#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00019 Uniform title: īśvarapratyabhijñāvimarśinī Secondary title: bhāskarī Secondary title: īśvarapratyabhijñāvimarśinī by abhinavagupta including the bhāskarī commentary Author : abhinavagupta Commentator : bhāskara Editor : Pandey, K. C. Description: E-text taken from bhāskarī: a commentary on the īśvarapratyabhijñāvimarśinī of Abhinavagupta Edited by K. C. Pandey Princess of Wales Sarasvati Bhavana Text Series no. 70, Allahabad: 1938 Photographic facsimiles in DjVu and PDF taken from the KSTS series volumes 22 and 33 . Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: 28/01/2007 Publisher : Print and Stationery, United Provinces Publication year : 1938 Publication city : Allahabad Publication country : India #################################################### ओं नमः संविद्वपुषे शिवाय | अथ ईश्वरप्रत्यभिज्ञाविमर्शिनी | निराभासात्पूर्णादहमिति [निराशंसांत् - K.ष्.ष्.] पुरा भासयति यद् द्विशाखामाशास्ते तदनु च विभङ्क्तुं निजकलाम् | स्वरूपादुन्मेषप्रसरणनिमेषस्थितिजुषस् - तदद्वैतं वन्दे परमशिवशक्त्यात्म निखिलम् || १ || भास्करी | ओं | शिवादिक्षोण्यन्तं रसगुणमितं तत्त्वनिचयं पदे सप्तत्रिंशे मितिविषयतारोहकलिते | पदे त्वष्टात्रिंशे पुनरपि मितौ तावति पुनः प्रभुः क्रीडाशीलो जयति रचयन कोपि परमः || १ || चिदानन्देच्छावित्कृतिमयवपुर्भासनपरा [मपि - C.] पराभावे [भावी - C.] तद्वत्तदपरदशावेशसमये | ततो मायारूपा चतुरमपराभावलसने त्रिरूपाऽसौ देवी जयति शिवशक्तिर्भगवती || २ || स्वरूपे संलीनं कृतिविदिमयं [विधि - C.] सर्वविषयं निजैश्वर्यं स्वस्मिन्नहमिति विभुर्भासयति [विभो - C.] यः | ततोर्थौघं सृष्ट्वा न्विदमिति गृहीत्वा पुनरिमं वशीब्भावं तत्राभिनयति य एनं हृदि भजे || ३ || स्थितः स्वच्छे भावे परविशदवैधुर्यपदगे स्वयं साक्षात्कृत्वा [साक्षात्कृत्य - C.] यमलमवतारं तु कृपया | द्विधात्मोद्भूतिं यो [या - C.] मम [समरचितवान् - C.] रचितवान् भक्तिसुलभो गुरोस्त्राता चायं जयति जगदीशः परशिवः || ४ || प्रणौमि तं विघ्नहरं सुरेशं ज्ञप्तिञ्च देवं गुरुपादुकाञ्च | विद्यानिधीन् [विद्यानिधिम् - C.] कौलनरोत्तमादीन् गुरु/स्तथारब्धसमुद्यमोहम् || ५ || यः कण्ठधौम्यायनताप्रसिद्धविशुद्धराजानकवंशजातः | स भास्कराख्यो द्विज एष टीकां करोति शास्त्रेऽभिनवोदितेऽस्मिन् || ६ || शक्तौ स्थितायामथवास्थितायां मया विनोदार्थमयं प्रयत्नः | आरभ्यते भो विबुधाः क्षमध्वं मात्सर्यहासे [मात्सर्यहासौ - C.] न सतां प्रवृत्तिः || ७ || इह हि श्रूयते श्रीभगवत्तीव्रतरशक्तिपातहस्तामलकीकृतमहारहस्यो - पदेशश्रीसोमानन्दनाथेभ्योऽधिगतशास्त्रोपदेशस्तन्निभालने च प्राप्तपराकाष्ठः श्रीमानुत्पलदेवः स्वगुरुनिर्मितं शिवदृष्ट्याख्यं महारहस्यशास्त्रं व्याख्याय तत्प्रतिबिम्बकल्पं कारिकामयमीश्वरप्रत्यभिज्ञाख्यं महाशास्त्रं प्रणीय तत्तात्पर्यस्य दुर्बोधतामाशंक्य तन्मात्रपरा लघुप्रत्यभिज्ञाख्यां वृत्तिं च कृत्वा तत्रापि मन्दबुद्ध्यनुग्रहार्थं मध्यप्रत्यभिज्ञाख्यां विवृतिं कृतवान् | तत्र च सर्वजनहितार्थं श्रीमताभिनवगुप्ताचार्येण बृहत्प्रत्यभिज्ञाख्या बहुविस्तरा टीका कृता | तद्विचारणे च जनमशक्तं ज्ञात्वा तेनैव प्रत्यभिज्ञाकारिकासूत्रेषु संग्रहमयी विमर्शिनीति प्रसिद्धा टीका कृता | अद्य तु तत्रापि दुर्बोधत्वं दृष्ट्वा श्रीभगवता शिष्यबुद्धिमाविश्य प्रेरितः स्वतःसिद्धश्रीमद्राजानकवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्र् ओ भास्करकण्ठोऽहं दशसहस्रोत्तरलक्षसंख्याकश्रीमोक्षोपायटीकाकरणेन कृततदवगाहनस्कन्धसंवाहनः [स्कन्दसंवाहनः - C.] स्वपितुः परम्परागतमुपदेशं श्रुत्वा श्रीकौलनरोत्तमेभ्यश्च विद्योपदेशमासाद्य तद्व्याख्यायां प्रवृत्तः | न च पण्डितवरैरयोग्यतामारोप्य परिहासविषयीकार्यः | स्वविनोदार्थं स्वसुतादिबोधनार्थञ्च कृतैतत्स्पर्शनेऽपि तेषामनधिकारात् | अधिकारिणान्तु आदराविष्टत्वेन तत्कारित्वासंभवात् | कुर्वन्तु वा का तेन हानिरित्यलम् | अथ व्याख्या : - इष्टदेवताभूतपरतत्त्वनिभालने प्राप्तप्रतिष्ठानोप्यनुग्राह्यानुजिघृक्षा - विवशचित्तत्वेन तदनुस्मरणरूपं मंगलं ग्रन्थनिर्विघ्नपरिसमाप्तिहेतु - भूतं पराभावात्पश्यन्तीपदं ततोऽपि मध्यमापदं तस्माच्च वैखरीविषयतामापादयति निराभासात् इति | अहमनुग्राह्यजनकृपाविवशत्वेन देहप्रमात्रादिविषयपरिमिताहं - भावकृतस्थितिः, न तु शुद्धाहंरूपः | तत्त्वे ह्युपदेशकरणासंभवेन तत्प्रवृत्त्ययोगात् | अत एवाभिनवगुप्तेतिनामरूषितः | तत् - यच्छब्दाविष्टपूर्वार्धेनोक्तकायम् | परमशिवः - सुद्धप्रकाशरूपः | शक्तिः - दशादिक्कालाद्यैरकलितचिदालोकवपुषः सदा तादृक्स्वात्मानुभवितृतया [त्वादृक् - C.] विस्फुरति यः | निजो धर्मः शम्भोर्निरुपमचमत्कारसरसः परं शाक्तं तत्त्वं जगति जयति स्पन्द इति तत् || इति नयेन तस्याहमिति तादृक्स्वस्वरूपपरामर्शः | अन्यथा स्फटिकादिवत् अर्थोपरागे जडत्वापातात् | यद्वक्ष्यति :- प्रकाशोर्थोपरक्तोपि स्फटिकादिजडोपमः इति | यद्यपि स्वान्तःकृतशक्तिकस्यैव परमत्वं तथापि तन्निष्कृष्टस्य योग्यतया तज्ज्ञेयम् | ते एव, अर्थात् समरसीभूय, आत्मा - स्वरूपं यस्य तादृशम् | यद्यपि सदैव तयोरैक्यम् न तु केनापि निमित्तेन कदाचिदेव तथापि शिष्यबोधनार्थम् एकत्र तत्त्वे द्वित्त्वमारोप्यैवमुक्तम् | अथवा परमञ्च तत् शिवादितत्त्वषट्त्रिंशकादुत्तमञ्च तत् शिवशक्त्यात्म चेति विग्रहः अद्वैतम् - द्वयोर्भावो द्विता तत्र भवं द्वैतम्, न द्वैतम् - ऐक्यम्, तत्त्वषट्त्रिंशकभित्तिभूतम्, सप्तत्रिंशपरशिवतत्त्वरूपम्, जगदानन्दकृतसमरसीभावमिति यत् तद् वन्दे - वदि अभिवादनस्तुत्त्योः इत्यर्थानुसारेणाष्टाङ्गप्रणतिविषयतां सर्वोत्कर्षपरामर्शविषयताञ्च नयामि | अभिवादनं हि लोके नमस्कार एव रूढम्, अभिवादयामीत्युच्चारपूर्वं तत्करणात् | स्तुतिश्चोत्कर्षकथनम् | तदेव चान्तरताप्राप्तौ परामर्शः | तत्रः प्रह्वीभावो नमस्कार्राथः सर्वोत्कर्षपरामर्शश्च तस्य योग्यतादायकः | यत्र तत्र प्रणतस्य हि पशुत्वं स्वयं ग्रन्थकृद्वक्ष्यति | निखिलम् इत्यनेन विशेषणेन भाविनः समस्तस्य जडाजडस्यार्थ जातस्यैतन्मयत्वं कथितम् | अन्यथा पूर्वार्धोक्तपूर्णत्वासंभवात् | तच्छब्दाकांक्षां पूरयति निराभासात् इत्यादिना | यत् - पूर्वोक्तविशेषणं यदद्वैतम् | निराभासात् - शिवशक्त्यादिरूपेभ्यः आभासेभ्यो निष्क्रान्तात्, एकत्वेन शिवशक्त्यादिविकल्परहितादिति यावत् | तच्च षट्त्रिंशे शिवतत्त्वेप्यस्तीत्यत उक्तं पूर्णात् इति | तथापि सर्वभावेन स्फुरणान्यथानुपपत्त्या सर्वाभासनिरासश्च शिवतत्त्वे न संभवति तस्य पूर्णतोन्मुखशुद्धप्रकाशरूपत्वं चेत् तर्हि निराभासत्वमेवायुक्तम् | स्यादेतद् यदि ते तरंगनिर्गतेरपि निश्चलस्य जलधेः केवलत्वं नश्यति | तदुक्तम् : अशून्यमिव यच्छून्यं यस्मिञ् च्छून्ये जगत्स्थितम् | सर्गौघे सति यच्छुन्यं तद्रूपं परमात्मनः || ऽऽ इति | पूर्णत्वञ्चात्रान्तःकृतबाह्यपूर्णत्वाऽपूर्णत्वेन किमप्यान्तरं न तु लौकिकम्, तस्य प्रतियोगिसंभवेन पूर्णत्वाभासत्त्वात् | पूर्णत्वमेव संभवविषयीकर्तुं विशेषणमाह उन्मेष इति | उन्मेषेण - स्वान्तर्गतशक्तिभागस्य शिवभागात् पृथग्भासनेन, प्रसरणम् - शिवादिक्षित्यन्ततत्त्वभावेन संचारः, तथा निमेषेण - स्वान्तर्गते शिवभागे पुनः शक्तिभागस्यावस्थापनेन, स्थितिः - स्वस्मिन्नैक्यभावेनावस्थानम्, ते जुषत इति तादृशात् | यदुक्तं स्पन्दशास्त्रे :- यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ तं शक्तिचक्रविभवप्रभवं शंकरं स्तुमः || इति | चित्रपूर्ण एव च पटः चित्राणि दर्शयितुं शक्तो नान्यः | एवंविधात् स्वरूपात् - स्वस्मात् - अन्याननुयायिनः, अन्यत्रासंबन्धिन इति यावत्, रूपात् - उपादानभूतात् तत् कुलं विद्धि सर्वज्ञ शिवशक्तिविवर्जितम् | इति नीत्या अनुत्तरकुलरूपाद् वपुषः | पुरा - अग्रे, यद्यप्यत्र कालस्य स्पर्शो नास्ति तथापि कालविवशाञ्छिष्यान्प्रत्येवमुक्तम् | अहमिति - स्वान्तर्गतम् अहंविमर्शयुक्तं शक्तिभागम् | भासयति - स्वयं भासनशीलाकुलाख्यप्रकाशरूपशिवाव्यभिचारेण स्वयं भासमानं सत् समर्थाचरणेन तत्र प्रेरयति, केवलायाः शक्तेस्तदयोगात् | न हि चक्षुर्ग्राह्याग्निस्वरूपं विना तच्छक्तिर्दाहे समर्था दृष्टा | एतच्च णिचः प्रयोगेण सूचितम् | आश्चर्यञ्च निराभासस्य भासनहेतुत्वम् | भासनञ्चात्र प्रकाशाख्यस्य शिवस्य स्वरूपपरामर्शः, तन्मात्रस्य शक्तित्वात् | अन्यथाऽऽद्यस्पन्द इति शब्दविषयत्वायोगात् | स्पन्दो हि किञ्चिच्चलनमेव, तच्च अहम इति स्वरूपपरामर्श एव शिवस्य | तदुक्तम् :- किञ्चिच्चलनमेतावद् यत्स्वरूपविमर्शनम् | इति | एतेन शिवशक्त्याख्यस्य तत्त्वद्वयस्य प्रादुर्भाव उक्तः आभासयितृत्वावच्छिन्नस्य परमशिवस्यैव शिवत्वापातात् | शक्तेस्तु स स्फुट एव | पुनः किं करोतीत्यपेक्षायां द्वितीयं वाक्यमाह द्विशाकाम् इति | पुनः यदद्वैतं तदनन्तरं द्विशाखाम् - शिवशक्त्योर्यथायथं स्वभावेन स्फुरणात् तद्रूपशाखाद्वययुताम्, निजकलाम् - उदभूतोद्भविष्यमाणेन तत्त्वषट्त्रिंशकेनाचक्रं समानं प्रोद्भूतशिवशक्तिविभागं स्वकीयं भागम् | विभङ्क्तुम् - सादाख्यादिक्षोण्यन्ततत्त्वचतुस्त्रिंशकभावेन विभागविषयीकर्तुम् | आशास्ते - इच्छाशक्तिविषयतां नयति | उभयत्र वर्तमानप्रयोगः सातत्यद्योतनार्थः | अत्रैवेच्छाशक्तेरुद्भूतिः, अतः [यतः - C.] पूर्वं शिवशक्तिगतस्य चिदानन्दाख्यस्य शक्तिद्वयस्यैव संभवात् | ज्ञानक्रियाशकत्योस्तु तत्त्वचतुस्त्रिंशकान्तर्गतत्वेनाशंसाविषयत्वात् | अत्र च निराभासादित्यस्य स्थाने निराशंसादिति तु प्रशस्तः पाठः | श्रीतन्त्रालोकटीकायां श्रीजयद्रथेन परिगृहीतत्वात् | तत्र च निराशंसात् - पूर्णत्वेनाकांक्षारहितादिति योजनीयम् | यद्यपि तत्र श्रीजयद्रथस्य द्विशाखत्वमहमिदंपरामर्शद्वयमेवेष्टम्, तथापि तदस्मन्मनो नावर्जयति | द्विशाखामिति हि समस्तपदेनानुवादेन निर्देशः | न च साध्यमानस्य सयुक्तः | शिवशक्तिरूपस्य शाखाद्वयस्य तु पूर्ववाक्ये साधनं कृतमेवेत्यत्तरवाक्येऽनुवादे न दोषः | ननु निजकलां द्विशाखां विभङ्क्तुम् इति विधिनिर्देश एवात्रास्तीति चेत्, असदेतत् | निजकला ह्यत्राहंरूपैव तस्याश्च को द्विशाखो विभागः | अहंभावेन स्वयं स्थितत्वात् | न च तस्यैव तच्छाखत्वं युक्तम् | किञ्चास्मिन्समये शिवशक्त्यैक्यकलाशाखारूपयोः शिवशक्त्योरेव भासयितृत्वाहंपरामर्शरूपयोः परामर्शो योक्तो नाहमिदंपरामर्शयोः, अत्रेदं परामर्शविहीनस्याहंपरामर्शमात्रस्यैव शक्तित्वांगीकृतस्य प्रस्तावात्, इदंपरामर्शस्य भाविन्यां सदाशिवभूमावुत्थानात् | नन्वहंपरामर्शरूपायाः शक्तेः शाखात्वमस्तु पूर्णशिवस्य तु तत्कथं युक्तमिति चेन्न, श्रीत्रैयम्बकसद्वंशमध्यमुक्तामयस्थितेः | श्रोसोमानन्दनाथस्य विज्ञानप्रतिबिम्बकम् || २ || शिवशक्त्यैक्यापेक्षया प्रत्येकं शिवशक्त्योरपूर्णत्वात् | अन्यथा शिवाभेदेन परतत्त्वकथनायोगात् | भवन्ति चैवंविधा न्र्देशाः | तदुक्तं श्रीबहुरूपगर्भस्तोत्रे :- कोटिद्वितयसंगिने इति | तत्र हि कोटिद्वितयशब्देन शिवशक्तिकथनमेव | तथा तत्रैव:- भोगपाणे नमस्तुभ्यं योगीशैः पूजितात्मने | द्वयनिर्दलनोद्योगसमुल्लासितमूर्तये || इति | तत्र च भोगशब्देन शिवकथनं शाखाया एव युक्तम् | ननु तर्हि श्रीजयद्रथेन कथं तत्रान्यथा व्याख्या कृता | शिवतत्त्वस्य शाखात्वकथनायोग्यतयेति ब्रूमः | ननु युष्माभिरपि कथं नेयं शंका कृता | सत्यम् | अस्माभिः साक्षाद् गुरुमुखादत्र युक्तयः श्रुता एवेति श्रीबहुरूपगर्भस्तोत्रावष्टम्भेन साहसे प्रवृत्तिः कृतेत्यलं महात्मभिः सह केलिचर्चाभिः | अत्र चाहमभिनवाख्यः पुत्रः | परमशिवः - नरसिंहगुप्ताख्यः पिता | शक्ति :- विमलाख्या माता | मातापित्रोः प्रत्यक्षं शिवशक्तिरूपत्वात् | ताभ्यामुपादानभूताभ्याम् आत्मा - स्वरूपप्रादुर्भावः यस्य तादृशम्, निखिलम् - सर्वाङ्गव्यापि | अद्वैतम् - अद्वैतरूपं संयोगम् | विशेषणविशिष्टाक्षेपे आदियागाधिरूढं तयोर्मिथुनमिति यावत् | ग्रन्थकारस्य मातापितरौ एतन्नामकावास्तामिति हि प्रसिद्धिः तन्त्रालोके च प्रथमश्लोके स्वयं तेनाप्युक्तत्वात् | वन्दे | तत्किम्? यत् निराभासात् - तस्मिन्समये वेद्यगलनेन समस्तविषयाभासरहितात् | अत एव पूर्णात् - तृप्तिं गतात् | अन्याकांक्षारहित एव हि तृप्त उच्यते | तथा उन्मेषण - बहिरवलोकनेन, प्रसरणम् - अनाख्येषु भावेषु संचारः, निमेषेण - विसर्गकाले स्वात्मन्यवस्थानेन, स्थितिः - आनन्दभरिते स्वस्वरूपे विश्रामः, ते जुषत इति तादृशात्, स्वरूपात् - अद्वैताख्यात् स्वस्माद्रूपात् | अहमिति - परिमितवाचकाऽहंपदविषयमभिनवेतिनामकं देहम् | पुरा भासयति - भासयति स्म | कुण्डगोलकाख्यद्रव्यनिष्यन्दक्रमेण प्रकटयति स्म | अनुत्तरानन्यसाक्षिपुमर्थोपायमभ्यधात् | ईश्वरप्रत्यभिज्ञाख्यं यः शास्त्रं यत्सुनिर्मलम् || ३ || तत्प्रशिष्यः करोम्येतां तत्सूत्रविवृतिं लघुम् | बुद्ध्वाभिनवगुप्तोऽहं श्रीमल्लक्ष्मणगुप्ततः || ४ || तदनु च द्विशाखाम् - वध्वा सह मेलनेन द्विशाखीभूताम्, निजकलाम् - सुतरूपं स्वांशम् | विभङ्क्तुम् - पुत्रपौत्रादिभावेन विभागयुक्तां, सम्पादयितुम, आशास्ते, वर्तमानसमीप्ये वर्तमानम् | मातापित्रोर्हि स्वसुतस्य सन्ततिरत्यन्तं प्रियैव भवति | मातापित्रोश्च शिवशक्तिभ्यां कथनेन स्वस्य योगिनीभूत्वमुक्तम् | आगमेषु हि स्त्रियः पुंसश्चादियागाधिरूढिसमये शक्तिभावाभिमानः शिवभावाभिमानश्च शिवशास्त्रोपदेशयोग्ययोगिनीभवसुतोत्पादनायावश्यकर्तव्यत्वेनोक्तः | तदुक्तम् :- तादृङ्मेलककलिकाकलिततनुर्यो भवेद् गर्भे | प्रोक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः || इति | अयं चार्थोऽतिरहस्यत्वेन वक्तुमयोग्योऽपि विमलकलाश्रयाभिनवसृष्टिमहाजननी भरिततनुश्च पंचमुखगुप्तरुचिर्जनक्ः | तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम स्फुरतात् || इति श्रीतन्त्रालोकाद्यश्लोके स्वयं ग्रन्थकृता स्थापितः, श्रीजयद्रथेन च स्फुटं व्याख्यात इत्यस्माभिरपीह सूचनामात्रेण प्रकटीकृतः, इति न वयमेव केवलं पर्यनुयोगार्हाः इति | एवं परतत्त्वविषयं प्रह्वीभावोत्कर्षपरामर्शाख्यं मंगलं सम्पाद्य श्रीमठिकागुरुसम्प्रदायसूचनपूर्वकं तिलकेन शास्त्रकरणं प्रतिजानीते श्रीत्रैयम्बक इत्यादिना | तस्य प्रशिष्यः - शिष्यशिष्यः, अहमभिनवगुप्तः लघुम् - शब्दतः लघ्वीम्, तस्य सूत्राणाम् - कारिकारूपाणां सूत्रवाक्यानाम्, एताम् - करिष्यमाणाम्, विवृतिम् - विवरणरूपां टीकाम्, करोमि | किं कृत्त्वा ? श्रीमांश्चासौ लक्ष्मणगुप्तः - एतन्नामक उत्पलदेवशिष्यः स्वगुरुः, ततो बुद्ध्वा - ज्ञात्वा, अधीत्येति यावत् | प्रशिष्यः कस्य, सूत्राणि कस्येत्यपेक्षायामाह श्रीत्रैयम्बक इत्यादि | यः - प्रसिद्धेर्य उत्पलदेवः | ईश्वरः - सर्वोत्कर्षयुक्तः परमेश्वरः, सः प्रत्यभिज्ञायतेऽनयेति ईश्वरप्रत्यभिज्ञा, सा आख्या यस्य तादृशम्, यत् शास्त्रम् - शासनकारिकारिकासन्दर्भम्, अभ्यधात् - स्वानुगकृपया पराभावात् प्रच्याव्य वैखरीभावमानीतवान् | शास्त्रं किम् ? श्रीमानणिमादियुक्तः यः त्र्यम्बकः - त्र्यम्बकाअख्योऽध्यर्धमठिकागुरुः तस्य सम्बन्धी त्रैयम्बकः तादृशो यः सन् - अभेदोपदेशयुक्तत्वेन प्रशस्तः, वंशः - शिष्यसन्तानः वेणुश्च | वंशो हि विद्ययोत्पत्त्या च वर्तते, तस्य मध्ये मुक्तामयी - अतिशुद्धत्वेन मौक्तिकस्वरूपा, स्थितिः अवस्थानं यस्य, युक्ता च वंशे मुक्तास्थितिः | सर्वा हि मठिका अर्धचतस्रो भवन्ति, तत्र द्वे अमर्दकस्य श्रीनाथस्य च, अध्यर्धं त्र्यम्बकस्य, तत्राप्येका पुत्रद्वारेण, अर्धा तु दुहितृद्वारेणेति, तस्य, श्रीसोमानन्दनाथस्य यत् विज्ञानम् - शिवदृष्ट्याख्यं ज्ञानशास्त्रम्, तस्य प्रतिबिंबकम् - तत्समानाभिप्रायत्वेन तत्प्रतिनिधित्वात् | पुनः किम् ? अविद्यमान उत्तरः - श्रेष्ठः यस्मात्तादृशश्चासौ नान्यः साक्षी - ग्राहको यस्य तादृशश्च यः पुमर्थः - मोक्षाख्यः पुरुषार्थः, तस्योपायम् - साधनम् | अनन्यसाक्षित्वं च मोक्षस्य परमशिवरूपत्वेन ज्ञेयम् | न हि तस्य कोऽपि साक्षी संभवति सर्वान्प्रति तस्यैव साक्षित्वात् | अन्यच्च सुनिर्मलम् - शुद्धाभेदवाचकत्वेन लक्षणया भेदाख्यमलरहितम् | विज्ञानम् इत्यनेन ज्ञानोपदेशमात्रस्य सम्प्रदायागतत्वं सूचितम् | अत एव यत्कैश्चित्पण्डितैर्यत्र तत्र व्याख्याकरणोद्यतेषु येन यत्कृतं तत एव तच्छिष्यादेर्वा तदधीत्य व्याख्या कर्तव्येति चोदनाअ क्रियते तन्निजं मौर्ख्यमेव प्रकटीक्रियते अन्यथा श्रीपरमेश्वरोक्तेष्वागमशास्त्रेषु ब्रह्मोक्तेषु वेदेषु च कृता व्याख्या युक्ता न स्युः | न हि तत्कर्तृसमीपे केनापि किञ्चिदधीतम् | केवलं व्याकरणशास्त्रादि सम्यगधीत्य तत्संभवत्येव | अन्यथा तु गुरुमुखात्कियदधीतं पुरुषः स्मृतिविषयतां नेतुं शक्नोति | यस्तु सदा गुरुमुखप्रेक्ष्येव तस्य नैपुण्ये सहृदया एव प्रमाणम् | रहस्योपदेशस्य संप्रदायापेक्षा वर्तत एव | स तु यस्य तस्य येन तेन मुखेन वर्तत एवान्यथा प्रवृत्त्यसंभवात् | तं विनाप्रवृत्तेष्वज्ञत्वकृताश्चोदना अपि मौर्ख्यावहा एव | मूर्खकृते हि मूर्खा एव हसन्ति, पण्डितानां तु तत्रोपेक्षामात्रस्यैव युक्तत्वात्, इत्यलं दैन्यावहेन वाक्प्रपंचेन | नन्वस्त्वत्र प्रत्यभिज्ञाशास्त्रे मठिका गुरुसंप्रदायपूर्वकत्वरूपवागीश्वरीमूलत्वं प्रंआणत्वादायि मठिकागुरुभक्तिभाजः प्रति, मठिकागुरुश्रद्धारहितास्तु वेदान्तिनोऽत्र श्रुतिरूपाणि प्रमाणानि प्रार्थयन्ति तेषां किं ब्रूमः ? सत्यम्, श्रद्धारहितैस्तैः सहेयं कथैव न कार्या | ननु मायापदान्निर्गत्य त्वदभीष्टशिवतत्त्वसमीपवर्तिब्रह्मतत्त्वरूपसदाशिवतत्त्वं तावत्कृतनिष्ठैस्तैः सह यदीयं चर्चा न क्रियते तर्हि मायाधोवर्तिबुद्धितत्त्वनिष्ठबौद्धादिभिरेव सह कार्या | ननु कथं ते सदाशिवतत्वं तावत्कृतनिष्ठाः ? शृण्वन्तु तत्र भवन्तः | ते हि सद्रूपं चिन्मात्ररूपञ्च शान्तं ब्रह्मतत्त्वमेव विश्रान्तिस्थानत्वेन कथयन्ति | तथा च श्रुति :- सच्चिदानन्दं ब्रह्म इति | तस्यैव सर्वव्यापकत्वं सर्वाधिष्ठानत्वं सर्वसाक्षित्वं केवलत्वं च ब्रुवन्ति | तथा च श्रुति :- एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा | सर्वाध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च || इति | तस्यैव च सर्वजगद्विवर्ताधिष्ठानत्वेन स्थितत्वात्सजातीयविजातीयस्वगतभेदरहितत्वं च कथयन्ति | तथा हि श्रुति :- एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन् इति | तदेव च सदाख्येति प्रसिद्धं सदाशिवतत्त्वं चतुस्त्रिंशम्, शिवशक्त्याख्यस्य तत्त्वद्वयस्य तदुपरिस्थितत्वात् | ईश्वरादिधरण्यन्तस्य तत्त्वत्रयस्त्रिंशत्कस्य तदधोवर्तमानत्वाच्च | तथा हि सन् - सद्रूपश्चासौ आशिवश्च - निर्विमर्शप्रकाशरूपत्वेनाहं - विमर्शसारप्रकाशरूपाच्छिवात् ईषदूनः शिवः शिवसमीपवर्ती चेति यावत् | तदेव च शान्तचिद्रूपत्वम्, शान्तत्वं हि विमर्शाख्यक्षोभरहितत्वमेव तेषामिष्टम् | विमर्शस्य हि ते विकल्पत्वाशंकया क्षोभत्वमेव शंकंते | न च तद्युक्तम्, विजातीयस्यागन्तुकस्य धर्मस्यैव तत्त्वात् | प्रकाशस्य हि स्वविषयोऽहमिति विमर्शः स्वभावभूत एव | तद्वक्ष्यति :- स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोपि स्फटिकादिजडोपमः || इति | यस्तु बाह्यविषयोहमिति विमर्शः स बाह्योपरागेण तावद्विजातीय आगन्तुकः क्षोभधर्मोपि वक्तुं शक्यः, परमार्थतः सोपि शैवनये प्रकाशस्वभाव एव | न च शक्तस्य किमपि क्षोभकमिति का कथा शक्तेस्तत्क्षोभकारित्वे, न हि दाहे शक्तोग्निस्तत्र क्षुब्धो दृश्यते इति तावदनधिकारित्वेन तेषां नोक्तमेव | यद्येवं तर्हि तेषां प्रष्टव्यं किं भवन्मते जीवब्रह्मणोरैक्यं वर्तते भीन्नत्वं वा, यदि भिन्नत्वमेव कथयन्ति तर्हि मौनमेव कार्यम् | यदि त्वैक्यं तर्हि श्रुतिप्रमाणं तत्र भवद्भिरपि प्रार्थनीयम् | ननु तेषामत्र प्रमाणम् पृष्टम्, तैस्तत्र अयमात्मा ब्रह्म सत्यं चिदात्मा तत्सत्यं चात्मा इत्यादिका बह्व्यः श्रुतयः प्रमाणत्वेनोक्ताः | तर्हि वक्तव्यं ताः एवास्माकमपि प्रत्यभिज्ञायां प्रमाणम् | प्रत्यभिज्ञा हि ऐक्यफलैव | जीवेश्वरयोरैक्यसाधने प्रवृत्तत्वात् | ननु प्रत्यभिज्ञा प्रमाणं भवतु, तत्रोक्तासु युक्तिषु श्रुतिप्रमाणम् वक्तव्यमिति चेन्न | यत्र लौकिकव्यवहारेणैव प्रत्यभिज्ञासाधनं तत्र का श्रुतिप्रमाणकल्पना | तद्वक्ष्यतिः - मार्गो नवः इति | फलभेदस्तु लेशतोऽपि न विद्यते एव येन विरोधापत्तिः स्यात् | ननु पातभासमानैकीकरणरूपा प्रत्यभिज्ञात्र न युक्ता | असदेतत् | आत्मा हि भातो भासमानश्च | तदीश्वरत्वं तु तदीयस्वातन्त्र्येण मध्ये विस्मृतं तद्विषयत्वेन प्रत्यभिज्ञायते स ईश्वरोहमेवेति | भासमानस्याप्यात्मनो विस्मृतिर्जायत एवान्यथा दशमस्त्वमसीतिन्यायेन तत्त्वमसीत्युपदेशायोगात् | ईश्वरत्वं च परमपरं चेति द्विविधम् | तत्र परमहमिति स्वमात्रविषयमपरं तु परिमितग्राहकविषयमहमिति ग्राह्यविषयं त्वयमिति च | तदुक्तम् :- परमेश्वरता जयत्यपूर्वा तव सर्वेश यदीशितव्यशून्या | अपराअपि तथैव ते यथेदं जगदाभाति यथा तथा न भाति || इति | यत्त्वणिमादिकमैश्वर्यजातं तदेतदंशरुपमेव | यदुक्तम् :- तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः | इति | यद्यपि जीवस्यापि स्वप्राधान्येनाप्यहंपरामर्शो विद्यत एव तथापि सः स ह्युक्तो द्वयापेक्षी विनिश्चयः इति वक्ष्यमाणनीत्या प्रतियोगीदन्ताअपरामर्शरूषितत्वेन नैश्वर्यरूपः | अपि त्वनीश्वरतारूप एव | ऐश्वर्यरूपोहंपरामर्शस्तु समस्तेदन्ताहन्तासारत्वेन प्रतियोगिरहित एव | यद्वक्ष्यति :- अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः इति | ननु जीवस्य विषयो विकल्परूपः प्रतियोग्यनुविद्धोहंपरामर्शः स्फुट एव, ब्रह्मणस्तु कथं सोस्तीति ज्ञायते | सत्यम् | प्रथमं तावद् भवद्भिरपि ब्रह्मणो जीवाकारत्वमेवोच्यते, अग्निकणन्यायेन ततो जीवप्रादुर्भावकथनात् | अन्यथा द्वैतापत्तेः | तथा :- अनेन जीवेनानुप्रविश्य नामरूपे व्याकरवाणि इति जीवभावोपि ब्रह्मण एव कथ्यते | तत्र च यदि ब्रह्मणः सा परामर्शशक्तिर्नास्ति जीवस्य कुत आगच्छेत् अग्निचयदाहकशक्तिपूर्वकं तत्कणदाहशक्तिदर्शनात् | ननु देहाद्युपाधिना सात्र स्फुरिता | न, इन्धनोपाधिना जलादपि धूम उत्तिष्ठेत् | परिमितभावस्तु यद्युपाधिकृत् उच्यते, उच्यताम् | किं च मायाशक्तिर्भवद्भिरप्यङ्गीक्रियते एव | सा किं जीवनिष्ठा ब्रह्मनिष्ठा वा | यदि जीवनिष्ठा तदा तत्पूर्वसिद्धस्य जीवव्रह्मविभागस्य तत्कृतत्वकथनमयुक्तम् | तदुक्तं :- आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला | पूर्वसिद्धतमसो न पश्चिमा नाश्रयो भवति नापि गोचरः || इति | अथ ब्रह्मनिष्ठा तदस्य शुद्धत्वमसम्भवोपहतमेव | तदुक्तम् :- अन्योन्यप्रतिघातनाशविधुरं विश्वं कथं भासताम् मायामात्रमिदं ततोऽतिनिपुणं वेदान्तिनः संश्रिताः | माया कस्य शिवस्य तर्हि शिवता नैवास्य इति | ननु माया परमार्थतः किमपि वस्तु न विद्यते एव येन भवदुक्तचोद्यावकाशः, अपि तु भासमानभेदान्यथानुपपत्त्या सा कल्प्यते एव | तर्हि किंरूपा सा कल्प्यते ? अज्ञानरूपा इति चेत् तदज्ञानं भावरूपमभावरूपं वेति विवेचनीयम् | यदि ज्ञानाभावरूपं तर्हि किं तेन | न हि घटाद्यभावस्य कुत्राप्यधिष्ठानत्वमुच्यते | मायायास्तु विक्षेपद्वारेण ब्रह्मविषयत्वे जगदधिष्ठानत्वमुच्यते | तथा च श्रुति :- इन्द्रो मायाभिः पुरुरूप ईयते | इति | न च शुद्धस्य ब्रह्मणो मलिनजगदधिष्ठानत्वं युक्तम् | युक्तत्वे वेष्टापत्तिः | इति न किंचिदेतत् | अथ भावरूपम्, किंरूपोऽसौ भाव इति वाच्यम् | अनिर्वाच्य एव स इति चेत् तर्हि त्वया कथमुक्तः | अनिर्वाच्यतयेति चेत्, तर्हि सोऽपि ब्रह्मैव | यतो वाचो निवर्तन्ते इति श्रूत्या ब्रह्मण एवानिर्वाच्यत्वकथनात् | ननु स ब्रह्मैव भवतु का हानिः | सत्यम् | एवं च ब्रह्मण एव भवन्मतेपि जगदधिष्ठानत्वमायातं विक्षेपद्वारेण जगदधिठानत्वभूताया मायाया ब्रह्मत्वांगीकारात् तथा च ब्रह्मणो जगदधिष्ठानत्वे शक्तत्वं वाच्यम् | सा च शक्तिस्तस्य किंरूपेति वाच्यम् | स्वस्वरूपभूतेति चेत् का शक्तित्वकल्पना | न हि स एव तच्छक्तिरित्युचितम् | चिद्रूपस्य च शक्तिः विमर्शरूपैवोचिता स्फुटं बुद्ध्यवच्छिन्ने तदंशे विमर्शकत्वदर्शनात् | किं च जीवाश्रयं ब्रह्मविषयं च मायाकृतमावरणमिष्यते भवद्भिः | तदुक्तम् :- जीवाश्रया ब्रह्मपदा ह्यविद्या तत्त्वविन्मता | इति | जीवस्य च ब्रह्मविषयमावरणं स्वावरणमेव फलतः तस्यैव तद्भावासादनात्, अन्यथा भेदापातात् | तत्र च ब्रह्मणो जीवत्वानाक्रान्ते भागे नावरणमेवेति बलादायातम् | स एव प्रकाशः | प्रकाशश्च विमर्शं विनाऽसत्कल्प एव | तदुक्तम् :- विकल्पातीतवृत्तित्वात्प्रत्यक्षोऽप्यसि विस्मृतः | यथा पुरःस्थितो भावश्चेतसोन्यत्रगामिनः || इति स एव चाहंपरामर्श इति | ननु तर्हि तर्केणैवाऽस्यात्र सिद्धिः ? भवतु का हानिः, तर्कोपि हि श्रुत्यनुकूलः प्रमाणमेव | तदुक्तम् :- तर्को योगाङ्गमुत्तमम् इति | अस्ति चात्र श्रुतिरपि :- स ऐक्षत इति | सर्वज्ञः इत्यादि | ईक्षणं ह्यत्र तावद् द्वितीयाभावात् स्वविषयमेवेष्टम्, स एव चाहंपरामर्शः | चिद्रूपो हि भगवान् शक्तत्वेन परामृष्टं स्वमेव जगद्भावेन प्रादुर्भावयति जलमिव स्वं तरंगभावेन | अस्य तु जडत्वेन परामर्शे शक्तत्वं नास्ति | जडो हि स्वपरविषयपरामर्शरहित एव | ननु स्वपरदर्शनमपि तस्य संभवत्येव | असदेतत् | परामर्शरहितं दर्शनं हि प्रतिसंक्रान्तिरूपमेव | तच्च जडे स्फटिकादावपि दृश्यत एव, यद्वक्ष्यति :- स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोपि स्फटिकादिजडोपमः || इति | सर्वविषयं ज्ञानं चात्र परिमितापरिमिताहंपरामर्शेदन्तापरामर्शमयमेव, स्वयमेव प्रकाशरूपज्ञानत्वेनास्य स्थितत्वात् इति | ननु स्वानुभव एव भवद्भिः सर्वत्राभिषिच्यते सोप्यत्र वक्तव्यः | सत्यम् | जीवस्तावत्स्वानुभवरूप एवेति का कथा तदनुभवस्य | तत्र च ब्रह्माप्यनुभवरूपमेव | अहं ब्रह्मास्मि इति अपरोक्षज्ञानेन तदेकत्वासादनात्, अन्यथास्ति ब्रह्मेति परोक्षज्ञानस्यैव स्थितत्वात्, तयोरनुभवानपेक्षित्वे च तद्विमर्शस्यापि तदनपेक्षैव | किञ्च ययोः प्रकाशविमर्शयोर्बलेन सर्वमनुभूयते का तयोरनुभवापेक्षा | न हि दीपदर्शनार्थं दीपान्तरापेक्षा युक्ता, तेनैव तत्प्रकाशनात् | ननु प्रकाशे इयमेव व्यवस्था, विमर्शव्यवस्था तु पृच्छ्यते | अहो प्रमादः | प्रकाशविमर्शयोस्तद्ग्रहणतदान्तरशब्दनरूपयोः किं भिन्नत्त्वं युक्तम् | एतच्चाग्रे युक्तिशतैः कथयिष्यति इति नात्र प्रयासो युक्तः | ननु तर्हि सदाशिवतत्त्वं त्यया कथं निर्विमर्शमंगीक्रियते | सत्यम् | तद्धि इदन्तामिश्रतदमिश्रयोरहंपरामर्शयोर्मध्ये सीमात्वेन कल्पितम् | तत एव तदेवमुक्तम् | तस्य हि शुद्धपरामर्शविषयत्वे शिवत्वापातः | इदन्तामिश्राहंविषयत्वे त्वीश्वरत्वाद्यापातः | मायाधोवर्तिनोः परिमिताहन्तेदन्तयोरिह वृत्त्या तात्पर्यं टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृब्धम् | तस्मात्सूत्रार्थं मन्दबुद्धिन्प्रतीत्थं सम्यग्व्याख्यास्ये प्रत्यभिज्ञाविविक्त्यै || ५ || कथैव नास्ति | तयोस्तदधोवर्तिग्राह्यग्राहकनिष्ठत्वात्, इह तु शुद्धविद्यादितत्त्वनिष्ठाऽहन्तेदन्ताप्रस्तावात् | परमार्थविचारे तु सदाशिवस्याप्यशुद्धतानिर्गततावदनासादितशुद्धभावाहंपरामर्श् अ युक्तत्वं विद्यत एव | तद्रहितत्वं तु त्वत्समाश्वासनार्थमेव तावदुक्तम् | ननु तथाप्यस्मदभीष्टमष्टात्रिंशं परमशिवरूपं तत्त्वं वेदान्तिनो न प्राप्ता एव, शिवतत्त्वस्यैव प्राप्तेः | सत्यम् | शिवतत्त्वमेवास्मांकमभीष्टमस्ति | परन्तु शक्तितत्त्वस्य भिन्नतया कथनेन तत्ततो भिन्नत्वमिव गतमिति तदैक्यरूपस्य सप्तत्रिंशस्य तत्त्वस्य कथनम् | तच्च वाच्यतां न सहते इति उपदेशकाले तस्याष्टात्रिंशत्वकथनम् | तस्याप्युपदेशविषयत्वे पुनरुक्ते सप्तत्रिंशे एव तत्त्वे विश्रान्तेर्नानवस्था | किञ्च सहृदयतां भजन्तो वेदान्तिनोऽन्यदपि किंचित्पृच्छ्यन्ते | ब्रह्मणोक्ते वेदेऽस्माभिः प्रमाणान्वेषणा न कृता | त्वया कथमीश्वरोक्ते आगमशास्त्रे सा कृता | तत्रापि श्रुतिप्रमाणमार्गणं मूढताकार्यमेव ननु | केनेश्वरस्तत्र कर्ता दृष्ट इति चेत्, वेदेऽपि केन स दृष्ट इति वाच्यम् | सनकादिभिः स दृष्ट इति चेत्, मठिकागुरुभिरप्ययं दृष्ट इति किं न सह्यते | नन्वेषां प्रामाण्यं नास्ति | तेषां कथं तदस्ति ? महाजनपरिग्रहादिति चेत्, अत्रापि श्रीदुर्वासादिभिः परिग्रहः कृत एव | ननु तत्र बहुभिः कृतः | सत्यम् | महारहस्येषु न सर्वेषामधिकार इत्यलं शान्तिकर्मारम्भे वेतालोत्त्थापनरूपेण विवादेन | किञ्च बालेनाप्युक्तमाद्युपायव्यतिरिक्तत्वात्, इति रहस्यसंक्षेपः | वस्तुनि कीदृशे ? देश कालाद्यभेदिनि, तथैकाभिधानविषये इति || १ || २ || ........ ननु च एकाभिधानविषये मितिः इति यत् उक्तम्, तत्र - एकमभिधानं बाह्ये स्वलक्षण एव प्रवर्तते यदि, तत्कथम् उक्तं प्रत्याभासं प्रमाणम्, आभासमिश्रीकरणाभासस्तु स्वलक्षणं इत्याशङ्कां शमयन् प्रमाणस्य यत् प्रमेयं तत् परमार्थतो निरूपयितुम् आह - यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते | आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते || ३ || यद्यपि घट इति बहिः परिदृष्ट एकोऽर्थः तथापि तावानेव असौ न, अपि तु पृथङ्निर्भज्यमानतामपि सहते, तथाहि - स्वतन्त्रं वा विवेचनम् अर्थित्वानुसारेण वा पूर्वप्रसिद्ध्युपजीवनेन वा, तत्र त्रिधापि अथ तृतीयस्य श्लोकस्यावतरणिकां करोति - ननु च इति | अत्र टीका - एकाभिधानविषये - एकनामविषये, तत्र - तस्मिन् उक्ते, बाह्ये - बहिःस्थिते, स्वलक्षणे - वस्तुनः सामान्याकारव्यतिरिक्ते असाधारणे स्वरूपे एव नतु सामान्याकारे | किमुक्तम् इत्यपेक्षायामाह प्रत्याभासम् इति | प्रत्याभासम् - प्रत्येकं सर्वेषु धर्मिधर्मरूपेष्वाभासेषु, इत्याशंकाम् - एवंरूपामाशंकाम्, परमार्थतः इत्यनेन पूर्वोक्तस्य प्रमेयनिर्णयस्य शैथिल्यं द्योतितम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे, यथारुचि इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति, यद्यपि इति | तावानेव - एक एव | तर्हि कियानसौ इत्यपेक्षायांपक्षान्तरमाह अपि तु इति | पृथङ्निर्भज्यमानताम् - पृथग्विभागविषयताम्, बहुरूपतामिति यावत् | कथम् इत्यपेक्षायां समर्थनमुपक्रमते तथाहि इति | समर्थनं कुर्वन् श्लोकं व्याचष्टे स्वतन्त्रं वा इति | यथारुचि इति व्याचष्टे स्वतन्त्रम् इति | यथार्थित्वम् इति व्याचष्टे अर्थित्व इति | यथाव्युत्त्पत्ति इति व्याचष्टे प्रसिद्ध्युपजीवनेन इति | पूर्वप्रसिद्ध्यपेक्षयेत्यर्थः | तत्र - तत्र सति, त्रिधा - विवेचने क्रियमाणे पृथगेव भान्ति आभासाः, नन्वेवं चेत् कथम् एकं स्वलक्षणं ? उच्यते - तेषां पृथक् भासमानानामपि आभासानां यो विमर्शः अनुप्राणितभूतः स कदाचित् प्रत्याभासमेव विश्राम्यति, तदा परापरसामान्यग्रहणम् [परापरसामान्यव्यवहारः - K. ष्. ष्.], कदाचित् पुनः गुणप्रधानतापादनेन अत्र इदम् इत्थम् इति मिश्रणाप्राणो [व्यामिश्रणाप्राणः - K. ष्. ष्.] विमर्शः तदा तदेकं स्वलक्षणम् | अपिः भिन्नकमः, अनुसन्धानेन मिश्रताविमर्शेन साधितो य एकोऽर्थः प्रोक्तप्रकारत्रयेण | तथा चोत्तरश्लोके प्रकारत्रयं दर्शयिष्यत्येव इति हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने स्थितमप्येतत्प्रकारत्रयं विस्तरभयान्न दर्शितम् | अत्र शिष्यः प्रश्नं करोति नन्वेवम् इति | उत्तरमाह उच्यते इति | प्रतिज्ञां सफलीकरोति तेषाम् इति | तेषाम् आभासानाम् - पूर्वोक्तानां देशादिरूपाणामाभासानाम्, न त्वन्येषां रुच्यादिमेदवशेन स्थितानाम् | विमर्शः - घटोऽयं घटोऽयमिति विमर्शनम्, अनुप्राणितभूतः - ग्राहकत्वेन सत्तादायकः, प्रत्याभासम् - सर्वेष्वाभासेषु, प्रत्येकं प्रधानतया यत्र तेषां योजनारहितं यथास्वं ग्रहणम् इत्यर्थः | तदा - तस्मिन्काले, परापरसामान्यग्रहणम् - सत्तारूपगोत्वादिरूपसामान्यद्वयग्रहणम्, सदितिग्रहणेन सत्ताग्रहणम् पृथक् पृथगेव, अत्रेदं सदिति योजनाराहित्यात्, तथापरसामान्ये देशकालग्रहणं पूर्ववदेव पृथक् पृथक्, गौरिति गोजातिग्रहणम्, शुक्लेति शुक्लत्वजातिग्रहणं चलेति चलनत्वग्रहणम्, डित्थेति डित्थत्वग्रहणम् पृथक्पृथगेवायमत्र गौः शुक्लश्चलो डित्थसंज्ञ इति योजनयाऽग्रहणात् | पुनः पक्षान्तरे, गुणप्रधानतापादनेन - विशेषणविशेष्यभावसंपादनेन, अत्र - अस्मिन्देशे काले च, इदम् - एतद्वस्तु, इत्थम् - एतैर्गुणैर्युक्तम्, मिश्रणाप्राणः - योजनाप्राणः, स्वलक्षणम् - असाधारणं स्वरूपम्, तदन्यस्य तद्देशादिविशेष्यत्वासंभवात् इति भावः | अपेर्भिन्नक्रमत्वं दर्शयन् अनुसन्धानसाधिते इति व्याचष्टे अनुसन्धानेन इति | अनुसन्धानेत्यवयवं व्याचष्टे मिश्रता - इति | सप्तमीयोजनं करोति तत्र इति | अति - स्वलक्षणात्मा तत्र एकस्मिन्नपि सति रुचि - स्वातन्त्र्यम्, अर्थित्वम् - अर्थक्रियाभिलाषपरवशताम्, व्युत्पत्तिं - वृद्धव्यवहारशरणतां च अनतिक्रम्य भिद्यत एव आभासः || ३ || क्व यथा इति निदर्शयितुम् आह - दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः | यथाभासा विभिद्यन्ते देशकालविभेदिनः || ४ || दुर्बोधत्वेन पुनर्योजनां करोति एकस्मिन्नपि [तत्रैकस्मिन्नपि - C.] इति | एवमत्र स्फुटा योजना | अनुसन्धानसाधिते एकस्मिन्नपि वस्तुनि सति देशादिधर्ममिश्रीकारेण स्वलक्षणे एकत्रापि सति, यथारुचि - रुच्यनुसारेण, तथा यथार्थिस्वार्थित्वानुसारेण, तथा यथाव्युत्पत्ति - प्रसिद्ध्यनुसारेण, अर्थात्तस्मिन्नेकत्र वस्तुनि आभासा भिद्यन्ते, अन्यथा हर्षचरिते एकस्य श्रीकण्ठाख्यजनपदस्य संगीतशालादिभावेन वर्णनायोगात् | तथा च प्रत्याभासं भिन्नस्य स्वलक्षणस्यापि एकाभिधानविषयत्वमवतरणिकायां शङ्कितं तद्द्वारेण प्रमाणस्य प्रत्याभासविषयत्वकथनायोग्यत्वं स्वलक्षणस्यैव प्रमाणविषयत्वापादनं च युक्तमिति भावः || ३ || अथ चतुर्थस्य पंचमस्य च श्लोकस्यावतरणिकां करोति - क्व यथा इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे दीर्घ इति | तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः | आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः || ५ || इह तावत् एकस्मिन्नपि चेतनतया प्रसिद्धे पुरुषस्वलक्षणे विततदेशव्यापितां दीर्घतामेव कदाचित् विमृशति, या तरुणामपि अस्ति, निःसंधिबन्धनरूपतां [निःसन्धिबन्धरूपताम् - K. ष्. ष्.] वा वृत्ततां या शिलानामपि संभविनी, ऊर्ध्वदिगाक्रमणरूपां वा ऊर्ध्वतां या स्थाणोरपि संबन्धिनी, गमनागमनादिस्वतन्त्रभावयोग्यतारूपं वा पुरुषत्वं यद् अन्यपुरुषसाधारणम् | तथा हि - स्वतन्त्रया वा इच्छयां रुचिरूपया यावदेवं कुर्यात् [रुचिरूपया एवं कुर्यात् - K. ष्. ष्.] यथोक्तम् या त व्याक्षेपसारत्वाच्चेतसः स्वरसोद्गता अत्र टीका - दीर्घ इति समासावयवं व्याचष्टे इह इति | पुरुषस्वलक्षणे - पुरुषस्यासाधारणे स्वरूपे | यद्यपि स्वलक्षणस्य चेतनत्वं न युक्तं तथापि लक्षणयैवमुक्तम् | विततदेशव्यापिताम् - विस्तीर्णदेशव्यापित्वरूपाम्, दीर्घो हि विततदेशव्यापको भवति, अन्यं युक्तं सदस्मदीयनये प्रमाणमेव, का कथा निःश्रेयसकर्तृकमहारहस्यशास्त्रप्रामाण्ये | तदुक्तं श्रीवसिष्ठेन :- युक्तियुक्तमुपादेयं वचनं वालकादपि | शेषं तृणमिव त्याज्यमप्युक्तं पद्मजन्मना || इति | फलिता चिराकांक्षिता वेदान्तिभिः सहृदयता | यस्तु एतेनापि तत्तां नागतः स्ववञ्चकाय तस्मै नम एव कार्यमित्यलं प्रपञ्चेन | सर्वत्राल्पमतौ यद्वा कुत्रापि सुमहाधियि | न वान्यत्रापि तु स्वात्मन्येषा स्यादुपकारिणी || ६ || नन्वेतेषु सूत्रेषु प्रथमं सूत्रकारेण वृत्तिः कृता, तदनु च तदुपरि स्वयमेव टिका कृता, तस्याष्टीकायाश्च त्वया टीका कृतेति किमयं पिष्टपेषणसहोदरः पुनः प्रयत्न आरब्ध इत्यपेक्षायामाह वृत्त्या इत्यादि | अत इति शेषः | यतो ग्रन्थकारेण - प्रत्यभिज्ञासूत्रकारेण श्रीमदुत्पलदेवेन, वृत्त्या - तात्पर्यमात्रे वर्तनं वृत्तिः, लक्षणया तन्निष्ठो ग्रन्थो वृत्तिः, तया, तात्पर्यम् - अत्राभिप्राये एतानि सूत्राणि प्रवृत्तानीत्ययमर्थः, दृब्धम् - ग्रन्थेन कथितम् | पुनस्तेनैव तद्विचारः - तात्पर्यविवेकः, टीक्यतेऽवगम्यतेऽनयार्थ इति टीका तया, दृब्धः, न तु सूत्राणां सम्यगर्थप्राकट्यं कृतमिति भावः | तस्मात् - ततः कारणात् | अहमभिनवगुप्ताख्यः सूत्राणाम् - सूचनामात्रपराणां कारिकाणाम्, अर्थम् - वाच्यार्थम्, इत्थम् - अनेन वक्ष्यमाणेन प्रकारेण, सम्यक् - स्फुटं कृत्वा, प्रत्यभिज्ञायाः - अत्र वाच्यभूतस्य स एवेश्वरोहमिति भातभासमानानुसन्धानस्य, विविक्त्यै - विवेचनार्थम्, मन्दबुद्धीन्प्रति - वृत्त्या टीकया तट्टीकया च सूत्रार्थबोधेऽसमर्थबुद्धीन् उद्दिश्य, व्याख्यास्ये - व्याख्याविषयतां नेष्यामि, व्याङ्पूर्वस्य ख्याञः ऌटि रूपम्, तथा च नास्य प्रयत्नस्य पिष्टपेषणप्रायत्वमित्यर्थः | अस्य विमर्शिन्याख्यस्य ग्रन्थस्य मूलशास्त्रेणैव शिष्यनिवहाविच्छिन्नप्रवृत्तिनिमित्तभूतं परमप्रयोजनाद्ययत्नसिद्धं ज्ञात्वा तथाप्येतद्व्याख्याप्रवृत्त्यर्थमेतस्यावान्तरप्रयोजनाधिकारि - निर्णयं साक्षात्करोति सर्वत्र इति | एषा - करिष्यमाणप्रत्यभिज्ञासूत्र - विमर्शिन्याख्या व्याख्या, सर्वत्राल्पमतौ - सर्वेषु मन्दबुद्धिषु, एतेन स्वस्य महाग्रन्थकरणे प्रवृत्तावभिमानो निरस्तः | बुद्धिस्थं दुर्बोधताकारणमनुस्मृत्याह सुमहाधियि इति | सुमहाधियोपि दुर्लभत्वं ज्ञात्वाह कुत्रापि इति | लाभेपि तस्य मात्सर्यग्रस्तत्वमाशंक्याह न वा इति | ननु तर्हि व्यर्थैवेयमित्यपेक्षायामाह अपि तु इति | अपि तु इत्यवधारितपक्षान्तरद्योतनपरम्, एषा स्वात्मनि - स्वस्मिन्नुत्प्त्त्या भक्त्यावेशेन च ग्रन्थकारः अपरोक्षमात्मदृष्टशक्तिकां [अपरोक्षात्मनि दृष्टशक्तिकाम् - K. ष्. ष्.] परमेश्वरतन्मयतां परत्र संचिक्रमयिषुः, स्वतादात्म्यसमर्पणपूउर्वम् अविघ्नेन तत्सम्पत्तिं मन्यमानः, परमेश्वरोत्कर्षप्रह्वतापरामर्शशेषतया परमेश्वरतादात्म्ययोग्यतापादनबुद्ध्या प्रयोजनम् आसूत्रयति :- स्वात्मतुल्येषु पुत्रादिषु शिष्येषु च, उपकारिणी - विनोदबोधाख्योपकारकारिणी, स्यात् | एवं चोपकारोऽवान्तरफलं तत्कामोऽवान्तराधिकारी, संबन्धाभिधेयौ परमावेव नावान्तरावपि टीकाग्रन्थत्वात् | यद्यपि पूर्वश्लोकेऽपि प्रत्यभिज्ञाविविक्त्यै इत्यनेनापीदमेव प्रयोजनमुक्तम्, तथापि सप्तम्यन्तैः कृतस्याधिकारिनिर्णयस्यानुरोधेनेहैव प्रकटीकृतम् | अथ श्रीपरतत्त्वविषयप्रह्वीभावसर्वोत्कर्षपरामर्शस्वरूपनिर्विघ्न - प्रारिप्सितपरिसमाप्तिहेतुमंगलाचरणनिष्ठश्रोतृबुद्धिसमाधान - प्रयोजाअनुबन्धचतुष्टयपरग्रन्थकरणप्रत्यभिज्ञास्वभावादिश्लोक - विवृतिं प्रति सांमुख्यं भजन् प्रथमं तदवतारणोपयोगिनीं त्वराविष्टशिष्यबुद्धिसमाश्वासनार्थं तद्वर्णनीयोद्भावनरूपामवतरणिकां करोति ग्रन्थकारः ग्रन्थकारः इत्यादिना | ग्रन्थकारः - ग्रन्थकर्तृभूत श्रीमानुत्पलदेवः, परमेश्वरस्य - परमशिवरूपस्य सप्तत्रिंशस्य तत्त्वस्य यः उत्कर्षः - महेश्वरपदवाच्या सर्वतत्त्वेभ्यः उत्तमता, तत्र या प्रह्वतादासपदवाच्यप्रह्वीभावः, तस्या यः परामर्शः - प्रख्योपाख्याक्रमेण परामर्शनम्, तस्य शेषतया - अंगभावेन, विशेषणत्वेनेति यावत् | प्रयोजनम् - समस्त इत्यादिपदवाच्यम् प्रत्यभिज्ञाशास्त्रप्रयोजकं वस्तु | आसूत्रयति - निबध्नाति, योजनावाक्ये स्फुटमस्य दास्यपदविशेषणत्वेन योजनात् | एतेन मंगलस्य शेषित्वमर्थादुक्तम् | प्रयोजनस्य शेषित्वे चतुर्थ्या निर्देशः स्यात् | इत्थंभावे तृतीया | कया हेतुभूतया ? परमेश्वरेण यत्तादात्म्यम् - स एवाहमिति चित्त स्फुरणम्, तत्र या योग्यता तस्याः यदापादनम् - जनविषये प्रापणं तस्य बुद्ध्या हेतुभूतया | एतां बुद्धिं कृत्वेति यावत् | प्रयोजनविषयकम् अनयैव हि पुरुषस्याधिकारित्वम् | कथंचिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि || १ || था दीर्घत्वायोगात्, कदाचित् - तद्रुचित्वादियुक्तत्वावस्थायाम् [तदुचिताद्यवस्थायाम् - C.] | ननु सा दीर्घतैव तस्य स्वरूपं भवत्वित्यत आह या इति | तथा च न तस्या एतत्स्वरूपत्वं युक्तमिति भावः | वृत्त इत्यवयवं व्याचष्टे निःसन्धि इति | निःसन्धिबन्धनरूपताम् - एकघनतारूपाम्, ऊर्ध्वताम् - उन्नतत्वम्, गमनागमनादिषु यः स्वतन्त्रभावः - स्वतन्त्रता तत्र या योग्यता सा रूपं यस्य तादृशम् | अत्र समर्थनमुपक्रमते तथा हि इति | स्वतन्त्रया इच्छया - प्रयोजनानुसन्धानविरहितेन इच्छा मात्रेण | रुचि इति | यावदेवं कुर्यात्, दीर्घोऽयमित्यादि व्यवहारं कुर्यात् इत्यर्थः | अत्र वृद्धवाक्यमुदाहरति यथोक्तम् इति | अत्रायमर्थः | सा रुचिर्भवति | सा का ? या चेतसः - मनसो व्याक्षेपसारत्वात् - व्याकुलतासारत्वात्, व्याकुलतावशेन, स्वरसोद्गता भवति - प्रयोजनमनपेक्ष्योद्गता इति | विततदेशव्यापिन एव वा अर्थान् [अर्थात् - K. ष्. ष्.] तिरोधिलक्षणाम् अर्थक्रियाम् अर्थयमानो विभजेत्, एवं व्यवहारे वृद्धैः कीदृक् दीर्घं नाम गीयते इति व्युत्पित्समानो व्युत्पादयितुमुच्छुः वा विभागं कुर्यात् | इत्येवंतत्र आभासानां भेदः | एकस्वलक्षणं तु - एकस्मिन् देशाभासे कालाभासे च विश्रान्तेः, देशकालाभासावेव हि सामान्यरूपताप्रयोजकव्यापित्वनित्यत्वखण्डनाविधानसविधवृ त्ती विशेषरूपतां बितरतः | एवं पुरुषत्ववत् अन्येऽपि ब्राह्मणाद्याभासा अपि निरूप्याः, एवम् अत्र तावत् प्रसिद्धतर आभासभेदो - जडाजडसाधारणबहुतरधर्मास्पदत्वात् भवतीति यावत् | कदाचिद्धि पुरुषो व्याकुलतावशेन प्रयोजनमनपेक्ष्य येन तेन शब्देन व्यवहरति, स व्यवहारश्चाभासपूर्वएव, अन्यथोच्चारासंभवात् | इति शब्दः समाप्तौ | विततदेशव्यापिनः - दीर्घान्, अर्थान् - वस्तुनः, तिरोधिलक्षणाम् [तिरोधिलक्षणा सन्तवानरूपाम् - C.] - अन्तर्धानरूपाम्, अर्थयमानः - कांक्षमाणः, एवम् - दीर्घोयमिति, इति व्युत्पित्समानः - एवं स्वयमेव स्वस्य व्युत्पत्तिं कर्तुमिच्छन् | इति किमिति ? वृद्धैः - कर्तृभिः, दीर्घ नाम - दीर्घाख्यं वस्तु, कीदृक् - कीदृशम् गीयते इति | वा पक्षान्तरे | अन्यं व्युत्पादयितुम् - व्युत्पत्तियुक्तं कर्तुम् इच्छुः सन्, विभागं कुर्यात् - दीर्घोऽयमिति विभजनं कुर्यात् | एतेन व्युत्पत्तिकरणसमये एव व्युत्पत्तेराभासकारणत्वमिति सूचितम् | उपसंहारं करोति इत्येवम् इति तत्र - एकस्मिन् पुरुषस्वलक्षणे | ननु तर्हि एकत्वं न युक्तमित्यपेक्षायां मध्ये देशकालविभेदिनः इति पदं व्याचष्टे एक - इति | विश्रान्तेः, इदमत्रस्थितमिति प्रतीतिविश्रामादित्यर्थः | कुत इत्यपेक्षायामाह देश इति | सामान्यरूपताप्रयोजके ये व्याप्यत्वनित्यत्वे तयोर्यत् खण्डनाविधानम् - परिमिततापादनद्वारेण नाशनं तस्य सविधा वृत्तिः - व्यापारः यस्य तौ | तत्र देशेन व्याप्यत्वखण्डना कालेन नित्यत्वखण्डनेति क्रमो ज्ञेयः | विशेषरूपताम् - स्वलक्षणताम्, पुरुषगतेष्वन्येषु धर्मेष्वपि अमुं न्यायमतिदिशति एवम् इति | प्रसिद्धतरः - अतिशयेन प्रसिद्धः | कुत इत्यपेक्षायां हेतुमाह जडा इति | जडाजडसाधारणः - चेतनेषु पुरुषादिषु तर्वादिषु [तरु......... C.] अचेतेनेषु च त्वात्, अनेन निदर्शनेन धूमेऽपि धूमत्वचान्दनत्व- श्रीखण्डचन्दनोत्थितत्वादयः [चन्दनत्व - K. ष्. ष्.] प्रसिद्धा आभासभेदा विभजनीयाः | प्रसिद्धेन दृष्टान्तेन अप्रसिद्धभागोऽपि यो घटः तत्रापि आभासभागभेदो भवति, तथाहि - किंचिदपि अत्र नास्ति इति हृद्भङ्गमिव आपद्यमानो घटं पश्यन् साधारणत्वेन स्थिताः ये बहुतरधर्माः - दीर्घत्वादिरूपाः अतिबहवो धर्मास्ते एवास्पदं यस्य स तस्य भावस्तत्वं तस्मात्, तद्विषयत्वादिति यावत् | धूम इत्यादिभागं व्याख्यातुमवतरणिकां करोति अनेन इति | अनेन निदर्शनेन दृष्टान्तेन धूमत्वं च चान्दनत्वम् चन्दनादुत्थितत्वं च श्रीखण्डश्वेतचन्दनोत्थितत्वादयश्चेति विभजनीयाः - रुच्यादिविषयत्वेन विभागविषयीकार्याः, तत्र कृष्णत्वार्थी घूमत्वम्, सौगन्ध्यार्थी चान्दनत्वम् इत्यादिप्रकारेण विभागः कार्यः | प्रसिद्धत्वं चात्र भेदस्य धूमत्वचान्दनत्वादेः भिन्नेन्द्रियग्राह्यत्वेन स्फुटं भिन्नत्वेन भानात्, एकवस्तुगतत्वेन भेदस्य स्फुटतरत्वाभावात्, तरपोऽत्र प्रयोगः प्रसिद्धतरप्रसिद्धदृष्टान्तद्वयावष्टंभेन || ४ || दार्ष्टान्तिकं कथयितुं द्वितीयं श्लोकं व्याचष्टें प्रसिद्ध इति | अप्रसिद्धश्चासौ भागः अप्रसिद्धभागः, अप्रसिद्धत्वं चात्र घटस्यैकत्वेनैव स्फुरणात्, तद्गताभासभेदस्य तु प्राकट्याभावात् [प्रकक्ष्याभावात् - C.] | तत्रापि - तस्मिन् घटेऽपि, आभासभागानाम् - सत्वघटत्वादिरूपाणाम् भेदः | आभासभागभेदमेव दर्शयति तथाहि इति, हृद्भङ्गम् - हृदयभंगम्, आपद्यमानः - प्राप्नुवन्, वस्त्वदर्शनेन अस्ति इदम् इति सत्त्वाभासमेव पश्यति, अपरान् आभासान् नाम्नापि तु नाद्रियते, तथा उदकाहरणार्थी घटाभासम्, स्वतन्त्रनयनानयनयोग्यवस्त्वर्थी द्रव्याभासम्, मूल्याद्यर्थी काञ्चनावभासम्, हृद्यतार्थी औज्ज्वल्याभासम्, आदिग्रहणात् दृढतरभावार्थी दार्ढ्याभासम् इति द्रष्टव्यम्, एवं रुचिव्युत्पत्त्योरपि योजनीयम् | एवम् एते आभासभेदा एव वस्तु आभासमानतासारत्वात् वस्तुतायाः | योऽपि आभासस्य प्राणभूतो विमर्शः सोऽपि प्रत्याभासमेव, शब्दस्य अभिजल्पात्मनो बोधजीवितप्रख्यस्य प्रत्याभासमेव विश्रान्तेः, हि पुरुषस्य हृदयं भज्यते एव, सत्वाभासम् - सत्वरूपमाभासम्, अपरान् - घटत्वादिरूपान्, नाद्रियते इति, तत्सत्तामात्रस्यैवात्रार्थित्व-विषयत्वात् | तथा - तद्वत्, द्रव्यस्य आनयनादियोग्यतामपेक्ष्य [द्रव्यस्यानयतनादि - C.] स्वतन्त्र इत्युक्तम् | आद्रियते इति सर्वत्र योजनीयम् | मूल्याद्यर्थी इति | आदिशब्देन नानाभूषणादिनिर्माणग्रहणम् | औज्ज्वल्य इति | उज्ज्वलो हृद्यो भवति | आदिशब्दग्राह्यं वस्तु कथयति दृढ इति | आदिशब्देन जलमात्रेण शुद्ध्यर्थी जलाहरणयोग्यताभासमित्यादेर्ग्रहणम् | रुचिव्युत्पत्योरर्थित्वयोजनामतिदिशति एवम् इति | एवम् - अर्थित्ववत् | तत्र व्युत्पत्तेः शिक्षाकालमात्रे स्थितत्वात्, रुचेः चित्तव्याक्षेपसारत्वात् | सर्वव्यवहारेष्वर्थित्वस्यैव प्राधान्यात् साक्षाद् योजना दर्शिता | तत्र प्रसिद्धतराऽप्रसिद्धस्थानद्वययोजनेन मध्ये स्थिते प्रसिद्धे स्थाने योजनमप्ययत्नमेवेति ज्ञेयम् | उपसंहारं करोति एवम् इति | कुत इत्यपेक्षायामाह आभास इति | न ह्याभासाविषयीकृतं वस्तु वस्तु भवतीति भावः | नन्वाभासस्यैव एषा वार्ता भवतु तत्समनन्तरभाविविकल्पस्य किं भेदोऽस्ति न वा इत्यपेक्षायां पदं ध्वनेः इति व्याचष्टे योऽपि इति | प्राणभूतः - जीवितभूतः, परामर्शं विना ह्याभासोऽसत्कल्प एवेति भावः | प्रत्याभासमेव इति, भिन्न एव भवतीति भावः | कुत इत्यपेक्षायामाह शब्दस्य इति | अभिजल्पनात्मनः - जल्पनरूपस्य, व्यक्तवाग्रूपस्येति यावत् | एतेन समुद्रघोषादेर्निरासः | विमर्शमूलस्य शब्दस्य प्रत्याभासभेदसाधने विमर्शस्यापि तदयत्नसिद्धमेवेति न कोऽपि विरोधः | सत् घटो लोहितः इत्यादि | अर्थक्रियाकारित्वमपि अन्वयव्यतिरेकाभ्यां प्रत्याभासमेव नियतं - सदाभासेन हृद्भङ्गपरिहारमात्रस्य संपादनात्, तत्र आभासान्तरस्य या अपेक्षा सा अग्न्याभासेन अर्थक्रियायां साध्यायां पात्राभासस्य इव तदाभासनान्तरीयकत्वेन आभासान्तरस्यापि नियतस्य [अनियतस्य - K. ष्. ष्.] अपेक्षणात् | एवं येन येन मुखेन अर्थो विचार्यते तेन तेन आभासमात्रात्मैव तथैव प्रतिभासनात् विमर्शनात् अर्थक्रिया - अथवा ध्वनेरिति ग्रहणादेवमुक्तम् | विश्रान्तिमेवाभिनीय दर्शयति सत् इति | आदिशब्देन द्रव्यमित्यादेर्ग्रहणम्, विश्रान्तिविशेषणत्वेन योजनीयम् | अर्थक्रियाकारित्वस्यापि प्रत्याभासं भिन्नत्वं कथयन् भिन्नार्थकारिणः इति व्याचष्टे अर्थ इति | तत्र यस्यान्वयेन यस्या अर्थक्रियाया अन्वयः यस्य व्यतिरेकेण तु व्यतिरेकः तस्य तत्कारित्वं नियमेनेति संक्षेपः | अत्र हेतुकथनं करोति सदाभास इति | मात्रचा घटाद्याभाससाध्यायाः उदकाहरणाद्यर्थक्रियाया निरासः | ननु तस्य सत्त्वं केनापि उदकाहरणादिप्रयोजनेन कांक्ष् इह परमेश्वरं प्रति या इयं कायवाङ्मनसां तदेकविषयतानियोजनालक्षणा प्रह्वता सा नमस्कारस्य अर्थः | सा च तथा कर्तुम् उचिता प्रामाणिकस्य भवति, यदि सर्वतो नमस्करणीयस्य उत्कर्षं पश्येत् | अन्यथा हेतावियं तृतीया | प्रह्वीभवस्य तु निर्विघ्नपरिसमाप्तिहेतुता स्वयमेव योजनीया | ग्रन्थकारः कीदृशः ? अपरोक्षम् - स्वसंवेदनसिद्धं यथा भवति तथा, आत्मनि दृष्टा शक्तिः - समस्तसंपत्समवाप्तिं प्रति सामर्थ्यं यस्याः | अन्यथा हि प्रतारकतामात्रं स्यात्, ताम् | परमेश्वरेण - परतत्त्वेन, या तन्मयता - एकीभावः, ताम् | परत्र - जनविषये, सञ्चिक्रमयिषुः - प्रत्यभिज्ञोपायेन संक्रामयितुं चित्ते स्फुरणशीलां कर्तुमिच्छन् | अन्यथा हि जनस्याप्युपकारमिच्छन् इति न ब्रूयादिति भावः | उपकारो हि दास्यरूपा तन्मयतैव | अन्यच्च कीदृशः ? स्वस्य यत्तादात्म्यम् - परमेश्वरेण तन्मयता, तस्य समर्पणम् - परमेश्वरस्य दास्यमासाद्य इत्येवमादिश्लोके साक्षात्कथनम्, तत्पूर्वं यत्तत् | अविघ्नेन - सुखेन, तत्संपत्तिम् - जने परमेश्वरतन्मयतासिद्धिम्, मन्यमानः, अत एव तत्कुर्वाण इति शेषः | प्रत्यभिज्ञाकरणप्रतिज्ञा त्वत्र साक्षाद्वाच्यैवेति तच्चर्चा व्यर्थैव | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | कथंचित् इति | अत्र टीका :- श्लोकं व्याक्यास्यन्नज्ञेषु नमस्काराकरणशंकामपनोदितु - माह इह इत्यादि | सः एकः - परमेश्वरः, विषयः - आलम्बनं यस्याः सा तस्या भावः तदेकविषयता, तस्यां नियोजना - प्रेरणा, सा लक्षणम् - स्वरूपं यस्याः सा तादृशी | प्रह्वता - प्रह्वीभावः | अर्थः - अभिधेयम् | तत्र प्रह्वतायाः कायेनाष्टांगप्रणतिरूपत्वम्, वाचा उच्चारणम्, मनसा परामर्शविषयत्वमिति विभागो ज्ञेयः | ऽसा चऽ इति | सा - प्रह्वता | ऽतथाऽ शब्दः तदाशब्दार्थे, प्रामाणिकस्य - प्रेक्षापूर्वकारिणः | सर्वतः - सर्वेभ्यः जडाजडेभ्यः | युक्तिम् अपरामृशतः अपरमार्थेऽपि [अपरमार्थरूपे - K. ष्. ष्.] नमस्कारोद्यतस्य सांसारिकजनमध्यपातित्वमेव [सांसारिकपशुजन - K. ष्. ष्.] | यथोक्तम् :- ऽन विन्दन्ति परं देवं विद्यारागेण रञ्जिताःऽ | इति | तावति हि मायीयाशुद्धविद्यारागकलासंचार्यमाणस्य पशुत्वमेव | इतरापेक्षया तु कतिपयाध्वोत्तीर्णतया समुत्कर्षोऽपि स्यात् | तदुक्तम् :- नमस्करणीयस्य - त्रिविधनमस्कारविषयीकर्तुमारब्धस्य, उत्कर्षम् - सर्वैर्गुणैः श्रेष्ठताम् | अन्यथा - उत्कर्षदर्शनाभावे, युक्तिम् - उत्कर्षे नमस्कारकरणरूपाम्, अपरामृशतः - अविचारयतः | अपरमार्थे - परमेश्वरव्यतिरिक्ते जलबुद्बुदप्राये देवताविशेषे, नमस्कारोद्यतस्य - नमस्कारे प्रवृत्तस्य, अत्र चाज्ञत्वेनष्टलाभलोभेन वेति शेषः | सांसारिको यो जनः - धनादिलोभेन राजादौ नमस्कारोद्यतः, तन्मध्यपातित्वम् - तन्मध्यगतत्वम्, तत्समानयोगक्षेमत्वम्, तत्सदृशत्वमिति यावत् | अत्रागमं संवादयति यथोक्तम् इति | उक्तमेवोपन्यस्यति वैष्णवाद्याः इति | अत्र पदेऽयमर्थः | तु शब्दः शैवादिभ्यो व्यतिरेकद्योतनपरः | ये केचिद्वैष्णवाद्याः - वैष्णवबौद्धप्रभृतयः भवन्ति | ते सर्वे विद्यया - किञ्चिज्ज्ञत्वरूपाशुद्धविद्यातत्त्वेन, रागेण - रागतत्त्वेन च, समाहारे द्वन्दः, रञ्जिताः - वैष्णवबौद्धाद्यधरदर्शनेषु आसक्तिं नीताः सन्तः | परम् - समस्ततत्त्वोत्तिर्णम्, देवम् - क्रिडाशीलम्, सर्वज्ञम् - सर्वविषयवर्णयुक्तम्, तथा ज्ञानेन - तेनैव सर्वविषयज्ञानेन, शालते इति तच्छीलम्, अर्थादात्मरुपपरमेश्वराख्यं देवम् | न विन्दन्ति - स्वेष्टदेवताभावेन न लभन्ते, अन्यथा देवाभासेषु भ्रमायोगात् | तथा च राजादिसेवनपरलौकिकजनवत् पशुत्वमेव तेषामिति भावः | आगमसंवादितेऽर्थे वाक्येन ऽकस्य नाम करणैरकृत्रिमैः पश्यतस्तव विभूतिमक्षताम् | विभ्रमादवरतोऽपि जायते त्वां व्युदस्य वरदस्तुतिस्पृहा [वरद स्तुतिस्पृहा - K. ष्. ष्.] ||ऽ इति श्रीमद्विद्याधिपतिना [श्रीमद्विद्यापतिना - K. ष्. ष्.] | एतच्च आगमकाण्डे निरूपयिष्यामः | तस्मात् निखिलोत्कर्षपरामर्शनमपि तत्र स्वीकार्यम् | यद्यपि आयातदृढेश्वरशक्ति - हेतुं कथयति तावति इति | तदाश्रितं पदं तावत्, ऽहिऽ शब्दो हेतौ, मायीया - अवरोहे मायानन्तरं स्थितत्वेन तत्कार्या, या अशुद्धविद्या - किञ्चिज्ज्ञत्वरूपा, तया या रागकला - रागांशः, तया संचार्यमाणस्य - यत्र तत्र देवाभासेषु भ्रामितस्य, पशुत्वम् - लौकिकजननिष्ठः पशुभाव - एव भवति | परतत्त्वानभिज्ञत्वात् | ननु तर्हि तस्य तत्पदाश्रयणं व्यर्थमेवेत्यपेक्षायामाह इतर इति | इतरे - बौधादयः लौकिकाश्च, अध्वानः - तत्त्वभूमिकाः | अत्र श्रीविद्याधिपतिमतं संवादयति तदुक्तम् इति | श्रीविद्याधिपतिना तदुक्तमिति व्यवहितेन संबन्धः | अस्य पद्यस्यायमर्थः | अकृत्रिमैः - त्वद्विभूतिमयत्वेन सहजैः, करणैः - बाह्यान्तः - करणैः, अन्यथाभानेपि परमार्थतः तव - ते संबंधिनीम्, अक्षताम् - सम्पूर्णाम्, विभूतिम् - तत्त्वषट्त्रिंशकरूपमैश्वर्यम् पश्यतः - स्वभावबलेन गृह्णतः, कस्य नाम - वैष्णवादेः अधरदर्शनस्थस्यापि | त्वां व्युदस्य - भवन्तं त्यक्त्वा, वरदे - वरदातरि स्वेष्ट देवताविशेषे, स्तुतिस्पृहा - स्तुत्याकांक्षा, जायते | न कस्यापीत्यर्थः | अन्यदेवतानिष्ठा अपि परमार्थतस्त्वन्निष्ठा एवेति भावः | यत्स्वयं भगवतोक्तम् :- ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् इति | श्रीतन्त्रालोकेपि :- पातस्य स्वयमेवेयमियती परमशिवभूमिरभ्येति हृदयगोचरम्, न तु अत्र स्वात्मीयः पुरुषकारः कोऽपि निर्वहति, सर्वस्य तस्य मायामयत्वेनान्धतमसप्रख्यस्यामायीयं शुद्धप्रकाशं स्वप्रतिद्वन्द्विनं प्रति उपायतानुपपत्तेः, तथापि तदेव तथाविधं रूपं प्रख्योपाख्याक्रमेण स्वात्मपरावभासविषयभावजिगमिषया निःशेषोत्कर्षविशेषाभिधीयि - जयत्यादिशब्दानुवेधेन परामर्शनीयम्, ये बोधादतिरिक्तं हि किञ्चिद्याज्यतया विदुः | तेपि बोधं विविञ्चाना बोधाभेदेन मन्वते || इति | कुतो हेतोः ? अप्यवरतः - भेदपदस्थत्वेनाधरदर्शनस्थात्, विभ्रमात् - देवाभासे देवत्वज्ञानरूपात | विपर्ययज्ञानादपीत्यर्थः | स्तुतिस्पृहाव्युदासयोरेककर्तृत्वमाश्रित्य स्थितः क्त्वाप्रत्ययो न दुष्टः | तथा च स्फ्टमेव वैष्णवादे राजादिनिष्ठेभ्यः कतिपयाध्वोत्तीर्णत्वमिति भावः | यद्यपि राजादौ नमस्कारोद्यतस्यापि परमार्थतस्तत्परत्वमेव, तथापि बहुव्यवधानतया तदसंकल्प्यमेवेति | नन्वयं तत्त्वभूमिकाविभागः कुत्रोक्तः इत्यत्राह एतच्च इति | एतत् - तत्त्व भूमिकानुरोधेन स्थितमुत्तीर्णत्वादि | उपसंहारं करोति तस्मात् इति | नमस्कारयोग्यतापादकत्वेनेत्यर्थः | तत्र - नमस्कारे, स्वीकार्यम्, अनुक्तमप्याक्षेप्तव्यमित्यर्थः | ननु तीव्रतरशक्तिपातस्पृष्टे परमेश्वरोत्कर्षः स्वयमेव स्फुरन्दृष्टः किं तस्य बलात् स्वीकरणेनेत्याशंकापूर्वं तत्स्वीकरणमवश्यकरणीयत्वेन कथयति यद्यपि इत्यादिना | दृढः - तीव्रतरः, स्वयमेव - तद्वाचकशब्दपरामर्शनं विनैव, इवती - स्वान्तःकृतसमस्ततत्त्वा, परमशिवभूमिः - परमशिवमितिः, परमशिवस्वरूपमिति यावत् | हृदयगोचरम् - स्वसंवेदनवेद्यताम् | न तु इति पक्षान्तरसूचनपरम् | अत्र - परमेश्वरोत्कर्षस्फुरणे, पुरुषकारः - तद्वाचकशब्दपरामर्शनरूपः, निर्वहति - प्रगल्भते | मायामयत्वेन - भेदेन स्फुरणानीतेन मायारूपत्वेन | स्वप्रतिद्वन्द्विनम् - शत्रुभूतम्, न हि तमसः तेजःसाधने उपायता दृष्टेति भावः | एवमयुक्तत्वं साधयित्वा तत्त्वेपि प्रयोजनवशेनोत्कर्षपरामर्शस्याऽवस्यकर्तव्यतां कथयति तथापि इति | तथापि तथाविधम् - उत्कर्षगुणयुक्तम्, इति नमस्कारे जयत्यर्थ आक्षेप्यः | जयपदोदीरणेऽपि तादृशसमुत्कर्षातिशयशालिनि स्वात्मानमप्रह्वीकुर्वाणस्य तटस्थस्य परमनात्मोपकारित्वम् इति समुत्कर्षविशेषाक्षिप्त एव नमस्कारोऽवश्यमभ्यन्तरीकार्यः, इत्यनया युक्त्या जय - नमस्कारैकतरप्रक्रमे अन्यतरस्य अर्थाक्षिप्तता अवश्यमङ्गीकर्तव्या | बन्दन - नमन - स्मरण - प्रध्यानप्रभृतीनामपि नमस्कार - जयत्यर्थमात्रपरमार्थत्वाद् तदेव रूपम् - प्रक्रान्तं परमेश्वरस्वरूपमेव न त्वनयदपि किञ्चित् | अस्य तत्सृष्टत्वेन सर्वोत्कृष्टत्वायोगात् | निःशेषेभ्यो यः उत्कर्षः - ऊर्ध्वपदस्थत्वम्, तस्य यः विशेषः तमभिदधाति - तत्र संकेतितत्वात् कथयतीति तादृशः यो जयत्यादिः शब्दः, आदिग्रहणेनाऽन्येषां पर्यायाणां ग्रहणम्, तस्य योऽनुवेधः - व्याप्तिः तेन, मानसिकतदुच्चारपरामर्शद्वारेणेति यावत् | परामर्शनीयम् - विमर्शविषयीकार्यम् | करणे तृतीया | कया हेतुभूतया ? प्रख्या - प्रकृष्टज्ञानरूपः आन्तरः वाच्यविषयः परामर्शः, उपाख्या - तत्समीपवर्ती स्फुटः तद्वाचकनिष्ठः उच्चारः, तयोर्यः क्रमः तेन | स्वात्मपरावभासविषयभावं गन्तुमिच्छा गच्छत्वित्येवं रूपा तया | तत्र प्रक्यया स्वात्मावभासविषयीभावः, अन्तःस्फुरितं हि स्वात्मैव विषयीकर्तुं शक्तः, उपाख्यया परावभासविषयीभावः, स्फुटमुच्चारितस्य शब्दस्यार्थं हि परोपि ज्ञानविषयीकरोति | फलितं कथयति ऽइतिऽ इति | इति - अतः कारणात्, आक्षेप्यः - तत्र साक्षादनुक्तोप्याक्षेपविषयतां नेयः | ननु तर्हि केवलमुत्कर्षवाचिजयशब्दोदीरणमेव किं न कुर्म इत्यपेक्षायामाह जय इत्यादि | जय पदस्य यदुदीरणम् - उच्चारणम् तत्र | तटस्थत्वमत्र नमस्काराकरणरूपं ज्ञेयं | अभ्यन्तरीकार्यः - अध्याहृत्य योजनीयः | तथा चात्रापि आक्षेपस्यावश्यकार्यत्वमेवेति भावः | एवं युक्तिमुक्त्वा तत्सिद्धं वस्तु कथयति इत्यनया इत्यादिना | इयमेव वर्तनी | अत्रायं पुनर्ग्रन्थकृता तादृक् प्रक्रम आश्रितः, यत्र द्वयमपि इदं स्वशब्दपरामृष्टमेव | एतच्च पदार्थव्याख्यानावसर एव प्रकटीभविष्यति | स्वशब्दपरामर्शश्च सर्वजनहितत्वाद्युक्तियुक्तः, स हि सर्वस्यैव झटिति हृदयंगमः, अर्थाक्षिप्तस्तु कतिचिदेव प्रति स्वप्रतिभोदितवाक्तत्त्वावमर्शासंभवात्, वाक्तत्त्वावमर्शशून्यस्य च प्रकाशस्याप्रकाशकल्पत्वात् | एतच्च अग्रे स्फुटीभविष्यति | तदनेन अभिप्रायेण प्रसिद्धजय - नमः - प्रभृतिशब्दशययानाश्लेषेण इमां सरणिम् अनुसरति स्म ग्रन्थकारः | ननु किं जयनमःपदयोरेवेयं वर्तनी, अथवा सर्वेषां तत्पर्यायाणामित्यत्राह वन्दन इति | तत्र वन्दननमनयोर्नमस्कारार्थत्वम् | अन्यस्य त्रयस्य तु जयार्थत्वम् | आदिशब्देनान्येषामपि तत्पर्यायाणां ग्रहणम् | ननु भवत्वेवम् अस्मिंस्तु ग्रन्थे तयोरेकमपि न दृश्यते इत्यपेक्षायामाह अयम् इति | ऽपुनःऽ शब्दो विशेषे, प्रक्रमः - सर्वातिशायिनी परिपाटी, द्वयम्, जयार्थः नमस्कारार्थश्चेत्यर्थः | स्वशब्देन - स्ववाचकशब्देन, परामृष्टम् - परामर्शविषयीकृतम्, उक्तमिति यावत् | ऽएवऽ शब्दोऽन्ययोगव्यवच्छेदपरः | पदार्थ इति | पदार्थानां यद् व्याख्यानम् - प्रकृतिप्रत्ययविभागेन स्फुटीकरणम्, तस्यावसरे - समये प्रकटोभविष्यति इत्यनेन साक्षात्कथननिरासः | तत्र हि महेश्वरपदव्याख्यया सर्वोत्कृष्टत्वं प्रकटीभविष्यति | सर्वोत्कृष्टताया अभावे हि ईश्वरत्वमपि वक्तुमयोग्यमेव, का कथा महेश्वरत्वस्य | दासपदव्याख्यया तु प्रह्वता | न हि स्वात्मानमप्रह्वीकुर्वाणाय वराटिकामपि कोपि ददाति | का कथा सर्वदानस्य | ननु ग्रन्थकृतापि किं न लाघवार्थमाक्षेपादरः कृत इत्यपेक्षायामाह स्वशब्द इति | ननु किं तर्हि अर्थाक्षिप्तस्य सर्वथा हृदयंगमत्वं नास्तीत्याशंक्याह कतिचिदेव इति | स्वप्रतिभोदितवाक्तत्त्वावर्मर्शयुक्तान् कांश्चिदेव प्रतीत्यर्थः | अत्र हेतुमाह स्वप्रतिभा इति | सर्वेषामिति शेषः | स्वस्य य प्रतिभा - नवनवोल्लेखशालिनी बुद्धिः, तया उदितो यः वाक्तत्त्वावमर्शः - वाक्तत्त्व विषयः अवमर्शः परामर्शः तस्यासंभवात् | एतेन सर्वदा गुरुमुखप्रेक्षिणामाक्षेपादिसिद्धार्थबोधेऽयोग्यता सूचिता | इह यद्यत्किंचन [किंचित् - K. ष्. ष्.] स्फुरति तत्तद्वक्ष्यमाणेश्वर - रूपस्वात्मप्रथामात्रम्, तत्र तु उपायोपेयभावप्रभृतिः कार्यकारणभावोऽपि यथाप्रकाशं परमार्थभूत एव, प्रकाशस्य अनपह्नवनीयत्वात् | यदाह भट्टदिवाकरवत्सो विवेकाञ्जने :- ऽप्रकाशश्चैव [प्रकाशश्चैष - K. ष्. ष्.] भावानाम् ..............|ऽ इत्यादि ऽ...................