईश्वरप्रत्यभिज्ञेय मुत्पलेनोपपादिता || २० || आदितः || १९३ || कश्चिदुदयाकरोनामशम्भुनाथ चरणारविन्द तत्परमानसपवित्रित हृदयो *? प्राप्तघूर्णपरमार्थ त्वेनाप्त प्रसादमात्रोत्पलदेवपुत्रमणि चेयमीश्वरप्रत्यभिज्ञाप्रतिपादिता | जनस्या यत्रसिद्ध्यर्थ स्गमतयास्वमातृसमीपमुपविश्यैव तत्प्रत्यभिज्ञा न यथा यत्न्नतयैयसनजनस्य समुदियादुदयं पानीति भावस्तदर्थमेव मुदयं यातीति भयः? || यत एव हि | उद्गतः परोमोक्षाख्योलाभो यस्मात् || तदुद्भूते श्वरप्रत्यभिज्ञाशास्त्रेण हि परमामृतलाभोष्टसिद्धियुतो महामाहेश्वरलाभ इति सिद्धोयं पूर्णः शास्त्र संग्रह मार्गो गुरुकृपयैवेति शुभम् || || आदितः || १९३ || समाप्तेयं प्रत्यभिज्ञाकौमुदी || || ८०अ) ओं वर्षेवेद उपोधने थनश्रा?भसिष?क्षे च कृष्णे शुक्ले तरेसप्तम्या खलुपूष्णिसौभगयुतेकर्ते च लग्ने स्थिरे | श्रीविद्यापदपद्ममेवनलसद्बुद्ध्यातितीक्ष्णाग्रया श्रीभट्टारकस्वन्?परेण रचिता पूर्णीकृताकौमुद्दि || १ || अत्रापरेषानिन्दन्तुह सर्वथास्तवर्तु वा | परस्परं स्पन्धयन्त्रदास्यन्त्मुखण्डनानि च || २ || अथवापि मनोमोहादाश्चर्येणादि संभुवा | तथापि न च मोहानिन्न च चिन्तस्य संमदः || ३ || पदार्थरचनां पूर्वगुरुभिः समुदीरितां | विलोक्यप्रत्यभिज्ञाया विभ्यन्ति बुद्धिवज्जनाः || ४ || तस्माद्विचारणान्हात्त पठनार्हा मनोहरा | यथाबुद्ध्यानुसारेण शास्त्राणि प्रविलोद्य च || ५ || प्रत्यभिज्ञाकौमुदीयां रचिता सुमनोरमा | भूयात्स्वत्मोपकारार्थं प्रसङ्गद परत्र च || ६ || क्रुयाद् विघ्नोघशान्त्यर्थं शम्भुनाथप्रसादतः || तत्प्रसादाद् रचित्तानां तत्समावेशमस्तुनः || शुभमस्तु प्रत्यभिज्ञापाठकानाम् || || इति श्रीमदुद्पलदेवरचितप्रत्यभिज्ञायी सूत्रावलि श्रीमद्भिरव आप्तरचितसूत्रविमर्शिन्यीः श्रीमद्भट्टारकसुन्दरीदासेनौ तु जातिजद्मिनासाक्षाच्छङ्करावतार श्रीमच्छ्रीविद्यापारिजात श्रीमच्छ्रीशङ्कराचार्यवर्य पुत्रमणिनाद्विशतसङ्ख्यायाः श्लोकावल्याः विरचिताकौमुदी प्रत्यभिज्ञाकौमुद्याख्यासमाप्ती कृतेति शिवसम्भुसम्भुनाथसाधकानां पराप्रामादमन्त्रोद्यत्समस्तपरमार्थतत्वानां पारमार्थ विदांचेति शुभम् || || प्रत्यभिज्ञाकौमिदीसमाप्ता श्रीमद्भट्टारकरचिता || || सं ७४ श्रावणे कृष्णपक्षे सप्तम्यां रेवत्यां सौभाग्यविष्कम्भे फट्त्र?योगे च | आच्चिके लग्ने च समाप्तिं गता प्रत्यभिज्ञा कौमुदी || || श्रीमच्छ्रीमद्गुरुदृष्टिपातलस * *? || || शुभम् || शुभम् || शुभम् || ओं ये पीष्ठ देवी सद्दृष्टिविलसत्तिक्ष्णबुद्धयः | जयन्तिते महात्मानस्सर्वशक्ति विकस्वराः || १ || शुभमस्तु सर्वत्र शिवशक्तिसामरस्यं || ########### END OF FILE #######