ण शापोक्त्या विलीयते |ऽ ननु वाक्तत्त्वावमर्शो मा भवतु ततः किमित्यपेक्षायामाह वाक्तत्त्व इति | अप्रकाशकल्पत्वात्, सद्योजातबालदीपदर्शनस्य यथाऽदर्शनसदृशत्वं भवति तथाऽप्रकाशसदृशत्वादित्यर्थः | अग्रे - स्वभावमवभासस्य इति कारिकायाम् | प्रक्रान्तां प्रक्रियामुपसंहर्ति तदनेन इति | तत् - तस्मात्कारणात् | अनेन - सर्वहृदयंगमतारूपेण, इमाम् - स्वशब्दपरामर्शरूपाम्, समनन्तरोक्तामित्यर्थः | प्रसिद्धजयनमःप्रभृतिशब्दशययाश्लेषणे आक्षेपस्यावश्यकर्तव्यता स्यादिति भावः | एवं नमस्कारस्य संभवं प्रसाध्य कथंचित् इति पदं व्याख्यातुं प्रक्रियां तनोति इह इत्यादिना | यद्यत् किञ्चन - यद्यत्किञ्चिदति इति तत्संपादनमपि सत्वकार्यमेव, यदर्थं हि यदपेक्षते सा तस्यार्थक्रियैवेत्यत आह तत्र इति | तत्र - सत्त्वे, आभासान्तरस्य - उदकाद्याहरणरूपस्य, पात्राभासस्य - इति | अन्यथाऽग्न्यानयनासंभवात् इति भावः | कुत इत्यपेक्षायामाह तदाभास इति | तदाभासेन - सत्त्वाभासेन यत् नान्तरीयकत्वम् - अविनाभावः तेन, नियतस्य - अवश्यंभाविनः, आभासान्तरस्य - उदकाहरणादिरूपस्यान्यस्याभासस्याऽपेक्षणात् | अग्न्याभासेन पात्राभासो नियतोऽपेक्ष्यते एवेति दृष्टान्तीकृतः | प्रक्रियामुपसंहरति, एवम् इति | मुखेन - सत्त्वादिना द्वारेण, अर्थः - घटादिः, आभासमात्रात्मैव - आभासमात्ररूप एव, तथैव - आभास मात्रभावेनैव, प्रतिभासनात् - स्फुरणात्, विमर्शनात् - विमर्शकरणात्, इति करणाच्च इति सिद्धम् | एवं प्रसिद्धतरप्रसिद्धाप्रसिद्धत्वातिशयेन एकोऽपि अर्थो ग्रन्थकारेण त्रैधं निरूपितो दीर्घवृत्तेति धूमेति सद्धटेति || ५ || सिद्धम्, एतत्सिद्धं भवतीत्यर्थः | स्थानत्रयं विभज्य दर्शयितुमुपसंहारं करोति एवम् इति | तत्र प्रसिद्धस्य प्रसिद्धतरेण हस्तादानम्, अप्रसिद्धस्थ तु प्रसिद्धेनेति ज्ञेयम् | रूपत्रयमेव दर्शयति दीर्घ इति | एवमत्र पिण्डार्थः | दीर्घवृत्तोर्ध्वंपुरुषाश्च धूमचान्दनतादयश्च ते यथा प्रसिद्धतरत्वेन स्थिताः दीर्घादिरूपाः आभासाः, तथा प्रसिद्धत्वेन स्थिताः घूमादय आभासाः, देशकालविभेदिनः - देशकालभेदरूपस्य तद्देशत्वेन तत्कालत्वेन च स्थितस्यैकस्य वस्तुस्वलक्षणस्य संबन्धिनोऽपि सन्तः, भिद्यन्ते - रुच्यादिवशेन भेदेन भासन्ते, तथा - तद्वद् तद्दृष्टान्तेनेति यावत्, अप्रसिद्धाः सद्धटद्रव्यकाञ्चनोज्ज्वलतादयः आभासभेदाः भिद्यन्ते - रुच्यादित्रयवशेन भेदभासादयन्ति | तत्र दीर्घादीनां कदाचित् रुच्याऽऽभासनं कदाचिदर्थित्वेन कदाचिद्व्युत्पत्या | तत्र तेषां दीर्घादीनाम् आभासानां धूमाद्याभासानां च रुचौ अन्यथात्वम्, अर्थित्वेऽन्यथात्वम्, व्युत्पतौ चान्यथात्वम्, रुचौ हि निष्प्रयोजनं तथा स्फुरणम्, कथम् ? .....ऽर्थित्वे अतिप्राप्यत्वेन, व्युत्पत्तौ शिक्षामात्रार्थमेव, यथात्र व्युत्पन्नः स्यादिति | इति सर्वत्र रुच्यादित्रययोजनं कार्यम् | तत्र रुचिः - निष्प्रयोजनं वस्तुनो ज्ञाने निर्देशे वा, अर्थित्वम् सर्वव्यवहारेषु, व्युत्पत्तिः शिक्षाग्रहणसमये शिक्षादानसमये चेति | तथा ते - आभासभेदाः, भिन्नार्थकारिणः - भिन्नार्थक्रियाकराः, तथा, ध्वनेः शब्दस्य तन्मूलस्य विमर्शस्य च पदं - विषयः भवन्ति, दीर्घस्य तिरोधानरूपार्थक्रियाकारित्वाद्दीर्घोयमिति विमर्शेन ग्रहणात् दीर्घोऽयमिति शब्दविषयत्वाच्च | एवं सर्वत्र ज्ञेयम् | ४ | ५ | ननु एवं प्रत्याभासमेव वस्तुत्वे एको घटात्मा न वस्तु स्यात् इत्याशंक्याह आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः | सामानाधिकरण्येन प्रतिभासादभेदिनाम् || ६ || आभासानां मिश्रं यद्रूपं तत्र अवश्यं कश्चिदाभासः प्रधानत्वेन अन्याभासानां विश्रान्तिपदीकार्यः [विश्रान्तिपदीकर्तव्यः K. ष्. ष्.] स तेषां समानमधिकरणम्, तेन अथ षष्ठस्य श्लोकस्यावतरणिकां करोति नन्वेम् इति | स्पष्टम् | एवम् - वतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे आभास इति | अत्र टीका :- प्रथमं सामाधिकरण्येन इति पदं व्याचष्टे आभासानाम् इति | मिश्रम् - मिश्रतया स्थितम्, स्वलक्षणरूपमिति यावत् | तत्र - तस्मिन्मिश्रखपे, विश्रान्तिपदीकार्यः - विश्रान्तिस्थानतया भावनीयः, हृद्भंगनिवृत्यर्थित्वे सत्वाभास इव घटाभासादीनाम्, अथवा उदकाहरणार्थित्वे घटाभास इव सत्वाभासादीनाम् | सः - प्रधानीकृत आभासः, तेषाम् तद्व्यतिरिक्तानामाभासानाम् | समानमधिकरणम् एकं स्थानं तत्रैव धर्मत्वेनारोपणात् | तद्धितप्रत्ययव्याख्यां करोति तेन इति | तेन - समानाधिकरणेन, सह तेषाम् - आधेयभूतानामाभासानाम्, यः संबन्धः - आधाराधेयभावाख्यः | तृतीयायोजनं करोति तेन सह यस्तेषां संबन्धः तत् सामानाधिकरण्यम्, तेन उपलक्षितो यः प्रतिभासः - अर्थोन्मुखः प्रकाशः तदनुप्राणकश्च [तदनुप्राणकश्च कश्चन पदात्मा - K. ष्. ष्.] नपदात्मा परामर्शः - तस्य सर्वस्य एकाभासविश्रान्ततानियमात्, तस्मात् तं सामानाधिकरण्याभासं समनुप्राणयति यो वाक्यात्मा वाक्यार्थपरामर्शरूपो विमर्शः - इह इदानीं एष घटोऽस्ति इत्येवंरूपः ततो हेतोः ये अभेदिन इति | उपलक्षितः - विशिष्टीकृतः | एतेनोपलक्षणे इयं तृतीयेति द्योतितम् | प्रतिभासात् इति पदं व्याचष्टे अर्थोन्मुखः इति | अर्थोन्मुखः - अर्थं विषयीकर्तुं प्रवृत्तः, प्रकाशाव्यभिचारेण विमर्शस्यापि ग्रहणं करोति तदनु इति | तदनुप्राणकः - प्रकाशस्यासत्कल्पतानिवारकः, [असत्कल्पनिवारकः - C.] यः नपदात्मा - नपदम् आत्मा रूपं यस्य सः नपदात्मा, परामर्शः - विमर्शः | कुतो नपदात्मेत्यपेक्षायामाह तस्य इति | तस्य सर्वस्य - पदात्मनः परामर्शस्य, एकाभासविश्रान्ततानियमात् - वाक्याभासरूपैकाभासविश्रान्तत्वनियमात्, न हि पदस्य स्वरूपे प्राधान्यं तस्य वाक्ये ब्रुडितत्वात् इति भावः | तर्हि किंरूपः स परामर्शः इत्यपेक्षायामुपसंहाररीत्या कथयति, तस्मात् इति | तस्मात् - ततः कारणात्, सामानाधिकरण्याभासम् - उपलक्षणत्वेन स्थितं पूर्वोक्तं सामानाधिकरण्याभासम्, समनुप्राणयति - पुष्टीकरोति, यो वाक्यात्मा - वाक्यसंस्कारत्वेन स्थितः, वाक्यार्थपरामर्शरूपो विमर्शः - परामर्शस्तदनुप्राणकः पदात्मपरामर्शव्यतिरिक्तः, वाक्यात्मा च यः परामर्श इति यावत् | वाक्यात्मानं परामर्शमेवानुकृत्याह इह इति | इह अस्मिन् देशे, इदानीम् - अस्मिन् काले, एषः - एवंगुणकः, घटः अस्ति | तत्र इहेति देशाभासः, इदानीमिति कालाभासः, एष इति गुणाभासः, घट इति जात्याभासः | अत्र च घटाभासस्यैव समाना एकस्वलक्षणताम् प्राप्ता [एकस्वलक्षणतामाताः - K. ष्. ष्.] न च स्वरूपभेदम् [न तु - K. ष्. ष्.] उज्झन्तः तेषाम् अन्या विशिष्टा समुदिता [समुदितरूपा - K. ष्. ष्.] अर्थक्रिया | आभासविमर्शभेदे पुनरन्या नियता एकैकमात्ररूपा | आभासप्रतिभासशब्दाभ्यां सूत्रे विमर्शोऽपि आक्षिप्तो मन्तव्यः | पुनः शब्दो विशेषद्योतकः काकाक्षिवत् उभयत्र धिकरणत्वं | तदाश्रयत्वेनैवान्याभासस्थापनात् | यो ये इत्यस्य द्वयस्याकांक्षां पूरयन् प्रतिभासात् इति पंचमीयोजनां करोति ततः इति | ततः - प्रतिभासाद्वाक्यात्मकपरामर्शाच्च हेतोः | अभेदिनाम् इति व्याचष्टे एक इति | एकस्वलक्षणतां प्राप्ताः - देशादिमिश्रता भावजातम् | परिस्फुरति - भासते | वक्ष्यमाणश्चासौ ईश्वररूपः स्वात्मा तद्रूपा या प्रथा - प्रकाशः तन्मात्रम् | तद्वदहमितिपरामर्शमात्र - विषयत्वयोग्यत्वादित्यर्थः | ननु भवत्वेवं ततः किमित्यत्राह तत्र इति | तत्र - स्फुरणशीलभावजातमध्ये, तु व्यतिरेके, यथाप्रकाशम् - प्रकाशभावानतिक्रमेण, न तु मायीयेन स्वेन रूपेणेत्त्यर्थः | सत्यभूतत्वे हेतुमाह प्रकाश इति | अनपह्नवनीयत्वात् - अपह्नोतुमशक्यत्वात् | यतः प्रकाशमानस्य केनाप्यपह्नवो न कर्तुं शक्यते ततः प्रकाशमानस्य कार्यकारण भावस्यापि परमार्थभूतत्वमित्यर्थः | ऽप्रभृतिऽ शब्देन ज्ञाप्यज्ञापकभावादिग्रहणम् | अत्र वृद्धसंमतिमाह यदाह इति | विवेकाञ्जने, एतन्नामके शास्त्र इत्यर्थः | तत्रत्यं ग्रन्थमाद्यन्ताभ्यामुपलक्षयति प्रकाशश्चैव इति | तत्र तु कार्यकारणभावेऽपि क्वचित् परिपूर्णस्वातन्त्र्यलक्षणमाहेश्वर्यनान्तरीयकताक्रोडीकृतानन्तशक्तिच् अ - क्रचुम्बितभावभावितप्रथान्तरव्यवधानं चकास्ति; स तु मायीयत्वेन स्थापयिष्यते, [व्यवस्थापयिष्यते - K. ष्. ष्.] जडचेतनाद्यवान्तरभेदशतसंभिन्नश्च असौ, तत्कृतश्च सर्वोऽयं निष्पाद्य - निष्पादकभावज्ञाप्य - ज्ञापकभावावभासो लोकव्यवहाररूपः | यत्र तु शुद्धस्वात्मरूपप्रथात्मकानुत्तरशक्तिशालिनिरर्गलस्वात्मप्रकाश [शुद्धप्रथात्मक - K. ष्. ष्.] एव मायीयप्रथान्तरव्यवधानवन्ध्यो निबन्धनम्, तत्र तस्यैव भगवतः कारणत्वम् | एष च अनुग्रहलक्षणोऽन्त्यः ननु ततोपि किमित्यत्राह तत्र तु इति | तत्र - समस्तकार्यकारणभावमध्य इत्यर्थः | क्वचित् - लौकिके, परिपूर्णम् - न तु क्वचित् पराहत्य खण्डितम्, यत्स्वातन्त्र्यलक्षणम् - सर्वत्रानन्यमुखप्रेक्षित्वस्वरूपम्, माहेश्वर्यम् - महेश्वरभावः, तेन नान्तरीयकतया - स्वव्याप्त्या, क्रोडीकृतम् - तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः इति तन्त्रालोकनयेन स्वान्तःकृतम्, यच्छक्तिचक्रम् - शक्तिसमूहः, तेन चुम्बिताः - स्पृष्टाः, सारभावेन स्थित्वा व्याप्ता इति यावत्, ये भावाः - पदार्थाः, तैर्भावितम् - प्रकटीकृतम्, यत्प्रथान्तरम् - शुद्धप्रकाशव्यतिरेकेण भासमानं स्वविषयं ज्ञानम्, तेन व्यवधानम् - तत्कृतं परमेश्वररूपस्वात्माऽस्फुरणम् | चकास्ति - स्फुरति | अन्यथा सर्वत्र प्रकाशपरमार्थत्वेऽस्येदं कार्यमस्येदं कारणमिति विभागायोगादिति भावः | मायीयत्वेन - भेदस्फूर्त्यन्यथानुपपत्त्यागतेन मायाकार्यत्वेन, स्थापयिष्यते, इहैवाग्र इति शेषः | जड इति | जडम् - बिजादि, चेतनम् - पुरुषादि | ननु भवत्वसौ कार्यकारणभावः एवंरूपे, अन्यस्तु कीदृशोस्ति, इत्यपेक्षायामाह यत्र तु इत्यादि | शुधा - व्यतिरिक्तप्रथनीयाऽरूषिता या स्वात्मरूपा प्रथा - अवभासः, तदात्मकः यः अनुत्तरशक्तिशाली - सर्वातिशायिस्वातन्त्र्यशक्तिभूषितः, निरर्गलः - अच्छिन्नप्रसरः, पञ्चमः पारमेश्वरः कृत्यविशेषः परपुरुषार्थप्रापकः, तन्निबन्धनत्वात् परमार्थमोक्षस्य | अन्यत्रत्यो हि अपवर्गः कुतश्चिन्मुक्तिः, न सर्वत इति निःश्रेयसाभास इति वक्ष्यामः | स चायं द्वितीयः कार्यकारणभावो लौकिकान्वयव्यतिरेकसिद्धप्रसिद्धकार्यकारणभाव - विलक्षणत्वात् स्फुटेन रूपेणासंचेत्यमानः कादाचित्कवस्तु सद्भावोन्नेयपरमार्थः [कादाचित्कवस्तुसद्भावावभासोन्नीयमान - परमार्थः - K. ष्. ष्.] अतिदुर्घटकारित्व - स्वात्मप्रकाशः - स्वात्मरूपः प्रकाशः, न तु बाह्यप्रकाशः | निबन्धनम् - सारभावेन स्थित्वा स्वरूपोत्पादकं कारणम्, तत्र, तस्मिन् कार्यकारणभावे इत्यर्थः | तस्यैव - स्वात्मप्रकाशस्यैव, कारणत्वम् - कारणभावः | कार्यत्वन्तु अर्थाद्दास्यासादनस्यैव ज्ञेयम् | अन्त्यः - अन्तभवः, पञ्चमः, सृष्टिस्थितिध्वंसपिधानाऽनुग्रहात्मकपञ्चकनिष्ठपञ्च - संख्यापूरकत्वात् | तत्र पिधानम् संस्कारमात्रतया स्थितस्यापि लयीकरणम् | अनुग्रहः स्वात्मीकरणम्, शेषम् स्फुटमेव | परपुरुषार्थस्य - मोक्षाख्यस्य पुरुषसंबन्धिपरमप्रयोजनस्य, प्रापकः - प्राप्तिकारी | स चेह दास्यासदनरूप एव ज्ञेयः, तत्साधनस्यैवेष्टत्वात् | अत्र हेतुमाह तन्निबन्धनत्वात् इति | परमार्थमोक्षस्य - शिवशासनोक्तस्य महास्वातन्त्र्यासदनरूपस्य महामोक्षस्य | ननु किमपरमार्थभूतोपि मोक्षोस्तीत्यपेक्षायामाह अन्य इति | अन्यत्र - बौद्धसिद्धान्तादिषु भवः अन्यत्रत्यः | कुतश्चित् - मायादेस्तत्त्वात्, न तु शुद्धविद्यादेरपि | तदुक्तम् :- रागाद्यकलुषोस्म्यन्तःशून्योहं कर्तृतोज्झितः | इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः || इति | ननु भवत्वसौ कार्यकारणभावस्तादृशस्ततः किमित्यत्राह स च इति | लौकिकः - भेदरूषितत्वेन लोकसिद्धश्चासौ अत एव अन्वयव्यतिरेकाभ्यां सिद्धश्चेत्यवयवविग्रहः | लोके हि यदन्वये यस्याऽन्वयः यस्य व्यतिरेके च यस्य व्यतिरेकः स तस्य कार्यत्वेन व्यवस्थाप्यते | असञ्चेत्यमानः - अतिसूक्ष्मत्वेन ग्रहीतुमशक्यः | ननु तर्हि कथमसौ सत्त्वेन ज्ञायते इत्याह कदाचित्क इति | कदाचित्कः - कदाचिद्भवः, यो वस्तुसद्भावः - परमार्थमओक्षसद्भावः, तेनोन्नेयः - ज्ञातु शक्यः, परमार्थः - सत्यं स्वरूपं यस्य तादृशः | कार्यमात्रगम्य इत्यर्थः | यद्यपि लक्षणैश्वर्यविजृम्भाभाविताद्भुतभावः प्रथमकोटिसंभावनाशून्यकालिका - कारस्वप्रकाशावरणनिराकरण - मनोरथशतदुष्प्राप [प्रथमकोटिसंभावनाशून्यः कालिका - K. ष्. ष्.] इत्येवंप्रकारः कथमा [थमा - K. ष्. ष्.] द्योतकनिपातसहितेन निरूपितः ऽकथंचित्ऽ इति, केनचिच्च प्रकारेण परमेश्वराभिन्नगुरुचरण - समाराधनेन परमेश्वरघटितेनैव | यथोक्तम् :- परमार्थतः सर्वदा स्थितस्य परमार्थमोक्षस्य कार्यत्वं न संभवति तथापि तदबोधापसारणार्थम् आरोप्य एवमुक्तम् | तत्रापि मुच्यमानविषये एव अस्य सत्त्वज्ञानम् नान्यविषये | अन्यविषयेऽन्यमोक्षस्यास्फुरणात् | तदुक्तम् - सदेहा वा विदेहा वा मुक्तताविषये न वा | अनास्वादितभोज्यस्य कुतो भोज्यानुभूतयः || इति | अस्यैव कार्यकारणभावस्य कथञ्चिदितिशब्दप्रवृत्तिनिमित्तत्वं साधयति अतिदुर्घट इति | अतिदुर्घटकारित्वं च स्वात्मतया स्थितस्य विश्वस्य भिन्नतया भासनं भासितस्य तु पुनः स्वात्मभावेन विमर्शनमिति द्विविधम्, तल्लक्षणम् - तत्स्वरूपं यदैश्वर्यम् तस्य विजृंभा - विलसनं तया भावितः - संपादितः, अद्भुतभावः - आश्चर्यकारित्वं यस्य तादृशः | ऐश्वर्यविलसनरूपत्वेन आश्चर्यकारीति यावत् | वशेनैकस्वलक्षणभावं गताः | ननु तर्ह्येकत्वमेव तेषां भवतु इत्यत आह न च इति | नचोज्झन्त इति योजना, देशादीनां पृथगेव स्फुरणादिति भावः | षष्ठीयोजनं करोति तेषाम् इति | वस्तूनाम् इति | प्रसिद्धत्वेन न व्याख्यातम् | अन्यशब्दार्थवाचि पुनः शब्दं व्याचष्टे अन्या इति | पुनः अन्या, प्रत्येककार्याय [प्रत्येककार्यायाभिन्ना - C.] भिन्नेति यावत् | अत - एव विशिष्टा तथा समुदिता कुत्रापि न नियमिता, सर्वांभाससाध्यत्वेनाभिमतेति यावत् | अर्थक्रिया भवति | आभासभेदात्पुनर्नियतार्थक्रिया इति व्याचष्टे आभास इति | आभासविमर्शभेदे सति अन्या नियता एकैकमात्ररूपा - प्रत्येकं भिन्नस्वरूपार्थक्रिया भवति | इह तु विमर्शः पदसंस्काररूप एव ज्ञेयः एकाभासोत्थितत्वात् | ननु सूत्रे विमर्शस्य नामापि न गृहीतमिति कथं व्याख्यायां तस्य योजनं कृतम् इत्यत आह आभास इति | आक्षिप्तः - अनुप्राणकत्वेनाक्षेपविषयतां नीतः | नन्वेक एव पुनः शब्दो दृश्यते, व्याख्यायां कथं द्विर्योजित इत्यत आह पुनः शब्दः इति | उभयत्र - समुदितनियमितार्थक्रियारूपे योज्यः | बहुवचनेन ऐक्येऽपि स्वरूपभेदापरित्याग उक्तः, तत्र च ऐक्यावभासे परतन्त्रं सत् पृथक्त्वं यदा आभासानां तदा समानरूपव्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम्, घटाभासस्य तु शुद्धस्य स्वतन्त्रपरामर्शे योग्यतामात्रेण सामान्यरूपता न वस्तुतो - स्थानद्वये | अभेदिनाम् इति बहुवचनाभिप्रायमाह बहुवचनेन इति | अन्यथैकत्वमेवात्रयुक्तं स्यादित्यर्थः | एवमत्र योजना - सामानाधिकरण्येनोपलक्षितात्प्रतिभासात् - प्रतिभासविमर्शैक्याद्धेतोरभेदिनां वस्तूनामर्थक्रिया पुनरन्या समुदिता भवति, तथाभासभेदात् - आभासपरामर्शभेदात् पुनः अन्या नियता भवति, इति पुनःशब्दस्य द्विर्योजना [हति पुनःशब्दस्य त्रिर्योजना - C.] | प्रत्याभासं स्थितस्य आभासमिश्रीभावेन लब्धसत्ताके स्वलक्षणे स्थितस्य सामान्यद्वयस्य योग्यतामात्रेण साक्षाच्च सत्त्वं कथयति तत्र इति | तत्र - प्रत्याभासस्थितस्वलक्षणस्थितसामान्य-द्वयमध्ये, यदा ऐक्यावभासे - प्रत्येकं देशादीनामैक्यावभासे देशोऽयं देशोयम् इत्यादिरूपे, आभासानाम् - देशादिरूपाणां प्रत्येकं स्थितानामाभासानां सत् - वर्तमानम्, पृथक्त्वम् - प्रत्येकभावः, स्वे स्वे रूपे निष्ठत्वमिति यावत् | परतन्त्रं - धर्मतया भासनं भवति, तदा समानरूपा या व्यक्तयः - बहिःस्थिता - आधारभूता व्यक्तयः, तासामुपरञ्जकत्वेनस्वविशिष्टीकरणेन, पारमार्थिकम् - सहजम्, सामान्यरूपत्वं भवति सामान्यस्य द्रव्यादिनिष्ठत्वेनैव स्थितत्वात्, देशत्वं नाम सामान्यं हि देशाख्यव्यक्तिरूपद्रव्यपरतन्त्रमेव दृश्यते, न च व्यक्तेरेव स्वलक्षणत्वं वाच्यम्, तस्य प्रमातृकृतदेशकालयोजनाप्राणत्वात्, अस्यास्तु बहिःस्थितत्वात्, अन्यथा सामान्यव्यङ्जकत्वायोगात् | तु व्यतिरेके, शुद्धस्य - अन्याभाससमानाधिकरणत्वेनास्थितत्वात् [अन्याभाससमानाधिकरणत्वेन स्थितत्वात् - C.] तद्भेदामिश्रस्य, घटाभासस्य - उदकाहरणार्थित्वादिना प्रधानतया स्थितस्य घटाकारस्याभासस्य, घटस्वलक्षणस्येति यावत् | स्वतन्त्रपरामर्शे - पृथग्वस्तुत्वाभासेन धर्मितया परामर्शे सति, योग्यतामात्रेण - केवलया योग्यतया, भाविनि स्वाभाविकधर्मतया भाने समुचितत्वेनेति यावत् | सामान्यरूपता द्रव्यादन्यो हि सर्वः पदार्थः परतन्त्रतासारः, एवम् एकोऽपि घटात्मा च इत्यपि [एकोऽपि घटात्मा इत्यपि - K. ष्. ष्.] सत्यमेव - आभासविमर्शार्थक्रियाबलेन तथा व्यवस्थापनात् [तथा अवस्थापनात् - K. ष्. ष्.] इति || ६ || ननु एकेनैव अर्थक्रिया न तत्र, अपि तु आभाससमुदायात् अर्थक्रियासमुदायः, आभासाश्च भिन्ना अपि यदि एकाम् अर्थक्रियां कर्तुं मिश्रीभवन्ति, तदा कस्तेषाम् इयत्तावधिः इति चोद्यम् अपवदति | पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा | अविरुद्धावभासानामेककार्या तथैक्यधीः || ७ || भवति, वस्तुतः - परमार्थतो न भवति, योजनाप्राणधर्मितया भानरूपेऽस्मिन्काले न भवतीति यावत् | समानव्यक्तिगतस्य धर्मस्यैव पारमार्थिकसामान्यरूपत्वात् | कुत इत्यपेक्षायामाह द्रव्यात् इति | अन्यः - गुणादिरूपः, तथा च सामान्यस्यापि द्रव्यान्यत्वेन परतन्त्रत्वमेव युक्तमिति भावः | फलितं स्वाभीष्टमुपसंहरति एवम् इति | घटात्मा च - घटस्वरूपं च, अपिशब्देन भिन्नतया स्थितानामाभासानां पारमार्थिकं सत्यत्वं द्योतयति | अत्र हेतुमाह आभास इति | आभासः - घटप्रकाशः, विमर्शः - घटपरामर्शः | अर्थक्रिया-उदकाहरणम्, तासां बलेन, तथा व्यवस्थानात् - एकत्वव्यवस्थितेः | इति शब्दः श्लोकव्याख्यासमाप्तौ || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका - आभाससमुदायात् - आभाससमूहात्, तेषां - आभासानाम्, इयत्तावहिः - मिश्रीभावावसानमर्यादा, केषांचिदेव कुत्रचिदेव मिश्रीभाव इति यावत् | चोद्यम् - शिष्याक्षेपम्, अपवदति - प्रतिसमाधत्ते [प्रतिसमादधते - C.] | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे पृथक् इति | पृथक् वतिन्यो याः प्रदीपस्य प्रभाः सूक्ष्मतमावलोकनसामर्थ्या [सूक्षमतमा अवलोकनसामर्थ्या - K. ष्. ष्.] धानलक्षणां याम् अर्थक्रिया न कृतवत्यः तामेव एकभवनाभ्यन्तरं संमूर्छितात्मानों विदधते, न तत्र अर्थक्रियाणां समुदायोऽस्ति | सागरपतितानि च स्रोतांसि वहुतरतरङ्गारंभार्थक्रियाकारीणि | तद्वत् घटः काञ्चनो लोहितः ततोऽयं शिवलिङ्गशिरोमार्जनोचितसलिलाहरणार्थक्रियोचितो [शिवलिङ्गशिरःसमावर्जनोचितसलिल - K. ष्. ष्.] दृष्टमात्र एव तीव्रप्रीतिलक्षणार्थक्रियाकारी; इति सिद्धमेवार्थक्रियाकारित्वम् | यत् पुनराभासानां मिश्रणे का सीमा इति ? तत्र उच्यते - येषाम् अविरोधः त एव आभासा मिश्रीभवन्ति, नहि रूपाभासो मारुताभासेन मिश्रीभवति - विरोधात्, सोऽपि च नियतिशक्त्युत्थापितः | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति पृथक् इति | सूक्ष्मतमस्य - अतिसूक्ष्मस्य यदवलोकनम् दर्शनम् तत्र यत्सामर्थ्याधानम् - समर्थतासंपादनम् - , तत् लक्षणम् स्वरूपं यस्यास्तादृशीम्, न कृतवत्य - नाकुर्वन्, तामेव - सूक्ष्मतमावलोकनसामर्थ्याधान-लक्षणामर्थक्रियामेव, संमूर्छितः - समुदायस्थित्या वृद्धिं गत आत्मा यासां तादृश्यः, विदधते - कुर्वते | एकं दृष्टान्तमुक्त्वा द्वितीयमपि कथयति सागर इति | बहुतरतरङ्गाणां य आरम्भः स एव अर्थक्रिया तां कुर्वन्तीति तादृशानि भवन्ति इति संबन्धः | दृष्टान्तद्वयमुक्त्वा दार्ष्टान्तिकं कथयति तद्वत् इति | अयं घटः शिवलिङ्गशिरसो यन्मार्जनम् क्षालनं तत्रोचितं यत्सलिलं तस्य यदाहरणम् तदेवार्थक्रिया तत्रोचितो योग्यः, शिवलिंगे काञ्चनघटेनैव स्नानस्य विहितत्वात् | दृष्टमात्र एव - केवलं दृष्ट एव, एकार्थक्रियाकारित्वम् इति, समुदायस्येति शेषः | समुदायादेकामर्थक्रियां सदृष्टान्तमुक्त्वाऽऽभासानां मिश्रीभावे इयत्तावधिं कथयति यत्पुनः इति | सीमा - मर्यादा | इयत्तावधिरिति यावत् | येषाम् - येषामाभासानाम् | सामान्यं विशेषेण समर्थयति नहि इति | विरोधात् इति, वायो रूपराहित्यादिति भावः | ननु कथं मारुतरूपयोर्विरोधोऽस्तीत्यत आह सोऽपि च इति | सोऽपिच - पृथक् ये दीपप्रकाशाः तेषां संबन्धि यदेकं सागरे स्रोतसां च यदेकं वस्तु तेन कार्या यथा ऐक्यघीः तथा अविरुद्धा ये अवभासा घटलोहितकाञ्चनादयः तेषां संबन्धि यदेकं स्वलक्षणं तत्कार्या ऐक्यधीरिति संबन्धः, ऐक्यधिया - प्रतिभासो विमर्शोऽर्थक्रिया च इति स्वीकृतम् || ७ || नन्वेवं प्रत्याभासं प्रमाणस्य विश्रान्तत्वात् अग्न्याभासे अग्निज्ञानं प्रमाणं धूमज्ञानं च धूमाभासमात्रे कार्यकारणभावावभासोऽपि तावन्मात्रे, ततश्च धूमाभासोऽपि अग्न्याभासं व्यभिचरेत् इत्यादि बहुतरोपप्लवप्रसंगः इति शंकाम् अपोहितुम् [व्यपोहितुम् - ण्. ष्. ष्.] आह विरोधोऽपि च, न च नियतेः पर्यनुयोगो युक्त इति भावः | प्रक्रियां संपाद्य सूत्रयोजनां करोति पृथक् इति | एकं वस्तु इति संबन्धः | वस्तु शब्द उभयत्र स्वलक्षणवाची | तेन - वस्तुना, कार्या - संपाद्या, स्वलक्षणम् - देशकालादियोजनानुप्राणितम् अन्याननुयायि स्वरूपम् | संबन्धः, श्लोकस्येति शेषः | नन्वैक्यधीः स्वलक्षणकार्या भवतु, अर्थक्रिया कथमेका ज्ञेया इत्यत आह ऐक्यधिया इति | ऐक्यधिया कर्त्र्या, इति - एतत् स्वीकृतम् स्वकारणत्वेन लक्षणया गृहीतम् | इति किमिति ? प्रतिभासः विमर्शः अर्थक्रिया इति | तेनैकप्रतिभासः एकविमर्शः, एकार्थक्रिया च एककार्या भवति इति योजनीयम् | प्रतिभासादित्रये एवैक्यधीर्भवति इत्यत्र न कोऽपि विरोधः || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका - एवम् - उक्तप्रकारेण, प्रत्याभासम् - प्रत्येकमाभासेषु, तावन्मात्रे - अग्न्याभासधूमाभासकार्यकारणभावाभासमात्रे, ततश्च - ततो हेतोश्च, व्यभिचरेत् इति, भिन्नप्रमाणवेद्यत्वादिति भावः | आदिशब्देनान्येषां व्यभिचाराणां ग्रहणम् | अपोहितुम् [अपोहयितुम् - C.] - दूरीकर्तुम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्र इति | तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता - - तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः || ८ || तत्रेति - प्रत्याभासं प्रमाणं विश्राम्यति, इत्यस्मिन्नपि पक्षे न कश्चित् दोषः, तथाहि - - अविशिष्टो यद्यपि वह्न्याभासो देशकालाभासप्रमुखैः आभासैः असंकीर्णत्वेन सामान्यमात्ररूपत्वात् तथापि स एवाभासो यावद्भिराभासैरविनाभूतो भगवत्या नियतिशक्त्या नियमितः तावतोऽवभासान् स्वीकृत्यैव प्रमाणकृतां निश्चयपदवीम् अवतरति | ततश्च [तथा च - K. ष्. ष्.] वह्न्याभास इन्धनकार्यत्बाभासेन धूमकारणताभासेन उष्णस्वभावताभासेन च स्वाभाविकाव्यभिचरितनियमः [स्वाभाविकाव्यभिचरितसाहचर्यः - K. ष्. ष्.] प्रतीयमानो विश्वत्रैव सर्वदैव च तथा प्रतीतो भवति - एकत्वात् तस्य | अस्वाभा - अत्र टीका - तत्र इति पदं व्याचष्टे प्रत्याभासं इति | अपि न कश्चिद्दोषः इति शेषत्वेनाध्याहृतम् | कथं न दोष इत्यपेक्षायाम् अविशिष्टे इत्यादि व्याख्यास्यन् समर्थनमुपक्रमते तथा हि इति | तथाहीत्यस्याकांक्षां पूरयति अविशिष्टः इति | अविशिष्टः - स्वलक्षणतामप्राप्तः | कुतोऽविशिष्ट इत्यपेक्षायां हेतुमाह देश इति | प्रमुख शब्देनाकारादिग्रहणम्, असंकीर्णत्वेन - अमिश्रत्वेन, स एवाभासः - वह्न्याभास एव, आभासैः - कार्यकारणतादिरूपैः, अविनाभूतः - व्याप्तः, तावतः - तान् समस्तान्, प्रमाणकृताम् - प्रमाणसंपादिताम्, निश्चयपदवीम् - प्रमाविषयताम्, अवतरति - अवगाहते, तादृक्स्वभावत्वात् इति भावः, फलितमाह ततश्च इति | ततश्च - तस्माद्धेतोश्च, वह्न्याभासः - वह्निरूपाभासः, बह्नेरिन्धनकार्यत्वम् इन्धनद्योत्यत्वकृतं ज्ञेयम् | स्वाभाविकः - स्वभावादागतः, अत एवाव्यभिचरितो नियमः यस्य सः - स्वाभाविकाव्यभिचरितनियमः, विश्वत्र - सर्वदेशेषु, सर्वदा - सर्वकालेषु, कुतः प्रतीतो भवति इत्यपेक्षायामाह एकत्वात् इति | विकोऽपि यः स्वभावः पुरुषकृतसमयादिमुखप्रेक्षी, तद्यथा - अग्निशब्दवाच्यत्वं घटप्रतिपत्तिकारित्वमित्येवमादिः, सोऽपि एकप्रत्यक्षादेवनिश्चीयते, तस्य हि प्रमातुः कृत्रिमेण इतरेण वा रूपेण आभासान्तरनान्तरीयकतया असौ वह्न्याभासः संविदितः सर्प्रथम इति | प्रथमकोटिसम्भावनाशुन्यम् - अनादि, कालिकाकारम् - मेघमालावदाकारयुक्तम्, यत्स्वप्रकाशावरणम् - आत्मप्रकाशावरणभूता मायाशक्तिः, तस्य यन्निराकरणम् - अपसारणम्, तस्य यानि मनोरथशतानि - कदैतदुपरंस्यति इत्येवंरूपाणि, तैः दुष्प्रापः | श्रीभगवत्तीव्रतरशक्तिपातं विना प्राप्तुमशक्य इत्यर्थः | इत्येवंप्रकारः - प्रोक्तप्रकाररूपः, अनुग्रहरूप इति यावत् | कथमा - कथमित्यव्ययेन | द्योतकनिपातसहितेन - चिच्छब्दमेलितेन, निरूपितः, सूचित इत्यर्थः | परनिष्ठार्थद्योतनमात्रपराणां निपातानां वाचकत्वाभावाद् द्योततकेत्युक्तम् | द्योतकसहितं कथमित्यव्ययमेव दर्शयति कथंचिदिति इति | ऽसंबन्धोऽतीव दुर्घटः ................|ऽ इति | ऽआसाद्यऽ इति आ समन्तात् परिपूर्णरूपतया सादयित्वा, स्वात्मोपभोगयोग्यतां निरर्गलां गमयित्वा; इयता विदित वेद्यत्वेन परार्थे शास्त्रकरणे अधिकारो दर्शितः; अन्यथा प्रतारकतामात्रमेव स्यात् | पौर्वकाल्येन सामनन्तर्यम् अत्र विवक्षितम् | अन्यथा तु वदेशकालगतः तथा [तथैव संविदितः - K. ष्. ष्.] संविदितः, इति तत्र किं प्रमाणान्तरेण | तस्य तस्य - वह्नेः, एकत्वात् - सामान्यद्वारेण सर्वेषु देशेषु कालेषु चैकतया स्थितत्वात् | एतेन पूर्वार्धव्याख्या संपन्ना | पूर्वार्धेन सह समस्ततया स्थितं तत्तत् इत्याद्युत्तरार्धगतं व्याख्यातुमाह अस्वाभाविकः इति | अस्वाभाविकः - पुरुषकृतसंकेतसिद्धत्वे-नागन्तुकः, स्वभावः - वह्निस्वरूपम्, कथमस्वाभाविकः इत्यत आह पुरुष इति | पुरुषेण - आदिपुरुषेण सामान्यपुरुषेण वा कृतो यः समयः अस्यायमर्थः इत्येवंरूपः संकेतः स आदिर्यस्य बृद्धव्यवहारादेस्तस्य मुखं प्रेक्षते इति तादृशः | कोऽसौ स्वभावः इत्यपेक्षायामाह तद्यथा इति | वह्नेः अग्निशब्दवाच्यत्वं हि पुरुषसमयसिद्धमेव, न सहजम् | आदिशब्दगृहीतं वस्तु कथयति घट इति | प्रदीपभावेन घटप्रकाशकत्वमित्यर्थः | तदपि हि वह्नौ न स्वाभाविकमपि तु नियतिशक्तिकृतत्वात् स्वरूपाद्व्यतिरिक्तमेव, कादाचित्कत्वात्, स्वरूपस्य [रूपस्य च सदा स्थितत्वात् - C.] च सदास्थितत्वात् | इत्येवमादिः - इत्यादिरूपः, आदिशब्देन गन्धरसशून्यत्वादेर्ग्रहणम् | सोअ.पि - यच्छब्दोक्तः सर्वः अस्वाभाविकः स्वभावोऽपि, एकप्रत्यक्षादेव - एकस्मात्प्रत्यक्ष-प्रमाणादेव | कुत इत्यपेक्षायां वाक्येन हेतुमाह तस्य इति | तस्य - वह्निग्राहकतया स्थितस्य, कृत्रिमेण पुरुषसमयमुखप्रेक्षिणा, इतरेण - अकृत्रिमेण रूपेण, उपलक्षितानि यानि आभासान्तराणि - वह्न्याभासादन्ये आभासाः सदाद्याभासास्तैर्या नान्तरीयकता - साहचर्यनियमो व्याप्तिरिति यावत्, तया संविदितः - प्रथमं सम्यग्ज्ञातो भवति, अतः सर्वदेशकालगतः स तथा संविदितः - आभासान्तरनान्तरी यकतया संविदितः स्यात्, इति किं तत्र प्रमाणासादनतारतम्यप्राप्तौ अलौकिकमर्थमुक्त्वा लौकिकमपि कथयति केनचित् इति | एवकारोन्ययोगव्यवच्छेदपरः | अत्रानुकूलं शास्त्रवाक्यमुदाहरति यथोक्तम् इति | संबन्धः - महाग्रोर्भक्तिकालितस्य शिष्यस्य च | आसाद्य इति पदं व्याख्यातुमुपन्यस्यति आसाद्य इति | अत्र प्रत्यक्षरम् व्याख्यां कर्तुमारभते आ समन्तात् इति | सदेः णिजन्तस्य क्त्वाप्रत्यये रूपम्, अस्य धातोरनेकार्थत्वेपि गमनमात्रमाश्रित्येयं व्याख्या | निरर्गला स्वात्मोपभोगयोग्यता तु कर्मत्वेनाक्षित्पा | फलितमाह इयता इति | इयता - आसाद्य इत्यनेन, विदितवेद्यत्वेन - ज्ञातज्ञेयत्वेन | परार्थे - परार्थम्, दशितः इति, स्वस्येति शेषः | तदभावे प्रवृत्तस्य दोषमाह अन्यथा इति | प्रतारकतामात्रम् - परवञ्चननिष्ठतामात्रम् | क्त्वाप्रत्ययेनोक्तस्य पूर्वकालस्याऽभिप्रायमाह पौर्वकाल्येन इति | पौर्वकाल्येन - पूर्वकालतया | सामनन्तर्यम् - दास्यासादनप्रत्यभिज्ञाशास्त्रोप - पादनयोर्मध्ये व्यवधानराहित्यम् | अन्यथा इति | सामनन्तर्याभावे इत्यर्थः | तारतम्यप्राप्तौ - पराकाष्ठायां सत्याम् | तारतम्यंप्राप्तिर्हि तारतम्यस्यावसाने संभवति, अन्यथा तस्य यथोत्तरं स्थितस्य का प्राप्तिः | तारतम्यावसानमेव च तार्तम्यपराकाष्ठा | कथं शक्यक्रियः - कथं कर्तुं शक्यः | इयं ज्ञानकला राम सकृज्जाताभिवर्धते | इति न्यायेन परतत्त्वे लयासादनेन कर्तुमशक्य इत्यर्थः | यद्यपि देहस्थितिं तावत्संस्कारस्य स्थितिर्युक्तैवाऽन्यथा तत्पाताऽऽपातात्, तथापि शिष्यबोधनार्थमेवमुक्तम् | संस्कारनाशे तु विदेहमुक्तिसमयभाविनि न परस्तिष्ठति, नापि तस्य करणीये उपदेशे शक्तिः | मायीयमलकलापसंस्कारप्रक्षये कथं परोपदेशः शक्यक्रियः | संभवन्ति हि मायागर्भाधिकारिणो विष्णुविरिंचाद्याः, तदुत्तिर्णा अपि महामायाधिकृताः शुद्धाशुधा मन्त्र - तदीश - तन्महेशात्मानः; शुद्धा अपि श्रीसदाशिवप्रभृतयः | ते तु यदीयैश्वर्यविप्रुड्भिरीश्वरीभूताः स भगवान् अन्वच्छिन्न प्रकाशानन्दरूपस्वातन्त्र्यपरमार्थो [अनवच्छिन्न प्रकाशानन्दस्वातन्त्र्य - K. ष्. ष्.] महेश्वरः, तस्य ऽदास्यम्ऽ इत्यनेन तत्प्रत्यभिज्ञोपपादनस्य महाफलत्वम् आसूत्रयति | दीयते अस्मै स्वामिना सर्वं यथाभिलषितम् इति दासः, तस्य भाव इत्यनेन परमेश्वररूपस्वातन्त्र्यपात्रता उक्ता | ऽजनस्यऽ इति, यः कश्चित् जायमानः तस्य, इत्यनेन अधिकारिविषयो नात्र कश्चिन्नियम इति दर्शयति, यस्य यस्य हि इदं स्वरूपप्रथनं तस्य तस्य महाफलम्, संस्कारं तावत्तु जीवन्मुक्तेषु भेदगलनेऽपि परोपि तिष्ठति, करणीये तदुपदेशे शक्तिरपीति संस्कारपदपरपदशक्यपदानां ग्रहणम् | संस्कार प्रक्षये इति तु लेखककृतोऽपपाठ एव | येषां महापण्डितानां बुद्धावयमेव पाठः प्रशस्ततया स्फुरति तेभ्यो नम एवेत्यलम् | महेश्वरस्य इत् पदं व्याचष्टे संभवन्ति इति | संभवक्रियाकर्तृत्वं भजन्ति | मायागर्भेऽधिकारिणः, अशुद्धतारूपभेदप्रधानत्वात् | महामाया - शुद्धविद्या | शुद्धाशुद्धाः, भेदाभेदप्रधानत्वात्, विप्रुड्भिः - लेशैः | ईश्वरीभूताः - अनीश्वराः सन्तः ईश्वराः सम्पन्नाः | अनवच्छिन्नः - विषयेण परिच्छिन्नतामनीतः, यः प्रकाशानन्दः - प्रकाशरूपः आनन्दः, तद्रूपम् - लक्षणया तत्परामर्शरूपम्, यत्स्वातन्त्र्यं तदेव परमार्थः - स्वभावमवभासस्य इति वक्ष्यमाणनीत्या सहजः स्वभावो यस्य तादृशः | एतेनास्य भगवतः परमत्वे हेतुरुक्तः | तस्य - परमेश्वरस्य, दास्यम् - दासभावम् आसाद्य इत्यस्य कर्मतया स्थितम् | इति शब्दः स्वरूपनिर्देशार्थः | उपपादनस्य - संपादनस्य | महाफलत्वम् - महाफलभावम् | दास्यासादनं प्रतीति शेषः | दास्यपदावयवार्थमाह दीयते इति | अनेन - तद्धितान्तदास्यपदेन | पारमेश्वर स्वातन्त्र्यस्यैव सर्वत्वादिति भावः | प्रथनस्यैव परमार्थफलत्वात्, तस्य च प्रतिबन्धकसंमतैरप्रति - बन्धनीयत्वात्, न हि प्रथितमप्रथितमिति न्यायात् | तदुक्तम् :- जनस्य इति पदेन सूचनीयं वस्तु प्रकटयति यः कश्चिज्जायमानः इति | तदुक्तम् :- अहो महदिदं कर्म देव त्वद्भावनात्मकम् | आब्रह्मकृमि यस्मिन्नो मुक्तयेधिक्रियेत कः || इति अधिकारिनियमनिषेधश्चात्र वर्णविभागमपेक्ष्य कृतः | यथा वेदान्तेषूपनीतस्य त्रैवर्णिकस्यैवाधिकारस्तथा नेहेति | न मे प्रियश्चतुर्वेदो मद्भक्तः श्वपचोपि वा | तस्मै देयं ततो ग्राह्यम् इति | न तु सर्वथा, अग्रे जननमरणपीडितस्येत्यनेन वैराग्यस्याधिकारिलक्षणत्वेन सूचयिष्यमाणत्वात् | परमार्थविचारे तु वेदान्तेष्वपि वैराग्ययुक्तस्यैवाधिकारित्वम् | तद्रहितो हि ब्राह्मणोपि श्राम्यमाणः पशुतुल्य एव, तत्सहितस्तु शूद्रादिरपि यथा तथा तच्छ्रवणफलभागी दृश्यत इत्यलं बहुना | अत्र हेतुं वाक्येनाह यस्य यस्य इति यस्य यस्य - ब्राह्मणादेः शूद्रादेर्वा, इदम् - प्रत्यभिज्ञारूपम् | स्वरूपप्रथनम् - महेश्वररूप - स्वात्म - स्फुरणम् | महाफलम् समस्तसम्पत्समवाप्तिरूपफलयुक्त - दास्यासादनरूपं श्रेष्ठफलम् | यद्यपि समस्तसम्पत् - समवाप्त्यपेक्षयाऽवान्तरफलत्वमेवास्य तथाप्यन्यफलापेक्षया महत्त्वमेव | अत्रापि पञ्चम्यन्तं हेतुमाह प्रथनस्यैव इत्यादि | ननु यदि तस्य कालेन प्रतिबन्धः स्यात् तर्हि न महाफलत्वमित्यपेक्षायामाह तस्य च इति | तस्य च प्रतिबन्धकसंमतैः - प्रतिबन्धकत्वेन मतैः अनभ्यासादिभिः, अप्रतिबन्धनीयत्वात् - प्रतिबन्धविषयीकर्तुमशक्यत्वात् | अत्र पूर्वाचार्योक्तं न्यायं हेतुत्वेनाह न हि इति | अन्यथाऽग्निरपि कदाचिदनग्निर्भवेत् स्फुरणमात्रस्यैव परमार्थः स्वरूपत्वादिति हेत्वभिप्रायः | ऽनेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||ऽ इति | परमगुरुपादैरपि शिवदृष्टौ :- ऽएकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः | ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना || करणेन नास्ति कृत्यं क्वापि भावनयापि वा | सकृज्ज्ञाते सुवर्णे किं सत्यता [भावनाकरणादिना - K. ष्. ष्.] करणादिना || सर्वदा पितृमात्रादि तुल्यदार्ढ्येन सत्यता |ऽ अत्र श्रीगीतावाक्यमप्युदाहरति नेहाभिक्रम इति | अभिक्रमनाशः - आरम्भनाशः | श्रीसोमानन्दवाक्यमप्युदाहरति परमगुरुपादैरपि इति | शिवदृष्टौ - तत्कृते शिवदृष्ट्याख्ये शास्त्रे, उक्तमिति पूर्वेण संबन्धः | किमुक्तमित्यपेक्षायामाह एकवारम् इति | शिवत्वे - स्वात्मनिष्ठे शिवभावे | करणेन - आसनबन्धेन, दिव्यकरणेन वा | भावनया - परामर्शेन | कथं न कृत्यमस्तीत्यपेक्षायामाह सकृत् इति | सकृत् - एकवारम्, ज्ञाते - सम्यक् परीक्षिते सति, सुवर्णे - कनके | करणादिना - निकषघर्षणादिना, किं सत्यता - सत्यसूवर्णत्वं भवति | प्रथमेव निर्णीतत्वात् न भवतीत्यर्थः | कीदृशेन करणादिना ? सर्वदा - सर्वकालम्, पितृमात्रादिभिः तुल्यम् - सदृशम्, दार्ढ्यम् - दृढता यस्मिंस्तादृशेन, सेवितेनेत्यर्थः | श्रीवसिष्ठेनाप्युक्तम् :- इयं ज्ञानकला राम सकृज्ज्ञाताभिवर्धते इति | इति | ऽजनस्यऽ अनवरतजननमरणपीडितस्य इत्यनेन कृपास्पदतया उपकरणीयत्वमाह | अपिशब्दः स्वात्मनः तदभिन्नताम् अविष्कुर्वन् पूर्णत्वेन स्वात्मनि परार्थसंपत्त्यतिरिक्तप्रयोजनान्तरावकाशं पराकरोति | परार्थश्च प्रयोजनं भवत्येव तल्लक्षणत्वात्, [तल्लक्षणयोगात् - K. ष्. ष्.] न हि अयं दैवशापः स्वार्थ एव प्रयोजनं न परार्थ इति; तस्यापि अतल्लक्षणत्वे [अतल्लक्षणयोगित्वे - K. ष्. ष्.] सति अप्रयोजनत्वात्; संपाद्यत्वेन अभिसंहितं यत् मुख्यतया तत एव क्रियासु प्रयोजकं तत्प्रयोजनम् | अत एव भेदवादेऽपि ईश्वरस्य सृष्ट्यादिकरणे परार्थ एव प्रयोजनम् इति दर्शयितुं न्यायनिर्माणवेधसा निरूपितम् :- ऽयमर्थमधिकृत्य पुरुषः प्रवर्तते तत् प्रयोजनम्ऽ जनस्य इति पदं व्याचष्टे अनवरत इति | कृपास्पदतया - कृपाविषयतया | श्लोकस्थस्य अपि शब्दस्याभिप्रायमाह अपिशब्दः इति | तदभिन्नताम् - उपकरणीयैस्सह स्वस्याभेदम्, एतेनापिशब्दः अपूर्वार्थसंभावनपर इति सूचितम् | न च वाच्यमेतदभिन्नत्वेन तस्याप्येतत्सिद्धम् इति | एतस्य तदैक्यज्ञानेपि तस्यैतदैक्यज्ञानाभावात् स्थिताया अप्येतत्सिद्धेरसत्कल्पत्वात् | ननु कथं परार्थस्य प्रयोजनत्वं युक्तमित्यपेक्षायामाह परार्थश्च इति | तल्लक्षणत्वात् - यमर्थम् इत्यादिप्रयोजनलक्षणयुक्तत्वात् तस्यापि - स्वार्थस्यापि | अतल्लक्षणत्वे - प्रयोजनलक्षणरहितत्वे | ननु किं तत्प्रयोजनलक्षणमित्यपेक्षायामाह ऽसंपाद्यत्वेनऽ इति | संपाद्यत्वेन - साध्यत्वेन अभिसंहितम् - चित्तेऽनुसन्धानविषयीकृतम् | प्रयोजकम् - प्रेरकम् | कदाचिद्धि पुरुषस्य परार्थोपि संपाद्यत्वेनाभिसंहितः प्रयोजकश्च भव्तीति भावः | अत्र तर्कमतं सहायीकरोति अत एव इति | न्यायस्य - सूत्रसन्दर्भरूपस्य न्यायशास्त्रस्य, निर्माणे वेधसा - ब्रह्मणा, अक्षपादेनेत्यर्थः | किं निरूपितमित्यपेक्षायां तदीयं सूत्रमुदाहरति यम् इति | इति | ऽइच्छन्ऽ इति इच्छाविषयीकृतस्य फलस्य प्रवृत्तौ हेतुत्वं शत्रा दर्ऽसयति | इच्छाशक्तिश्च उत्तरोत्तरम् उच्छूनस्वभावतया क्रियाशक्तिपर्यन्तीभवति - इति दर्शयिष्यामः | उपशब्दः समीपार्थः, तेन जनस्य परमेश्वरधर्मसमीपताकरणम् अत्र फलम् | अत [तत एवाह - K. ष्. ष्.] एवाह ऽसमस्तऽ इति | परमेश्वरतालाभे हि समस्ताः संपदः तन्निःष्यन्दमययः संपन्ना एव, रोहण लाभे रत्नसंपद इव | प्रमुषितस्वात्मपरमार्थस्य हि किम् अन्येन लब्धेन, अधिकृत्य - अधिकारविषयतां नीत्वा, आरभ्येति यावत् | यथा तर्कमते ईश्वरस्य सृष्टौ परार्थैव प्रवृत्तिः तथा ममापीहेति भावः इच्छन् इति पदं व्याख्यातुमुपन्यस्यति इच्छन् इति | फलस्य - उपकारस्य | शत्रा - शतृप्रत्ययेन, तस्य हेतावपि प्रयोगात् | नन्विच्छामात्रेण किं सेत्स्यतीत्यत्राह इच्छाशक्तिश्च इति | बहिरपीच्छापूर्वैव सर्वा क्रियेति भावः | इषिक्रियायाः कर्मत्वेन स्थितम् उपकार पदं व्याचष्टे उपशब्दः इत्यादि | कारशब्दस्य करणार्थः प्रसिद्धेर्नोक्तः | फलितमाह तेन इति | तथा च दासेतिपदवाच्यं तादात्म्यमुपकारार्थः | दासपदव्याख्यायां हि सर्वं देयत्वेनोक्तम् | सर्वं च परमार्थतः ऐक्यरूपं परमेश्वरतादात्म्यमेव | एतदवलम्बेन समस्त इति पद व्याख्यातुमुपन्यस्यति अत एवाह समस्त इति | अत एव, यतः उपकारपदस्य परमेश्वरपूर्णत्वादिधर्मसमीपकरणमर्थः ततः कारणादेवेत्यर्थः | अत्र हेतुमाह परमेश्वरता इति | तन्निष्यन्दमययः - परमेश्वरताप्रवाह रूपाः, तत्तरंगभूता इति यावत् | समस्ताः - पूर्णतादिरूपाः सर्वाः | रोहणलाभे - रत्नाचललाभे सुमेरुलाभे वा | ननु तल्लाभे किमन्यलाभापेक्षा न भवेदित्याशंक्याह प्रमुषित इति | प्रमुषितः - मायाशक्तिवशेन विस्मृतिं गतः, स्वात्मा एव - प्रकाशरूपः भावनिर्भरश्च परमेश्वररूपः निजात्मैव, परमार्थः - उत्कृष्टवस्तु, यस्य तादृशः तस्य, अन्येन - अणिमादिनाऽष्टधैश्वर्येण | न हि लब्धतत्परमार्थस्यापि तदन्यत् नास्ति यद् वाञ्छनीयम् | यदुक्तं ग्रन्थकृतैव :- ऽभक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् | एनया वा दरिद्राणां किमन्यदुपयाचितम् ||ऽ इत्येवं [इति | एवम् - K. ष्. ष्.] षष्ठोसमासेन प्रयोजनमुक्तम्, बहुव्रीहिणा तु उपायः सूच्यते | ऽसमस्तस्यऽ भावाभवरूपस्य बाह्याभ्यन्तरस्य नीलसुखादेः या ऽसंपत्ऽ संपत्तिः सिद्धिः तथात्वप्रकाशः, तस्याः सम्यक् ऽअवाप्तिःऽ विमर्शरूढिः, सैव ऽहेतुःऽ यस्यां तत्प्रत्यभिज्ञायाम्, तथा हि स्फुटतरभासमाननीलसुखा - प्रमुषितरत्नजातस्य वराटिकायां स्पृहा दृश्यते इति भावः | ननु तर्हि तत्प्राप्त्यनन्तरमन्यलाभापेक्षा भवेदेवेत्याशक्याह लब्धः इति | लब्धः सः - स्वात्मरूपः परमार्थो येन तस्य | अत्र ग्रन्थकृतः पद्यमुदांहरति यदुक्तम् इति | ननु किमुक्तमित्यपेक्षायामाह भक्ति इति | भक्तिः - परमेश्वररूपस्वात्मविषया न त्वन्यदेवताविषया | एनया - भक्त्या | नन्वयमर्थः समस्तेत्यादिपदात्कथं निर्गच्छतीत्यपेक्षायामाह इत्येवम् इति | षष्ठीसमासेन - समस्तसम्पत्समवाप्तेः हेतुः तमित्येवंरूपेण, प्रयोजनम् - समस्तसम्पत्समवाप्तिरूपम् | एतेन दास्योपकारपदयोर्विशेषणत्वमस्य पदस्योक्तम् | नन्वस्य पदस्य किमयमेव समास उत अन्योपीत्यत्राह बहुव्रीहिणा इति | उपायः, प्रत्यभिज्ञाया इति शेषः | प्रत्यभिज्ञारूपान्यपदार्थप्रधानं बहुव्रीहिमेव विग्रहद्वारेण दर्शयति समस्त इति | तथात्वेन - नीलसुखादिभावेन, प्रकाशः - भानम्, प्रमेत्यर्थः | एतेनास्य पदस्य प्रत्यभिज्ञाविशेषणत्वं कथितम् | ननु कथं नीलसुखादिप्रमा प्रत्यभिज्ञाकारणमित्यपेक्षायामाह तथा हि इति | स्फुटतरं भासमानाः ये नीलसुखादयस्तेषां प्रमायाः अन्वेषणेन - किंमूला इति विचारणेन, बाह्यप्रमाविचारे हि क्रियमाणे तन्मूलभूतस्य परप्रमातुः प्राप्तिरयत्नं सिद्ध्यति घटान्वेषणेनेव मृद इति भावः | आह इति | उत्पलदेव इति शेषः | अन्यत्र - अन्यग्रंथे | ननु किमाहेत्य - दिप्रमान्वेषणद्वारेणैव पारमार्थिकप्रमातृलाभ इह उपदिश्यते | यदाह अन्यत्र:- ऽइदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ||ऽ इति | तथा तत्रैव:- ऽप्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः | उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः | स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च |ऽ इति | इयता च उपाये अतिदुर्घटत्वाशङ्का पराकृता | यदन्ते निरूपयिष्यति :- त्राह इदम् इति | सोऽहमिति विमर्शः - पराहन्तापरामर्शः भवति | सः कः ? येदमित्यस्य विच्छिन्नविमर्शस्य - नीलसुखादिविषयायाः प्रमायाः | कृतार्थता - कृतकार्यतारूपा | स्वस्वरूपे - परप्रमातरि | विश्रान्तिः - लयः भवति | प्रमाता हि नीलसुखादि स्वात्मनि लयीकरोत्येव, अन्यथा तृप्त्ययोगात्, तृप्तिरेव च प्रमायाः प्रमातरि विश्रान्तिः, स एव च परप्रमातृलाभः | न चैतच्छ्रुत्वा नीलसुखादिविवशैरपि परमात्मप्राप्त्यभिमानः कार्यः, बाह्यान्तरभावविरक्तेष्वहमित्यात्म - परामर्शैकनिष्ठेषु देहस्थितिं तावत् अवश्यकर्तव्ये व्यवहारेपि ते आत्मनिष्था एव यथा स्युः इत्येवमर्थमस्योपदेशस्य स्थितत्वात् | नीलसुखादिविवशत्वाविवशत्वयोः स्वमन एव साक्षीकार्यम्, अन्यथा स्ववञ्चकत्वापत्तेरित्यलम् | अन्यदपि पद्यमत्रोदाहरति तथा इति | तथा शब्दः समुच्चये | प्रकाशस्य - नीलसुकादिप्रमायाः | सर्वापेक्षानिरोधतः, तृप्तिकृतायाः अपेक्षाभावरूपायाः सर्वत्रोपेक्षाया हेतोरित्यर्थः विश्रान्तिः का ? स्वातन्त्र्यम् इत्यादि | नन्वियता किं संपन्नमित्यपेक्षायामाह इयता इति | इयता - समस्तसम्पत्समवाप्तेः प्रत्यभिज्ञाहेतुत्वकथनेन, उपाये - प्रत्यभिज्ञोपाये | नहि ऽसुघट एष मार्गो नवःऽ (४ अ. ३ आ. १६ श्लो.) इति | ऽतस्यऽ महेश्वरस्य ऽप्रत्यभिज्ञाऽ प्रतीपमात्माभिमुख्येन ज्ञानं प्रकशः प्रत्यभिज्ञा | प्रतीपम् इति - स्वात्मावभासो हि न अननुभूतपूर्वोऽविच्छिन्नप्रकाशत्वात् तस्य, स तु तच्छक्त्यैव विच्छ्न्न इव विकल्पित इव लक्ष्यते - इति वक्ष्यते | प्रत्यभिज्ञा च - भातभासमानरूपानु - संधानात्मिका, नीलसुखादिप्रमान्वेषणं दुर्घटमिति भावः | अत्र ग्रन्थकृतोत्रत्यं पद्यमुदाहरति यत् इति | अन्त प्रत्यभिज्ञाशास्त्रान्ते | मार्गः - उपायः पूर्वैरनुक्तः, तैरान्तरपरामर्शस्यैवोपायत्वकथनात् | तत्प्रत्यभिज्ञा इति व्याचष्टे तस्य इत्यादिना | व्यवहितत्वेपि मुख्यत्वेन महेश्वरस्य तच्छब्देन परामर्शः | प्रत्यभिज्ञा इति भागं व्याचष्टे प्रति इति | प्रतिशब्दस्य प्रतीपमित्यर्थः | अभिशब्दस्याऽऽभिमुख्यम् | ज्ञाशब्दस्य ज्ञानम् | तेन पूर्वं ज्ञातस्य मध्ये विस्मृतस्य पुनराभिमुख्येन ज्ञानं प्रत्यभिज्ञेति | यथा सोयं देवदत्त इति | ननु कथमज्ञातपूर्वे परमेश्वरे प्रत्यभिज्ञा युक्तेत्यपेक्षायां प्रतीपम् इति पदस्य हेतुदानेन निराकरोति प्रतीपम् इति | अत्र हेतुमाह अविच्छिन्न इति | ननु तर्हि कथमज्ञत्वावस्थायां विच्छिन्न इव दृश्यते इत्यत्राह स तु इति | सः - आत्मप्रकाशः | तच्छक्त्या - तत्संबन्धिन्या मायाशक्त्या | तेनैव कृतस्य तदवच्छेदस्य सत्यतयाऽवच्छेदत्वं नास्तीति इव शब्दप्रयोगः | एवमवयवार्थमुक्त्वा ये द्वे [च ये द्वे रूपे प्रत्यभिज्ञामनुकृत्य - C.] रूपे प्रत्यभिज्ञायां ते अनुकृत्य दर्शयति भात इति | पूर्वं भातमद्य भासमानं तयोर्यदनुसन्धानम् - एकीकरणम्, तदात्मा यस्याः तादृशी | प्रतिशब्दस्यार्थः अनुसन्धानम्, स एव प्रतीपमित्यस्यापीति पूर्वापरविरोधो न शंकनीयः | पूर्वमुक्तस्यावयवार्थस्य पुनः कथनमज्ञजनकृपाहेतुकं ज्ञेयम् | समुच्चयेन लोके शास्त्रे च सिद्धं प्रत्यभिज्ञाव्यवहारं स एवायं चैत्र - इति प्रतिसंधानेन अभिमुखीभूते वस्तुनि ज्ञानम्; लोकेऽपि एतत्पुत्र एवंगुण एवंरूपक इत्येवं वा, अन्ततोऽपि सामान्यात्मना वा ज्ञातस्य पुनरभिमुखीभावावसरे प्रतिसंधिप्राणितमेव [प्रतिसंधितप्राणितम् - K. ष्. ष्.] ज्ञानं प्रत्यभिज्ञा - इति व्यवह्रियते; नृपं प्रति प्रत्यभिज्ञापितोऽयम् - इत्यादौ | इहापि दर्शयति लोकेपि च इति | अन्ततः, विशेषेणेत्यर्थः | एतत्पुत्रः इत्यादिना ज्ञानस्य विशेषनिठित्वं स्फुटीकरोति | सामान्यात्मना वा - कोप्ययमित्यंनेन रूपेण | विकल्पद्वयेपि ऽवाऽ शब्दः प्राधान्यद्योतनार्थः | ज्ञातस्य, पूर्वमित्यर्थः | पुनः, वर्तमानकाले इत्यर्थः | प्रतिसन्धिना - सोयमिति एकीकरणेन, प्राणितम् - सत्तायुक्तं कृतम् | ननु कुत्रायं व्यवहार इत्यत्राह नृपम् [नृपतिम् - K. ष्. ष्.] इति | नृपं प्रति - नृपे, प्रत्यभिज्ञापितः - निवेदितः, मन्त्रिभिरिति शेषः | अयं भावः | पूर्वं राज्ञा एतत्पुत्र एवंगुणक एवं रूपक इति विशेषेण वा, कोप्ययम् इति सामान्यात्मना वा ज्ञातः पुरुषो मध्ये विस्मृतः सन् पुना राज्ञः समीपं गतस्तेन कोयमिति पृष्टस्तत्र मन्त्रिणस्तस्य राज्ञस्तद्विषयां प्रत्यभिज्ञामुत्पादयन्ति सोयमिति | ततो राजा चोद्वुद्धसंस्कारः स्वयमपि प्रत्यभिजानाति सोयमिति | तत्र प्रत्यभिज्ञातोऽयमिति व्यवहार इति | ऽइत्यादिऽ शब्देनान्येषां लौकिकव्यवहाराणां ग्रहणम् | दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह इहापि इति | ऽअपिऽ शब्दः समुच्चये | अभिमुखीभूते इत्यत्र सर्वदेति शेषः | न हि मूर्च्छाकालेपि कस्यापि स्वात्मानभिमुखीभूतो युक्तः | तदौन्मुख्यं विना तदवस्थाग्रहणासंभवात् | [तदौन्मुख्यं विना तदवस्थाग्रहणासंभवेन तत्स्मृत्या एकीकरणेन ज्ञानं प्रत्यभिज्ञा - C.] तत्पतिसंधानेन - तत्स्मृत्या एकीकरणेन | ज्ञातम् - प्रत्यभिज्ञा | तदेवानुकृत्य दर्शयति नूनम् इति | नूनम् - निश्चये, स एवेश्वरोऽहम् | दृष्टान्तदार्ष्टान्तिकयोस्त्वयं विशेषः दृष्टान्ते सणिच्प्रयोगो व्यवहारो दर्शितः, जनसंबन्धिन्या राजनि प्रत्यभिज्ञाया लोकेऽत्यन्तमभीष्टत्वात् | दार्ष्टान्तिके तु तद्रहित एव प्रयोगः स्व - प्रसिद्धपुराणसिद्धान्तागमानुमानादि - विदितपूर्णशक्तिस्वभावे ईश्वरे सति स्वात्मन्यभिमुखीभूतेतत्प्रतिसंधानेन ज्ञानम् उदेति, नूनं स एव ईश्वरोऽहम् इति | तामेनाम् ऽउपपादयामिऽ इति | उपपत्तिः संभवः, तां संभवन्तीं तत्समर्थाचरणेन प्रयोजकव्यापारेण संपादयामि | तथा हि - संभवति तावद् असौ, अविच्छिन्नप्रकाशत्वात्; निरोधकाभिमतमाया - शक्तिसमपसारणमात्रमेव तु तत्र उपपादनम् | प्रत्यभिज्ञोपपत्तौ स्वपरविभागाभावे तदपेक्षं कर्त्रभिप्रायादि असंभाव्यम् इति परस्मैपदप्रयोगः | इत्थं च अत्र श्लोके संबन्धिन्याः स्वस्मिन् प्रत्यभिज्ञाया इष्टत्वात्, इति | लोकेपि सोयमिति प्रत्यभिज्ञात इति, शास्त्रेपि गुरुणा ईश्वरोहमिति प्रत्यभिज्ञापित इति व्यवहारः संभवत्येवेति नान्यथा भ्रमितव्यम्, केवलमिष्टत्वमात्रमाश्रित्य स्तोकं दृष्टान्तदार्ष्टान्तिकयोर्विशेषः कृत इत्यलम् | उपपादयामि इत्यस्य व्याख्यां करोति ताम् इति | उपपूर्वस्य णिजन्तस्य पदेर्लटि रूपम् | संभवः इति | उपपूर्वस्य पदेर्वाच्योर्थ उक्तः | ताम् - प्रत्यभिज्ञाम्, स्वयमिति शेषः | णिचाऽर्थं कथयति तत्समर्थ इति | तस्मिन् - संभवे, समर्थाचरणम्, प्रेषणमिति यावत्, तेन | प्रयोजकः - अत्राहम् उत्पलदेवः, तस्य व्यापारेण - व्यापारभूतेन, सम्पादयामि, स्वव्यापारेण प्रेषणरूपेण तां संभवन्तीं संभावयामीत्यर्थः | अन्यथा शशशृङ्गस्यापि संभावनप्रसंगात् | ननु कथमसौ संभवतीत्यत्राह तथा हि इति | अविच्छिन्नप्रकाशत्वं चास्याः तद्रूपात्मविषयत्वेन ज्ञेयम् | विषयविषयिणोर्हि ऐक्यं स्वयमेव कथयिष्यति | ननु यद्यसौ संभवति तर्हि त्वं किंप्रवृत्त इत्यत्राह निरोधक इति | निरोधकाभिमता - आवृतिकारित्वेनाभिमता, समपसारणम् - दूरीकरणम् | न हि वातेनापसारितमेघावरणः सूर्यस्तदुत्पादित इति कथ्यते इति भावः | परस्मैपदप्रयोजनं कथयति प्रत्यभिज्ञा इति | कर्त्रभिप्रायादि, मुख्यकर्तुरिष्टत्वादिति | ऽआदिऽ शब्देनान्येषामात्मने - पदनिमित्तानां ग्रहणम् | असंभाव्यम् सर्वतरैक्यदर्शनात् संभावयितुमशक्यमित्यर्थः | परस्मैपद प्रयोगः इति, शेषात्कर्तरि योजना, - महेश्वरस्य दास्यं समस्तसंपल्लाभहेतुं कथंचित् आसाद्य, जनस्यापि कथंचित् तत्प्रत्यभिज्ञाम् आसाद्य प्रापयय, उपाकारं समस्तसंपल्लाभहेतुभूतं महेश्वरदास्यात्मकम् इच्छन्, तामेव समस्तसंपत्समवाप्तिहेतुकां तत्प्रत्यभिज्ञाम् उपपादयामि | ऽआसाद्यऽ इति आवृत्तियोजने द्वौ णिचौ | इयति च व्याख्याने वृत्तिकृता भरो न क्र्तः, तात्पर्यव्याख्यानात् | यदुक्तम् :- ऽसंवृतसौत्रनिर्देशविवृतिमात्रव्यापारायाम् |ऽ इति | टिकाकारेणापि वृत्तिमात्रं व्याख्यातुमुद्यतेन नेदं स्पृष्टम्, अस्माकं तु सूत्रव्याख्यान एव उद्यम - इति विभज्य व्याख्यातम् | एवं सर्वत्र | इति शेषशब्दाक्षिप्त इति भावः | इत्थं प्रतिपदं व्याख्यां कृत्वा योजनां कर्तुमारभते इत्थं च इति | नन्वासाद्येत्यस्य कथं प्रापययेत्यस्य पर्यायत्वं युक्तमित्याशंक्याह आसाद्य इति | आवृत्या - आवर्तनेन, योजने - प्रत्यभिज्ञाख्यकर्मसम्बन्धे, इति भावस्तु | णेरनिटि इति द्वयोरपि णिचोर्लुप्तत्वादिति हेतुरूपः | ननु वृत्त्यादिषु एतावान् प्रपंचो न दृश्यते इत्यत आह इयति इति | भरः - प्रयत्नः | संवृतः - गूढतात्पर्यः यः सौत्र - निर्देशः तस्य यत् विवृतिमात्रम् - तात्पर्यप्रकटनमात्रं तत्र व्यापारः यस्या वृत्तेः तादृश्याम् | न स्पृष्टम् इति, व्याख्यानस्य का कथेति भावः | तेषां बुद्धिरेव नात्र व्यापृतेति सूचितार्थः | एवं सर्वत्र इति, सर्वेष्वेव सूत्रेष्वयं न्याय इत्यर्थः | उपसंहारं करोति एवम् इति | गुरुपर्वक्रमः संबन्धः - गुरुपरंपरासंप्रदायरूपः संबन्धः | अनेनास्योपदेशस्य महागुरुप्रसिद्धत्वमेव मूलत्वेन सूचितम् | नचैतावताऽनुपादेयताशंका कार्या, महारहस्यत्वेन परमोपादेयत्वात् | महारहस्योपदेशा हि कर्णोपकर्णिकयैवागताः | परन्तु कैश्चित्कारुणिकैर्महारहस्यशास्त्रेषूपनिबद्धास्तथापि ते रहस्यत्वेनैव स्थिताः | तज्ज्ञानामपि तत्रानादृतिदर्शनात् | तदुक्तम्:- प्रसिद्धिरविगीता हि सत्या वागीश्वरी मता इति | एवमनेन श्लोकेन अभिधेयम्, प्रयोजनम्, तत्प्रयोजनम्, तत्प्रयोजनम्, अधिकारिनिरूपणम्, गुरुपर्वक्रमः संबन्ध - इति दर्शितम् | तथा हि - समस्तसंपल्लक्षणो व्याख्यातो योऽर्थः पूर्वं पुण्यपापादौ संसारमूलकारणे हेतुः, स एव प्रत्यभिज्ञायते अनया - इति करणव्युत्पत्त्या उपायः इह लोकोत्तरमार्गं प्रति निर्णीतः, इति अतिदुर्थटकारित्वलक्षणमैश्वर्यम् मार्गो नव (४ अ. ३ आ. १६ श्लो) अविगीतेति पदेनात्र सामान्यजनप्रसिद्धिर्निवारिता | अत एवात्र श्रुतिप्रमाणं प्रार्थयतां प्रौढमेव | कृतश्चात्र पूर्वं भर इति न पुनरायस्यते | कथं दर्शितमित्यत आह तथा हि इति | आचार्येण कर्त्रा | उपायः - समस्तसंपत्समवाप्तिर्हेतुः यस्यां सा तामिति बहुव्रीहिणा उक्तः नीलसुखादिसिद्धिरूपः प्रत्यभिज्ञोपाअयः कर्म, आभिधेयत्वेन - अयमेवेहाभिधेय इत्येवंभावेन, दर्शितः - साक्षात्कथितः | कया कृत्वा? पूर्वम् - संसार्यवस्थायाम् | संसारमूलकारणे पुण्यपापादौ हेतुः - हेतुभूतः | समस्तसंपल्लक्षणः - नीलसुखादिसर्वसंपत्स्वरूपः, योऽर्थो व्याख्यातः - समनन्तरं बहुव्रीहिमाश्रित्य प्रत्यभिज्ञोपाअयतया विवृतः, स एव प्रत्यभिज्ञायते - उपायभावेन जनविषये प्रत्यभिज्ञापदं प्राप्यते, अनया - अनेन शास्त्रेण, इति करणव्युत्पत्त्या - करणार्थघटनासाधनेन | प्रत्यभिज्ञायाः ह्येतावानेवातिशयः | संसारमूलकारणे पुण्यपापादिहेतुभूते नीलसुखादौ एव ययोपायतां [यथोपयताम् - C.] तद्विषयप्रमान्वेषणद्वारेणजनः प्रत्यभिजानाति, यः पुण्यपापहेतुत्वेन मम पूर्वं प्रसिद्धः नीलसुखादिर्भावः स एव मोक्षसाधनमिति | अन्यथास्याः व्यर्थत्वमेव स्यात् | तदुक्तम्:- इति शास्त्रान्ते निरूपयिष्यमाणं सूचयता उपायः दर्शितः [प्रदर्शितः - K. ष्. ष्.] अभिधेयत्वेन | अत एव ऽतथा हि जडभूतानाम्ऽ (१ अ. १ आ. ४ श्लो) इत्युपक्रमपूर्वकं [उपक्रमपूर्वम् - K. ष्. ष्.] श्लोकान्तरं भविष्यति | प्रयोजनं च प्रत्यभिज्ञोपायज्ञानम्, तस्य प्रयोजनम् प्रत्यभिज्ञानम्, तस्यापि प्रयोजनं समस्तसंपल्लक्षणपारमैश्वर्यैकरूपप्रथनम्, ये नैव मुह्यति जडः प्राज्ञस्तरति तेनैव संसारात् इति | एतेन श्लोके तच्छब्देन समस्तसंपदिति भागस्यैव परामर्शः न महेश्वरस्येति दर्शितम् | आचार्येण कीदृशेन ? शास्त्रान्ते - प्रत्यभिज्ञान्ते, मार्गो नव इत्यनेनार्याभागेन | निरूपयिष्यमाणम् अतिदुर्घटकारित्वलक्षणम् - नवोपायीभूतनीलसुखादिमोक्षहेतुकथनरूपदुःसंपाद्यवस्तुसंपा - दनरूपम्, स्वकीयमैश्वर्यम्, सूचयता - जनं प्रति लौकिकोपायस्याभिधेयत्वदर्शनेन सूचनाविषयतां नयता, कथम् ? इति | इति किमिति ? मया कर्त्रा स एव - उत्कर्षः, इह - अस्मिन् शास्त्रे, लोकोत्तरमार्गं प्रति - मोक्षं प्रति, उपायो निर्णीतः | स एव क इत्यपेक्षयामाह समस्त इत्यादि स एव इत्यन्तम् | हेतुः इत्यन्तम् पूर्ववदेव योजना | समस्त इत्यस्य भागस्य काकाक्षिबदुभयत्र करणत्वेन योजनम्, अन्यथा संबन्धायोग्यतापातात् | अत एव इति | अतः - यत उपायोऽभिधेयत्वेन दर्शितः ततः कारणात्, उपक्रमपूर्वकम् - तथा हि शब्दद्योत्यारंभपूर्वकम् | श्लोकान्तरम् - प्रत्यभिज्ञोपदर्श्यते इत्यन्तोपलक्षितश्लोकादन्यः श्लोकः | तत्रैव चोक्तोपायाभिधानोपक्रम इति भावः | प्रत्यभिज्ञानम् - जनविषये परमेश्वरस्य नीलसुखाद्युपायस्य च प्रत्यभिज्ञासंपादनम् | समस्तसंपत् इत्यस्य नीलसुखादिरूपमर्थं कृत्वा प्रथमप्रयोजनत्वं परमेश्वराद्वयप्रथनरूपमर्थं कृत्वा द्वितीयप्रयोजनत्वम् [तृतीयप्रयोजनत्वम् - C.] ततः परं नास्त्येव तस्य सर्वपर्यन्तफलत्वादंशांशिकयापि | यदुक्तं मयैव स्तोत्रै :- ऽफलं क्रियाणामथवा विधीनां पर्यन्ततस्त्वन्मयतैव देव | फलेप्सवो ये पुनरत्र तेषां मुढा स्थितिः स्यादनवस्थयैव ||ऽ इति | एतद् वक्ष्यति :- ऽतदत्र निदधत्पदम् (४ अ. ३ आ. १६ श्लो) इति पादद्वयेन | ऽजनस्यऽ इत्यनेन अधिकारी दर्शितः | यत् निगमयिष्यति :- ऽअनिशमाविशन्ऽ (४ अ. ३ आ. १६ श्लो) इति | ऽकथंचित्ऽ इत्यनेन गुरुपर्वक्रमः | वक्ष्यति :- ऽमहागुरुभिरुच्यते स्म शिवदृष्टिशास्त्रे यथा | (४ अ. ३ आ. १६ श्लो) इति | एवं प्रत्यभिज्ञातव्यसमस्तवस्तुसंग्रहणेन [प्रतिज्ञातव्यसमस्तवस्तुसंग्रहणेन - K. ष्. ष्.] इदं वाक्यमुद्देशरूपं प्रतिज्ञापिण्डात्मकं च, मध्यग्रन्थस्तु हेत्वादिनिरूपकः, एतदेव च परमप्रयोजनमिति दर्शयितुमाह ततः परम् इति | अंशांशिकयापि, लेशाल्लेशेनापीत्यर्थः | अत्र स्वकीयं पद्यमुंदाहरति यदुक्तम् इति | पर्यन्ततः, आपातेऽन्यफलत्वेपि पर्यन्ते चित्तशोधनादिद्वारेण त्वन्मयतैव फलमित्यर्थः | अत्र - अस्यां त्वन्मयतायाम् | मूढा - लक्षणया मूढत्वद्योतिका, अथवा मूढा इति बहुवचनान्तम्, तथा च ये मूढा इति सम्बन्धः, तथा च खर्परेशरि इति विसर्गलोपः | सूत्रकारोप्येतद्वक्ष्यत्येवेत्याह एतत् इति | केन वक्ष्यतीत्यत आह तदत्र इति | गुरुपर्वक्रमः - अस्मादनेन प्राप्तमिति गुरुपरंपरासंप्रदायरूपः संबन्धः | उपसंहारं करोति ऽएवम्ऽ इति | प्रत्यभिज्ञातव्यम् - अस्मिन् शास्त्रे प्रत्यभिज्ञाविषयत्वेनाभिधेयम् | इदम् - व्याख्यातम्, वाक्यम् आद्यश्लोकरूपम् | उद्देशरूपम्, नाममात्रेण वस्तुसंकीर्तनात् | आदिशब्देनोदाहरणोपनययोर्ग्रहणम् | पञ्चावयवात्मकम् - प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूप - पञ्चांगस्वरूपम् | एतेनास्य शास्त्रस्य परार्थानुमानत्वं साधितम् | ऽइति प्रकटितो मयाऽ ( ४ अ. ३ आ. १६ श्लो) इति च अन्त्यश्लोको निगमनग्रन्थः - इत्येवं पञ्चावयवात्मकमिदं शास्त्रं परव्युत्पत्तिफलम् | नैयायिकक्रमस्यैव मायापदे पारमार्थिकत्वम् - इति ग्रन्थकाराभिप्रायः ऽक्रियासंबन्धसामान्यऽ (२ अ. २ आ. १ श्लो) इत्यादिषु उद्देशेषु प्रकटीभविष्यति - इति तावद् ग्रन्थस्य तात्पर्यम् | सुजनश्च लौकिकेश्वरपरिचित ईश्वरविषये जनम् अनुजीविगूणसंपन्नं [उपपन्नम् - K. ष्. ष्.] प्रकाशयति, जनविषये च अभिगामिकादिगुणगणसंपन्नम् ईश्वरं प्रकाशयति - इति इयानर्थः सामान्येन षष्ठीसमासेन दर्शितः ऽतस्य प्रत्यभिज्ञाऽ इति | ननु किमिति भेदनिष्ठतार्किकवाद आश्रित इत्यपेक्षायामाह नैययायिक इति | मायापदे - मायाधोवर्तिभेदोपहततत्त्वनिर्णये, यादृशो यक्षस्तादृशो बलिरिति न्यायानुसारेणेति भावः | ननु त्वया कथमेतत् ज्ञातमित्यत्राह क्रियासंबन्ध इति | उपसंहारं करोति इति इति | इति - अतः, तावत्, अत्र कस्यापि विप्रतिपत्तिर्नास्तीत्यर्थः | ग्रन्थस्य - प्रत्यभिज्ञाशास्त्राख्यस्याऽथवाऽऽदिश्लोकरूपस्य | तात्पर्यम् - व्यतिरिक्तं लोकसिद्धवस्तु | सामान्यषष्ठीसमासद्योतकं कथयति सुजनश्च इति | सुजनशब्देन मध्ये विरोधापादकदुर्जनव्यवच्छेदः | अनुजीविनः - भृत्यस्य ये गुणाः - सेवाकारित्वादयः, तैः संपन्नम् - परिपूरितम् | आभिगामिकादिगुणाः - समीपगमनयोग्यतादिरूपा गुणाः, तैः संपन्न्म् | आदिशब्देन दातृत्वादिगुणग्रहणम् | समासमेव विग्रहद्वारेण दर्शयति तस्य प्रत्यभिज्ञा इति | तस्य - जनस्येश्वरविषये प्रत्यभिज्ञा तस्येश्वरस्य च जनविषये प्रत्यभिज्ञा इति विग्रहार्थः | ननु समस्तं प्रत्यभिज्ञाशास्त्रं श्रुत्वा जनस्य फललाभः स्यात्, अथवा प्रथमश्लोकश्रवणकाले एवेत्यत आह एतत् इति | एतस्य - आदिश्लोकस्य, एतच्छ्लोकाकर्णनसमये च शिष्याणाम् एतदर्थसंक्रमणक्रमेण परमेश्वरतादात्म्यमेव उपजायते तावत् | तथा हि - ऽजनस्यऽ इत्याकर्णनात् वयं ते जननमरणपीडिता अपर्युदस्तवृत्तयश्च, अस्माकमयम् उपकारम् इच्छन्, महेश्वरस्य दास्यम् आसाद्य, समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञाम् उपपादयति; ततश्च [ततश्च प्रत्यभिज्ञाम् - K. ष्. ष्.] तत्प्रत्यभिज्ञामेवंभूतां वयं प्राप्ता एव, इतीत्थमेव [एव इति | इत्थम् - K. ष्. ष्.] हि अधिकारिणि शास्त्रार्थस्य बिम्बप्रतिबिम्बवत् संक्रान्तिः लोड्लिङादीनां विषयीभवति प्रथमपुरुषार्थ [प्रथमपुरुषार्थः - K. ष्. ष्.] उत्तमपुरुषार्थे पर्यवस्यति, न तु ताटस्थ्येन; योऽर्थः तस्य संक्रमणम् - सिद्धत्वेनान्तःस्फुरणम्, तस्य यः क्रमः तेन | शिष्याणाम् इत्यधिकारिग्रहणम् | अन्यथा कामनारहितानां शिष्याणामपि तदापत्तेः, फलकामनाविष्टा एव हि फलोपायश्रवणकाले एव तल्लाभभाज इव तिष्ठन्ति नान्ये | ताअवत् इति, कस्याप्यत्र विप्रतिपत्तिर्नास्तीत्यर्थः | ननु कथमेतदित्यत्राह तथा हि इति | तथा हि - तथा दृश्यताम्, अधिकारिणि - फलकामनाविष्टे पुरुषविशेषे | जनस्येत्याकर्णनात् - मनोगतजननमरणपीडाद्योतकजनस्येतिशब्दश्रवणेन, इतोत्थम् - इत्यनेन प्रकारेण | शास्त्रार्थस्य - वक्ष्यमाणस्य शास्त्राभिधेयस्य | बिम्बप्रतिबिम्बवत् - बिम्बप्रतिबिम्बन्यायेन | संक्रान्तिः - मनसि स्फूर्तिः स्यात् | कस्मिन् सति ? लोट्लिङादीनां विषयीभवति - वाच्यतां गते | प्रथमपुरुषार्थे - नाम्नि | उत्तमपुरुषार्थे - अस्मदि | पर्यवस्यति - विश्राम्यति सति, अयमुपपादयति, अधिकार्यनधिकारिणोः प्रतिपत्तौ विशेषाभावप्रसङ्गात् | आरोग्यकामाः शिवां सेवन्तां सेवध्वम् - [सेवेध्वम् - K. ष्. ष्.] इति वा वाक्यार्थस्य सेवामहै - इत्येवंरूपेण अधिकारिणि द्वितीया [द्वितीयकक्ष्यासंक्रान्तौ - K. ष्. ष्.] कक्ष्या संक्रान्तौ, तृतीयकक्ष्यामेव [तृतीयकक्ष्यायामेव - K. ष्. ष्.] भाविकोटिपतितामपि पुरुषार्थ वयं प्राप्ता इत्येवमित्यर्थः | आदिशब्देन लटो ग्रहणं | परमार्थतः उपपादयामीति श्लोके स्थितत्वेन शिष्यबुद्धौ स्फुरितस्य लतः प्रथमपुरुषस्य तत्रास्थितत्वात् च्विप्रयोगः | प्रथमपुरुषार्थे इति मध्यमपुरुषस्याप्युपलक्षणम्, तस्यापि क्वचित्प्रयोगे उत्तमपुरुषार्थे पर्यवसानात् यथात्रैव लक्ष्यमाणे उदाहरणे, सेवध्वम् सेवामहै इति | इति - इत्थं, कथम् ? ते वयंजननमरणपीडिताः - अत एवापर्युदस्ता - पर्युदासविषयतां न नीता वृत्तिर्येषां तादृशाश्च, अधिकारित्वेन गृहीता इति यावत्, भवामः | अस्माकमयम् - आचार्यः, उपकारमिच्छन् महेश्वरस्य दास्यमासाद्य समस्तसंपत्समवाप्तेः हेतुम् - कारणभूताम् | तत्प्रत्यभिज्ञाम् - ईश्वरप्रत्यभिज्ञाम् | उपपादयति - संपादयति, ततश्च - तस्मात्कारणाच्च, वयमेवंभूताम् - समस्तसंपत्समवाप्तिहेतुभूताम्, तत्प्रत्यभिज्ञां प्राप्ता एव, उपायलाभस्यैवाधिकारिविषये उपेयलाभरूपत्वात् | न तु ताटस्थ्येन इति | तु - व्यतिरेके | अधिकारिणि ताटस्थ्येन नायमुपपादयति | किमस्माकं तेन इति तटस्थभावेन संक्रान्तिर्न भवति | अत्र हेतुमाह अधिकारि इति | अत्र दृष्टफलस्य हि आयुर्वेदस्य वाक्यं दृष्टान्तत्वेन कथयति आरोग्यकामाः इति | आरोग्यकामनायुक्ताः, शिवाम् - हरीतकीम् सेवन्ताम् इति लोटः प्रथमपुरुषप्रयोगयुक्तस्य, सेवध्वमिति वा मध्यमपुरुषप्रयोगयुक्तस्य, वाक्यार्थस्य - पदसमूहवाच्यस्य, सेवामहै इत्येवंरूपेण - उत्तमपुरुषे पर्यवसानरूपेण, संक्रान्तौ द्वितीया कक्ष्या भवति | वाक्यप्रयोगस्यैव प्रथमक्ष्यत्वात् | कुत्र ? अधिकारिणि - आरोग्यकामनाविष्टे पुरुषविशेषे | कीदृशे ? संपत्तिम् अकालकलितस्वरूपानुप्रवेशेन स्वात्मीकृताम् अभिमन्यमाने, तत एव विततसंवित्सुन्दरपरामर्शे पूर्णताभिमानप्रतिलम्भात्, अन्यस्य तु अनेवंरूपत्वेनैव अनधिकारिता [अधिकारिता - K. ष्. ष्.] ताटस्थ्यप्राणा - इति | तदास्ताम् अवान्तरमेतत् अतिगहनं च - इति स्थितमेतत् | एतेन श्लोकेन ईश्वरसांमुख्यं विनेयानां प्रयोजनादिप्रतिपादनं च क्रियते - इति | तृतीयकक्ष्यामेव - तत्सेवनरूपां तृतीयकक्ष्यामेव, भाविकोटिपतिताम् - चतुर्थकक्ष्यायां भाविनीम्, पुरुषार्थसम्पत्तिम् - आरोग्यसंपत्तिम्, स्वात्मीकृताम् - प्राप्ताम्, अभिमन्यमाने - वस्तुसौन्दर्यबलेन अभिमानविषयतां नयति | केन ? अकलकलितम् - कालास्पृष्टम्, यत्स्वरूपम् - चिन्मात्राख्यं निजं स्वरूपम्, तत्रानुप्रवेशेन - स्वभावबलसिद्धेनावेशेन | पुनः कीदृशे ? पूर्णताभिमानस्य यः प्रतिलम्भः - प्राप्तिः, ततः, वितता - व्याप्तिं गता संविद् यस्य तादृशश्चासौ सुन्दरश्च परामर्शो यस्य तादृशे | अतिकामनाविष्टो हि काम्योपायप्राप्तिसमय एव तृप्तो दृश्यते इति न कोपि विरोधः | ननु य एवं न संपद्यते तस्य का वार्तेत्यत्राह अन्यस्य इति | अनधिकारिता - अधिकारिताया भावः, आस्ताम्, अलमित्यर्थः | सिद्धमर्थं संगृह्य कथयति स्थितम् इति | स्थितम्, सिद्धमित्यर्थः | विनेयानाम् - शिष्याणाम् इति शब्दः समाप्तौ आद्यश्लोकसमाप्तिं सूचयति | अहमामर्शमात्रेण जगतो यः स्वसूत्रणाम् | करोत्युपोद्घातमयीं हृदये तं स्तुमः शिवम् || एवं शास्त्रसमाप्तिप्रयोजनं मंगलं संपाद्य प्रथमं स्थिते ज्ञानाधिकाराख्यप्रथमविमर्शे प्रथमाह्निकव्याख्यानिर्विघ्नसमाप्तये स्वेष्टदेवताभूतं श्रीशिवं स्तौति आह्निकतात्पर्यं च सूचयति अनन्त इति | अनन्तभावसंभारभासने स्पन्दनं परम् | उपोद्घातायते यस्य तं स्तुमः सर्वदा शिवम् || ननु ईश्वरस्य सिद्धिरेव कर्तव्या | केयं सिद्धिः ? न तावत् उत्पत्तिः, नित्यत्वात् | नापि ईश्वरसिद्धिकारादयस्तस्योत्पत्तिं विदधते | ज्ञप्तिः सिद्धिरिति चेत्, अनवच्छिन्नप्रकाशस्य प्रमाणव्यापारोपाधेयप्रकाशात्मक - सिद्ध्यनुपयोग एव | ननु अनवच्छिन्नस्तदीयं प्रकाश - इति कथमेतत्; नीलसुखादिप्रकाशे [घटसुखादिप्रकाशे - K. ष्. .ष्] हि तत्प्रकाशः कुतः ? तदप्रकाशेऽपि सुप्तमुर्छादौ नितराम्, [नतराम् - K. ष्. ष्.] स्वप्रकाशेऽपि वा ईश्वरे प्रमातॄणां किं वृत्तं येन तेषां प्रमाणव्यापारानुपयोग इत्याशङ्क्याह :- अत्र टीका :- वयं तं शिवम् - प्रकाशस्वभावं सर्वानन्दकारिणम् परमात्मानम् | स्तुमः - सर्वोत्कृष्टतया भावयामः | तं कम् ? अनन्तः - अपरिच्छिन्नः, यो भावसम्भारः - स्वान्तर्निमग्नः पदार्थसमूहः तस्य भासने - अहमिति स्वान्तःप्रदेशात् इदमिति बहिरवभासने | यस्य परं स्पन्दनम् - स्वरूपात् किंचिच्चलनरूपः अहमिति सामान्यस्पन्दः | उपोद्घातायते - चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं परचक्षते इति | तथा उप - समीपे तददावेव हन्यते - टंक्यते दीनारे इव राजनामात्र शास्त्राभिधेयम् इति उपोद्घातः, स इवाचरति, भाविनः पदार्थसमूहस्य सामान्यस्पन्दे एव प्रथमं स्थितत्वात्, अन्यथा निर्गमासंभवप्रसंगात् | अनेन चोपोद्घाताह्निकमिदमिति सूचितम्, उपोद्घातत्वं चास्य वक्ष्यमाणसर्वशास्त्रार्थद्योतकत्वेन ज्ञेयम् | एवं मंगलं संपाद्य प्रथमश्लोकोपन्यासार्थमवतरणिकां करोति ननु इति | करति ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे | अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः || १ || अत्र टीका :- ननु इति पूर्वपक्षवादिप्रश्ने | कर्तव्या - अवश्यकरणीया | अन्यथा तद्विषयत्वेन प्रतिज्ञातायाः प्रत्यभिज्ञाया उपपादनासंभवादिति भावः | अत्र वादी विकल्पं करोति केयम् इति | किंशब्दः प्रश्नाक्षेपवाच्ची | उत्पत्तिरूपसिद्धिं नाशयितुमाह न तावत् इति | ननु तर्हि कथं वादिनः तदुत्पत्तिं कथयन्तीत्यत्राह नापि इति | पुनः शिष्यप्रश्नमाशंकते ज्ञप्तिः इति | अत्राप्युत्तरमाह अनवच्छिन्न इति | अनवच्छिन्नप्रकाशस्य - स्वप्रकाशत्वेन सततमवभासमानस्य नित्यप्रकाशरूपस्य च, अर्थादीश्वरस्य | प्रमाणव्यापारोपाधेयः - प्रमाणव्यापारसाध्यत्वेन तदवच्छेद्यो यः प्रकाशः - ज्ञप्तिः, तदात्मिका या सिद्धिः तस्या अनुपयोग एव भवति | न हि सूर्यस्य प्रकाशे दीपापेक्षा युक्तेति भावः | तदुक्तम् :- उपायजालं न शिवं प्रकाशयेत् घटेन किं भाति सहस्रदीधितिः | विचारयनित्थमुदारदर्शनः स्वयंप्रकाशं शिवमात्मवित्खलु || इति | तथा :- अपरेक्षे भवत्तत्त्वे सर्वतः प्रकटे स्थिते | यैरुपायाः प्रतन्यन्ते नूनं त्वां न विदन्ति ते इति | अत्र पूर्वपक्षवादी ननु इति आक्षेपं करोति | अनवच्छिन्न इति कथमेतत्, तदीयप्रकाशस्यानवच्छिन्नप्रकाशत्वं न युज्यते इत्यर्थः | एतदेव समर्थयितुमाह नील इति | कुतः, न भवतीत्यर्थः | न हि नीलज्ञानमेवेश्वरज्ञानमिति भावः | तर्हि नीलाद्यप्रकाशे तत्प्रकाशोऽस्त्वित्यत्राह तत् इति | नितरां कुत इति योजना, अतिशयेन नास्तीत्यर्थः | अनविच्छिन्नप्रकाशत्वमभ्युपगम्यापि प्रमाणव्यापारानुपयोगं प्रत्याह स्वप्रकाशे इति | प्रमातॄणाम् - ईश्वरप्रमातॄणाम्, किं वृत्तम् - सम्पन्नम् | स्वप्रकाशेऽपि अनवच्छिन्नप्रकाशत्वसाधकस्वप्रकाशत्व - युक्तेऽपीत्यर्थः | इत्याशङ्क्य - प्रश्नोत्तरपूर्विकां शंकां कृत्वा | आह, कथयतीत्यर्थः | इह क ईश्वरे कीदृशे कीदृशेन प्रमाणेन अस्ति इति ज्ञानलक्षणां सिद्धिम्, नास्तीति ज्ञानलक्षणं वा निषेधं कुर्यात् ? प्रमाता इति चेत्, स एव काः ? देहादिर्जडः त तदन्यो वा कश्चित् आत्मादिशब्दवाच्यः ? सोऽपि स्वप्राकाशस्वभावो वा न वा ? देहादिर्जडः इति इति चेत्, स एव स्वात्मनि असिद्धः परत्र कां सिद्धिं कुर्यात् आत्मापि अस्वप्राकाशो जड एव तत्तुल्ययोगक्षेमः | स्वप्रकाशस्वभावः इति चेत्, कीदृशेन स्वेन रूपेण भाति ? [आभाति - K. ष्. ष्.] यदि परिनिष्ठितसंविन्मात्ररूपेण, तदा संविदां भेदनम्, भेदितानां च अन्तरनु - एवमवतरणिकां कृत्वा प्रथमं श्लोकमुपन्यस्य व्याचष्टे | कतरि इति | अत्र टीका :- पद्यं भंग्या व्याख्यातुमारभते इह इति | इह - ईश्वराधीनसिद्धिके जगति | कः - तदन्तर्गत्ः को भावः, कीदृशे - किंगुणे ईश्वरे | सर्वत्रात्र किंशब्दः प्रश्नाक्षेपपरः | शिष्योत्तरं शंकते प्रमाता इति | प्रमाता - तार्किकादिः | सांख्यादीनां लौकिकस्यात्रोपेक्षाविषयत्वात् | गुरुरत्र शिष्यं प्रति पश्नयति स एव इति | किंशब्दस्यार्थं विभज्य दर्शयति देहादि इति | आदिशब्देन बुद्ध्यादेर्ग्रहणम् | तदन्यः - देहादेअरन्यः चिन्मात्ररूपः | आदिशब्देनान्येषां पर्यायाणां ग्रहणम् | शङ्कितस्य द्वितीयपक्षस्यापि द्वैविध्यं शकते सोपि इति | सोपि - तदन्योपि | पक्षद्वयमध्यात् प्रथमं पक्षमनुवदति स एव इति | स एव - देहादिरेव, असिद्धः - बुद्धिप्रमात्रधीनसिद्धिकत्वेन सिद्धिरहितः, परत्र - स्वव्यतिरिक्ते ईश्वरे | द्वितीयपक्षस्य प्रथमं प्रकारं बहुवक्तव्यत्वेन तावदवस्थाप्य द्वितीयं प्रकारं प्रत्याह आत्मा इति | तस्य - देहादेः, तुल्यौ योगक्षेमौ, अप्राप्तस्य शुभस्य लब्धिः संधानेन अभेदनं न स्यात्; तेन स्वतन्त्रस्वप्रकाशात्मतया तावत् स भासते, तथाभासमानश्च कीदृशमीश्वरं साधयेत् निषेधेत् वा ? कर्तृज्ञातृस्वभावम् इति चेत् ननु स प्रमातैव तथाभूतः इति कोऽन्यः सः ? ननु सर्वकर्तृत्वसर्वज्ञत्वे प्रमातुर्न स्तः; न खलु सर्वशब्दार्थो ज्ञातृकर्तृत्वयोः स्वरूपं भिनत्ति, योगः, तद्रक्षणं क्षेमः, तौ यस्य सः, तत्तुल्य इति यावत् | द्वितीयपक्षय स्थापितं प्रथमं प्रकारमपि स्वाभीष्टत्वेन विभज्य वक्तुमारभते स्वप्रकाश इति | स्वशब्दार्थव्याकरणं प्रति शिष्यं प्रेरयति कीदृशेन इति | भाति - स्वं प्रति स्फुरति | कीदृशेनेत्याक्षिप्तपक्षद्वयमध्यादेकं दूषयति यदि इति | परिनिष्ठितम् - शान्तत्वेन स्वरूपमात्रे स्थितं यत्संविन्मात्रं तदेव रूपं तेन | अत्र प्रतिसमाधानं करोति तदा इति | भेदनम् - विषयग्रहणकाले विभागं कृत्वाऽन्योऽन्यतः भेदेन भासनम्, अभेदनम् - स्मृतिसमये एकीकरणम् | अन्यथा स्मृत्यसंभवप्रसंगात् | स्मर्ता हि स्मृतिकाले - नीलादिविषयं पूर्वापरं ज्ञानद्वयमेकविषयताकरणेनैकीकरोत्येव | तदेव स्मरणमुच्यते | एतेन वेदान्तमतनिरासः कृतः | ते एव हि शान्तस्य परिनिष्ठितस्य ज्ञानमात्रस्यात्मत्वं कथयन्ति | शान्तत्वे [शान्तत्वे च भेदने - C.] च भेदनाभेदने असंभवोपहते एव | यत्तु तेऽपि विषयोपरागं नेच्छन्ति तेन विज्ञानवादात् स्वस्य निष्कृतिमेव कुर्वन्ति न तुत्तमपदमाश्रयन्तीत्यलम् महात्मसुचोदनाभिः | द्वितीयं तु स्वाभीष्टसाधकत्वेनाश्रयति तेन इति | तेन - यतः पूर्वोक्तं न युज्यते तत इत्यर्थः | स्वतन्त्रः - संविदां भेदनाभेदनयोः समर्थः | स - आत्मा, तथाभासमानश्च - स्वतंत्रप्रकाऽसभावेन स्फुरंश्च | कीदृशमित्याक्षिप्तपक्षद्वयमध्ये कर्तृत्वादिरहितस्येश्वरत्वमत्यन्तमयोग्यं ज्ञात्वा शिष्यार्थं द्वितीयमाश्रित्येष्टापत्तिं साधयति कर्तृ इति | ननु इति प्रतिवचने | तथाभूतः - कर्तृज्ञातृस्वभावः, इति - अतः कारणात् | सः ईश्वरः पुरःस्थितस्यात्मन एवेश्वरत्वे किमर्थमन्यमीश्वरं साधयाम इति भावः | अत्र शिष्यप्रश्नं शंकते ननु इति | तथा च प्रभातुरीश्वरत्वं न युक्तमिति प्रष्टुरभिप्रायः | अत्रोत्तरमाह न खलु इति | भेददर्शनेऽपि ईश्वरज्ञानचिकीर्षायत्नादेर्नित्यस्य विषयेण अकारणभूतेन अनाधेयातिशयत्वात् | प्रकाशमानतानयनमेव विषयत्वम् इति चेत्, अप्रकाशस्वभावस्य तथात्वमनुचितम् - इति वक्ष्यामः | प्रकाशमानस्वभावत्वे विषयोऽपि सर्वात्मना प्रकाश एव निमग्न इति प्रकाशः प्रकाशते - इत्येतावन्मात्रपरमार्थत्वे कः सर्वज्ञासर्वज्ञविभागः ?, प्रमाणमपि एवं सिद्धत्वा - न हि कणभावचयभावयोरग्नेः स्वरूपभेद इत्त्युत्तरवाक्याभिप्रायः | नैयायिकदर्शनसिद्धं वस्तु हेतुत्वेनाश्रयति भेद इति | अकारणभूतेन - आलंबनकारकतया कारणभावमगतेन | अनाधेयातिशयत्वात् - आधातुमशक्यातिशयत्वात्, अन्यथा नित्यत्वासंभवादिति भावः | अत्र भेददर्शनमसहमानस्य शिष्यस्य चोद्यं शङ्कितम् प्रकाश इति | तथा चालम्बन कारकरूपविषयप्रतिपादनपरस्य भेददर्शनस्य हेतुत्वेनाश्रयणमयक्तमिति भावः | स्वयमेवाङ्गीकृतसिद्धान्तस्य शिष्यस्य शंकितं चोद्यमेव स्वाभीष्टसाधकत्वेनाश्रयति अप्रकाशमान इति | तथात्वम् - प्रकाशमानतायां नयनम् | न हि प्रयत्नशतैरपि अग्निरनग्नितां नेतु शक्यते इति भावः | अवशिष्टं प्रकाशमानतास्वभावत्वमाश्रित्य स्वाभीष्टं साधयति प्रकाशमान इति | प्राकाश एव निमग्नः - ब्रुडितः, ततो भेदेनाभासात् | अग्निकण इवाग्निचये इति भावः | ननु निमज्जतु ततः किमित्यत्राह इति इति | इति - अतः कारणात् | प्रकाशः - विषयरूपः प्रकाशलेशः, प्रकाशते - महाप्रकाशः साक्षाद् भवति | एतावन्मात्रपरमार्थत्वे सति कः सर्वज्ञासर्वज्ञविभागः, अयं जीवः असर्वज्ञः अयमीश्वरः सर्वज्ञ इति विभागो न भवति | परमार्थतः सर्वत्रैकप्रकाशरूपत्वादिति भावः | तदुक्तम् :- नीलं पीतं सुखमिति प्रकाशः केवलः शिवः | अमुष्मिन् परमाद्वैतप्रकाशात्मनि कोपरः || इति | नन्वर्थाक्षिप्तस्य कीदृशेन प्रमाणेन इत्ययस्य का वातत्यपेक्षायामाह प्रमाणम् इति | एवम्, प्रमातॄवदित्यर्थः | सिद्धत्वासिद्धत्वाभ्याम् - जडत्वाजडत्वापादिताभ्याम्, सिद्धत्वाभ्यां पर्यनुयोज्यम्; एवं सिद्धिरपि | तस्मात् विषय भिमतं वस्तु शरीरतया गृहीत्वा तावत् निर्भासमान आत्मैव प्रकाशते विच्छेदशून्यः, सुषुप्तमपि प्रति प्रकाशत एव, अन्यथा स्मृत्ययोगात्; प्रकाशस्य च नित्यत्वात् विच्छेदहेतोरभावेन, अन्यप्रमात्रपेक्षया च प्रकाशमानत्वात्, स्वपर पर्यनुयोज्यम् - पर्यनुयोगविषयीकार्यम् | तथा चास्यापि प्रमातृवत्प्रकाशरूपत्वे ईश्वरत्वमेवायातीति भावः | ननु पद्ये गृहीतायाः भ्देन स्फुरणशीलायाः सिद्धेः किंकुर्म इत्यत्राह एवम् इति | सिद्धिरपि, प्रमात्रादिवत्प्रकाशरूपैवेति भावः | अपि शब्दः उक्तसमुच्चयार्थः | तेनेहोक्तस्य निषेधस्य ग्रहणम्, तस्यापि प्रकाशरूपतानपायात् | विदधानस्य तु साक्षात्क्रियत्वेन कर्तृनिष्ठतायोगेन प्रकाशस्वभावमहेश्वररूपत्वमयत्नसिद्धं ज्ञात्वा ग्रहणं न कृतम् | विदधीत इति विपूर्वस्य धाञः लिङि; रूपम् | फलितमाह तस्मात् इति | विषयाभिमतम् - विषयभावेन लौकिकैरभिमानेन गृहीतम् | वस्तु - नीलादिरूपं बाह्याभ्यन्तरं वस्तु | शरीरतया - स्वरूपत्वेन | एतेन नीलसुखादिप्रकाशेपि आत्मप्रकाशः फलितत्वेन्नोक्तः | नन्वेवं भवतु, सुषुप्तिमूर्च्छादौ स्फुटं स्थितस्य तदप्रकाशस्य किं कुर्मः इत्याह सुषुप्तमपि इति | सुषुप्तमपि प्रति, सुषुप्तविषयेऽपीत्यर्थः | अत्र हेतुत्रयमाह अन्यथा इति | अन्यथा - आत्मप्रकाशाभावे | तत उत्थितस्येति शेषः | सुषुप्तेरुत्थितो हि न किञ्चिदवेदिषमिति तामवस्थां स्मरत्येव, स्मरणं च गृहीते एव संभवति | ग्रहणं चात्मानं विना न सम्भवति | तस्य च स्वप्रकाशत्वमेवेति सुषुप्तिस्मृतिमंगीकुवर्तः आत्मप्रकाशनमप्यङ्गीकार्यमेव | न च मास्तु स्मृतिरिति वाच्यम्, स्वानुभवस्यापह्नवायोगात् | तदपह्नवकारिभ्यस्तु नम एवेत्यलम् | द्वितीयं हेतुमाह प्रकाशस्य इति | चः समुच्चये, विच्छेदहेतोः - देशकालादेर्विच्छेदकारणस्य, न हि प्रकाशसिद्धं देशकालादि तं विच्छिन्नीकर्तु शक्तम् | तृतीयमप्याह अन्य इति | न हि अन्यसुषुप्तावन्यः सुप्तो भवति | तथा च तत्रात्मनः प्रकाशः स्फुट एवेति भावः | नन्वन्यप्रमातृषु प्रकाशेनेतरस्य किमायातमित्यपेक्षायामाह स्वपर इति | तत्सृष्टस्य - तेन प्रकाशेनोत्पादितस्य | तदुक्तम् :- प्रमातृविभागस्य तत्सृष्टस्य मायीयत्वेन वक्ष्यमाणत्वात् | स चायं स्वतन्त्रः | स्वातन्त्र्यं च अस्य अभेदे भेदनम्, भेदिते च अन्तरनुसंधानेन अभेदनम् - इति बहुप्रकारं वक्ष्यामः | एतदेव [तदेव - K. ष्. ष्.] अस्य पारमेश्वर्यं मुख्यमानन्दमयं रूपम् - इति पूर्वमुपात्तं ऽकर्तरिऽ इति | तदेव तु स्वातन्त्र्यं विभज्य वक्तुं ऽज्ञातरिऽ इति पश्चान्निर्दिष्टम् | ज्ञानपल्लव परव्यवस्थापि परे यावन्नात्मीकृतः परः | तावन्न शक्यते कर्तुं यतो बुद्धः परः परः || इति | न च तत्सृष्टस्तस्यैव विच्छेदं कर्तुं शक्तः किमुत मायीय इति भावः | भागेन प्रकाशमानेपि मेघान्निर्गते आकाशे लौकिकोऽप्याकाशः प्रकाशते इति व्यवहरत्येव | नन्वयं प्रमाता प्रकाशतां नाम पुनः स कीदृशोरतीति न विद्म एवेत्यपेक्षायामाह स चायम् इति | ननु तस्य स्वातंत्र्यं किंरूपमस्तीत्यत्राह स्वातन्त्र्यं च इति | अभेदे - परमार्थः नीलादिसंविदां सुखादिसंविदां च संवित्त्वेनैकत्वेऽपि, भेदनम् - भिन्नविषयतोपाधिना भेदेन भासनम् | भेदिते च - भेदेन भासिते संविज्ञाते च, अभेदनम् - स्मृतिसमये अलौकिके मोक्षसमये चैकविषयत्वेन भासनम्, स्वात्मनि विश्रान्तिदानेन लयीकरणं चेति यावत् | नानाविधाः संविदो हि अन्तरार्थतोऽपि तत्त्वादुत्थाय तत्रैव लयीभवन्ति | वक्ष्यामः, इहैवाग्रे इति शेषः | ननु तत्स्वातंत्र्यमत्र केन पदेनोक्तमित्यत्राह ऽतदेवऽ इति | आचार्येण तदेव स्वातंत्र्यमेव, वक्तुमिति शेषः | वक्तुम् - स्वतंत्रः कर्तां इति सूत्रावष्टम्भेन कथयितुम्, कर्तरि इति - एतत्पदम्, उपात्तम्, कदा ? प्रथमम् कुतः ? ऽइतिऽ, इति कुतः ? एतद्देवास्य - आत्मनः, पारमेश्वर्यम् - माहेश्वर्यरूपम् | मुख्यम् - प्रधानम्, आनन्दमयम् - तत्कार्यविश्वोद्भावनाऽन्यथानुपपत्त्याऽऽनन्द - निर्भरितम्, रूपम् - स्वरूपं भवतीति | मुख्यस्यैव हि प्रथममुपादानं युक्तमिति भावः | नन्वेतेनैव सर्वं गतमिति किमर्थमुक्तं ऽज्ञातरिऽ इतीत्यपेक्षायामाह तदेव तु इति | तत् - कर्तरीत्यनेन द्मोतितम् | अत्र हेतुमाह ज्ञान इति | ज्ञानपल्लवस्वभावा - स्वभावैव हि क्रिया - इति वक्ष्यते | तेन सर्वक्रियास्वतन्त्रे सर्वशक्तिके - इति यावद् उक्तं भवेत् तावदेव ऽकर्तरि ज्ञातरिऽ इति | इयमेव च संवित्स्वभावता | संविदिति तु उच्यमाना विकल्प्यत्वेन प्रमेयतां स्पृशन्तो सृष्टत्वात् न परमर्थसंवित् - इति वक्ष्यामः | कर्ता ज्ञाता च महेश्वर - इत्यभिधानेऽपि स एव प्रकार आपतेत्, इति यथा यथा प्रमेयभूमिकापादनन्यक्कारकलङ्कपरिहारः शक्यः तथा तथा यावद्गति यतितव्यम्, इति भूतविभक्त्या निर्देशः कृतः | उपदेशावसरे हि सर्वात्मना तावत् सा प्रमेयता अस्य परिहर्तुम् अशक्या | ऽस्वात्मनिऽ इति, ज्ञानपुष्टीभावरूपा, बीजापेक्षया तत्पुष्टीभावरूपस्य तादृग्बीजसहस्रोत्पादकस्य द्रुमस्य स्फुटैव मुख्यतेति न कोपि विरोधः | फलितमाह तेन इति | तेन - तस्मात् ऽइतिऽ इत्यनेनेत्यर्थः | यावत् - यावत्परिमाणो गुणगणः | सप्तमीप्रयोगानामभिप्रायं वक्तुमाह इयमेव च इति | इयम् - स्वातंत्र्यरूपा | विकल्प्यत्वेन - शब्दस्पर्शगतेन विकल्पविषयत्वेन, प्रमेयताम् - शब्दप्रमाविषयताम् | सृष्टत्वात् - प्रमेयतास्पर्शेनागतात् सृज्यमानत्वात् | ननु तर्हि कर्तृत्वज्ञातृत्वरूपस्य स्वातंत्र्यस्य विधिरेव किं न कृतः, किमिति प्रमेयताऽऽपादकस्य सप्तम्युक्तस्यानुवादस्यैवाश्रयणं कृतमित्यपेक्षायामाह कर्ता च इति | इत्यभिधानेपि - एवं विधिभावेन कथनेपि | स एव प्रकारः - प्रमेयतास्पर्शरूपः न हि शब्दस्पृष्टं केनाप्युपायेन प्रमेयतामतिवर्तितुं शक्तम् | यदुक्तम् :- यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते | तदा भिन्नमिवाभाति शाब्दीं भूमिमुपागतम् || इति | तर्हि किं कार्यमित्यत्राह यथा इति | यथा यथा - येन येन प्रकारेण, प्रमेयभूमिका - प्रमेयावस्था, यावद्गति - यावदुपायम्, यतितव्यम् - स्वयमेव यत्नः कार्यः यद्यप्यान्तरपरामर्शेप्येतन्न संभवति तथापि शिष्येषु नैर्विकल्प्यापादन - निमित्तमेतदुक्तम् | भूतविभक्त्या - अनुदेशयोग्य सिद्धवस्तुवाचिन्या ङिप्रत्ययरूपया सप्तमीविभक्त्या | स्वस्मिन् अनपायिरूपे स्वभावे इत्यनेन, वैशेषिकाद्यभिमतजडात्म - वादनिरासः | ऽआदिसिद्धेऽ इति अविच्छिन्नप्रकाशे इत्यर्थः | ऽमहेश्वरेऽ इति, एतदेव माहेश्वर्यं यद् अनवच्छिन्नप्रकाशत्वेन ज्ञातृकर्तृत्वधारोपारोहः | ऽअजडात्माऽ इति, यस्य तु वैशेषिकादेर्जड आत्मा स सिद्धि करोतु ईश्वर विषयाम्; अन्यस्तु सांख्यादिर्निषेधम्; सांख्योऽपि विषयावभासनरूपं ज्ञानं बुद्धिधर्ममिच्छन् आत्मानं वस्तुतो जडमेव उपैति; न च जडात्मा स्वात्मन्यपि दुर्लभप्रकाशस्वातन्त्र्यलेशः किचित् साधयितुं निषेद्धुं वा प्रभविष्णुः पाषाण इव; न च अजडात्मनोऽपि एतद् उचितम्, तथा हि - स स्वात्मनि सिद्धिमित्थं कुर्यात् - यदि अस्य सोऽभिनवत्वेन भासमानः पूर्वं न भासते, स एव हि वाक्यभेदानापादकत्वेन श्रेष्ठतरः | एकवाक्यत्वं हि पद्ये पुष्टतावहमिति भावः | स्वात्मनि इति पदं व्याचष्टे स्वात्मनि इति | वैशेषिकाद्यभिमतः, तथाऽसन्न्पि तैः स्वाभिमानेन कथित इति भावः | आदिशब्देन नैयायिकादेर्ग्रहणम् | आदिसिद्धे इत्यस्यार्थं वक्तुमाह आदि इति | एतच्च समनन्तरमेव साधितम् | महेश्वर पदं व्याचष्टे महेश्वरे इति | धारा - परा काष्ठा | अजडात्मा इति पदस्याभिप्रायं वक्तुमाह अजडात्मा इति | तु - व्यतिरेके | अजडः आत्मा यस्य वैशेषिकादेः स अजडात्मेति विग्रहोऽनेन द्योतितः | सांख्यः - अनीश्वरः | आदिशब्देन बौधादेर्ग्रहणम् | सांख्यः पुरुषस्य चेतनत्वं वदति इति जडात्मवादित्वमेव तस्य न सम्भवति का कथा ईश्वरनिषेधस्य, चेतनत्वांगीकारेणैव ईश्वरांगीकाराद् इत्यपेक्षायामाह सांख्योपि इति | ज्ञानस्य बुद्धिधर्मता कथनमात्रेणैव तस्य जडात्मवादित्वमायातं तेन च तत्सिद्ध ईश्वरांगीकारोऽपि शशविषाणतुल्य एवेति भावः | ननु ततोपि किमित्यत्राह न च इति | तर्ह्यजडात्मैवात्र प्रवृत्तिं करोतु इत्यत्राह न च इति | कथं नोचितमित्यत्राह तथा हि इति | सः - अजडात्मवादी, अस्य - अजडात्मवादिनः, सः - आत्मा | तर्हि न भासनमेवास्त्वित्यत्राह न भासनम् न भासनं [अनाभासनम् - K. ष्. ष्.] चेत् जडतैव | निषेधं च इत्थं विदध्यात् - यदि स न प्रकाशते तथा च जडः, न च जडस्य एतत् युक्तम् इत्युक्तम्, नापि अजडस्य; तस्मात् संवित्प्रकाश एव घटादिप्रकाशः, न त्वसौ स्वतन्त्रः कश्चित् वास्तवः; प्रकाश एव च आत्मा; तत् न तत्र कारकव्यापारवत् प्रमाणव्यापारोऽपि नित्यत्ववत् स्वप्रकाशत्वस्यापि तत्र भावात् || १ || ननु कारकव्यापारः प्रमाणव्यापारश्च यदि ईश्वरे न संभवति, तर्हि प्रत्यभिज्ञापयामि - इति यो व्यापार उक्तः स कतमो व्यापारः - इत्याशङ्क्याह :- इति | अत्रोत्तरमाह जडतैव इति | तर्हि तन्मतेप्यात्मनो जडतैवापतेदिति भावः | सिद्धिं प्रत्याख्याय निषेधमपि प्रत्याचष्टे निषेधं च इति | ननु तेनापि किमित्यत्राह तथा च इति | तथा च, निषेधे कृतेपि सतीत्यर्थः | न हि आत्मभानरहितस्याजडत्वमिति भावः | ननु ततोपि किमित्यत्राह न च इति | उक्तम्, समनन्तरमिति शेषः | पुर्व प्रत्याख्यातमपि अजडपक्षं व्यवहितमाशंक्य पुनः परामृशति नाप्यजडस्य इति | नाप्यजडस्यैतद्युक्तमिति व्यवहितेन सम्बन्धः | उपसंहारं करोति तस्मात् इति | असौ - घटादिप्रकाशः | स्वतंत्रः - प्रकाशव्यतिरेकेण सत्तायुक्तः | फलितमाह तत्र इति | कारकव्यापाराभवस्य सर्वान् प्रति सिद्धत्वेन दृष्टान्तत्वं | स्वप्रकाशत्वस्य भावः प्रमाणव्यापाराभावे हेत्ः || १ || अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- उक्तः, तत्प्रत्यभिज्ञामुपपादयामि इत्येतेनेत्यर्थः | कतमः, कस्य सम्बन्धीत्यर्थः | एवमवतरणिकां कृत्वा द्वितीयश्लोकमुपन्यस्य व्याचष्टे | किन्तु इति | किंतु मोहवशादस्मिन्दूष्टेऽप्यनुपलक्षिते | शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते || २ || स ईश्वरस्वभाव आत्मा प्रकाशते तावत्, तत्र च अस्य स्वातन्त्र्यम् इति न केनचिद्वपुषा न प्रकाशते, तत्र अप्रकाशात्मनापि प्रकाशते प्रकाशात्मनापि, तत्रापि प्रकाशात्मनि सर्वथा प्रकाशात्मना प्रकाशो भागशो वा; भागशः प्रकाशने सर्वस्य व्यतिरेकेण अव्यतिरेकेण वा, कतिपयस्य व्यतिरेकेण अव्यतिरेकेण वा, उक्तप्रकारपूर्णतया वा; तदमी सप्त प्रकाराः | तत्र प्रथमः प्रकारो जडोल्लासः, अन्त्यः परमशिवात्मा, मध्यमा जीवाभासाः, अत्र टीका :- सूत्रे किन्तु शब्दः समनन्तरोक्तपक्षान्यपक्षद्योतनार्थः | मोह इत्यस्यार्थ विवृणोति स इति | सः - कर्तृज्ञातृस्वभावः | तावत् इति | बालोपि नात्र विवदते इति भावः | तत्र च - प्रकाशकर्तृत्वे च | इति, स्वातंत्र्याद्धेतोरित्यर्थः | न केनचिद्वपुषा, सर्वभावेनेत्यर्थः | न प्रकाशते, अपि तु प्रकाशते इत्यर्थः | सर्वाणि ज्ञानानि तत्स्वरूपभूतान्येवेति भावः | सर्ववपुषा प्रकाशं विभज्य कथयति तत्र इति | तत्र, तत्र सतीत्यर्थः | अप्रकाशात्मना - वेद्यभावेन | प्रकाशात्मना - वेदकभावेन | तत्र प्रकाशात्मना प्रकाशत्वेन द्वितीयः | स एव भागशः सर्वस्य व्यतिरेकेण तृतीयः | अव्यतिरेकेण चतुर्थः | कतिपयस्य व्यतिरेकेण पंचमः | अव्यतिरेकेण षष्ठः, स एव प्रकाशात्मना प्रकाशः | उक्ता ये प्रकाराः - षट्प्रकाराः तैः परिपूर्णतया सप्तमः प्रकारः | सप्तमप्रकारस्य तृतीयप्रकारत्वेऽपि सर्वप्रकारागूरकत्वेन भागशः प्रकाशावान्तरभेदचतुष्कानन्तरं कथनं न विरोधावहम् | अन्यथा तूक्तप्रकारपरिपूर्णताकथनम - युक्तं स्यात् | एवं चाप्रकाशात्मना प्रकाशः प्रकाशात्मना प्रकाशः उक्तप्रकारपरिपूर्णतया प्रकाशः इति भेदत्रयमेव फलति | प्रकाशात्मना प्रकाशस्य पञ्चधात्वेन प्रकारसप्तकसिद्धिः | ननु भवन्त्वमी प्रकाराः ततः किमित्यत्राह तत्र इति | तत्र, प्रकारसप्तकमध्ये इत्यर्थः | प्रथमः - अप्रकाशात्मना प्रकाशः | भासाः, सैव भगवतो माया विमोहिनी नाम शक्तिः, तद्वशात् प्रकाशात्मतया सततम् अवभासमानेऽपि आत्मनि भागेन अप्रकाशनवशाद् ऽअनुपलक्षितेऽ सर्वथा हृदयंगमीभावमप्राप्ते अत एव पूर्णतावभासनसाध्याम् अर्थक्रियाम् अकुर्वति, तत्पूर्णतावभासनात्मकाभिमानविशेषसिद्धये ऽप्रत्यभिज्ञाऽ, जडोल्लासः, वेद्यजृंभणेत्यर्थः | तस्य स्वग्रहणेऽपि परापेक्षत्वादित्रि भावः | अन्त्यः - उक्तप्रकारपरिपूर्णतया प्रकाशात्मना प्रकाशः | परमशिवात्मा - सप्तत्रिंशरूपपरशिवरूपः | अन्तःकृततत्त्वषट्त्रिंशकस्यैव तत्त्वस्य परशिवत्वात् | मध्यमाः - सर्वात्मना प्रकाशादयः पञ्च | तत्र प्रथमतृतीयस्य शिवता, शुद्धप्रकाशरूपत्वात् | जीवत्वं चास्य महापूर्णत्वाभावमात्रकृतमेव ज्ञेयम्, न भेददर्शित्वकृतम्, अन्येषां तु भेदभेदाभेददर्शित्वकृतम् | एतच्चाग्रे प्रमातृनिर्णये स्वयमेव स्फुटीभविष्यति | भवत्वेवं ततः किमित्यत्राह सैव इति | सैव - जीवाभासरूपैव | मायायाश्च शुद्धविद्यानन्तरं स्थितत्वेपि शिवपदं तावदुपर्यपि स्पर्श आगमेषूक्त एव | अन्यथा एकस्य परमशिवस्यैव परमार्थतोवस्थाने का तद्व्यतिरिक्ततत्त्वषट्त्रिंशत्कचर्चा स्यादित्यलम् | तद्वशात् - तस्याः मायायाः सामर्थ्यात् | दृष्टे इति पदं व्याचष्टे प्रकाश इति | न हि स्वात्मा कस्याप्यदृष्टः यथातथाकल्पितस्य तददर्शनस्य परमार्थतः तद्दर्शनत्वानपायात् | अन्यथा मया न दृष्ट इति अस्मच्छब्दप्रयोगासंभवात् | वाच्यस्फूर्ति विना वाचकप्रयोगायोगादिति भावः | अस्मिन् इति पदस्य व्याख्यां करोति, अस्मिन् इति | भागेन - वेद्यरूपेण स्वांशेनानन्दरूपेणांशेन वा | न हि मायावशो वेद्यं स्वात्मतया प्रकाशरूपमात्मानं वानन्दरूपतया गृहणाति | एतेनाक्षिप्तं वस्तु कथयति अत एव इति | अर्थक्रियाम् अतितृप्तिरूपाम् | तस्य - आत्मनः, पूर्णतावभासात्मकः - व्याख्यातपूर्वा प्रदर्श्यते, कथम् ? शक्तेः ईश्वरनिष्ठत्वेन प्रसिधाया दृक्क्रियात्मिकायाः, ऽआविष्करणेनऽ प्रदर्शनेन, अभिमानसाध्यार्थक्रियाणां तदभिमानसिद्धया विना असिद्धेः, तथा च दृष्टान्तं दर्शयति :- ऽतैस्तैरप्युपयाचितैः, ( ४ अ. ३ आ. १७ श्लो) |ऽ इति | एतदुक्तं भवति - न कारकव्यापारो भगवति, नापि ज्ञापकव्यापारोऽयम्, अपि तु मोहापसारणमात्रमेतत्, व्यवहारसाधनानां प्रमाणानां तावत्येव विश्राअन्तेः | घटोऽयमग्रगः प्रत्यक्षत्वात् - इत्यनेन हि घटो न ज्ञाप्यते प्रत्यक्षेणैव प्रकाशमानत्वात्, अन्यथा पक्षे हेत्वसिद्धेः, केवलं मोहमात्रमपसार्यते | यश्चायं मोहस्तदपसारणं च यत्, तदुभयमपि भगवत एव विजृम्भामात्रम्, न तु अधिकं किंचित् - इत्युक्तं वक्ष्यते च || २ || निजपूर्णतास्फुरणरूपः यः अभिमानविशेषः तस्य सिद्धये | परमार्थतस्तु सा सिद्धिः सर्वदैव सर्वेषामस्ति, अन्यथा तन्मलपरिमिताहंभावस्फुरणायोगात् | परन्तु परमेश्वरमायावशेन तदभिमान एव नास्ति गृहगतखातगुप्तनिधेः दरिद्रस्येव गृहस्थितनिध्यभिमानः | अतस्तन्मात्रमेव साध्यते इति भावः | इयम् इत्यस्य व्याख्या व्याख्यात इति | कथम् केन करणेन इत्यर्थः | प्रसिद्धायाः, सर्वजनेष्विति शेषः | दृक्क्रियात्मिकायाः - ज्ञानक्रियारूपायाः, आविष्करणेन - प्रदर्शनेन, त्वयि अपि सास्तीत्येवंप्रकटीकरणेन प्रदर्शनेन इति णिजन्तप्रयोगः, सूत्रे उक्तमपि हेतु साधकतया उपादधाति अभिमान इति | नन्वेतेन किमुक्तं भवति इत्यत्राह एतत् इति | तावत्येव - मोहापसारणमात्रे एव, अन्यथा - भेदेन प्रकाशमानत्वाभावे | पक्ष - घटे, हेतोः - प्रत्यक्षत्वादित्यस्य | मोहमात्रम् - घटविषयः केवलो मोहः | ननु यदि मोहस्य तदपसारणस्य च सत्यत्वं तर्हि साधयितुमारब्धस्य महाद्वैतस्य तिलाञ्जलिरेवेत्यत्राह यश्चायम् इति | विजृम्भामात्रम् - शक्तिविलसितमात्रम् | न तु तद्व्यतिरिक्तं किंचिदिति भावः || २ || ननु परिदृश्यमाने भावराशौ किमीया शक्तिराविष्क्रियते कं च प्रति इति | जडानां तावत् न ज्ञानात्मिका शक्तिरस्ति, क्रियात्मिकापि स्वातन्त्र्यप्राणा स्वातन्त्र्यव्यपगमाद् असंभावनाभूमिरेव; तथा च रथो गच्छति - इत्यादौ उपचारं केचन प्रतिपन्नाः, न च जडान्प्रति व्यवहारसाधनम् उचितम्; अथ अजडजीवज्जनताधिकारेण उभयमपि, तर्हि सर्वस्य स्वात्मा महेश्वर - इति दूरतरं विप्रकर्षिता प्रत्याशा, तदेतद् आशङ्क्य निरूपयति :- अत्र तृतीयश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- भावराशौ - जडाजडपदार्थमध्ये | किमीया - कस्य सम्बन्धिनी, त्वयेति शेषः | कं च प्रति, कं चोद्देश्यमुद्दिश्येत्यर्थः | स्वयमेव विभागं करोति जडानाम् इति | तावत्, प्रथममित्यर्थः | नास्ति इति, जडत्वं हि ज्ञानक्रियाशक्तिराहित्यमेवेति भावः | ननु तर्हि कथं रथो गच्छतीत्यादिव्यवहार इत्यत आह तथा च इति | उपचारम् - मञ्चाः क्रोशन्तीत्यादिवत् सादृश्यादिसम्बन्धनिमितां प्रयोजनपरां लक्षणाम्, केचन - तार्किकादयः | प्रतिपन्नाः - अंगीकृतवन्तः | शैवे नये परमार्थतः मुख्यत्वेनैव सर्वत्र ज्ञानक्रियायोगात् केचनेत्युक्तम् | न चोचितमिति सम्बन्धः | तेषां व्यवहारकर्तृत्वासम्भवादिति भावः | उभयम् - कथं वा शक्त्याविष्करणं व्यवहारसाधनं चाजडानां शक्तेरजडान् प्रत्याविष्करणरूपयुगलम् | अजडानामत्र शक्तेराविषकरणादिति भावः | सर्वस्य - जडाजडरूपस्य भाववृन्दस्य, दूरतरं विप्रकर्षिता - अतिदूराद् दूरतरं प्रापिता | प्रत्याशा - आनाशासने प्रवृत्ता आशा प्रत्याशा | चोदितं संकल्पयति तदेतत् इति | निरूपयति - निर्णयविषयतां नयति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य तद्व्याख्यां करोति | तथा हि इति | तथा हि जडभूतानां प्रतिष्ठा जीवदाश्रया | ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् || ३ || ऽतथा हिऽ इति युक्त्युपक्रमं द्योतयति, दृश्यतां किल इत्यर्थः | ऽतथाऽ इत्यनेन साध्यं सूच्यते, हिना हेतुरित्यन्ये, प्रकृतं साध्यं हेतुसिध्यायत्तमुपक्रम्यते इत्यर्थः | तेन इति बुद्धिवर्तिना, तत [अत एव - K. ष्. ष्.] एव स्मर्यमाणेन ग्रन्थेन वर्णयिष्यामाणेन प्रकारेण यस्मात् सर्वमेतद् युक्तम् इति ऽतथा हिऽ इति शब्दस्य वार्थः | इह तावत् भावराशिर्यथा विमृश्यते तथा अस्ति, अस्तित्वस्य प्रकाशं शरणीकुर्वतः प्रकाशप्राणितद्देशीयं विमर्शम् आश्रित्य समुन्मेषात्, अत्र टीका :- तथा हि इतिं पदस्य व्याख्यां करोति तथा हि इति | युक्तिः - शक्त्याविष्करणरूपः उपायः, तस्या उपक्रमः - आरम्भः, तम्, द्योतयति - सूचयति, निपातानामत्रैव शक्तत्वात् | अस्यैव संकेतितं वाच्यार्थमपि कथयति दृश्यताम् इति | तया इत्यवयवस्य दृश्यताम् इति व्याख्या, हि इत्यस्य तु किल इति | अन्यमतमाह तथा इति | प्रकृतं साध्यम् - प्रत्यभिज्ञारूपं साधनीयं वस्तु | पक्षान्तरमाह तेन इति | तथा इत्यस्य तेन इति व्याख्या | तत एव बुद्धिपरिवर्तित्वेनैव, बुद्धौ स्फुरत्त्वेनैव, ग्रन्थेन - प्रत्यभिज्ञारूपेणकारिकासन्दर्भेण, यस्मात् इति हि शब्दार्थः, सर्वम् इत्यादि शेषः | वाक्यार्थ वक्तुं प्रक्रियां तनोति इह - भासमाने जगति | विमृश्यते - विकल्प्यते | अस्ति - सत्तां भजति | अत्र हेतुमाह अस्तित्वस्य इति | अस्तित्वस्य - नीलाश्रयायाः सत्तायाः | शरणीकुर्वतः - साधकत्वेनाश्रयतः | प्रकाशप्राणितः - अनुभूतसत्ताकः, देशः - नीलाख्यः प्रकाशविषयः, तस्यसम्बन्धिनम्, तद्विषयमिति यावत् | अथ प्रकाशस्य प्राणितदेशीयः - प्राणितकल्पः, तम् | प्रकाशो हि विमर्शसारः विमर्शोपि प्रकाशसार इति भावः | अविमृटं हि यदि वस्तु तन्न नीलं न पीतं न सत् न असदिति कुत इति पर्यनुयोगे किमुत्तरं स्यात् | तेन यद् यथा यावत् अवाधितं विमृश्यते तत् तथा तावत् अस्ति, तत एव देशकालाकारविततात्मानोऽपि द्रव्यक्रियासंबन्धादयः एकत्वेन परमार्थसन्त इति वक्ष्यते ऽक्रियासंबन्धसामान्यऽ (२ अ. २ आ. १ श्लो) इत्यादिना, ततश्च विततमपि इदं विश्वं संक्षेपविमर्शदशाधिरोहे जडं जीवच्च - देशीयरः प्रयोगमाश्रित्य इयं व्याख्या | विमर्शम् - नीलमिदमिति विकल्पम्, आश्रित्य समुन्मेषात् - स्फुरणात् | अन्यथा दृष्टनीले सद्योजातबालेपि तत्सत्ता समुन्मिषेदिति भावः | अत्र समर्थनं करोति अविमृष्टम् इति | वस्तु - सत्तायुक्तो नीलाख्यो भावः | यद्यविमृष्टम् - विकल्पविषयीकृतं न स्यात् तदा तद्वस्तु नीलमपि सत् नीलं न भवति | तथा सदपि सत् सत् न भवति | तथा न पीतम्, पीतमित्यनीलोपलक्षणम्, अनीलमपि न भवति | तथा सदपि न भवति | संक्षेपतः अनिर्वाच्यं भवतीति यावत् | इति - अतः | कुतः इति पर्यनुयोगे - कुत इदं नीलं कुत इदं सत् एवं केनचिदाक्षेपे क्रियमाणे, तद्वस्तु किम् उत्तरं यस्य तत्तादृशं स्यात् | यथा तदस्ति तदपि न वक्तुं शक्यते | यथा च नास्ति तदपि न वक्तुं शक्यते | केवलं मौनदशैवायातीति भावः | फलितमाह तेन इति | तेन, यतः सतः साधने विमर्शस्यैव सामर्थ्य ततः कारणादित्यर्थः | यद् वक्ष्यति :- सा स्फुरत्ता महासत्ता इति | यावत्तावच्छब्दाभ्यां बाधानन्तरं तत्तथा मा भवतु न तेन कापि हानिरिति द्योतितम् | एतदवष्टम्भेन वक्ष्यमाणसिद्धान्तमपि फलत्वेनाह तत एव इति | एकत्वेन - निर्विशेषविमर्शभावेन | केन वक्ष्यते इत्यपेक्षायामाह क्रिया इति | इत्येतावता द्वयरूपेण अस्ति | तत्र जडा अपि विमृश्यमाना न स्वतन्त्रा भवन्ति, विमृश्यमानता हि तेषां न स्वशरीरविश्रान्तः कोऽपि धर्मः जडत्वाभावप्रसंगात्, मम नीलं भाति मया नीलं ज्ञायते इति | तेषाम् ऽजडभूतानांऽ चिन्मयत्वेऽपि मायाख्यया ईश्वरशक्त्या जाड्यं प्रापितानाम्, ऽजीवन्तंऽ प्रमातारमाश्रित्य ऽप्रतिष्ठाऽ तत्प्रमात्राभिमुख्येन अवस्थानम्, ततो जडा नाम न पृथक् सन्ति | यथोक्तं ग्रन्थकृतैव :- एतच्चैतस्याः कारिकायाः व्याख्यायां स्फुटीभविष्यतीति नायस्तम् | नन्वेतेन किं सम्पन्नमित्यत्राह ततश्च इति | तत्र - जडाजडयोर्मध्ये, विमृश्यमानाः - किंरूपा इति विकल्पविषयीकृताः, स्वतन्त्राः - स्वाधीनसत्ताकाः | कुतो नेत्यपेक्षायामाह विमृश्य इति | विमृश्यमानता - विमर्शविषयीभावः | स्वशरीरे - स्वस्वरूपे, विश्रान्तः - स्थितियुक्तः, विमर्शस्य प्रमातृधर्मत्वादिति भावः | तर्हि स धर्मः कुत्र विश्रान्तोऽस्तीति चेत् चेतनेष्विति ब्रूमः, एतदेव हि चेतनत्वं यद्विमर्शसामर्थ्यम्, तथा च वक्ष्यति :- स्वभावमवभासस्य विमर्शं विदुरन्यथा | इति | इति चेतसि कृत्वा हेतुमाह जडत्वाभाव इति | ननु तर्हि तेषां जडानां कथं सिद्धिरस्तीत्यपेक्षायामाह मम नीलम् इति | मम नीलं भाति मया नीलं ज्ञायते इति भानक्रियाकर्तृत्वेन ज्ञानक्रियाविषयत्वेन च | तेषाम् - जडानाम्, चिन्मयत्वेपि - परमार्थदृष्ट्याश्रयणेन चिद्रूपत्वेपि सति | मायाख्यया ईश्वरशक्त्या - स्वात्मविस्मृतिरूपया मायाशक्त्या, जाड्यं प्रापितानाम् - वेद्यभावमानीतानां सताम् | जीवन्तं प्रमातारम् - षष्ट्यन्ततृतीयान्तास्मच्छब्दवाच्यमजडं ग्राहकम् | आश्रित्य - स्वविषयीभूतभानज्ञानाख्यक्रियाद्वयाश्रयत्वेनापेक्ष्य, प्रतिष्ठा इत्यस्य व्याख्यां करोति तत् इति | तस्य प्रमातुः - षष्ठ्यन्ततृतीयान्तास्मच्छब्दवाच्यस्य प्रमातुः, आभिमुख्येन - सांमुख्येन, ग्राह्यतयेति यावत् | अवस्थानम् - स्वरूपलाभरूपावस्थितिः, भवति इति शेषः | फलितमाह ततः इति | पृथक्, ग्राहकमनपेक्ष्येत्यर्थः न सन्ति - स्वरूपं न लभन्ते | अत्र ग्रन्थकृद्वाक्यमुदाहरति यथोक्तम् इति | तदुक्तमेवाह ऽएवम्ऽ इति | ऽएवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी | जडाः प्रकाश एवैकः स्वात्मनः स्वपरात्मभिः ||ऽ इति | स एव हि स्वात्मना [स्वात्मा सन् - K. ष्. ष्.] सन् वक्तव्यो यस्य अन्यानुपहितं [अन्यानुपाहितम् - K. ष्. ष्.] रूपं चकास्ति; न च भारूपानुपहितं [भारुपानुपाहितम् - K. ष्. ष्.] जडं नाम किञ्चित्, तेन जडानां हि शक्तिरा - तत्रत्यं पूर्वं न्यायमपेक्ष्य एवंशब्दप्रयोगः | एवमात्मनि - मायया सिद्धे जडरूपे स्वस्मिन् | असत्कल्पाः - विमर्शासमर्थत्वेनासद्रूपाः | अमीजडाः - नीलादयः वेद्याः, प्रकाशस्यैव सन्ति - प्रकाशसम्बन्धिन एव भवन्ति | तद्ग्राह्यताकाले एव स्वरूपलाभात् परतंत्रा एव भवन्तीति यावत् | अतः एकः - केवलः, प्रकाश एव स्वात्मनः अस्ति - स्वप्रकाशत्वेन स्वग्रहणे परापेक्षाभावेन स्वसम्बन्धी भवति, स्वतंत्रो भवतीति यावत् | तदुक्तम् :- सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् | सामुद्रो हि तरंगः क्वचन समुद्रो न तारङ्गः || इति | कीदृशः ? स्वपरात्मभिः - वेदकभावेन वेद्यभावेन च, उपलक्षितः, सर्वभावेन स्वयमेव स्थितत्वात् | तदुक्तम् :- वेद्यं वेदकतामाप्तो वेदकः संविदात्मताम् | संवित्त्वदात्मा चेत्सत्यं तदिदं त्वन्मयं जगत् || इति | उदाहृतेऽर्थे हेतुमाह स एव हि इति | स्वात्मना सन् - स्वसम्बन्धित्वेन स्थितः, अन्यानुपहितम् - ग्राहकतया स्थितेनान्येन न विच्छिन्नीकृतम् | ननु जडमपि तादृशमेव भवत्वित्यत आह न च इति | भारूपानुपहितम् - प्रकाशरूपेण ग्राहकेणानवच्छिन्नीकृतम् | फलितमाह तेन इति | निरुत्थ नम् - उत्थानासहम् | एतेन पूर्वार्धं व्याख्यातम् | विष्क्रियते जडान्प्रति - इत्येतत् तावत् निरुत्थानमेव | ये तु अन्ये जडेभ्यो जीवन्त - इति नाम प्रसिद्धाः तेषामपि शरीरप्राणपुर्यष्टक - शून्याकाअरः अत्र च किंचिद् वक्तव्यं वर्तते | परमार्थदृष्टिस्तावदास्ताम्, बाह्यदृष्ट्यापि जडानामपि ज्ञानक्रियारूपा चेतनता विद्यत एव | तथा हि | वृक्षास्तावत् स्फुटं तद्युक्ताः | अन्यथा तेषां स्वं प्रति रसाकर्षणं योग्यदेशे मूलप्रसारणमारोहणं च न युज्यते | ततः तदङ्गिभूता भूरपि चेतनैव, न हि निर्जीवस्याङ्गिनोऽङ्गं सजीवं दृष्टम् | जलस्य नियमेन निम्नदेशगमनरूपा क्रिया ज्ञानपूर्विकैवानुमीयते | तस्य ज्ञानाभावे तत्र गमनायोगात् | ज्ञानक्रिये एव च चेतनत्वमित्युक्तं | तेजसश्च ऊर्ध्वज्वलनरूपा वायोश्च तिर्यग्गमनरूपस्वभावा क्रिया तादृश्येवेति तयोरपि स्फुटा चेतनता | अवशिष्टस्याकाशस्य च दहरत्वेन कर्णशष्कुल्यवच्छिन्नत्वेन च चेतनता स्फुटतमैवेति सर्वत्र ज्ञानमनुमीयत एव | यस्तु तां तत्रोपाधिकल्पितां मन्यते स जलादपीन्धनोपाधिना धूममुत्थापयतु किमस्माकं तेन सह चर्चाभिः | यत्तु तेऽन्योन्यं स्वविषयैः प्रमातृभिः सर्वत्र चित्राः कथा न कुर्वन्ति | तत्स्वभावविजृम्भितम्, स्फुटं चेतनत्वेन स्थितस्यापि चक्षुषस्तददर्शनात् | वागिन्द्रिय एव तदवगमात् | तर्हि स्वभाववाद एवास्तु, भवतु सर्वत्र का नो हानिः | अन्तर्यामिशुद्धचित्तत्त्ववशेनेन्द्रियाणां सा शक्तिरस्तीति चेत्सत्यम्, सर्वत्र तद्वशेनैव सास्तीति सर्वं जडमेवोच्यताम्, अजडमेव वे ति किं विशेषकल्पनाभिः | परमार्थविचारे तु, भावव्रात हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रिडसे | यस्त्वामाह [यस्त्वामाह जडं जडः ट्. आ., Vओल्. ई. ३०६. K. ष्. ष्.] जडं स्वयं सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् || इति नीत्या सर्वेषां भावानां स्वरूपमपि चिन्मयमेवेति एकप्रकाशवाद् एव सर्वत्र सुप्रतिष्ठितः | यस्तु ग्रन्थकृता विशेष उक्तः स स्फुटत्वास्फुटत्वकृतः, अथवा जडानामुपदेशानहत्वमपेक्ष्यैवमुक्तमिति न विरोध इत्यलम् | उत्तरार्धं व्याख्यातुं प्रक्रियामाह ये तु इति | शरीरम् - स्थूलशरीरम्, पुर्यष्टकम्, लक्षणया बुद्धिः | जडा एव, न तु चेतनाः स्वग्रहणे परापेक्षत्वात्, न हि देहस्य तावत् जडा एव इति तेषामपि किमुच्यते | अत [एवं घटशरीरप्राण - K. ष्. ष्.] एव घटशरीरप्राणसुखतदभावरूअपं सत् यल्लग्नं भाति तदेव जीवरूपभूतं सत्यम्; तस्य च आपाते यद्यपि बहुत्वं भाति तथापि तत् जडात्मकवेद्यशरीराद्युपाधेः | ततस्तत् अपारमार्थिकम् अन्योन्याश्रयात्, जीवा हि जडभेदात् भेदभागिनः स्वग्राहकत्वम्, तदवच्छिन्नस्य चिदंशस्यैव तत्त्वात् | एवं प्राणादावपि ज्ञेयम् | तेषामपि - अजडसम्बन्धिनां शरीरादिनामपि | किमुच्यते इति, तेषामपि ज्ञानक्रिये न युक्ते इति भावः | तर्हि केषां शक्तिराविष्क्रियते इत्यपेक्षायामाह अत एव इति | तदभावः - घटादीनामभावः | यल्लग्नम् - यन्निष्ठं सत्, भाति - अस्तित्वेन स्फुरति | ननु यदि जीवस्य सत्यभूतत्वं तर्हि तस्य बहुत्वादैक्यस्यासम्भव इत्यत आह तस्य च इति | आपाते - विवेकात्पूर्वम् | तत् - बहुत्वभानम् | वेद्याः - नीलादयः, शरीरादयः - देहप्राणादयः, त एवोपाधिः तस्मात् | अयं जीवो बहुः, जीवत्वाद्, इति प्रयोगे स्फुटं वेद्याद्युपाधेः स्थितत्वम्, बहुत्वे साध्यभूते व्यापकत्वात् | यत्र हि वेद्यादित्वं तत्रावश्यं बहुत्वम्, जीवत्वे साधने चाव्यापकत्वात् | एको देवः सर्वभूतेषु गूढः इति श्रुतेः गूढस्य जीवत्वात्, एतेन जीवेनानुप्रविश्य नामरूपे व्याकरणवाणि इति श्रुतेः | तदुक्तम् :- साध्यव्यापकत्वे साधनाव्यापकतोपधिः इति | फलितमाह ततः इति | ततः, उपाधेर्हेतोरित्यर्थः | अपारमार्थिकम् - असत्यभूतम् | न ह्युपाधिसिद्धस्याऽऽकाशादिबहुत्वस्य भेदवादेऽपि सत्यत्वमिति भावः | अत्रापि हेतुमाह अन्योन्याश्रयात् इति | तमेव दर्श्यति जीवा हि इति | हि - यस्मात् | जीवाः - जडाश्च जीवभेदात्, एतद्देहोऽयम् एतद्वेद्योऽयम् - इति भेदम् उपेयुः, नीलपीतादिभावभेदास्तु [नीलपीतादिभेदस्तु - K. ष्. ष्.] प्रमातृसंलग्नतया भेदभूमिमेव [प्रमातृसंलग्नतया अभेदभूमि - K. ष्. ष्.] परमधिरूढा [परमारूढ - K. ष्. ष्.] इति | किं [इति किं तेन - K. ष्. ष्.] तेन | तदयं जीवानामभेद एव संपन्न इति जीवन् प्रमाता - इति जातम् | जीवनं च जीवनकर्तृत्वं तच्च ज्ञानक्रियात्मकम्, यो हि जानाति च करोति च स जीवति - इत्युच्यते | तदयं प्रमाता ज्ञानक्रियाशक्तियोगाद् चेतनाः | जडभेदात् - देहादिभेदाद्धेतोः, भेदभागिनः सन्तः, एष देहो येषां ते, एते वेद्या येषां ते, इति भेदमुपेयुः - प्राप्नुवन्ति, अन्यथैकप्रकाशमात्ररूपत्वात्, तथा जडाश्च - देहादयः, एतस्य देह एतस्य वेद्य इति भेदमुपेयुः | अन्यथान्यदेहादावन्यदेहादिभावापातात् | नन्वजडानामसत्यभुत - वेद्यदेहाद्युपाधिप्रभावागतं बहुत्वमसत्यमेव | भवतु, जडानां तु सत्यभूतजडतावशेनागतं तत्सत्यमेव भवेदित्यत आह नील इति | नीलपीतादिभावभेदाः - नीलपीतादयो भावविशेषाः | आदिशब्देनान्येषां वाह्यानामान्तराणां सुखादीनां च ग्रहणम् | भेदभूमिम् - नीलादिभावेन भासनरूपां भेदकक्ष्याम् | परम् - केवलम् | अधिरूढाः - आश्रितवन्तः | इति शब्दः प्रमेयपरिसमाप्तौ | ननु तर्हीष्टस्यैक्यस्य सिद्धिर्नास्त्येवेत्यत्राह किंतेन इति | तेन - तेषां भेदभूम्यारोहणेन | किम्, अस्मिन् समये जीवैक्यमात्रस्यैव प्रकृतत्वान्न तेन कापि हानिरित्यर्थः | जीवैक्ये सिद्धे जडैक्यस्यायत्नसिद्धत्वमेवेति भावः | फलितमाह तदयम् इति | अयम् - समनन्तरसाधितः | परमं फलितमाह इति इति | इति - अतः कारणात् | जीवन्प्रमाता इति - एको जीवनकर्ता प्रमातेति, जातम् सिद्धमित्यर्थः | नन्वेतेन प्रकृतयोः ज्ञानक्रिययोः किमायातमित्यत्राह जीवनम् इत्यादि | तच्च - जीवनक्रियाकर्तृत्वं च | कथमित्यपेक्षायामाह यो हि इति | ईश्वर - इति व्यवहर्तव्यः पुराणागमादिप्रसिद्धेश्वरवत्; तदप्रसिद्धावपि सर्वविषयज्ञानक्रियाशक्तिमत्त्वस्वभावमेव ऐश्वर्यं तन्मात्रानुबन्धित्वादेव सिद्धम्; तदपि च कल्पितेश्वरे राजादौ तथा व्याप्तिग्रहणात्, यो यावति ज्ञाता कर्ता च स तावति ईश्वरो राजेव, अनीश्वरस्य ज्ञातृत्वकर्तृत्वे स्वभावविरुद्धे यतः, आत्मा च विश्वत्र ज्ञाता कर्ता च - इति सिद्धा प्रत्यभिज्ञा | अन्यथा मृतस्यापि जीवत्वं स्यादिति भावः | युक्त्या साधितमात्मन ईश्वरत्वमनुमानेनापि साधयति तत् इति | तत्, यतो जीवनं ज्ञानक्रियाकर्तृत्वरूपं ततः कारणादित्यर्थः | अयं प्रमातेति पक्षः, ईश्वर इति व्यवहर्तव्य इति साध्यम्, ज्ञानक्रियाशक्तियोगादिति हेतुः, पुराणागमादिप्रसिद्धेश्वरवद् इति उदाहरणम् | पुराणागमादिषु च सर्वज्ञः सर्वकर्ता चेश्वरः प्रसिद्ध इति आत्मापि तादृश एवानुमातव्य इति भावः | ननु येन पुराणागमादि न श्रुतं तस्य कथं तद्दृष्टान्तेनात्मविषय ईश्वरताबोधः सिद्ध्येदित्यत्राह तदप्रसिद्धौ इति | तदप्रसिधावपि - पुराणागमाद्युक्तेश्वराप्रसिद्धौ सत्यामपि | ऐश्वर्यम् - परमेश्वरभावः | तन्मात्रस्यसामान्यज्ञानक्रियाशक्ति - मात्रस्य, न तु सर्वविषयस्य, योनुबन्धः - योगः सोस्यास्तीति तन्मात्रानुबन्धी तस्य भावस्तत्त्वं तस्मात् | सिद्धम् - आत्मनि निष्पन्नं भवति | तथा चैवंप्रयोगः,; अयमात्मा सर्वविषयज्ञानक्रियाशक्तिमान्, ज्ञानक्रियाशक्तियोगात् | अत्रान्वयव्यतिरेकव्याप्तिं स्वयमेव दर्शयितुमाह तदपि इति | तदपि - ज्ञानक्रियाशक्तियोगेनैश्वर्यसाधनमपि | कल्पितेश्वरे - कृत्रिमेश्वरे, लोभादिना लौकिकेश्वरतया संभाविते इति यावत् | तथा व्याप्तिग्रहणात् - ज्ञानक्रिया - योगैश्वर्ययोर्व्याप्तिग्रहणात् | तत्रान्वयव्याप्तिमनुकृत्याह यो यावति इति | व्यतिरेकव्याप्तिमर्थतो दर्शयति अनीश्वरस्य इति | यो यावतीश्वरो न भवति स तावति ज्ञाता कर्ता च न भवति, यथा सामान्यपुरुषः | उपनय करोति आत्मा च इति | तस्माद् विश्वेश्वर इति निगमनं स्वयमेव कार्यं तस्यैवेष्टत्वात् | फलितमाह इति इति | इति - अतः कारणात् | प्रत्यभिज्ञा - नूनं स एवेश्वरोऽहमिति प्रत्यभिज्ञानम् | अत्र च ज्ञानक्रियायोगमात्रेणापि सर्व - ज्ञानक्रियाशक्तो एव स्वाभाविक्यौ अप्ररूढभेदोन्मेषे सदाशिवेश्वरौ, भेदस्य सामान्यतः प्ररोहे विद्याकले, विशेषतः प्ररोहे बुद्धिकर्मेन्द्रियगण इव [बुद्धिकर्मेन्द्रियगण इति भविष्यति - K. ष्. ष्.] भविष्यति विषयज्ञानक्रियायोगरूपमैश्वर्यमग्निकणदृष्टान्तेन सिद्ध्यति | कणभावेन स्थितोऽप्यग्निर्महेन्धनचयदाहेपि समर्थ एव दृश्यते | ननु तर्हि राजन्यपि कथं न तन्मात्रेण सर्वविषयं तदनुमितिविषयतां नयाम इति चेत्सत्यम्, आत्मभावमपेक्ष्य तस्यापि पक्षतैव बाह्यदेहापेक्षया त्वसाविह दृष्टान्तीक्रियते | देहश्च सर्वेश्वरभावे न युक्ततां भजते स्फुटं नश्वरत्वात् | अत एव समनन्तरं कल्पितेश्वर इत्युक्तमित्यलम् | श्रीपरमेश्वरस्थितयोः ज्ञानक्रियाशक्त्योरेव सदाशिवादिभावं कथयति ज्ञान इति | शिवशक्त्योरेवाद्वैतावस्हायाः परमेश्वरतेति न तयोर्ज्ञानक्रियारूपत्वकथनम् | स्वाभाविक्यौ - परमेश्वरस्वभावाव्यभिचारिण्यौ | अप्ररूढः - बीजभावेन स्थितत्वादंकुरभावमगतः, भेदोन्मेषः - इदंतारूपभेदस्फुरणं ययोः ते | अहंभावप्रधानत्वादिति भावः | तद्वक्ष्यति :- निमेषोन्तः सदाशिवः इति | यद्यपीश्वरस्य भेदाभेदयोस्समधृततुलापुटन्यायेन समप्राधान्यम्, तथापि समीपवर्तित्वेन समकक्षतया सदाशिवेन सह ग्रहणम् | अथवा ज्ञानशक्तेः सदाशिवत्वम् | क्रियाशक्तेरीश्वरत्वम् | एवं ज्ञानशक्तेर्विद्यात्वं क्रियायाः कलात्वम् | तथा ज्ञानस्य बुद्धीन्द्रियगणत्वं क्रियायाः कर्मेन्द्रियगणत्वमित्युत्तरत्रापि योज्यम् | सामान्यतः प्ररोहः सम्यगस्फुरणकृतो ज्ञेयः | विद्या - किचिज्ज्ञात्वरूपाशुद्धविद्या | इव शब्दः परमार्थतो भवनासम्भवद्योतनपरः | अत एवासम्भवद्योतनपरस्य ऌटः प्रयोगः | एतेन ज्ञानक्रियाशक्त्योरैश्वर्यरूपत्वं साधितम् | सदाशिवादेरेव परमेश्वरैश्वर्यरूपत्वात् | ननु सर्वत्र भाववृन्दे परमार्थतः चेतनव्यवहारयोग्यत्वेपि किमिति जीवताम् इत्यनेन प्रमातार एव चेतनतया निर्दिष्टा इत्याशंकायामाह जडा इति | चः तुशब्दार्थे | अन्ये च - अन्ये त्वित्यर्थः | आपाते, उपदेशकाले इत्यर्थः | न तु संवित् - सर्वभावेन स्थितः प्रकाशः, आपाते भाति, इति - जडा इति अजीवन्तः, अन्ये च जीवन्त - इत्यापाते तावद् भाति न तु संविदापाते भातीति [न तु संविदापाते भाति | जीवताम् - K. ष्. ष्.] जीवतामिति जङ्गमा एव अमी इत्थं निर्दिष्टाः || ३ || ननु ज्ञानक्रिये एव कथं सिद्धे यत ऐश्वर्यव्यवहारः प्रसाध्यते - [प्रसाध्येत - K. ष्. ष्.] इति शङ्कां शमयितुमाह :- तत्र ज्ञानं स्वतः सिद्धं क्रिया कायाश्रिता सती | परैरण्युपलक्ष्येत तयान्यज्ञानमुह्यते || ४ || अतः कारणात्, जीवतामिति - जीवतामिति शब्देन, जङ्गमा एव - लक्षणया प्रमातार एव | इत्थम्, चेतनया ज्ञानक्रियारूपया, निर्दिष्टाः, कथिता इत्यर्थः | || ३ || अथ चतुर्थश्लोकस्यावतरणिकां कर्तुमाह ननु इति | अत्र टीका :- यतः - याभ्यां ज्ञानक्रियाभ्यां तत्सिद्धेर्वा | ऐश्वर्यव्यवहारः, आत्मनीति शेषः | प्रसाध्यते, प्रकर्षेण साधनविषयतां नीयते इत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तत्र ज्ञानम् इति | अत्र टीका :- तत्र प्रथम ज्ञानस्य स्वतः सिद्धत्वं साधयति अहम् इति | स्वप्रकाशः - प्रकाशविषयत्वेन तद्वत् स्वग्रहणे परानपेक्षः, योऽहं परामर्शः - प्रकाशाश्रयः तद्विषयश्चाहमित्यान्तरो विमर्शः, तत्र परिनिष्ठितम् - भित्तौ इव चित्रं लग्नम् | ज्ञानम् नाम - ज्ञानाख्यं वस्तु भवति, न तु पृथग् लब्धसत्ताकं भवति | तथा चाहपरामर्शवत् [तथा चार्थपरामर्श - C.] स्वप्रकाशत्वरूपं स्वतःसिद्धत्वमस्य स्फुटमेवेति भावः | कथम् ? अहं जानामि, मया ज्ञातं ज्ञास्यते च - इत्येवं स्वप्रकाशाहंपरामर्श - [इत्येवं प्रकाशाहंपरामर्श - K. ष्. ष्.] परिनिष्ठितमेव इदं ज्ञानं नाम, किं तत्र अन्यत् विचार्यते, तदप्रकाशे हि विश्वम् अन्धतमसं स्यात्, तदपि वा न स्यात्, बालोऽपि हि प्रकाशविश्रान्तिमेव संवेदयते | तदुक्तम् :- अहं जानामि मया ज्ञातं ज्ञास्यते चेत्येवम्, अनेन प्रकारेणेत्यर्त्यर्थः | तत्राहमिति मयेति चाहंपरामर्शः | जानामीत्यादिना ज्ञानपराम्र्शः | प्रयोगत्रयं कालत्रयव्याप्तिप्रदर्शनार्थम् | ननु किमत्रान्यदपि किंचिद् वक्तव्यमस्ति न वेत्यपेक्षायामाह किं तत्र इति | अहंविमर्शे निष्ठस्य ज्ञानस्य स्वतः सिद्धत्वे किमपि वक्तव्यं नावशिष्यते आबालप्रसिद्धत्वादिति भावः | पूर्वोक्तमेव समर्थयति तत् इति | तस्य - अहंविमर्शनिष्ठज्ञानस्य, अप्रकाशे | विश्वम् - सर्वो भाववर्गः, अन्धतमसम् - घनान्धकाररूपम्, ग्रहीतुमशक्यत्वादिति भावः | तदुक्तम् :- प्रकाशाख्यस्त्वमेवैकः सर्वेऽन्ये तमसा समाः इति | तथा :- संवित्तत्त्वं स्वप्रकाशमित्यस्मिन् किं नुयुक्तिभिः | तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् || इति च | अपवादान्तरमाह [चापदनन्तरमाह - C.] तदपि इति | तदपि - अन्धतमसमपि, तमोग्रहणेऽपि च प्रकाशस्यैव सामर्थ्यात् | न हि नेत्रद्वारेणासंचरितप्रकाशः जात्यन्धः तमोपि ग्रहीतुं शक्नोति, अदर्शनमात्रस्यैव तद्गतत्वात् | अभावरूपयसा दर्शनस्य नीलरूपस्वरूपाद् द्रव्यस्वरूपाद्वातमसो भिन्नत्वत् | आबालमेतत् सिद्धमित्याह बालोपि इति | प्रकाशे - अहंविमर्शस्य तन्निष्ठस्य ज्ञानस्य च सारतया स्थितेऽहंप्रकाशे, विश्रान्तिं संवेदयते - परेष्वनुभवविषयतां नयति | मह्यमिदं ऽविज्ञातारमरे केन विजानीयात् |ऽ (वृ. २/५/१९) इति | तन्निह्नवे हि कः प्रश्नः, किम् उत्तरं च स्यात् - इति तत्र [तत्र जानामि - K. ष्. ष्.] च देहीति प्रयोगे हि ज्ञायते अनेनात्मा लब्ध इति | अन्यथा मह्यंशब्दप्रयोगायोगात्, चौरादिको विदिः, तथा च चेततीत्यर्थः | अत्र श्रुतिमपि प्रमाणयति विज्ञातारम् इति | अहंपरामर्शनिष्ठज्ञानात्तर्ह्यप्रमाता विज्ञाता, अरे - लोकाः प्रेक्षापूर्वकारिणः, तं विज्ञातारम् केन - किं फलमुद्दिश्य, जानीयात्, तस्यैव विश्रान्तिस्थानतया तद्विषयस्य [तद्विषयंतद्व्यतिरिक्तस्य ज्ञानस्य - C.] तद्ध्यतिरिक्तस्य ज्ञानस्य व्यर्थत्वाज्ज्ञाने प्रवृत्तिमेव न कुर्यादित्यर्थः | तथा केन - प्रमाणेन जानीयात् तत एव लब्धसिद्धेः प्रमाणस्य तत्र व्यापारायोगात् | तदुक्तम् :- प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || इति | तथा केन - रूपेण, जानीयात्, नीरूपस्य तस्य ज्ञानं न संभवत्येवेत्यर्थः | तदुक्तम् :- भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि | दूरगैरपि यस्यान्तो दुर्गमस्तं स्तुमो मृडम् || इति | अन्तः शब्दो ह्यत्र परमार्थतः स्वरूपवाच्येव | दुर्गमः, दुर्ज्ञेय इत्यर्थः | अथ च केन - केन रूपेण स्वयं स्थित्वा तं जानीयात्, स्वयमेव तद्रूपेण स्थितत्वान्न तं ज्ञातुं शक्नोति | व्यतिरिक्तस्यैव ज्ञानविषयत्वसंभवादित्यर्थः | तदुक्तम् :- आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः | पर आत्मा तदानीं स्यात् स परो यस्तु मीयते || जानामि - इत्यन्तः संरम्भयोगोऽपि भाति, येन शुक्लादेर्गुणात् अत्यन्तजडात् इति | सर्वथा विज्ञातुर्विषयत्वं न युक्तमिति श्रुत्यभिप्रायः | तथा चान्यश्रुतयः - यस्यामतं तस्य मतं मतं यस्य न वेद सः | विज्ञातमविजानतामविज्ञातं विजानताम् || तथा :- यद्वेद्यं तज्जडम् इति | नन्वेतेनास्य निह्नव एवायात इत्यत्राह तन्निह्नवे इति | तन्निह्नवे - तस्य विज्ञातुरपलापे, प्रष्टुर्वक्तुश्च निह्नवापातादिति भावः | तदुक्तम् :- असन्स एव भवति असद् ब्रह्मेति वेद चेत् इति | एतदुक्तं भवति, विज्ञातुर्ग्रहणापेक्षैव नास्ति, स्वयमेव ग्रहीतृत्वेन स्थितत्वात् | न च तस्यैव तद्ग्रहणं युक्तमन्यत्वापत्तेः | न च तदग्रहणे सामग्र्यपि युज्यते सर्वस्याः तस्याः तत एव सिद्धेस्तं प्रत्युपायत्वायोगात् | नन्वहं विमर्शनिष्ठत्वद्वारेण ज्ञानस्य प्रकाशरूपं स्वतःसिद्धत्वं भवतु, क्रियाया अपिशब्दद्योतितं तत्कथं संभवेदित्यत्राह तत्र च इति | तत्र च सति जानामीत्यन्तः, उपलक्षणं चैतत्, तेन जानामीत्यादित्रयमध्ये, संरंभयोगोपि भाति - कृत्प्रत्ययवाच्यस्पन्दयोगोपि, भाति - अहंपरामर्शनिष्ठज्ञानवत् स्वप्रकाशत्वेन स्फुरति | येन - भानेन, [येन भावेन - C.] जानामीतिवपुः - प्रकृति - प्रत्ययविभागकल्पनया ज्ञानक्रियानिष्ठं जानामिति अस्य स्वरूपम्, अत्यन्तजडात् - स्वग्रहणे सर्वदा परापेक्षत्वाद् अतिशयेन जडात् | शुक्लादेर्गुणात्, तमपेक्ष्येति जानामि - इति - वपुः च्त्स्वभावाताम् अभ्येति; स च संरम्भो विमर्शः क्रियाशक्तिर्भ्वति [क्रियाशक्तिरुच्यते - K. ष्. .ष्] | यदुक्तम् अस्मत्परमेष्ठिश्रीसोमानन्दपादै: - ऽघटादिग्रहकालेऽपि घटं जानाति सा क्रिया |ऽ इति | तेन आन्तरी [आन्तरीयक्रियाशक्तिः - K. ष्. ष्.] क्रियाशक्तिः ज्ञानवदेव स्वतः सिद्धा स्वप्रकाशा, सैव तु स्वशक्त्या प्राणपुर्यष्टकक्रमेण शरीरमपि संचरमाणा स्पन्दनरूपा सती यावत् | चित्स्वभावताम् - चिद्रूपताम्, अभ्येति - प्राप्नोति | आन्तरं प्रमातृरूपं ज्ञानं प्रति ग्राह्यत्वेपि बाह्यं शुक्लादिगुणं प्रति प्रमाणभावमासाद्य ग्राहकत्वात् | अभ्येतु ततः किमित्यपेक्षायामाह स च इति | विमर्शः - विषयावसायरूपः | स च संरंभः - जानामीत्यन्तर्गतस्तिङ्वाच्यः स्पन्दः, क्रियाशक्तिर्भवति, अन्यथा तिङ्प्रयोगायोगादिति भावः | अत्र शिवदृष्टिवाक्यमुदाहरति यदुक्तम् इति | घटादिग्रहणकालेऽपि यद् घटं जानातीति भवति सा क्रिया भवति | न तु करणकालिकं करोमीत्येतदेव क्रिया भवतीत्यपिशब्दाभिप्रायः | सिद्धं स्वाभीष्टं प्रकटयति तेन इति | आन्तरी - प्रमाणरूपा न तु कायव्यापार - रूपा | ज्ञानवदेव, अहंपरामर्शनिष्ठविज्ञातृरूपविज्ञान - वदित्यर्थः | ननु यदीयमेव क्रिया तर्हि काये यः स्पन्दः प्रत्यक्षं दृश्यते स किमस्तीत्यत्राह सैव - इति | सैव - आन्तरी क्रियैव | स्वशक्त्या - निजसामर्थ्येन | व्यापारात्मिका - व्यापाररूपा | मायापदे - भेदे, विषयः - गोचरः | तदुक्तम् :- लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या | सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया || इति | एतेन द्वितीयवाक्यव्याख्या सम्पन्ना | अपि शब्दः पूर्वकालीनस्वतः सिद्धत्वसमुच्चयपरः | व्यापारात्मिका [व्यापारव्याहारात्मिका - K. ष्. ष्.] मायापदेऽपि प्रमाणस्य प्रत्यक्षादेर्विषयः | सा च परशरीरादिसाहित्येन अवगता स्वं स्वभावं ज्ञानात्मकमवगमयति, [ज्ञानात्मकं गमयति - K. ष्. ष्.] न च ज्ञानम् इदन्तया भाति, इदन्ता हि अज्ञानत्वम्, न च अन्यद्वस्तु [अन्यदन्येन वपुषा - K. ष्. ष्.] अन्येन वपुषा भातं भातं भवेत्, तत् ज्ञानं भात्येव परम्, भाति च यत् तदेव अहमित्यस्य कार्यरूपायाः कायक्रियायाः कारणरूपं ज्ञानं प्रति हेतुत्वं तृतीयवाक्येनोक्तं कथयति सा च इति | साहित्येन - सहचरत्वेन, स्वं स्वभावम् - उपादानत्वेन निजस्वरूपम्, अवगमयति - भवितव्यमिति तर्करीत्यावगमविषयतां नयति | एतेन ज्ञानस्य परसिद्धत्वमपि कथितम् | अत्र [अत्र च घटो मृदा नहनम् - C.] च घटान्मृदूहनं स्वयमेव दृष्टान्तीकार्यम् | नन्वेतेन स्वज्ञानस्य परज्ञनेन सह भेद एवायातस्तथा चाभीष्टस्याऽद्वैतस्य वन्ध्यातनयसोदर्यत्वमेव स्यादित्यत आह न च इति | ज्ञानम् - विज्ञातरूपम् | इदन्तया - इदमिति बुद्ध्या, न च भाति - अहंनिष्ठत्वेनैव तस्य समनन्तरं साधनात् | कुतो न भातीत्यत आह इदन्ता इति | हि - यस्मात्, इदन्ता अज्ञानत्वम् एव भवति ज्ञानव्यतिरिक्तेषु घटादिष्वेव तत्प्रयोगात् | नन्वत्र ज्ञानमिदन्तयैव भातमिति किं कुर्म इत्यत आह न च इति | अन्यद्वस्तु अन्येन वपुषा - स्वरूपेण, भातं भातं न भवेत्, अन्यथा रजतभावेन भातायाः शुक्तेरपि भातत्वप्रसंगात् | ननु तर्हि तज्ज्ञानम् अभातमेव भवत्वित्यत आह तत् इति | तज्ज्ञानं परम् - केवलम्, भात्येव | यथा तथा कल्पिते तदभानेपि साक्षितया वपुः इति परज्ञानमपि स्वात्मैव; परत्वं केवलम् उपाधेर्देहादेः; स चापि विचारितो यावत् न अन्य इति विश्वः प्रमातृवर्गः परमार्थत एकः प्रमाता स एव अस्ति | तदुक्तम् :- [यदुक्तम् - K. ष्. ष्.] ऽ..........प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः |ऽ इति | ततश्च भगवान् सदाशिवो जानाति इत्यतः प्रभृति क्रिमिरपि स्थितत्वात् | अन्यथाऽभानासिद्धे | ननु सदा भानेन तस्य किमायातम् इत्यत आह भाति च इति | यच्च भाति तत् अहमित्यस्य - अहंपदवाच्यस्य विज्ञातुः, वपुः - स्वरूपं भवति | इति इति | इति - अतः कारणात् | परज्ञानमपि - परकायक्रिययार्थादूहितं [परकायक्रिययार्थहितम् - C.] परज्ञानमपि, स्वात्मैव भवति परस्मिन्सदा भानात्, एतद्विषय इदन्ताभानस्यान्यथासिद्धत्वच्च | ननु भासमानं परत्वं कुत्रापसारयाम इत्यत आह परत्वम् इति | आदिशब्देन प्राणादेर्ग्रहणम् | न हि घटद्वयान्तरगतयोराकाशयोर्भिन्नत्वं युक्तमिति भावः | ननु तर्हि परत्वापादक उपाधिरेवापसार्य इत्यपेक्षायामाह स चापि इति | यावत् शब्दोऽवधारणे, स च - उपाधिश्च, यावद्विचारितः विचारित एव सन् | अन्यः - प्रकाशरूपप्रमातृव्यतिरिक्तो न भवति | न ह्याकाश आकाशस्योपाधित्वं युक्तम्, तद्व्यतिरिक्तस्य घटादेरव तद्दर्शनात् | फलितमाह इति इति | इति - अतः कारणात्, विश्वः - सर्वः, प्रमातृवर्गः - प्रमातृसमूहः, परमार्थतः एकः प्रमाता भवति | मध्ये स्थितस्योपाधेरपि तद्भावेन स्फुरणात् | स एव च - एकः प्रमाता एव | अस्ति - परमार्थःसन्भवति, प्रमातृभेदस्योपाधिकल्पितत्वेन परमार्थेनासत्त्वात् | यस्त्वाह एकप्रमातृवादे एकस्य सुखादिनाऽन्येषामपि कथं न तद्युक्तत्वं दृश्यते स देहात्मभ्रान्त्या ग्रस्त एव, यतो यत्र देहादेरपि असत्यत्वकल्पनं तत्र तत्सिद्धस्य सुखादेः कथैव का, भवतु वा सोपि, तस्यापि तत्त्वान्न कापि हानिरित्यलं भगवदनुग्रहमात्रप्राप्यवस्तुनिव्यर्थैर्वाग्जालैः | अत्र वृद्धसम्मतिमाह तदुक्तम् इति | इदं च गतार्थमिति न पुनरायस्तम् | एतेन सिद्धमर्थमाह ततश्च इति | फलतः सदाशिवकृमिज्ञान - जानाति - इत्यन्तम् एक एव प्रमाता इति फलतः सर्वज्ञत्वं प्रमातुः | एवं कर्तृत्वेऽपि वाच्यम् | यदुक्तम् अस्मत्परमेष्ठिभिः शिवदृष्टौ :- घटो मदात्मना वेत्ति वेद्म्यहं च घटात्मना | सदाशिवात्मना वेद्मि स वा वेत्ति मदात्मना || नानाभावैः स्वमात्मानं जानन्नास्ते स्वयं शिवः | योरेकत्वसाधनेन मध्यगानामन्येषामपि ज्ञानानामेकत्वमेवायातम्, ज्ञानैक्ये च तद्रूपाणां प्रमातॄणामप्यैक्यमेव सिद्धम्, तथा चैकस्यैव सर्वज्ञत्वमायाति | इति फलतः - फलभावेन, न तु साक्षादित्यर्थः | तदुक्तम् :- यैव चिद् गगनाभोगभूषणे व्योम्नि भास्करे | धराविवरकोशस्थे सैव चित्कीटकोटरे || इति | एतेन लौकिकसर्वज्ञतानिरासः | ननु ज्ञातृत्वमेवं भवतु कर्तृत्वस्य का वार्तेत्यत्राह एवम् इति | कर्तृत्वपल्लवत्वादिति भावः | अत्र श्रीसोमानन्दवाक्यमुदाहरणत्वेनाह घटो मदात्मना इति | घटः - वेदनविषयभूतो घटः | मदात्मना - वेदकरूपस्य मम स्वरूपेण, वेत्ति - स्वविषयं वेदनं प्रति कर्तृत्वं भजति | यावन्न वेदका एते तावद्वेद्याः कथं प्रिये | इति नयेन वेदनेच्छाकाले मद्भावेन स्फुरणात् | अहं च घटात्मना वेद्मि - मद्भावासादनप्राप्तवेदकभावघटस्वरूपेण चाहं वेद्मि | ममापि घटग्रहणकाले घटभावासादनात् | अन्यथा ग्रहणासद्भावात् | तदुक्तम् :- व्यतिरिक्तस्य बुद्धत्वे सर्वं बुद्धं न किं भवेत् | इति | एवं विषयपरिमितप्रमात्रोरैक्यमुक्त्वा अपरिमितप्रमातृपरिमितप्रमात्रोरपि तत्कथयति सदाशिव इति | वा शब्दः चार्थे, सदाशिवज्ञानं ममैव ममापि ज्ञानं तस्यैवेत्यर्थः | न हि कणभावेन चयभावेन च स्थितस्याग्निद्वयस्य कदापि भेदोयुक्तः, कणानामेव चयत्वादिति भावः | आदि शब्देनान्येषां तत्रत्यवाक्यानां इत्यादि | ऽऊह्यतेऽ इत्यनेन ज्ञानस्य प्रमेयत्वं न निर्वहति - इति दर्शयति, अन्यथा हि अनुमीयते - इति ब्रूयात् | तदेवं येषां तार्किकप्रावदपांसुपातधूसरीभावो न वृत्तोऽस्मिन् संवेदनपथे, ते इयतैव आत्मानमीश्वरं विद्वांसो घटशरीरप्राणसुखतदभवान् तत्रैव निमज्जयन्त ईश्वरसमाविष्टा एव भवन्ति | ततोऽयम् उपोद्धातः | उप इति आत्मनः समीपे टङ्कवत् ईश्वरप्रत्यभिज्ञानलक्षण [ईश्वराभिज्ञानलक्षणः - K. ष्. ष्.] उत्कर्षो हन्यते विश्राम्यते येन; एतावदेव च अस्य ग्रन्थस्य तात्पर्यम् - इति | ततोऽपि ग्रहणम् | एवं स्वपरज्ञानयोरेकत्वं प्रसाध्य ऊह्यते इत्यस्याअभिप्रायं वक्तुमाह उह्यते इति | अनुमानविषयस्य प्रमेयत्वं सर्वैरुच्यते न तर्कविषयस्येति भावः | अस्याह्निकस्य मंगलश्लोकेन द्योतितम् उपोद्घातत्वं साधयितुमाह तत् इति | तदेवं सति, न वृत्तः - नसंपन्नः, संवेदनपथे - ज्ञानमार्गे, इयता - उपोद्घातत्वेन स्थितेन श्लोकचतुष्केनैव | तत्रैव - ईश्वररूपे परमात्मन्येव | निमज्जयन्तः - अन्तर्भावयन्तः, तद्भावेनैव पश्यन्त इति यावत् | ईश्वरसमाविष्टाः - प्राप्तेश्वर - प्रत्यभिज्ञाः | भवन्ति इत्यनेन समावेशय सिद्धत्वमेव कथयति, अन्यथा भवेयुरिति ब्रूयात् | नीलसुखादिविवशानामेतेनेश्वरसमावेशाभिमानो निरस्तः | न हि तेषु नीलसुखादिनिमज्जनं संभवति, निमज्जने हि प्राप्तेषु तेषु यथोचितं भोगः, अप्राप्तेषु त्ववहेलैव भवति | तत्र च स्वमन एव साक्षितया ग्राह्यम्, अन्यथा स्ववञ्चकत्वापत्तेरित्यलम् | एतेन सिद्धमर्थमाह ततः इति | ततः, यतः समस्तशास्त्राभिधेयः समावेशः एतेनैव सिद्ध्यति ततः कारणादित्यर्थः | अन्यदपि निर्वचनमुपोद्धातशब्दस्य करोति उप इति | टंकः - पाषाणदारणः, ईश्वरप्रत्यभिज्ञानलक्षणः - ईश्वरोहमिति प्रत्यभिज्ञारूपः | ननु कथमेतेनोपोद्धातत्वम् इत्यत आह एतावत् इति | एतावदेव - आत्मनि उत्कर्षविश्रामणमेव | अन्यदपि निर्वचनमाह उपांशु इति | अयम् उपोद्घातः | उपांशु अविततं कृत्वा उदिति शास्त्रस्य ऊर्ध्व एव हन्यते अपसार्यते प्रमेयविषयो व्यामोहो येन - इति | गत्यर्थत्वाद्वा हन्तेर्ज्ञानमर्थः, ज्ञायते प्रमेयं येन इति | केचित्तु गतिं स्त्रियं गच्छति - इत्ये तद्विषयमेव [इत्येतद्विषयामेव - K. ष्. ष्.] हन्त्यर्थमाहुः | एवं श्लोकचतुष्टयार्थभावनादार्ढ्यादेव लभ्यते परमशिवः | इति [इत्यवसायस्य - C.] शिवम् || ४ || इति श्रीमदाचार्यात्पलदेवशिष्य - श्रीमदाचार्यलक्ष्मणगुप्तदत्तोपदेश - श्रीमदाचार्याभिनवगुप्तविरचितायां श्रीप्रत्यभिज्ञाविमर्शिन्यां ज्ञानाधिकारे उपोद्घातः | इति प्रथममाह्निकम् || १ || अविततम् - स्तोकम्, संक्षेपेणेत्यर्थः | प्रमेय विषयः - प्रत्यभिज्ञाविषयः | घात इत्यवयवस्यान्यमप्यर्थमाह गत्यर्थत्वात् इति | गत्यर्थो ज्ञानार्थ इति नीतेरित्यर्थः | प्रमेयम् - स एवेश्वरोऽहमित्येवंरूपम् | केषांचिन्मतेन ज्ञानर्थसाधकं गमनार्थं प्रत्याख्यातुमाह केचित्तु इति | केचित्तु गतिम् - गमनरूपम् | इत्येष एव विषयः यस्य तादृशम् | हन्त्यर्थमाहुः - कथयन्ति | इत्येषः कः ? स्त्रियं गच्छति इति | स्त्रियं गच्छतीति स्थाने एव स्त्रियं हन्तीति प्रयोज्यम् | नान्यत्र हिंसार्थवाचकत्वादिति तेषां भावः | फलितं सिद्धान्तमाह एवं श्लोकचतुष्टय इति | दार्ढ्यात् - अहर्निशं सेवनेन, विमर्शनेनेति यावत् | लभ्यते - प्रत्यभिज्ञाविषयतां नेतुं शक्यते | आदिश्लोकस्य मंगलप्रयोजन - परत्वमपेक्ष्य श्लोकचतुष्टयेत्युक्तम् | परमशिवः - स्वान्तः कृततत्त्वषट्त्रिंशत्कः सप्तत्रिंशः श्रीपरमेश्वरः | इति शब्दः समाप्तौ | शिव पदं मंगलवाचकं परतत्त्वसूचनपरं च | इति शिवम् || ४ || इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनी - टीकायां श्रीभास्कर्याख्यायां ज्ञानाधिकारे प्रथममाह्निकं समाप्तम् | अथ द्वितीयमाह्निकम् | पूर्वपक्षतया येन विश्वमाभास्य भेदतः | अभेदोत्तरपक्षान्तं [पक्षान्तर्नीयते - K. ष्. ष्.] नीयते तं स्तुमः शिवम् || द्वितीयमाह्निकम् ओं ! पूर्वपक्षमयद्वैतमद्वैतान्मध्यपक्षतः | निष्कृष्यान्ते पराद्वैतपक्षवन्तं शिवं स्तुमः || ओं | अथ ज्ञानाधिकारे द्वितीयाह्निकव्याख्याया निर्विघ्नपरिसमाप्तिकामनया समस्ताह्निकाभिप्रायसूचकं मंगलश्लोकमुपनिबध्नाति पूर्वपक्ष इति | अत्र टीका :- येन - उत्तरार्धे तच्छब्दोक्तेन श्रीपरमशिवेन | विश्वम् - षट्त्रिंशत्तत्त्वात्मकं जगत् | पूर्वपक्षतया - प्रतिसमाधेयपूर्वपक्षभावेन | भेदतः आभास्य - निजेच्छया भेदतः - इदन्ताग्रहणप्राणभेदेन, आभसविषयतां नीत्वा | अभेद एव - अहन्ताप्राणा एकता एव, उत्तरपक्षः - स्थापनीयः पक्षः, स एवान्तः - अवसानं तम्, नीयते - प्राप्यते | वयं तं शिवं स्तुमः - सर्वोत्कृष्टतया भावयामः | एतेन परशिवक्रीडारूपत्वं जगत उक्तम्, क्रीडाविष्टाः स्वतन्त्रा हि किंचिद्वस्तुतः इह यत् पमार्थरूपं तद् आशङ्क्यमानप्रतिपक्षप्रतिक्षेपेण निरूपयिष्यमाणं सुष्ठुतमां स्पष्टोकृतं भवति | यदाह भट्टनारायणः :- ऽनमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते | ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ||ऽ उत्पाद्य स्वयं नाशयन्ति | एतेन मंगलश्लोकेनेदमाह्निकं पूर्वपक्षरूपमित्यपि सूचितम् | एवं मंगलं संपाद्याह्निकतात्पर्यं समस्तव्यस्तत्वेन कथयन्नाह इह इति | अत्र टीका :- इह - अस्मिन् शास्त्रमार्गे, परमार्थरूपम् - तात्पर्यविषयत्वेन परमाभिधेयरूपम् | आशंक्यमानाः - वादिभिः शंकितुमारब्धाः, न तु संभवसहाः, ये प्रतिपक्षाः - विरुद्धाः नाशकाः अपरमार्थभूताः प्रतिद्वन्द्विनः पक्षाः, तेषां यत् प्रतिक्षेपणम् - प्रतिसमाधानं तेन | अत्र वृद्धसंमतिमाह यदाह इति | हे देव - विश्वोद्भावनन्यक्काररूपक्रीडाशील | ते - अस्मच्छब्दप्रयोगयोग्यत्वेऽपि भक्त्यतिशयास्वादेन भिन्नतया भावनेन युष्मच्छब्देन भाविताय भवते | नमः - अस्मत्कर्तृकः प्रहवीभावोऽस्तु | कीदृशाय भवते ? भवे - रागद्वेषमये संसारे, ये संभ्रान्ताः - विस्मृतस्वात्मत्वेन देहादावात्मभ्रमयुक्ता ये जीवाः, तेषां भ्रान्तिम् - प्रोक्तरूपं भ्रमम्, तत् उद्भाव्य प्रकटीकृत्य, भिन्दते - तीव्रतरशक्तिपातेन पुनर्विदारकाय, अत एव ज्ञानानन्दम् - आत्मप्रकाशरूपमानन्दम् | कीदृशम् ? निर्द्वन्द्वम् - विषयसुखरूपद्वन्द्वव्यतिरिक्तम् | वृत्वा - मायाशक्त्यावरणविषयतां नीत्वा, विवृण्वते - तदपसारणेन प्रकटीकुर्वते | एतेन मध्ये विस्मतं वस्तु पुनः प्राप्तमतिशयेनानन्दकारि भवतीति भ्रान्त्युद्भावनमपि कृपाहेतुकमेवेति द्योतितम् | ननु ततः किमित्यत्राह तत्रेह इति | तत्र - पूर्वोक्ते वस्तुनि सति, अनात्मानीश्वरे - आत्माऽभावेश्वराभावौ, वदन्तीति तेषाम् | भ्रान्तिः - अनात्मानीश्वरताज्ञानरूपो विपर्यासः, तदुद्भावनम्, अन्यथा भ्रान्तिभेदनस्य निर्विषयत्वापातादिति भावः | एकादशकमेवाद्यन्ताभ्यामुपलक्षयति ननु इति | तत्रेह अनात्मानीश्वरवादिनां भ्रान्तिभेदनपूर्वकं परमार्थं विवरीष्यन् तदुद्भावनं तावत् एकादशभिः श्लोकैः करोति ऽननु स्वलक्षणाभसम्............................... |ऽ इत्यादिभिः ऽ................................टेन कर्तापि कल्पितः ||ऽ इत्यन्तैः | तत्र श्लोकद्वयेन आत्मनो ध्रुवस्य दृश्यानुपलब्ध्या अभाव उक्तः प्रत्यक्षात्मवादिनः प्रति | तत्र श्लोकत्रयेण स्मृत्यनुसंधानं संस्कारात् सिद्धम् इति अन्यथासिद्धत्वात् आत्मानुमानाय न पर्याप्तम् - इति प्रोक्तम् अनुमेयात्मवादिनः प्रति | तत्र श्लोकेन ज्ञानादिगुणैर्गुणिनि प्रतिपत्तिः :- सामस्त्येनोक्त्वा व्यस्तत्वेनापि कथयति तत्र इति | तत्र - एकादशमध्ये, ध्रुवस्य - नित्यस्य | दृश्य इति | दश्यस्य - सत्त्वे द्रष्टुं योग्यस्य, या अनुपलब्धिः - अप्राप्तिः, तया प्रमाणभूतया, अनुपलब्धस्यापि पक्षस्य स्वरूपविप्रकर्षेणाभावसाधनं नोचितमिति दृश्य इत्युक्तम्, प्रत्यक्षात्मवादिनः प्रति - शैवान् प्रति, त एव हि नित्यमात्मानं प्रत्यक्षं वदन्ति | स्मृतिरूपमनुसंधानं स्मृत्यनुसंधानम्, अनुमेयात्मवादिनः - तार्किकादीन्, प्रति | सप्तमाष्टमयोः कृत्यमाह एवम् इति | नवमस्य कृत्यमाह तत इति | एकेन, श्लोकेनेति पूर्वेण संबन्धः | इति शब्दः नवमश्लोककृत्यसमाप्तिपरः | वदता इत्यस्य पूर्वेण संबन्धः | एकादशस्य कृत्यमाह श्लोकेनैव इति | तत्र - स्थिरे आत्मनि | उपसंहारं करोति इति इति | इति, एवमित्यर्थः | ननु इति अनुमानं निरस्तम् | एवम् आत्मानं निराकृत्य, ततो ज्ञानक्रियाशक्तिसंबन्धरूपमैश्वर्यं निराकर्तुं ज्ञानस्य स्वरूपमेव व्यतिरिक्तं वाद्यन्तरमते, सांख्यमते च अयुज्यमानम् - इति निरूपितं श्लोकद्वयेन | तत एकेन क्रिया नाम न काचित् क्वचिदपि अस्ति - इति कथितम् | तत्र साधकं प्रतिक्षिप्य बाधकं च उपन्यस्यति | ततः संबन्धस्य श्लोकेन नास्तित्वं प्रतिपादितं प्रमाणाभावं वदता | श्लोकेनैव तत्र बाधकं प्रमाणमुक्वा, न आत्मा स्थिरो नापि ज्ञातृत्वकर्तृत्वलक्षणम् अस्य ऐश्वर्यम् - इति स्वपक्ष उपसंहृतः - इति पूर्वपक्षस्य पिण्डार्थः | सर्वमेतत् स्वयं स्फुटीभविष्यतीति किं प्रथमत एव प्रपंचः कृत इति चेत् शिष्यबुद्धिसमाधानार्थमिति ब्रूमः | ग्रन्थार्थव्याख्याकरणं प्रतिजानीते अथ इति | ग्रन्थानाम् - कारिकासूत्ररूपाणाम्, अर्थः - अभिधेयम्, व्याख्यायते, विव्रियते इत्यर्थः | अथावतरणिकां विनंव प्रथमं द्वितीयं च श्लोकमुपन्यस्य व्याचष्टे | ननु इति | अत्र टीका :- ननु शब्दस्य वाच्यमाह ननु इति | आक्षेपे - अभियोगे, न तु प्रश्ने तस्येहायुक्तत्वात् | तमेव प्रकटयति इह इति | तावत् - प्रथमम्, अयुक्तत्वे हेतुमाह स्थिरस्य इति | अपि शब्दः समुच्चये, आत्मन इति शेषः | अप्रकाशनात् - प्रकाशनाभावात् | एतदेव समर्थयितुमाह तथा हि इति | तथा, दृश्यतां किलेत्यर्थः | घटप्रकाशः - घटविषयं निर्विकल्पज्ञानम् | विकल्पः - सविकल्पज्ञानम् | प्रत्यभिज्ञा - सोयमित्युभयजं ज्ञानम् | स्मृतिः - स इति संस्कारजं ज्ञानम् | उत्प्रेक्षा - भवितव्यमिति तर्कज्ञानम् | आदि शब्देन इदं वा इदं वा इति संशयज्ञानं गह्यते | प्रकाशन्ते - स्वप्रकाशतया स्फुरन्ति | एकघटविषयत्वेऽपि कल्पितं भेदमपेक्ष्य भिन्नविषयाणि इत्युक्तम् | तत्र इति, तत्र - ज्ञानषट्कमध्ये | नीलस्यप्रकाशःस्वलक्षणाभासं ज्ञानम्, सूत्रोक्तमिति शेषः, भवतीति संबन्धः | अथ ग्रन्थर्थो [अथ ग्रन्थो व्याख्यायते - K. ष्. ष्.] व्याख्यायते ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः | साभिलापं विकल्पाख्यं बहुधा नापि तद्द्वयम् || १ || नित्यस्य कस्यचिद् द्रष्टुस्तस्यात्रानवभासतः | अहंप्रतीतिरप्येषा शरीराद्यवसायिनी || २ || स्वलक्षण इत्यस्य बहुब्रीहिमाश्रित्य विग्रहं करोति स्वम् इति | स्व इत्यवयवं व्याख्यातुमाह अन्य इति | दुर्बोधताशंक्या पर्यायान्तरमाह स्वरुप इति | स्वरूपे संकोचं भजतीति तादृशम्, असाधारणमित्यर्थः, राहोः शिर इतिवत् प्रयोगः, भजनकर्तुस्तदाधारस्य चैकत्वात् | लक्षण इत्यवयवं व्याचष्टे देश इति | लक्षणम् - स्वरूपम्, तच्च विशेष्यत्वेन देशादित्रययोजनामयमेवेति देशादिग्रहणम्, यस्य - देशादेः, तस्य | आभास इत्यवयवं व्याचष्टे प्रकाशनम् इति | प्रकाशनम् - प्रकाशः, प्रयेति यावत | अन्तर्मुखम् - प्रमातृसांमुख्येन स्थितम्, यस्मिन् - अन्यपदार्थभूते, बहिर्मुखीनस्वरूपधारिणि, इदमिति बाह्यसंमुखे प्रमाणरूपे इति यावत् | ज्ञाने - ज्ञानपदवाच्ये वस्तुनि | एतेन स्वलक्षण इत्यस्य ज्ञानविशेषणत्वमुक्तम् | तत् अविकल्पकम् - समनन्तरोक्तं प्रकाशरूपं निर्विकल्पज्ञानम्, विषयभेदेपि - घटादिविषयभेदेऽपि सति, एकजातीयम् - एकरूपं भवति | अत्र हेतुमाह स्वरूपवैचित्र्येऽपि इति | अत्रापि वाक्येन हेतुमाह विकल्पे हि इति | अभिलापः शब्दनम् लक्षणया वाचकस्मृतिरिति यावत् | अत्र - अविकल्पके ज्ञाने | नास्ति इत्यस्य समर्थनं करोति न हि इति, नीलधर्मत्वे तस्य संस्कारापेक्षा न स्यादिति भावः | तर्हि असौ कुत आनेय इत्यत आह ततः इति | प्राच्यः - संकेतकालीनः | ननु ततः किम् इत्यत आह - अप्रबुद्धे च इति | तत्प्रबोधः - संस्कारप्रबोधः | वस्तुदर्शनोत्थितः - वस्तुनः - विषयभूतस्य घटादेः, दर्शनम् - प्रकाशः, तत उत्थितः | फलितमाह इति ऽननुऽ इति आक्षेपे; इह आत्मा संवित्स्वभावः स्थिरः इति तावदयुक्तम्, स्थिरस्यापि [स्थिरस्य स्वप्रकाशस्य अप्राकाशनात् - K. ष्. ष्.] स्वप्रकाशस्य अप्रकाशनात् | तथा हि - घटप्रकाशो घटविकल्पो घटप्रत्यभिज्ञा घटस्मृतिः घटोत्प्रेक्षा - इत्यादिरूपेण ज्ञानान्येव प्रकाशन्ते भीन्नकालानि भीन्नविषयाणि भिन्नाकाराणि च | तत्र नीलस्य प्रकाशः [नीलप्रकाशः - K. ष्. ष्.] ऽस्वलक्षणाभासं ज्ञानम्ऽ स्वम् अन्याननुयायि स्वरूपसंकोचभाजि, ऽलक्षणम्ऽ देशकालाकाररूपं यस्य तस्य ऽआभासःऽ प्रकाशनम् अन्तर्मुखं यस्मिन् बहिर्मुखीनस्वरूपधारिणि ज्ञाने तत् अविकल्पकम् विषयभेदेऽपि एकजातीयम्, स्वरूपवैचित्र्येपि [एकजातीयं स्वरूपे, तद्वैचित्र्ये - K. ष्. ष्.] कारणाभावात् | विकल्पे हि वैचित्र्यकारणम् इति | इति - अतः कारणात्, एतेन प्रथमवाक्यं व्याख्यातम् | तथा च योजना, ननु स्वलक्षणाभासं ज्ञानमेकं भवतीति | द्वितीयं वाक्यं व्याख्यातुमाह ततः परम् इति | ततः - तस्माज्ज्ञानात् | परम् - अन्यरूपम्, विकल्पकं ज्ञानम्, प्रादुर्भवति इति शेषः | अत्र हेतुमाह सर्वस्य इति | तत्र घटविकल्पस्य साक्षात्तन्निर्विकल्पकज्ञानमूलत्वम्, मणिप्रभा - दर्शनोत्थस्य मणिविकल्पस्य पारम्पर्येण मणिप्रभादर्शनोत्थत्वम्, प्रभया हि प्रभादर्शनं तेन प्रभाविकल्पः तेन मणिविकल्पः | पर शब्दस्य व्याख्यां करोति परम् इति | कुतोऽस्यान्यत्वमित्यपेक्षायामाह सामान्य इति, यत इति शेषः सामान्यलक्षणम् - सामान्यस्वरूपम्, तस्य - सविकल्पज्ञानस्य, अत एव परत्वम् इति भावः | यद्यपि सिद्धान्ते निर्विकल्पस्य सामान्यविष्ठत्वं सविकल्पस्य तु देशादियोजनारूपविशेषनिष्ठत्वमेव तथापि तावदेतदास्ताम् | ननु स्वलक्षणं कथं न विषयोऽस्य भवति इत्यत्राह स्वलक्षणे इति | वृद्धव्यावहारिकस्य - देवदत्त गामानयेत्यादिवृद्धव्यवहारमूलस्य | औपदेशिकस्य - अयं गौः इति शृंगग्राहिकया कृतस्य | अभिलापः, स च अत्र नास्ति; न हि अभिलापो नीलस्य धर्मः, न च चक्षुर्ग्राह्यः, ततोऽसौ प्राच्यः स्मर्तव्यः, अप्रबुद्धे च संस्कारे न स्मृति, तत्प्रबोधश्च वस्तुदर्शनोत्थितः इति वस्तुदर्शनसमयेऽभिलाप - स्मृतिर्नास्ति | ततः ऽपरंऽ विकल्पकं ज्ञानम्, सर्वस्य विकल्पस्य साक्षात् पारम्पर्येण वा निर्विकल्पकमूलवात् | ऽपरम्ऽ इति च अन्यरूपं सामान्यलक्षणं तस्य विषयः, स्वलक्षणेऽतिसंकोचिनि विततविकल्पसाध्यस्य वृद्धव्यावहारिकस्य, औपदेशैकस्य वा संकेतस्य कर्तुम् अशक्यत्वात्, कृतस्यापि वैयर्थ्यात्, तेन हि अननुयायिना न पुनर्व्यवहारः | तच्च बहुभेदम्, यतस्तत् अभिलापेन संजल्पात्मना शब्दनरूपेण सह वर्तते | पशक्यत्वात्, स्वलक्षणानि अनन्तानीति भावः | ननु प्रत्यनेन संकेतं करिष्याम एवेत्यत्राह कृतस्यापि इति | कुतोऽस्य वैयर्थ्यमित्यत आह तेन इति | अननुयायिना, एकत्र स्वलक्षण एव समाप्तिं गतेनेत्यर्थः | पुनः - अन्यस्वरूपग्रहणकाले, स्वरूपाणां भिन्नत्वात्, अन्यथा स्वरूपत्वाऽयोगादिति भावः | बहुधा इति पदं व्याचष्टे तच्च इति | तच्च - विकल्पकं च | कुतस्तदीदृशमित्यपेक्षायां हेतुं व्याख्यास्यन् साभिलापम् इति प्दं व्याचष्टे यतः इति, स्मृतिविषयेणेति शेषः | शब्दनस्य स्वरूपं बहुधात्वं च वक्तुमाह शब्दनञ्च इति | इदम् इति सविकल्पज्ञानपरामर्शः | तत् इति स्मृतिज्ञानस्य | तदिदम् इति प्रत्यभिज्ञायाः | भवेदिदम् इति तर्कस्य | इदं वा इदम् इति आदिशब्दगृहीतस्य संशयस्य | ननु शब्दाद्वैतवादिमते शब्दस्य विशेष्यत्वमेव, तदुक्तम् :- अनादिनिधनं ब्रह्म शब्दतत्त्वं यदव्ययम् | विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः || इति | तत्कथं त्वया विशेषणत्वकथनेन ज्ञानस्वरूपे प्रवेशित इत्यत आह तच्च इति | पुनः कुत्र इत्यत आह अपि तु इति | विकल्पस्य - विकल्पज्ञानस्य | शब्दनं च इदम् - इति, तत् - इति, तदिदम् - इति, भवेदिदम् - इति, इदं वा इदम् - इत्यादि बहुधा भिद्यते | तच्च न विषयपक्षे वर्तते, अपि तु तस्य विकल्पस्य स्वरुपमेव विचित्रोकुर्वत् प्रतिभाति इति विकल्पो बहुभेदः | एवम् अनुभवविकल्प - परम्परा तावत् स्वप्रकाशत्वेन भाति | स्यादेतत्, यल्लग्नासौ परम्परा सोऽपि आभाति - इति; तन्न, यतो द्वयमपि एतद् अविकल्पेतररूपं न अन्यस्य ऽकस्यचित्ऽ एतदतिरिक्तस्य द्रष्टुः अनुभवितुः संबन्धि, दृश्यस्य तु भवतु बाह्यार्थवादे | अत्र हेतुः - यतः ऽतस्यऽ द्रष्टुः, अत एव संवित्स्वभावतो - फलितमाह इति इति | इति - अतः कारणात् | उपसंहारं करोति एवम् इति | तावत्, अत्र विप्रतिपत्तिर्नास्ति इत्यर्थः | एतेन द्वितीयं वाक्यं कृतव्याख्यम् | तथा च योजना | परम् - ततोऽन्यरूपम्, विकल्पाख्यम् - सविकल्पकम्, ज्ञान बहुधा भवति, कुतः ? यतः साभिलापम्, हेतुगर्भं विशेषणमिदम् | अत्र सिद्धान्ती तर्करीत्याङ्गीकारं करोति स्यादेतत् इति | अनिष्टप्रसंजनमपि करोति यल्लग्ना इति | यल्लग्ना - यस्मिन्नहंविषये स्वात्मनि निष्ठां गता, अहं जानामि इति तदुदयात् इति भावः | एतत् प्रत्याचक्षाणस्तृतीयं वाक्यं व्याचष्टे तन्न इति | अत्र हेतुमाह यतः इति | अविकल्पेतररूपम् - अविकल्पसविकल्परूपम् | एतदतिरिक्तस्य - प्रोक्तज्ञानद्वयभिन्नस्य, द्रष्टुः इत्यस्य वाच्यमाह अनुभवितुः इति | षष्ठ्यर्थमाह संबंधि इति | नित्य इति पदस्य व्यावर्त्यमाह दृश्यस्य इति | दृश्यस्य, दृश्यतया स्थितस्यानित्यस्य देहादेरित्यर्थः | बाह्यार्थवादे - बाह्यार्थवादिसौत्रान्तिकमते, न तु विज्ञानशून्यवादिमते | तस्य इत्यादिवाक्यखण्डं व्याख्यातुमाह अत्र हेतुः इति | अत्र - नित्यस्य द्रष्टुः संबन्धित्वाभावे, हेतुमेव व्याचष्टे यतः इति | अत एव - द्रष्ट्टत्वात्, द्रष्टुर्हि संवित्स्वभावताप्राप्तिरवश्योपयोगिनीति भावः | संवित् - स्वभावतोपगमस्य साध्यमाह स्वप्रकाश इति, अवश्यं हि संवित्स्वभावस्य स्वप्रकाशताऽन्यथा जडतापातादिति भावः | अस्यापि साध्यमाह आपन्न इति | पगमात् स्वप्रकाशतायोग्यत्वात् आपन्नोपलब्धिलक्षणप्राप्तेः, ऽअत्रऽ एतद्बोधद्वयमध्ये नास्ति अवभासः | ननु अस्त्येव अवभासः - इति असिद्धा दृश्यानुपलब्धिः | तथा हि - अहं वेद्मि, निश्चिनोमि, स्मरामि इदम् - इति विदादिप्रकृत्यर्थरूपात् ज्ञानस्मृत्यादेः इदम् - इति च कर्मरूपात् विषयात् अतिरिक्तमेव अहम् - इति अनुयायिनि प्रकाशे अनुयायिरूपं भाति | क एवमाह भाति - इति ? भानं हि अविकल्पकम्, अहम् - इति शब्दानुविद्धो विकल्पप्रत्ययः | ननु तथापि किम् अनेन विकल्प्यते, शरीरसन्तानो वा कृशोऽहम् - इत्यादिप्रत्ययात्, ज्ञानसन्तानो आपन्ना - स्वप्रकाशतायोगेन प्राप्ता, उपलब्धिलक्षणप्राप्तिः - उपलब्धिप्रमाणप्राप्तिः येन तादृशस्य, प्राप्ततद्विषयत्वयोग्यत्वस्येति यावत्, कार्यं कर्म इतिवत प्रयोगः | अत्र इतिपदं व्याचष्टे एतद् इति | न चानुपलब्धस्यापि पक्षस्याभावो वक्तुं शक्य इति उपलब्धि इत्याद्युक्तम् | एतेन तृतीयं वाक्यं गतव्याख्यम् तथा च योजना | तद्द्वयम् - अविकल्प - सविकल्परूपं ज्ञानद्वयं कर्तृ, कस्यचित् - कल्पनया संभावितस्य नित्यद्रष्टुः संबन्धि न भवति, कुतः? तस्य अत्र - बोधद्वयमध्ये, अनवभासतः - अदर्शनात् इति | अत्र सिद्धान्ती प्रश्नयति ननु इति | दृश्यानुपलब्धिः - उपलब्धि - लक्षणं प्राप्तस्याप्यप्राप्तिः, नित्यस्य द्रष्टुरति शेषः | एतदेव समर्थयितुमाह तथा हि इति | प्रत्ययार्थस्य क्रियारूपत्वात् प्रकृत्यर्थ इत्युक्तम् | कर्मरूपात् - कर्मकारकस्वरूपात् | अनुयायिनि, प्रयोगत्रयेऽप्यहमोऽनुवर्तनात् इत्यर्थः | पूर्वपक्षवादी सकोपमाह क एवम् इति | एवम् शब्दार्थं स्वयमेवाह भाति इति | आक्षिप्तं वस्तु समर्थयति भानं हि इति | अविकल्पकम् - विमर्शास्पृष्टम् | सिद्धान्ती पुनः प्रश्नयति ननु इति | अनेन - शब्दानुविद्धेन विकल्पज्ञानेन | पूर्वपक्षवाद्यत्रोत्तरं वक्तुमिच्छन् चतुर्थवाक्यं व्याचष्टे शरीर इति | अनेन विकल्प्यते इति योजनीयम् | अनेन - अहंविमर्शेन | शरीर - वा सुख्यहम् - इति प्रतीतेः ? [सुख्यहमित्यादिप्रतीतेः - K. ष्. ष्.] मत्वर्थीयश्च सन्तानमेव स्पृशति नातिरिक्तम् | तदेतदुक्तम् - ऽअहंप्रतीतिरपिऽ शरीरम्, आदिग्रहणात् ज्ञानम्, अवस्यति, संतानरूपतया विकल्पयति अवश्यम्; सदृशापरभावभेदग्रहणसामर्थ्यवासनाविष्टत्वात् - [सदृशापरापरभाव - K. ष्. ष्.] इति | ऽएषाऽ इति न अस्माभिर्निह्नुता, ऽसाभिलापं विकल्पाख्यम्ऽ इत्यनेन संगृहीतत्वात् | एतदुक्तं भवति - अहंप्रतीतिरेव तावत् न आत्मा, तस्या अपि विकल्परूपत्वात् अस्थैर्याच्च | एतत्प्रतीतिप्रत्ययोऽपि [एतत्प्रतीतिप्रत्येयोऽपि - K. ष्. ष्.] नास्ति अन्यः शरीरादेः, भवन्नपि वा वेद्यपक्षपतितः स्यात् - इति तथापि संवित्संवेद्यव्यतिरिक्तस्य आत्मनो न सिद्धिः - सन्तानो वा विकल्प्यते, कुतः ? कृशोऽहमित्यादिप्रत्ययात्, आदिशब्देन स्थूलोऽहमिति प्रत्ययग्रहणम् | एतेन चार्वाकमतमवलंब्योत्तरं दत्तम् | तथानेन ज्ञानसन्तानो वा - विषयोपरागरूषिता ज्ञानसंततिर्वा विकल्प्यते | कुतः ? सुख्यहमिति प्रतीतेः, सुखस्य बौद्धमते विज्ञानमात्रत्वादेवमुक्तम्, एतेन विज्ञानवादिबौद्धदर्शनमाश्रित्योत्त - रं दत्तम् | उभयत्र वा शब्दः विकल्पद्वयस्य स्वस्वविषयप्रधानताद्योतनार्थः | ननु अहंप्रतीतिः कृशं वा सुखिनं वावस्यति कृशोहमित्यादौ ताभ्यां सहास्य सामानाधिकरण्येन दर्शनात् इत्यपेक्षायामाह मत्वर्थीयश्च इति | मत्वर्थे विहितः प्रत्ययो मत्वर्थीयः, स च कृश इत्यत्र मतुब्रूपः, तस्य च गुणवचनेभ्यो मतुपो लुबिष्टः इति लुप्, यथा शुक्लः पट इत्यत्र शुक्लशब्दस्य शुक्लो गुणोस्यास्तीति विग्रहः, सुखीत्यत्र तु इनिः, स तु साक्षादेव वर्तते | सन्तानम् - शरीररूपां वा ज्ञानरूपां वा सन्ततिम्, बौद्धमते हि सन्ततिरूपगुणमय एव सन्तानरूपः गुणी | अतिरिक्तम् - सन्तानव्यतिरिक्तम् | उक्तमर्थं संक्षिप्याह तदेतत् इति | तदेतत् - समनन्तरोक्तं वस्तु | विग्रहं दर्शयति शरीरम् इति, शरीरं तथा आदिग्रहणात् ज्ञानमवस्यति | इत्येतत् अपिशब्देन द्योतितम् | एवं नास्ति आत्मा संवित्संवेद्यव्यतिरिक्तो दृश्यस्य तस्यानुपलब्धेः - [दृश्यस्य अनुपलब्धेः - K. ष्. ष्.] इति || १२ || अत्र आत्मवाद्यनुमानमुत्थापयति :- [उत्थापयितुमाह - K. ष्. ष्.] अथानुभवविध्वंसे स्मृतिस्तदनुरोधिनी | कथं भवेन्न नित्यः स्यादात्मा यद्यनुभावकः || ३ || अवस्यति इत्यस्यार्थमाह सन्तान इति | सन्तानरूपतया - सन्तानभावेन | अवश्यम् इत्यस्य प्रत्ययार्थत्वात् पूर्वेण संबन्धः | अत्र हेतुमह सदृश इति, सदृशा ये अपरे भावभेदाः - क्षणरूपाः भावविशेषाः, तेषां यद् ग्रहणम् - पुर्वकालीनोऽनुभवः, तस्य सामर्थ्येन - वशेन या वासना - भावनाख्यः संस्कारः, तया यदाविष्टत्वम् - आवेशविषयीकृतत्वम्, तस्माद् वासनयैव हि विकल्पोदय इति भावः | इति शब्दः हेतुसमाप्तौ | एषा इति पदं व्यचष्टे एषेति इति | निन्हुता - अपलापविषयीकृता | कुतो न निह्नुतेत्यपेक्षायामाह साभिलापम् इति | नन्वेतेन किमुक्तं भवति इत्यत्राह एतदुक्तम् इति | उक्तमेव दर्शयति अहम् इति | एतत्प्रतीतिः - अहंप्रतीतिस्फूर्तिः, तया प्रत्ययो यस्य सः | प्रत्येय इति वा पाठः, तथा च तृतीयासमास एव | इति शब्दः समाप्तौ | अपि शब्दाभिप्रायं कथयितुमाह तथापि इति | देहात्मवादी चार्वाकः विज्ञानात्मवादी बौद्धश्च स्वपक्षमुप - संहरति एवम् इति | संवित् - विज्ञानम्, संवेद्यः - देहः, ताभ्यां व्यतिरिक्तः, नित्यप्रकाशरूप इत्यर्थः | अत्र हेतुमाह दृश्यस्य इति | दृश्यस्य - द्रष्टुं योग्यस्य, तस्यानुपलब्धेः, द्रष्टुं योग्यो हि यदा नोपलभ्यते तदा नास्तीति व्यवस्थाप्यते | अनेन चतुर्थवाक्यं गतव्याख्यम् | तथा च योजना | एषाऽहं प्रतीतिरपि शरीरादिकम् अवस्यति - अवसायरूपविकल्प - विषयतां नयतीति तादृशी भवति, न तु शुद्धनित्यप्रकाशरूपपरमात्मविमर्शरूपा भवतीत्यर्थः || १२ || तृतीयश्लोकस्यावतरणिकां करोति अत्र इति | इह स्मृतिकाले सुस्मूर्षितोऽर्थो भवतु, ध्वंसतां वा - इति किन्तेन, [किमनेन - K. ष्. ष्.] अनुभवस्तावत् ध्वस्तः - इत्यत्र सर्वस्य अविवादः, तमेव च अनुरुन्धाना स्मृतिर्जायते | तथा हि - स्मृतौ न अर्थस्य प्रकाशः, न अध्यवसायः, अत्र टीका :- आत्मवादी - तार्किकादिः | अनुमानम् - अन्वयव्यतिरेकरूपम् | उत्थापयति - स्वयमेवोत्तिष्ठत्तत् समर्थाचरणेन प्रयोजकव्यापारेण तत्र प्रेरयति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | अथ इति | अत्र टीका :- सप्तम्या द्योतितमनुभवविध्वंसस्य सिद्धत्वं कथयितुमाह इह इति | इह - भासमाने जगति | स्मर्तुमिष्टः सुस्मूर्षितः | किन्तेन, मृतायाममृता - याञ्च मातरि सा मे मातेति स्मृतिदर्शनात् न किंचित् स्मृतिविषयस्य भवनेन ध्वंसनेन वेति भावः | अनुभवः, पूर्वकालीन इति शेषः | तावत् शब्दं स्वयमेव व्याचष्टे सर्वस्याऽविवादः इति | तमेव - ध्वस्तमनुभवमेव, अनुरुन्धाना - अस्य पदमनुसरन्ती, अपेक्षमाणेति यावत् | अनेन तदनुरोधिनी इत्यस्य व्याख्या कृता | स्मृतिः - स्मरणम् | जायते - उत्पद्यते | एतदेव समर्थयति तथा हि इति | प्रकाशः - ग्रहणम्, निर्विकल्पज्ञानमिति यावत् | अध्यवसायः - तत्समनन्त्ररभावि सविकल्पज्ञानम् | नापि इति | अंगुलिद्वयवत् - अंगुलिद्वयन्यायेन, युगपत्प्रकाशोऽध्यवसायश्च इति योज्यम् | नापि इति | अनुभवविशिष्टस्य - ज्ञातोयमित्यनुभवविशेषणयुतस्य | दण्डिवत्, दण्डविशिष्टपुरुषन्यायेनेत्यर्थः | कथं नास्तीत्यपेक्षायामाह सर्वत्र इति | सर्वत्र - प्रकारचतुष्टयेऽपि, अयमितिप्रत्ययप्रसंगात्, अनुभवसांनिध्ये स इति ग्रहणायोगादिति भावः | ननु मास्त्वत्रानुभवस्पर्शः इत्यत आह किन्तु इति | अनुभवप्रकाशः - पूर्वानुभवस्मरणम् | कुतः इति हेत्वपेक्षायां वाक्यं हेतुत्वेनाह अनुभवस्य इति | तु शब्दः नापि अनुभवस्य अर्थस्य च अङ्गुलिद्वयवत्, नापि अनुभवविशिष्टस्य अर्थस्य दण्डिवत्, सर्वत्र अयम् - इति प्रत्ययप्रसङ्गात्; किंतु अनुभवप्रकाश एव स्मृतौ प्रधानम्, अनुभवस्य तु अर्थप्रकाशात्मकत्वात् अनुभवप्रकाशनान्तरीयकोऽर्थावभासः इति | सर्वथा यदि अनुभवो ध्वस्तः, तदा तत्प्रकाशरूपा कथं स्मृतिस्तद्द्वारेण अर्थविषया स्यात्, तया च सर्वोव्यवहारः क्रियमाणो दृष्टः इत्यसौ स्वरूपेण अनपह्नवनीया सती [अनपह्नवनीया, सति अनुभवस्य नाशे - K. ष्. ष्.] अनुभवस्य अनुभवस्य स्मृतेर्व्यतिरेकद्योतकः, अनुभवस्यार्थप्रकाशात्मकत्वात् - अर्थप्रकाशरूपत्वेन, अर्थप्रकाशाख्यः अर्थावभासः अनुभवप्रकाशनान्तरीयकः - अनुभवप्रकाशप्राप्तः भवति | इति शब्दः पूर्ववाक्यं प्रत्यस्य वाक्यस्य हेतुत्वद्योतकः | एतदुक्तं भवति, यो यस्य प्रकाशः स तत्प्रकाशं विना न प्रकाशितुं योग्यः, न हि नीलाख्यगुणप्रकाशं विना नीलोत्पलं दृष्टम् इत्यनुभवप्रकाशस्यैवार्थप्रकाशयुक्तायां स्मृतौ प्राधान्यम् इति | ननु सोऽनुभवो ध्वस्त एवेति किं तस्य चर्चाभिरित्यत आह सर्वथा इति | सर्वथा - संस्करभावेन स्वरूपेणापि | तत्प्रकाशरूपा - अनुभवप्रकाशरूपा, तद्द्वारेण - अनुभवद्वारेण | ननु मा भूत् स्मृतिरित्यत्राह तया च इति, तया, स्मृत्यैवेत्यर्थः चः एवार्थोनुक्तसमच्चयार्थो वा, असौ - स्मृतिः, अनपह्नवनीया - अपह्नोतुमशक्या, सती - भवन्ती, किंचित् - किमप्यनिर्वचनीयं वस्तु, आवेदयति, अनुमापयतीत्यर्थः | तदुक्तम् :- सर्वज्ञः सर्वदैव त्वं सूर्यस्य ह्युदये न चेत् | केनान्यथास्य संभाव्या नष्टार्थविषया स्मृतिः || इति | ननु आवेदयतु किन्तेनेत्यत्राह तदेव इति | तदेव - आवेदितं वस्तु एव, अनुभावको नित्य आत्मा भवति | अनुभावक पदस्य पर्यायद्वयं कथयति, अनुभवकर्तृ - अनुभवितृ इति च | ननु किं स्मृतिमात्रेणैवात्मा सिद्ध्यत्युतान्येनापीत्यत आह इयत् इति | इयदेव - स्मृतिमात्रमेव | ननु भवस्य नाशे किंचित् अविनष्टम् आवेदयति | तदेव च अनुभवकर्तृ - अनुभवितृरूपम्, आत्मा अनुभावको नित्यः - इति [अनुभावको नित्यः - इति इयदेव - K. ष्. ष्.] | इयदेव च आत्मसिद्धेर्जीवितम् | तत्तु न अधिकम् इहैव उन्मीलितम् आचार्येण, वक्तव्यशेषविवक्षया पूर्वपक्षो मा तावत् समापत् इत्याशयेन | ऽकथं भवेत्ऽ इति | अर्थस्तावत् तस्याम् अकिंचित्करः, अनुभवश्च ध्वस्तः इति न केनचित्प्रकारेण स्मृतिः स्यात्, तदभावे च संकेतशब्दस्मृत्यायत्ता अपि अस्तङ्गताः सर्वे विकल्पाः, निर्विकल्पं च अन्धबधिरमूकप्रायम् [अन्धमूकबधिरप्रायम् - K. ष्. ष्.] इति हन्त निराक्रन्दम् अवसीदेत् विश्वम् - इति || ३ || तर्ह्यत्रैव भरः किं न कृत इत्यपेक्षायामाह तत्तु इति | तत् - आत्मसिद्धेर्जीवितभूतं वस्तु, आचार्येणेहैवाधिकं नोन्मीलितम् - न प्रकटीकृतम्, केन कृत्वा ? इत्याशयेन - इत्यभिप्रायेण, इति किमिति ? पूर्वपक्ष इहैव मा समापत् - समाप्तिं गच्छतु इति | कार्यहेतुभूतया, वक्तव्यं यच्छेषम् - अवशिष्टं किंचित्, तस्य विवक्षया - वक्तुमिच्छया, अन्यथा तन्निर्विषयमेव स्यादिति भावः | कथं भवेत् इत्यस्याभिप्रायं वक्तुमाह कथं भवेत् इति | अर्थः - पूर्व गृहीतः अद्य स्मर्यमाणः घटादिः, तस्याम् - स्मृतौ, अनुभवः - ग्रहणकालीनः | ननु मास्तु स्मृतिरित्य - पेक्षायामाह तद्भावे इति | संकेतः - वाच्यवाचकभावसंबन्धः, शब्दः - वाचकशब्दः, तयोर्या स्मृतिः तस्या आयत्ताः - अधीनाः, तद्रूपत्वादिति भावः | अपि शब्दः साकल्ये | नन्वस्तं गच्छन्तु सर्वे विकल्पास्ततः किम् इत्यत्राह निर्विकल्पम् इति, तथा चेति शेषः, तथा च सति विश्वम् - समस्तं जगत्, निर्विकल्पम् - विकल्परहितं सत्, विकल्परहितप्रमातृवर्गान्वितं सदिति यावत् | अन्धबधिरमूकप्रायम् - सद्योजातबालवद् दृष्ट्वाप्यन्धतुल्यैः श्रुत्वापि बधिरकल्पैः वागिन्द्रिययुक्तत्वेऽपि मूकप्रायैर्जनैर्भरितं भवेत् | इति - अतः कारणात्, हन्त - कष्टे, इह कार्यातिरेकेण [कार्यव्यतिरेकेण - K. ष्. ष्.] तादृक् कल्पनीयं यत् कार्यसिद्धये पर्याप्नोति, न चैवम् आत्मा, अर्थो हि तावत् स्मर्यते, स च अनुभवप्रकाशमुखेन, अनुभवश्च ध्वस्तः - इत्युक्तम्; यदि आत्मा कश्चिदस्ति, किं तेन | एतदपि हि वक्तव्यम् - आकाशमपि अस्ति इति | अथ उच्यते - न केवलेन आत्मना एतत् सिद्ध्यति, अपि तु अनुभवसंस्करोऽपि अत्र उपयोगी - इति, तर्हि स एवास्तु, किम् अनेन [किम् आत्मना - K. ष्. ष्.] ? तदेतत् दर्शयति :- सत्यप्यात्मनि दृङ्नाशात्तद्द्वारा दृष्टवस्तुषु | स्मृतिः केनाथ यत्रैवानुभवस्तत्पदैव सा || ४ || निराक्रन्दम् - परस्परं प्रत्याह्वानासमर्थं सत्, अवसोदेत् - नश्यत् | दृश्यते हि सद्योजातबालानां केनापि कारणेन निर्जने त्यक्तानामवसाद् इति भावः || ३ || अथ चतुर्थश्लोकस्यावतरणिकां करोति इह इति | अत्र टीका :- इह - भासमाने जगति, कार्यातिरेकेण - कार्यादेशेन, कार्यकारणयोर्भिन्नत्वात्, तादृक्, तादृशं कारणमित्यर्थः | कार्यव्यतिकरेणेति वा पाठः | पर्याप्नोति - समर्थो भवति, एवम्, पर्याप्तमित्यर्थः, आत्म, त्वया साधितो नित्य आत्मेत्यर्थः | एतदेव समर्थयति अर्थो हि इति | स च - अर्थश्च, अनुभवप्रकाशमुखेन, न तु साक्षात्स्मर्यते इति पूर्वेण संबन्धः | उक्तम्, समनन्तरमेवेत्यर्थः | ननु तथाप्यात्मास्त्येवेत्यत्राह यदि इति | तेन, अकिंचित्करेणात्मनेत्यर्थः | आत्मनः कथनेऽन्यदपि वस्तु वक्तव्यत्वेनाह एतत् इति, अकिंचित्करत्वाऽवि.शेषात् इति भावः | सिद्धान्तिकृतं प्रश्नमाशंकते अथोच्यते इति | एतत् - स्मृतिरूपं कार्यम्, उपयोगो - साधकः | अत्रोत्तरमाह तहि इति | स एव - संस्कार एव | अनेन, ऽदृष्टेषुऽ अनुभूतेषु ऽवस्तुषुऽ या ऽस्मृतिःऽ तस्याम् अनुभवो दृगात्मा ऽद्वारम्ऽ अर्थांशस्पर्शे, स च ऽसत्यपि आत्मनिऽ नष्टोऽनुभवः, तस्य हि अनाशे इदम् - इत्येष एव अत्रुटितः प्रकाशः इति का स्मृतिः, तदनुभविता किं स्मृतेः कुर्यात् - इति | अकिंचित्करेणात्मनेत्यर्थः, नह्येकेन कार्यसिद्धौ द्वितीयकल्पना युक्तेत्यर्थः | उक्तमुपसंहारपूर्वं दर्शनीयत्वेन प्रतिजानीते तदेतत् इति | तदेतत् - समनन्तरोक्तं वस्तु, दर्शयति - प्रकटीकरोति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | सत्यपि इति | अत्र टीका :- केन इत्यन्तं श्लोकखंदं व्याख्यास्यन्नाह दृष्टेषु इति | दृष्ट इति पदं व्याचष्टे अनुभूतेषु इति | वस्तुषु - नीलादिषु या स्मृतिर्भवति, तस्याम् - स्मृतौ, अर्थांशस्पर्शे - अर्थांशाख्यविषयस्पर्शविषये, दृगात्मा - दृग्रूपः, अनुभवः - पूर्वानुभवः, द्वारम् - उपायः भवति, अन्यथा स इति तस्या उथानं न स्यादिति भावः | ननु ततः किमित्यत आह स च इति | स च अनुभवः - द्वारभूतोऽनुभवश्च, आत्मनि सत्यपि नष्टः, न ह्यन्यस्यावस्थानमात्रेणान्यस्य नष्टस्य नाशाभावो वक्तुं शक्य इति भावः | ननु ततोपि किमित्यत आह तस्य इति | अत्रुटितः - अच्छिन्नः, का स्मृतिः, तदिति स्थितस्य तत्स्वरूपस्येदमित्यनेन विरोधान्न सा संभवेदिति भावः | एवञ्च व्यर्थत्वमपि स्मृतेः स्यादित्यभिप्रायेणाह तदनुभविता इति | तदनुभविता - अर्थानुभविता, किं कुर्यात्, अनुभवेनैवार्हप्रकाशान्नाऽस्याऽसावुपयोगिनीति भावः | इयमत्र योजना | आत्मनि सत्यपि, तद्द्वारा - अनुभवद्वारेण, दृष्टवस्तुषु - पूर्वानुभूतेषु नीलादिषु, भवन्ती स्मृतिः दृङ्नाशात् - अनुभवाख्यकारणनाशाद्धेतोः, केन स्यात्, न हि कारणाभावे कार्यस्य युक्ततेति भावः | शिष्टं श्लोकखंडं व्याख्यातुमाह यत्रैव इति | वृत्तः - पूर्वं संपन्नः, पदम् - विषयः | किं सर्वदैव तत् स्मृतेर्विषय उत कदाचिदेवेत्यपेक्षायां विशेषणमाह ऽयत्रैवऽ विषये ऽअनुभवोऽ वृत्तः ऽतदेवऽ तस्याः स्मृतेः ऽपदंऽ स्मर्यभाणम् | तत्पदा - इति बहुव्रीहिः, ऽसाऽ इति स्मृतिः || ४ || ननु ज्ञानान्तरस्य विषयेण कथं तस्याः विषयित्वाभिमानः - इत्याशङ्क्याह :- स्मर्यमाणम् इति | स्मर्यमाणम् - स्मृतिविषयीक्रियमाणम्, न त्वनुभूयमानमित्यर्थः | बहुव्रीहिः - तत् पदं यस्या सेत्येवंरूपा | सा इति पदं व्याचष्टे सेति इति || ४ || अथ पंचमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- ज्ञानान्तरस्य - अनुभवरूपस्य, तस्याः - स्मृतेः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | यतो हि इति | अत्र टीका :- पूर्वार्धं व्याचष्टे अनुभवेन इति | स्वस्मिन्नुचितः स्वोचितः, न तु स्वविलक्षण इत्यर्थः | ननु तेन संस्कारेण किं क्रियत इत्यत्राह संस्कारश्च इति | स्थितम् - अवस्थानम्, स्थापयति - स्वयं तिष्ठतीं प्रयोजकव्यापारेण तत्र प्रेरयति | कस्येत्यपेक्षायामाह आकृष्ट इति | आकृष्टश्चासौ शाखादिः तस्य आदिशब्देन धनुरादेर्ग्रहणम्, आकृष्टा हि वक्रा शाखा मोचिता सती पुनरेव ऋजुतारूपेण स्वस्थाने तिष्ठति | पुनः कस्येत्यपेक्षायामाह चिरम् इति | चिरम् बहुकालादारभ्य, संवर्तितस्य - वेष्टितस्य, तथा विवर्त्यमानस्य - विकासितस्य, चिरं वेष्टितं हि भूर्जपत्रादिकं प्रसार्य मुक्तं सत् संस्कारवशेन पुनस्तथैव तिष्ठति | प्रोक्तसंस्कारलक्षणं प्रकृतेऽपि योजयति तेन इति | पूर्वानुभवानुकारिणीम् - पूर्वानुभवसदृशीम्, प्राक्तनरूपां स्थितिं स्थापयतीत्यर्थः | उपसंहारं करोति इति इति | इति - अतः कारणात्, एतद्विषय एव - अनुभवविषय एव, स्मृतेविषयो भवति, पूर्वानुभूतमातृविषयत्वादिति भावः | एतेन स्मृतिहेतोः संस्कारस्यापि स्थितिस्थापकत्वमुक्तम् | यद्यपि तार्किकैस्तस्य भावनारूपत्वमुक्तम्, यतो हि पूर्वानुभवसंस्कारात्स्मृतिसंभवः | यद्येवमन्तर्गडुना कोर्थः स्यात्स्थायिनात्मना || ५ || यदुक्तम् :- स्मृतिहेतुर्भावनाऽऽत्ममात्रवृत्तिः | इति | तथापि परमार्थविचारे भेदत्रयेपि स्थितिस्थापकत्वमेव सारः, वेगस्यपि स्वाश्रयस्य शरादेः पूर्वक्रियायामेव हि स्थापकत्वम् | श्लोके स्थितेन यतो हि इत्यनेन पूर्ववाक्यं प्रत्यस्य वाक्यस्य हेतुत्वं द्योतयति | एतेन पूर्वार्धं गतव्याख्यम् | उत्तरार्धं व्याख्यातुमाह एवं तर्हि इति | एतेन पूर्वार्धस्य सिद्धान्तिपक्षत्वं सूचितम् | गडुः - कुब्जपृष्ठस्थो मांसपिण्डः, स हि स्फुटमेवायासकारी | किन्तेन, न किंचिदप्यात्मनेत्यर्थः | अत्र हेतुमाह सर्वं हि इति | कृतकरावलंबम्, व्यवहारसाधनस्मृत्युत्पादनद्वारेण कृतावष्टंभमित्यर्थः || ५ || अथ षष्ठश्लोकस्यावतरणिकां करोति ननु इति | एतेन परिशेषानुमानमाश्रित्य स्थिर आत्मा शंकितः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तत् इति | अत्र टीका: - भंग्या व्याख्यां कर्तुमारभते इह इति | इह - अत्र लोके, विशेषः - पूर्वावस्थाया भेदः, अतिशय इति यावत् | सः - विशेषः, न नित्यः स्यात् इति, न हि पूर्वरूपाद्विशिष्टस्यात एव स्वरूपात्प्रच्युतस्य नित्यत्वं युक्तमिति भावः | शंकितं प्रथमं पक्षं निराकृत्य द्वितीयमपि निराकर्तुं वादी तत्स्वरूपोद्भावनं करोति अथ इति | अस्य - आत्मनः, तेन - संस्कारेण, किम्, व्यर्थत्वान्न किंचिदित्यर्थः | तार्किकमतं शंकते अथ इति | उत्तरमाह तर्हि इति | पुनरपि - पूर्ववदेव, ज्ञाने - ज्ञानरूपे आत्मनि | अनुभवात् - अनुभवाख्यात्, जनिकर्तृतत्प्रकृत्योरेकत्वं न युक्तमिति भावः | विशिष्टम् - तदिति स्थितत्वाद् इदमिति स्थिताद् अनुभवाद् भिन्नं यत् स्मृत्याख्यकार्यं तत्करोतीति तादृशम् | अनुभवेन हि संस्कारो जन्यते स्वोचितः, संस्कारश्च प्राक्तनरूपां स्थितिं स्थापयति, आकृष्टशाखादेश्चिरसंवर्तितस्य विवर्त्यमानस्य भूर्जादेः | तेन अत्रापि संस्कारः तां स्मृतिं पूर्वानुभवानुकारिणीं करोति इति तद्विषय एव स्मृतेर्विषयः | एवं तर्हि ऽअन्तर्गडुःऽ यथा आयासाय परम्, तद्वत् आत्मा स्थिरः कल्पनायासमात्रफलः इति किं तेन, सर्वं हि संस्कारेण जगद्व्यवहारकुटुम्बकं कृतकरावलम्बम् - इति || ५ || ननु तस्यैव संस्कारस्य आश्रयो वक्तव्यः, स हि गुणत्वाद् आश्रयमपेक्षते, य आश्रयः स आत्मा स्यात् - इत्याशङ्क्याह :- ततो भिन्नेषु धर्मेषु तत्स्वरूपाविशेषतः | संस्कारात्स्मृतिसिद्धौ स्यात्स्मर्ता द्रष्टेव कल्पितः || ६ || इह संस्कारे जायमाने, यदि आत्मनो विशेषः, स तर्हि अव्यतिरिक्तः इति न नित्यः [न नित्य आत्मा स्यात् - K. ष्. ष्.] स्यात्; अथ न कश्चित् अस्य विशेषः, तेन परंपरया, न तु साक्षात् | अनुभवो हि साक्षात् प्रमामेव जनयति संस्कारं तु तद्द्वारेण | संस्कारार्थः - संकेतितसंस्कारपदार्हः | पुनरपि सिद्धान्तिप्रश्नं शंकते अथ इति | संस्कारात्मा - संस्काररूपः, उपलक्षणं चैतत्संस्कारकृतविशेषस्य, तस्यापि न्यायविषयत्वात् | उत्तरमाह तस्य इति | तर्हि - तदा, असौ - संस्कारः, तस्य [अस्य - C.] आत्मनः, किम्, न कोपीत्यर्थः, न हि व्यतिरिक्तस्य संबद्धत्वं युक्तमिति भावः | ननु तथाप्यसौ संबन्धी भवत्वित्यत आह संबन्धश्च इति | निराकरिष्यते इति | इहैवेति शेषः, संबन्धस्य व्यतिरेकाभावे संबद्धस्य व्यतिरेकाभावोऽयत्नसिद्ध एवेति लक्षणाश्रयणे प्रयोजनम् | तर्हि किम् | अथ संस्कार एव अस्य विशेषः, तर्हि न व्यतिरिक्तोऽसौ इति पुनरपि अनित्ये ज्ञाने संस्कारः - इत्यायातम् | अनुभवाद्विशिष्टं विशिष्टस्मृत्याख्यकार्यकारि ज्ञानं परम्परया जायते - इति इयानेव संस्कारार्थः | अथ संस्कारात्मा व्यतिरिक्तो विशेषः, तस्य तर्हि किमसौ | संबन्धश्च व्यतिरिक्तो निराकरिष्यते | एवं ज्ञानसुखदुःखेच्छा - द्वेषप्रयत्नधर्माधर्मा अपि विकल्पनीयाः | एतदाह - ऽततःऽ इति आत्मनो ज्ञानादिगुणेष्वप्येतदतिदिशति एवम् इति | एवम्, संस्कारवत् तत्कृतविशेषवच्चेत्यर्थः | विकल्पनीयाः - पक्षद्वयरूपविकल्पविषयी - कार्याः | उक्तस्य प्रपंचस्य प्रकृते श्लोके वाच्यत्वेन योजनं करोति एतदाह इति | एतत् - समनन्तरोक्तं वस्तु | केनाहेत्यत आह ततः इति | भिन्नेषु - भेदयुक्तेषु, अभेदपक्षस्यानित्यत्वापादकत्वेन सूत्रे दूरत एव त्यागः | विशेषाभावात् इति, न हि भीन्नं विशेषणं युक्तम्, सामानाधिकरण्येन स्थिततस्य नीलाख्यस्य गुणस्यैवोत्पलविशेषणत्वादिति भावः | न व्याप्रियेत - व्यापारं कर्तुं न शक्नोति | अत्र हेतुमाह अस्मर्तृरूप इति | असंस्कृतरूपम् - अनुत्पन्नसंस्काररूपम्, आदौ स्थितं प्राच्यरूपम् आदिप्राच्यरूपम्, संस्कारात्पूर्वं स्थितं रूपमिति यावत् | फलितमाह इति इति | इति - अतः कारणात् | ननु यद्येवं तर्हि अहं स्मरामि इत्यत्र भासमनाहशब्दवाच्यस्य किं कुर्मः इत्यत्राह अहम् इति | सोपि - स्मर्ता, अपि शब्दः समुच्चये पूर्वोक्तं द्रष्टारं समुच्चिनोति | अपिशब्दाभिप्रायं स्वयमेवाविष्करोति यथा इति | यथा द्रष्टा शरीरसन्तानो ज्ञानसन्ता - ऽभिन्नेषु धर्मेषुऽ अङ्गीक्रियमाणेषु तेषु सत्स्वपि, आत्मनः ऽस्वरूपेऽ विशेषाभावात् स तावत् आत्मा स्मृतौ न व्याप्रियेत, अस्मर्तृरूपासंस्कृतरूपादिप्राच्यरूपानपायात्, इति ऽसंस्कारादेव स्मृतेः सिद्धिःऽ - इति | अहं स्मरामि - इति यः ऽस्मर्ताऽ सोऽपि शरीरसंतानो ज्ञानसंतानश्च अध्यवसीयते, ऽयथा द्रष्टाऽ | पूर्वं हि उक्तम् :- अहंप्रतीतिरप्येषा शरीराद्यवसायिनी | (१|२|२) इति | एवम् आत्मनि साधकं प्रमाणं प्रत्यक्षमनुमानं च पराकृतम्, बाधकं च सूचितं - धर्मयोगे नित्यताहानि, अन्यथा किं तेन | तदुक्तम् :- चर्मोपमश्चेत्सोऽनित्यः स्वतुल्यश्चेदसत्समः | वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति [चर्मण्यस्ति तयोः फलम् - K. ष्. ष्.] हि तत्फलम् || इति || ६ || नश्चाध्यवसीयते तथा स्मर्तापीति शब्दार्थः || ननु कुत्र द्रष्टा एवमध्यवसीयते इत्यत्राह पूर्वम् इति | उपसंहारं करोति एवम् इति | बाधकम् - धर्मयोगे नित्यताहानिः, धर्माभिन्नित्वे नित्यताहानिरूपम् इत्यर्थः | ननु धर्मयोगे नित्यताहानिः कथं भवत्वित्यत्राह अन्यथा इति | अन्यथा - धर्मयोगस्य नित्यताहानिहेतुत्वाभावे, तेन - धर्मयोगेन, किम्, तन्मात्रस्य तत्साध्यत्वेन न किंचिदपि भवतीत्यर्थः | अत्र वृद्धसंमतिमाह चर्मोपमः इति, सः - आत्मा, चर्मोपमः - वर्षातपरूपधर्मप्राप्तकोमलत्वकाठिन्यविशेषचर्मसदृशः, चेत् भवेत् तदा अनित्यः स्यात्, चर्मवदेवेति शेषः | पुनः स आत्मा स्वतुल्यः - वर्षातपकृतविशेषरहिताकाशसदृशश्चेत् स्यात्, तदा असत्समः - आकाशवन्न किंचिद्रूप इव भवेत् | इत्थम् आत्मानं निराकृत्य, तस्य ऐश्वर्यमपि निराकर्तुं ज्ञानशक्तिमेव परीक्षितुमाह :- ज्ञानं च चित्स्वरूपं चेत् तद् अनित्यं किमात्मवत् | अथापि जडमेतस्य कथमर्थप्रकाशता || ७ || पराभ्युपगमेन प्रसङ्गापादनम् एतत् पूर्वपक्षवादी करोति - प्रसङ्गविपर्ययलाभो मे भविष्यति - इति | तत्र आत्मवादी नित्यत्वम् आत्मन इत्थं ब्रूते - इह कालो नाम इदंभावविशिष्टस्य विशेषणताम् अवलम्बमानः तं पूर्वार्धोक्तं वस्तु समर्थयति वर्षातपाभ्याम् इति | तत्फलम् - वर्षातपकृतकोमलत्वकाठिन्यरूपम्, इति शब्दः उक्तपरिसमाप्तौ || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति इत्थम् इति | अत्र टीका :- इत्थम्, प्रत्यक्षानुमानरूपसाधकप्रमाणपराकरणेन बाधकसूचनेन चेत्यर्थः | ऐश्वर्यम् - ज्ञानक्रियाकर्तृत्वरूपम्, परोक्षितुम् - परीक्षाविषयीकर्तुम्, तावदिति शेषः आह, कथयतीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | ज्ञानञ्च इति | अत्र टीका :- पूर्वार्धं भंग्या व्याख्यातुमाह पर इति | पूर्वपक्षवादी, कर्ता, पराभ्युपगमेन - सिद्धान्तिमताश्रयणेन, एतत् - एतस्य श्लोकस्य वाच्यतया स्थितम्, प्रसंगापादनम् - अनिष्टापादनम्, अर्थात् परस्य सिद्धान्तिनः करोति, कुतः ? मे - पूर्वपक्षवादिनो मम, प्रसंगविपर्ययलाभः - इष्टलाभः, भविष्यति, तदनिष्टापादनस्यैतदिष्टत्वात् | अयमेव चाभ्यपगमसिद्धन्तः पूर्वपक्षवादिमतस्यापि तं प्रति तावत् सिद्धान्तत्वात् | एतदेव स्फुटीकर्तुमाह तत्र इति | तत्र - नित्यत्वानित्यत्वमध्ये इत्यर्थः | इत्थम् इत्यस्याकांक्षां पूरयति इह इति | कालो नाम - कालाख्यं वस्तु, इदंभावविशिष्टस्य - विशिष्टीकुर्वन् तत्संकोचात् अनित्यं संपादयति | आत्मनश्च चित्स्वभावत्वात् इदम् - इति प्रथनाभावेन विशेष्यत्वं नास्ति, विशेषणविशेष्यभावो हि योजकायत्तः, न च स्वप्रकाशे योजकान्तरम् अस्ति | स इत्थं ब्रुवाणः पर्यनुयुज्यते - ऽज्ञानमपिऽ तर्हिस्वप्रकाशम् इति तत्रापि एषैव वार्ता इति तदपि कस्मात् न नित्यम् ? न च द्वयोर्नित्ययोः कश्चित् संबन्धः, कार्यकारणभावो हि असौ नान्यः, तत आत्मनो ज्ञानं शक्तिः इति अवसन्नम् अदः | अथ न स्वप्रकाशं ज्ञानं तर्हि परस्यापि अदो न प्रकाशः, स्वप्रकाशरूपावेशनं हि असौ परस्य विदधत् बोधः प्रकाशो भवति परस्यापि, ततः स्वप्रकाशताशून्यो न असौ अर्थस्य प्रकाशः स्यात् भावान्तरवत् || ७ || इदंभावावच्छिन्नस्य घटादेः | विशेषणताम् - विशेषणभावम्, तम् - इदंभावावच्छिन्नं घटादिकम्, विशिष्टीकुर्वन् - अविशिष्टं विशिष्टं संपादयन्, तस्मिन् - स्वरूपभूते काले, यः संकोचः - अवच्छेदः तस्मात् अनित्यं संपादयति, अयं घटो भवति इति हि प्रयोगे इदंभावविशिष्टस्य घटस्य स्फुटं वर्तमानकालेन संकोचः, तदेवनित्यत्वं कालकृतसकोचस्यैवानित्यत्वात् | ननु भवत्वेवं ततः किम् इत्यत आह आत्मनश्च इति | इदमितिप्रथनाभावेन - अहमितिस्फूर्तिविषयत्वमात्रात् सिद्धेन इदमितिज्ञानविषयत्वाभावेन, विशेष्यत्वम् - कालाख्यविशेषण - विशिष्टत्वम् | कथं नास्तीत्यत आह विशेषण इति | योजकायत्तः - संबन्धकर्तुरायत्तः, न तु स्वाभाविकः | अन्यथा एक एकं प्रति विशेषणमपरं प्रति विशेष्य इति न स्यादिति भावः, अत एव चास्य संबन्धाभासत्वं कथयन्ति | ननु ततोपि किमित्यत आह न च इति | योजकान्तरम् - स्वप्रकाशादात्मनोऽन्यो योजकः | सः - उत्तरपक्षवादिरूपो नित्यात्मवादी, पर्यनुयुज्यते - पर्यनुयोगविषयतां नीयते | पर्यनुयोगमेव स्फुटीकरोति ज्ञानम् इति | ज्ञानम् - ऐश्वर्यभूता ज्ञानशक्तिः, इति - अतः कारणात्, तत्रापि - ज्ञानेऽपि, द्वितीयोऽपि इतिशब्दोहेतावेव | ननु भवतु तदपि नित्यमेवेत्यत आह न च इति | ननु जडोप्यसौ इत्थम् अर्थस्य प्रकाशो भविष्यति - इति सांख्यमतम् आशङ्कते :- अथार्थस्य यथा रूपं धत्ते बुद्धिस्तथात्मनः | चैतन्यम् || इह तावत् अर्थं जानामि - इत्यस्ति व्यवहारः | तत्र अर्थस्य प्रकाशः - इत्येतावानेव [इत्येतावत्परमार्थः - K. ष्. ष्.] परमार्थः तत् न अर्थस्य स्वं रूपम्, सर्वं प्रति तथात्वप्रसङ्गात्, न कंचित्प्रति वा इति सर्वज्ञम् अज्ञं वा जगत् स्यात् | नापि अर्थे अन्यत एतद्रूपम् उपनिपतितम्, एष एव हि दोषः स्यात् | तत् नूनम् अन्यत्रैव अयं धर्मः तत्त्वान्तरे, तत्रापि कथम् अर्थस्य प्रकाशः स्यात् इति नूनं तत्र तत्त्वान्तरे सोऽर्थः प्रतिबिम्बत्वेन उपसंक्रामति | तत् कथं न नित्ययोर्द्वयोः संबन्धः स्यादित्यपेक्षायामाह कार्य इति | अग्रे स्वयमेव कार्यकारणभावमात्रस्य संबन्धत्वं साधयतीति इह नायस्तम् | ननु ततोपि किमित्यत्राह ततः इति | अवसन्नम् - नष्टम् | इति अदः इति योजना, द्वयोरपि समप्राधान्यादिति भावः | एतेन पूर्वार्धं गतव्याख्यम् | तथा च योजना | ज्ञानं च - ज्ञानशक्तिश्च आत्मवत् स्वरूपं चेद् भवेत्, तत् - तदा, अर्थात् तत् ज्ञानम्, अनित्यं किम्, अनित्यम् न युक्तमिति भावः | तत्र चोक्त एव दोष इति भावः | अथवा आत्मवत् किमनित्यम्, यथात्मा किमनित्यो भवति तथेदमपि किमनित्यम्, नैवानित्यमिति भावः | उत्तरार्धं व्याख्यातुं पक्षान्तरमाह अथ इति | परस्यापि - स्वव्यतिरिक्त - घटादेरपि, अदः - इदं ज्ञानम्, न प्रकाशः प्रकाशरूपो न भवेत्, प्रमातारमनपेक्ष्य स्वप्रकाशस्य दीपस्येव घटप्रकाशत्वादर्शनादिति [स्वप्रकाशस्य दीपस्येव घटप्रकाशत्वदर्शनात् - C.] भावः | कुतो न प्रकाश इत्यत आह स्वप्रकाश इति | हि - यस्मात्, बोधः - ज्ञानम्, परस्य - घटादेः, स्वप्रकाशं तत्त्वान्तरं सत्त्वप्राधान्यात् [सत्त्वप्रधानत्वात् - K. ष्. ष्.] प्रतिबिम्बग्रहयोग्यं [प्रतिबिंबोपग्र - K. ष्. ष्.] तमसाऽऽच्छादितत्वात् सकलप्रतिबिम्बनतो व्यावर्तितम्, भागे रजसा तमसोऽपसारणात् किंचिदेव प्रतिबिम्बकं गृह्णाति, तदेव बुद्धितत्त्वम् उच्यते | अर्थप्रतिबिम्बग्रहश्च [प्रतिबिंबोपग्रहश्च - K. ष्. ष्] यद्रूपम् - निजस्वरूपम्, तत्र आवेशनम् - प्रवेशनम्, विदधत् कुर्वन्, परस्यापि - घटादेरपि, प्रकाशो भवति, प्रकाशाविष्टस्य घटस्य प्रकाशेन दीपस्यापि तत्प्रकाशत्वमेव | उपसंहारं करोति ततः इति | असौ - बोधः, भावान्तरवत् - बोधव्यतिरिक्तघटादिपदार्थवत् || ७ || अष्टमश्लोकस्यावतरणिकां करोति जडोप्यसौ इति | अत्र टीका :- जडोपि - अनित्यतादोषापातात् जडभावेनाङ्गीक्रियमाणोऽपि, असौ - बोधः, सांख्यमतमिदम्, तार्किकमतस्य निराकृतत्वादिति भावः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | अथार्थस्य इति | अत्र टीका :- चैतन्यम् इत्यन्तं श्लोकखंडं व्याचष्टे इह इति | तावत्, नात्र कस्यापि विप्रतिपत्तिरित्यर्थः | तत्र इति | तत्र - तस्मिन्व्यवहारे, इत्येतावानेव परमार्थः अस्ति | इत्येतावान् कः ? अर्थस्य प्रकाश इति | ज्ञानस्य प्रकाशमात्रसारत्वादिति भावः | तत् - प्रोक्तपरमार्थे तस्मिन्व्यवहारे एतज्जानामि इति शब्दवाच्यं ज्ञानम् | अत्र हेतुमाह सर्वम् इति | तथात्व प्रसंगात् - ज्ञातत्वप्रसंगात्, न हि नीलमेकमेव प्रति नीलमिति भावः | पक्षान्तररीत्या हेत्वन्तरमाह न कंचिद् इति | समानन्यायत्वात् इति भावः | ननु तेनापि किमित्यत आह इति | इति - अतः कारणात्, प्रथमपक्षाश्रयणे सर्वज्ञं द्वितीयपक्षाश्रयणे अज्ञमिति क्रमो ज्ञेयः | ननु एतदर्थस्य सहजं रूपं मा भवतु आगन्तुकं तु स्यादेवेत्यत आह नापि इति | एतत् - ज्ञानाख्यम्, ज्ञानम् अस्य वृत्तिरूपं पूर्वव्यपदेशतिरोधायाकदध्यादिपरिणाम - विलक्षणपरिणतिविशेषात्मकम् | एवम् ऽअर्थस्यऽ तावत् ऽरूपं बुद्धिःऽ धारयति | रूपम् - स्वरूपम् | एष एव - समनन्तरोक्त एव | न ह्यागन्तुकनैसर्गिकयोः स्वरूपयोर्भिन्नकार्यत्वम् इति भावः | तर्हि किं कार्यमित्यत आह तन्नूनम् इति | अयं धर्मः - ज्ञानाख्यो धर्मः, प्रतिबिंबवत्वेन - प्रतिबिंबभावेन, उपसंक्रामति - लगति, इत्थंभावे तृतीया | ननु तत्तत्वं किं करोतीत्यत आह तत् इति | तत् - समनन्तरोक्तम्, प्रतिबिंबस्य ग्रहे - ग्रहणे, योग्यम् - उचितम्, सत्त्वप्राधान्यात् - सत्त्वगुणप्रधानत्वेन, लक्षणया निर्मलत्वादिति यावत् | ननु तर्हि कथं न तस्मिन् देशकालादिविप्रकृष्टमपि प्रतिबिंबति इत्यत आह तमसा इति | तमसा - तमोगुणेन, आच्छादितत्वात् - आवृतत्वात्, सकलस्यदेशकालादिविप्रकृष्टाविप्रकृष्टस्य समस्तवस्तुनः, प्रतिबिंबनतः - प्रतिबिंबग्रहणात्, व्यावर्तितम् - व्यावृत्तम् | ननु तर्हि कथं देशकालाद्यविप्रकृष्टं गृह्णाति इत्यत आह रजसा इति | रजसा - रजोगुणेन, अपसारणात् - निवारणात्, रजोगुणस्यैव प्रवृत्तिरूपत्वादेवमुक्तम् | किंचिदेव - अविप्रकृष्टमेत, यथा निःश्वासान्धो भागे तद्रहितो दर्पणः किंचिदेव प्रतिबिंबं गृह्णाति तथेति दृष्टान्तयोजना स्वयमेव कार्या | ननु तत्तत्त्वान्तरमेवंकारि भवतु तस्य तु नाम किमस्तीत्यत आह तदेव इति | सांख्यमते हि बुद्धेरेव ज्ञानकर्तृत्वम् | तदुक्तम् :- स्वच्छायां धियि संक्रामन् भावः संवेद्यतां कथम् | तया विना इति | ननु तर्हि ज्ञानं किमस्ति इत्यत आह अर्थ इति | अर्थस्य प्रतिबिंबग्रहः - , प्रतिबिंबग्रहणम्, तद्रूपमिति यावत् - ज्ञानम् | अस्य - बुद्धितत्त्वस्य, वृत्तिरूपम् - वर्तनरूपम्, परिणामरूपमिति यावद्, भवति | एतेन बुद्धिर्ज्ञानलब्धि इयच्च सत्त्वादीनां सुखदुःखमोहरूपतया [सुखदुःखमोहतया - K. ष्. ष्.] भोग्यत्वात् जडम् इति दर्पणवत् अप्रकाशम् | न च भोग्यस्य अप्रकाशस्य तद्विरुद्धभोक्तृतारूपप्रकाशात्मकस्वभावसंभवो युक्यनुपाती इति तद्विलक्षणेन भोक्त्रा भवितव्यम् | स च प्रकाशः - इत्येतावत्स्वभावः, स्वभावान्तरं हि अप्रकाशरूपं भोग्यं कथं भोक्तुः स्वभावतया संभाव्येत | स च प्रकाशमात्रस्वभावत्वेनैव यदि इति तार्किकोक्तस्य बुद्धिज्ञानयोरेकत्वस्य निरासः कृतः | ज्ञानं कीदृशम् ? पूर्वः - पूर्वकालीनः, यो व्यपदेशः - क्षीरेत्यादि नाम, तस्य तिरोधायको यो दध्यादिपरिणामः, दध्यवस्थायां क्षीरेति नाम न तिष्ठत्येव, ततो विलक्षणो यः परिणतिविशेषः - कुण्डलाअदिरूपः परिणामविशेषः, स आत्मा यस्य तादृशम्, यद्वशेन तार्किकास्तत्र बुद्धिशब्देनैव व्यवहरन्तीति भावः | उपसंहारं करोति एवम् इति | धारयति, प्रतिबिंबत्वेनेति शेषः | ननु यदि धारयति तर्हि अस्या अजडत्वमेवायातमित्यत आह इयच्च इति | सत्त्वादीनाम्, प्रकृत्यादिमध्ये इत्यर्थः इयत् - बुद्धिपर्यन्तं तत्त्वद्वयमपि, सुखदुःखमोहरूपतया - साम्यभावस्थितगुणत्रययुक्ततया, [साम्यभावेन स्थितगुणत्रययुक्ततया - C.] भोग्यत्वात् - भोग्यतापातात्, जडं भवति, अन्येषु ग्राहकत्वेऽपि स्वग्रहणे परापेक्षत्वात्, इयत् शब्दः शेषस्य तत्त्वगणस्याजडत्वसंभावनाव्यावृत्तिपरः | फलितमाह इति इति | इति - अतः कारणात्, दर्पणवत् अप्रकाशम् - प्रकाशव्यतिरिक्तस्वभावं भवति | ननु तर्हि विश्वस्यान्धमूकतापातः स्यादित्यत आह न च इति | युक्तिमनुपततीति युकत्यनुपाती, यिक्त्यनुसारीति यावत् | तद्विलक्षणेन - जडाऽप्रकाशभिन्नेन, भोक्त्रा - पुरुषाख्येन भोगकर्त्रा, भवितव्यम् इति तर्करीत्या साधनं सांख्यानां चेतनविषये निश्चयशैथिल्यद्योतनार्थम् | स च - भोक्ता च, इत्येतावान् स्वभावो यस्य स इत्येतावत्स्वभावः, स्वभावान्तरम् - जडाऽप्रकाशरूपोऽन्यः स्वभावः, संभाव्येत - संभावयितुं शक्येत | स च - प्रकाशस्वभावो भोक्ता च, प्रकाशमात्रस्वभावत्वेनैव, बाह्यसाधनं विनै - विश्वस्य प्रकाशः, तर्हि विश्वं युगपदेव प्रकाशेत, घटप्रकाशोऽपि पटप्रकाशः स्यात् इति विश्वं संकीर्येत | स च अर्थात् अर्थप्रतिबिम्बात् तदाधाराच्च बुद्धितत्त्वात् अन्यः कथम् अर्थस्य प्रकाशः स्यात् असंबन्धात् | तस्मात् बुद्धिरेव स्वच्छत्वात् प्रकाशप्रतिबिम्बमपि गृह्णाति [परिगृह्णाति - K. ष्. ष्.] | ततः प्रकाशप्रतिबिम्बपरिग्रहमहिमोपनतप्रकाशावेशबुद्धितत्त्वावेशितप्रति - बिम्बकनीलाद्यर्थपर्यन्तसंक्रान्तेः प्रकाशावेशस्य अर्थः प्रकाशते इति सिद्धो व्यवहारः | तदेवं ज्ञानं जडबुद्धितत्त्वाव्यतिरेकात् जडमपि चित्प्रतिबिम्ब - वेति भावः | ननु प्रकाशतां ततः किमित्यत आह घट इति , अन्यथा युगपत्त्वायोगादिति भावः | ननु ततोपि किमित्यत आह इति इति | विश्वम् - जगत्, संकीर्येत - संकरविषयतां गच्छेत्, ततश्च घटेऽपि पटव्यवहारः स्यादिति भावः | ननु स भोक्ता स्वयमर्थादिभावमागत्य प्रकाशो भवत्वित्यत आह स च इति | स च - भोक्ता च, अर्थप्रतिबिंबात् - ज्ञानात्, तदाधारात् - अर्थप्रतिबिंबाधारात्, अन्यः - व्यतिरिक्तस्वभावः, चेतनत्वादिति भावः, असंबन्धात् - संबन्धाभावन | फलितमाह तस्मात् इति | स्वच्छत्वात् - सत्त्वप्राधान्यकृतान्नैर्मल्यात्, प्रकाशप्रतिबिंबम् - प्रकाशस्वभावभोक्तृप्रतिबिंबम्, अपि शब्देनोक्तस्यार्थप्रतिबिंबस्य समुच्चयः | ननु गृह्णा तु ततः किमित्यत आह ततः इति | ततः, यतः प्रकाशप्रतिबिंबमपि गृह्णाति ततः कारणादित्यर्थः, प्रकाशस्य - पुरुषस्य यः प्रतिबिंबपरिग्रहस्तस्य यो महिमा तेन उपनतः - प्राप्तः प्रकाशावेशो येन, यो हि यत्र प्रतिबिंबितो भवति स तत्र कृतावेशो भवति, तादृशं यद् बुद्धितत्त्वम् - महत्तत्त्वम्, तत्र आवेशितं प्रतिबिंबं येन तादृशो यो नीलाद्यर्थः स पर्यन्तो यस्याः तादृशी संक्रान्तिः - प्रतिबिंबस्फूर्तिर्यस्मिन् तादृशस्य, परंपरागतस्वाधिष्ठितबुद्धितत्त्वप्रतिबिंबितनीलाद्यर्थ - प्रतिबिंबयुक्तस्येति यावत् | प्रकाशावेशस्य - बुद्धावन्तर्गतस्य प्रकाशप्रतिबिंबस्य, न तु बिबंभूतस्य तटस्थस्य प्रकाशस्य, अर्थः - नीलादिपदार्थः, प्रकाशते, न केवलस्य बुद्धितत्त्वस्य, तस्य जडत्वात्, नापि पुरुषस्य, तस्योदासीनत्वात् | योगात् विषयस्य प्रकाशः - इति | एतदेव तावत् अनुचितम् - यत् प्रकाशात्मा पुमान् बुद्धौ प्रतिबिम्बम् अर्पयति, समानगुणे बिम्बकापेक्षया च विमले प्रतिबिम्बसंक्रान्तिदर्शनात्, रूपवति आदर्शे घटरूपप्रतिबिम्बवत्; आत्मबुद्ध्योश्च अतिवैलक्षण्यम्, आत्मापेक्षया च न बुद्धिर्विमला तत् भवतु तावत् एतत् - इति ऽअथऽ शब्देन सूचयति | किंतु प्रतिबिम्बवादेनापि न किंचित् प्रतिसमाहितं भवेत् - इति दर्शयति :- अजडा सैवं जाड्ये नार्थप्रकाशता || ८ || चैतन्यप्रतिबिम्बयोगे यदि तावत् तत्प्रतिबिम्बकमपि मुख्यं प्रकाशरूपमेव न भवति, तेनापि न किंचित् कृतं स्यात्, न हि प्रतिबिम्बितवह्निपुञ्ज आदर्शो दाह्यं दहेत् | अथ मुख्यप्रकाशरूपमेव तत्प्रतिबिम्बकम्, तत् सांख्यमतमुपसंहरति तदेवम् इति | चितः - भोक्तुः यः प्रतिबिंबः - बुद्धितत्त्वे संक्रान्तिः, तस्य योगः - संबन्धः तस्मात्, दृश्यते चाग्निसंयोगेनायसोऽग्निकार्यमिति न काप्यनुपपत्तिरिति भावः | एतेन पूर्वार्धं गतव्याख्यम् | तथा च योजना | अथ प्रश्ने, बुद्धिर्यथा बहिरर्थस्य धत्ते - प्रतिबिंबत्वेन गृह्णाति, तथा अन्तः आत्मनः - भोक्तुः, चैतन्यम् - स्वरूपभूतां चेतनताम्, धत्ते, तथा च जडत्वेपि तस्या अर्थप्रकाशनं युक्तमेवेति भावः | अथ शब्दसूचनीयं वस्तु कथयति एतदेव इति | एतच्छब्दस्याकांक्षां पूरयितुमाह यत् इति | अनुचितत्वे हेतुमाह समान इति | चैतन्यम् इति पदेन न्यूनम् उत्तरार्धं व्याख्यास्यंस्तदभिप्रायन्तावदाह किन्तु इति | अर्थाक्षिप्तेन किन्तु शब्देन प्रतिसमाधानत्वं सूचितम्, प्रतिसमाहितम् - प्रतिसमाधानविषयतां | केन दर्शयतीत्यत आह अजडा इति | उत्तरार्धमुपन्यस्य व्याचष्टे चैतन्य इति | तर्हि बुद्धेरव्यतिरिक्तम् इति मुख्यप्रकाशरूपैव बुद्धिर्जाता इति | यतो विरुद्धधर्माध्यासात् भीरुभिः एतत् कल्पितम् | स एव पुनः जाज्वल्यमानं निजम् ओजो जृम्भयति, ततश्च सा बुद्धिरेव चिन्मयी स्यात्, किं पुरुषेण | एवम् अर्थप्रतिबिम्बकद्वारेण अर्थमयी - इत्यपि आयातो विज्ञानवादः | कुत एतस्याः [कुत एवास्याः - K. ष्. ष्.] तद्रूपत्वम् - इति, पूर्वकारणपरम्परातः - इति उत्तरं वाच्यम् | एवं सैव चेत् चिद्रूपा, प्राग्वत् नित्यताप्रसङ्गः; न चेत चिद्रूपस्यापि नित्यता, तर्हि आत्मा न नित्यः कश्चिदस्ति, यस्य ज्ञानं नाम प्रतिबिंबकम् - आत्मचैतन्यप्रतिबिंबः | किन्न कृतं स्यादित्यत आह न हि इति | तदुक्तम् :- चिद्धर्मश्च मृषा बुद्धौ इति | द्वितीयं पक्षं प्रत्याख्यातुमाह अथ इति | तत् - प्रतिबिंबकम्, इति शब्दः प्रमेयपरिसमाप्तौ | ननु जायतां ततः किम् इत्यत आह यतः इति | विरुद्धधर्माध्यासात् - जडायां बुद्धौ चैतन्यप्राप्तिरूपात्, एतत् - प्रतिबिंबसाधनम्, | स एव - विरुद्धधर्माध्यास एव, जाज्वल्यमानम् - अत्यर्थं ज्वलत् | ननु जृम्भयतु ततः किमित्यत आह ततश्च इति | किं पुरुषेण, बुद्धौ मुख्यप्रकाशांगीकारात् व्यर्थस्य तस्य कल्पना निष्प्रयोजनैवेति भावः | दोषान्तरमप्याह एवम् इति | अर्थमयी - अर्थरूपा, प्रकृतत्वाब्दुद्धेरकथनम्, विज्ञानवादः - विज्ञानवादिबौद्धमताश्रयणम्, तेपि हि निराकारस्य ज्ञानस्य अर्थेन साकारत्वं कथयन्ति | विज्ञानवादत्वमेव साधयति कुतः इति | एतस्याः - बुद्धेः, तद्रूपत्वम् - अर्थरूपत्वम्, इति, अत्र प्रश्ने इत्यर्थः, पूर्वकारणपरंपरातः, पूर्वसिद्धाऽर्थरूपकारणपंक्तेरित्यर्थः, वाच्यम् - अवश्यं वक्तव्यम्, अन्यस्योत्तरस्याभावादिति भावः | इदं चोत्तरं विज्ञानवादिनामेव ज्ञेयम् | समनन्तरोक्तं तृतीयं दोषमप्याह एवम् इति | एवं सति सैव बुद्धिरेव | चेत्, शक्तिः स्यात् - इति ज्ञानमात्रमेव अस्ति | योऽर्थप्रकाशरूपो बोधो यश्च विकल्पस्मृत्यादिरूपः तावता अर्थव्यवहारसिद्धेः - इति प्रसङ्गविपर्ययलाभः [प्रसंगविपर्ययलाभे - K. ष्. ष्.] ऽज्ञानं च चित्स्वरूपं चेत्ऽ इत्यादेः श्लोकद्वयस्य तात्पर्यम् || ८ || एवं ज्ञानं परीक्ष्य क्रियां परीक्षते :- क्रियाप्यर्थस्य कायादेस्तत्तद्देशादिजातता | नान्याऽदृष्टेः || इह परिस्पन्दरूपं तावत् गच्छति, चलति, पतति - इत्यादि यत् प्रतिभासगोचरम्, तत्र गृहदेशगतदेवदत्तस्वरूपात् अनन्तरं बाह्यदेशवर्ति - चिद्रूपस्यापि - चिद्रूपत्वेनाङ्गीक्रियमाणस्य बुद्धितत्त्वस्यापि, समानन्यायत्वादिति भावः | किंभूत आत्मेत्यपेक्षायामाह यस्य इति | ज्ञानं नाम - ज्ञानाख्या, न हि शक्तिमतोऽभावे शक्तेर्युक्ततेति भावः | सिद्धमभीप्सितमाह इति इति | ज्ञानमात्रमेव न तु तत्कतृ भूतो नित्य आत्मास्तीति भावः | कथं तन्मात्रमेव युक्तमित्यत आह योर्थ इति | बोधः - निर्विकल्पज्ञानम्, विकल्पः - सविकल्पज्ञानम् | समनन्तरोक्तश्लोकद्वयस्याभिप्रायं सिद्धत्वेनाह इति इति | इति - अतः कारणात्, प्रसंगविपर्ययलाभः - प्रसंगविपर्ययलाभरूपम्, तात्पर्यम् - तात्पर्यार्थः || ८ || अथ नवमश्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका :- परीक्षते - परीक्षाविषयीकरोति, तत्पल्लवभूतत्वादिति भावः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | क्रिया इति | अत्र टीका :- नान्यादृष्टेः इत्यन्तं श्लोकपिंडं व्याचष्टे इह इति | प्रतिभासगोचरम्, [प्रतिभासगोचरः - K. ष्. ष्.] प्रतिभाविषयीभूतमित्यर्थः | तत्र - तस्मिन् प्रतिभासे, तत्स्वरूपा - देवदत्तस्वरूपम् - इत्येतावत् उपलभ्यते, न तु तत्स्वरूपातिरिक्तां कांचित् अन्यां क्रियां प्रतीमः | ऽदेवदत्तो दिनं तिष्ठतिऽ इत्यत्र तु प्रभातकालाविष्टदेवदत्तस्वरूपं ततः प्रहरकालालिङ्गिततत्स्वरूपम् - इत्यादि भाति, ऽदुग्धं परिणमतेऽ इत्यत्र मधुरवस्तुरूपम् अम्लवस्तुरूपम् द्रवरूपं कठिनरूपम् - इत्यादि | एवं तद्देशतया तत्कालतया तदा - कारतया च भाव एव भाति | सादृश्याच्च तत्र प्रत्यभिज्ञा भिन्नेऽपि कायकेशनखादाविव | देशाकारान्यत्वे तु कालान्यत्वम् अवश्यंभावि देशकालान्यत्वेऽपि, स्वरूपस्यैव देशत्वात्, कालभेदे च स्वरूपभेदात्, देश - तिरिक्ताम् - देवदत्तस्वरूपातिरिक्ताम्, प्रतीमः - विद्मः | देशोपहितां क्रियां प्रदर्श्य कालोपहितां प्रदर्शयति देवदत्त इति | आदिशब्देन मध्यन्हकालाद्यालिंगिततत्स्वरूपग्रहणम् | आकारोपहितां क्रियां प्रदर्शयति दुग्धम् इति | मधुरद्रवत्वे दुग्धस्य, अम्लकठिनत्वे दध्नः इति | योज्यम्, आदिना सारग्रहणाग्रहणयोग्यत्वादेर्ग्रहणम् | इत्यादि भातीति संबन्धः | उक्तमर्थमुपसःअरति एवम् इति | भाव एव - देवदत्तकायदुग्धादिरूपपदार्थक्षण एव | ननु तर्हि कथं सोऽयमिति प्रत्यभिज्ञा दृश्यते इत्यत्राह सादृश्य इति | प्रत्यभिज्ञा - सोयंदेवदत्त इत्यादिरूपं प्रत्यभिज्ञानम् | नखादौ इति | आदिशब्देन दीपशिखादेर्ग्रहणम्, प्रतिक्षणं भिन्नापि हि दीपशिखा सादृश्यात्सेयमिति प्रत्यभिज्ञायते | ननु कथमेकस्य देवदत्तकायरूपस्य भावस्य देशकालभेदेन भिन्नत्वं येन भेदप्राणसादृश्यनिमित्तकप्रत्यभिज्ञाविषयत्वं कथयसि इत्यत आह देशाकार इति | तु, यथार्थे, देशाकारान्यत्वे - देशाकारयोर्भिन्नत्वे, यथा कालान्यत्वमवश्यंभावि, न हि देवदत्तस्य गृहे बहिश्चावस्थानं युगपत् संभवति, दुग्धादेर्वां दध्याद्यवस्था, तथा देशकालान्यत्वेपि, अर्थादाकारान्यत्वमवश्यंभावि भवति विशेषणकृतंभेदाश्रयणात्, दृश्यते च नीलसितोत्पलयोर्विशेषणकृतो भेद इति न कोपि विरोधः, आकारभेदे तद्भेदः स्फुटतर एवेति नात्र काप्यनुपपत्तिः, कालाकारभेदेन अवश्यं देशभेद इति तदकथनम् | देशकाला - कालाकारा आकार एव यद्यपि पर्यवस्यन्ति, तथापि स्थूलदृष्ट्या अस्ति भेदः इति ते हि भेदेन बौद्धैरुच्यन्ते - इति तात्पर्यम् | एवं प्रत्यक्षेण न दृश्यते क्वचित् क्रिया, तदभावत् न तत्पूर्वकेण अनुमानेन, कार्यं च ग्रामप्राप्त्याद्युत्तरक्षणरूपं तद्देशवस्तुरूपादि इति कार्यान्यथानुपपत्त्यापि न सा कल्प्या | एवं प्रत्यक्षानुमानाभ्यां तस्या अदृष्टिः - इति साधकप्रमाणाभाव उक्तः | बाधकमपि आह :- न्यत्वेऽप्याकारान्यत्वमिति वा पाठः | ननु देशकालयोरपि आकाराव्यभिचारेण आकारान्तर्गतत्वात् एकस्य आकारस्य साम्राज्ये केवलेन आकाररूपेण देशेनापि सर्वाक्षेपे किमिति कालाकारग्रहणपरेण आदिशब्देनेत्यत आह स्वरूपस्यैव इति | स्वरूपस्यैव - मूर्तेरेव, देशत्वात् कालभेदे च स्वरूपभेदात् देशकालाकाराः यद्यप्याकारे पर्यवस्यन्ति - विश्राम्यन्ति, तथापि स्थूलदृष्ट्या - आपातदृष्ट्या, भेदः अस्ति, इति - अतः कारणात्, बौद्धैः - बुद्धितत्त्वविश्रान्तैर्वादिभिः, ते भेदेनोच्यन्ते | आकारस्य आकारे पर्यवसानं राहोः शिर इतिवत् ज्ञेयम् | अत्र च देशस्य भानादेव आकारत्वमुक्तम्, कालस्य तु निराकारत्वेन एतद्भेदे तद्भेदस्याव्यभिचारेण आकारत्वं साधितमिति न काप्यनुपपत्तिरित्युपसंहारं करोति एवम् इति | तत्पूर्वकेण - प्रत्यक्षपूर्वकेण | ननु क्रियाकार्येण ग्रामप्राप्त्यादिना तत्कल्पनां करिष्याम इत्यत आह कार्यञ्च इति | आदिशब्देन ओदनादेर्ग्रहणम् | तद्देश इति | आदिशब्देन कालस्य ग्रहणम्, सा - क्रिया, कल्प्या - कल्पयितुं शक्या | अदृष्टेः इति पदस्य अर्थं स्फुटयितुमाह एवम् इति | आचार्येण कर्त्रा एवम् - समनन्तरोक्तप्रकारेण, तस्याः - क्रियायाः अदृष्टेः इति सूत्रस्थपदेन प्रत्यक्षानुमानाभ्याम् - प्रत्यक्षानुमानभावेन, साधकप्रमाणस्य अभावः साधकप्रमाणाभाव उक्तः | ..................... न साप्येका क्रमिकैकस्य चोचिता || ९ || तत्र पूर्वापररूपता क्षणानां विकल्पबुद्ध्यानुसंधानात् न तु स्वात्मनि किंचित् पूर्वम् अपरं वा, वस्तुमात्रं हि तत् | अतो विकल्पप्राणितं पूर्वापरीभूतत्वं क्रमरूपता क्रियायाः [क्रियाया लक्षणं न वस्तु किंचित् स्पृशति - K. ष्. ष्.] किंचित् क्षणं न वस्तु स्पृशति, ते हि इत्थंभावे तृतीया | एतेन अदृष्टेः इत्यन्तं गतव्याख्यम् | तथा च योजना | क्रियापि कर्त्री कायादेरर्थस्य, आदिशब्देन परिणामादिक्रियाविषयस्य दुग्धादेर्ग्रहणम्, तेन कायदुग्धादेः पदार्थस्य ते ते च ते देशादयः तेषु जातता - तद्वैशिष्ट्यकृतोऽन्यः प्रादुर्भावो भवति, नवीनो न भवति | कुतः ? अदृष्टेः - प्रत्यक्षानुमानाभ्यामनुपलब्धेरिति | न सा इति श्लोकखंडस्यावतरणिकां करोति बाधक इति | बाधकम् - क्रियाया नाशकं प्रमाणम्, अपि शब्दः समुच्चये | अवतरणिकां कृत्वा न सा इति श्लोकखंडमुपन्यस्य व्याचष्टे | न सा इति | तत्र - तस्यां क्रियायाम्, पूर्वापररूपता - पूर्वापरीभावः, क्षणानाम् - क्रियाक्षणानाम्, विकल्पबुद्ध्यानुसंधानात् - विकल्पज्ञानसंपादितेनानुसंधानेन, किंचित् - कोपि क्षणः, वस्तुमात्रम् - पूर्वापरभावास्पर्शि वस्तुस्वरूपमात्रम्, तत् - सन्तत्या वर्तमानो यथास्वं क्षणसमूहः, बौद्धमते काल एव नास्ति का कथा तत्कृतयोः परत्वापरत्वयोरिति भावः | फलितमाह अतः इति | विकल्पप्राणितम् - विकल्पाध्यवसितम्, क्षणा न अन्योन्यस्वरूपाविष्टाः इति कथम् ऽएकाऽ क्रिया, क्रमो हि भेदेन व्याप्तः अभिन्ने तदभावात्, भेदस्य विरुद्धम् ऐक्यम् इति कथं ऽक्रमिका एका चऽ इति स्यात् ? अथ एकत्र आश्रयेऽवस्थानात् एका, तत्रापि तत्क्षणातिरिक्तो न कश्चित् आश्रयोऽनुभूयते, क्षणा एव हि प्रबन्धवृत्तयो भान्ति | किं च तथाभूतैर्भीन्नदेशकालाकारैः क्रियाक्षणैराविष्ट आश्रयः कथमेकः स्यात् ? अत एव ऽदेवदत्तोऽयम्, स एव ग्रामं प्राप्तःऽ इति सादृश्यात् भवन्ती प्रत्यभिज्ञा न ऐक्यं वास्तवं गमयितुमलम् || ९ || पूर्वापरीभूतत्वस्य पर्यायमाह क्रमरूपता इति | किंचित् क्षणम् - क्रियायाः किमपि क्षणम्, वस्तु - वस्तुभूतम्, बौद्धमते क्षणानामेव वस्तुत्वात् सन्ततेस्तु वैकल्पिकत्वात्, न स्पृशति, न हि विकल्पसिद्धयोरपारमार्थिकयोरन्योन्यं संबन्धो युक्तः, द्विचन्द्रस्यापि चन्द्रत्वस्पर्शप्रसंगादिति भावः | कथं न स्पृशतीत्याह ते हि इति | स्वरूपाविष्टाः - स्वरूपश्लेषयुक्ताः, प्रत्येकं स्वकालमात्रे स्थितत्वात्, अन्यथा क्षणत्वायोगात् | फलितमाह इति इति | इति - अतः कारणात्, एका - क्षणसन्ततिरूपा | एकत्वं प्रत्याख्याय तदवष्टंभेन क्रमिकत्वमपि समुच्चयेन प्रत्याख्यातुमाह क्रमो हि इति | तदभावात् - क्रमाभावात्, न हि व्यापकाभावे व्याप्यसत्ता युक्तेति भावः | एकस्य इत्यनेन सूचितमेकाश्रयत्वं प्रत्याख्यातुमाह अथ इति | एकाश्रयत्वकृतमेकत्वं [एकाश्रयत्वकृतं प्रतिसमाधातुमाह - C.] प्रतिसमाधातुमुत्तरमाह तत्र इति | तेभ्यः क्षणेभ्योऽतिरिक्तः तत्क्षणातिरिक्तः | कथं नानुंभूयत इत्यत आह क्षणा एव इति | प्रबन्धवृत्तयः - अविच्छिन्नस्थितयः | एवशब्देन क्षणसन्ततिरूपस्य क्रियास्वरूपस्य भानव्यावृत्तिः | भीन्ना ये देशकालाकाराः तैः, तद्रूपैरित्यर्थः, आविष्टः - आवेशविषयईकृतः, आश्रयः - देवदत्तकायादिरूपः | फलितमाह अत एव इति | वास्तवम् - परमार्थभूतम्, अलम् - समर्थम्, केशनखादिवदिति दृष्टान्तयोजना स्वयमेव कार्या, इति || ९ || एवं ज्ञानं क्रियां च परीक्ष्य, यस्मिन् सति ते संबद्धे सर्वज्ञत्वसर्वकर्तृतारूपैश्वर्यप्रसाधनाय प्रभवतः, तं संबन्धं ध्वंसयितुं तद्विषयं प्रमाणाभावं तावदाह :- तत्र तत्र स्थिते तत्तद्भवतीत्येव दृश्यते | नान्यन्नान्योऽस्ति संबन्धः कार्यकारणभावतः || मृत्पिण्डे सति स्तूपकः, तत्र सति शिविको यावत् घटः इत्येवं भावक्षणा एव उपलभ्यन्ते, न अधिकं किंचित् प्रत्यक्षेण अवभासते, नापि अनुमानेन - इति क्रियायामिव वाच्यम् | सर्वत्र आधाराधेयभावादौ अथ दशमश्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका :- ते - ज्ञानक्रिये, ध्वंसयितुम् - प्रत्याख्यातुम्, तद्विषयम् - संबन्धविषयम्, एतयोः तावत् - प्रथमम्, यस्मिन् संबन्धे सति इति योजना | एतामवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तत्र इति | अत्र टीका :- स्तूपकः - घटनिर्माणार्थमुपात्तस्य मृत्पिण्डस्य कुलालेन प्रथमं क्रियमाणो रचनाविशेषः, शिविकः - उन्नतवस्तुरूपो रचनाविशेषः, शिविकः कीदृशः ? यावद् घटः, घटभावं तावत् अवस्थायीत्यर्थः | ननु भवतु स्तूपकादिरूपं रचनात्रयं किं तत इत्याह इत्येवम् इति | इत्येवम् - अनेन प्रकारेण, भावक्षणा एव - स्तूपकादिरूपाः पदार्थक्षणा एव, एवशब्दव्यावर्त्यं स्वयमेव कथयति नाधिकम् इति | अधिकं किंचित्, घटकारणतया स्थितं किमपीत्यर्थः | अयमेव पन्थाः - पृथग्रूपकुण्डबदरक्षणान्तरं निरन्तरात्मकविशिष्टकुण्डबदरोदयः - इति | अयमेव च भावो भावान्तरेण सह नियतपूर्वापरतया विकल्पेन व्यवह्रियमाणः कार्यकारणभावः - इति अभिधीयते | न च ज्ञानक्रियाभ्यां सह आत्मनः कार्यकारणभावः आत्मनस्तत्कार्यत्वाभावात्, ज्ञानस्य च स्वसामग्रोकार्यत्वात्, क्रियायाश्च अभावात् इति न ज्ञानक्रियासंबन्धो यतो ज्ञातृत्वकर्तृत्वे स्याताम् || १० || इति - एतत्, क्रियायामिव वाच्यम्, यथा क्रियानिर्णये उक्तम् ऽप्रत्यक्षम् न कापि क्रियाऽस्ति तत एव तत्पूर्वकेणानुमानेनापिऽ इति तथेहापि वक्तव्यमित्यर्थः | ननु किं कार्यकारणभाव एवायं न्याय उत सर्वत्रेत्यत आह सर्वत्र इति | पन्थाः - सरणिः, मार्गः | तमेव दर्शयति पृथग्रूप इति | निरनतरात्मकः - संबद्धरूपः | ननु तर्हि कथं कार्यकारणभावप्रसिद्धिरस्तीत्यत आह अयमेव च इति | अयमेव च भावः - मृत्पिंडादिरूपः पदार्थ एव, भावान्तरेण सह - घटादिरूपेणान्येन पदार्थेन सह, पूर्वापरतया - पूर्वापरभावेन, मृदः पूर्वत्वात् घटस्य परत्वात् इति भावः | नन्वयमेव संबन्धः आत्मनोऽपि कर्तृत्वज्ञातृत्वाभ्यां सह भवत्वित्यत आह न च इति | स्वसामग्रीकार्यत्वात् - आलोकेन्द्रियादिरूपनिजसामग्रीकार्यत्वात् | यतः - यस्मात् ज्ञानक्रियासंबन्धात् | अयमत्र पिंडार्थः | तत्र तत्र - तस्मिन् तस्मिन् मृत्पिंडादिरूपे भावक्षणे सति, तत्तत् - स्तूपकादिरूपः स स भावक्षणोऽस्ति, इत्येव - एतावन्मात्रमेव दृश्यते, अन्यत् - अतोव्यतिरिक्तं कार्यकारणरूपं किंचिन्न दृश्यते | ननु कार्यकारणभावव्यतिरिक्तोऽन्यः कोपि संबन्धो भवत्वित्यत आह नान्योस्ति इति, कार्यकारणभावतोऽन्यः संबन्धो नास्ति तस्यायुक्तत्वादिति भावः || १० || एवं प्रमाणं पराकृत्य, संबन्धे बाधकं सामान्यविशेषमुखेन निरूपयति :- द्विष्ठस्यानेकरूपत्वात् सिद्धस्यान्यानपेक्षणात् | पारतन्त्र्याद्ययोगाच्च तेन कर्तापि कल्पितः || ११ || संबन्धस्तावत् परस्परप्राप्तिरूपो द्वयोः प्राप्तिभाजोरेकस्तिष्ठति - इति सामान्यलक्षणम् | तच्च कथं ? न हि एकत्र विश्रमिताशेषशरीरसारोऽन्यत्र विश्रमितुम् अलम् स्वरूपभेदप्रसङ्गात् | एतेन संयोगसमवायौ तन्मूलाश्च अन्येऽपि संबन्धा बाधविधुरां धुरम् अध्यारोपिता मन्तव्याः | योऽपि चेतनेषु तत्कल्पनया च अचेतनेषु पारतन्त्र्यात्मा संबन्धो व्यवह्रियते, तत्र एकादशस्य श्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका:- प्रमाणम्, साधकमिति भावः, बाधकम् - नाशकं प्रमाणम्, सामान्यम् - सामान्यलक्षणम्, विशेषः - विशेषलक्षणम्, तयोर्मुखेन - द्वारण, निरुपयति, निर्णयविषयतां नयतीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | द्विष्ठस्य इति | अत्र टीका :- तावत्, नात्र विप्रतिपत्तिरित्यर्थः | प्राप्तिभाजोः - कुण्डबदरादिरूपयोः तन्तु पटादिरूपयोश्च परस्परश्लेषभाजोः विषये, एकः - एकरूपः, सामान्यलक्षणम्, प्रकृतत्वात् संबन्धस्य, तच्च - सामान्यलक्षणञ्च कथम्, इह न संभवतीत्यर्थः | एकत्र - एकस्मिन् वस्तुनि कुण्डादिरूपे तन्त्वादिरूपे वा | अनेक इति सूत्रस्थं पदं व्याचष्टे स्वरूप इति | तन्मूलाः - संयोगसमवायमूलाः, अन्ये - कार्यकारणभावादयः संबन्धाः, धुरम् - अवस्थाम् | सामान्यमुखेन निरूप्य विशेषमुखेनापि निरूपयति योपि इति | तत्कल्पनया - चेतनकल्पनया, पारतंत्र्यात्मा - अन्योन्यपारतंत्र्यरूपः | तत्र - तस्मिन् संबन्धे, सिद्धस्य - चेतनस्य, सिद्धत्वादेव, न हि सिद्धस्य पारतंत्र्यं युक्तम् असिद्धत्वापातात् इति भावः | सिद्धस्य न पारतन्त्र्यम् अस्ति सिद्धत्वादेव, असिद्धस्य नतरां निःस्वरूपस्य ताद्धर्म्यायोगात् | एवमपेक्षायामपि वाच्यम् | द्वे च रूपे कथं श्लिष्यतः ? द्वयोरेकत्वानुपपत्तेः; एकत्वे वा कः श्लेषः ? तस्मात् ज्ञानसंबन्धात् ऽज्ञाताऽ इति यथा विकल्पकल्पितोऽर्थो न वस्तु तथा क्रियासंबन्धात् ऽकर्ताऽ इत्यपि कल्पनामात्रम् - इति पूर्वपक्षस्य [इति पूर्वपक्षः - K. ष्. ष्.] संक्षेपः | इति शिवम् || ११ || आदितः १६ || इति श्रीमदाचार्यभिनवगुप्तविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे पूर्वपक्षविवृतिर्नाम द्वितीयमाह्निकम् || २ || असिद्धस्य - अचेतन्स्य, ततराम्, अतिशयेन नस्तीत्यर्थः | एवम् - पारतंत्र्यवत्, अपेक्षायाम् - सूत्रे आदिशब्दगृहीते अपेक्षारूपे संबन्धे | एवं संबन्धस्य सूत्रोक्तं स्वरूपाऽसंभवं व्याख्याय विषयाऽसंभवं स्वबुद्द्ध्याऽऽह द्वे च इति | द्वे च - कुण्डबदरादिरूपे तन्तुपटादिरूपे वा, हेतुमाह द्वयोः इति | तर्ह्येकत्वमेव तयोर्भवत्वित्यत्राह, एकत्वे वा इति | कः, न कोपीत्यर्थः | पञ्चम्युक्तस्य हेतुत्रयस्य पूर्वश्लोकस्थं संबन्धनास्तित्वसाधनं प्रति हेतुत्वं ज्ञेयं | पूर्व कृतेन ज्ञातृत्वबाधेन सह संबन्धासंभवमुखेन समनन्तरसाधितं कर्तृत्वाबाधं समुच्चिनोति तस्मात् इति | तेन इत्यस्य सूत्रस्थस्य तस्मात् इत्येनेन व्याख्या, न वस्तु - परमार्थभूतो न भवति, एतेन सूत्रस्थस्य अपि शब्दस्य समुच्चयसूचकत्वं द्योतितम् | प्रमेयमुपसंहरति इति इति | इति, एवमित्यर्थः, पूर्वपक्षस्य - बौद्धादि - सिद्धान्तरूपस्य, संक्षेपः, संक्षिप्ततया कथनमित्यर्थः | इति शब्दः समाप्तौ, शिव शब्दो मंगलवाचकः परतत्त्वसूचनपरश्च | इति शिवम् || ११ || इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनी - टीकायां श्रीभास्कर्याव्याख्यायां ज्ञानाधिकारे द्वितीयमाह्निकं समाप्तम् || अथ तृतीयमाह्निकम् | विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः | अनस्तमितसंबोधस्वरूपं तं स्तुमः शिवम् || अथ तृतीयमाह्निकम् | ओं | न किंचित् पंचयोग्यं स्यान्न विना यं प्रभुं बहिः | ज्ञानानां मूलमाद्यं तं तेषां चित्ते शिवं स्तुमः || अथ ज्ञानाधिकारे तृतीयाह्निकव्याख्याया निर्विघ्नपरिसमाप्तये समस्ताह्निकाभिप्रायसूचकं स्वेष्टदेवताप्रह्वीभावपरं मंगलश्लोकमुपनिबध्नाति विना येन इति | अत्र टीका :- येन - उत्तरार्धे वक्ष्यमाणस्वरूपेण उपादानभूतेन, विना, समस्ता अपि, अपिशब्दः साकल्ये, नीलसुखादिरूपबाह्याभ्यन्तरभाव - विषयाः, दृष्टयः - परिमितज्ञानानि, किंचित् - वस्तु न स्यात्, मृदा विनेव घटादयो न भवेयुः | वयं तम्, अनस्तमितः, यथातथाकल्पितस्य स्वान्तस्यापि साक्षिरूपतया स्थितत्वात्, एतस्मिन् पूर्वपक्षे यदुक्तं स्मृतेः संस्कारमात्रादेव सिद्धिः - इति, तदेव दूषयितुं ऽसत्यं ...................................... |ऽ इत्यादि ऽ.....................ज्ञानस्मृत्यपोहनशक्तिमान् ||ऽ इत्यन्तं श्लोकसप्तकम् | क्रियायां संबन्धे च दूषणोद्धरणं द्वितीये क्रियाधिकारे भविष्यति | यत्तु परेण व्यतिरिक्तं ज्ञानं काणादसांख्यादिदृष्टौ यः संबोधः - विषयोपरागरहितं शुद्धज्ञानम्, तदेव स्वम् - अन्याननुयायि, रूपम् - स्थितिर्यस्य तादृशम्, शिवम् - प्रकाशरूपं सुखकारित्वाख्यशिवशब्दप्रवृत्तिनिमित्तधर्मयुतं किमप्यनाख्यम् वस्तु परमात्माख्यम्, स्तुम्ः - स्वाभीष्टसिद्धये स्तुतिद्वारेण परामृशामः | एतेन समस्तबोधनिधेः कस्याप्यान्तरस्य तत्त्वस्य स्तुतिरिति द्योतितम्, तथा चानेनैवान्यत्रोक्तम् :- य एष विततस्फुरद्विविधभावचक्रात्मकः परस्परविभेदवान् विषयतामुपागच्छति | यदेकमयभावनांशत एत्यभेदान्वयं स शंभुरशिवापहो जयति बोधभासां निधिः | इति | अनेन चात्राह्निके उत्तरपक्षतया स्थितस्य स्मृतिप्रभृतिज्ञानसर्गस्य सारत्वेन संबन्धहेतुत्वेन च साधनं क्रियते इति सूचितम् | एवं मंगलं संपाद्य समस्तव्यस्तत्वाभ्यामस्याह्निकस्य शिष्यसमाश्वासनार्थं तात्पर्यकथनं तावत् करोति एतस्मिन् इति | अत्र टीका :- एतस्मिन् - समनन्त्राह्निकोक्ते श्लोकसप्तके, भवतीत्यध्याहृतेन संबन्धः | ननु क्रियायाः संबन्धस्य च यन्निराकरणं कृतं तत् किन्न दूष्यते येन तदेव इत्येवकारः स्थापित इत्यत आह क्रियायाम् इति | नन्वेवं भवतु यत्तु सप्तमाष्टमाभ्यां श्लोककाभ्यां शाक्यमतमाश्रित्य काणादशास्त्रे सांख्यशास्त्रे चात्मव्यतिरिक्तं निराकृतं तदभिमतमेव ग्रन्थकृत इति तत् दूषणान्तरमेव | [दूषणान्तम् - K. ष्. ष्.] तत्र श्लोकद्वयेन ज्ञानस्य स्वसंवेदनरूपतया अनुभवस्य स्मृतौ अप्रकाशत्वं [अप्रकाश्यत्वम् - K. ष्. ष्.] दर्शितं संस्कारजत्वेऽपि | ततः श्लोकद्वयेन स्मृतेः भ्रान्तित्वम् आशङ्कापूर्वकं पराकृत्य तृतीयेन प्रसङ्गात् सर्वाध्यवसायानामपि भ्रान्तित्वाशङ्का शमिता | ततः सत्यपि संस्कारे स्मृत्यनुपपत्तौ व्यवहारोच्छेदः - इति श्लोकेनोक्त्वा स्वपक्षे तदुपपत्तिः - इति श्लोकेनोक्तम् - इति तात्पर्यम् | ग्रन्थार्थस्तु निरूप्यते | व्यतिरिक्तं ज्ञानं निरस्तं तदवश्यं निराकरणीयमित्यपेक्षयामाह यत्त इति | परेण - शाक्येन, व्यतिरिक्तम्, आत्मन इति शेषः, ग्रन्थकृतः - उत्पलदेवस्य, दृषणान्तरम्, अभीष्टत्वेन प्रतिसमाधानयोग्येभ्यो दूषणेभ्यो व्यतिरिक्तमित्यर्थः, श्रीशिवनयेऽपि ज्ञानस्यात्मशक्तित्वेन तद्व्यतिरिक्तत्वाभावादिति भावः | एवं श्लोकसप्तकरूपस्याह्निकस्य सामस्त्येनाभिप्रायमुक्त्वा व्यस्तत्वेनापि कथयति तत्र इति | तत्र - श्लोकसप्तकमध्ये, ज्ञानस्य - सामान्यतया स्थितस्य समस्तबोधजातस्य, अनुभवस्य - विशेषतया स्थितस्य अनुभवाख्यज्ञानस्य, स्मृतौ अप्रकाशत्वम् स्मृत्या प्रकाशाभावः | तृतीयेन, समनन्तरश्लोकद्वयापेक्षया, आद्यतस्तु, पंचमेनेति भावः | श्लोकेनोक्त्वा, षष्ठेनेत्यर्थः | तदुपपत्तिः - व्यवहारोपपत्तिः, श्लोकेनोक्तम्, सप्तमेनेत्यर्थः | तात्पर्यम्, श्लोकसप्तकस्य व्यस्तस्याभिप्राय इत्यर्थः | ग्रन्थार्थ निरूपणं प्रतिजानीते ग्रन्थ इति | सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः | जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् || १ || पूर्वपक्षमध्यात् मया तावत् बहु अङ्गीकर्तव्यम् - इति ऽसत्यम्ऽ इत्यनेन दर्शितम् | यत्तु न अङ्गीकर्तव्यं तत् दूष्यते - इत्येतदुक्तं ऽकिंतुऽ इत्यनेन विशेषाभिधायिना | इह स्मृतौ विषयमात्रस्य प्रकाशो न समर्थनीयो वर्तते यः संस्कारादेव सिद्ध्येत्, किंतु अनुभवप्रकाशेन विना ऽतत्ऽ इत्येवंरूपा प्रथमं श्लोकमवतरणिकां विनैवोपन्यस्य व्याचष्टे | सत्यम् इति | अत्र टीका :- सूत्रस्थस्य सत्यम् इति पदस्याभिप्रायं वक्तुमाह पूर्वपक्ष इति | बहु - व्यतिरिक्तज्ञाननिराकरणादिकं वस्तुजातम्, दर्शितम् इति, अस्य पदस्याङ्गीकारवाचकत्वादिति भावः | तर्हि सर्वमेवाङ्गीकर्तव्यमिति बहु शब्दोपादानं व्यर्थमेवेत्यत आह यत्तु इति | अनेन किन्तु इत्यस्याभिप्राय उक्तः | किन्तु इत्यस्य वाच्यार्थमाह विशेष इति | विशेषः - पूर्वस्मात्पक्षाद् व्यतिरेकः | स्मृतिज्ञानम् इत्यादि व्याख्यातुमारभते इह इति | इह - प्रत्यभिज्ञाशास्त्रे, समर्थनीयः | तर्हि किमिह समर्थनीयं वर्तते इत्यपेक्षायां समर्थनीयं वस्तु बहुवक्तव्यतया वाक्येन प्रकटीकरोति किन्तु इति | किन्तु इति विषयमात्रप्रकाशसमर्थनपक्षात्पक्षान्तरद्योतनपरम् | किन्त्वित्यनेनाक्षिप्तं वस्तु कथयति अनुभव इति | अनुभवप्रकाशेन विना - पूर्वानुभवसंवेदनेन विना, कथं स्यात्, तद्विषयेणैव विषयवत्त्वान्न युक्ता स्यादिति भावः | मास्तुं इत्यत आह कथं च इति | तया - तदित्येवंरूपया स्मृत्या, अभिलाषेण व्यवहारः - कांक्षया किर्यमाणः पदार्थव्यवहारः | कुतो न स्यादित्यत आह अनुभव इति | अस्य - व्यवहारविषयस्य भावस्य, ततः - सुखसाधनतानिश्चयानन्तरम्, बहुकालेनेत्यर्थः, उपादानम् - ग्रहणम्, तस्यैव भावस्येति शेषः | अत्र च मध्ये स्मृतिरवश्यमाश्रयणीया, न हि सुखासाधनतास्मृत्यभावे कोपि भावस्योपादानं करोति | ननु पूर्वानुभववेदनमपि तत्रोपादानपर्यन्तकार्यवत् संस्कारादेव कथं स्मृतिः स्यात्, कथं च तया विना अभिलाषेण व्यवहारः स्यात् ? अनुभवेन हि अस्य सुखसाधनता निश्चिता, तत उपादानम्; तत्र पूर्वानु भवजनितात् संस्कारात् एतावत् जातम् | यद्यपि तज्ज्ञानं विषयेण न जनितम्, तथापि तद्विषयम् - इति | न च एतावता किंचित्, आत्मनिष्ठे स्वप्रकाशज्ञाने विषयस्येव अनुभवस्य प्राच्यस्य अप्रकाशात् || १ || जायतामित्यत आह तत्र इति | पूर्वानुभवः - सुखसाधनतानिश्चयः, तेन जनितात संस्कारात् - सुखसाधनतासंस्कारात्, एतावत् - उपादानपर्यन्तं कार्यजातम्, न तु पूर्वानुभववेदनमपीति भावः | ननु तत् स्मृतिज्ञानं किंविषयमित्यत आह यद्यपि इति | विशयेण - पूर्वानुभवविषयेण, पुरःस्थत्वाभावादिति भावः | तद्विषयम् - पूर्वानुभूतविषयम्, संवेद्यमानस्याप्रत्याख्येयत्वादिति भावः, इति शब्दः प्रमेयपरिसमाप्तौ | ननु तर्ह्येतेनैवास्याः पूर्वानुभवप्रकाशकत्वमायातमित्यत आह न च इति | एतावता - तद्विषयेण विषयवत्त्वेन, न किंचित्, किमपि न सम्पन्नमित्यर्थः | कथं न किंचिदित्यपेक्षायां हेतुमाह आत्म इति | आत्मनिष्ठे - स्वप्रकाशनपरे, अत एव स्वप्रकाशज्ञाने - स्मृतिज्ञाने, प्राच्यस्य आद्यस्य, अप्रकाशात् - अस्फुरणात्, अत्र च स्वानुभवः साक्षीति भावः || १ || ननु संस्कारजत्वादेव प्राच्यमनुभवमपि विषयीकुरुतां स्मृतिः - इत्याशङ्क्याह :- दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् | रसे संस्कारजत्वे तु [संस्कारजत्वं - K. ष्. ष्.] तत्तुल्यत्वं न तद्गतिः || २ || ऽदृक्ऽ ज्ञानम्, तच्च जडात् विभिद्यते स्वप्रकाशैकरूपतया, जडो हि प्रकाशात् पृथग्भूतो वक्तव्यः, तेन दृक् ऽस्वाभासा,ऽ आभासः प्रकाशमानता अथ द्वितीयश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- संस्कारजत्वात् - पूर्वानुभवसंस्कारोत्पन्नत्वात्, प्राच्यम् - आद्यम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | दृक् इति | अत्र टीका:- सूत्रस्थं दृक् इति पदं व्याचष्टे ज्ञानम् इति | तच्च - ज्ञानञ्च, जडात् - ज्ञेयाख्यात् जडवस्तुनः | व्यतिरेकेणाप्येतदेव साधयति जडो हि इति | वक्तव्यः - वक्तुं योग्यः | फलितमाह तेन इति | स्वाभासा इति पदं व्याचष्टे आभासः इति | आभास इत्यवयवं व्याचष्टे प्रकाश इति | प्रकाशमानता - बाह्यसंबन्धिप्रकाशकर्तृत्वम्, स्व इत्यवयवं व्याचष्टे रूपम् इति | अव्यभिचारि - अन्याननुयायि, एतेन प्रकाशकाख्यमस्य स्वरूपमुक्तम् | अत्र च स्वः - स्वरूपभूतः आभासो यस्याः सा स्वाभासेति सामानाधिकरण्येन विग्रहो बहुव्रीहिमाश्रित्य कार्यः | अथ वययधिकरण्येन बहुव्रीहिमाश्रित्य स्वप्रकाशकाख्यमप्यस्या रूपं कथयति स्वस्य च इति | स्वस्य - दृगाख्यस्य आत्मनः, आभासनम् - आभासः, रूपम् - स्वरूपं यस्याः सेति | अत्र तु स्वः स्वरूपभूतः स्वस्याभासो यस्याः सेति तंत्रेण स्वशब्दस्य द्विर्योजना | अथवा स्वरूपमित्येकस्य स्वशब्दः लोपः, रूपकाश्रयणे तु पुल्लिङ्गताप्रसङ्गः | सा स्वं रूपमव्यभिचारि यस्याः, स्वस्य च आभासनं रूपं यस्याः | सत्यपि बाह्ये तच्छरीरसंक्रान्तं न प्रकाशनं ज्ञानस्य रूपं भवितुमर्हति, परप्रकाशनात्मकनिजरूपप्रकाशनमेव हि स्वप्रकाशत्वं ज्ञानस्य भण्यते | ननु स्वाभासमेव सत् तत् अनुभवज्ञानं स्मरणे भासिष्यते, न - इत्याह ऽनान्येन वेद्याऽ | परत्र यदि दृक् भासेत तर्हि न सा स्वाभासा, इदमेव हि स्वप्रकाशस्य लक्षणम् - स्वयं हि यदि प्रकाशेत तदा परेण सह ननु दृक् स्वाभासा भवतु तथापि बाह्यविषयतामहिमोपनतबाह्योपरागवशोपागतं जडत्वमस्या दुर्निवारमेवेत्यत आह सत्यपि इति, परमार्थविचारे बाह्यमेव नास्तीत्यपिशब्दाभिप्रायः | तच्छरीरसंक्रान्तम् - बाह्यस्वरूपलग्नम्, तदुपरक्तमिति यावत् | प्रकाशनम् - प्रकाशः | पुनः किन्तस्य स्वरूपमित्यत आह पर इति | परप्रकाशनात्मकम् - बाह्यप्रकाशरूपं यत् निजम् - स्वम्, रूपम्, तस्य प्रकाशनम् - प्रकाशः, तदेव न तु तत्र कर्तृत्वम्, तथात्वेऽपसिद्धान्तापत्तेः, ज्ञानस्य स्वप्रकाशत्वं नाम स्वरूपमिति शेषः | भण्यते - कथ्यते | तथा च बाह्यस्पर्शो दूरत एवास्तामिति भावः | एव शब्दार्थव्याख्याभूतस्य नान्येन वेद्या इत्यस्य व्याख्यां करोति ननु इति | स्मरणे - स्मृतिविषये, भासिष्यते इति कर्मकर्तृलाकारः | एतेन अन्येन इत्यस्यावतरणिका कृता | अत्रोत्तरमाह नेत्याह इति | केन आह इत्यपेक्षायां वाक्यमुपन्यस्य व्याचष्टे नान्येन इति | स्पष्टत्वेन निगदव्याख्यातमेतत | कुतो न वेद्या इत्यत आह परत्र इति | सा - दृक् कुतो न सा स्वाभासा इत्यत आह इदमेव इति | स्वप्रकाशस्य - स्वाभासस्य, लक्षणम् असाधारणो धर्मः | एतेन नान्यत्र वेद्या इत्यस्य नान्यत्र भास्या इति पर्याय इति सूचितम् | स्वप्रकाशस्य - स्वाभासस्य किमित्यपेक्षायामाह स्वयम् इति | प्रथमं तस्य स्वयं - असंबन्धात् संबन्धप्राणा कथं ऽपरत्रऽ इति सप्तमी संगच्छताम्; तथा च रूपज्ञानेन ऽरसे दृक्ऽ रसविषयं ज्ञानं न वेद्यते, एवं हि चक्षुषैव रसः फलतो गृहीत एव स्यात् | ननु यदि न आभाति स्मरेणेऽनुभवः किं तर्हि संस्कारेण कृतं स्यात्, रूपज्ञानं न रसज्ञानजात् संस्कारात् जातम्, तत् कथम् अयं प्रसङ्गः, तस्मात् संस्कार एव भवत्संभावितदोषभङ्गाय प्रभवेत् | नैतत्, यतो हि असौ तत्संस्कारसंस्कृतात् समनन्तरप्रत्ययात् उत्थितः प्रकाशरूपत्वेन प्रकाशापेक्षैव नास्ति, यदि तु प्रकाशते स्वयं स्वेन स्वं प्रति, न तु स्वव्यतिरिक्तेन प्रमाणेन स्वव्यतिरिक्तं प्रमातारं प्रति, तदा परेण सह असंबन्धात् - संबन्धाभावात्, सबन्धप्राणा - संबन्धमूला, परत्रोत सप्तमा - परशब्दाग्रस्थत्रल्प्रत्ययवाच्या सप्तमीविभक्तिः, कथं संगच्छताम्, विषयाभावात् अन्येनेतितृतीयाविभक्तिव्याख्यात्वेन स्थिता तृतीयापर्यायत्वेन न संगच्छते इत्यर्थः | परत्रेतिसप्तमीप्रयोगाविषयत्वमेव स्वप्रकाशलक्षणम् इति वाक्यार्थः | रूपदृशेव दृक् रसे इति वाक्यं व्याख्यातुमाह तथा च इति | तथा शब्दः इवशब्दवाच्योपमाद्योतकः | यथा रूपज्ञानेन रसज्ञानं न वेद्यते स्वप्रतीतिप्रसिद्धत्वात् तथा स्मृत्यापि पूर्वानुभवो न वेद्यते इत्यर्थः | ननु यदि वेद्येत तर्हि किं भवेदित्यत आह एवं हि इति | फलतः, न तु साक्षात्, रूपज्ञानेन रसज्ञाने गृहीते तद्विषयस्य रसस्यापि रूपग्राहकनेत्रविषये ग्रहणमर्थायातमेव स्यादिति भावः | संस्कारजत्वे तु तत्तुल्यत्वम् इति व्याख्यातुमवतरणिकां करोति ननु इति | अयं प्रसंगः - रूपज्ञानेन रसविषयज्ञानाभासनरूपा अनिष्टापत्तिः | प्रश्नमुपसंहरति तस्मात् इति | भवता - उत्तरपक्षवादिना त्वया, संभावितो यो दोषः - स्मृत्यसंभवाख्यः, तस्य भंगाय - नाशाय, प्रभवेत् - समर्थो भवेत् | उत्तरमाह नैतत् इति | कुत इत्यपेक्षायामाह यतो हि इति | तत्संस्कारेण - आद्यानुभवसंस्कारेण, संस्कृतात् - स्मृत्युत्पादने समर्थीकृतात्, एतेन संस्कारजत्वे स्मृतिबोधः, तेन तत्सदृशो भवतु शाखासंनिवेश इव पूर्वसंनिवेशतुल्यः, न तु यो यत्संस्कारात् जातः स तस्य वेदनस्वभावो भवति - इति युक्तम् | सदृशत्वस्यापि गतिरवगमः कथम् ? न हि अनुभवज्ञानं सादृश्यं गमयति, नापि स्मृतिज्ञानम्, परस्परम् असंवेदने द्वयनिष्ठसादृश्याध्यवसायायोगात्, अन्यस्य च तदुभयवेदनरूपस्य अभावात् इति संस्कारात् परं सविष - इति निमित्तसप्तमीति द्योतितम् | अथवा संस्कारजत्वे इत्यस्य स्थाने संस्कारजत्वम् इति पाठः | समनन्तरप्रत्ययात् - संस्कारोद्वोधकसदृशज्ञानात्, यदुक्तम् :- सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाअः इति | सदृशेन हि सदृशज्ञानमेवात्रेष्टम्, स्मृतिबीजं च संस्कार एव इति | तत्सदृशः - पूर्वानुभवसदृशः, शाखासन्निवेशः - शाखारचना, अन्यथाकृता हि शाखामुच्यमाना संस्कारेण पुनः पूर्वरचनयैवावतिष्ठते, सदृशत्वं चात्र एकविषयताकृतं ज्ञेयम् | न तद्गतिः इति व्याचष्टे न तु इति | तत्तुल्यत्वेन इति पाठे सूत्रे अनुक्तोपि तु शब्दः युक्तत्वेनाध्याहार्यः | तस्य - पूर्वानुभवस्य, गतिः - वेदनम्, तद्गतिः इति विग्रहमाश्रित्यायमर्थः | अस्यैवार्थान्तरमाह सदृशत्व इति | तस्य - तुल्यत्वस्य, गतिः - अवगमः इति विग्रहेणायमर्थो ज्ञेयः | कुतो न गतिरित्यत आह न हि इति | अनुभवज्ञानम् - पूर्वमनुभवस्वरूपं ज्ञानम्, न गमयति, गतत्वादिति भावः, नापि स्मृतिज्ञानम् इत्यत्र हेतुमाह परस्परम् इति | असंवेदने - समनन्तरसाधिते, वेदनामविशतीत्यर्थः | ननु अन्यः कोपि सादृशयं गृह्णात्वित्यत आह अन्यस्य इति | अभावात् इत्यत्र भवन्मते इति शेषः, एतन्मते तु आत्मनः तदुभयवेदनरूपत्वमस्त्यवेति न कोपि विरोधः | प्रमेयमुपसंहरति इति इति | इति - अतः कारणात्, परम् - केवलम् सविषयतामात्रम् - पूर्वानुभवविषयेण विषयसहिततामात्रम्, अस्य विषयस्य - स्मृतिविषयस्य | प्रमेयमुपसंहरति यतामात्रं स्मृतेः सिद्धं, न तु अनुभवविषयत्वम्, नापि अस्य विषयस्य पूर्वानुभवविषयीकृतत्वम् - इति निश्चय एषः || २ || ननु यदि स्मृतिज्ञाने अनुभवस्य सत्यतः प्रकाशः स्यात्, तन्मुखेन च तद्विषयस्य, तदा भवेत् भवदुक्तेरवकाशः, यावता स्मृतिर्विकल्परूपत्वात् केवलमप्रकाशमानमेव अनुभवं तद्विषयं च अध्यवस्यति, तत् इयं भ्रान्तिस्वभावा, तत्र कोऽयं निर्बन्धः ? तदेतत् दर्शयति शङ्क्यमानत्वेन :- अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः | दृष्टालम्बनता भ्रान्त्या .......................|| न तद्दर्शनं नापि तद्विषयः स्मृतेर्विषयः, तथापि तु उभयम् अध्यवसीयते, भ्रमरूपतया स्मृतेः | इति इति | एषः - समनन्तरोक्तं वस्तु | एवमत्र योजना | दृक् - ज्ञानम्, स्वाभासा एव - स्वप्रकाशा एव भवति, अन्येन वेद्या न भवति, का इव ? रसे दृक् इव, यथा रसे दृक् रूपदृशा वेद्या न भवति तथेत्यर्थः | संस्कारजत्वे तु तत्तुल्यत्वं भवति, तद्गतिः - पूर्वानुभवावगमस्तु न भवति, अथ च तद्गतिः तत्तुल्यत्वावगमोपि न भवतीति || २ || अथ तृतीयश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- तन्मुखेन - अनुभवप्रकाशद्वारेण, तद्विषयस्य - आद्यानुभवविषयस्य, अध्यवस्यति - उल्लिखति, न तु गृह्णाति | एतेन फलितं वस्त्वाह तदियम् इति | भ्रान्तिस्वभावा - भ्रान्तिरूपा, भ्रान्तेर्विकल्परूपत्वादिति भावः | तदेतत् - समनन्तरोक्तं वस्तु, शंक्यमानत्वेन - शंकाविषयत्वेन, अत्र श्लोके एतदेव वस्तु शंकते इत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमपन्यस्य व्याचष्टे | अथ इति | अत्र टीका :- तद्दर्शनम् - पूर्वोनुभवः, स्मृतेर्विषयो न भवति, तद्विषयः - पूर्वानुभवविषयोऽपि स्मृतेर्विषयो न भवति | यद्येवं तर्हि स्मृतिः कथन्तत्र व्यापारं करोति एतत् निराकरोति :- तदेतदसमञ्जसम् || ३ || अत्र कारिकया उपपत्तिम् आह :- स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् | पूर्वानुभवसंस्कारापेक्षा च किमितीष्यते || ४ || अनुभूतस्य अनुभवप्रकाशितस्य विषयस्य अप्रमोषोऽनपहारः तथैव प्रकाशनं यत् एतत् स्मृतेः आत्मीयं रूपं [आत्मीयं रूपं तथाप्रकाशनाभावे - K. ष्. ष्.] तत् तथा प्रकाशनाभावे विघटेततमाम् | इत्यत आह तथापि इति | अध्यवसीयते - अध्यवसायविषयतां नीयते, स्मृत्येति शेषः | अत्र हेतुमाह भ्रम इति | तदेतत् इति वाक्यस्यावतरणिकां करोति एतत् इति | अवतरणिकाविषयीकृतं वाक्यमुपन्यस्यति तदेतत् इति | निगदव्याख्यातमेतत् || ३ || अथ चतुर्थश्लोकस्यावतरणिकां करोति अत्र इति | अत्र टीका :- अत्र - असमंजसत्वविषये, कारिकया - श्लोकेन, उपपत्तिम् - युक्तिम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | स्मृतितैव इति | अत्र टीका :- अनुभूतस्य इति पदं स्वयमेव व्याचष्टे अनुभव इति | विषयस्य - घटादेः | अप्रमोषः इति पदं स्वयमेव व्याचष्टे अनपहारः इति | अस्यैव पर्यायान्तरमाह तथैव इति | तथैव प्रकाशनम् - पूर्वानुभवानुगुण्येन स्फुरणम्, तदिति स्फूर्तिरिति यावत्, इदमिति ग्रहणे हि नवीनमेव ग्रहणम् | आत्मीयं रूपम् - निजं स्वरूपम्, तत् - आत्मीयं रूपम्, तथाप्रकाशनाभावे, - प्रमोषरूपे इदमिति स्फुरणे सति, विघटेततमाम् - अतिशयेन विघटेत | भ्रान्तौ तु ऽइदम्ऽ इति प्रकाशनम् अवश्यंभावि एव, अन्यथा भ्रान्तित्वायोगात्, अतः भ्रान्तेः स्मृतित्वं न युक्तमिति भावः | एतेन स्मृतितैव कथं तावद् भ्रान्तेः किं च भ्रान्तौ असद्वा आत्माकारो वा प्रख्याति, न तु तया अर्थः स्वीक्रियते तस्य अप्रकाशनात् इति तया अर्थो न व्यवस्थापित एव | प्रकाशनात्मा हि व्यवस्थापना, ततश्च स्मरणादभिलाषेण [अभिलापेन - K. ष्. ष्.] कथम् अर्थविषयो व्यवहारः ? न च तदप्रकाशने संस्कारजत्वेन किंचित् कृत्यम्, तद्धि सादृश्यं लब्धुम् अवलम्ब्यते; न च अनुभवेन विषयप्रकाशनात्मना स्मृत्यभिधानाया भ्रान्तेः किचिदपि सादृश्यम् अस्ति, सर्वथा विषयमस्पृशन्त्याः || ४ || इत्यन्तं गतव्याख्यम् | शिष्टस्य पूर्वार्धस्य व्याख्यां किं च इति | भ्रान्तौ - भ्रमे, असत्, असत्ख्यातिवादिपक्षे, आत्मैव प्रख्याति | यदुक्तम् :- यदन्तर्ज्ञेयतत्त्वं तद् बहिर्वदवभासते इति | न तु तया - स्मृत्या, अर्थः - बाह्यार्थः, स्वोक्रियते - गृह्यते, तस्य - अर्थस्य, अप्रकाशनात् - अस्फूर्तेः | फलितमाह इति इति | इति - अतः कारणात्, तया - स्मृत्या, न व्यवस्थापितः - स्थितियुक्तो न कृतः, व्यवस्थापना - अर्थस्थितिः | एतेनात्र वाक्ये सूत्रस्थं भ्रान्तेः इति पदं पंचम्यन्तत्वेन योजनीयमिति सूचितम् | अस्यैव वाक्यस्य द्वितीयमप्यर्थमाह ततश्च इति | ततश्च - भ्रान्तिरूपात् स्मरणाच्च, अभिलाषेण व्यवहारः - अभिलाषपूर्वको व्यवहारः, उपादानरूपा व्यवहृतिरिति यावत्, कथं स्यात्, न हि भ्रमसिद्धस्य व्यवहारविषयत्वं दृष्टम् अननुभवादिति भावः | एतेन सूत्रस्थस्य अर्थस्थितिः इत्यस्य अर्थव्यवहारो वाच्यम् इति सूचितम् | उत्तरार्धं व्याचष्टे न च इति | तदप्रकाशने - अर्थाग्रहणे | कथं न कृत्यमित्यत आह तत् इति | तत् - संस्कारजत्वम्, सादृश्यम् - पूर्वानुभवसदृशत्वम्, सर्वथा विषयमस्पृशन्त्याः - भ्रान्तित्वांगीकारे स्तोकमपि विषयस्य स्पर्शमप्राप्तवत्याः, एतेन ननु योऽनुभवो यश्च तद्विषयः स यतः तया अध्यवसीयते, ततः अंशात् सादृश्यम् अनुभवेन स्मृतेः, तत्सिद्धये च संस्कारपरिग्रहः | ऽअध्यवसीयतेऽ इति किम् उच्यते ? ऽप्रकाश्यतेऽ इति चेत् न भ्रान्तित्वम्; ऽन प्रकाश्यतेऽ इति चेत् पुनरपि विषयो न स्पृष्ट एव अनया इति सादृश्यमिति [सादृश्यमपि - K. ष्. ष्.] शब्दगडुमात्रम्, तदेतत् दर्शयितुमाह :- स्तोकं विषयस्पर्शो स्मृतेर्विद्यत एवेति सूचितम् | तदुक्तम् :- स्मृतिरपि द्विविधा यथार्था अयथार्था च इति || ४ || अथ पंचमश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- अनुभवः, पूर्वकालीन इति भावः | तद्विषयः - अनुभवविषयः, तया - भ्रान्तित्वेन काल्प्यमानया स्मृत्या, अध्यवसीयते - उल्लिख्यते, ततः - अध्यवसायाद्धेतोः, तत्सिद्धये - सादृश्यसिद्ध्ये | अत्रोत्तरं दातुं प्रश्नं करोति अध्यवसीयते इति | अध्यवसीयते इत्यस्य कोर्थह् ? प्रकाशार्थत्वं विकल्प्य दोषमाह प्रकाश्यते इति | न हि प्रकाशविषयस्य भ्रान्तित्वं युक्तमिति भावः | अप्रकाशार्थत्वमपि विकल्प्य दोषमाह न प्रकाश्यते इति | अनया - स्मृत्या, प्रकाशनस्यैव स्पर्शत्वात् अध्यवसायस्य तु दूरत एवोल्लेखमात्रनिष्ठत्वादिति भावः | इति - अतः कारणात्, सादृश्यमिति शब्दगडुमात्रम्, व्यर्थमेवेति भावः | व्यवहारानर्हत्वात्, उभयोर्मध्ये एकस्य जडत्वात्, अर्थभ्रान्तित्वकल्पितस्मृत्यवसायात् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भ्रान्तित्वे इति | भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः | ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः || इह स्मृतेः अन्यस्य वा भ्रान्तिबोधस्य स्वसंवेदनांशे प्रकाशमाने न भ्रान्तिता, तत्र वैपरीत्याभावात्; यस्तु तत्र अध्यवसीयते स्वाकारः स विपरीततया अस्वाकारत्वेन अर्थतया इति तत्रांशे भ्रान्तिता | स चांशोऽर्थलक्षणो न स्मृत्या अन्यथा वा भ्रान्त्या स्पृश्यते इति तत्र असौ अत्र टीका :- पूर्वार्धं व्याचष्टे इह इति | स्मृतेः - स्मृतित्वेन कल्प्यमानस्य, अन्यस्य वा - स्मृतित्वेन अकल्प्यमानस्य वा, भ्रान्तिबोधस्य - भ्रमज्ञान्स्य, स्वसंवेदनांशे - बोधत्वेनापरिहार्ये स्वप्रकाशभागे, कीदृशे ? प्रकाशमाने - स्वं प्रति स्वयं स्फुरणशीले, न भ्रान्तिता - भ्रान्तिभावो न भवति | अत्र हेतुमाह तत्र इति | तत्र - स्वसंवेदनांशे, विषयग्रहणरूपत्वस्य तत्रापि भावादिति भावः | ननु तर्ह्यस्या अपि प्रमात्वमेव युक्तमित्यत आह यस्तु इति | यस्तु तत्र - भ्रान्तौ, अध्यवसीयते - उल्लिख्यते, स्वाकारः - ज्ञानाकारः, सः - स्वाकारः, अस्वाकारत्वेन - यतोऽसावस्याः स्वाकारो न भवति ततो हेतोः, विपरीततया - वैपरीत्येन, अध्यवसीयते न हि सा प्रमा अपि तु भ्रान्तिरेव | कुतोऽस्य विपरीतता इत्याह अर्थतया इति | अर्थतया, अर्थभावेन स्थितत्वादिति भावः, अध्यवसायकाले ज्ञानमर्थरूपमेव संपद्यते अन्यथा ग्रहणासंभवात् | फलितमाह इति इति | इति - अतः कारणात्, तत्रांशे - अध्यवसीयमाने स्वाकारांशे, भ्रान्तिता भवति न प्रमात्वम् | स चांशः - अध्यवसीयमानः स्वाकारांशश्च, कीदृशः ? अर्थलक्षणः - अर्थस्वरूपतां प्राप्तः, स्मृत्या - स्मृतिभावेन कल्प्यमानया, अन्यथा वा भ्रान्त्या न स्पृश्यते - तत्सदृशस्य अन्यस्य कस्यापि कल्पनात् पुरःस्थोपि तूष्णीका इति बलादेव तत्रांशे जडत्वम् अस्या आयातं घटज्ञानस्येव पटे | न च जडेन विषयस्य किंचित् कृत्यम्, ततश्च अर्थविषयो व्यवहारो विलुप्येत | अथ तु तम् अवसायरूपं स्वसंवेदनांशं स्वाकारं वा अवलम्ब्य अजडत्वम् अस्याः, एवमपि ऽअजाड्येऽ निजं स्वसंवेदनम् उल्लेखश्च स्वाकारः - इतीयति एषा परिनिष्ठिता स्मृतिः इति विषयस्य नामापि ग्रहीतुम् अशक्नुवतः ऽततःऽ स्मृत्यध्यवसायात् कथं विषयस्य व्यवस्थापनं व्यवहार्यत्वसंपादनसामर्थ्यम् ? || ५ || ग्रहणविषयतां न नीयते, इति - अतः कारणात्, तत्र - तस्मिन्नंशे, असौ - स्मृतिरूपा अन्या वा भ्रान्तिः, तूष्णीका - मौनदशामापन्नैव भवति, इति - अतः कारणादेव, जडत्वम् अस्थाः - स्मृतिरूपाया अन्याया वा भ्रान्तेः, तत्रांशे आयातम्, कस्य इव कुत्र इति दृष्टान्तापेक्षायामाह घट इति | ननु आयातु ततः किमित्यत आह न च इति | मा करोतु इत्यत आह ततश्च इति | विलुप्येत नश्येदित्यर्थः | द्वितीयार्धं व्याख्यातुमाह अथ इति | तु शब्दः पक्षान्तरद्योतकः, तम् - समनन्तरोक्तम्, अवसायरूपम् इत्यस्य व्यवहितेनापि स्वाकारम् इत्यनेन सह संबन्धः | निजम् - स्वरूपभूतम्, उल्लेखश्च स्वाकारः - अवसायरूपः स्वाकारः, इतीयति - निजभूते स्वसंवेदने उल्लेखरूपे च, परिनिष्ठिता - अवसानं गता, स्मृतिः - भ्रान्तित्वेन कल्प्यमाना स्मृतिः, ततः - तस्मात्, स्मृत्यध्यवसायात् - भ्रान्तित्वेन कल्पितात् स्मृतिरूपादध्यवसायात्, व्यवस्थापनम् - व्यवस्थायाः करणम्, कीदृशम् ? व्यवहार्यत्वस्य - अर्थनिष्ठस्य व्यवहारयोग्यत्वस्य यत् संपादनं तत्र सामर्थ्यं यस्य तादृशम्, व्यवस्थापित एव अर्थो व्यवहारयोग्यः | अप्रकृतत्वादन्यस्या भ्रान्तेरिहाकथनम्, सविकल्पस्यानुभवस्य चेयमेवावस्थेति तावदेतदास्ताम् || ५ || संस्कारे सत्यपि स्मृतिः न कथंचन घटते, ततश्च परस्परसङ्गतिहीनानि सकलानि ज्ञानानि - इति यदुक्तं श्लोकपञ्चकेन तत् इदानीं प्रकृते योजयति :- एवमन्योन्यभिन्नानामपरस्परवेदिनाम् | ज्ञानानामनुसंधानजन्मा नश्येज्जनस्थितिः || ६ || ऽजनस्यऽ लोकस्य या काचन ऽस्थितिःऽ व्यवहारः सा सर्वज्ञानानां यत् ऽअनुसंधानम्ऽ एकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम्, तत्र आयत्ता | तथा अथ षष्ठस्य श्लोकस्यावतरणिकां करोति संस्कारे इति | अत्र टीका :- न घटते - न युज्यते, उक्तन्यायादिति भावः | मा घटतामित्याशंकायामाह ततश्च इति | परस्परसंगतिहीनानि - परस्परमसंबद्धानि, स्मृतेरेव संबन्धहेतुत्वादिति भावः | इति - एवम्, उक्तम् - युक्तिपूर्वकं कथितम्, सिद्धान्तिनेति शेषः | श्लोकपंचकेन सत्यम् इत्यादिना भ्रान्तित्वे इत्यन्तेन, प्रकृते - आरब्धे आत्मसाधने | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | एवम् इति | अत्र टीका :- या काचन - शुद्धाऽशुद्धा वा, स्थितिः इति पदं व्याचष्टे व्यवहारः इति | अनुसन्धानस्य स्वरूपमाह एक इति | एकविषयभावेन - पूर्वानुभवेन सह एकविषयतया [एकविषयता तया - C.] उपपन्ना या स्मृतिता स्मृतिभावः तस्या या प्राप्तिः सा रूपं यस्य तादृशम्, तत्र - उक्तरूपे अनुसंधाने, आयत्ता - वशा, तत उत्पन्नेति यावत् | कथमायत्तेत्यत आह तथा हि इति | स्मरणनिबन्धनाः - अभिलाषोत्पादनद्वारेण स्मृतिकार्याः, व्यवहाराः - उपादानादिरूपाः | कुत इत्यपेक्षायामाह प्रथमम् इति | प्रथमम् - सर्वप्रमाणमूलभूतत्वेन तेषामाद्यभूतम्, अहमिति - अहं पश्यामीत्यादौ स्थितो योऽहंपरामर्शः, तद्रूउपं यत् पूर्वापरानुसंधानं तेन, अहं पश्यामीत्यादौ हि दृष्टा प्रथमं स्वात्मानमेव परामृशति स परामर्शश्च फलतः पूर्वापरकालविशेषितस्वात्मरूपद्वयमेलनरूप एव, तदेव हि - स्मरणनिबन्धनाः [स्मरणनिबन्धनः सर्वो व्यवहारः - K. ष्. ष्.] सर्वे व्यवहाराः | प्रथममपि हि प्रत्यक्षज्ञानम् अहमितिपूर्वापररूपानुसंधानेन स्मरणानुप्राणितेन विना न घटते, प्रमातरि विश्रान्त्यभावात् अप्रत्यक्षत्वप्रसङ्गात् | एवं सुखादौ मन्तव्यम् | हानादानप्रेरणाभ्युपगमादयस्तु व्यवहाराः स्मरणमया एव | ऽएवं ज्ञानानाम्ऽ यत् ऽअनुसंधानम्ऽ ततो जायमाना ऽजनस्थितिःऽ ऽएवम्ऽ इति पराभ्युपगमे सति, ऽनश्येत्ऽ नश्यति - इति संभाव्यते, कुत इति चेत्, च अनुसंन्धानम् | कीदृशेनानुसंधानेन ? स्मरणानुप्राणितेन - पूर्वकालविशेषितात्मरूपविषयानुभवनेन सह एकविषयापरकालविशेषितस्वात्मरूपविषयस्मृतिदत्तसत्ताकेन, तद्रूपेणेति यावत् विना - अन्तरेण, न घटते - न युज्यते, कुतः ? प्रमातरि - द्रष्टरि, विश्रान्त्यभावात् अप्रत्यक्सत्वप्रसंगात् - आपातात्, अहं पश्यामि इति हि नेत्रद्वारेण अहम् शब्दवाच्ये प्रमातरि विश्रान्तं दर्शनं प्रत्यक्षम् इति वक्तुं योग्यम् | अपि शब्देनान्येषामनुमानादीनां का कथेति द्योत्यते | अमुमेव न्यायम् अहं सुखी इत्यादौ सुखाद्यान्तरभावप्रत्यक्षेप्यतिदिशति एवम् इति | मन्तव्यम् - ज्ञातव्यम् | ननु उपादानादिरूपाणां व्यवहाराणां का वार्ता इत्यत आह हानादान इति | स्मरणमया एव - स्मृतिहेतुकत्वेन तद्रूपा एव, न हि विष्मृते उपादानादि दृष्टमिति भावः | उक्तं न्यायं प्रकृते योजयति एवम् इति | अनुसंधानम् - विषयद्वारेण मेलनम् | सूत्रस्थम् एवम् इति पदं व्याचष्टे एवं इति इति | पराभ्युपगमे - बौद्धमताश्रयणे, फलतः आत्माऽनङ्गीकारे इति यावत् | विशेषणद्वारेण हेतुमाह | अन्योन्यम् तावत् भिन्नानि ज्ञानानि - अन्यत् अनुभवज्ञानम्, अन्यत् इदानीन्तनं ज्ञानं विकल्पाभिमतम्, अन्यत् स्मरणसंमतं ज्ञानम् | तदेतानि स्वविषयप्रकाशमात्ररूपाणि परविषये जडान्धानेडमूककल्पानि, न च अन्योन्यस्य प्रकाशरूपाणि || ६ || एवं न स्वरूपतो न वेद्यतो वा एकीभावरूपम् अनुसंधानम् अस्ति | अन्यन्यं च विषयविषयिभावो नास्ति | न च तुर्यं ज्ञातेयनिबन्धनम् अनुसन्धानाधायि संभाव्यते इति ध्वंसेरन् व्यवहाराः | न च ऽध्वंसन्ताम्ऽ इति भवदभीष्टशापमात्रात् ते ध्वंसन्ते, प्रकाशन्ते यतः तत नश्येत् - नाशं गच्छेत्, संभावनायामयं लिङ् इत्याह नश्यति इति | अन्योन्यभिन्नानाम् इत्यस्यावतरणिकां करोति कुतः इति | कोसौ हेतुरित्यपेक्षायामाह अन्योन्यम् इति | भीन्नत्वमेव दर्शयति अन्यत् इति | अपरस्पर इति सूत्रपदं व्याचष्टे तदेतानि इति | एतानि - अविकल्पसविकल्पज्ञानस्मरणरूपाणि, स्वरूपप्रकाशनमनपेक्ष्य मात्रचः प्रयोगः || ६ || सप्तमस्य श्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका :- स्वरूपतः - स्वरूपेण, वेद्यतः - वेद्यद्वारेण, तुर्यम् - स्वरूपैकीभाव - वेद्यैकीभाव - विषयविषयिभावाख्यत्रयापेक्षया चतुर्थं किमपि, ज्ञातेयनिबन्धनम् - कारणम्, अनुसंधानाध्यायि - ज्ञानानां मेलाकारकम्, ध्वंसेरन् - नाशं गच्छेयुः | ननु ततः किमित्यत आह न च इति | त - व्यवहाराः, कुतो न ध्वंसन्ते इत्यत आह प्रकाशन्ते यतः इति | प्रकाशमानस्य ध्वंसो वक्तुमयुक्त एवेति भावः | तर्हि किं कार्यमित्यत आह तत इति | एतत् - वक्ष्यमाणं वस्तु, आपद्यते, एतत् आपद्यते - एतदेव समर्थयितुम् उद्यन्तव्यम् - इति | तच्च अस्मदभिमतप्रकारेण विना विधेरपि अशक्यसमर्थनम् - इति दर्शयति :- न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः | स्यादेकश्चिद्वपुपुर्ज्ञानस्मृत्यपोहनशक्तिमान् || ७ || ऽसंवित् तावत् प्रकाशतेऽ इति तावत् न केचित् अपह्नुवते | सा तु संवित् यदि स्वात्ममात्रविश्रान्ता अर्थस्य सा कथं प्रकाशः ? स हि अर्थधर्म एव तथा स्यात्; ततश्च अर्थप्रकाशः तावत्येव पर्यवसित इति बलादंगीकर्तव्यमित्यर्थः | एतच्छब्दापेक्षितं वस्तु कथयति एतदेव इति | उद्यन्तव्यम् - उद्योगः कार्यः | तत उद्योगमेव करिष्याम इत्यत आह तच्च इति | अस्माकमभिमतो यः प्रकारः - आत्मसमर्थनरूपः, तेन, विना, अशक्यं समर्थनं यस्य तादृशम् | अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | न चेत् इति | अत्र टीका :- नापह्नुवते - नापह्नवं कुर्वन्ति | यच्छ्रुति:- असन्स एव भवति असद् बुध्यति वेद चेत् इति | एतेन चिद्वपुः इति गतव्याख्यम् | प्रकाशतां ततः किमित्यत आह सा तु इति | स्वात्ममात्रविश्रान्ता - स्वयंप्रकाशनिजस्वरूपमात्रपरा, सा - संवित् | कुतो न सा अर्थस्य प्रकाश इत्यत आह स हि इति | हि - यस्मात् सः - अर्थस्य प्रकाशः, अर्थधर्म एव स्यात्, न तु स्वतन्त्रसंवित्स्वरूपभूत इति भावः | ननु तथैवास्तु इत्यत आह ततश्च इति | तावत्येव - स्वात्ममात्रे एव, गलितो ग्राह्यग्राहकभावः | अतोऽर्थप्रकाशरूपां संविदम् इच्छता बलादेव अर्थोऽपि तद्रूपान्तर्गत एव अङ्गीकर्तव्यः; स च अर्थप्रकाशो यदि अन्यश्च अन्यश्च, तत् न स्मरणम् उपपन्नमित्यत एक एव असौ - इति | एकत्वात् सर्वो वेद्यराशिः तेन क्रोडीकृतः - इत्येतदपि अनिच्छता अङ्गीकार्यम् | एवमपि सततमेव उन्मग्नेन निमग्नेन वा विश्वात्मना प्रकाशेत तथास्वभावत्वात् | न चैवम् अतः स्वरूपान्तर्ब्रूडितम् अर्थराशिम् अपरमपि भिन्नाकारम् आत्मनि परिगृह्य, कंचिदेव अर्थं स्वरूपात् गलितः - नष्टः, अर्थप्रकाशस्य स्वात्ममात्रनिष्ठत्वेन प्रमातृस्पर्शासंभवादिति भावः | ननु तर्हि ग्राह्यग्राहकभावसंबन्धः कथं सिद्ध्येदित्यत आह अतः इति | संविदम् - स्वतन्त्रसंवित्तत्त्वम्, तद्रूपान्तर्गत एव - स्वतन्त्रसंविद्रूपान्तर्गत एव, न तु ततो बहिःस्थः, तत्त्वे हि अर्थधर्मत्वापातात् ग्राह्यग्राहकंभावासंभवापात इति भावः | ननु सोर्थप्रकाश एक एव् उत उत्तरोत्तरं नव एव इत्यत आह स च इति | अन्यश्चान्यश्च, नवो नव इत्यर्थः | नोपपन्नम्, अनुसन्धातुरसंभवादिति [अनुसंधातुमसंभवात् - C.] भावः | असौ - अर्थप्रकाशः, एतेन सूत्रस्थम् एक इति पदं व्याख्यातम् | एकत्वेन आयातं सर्वागूरकत्वम् अङ्गीकारयति एकत्वात् इति | अङ्गीकार्यम्, अन्यथा वेद्यभेदेन तस्यापि भेदापातादिति भावः | एतेन अन्तःकृत इति पदं व्याख्यातम् | ज्ञान इति पदं व्याख्यातुमाह एवम् इति | एवमपि - सर्ववेद्यराशिक्रोडीकारेऽपि उन्मग्नेन - विषयाश्रयणात् लेशतः प्रादुर्भूतेन, निमग्नेन - साकल्येन तदनाश्रयणाद् बाहुल्येन अप्रकटेन, विश्वात्मना - सर्वात्मना, प्रकाशेत, न ह्येकस्य वस्तुनो युगपत् प्रकाशाप्रकाशौ युक्ताविति भावः | अत्र हेतुमाह तथा इति | तथास्वभावत्वात् - प्रकाशस्वभावत्वात्, स्वभावस्य च त्यागो दुःशक एवेति भावः | न चैवम्, न त्वेतदनुभूयते इत्यर्थः | तर्हि किं कार्यमित्यत आह अतः इति | अपरम् - तन्मध्ये विषयीकृतं कमपि उन्मग्नम् आभासयति - इति आपतितम् | सैषा ज्ञानशक्तिः | उन्मग्नाभासभिन्नं [उन्मग्नाभाससंभिन्नम् - K. ष्. ष्.] च चित्स्वरूपं बहिर्मुखत्वात् तच्छायानुरागात् नवं नवं ज्ञानमुक्तम् | एवमपि नवनवाभासाः प्रतिक्षणम् उदयव्ययभाज इति सैव व्यवहारनिवहहानिः | तेन क्वचित् आभासे गृहीतपूर्वे यत् संवेदनं बहिर्मुखम् अभूत्, तस्य यत् अनतर्मुखं चित्स्वरूपत्वं तत् कालान्तरेऽपि अवस्थास्नु स्वात्मगतं तद्विषयविशेषे बहिर्मुखत्वं परामृशति इति एषा भावम् | भिन्नाकारम् इति, ज्ञेयतया स्थितत्वादिति भावः | कंचिदेवार्थम्, अपरं भिन्नाकारमित्यर्थः, स्वरूपात् - स्वान्तःकृतसर्ववेद्यराशेः निजरूपात्, उन्मग्नम् - प्रादुर्भूतम्, आपतितम् - बलादायातम् | सैषा - उन्मग्नाभासरूपा, एतेन ज्ञानशक्तेः साधनं कृतम् | ननु यद्येषा ज्ञानशक्तिस्तर्हि घटपटज्ञानादेः किं रूपम् इत्यत आह उन्मग्न इति | उन्मग्नाभासैः - विषयीकरणेन प्रादुर्भावं नीतैः घटपदादिरूपैः आभासैः, भिन्नम् - भिन्नमिव संपादितम्, चित्स्वरूपम् - चितो निजं रूपम्, बहिर्मुखत्वात् - इदमितिबहिर्मुखाताऽऽश्रयणेन, तच्छायानुरागात्, उन्मग्नाभासच्छायोपरागात्, नवं नवं ज्ञानम् - प्रमाणरूपं नवीनं नवीनं ज्ञान, उक्तम्, दृश्यते चैकस्यैव जलस्य तरंगादिरूपैराभासैर्नवनवत्वम् इति न कोपि विरोधः | ननु अनया ज्ञानशक्त्यैव सर्वे व्यवहाराः सिद्धिमायान्तु इत्यत आह एवमपि इति | एवमपि - ज्ञानशक्तेर्नवनवज्ञानत्वेपि, सैव - पूर्वोक्तैव, पूर्ववस्तुस्मरणाऽसंभवादिति भावः | ननु तर्हि किं कार्यमित्यत आह तेन इति | पूर्वम् - अनुभवकाले, गृहीते, गृहीतपूर्वे, संवेदनम् - अनुभवरूपम्, तस्य - पूर्वम् इदमितिबहिर्मुखीभूतस्य संवेदनस्य, अन्तर्मुखम् - अहमिति स्थितम्, चित्स्वरूपत्वम् - सारतया स्थितः चित्स्वरूपभावः, कीदृशम् ? कालान्तरेपि - स्मृतिकालेऽपि, अवस्थास्नु - नित्यतया तिष्ठत् सत्, स्वात्मगतम् - संस्कारभावेन स्वात्मनि स्थितम्, तत् - पुरातनम्, विषयविशेषे - स्वान्तरगतवेद्यराशिमध्यात् विषयतया स्मृतिशक्तिः | यच्च तत् नवं भासयति स्मरति वा तत् वस्तुतः संविदा विश्वमथ्या तादात्म्यवृत्ति इति विश्वमयं पूर्णमेव इति नवं न किंचित् आभासितं स्मृतं वा स्यात् | इदमपि प्रवाहपतितम् ऊरीकार्यम् - यत् किल तत् आभास्यते तत् संविदो विच्छिद्यते, संविच्च ततः, संविच्च संविदन्तरात्, संवेद्यं च संवेद्यान्तरात्; न च विच्छेदनं वस्तुतः संभवति, इति विच्छेदनस्य अवभासमात्रम् उच्यते | न च तत् इयता पारमार्थिकम्, [अपारमार्थिकम् - K. ष्. ष्.] गृहीते कुत्रापि वेद्ये, बहिर्मुखत्वम् - इदमितिग्रहणरूपं बहिर्भावम्, परामृशति - तत् इत्येवम् आमर्शविषयतां नयति, इति - तत्र शक्तत्वात्, एषा स्मृतिशक्तिः भवति | एतेन स्मृतिशक्तेः साधनं कृतम् | प्रोक्तशक्तिद्वयप्राणप्रदाम् अपोहनशक्तिं साधयति यच्च इति | वस्तुतः - परमार्थेन, विश्वमयया - अन्तःकृतसर्ववेद्यरूपया सह, तादात्म्येन - तद्रूपतया, वृत्तिः - स्थितिः यस्य तादृशम्, विश्वमयम् - संवित्स्वरूपम्, न स्यात्, अन्यथा पूर्णत्वासंभवादिति भावः | प्रवाहपतितम् - अनिच्छया आगतम् | तत् कथमनुभवस्य स्मृतेर्वा उत्थानं युक्तम्, तयोस्तद्विषययोश्च संविदि निमग्नत्वादित्यत आह यत्किल इति | आभास्यते - आभासविषयतां नीयते, उपलक्षणं चैतत्स्मर्यते इत्यस्य | विच्छिद्यते - निष्कृष्यते, ततः - तस्माद्विषयात्, संविच्च - तद्विषया संविच्च, [तद्विषयसंविच्च - C.] संविदन्तरात् - सर्वागरकत्वेन स्थितताया अन्यत्वेन भासमानायाः संविदः, संवेद्यम् - संविदो विषयोऽर्थः, संवेद्यान्तरात् - तस्मिन् काले विषयतामगतात् [विषयतामागतात् - C.] संवेद्यराशेः | ननु यद्येवं तर्हि विच्छेदनस्यापि सत्यतया स्थितत्वाद् अद्वैतहानिरित्यत आह न च इति | केवलमवभासनम् अवभासमात्रम् | ननु तथापि सत्यमेव भवत्वित्यत आह न च इति | तत् - विच्छेदनम्, इयता - अवभासमात्रेण, पारमार्थिकम् - सत्यभूतम्, अन्यथा निर्मीयमाणस्य सर्वस्य अयमेव परमार्थः | यतः एष एव परितश्च्छेदनात् परिच्छेद उच्यते, तदवभासनसामर्थ्यम् अपोहनशक्तिः | अनेन शक्तित्रयेण विश्वे व्यवहाराः | तच्च भगवत एव शक्तित्रयम् - यत् तथाभूतानुभवितृ - स्मृर्तृ - विकल्पयितृस्वभाव चैत्रमैत्राद्यवभासनम् | स एव हि तेन तेन वपुषा जानाति, स्मरति विकल्पयति च | यथोक्तम् आचार्येणैव :- ऽयद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते | जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ||ऽ चन्द्रद्वित्वस्यापि पारमार्थिकतापत्तेरिति भावः | ननु अवभास्यमानस्य स्मर्यमाणस्य चायं न्यायो भवतु निर्मीयमाणस्य तु का वार्ता इत्यत आह निर्मीयमाणस्य इति | अयमेव - अवभास एव, सर्वत्र ज्ञेये कार्ये वा अवभासनमात्रमेव परमार्थः, तथा च न अद्वैतहानिरिति भावः | ननु सर्वत्र परिच्छेदस्यैवावभासनत्वमुद्घोष्यते, त्वया कथमेवमुच्यते इत्यत आह यतः इति | यतः पंडितैः एष एव - विच्छेद एव, परितश्च्छेदनात् - समनन्तरोक्तस्य छेदस्य करणात्, परिच्छेद उच्यते, तत् - तस्मात्कारणात्, अवभासने - प्रोक्तस्वरूपस्यावभासस्य करणे, सामर्थ्यम् - समर्थता, अपोहनशक्तिः - विच्छेदशब्दवाच्या अपोहनरूपा शक्तिर्भवति | अस्यैव शक्तित्रयस्य व्यवहारकारणतां कथयति अनेन इति | विश्वे - सर्वे | ननु तथापि न त्वदभीष्टाऽऽत्मसिद्धिरित्यत आह तच्च इति | भगवतः - ऐश्वर्ययुक्तस्यात्मतत्त्वस्य, शक्तिमन्तं विना शक्त्यसिद्धेरवश्यं शक्तिमत्स्वरूपस्याऽऽत्मनोङ्गीकार इति भावः | ननु तच्छक्तित्रयं देवदत्तादिगतत्वेनैव दृश्यते, त्वया कथमेवमुच्यते इत्यत आह यत् इति | हि - यस्मात्, स एव - भगवान्, तेन तेन वपुषा - स्वरूपेण, जानाति स्मरति विकल्पयति च, तेन केन ? यत्, तथाभूताः - परमार्थतो भगवत्स्वरूपाः, अनुभवितृस्मर्तृविकल्पयितृस्वभावा ये चैत्रमैत्रादयस्तेषामवभासनं भवति | अत्राचार्यसम्मतिमाह यथोक्तम् इति | अर्थस्थितिः - अर्थविषयो व्यवहारः, निरुद्धा - स्थितिं गता, सा - अर्थस्थितिः | आदि इत्यादि | एतासां च ज्ञानादिशक्तीनाम् असंख्यप्रकारो वैचित्र्यविकल्प इति तत्सामर्थ्यं स्वातन्त्र्यम् अपराधीनं पूर्णं महदैश्वर्यं तन्निर्मितब्रह्मविष्णुरुद्राद्यैश्वर्यापेक्षया उच्यते | तदेवं [तदेव - K. ष्. ष्.] ऽचिद्वपुःऽ इत्येवं कृत्वा इयदायातम् ऽविश्वरूपःऽ इति | तत एव च परिनिष्ठितैकरूपजडभाववैलक्षण्यात् शब्देन अन्येषां तद्वाक्यानां ग्रहणम् | एतेन ज्ञानस्मृत्यपोहनशक्तिमान् इति पदं गतव्याख्यम् | महेश्वर इति पदं व्याख्यातुमस्य शक्तित्रयस्य महदैश्वर्यत्वं कथयति एतासाञ्च इति | वैचित्र्यविकल्पः - विचित्रतारचना, तत्सामर्थ्यम् - प्रोक्तशक्तित्रयरूपा समर्थता, स्वातन्त्र्यम् - स्वतन्त्रतारूपम्, ऐश्वर्यम् - ईश्वरता | ननु किमपेक्षमस्य महत्त्वमित्यत आह तन्निर्मित इति | तेन - प्रोक्तेन भगवता, निर्मिता - अवभासिता ये ब्रम्हविष्णुरुद्रादयः, आदिशब्देन देवेन्द्रादीनां ग्रहणम्, तेषां यदैश्वर्यम् - यथास्वमीश्वरभावः, तस्य अपेषया | उपसःआरं करोति तदेवम् इति | तत् - तस्मात्कारणात्, एवम् सति चिद्वपुरित्येवं कृत्वा - चिद्वपुरित्यनेन कारणेन, इयदायातम् | इयत् किम् ? विश्वरूपः इति | भगवान् विश्वरूपः - सर्वभावस्वरूपो भवति, स्वप्ने चित एव सर्वरूपत्वदर्शनात् | तत एव च - विश्वरूपत्वाद्धेतोश्च, परिनिष्ठिताः - स्वरूपमात्रेऽवसानं गताः, अत एव एकरूपा ये जडभावाः तेभ्यो वैलक्षण्यात् - ज्ञानादिशक्तियुक्ततामाहेश्वर्यम् उपसंप्राप्तः | एतदनुपगमे न किंचित् इदं भासेत - इति प्रसङ्गः | भासते तु, तस्मात् एतत् अवश्याङ्गीकर्तव्यम् - [अव्यश्यम् अङ्गीकर्तव्यम् - K. ष्. ष्.] इति | प्रसङ्गविपर्ययः | नश्येज्जनस्थितिः, यद्येवं न स्यात् - इति प्राक्तनेन श्लोकेन सह संबन्धः | ऽचेत्ऽ इत्यनेन तद्विपर्ययः सूचितः || ७ || भिन्नत्वेन, स भगवान्, ज्ञानादिशक्तियुक्ततामाहेश्वर्यम् - ज्ञानादिशक्तिसहितत्वरूपमैश्वर्यम्, उपसंप्राप्तो भवति, तदुक्तम् :- अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं सर्वत्वं तदत्यक्ष्यद् घटादिवत् || इति | पूर्वमुक्तं प्रसंगं प्रसंगविपर्ययं च एतदवष्टंभेन अनुस्मरति एतद् इति | एतदनुपगमे - चिद्वपुषोऽनंगीकारे सति, इदं किंचिन्न भासेत, निःसाक्षिकत्वात्, इति प्रसंगः भवति, पूर्वपक्षवादिनं प्रतीति भावः | इदन्तु भासते एव स्वप्रतीतिसाक्षिकत्वात्, तस्मात् एतत् - चिद्वपुराख्यं वस्तु, अवश्याङ्गीकर्तव्यम् इति प्रसंगविपर्ययो भवति, उत्तरपक्षवादिन इति भावः | अस्य श्लोकस्य पूर्वश्लोकेन सह योजनां स्फुटीकरोति नश्येत् इति | संबन्धः - योजना | चेच्छब्दद्योत्यं वस्तु स्फुटीकर्तुमाह चेदित्यनेन इति | तद्विपर्ययः - जनस्थितिनाशविपर्ययः, सूचितः इति, निपातानां सूचनामात्रे इति शिवम् | आदितः || २३|| इति श्रीमदाचार्याभिनवगुप्तविरचितायाम् ईश्वरप्रत्यभिज्ञासूत्रविमर्शिन्यां ज्ञानाधिकारे परदर्शनानुपपत्तिर्नाम तृतीयमाह्निकम् || ३ || शक्तत्वात् | इदमाह्निकं च पूर्वपक्षनिष्ठपूर्वान्हिकप्रतिसमाधानरूपत्वेन उत्तरपक्षरूपं ज्ञेयम्, आत्मप्रत्याख्यानस्य पूर्वपक्षत्वात् तत्प्रतिसमाधानस्य तूत्तरपक्षत्वात् | इति शब्दः समाप्तौ | शिव पदं मंगलवाचकं परतत्त्वसूचकञ्च | इति शिवम् || ७ || इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां श्रीभास्कर्याख्यां ज्ञानाधिकारे तृतीयमाह्निकं समाप्तम् || अथ चतुर्थमाह्निकम् | पदार्थरत्ननिकरं निजहृद्गञ्जपुञ्जितम् | ग्रथ्नन्तं स्मृतिसूत्रान्तः संतत्यैव स्तुमः शिवम् || १ || एवं ज्ञानपूर्विका स्मृतिः, तदुभयानुग्राहिणी अपोहनशक्तिः - इति तावत् वस्तुसंभवक्रमेण प्रदर्शितम् | उपक्रमानुसारेण स्मृतिरेव सूचितप्रसङ्गविपर्ययसमर्थनदृशा विवेच्या | अथ चतुर्थाह्निकम् | स्मृतिसूत्रोम्भितां कृत्वा भावमुक्तावलीं सिताम् | स्वान्तस्थितां तयात्मानं भूषयन्तं स्तुमः शिवम् || अथ ज्ञानाधिकारे चतुर्थान्हिकव्याख्यामारभमाणो निर्विघ्नतत्समाप्तिकामनया समस्तान्हिकाभिप्रायसूचकं स्वेष्टदेवताप्रह्वीभावपरं मङ्गलश्लोकमुपनिबध्नाति पदार्थ इति | अत्र टीका :- वयं तं शिवं स्तुमः, कीदृशम् ? पदार्था एव - बाह्यान्तरतया स्थिताः पदार्था एव, रत्ननिकरस्तम्, निजहृद्गजपुञ्जितम् - निजहृदयाख्यकोशपुञ्जीभूतं सन्तम्, स्मृतिसूत्रान्तः - स्मृत्याख्यसूत्रमध्ये, सन्तत्या - पंक्त्या, ग्रथ्नन्तम्, स्वरूपे तादात्म्येन लीनमपि सन्तं [सत्वम् - C.] व्यवहारार्थं परिपाट्याऽनुसंदधानमिति यावत् | अन्योपि कोशे राशिभावेन स्थितं रत्ननिकरं कण्ठादिभूषणार्थं सूत्रे ग्रथ्नाति इति ध्वनिः | यद्यपि पदार्थानां तत्त्वेनैव स्थितत्वात् पु~ज्नीभावो वक्तुमयोग्य एव, तथाप्यौत्तरकालिकं निर्गमनमपेक्ष्यैवमुक्तम् | एतेन स्मृतिशक्तेरत्र निरूपणं करोतीति सूचितम् | एवं मङ्गलं संपाद्य समस्तव्यस्तत्वाभ्याम् आन्हिकस्य शिष्यप्रवृत्त्यर्थं तावदभिप्रायं कथयति एवम् इति | सत्यं किंतु स्मृतिज्ञानम् ................. | इति हि उपक्रान्तम् | तत्र संस्कारमात्रात् तावत् मा नाम उदपादि स्मृतिः, इदं तु वक्तव्यं - तथाभूतभवदभ्युपगतभगवत्प्रभावोऽपि कथम् एनां कुर्यात् - इति शङ्कां शमयितुं स्मृतितत्त्वनिरूपणाय ऽस हि पूर्वानुभूतार्थोपलब्धा..........................|ऽ इत्यादि ऽ.........................ऽर्थौ भातः प्रमातति |ऽ इत्यन्तं श्लोकाष्टकम् | तत्र श्लोकेन स्वपक्षे स्मृतिरुपपन्ना - इति कथितम् | अत्र टीका:- तदुभयानुग्राहिणी - विषयस्वरूपव्यवस्थापकत्वेन ज्ञानस्मृत्योरनुग्राहिणी, वस्तुनः - परमार्थस्य यः सम्भवः तस्य क्रमेण, एवमेव वस्तु संभवतीति क्रममाश्रित्येत्यर्थः | उपक्रमानुसारेण - प्रक्रियानुरोधेन, स्मृतिरेव, न तु ज्ञानपोहनं च | सूचितः, न तु साक्षात्कथितः यः प्रसङ्गः - न किञ्चिदपि भासेतेत्येवंरूपाऽनिष्टापत्तिः, तस्य यः विपर्ययः - भासते तु तस्मादेतद् अवश्यमङ्गीकर्तव्यमित्येवंरूपः, तस्य यत्समर्थनम् - दृढीकरणम्, तस्य दृशा - दृष्ट्या, लक्षणया मार्गेणेति यावत्, विवेच्या - अवश्यं विचारणीया | ननु तस्या विवेकः पूर्वान्हिक एव कृत इति किं विवेच्या इत्युक्तम् इत्यत आह सत्यम् इति | उपक्रान्तम् - पूर्वान्हिकारम्भे आरब्धम् | ततः किम् इत्यत आह तत्र इति | तत्र - तस्मिन् उपक्रान्ते सति, मा नाम उदपादि - मा उत्पद्यताम्, तत्र एतावन्मात्रस्य सूचनादिति भावः | किं तेन तवात्र निर्णयसिद्धिर्न संपन्ना इत्यत आह इदम् इति | किं वक्तव्यमित्यपेक्षायामाह तथाभूत इति | तथाभूतः - परमार्थभूतः, यो भवताऽभ्युपगतो भगवान् - ज्ञानादिशक्तित्रययुक्तः परमात्मा, तस्य प्रभावः - माहात्म्यम्, एनाम् - स्मृतिम्, इति शङ्काम् - प्रश्नोत्तरपूर्वं स्थितां शिष्यशङ्काम् | श्लोकाष्टकम् भवतीति संबन्धः | सामस्त्येननाभिप्रायमुक्त्वा व्यस्तत्वेनापि कथयति तत्र इति | तत्र श्लोकाष्टकमध्ये इत्यर्थः | स्वलक्षणम् - अन्याननुयायिवस्तुरूपम् | अनुभवेन - द्वितीयेन स्मृतेः पूर्वानुभवविषयीकृतस्वलक्षणप्रकाशनसामर्थ्यमुक्तम् | तृतीयेन अनुभवेन तद्विषयेण च एकीभावपर्यन्त आवेशः स्मरणस्य उक्तः | तुर्येण अनुभवस्य न विषयतया स्मृत्या प्रकाशनम् - इति निरूपितम् | पञ्चमेन योगिज्ञानमपि अनुभवं पृथग्भावेन न विषयीकरोति - इति वददा तुर्यश्लोकार्थ एव उपोद्वलितः | षष्ठेनाशङ्क्यमानम् अनुभवस्य स्मृत्या पृथग्विषयीकरणं काल्पनिकम् - इत्यवास्तवीकृतम् | सप्तमेन स्मृतिप्रसङ्गात् विकल्पेऽपि पूर्वानुभवेन ऐक्यात्मावेशो दर्शितः | अष्टमेन स्मर्तव्यस्य स्मृतेः स्मर्तुश्च एकचित्तत्त्वविश्रान्तिः उक्ता, प्रसङ्गाच्च दृश्यस्य दर्शनस्य द्रष्टुश्च - इति तात्पर्यार्थः | अथ क्रमेण श्लोकार्थ उच्यते | स हि पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् | विमृशन्स इति स्वैरी स्मरतीत्यपदिश्यते || १ || ऽपूर्वमनुभूतस्य अर्थस्यऽ य ऽउपलब्धाऽ अन्तर्मुखो बोधः स तावत् अद्यापि ऽपरतःऽ स्मृतिकालेऽपि अस्त्येव, संविन्मात्रस्वरूपस्य कालकृत - पूर्वानुभवेन, तद्विषयेण - पूर्वानुभवविषयेण, एकीभावपर्यन्त आवेशः - एकीभावावसानः समावेशः | वर्णयता - कथयता आचार्येण, वदता इत्यपि पाठः | विकल्पेऽपि - सविकिल्पज्ञानेऽपि, ऐकात्म्येन - एकात्मतया, आवेशः - प्रवेशः | तात्पर्यार्थः - तात्पर्यभूतोऽर्थः | प्रथमश्लोकमुपन्यस्य व्याचष्टे | स हि इति | अत्र टीका :- पूर्वम् - अनुभवकाले, उपलब्धा - ग्राहकः, अन्तर्मुखः - अहमिति स्थितः, बोधः - ज्ञानम्, न तु प्रमाणतया स्थितः इदमिति बहिर्मुखो बोधः | परतः इति व्याचष्टे स्मृति इति | अस्त्येव, न तु नास्ति तत्र अस्तित्वस्य साक्षिसिद्धत्वे व्याघातापातात् तदसिद्धत्वे तु असत्त्वापातात् | अत्र हेतुमाह संविन्मात्र इति | संकोचरूपविशेषात्मकावच्छेदायोगात् [विशेषात्मकविच्छेद - K. ष्. ष्.] | अनुभवस्य च अन्तः अर्थोऽपि अपृथग्भावेन अवस्थितः - इत्येतदपि अयत्नसिद्धम् | इयत् [इदम् - K. ष्. ष्.] तु चिन्त्यम् - अकालकलिते संवेदने तदन्तर्वर्तिनि च विश्वत्र भावजाते यदि तावत् चिन्मयतापरामर्शः, तत् ऽअहम्ऽ इति एतावतैव पूर्णेन विमर्शेन भाव्यम्; अथ इदन्तया पृथग्भावावभासनेन, तथापि तत्र द्वयी गतिः | अहम् कालेन - वर्तमानादिभेदयुक्तेन क्रियावैचित्र्यरूपेण कालतत्त्वेन, कृतो यः संकोचः - वर्तमानादिनिजभेदपरिच्छिन्नतारूपं संकोचनम्, तद्रूपो यो विशेषः - अवस्थाभेदः, तदात्मको योवच्छेदः - अव्यापकता, तस्या अयोगात् | संविदैव हि तत्क्रियावैचित्र्यरूपस्य संवेद्यस्य कालस्यावच्छेदो युक्तः, न तु तेनाऽस्या इति भावः | ननु सोऽर्थः स्मृतिकाले नास्तीत्यत आह अनुभवस्य इति | अपृथग्भावेन - तादात्म्येन, अयत्नसिद्धम्, ग्राह्यग्राहकभावान्यथानुपपत्तिमात्रेण सिद्धत्वान्नात्र यत्नापेक्षेति भावः | ननु तर्हि तूष्णींभाव एव युक्त इत्यत आह इयत इति | संवेदने - संविन्मात्रे, विश्वत्र भावजाते - विषयीभूतेऽविषयीभूते च भावराशौ, चिन्मयतत्या परामर्शः - अनुसंधानरूपं ग्रहणम्, चिन्मयतापरामर्शः, परमार्थतः स्थितेन चिन्मात्ररूपत्वेन परामर्शनमिति यावत् | पूर्णेन - सर्वभावभरितेन, सर्वं हि भावजातमाद्यस्पन्दभूतायाम् अपरिमिताहन्तायामेव विश्रान्तम्, तत एव च अन्तर्गतसमस्ताक्षराऽकारहकारात्मकप्रत्याहारवाच्यत्वमस्याः, तदुक्तम् :- अनुत्तराद्या प्रसृतिर्हान्ता विश्वस्वरूपिणी | प्रत्याहृताशेषविश्वा इति | अम् इति तु अत्र प्रत्ययभाग एव सुप्रत्ययादेशत्वात्, यस्तु प्रकृत्यकारः सोपि अमि पूर्वः इति सूत्रेण प्रत्ययनिगीर्ण एव | अथवा अन्ते पुनरपि अम् इति बिन्दुसंमतस्यानुत्तरस्य [बिन्दुयतस्य - C.] स्थापनम्, अक्षराणां समस्तभावरूपत्वं समस्तवाचक - इत्यंशे यदि विश्राम्यति इदन्ता, तदा अहमिदमितिसदाशिवादिदशया [अहमिदम् इति सदाशिवदशया - K. ष्. ष्.] भाव्यम् | अथ न रोहति, तत् ऽइदम्ऽ इत्येव आभासनेन भवितव्यम्; अपूर्वताभासनाच्च तत् अनुभवनमेव स्यात् न स्मरणम् - इत्याशङ्क्याह ऽस्वैरीऽ इति | ऽस्वम्ऽ आत्मीयम् उपकरणम् ईरयति स्वकर्तव्येषु [कर्तव्येषु - K. ष्. ष्.] अवश्यं तच्छीलश्च ऽस्वंऽ च आत्मानम् ईरयति न पुनः स्वकर्तव्ये प्रेरकमपेक्षते - इति ऽस्वैरीऽ स्वतन्त्रः | तेन स्वतन्त्रत्वात् ऽसऽ इति [इत्येवम् - K. ष्. ष्.] विमृशति | ऽसऽ इति विमर्शनस्य च इयद्रूपम् - यत् सर्वथा अकालकलितस्वरूपपरामर्शनमेव त्वेन स्फुटमेवेत्यलं बहुतरया रहस्यचर्चया | पक्षान्तरमाह अथ इति | पृथग्भावावभासनेन, चिद्व्यतिरिक्तचेत्यभावेन भासनरूपया इत्यर्थः, परामर्शः इति योजना | द्वयी - द्वयवयवा, गतिः - प्रकारः, प्रकारद्वयमिति यावत् | प्रथमं प्रकारमाह अहम् इति | विश्राम्यति - पर्यवस्यति, अहमिदम् इति स्थिता सदाशिवादिदशा तया, आदिशब्देनेश्वरदशादेर्ग्रहणम्, तद् वक्ष्यति :- ईश्वरो बहिरुन्मेषो निमेषोन्तः सदाशिवः | इति | अथ द्वितीयं प्रकारमाह अथ इति | न रोहति - विश्राम्यति, तत् - तदा, अपूर्वतया यद्भासनं तस्मात्, अहम् इत्येव हि सदातनं भासनमिति भावः | स्वैरी इति पदस्यावयवार्थमाह स्वम् इति | स्व इत्यवयववाच्यम् आह आत्मीय इति | उपकरणम् - प्रमाणरूपां सामग्रीम्, स्वकर्तव्येषु - प्रमादिरूपेषु निजकार्येषु | अस्यैवार्थान्तरमाह आत्मानम् इति | अवयव्यर्थमाह स्वतन्त्र इति | ननु भवतु स्वतन्त्रः ततः किमित्यत आह तेन इति | स स्वैरी स इति विमृशति - विमर्श करोति, न हि स्वतन्त्रः सापेक्षो युक्त इति भावः | शतुः कर्तरि विहितत्वादेवं व्याख्या | ननु तस्य विमर्शस्य किं रूपमस्तीत्यत आह स इति इति | विमर्शनस्य - विमर्शस्य, इयच्छब्दाकाङ्क्षां पूरयति यत् इति | सर्वथा अकालकलितस्वरूपपरामर्शनमेव न, न, नापि अत्यन्तं भेदेन विमर्शनमेव [अत्यन्तभेदपरामर्शनम् - K. ष्. ष्.] अपि तु यो भावः पूर्वमनुभवकाले तद्देशकालप्रमात्रन्तरसाचिव्येन पृथक्कृतो न च अहन्तायामेव लीनीकृतः [विलीनीकृतः - K. ष्. ष्.], स तादृगेव तमसेव आच्छाद्य अवस्थापितः संस्कारशब्दवाच्यः, तस्य तमाच्छादकम् अपहस्तयति; तत्र अपहस्तिते स पूर्ववत् पृथक्कृते एवावभाति [पृथक्कृत इव - K. ष्. ष्.] | ननु च इदन्तया अवभासेत पूर्ववदेव, नैवम् | तदानीन्तनावभा- अहं शब्दवाच्यव्यापकचिद्रूपपरामर्शनमात्रं केवलं नेत्यर्थः | अत्यन्तं भेदेन विमर्शनम् - इदमिति विमर्शनम् | पुनस्तस्य किं रूपमित्यत आह अपि तु इति | पूर्वम् इत्यस्य स्वयमेव व्याख्यां करोति अनुभव इति | तद्देशकालम् - अनुभवसंबन्धिदेशकालावच्छिन्नम्, यत् प्रमात्रन्तरम् - परप्रमातुरन्योनुभवित्राख्यः परिमितः प्रमाता, तस्य साचिव्येन - अवष्टंभेन, तं मध्येकृत्येति यावत् | पृथक्कृतः - अपोहनशक्त्या भेदेनावभासितः, न च अहन्तायामेव लीनीकृतः इति, अन्यथा तद्विषयस्मृत्यभावप्रसङ्गाद् इति भावः | एतेन पुनः स्मृतिविषयमनागत्य भावजातमहन्तायामेव लीयते इति द्योतितम् | सः - भावः, तादृगेव - पृथक्कृतः, न चाहन्तायां लीनीकृत इति यावत् | तमसा - अज्ञानेन, अवस्थापितः हृदये इति शेषः, परमार्थतोऽवच्छादने स्मृतिविषयताऽयोगादिवशब्दोपादानम् | संस्कार इति | संस्कारशब्दस्य गोशब्दस्येव सास्नावत्यर्थेऽत्रैवार्थे सङ्केतितत्वादिति भावः | तस्य - उक्तविशेषणस्य संस्कारतया स्थितस्य भावस्य, तम् - तमोरूपम्, अपहस्तयति, सादृश्यदर्शनाद्यवष्टंभेन येन तदुद्भूतिः स्यादिति भावः | ननु ततः किमित्यत आह तत्र इति | तत्र - तस्मिन्नावरके, पृथक्कृते एव - अहम् शब्दवाच्याच्चिन्मात्राद् भिन्नीकृते एव, इदंपरामर्शविषयतयेति यावत् | अत्र शिष्य आक्षिपति ननु इति | पूर्ववदेव - अनुभवकालवदेव, पृथक्कृतत्वाऽविशेषादिति भावः | गुरुः प्रतिसमाधानं करोति नैवम् इति | कुत सनपृथक्कृतशरीरादिसंबन्धमनवधूयैव हि तत्प्रकाशः; ततश्च इदानीन्तनावभासनस्मरणकालप्रामर्शोऽपि [इदानींतनावभासनकालपरामर्शोऽपि - K. ष्. ष्.] न निमीलति इति तत्परामर्शभित्तिप्राधान्येन [इति एतत्परामर्शभित्तिप्राधान्येन - K. ष्. ष्.] पूर्वकालपरामर्शः इति विरुद्धपूर्वापरपरामर्शस्वभाव एव ऽसऽ इति परामर्श उच्यते | एवं च स एव परमेश्वरः ऽस्मरतिऽ | एतदेव हि तस्य इत्यपेक्षायामाह तदानीन्तन इति | हि - यस्मात् कारणात्, पण्डितैः स इति परामर्शः विरुद्धौ - कालभेदेन परस्परं विरोधयुक्तौ, यौ पूर्वापरपरामर्शौ - अनुभवकालीनस्मृतिकालीनौ परामर्शौ, तौ स्वभावः - एकीभूय स्वरूपं यस्य तादृशः, एवोच्यते, अतो योग्यतया तेनैवात्र भासनम् इति भावः | कुत एवं - स्वभाव एवासौ इत्याह इति इति | कुतः ? पूर्वकालपरामर्शः - अनुभवकालपरामर्शः, तत्परामर्शभित्तिप्राधान्येन - स्मृतिकालपरामर्शाधारतया भवति, अन्यथा तस्य गतत्वात्, अत एव परामर्शद्वयस्वभावत्वं स इति विमर्शस्य इति भावः | तदपि कुत इत्याह इति इति | कुतः ? तत्प्रकाशः - स्मर्यमाणस्य भावस्य प्रकाशः, तदानीन्तनावभासेन - अनुभवकालीनज्ञानेन, पृथक्कृतः - परिच्छेदविषयतां नीतः, यः शरीरादिसंबन्धः - तस्य भावस्य निजस्वरूपयोगः, तम्, अनवधूयैव - अपेक्ष्यैव भवति | तथा ततश्च - तस्मात् प्रकाशाच्च, इदानीन्तनावभासनरूपो यः स्मरणकालपरामर्शः - तमवधीकृत्य स्थितः, अर्थात्तस्य भावस्य परामर्शः, अनुभवानन्तरभावी परामर्शः, न निमीलति - न तिरोभवति, परामर्शमवधीकृत्य परामर्श इति राहोः शिर इतिवत् प्रयोगः द्वयोरप्येकपरामर्शरूपत्वात् | अवध्यवधिमद्भावस्तु शिष्यबोधनमात्रप्रयोजनः | यतः पूर्वानुभूतभावस्वरूपानुसारेण प्रकाशोऽपि वर्तते परामर्शश्च, तत एव स्मृतिकालपरामर्शभित्तिप्राधान्येन पूर्वकालपरामर्श इति संक्षेपः | पादत्रयं व्याख्याय चतुर्थमपि व्याचष्टे एवं इति | स एव स्वैरी एव | ननु तर्हि तस्यापि मितप्रमातृत्वमायातम् इत्यपेक्षायामेतदुत्तरभावेन योज्यम् | स्मर्तृत्वम् - [स्मरणम् - K. ष्. ष्.] यत् एवं प्रकारपरामर्शोचितकालकलादिस्पर्शसहिष्णुमायाप्रमातृभावपरिग्रह ः इति मायाविद्याद्वयाद्वयमयम् | तत एव सकलसिद्धिवितरणचतुरचिन्तामणिप्रख्यम् आगमिकाः स्मरणमेव मन्त्रादिप्राणितं मन्यन्ते | तथा च :- ऽध्यानादिभावं स्मृतिरेव लब्ध्वा चिन्तामणिस्त्वद्विभवं व्यनक्ति |ऽ अपदिश्यते इतिपदसूचितं वस्त्वाह एतत् इति | तस्य परमेश्वरस्य स्मर्तृभूतपरिमितप्रमातृभावासादनमेव स्मर्तृत्वम् [स्मर्तृकर्तृत्वेन - C.], न तु परिमितप्रमातृवत् परमार्थतः स्मरणकर्तृत्वेनेति भावः | बाह्यव्यवहारानुप्राणाकत्वेन स्थितस्य अस्य स्मरणस्यैव परमात्मप्राप्तिं प्रत्यपि साधकत्वं कथयति इति माया इति | इति - पूर्वोक्ताद्धेतोः, अद्वयचित्तत्त्वस्य द्वयरूपस्मर्तृभावग्रहणाद्धेतोरिति यावत् | मायामायातत्त्वम्, विद्या - शुद्धविद्यातत्त्वम्, तद्रूपं यद्द्वयाद्वयम्, तत्र मायाया भेदकत्वेन द्वयत्वं विद्यायास्तदपसारकत्वेन अद्वयत्वम्, तन्मयम् - तद्रूपम् | तत एव - द्वयाद्वयरूपत्वेनैव, सकला याः सिद्धयः - बाह्याभ्यन्तरत्वेन स्थिता द्विविधाः सिद्धयः, तासां यद्वितरणम् - प्रतिपादनम्, तत्र चतुरो यः चिन्तामणिः तस्य प्रख्यम्, तत्सदृशमिति यावत् | तत्र द्वयाख्येन रूपेण बाह्यसिद्धिहेतुत्वम् अद्वयेनान्तरसिद्धिहेतुत्वम् इति क्रम आश्रयणीयः, तथा मंत्रादिभिः प्राणितम् - ऊच्चारादिद्वारेण उपोद्वलितम् | तत्र आन्तरव्यवहारे मंत्रप्राणितं बाह्यव्यवहारे तु आदिशब्दगृहीतेन सादृश्यदर्शनादिना प्राणितमित्यपि क्रमो ज्ञेयः | आगमिकाः - शिवशासनज्ञाः, तद्वाक्यमेव शब्दतः पठति ध्यानादि इति | ध्यानादिभावम् - स्वाभीष्टदेवताचिन्तनादिरूपताम्, चिन्तामणिः - सर्वप्रदत्वेन चिन्तामणिरूपा, त्वद्विभवम् - तव माहात्म्यम्, इति शब्दो वाक्यसमाप्तौ | ननु बहु वक्तव्यमत्रास्तीति तदपि कथनीयम् इत्यत आह अलम् इति, अप्रकृतत्वादिति भावः | इति | अलं तावत् | अनेन [अलंतावत् अनेन | तृन्नन्तसमासेन - K. ष्. ष्.] तृन्नन्तसमासेन यत्नतोऽनुभवस्यार्थमुखेन कालस्पर्शम् अर्थविश्रान्ततां द्वयोरपि प्रमातरि निरूढिं भेदाभेदाभ्यां दर्शयति, वृत्तौ एकार्थीभावात् | तस्य च भेदाभेदमयत्वम् - इति वक्ष्यामः || १ || पूर्वानुभूतार्थोपलब्धा इत्यस्य समासस्याभिप्रायमाह अनेन इति | अनेन - सूत्रस्थेन, यत्नतः - समासनिषेधऽपि द्वितीया श्रितातीत इत्यत्र सूत्रे योगविभागरूपाद्यत्नात्, कृतेनेति शेषः | तृन्नन्तसमासेन - पूर्वानुभूतार्थमुपलब्धा इति विग्रहेण तृन्प्रत्ययान्तसमासेन, अनुभवस्य - पूर्वानुभवस्य, अर्थमुखेन - विषयद्वारेण, कालस्पर्शम् - अकालकलितत्वेऽपि निष्ठावाच्यातीतकालस्पर्शम्, अर्थविश्रान्तताम् - प्रमातरि विश्रान्तत्वेपि विषये विश्रान्तिं नीलमुत्पलमितिवत् | अनुभूत इत्यर्थविशेषणम्, तथा द्वयोरपि - अनुभवार्थयोरपि [अनुभवार्थयोः - C.], प्रमातरि - उत्तरपदार्थभूते प्रधाने उपलब्धरि, निरुढिम् - विश्रामम्, भेदाभेदाभ्यां दर्शयति, आचार्य इति शेषः | तत्र भेदेन अनुभवस्य कालस्पर्शोर्थविश्रान्तिश्च, अभेदेन तु उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्य द्वयोः हेतुमाह वृत्तौ इति | वृत्तौ - समासे, अनेकार्थानामेकार्थभावासादनम् एकार्थीभावः, तस्मात्, समासे परस्परं भेदेन स्थितानि पदानि एकीभवन्ति | कुत एकार्थीभावस्य भेदाभेदत्वम् इत्यत आह तस्य च इति | तस्य च - एकार्थीभावस्य च, वक्ष्यामः, अग्रे संबन्धनिर्णये इति भावः | एवमत्र योजना | हि - यस्मात्, स पूर्वानुभूतार्थोपलब्धा परतोऽपि सन् अत एव स इति विमृशन् स्मरति इति अपदिश्यते कथ्यते, कुतः ? स्वैरी - स्वतन्त्रः, न हि स्वतन्त्रस्य किमपि दुष्करम् || १ || अथ द्वितीयस्य श्लोकस्य अवतरणिकां करोति एतदेव इति | एतदेव स्मृतितत्त्वमुपपादयितुं श्लोकान्तराणि | तत्र यदि कश्चिद् ब्रूयात् - इह स्मृतिर्विकल्पः, न च अनेनार्थः प्रकाश्यते, अर्थासंस्पर्शिनो हि विकल्पाः, अनुभवेन च येन सोऽर्थः प्रकाशतां नीतः स इदानीं कीर्तिमात्रमूर्तिर्जातः, न च सोऽपि स्मृत्या प्रकाश्यते - ज्ञानस्य ज्ञानान्तरेणसंवेद्यत्वात् असत्त्वाच्चेति अर्थस्य प्रकाशनाभावात् ऽइदं स्मरामिऽ इति ज्ञानं भ्रान्तिमात्रमेव - इति पुनरपि आपतितम् - इति, तदा तं प्रति उच्यते :- भासयेच्च स्वकालेऽर्थात्पूर्वाभासितमामृशन् | स्वलक्षणं घटाभासमात्रेणाथाखिलात्मना || २ || अत्र टीका :- ननु पूर्वश्लोकेनैव स्मृतिसमर्थनं कृतमिति किमर्थमन्ये श्लोका इत्यत आह एतदेव इति | उपपादयितुम् - उपपत्त्या [उपपादयितुम् - उत्पत्त्या दृढीकर्तुम् - C.] दृढीकर्तुम्, श्लोकान्तराणि - अन्यत् श्लोकसप्तकम् | ननु तावद् द्वितीयः श्लोकः किमर्थं कृत इत्यत आह तत्र इति | तत्र - श्लोकान्तरमध्ये, कश्चित् - कोपि बौद्धादिः, अनेन - विकल्पेन | कुतो न प्रकाश्यत इत्यत आह अर्थ इति | अर्थासंस्पर्शिनः - क्षणरूपवस्तुस्पर्शरहिताः, तत्सन्तानावसायमात्रपरत्वात् इत्यर्थः | ननु स पूर्वानुभव एव पुनस्तं प्रकाशयत्वित्यत आह येन इति | कीर्तिमात्र मूर्तिर्जातः, नष्ट इत्यर्थः | ननु स्मृतिरेव तमनुभवं प्रकाशयत्वित्यत आह न च इति | सोपि - पूर्वानुभवोपि | अत्र हेतुमाह ज्ञान इति | एतच्च दृक् स्वभासा इत्यत्र निर्णीतम्, असत्त्वात् - प्रध्वंसाभावविषयत्वात् | फलितमाह इति इति | इति - अतः कारणात्, इति शब्दो बौद्धादिवाक्यसमाप्तौ, तं प्रति - बौधादिकं प्रति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भासयेच्च इति | इह स्मृतिविकल्पे [स्मृतिकाले - K. ष्. ष्.] तावत् अर्थोऽवसीयते, [अध्यवसीयते - K. ष्. ष्.] अन्यथा सुप्तमूर्च्छितकल्पतापत्तेः | एवं च यावत् अध्यवसायोऽर्थस्य तावत् ऽअर्थात्ऽ इति सामर्थ्यात् इयत् अभ्युपगन्तव्यम् - यत् सोऽर्थः प्रकाशते, अप्रकाशमानेऽध्यवसातव्येऽध्यवसायोऽन्धप्रायः स्यात् | प्रकाशनं च न तदानीन्तनकालस्य त्यागेन, नापि स्वीकारेण, इदम् इत्येवावभासनप्रसङ्गात् | तस्मात् अतीतानुभवकालः पूर्वानुभूतभावस्वालक्षण्याक्षेपकत्वेनापेक्षणीयो वेद्यभागे प्रकाशा- अत्र टीका :- इह - अस्मिन् जगति, स्मृतिविकल्पे - स्मृतिरूपे विकल्पे, तावत्, नात्र विप्रतिपत्तिरित्यर्थः | अर्थः - पूर्वानुभूतो घटादिर्विषयः, अवसीयते - उल्लेखविषयतां नीयते, अन्यथा - अध्यवसायाभावे, न हि सुप्तादेरध्यवसायो दृश्यत इति भावः | ननु ततः किमित्यत आह एवञ्च इति | सूत्रस्थम् अर्थात् इति पदं व्याचष्टे सामर्थ्यात् इति | इयत् शब्दः अर्थाक्षेपपरः | इयच्छब्दाकाङ्क्षां पूरयति यत् इति | सः - स्मृतिविकल्पे अध्यवसीयमानः | प्रकाशाभावे दोषमाह अप्रकाश इति | अध्यवसातव्ये - अध्यवसायविषयीभवति पूर्वानुभूतेऽर्थे, अन्धप्रायः - अर्थविषयत्वाभावेनान्धसदृशः, प्रकाशित एवार्थे तस्य प्रवृत्तेरिति भावः | ननु स प्रकाशः किमनुभवकालस्वीकारेण वर्तते त्यागेन वा इत्यत आह प्रकाशनञ्च इति | तदानीन्तनकालस्य - अनुभवकालस्य | कुत इत्यपेक्षायामाह इदम् इति | तस्य त्यागे हि स्मृतिकालस्यैव प्रकाशविशेषणत्वापत्त्या स्फुटम् इदम् इत्यवभासप्रसङ्गः, स्वीकारे तु तत्रस्थस्य इदम् इत्यवभासस्यापि स्वीकारप्रसङ्ग इति भावः | तर्हि किं कार्यमित्यत आह तस्मात् इति | तस्मात् - यतः पूर्वकालस्य त्यागे स्वीकारे च इदम् इत्यवभासप्रसङ्ग ततो हेतोः, अतीतानुभवकालः - पूर्वानुभवकालः, पूर्वानुभूतस्य भावस्य - घटादेः, यत्स्वालक्षण्यम् अन्याननुयायिस्वरूपत्वम्, तस्य त्मकावभासाभिनिवेशितया, स्मर्तृदेहप्राणाद्यवभासकालश्चावलम्बनीयो वेदकभागे विमर्शांशाभिनिवेशित्वेन | आभासमात्रं हि भावस्य स्वरूपम्, प्रत्याभासं प्रमाणस्य व्यापारात् | तदेव आभासान्तरव्यामिश्रणया दीप - आक्षेपकत्वेन - अवच्छेदकत्वेन, वेद्यभागे - स्मृतेर्विषयरूपे अंशे, अपेक्षणीयः - विशेषणत्वेनाश्रयणीयः | केन कृत्वा ? प्रकाशात्मको योवभासः - पूर्वकालीनोवभासः, तत्र अभिनिवेशः - हठोस्यास्तीति तादृशः, तस्य भावस्तत्ता तया यतः पूर्वकाले घटस्य स्वलक्षणं प्रकाशितं स एव च घट इहापि स्मृतिविषयीभवत्यतो घटाख्यविषयविषये विशेषणत्वेन स एव कालेऽपेक्षणीय इति संक्षेपः | ननु वेदकभागे कोऽपेक्षणीय इत्यत आह स्मर्तृ इति | स्मर्तुर्यद् देहप्राणादि - अर्थात् स्वरूपम्, तस्यावभासकालश्च, स्मृतिकालश्चेति यावत् | वेदकभागे - वेदकांशे, अवलंबनीयः - विशेषणत्वेनाश्रयणीयः | केन कृत्वा ? विमर्शांशे - अद्यतनपरामर्शाख्ये भागे, यदभिनिवेशित्वं तेन | यतः परामर्शकारी स्मर्ता स्मृतिकाल एव संभवति ततः स्मृतिकाल एव वेदकविशेषणत्वेनाश्रयणीयः | यद्यपि वेदकस्य नित्यत्वेन सद्भावः सर्वदैव वर्तते तथापि परामर्शकत्वाख्यं विशेषमपेक्ष्यैवमुक्तम् | ननु घटस्य स्वरूपमत्र नास्ति कथमस्य वेद्यत्वं कथयसीत्यत आह आभासमात्रम् इति | आभासमात्रम्, न तु मृत्कार्यत्वेन स्थितं स्थूलं किमपि वस्तु, भावस्य - घटादिपदार्थस्य | कुत इत्यपेक्षायामाह प्रत्याभासम् इति | प्रत्याभासम् - आभासे आभासे, सर्वेषु घटतद्धर्माद्याभासेष्विति यावत् | प्रमाणस्य - बहिर्मुखबोधरूपस्य प्रमाकरणस्य, व्यापारात् - प्रवृत्तेः | अयं भावः - प्रमाणं हि सर्वत्राभासमात्रमेव करोति न तूपादानीभूय कस्यापि सत्तां करोति, तत्प्रवृत्तिमन्तरेण च न कोपि सत्तां लभते | यदुक्तम् :- प्रमाणगम्यतैव सत्ता इति | ततः प्रमाणकृतमाभासमात्रमेव भावस्य स्वरूपमिति | यत्तु मृदादेरुपादानत्वं दृश्यते तदप्याभासमात्रमेवेत्यलमाभासमात्रे जगति | तदन्तर्वर्तिपदार्थाभासमात्रत्वविषयाभिः सूक्ष्मेक्षिकाभिः | ननु यद्याभासमात्रमेव भावस्वरूपं तर्हि गलितः स्फुटत्वास्फुटत्वव्यवहारः सर्वत्राभासमात्रस्याविशेषादित्यत आह तदेव इति | सहस्रप्रभासंमूर्च्छनवत् स्फुटीभवति | आभासान्तरव्यामिश्रणाभावेऽपि तु कालाभाससंभेदेनैव स्वालक्षण्यं तस्य आभासस्य करोति, कालशक्तेरेव भेदकत्वात् इति वक्ष्यते | एवं तावत् स्वलक्षणीभावः प्राक्तनदेहाभाससाचिव्याभ्युदितकालाभासया घटाभासस्य इति | तदेव - आभासमात्रमेव, आभासान्तरव्यामिश्रणया - ऊर्ध्वबुध्न्यादिधर्माभासमिश्रणेन | ननु आभासमात्रत्वे असाधारणधर्माभासग्रहणासंभवात् स्वलक्षणं गृहीतं न स्यादित्यत आह आभासान्तर इति | कालाभाससंभेदेन - वर्तमानादिकालरूपाभाससंयोजनेन, तस्य आभासस्य - सामान्यरूपघटाभासमात्रस्य, स्वालक्षण्यम् - स्वलक्षणभावम्, करोति इति | प्रमातेति शेषः | कुत इत्यपेक्षायां हेतुमाह काल इति | भेदकत्वात् - विशेषणत्वात् | असाधारणेन भेदकेनैव च स्वलक्षणं व्यवतिष्ठते नात्र कस्यापि विप्रतिपत्तिः | कालस्य चासाधारणत्वं घटाभासदेशाद्याभासमिश्रीभावेन स्फुटमेवेति न काप्यनुपपत्तिः | तथा च क्रियाधिकारे सामान्यस्य कालादियोजनया स्वलक्षणीभावं कथयिष्यति | उपसंहारं करोति एवम् इति | एवं सति तावत् घटाभासस्य - घटत्वावच्छिन्नस्य आभासस्य, प्राक्तनः - अनुभवकालीनः, यो देहाभासः - घटदेहरूपाभासः, तस्य यत्साचिव्यम् - सहायता तेन अभ्युदिता या कालाभासा, विशेषणता इति यावत्, तया, स्वलक्षणीभावः भवति, उक्तन्यायादिति भावः | इति शब्दः प्रमेयपरिसमाप्तौ | स्मृतेरेव तावद्रूपतां कथयति तवात्येव इति | तावत्येव - आभासमात्ररूप एव, आभासान्तरैः - अन्यैर्धर्मरूपैराभासैः, अतिस्फुटा, मिश्रीभावाद्धेतोरतिस्फुटेत्यर्थः | द्वितीयः इति शब्दः प्रमेयपरिसमाप्तौ | ननु तावत्येव वा स्मृतिः आभासान्तरैरपि व्यामिश्रा अतिस्फुटेति | अत्यन्तस्फुटीभावेऽपि तदानीन्तनकालता न त्रुट्यति अन्यसाधारण्यानवभासात् [साधारण्येन अनवभासनात् - K. ष्. ष्.] | तथावभासे तु योगिनस्तन्निर्माणमेव | ब्रह्मभाषितादौ तु स्फुटीभावे स्मृतेः इदम् इति रूपं वर्तते तत् इति वा इत्यपेक्षायामाह अत्यन्त इति | तदानीन्तनकालता - वेद्यविषया पूर्वकालता, तत् इति ग्रहणमिति यावत् | कुतः ? अन्यैः - प्रमातृभिः यत्साधारण्यं तेन यः अनवभासः ततो हेतोः, न हि अन्येन अत्यन्तं स्फुटतया स्मर्यमाणो घटोऽन्यस्य ग्रहण विषय इत्यर्थः, अस्फुटीभावे तु का कथेति अपि शब्दस्याभिप्रायः | ननु योगिस्मृतेः कथमन्यसाधारणत्वं दृश्यते, योगिस्मृतं हि अन्येऽपि पुरःस्थं पश्यन्तीत्यत आह तथा इति | तथावभासे - साधारण्येनावभासे, तन्निर्माणमेव - तस्य वस्तुनः सम्पादनमेव, न तु स्मरणम्, योगप्रभावेण तत्र शक्तत्वादिति भावः | न चैतेन महावैराग्ययुक्तेभ्यो महाविवेकेभ्यः स्मृतिमात्रेण वस्तुनिर्माणासमर्थेभ्योपि [वस्तुनिर्माणसम्र्थेभ्यः - C.] विमुखेन भाव्यम्, वैराग्यपूर्वस्य विवेकित्वमात्रस्य महायोगित्वात् | ऐन्द्रजालिकेष्वपि स्मृतिमात्रेण विषयनिर्माणं दृश्यते एव इति न तन्मात्रैणैव [इति तन्मात्रेणैव योगित्वम् - C.] योगित्वं ज्ञेयमित्यलं प्रपंचेन | ननु स्मृतिकल्पिताभिर्देवताभिः सह भाषणादेः का वार्तेत्यत आह ब्रह्म इति | ब्रम्हणा सह - ध्यानाभ्यासवशेन प्रत्येयतां [प्रत्ययताम् - C.] नीतं यत् ब्रम्हब्रम्हतत्त्वं तेन सह, भाषितम् - भाषणं आदिर्यस्य तस्मिन् | आदिशब्देन अन्यदेवताभिः सह भाषणस्य ग्रहणम् | तत्र नवमेवावभासनं भवति कल्पितत्वात् | इति शब्दः समाप्तौ | कुत इत्यपेक्षायामाह अत्र इति | तु शब्दः यतः शब्दार्थे, तु - यतः, आगमादिमानान्तरेण - शास्त्रादिप्रमाणान्तरेण, अनुभूतम् - ध्यानेनानुभवविषयतां नवमेव अवभासनम् इति | अत्र [तत्र - K. ष्. ष्.] तु आगमादिमानान्तरानुभूतब्रह्मादिस्वरूपस्मरणपरम्परा अभ्युपायः | ऽभासयेत्ऽ इति विधिरूपेण नियोगेन नियमो लक्ष्यते, न भासयति इत्येतत् न, अपि तु भासयत्येव इति | ऽस्वकालेऽ इति स्मरणकाले | ऽआमृशन्ऽ इति वेदकभागनिवेशी वर्तमानकाल उक्तः | ऽपूर्वाभासितं [पूर्वावभासितम् - K. ष्. ष्.] स्वलक्षणम्ऽ इति वेद्यांशस्पर्शी भूतकालो घटाभासस्यापि नीतम्, यद् ब्रम्हादिस्वरूपं तस्य यत्स्मरणम् - परामर्शनरूपा स्मृतिः, तस्य या परंपरा सा एव अभ्युपायः उपायो भवति, न तु पूर्वं प्रत्यक्षीकृतं ब्रम्हतत्त्वं तस्य प्रत्यक्षाविषयत्वात् | उक्तप्रक्रियानुसारेण श्लोकस्य योजनां कर्तुमारभते भासयेत् इति | नियोगस्यापि विधिविशेषत्वात् विधिरूपेण इत्युक्तम् | तदुक्तम् :- विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति | तत्र चान्यत्र च प्राप्तौ परिसंख्या विधीयते || इति | नियोगलक्षणं नियममेव स्फुटयति न भासयति इति | एतेन भासयेत् इति पदं कृतव्याख्यम् | स्वकाले इति पदं व्याचष्टे स्मरण इति | स्मृतिकालस्मरणकालयोरेकत्वादिति भावः | आमृशन् इति पदं व्याचष्टे आमृशन् इति | वेदकभागनिवेशो - वेदकांशविशेषणीभूतः, उक्तः, शतुर्वर्तमाने प्रयुक्तलडादेशत्वादिति भावः | मध्ये अर्थात् इति प्रथममेव कृतव्याख्यमितीह न व्याख्यातम् | पूर्वाभासितं स्वलक्षणम् इति पदद्वयं विशेषणविशेष्यभावेन स्थितं संकलयय व्याचष्टे वेद्यांश इति | वेद्यांशस्पर्शी - वेद्यभागविशेषणीभूतः, भूतकालः - क्तप्रत्ययवाच्योतीतकालः, दर्शित इति संबन्धः | घटाभासमात्रेण इति पदं व्याख्यातुं केवलस्य स्वालक्षण्यापत्तिहेतुर्दर्शितः | इयदेव स्मृतेः अव्यभिचारि वपुः, अर्थितातिशयात् तु स्फुटत्वम् इति ऽअथऽ शब्दो द्योतयति | तदेवाह ऽअखिलात्मनाऽ इति | सर्वाभासमिश्रेण वपुषा इत्यर्थः || २ || ननु एवं स्वलक्षणस्य प्रकाशने भेदेन बहिस्तदवभासेत | एतदेव हि बहिरवभासनम् - यत् स्वलक्षणप्रकाशनम् इति शङ्काशमनाय निरूपयति :- न च युक्तं स्मृतेर्भेदे स्मर्यमाणस्य भासनम् | तेनैक्यं भिन्नकालानां संविदां वेदितैष सः || ३ || विशेषणमाह केवलस्य इति | स्वालक्षण्यस्य आपत्तिः - प्राप्तिः तस्या हेतुः | घटाभासमात्रे कालाभासस्य समनन्तरमेव स्वालक्षण्यकारित्वसमर्थनात् | एतन्मात्रस्यैव स्मृतित्वं कथयति इयदेव इति | इयत्, वस्तुनः आभासमात्रं भूतकालकृता स्वालक्षण्यापत्तिश्चेत्यर्थः | अव्यभिचारि वपुः, असाधारणं स्वरूपमित्यर्थः | ननु आभासान्तरव्यामिश्रणया कृता स्फुटताप्यस्याः कदाचित् स्यान्न वा इत्यत आह अर्थिता इति | अर्थितातिशयात् - अतिकाङ्क्षणीयत्वेन, कदाचित् स्मृतिरपि अतिकाङ्क्षणीया भवत्येव, स्फुटत्वम् - धर्माभासव्यामिश्रणाकृतः स्फुटीभावः | द्योतयति इति | अस्फुटपक्षात् पक्षान्तरत्वादिति भावः | तदेव - समनन्तरोक्तमेव स्फुटत्वम् | केन इत्यत आह अखिल इति | एतदपि पदं व्याचष्टे सर्व इति | सर्वाभासाः - धर्माभासाः, वपुषा, घटस्वरूपभूतेन घटाभासेनेत्यर्थः | आमृशन् - परामर्शकारी, स्वैरी कर्ता पूर्वाभासितं स्वलक्षणं कर्म भासयेत् इति श्लोके योजना | तृतीयाद्वयम् इत्थंभावे || २ || अथ तृतीयस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- एवम् - उक्तनीत्या, बहिः - भेदेन, इदन्तया | अत्र हेतुमाह एतद् इति | स्वलक्षणस्य - घटसंबन्ध्यसाधारणस्वरूपस्य, प्रकाशनम् - प्रकाशः, स्वलक्षणप्रकाशनम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | न च इति | स्मरणज्ञानात् भिन्नत्वेन बहीरूपतया यदि सोऽर्थो भासेत ऽस्मर्यमाणस्यऽ च यत् ऽभासनंऽ तदेव न स्यात् स्मर्यमाणमेव तत् न स्यात्, अनुभूयमानमेव तत् भवेत् इति यावत् | ननु चैवं स्वलक्षणस्य प्रकाशनम् [कथं स्वलक्षणस्य प्रकाशनम् ? उक्तमेतत् - न इदानीम् - K. ष्. ष्.] उक्तम् ? एतत् न इदानीं प्रकाशनम् अपि तु पूर्वकाले एव, तदा चासौ बहिरवभासत एव | ननु चेदानीं तर्हि किं ? विमर्शनम् इति ब्रूमः | ननु प्रकाशनविमर्शनयोः भिन्नकालत्वम् आपतितम् | ततः किम् ? उभय - अत्र टीका:- स्मृतेः इति पदं पंचम्यन्ततया व्याचष्टे स्मरण इति | भेदे इति पदं व्याचष्टे भिन्न इति | अस्य पदस्य स्वयमेव व्याख्यां करोति वही इति, इदन्तयेत्यर्थः | भासेत - प्रकाशेत | पुनस्तत् किं स्यादित्यत आह अनुभूयमानम् इति | तत् - भासनक्रियाया विषयः सोऽर्थः [सोऽन्यः - C.] | उत्तरार्धं व्याख्यातुमवतरणिकां करोति ननु च इति | उक्तम् - पूर्वश्लोके कथितम् | उत्तरं कथयति एतत् इति | एतत् - पूर्वश्लोकोक्तम्, प्रकाशनम् | तर्हि किंकालीनमित्यत आह अपि तु इति | प्रकाशनमिति पूर्वेण संबन्धः | ननु ततः किम् इत्यत आह तदा च इति | तदा - पूर्वकाले, अवभासत एव, न तु न भासते इति वर्तमानप्रयोगः पूर्वकालीनवर्तमानविषयत्वेन न विरोधावहः | पुनः शिष्यः प्रश्नयति ननु इति | इदानीम् - स्मृतिकाले | गुरुरुत्तरमाह विमर्शनम् इति | पुनरपि शिष्यः प्रश्नं करोति ननु इति | आपतितम् - बलादायातम् | गुरुराह ततः इति | गुरुकृते प्रश्ने शिष्य उत्तरं ददाति उभयम् इति | उभयम् - प्रकाशविमर्शयोर्युगलम् | मपि न किंचित् स्यात्, अन्योन्यजीवितत्वात् अस्य | मैवम्, यस्य हि संवेदनान्येव भिनानि तत्त्वम्, तस्य इदम् अप्रतिसमाधेयमेव, अस्मद्दर्शने तु भिन्नकाला अपि संविदः तत्कालात्यागेनैव एकतावभासनेन [एकताभासनेन - K. ष्. ष्.] स्वतन्त्रः प्रमाता यावदन्तर्मुखतया तावत्यंशे विमृशति तावत् प्रकाशस्य तात्कालिकबहिर्भावावभासो विमर्शस्य इदानीन्तनान्तर्मुखा स्थितिरिति [स्थितिरेव - K. ष्. ष्.] | एतदेव कथं न किंचित्स्यादित्यत आह अन्योन्य इति | अस्य - उभयस्य, प्रकाशो हि विमर्शेनैव प्रकाशो भवति, तद्वक्ष्यति :- स्वभावमवभासस्य विमर्श विदुरन्यथा | प्रकाशोर्थोपरक्तोपि स्फटिकादिजडोपमः || इति | विमर्शस्तु स्फुटमेव प्रकाशकार्यं प्रकाशानन्तरमेव हि विमर्शोत्पादः, यश्च यस्मान्नियमेनानन्तरं भावी स तस्य कार्यम्, तदुक्तम् :- अनन्यथासिद्धनियतपश्चाद्भावित्वं कार्यत्वम् इति | अत्रोत्तरार्धव्याख्यात्वेन समाधानं करोति मैवम् इति | कुत इत्यपेक्षायामाह यस्य हि इति | तत्त्वम् - परमार्थः, अप्रतिसमाधेयम् - प्रतिसमाधातुमशक्यम् | ननु तव दर्शने किं तत्त्वम् इत्यत आह अस्मद् इति | तत्कालात्यागेन - भासमानाया भिन्नकालतायाः त्यागाभावेनैव स्थितेन, एकतावभासनेन - सारभूतेन किंचिद् रूपान्तरप्रमातृतत्त्वापेक्षया सिद्धेन एकतायाः स्फुरणेन, तद्भावेनेति यावत् | इत्थंभावे तृतीया | स्वतन्त्रः - स्वरूपभूतसंविदां संयोजने वियोजने च स्वातन्त्र्ययुक्तः, प्रमाता भवति, अर्थात् स एव प्रमाता यावत् - यस्मिन् क्षणे एव, अन्तर्मुखतया - अन्तर्मुखत्वेन, अहम् इति यावत्, तावत्यंशे - तद्भविष्यमाणस्मृतितायोग्ये स्वांशे, परामृशति - अहम् इति परामर्शं करोति स्वप्रकाशत्वात्, तावत् - तत्क्षणादेव, प्रकाशस्य - पूर्वानुभवस्य, तात्कालिकबहिर्भावावभासः - परामर्शावकाशदायी स्वकालीन इदन्तावभासः, भवति | विमर्शस्य - परामर्शस्य, इदनीन्तना - स्मृतिकालीना, अन्तर्मुखा - अहंरूपा, स्थितिः भवति | इति वेदनाधिकं वेदितृत्वं - वेदनेषु संयोजनवियोजनयोः यथारुचि करणं स्वातन्त्र्यम्, कर्तृत्वं च एतदेव उच्यते [कर्तृत्वं चैतदेव उच्यते घटमहमन्वभूवमिति - K. ष्. ष्.] | घटमहमन्वभूवम् इति वा स घटः इति वा ऽऐक्यम्ऽ अनुसंधानम् अनुसंधातुरभिन्नम् इति दर्शयितुं यदेव ऐक्यं ऽस एव वेदिताऽ इति सामानाधिकरण्येन दर्शितम् | ऽएष सऽ इति आच्छादितस्येव प्रमातृतत्त्वस्य स्फुटावभासनं कृतम् इदम् इति, विस्मयगर्भयानया [विस्मयगर्भया उक्त्या - K. ष्. ष्.] उक्त्या प्रत्यभिज्ञा [प्रत्यभिज्ञानमेव सूचितम् - K. ष्. ष्.] एव सूचिता | यदाह ग्रन्थकार एव :- शब्दः प्रमेयपरिसमाप्तौ | ननु तर्हि इदमहम् इति ग्रहणं कथं न भवति ? सत्यम् अत्र इदन्तायाः अहन्तायाश्च तादृशी पुष्टता न भवति येन ईश्वरदशावत् यथास्वं ताभ्यां ग्रहणं सिद्ध्येत्, किन्तु द्वयोरपि विषयग्रहणायोग्यं लेशद्वयं वर्तते, तदेव च द्वयमेकीभूय तत् इति भावेन परिणमते तदेव च स इति परामर्शः इति | तावदंशविषयस्य विमर्शनस्यैव वेदितृत्वादिकं कथयति एतदेव इति | एतदेव - स्वांशविषयमहमिति विमर्शनमेव, वेदनाधिकम् - प्रमाणरूपाद् बहिर्मुखज्ञानादधिकम्, करणम् - करणरूपम्, तदुक्तम् :- स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च इति | सूत्रस्थस्य ऐक्यवेदित्रोः सामानाधिकरण्यस्याभिप्रायमाह घटम् इति | घटमहमन्वभूवम् इति विस्तरेण परामर्शः, स घट इति तु संक्षेपेण, ऐक्यम् - ऐक्यरूपम्, अनुसन्धानम् - अनुसन्धानाख्यक्रिया | भिन्नप्रवृत्तिनिमित्तयोरेकार्थनिष्ठत्वम् एकविभक्तिकत्वञ्च सामानाधिकरण्यम्, न हि क्रियाक्रियावतोर्भेदो युक्त इति भावः | शिवसूत्रेष्वपि चैतन्यमात्मा इति सूत्रेण एतदेव कटाक्षितम् | एष स इत्यस्य सूचनीयमर्थमाह एष सः इति | एष स इत्यनेन पदेन, विस्मयगर्भया - विस्मयकारित्वान्यथानुपपत्त्याऽन्तःकृतविस्मयया उक्त्या, प्रत्यभिज्ञा एव सूचिता, कुतः ? इति | इति कुतः ? अन्यथा उक्तया आच्छादितस्येव - परमार्थतो भानेऽपि प्रतिबन्धकवशेनाऽभातकल्पस्य | तदुक्तम् :- ऽइत्थं स्वसंवित्तिमपह्नुवानैर्यत्तद्वदद्भिः कलुषीकृतं यत् | प्रमातृतत्त्वं स्फुटयुक्तिभिस्तान्मूकान्विधाय प्रकटीकृतं तत् ||ऽ इति || ३ || ननु च प्राच्य एव अनुभवो यदि स्मर्यमाणस्य बहिरवभासनरूपः प्रकाशः तर्हि इयत् उच्यताम् - सोऽनुभव इदानीं स्मरणेन विषयीक्रियते - इति, ऐक्येन तु अलौकिकेन कोऽर्थः इति व्यामोहं विहन्तुमाह :- भानेप्यभानं भानस्य प्रतिबन्धेन युज्यते इति | प्रमातृतत्त्वस्य - आत्मतत्त्वस्य, स्फुटावभासनं कृतम्, प्रत्यभिज्ञा च विस्मृतस्य प्रत्यक्षीकरणमेव | अत्र ग्रन्थकारवाक्यमुदाहरणत्वेन कथयति यदाह इति | कलुषीकृतम्, विकल्पैरिति शेषः, तान् - संवित्तिमपह्नुवानान्, प्रकटीकृतम्, प्रमातृन् प्रति प्रत्यभिज्ञामुत्पाद्य प्रकटं संपादितमित्यर्थः | एवमत्र संक्षेपः - स्मृतेः भेदे, अर्थात् स्मृतिविषयस्य अर्थस्य स्मृतेः सकाशाद् भेदे, इदन्ताग्रहणेन भेदे सति, समर्यमाणस्य भासनं न च युक्तं स्यात्, सोऽर्थः प्रकाशमान एव स्यान्न स्मर्यमाणः इति भावः, तेन - ततः, भिन्नकालानां संविदाम् - अनुभवस्मृत्यादिज्ञानानाम्, ऐक्यं भवति, एककालत्वात् भिन्नकालस्याकिंचित्करत्वात् | तथा च प्रकाशमानत्वेऽपि स्मर्यमाणत्वमर्थस्य सिद्द्ध्यति भावः | ननु तथापि ग्रहीतुरभावात् कथं सिद्ध्यति इत्यत आह वेदिता इति | एष सः - उक्तम् ऐक्यमेव लक्षणया क्रियातद्वतोरैक्यात् योजकः, ऐक्यग्रहीतैव वेदिता ग्रहीता भवति | अद्वैतभङ्गमाशङ्क्य कृतो लक्षणाप्रयोगो न दुष्ट इति || ३ || अथ चतुर्थश्लोकस्यावतरणिकां करोति ननु च इति | अत्र टीका :- बहिरवभासनरूपः - बहिःप्रकाशनरूपः, इयच्छब्दाकाङ्क्षां पूरयति सोऽनुभव इति | इदानीम् - स्मृतिकाले | क्रियते इति, अन्यथा गतस्य तस्य स्वलक्षणविषयत्वायोगादिति भावः | इति शब्दः प्रमेयपरिसमाप्तौ | ऐक्येन - वेदितृतया साधितेन संविदामनुसंधानेन, अलौकिकेन - लौकिकेष्वप्रसिद्धेन | अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | नैव इति | नैव ह्यनुभवो भाति स्मृतौ पूर्वोऽर्थवत्पृथक् | प्रागन्वभूवमहमित्यात्मारोहणभासनात् || ४ || वैधर्म्यसाधर्म्याभ्यां दृष्टान्तः | ऽप्राक्ऽ इति अनुभवकाले यथा स ऽपूर्वोऽ घटादिः अर्थः ऽपृथक्ऽ इति इदन्तया भाति स्म नैवं स्मरणकाले स्मृतिज्ञानात् पृथक्त्वेन इदं पूर्वमनुभवनम् इति ऽभातिऽ | यथा च स्मृतिकाले तस्मात् स्मृतिज्ञानात् सोऽर्थः ऽप्राक्ऽ इति पूर्वस्वभावो न भेदेन आभाति, स्मृतिकाले बहिरवभासाभावात् एवं तत एव हेतोः ऽपूर्वोऽपि अनुभवोऽ न भेदेन आभाति, कथं तर्हि उभयं भाति ? अन्वभूवम् इत्येवम् | एतत् किमुच्यते इति चेत्, ऽअहम्ऽ - इत्येवंस्वभावो य ऽआत्माऽ अत्र टीका :- दृष्टान्तः - लक्षणया उदाहरणम्, इदं सूत्रमिति शेषः | तत्र प्रथमं वैधर्म्यमेव स्फुटयति प्राक् इति | प्राक् इति पदं व्याचष्टे अनुभव इति | अर्थवत् इति पदं व्याचष्टे यथा इति | अर्थस्य पूर्वत्वमर्थादेव [अर्थवदेव सिद्धम् - C.] सिद्धम् | पृथक् इति पदं व्याचष्टे इदन्तया इति | स्मृतौ इति पदं व्याचष्टे स्मरण इति | पूर्वम् अनुभवनम् इत्याभ्यां पूर्वः अनुभवः इति पदद्वयव्याख्या | साधर्म्यदृष्टान्तं स्फुटीकृत्याह यथा च इति | च समुच्चये, तस्मात् स्मृतिज्ञानात् - इत्यनयोः प्राक् इत्यनेनापेक्षितत्वात् अध्याहारः | प्राक् इति पदस्यह अर्थपदविशेषणत्वमाह पूर्व इति | न पृथक् इति पदद्वयं संकलयय व्याचष्टे न भेदेन इति | कुतः इति हेत्वपेक्षायामाह स्मृतिकाले इति | यथा शब्दाकाङ्क्षां पूरयति एवम् इति | तत एव हेतोः, बहिरवभासाभावाद्धेतोरित्यर्थः | एतेन प्राक् इत्यन्तं व्याख्यातम् | एवं दृष्टान्तद्वययोजना | हि - यस्मात्, स्मृतौ पूर्वः अनुभवः पृथक् नैव भाति, कथम् ? अर्थवत् - यथा प्राक् अर्थः पृथग् भाति स्म नैवमनुभव इति | पूर्वापरसंविदन्तर्मुखस्वभावः तत्र यत् ऽआरोहणम्ऽ विश्रमः तेन हेतुना पूर्वसंविद्रूपतायाः स्वप्रकाशाया ऽभासनात्ऽ तल्लीनस्यापि घटस्य स्वप्रकाश- अत्रार्थानुभवगतस्य भानाभानरूपस्य विरुद्धधर्मद्वयस्य साधनात् वैधर्म्यदृष्टान्तत्वमिति एका योजना | अथ द्वितीया | स्मृतौ पूर्वोऽनुभवो न पृथग्भाति | कथम् ? अर्थवत् - यथा प्राग् अर्थः स्मृतौ न पृथग् भाति तथा अनुभवोऽपि न भाति इति | अत्र च साधर्म्यदृष्टान्तत्वम्, नभानरूपस्य समानधर्मस्योभयत्र साधनात् | अत्र शिष्यः प्रश्नयति कथम् इति | उभयम् - पूर्वानुभवः पूर्वार्थश्च न हि अत्र अभानं युक्तमिति भावः | अत्रोत्तरं दातुम् अन्वभूवम् इति पदमुपन्यस्यति | अन्वभूवमित्येवम् एवंप्रकारेण भातीत्यर्थः | अत्र शिष्यशङ्कापूर्वकं हेतुं कथयिष्यन् अहम् इत्यादि पदद्वयं व्याचष्टे एतत् इति | अन्वभूवम् इत्यस्य पदस्य हेतुरीत्या सूत्रकारेण स्वयंकृतं व्याख्याग्रन्थं व्याचष्टे अहम् इत्येवम् इति | अहम् इति पदं व्याचष्टे एवंस्वभावः इति, अहमर्थस्वभाव इत्यर्थः | ऽइतिऽ शब्दोऽर्थ निर्देशपरः | आत्म पदं व्याचष्टे पूर्व इति | पूर्वापरसंविद्रूपश्चासावन्तर्मुखश्च, तत्स्वभावः - तत्स्वरूपः | एतेन अत सातत्यगमने इति धात्वनुसारेणार्थः कृतः, सातत्यगमनं हि नित्यत्वं तदेव च पूर्वापरकालव्यापित्वम् | तत्र तस्मिन्नात्मनि | आरोहण पदं व्याचष्टे विश्रमः इति | पंचम्यर्थमाह तेन हेतुना इति | पूर्वसंविद्रूपतायाः पूर्वानुभवरूपतायाः, स्वप्रकाशायाः स्वप्रकाशत्वेन स्थितायाः | सविशेषणं पूर्वसंविद्रूपतायाः इति पदं प्रसिद्धत्वेन भासनक्रियाकर्तृत्वेन आनीतम् | ननु तद्विषयस्य घटस्य कथमारोहणं संभवतीत्यत देशीयत्वेन भासनम् [अवभासनम् - K. ष्. ष्.] | ऽआत्मनि च आरोहणम्ऽ विश्रमणा अनुभवस्य अर्थस्य च | प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः - इति न्यायात् संख्याक्षिप्ते तद्वति वा कर्तृभूतेऽस्मदर्थे प्रत्ययार्थेऽनुभवो ब्रुडितः तद्द्वारेण अर्थोऽपि च, आह तल्लीनस्य इति, विषयत्वेन तस्यां संविदि लग्नस्य, अन्यथा प्रकाशाऽयोगात् | घटस्य - विषयीभूतस्य घटस्य, स्वप्रकाशदेशीयत्वेन भासनम् - आत्मारोहेण भासनं भवति, न हि सत्योत्पलत्वं सितत्वं विहाय कुत्राप्यन्यत्र तिष्ठतीति भावः | एतेन आरोहण पदं ण्जिरहितत्वेन व्याख्यातम् | आत्मगता हि संविद्रूपता आत्मनि स्वयमेव आरोहति तद्द्वारेण अर्थोऽपि | एतदेव पदं णिजन्तत्वेन व्याचष्टे आत्मनि च इति | विश्रमणा - विश्रमकरणम् | कयोरित्यपेक्षायामाह अनुभवस्य इति | प्रमाता हि तां संविद्रूपतां तद्विषयं च घटादिमात्मन्यारोहति | अत्र च णिचः णेरनिटि इति लुप्तत्वं ज्ञेयम् | ननु तर्हि कथं न अन्वभूवम् इत्यत्र कर्मणो निर्देशः कृत इत्यपेक्षायामाह प्रकृति इति | अथवा कथम् अन्वभूवम् इत्यत्र अनिर्दिष्टस्य कर्मणः अनुभवद्वारेणात्मनि विश्रम इत्यपेक्षायामाह प्रकृति इति | सह ब्रूतः - एकीभावमासाद्य कथयतः, प्रकृतिः प्रत्ययार्थे ब्रुडति इति यावत् | इति न्यायात् - एवं स्थितेन पूर्वाचार्यन्यायेन, संख्याक्षिप्ते - प्रत्ययवाच्यसंख्यामात्रेण धर्मेण धर्मितया [धर्मिताया - C.] आक्षिप्ते, स्वयमेव प्रत्ययवाच्यसंख्याधर्मयुक्ते धर्मिणि वा, केषांचिन्मते संख्यामात्रमेव प्रत्ययार्थः धर्मी तु तदाक्षिप्त एव, केषांचित्तु धर्म्यव प्रत्ययार्थः | कर्तृभूते - अनुभवक्रियाकर्तृत्वेन स्थिते, अस्मदर्थे - अस्मच्छब्दरूपाहंशब्दवाच्येऽर्थे अस्मद्युत्तमः इति सूत्रानुसारेण उत्तमपुरुषभूतलुङ्गादेश मिप् प्रत्ययवाच्यभूते वस्तुनि, अनुभवः - अनुपूर्व भू धातुप्रकृत्यर्थभूतः, ब्रुडितः - लीनीभूतः, तद्द्वारेण - अनुभवद्वारेण च, अर्थोपि - तद्विषयभूतो घटोपि, ब्रुडितः इति न तु स्वान्त्र्येणैव असौ, तदर्थमेव कर्म न निर्दिष्टम् | घटादिः पुनः अनुभवकाले न अस्मदर्थमारोहति, हि यस्मात् नैव भाति पूर्वोऽनुभवः पृथक् अपरार्धोक्तात् हेतोः, तस्मात् संविदामैक्यम् इति पूर्वेण संबन्धः | योजना | अयं भावः - अर्थं विना अनुभवः स्वात्मरूप एव | यदुक्तम् :- पृथक्स्थयोर्ग्रहे रूपं तत्सत्यमितरन् मृषा | इति कः कुत्र रोहेत इति | अनुभवब्रुडने सिद्धमेवार्थब्रुडनम् | ननु तर्हि अनुभवार्थयोः को विशेष इत्यत आह न तु इति | असौ - अर्थः, न हि सितोत्पलमानयेत्युक्ते विशेषणीभूतः सितगुण आनेतु शक्यत इति भावः | स्वातन्त्र्याऽस्वातन्त्र्यरूप एवानयोर्भेद इति भावः | एतदवष्टंभेन कर्माऽनिर्देशस्य युक्तत्वं कथयति तदर्थमेव इति | न हि अयत्नसिद्धे वस्तुनि यत्नापेक्षेति भावः | ननु अनुभूतोऽर्थः इत्यादौ अनुभवस्याप्यर्थ विशेषणता दृश्यते एव, विशेषणविशेष्यबावो हि काल्पनिक एव सत्यम्, अयं विशेषणविशेष्यभावः बाह्यव्यवहारयोग्यः एव, बहिरर्थस्य प्राधान्यात् ज्ञानस्य तु गौणत्वात् | आन्तरे व्यवहारे तु ज्ञानस्यैव प्राधान्यमर्थस्य तु अप्राधान्यमित्यलम् | ननु तर्हि घटमनुभवामि इत्यत्र कथं कर्मनिर्देश इत्यपेक्षायाम् आह घटादिः इति | न ओराहति, बहिर्मुखत्वेन ग्रहणात्, अन्यथा इदम् शब्दायोगात् अमु घटम् इति युक्तस्तत्र प्रयोगः | हि शब्दद्योतनीयम् अस्य श्लोकस्य पूर्वश्लोकं प्रति हेतुभावं प्रकटीकरोति यस्मात् इति | पृथक् - इदन्तया | पूर्वेण - पूर्वश्लोकेन, प्राक् पदमनपेक्ष्यैव अपरार्ध इत्युक्तम् भूयसा व्यपदेशा भवन्ति इति न्यायात् | लुङा भूतकालस्य द्योतितत्वात् प्राक् इति भिन्नक्रमः, उत्तमपुरुषेण अस्मदर्थस्य अहम् इत्यपि | आरोहणम् इति, रुहिरिति अणिजन्तः णिजन्तोपि [रुहिरपि णिजन्तोऽपि - K. ष्. ष्.] || ४ || ननु क एवमाह - अनुभवः पृथक् न भाति इति, घटवत् न भाति इति चेत् किं ततः ? घटोऽपि हि न अनुभवसख्यः [अनुभवभङ्ग्या - K. ष्. ष्.] भाति इति ऽप्राक्ऽ शब्दस्य पूर्वार्धे योजने हेतुमाह लुङा इति | लुङा - लुङिति प्रत्ययेन द्योतितत्वात् इति, लुङ् इति सूत्रमाहात्म्यादिति भावः | समुच्चयेन अहम् इति शब्दस्यापि भिन्नक्रमत्वमेव कथयति उत्तम इति | उत्तमपुरुषेण - मिपा, अस्मदर्थस्य - अहम् इत्यस्य, द्योतितत्वात् अहम् इत्यपि भिन्नक्रमो भवति अन्वभूवम् इत्यस्य कर्तृत्वेन न वर्तते इति भावः | ननु कथमेकस्य आरोहण शब्दस्य विश्रम विश्रमणा रूपमर्थद्वयमित्यपेक्षायामाह आरोहणम् इति | आरोहणशब्दस्य अणिजन्तस्य णिजन्तस्य च विग्रहः | रुहिरिति अणिजन्तः, रुह बीजजन्मनि इति धातुः यस्य विश्रमोऽर्थ इति भावः | णिजन्तोऽपि, यस्य विश्रमणाऽर्थ इति भावः || ४ || अथ पंचमश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- पृथक् - इदन्तया, नेदं वक्तुं युक्तमिति भावः | सत्यं भाति परन्तु घटवन्न भाति इति गुरुशङ्कापूर्वं हान्यभावं स्वस्य गुरुं प्रति कथयति घटवत् इत्यादि किं ततः इत्यन्तम् | किं ततः, न कापि हानिरिति भावः | हान्यभावमेव घटेन समानन्यायत्वमाश्रित्य कथयति घटोपि इति | अनुभवसख्यः - अनुभवसदृशः, अनुभववदिति यावत् | इति शब्दो हेतौ, अतः स घटः किन्न किं [भाति इति, किं न भाति - K. ष्. ष्.] न भाति ? स्वभावेन भाति इति तु उभयत्रापि समानम् | तथा हि - अतीतानागतसूक्ष्मादि यथा योगिज्ञाने विषयीभवति इति अभ्युपगतम्, तथा परचित्तमपि ऽप्रत्यस्य परचित्तज्ञानम् |ऽ (योगद. ३ पा. १९ सू.) इत्यादौ | तत्र ज्ञानवृत्तिपरिणतमेव सत्त्वं चित्तशब्देनोक्तम्, अन्यथा प्रत्ययस्य संयमविषयीकार्यत्वं कथमुच्येत् [किमुच्यते - K. ष्. ष्.] आलम्बनयोगश्च कथं शङ्कयेत भाति इत्यर्थः | शिष्यः पुनराक्षेपं करोति कीन्न इति | गुरुः अभानम् अयुक्तं ज्ञात्वा अन्यथा अर्थं करोति स्वभावेन भाति इति, घटवन्न भाति इत्यस्य अभानं नैवार्थः किन्तु स्वरूपेण भानमेवेत्यर्थः | शिष्यः स्वभावेन भानमनुभवेऽप्यारोपयति इति तु इति | इति तु - एतत्तु, स्वभावेन भानं समानं भवति, अनुभवस्यापि घटस्वभावेन अभानात् | एतदेव समर्थयितुम्पक्रमं करोति तथा हि इति | तथा हि शब्दाक्षिप्तं वस्तु प्रकटयति अतीत इति | आदि शब्देन विप्रकृष्टादेर्ग्रहणम्, अभ्युपगतम् - अङ्गीकृतम्, अतीतादिविषयीभाववत् परिचित्तमपि विषयीभवतीत्यभ्युपगतम् | कुत्राभ्युपगतमित्यपेक्षायामाह प्रत्ययस्य इति | प्रत्ययस्य - योगिज्ञानस्य, परिचित्तज्ञानम् भवति, इत्यादौ, एवमादौ पतञ्जलिसूत्रे इत्यर्थः | नन्वत्र चित्तस्य ज्ञानमुक्तं न तु ज्ञानस्येत्यत आह तत्र इति | तत्र - समनन्तरोक्ते पातञ्जलसूत्रे, ज्ञानवृत्त्याज्ञानाख्यबुद्धिवृत्तिभावेन, परिणतम् - रूपान्तरं गतम्, सत्त्वम् - बुद्धिरूपं महत्तत्त्वम् उक्तम्, न तु लोकप्रसिद्धं मनः तस्य संकल्पमात्रनिष्ठत्वेन मनःशब्देन कथनात् | अन्यथा - ज्ञानवृत्तिकथनाभावे, प्रत्ययस्य - परज्ञानस्य, संयमविषयोकार्यत्वम् - योगिप्रणिधानविषयीकरणयोग्यत्वम्, कथमुच्येत, विरोधापातात् | तथा आलम्बनयोगश्च - स्वस्वविषयसंबन्धश्च, अर्थात् तस्य चित्तस्य कथं ऽन च सालम्बनम्ऽ इति | तस्मात् परकीयमनुभवनमिव निजमपि विषयीक्रियताम् इत्याशङ्क्य दृष्टान्त एवासिद्धः इति ऽभान्तिऽ इत्यन्तेन, अभ्युपगमेन वा सिद्धत्वेऽपि प्रकृतेऽर्थे विषमः इति शेषेण दर्शयति :- योगिनामपि भासन्ते न दृशो दर्शनान्तरे | स्वसंविदेकमानास्ता भान्ति मेयपदेऽपि वा || ५ || ऽयोगिनाम्ऽ यत् एतत् ऽदर्शनान्तरम्ऽ भावनाद्युद्भवः परचित्तविषयो ज्ञानविशेषः, तत्र ऽदृशःऽ इति उपलब्धयो न भान्ति | तथा हि - सौगतानां शङ्क्येत | कुत्र इत्यपेक्षायामाह न च इति, अस्मिन् सूत्रे इत्यर्थः | अयं भावः, यदि चित्तशब्देन अस्मिन् सूत्रे मनस एवोक्तिः स्यात् तर्हि अन्यसूत्रे आलंबनविषयां शङ्का योगिनां परज्ञानं विषयसंबद्धमेव विषयीकरोत्वित्येवंरूपां न कुर्यात् | कर्णे पृष्टस्य कटिपृष्ठचालनकारित्वापातात् इति | उपसंहारं करोति तस्मात् इति | निजमपि - स्वकीयमनुभवनमपि, सामान्यप्रमात्रा विषयीक्रियताम् इति, अनुभवत्वाऽविशेषादिति भावः | दृष्टान्तः - योगिज्ञानेन परज्ञानविषयीकरणरूपः | भान्ति इत्यन्तेन - चतुर्थपादादिभूत भान्ति इतिशब्दान्तेन निषेधपरेण श्लोकखण्डेन, अभ्युपगमेन - अङ्गीकाररूपेण, शेषेण वा - मेयपदेपि वा इत्येवंरूपेण खंडेन वा | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | योगिनाम् इति | अत्र टीका :- सूत्रस्थं दर्शनान्तरे इति पदं व्याचष्टे भावना इति | भावनायाः - आत्मभावनायाः, आदिशब्दात् करणादेश्च, उद्भवः, - प्रादुर्भावो यस्य सः, परचित्तविषयः - अन्यज्ञानविषयः, ज्ञानविशेषः - अन्यज्ञानेभ्योतिशययुक्तं ज्ञानम्, तत्र - तस्मिन् ज्ञानविशेषे | दृशः इति पदं व्याचष्टे उपलब्धयः इति, ज्ञानानीति यावत् | न भानम् एव समर्थयितुमुपक्रमं करोति तथा हि इति | तथा हि शब्दाक्षिप्तं वस्तु प्रकटयति मतभेदेन सौगतानाम् तावत् स्वप्रकाशैकरूपं ज्ञानम्, तत् चेत् ज्ञानान्तरेण वेद्यम्, तर्हि यद् अस्य निजं वपुः अनन्यवेद्यतया प्रकाशनं नाम न तत्प्रकाशितं स्यात् | सांख्यानामपि पुरुषच्छायैव उपलब्धिः, पुरुषश्च असंवेद्यपर्वा इति कथं वेद्या [इति कथं वेद्यः स्यात् - K. ष्. ष्.] स्यात् | वैशेषिकाणामपि आत्मनि अभेदेन समवायि संवेदनं परगतं मनसा कथं गृह्येत अन्तःशरीरवृत्तिना, तच्छरीरान्तरनुप्रवेशे तु तस्यैव अहम् इति शरीरीकरणात् अहन्तावभासितत्वात् आत्मनो भेदो इति | सौगतानाम् - सुगतभक्तानाम्, बौद्धानामिति यावत् | स्वप्रकाशम् एकम् - केवलम्, रूपम् - स्वरूपं यस्य तादृशम्, अनन्यवेद्यतया प्रकाशनं नाम स्वप्रकाशं नामेत्यर्थः | न स्यात् इति, स्वप्रकाशत्वव्याघातापातादिति [स्वप्रकाशव्याघातापातात् - C.] भावः | पुरुषच्छायैव - बुद्धौ पुरुषप्रतिबिंब एव, उपलब्धिः - जानाख्यबुद्धिवृत्तिभीन्नं प्रकाशाख्यं फलम्, असंवेद्यपर्वा - असंवेद्यस्वरूपः, वेद्या इति उपलब्धिविशेषणम्, न हि प्रतिबिंबं बिंबविलक्षणं युक्तमिति भावः | वैशेषिकाणाम् - तार्किकाणाञ्च, समवायि - गुणत्वेन समवायवृत्त्या स्थितम्, संवेदनम् - ज्ञानम्, परगतम् - परात्मनि समवेतम्, मनसा, कीदृशेन ? अन्तःशरीरवर्तिना - शरीरान्तर्गतेन, अत्र मनसः विभुत्वाभावमेव हेतुत्वेन योजनीयम् | तच्छरीरान्तः प्रवेशे - परशरीरान्तःप्रवेशे, तस्यैव - परशरीरस्यैव, शरीरीकरणात् - स्वशरीरतया संपादनात्, अहंभावगृहीतमेव शरीरं स्वशरीरमिति भावः | तथा अहन्तावभासितत्वात् - परशरीरस्यापि अहन्तया प्रकाशितत्वात्, आत्मनः - निजात्मनः, भेदः - परात्मना सह भेदः, विगलेत् - नश्येत्, इदन्ताग्रहणमात्रस्यैव भेदत्वात्, तथा च अपसिद्धान्तापत्तिस्तेषामिति भावः | ननु वैशेषिकमते आत्मनो नित्यानुमेयत्वमिति त्वया मनसा अहम् इति प्रत्यक्षग्रहणेन भेदविगलनं प्रसञ्जितमित्यत आह नित्य इति | नित्यानुमेयत्वम् - बुद्ध्यादिलिङ्गेन सर्वदैवानुमितिविषयत्वम्, मानसप्रत्यक्षविषयत्वस्याङ्गीकारादिति विगलेत्, नित्यानुमेयत्वं तु न आत्मन उपपद्यते, ज्ञानस्य च ज्ञानान्तरवेद्यत्वेऽनवस्थानादि [अनवस्थादि - K. ष्. ष्.] उक्तम् | तस्मात् यिगिनः परचित्तवेदनावसरे इयान् प्रकाशः - एतद्देहप्रकाशसहचारी घटसुखादिप्रकाशः - इति | तत्र घटसुखादि [घटसुखादिः - K. ष्. ष्.] इदन्तया भाति, तद्गतस्तु प्रकाशोऽहम् - इत्येव स्वप्रकाशतया प्रकाशते | प्रमात्रीकृतपरदेहप्रणादिसमवभाससंस्कारात् तु तन्निष्ठाम् इदन्ताम् भावः | वैशेषिकैः स्वयमेवोक्तं दोषान्तरमप्याह ज्ञान इति | अनवस्थानादि इति, तस्याप्यन्येन ग्रहणं तस्याप्यन्येन इत्येवंरूपात् अनवास्थानात्, आदि शब्देन चक्रकादेर्ग्रहणम् | पूर्वार्धं व्याख्याय भान्ति इत्यन्तम् उत्तरार्धं व्याख्यातुमवतरणिकां करोति तस्मात् इति | तस्मात् - यतो योगिनां दर्शनान्तरे दृशो न भासन्ते, सर्वथाऽभासनञ्च अयुक्तमेव, ततः कारणात् | इयान् इति पदेनापेक्षितं वस्त्वाह एतद् इति | एतद्देहप्रकाशस्य - परदेहावच्छिन्नप्रकाशस्य, सहचारि - विषयभावेन सहचरणशीलः, घटसुखादिप्रकाशः - घटसुखादिरूपः प्रकाशो भवति | इति शब्दः प्रमेयपरिसमाप्तौ | ननु ततः किमित्यत आह तत्र इति | तत्र - तस्मिन् परचित्तज्ञाने, घटसुखादि - परज्ञानविषयीभूतं बाह्यमान्तरं वा वस्तु घटरूपं सुखरूपं वा, आदिशब्दात् सर्वं बाह्यमान्तरञ्च वस्तु, इदन्तया भाति - इदन्ताग्रहणे एव योग्यत्वात् | तद्गतस्तु - घटसुखादिविषयीभूतस्तु, प्रकाशः - अनुभवः, अहम् इत्येव स्वप्रकाशतया - स्वप्रकाशभावेन, प्रकाशते, तादृक्स्वभावत्वात् | फलतस्तु भासनापेक्षैव नास्ति सदा स्वात्मत्वेन स्थितत्वादिति भावः | तर्हि कथम् इदं परज्ञानम् इति कथयत्यसौ इत्यत आह प्रमात्रीकृत इति | प्रमात्रीकृतम् - अव्युत्पन्नत्वेन पूर्वम् अप्रमातृरूपमपि प्रमातृतया संभावितं यत् परदेहप्राणादि, तस्मिन्यः समवभासः - इदन्तया एव प्रकाशभागेऽपि मन्यमान इदं परज्ञानम् इति अभिमन्यते अविगलितस्वपरविभागो योगी | प्राप्तप्रकर्षस्तु सर्वम् आत्मत्वेन पश्यन् स्वसृष्टमेव स्वपरविभागं मन्यते [पश्यति - K. ष्. ष्.] इति ज्ञान्स्य न योगिज्ञानेन प्रकाश्यता | भवतु वा तथापि प्रकृतं [प्रकृते - K. ष्. ष्.] न एतत्समम् | तथा हि - अयमनुभवति इति परनिष्ठ एव ज्ञानम्, तस्य यः संस्कारः - पूर्वभ्रामितचक्रभ्रमणरूपः, तस्मात्, तु, अविगलित स्वपरविभागः - ईश्वरावस्थां प्राप्तः, न तु सदाशिवादिदशामधिशयानः, योगो, तन्निष्ठाम् - परदेहादिविषयाम्, इदन्ताम् - इदंभावम्, प्रकाशभागेऽपि - देहादिप्रमातृतादायिनि तदवच्छिन्ने प्रकाशांशेऽपि, इदं परज्ञानम् इति अभिमन्यते - अभिमानेन जानाति, न तु तथा संभवतीति भावः | ननु विगलितस्वपरविभागस्य योगिनः का वार्तेत्यत आह प्राप्त इति | प्राप्तप्रकर्षः - स्वपरविभागगलनेन प्राप्तातिशयो योगी तु, सर्वम् - समस्तं वेद्यराशिम्, आत्मत्वेन पश्यन् - अहम् इति ग्रहणेन, स्वपरविभागं स्वसृष्टमेव मन्यते - जानाति, तथा च न तस्यापि ज्ञानान्तरेण परज्ञानभानमिति भावः | अतश्च प्रतारकैः केनापि प्रयोगेण साधितमपि परचित्तज्ञानं दृष्ट्वा न तत्रैव निष्ठा कार्या सर्वत्र स्वात्मतादर्शनमात्रस्यैव परमयोगित्वात् तस्य पराविषयत्वात् इत्यलम् | फलितमाह इति इति | इति - अतः कारणात्, | एवमत्र वाक्यार्थः | पदार्थस्तु, स्वसंवित्, - स्वरूपभूता संवित्, एकम् - केवलम्, मानं यासां ताः, स्वप्रकाशा इत्यर्थः, ताः - दृशः, भान्ति - प्रकाशन्ते इति | मेयपदेऽपि वा इति पदं व्याचष्टे भवतु वा इति | भवतु वा इत्यनेन पक्षान्तरद्योतकस्य अपि वा इत्यस्य व्याख्या | प्रकृतम् - दृशोऽन्यदृगवेद्यत्वरूपम् आरब्धं वस्तु, एतत्समम् - योगिदृगन्तरवेद्यदृक्समम् | कुतो न समम् इत्यत आह तथा हि इति | परनिष्थः - परकर्तृकत्वावच्छिन्नः, एव, एतेन असौ अनुभवे योगिनः प्रकाशः, न तु अहमनुभवामि इति आत्मारोहेण वर्तमानः, [आत्मारोहेण, इह तु - K. ष्. ष्.] इह तु अन्वभूवम् इति अहमंशविश्रान्तिः अनालीढेदंभावैव अनुभवस्य इति युक्तमुक्तम् - यस्मात् अनुभवः पृथक् न भाति तस्मात् ऐक्यं भिन्नकालानां संविदां वेदिता इति || ५ || यद्यहंभावविश्रान्तिवशात् अनुभवः स्मृतौ पृथक् न भाति इति उच्यते, तथा परामर्शान्तरं साक्षादेव इदन्तया अनुभवं परामृशत् यदि वा इदंभावोचितघटादिविश्रान्तताम् अनुभवस्य प्रथयत् उपलब्धम्, इति मेयप्दे इत्यस्य व्याख्या, परस्य मेयत्वात्, पदे - गोचरे, परनिष्ठतयेति यावत् | तदुक्तम् :- स परो यस्तु मीयते इति | अनुभवे - परानुभवे, आत्मारोहेण - आत्मविश्रान्त्या, वर्तमानः, आत्मकर्तृकत्वावच्छिन्न इति यावत् | प्रकाशः इति भान्ति इत्यस्य व्याख्या, काकाक्षिगोलकन्यायेन तस्यात्रापि योजनात् | इह - प्रकृते, अनालोढेदंभावा - अस्पृष्टेदन्ता | प्रमेयजातमुपसंहरति इति इति | इति - अतः कारणात् | किमुक्तमित्यपेक्षायामाह यस्मात् इति | नैवं ह्यनुभवो भाति इत्यत्र श्लोके इति शेषः || ५ || अर्थ षष्ठश्लोकस्यावतरणिकां करोति यद्यहंभाव इति | अत्र टीका :- परामर्शान्तरम् - अन्वभूवम् इति परामर्शादन्यः परामर्शः सा मे दृगासीत् इत्येवंरूपः | इदन्तापरामर्शम् अनुभवस्य अत्यन्तमयुक्तम् ज्ञात्वा पक्षान्तरमाह यदि वा इति | प्रथयत् - प्रथां नयत्, उपलब्धम् - अनुभूतम्, तदनुसारेणापि किं न व्यवह्रियते इति पराभिप्रायं प्रतिक्षिपति :- स्मर्यते यद्दृगासीन्मे सेत्येवमपि [सैवमित्यपि - K. ष्. ष्.] भेदतः | तद्व्याकरणमेवास्या मया दृष्टमिति स्मृतेः || ६ || लोकस्य तावत् एवं न संवेदनम्, स हि न पृथग्भूतां दृशं कांचित् मन्यते - ऽसा दृक् मे आसीत्ऽ इत्येवम् | एवमपि [इत्येवम् | अपि तु - K. ष्. ष्.] तु यत् स्मर्यते एवं भूतमपि यत् स्मरणं कस्यचित् विवेचकंमन्यस्य, तत् स्मृतेर्व्याकरणम्, पदस्येव तदनुसारेण - तस्य परामर्शान्तरस्यानुवृत्त्या, प्रतिक्षिपति - उपन्यस्य एवं प्रति समाधत्ते | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | स्मर्यते इति | अत्र टीका :- एवम् इति सा मे दृगासीत् इत्येवंरूपम्, संवेदनम् - स्मृतिज्ञानम् | कुतो नास्तीत्यपेक्षायामाह स हि इति | सः - लोकः, पृथग्भूताम् - संबन्धित्वेन कथनात् षष्ठीद्योतितभेदभूषिताम्, एतेन भेदतः इत्यस्य व्याख्या | कांचित्, वक्ष्यमाणद्वाविंशतिभेदभिन्नज्ञानजातमध्ये एकामपीत्यर्थः | न मन्यते, अहमनुभवामि इत्यादिरूपाहमंशविश्रान्ततयैव सर्वत्र संवेदनात् इति भावः | सूत्रे स्थितामेतामेव दृशमनुकृत्य दर्शयति सा इति | एतच्चासंभवनं सूत्रस्थेन अपि इति शब्देन द्योतितम्, अपिशब्दस्य असंभवद्वस्तुसंभवद्योतकत्वात् | इति एवम् इति शब्दाभ्यां दृक्स्वरूपपरामर्शनं कृतम् | कथंचित्संभवेपित्वदिष्टं न सिद्ध्यतीत्याह एवमपि तु इति | एतेन इत्येवमपि इति व्याख्यातम् | यत्स्मर्यते इति व्याचष्टे एवंभूतम् इति | आक्षिप्तं कर्तारं दर्शयति कस्यचित् इति, मिथ्याविवेचकत्वाभिमानयुक्तस्येत्यर्थः | एतेन पूर्वार्धं गतव्याख्यम् | तथा च योजना | केनचिद्विवेचकंमन्येन कर्त्रा सा मे दृगासीत् इत्येवमपि भेदतः यत् स्मर्यते इति | प्रकृतिप्रत्ययार्थनिरुपणं काल्पनिकं विभज्य आकरणं परत्र प्रतिपादनमात्रम् | सोऽपि यदि मुलप्रतीति वेदयते [विमृशति - K. ष्. ष्.] पूर्वोक्तक्रमेण, तदा अनुभवं पृथग्भूतं न वेद, यत एव तत् राहोः शिरः इतिवत् कल्पितं भेदं मन्यते | अन्यथा स घटः इतिवत् सा दृक् इत्यत्रापि प्राक्तनं दृगन्तरम् अपेक्षणीयं स्यात् | तत् इत्यनेन हि घटस्य वा दृशो वा पूर्वानुभवविषयापत्तिः उच्यते, अन्यथा उत्तरार्धं व्याख्यातुं तत् शब्दयोजनां करोति तत् - इति | तत् - पूर्वार्धोक्तं स्मरणम्, स्मृतेर्याकरणम् इति पदं व्याचष्टे पदस्य इति | पदस्येव - कुंभकार इति पदस्येव, प्रकृतिप्रत्ययार्थनिरुपणम् - डुकृञ्प्रकृतिकाण्प्रत्ययार्थनिरूपणम् [कृञ्प्रकृतिकाण् - C.] कर्मण्यण् इति सामान्यसूत्रेण, कदाप्रकृतिकप्रत्ययार्थनिरूपणम् आतोऽनुपसर्गे इति विशेषसूत्रेण, काल्पनिकम्, न तु सहजम्, परमार्थतोऽखंडस्य पदस्यैव सोऽर्थः | तदुक्तम् :- प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता सूत्रेण इति | वि इत्युपसर्गरूपमवयवं व्याचष्टे विभज्य इति | आकरणम् इति धातुप्रत्ययसमुदायरूपमवयवं व्याचष्टे परत्र इति | प्रतिपादनमात्रम्, न तु सम्यग्बोधनम् इत्यर्थः | कुतः प्रतिपादनमात्रमित्यत आह सोपि इति | मूलप्रतीतिम् - सा मे दृगासीत् इति प्रतीतेः मूलतया स्थिताम्, अन्यथा अस्या अनुत्थानात्, वेदयते इति स्वार्थणिजन्तः, वेत्तीत्यर्थः | अनुभवम् - सा मे दृगासीत् इति स्वतो भेदेनोक्तमनुभवम् | पुनः किं वेदयते इत्यत आह तत् इति | राहोः शिरः इतिवत्, अत्र राहोः शिरोमात्ररूपत्वात् स्फुटमेव षष्ठीसूचितो भेदः यथा काल्पनिकः तथैतदपीत्यर्थः | अन्यथा - काल्पनिकभेदानङ्गीकारे, प्राक्तनम् - संस्कारतया स्थितं पूर्वकालीनम्, दृगन्तरम् - अन्यमनुभवम् अपेक्षणीयं स्यात् इति, स इति विमर्शस्यापेक्षिकत्वादिति भावः | कुत इत्यपेक्षायामाह तत् इति | ननु ततोपि किम् इत्यत आह दृक् इत्येव स्यात् | ततश्च दृक् मया दृगन्तरेण अनुभूता इति आपतेत् | तत्रापि तथात्वेऽनवस्था | ननु स्मृतेः मौलिकं किं रूपम् ? उच्यते - मया दृष्टम् इति | ननु अत्र दयितावदननलिनादिविश्रान्तं दर्शनम् उक्तम् न तु आत्मारूढम्, कर्मणि निष्ठोत्पत्तेः | स एष स्ववाचमेव न चेतयति | कर्तुः क्रियया हि आप्यं कर्म इति दृशिक्रियायाः कर्तृनिष्ठतैव | तथा च कर्तृस्थामेव ततश्च इति | आपततु ततोपि किमित्यत आह तत्रापि इति | तत्रापि - दृगन्तरेऽपि, तथात्वे - दृगन्तरापेक्षित्वे | मया इति ग्रन्थस्य योजनां कर्तुमाह ननु इति | परिहारमाह उच्यते इति | परतिज्ञामेव सफलयति मया इति | उपलक्षणं चैतत् अन्वभूवम् इत्यादेः | अस्यैव हि प्रयोगस्य दर्शनस्यात्मविश्रान्तिप्रतिपादनपरस्य आत्मदर्शनविभागकरणं सा मे दृगासीत् इति प्रयोग इति भावः | स्पष्टतयाऽस्य व्याख्या न कृता योजनं चात्र स्फुटमेवेत्यस्माभिरपि नायस्तम् | शिष्यः प्रश्नयति नन्वत्र इति | दयितावदननलिनादिविश्रान्तम्, लक्षणया विषयविश्रान्तम्, कुत इत्याह कर्मणि इति | निष्ठीत्पत्तेः - क्तप्रत्ययोत्पत्तेः, प्रत्यस्य हि विश्रान्तिस्थानप्रधानपरत्वमेवेति भावः | गुरुरुत्तरयति स एष इति | स एषः, वैययाकरण इत्यर्थः | न चेतयते - न जानाति | कां वाचमित्यपेक्षायां तद्वाक्यमनुकृत्याह कर्तुः क्रियया इति | अत्र च मलभतं कर्तुरीप्सिततमं कर्म इति सूत्रम्, अतिशयेनाप्तुमिष्टमीप्सिततमम्, तदेव प्राप्यमिति | नत्वत्र दृशिक्रियाया अपि आप्यघटादिविषयपरत्वम्, द्रष्टुरेव दर्शनेन अतिशयासादनात् न हि दयितावदनादिदर्शनेन तद्वदनादेः कोप्यतिशयः, अपि तु द्रष्टुः चैत्रस्यैव | ननु कथं दृशेः कर्तृनिष्ठतेत्यत आह तथा च इति | आहुः इति, वैययाकरणाः, यद्यपि तैर्दृशेः कर्तृस्थभावकत्वमुक्तम्, तदुक्तम् :- दृशिः कर्तृस्थभावकः रुहिः कर्तृस्थक्रियः इति, तथापि भवादयो धातवः इति सूत्रेण क्रियाया एव धात्वर्थतारूपं भावत्वमपेक्ष्य क्रियाया एव धातुवाच्यत्वमुक्तम्, तदनुरोधेनेहापि दृशेः कर्तृस्थक्रियत्वमुक्तम्, परमार्थतस्तु न क्रियैव धात्वर्थः, गडि वदनैकदेशे इत्यत्र अक्रियारूपस्य मेव दृशिक्रियामाहुः दर्शयते भृत्यान् राजा इत्यादौ | जैमिनीयैरपि ज्ञानरूपा दृशिः भावनात्मिका प्रमातृविश्रान्तैव उक्ता, केवलं प्रकटता वदनैकदेशस्यापि धात्वर्थत्वात्, अत एव तार्किकैरपि दर्शनं गुणतयैवोक्तमित्यलं प्रपञ्चेन | यच्च भावेनैव क्रियाग्रहणेऽपि सिद्धे क्रियायाः पृथगभिधानं तद्बाहुल्येन प्राधान्यापेक्षयैवेति नान्यथा भ्रमितिव्यम् | कुत्रोदाहरणे आहुरित्यपेक्षायामाह दर्शयते इति | राजा, कर्ता, भृत्यान् स्वात्मानं स्वयं दर्शयते ते च तं पश्यन्तीत्यर्थः | अयमत्र भावः | गतिबुद्धि इति सूत्रेण गतिज्ञानाद्यर्थानां धातूनां सणिचि प्रयोगे कर्तुरेव कर्मत्वमादिष्टम्, ततस्तेषां कर्मवत्कर्मणा इत्यनेनैव सिद्धमात्मनेपदम्, णेरणौ इति सूत्रेण तु यः पुनः प्रयत्न आरब्धः स कर्मस्थक्रियाणामेव कर्मवत् इत्यनेन सूत्रेण आत्मनेपदं सिद्धं न तु कर्तृस्थक्रियाणामपि इति तेषामपि यथा स्यादित्येवमर्थः | तथा च स्मरति वनगुल्मं कोकिलः स्मारयति वनगुल्म एनं स्वयमेव इत्यत्र न आत्मनेपदम्, अनाध्याने इत्यनेन पर्युदासनात् | ततश्च णिजन्तप्रयोगे आत्मनेपददर्शनेनैव अत्र कर्तृस्थक्रियत्वं दृढीभूतम्, अन्यथा राजानं पश्यन्तीत्येतन्मात्रस्यैवाभीष्टसाधकत्वात् णिजन्तोदाहरणं व्यर्थ स्यात् इति | ननु यद्यत्र कर्तुरेव प्राधान्यं तर्हि तत एव निष्ठोत्पत्तेः मया इति तृतीयया न भवितव्यम्, प्रातिपदिकार्थमात्रे प्रथमाया एव युक्तत्वात्, सत्यम्, किन्त्वार्थिकमेवात्र कर्तुः प्राधान्यं तस्यैवातिशयासादनात्, शाब्दिकं तु कर्मण एव | व्याकरणेन शब्दव्युत्पादनमात्रपरेण तत्रैव प्रत्ययो विधीयते, ग्रन्थकृता तु परमार्थविचारोऽयं कृतः, तद्विचारे तु वैययाकरणैः सह संवादो न युक्त एव, अत एव स एष इत्युदासीनतयैव तस्य दोषप्रसञ्जनम्, अन्यथा तु तेन सह युष्मत् प्रयोगेणैव संवादं कुर्यादित्यलम् | ननु तथापि जैमिनीयैः तथा हि वेद्यता नाम भावस्यैव निजं वपुः | चैत्रेण दृष्टं वेद्मीति किं ह्यत्र प्रतिभासते || इति दृशा दर्शनस्य कर्मस्थत्वमुक्तम्, तत्कथं निवार्यमित्यपेक्षायामाह जैमिनीयैरपि इति | दृशिः - दर्शनक्रिया, भावनात्मिका - भावनारूपा, सा धातोः प्रत्ययाद्वापि भावनाऽवगता सती विषयधर्मो दृष्टताख्या, अन्या संवित् वाऽस्वतन्त्रा [विषयधर्मो, दृष्टता नाम अन्या, संवित् वा स्वतन्त्रा - K. ष्. ष्.] इति अन्यत् एतत् प्रमातृविश्रान्तत्वमेव कथयितुं मया इत्युक्तम् | तेन अन्वभूवमहम्, मयानुभूतम् इति शब्दवैचित्र्यमात्रमिदम्, न तु अर्थभेदः | अन्ये तु भिन्नक्रमत्वेन योजयन्ति - दृक् आसीत् सा मे इत्येवम्, मया दृष्टम् इति च यत् स्मरणं तत् व्याकरणमस्याः इति अनन्तरोक्तान्वभूवमित्युचितपरामर्शायाः स्मृतेः इति | अपिः चार्थे || ६ || इति तन्मते भावनाया एवार्थत्वात् | प्रमातृविश्रान्ता इति, न हि क्रिया क्रियावतो भिन्नेति भावः | प्रकटता दृष्टताख्या - दर्शनक्रियाफलभूता दृष्टताख्या प्रकटता, यद्वशेन दृष्ट इति, पश्यामि इत्यनन्तरं विशेषणविशेष्यभावव्यवहार इति भावः | पक्षान्तरमाह अन्या इति | अस्वतन्त्रा - अर्थाश्रितत्वेन स्वतन्त्रतारहिता | इति शब्दः प्रमेयपरिसमाप्तौ | अन्यदेतत् इत्यनेनास्य प्रकृतोपयोगित्वाभावमाह | नन्वत्र प्रमातृविश्रान्तत्वं केन ज्ञायत इत्यत आह प्रमातृ इति | वैयधिकरण्यद्योतितो भेदस्तु समनन्तरमेव निरस्तः | फलितमाह तेन इति | तेन, उक्तोपायेनेत्यर्थः | अन्यैरन्यथाकृतां योजनां कथयति अन्ये तु इति | भिन्नक्रमत्वेन इति, दृगासीन्मे मया दृष्टम् इत्येतयोः पृथक्स्थितयोरपि समच्चयेन योजनं कृत्वेत्यर्थः | तदेव दर्शयति दृग् इति | अस्याः इति पदं व्याचष्टे अनन्तरोक्ता इति | अनन्तरोक्ता चासौ अन्वभवम् इत्युचितपरामर्शा च तस्याः, स्मृतेः इति, स्मृतिपदेन सहैव अस्याः इत्यस्य योजनं कार्यमित्यर्थः | ननु समुच्चयवाची चकारोऽत्र नास्ति इति कथं समुच्चयेन योजनं कृतमित्यत आह अपिः इति | चार्थे, च शब्दार्थभूते समुच्चये इत्यर्थः | अस्यां योजनायां च न तादृशी कष्टकल्पना इति न निरस्ता, अपि त्वङ्गीकृतैव परमतम् इत्यादि न्यायात् || ६ || ननु दृष्टमपि निर्विकल्पकेन [निर्विकल्पेन - K. ष्. ष्.] यावत् न परामृष्टं विमर्शविशेषविश्रान्त्या तावत् न स्मर्यते मार्गदृष्टमिव तृणपर्णादि विशेषेण [विशेषारूपेण - K. ष्. ष्.] रूपेण, तदिदमेव विचारणीयम्, समनन्तरभाविविकल्पकाले तद्दर्शनम् इदन्तया अवभातपूर्वं वा न वा इति, तदेतत् आशङ्क्याह :- या च पश्याम्यहमिमं घटोऽयमिति वाऽवसा | मन्यते समवेतं साप्यवसातरि दर्शनम् || ७ || इह दर्शनं यादृशं निजेन वपुषा तादृशेनैव तेन भातव्यं सर्वदा, तच्च स्वकालेऽनन्यप्रकाशम् अहम् इत्येतावता स्वरूपेण [एतावता रूपेण - K. ष्. ष्.] उचितप्रकाशम्, अथ सप्तमश्लोकस्यावतरणिकां करोति ननु दृष्टम् इति | अत्र टीका :- दृष्टमपि - अनुभूतमपि, निर्विकल्पकेन - निर्विकल्पज्ञानेन, परामृष्टम् - अवसितम्, विमर्शविशेषे या विश्रान्तिस्तस्या, तदनुपदमेव भाविना सविकल्पज्ञानेनेति शेषः, सविकल्पज्ञानस्यैव परामर्शकत्वात्, विशेषेण रूपेण न स्मर्यते इति योजना | तत् - ततः कारणात् | इदं किम् इत्यपेक्षायामाह समनन्तर इति | समनन्तरभाविविकल्पकाले - निर्विकल्पज्ञानानन्तरभाविनः सविकल्पज्ञानस्य समये, तदनुसारेणैव स्मृतिपरामर्शेऽपि दर्शनं विचारितं भवेदिति भावः | इति शब्दः प्रश्नपरिसमाप्तौ | समाप्तमपि वस्तु पुनः परामृसति तदेतत् इति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | या च इति | अत्र टीका :- तत्र प्रथमम् अपि शब्दसूचितं वस्तु कथयति इह इति | इह - भासमाने जगति, दर्शनम् - अनु वः, वपुषा - स्वरूपेण, तादृशेन, तादृशेन वपुषेत्यर्थः, तेन - दर्शनेन, भातव्यम् इति, अन्यथाभाने भ्रमरूपतापातादिति भावः | तच्च - दर्शनञ्च, अनन्यप्रकाशम् - स्वप्रकाशम्, अत एव अहम् इत्येतावता तद्विकल्पांशविचारः तावत् न कुत्रचित् अङ्गम्, भवतु [भवतु वा, किं तु - K. ष्. ष्.] वाङ्गम्, कि तु अवसायोऽपि एवंभूतः इति अपिशब्देन सूचयति | तत्र समनन्तरभाविना विकल्पेन वस्तु परामृश्यमानम् अनुभवपरामर्शमुखेन वा परामृश्यते अहमिमं पश्यामि इति वर्तमानतया, इमम् इत्यनेन च प्रत्यक्षव्यापारत्वं प्रत्यक्षायमाणत्वेन दर्शितम् | एवमेव वा परामृश्यते - घटोऽयम् इति | अत्र अयंशब्देन प्रत्यक्षायमाणत्वमुक्तम् | तत्र अन्त्ये विकल्पे दर्शनस्य स्वरूपेणोचितप्रकाशम् उचितभानमित्यर्थः | अत्र किमपि वक्तव्यं नास्तीति भावः | यत्र तु किंचिद् वक्तव्यमस्ति तदपि कथयति तत् इति | विकल्पांशविचारः - तत्समनन्तरभाविपरामर्शलेशविवेकः, अङ्गम् - उपकारकम्, न इति, अर्थस्पर्शित्वादिति भावः | भवतु वाङ्गम्, अस्तु वाङ्गमित्यर्थः, अवसायोऽपि - दर्शनविकल्पांशोपि, एवंभूतः - अनन्यप्रकाशः | नन्वेतावान् प्रपञ्चः सूत्रे न दृश्यते इत्यपेक्षायामाह अपिशब्देन इति | सूचयति, आचार्य इति शेषः, अपिशब्दस्य असंभवद्वस्तुसंभवपरत्वादिति भावः | नन्वेतेनैव दर्शनस्यापि विषयवत् इदन्तास्पदत्वमायातमित्यपेक्षायां विकल्पद्वयं करोति तत्र इति, विकल्पांशस्याङ्गत्वे सतीत्यर्थः | समनन्तरभाविना विकल्पेन, सविकल्पज्ञानेनेत्यर्थः | वस्तु - दर्शनविषयीभूतं घटादि, परामृश्यमानम् - स्वव्यापारविषयीक्रियमाणम्, अनुभवपरामर्शमुखेन - दर्शनपरामर्शद्वारेण | कथम् इत्यपेक्षायामाह अहम् इति | वर्तमानतया इति, लटो वर्तमाने प्रयोगादिति भावः | इत्थभावे तृतीया | एतदन्तर्गतस्य इमम् इत्यस्याभिधेयमाह इमम् इति | प्रत्यक्षव्यापारत्वम् - दर्शनरूपो यः प्रत्यक्षाख्यो व्यापारस्तस्य भावः, प्रत्यक्षायमाणत्वेन - प्रत्यक्षमिवाचरत्त्वेन, दर्शितम्, परमार्थतः प्रत्यक्षत्वायोगात् क्यचा निर्देशः | एवमुत्तरत्रापीत्थंभावे तृतीया | द्वितीयमपि विकल्पमाह एवमेव वा इति | ऽअयंशब्देनऽ इति, अयम् शब्दस्यापि इदम् शब्दवत् प्रत्यक्षविषये प्रयोगादिति भावः | यद्यपि इमम् इत्यनेन अयम् इत्यनेन पृथक् परामर्श एव नास्ति इति का तत्र इदन्ताशङ्का | ततश्च पारिशेष्यात् अहन्तया तस्य अत्रास्ति परामर्शः, तदभावे विकल्पस्य निमीलिताक्षेऽपि भावात् स्वयमर्थस्पर्शे सति [अर्थास्पर्शे स्फुटतम विषयपर्यंवसितः - K. ष्. ष्.] स्फुटतमविषयपर्यवसितः कथमध्यवसायो भवेत् | आद्ये तु दर्शनं परामृष्टमपि अस्मदर्थेऽन्तर्भूतम् [अस्मदर्थान्तर्भूतम् - K. ष्. ष्.] अहंभावास्पदम् च विषयस्यैव प्रत्यक्षत्वद्योतनम् तथापि तत्सन्निधेस्तद्विषयिणोऽपि तत्स्पर्शापत्तिरिति न किंचिद्विरुद्धम् | तत्र प्रथमे विकल्पे बहुवक्तव्यतां ज्ञात्वा तं तावदवस्थाप्य द्वितीयमेव प्रथमं विवेचयति तत्र इति | अन्त्ये विकल्पे - घटोयम् इत्येवंरूपे, नास्ति इति, तद्वाचकशब्दाभावात् इत्यर्थः | ननु ततः किमित्यत आह ततश्च इति | पारिशेष्यात् - परिशिष्टतया, न हि सर्वथा तस्य परामर्शाभाव एव युक्त इति भावः | ननु सोपि मास्त्वित्यत आह तदभावे इति | तदभावे - अहंपरामर्शाभावे, विकल्पस्य - विषयविकल्पस्य, निमीलिताक्षेऽपि - वस्त्वनुभूयैव शीघ्रं वस्तुकृतसुखादिना निमीलितनेत्रे पुरुषेऽपि, भावात्, निमीलितनेत्रोपि हि विकल्पकरणे समर्थो भवतीत्यतो हेतोरित्यर्थः | स्वयम्, अर्थात् तस्य विकल्पस्य, अर्थस्पर्शे सति, स्फुटतमः - सर्वधर्मग्रहणेनातिस्फुटो यो विषयः तत्र पर्यवसितः - विश्रान्तः, अध्यवसायः अर्थात्तस्य निमीलिताक्षस्य कथं भवेत्, दर्शनस्य नेत्रनिमीलनात् प्रागेवगतत्वात् पुनर्दर्शनासंभवेन यदि तदेव दर्शनं तदात्मनि निरूढं तदा कथं तदनुसार्यर्थविकल्पसाध्यः अध्यवसायः संभवेदिति संक्षेपः | उन्मीलितनेत्रस्य दर्शनसंभवेन पुनः विकल्पकृताध्यवसायसंभवान्निमीलिताक्ष इत्युक्तम् | अपिशब्दः असंभवद्वस्तुसंभवपरः | स्थापितं प्रथमं पक्षमपि विचारयति आद्ये इति | आद्ये - पश्यामि इत्येवंरूपे, परामृष्टम्, पश्यामि इति पदेनेति भावः | अस्मदर्थेऽन्तर्भूतम् - प्रकृतिप्रत्ययौ इति न्यायेन प्रत्ययार्थभूते अस्मच्छब्दार्थे ब्रुडितम्, अत एव अहंभावास्पदम् - अहंभावविषयीभूतम्, अत एव अवसातरि - अवसातृशब्द अवसातरि विश्रान्तं स्वप्रकाशमेव परामृष्टम् इति विकल्पोऽपि न बोधान्तरबोध्यतां बोधयति बोधस्य | अवसायः अवसा, समवेतम् इति अपृथग्भावमाह | अवसातरि इति, स्वतन्त्रेऽन्तर्मुखे बोधात्मनि अहन्तास्पदे इत्यर्थः | दर्शनम् इति निर्विकल्पकमनुभवनम् | उपलक्षणं चैतत् विकल्पस्मृत्यादेरपि, ज्ञानस्य ज्ञानान्तरेण परामर्शे हि अयमेव न्यायः | विकल्पयाम्यहम्, स्मराम्यहम्, विकल्पितं मया स्मृतं मया इति अहन्तारूढ्यैव विकल्पादेः अवभासात् | अत एव आत्मनोऽमी विकल्पाद्याः शक्तिविशेषाः तद्विश्रान्तशरीरत्वात् इति दर्शितम् ज्ञानस्मृत्यपोहनशक्तिमान् इत्यत्र || ७ || वाच्यभूते प्रमातरि, विश्रान्तम् - विश्रामं गतम्, अत एव स्वप्रकाशमेव परामृष्टम्, इति - अतः कारणात्, विकल्पोपि - सविकल्पज्ञानमपि, न बोधस्य - अनुभवस्य, बोधान्तरबोध्यताम् - तदन्यभूतस्वरूपभूतसविकल्पकबोधज्ञेयताम्, स्वेन बोध्यतामिति यावत्, बोधयति, तथा च का तत्रेदन्ताग्रहणशङ्केति भावः | एवं वाक्यार्थमुक्त्वा पदार्थमपि कथयति अवसायः इति | अवसा इति अवपुर्वात् स्यतेर्भावेऽङि रूपम्, अपृथग्भावम्, अयुतसिद्धत्वमित्यर्थः | स्वतन्त्रे इति, कर्तति, कर्तरि तृजुत्पादात्, बोधात्मनि - परमार्थतः अनुभवरूपे, तत्कालमवसाकर्तृत्वमात्रेणावसातृतयोक्ते इत्यर्थः | अपि शब्दः समुच्चये | कुतोऽयमेव न्याय इत्यत आह विकल्पयामि इति | अहन्तारूढ्यैव प्रकृतिप्रत्ययौ इति दृष्ट्या अहन्ताविश्रान्त्यैव | पूर्वं प्रति अस्य वस्तुनः हेतुत्वं कथयति अत एव इति | कुत्र दर्शितमित्यत आह ज्ञान इति | न चेदन्तः - कृताभासः इत्यादिश्लोकान्तभागस्थेऽस्मिन्पदे इत्यर्थः || ७ || एवमियतः प्रमेयस्य यत्फलं तदुपसंहर्तुमाह :- तन्मया दृश्यते दृष्टोऽयं स इत्यामृशत्यपि | ग्राह्यग्राहकताभिन्नावर्थौ भातः प्रमातरि || ८ || ऽतत्ऽ इति तस्मादर्थे पूर्वोक्तस्य प्रमेयस्य हेतुभावेन उपजीवनम् इह सूचयति | यत एवमुक्तम् - अनुभवस्य अर्थस्येव स्मरणात् न भेदेन अवभासः स्मृतिशक्तिश्च परमेश्वरस्यैव, तत इदमत्र परिनिष्ठितं तत्त्वम् इति | इह स्मृतिः अनुभवं क्रोडीकरोति इत्युक्तम् | अनुभवश्च द्विधा, - परामर्शभेदात् कदाचित् स्वात्मपरामर्शपूर्वकम् अनुभाव्यम् परामृशति [आमृशति - K. ष्. ष्.] यत्र अस्य अभि - अथाष्टमस्य श्लोकस्यावतरणिकां करोति एवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तत् इति | अत्र टीका :- तत् इति पदं व्याचष्टे तस्मात् इति | अस्यैव पदस्य सूचनीयं वस्तु कथयति पूर्वोक्तस्य इति | उपजीवनम् - उत्थानम् | इह हेतुमद्रूपस्यास्य श्लोकस्यार्थे पूर्वोक्तस्यार्थस्य हेतुभावमेव स्फुटं कथयति यतः इति | उक्तम् इति पूर्वमिति शेषः | किमुक्तमित्यपेक्षायामाह अनुभवस्य इति | अनुभवस्य पूर्वानुभवस्य, अर्थस्येव पूर्वार्थवत्, स्मरणाद्भेदेन - स्मृतिविषयतया, ततः - तस्मात्, परिनिष्ठितम् - स्थितिं गतम्, तत्त्वम् - परमार्थः, इति शब्दः समाप्तौ | किमित्यपेक्षायामाह इह इति | क्रोडोकरोति - स्वान्तःकरोति, अन्यथा तद्विषये विषयत्वाऽयोगादिति भावः | ननु ततः किमित्यत आह अनुभवश्च इति | अनुभवश्च - स्मृत्या क्रोडीकृतोऽनुभवश्च | तत्र प्रथमं भेदं कथयति कदाचित् इति | स्वात्मनः - अनुभवरूपस्य स्वस्य, यः परामर्शः - दृश्यते इत्यादिरूपः, सः पूर्वं यत्र तत्, अनुभाव्यम् - अनुभवविषयीभूतं घटादिकम्, परामृशति - परामर्शविषयतां नयति, प्रमात्रनुभवयोः पारमार्थिकमेकत्वमपेक्ष्यैवमुक्तम् | कुत्र परामृशतीत्यत आह यत्र इति | अभिसन्धिः - स्वस्यात्मनि संधिप्रधानता ऽमया दृश्यतेऽ इति, कदाचित् अनुभवनीयमेव प्रधानतया परामृशति यत्र अनभिसंधेरेव सहसा वस्तूपनिपातः, अर्थक्रियां प्रति आग्रहविशेषो वा ऽअयम्ऽ इति, तत्रापि च प्रकाशपरामर्शोऽस्त्येव, अन्यथा प्रकाशयोगात् | एवमुभयथानुभवे प्रत्येकं स्मृतिरपि द्वयपरामर्शमयी उदेति इति चत्वारः स्मरणभेदाः, द्वौ अनुभवभेदौ | अनुसंधानं [अनुसन्धानरूपम् - K. ष्. ष्.] प्रत्यभिज्ञानमपि विश्रान्तिरूपमनुसन्धानम्, तस्य प्रधानता - प्राधान्यम्, अभिसन्धिप्रधानत | ननु किंरुपोऽसौ परामर्श इत्यत आह मया इति | अत्रापि पूर्वोक्तः कर्तृस्थक्रियत्वादिन्यायो योजनीयः | द्वितीयं भेदमपि कथयति कदाचित् इति | अनुभवनीयमेव - अनुभवविषयं घटादिकमेव, न त्वस्मच्छब्दवाच्यं वस्त्वपि | यत्र इत्यननाक्षिप्तं स्थलद्वयं विभज्य कथयति | सहसा, इच्छां विनैवेत्यर्थः, अकस्मादिति यावत् | तत्र हि स्फुटं संभ्रमेण वस्तुमात्रपरामर्श एव भवति | पुनः कुत्रेत्यत आह अर्थ इति | अर्थक्रियां प्रति - तेन वस्तुना संपादनीयायामर्थक्रियायाम्, आग्रहविशेषः - अर्थित्वाधिक्ये तत्रापि अतिकांक्षणीयत्वेन वस्तुन एव प्राधान्यात् तत्परामर्श एव भवति | किंरूपोऽसौ परामर्श इत्यत आह अयम् इति | ननु किमत्र सर्वथैव प्रकाशपरामर्शो नास्ति इत्यत आह तत्रापि इति | तत्रापि - अयम् इति परामर्शेऽपि, अस्त्येव इति, अतिसूक्ष्मत्वेनासंचेत्यमान इति भावः | कुत इत्यपेक्षायाम् आह अन्यथा इति | प्रकाशायोगात् - विषयप्रकाशासंभवात्, तदुक्तम् :- प्रकाशोऽर्थोपरक्तोपि स्फटिकादिजडोपमः इति | स्मृतेरपि एवमेव द्वैविध्यं द्विविधानुभवप्रसन्धानेन | चातुर्विध्यं कथयति एवम् इति | प्रत्येकम् - प्रत्यनुभवम्, द्वयपरामर्शमयी - दृष्ट इति स इति चैवं रूपपरामर्शद्वयरूपा | चत्वारः इति, मया दृश्यते इत्यनुभवे दृष्टम् इति रूप एकः | अत्रैव सः इत्येवंरूपो द्वितीयः | अयम् इत्यनुभवे दृष्टः इत्येवंरूपस्तृतीयः, अत्रैव सः इत्येवंरूपश्चतुर्थः | द्वौ - दृश्यते अयम् इतिस्वरूपौ | सर्वे चैते षड् भदाः संपन्नाः | एतदुभयमेलनात्मकम् अत्रैवान्तर्भूतम् | तच्च एतद्भेदात् अष्टधा, पूर्वापरविश्रान्तिकृतात् प्रत्येकं द्विधाभेदाच्च षोडशधा | तदेते द्वाविंशतिः संवेदनभेदाः | तेषु च ग्राह्यं तावत् प्रकाशात् अबहिर्भूतम्, अन्यथा प्रकाशनायोगात्, बहिर्भूतं च तत्, अन्यथार्थत्वासंभवात्, न च तत एव, तदैव, तदेवा - एतवदष्टम्भेन प्रत्यभिज्ञानां षोडशकमपि साधयति अनुसंधानम् इति | अनुसंधानम् - स्मृतानुभतयोरेकीकरणरूपम्, प्रत्यभिज्ञानम् - प्रत्यभिज्ञा, एतदुभयमेलनात्मकम् - प्रोक्तानुभवस्मरणपरामर्शमेलनरूपम्, अत्रैव - भेदषट्के एव | तच्च - प्रत्यभिज्ञानं च, एतेषाम् - अनुभवयोः स्मृतीनाञ्च, भेदात् अष्टधा - अष्टप्रकारं भवति अनुभवभेदद्वयेन सह स्मृतिभेदचतुष्कस्याऽनुसंधाने स्फुटमष्टधाभावोत्पादात् | पुनः तत्प्रत्यभिज्ञानं षोडशधा भवति इति संबन्धः | कदाचिद्धि प्रत्यभिज्ञाने पूर्वकालावच्छिन्नतैव वस्तुनः प्रधानम्, कदाचिदपरकालावच्छिन्नतैव | एतेषां संवेदनभेदानामेकत्र संकलनां करोति तदेते इति | ननु ततः किमित्यत आह तेषु च इति | तेषु - द्वाविंशतिभेदेषु च, ग्रह्यम् - अनुभाव्यस्मर्यमाणप्रत्यभिज्ञेयतया स्थितो विषयः | कुत इत्यपेक्षायामाह अन्यथा इति | अन्यथा - अबहिर्भूतत्वाभावे | तदुक्तम् :- बुद्धश्च बोधभेदेन भवेन्न व्यवहारभाक् | व्यतिरिक्तस्य बुद्धत्वे सर्वं बुद्धं न किं भवेत् || इति | तत् - संवेदनद्वाविंशतिकम्, अर्थत्वासंभवात् - विषयत्वासंभवात् | ननु तर्हि उभयरूपमेव तद् भवत्वित्यत आह न च इति | तर्हि किं कार्यमित्यत पृथग्भूतं अत्र पृथग्भूतं च भवति इति नूनमन्यः कल्पितप्रकाशात्मा कश्चित् अत्र अर्थोऽस्ति, यतोऽयम् अर्थराशिः पृथग्भवन् अन्योन्यमपि प्ठक्ताम् अधिगच्छेत, अन्यथा प्रकाशाभिन्नानां परस्परमपि कथङ्कारं पृथग्भावो भवेत् | सोऽयं वेद्यैकदेश एव, विच्छिन्न एव, अनुज्झितवेद्यभाव एव, अहम् इति विच्छेदशून्यप्रकाशोचितेन [विच्छेदशून्योचितेन - K. ष्. ष्.] परामर्शेन परामृश्यमानो मायाप्रमाता इति वक्ष्यते ऽदेहे बुद्धौऽ .........| (१|६| ४) इत्यत्र | स च ग्राहक इति उच्यते | एवं सममेव स्वात्मनि निर्मलमकुरस्थानीये [विमलमकुरस्थानीये - K. ष्. ष्.] आह इति इति | इति - अतः कारणात्, नूनम् - निश्चयेन, कल्पितः - देहादिभावेन कल्पनया संभावितः यः प्रकाशः - तदवच्छिन्नः प्रकाशांशः, स आत्मा यस्य तादृशः अर्थः, प्रमेयतया स्थितः, शुद्धप्रकाशं प्रति वेद्यत्वात् | यतः - यस्मात्, अर्थराशिः अयम् - अनुभूयमानः | अधिगमनाभावे दोषमाह अन्यथा इति | प्रकाशाभिन्नानाम् - प्रकाशान्तर्गतानां पदार्थानाम् | ननु सोऽर्थः कोऽस्तीत्यत आह सोयम् इति | वेद्यैकदेश एव - वेद्यराशिमध्ये एक रूपत्वात्तद्भाग एव, न तु वेदकरूपः, वेदकाभासत्वात्, तथा, विच्छीन्न एव घटादिवत् अपोहनशक्त्या परमप्रकाशात् पृथग्भूतं एव, अहम् इति परामर्शेन इति संबन्धः | कीदृशेन अहम् इति परामर्शेन ? विच्छेदशून्यो यः प्रकाशः तत्रोचितेन, तस्यैव परमार्थतोऽहंविषयत्वात् | कुत्र वक्ष्यते इत्यत आह देहे इति | एतस्यैव ग्राहकत्वं कथयति, स च इति | ग्राहकश्च अनुभवितृस्मर्तृप्रत्यभिज्ञातृत्वेन त्रिरूपो ज्ञेयः | उपसंहारं करोति एवम् इति | सममेव, यत् युगलकं स्वस्मात् प्रकाशरूपात् अव्यतिरिक्तम् अवभासयति परमेश्वरः तदेव एतत् भगवतो ज्ञानकर्तृत्वं स्मरणकर्तृत्वं ज्ञानशक्तिस्मृतिशक्तिरूपम् उच्यते इति तात्पर्यार्थः | अक्षरार्थस्तु - मया दृश्यते इति, अयम् इति च यत् आमृशति प्रमाता प्रकाशरूपो येन अनुभवति इति उच्यते, तत आमर्शनात् एतत् लक्ष्यते, ग्राह्यरूपेण ग्राहकरूपेण योजितौ घटादिदेहादिस्वभावौ अर्थौ वेद्यौ प्रमातरि विशुद्धप्रकाशरूपे भातः प्रकाशेते | एवं दृष्टः इति स इति च यत् परामृशति प्रकाशरूपः प्रमाता, यतोऽसौ स्मरति इति व्यपदेश्यः, ततोऽपि एतदेव लक्ष्यते | अनुभवरूपोपजीवित्वं पूर्वोक्तं द्रढयितुं प्रसङ्गात् अत्र ज्ञानशक्तेरपि न तु क्रमेण, ग्राह्यग्राहकयोर्भिन्नकालत्वेन संबन्धो न स्यादिति भावः | निर्मलमकुरस्थानीये - प्रतिबिंबसहिष्णुत्वेन निर्मलदर्पणसदृशे, युगलकम् - ग्राह्यग्राहकद्वयम्, तदेव - भासनमेव, तात्पर्यार्थः - वाक्यार्थः | पदार्थकथनं प्रतिजानीते अक्षरार्थस्तु इति | प्रकाशरूपः प्रमाता इति संबन्धः, येन - येनामर्शनेन, ततः - तस्मात् लक्षणात्, लक्ष्यते - ज्ञायते योजितौ - संबद्धतां गतौ | एवमनुभवस्थले योजनां कृत्वा स्मृतिस्थले योजनां करोति एवम् इति | लक्ष्यते इत्यस्यानन्तरं ग्राह्य इत्यादि प्रकाशते इत्यन्तं वाक्यकदंबकं स्वयमेव योजनीयम् | प्रत्यभिज्ञास्थलयोजनं चानेनैव गतम्, अनुभवस्मृतिमेलनमात्ररूपत्वात्, तथा च सूत्रे प्रत्यभिज्ञायाः पृथगदर्शनमेव | ननु स्मृतिसमर्थनसमये किमिति ज्ञानस्यापि किंचिन्मात्रं निर्णयः कृत इत्यत आह अनुभव इति | अनुभवरूपोपजीवित्वम् - अनुभवसापेक्षत्वम्, [अनुभवसापेक्षित्वम् - C.] प्रसङ्गात्, न तु क्रमानुरोधात्, अत्र - स्मृतिसमर्थनसमये, उन्मीलनम् - विकासनम्, विवेक इति यावत् | ननु तर्हि ज्ञानस्मृत्यपोहनशक्तिमान् इत्यत्र प्रथमोद्दिष्टत्वेन स्मृतिप्राणप्रदत्वेन च ज्येष्ठत्वादस्या एव प्रथमं समर्थनं किन्न कृतमिति चेत्, उन्मलिनं कृतम् | लक्षणे शत्रादेशः | अपिशब्दश्चार्थे | अर्थशब्दो विच्छिन्नवेद्यवाची | ग्राहको मायीयः कल्पितः प्रमाता अशुद्धप्रकाशस्वभावः इति शिवम् | आदितः श्लो. || ३१ || इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्रविमर्शि - न्यां प्रथमे ज्ञानाधिकारे स्मृतिशक्तिनिरूपणं नाम चतुर्थमाह्निकम् || ४ || सत्यम्, किन्तु यतः स्मृतिरेवानुसंधानप्राणत्वेनाभीष्टस्यानुसंधातृरूपस्यात्मतत्त्वस्य अ साधनी, ज्ञानशक्तिस्तु तद्द्वारेणेत्ययुक्तत्वेऽपि शिष्यसमाश्वासनार्थं प्रथमं स्मृतेरेव समर्थनं कृतम् | तत्प्रसंगेन च तदुपयोगिनी ज्ञानशक्तिरपि उन्मीलितैवेति सर्वं निरवद्यमेव | आमृशति इत्यत्र स्थितस्य शतृप्रत्यस्य वाच्यमाह लक्षणे इति | ग्राह्यग्राहकताभिन्नयोरर्थयोः भानं प्रति प्रकृत्यर्थस्य लक्षणताद्योतनात्, अत एव समनन्तरं द्विवारं लक्ष्यते इत्युक्तम् | अपि शब्दार्थमाह चार्थे इति | चार्थे, समुच्चये इत्यर्थः अर्थ शब्दवाच्यमाह अर्थ इति | विच्छिन्नम् - अपोहनशक्त्या प्रकाशाद् भावराशेश्च भिन्नीकृतम् यद्वेद्यं तद्वाची | ग्राहक पदार्थमाह मायोयः इति | कीदृशः प्रमाता ? अशुद्धप्रकाशः स्वभावः - स्वापोहनशक्त्या विच्छिन्नीभूय स्वरूपम्, यस्य तादृशः | इति शब्दः समाप्तौ, शिव पदं मङ्गलवाचकम् परतत्त्वसूचकञ्च | इति शिवम् || ८ || इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां भास्कर्याख्यायां ज्ञानाधिकारे चतुर्थमाह्निकं समाप्तम् || अथ पञ्चममाह्निकम् | महागुहान्तर्निर्मग्नभावजातप्रकाशकः | ज्ञानशक्तिप्रदीपेन यः सदा तं स्तुमः शिवम् || अथ पञ्चममाह्निकम् | स्वरूपगृहमध्यान्तर्भावभाण्डप्रकाशकम् | प्रज्वाल्य दीपं ज्ञानाख्यं स्वप्रकाशं शिवं स्तुमः || अथ ज्ञानाधिकारे पञ्चमाह्निकव्याख्याया निर्विघ्नपरिसमाप्तये प्रचयगमनाय च शिष्यप्रवृत्त्यर्थं सकलाह्निकतात्पर्यसूचकं मङ्गलप्रतिपादकं च श्लोकमुपनिबध्नाति महा इति | अत्र टीका :- वयं तं शिवं स्तुमः | तं कम् ? यः शिवः सदा - नित्यम्, न तु कदाचिदेव प्रयोजनादिवशेन | तदुक्तम् :- सदा सृष्टिविनोदाय सदा स्थितिसुखासिने | सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः || इति | ज्ञानशक्तिरेव - उक्तवक्ष्यमाणरूपा ज्ञानाख्या शक्तिरेव, प्रदीपः तेन कृत्वा, महागुहायाम् - अपरिच्छिन्नदुरवगाहनिजस्वरूपरूपायां महत्यां गुहायाम्, अन्तः मध्ये, निर्मग्नम् - न चेदन्तः कृतेत्यत्रोक्तन्यायेन ब्रुडितं यद् भावजातम् - भावराशिः, तस्य प्रकाशकः - अपोहनशक्त्या विच्छिन्नीकृत्य बहिर्गतत्वेन भासको भवति | अन्योपि गुहान्तर्गतानि वस्तूनि दीपेन प्रकाशयतीति ध्वनिः | एतेनात्र ज्ञानशक्तिरेव समर्थनीयेति सूच्यते | एवं तावत् स्मृतिशक्तेः स्वरूपं प्रतिपादितम्, अधुना तदुपजीवनीयज्ञानशक्तिपरमार्थनिर्णयं [तदुपजीवनीयज्ञानशक्तिपरामर्शनिर्णयं - K. ष्. ष्.] वितत्य, ऽवर्तमानावभासानाम्ऽ इत्यादिकया ऽसक्रमं प्रतिभासतेऽ इत्यन्तया श्लोकैकविंशत्या निरूपयति | तत्राद्येन श्लोकेन वस्तुनि प्रतिज्ञां करोति एवंभूता ज्ञानशक्तिः इति | ततः श्लोकद्वयेन प्रकाश एवार्थानां स्वरूपम् इत्याह | ततो द्वयेन प्रकाशबाह्यानामर्थानां सद्भावं विज्ञानवाद्युपगतवासनादूषणेन [विज्ञानवादोपगत - K. ष्. ष्.] दृढीकृतम् आशङ्क्य, तृतीयेन तदनभ्युपगमेऽपि तावत् न किञ्चित् उपरुध्यत इति दर्शयति | अथ श्लोकेन स्वदर्शनेऽर्थतत्त्वम् उपदर्शयन् बाह्यार्थसद्भावे प्रत्यक्षं पराकरोति [निराकरोति - K. ष्. ष्.] प्रमाणत्वेन | ततो द्वयेन अनुमेयतामपि बाह्यस्य निरस्यति | अनन्तरं श्लोकेन चिदात्मनि अर्थानाम् अवश्यं सद्भावः परामर्शात्मना इति प्रकटयति | ततोऽपि एवं मङ्गलं संपाद्याह्निकाभिप्रायं समस्तव्यस्तत्वाभ्यां कथयति एवम् इति | अत्र टीका :- ऽप्रतिपादितम्ऽ इति, पूर्वाह्निके इत्यर्थः | उपजीवनीया - अपेक्षणीया या ज्ञानशक्तिः तस्याः यः परमार्थः - सहजं स्वरूपं तस्य निर्णयम् | सामस्त्येनोक्त्वा व्यस्तत्वेनापि कथयति तत्र इति | तत्र, श्लोकैकविंशतिमध्ये इत्यर्थः | वस्तुनि - ज्ञानशक्तिनिरूपणरूपे, प्रतिज्ञास्वरूपमेव दर्शयति एवम् इति | ततः - प्रतिज्ञानन्तरम्, विज्ञानवादिभिः - विज्ञानवादिभिः बौद्धैः, उपगता - अङ्गीकृता, या वासना - भावसंस्कारः, तस्याः दूषणेण | तदनभ्युपगमेऽपि - पदार्थानभ्युपगमेऽपि, नोपरुध्यते - न प्रतिबध्यते, साधनीयोर्थो न व्याहन्यते इति यावत् | अर्थतत्त्वम् - पदार्थानां सहजं स्वरूपम्, प्रमाणत्वेन पराकरोति, प्रमाणं नास्तीत्येवमित्यर्थः | अनुमेयताम् - अनुमानगम्यताम्, बाह्यस्य, बहिःस्थस्य भावराशेरित्यर्थः | प्रकाशस्य प्रमातृरूपस्य प्रत्यवमर्श एव जीवितम् इति श्लोकचतुष्टयेन अनुभवागमन्यायस्वरूपनिरूपणाभिः अभिधत्ते | अनन्तरं ज्ञानपरामर्श एव ज्ञेयं शुद्धं प्रमातृरूपतानुज्झितं च प्रथयति इति तस्यैव प्रधानत्वे न्यायं श्लोकत्रयेणाह | प्रकाशैकरूपत्वे च ज्ञानज्ञात्रादि भिन्नम् इति श्लोकेनाह | ततो ज्ञातरि इव विशुद्धे ज्ञानेऽपि अविकल्पकसविकल्पकरूपे विमर्श एव प्राणितम् इति श्लोकद्वयेनाह | ततो ज्ञातुर्ज्ञानस्य च पूर्वपक्षे दूषितं यत् भिन्नत्वं तत् उपसंहारदिशा श्लोकेन समर्थयते इति तात्पर्यम् आह्निकस्य | श्लोकार्थस्तु निरूप्यते | ननु स्मरणविकल्पादीनाम् अनुभव एव जीवितम्, तत्र यदि भेदेन आभासान्तेऽर्थाः, तत् तेष्वपि तथैव अवभास उचितः, नो चेत् अन्यथा, तदनुभव एव तावत् ज्ञानशक्तिरूपो विचारणीय इत्याशयेनाह :- परामर्शात्मना - परामर्शस्वरूपेण, न तु स्थूलतया, प्रत्यवमर्श एव - परामर्श एव, अनुभवश्चागमश्च न्यायश्च स्वरूपनिरूपणा [निरूपणाश्र भाति - C.] च ताभिः, तस्यैव - ज्ञानपरामर्शस्यैव, न्यायम् - युक्तिम् | ज्ञान इति, आदि शब्देन ज्ञेयग्रहणम् | श्लोकार्थनिरूपणं प्रतिजानीते श्लोकार्थ इति | ननु स्मृतिरेव किं निर्णीता, किमिति च तदुपजीवनीया ज्ञानशक्तिर्न निर्णीता इति शिष्यव्याकोपमाशङ्क्य तत्समाश्वासनार्थमवतरणिकां करोति ननु इति | अत्र टीका :- अनुभव एव - निर्विकल्पज्ञानमेव, तत्र - अनुभवे, तेष्वपि - स्मरणविकल्पादिष्वपि, तथैव - भेदेनैव, नो चेत् इति, अनुभवेऽर्थाः यदि भेदेन न भासन्ते इत्यर्थः | अन्यथा इति, तदा तेष्वपि अभेदेनैवावभास उचित इत्यर्थः | फलितमाह तत् इति | तत्, तस्मादित्यर्थः | एवमवतरणिकां कृत्वा प्रथमं श्लोकमुपन्यस्य व्याचष्टे | वर्तमान इति | वर्तमानावभासानां भावानामवभासनम् | अन्तःस्थितवतामेव घटते बहिरात्मना || १ || वर्तमानत्वेन स्फुटतया अवभासनम् इदमित्येवमाकारं येषां तेषाम्, यदेतत् बहिरात्मना कल्पितमायीयशून्यादिशरीरान्तप्रमातृपृथग्भावेन हेतुना, भिन्नानाम् ततो मायाप्रमातुः विच्छिन्नानाम् ऽअवभासनम्ऽ तत् अत्र टीका :- वर्तमान इत्यादिसुत्रस्थसमासपदविग्रहं करोति वर्तमान इति | भावप्रधाननिर्देशमाश्रित्य वर्तमानत्वेन इति विग्रहः | अस्य लक्ष्यार्थमाह स्फुटतया इति | अग्रस्थत्वकृतेन सर्वधर्माभासग्रहणरूपेण स्फुटत्वेनेत्यर्थः | अवभासनमेव स्वरूपेणानुकृत्याह इदम् इति, येषां तेषाम् इत्यनेन विगृहीतानां समसनम् | यदेतत् इति करिष्यमाणतच्छब्दाध्याहारापेक्षम्, यत्तच्छब्दाभ्यां योजितं वाक्यं हि सम्यक् स्फुटीभवति बहिरात्मना इति पदं व्याचष्टे कल्पित इति | कल्पिताः - ग्राह्यग्राहकभावान्यथानुपपत्त्या कल्पनया साधिता ये मायीयाः - भेदप्राणत्वेन [भेदप्रमाणत्वेन - C.] मायाकार्याः शून्यादयः शरीरान्ताः य प्रमातारः तेभ्यः, न तु परप्रमातुः, यः पृथग्भावः - तैरेव कल्पितः स्वस्मात् भेदः तेन | हेतुना एतेन बहिरात्मना इति सूत्रस्थपदस्य हेतौ तृतीयेति द्योतितम्, युक्तत्वनाध्याहृतं भिन्नानाम् इति व्याचष्टे ततः इति | भावानाम् इति स्थाने भिन्नानामिति प्रशस्तः पाठः, विशेष्यतया स्थितस्य भावानामित्यस्य विशेषणवशेनैवाक्षेपसिद्धेः | परमार्थप्रमातरि शुद्धचिन्मये ऽअन्तःस्थितवताम्ऽ तेन सह ऐकात्म्यम् अनुज्झितवतामेव ऽघटतेऽ प्रमाणेन उपपद्यते, तेन अनुज्झितसंविदभेदस्य भावस्य कल्पितप्रमात्रपेक्षया भेदेन प्रकाशनं भगवतो ज्ञानशक्तिरित्युक्तं भवति || १ || प्रमाणेनोपपद्यते इत्युक्तं तत् प्रमाणं दर्शयति :- अथवा भावशब्देनैव भिन्नत्वमाक्षिप्तम् | तत् - अवभासनम्, अर्थात् परमार्थप्रमातरि शुद्धचिन्मये | अन्तः स्थितवताम् इति पदं व्याचष्टे तेन इति | तेन सह - शुद्धचिन्मयेन परमार्थप्रमात्रा सह, ऐकात्म्यम् - अभेदम्, घटते इति पदं व्याचष्टे प्रमाण इति | प्रमाणेन - वक्ष्यमाणेन केवलव्यतिरेक्यनुमानेन | फलितां वस्तुप्रतिज्ञामनुकृत्याह तेन इति | एतेनार्थीयं प्रतिज्ञा न श्रौतीति दर्शितम् | अत्र चायमभिप्रायः | परमार्थतः स्वरूपतया स्थितेषु स्वावयवभूतेषु भावेष्वहमिति ग्रहणयोग्येष्वपि मायावशेन स्वतः भेदेन यदिदमिति भासनं तत्तत्रैवावयवतया स्थितानामेव सतां भवति, न ततः च्युतानाम्, यथा मृन्मयस्य घटस्य मृन्मयत्वेन स्थितस्यैव घटतया ग्रहणम्, न हि मृदो निर्गतो घटःकिमपि भवति, मृत्सत्तयैव सतायुक्तत्वात्, इति तदन्तःस्थितत्वं तदभिन्नतामात्रमेव [तदन्तः स्थितत्वं च तदभिन्न - C.] न तु तदन्तराधेयत्वेनावस्थानं मृद्भावेन हि स्थितो घटः मृदन्तस्थ उच्यते, न तु तदाधारत्वेन स्थितः, तद्बहिःस्थितत्वं तु ततो भिन्नत्वमेव, मृदो भिन्नो जलतरङ्गो मृदा बाह्य इत्युच्यते | अतश्च चिदंतःस्थितस्य भावराशेः चिन्मयत्वमेव तदन्तःस्थितत्वम् न तु स्वप्रधानतया तत्रावस्थानम्, ततो बहिःस्थत्वं च मायावशेनेदन्तया ततो भेदेन भासनम्, न तु ततो निर्गत्य कुत्रापि देशेऽवस्थानमिति तद्वहिरवस्थानं मायाकार्यमेव | तदुक्तम् :- एतदन्धकारं यद् भावेषु प्रकाशमानतया स्वात्मानतिरिक्तेष्वपि इत्यादि | प्रागीवार्थोऽप्रकाशः स्यात्प्रकाशात्मतया विना | न च प्रकाशो भिन्नः स्यादात्मार्थस्य प्रकाशता || २ || अर्थो नीलादिः, तस्य नीलादिरूपतैव यदि प्रकाशमानता न पुनः सापरा [न पुनरपरा कांचित् - K. ष्. ष्.] काचित् अर्थशरीरोत्तीर्णा प्रकाशात्मता तर्हि यथा सर्वान् प्रति नीलमेव तत्संभावनया भण्यते, न कंचित् वा प्रति, वस्तुतो वा स्वात्मन्येव तत् नीलं परस्य परनिष्ठत्वानुपपत्तेः [परनिष्ठतानुपपत्तेः - K. ष्. ष्.] स्वात्मनि वा न नीलम् न अनीलम् प्रकाशानुग्रहेण विना व्यवस्थानायोगात् | तथा प्रकाशमानतापि अस्य अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति प्रमाणेन इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | प्राक् इति | अत्र टीका :- सूत्रस्थमर्थशब्दं व्याचष्टे नीलादिः इति | आदिशब्देन सर्वस्य नीलव्यतिरिक्तस्य बाह्यस्य सुखादेरान्तरस्य च भावजातस्य ग्रहणम् | वाक्यार्थमाह तस्य इति | तस्य - नीलादेः, नीलादिरूपतैव - नीलादिस्वभावतैव, यदि प्रकाशमानता - ग्रहणसमये स्थितं प्रकाशते इत्येवंरूपं प्रकाशकर्तृत्वं भवति | पुनः - पक्षान्तरे, सा - प्रकाशमानता, अपरा - नीलादिरूपताया अन्या, अत एव अर्थशरीरोत्तिर्णा - अर्थाख्यात् शरीरात् - स्वरूपात् उत्तिर्णा, प्रकाशात्मता - प्रकाशरूपता, शुद्धप्रकाअशरूपतेति यावत् | न भवति, तर्हि - तदा, तत् - नीलादिवस्तु, यथा सर्वान् प्रति - सर्वेषु प्रमातृषु, संभावनया - कल्पनया, नीलमेव लौकिकैः भण्यते, वा - पक्षान्तरे, वस्तुतः - परमार्थतः, परस्य - अन्यस्य, परनिष्ठत्वानुपपत्तः - अन्यलग्नतायोगात्, पण्डितैः तत् स्वात्मन्येव नीलं भण्यते | नानीलं भण्यते कुतः? प्रकाशानुग्रहेण - प्रकाशावष्टंभेन, विना व्यवस्थानायोगात् - व्यवस्थाया असंभवात्, प्रकाशगृहीतमेव हि वस्तु नीलादिरूपतया व्यवस्थापयितुं शक्यते, तथा - तद्वत्, प्रकाश - सर्वान् प्रति न कंचित् वा प्रति अपि तु स्वात्मन्येव, स्वात्मन्यपि वा न स्यात् इति अन्धता जगतः | अथ इन्द्रियालोकादिक्षणवर्गात् प्रकाशरूपोऽसौ नीलक्षणो विशिष्ट एव जातः, एवमपि स एव प्रसङ्गः, प्रकटतावादेऽपि अयमेव दोषः, सर्वथा मानतापि - नीलादिवद् अर्थरूपत्वनाङ्गीक्रियमाणा प्रकाशकर्तृतापि अस्य - नीलार्थस्य, सर्वान् प्रति - सभावनया सर्वेषु, स्यात्, न कंचिद्वा, वस्तुतः कस्मि/श्चिदपि न वा स्यात्, अपि तु स्वात्मन्येव ततोऽपि, परमार्थविचारे स्वात्मन्यपि वा नस्यात् इति अन्धता - अर्थग्रहणसमर्थत्वेनान्धसदृशत्वम्, जगतः - लक्षणया जगद्गतेषु प्रमातृषु स्यात्, संभावनयोक्तं सर्वान् प्रति प्रकाशमानत्वं सर्वज्ञत्वहेतुत्वमनपेक्ष्यैवमुक्तम् | अयम्भावः - ग्रहणसमये भावस्य मायया भावत्वेन भासितं निजं सहजशुद्धप्रकाशाख्यं स्वरूपमेव प्रमातारं प्रति स्फुटीभवति, यतः तदा प्रमाता तद्वस्तु प्रति दिदृक्षासमये व्यापको भवति | तदुक्तम् :- दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते || इति | व्यापकीभवंश्च तद्वस्तु स्वात्मसात्करोति, तन्मयीभावासादनं च वस्तुनः शुद्धप्रकाशरूपत्वासादनमेव, प्रमातुः स्फुटं प्रकाशमात्ररूपत्वात्, एतच्च शक्तिपातं विना महतापि प्रयत्नेन दुर्ज्ञेयमेव, तस्मिंस्तु सति स्वयमेव स्फुरति अत एवोक्तम् स्वयमेवावभोत्स्यते इति, अन्यथा तु यदि तच्छद्धप्रकाशरूपतासादनं प्रकाशमानत्वं न स्यादपित्वर्थरूपतायाः नीलगुणवत् विशेषादायकमेव स्यात् तदा तस्यान्यप्रकाशानुग्रहं विना नीलवद्ग्रहणमेव न संभवेदिति | अत्र क्षणिकवादी प्रश्नयति अथ इति | असौ - नीलार्थः, विशिष्टः - ग्रहणयोग्यतारूपविशेषयुक्तः, उत्तरं कथयति एवमपि इति | स एव - पूर्वोक्त एव, अर्थशरीरोत्तीर्णप्रकाशरूपतानासादनाविशेषादिति भावः | मनसि शङ्किते मीमांसकमतेऽपि दोषमासञ्जयति प्रकटता इति | प्रकटतापि हि अर्थशरीरविश्रान्तः चेत् प्रकाशो मम अवभासते इति प्रमातृलग्नतया प्रकाशस्थितिः दुरुपपादा | प्रमाता हि तदानीम् इन्द्रियादिमयोऽर्थरूपप्रकाशस्य [इन्द्रियार्थमय - K. ष्. ष्.; अर्थरूपस्य प्रकाशस्य - K. ष्. ष्.] कारणं भवेत् बीजमिवाङ्कुरस्य | न च अङ्कुरो बीजापेक्षोऽङ्कुरात्मा, ततो यदि न प्रकाशात्मा स स्यात् [भवेत् - K. ष्. ष्.] ऽप्रागिवऽ ज्ञानोदयात् पूर्वं यथाऽसावप्रकाशः [सोऽप्रकाशः - K. ष्. ष्.] ज्ञानक्रिययार्थविषयत्वेनोत्पादितार्थशरीरोत्तीर्णा नैव भवतीति भावः | संगृह्य परमार्थं कथयति सर्वथा इति | सर्वथा - सर्वप्रकारेण, अर्थशरीरविश्रान्तः, न तु शुद्धप्रकाशरूपः, प्रकाशः - लक्षणया प्रकाशमानता, चेत् - यदि, तदा ममावभासते इति - एवम्, प्रमातृलग्नतया - षष्ठ्यन्तास्मच्छब्दवाच्यप्रमातृसंबन्धितया, प्रकाशस्य - घटसबन्धिनः प्रकाशकर्तृत्वस्य, स्थितिः - अवस्थानम्, दुरुपपादा - दुःखेनोपपादयितुं शक्या स्यात्, अन्यसंबन्धिनः अन्यसंबन्धित्वायोगात् | ननु कारणतया स्थितः प्रमाता कथं न तस्य संबन्धी स्यादित्यत आह प्रमाता इति | हि - यस्मात्, प्रमाता तदानीम् - ग्रहणसमये, इन्द्रियादिमयः - ग्रहणसापेक्षत्वेन इन्द्रियादिषु दत्तावधानतया तद्रूपोऽपि सन्, अर्थरूपप्रकाशस्य - अर्थशरीरविश्रान्ततयाङ्गीकृतस्य प्रकाशस्य, कारणं भवेत् - अवश्यं भवत्येव | किमिव कस्य ? बीजमिवाङ्कुरस्य | ननु तेनैव तस्य तत् संबन्धित्वमायातमित्यत आह न च इति | अङ्कुरः - बीजादुत्पन्नः अङ्कुरः, अङ्कुरात्मा - अङ्कुरभावं गतः सन्, बिजापेक्षः - सर्वदा बीजापेक्षायुक्तः न भवति स्वकार्यकरणे तदपेक्षारहितत्वात् | तथैवात्मनो लब्धसत्ताकः अर्थशरीरविश्रान्तः प्रकाशः भिन्नत्वेन आत्मानं नापेक्षते इत्यर्थः | प्रक्रियामुपसंहरति ततः इति | ततः - तस्मात्, सः - अर्थः, ग्रहणसमये प्रकाशात्मा - प्रकाशकर्तृताद्वारेण शुद्धप्रकाशरूपः, यदि न स्यात्, तदा प्रागिव इति पदं व्याचष्टे ज्ञानोदयात् पूर्वं यथा इति | ज्ञानोदयात् पूर्व यथा असौ - प्रकाशः तथा ज्ञानोदयेऽपि स्यात् | ननु ज्ञानम् अर्थप्रकाशरूपमेव, तत् कथं ज्ञानस्य उदयानुदययोः अर्थस्य तुल्यता स्यात् | स्यात् एतत् यदि उपपद्येत, यावता अर्थात् भिन्नं यत् ज्ञानं प्रकाशरूपम्, तत् अर्थस्य संबन्धितया कथं स्यात् | यदि तावत् अर्थः प्रकाशते इत्येवंभूतं ज्ञानस्य स्वरूपं अर्थः, अप्रकाशः स्यात्, नीलत्वाप्रकाशमानत्वयोरविशेषात्, विशेषे तु अस्मदभीष्टस्य सिद्धिरिति भावः | तदुक्तम् :- ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः | न ह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा || इति | इदं प्रमाणं च तर्करूपमेव | तथा हि - अर्थो यदि शुद्धप्रकाशव्यतिरिक्तः स्यात् तर्हि अप्रकाशः स्यात् इति व्याप्यारोपेण व्यापकारोपणमेवात्र दृश्यते | यथा यद्यत्राग्निर्नाभविष्यत् तर्हि धूमो नाभविष्यत् इत्यत्र | ननु तर्हि कथमत्रावतरणिकायामाचार्येण प्रमाणव्यवहारः कृतः ? प्रमाणमार्गशोधकत्वेनेति ब्रूमः अनेन हि शोधितो [अनेन शोधितं मार्गं हि - C.] मार्गः | अथमर्थः - शुद्धप्रकाशरूपः प्रकाशत्वादिति केवलव्यतिरेक्यनुमानमत्र प्रवर्तते प्राक्कालीनस्यास्यार्थस्यैव व्यतिरेके दृष्टान्तत्वात्, सर्वस्य अर्थराशेः पक्षीकृततत्वेनान्वयासंभवाच्चेत्यलं प्रपञ्चेन | अत्र तृतीयपादस्यावतरणिकां कर्तुं तार्किकमतं शङ्कते ननु इति | अर्थ प्रकाशरूपमेव - अर्थविषयप्रकाशस्वरूपमेव, न तु नीलवत् विशेषणतया अर्थशरीरविश्रान्तम् | ननु ततः किमित्यत आह तत् इति | तत् - ततः कारणात्, ज्ञानस्योदयानुदययोरर्थस्य - नीलद्यर्थस्य, तुल्यता स्यात् | तर्करीत्याङ्गीकरोति स्यादेतत् इति | ननु तर्ह्यस्त्वित्यत आह यदि इति | ननु कथं नोपपद्यते इत्याशङ्क्य तृतीयपादं व्याचष्टे यावता इति | यावता - यस्मात्, संबन्धितया - संबन्धिभावेन, सम्बन्धीति यावत्, इत्थंभावे तृतीया | कथं स्यात्, केन प्रकारेण स्यात् इत्यर्थः | तत्र प्रकारमुपन्यस्येष्टापत्तिमाह तत् अर्थज्ञानयोः अभेद एवायातः, अर्थस्वभावस्य ज्ञानत्वेन उक्तत्वात्, अर्थस्वभावत्वे [अर्थस्वभावत्वे च प्रकाशस्य - K. ष्. ष्.] च सति प्रकाशस्य अर्थात्मतायाम् उक्तं दूषणम् | अथ अर्थं प्रकाशयति इति ज्ञानस्य स्वरूपम्, तर्हि प्रकाशमानमर्थं करोति ज्ञानम् इति आपतिते पुनरपि स एव दोषः | कृतप्रतानश्च अयं प्रकृत्यर्थण्यर्थविवेकोमयैव भेदविदारणे [भेदवादविदारणे - K. .ष्. ष्.] इति तत एव अन्वेष्यः | तस्मात् भिन्नः प्रकाशोऽर्थस्य संबन्धी भवति इति संभावनैव नास्ति | तच्च [अतश्च - K. ष्. ष्.] इदम् उपपत्त्या आयातम् - यदि इति | कुत आयात इत्यत आह अर्थ इति | अर्थस्वभावस्य - अर्थस्वरूपस्य, ज्ञानत्वेन - ज्ञानभावेन, उक्तत्वात् इति, अनिच्छयापि इति शेषः | ननु ततः किम् इत्यत आह अर्थ इति | प्रकाशस्यार्थस्वभावत्वे सति अर्थात्मतायाम् उक्तं दूषणम् - समनन्तरमर्थात्मताविषये प्रोक्तोऽन्धतारुपो दोषः स्यात् | अथ पूर्वपक्षवादिना अभीष्टं पक्षमुपन्यस्यति अथ इति | अर्थं प्रकाशयति इति, णिसहितेन प्रकारेणेत्यर्थः, अत्रापि पुर्वोक्तमेव दूषणं प्रसञ्जयति तर्हि इति | आपतिते - विग्रहवशेन बलादायाते, प्रकाशमानं करोति इत्यत्र हि प्रकाशमानम् इति घटः प्रकाशते इत्यनेन तुल्यार्थम्, तत्र चोक्त एव दोषः, यत्तु करोतीति णिज्वाच्यं तत्रावस्थाभेदेन तदेव ज्ञानं हेतुः, न च तेनास्य प्रकाशकर्तृत्वं विनश्यति, न हि पचनात् [न हि पचनापाठको देवदत्तः पचन्निति वक्तुं शक्यः - C.] पाठको देवदत्तो पचन्निति वक्तुं शक्यः | ननु अस्य विस्तरेण विवेचनं व्याययमित्यत आह कृत इति | कृतप्रतानः - कृतविस्तारश्च, भेदविदारणे, भेदविदारणपरे ग्रन्थे इत्यर्थः | तत एव - भेदविदारणादेव | उक्तमर्थमुपसंहरति तस्मात् इति | संभावनैव नास्ति, का कथा वस्तुताया इति भावः | फलितं कथयंश्चतुर्थपादं व्याचष्टे तच्च इति | उपपत्त्या - प्रमाणेन, आयातम् - अनिच्छयापि सिद्धम् | किमित्यपक्षायामाह अर्थस्य स्वरूपं प्रकाशमानता [प्रकाशमानत्वम् - K. ष्. ष्.] प्रकाशाभिन्नत्वम् इति | प्रकाशश्च यदि घटेऽन्यः पटेऽन्यः तदा अनुसंधानस्य अयोगः, द्वयोः प्रकाशयोः स्वात्ममात्रपर्यवसानाद् इति वितत्य उपपादितं नश्येत् जनस्थितिः इत्यत्र | तस्मात् एक एव प्रकाशः एतदेव आवृत्त्या दर्शितं न च प्रकाशो भिन्नः स्यात् इति || २ || अर्थस्य इति | प्रकाशता इति पदं व्याचष्टे प्रकाशमानता इति | अत्रापि पर्यायपदमाह प्रकाशाभिन्नत्वम् इति | अकर्मकाणां कर्ता हि क्रियया सहैकत्वमेव भजति, यथा देवदत्तो भवति इत्यत्र भवनं देदत्तस्य स्वरूपमेव न तु देवदत्त ओदनं पचति इतिवत् कर्मकारकविषयक्रियाहेतुतया तिष्ठतीति | इति शब्दः श्लोकव्याख्यासमाप्तौ | अथ तृतीयपादस्यावृत्त्यार्थान्तरं वक्तुं पुनरवतरणिकां करोति प्रकाशश्च इति | उपपादितम् - समर्थितम् | कुत्रेत्यपेक्षायामाह नश्येत् इति | अवतरणिकां कृत्वा फलितकथनरीत्या तृतीयं पादमावृत्त्या व्याचष्टे तस्मात् इति | आवृत्त्या - पात्रवत् क्रमेण योजनरूपया, दर्शितम्, तृतीयपादेन इति शेषः | तदेवोपन्यस्यति न च इति | अयमत्र संक्षिप्तार्थ.ः | प्रकाशात्मतया विना - प्रकाशमानतारूपशुद्धप्रकाशाख्यानिजस्वरूपासादनद्वारागत- शुद्धप्रकाशरूपतां विना, अर्थः प्रागिव - अग्रहणकाले इव ग्रहणकालेऽपि अप्रकाशः स्यात्, प्रकाशते च अतो ज्ञायते प्रकाशान्तः स्थितस्यैव भावस्य बहिरिदन्तया भासनमस्तीति भावः | ननु प्रकाशविषयतयैवास्य भानं भवतु किं तद्रूपताकल्पनायासेनेत्यत आह न च इति | प्रकाशः भिन्नः न च स्यात्, तथा च अस्य घटसंबन्धित्वमेवायुक्तं भिन्नयोः सम्बन्धायोगादिति भवः | अतः प्रकाशोऽर्थस्यात्मा - अलौकिकं स्वरूपं भवति | ननु तत्किं प्रत्यर्थं भिन्नमथवा एकमित्यपेक्षायां तृतीयपादमावृत्त्या योजनीयम् | प्रकाशः भिन्नः न हि स्यात्, एक एव स्यादित्यर्थः, अन्यथा जनस्थितिनाशप्रसङ्गाद् व्यतिरिक्तस्य ज्ञानस्य अर्थप्रकाशरूपताम् अभ्युपगम्यापि बाधकान्तरमाह :- भिन्ने प्रकाशे चाभिन्ने सङ्करो विषयस्य तत् | प्रकाशात्मा प्रकाश्योऽर्थो ना प्रकाशश्च सिद्ध्यति || ३ || यदि अर्थात् अन्य एव ज्ञानात्मा प्रकाशः अत एव भिन्नोऽर्थतः तर्हि स्वात्मनि तस्य प्रकाशमात्ररूपत्वात् अभेद एव | तथा हि नीलस्य प्रकाशः, पीतस्य प्रकाशः इति यो नीलांशः पीतांशश्च, स न तावत् ज्ञानस्य [स तावत् ज्ञानस्य स्वरूपम् - K. ष्. ष्.] इति | तथास्मदीयं पद्यमपि :- चिदन्तःस्थानां यद्बहिरिव विभानं समुचितं ततोऽर्थानां....................चिति चिति विभागा इव यतः | मृदन्तःस्थो मृत्त्वं त्यजति न कदाचिद् घट इह तदन्तःस्थत्वं यद् भवति खलु तत्त्वं न तु भिदा || इति | अथ तृतीयस्यश्लोकस्यावतरणिकां करोति व्यातिरिक्त इति | अत्र टीका :- व्यतिरिक्तस्य - विषयितया स्थितत्वाद् भिन्नस्य, अभ्युपगम्यापि - निपुणवादितयाऽङ्गीकृत्यापि, वाधकान्तरम् - सङ्कररूपमन्यं बाधकम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भिन्ने इति | अत्र टीका :- भिन्ने प्रकाशे इति पदद्वयं व्याचष्टे यदि इति | अन्य एव - भिन्न एव, ज्ञानात्मा - ज्ञानरूपः, अत एव - अन्यत्वादेव, अर्थतः - नीलादेः सकाशात् | भिन्ने इति पदं व्याचष्टे तर्हि इति | स्वात्मनि - प्रकाशाख्ये निजस्वरूपे | अभेदमेव समर्थयितुमुपक्रमं करोति तथा हि इति | स्वरूपम् भेदवादत्यागापत्तेः | अथ विषयः, तदेवेदं विचार्यते - इह प्रकाअशबलात् नीलपीतयोः भेदोऽभ्युपगन्तव्यः, येनैव च प्रकाशेन नीलो नील एव इति उपगम्यते, तेनैव च प्रकाशेन पीतः इति कथं संगच्छताम्, नीलेन जनितः, पीतेन जनितः, तेन वा सह समानसमाग्रीक [एकसामग्रीकः - K. ष्. ष्.] इत्यादि तावत्, नात्र कस्यापि विप्रतिपत्तिरित्यर्थः | भेदवादत्यागापत्तेः इति, वैशेषिका हि भेदनिष्ठा एव, ज्ञानार्थयोश्च तैरेकस्वरूपत्वेऽङ्गीकृते स्वाभीष्टस्य भेदवादस्य तेषां त्याग एव स्यात्, तथा च अपसिद्धान्तापत्तिस्तेषां स्यादिति भावः | पक्षान्तरं शङ्कते अथ इति | नीलांशः पीताशश्च ज्ञानस्य विषयः अथ - चेद् भवतीत्येर्थः | तदेवेदम् - विषयत्वमेव | विचारमेव करोति इह इति | अभ्युपगन्तव्यः - अवश्यमङ्गीकर्तव्यः, अन्यथा तस्यासिद्धे | तेनैव प्रकाशेन पीतः पीतो भवतीति यदभ्युपगम्यते, इति - एतत्, कथं संगच्छताम् - युक्तं भवेत्, नीलज्ञानस्य पीतं प्रति पीतज्ञानस्य च नीलं प्रति व्यवस्थापकत्वाऽयोगादिति भावः | अत्र बौद्धैकदेशैः समर्थितो द्विविधो विषयविभागो न युक्त इति कथयति नीलेन इति | अयं प्रकाशः नीलेन जनितः - विषयभावेन स्थित्वोत्पादितः, अत एव नीलप्रकाशो भवति, पीतेन जनितः अतः पीतप्रकाशो भवति | वा - पक्षान्तरे, तेन सह समानसामग्रीकः - नीलेन सहैकसामग्रीयुक्तः नीलप्रकाशो भवति, एवं पीतेन सहेत्यादि | इदमत्र तात्पर्यम् | सर्वे सन्तो भावास्तावत् क्षणिकेन विज्ञानेन दत्तसत्ताकाः क्षणिका एवेति युक्तिमत्, विज्ञानस्य च क्षणिकत्वं प्रतिक्षणं प्रतिविषयं नवीनतयोत्पादात् प्रसिद्धमेव, तत्र प्रथममिन्द्रियेण क्षणिकेन उत्पन्नो ज्ञानक्षणः स्वसन्तानमारभते तद्विषयोऽर्थक्षणश्च स्वसन्तानम्, तत्र द्वितीय ज्ञानक्षणे प्रथमो ज्ञानक्षणः आरम्भकत्वन उपादानीभवति, तद्विषयस्त्वर्थंक्षणः उपादानकारणस्फूटीभावहेतुत्वेन यत् उच्यते तत् सिद्धे नीलपीतयोर्भेदे स्यात्, स एव विचार्यः | अथ नीलाकारोऽसौ तत् यदि प्रतिबिम्बबलात् तद्द्वितीयबिम्बानवभासात् अयुक्तम् | अथ अभेदः, तर्हि त्यक्तो भेदवादः, तथा करणतादिवादे [कारणतादिवादे - K. ष्. ष्.] शिखरस्थज्ञानं बहुतरनीलादिजन्यम् एकत्र पटु अन्यत्र मन्दम् इति कथं अमुमेव प्रति निमित्तकारणीभवति इति स्फुटमेव द्वितीययोः ज्ञानार्थक्षणयोः एकसामग्रीकत्वम्, ज्ञानस्य ज्ञानार्थजन्यत्वात्, अर्थस्याप्यर्थज्ञानजन्यत्वात् | यस्तूपादानसहकारिभेदः स स्तोकत्वेन अकिंचित्कर एव | यदुक्तम् :- एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः इति | तावेव प्रथमद्वितीयौ ज्ञानार्थक्षणौ एकसामग्रीकत्वेन परस्परं न व्यभिचरत इत्ययं ज्ञानक्षणोऽस्यार्थक्षणस्य संबन्धी, एवं तृतीयादिष्वपि ज्ञेयम्, प्रथमयोस्तु जन्यजनकभावेनैव व्यवस्थासिद्धिरित्यलम् | नन्वेवमेव भवतु इत्यत आह इत्यादि इति | स एव - नीलपीतयोर्भेद एव | तथा च नैतद्युक्तमिति भावः | अथ निराकारसाकारज्ञानबौद्धमतमाह अथ इति | असौ - प्रकाश एव, नीलाकारो भवति, तत एव नीलप्रकाशो भवतीत्यर्थः | अत्रापि परिहारमाह तत् इति | तत् - नीलाकारत्वम्, यदि प्रतिबिंबबलाद् भवति, तदा तद् द्वितीयबिंबानवभासात् - वस्तुरूपबिंबानवकॢप्तेः, अयुक्तं भवति, बिंबाभावे प्रतिबिंबाऽयोगात् | एतेन निराकारबौद्धमतनिरासः | साकारवादिमतमपि दूषयति अथ इति | अथाभेदः - ज्ञानाकारस्यैव स्थितत्वेन अर्थज्ञानयोरभेद एव भवति, तर्हि भवद्भिरपि भेदवादः त्यक्तः, विज्ञानवादिबौद्धवदिति शेषः अथोपायातिशयेन प्रमेयातिशयेन च ज्ञानातिशयवादिनां तार्किकाणां मतं दूषयितुमाह करण इति | करणम् - उपायः तस्य भावः, आदिशब्देन प्रमेयत्वादिकार्यग्रहणम्, तस्याः वादः तस्मिन् | ते हि एवं कथयन्तिः - एकरूपाः प्रतीतयः करणवशेनैव भिद्यन्ते, कुत्रचिद्धि किंचिदेव करणं न सर्वं सर्वत्र, तथा प्रमेयेन वा भिद्यन्ते, न हि सर्वत्र एकमेव प्रमेयम् | तत्र परिहारमाह शिखरस्थ इति | शिखरे - पर्वतशृङ्गे तिष्ठतीति तादृशस्य, युगपत्सर्वदर्शिनः पुरुषस्येत्यर्थः, यत् ज्ञानम्, भेदः प्रकाशशरीरस्य अभेदात् | तथाभूते च अन्यतरदर्शनोद्भूतेऽपि [अन्यतरदर्शनोद्बोधिते - K. ष्. ष्.] संस्कारे बलादेव अशेषस्मरणप्रसङ्ग इति भूयान् सङ्करः | स्यादेतत्, अर्थ एवास्तु, किमनेन दोषापादकेन [दोषोपपादकेन - K. ष्. ष्.] प्रकाशेन इति | अत्राह - अप्रकाशस्य प्रसिद्धिरेव न काचित्, स्वात्मनि हि नीलं यदि पीतं न किंचित् वा, तत् कीदृशम् ? बहुतरं यन्नीलं तद् आदिर्यस्य तत् बहुतरनीलादि, तेन जन्यम्, आदिशब्देन अल्पतरपीतादिग्रहणम्, एकत्र - बहुतरनिलविषये, पटु भवति, अन्यत्र - अल्पतरपीतादिविषये, मन्दं भवति इति भेदः कथं स्यात् | कुतः ? प्रकाशशरीरस्य प्रमाणत्वेन स्थितस्य प्रकाअशस्वरूपस्य, एकत्वात्, न हि तत्र उपायभूतस्य प्रमाणस्य भेदः, आदिशब्दगृहीतेन प्रमेयातिशयेन ज्ञानातिशयवादे दूरादूरस्थितवस्तुज्ञानं कथमेकत्र पटु अन्यत्र मन्दं भवेदिति स्वयं योजनीयम् | समीपस्थे हि ज्ञानं पटु भवति दूरस्थे तु तस्मिन्नेव मन्दम्, प्रमेयैकत्वादिति हेतुत्वेन स्वयं योजनीयम् | करणतावादे दोषान्तरमाह तथा इति | तथाभूते च संस्कारे - युगपत्सर्वविषयानुभवानुकूले संस्कारे च, अन्यतरदर्शनोद्भूते - तत्रानुभूतबहुवस्तुमध्यादेकतरस्य दर्शनेनोद्भूते सति बलादेवाशेषस्मरणप्रसङ्गः - तत्रानुभूतसमस्तवस्तुस्मरणप्रसङ्गः, इति - अतः कारणात्, भूयान् - अतिबहुः, सङ्करः स्यात्, स्मृतौ व्याप्तेरिति भावः, अतः कारणात्कारणतादिवादस्यापि न युक्तत्वमिति भावः | एतेन पूर्वार्धं कृतव्याख्यम् | अत्र शिष्यः प्रश्नयति स्यादेतद् इति | एतद् भवत्वित्यर्थः | किमित्यपेक्षायामाह अर्थ एव इति | दोषापादकेन - प्रोक्तसङ्करदोषान्धतादिदोषप्रसञ्जकेन | एतेन अर्थ पदरहितं तृतीयपादं तावद् अवस्थाप्य चतुर्थपादस्यावतरणिका कृता | उत्तरं वक्तुं पूर्वपादस्थ अर्थ पदसहितं चतुर्थपादं व्याचष्टे अत्राह इति | किमाहेत्यपेक्षायामाह अप्रकाशस्य इति | कुतो न सिद्धिरित्यत आह स्वात्मनि इति | स्वात्मनि - प्रकाशास्पृष्टे स्वरूपमात्रे, नीलं यदि पीतम्, वा - पक्षान्तरे, न किंचिद्वा - असद्वा, कश्चिद् ब्रूयादिति शेषः | किं दुष्येत्, अत एव ग्रन्थकृतैव अन्यत्र उक्तम् :- एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी | जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः || इति | तत् यदि प्रकाशः तदा भवति अर्थः, प्रकाशश्च असौ कथम् | यदि प्रकाशतैव घटस्य वपुः सैव पटस्य इत्यादि विश्ववपुः प्रकाशः सिद्धः || ३ || किं दुष्येत् - को दोष आयाति, न हि तन्नीलमुत्थाय नीलोहम् इति विवादं कुर्यात्, जडत्वेन मूकत्वादिति भावः | अत्र श्रीमदुत्पलदेवस्य वाक्यमुदाहरति एवम् इति | अस्य श्लोकस्य पूर्वं व्याख्या कृतेति न पुनरायस्तम् | तावत्स्थापितं तृतीयपादमिहैव व्याख्यायोग्यं व्याख्यातुं फलितकथनरीत्याऽवतरणिकां करोति तत् इति | तत् - तस्मात् कारणात् यदि प्रकाशः स्यात् तदा अर्थो भवति, सिद्ध्यतीत्यर्थः | शिष्यः पृच्छति प्रकाशश्च इति | असौ प्रकाशश्च कथं स्याद्, येन अर्थः सिद्ध्यतीति भावः | उत्तरं वक्तुम् ऽअर्थऽ पदरहितं तृतीयं पादं व्याचष्टे यदि इति | प्रकाशः तदा भवति | तदा कदा ? यदि इत्यादि भवति, इत्यादि किम् ? या घटस्य प्रकाशता वपुर्भवति सैव प्रकाशता पटवपुर्भवति | आदिशब्देन सैव सर्वस्य वपुर्भवति | प्रकाशात्मा प्रकाश्यः इति वाक्यस्याप्ययमेवार्थः | यदा प्रकाशात्मा, भावप्रधानो निर्देशः, प्रकाशात्मता, अर्थात्सर्ववेद्येषु परमार्थतया स्थिता प्रकाशरूपता, प्रकाश्यो [प्रकाशो भवति - C.] भवति न तु प्रत्येकं विषयितया स्थितः प्रकाशः तस्य तदंशत्वेन ग्राहकतया कल्पितत्वात् इति सूत्रेऽनुक्तमपि फलितं स्वाभिप्रेतं वस्तु सिद्धतया कथयति विश्ववपुः इति | इति शब्दोऽध्याहार्यः, इति विश्ववपुः - सर्वमयः, प्रकाशः सिद्धः | एवमत्र सङ्क्षपः | प्रकाशे - ज्ञाने, भिन्ने - स्वविषयाद् भिन्ने सति, तथा अभिन्ने अर्थ एव प्रकाशः [प्रकाशकः - C.] अभिन्ने च सति, विषयस्य, जातावेकवचनम् तेन विषयाणामित्यर्थः | एकस्यैव प्रकाशस्य एवंभूतक्रमाक्रमकार्यकारणभावादि- विचित्रवैश्वरूप्यप्रदर्शनसामर्थ्यरूपम् ऐश्वर्यम् इत्येतावत् [इति तावत् - K. ष्. ष्.] पर्यवसाययितव्यम् | तच्चैवं पर्यवस्यति, यदि प्रकाशस्य विचित्रभावे हेत्वन्तरम् अपाकृतम् | तत्र प्रकाशस्य अविचित्रस्य क्रमेण विचित्रता विचित्रताकारणं प्रतिबिम्बात्मकं तत्प्रतिबिम्बसजातीयं यत् तदेव नीलादिरूपं बाह्यम्, तच्च यद्यप्यनुमेयम्, तथापि सङ्करः - सङ्कीर्णता, [माहार्णता - C.] एकज्ञानेन सर्वविषयग्रहणात्, अप्रकाशः - प्रकाशरहितो विषयः न सिद्ध्यति, यतः प्रकाशात्मा अर्थः प्रकाशो भवति इति || ३ || अथ चतुर्थपंचमयोः श्लोकयोरवतरणिकां करोति एकस्यैव इति | अत्र टीका :- एकस्यैव, न तु प्रतिविषयं भिन्नत्वन स्थितत्वादनकस्य, एवंभूताः - लोके प्रसिद्धत्वाऽप्रसिद्धत्वाभ्यां स्थिताः ये क्रमाक्रमाः - क्रमाक्रमरूपाः कार्यकारणभावादयः, कार्यकारणभावः मोक्षेण महेश्वरस्य, घटादिभिः सह कुलालादेश्च, आदिशब्दाद् व्याप्यव्यापकभावादिग्रहणम्, ते एव विचित्रम् - नानाविधम्, वैश्वरूप्यम् - सर्वरूपत्वम्, तस्य यत् प्रदर्शनं तत्र यत्सामर्थ्यं तद्रूपं यस्य तादृशम् | इत्येतावत् - प्रोक्तमेतावन्मात्रम्, पर्यवसाययितव्यम् - विश्रामयितव्यम्, निश्चेयमिति यावत् | पर्यवस्यति - विश्राम्यति | एवं कथमित्यपेक्षायामाह यदि इति | हेत्वन्तरम् - स्वव्यतिरिक्तोऽन्यो हेतुः अपाकृतम् - दूरीकृतम्, अन्यथा भेदापातादिति भावः | तत्र अक्रमस्य ऽयुक्ततांऽ ज्ञात्वा क्रमेण इत्युक्तम्, विचित्रतायाः कारणम् विचित्रताकारणम्, प्रतिबिंबात्मकम् - प्रतिबिंबदायकम्, तस्य प्रतिबिंबस्य - संक्रान्तस्य भावप्रतिबिंबस्य, सजातीयम् - सदृशम्, बिंबप्रतिबिंबयोः सदृशत्वात्, बाह्यम् - बिंबभूतं बाह्यं वस्तु, बिंबं विना प्रतिबिंबाअऽयोगादिति भावः | ननु तर्ह्यनुमेयतया स्थितस्यास्य बाह्यस्य प्रत्यक्षत्वं कथं कथयसीत्याह तच्च इति | तच्च - बाह्यञ्च, यद्यप्यनुमेयम् - इदं नीलमिति प्रत्यक्षेण अध्यवसायात् अध्यवसायप्राणितत्वाच्च प्रमाणस्थितेः प्रत्यक्षव्यपदेश्यं भविष्यति | बाह्यार्थवादिकथितमिति हेत्वन्तरम् अनुमीयमानबाह्यरूप [अनुमीयमानं बाह्यरूपम् - K. ष्. ष्.] आशङ्क्यमानत्वेन दर्शयति [प्रदर्शयति - K. ष्. ष्.] :- तत्तदाकस्मिकाभासो बाह्यं चेदनुमापयेत् | न ह्यभिन्नस्य बोधस्य विचित्राभासहेतुता || ४ || न वासनाप्रबोधोऽत्र विचित्रो हेतुतामियात् | तस्यापि तत्प्रबोधस्य वैचित्र्ये किं निबन्धनम् || ५ || इह बोधः तावत् अभिन्नः, प्रकाशमात्रमेव हि अस्य परमार्थः, प्रकाशाधिकं यदि नीलस्य रूपम्, तर्हि तत् अप्रकाशरूपम् इति न प्रकाशेत | प्रतिबिंबाख्यन लिङ्गेन अवगतत्वात् अनुमितिविषयो भवति, तथापि इदं नीलम् इति प्रत्यक्षेण - प्रत्यक्षप्रमाणन, अध्यवसायात्, प्रमाणस्थितेः - प्रत्यक्षादिप्रमाणसत्तायाः, अध्यवसायप्राणितत्वाच्च, यत् प्रमाणं हि यत्र विषये यथाऽध्यवसायं जनयति तत्तत्र तथा व्यवस्थाप्यते इत्यर्थः | प्रत्यक्षव्यदेश्यम् - प्रत्यक्षेतिनामयोग्यम्, भविष्यति, येन तस्य लोके प्रत्यक्षमिति प्रसिद्धिरिति भावः | बाह्यार्थवादिभिः - बौद्धविशेषैः कथितम्, इति हेत्वन्तरम् - प्रोक्तरूपमन्यं हेतुम्, कीदृशम् ? अनुमीयमानं बाह्यरूपम् - बाह्यपदार्थस्वरूपं येन तादृशम्, आर्शङ्क्यमानत्वेन - आशङ्काकर्मत्वेन, दर्शयति, तदेवाशङ्कते इति यावत् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तत् इति | अत्र टीका :- प्रथमश्लोकस्य प्रथममुत्तरार्धमेव व्याचष्टे इह इति | अभिन्नः - भेदरहितः | कुतोऽभिन्न इत्यत आह प्रकाश इति | परमार्थः - सहजं स्वरूपम् | साकारज्ञानवादिमतं शङ्कते प्रकाश इति | प्रकाशाख्यात् स्वरूपादधिकं प्रकाशाधिकम्, अस्य - बोधस्य | परिहारमाह तर्हि इति | तत् - अथ तथा प्रकाशत्वमेव अस्य रूपम्, पीतप्रकाशः कथं स्यात् | अथापि क्रमिकनीलपीतादिप्रकाशरूपमेव तस्य स्वरूपम्, [तस्य रूपम् - K. ष्. ष्.] नीलाद्याभासशून्योऽहमिति प्रकाशः स्वापाद्यवस्थासु न स्यात् | तस्मात् प्रकाशः प्रकाश एव, अणुमात्रमपि न रूपान्तरम् अस्य अस्ति इति अभिन्नो बोधः, तस्य च अभिन्नस्य कदाचित् नीलाभासता कदाचित् पीताभासता इति ये विचित्राभासाः तत्र कारणत्वम् हि यस्मात् न उपपन्नम् हेतौ अभिन्ने कार्यभेदस्य नीलाख्यं रूपं, अप्रकाशरूपम् इति, न हि जडस्य नीलस्य प्रकाशत्वं युक्तमिति भावः | न प्रकाशेत - न हि अश्वेतः प्रासादः श्वेतते इति युक्तमिति भावः | शिष्यः शङ्कते अथ इति | तथा प्रकाशत्वम् - नीलप्रकाशभावः, स्वरूपम् इति, न स्वरूपे पर्यनुयोगो युक्त इति भावः | अत्र परिहारमाह पीत इति | स्वरूपपरिवृत्तेरयोगादिति भावः | पुनरपि शङ्कते अथ इति | तस्य - बोधस्य, स्वरूपम् | पुनरपि परिहारं कथयति नील इति | नीलाद्याभासशून्यः - अहंमात्राभासत्वेन नीलाभासरहितः, स्वापाद्यवस्थासु - सुपित्मूर्च्छाद्यवस्थासु | ननु तत्र आत्मनोप्याभासो नानुभूयते | सत्यम्, तत्र स्थितोऽप्यात्माभासः प्रकाशमात्रविषयत्वेन परामर्शानारूढत्वादसत्कल्प एव न तु परमार्थतो ऽसन् अज्ञानसाक्षितया स्थितत्वात्, अन्यथा न किंचिदवेदिषम् इत्युत्तरकालीनस्मृत्ययोगादिति भावः | तथा च न नीलाद्याभासोऽस्य [नीलाद्याभासमस्य - C.] स्वरूपमिति भावः | उपसंहारं करोति तस्मात् इति | रूपान्तरम् - नीलादिस्वरूपम् अन्यत्स्वरूपम् इति - अतः कारणात्, अभिन्नः - भेदरहितः, तस्य च अभिन्नस्य बोधस्य, कदाचित् - नीलग्रहणसमये, एवं पीतादौ, इति - एवंरूपाः, ये - आभासाः, तत्र - तेषु आभासेषु, तस्य इत्यस्य काकाक्षिवदुभयत्र योजना | कुतो नोपपन्नमित्याकाङ्क्षायामाह हेतौ इति | हेतौ - बोधाख्ये कारणे, फलितं स्वाभिप्रायमह पुर्वार्धं च व्याचष्टे तस्मात् इति | स स इति वीप्साअयां असंभवात्, तस्मात् स स विचित्रनीलपीतादिरूप आकस्मिकोऽज्ञातप्रत्यक्षसिद्धहेतुकः सन् बाह्यं विज्ञानगतप्रतिबिम्बात्मकस्वस्वभावसंपादकम् औचित्यात् [औचित्यवशात् - K. ष्. ष्.] निजरूपसदृशं क्रमोपनिपतद्रूपबहुतरभेदात्मकं ज्ञानात् सर्वथा पृथग्भूतम् अनुमापयति इति संभावयते बाह्यार्थवादी || ४ || न च अस्य इदं संभावनामात्रम्, अपि तु निश्चयपर्यवसायि एव भवति | तथा हि विज्ञानवादिना यो हेतुः वैचित्र्ये वासनाप्रबोधलक्षण उक्तः स न उपपद्यते | ऽस्मृतिजनकः संस्कारो वासनाऽ इति तावत् द्वित्वम् | एतेन् तत्तद् इत्यस्य व्याख्या | आकस्मिकः - परमार्थतः आलंबनकारकासंभवेनाकस्मादुत्पन्नः | कुतोकस्मादुत्पन्न इत्यपेक्षायां हेतुगर्भं विशेषणमाह अज्ञात इति | बाह्यम् - बाह्यवस्तु, अनुमापयति इति योजनीयम् | बाह्यं कीदृशमित्यपेक्षायां विशेषणान्याह विज्ञान इत्यादि | विज्ञाने - ग्रहणोन्मुखे अभिन्नतया प्रोक्ते बोधे, गतः - आकारत्वेन भासमानः, अतः एव प्रतिबिंबात्मकः - प्रतिबिंबरूपः यः स्वः स्वभावः तस्य संपादकम् | तथा औचित्यात् - युक्तत्वेन, निजरूपस्य - आभासाख्यस्य निजस्य स्वरूपस्य, सदृशम्, न हि प्रतिबिंबविसदृशं बिंबं युक्तमिति भावः | तथा क्रमेण उपनिपतन्तः रूपाणां ये बहुतराः - अतिबहवः भेदाः ते आत्मा यस्य तादृशम्, आभासभेदवत् बहुभेदयुक्तमिति यावत् | तथा ज्ञानात् - अभिन्नतया उक्ताद् बोधात्, पृथग्भूतम् अनुमापयति - अनुमितिं प्रति कर्तृत्वं भजन्तं प्रमातारं प्रेरयति, इति - एतत्, बाह्यार्थवादी संभावयते इति योजनीयम् | एतेन संभावनायामत्र लिङ् इति सूचितम्, णेरणौ इत्यात्मनेपदम् | एतेन प्रथमश्लोको गतव्याख्याः || ४ || ननु तर्हि इयं संभावनैवास्ति न वस्तु इत्यत आह न च इति | संभावनात्वं चात्र स्वदर्शनानुसारेणैवोक्तमिति अस्य इति पदेन सूचितम् | निश्चयपर्यवसायि - निश्चयविश्रान्तम्, निश्चितमिति यावत् | एतत् समर्थयन् द्वितीयश्लोकपूर्वार्धं व्याख्यातुमुपक्रमं करोति तथा हि इति | बासनाप्रबाधलक्षणः - प्रसिद्धम्, इह तु अनुभववैचित्र्यहेतुः [अनुभववैचित्र्ये हेतुः - K. ष्. ष्.] पर्येषणीयो वर्तते | अस्तु वा नीलाद्याभाससंपादनसामर्थ्यरूपा ज्ञानस्य योग्यतात्मिका शक्तिः वासना, तस्याश्च स्वकार्यसंपादनौन्मुख्यं प्रबोधः, ततो बोधेषु आभासवैचित्र्यम् इति | तत्रापि तु ब्रूमः - इह यद्यपि [ब्रूमः - यद्यपि - K. ष्. ष्.] आभासानां ज्ञानान्तर्वर्तिनाम् अपारमार्थिकत्वं [अपाररमार्थिकम् - K. ष्. ष्.] संवृतिसत्त्वम् उच्येतापि, तथापि यदेषां कारणं तद् वस्तुसदेव अङ्गीकार्यम् अवस्तुनः सर्वसामर्थ्यविरहितालक्षणस्य कार्यसंपादनप्राणितसामर्थ्यात्मकस्वभावानुपपत्तेः | एवं स्थिते या एता वासना आभासकारणत्वेन इष्यन्ते, तासां बोधात् यदि भिन्नं रूपम्, तच्च परमार्थसत्, तदयं शब्दान्तरप्रच्छन्नो बाह्यार्थवादप्रकार एव | अथ वासनाप्रबोधरूपः, अनुपपत्तिमेव साधयति स्मृति इति | इह - अस्मिन्विषये, अनुभववैचित्र्यहेतुः - अनुभववैचित्र्यस्योत्पादको विषयः, पर्येषणीयः विचारणीयः, तथा चान्यप्रस्तावे अन्यकथनमापतितमिति भावः | पक्षान्तरमाह अस्तु वा इति | तस्याश्च - शक्तेः, ततः - तस्मात् प्रबोधात् | अत्रापि परिहारमाह तत्रापि इति | ब्रूमः इति प्रतिज्ञां सफलयति इह इति | अपारमार्थिकत्वम् इति संवृतिसत्त्वपर्यायत्वेनोक्तम्, वस्तुसत् - परमार्थसत्, एव, न तु संवृतिसत् | कुत इत्यपेक्षायामाह अवस्तुनः इति | सर्वसामर्थ्यविरहोस्यास्तीति सर्वसामर्थ्यविरही तस्य भावः सर्वसामर्थ्यविरहिता, सा लक्षणम् - असाधारणो धर्मो यस्य तादृशस्य, कार्यसंपादनेन प्राणितः - दत्तसत्ताकः यः सामर्थ्यात्मकः - सामर्थ्यरूपः स्वभावस्तस्य अनुपपत्तेः | ननु एवं भवतु ततः किमित्यत आह एवम् इति | तच्च - रूपं च, शब्दान्तरप्रच्छन्नः - वासनाशब्देन अपूर्वेण कथनात् तेन संवृतिसत्, तर्हि तेन रूपेण कारणतानुपपत्तिः | तथा [अथ - K. ष्. ष्.] येन रूपेण आसां पारमार्थिकता तेन कारणता, तत् तर्हि ज्ञानमात्रं तच्च अभिन्नम् इति नीलाद्याभासरूपस्य कार्यभेदस्य असिद्धिः | एवं वासनानाम् अविचित्रत्वे तत्प्रबोधो विचित्र इति का प्रत्याशा | भवन्तु वा वासना भिन्नाः, तथापि बोधमात्रातिरिक्तस्य देशकालभावादेः प्रबोधकाभिमतस्य विचित्रस्य कारणस्य अभावात् प्रबोधोऽविचित्र इति एक एव प्रबोधः इति सममेव नीलादिवैचित्र्यं भासेत | अथ स्वसंतानवर्तीनि ज्ञानान्तराणि [बोधान्तराणि - K. ष्. ष्.] विचित्राणि प्रबोधकारणानि इति, तदसत्, सुखदुःखनीलपीतादिपूर्वापरादिदेश - प्रच्छादितः, तथा च अपसिद्धान्तापत्तिरिति भावः | प्रकारान्तरमाशङ्कापूर्वकत्वेन निराकरोति अथ इति | संवृतिसत् - अपारमार्थिकम्, कारणतायाः अनुपपत्तिः - अयोग्यता, समनन्तरमेवोक्तत्वादिति भावः | पुनः प्रकारान्तरं शङ्कते तथा इति | आसाम् - वासनानाम् | अनुमेयार्थवादी अत्र इष्टापत्तिमाह तत्तर्हि इति | तत् - पारमार्थिकं रूपम्, ज्ञानमात्रम् - विषयस्वरूपोत्तिर्णः शुद्धः प्रकाशः, तस्यैव सर्वसारत्वात्, तच्च - वासनापारमार्थिकरूपभूतं ज्ञानमात्रं च | ननु वासनानामेकत्वमेव भवतु, तत्प्रबोधस्य तु वैचित्र्यमेवेति तदेव बाह्यवैचित्र्यहेतुर्भवतीत्यत आह एवम् इति | अविषये प्रवृत्तत्वे प्रतिकूला आशा प्रत्याशा | वासनानां वैचित्र्यमभ्युपगम्यापि तत्प्रबोधस्य अवैचित्र्यमेव द्वितीयश्लोकस्योत्तरार्धेन व्याख्यातुं कथयति भवन्तु वा इति | अभावात् इति, अन्यथाऽद्वैतभङ्गप्रसङ्गादिति भावः | प्रबोधः - वासनाप्रबोधः, सममेव - युगपदेव | अत्र विज्ञानवादी स्फुरितं स्वाभिप्रायमाविष्करोति अथ इति | स्वसन्ताने - नीलादिज्ञानक्षणसमूहरूपे स्वे - निजे सन्ताने वर्तन्ते इति स्वसन्तानवर्तीनि, ज्ञानान्तराणि - प्रकाशाख्यादभिन्नाज्ज्ञानादन्यानि ज्ञानानि | एतदपि प्रत्याचष्टे तदसत् इति | कालभेदस्य विज्ञानमात्ररूपत्वे विज्ञानस्य च प्रकाशमात्रपरमार्थतायां स्वरूपभेदासंभवे तथा बोधवैलक्षण्यानुपपत्तेः | परप्रमातृरूपेषु बोधान्तरिषु संतानान्तरशब्दवाच्येष्वपि तुल्योऽयम् अवैलक्षण्यप्रकारः | तत्रापि परकीयाभिमतस्य कृशस्थूलादेः कायस्य, स्वासप्रश्वासादेः प्राणस्य, सुखदुःखादेः धीगुणस्य; अनुमात्रभिमतसंविन्मात्ररूपाभेदे परत्वं कस्य भवेत् इति न विद्मः | बोधस्य तन्निष्ठस्य इति चेत्, सोऽपि प्रमाणेन यदि न असत्त्वमेव साधयति सुख इति | सुखदुःखनीलपीतादयश्च, आदिशब्देन समस्तबाह्यवस्तुग्रहणम्, पूर्वापरादिरूपौ यौ देशकालौ तौ च, तेषां भेदस्य | अत्र आदिशब्देन दक्षिणादिभेदग्रहणम्, कालविषये तु चिरक्षिप्रादिग्रहणम् | विज्ञानमात्ररूपत्वे - विज्ञानाद्वैतान्यथानुपपत्त्या विज्ञानमात्रस्वरूपत्वे सति, विज्ञानस्य च प्रकाशमात्रपरमार्थतायाम् - सारभूतपरप्रकाशमात्रस्वरूपतायां सत्याम् | एतच्च परप्रसिद्ध्यैवोक्तम्, न हि बौद्धमते कुत्रापि नित्यप्रकाशसिद्धिः | तथा, अर्थात् विज्ञानस्य स्वरूपभेदाऽसंभवे सति, बोधवैलक्षण्यानुपपत्तेः, तथा च बोधानतराणीति कथनमयुक्तं तेन च वासनाप्रबोधवैचित्र्यमप्ययुक्तमेवेति भावः | ननु परप्रमातृरूपाणि विज्ञानान्येव बोधान्तराणि नैकप्रमातृगतानि तथा च न त्वदुक्तदोषप्रसङ्ग इत्याशङ्क्याह पर इति | अवैलक्षण्यप्रकारः - अभेदप्रकारः, तत्रापि बोधमात्रस्यैकत्वात् कायाद्युपाधिकृतभेदस्य अकिंचित्करत्वात् इति भावः | कथं तुल्य इत्यपेक्षायामाह तत्रापि इति | परकीयाभिमतस्य - अन्यसंबन्धित्वनाभिमतस्य, बौद्धमते गुणसमूहस्यैव गुणित्वात् कृश इत्युक्तम् | श्वास इति च धीगुणस्य इति च तार्किकप्रसिद्ध्योक्तम् | अनुमात्रभिमतम् - अनुमानकर्तृत्वेन कल्पितम्, यत् संविन्मात्रं तस्य यद्रूपं तस्मादभेदेविज्ञानमात्ररूपत्वेन भेदाभावे सति, परत्वं कस्य भवेदिति न विद्मः - जानीमः | सिद्धः तत् असन् एव, सिद्धोऽपि प्रमेयतया चेत् तत् जड एव, तथापि च कायादिवत् एव ज्ञानमात्रस्वभावः स्वसंविन्मात्ररूपत्वे परं प्रति अस्य असिद्धेः | ननु व्याहारादिक्रिया स्वात्मनि इच्छया व्याहरेयम् इत्येवं रूपया हेतुभावेन व्याप्ता दृष्टा तत् चैत्रकायेऽपि तया तद्धेतुकया भाव्यम् | न च मत्संततिपतिता समीहा अस्ति इति स्वसंवेदनेन निश्चितम्, ततश्च परसमीहा सिद्ध्यति, तदेव संतानान्तरम् इति | पुनः शङ्कते बोधस्य इति | तन्निष्ठस्य, परकायाद्यवच्छिन्नस्येत्यर्थः | अत्रोत्तरमाह सोपि इति | सोपि - तन्निष्ठो बोधोऽपि, तथापि - जडत्वेऽपि, ज्ञानमात्रस्वभावः इति, अन्यथा विज्ञानाऽद्वैतभङ्गप्रसङ्गादिति भावः | नासौ प्रमेयतया सिद्धः अपि तु प्रमातृभावेनेत्यत्राह स्वसंविद् इति | अस्य - स्वसंविन्मात्ररूपस्य तन्निष्ठबोधस्य, असिद्धेः, न ह्यन्यसंविदन्यगोचरा इति भावः | तदुक्तम् :- आत्मा यदि भवेन्मेयः इत्यादि | अनुमानसिद्धत्वं वक्तुं प्रश्नयति ननु इति | व्याहारादिक्रिया - वचनादिरूपा क्रिया, आदिशब्देन स्पन्दादिक्रियाग्रहणम् | तत् - तस्मात्कारणात्, तया - दृश्यमानया चैत्रकायादिव्याहारक्रियया, तद्धेतुकया - इच्छाहेतुकया, भाव्यम् - अवश्यं भवनीयम्, मम व्याहारादिक्रियावदिति शेषः | नन सा इच्छापि प्रमातुरेव भवत्वित्यत आह न च इति | निश्चितम् इति, अत्र कोपि सन्देहो नास्तीति भावः | ततश्च - तस्माच्च, परसमीहा - परेच्छा, सिद्ध्यति - सिद्धिं याति, तदेव - सिद्धा परसमीहैव, न तु विज्ञानम्, सन्तानान्तरम् - समनन्तरोक्तमन्यसंबन्धिसन्तानम्, समीहानाञ्च स्फुटमेव वैचित्र्यं तेनैव च अत्रोच्यते - इह अनुमातुः व्याहाराभासो द्विधा भवति - व्याप्तिग्रहणकालेऽविच्छेदप्राणोऽहं व्याहरामि इत्येवंरूपः | अनुमानावसरे च ऽव्याहरति अयम्ऽ इति विच्छेदजीवित इरि अन्यस्य व्याप्तिः गृहीता अन्यश्च आभासः कथम् इदानीं हेतुः स्यात् ? व्याहरति इति आभासस्य हेतुः अविदित एव इति कथं ततो हेतोः समीहा अनुमीयेत ? किं च ऽव्याहरति अयम्ऽ इति यः प्रमात्रन्तरेऽनुमातृसंमते विच्छिन्नतया अवभासः सोऽनुमेयसंमतायाः परसमीहायाः कथं कार्यः स्यात् ? तस्या हि व्याहरामीत्याभासः कार्यो योऽसौ अविच्छेदजीवितः | न च अविच्छेदमयस्य विच्छेदमयः कार्यम् इति युक्तं तथाभूतकार्यकारणभावग्रहणो - वासनाप्रबोधो विदित इति भावः | अत्रापि दोषं प्रसञ्जयितुमाह अत्रोच्यते इति | प्रतिज्ञां सफलयति इह इति | इह - अस्मिन् लोके, व्याहाराभासः - व्याहाररूप आभासः | सर्वस्य भावजातस्य आभासमात्ररूपत्वात् | द्विधाभावमेव विभज्य कथयति व्याप्ति इति | अविच्छेदप्राणः - अहंविश्रान्तत्वेन स्वतो भेदरहितः | कोसावित्यत आह अहम् इति | विच्छेदजीवितः - भेदप्राणः, परनिष्ठतया स्फूर्तेरिति भावः | अन्यस्य - अविच्छेदप्राणस्य, व्याप्तिः - निजसमीहया सह व्याप्यव्यापकभावः संबन्धः, अन्यः - विच्छेदजीवितः, इदानीम् - अनुमानकाले, कथं स्यात्, न स्यादित्यर्थः | दोषान्तरमाह व्याहरति इति | अविदित एव, न हि परसमीहा कस्यापि प्रत्यक्षेति भावः | ततो हेतोः - अविदिताद्धेतोः | पुनरपि दोषान्तरमाह किञ्च इति | प्रमात्रन्तरे - व्याहर्तृरूपात्प्रमातुरन्यस्मिन् | कुतो न स्यादित्यत आह तस्या हि इति | ननु विच्छेदमयस्याभासस्य परसमीहा कार्यं मा भवतु, तस्याः कारणभूतः विच्छेदमयः आभास एव कार्यं स्यादित्यत आह तथाभूत इति | तथाभूतस्य - तथारूपस्य | कुतोभाव इत्यत आह न हि इति | कुतो न सिद्धमित्यत आह पर इति | परसिद्धिपूर्वकत्वेनापि किम् इत्यत आह पर इति | परप्रमाअतृसिद्धौ पायाभावात्, [ग्रहणोपायाभावनात् - K. ष्. ष्.] न हि स्वात्मनि योऽयम् अविच्छिन्नाभासः स परत्र विच्छिन्नं ऽव्याहरति अयम्ऽ इत्येवंरूपम् आभासं जनयति इति केनचित् प्रमाणेन सिद्धम्, परसिद्धिपूर्वकत्वात् अस्य अर्थस्य, परप्रमातृसिद्धेश्च एवं भूतार्थाधीनत्वेन [एवंभूतार्थसिद्ध्यधीनत्वेन - K. ष्. ष्.] इतरेतराश्रयात् | न च अवश्यम् अविच्छिन्नात् विच्छिन्नेन भाव्यम् इति नियमोऽस्ति व्यभिचारात् | न च विच्छिन्नोऽपि आभास उत्पद्यताम् इति तदनुसंधानात् तदुत्पत्तिः नियता तत्सद्भावेऽप्यस्यानुत्पत्तेः [तत्सद्भावेऽपि अनुत्पत्तेः - K. ष्. ष्.] हि परत्र इति कथनं युक्तं स्यात्, न च तत्सिद्धिरस्ति, एकस्य बोधमात्रस्यव स्थितत्वादिति भावः | तदुक्तम् :- परव्यवस्थापि परे यावन्नात्मीकृतः परः | तावन्न शक्यते वक्तुं यतो बुद्धः परः परः || बुद्धश्च बोधभेदेन भवेन्न व्यवहारभाक् | व्यतिरिक्तस्य बुद्धत्वे सर्वं बुद्धं न किं भवेत् || इति | इतरेतराश्रयाख्यं दोषमप्यत्र प्रसंजयति एवंभूत इति | एवंभूतः - असिद्धः योऽर्थः - पराख्यं वस्तु, तत्राधीनत्वेन - आयत्तत्वेन, इतरेतराश्र्यात्, परसिद्धौ अनुमानसिद्धिः अनुमानसिद्धौ च सन्तानान्तरसिद्ध्या परसिद्धिरिति इतरेतराश्रयाख्यो दोषः | नन्वनयोः कार्यकारणभावो मास्तु नियमस्तु स्यादेवेत्यत आह न च इति | व्यभिचारात् इति, कदाचिद्धि केवलोऽविच्छिन्न एवाभासो दृश्यते इति भावः | ननु अनुमात्रनुसंधानमात्रादेव विच्छिन्न आभासो जायते इत्यत आह न च इति | तदनुसंधानात् - अविच्छिन्नाभासाश्रयानुमातृसंबन्धिनः परामर्शात् | तदुत्पत्तिः - विच्छिन्नाभासोत्पत्तिः | कुतो न नियता इत्यत आह तत्सद्भावे इति | तत्सद्भावेपि - अविच्छिन्नाभासाश्रयानुमातृसद्भावेऽपि, अस्य - विच्छिन्नाभासस्य, स्यानुत्पत्तेः तदभावे च उत्पत्तेः, विच्छिन्न आभासः परत्र उत्पद्यताम् इति या समीहा तया सह परत्र उत्पन्नस्य विच्छिन्नाभासस्य कार्यकारणभावग्रहणमेव परासिद्धौ न युक्तम् इति व्याप्तेरेव असिद्धिः | प्रमात्रन्तराणि च यदि भिन्नानि तदा तन्निष्ठानाम् अवभासानां भेद एव ऽज्ञानादव्यतिरिक्तं चऽ इति न्यायात् | ततश्च एकाभासनिष्ठत्वाभावात् एकाभासविश्रान्तः संभूय प्रमातॄणां व्यवहारो न स्यात् इति अन्योन्यानुपरक्तं भूतग्रस्तप्रकृतिप्रायं जगत् आपद्येत | अनुमीयमानमपि च बोधान्तरम् अनुमातृसंमतात् बोधात् यदि भिन्नम्, तत् अस्ति तावत् अनुत्पत्तेः - उत्पादाभावात्, न हि परव्याहारस्य तत्रावश्यंभाव इति भावः | तद्भावे च - अनुमात्रभावे च, न हि अनुमातृसन्निधावेव परो व्याहरतीति भावः | ननु अनुमानेन एतज् ज्ञायते इत्यत आह विच्छिन्न इति | या समीहा - अनुमातुरिच्छा, व्याप्तेरेवाऽसिद्धिः इति, का कथाऽनुमास्येति भावः | प्रमात्रन्तराणामभ्युपगमं कृत्वापि विकल्पद्वयं कृत्वा अभेदपक्षे इष्टापत्तिं ज्ञात्वा भेदपक्षं प्रति दोषापादनं करोति प्रमात्रन्तराणि च इति | भिन्नानि इति, परस्परत इति भावः | तन्निष्ठानाम् - प्रमात्रन्तरगतानाम्, अवभासानाम् - अर्थाभासानाम् | कुतो भेद एवेत्यत आह ज्ञानात् इति | वस्तु ज्ञानादव्यतिरिक्तं भवति, ज्ञानेन सह एकरूपमेव भवति, ततश्च ज्ञानरूपाणां प्रमातृणां परस्परतो भेदे प्रतिप्रमातृ अर्थभेदोपि युक्त एवेति भावः | नन ततोपि किम् इत्यत आह ततश्च इति | तदेव वस्तु एकं प्रति तद्रूपम् अन्यं प्रति अतद्रूपं न किंचिद्वा स्यात् ततश्च तद्विषयो व्यवहारोपि प्रतिप्रमातृ भिन्न एव स्यादिति संक्षेपः एव स्यादिति संक्षेपः | ननु संभूय व्यवहारो माऽस्तु ततः किमित्यत आह अन्योन्य इति | अन्योन्यानुपरक्तम् - अन्योन्यम् अननुषक्तम्, आपद्येत - संपद्येत, ततश्च उन्मत्तभरितमेव जगत् स्यादिति भावः | दोषान्तरमप्यापादयति अनुमीयमानम् इति | बोधान्तरम् - परसंबन्धी बोधः | कः संभव इत्यत आह यत् इति | यत् इति भवति, संभवः - यत् प्रमेयं बोधात् भिन्नं [भिन्नं अस्ति इति - K. ष्. ष्.] भवति इति | सहोपलम्भनियमादेः अनैकान्तिकत्वात् नीलपीतादिनापि प्रमेयराशिना किम् अपकृतम्, येन अस्य स्वरूपविश्रान्तिः न सह्यते, तस्मात् प्रमात्रन्तराणामपि असिद्धिरेव, सिद्धौ वा सर्वप्रमात्रन्तर्गता आभासा एकैकत्र परत्र आभासवैचित्र्यहेतुं वासनोद्बोधवैचित्र्यं जनयेयुः नियमे हेत्वन्तराभावात् इति तथापि न नीलादिवैचित्र्यसिद्धिः | एवं वासनानां तदुद्बोधहेतूनां च विचित्राणाम् अनुपपतीरेव | ततश्च स्थितमेतत्, अभिन्नो बोधः तस्य आकस्मिकाभासभेदहेतुत्वानुपपत्तेः बाह्योऽर्थोऽनुमेयः संभाव्यते इति यदि बाह्यार्थवादिना इति किमिति ? प्रमेयं बोधाद् भिन्नं भवति, प्रमेयीभूतबोधान्तरवदिति शेषः | ननु प्रमेयस्य बोधेन सहोपलंभ एव दृश्यते इति कथं तस्य ततो भेदो युक्त इत्यत आह सहोपलंभ इति | अनैकान्तिकत्वात् - व्यभिचारात्, सुषुप्त्यादौ हि प्रमेयं विना केवलो बोध एवानुभूयते, यच्च तत्र अज्ञानस्य प्रमेयत्वं तदपि न किंचिदेवेति भावः | ननु अयं संभवोऽस्तु का हानिरित्यत आह नील इति | प्रमेयीभूतबोधवन्नीलादिरूपस्य प्रमेयस्यापि प्रमातुर्भिन्नत्वमायाति तच्च नेष्टमिति भावः | फलितमाह तस्मात् इति | सिद्धिमभ्युपगम्यापि दोषमाह सिद्धौ इति | एकैकत्र परत्र - प्रत्येकं परेषु, जनयेयुः - उत्पादयेयुः, ततश्च वासनानाम् अबोधः कदापि न संभवेदिति भावः | कुतो जनयेयुरित्यत आह नियमे इति | ननु को दोष इत्यत आह तथापि इति | वैचित्र्यं हि क्रमेण भासनम्, सर्वदा सर्ववासनाप्रबोधे तन्न संभवेदिति भावः | उपसंहारं करोति एवम् इति | फलितमाह ततश्च इति | इति शब्दः श्लोकद्वयव्याख्यासमाप्तौ | श्लोकद्वययोजनां कर्तुम् इति शब्दस्य कर्तुः क्रियायाश्चाध्याहारं करोति यदि इति | यदि इति पदेन चेत् शब्दव्याख्या | चेत् शब्दसूचनीयं वस्तु आह श्लोक इति | एतेन चेच्छब्दः भिन्नक्रमत्वेन योजनीय इति सूचितम् | उच्यते इति श्लोकद्वयार्थः | चेच्छब्दः श्लोकद्वयवाक्यार्थशङ्काद्योतकः | एवम् आशङ्क्यमानत्वेन परसंभावना दृढा दर्शिता || ५ || अधुना तु एनां संभावनां शिथिलयितुं तावदाह :- स्यादेतदवभासेषु तेष्वेवावसिते सति | व्यवहारे किमन्येन बाह्ये नानुपपत्तिना || ६ || ऽस्यादेतत्ऽ इति पूर्वोक्तसंभावनाभ्युपगमे यदा व्याख्यायते तदा किं - तथा चैवमत्र योजना | बाह्यार्थवादिना कर्त्रा इति कर्म चेदुच्यते, इति किमिति ? तत्तत् इत्यादि | श्लोकद्वयाभिप्रायं संक्षेपेण उपसंहरति एवम् इति | परसंभावना - विज्ञानवादिबौद्धं प्रति बाह्यार्थानुमेयत्ववादिबौद्धसंभावना, आशङ्क्यमानत्वेन - दर्शिताशङ्काविषयत्वेन, दर्शिता, इत्थंभावे तृतीया || ५ || अथ षष्ठश्लोकस्यावतरणिकां करोति अधुना इति | अत्र टीका :- एनाम् - वाह्यार्थवादिकथिताम्, श्लोकद्वये तद्वाचा संभावितामिति यावत् शिथिलयितुम् - तर्केण शिथिलीकर्तुम्, न तु सम्यग् दूरीकर्तुम्, तत्र प्रमाणस्यैव व्यापारात् | तावत् इत्येनेन प्रमाणेनाप्येतां दूरीकरिष्याम एवेति द्योतितम् | एवमवतरणिकां कृत्वा श्लोकमपन्यस्य व्याचष्टे | स्यादेतत् इति | अत्र टीका :- स्यदेतत् इत्यस्य द्विधा व्याख्यां करोति | पूर्वोक्ता - समनन्तरश्लोकद्वयोक्ता, या संभावना - बाह्यार्थसंभावना, तस्या अभ्युपगमे - अङ्गीकारे, यदा व्याख्यायते - व्याख्याविषयतां नीयते, किन्त्विति वाक्यशेषेण किन्तु तु इति वाक्यशेषेण तच्छैथिल्यविषयं संभावनान्तरं शेषश्लोकेन दर्श्यते इति व्याख्येयम् | यदि तु अध्याहारो न सह्यते तदा स्यादेतदिति इदमपि संभावनान्तरं स्यात्, यदनेन श्लोकेन उच्यते इति एकवाक्यतया योज्यम् | अनयापि कष्टकल्पनया बाह्यान् अर्थान् प्रसाधयता भवता तैः न किंचित् कर्तव्यम्, आभासैरेव तैः भवता अभ्युपगतैः व्यवहारसिद्धेः, न हि नित्यानुमेयेन कश्चित् व्यवहार इति किं बाह्येन, यत्र साधकं च नास्ति प्रमाणम्, बाधकं च प्रकाशात् भेदे अनुमेयतयापि प्रकाशनाभाव इति इति वाक्यशेषं कृत्वेत्यर्थः | तच्छैथिल्यविषयम् - पूर्वोक्तसंभावनाशिथिलताविषयम्, तद्द्योतकमिति यावत् | संभावनान्तरम् - बाह्यानुपपत्तिरूपा अन्या संभावना, शेषश्लोकेन - अवभासेषु इत्यादिना श्लोकशेषेण, दर्श्यत - ज्ञानप्रत्येयतां नीयते, इति व्याख्येयम्, अर्थात् शेषतया नीतस्य किन्तु इत्यस्य व्याख्या कार्या इत्यर्थः | अस्यैव द्वितीयां व्याख्यां कर्तुमाह यदि तु इति | स्यादेतत् इति पदम् एकवाक्यतया योज्यम् इति | संबन्धः | कथम् ? इति, इति किमिति ? इदमपि संभावनान्तरं स्यात्, इदम् किम् ? अनेन श्लोकेन - अवभासेषु इत्यादिना श्लोकशेषेण, यदुच्यते, एतच्छब्दाकाङ्क्षा श्लोकेन पूरणीयेत्यर्थः | शेषश्लोकं व्याचष्टे अनया इति | अनया - अनुमानरूपया, तैः - बाह्यैः | कुतो न कर्तव्यमित्यत आह आभासैः इति | तैः - अर्थप्रतिबिंबतया कल्पितैः | ननु ते मद्दर्शने न सन्तीत्यत आह भवता इति | व्यवहारसिद्धेः इति, यादृशो यक्षस्तादृशो बलिः इति नीत्याश्रयणेन आभासरूपस्य व्यवहारस्य आभासरूपैरेवार्थैः सिद्धिर्युक्तेति भावः | ननु तथापि तैरपि कथं व्यवहार इत्यपेक्षायां द्वितीयं हेतुमाह न हि इति | फलितमाह इति इति | इति अतः कारणात्, बाह्येन किं भवति, व्यर्थत्वान्न किंचिदित्यर्थः | बाह्येन केन ? यत्र - यस्मिन् बाह्ये, साधकं च प्रमाणं नास्ति, बाधकं च तावत् इति - एवम्, मुख्यं भवति - प्रधानं भवति, साक्षाद्वाधकत्वात् | इति किमिति ? प्रकाशाद् तावत् मुख्यम् | अभ्युच्चयबाधकास्तु अवयविनो वृत्त्यनुपपत्तिः, समवाया सिद्धिः, कम्पाकम्पावरणानावरणरक्तारक्तदिग्भागभेदादिविरुद्धधर्मयोगः | भेदे सति अनुमेयतयाऽपि प्रकाशनाभावः | तावच्छब्दप्रयोगयोग्यतां स्फुटीकर्तुं गौणान् बाधकानप्याह अभ्युच्चय इति | अभ्युच्चयेन - अन्वाचयेन, प्रसङ्गेनेति यावत्, बाधकाः | अत एव गौणत्वमेषाम्, पूर्वं साक्षात् बाह्यबाधकम्, एते प्रसङ्गेनैव बाधकाः इति | तु शब्दो यथाशब्दार्थे, तान्दर्शयिष्यामित्यर्थः | बाधकानेव दर्शयति अवयविनः इति | अवयविनः - पटादिरूपस्य, अर्थादवयवेषु तन्त्वादिषु अनुपपत्तिः - स्थित्ययोगः अवयविनो बाधिका | तथा हि, अवयवी सर्वेष्ववयवेषु तिष्ठति एकत्र वा, यदि सर्वेषु, तत्रापि किं सामस्त्येन व्यस्तत्वेन वा, सामस्त्येन स्थितौ अवयवेष्वेव अवयविव्यवहारसिद्धौ अवयविकल्पना व्यर्था, व्यस्तत्वेन तु एकत्र अवयविसमाप्तेः अन्येषु कः तिष्ठेत् | यद्येकत्र इति पक्षः तदा अन्यषामनवयवत्वप्रसङ्गः, अवयव्याश्रित एव ह्यवयवो भवति | समवायासिद्धिः इति, अवयवेषु समवायेन अवयवी तिष्ठतीति तु सुप्रसिद्धम् | समवायस्तत्र केन तिष्ठति संयोगस्यासंभवात्, समवायेनेति चेत् सोऽपि केनेत्यनवस्थाऽऽपातः | अथवा सन्निवेशेन तेष्वेव तन्तुषु समवायकल्पनया समवायस्य परमार्थतो ऽसिद्धिरेव | कंपाकंप इति, पदादेर्हि एकत्र पार्श्वे चाल्यमाने कंपः अन्यत्र अकंपः, तच्च तस्यैकत्वे न युज्यते | एवमावरणानावरणादौ ज्ञेयम् | दिग्भागेन कृतः भेदः - पूर्वापरादिरूपः, दिग्भागभेदः अणुसंचयबाह्यवादेऽपि संचयस्य अन्यस्य अभावे परमाणव [अणव एव - K. ष्. ष्.] एव, ते च यदि संयुज्यन्ते निरन्तरतया तत् अवश्यं दिग्भागभेदः, देवनाक्षे षट्सुदिक्षु संचीयमानेषु षट्सु अणुषु मध्यमस्य परमाणोः यत्रैव धाम्नि एको लग्नः तत्रैव यदि अपरः तत् एकपरमाणुमात्रता | अथ अन्यत्र एकः अन्यत्र अपरः तत् एकपरमाणुमात्रता | अथ अन्यत्र एकः अन्यत्र अपरः तत् अवश्यं भागभेदापत्तिः, इति भाग एव सन्, [भाग एव परमार्थसन् - K. ष्. ष्.] तस्यापि एषैव सरणिः इति न किंचित् अवशिष्यते बाह्यं तत्त्वतः | न चैतत् वाच्यम् - मूर्तानाम् एकदेशत्वायोगात्, संयोगे भिन्नदेशत्वाव्यावृत्तेः ननु अवयवी मास्तु परमाणव एव संचीयमाना बाह्यीभवन्तीत्यत आह अणु इति | अन्यस्य - परमाणुव्यतिरिक्तस्य, परमाणव एव बाह्यं भवन्तीति योजना | ननु ततः किमित्यत आह ते च इति | ते च - परमाणवश्च, निरन्तरतया, संहततयेत्यर्थः, तत् - तदा, दिग्भागभेदः - षट्सु दिक्षु भागषट्कभेदापत्तिः, सा च भवतां नेष्टेति भावः | देवनाक्षे - क्रीडनरूपे अक्षे | ननु परमाणवो दिग्भागभेदेन [दिग्भागेन - C.] न तिष्ठन्ति, किन्तु एकस्य मध्यगस्य स्थाने लगन्ति इत्यत आह षट्सु इति | चतुष्टयमध्ये अन्तर्भवद्विदिशामग्रहणम्, तत् - तदा, एकपरमाणुमात्रता, अन्येषां तत्रैव लग्नत्वात्, तथा च सर्वपदार्थानाम् अदृश्यत्वमेवापतेत् इति भावः | प्रकारान्तरं प्रत्याह अथ इति | ननु भागभेदापत्तिरस्तु का हानिरित्यत आह इति इति | इति - अतः, भाग एव सन् स्यात्, तस्यापि - भागस्यापि, एषैव सरणिः - अयमेव मार्गः, षट्सु दिक्षु विभाग इत्यर्थः | तार्किककृतमारंभवादं प्रत्याख्यातुमाह न च इति | मूर्तानाम् - परिच्छिन्नपरिमाणत्वेन क्रियावत्वेन वा मूर्ततया अङ्गीकृतानाम् परमाणूनाम्, एकदेशत्वायोगात् - एकदेशेऽवस्थानासंभवात्, संयोगे सति भिन्नदेशत्वाऽव्यावृत्तेः - व्यावृत्तेः तन्निष्टं द्व्यणुकं नाम कार्यद्रव्यम् अणुपरिमाणम्, तेभ्यः त्रिभ्यो महत्कार्यम् इति | अवयविवादो हि अयम्, स च पूर्वमेव अपबाधितः | यच्च अव्याप्यवृत्तित्वं संयोगस्य उच्यते तन्निरंशे कथं संगच्छतां | स्वाश्रये हि यदि असौ समवैति किम् अन्यत् अस्य अवशिष्यते [अवशिष्टम् - K. ष्. ष्.] यत् न व्याप्नुयात् इति | अभ्युच्चयबाधकं च इदम् इति न अत्र अस्माभिः भरः कृतः | विस्तरेण च प्रज्ञालङ्कारे दर्शितम् आचार्यशङ्करनन्दनेन || ६ || ननु भाधकं नाम प्रमाणसिद्धे वस्तुनि न किंचित् कर्तुं समर्थम्, तेनैव दृढेन प्रमाणेन बाधकाभिमतस्य बाधितस्य अप्रमाणत्वसंपादनात् | भिन्नदेशत्वावश्यंभावात्, तन्निष्ठम् - अर्थात्परमाणुद्वयनिष्ठम्, अणुपरिमाणम् - अण्वाख्यपरिमाणयुक्तम्, द्व्यणुकं नाम कार्यद्र प्रथमं भवति, ततः तेभ्यः त्रिभ्यः - द्व्यणुकेभ्यः, महत्कार्यम् - दृश्यं त्र्यणुकाख्यं कार्यं भवति, न तु परमाणूनामेव षट्कं मिलति येनोक्तदोषप्रसङ्गः स्यादिति भावः | इति शब्दः प्रमेयपरिसमाप्तौ | कुतो न वाच्यमित्यत आह अवयवी इति | पूर्वमेव, समनन्तरमेवेत्यर्थः | परमाणुविषये द्वयणुकादिभावसंपादकस्य संयोगस्यानुपपत्तिं वक्तुं तद्गतमव्याप्यवृत्तित्वमेव प्रतिक्षिपति यच्च इति | अव्याप्यवृत्तित्वम् - स्वात्यन्ताभावसमानाधिकरणत्वम्, निरंशे - अवयवरहितपरमाणौ | कथं न संगच्छते इत्यत आह स्वाश्रये इति | स्वाश्रये - परमाणुद्वयरूपे निजाश्रये, असौ - संयोगः, समवायवृत्त्या तिष्ठति, किमवशिष्यते, तेनैवाक्रान्तत्वान्न किंचिदप्यवशिष्यते इत्यर्थः, तथा च संयोगस्याप्यत्र स्थितिर्न युक्तेति भावः | नन्वत्र विस्तारयोग्ये कथं न विस्तारः कृतः इत्यत आह अभ्युच्चय इति | भरः - अतिशयः, प्रज्ञालङ्कारे - प्रज्ञालङ्काराख्यशास्त्रे || ६ || अथ सप्तमश्लोकस्यावतरणिकां करोति ननु इति | दर्शितं च इह साधकं प्रमाणं कार्यहेतुः ऽतत्तदाकस्मिकाभासऽ इति कारिकया इत्याशङ्क्य आह :- चिदात्मैव हि देवोऽन्तः स्थितमिच्छावशाद्बहिः | योगीव निरुपादानमर्थजातं प्रकाशयेत् || ७ || इह तावत् स्वप्न स्मरण - मनोराज्य - संकल्पाडिषु नीलाद्याभासवैचित्र्यं बाह्यसमर्पकहेतुव्यतिरेकेणैव निर्भासते इति यद्यपि अस्ति संभवः, तथापि तदाभासवैचित्र्यम् अस्थैर्यात् सर्वप्रमात्रसाधारण्यात् पूर्वानुभवसंस्कारजत्वसंभावनात् अवस्तु इति शङ्क्येत | यत् पुनरिदं योगिनाम् इच्छामात्रेण अत्र टीका :- तेनैव - सिद्धिहेतुनैव | ननु बाधकं बाधितं भवतु, साधकं प्रमाणं च नास्तीत्यत्र किं कुर्मः इत्यत्राह दर्शितञ्च इति | कार्यहेतुः - प्रतिबिंबरूपः कार्यरूपः हेतुः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | चिदात्मैव इति | अत्र टीका ननु स्वप्नादिषु स्फुटमेव उपादानादिबाह्यसामग्रीं विनैवार्थजातसिद्धिः प्रसिद्धैव इति किमप्रसिद्धयोगिदृष्टान्तेनेत्याशङ्क्याह इह इति | बाह्यसमर्पकाः - बाह्यनीलादिसंपादकाः ये हेतवः - कारणानि तेषां व्यतिरेकेण, अभावेनेत्यर्थः | तदाभासवैचित्र्यम् - स्वप्नादौ स्थितं नीलाद्याभासवैचित्र्यम्, सर्वप्रमातृषु यत् असाधारण्यं तस्मात्, न हि एकस्य स्वप्नादिनिष्ठमर्थजातमन्यस्य गोचरम् इति भावः | शङ्क्येत इत्येनेन अस्थैर्यसर्वप्रमात्रसाधारण्यसंस्कारजत्वयुक्तमपि अर्थजातं स्थैर्यसर्वप्रमातृसाधारण्यासंस्कारजत्वयक्तजाग्रदर्थजातसमानयो ग-क्षेममेव स्थैर्यत्वादेरपि आभासमात्ररूपत्वात्, न च आभासस्य परमार्थसत्त्वम्, परन्तु सिद्धमपि तत्स्वप्नादिकं शिष्यं तावदप्रबुद्धं ज्ञात्वा दृष्टान्तत्वेन न गृहीतं किन्तु तत्साम्मुख्यसंपादनाय अतिशयरूपा योगिदृष्टान्ततैव कृता, अतिशयं बुद्ध्वा संमुखीभूतः शिष्यस्तु प्रबुद्धीभूतः सर्वं स्वयमेव विचारयतीतिं सूचितम् | पुरसेनादिवैचित्र्यनिर्माणं दृष्टम्, तत्र उपादानं प्रसिद्धमृत्काष्ठ - शुक्र - शोणितादिवैचित्र्यमयं न संभवत्येव, न हि एवं वक्तुं शक्यम् - सर्वगताः परमाणवो योगीच्छया झटिति संघटिताः कार्यम् आरप्स्यन्ते इति | यत् एतत् लोकप्रसिद्धकारणभावानतिक्रमसिद्धये निरूप्यते | न च एतत् प्रसिद्धम् - परमाणुभ्य एव स्थूलं घटादि जायते इति, किं तु कपालादिव्यवधानेन, तथापि [तत्रापि - K. ष्. ष्.] नियतसहकारिसमवलम्बनम् करचरणादिव्यापारो विशिष्टदेशकालधर्माधिपत्ययोगः शिक्षाभ्यासप्रकर्ष इति, इयति च आंश्रीयमाणे योगी कुम्भं निर्मिमाणः कुम्भकारप्रसिद्धसमस्तसामग्रीसमर्जनपुरःसरं घटं घटयन् कुम्भकार एव स्यात्, तस्मात् प्रसिद्धकारणोल्लङ्घने किम् असंचेत्यमानपरमाण्वाद्युपादानकारणान्तरचिन्तया इति | तत्र योगिसंविद एव सा तादृशी शक्तिः - यत् आभासवैचित्र्यरूपम् अर्थजातं प्रकाशयति एवमाशङ्कितं चोद्यमपसार्य पक्षान्तरकथनरीत्या श्लोकं व्याख्यातुमारभते यत्पुनः इति | योगिनाम् - अष्टाङ्गयोगयुक्तानाम्, तत्र - तस्मन्निर्माणे, वैचित्र्यमयम् - वैचित्र्यहेतुत्वेन वैचित्र्यरूपम् | अत्र शिष्यशङ्कां स्वयमेवोत्थापयति नह्येवम् इति | संघटिताः - आदिसर्गन्यायेन स्वयमेव मिलिताः | कुतो न शङ्क्यमित्यत आह यतः इति | एतत् - इदं वस्तु, लोके प्रसिद्धः लोकप्रसिद्धः, कपालादिव्यवधानेन इति, प्रथमं कपालादयः संपद्यन्ते ततः तत्संधानाद् घट इति भावः | तथापि - कपालादिव्यवधाने सत्यपि, धर्माधिपर्यम्, उपलक्षणं चैतदधर्मस्यापि तार्किकमते हि धर्माधर्मयोरपि सहकारित्वमेवेति, इयति - एतावति सामग्रीरूपे अर्थजाते | तत्र - तस्मिन्विषये, सा का इत्यपेक्षायाम् आह यत् इति | ननु योगिनिर्मितमर्थजातं न दृष्टं तं प्रति किं दृष्टान्तीकुर्मः ? सत्यम्, इन्द्रजालनिर्मितं वस्तु इति ब्रूमः, तदपि हि कदाचिदर्थक्रियाकारि भवति, तर्हि योगी अपि ऐन्द्रजालिक एव, इति | तदस्ति संभवः - यत् संवित् एव अभ्युपगतस्वातन्त्र्या अप्रतीघातलक्षणात् इच्छाविशेषवशात् संविदोऽनधिकात्मताया अनपायात् अन्तःस्थितमेव सत् भावजातम् इदमित्येवं प्राणबुद्धिदेहादेः वितीर्णकियन्मात्रसंविद्रूपात् बाह्यत्वेन आभासयति इति, तत् इह विश्वरूपाभासवैचित्र्ये चिदात्मन एव स्वातन्त्र्यं किं न अभ्युपगम्यते स्वसंवेदनसिद्धम्, किमिति हेत्वन्तरपर्येषणाप्रयासेन खिद्यते | एवकारेण इदमाह - सर्वेण तावत् वादिना किं ब्रूषे, [किं ब्रूषि - C.] ईश्वरनिर्मितस्यापि जगतः यत्र इन्द्रजालनिर्मितत्वं कथयन्ति | तदुक्तम् :- इन्द्रजालनिभं विश्वम् इति | तत्र का कथा योगिनिर्मितस्य भावस्य, अत एव योगिनामपि तत्रोपेक्षैव दृश्यते, येषान्तु नास्ति तेऽप्यैन्द्रजालिकप्राया एव, सर्वत्रोपेक्षामात्रस्यैव महायोगत्वादित्यलम् | दृष्टान्तमुक्त्वा दार्ष्टान्तिकं लितरीत्या कथयति तदस्ति इति | तच्छब्दाकाङ्क्षां पूरयति यत् इति | अप्रतीघातलक्षणात् - [अप्रतीघातत्वलक्षणात् - C.] अप्रतिहतस्वरूपात्, इच्छाविशेषवशात् - ऽतदुत्पद्यताम्ऽ इति इच्छाविशेषसामर्थ्यात्, संविदः - स्वरूपभूतात् संवित्तत्त्वात्, अनधिकात्मतायाः - एकतायाः, अनपायात् - अनाशात्, संविदेकरूपत्वेनेति यावत्, अन्तःस्थितमेव - स्वान्तर्गतमेव सत्, मृदन्तःस्थितत्वेन व्यवह्रियमाणो हि घटो मृद्रूप एवेति भावः | प्राणबुद्धिदेहादेः - ग्राहकत्वेनाभिमतात् प्राणादेः, कीदृशात् ? अर्थात् परसंविदैव वित्तिर्ण कियन्मात्रम् - स्वविषयग्रहणमात्रसमर्थ, लेशरूपम्, संविद्रूपं यस्य तादृशात्, बाह्यत्वेन - पृथक्त्वेन, न तु परसंविदा पृथक्त्वेन, अन्यथा प्रागिवार्थः इति उक्तन्यायेन अप्रकाशापातात् | फलितमाह तत् इति | हेत्वन्तराणाम् - परमाण्वादिरूपाणामन्येषां हेतूनाम्, पर्येषणाभिः - गवेषणाभिः यः प्रयासः तेन | सूत्रस्थस्य एवकांरस्याभिधेयं वक्ति एवकारेण इति | किमित्यपेक्षायामाह विषयव्यवस्थापनं संविद्रूपम् अनपह्नवनीयम् आदिसिद्धं हि तत् इति उक्तम् | तस्य च स्वातन्त्र्यमेव देवशब्दनिर्दिष्टं चिद्रूपत्वम् इति किम् अपरकारणान्वेषणव्यसनितया | हि यस्मात् एवं प्रकाशयति देव इति संभाव्यते, तस्मात् किं भाह्येन अनुपपत्तिना इति पूर्वेण संबन्धः || ७ || सर्वेण इति | कुतो न अपन्हवनीयमित्यत आह आदि इति | उक्तम् इति, कर्तरि इति कारिकायामिति भावः | देव शब्दस्याभिधेयं वक्तुमाह तस्य च इति | तस्य च - संविद्रूपस्य च, देवो हि क्रीडाशील उच्यते क्रीडा एव च स्वातन्त्र्यम् | अत एव यदि कश्चिद् ब्रूयात् किमर्थ भावनिर्माणे ईश्वरः प्रवृत्तः इति तस्यानेनैव मुखमुद्रा जायते | न हि क्रीडाशीलस्य पर्यनुयोगः युक्तः | अतिपरमार्थविचारे त्वेतदपि वक्तुं युक्ततां नावगाहते | न हि स्वनिर्मितवस्तुसादृश्यमाश्रित्य निर्मातंरि दोषनिराकृतिर्युक्ता, परन्तु अनिर्वाच्यतैव केवलमत्र युक्ता, ततोपि विचारे सापि न युक्ता अनिर्वाच्यताया अपि तत्रैवावस्थानात्, तत्सर्वथा विस्मयपरेणैव भाव्यम् | तदुक्तम् :- विष्मयो योगभूमिका इति | ननु विस्मयोऽप्यत्रावकाशं न लभते अशक्यकरणे एव तद्योगात्, न च ईश्वरस्य किमप्यशक्यम् ईश्वरत्वव्याघातात् | सत्यम्, अत एव अतिनिपुणैः शाक्तैः शक्तावेव विश्रान्तिः कृता | न चात्रापि शक्तिसमारोपणेन द्वैतापातः प्रसञ्जनीयः एकत्र तत्त्वे एव रूपद्वयभानात् | आयातु वा द्वैतापातः अस्मदभीष्टे परमाद्वैते तस्याप्यवकाशात्, अन्यथा सामान्याऽद्वैतापत्तेः | सामान्याद्वैतापत्तिरप्यस्तु का हानिः, हानिरपि वाऽस्तु अन्यथा महापूर्णत्वायोगात् | महापूर्णेपि वृद्धिहानी स्वान्तर्गते एव | किं बहुना यत्र यत्र विश्रान्तिः क्रियते तत्तद्रूपम्, ततः उत्तिर्ण तत्त्वमिति कुत्रापि न स्थेयम् सर्वत्र वेत्यलं बहुतरया अतिरहस्यचर्चया प्रतिभारहितेषु वक्तुमयोग्ययां तद्युक्तेषु तु श्रीभगवत्तिव्रतरशक्तिपातघ्रातेषु स्वयं स्फुरणशीलयेति | अस्य श्लोकस्य पूर्वं प्रति हि शब्दद्योत्येन हेतुत्वेन योजनां करोति हि इति संभाव्यते इत्यनेन अत्र संभावनायां लिङिति सूचितम् || ७ || ननु एवम् उभयथापि संभावनानुमानम् उन्मिषति, तत्र किं मकुरप्रतिबिम्बितघटादिदृष्टान्तेन ज्ञानप्रतिबिम्बताभासवैचित्र्ये विज्ञानदर्पणातिरिक्तं तत एव बाह्याभिमतं हेतुं कल्पयेम ? किं वा योगिदृष्टान्तेन संवित्स्वातन्त्र्यमेव हेतुभावेन ब्रूयाम ? तदिदं सांशयिकं वर्तते इति आशङ्क्य बाह्यार्थानुमानसंभावनां सूत्रद्वयेन अपाकर्तुमाह :- अनुमानमनाभातपूर्वे नैवेष्टमिन्द्रियम् | आभातमेव बीजादेराभासाद्धेतु वस्तुनः || ८ || आभासः पुनराभासाद्बाह्यस्यासीत्कथंचन | अर्थस्य नैव तेनास्य सिद्धिर्नाप्यनुमानतः || ९ || न केवलम् अनन्तरश्लोकनिर्दिष्टाभिः युक्तिभिः प्रत्यक्षेण बाह्योऽर्थो न भासते [न आभासते - K. ष्. ष्.] इयदेव हि प्रत्यक्षं तच्च नीलं भाति इति स्वप्रकाशसंविद्रूपं अथाष्टमस्य नवमस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका :- उभयथा, बाह्यानुमेयवाद्युक्तप्रकारेण समनन्तरश्लोकोक्तप्रकारेण चेत्यर्थः, संभावनानुमानम् - तर्करूपमनुमानम्, न तु दृढमनुमानम्, बाह्याभिमतम् - बाह्यत्वेनाभिमतम्, सांशयिकम् - संशयग्रस्तम् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे | अनुमानम् इति | अत्र टीका :- प्रथमम् अपि शब्दस्याभिधेयमाह न केवलम् इति | अनन्तरश्लोकः - चिदात्मव हि इति, तत्र निर्दिष्टाअभिः - उक्ताभिः योगिदृष्टान्तादिरूपाभिः, युक्तिभिः - उपायैः | न केवलम् इति तावदवस्थाप्य न भासते इत्येतन्मात्रस्य हेतुमाह इयदेव हि इति [यत् - K. ष्. ष्.] | तच्च - भानञ्च, नाधिकं किंचित् इति, यावत् अनुमानेनापि न अस्य बाह्यस्य सिद्धिः इति अपिशब्दस्याभिप्रायः [इति अपिशब्दः - K. ष्. ष्.] | तत्र अनुमानम् अत्र नैव प्रवर्तितुम् उत्सहते | प्रवृत्तमपि न प्रकृतसिद्धिम् आदध्यात् इति अनेन सूत्रद्वयेन उपदर्श्यते [दर्श्यते - K. ष्. ष्.] तत्र अनुमानं विकल्पः, सर्वश्च अयं विकल्पोऽनुभवमूल इति प्रसिद्धम् | तेन यत् सर्वथा अनाभातपूर्वम् अननुभूतचरं तत्र अनुमानम् अनुमितिव्यापारो विकल्पात्मा नैव केनचित् वादिना इष्यते | ननु भवतु प्रत्यक्षतो दृष्टेऽनुमाने संकथा इयम्, सामान्यतो दृष्टे तु किं वक्ष्यसि यथा अर्थोपलब्ध्या इन्द्रियानुमाने ? उच्यते - तत्रापि विकल्पेन यथा सोऽर्थः स्पृश्यते तथा इति शब्दो हेतुसमाप्तौ | न केवलम् इत्यस्य आकाङ्क्षां पूरयति यावत् इति | अपिशब्दस्य नाप्यनुमानतः इत्यत्र स्थितस्येत्यर्थः | अपिशब्दाभिप्रायमुक्त्वा श्लोकद्वयस्याभिप्रायं सङ्क्षेपेण कथयति तत्र इति, अपि शब्दार्थे एवं सतीत्यर्थः | प्रकृतसिद्धिम् - बाह्यसिद्धिम्, अनेन - कारिकाद्वयेन, उपदर्श्यते, सूच्यत इत्यर्थः | ननु दर्शयतु ततः किमित्यत आह तत्र इति | तत्र, एवंरूपेऽभिप्राये सतीत्यर्थः, अनुमानं विकल्पो भवति न निर्विकल्पदर्शनम् अवसायमात्रहेतुत्वात् | सर्वः - अनुमानादिरूपः, अनुभवमूलः - निर्विकल्पज्ञानमूलः, इति - एतत्, प्रसिद्धं भवतीति शेषः | तेन - अनुमानस्य विकल्पत्वेन | अनाभातपूर्वम् इति पदं व्याचष्टे अननुभूतचरम् इति, तत्र - अननुभूतचरे | अत्र तार्किकः प्रश्नयति ननु इति | इयं सङ्कथा - अनुभूतचरत्वसङ्कथा, किं वक्ष्यसि, तत्र सामान्यतो व्याप्तिग्रहणसंभवान्नैतद्युक्तमिति भावः | कुत्र तत्सामान्यतो दृष्टमनुमानं भवतीत्याह यथा इति | अर्थोलपब्ध्या - घटादिविषयेण ज्ञानेन, इन्द्रियानुमाने - सर्वदाऽतीन्द्रियचक्षुराद्यनुमाने | अत्र परिहारमाह उच्यते इति | तत्रापि - इन्द्रियानुमानादिरूपे सामान्यतो दृष्टेऽपि, सोर्थः - चक्षरादिरूपः विषयः, स्पृश्यते - सामान्यभावेन अनुमेय इति स्थितिः | विकल्पश्च न इन्द्रियादिकम् अर्थं केनचित् संनिवेशविशेषादिना [सन्निवेशविशेषात्मना - K. ष्. ष्.] विशेषात्मना स्पृशति, अपि तु किंचिदुपलब्धेः कारणम् इति अमुना स्वभावेन, स च स्वभावः कारणतालक्षणः प्रत्यक्षगृहीत एव | तथा च बीजात् अङ्कुरः तन्तुभ्यः पट इत्यादौ कार्यकारणभावः प्रत्यक्षानुपलम्भबलेन तावत् निश्चेयः | तत्र च प्रत्यक्षं प्रत्याभासं प्रामाण्यं भजते, विमर्शलक्षणस्य प्रमितिव्यापारस्य एकैकशब्दवाच्येऽर्थे प्रवृत्तेः [विश्रान्तेः - K. ष्. ष्.] तदनुसारित्वाच्च प्रमाणस्य इति वक्ष्यते | ऽएकाभिधानविषये मितिर्वस्तुन्यबाधिता |ऽ अनुभूयते, स्थितिः - व्यवस्था | सामान्येनोक्तमर्थ विशेषेण दर्शयति विकल्पश्च इति | सन्निवेशविशेषादिना रचनाविशेषादिना, विशेषात्मना - विशेषस्वरूपेण | पुनः केन रूपेण स्पृशतीत्यत आह अपि तु इति | किंचिदुपलब्धेः कारणं भवति इत्यमुना स्वभावेन, सामान्यरूपेणेत्यर्थः, स्पृशतीति पूर्वेण संबन्धः | स च स्वभावः - स्पर्शविषयीकृतः स्वभावश्च, कारणतालक्षणः - कारणतास्वरूपः, धर्मरूप इत्यर्थः | बीजादेः इति दृष्टान्तवाक्यं व्याख्यातुमाह तथा च इति | प्रत्यक्षानुपलंभयोर्यद्वलं तेन, तत्र प्रत्यक्षनिश्चेयं वस्तु कथयति तत्र इति | तत्र प्रत्यक्षानुपलंभयोर्मध्ये, प्रत्याभासम् - सर्वेष्वाभासेषु, प्रामाण्यम् - प्रमाणताम् | कुतो भजत इत्यपेक्षायां हेतुमाह विमर्श इति | विमर्शलक्षणस्य - विकल्पज्ञानरूपस्य, एकैकशब्दवाच्ये - एकैकशब्दाभिधेयसमस्तधर्मधर्मिसमुदायरूपे, स्वलक्षणे इति यावत्, प्रवृत्तेः, न तु निर्विकल्पदर्शनवत् प्रत्याभासप्रवृत्तेः | तदनुसारित्वाच्च - विमर्शानुसारित्त्वाच्च, प्रमाणस्य प्रत्यक्षादेरित्यर्थः | ननु कथं विमर्शहेतुकस्य प्रमाणस्य विमर्शानुसारित्वं युक्तमित्यत आह इति इति | इति - एतत्, कुत्र वक्ष्यत इत्यत आह एकाभिधान इति | आभासमात्रं च सामान्यम् इति निर्णेष्यते | अनुपलम्भोऽपि अन्योपलम्भरूप आभासमात्रविश्रान्त एव इति कारणाभासो विशेषशून्यः परिगृहीत एव बीजात् अङ्कुर इति प्रतीतौ | यत् यस्य नियमम् अनुविधत्ते अव्यतिरिक्तम् तत् तस्य कार्यम् इति प्रतिघटं मृत्तिकादिरूपहेतुतद्वन्मात्रस्य [मृत्तिकादिरूपस्य हेतुतद्वन्मात्रस्य - K. ष्. ष्.] आभासात् || ८ || इति, अस्यां कारिकायामित्यर्थः, तत्र हि स्वोत्पादितविकल्पद्वारेणैव प्रमाणस्य स्वलक्षणविषयतं कथयिष्यति | ननु आभासेष्वेव प्रमाणव्यापार उक्तो न तु सामान्ये तत्कथमेवं सिद्ध्यतीत्यत आह आभास इति | आभासमात्रम् - केवलः आभासः, न तु सर्वधर्माक्षेपेण ग्रहणम्, निर्णेष्यते, अस्यामेव कारिकायामित्यर्थः | अनुपलंभकृत्यमाह अनुपलंभोऽपि इति | अनुपलंभः - गोष्वश्वत्वानुपलंभः, अन्योपलंभरूपः - अश्वादिष्वश्वत्वाद्युपलंभरूपः, प्रमाता हि गोषु गोत्वं प्रत्यक्षेण पश्यनु अश्वादिषु तदनुपलभमानः सर्वगोव्यक्तिगतं गोत्वं निश्चिनोति | आभासमात्रविश्रान्त एव, न तु पराभिमतव्यक्तिविश्रान्तः, इति - अत एव हेतोः, कारणाभासः - इन्द्रियगतः उपलब्धिकारणताभासः, विशेषशून्यः - तन्निष्ठतयाऽग्रहणान् विशेषरहितः, परिगृहीतः, प्रत्यक्षानुपालंभाभ्यामिति शेषः | कुत्रेत्यपेक्षायां दृष्टान्तमाह बीजात् इति, स्फुटमेव हि बीजस्याङ्कुरं प्रति कारणत्वमिति भावः | अत्राप्यप्रत्यक्षत्वमाशंङ्क्य सूत्रे आदि शब्दगृहीतं मृद्घटयोः कार्यकारणभावं व्याप्तिप्रदर्शनद्वारेण कथयति यत् इति | नियमम् - अवश्यंभावम्, अनुविद्धत्ते, स्वरूपलाभं प्रति अपेक्षते इत्यर्थः | ननु कुत्रेयं व्याप्तिर्दृश्यत इत्यत आह प्रतिघटम् इति | प्रतिघटम् - सर्वेषु घटेषु, मृत्तिकादिरूपः - मृद्दण्डादिरूपः यो हेतुस्तेन यतद्वन्मात्रम्, तस्य, भावप्रधानो निर्देशः, तद्वत्तामात्रस्य मृद्दण्डादिरूपकारणयुक्तत्वस्येति यावत्, आभासात् - स्फुरणात् | एतेन प्रथमश्लोकः कृतव्याख्यः || ८ || आभासात् बाह्यः पुनरनाभासरूपः, स च आभासते इति विप्रतिषिद्धम् | अनाभासे च नास्ति विकल्परूपस्य अनुमानस्य व्यापारः | ग्रामगृहादेस्तु यत् बाह्यं तत् अग्रामादिरूपं न उच्यते प्रत्येकं वाटानूपकुड्यतुलादेः बाह्यत्वप्रसङ्गात्, अपि तु तत्संनिकटम् [सन्निकृष्टम् - K. ष्. ष्.] तस्मात् ग्रामबाह्यम् आभासबाह्यम् इति च शब्दसाम्यमात्रम् एतत् न वस्तुसाम्यम् | एवं ये विकल्पे वस्तु न आभाति इति मन्यन्ते तेषामपि तावत् अनुमानविकल्पो न बाह्ये उपपन्नः | ननु आभासेनैव [द्वितीयं श्लोकं व्याचष्टे ननु इति | ननु आभासेनैव किं सर्वं संजयसीत्यत आह आभासात् इति | विप्रतिषिद्धम् - विरुद्धम् | ननु आभासो मास्तु विकल्प एव सर्वं कार्यं करिष्यति इत्यपेक्षायां द्वितीयं श्लोकं व्याचष्टे ऽअनाभासे चऽ इति - C.] किं सर्वं सञ्जयसीत्यपेक्षायां द्वितीयं श्लोकं व्याचष्टे आभासात् इति | विप्रतिषिद्धम् - विरुद्धम् | ननु आभासो मास्तु विकल्प एव सर्वं कार्यं करिष्यति इत्यत आह अनाभासे च इति | व्याप्तिग्रहणाऽसंभवादिति भावः | ननु यदि बाह्यत्वमात्रेण विरुद्धतासाधनं तर्हि ग्रामबाह्यस्य वस्तुजातस्यापि विरुद्धत्वमापद्येतेत्यत आह ग्राम इति | ग्रामापेक्षया वाटानूपेत्युक्तम्, गृहापेक्षया तु कुड्यतुलादेर्ग्रहणम्, आदिशब्देन तत्रत्यान्यवस्तुजातस्य ग्रहणम् | पुनः किं तदुच्यते इत्यत आह अपि तु इति | अपि तु पण्डितैः तद् - ग्रामबाह्यं वस्तुजातम्, सन्निकटम् - ग्रामसमीपस्थम् उच्यते, ग्रामसमीपे एव स्थितत्वात् ग्रामं प्रत्यविरुद्धत्वाच्वेति भावः | फलितमाह तस्मात् इति | न च शब्दसाम्ये वस्तुसाम्यवादो न्याययः इति भावः | ननु बौद्धैर्विकल्पस्य वस्त्वसंस्पर्श एवोक्तः, त्वया तु तेनैव सर्वं साध्यते इति किमेतदित्यत आह एवम् अस्माभिस्तु उपपादितम् - अध्यवसायस्यापि आभोसमानविषयत्वम् ऽभ्रान्तित्वे चावसायस्यऽ इति सूत्रे | तेन अनुमानविकल्पात्मनापि प्रकाशेन यदि अनाविष्टो नीलादिः अर्थः तत् न अनुमित एव स्यात् | अथ आविष्ट एव, तर्हि ऽप्रागिवार्थोऽप्रकाशः स्यात्ऽ इति न्यायेन प्रकाशमात्रस्वभाव एव, न बाह्यः | तेन बाह्ये साध्ये यत् किंचित् प्रमाणम् आनीयते, तदबाह्यतामेव प्रत्युत साधयति [प्रसाधयति - K. ष्. ष्.] इति विरुद्धमेव, अत एव आह ऽकथंचनऽ इति, केनापि प्रकारेण प्रत्यक्षात्मना अनुमेयात्मना वा आभासनम् आभासो बाह्यस्य अनाभासस्य न कदाचित् अभूत् इति, तस्मात् सिद्धम् ऽचिदात्मैव हि देवऽ इति || ९ || इति, एवं सतीत्यर्थः | ननु तव दर्शने किमस्तीत्यत आह अस्माभिः इति | अध्यवसायस्य - विकल्पकार्यस्याध्यवसानस्य, आभासमानविषयत्वम्, अर्थविषयत्वमित्यर्थः | कुत्रेत्यपेक्षायामाह भ्रान्तित्वे इति | स्वाभिप्रायमुपसंहरति तेन इति | अनुमानविकल्पात्मना - अनुमानरूपविकल्परूपतां गतेन | फलितमाह तेन इति | साधयति प्रागिवार्थोऽप्रकाशः इति न्यायेनेत्यर्थः | तत् इति विरुद्धमेव इति योजना, अतः तत्प्रमाणं विरुद्धमेव भवतीत्यर्थः | तथा च शान्तिकर्मारंभे वेतालोत्थापनमेव बाह्यसाधनमिति भावः | ननु सूत्रे केन पदेन एतदुक्तमित्यत आह अत इति | किमाहेत्यत आह कथञ्चन इति | एतदपि व्याचष्टे केनापि इति | एतदवष्टंभेन पूवश्लोकार्थस्य सिद्धतां कथयति तस्मात् इति | एवमत्र श्लोकद्वये योजना | पण्डितः अनुमानम् अनाभातपूर्वे नैवेष्टम् | इन्द्रियम् आभातमेव भवति, सामान्येनेति शेषः | कुतः ? वीजादेः हेतुवस्तुनः आभासात् | पुनः - पक्षान्तरे, आभासाद् बाह्यस्य आभासः कथंचन नासीत् तेनास्याथस्य बाह्यार्थस्य अनुमानतोऽपि सिद्धिर्नास्ति इति || ९ || ननु अन्तःस्थितं बहिः प्रकाशयेदित्युक्तं तत् अन्तःस्थित्वम् उपपादनीयम् इति आशङ्क्य आह :- स्वामिनश्चात्मसंस्थस्य भावजातस्य भासनम् | अस्त्येव न विना तस्मादिच्छामशः प्रवर्तते || १० || बहीरूपतया आभासनेऽपि [बहीरूपतयापि आभासने - K. ष्. ष्.] अहन्तारूपता [अन्तारूपता - K. ष्. ष्.] न त्रुट्यति, ऽप्रमात्रैकात्म्यमान्तर्यम्ऽ इति हि वक्ष्यते, तच्च सदैव, प्रकाशस्य प्रमातृत्वात्, तदात्मतया अथ दशमश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका:- उपपादनीयम् - युक्त्या समर्थनीयम्, स्यादेतत् इत्यत्र तर्कमात्रणैव साधनादिति भावः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्ट स्वामिनः इति | अत्र टीका :- श्लोकं व्याख्यातुं प्रक्रियां तनोति बहीरूप इति | बहिरूपतया आभासनेऽपि - बाह्यत्वेनाभसेऽपि, इदन्तया ग्रहणेऽपीति यावत्, अहन्तारूपता - आन्तररूपता | कुतो न त्रुट्यतीत्यत आह प्रमात्रा इति | प्रमात्रा सहप्रकाशेन सह ऐकात्म्यम् [प्रमात्रा सह - प्रकाशेन सह | ऐक्यम् प्रमात्रैक्यम् - C.] प्रमात्रैकात्म्यम्, तच्च - भावानां प्रमात्रा सह ऐकात्म्यं [ऐक्यम् - C.] च | कुत इति हेत्वपेक्षायामाह प्रकाशस्य इति | ननु प्रकाशस्य, प्रमातृत्वेऽपि प्रकृते किमायातम् इत्यत आह तदात्मतया इति | तदात्मतया - च विनाऽप्रकाशमानस्य [प्रकाशमानस्य - K. ष्. ष्.] अवस्तुत्वात्, किं तु तत्र अहम् इति उचिते परामर्शे योऽयम् इदन्तापरामर्शः सैव बाह्यता, तच्च इह अन्तःस्थितत्वम् अहमित्येतावता चित्समुचितेनैव वपुषा परामर्शनमेव तच्च इह नीलादीनामस्त्येव, न तु नास्ति इति, यदि हि न स्यात् कुम्भकृतो ऽघटं करवाणिऽ इति य उत्तरक्रियामपेक्ष्य इच्छाशब्दवाच्यः परामर्शः, एषणीयेन [एषणीयात्मना - K. ष्. ष्.] स परामृऽऽयेन अनियन्त्रितः चेत् ततः पटेच्छापि सा न कस्मात् इति संकीर्येरन् प्रकाशरूपप्रमातृरूपतया, अप्रकाशमानस्य - प्रागिवार्थः इति न्यायेन प्रकाश - कर्तृत्वमभजतो भावजातस्य, अवस्तुत्वात्, अप्रकाशमानं हि वस्तु वस्तु न भवति | ननु तर्हि अबाह्यमेव सर्वदा तत् इत्यपेक्षायाम् पक्षान्तररीत्या बाह्यत्वमपि साधयति किन्तु इति | तत्र - तस्मिन भावजाते, सैव - इदन्तापरामर्श एव, न तु ततो निर्गत्य बहिरवस्थानम् | तच्च इति, चिति समुचितः - योगिचित्समुचितः, तेन परामर्शनमेव, न तु कुत्राप्यन्तर्देशेऽवस्थानम्, तच्च - अहमिति परामर्शनं च अस्त्येव इति | एव शब्दस्य व्यावर्त्यमाह न तु इति | अत्र तर्कमनुकूलं प्रमाणानुग्राहकं कथयति यदि हि इति | तत् यदि न स्यात् इति - एवम्, व्यवहाराः सङ्कीर्येरन् - सङ्करं गच्छेयुः | इति कथम् ? कुंभकृतः - कुंभनिर्माणे उद्युक्तस्य कुलालस्य, उत्तरक्रियामपेक्ष्य इच्छाशब्द - वाच्यः तां प्रति इच्छारूपः इति यावत् | घटं करवाणि इति परामर्शः भवति, सः एषणीयेन - एषणाविषयभूतेन, अत एव परामृश्येन - इच्छारूपस्य परामर्शस्यापि विषयभूतेन घटेन, अनियन्त्रितः - विषयभावेन परिच्छिन्नतां न नीतश्चेत्स्यात् ततः, सा - परामर्शरूपा इच्छा, पटेच्छापि कथं न स्यात्, विशेषा - व्यवहाराः | अथ तत्रापि च एषणीयः तदानीमेव निर्मितः सन् तथा जातः तर्हि तन्निर्माणं चिदात्मनि विनेच्छया नोपपन्नम् इति ऽतिष्ठासोरेवमिच्छैव हेतुताऽ इत्यत्र वर्णयिष्यते | तच्च [ततश्च इच्छान्तरमपि - K. ष्. ष्.] इच्छान्तरमपि विषयनियन्त्रितं न वा इति विकल्पेऽनवस्था | विषयनियन्त्रितं चेत् स्यात् आत्मतैव जाता, न चेत् घटे पटेच्छा स्यात् | अथ तत्रापि तदानीमेव इति कृत्वा अनवस्था | तस्मात् सर्वोऽयं भावराशिः चिदात्मनि अहम् इत्येव वपुषा सततावभासुरवपुः ऐश्वर्यरूपाच्च स्वातन्त्र्यलक्षणात् स्वामिभावात् विचित्रेण वपुषा क्रमाक्रमादिना संवित् एनं बहिः करोति प्रमातृप्रथनपूर्वकम्, [प्रमातृभेदप्रथन - K. ष्. ष्.] भावात् इति शेषः | अथ - यदि, तत्रापि - तस्यां घटेच्छायामपि, एषणीयः तदानीम् - इच्छासमये, निर्मितः - संपादितः, सन्, तथा जातः - एषणीयः सम्पन्नः, तर्हि तस्य - घटस्य निर्माणम्, चिदात्मनि - चित्स्वरूपे, इच्छया विना उपपन्नं न भवति, इति - एतत्, तिष्ठासोरेवमिच्छैव हेतुता इत्यत्र - अस्यां कारिकायाम्, वर्णयिष्यते - कथयिष्यते, तच्चेच्छान्तरम् - निर्मीयमाणविषया अन्या इच्छा, अपि, विषयनियन्त्रितं न वा इति विकल्पे सति, अनवस्था - तत्राप्यन्य एषणीयः तत्राप्यन्या इच्छा इत्येवंरूपः अनवस्थाख्यो दोषो भवेत् | आत्माश्रयादेरत्यन्तसंयुक्ततां ज्ञात्वा अनवस्थामात्रग्रहणम् | तर्केण शैथिल्यमुपपाद्यानुमानमत्र प्रवर्तयति फलितरीत्या तस्मात् इति | अयम् - पुरो भासमानः, सततम् अवभासुरं वपुर्यस्य तादृशम्, संवित् - प्रकाशरूपं परप्रमातृतत्त्वम्, एनम् - अहन्तया स्थितं भावराशिम्, बहिःकरोति - इदन्तया भासयति, ऐक्येन स्थितं सत् अपोहनशक्त्या भेदेन भासयति इति यावत् | कथम् ? प्रमातॄणाम् - ग्राहकरूपाणां स्वांशभूतानां मितप्रमातॄणां यत्प्रथनम् - अपोहनशक्त्या स्वतो भेदेन भासनम् तत् पूर्व यत्र तत्, प्रथमं ग्राहकान् भासयति तत्रापि क्वचित् आभासे प्रमातॄन् एकीकरोति नितम्बिनीनृत्त इव प्रेक्षकान् | तावति हि तेषाम् आभासे ऐक्यम् | शरीरप्राणबुद्धिसुखाद्याभासांशेषु तु भेदस्य अविगलनात् न सर्वथा ऐक्यम् | अत एव प्रतिक्षणं प्रमातृसंयोजन - [प्रमातृसंयोजनावियोजनावैचित्र्येण - K. ष्. ष्.] वियोजनवैचित्र्येण परमेश्वरो विश्वं सृष्टिसंहारादिना प्रपञ्चयति | तदुक्तमाचार्येण :- ऽसदा सृष्टिविनोदाय सदा स्थितिसुखासिने | सदा त्रिभुवनाहारतृप्ताय भवते नमः ||ऽ तदनन्तरं ग्राह्यवर्गमिति भावः | तत्रापि - बहिष्करणेऽपि | कथं तत्र तेषामेकीकरणमित्यत आह तावति इति | तावति आभासे - नृत्ताभासे, किं सर्वथैव तेषान्तत्रैक्यमित्यत आह शरीर इति | प्रतिक्षणम् - क्षेण क्षणे इत्यर्थः, संयोजनम् - नृत्तादौ, वियोजनम् - शरीरादौ, आदिशब्देन मध्यगतायाः स्थितेर्ग्रहणं पिधानानुग्रहयोश्च | अत्राचार्यसम्मतिं दर्शयति तदुक्तम् इति | किमुक्तमित्यत आह सदा इति | स्थितिकृतं सुखं स्थितिसुखम् तत्र आस्ते इति तादृशाय | आहारः - निगरणम्, संहार इति यावत् | ननु कथं विरुद्धानां क्रमभाविनाञ्च सृष्ट्यादीनां युगपत् नित्यं भवति विनोदादिकारित्वम् ? शृणु, तत्र अनादित्वेऽपि कालग्रस्तशिष्यबुद्ध्यपेक्षया प्रथमभूतायां सृष्टौ तावत् पूर्वतरं संहारकाले स्थितायाः संजिहीर्षायाः संहारः, तत्रैवोत्पान्नायाः सर्जनेच्छायाः स्थितिः, तद्विषयभूतानां भावनामुद्भविष्यमाणस्थितोच्छायाश्च सृष्टिः | स्थितौ तु सृष्टौ स्थितायाः सर्जनेच्छायाः संहारः | तत्रैवोत्पन्नायाः स्थितीच्छायाः तद्विषयभूतानां भावानाञ्च स्थितिः, संजिहीर्षायाः सृष्टिः, संहारे तु स्थितौ स्थितायाः स्थितीच्छ्यायाः तद्विषयाणां भावानाञ्च संहारः, तत्रैवोत्पन्नायाः संजिहीर्षोयाः स्थितिः, भाव्यमानसर्जनेच्छायाः सृष्टिः, इति स्फुटमेवास्य सृष्ट्यादित्रयस्य सृष्ट्यादित्रयमयत्वम्, सदात्वं च चिन्मात्रस्य तत्र सर्वदा तत्रोद्यन्तृत्वेन ज्ञेयम् | तदुक्तम् :- नासन्निवेशं हेमास्ति नासर्गं ब्रम्ह विद्यते इत्यादि | श्रीभट्टनारायणेनापि ऽमुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः | कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः ||ऽ इति | तस्मात् स्थितम् अन्तःस्थितं भावजातं तेन विना तद्विषयस्य इति | अन्योपि चक्रवर्ती भोगान् सृजति गृहे स्थापयति आहरति चेति ध्वनिः | अथवा परप्रमातुः सदा सृष्टिविनोदादित्वं स्वसृष्टस्वांशभूतमितप्रमातृकृतमेव ज्ञेयम्, ते हि सदा क्वचिद्भागे सृष्टिभाजः क्वचित् स्थितिभाजः क्वचित् संहारभाजः तरङ्गा इव जलनिधावित्यलं प्रपंचेन | श्रीभट्टनारायणवाक्यमप्यत्र संवादयितुमाह भट्ट इति | उक्तम् इति पूर्वेण संबन्धः | किमुक्तमित्यत आह मुहुः इति | मुहुर्मुहुः इति मध्यमावेशापेक्षया उक्तम्, सर्वे हि प्रमातारः स्वभावबलेन प्रतिक्षणं सिद्धं प्राणविज्ञाननिष्ठं मध्यमावेशमनुभवन्ति, यद्यपि शून्यं सर्वदा तन्मयमेव किन्तु स्तोकं जाड्येन व्याप्तं देहमपि अतिजाड्येन स्पृष्टं तादृशमेवेति तयोरिहाग्रहणम् ते च प्राणद्वारेण बुद्धिद्वारेण च तत्र प्रविष्टा भावराशिमपि स्वात्मना सह तत्र प्रवेशयन्ति, स्वभावबलेन तत उत्थिताश्च नवीनमेवोत्पादयन्ति, या च तेषु नवेषु भावेषु प्रत्यभिज्ञा सा सादृश्यनिमित्तकैव तैः कल्पितमान्तरविवक्षायां जाग्रदादिरूपं लोकत्रयं बाह्यविवक्षायां भूरादिरूपं लोकत्रयमपि तत्समष्टिभूतपरप्रमातृभूतसदातनचिन्मात्रकृतमेव ज्ञेयम् | यश्च कल्पनाशतैः मुहुर्मुहुः विश्रामरहितः त्रैलोक्यं कल्पयति स कथं निर्विकल्पो भवतीत्याश्चर्यम् | परिहारस्तु कल्पनाशतः इति | त्रैलोक्यकल्पनाः मितप्रमातृगताः, स तु सर्वदा निर्विकल्प एव यथा सार्वभौम आज्ञाद्वारेण स्वभृत्यैः सर्वदेशसंबन्धिनीः क्रियाः कुर्वन्नपि निश्चिन्त एव स्वमंडले तिष्ठति इति | अथवा अतिसूक्ष्मः परामर्शोऽपि प्रकाशस्य स्वरूपोद्वलनमेवेति न तेनापि हानिरिति | स्वाभिप्रायमुपसंहरन् [स्वाभिप्रायमुपसंहरति - C.] न विना इति श्लोकशेषं व्याचष्टे तस्मात् इति | तस्मात्, इतीति शेषः, इति स्थितम् - सिद्धम् भवति | इति किमिति ? भावजातमिदमन्तःस्थितं परामर्शायोगात् [परामर्शस्य अयोगात् - K. ष्. ष्.] इति || १० || ननु परामर्शो नाम विकल्पः, स च अविकल्पशुद्धसंविद्वपुषि भगवति कथं स्यात् इत्याशङ्क्याह :- स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः || ११ || इह अवभासस्य प्रकाशस्य, अनवभासस्य च अप्रकाशस्य घटादेः परस्परपरिहारेण द्वयोः स्वात्मनि चेत् व्यवस्थानम्, तत् घटपटयोः इव इदमजडम् इदं जडम् इति दुरुपपादं वैलक्षण्यम् | अथ अवभासो यतोऽर्थस्य संबन्धी, ततो न जडः, तर्हि संबन्धमात्रेण मृत् अपि घटस्य इति अजडा स्यात् | अथ न स्वसंबन्धमात्रम् अपि तु अवभासोऽर्थस्य भवति, कुतः ? तेन विना - अन्तरवस्थानं विना, परामर्शायोगात् करवाणि इतीच्छायाः अयोगात्, न हि निर्विषया इच्छा युक्तेति भावः | एतेन तर्कशोधिते मार्गे अनुमानप्रमाणं संचारितम् | अयमत्र संक्षेपः | स्वामिनः - विमर्शाख्यैश्वर्ययुक्तात् प्रभवापादनरूपाच्चित्तत्त्वात्, आत्मसंस्थस्य - तादात्म्येत स्वान्तर्गतस्यैव सतः, भावजातस्य - भावराशेः, भासनमस्ति, तस्माद्विना - तस्यात्मनि समवस्थानं विना, इच्छामर्शः - करवाणि इति इच्छारूपो विमर्शो न प्रवर्तते निर्विषयत्वात् || १० || अथैकादशश्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | अत्र टीका :- इह - अत्र लोके | अवभासस्य इति पदं व्याचष्टे प्रकाशस्य इति | परस्परपरिहारेण - परस्परतो व्यावृत्त्या, व्यवस्थानम् - विशिष्टमवस्थानम्, दुरुपपादम् - दुःखेनोपपादयितुं शक्यम् | यथास्वं स्वरूपसिद्धौ विशेषा - प्रकाशः, तर्हि अर्थात्मना स प्रकाश इति समापतितम् | न च अन्यात्मना अन्यस्य प्रकाश उपपन्नः | अथ अन्यस्वभावोऽपि घटोऽवभासस्य कारणम्, तर्हि अवभासोऽपि घटस्य कारणम् इति घटोऽपि अजडः स्यात् | अथ अन्येन सतापि [अन्येनापि सता - K. ष्. ष्.] घटेन यतोऽवभासस्य प्रतिबिम्बरूपा च्छाया दत्ता, ताम् असौ अवभासो बिभ्रत् घटस्य इति उच्यते, ततश्च अजडः, तर्हि स्फटिकसलिलमकुरादिः अपि एवंभूत एव इति अजड एव स्यात् | अथ तथाभूतमपि आत्मानं तं च घटादिकं स्फटिकादिः न पराम्रष्टुं समर्थ इति जडः, तथापरामर्शनमेव अजाड्यजीवितम् अन्तर्बहिष्करणस्वातन्त्र्यरूपं [अन्तर्बहिष्करणस्वातन्त्र्यस्वरूपम् - K. ष्. ष्.] स्वाभाविकम् अवभासस्य स्वात्मविश्रान्तिलक्षणम् अनन्यमुखप्रेक्षित्वं भावादिति भावः | पक्षान्तरमाह अथ इति | प्रकाशः - प्राकट्यम्, सः - अवभासः, समापतितम् - बलादायातम् | ननु तदेव भवत्वित्यत आह न च इति | अत्रापि प्रश्नं करोति अथ इति | कारणम् - विषयत्वेन आलंबनकारकम् | उत्तरमाह तर्हि इति | घटस्य कारणम्, ज्ञापकत्वेन सिद्धिप्रदमित्यर्थः | पुनः शङ्कते अथ इति | अन्येन सतापि - जडत्वेन व्यतिरेकेण सताऽपि, ताम् - छायाम्, घटस्य इति, घटसंबद्ध [घटसबन्ध - C.] इत्यर्थः | ततश्च - तत्संबन्धित्वाच्च, एवंभूतः - प्रतिबिंबरूपां छायां बिभ्रत् | प्रश्नं करोति अथ इति | तथाभूतमपि - तथाभूतं घटप्रतिबिंबं गृह्णन्तम्, तं च - प्रतिबिंबदायकञ्च, न समर्थः, असमर्थ इत्यर्थः | उत्तरमाह तथा इति | तथापरामर्शनम्, घटोपरक्तस्वात्मविषयं घटविषयं च परामर्शनम्, अजाड्यजीवितम् - चेतनतायाः सत्ताप्रदम्, अन्तः - लक्षणया अन्तःस्थितस्य भावराशेः, बहिष्करणम् - इदन्तया स्फारणम्, तत्र, यत् स्वातन्त्र्यम् तत् रूपं यस्य तादृशम्; स्वाभाविकम्, न तु केनाप्यागन्तुकम्, स्वात्मनि या नाम | अहमेवं प्रकाशात्मा प्रकाशे इति हि विमर्शोदये स्वसंविदेव प्रमातृप्रमेयप्रमाणादि कृतार्थम् [चरितार्थम् - K. ष्. ष्.] अभिमन्यते न तु अतिरिक्तं काङ्क्षति, स्फटिकादि हि गृहीतप्रतिबिम्बमपि तथाभावेन सिद्धौ प्रमात्रन्तरम् अपेक्षते इति निर्विमर्शत्वात् जडम् | सर्वत्र [सर्वं तु - K. ष्. ष्.] वस्तुतो विमर्शात्मकप्रमातृस्वभावतादात्म्याहंपरामर्शविश्रान्तेः अजडत्वमेव [अजडमेव - K. ष्. ष्.] पूर्वापरकोट्योः | यदुक्तम् :- विश्रान्तिः सा लक्षणम् - स्वरूपं यस्य तादृशम्, अत एव अनन्यमुखप्रेक्षित्वं नाम - स्वग्रहणे परापेक्षारहितत्वाख्यम्, अवभासस्य इति विशेषेणमध्ये विशेष्याश्रयस्य कथनम् | कथनन्यमुखप्रेक्षि इत्यत्र हेतुमाह अहम् इति | अहमेवं प्रकाशात्मा, [अहंप्रकाशाख्यः - C.] अहमेवं प्रकाशात्मना स्वप्रकाशस्वभावेन च, प्रकाशे - प्रकाशकर्ताऽस्मि इति विमर्शोदये, हि - यस्मात्, प्रमात्रा स्वसविदेव - स्वरूपभूता संविदेव, न तु ततो व्यतिरिक्तं किंचिद् वस्तु, प्रमातृप्रमेयप्रमाणादि, आदिशब्देन प्रमाग्रहणम्, कृतार्थम् - चरितार्थम्, अभिमन्यते सः प्रमाता, अतिरिक्तम् - स्वरूपभूतसंविदः व्यतिरिक्तं प्रमात्रादि चरितार्थम्, न काङ्क्षति | ननु स्फटिकादिरप्येवं भवतु इत्यत आह स्फटिकादि इति | स्वभावे भिन्नत्वेन विमर्शाऽसमथत्वात् | ननु यदि स्फटिकादि जडमेव तर्हि द्वैतापत्तिरित्यत आह सर्व इति | वस्तुतः - परमार्थतः सर्वत्र विमर्शात्मकः - उक्तन्यायेन विमर्शस्वभावः यः प्रमातृस्वभावः - प्रकाशाख्यः परप्रमातुः स्वभावः तेन सह यत्तादात्म्यम् - प्रकाशमानत्वान्यथाऽनुपपत्त्या एकत्वम्, तेन या अहंपरामर्शे विश्रान्तिः तस्या हेतोः, पूर्वापरकोट्योः - ग्रहणेच्छासमये ग्रहणानन्तरं च, अजडत्वमेव - प्रकाशस्वरूपत्वमेव, भवति | यद्यपि मध्येऽपि तथैव भवति तथापि शिष्यबुद्धेस्तावदप्रौढत्वमपेक्ष्य एवमुक्तम् | अत्र वृद्धसम्मतिमाह यदुक्तम् इति | किमुक्तमित्यत आह इदम् इति | ऽइदमित्यस्य विच्छिन्नविमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्तिर्विमर्शः सोऽहमित्ययम् ||ऽ इति | मध्यावस्थैव तु इदन्तारविमृश्यमानपूर्वापरकोटिः विमूढानां मायापदं संसारः इति विमर्श एव प्रधानं भगवत इति स्थितम् || ११ || न केवलं संवित्तत्त्वस्य अस्माभिः एव विमर्शप्राधान्यम् उक्तम् यावत् आगमान्तरैरपि इति दर्शयति :- इदं पूर्वमेव कृतव्याख्यम् इति न पुनरायस्यते तथा च नाद्वैतहानिरिति भावः | ननु मध्यावस्था कीदृशी भवतीत्यत आह मध्या इति | इदन्ता - इदन्तारूपा, तज्ज्ञानात् सर्वदा सर्वमेकरूपं पश्यतां विमूढवद् व्यवहारकारित्वेऽपि संसाराभावाद् विमूढानाम् इत्युक्तम् | तदुक्तम् :- प्रबुद्धः सर्वदा तिष्ठेज् ज्ञानेनालोच्य गोचरम् | एकत्रारोपयेत् सर्वं ततोऽन्येन न पीड्यते || इति | सिद्धं वस्तु संक्षेपेण कथयति विमर्श इति | विमर्श एव - घटोपरक्तप्रकाशाख्यनिजस्वरूपविषयः उपरागकारिघटविषयश्च परामर्श एव, प्रधानम् - स्वरूपस्य प्रकाशतोपपादकत्वेन मुख्यम्, स्वरूपादपि मुख्यमिति यावत्, इति स्थितम् - सिद्धम् भवति | तथा च परामर्शस्य शुद्धप्रकाशगतत्वेऽपि न हानिरिति भावः | यद्यपि परमार्थतः ग्राहकत्वावच्छिन्नप्रकाशद्वारेणैवैतत्साधितम्, अन्यथाऽर्थोपरागकथनाऽयोगात्, शुद्धप्रकाशस्वरूपे उपरागकथायाः एव अयोगात्, तथापि तद्द्वारेण तस्याप्येतत् सिद्धमेव, परन्तु अतिसूक्ष्मतया तत्साक्षान्न कथितम्, अतश्च स्वात्ममात्रपरामर्शे शुद्धप्रकाशस्यापीयमेव वर्तनीत्यलं सूक्ष्मेक्षिकाभिः || ११ || अथ द्वादशसंख्याकस्य श्लोकस्यावतरणिकां करोति न केवलम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | आत्मात इति | आत्मात एव चैतन्यं चित्क्रियाचितिकर्तृता - तात्पर्येणोदितस्तेन जडात् स हि विलक्षणः || १२ || यतो विमर्श एव प्रधानम् आत्मनो रूपम् अमुमेव हेतुं प्रयोजनरूपम् उद्दिश्य आत्मा धर्मिस्वभावो द्रव्यभूतोऽपि, चैतन्यम् इति धर्मवाचिना [धर्मिवाचिना - K. ष्. ष्.] शब्देन सामानाधिकरण्यम् आश्रित्य उदितः कथितः, भगवता शिवसूत्रेषु चैतन्यमात्मा १ - १ इति पठितम् | चैतन्यम् इति हि धर्मवाचकोपलक्षणम्, चितिशक्तिरपरिणामिनी .........टद्दृशेः कैवल्यम् | (यो. सू. २ - २५) द्रष्टा दृशिमात्रः...............(यो. सू. २ - २०) इत्यादौ अपि हि धर्मशब्देन सामानाधिकरण्यम् आत्मनो दर्शितं गुरुणा अत्र टीका :- अत एव इति पदं व्याचष्टे यतः इति | विमर्श एव - परामर्श एव, आत्मनः - प्रकाशरूपस्य अवभासाख्यस्य प्रमातृतत्त्वस्य, रूपम् - स्वभावः, तत इति शेषः | अमुम् - विमर्शस्य आत्मनः प्रधानरूपतारूपम्, प्रयोजनरूपम् - प्रयोजकतया प्रयोजनस्वरूपम् | आत्म शब्दं व्याचष्टे धर्मि इति | धर्मिस्वभावः - चैतन्याख्यस्य धर्मस्य आश्रयत्वेन धर्मिस्वरूपः | चैतन्य शब्दं व्याचष्टे धर्म इति | प्रथमाविभक्तेर्वाच्यमाह सामानाधिकरण्यम् इति | उदित पदं व्याचष्टे कथितः इति | कुत्र केनोदित इत्यपेक्षायामाह भगवता इति ननु किमत्रैव धर्मवाचिशब्देनात्मनः कथनमस्ति उतान्यत्रापीत्यत आह चैतन्यम् इति | कुत उपलक्षणम् इत्यत आह चितिशक्तिः इति | चितिशक्तिरपरिणामिनी आत्मा भवति, तद्दृशेः - आत्मरूपायाः दृशे, कैवल्यम् - औदासीन्यं भवति | द्रष्टा दृशिमात्रा भवति इति सूत्रत्रयस्यार्थः | धर्मशब्देन - चितिशक्तिरपरिणामिनी अनन्तेन | द्रव्यं हि तत् उच्यते यद्विश्रान्तः पदार्थवर्गः सर्वो भाति च अर्थ्यते च अर्थक्रियायै, तद् यदि न कुप्यते तत् सकलोऽयं तत्त्वभूतभावभुवनसंभारः संविदि विश्रान्तः तथा भवति इति स एव गुणकर्मादिधर्माश्रयभूतपदार्थान्तरस्वभावः तामेव मुख्यद्रव्यस्वरूपाम् [मुख्यद्रव्यरूपाम् - K. ष्. ष्.] आश्रयते इति सैव द्रव्यम् | तत् अनन्तधर्मराशिविश्रमभित्तिभूतायाः तस्याः स इत्यादिना, अनन्तेन - शेषेण, पतञ्जलिसूत्रेष्वस्य सूत्रत्रयस्य स्थितत्वात् | ननु तर्हि आत्मनः अप्रधानत्वमायातम् पराश्रितो हि धर्मः स्फुटमप्रधानमेवेत्यत आह द्रव्यं हि इति | द्रव्यम् - गुणाश्रयः, प्रधानं वस्तु इति यावत् | तत्किमित्यपेक्षायामाह यत् इति | न तु तार्किकाभिमतद्रव्येष्विव गुणकर्मादिरूपः पदार्थवर्ग एवेत्यर्थः | भाति - घट इव मृदि स्फुरति | पुनः कीदृशो भवतीत्यपेक्षायाम् आह अर्थ्यते च इति | जनैः अर्थक्रियायै - निजनिजार्थक्रियार्थम्, प्रार्थ्यते च, न हि मृदोऽनिष्कृष्टो घटः उदकाहरणार्थं केनापि प्रार्थ्यते | अत्र शिष्याङ्गीकारं ज्ञात्वा सूचीप्रवेशे मुसलप्रवेशः इति न्यायमाश्रित्य धर्मितया मतेष्वपि तत्त्वादिषु आत्मधर्मत्वमेव कथयति तत् इति | भूतानि - महाभूतानि, भावाः - भौतिकानि | धर्माः - आश्रिताश्च, आश्रयाः - धर्मिणः तद्भूतानि पदार्थान्तराणि च तानि, स्वभावः - स्वरूपं यस्य तादृशः | समस्तधर्मधर्मितूप इत्यर्थः | तामेव - अर्थरूपां संविदमेव, मुख्यद्रव्यस्वरूपाम् - सर्वाश्रयत्वेन प्रधानद्रव्यरूपाम्, न तु तार्किकाभिमतद्रव्या - भासरूपाम्, सैव - संविदेव, द्रव्यम्, अन्यत्त सर्वं गुणरूपमेवेत्यर्थः | अतः एव श्रीभगवता चोक्तम् :- सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज इति | अत्र धर्मशब्देन सकलभावजातमेवोक्तम्, न तु चातुर्मास्यादिको धर्मः | अस्मच्छब्देन चैतन्यम्, एव धर्मः चैतन्यम् इति कर्तृकृदन्तात् उत्पन्नेन भावप्रत्ययेन संबन्धाभिधायिनापि प्राधान्येन दर्शितः | तथा हि संबन्धविश्रान्तस्य प्रतीतेः, द्रव्यरूपस्य च संबन्धिनः प्रकृत्या उक्तत्वात् चितिक्रियारूपं धर्मं संबद्धम् अवगमयताष्यञा निष्कृष्टांशः [निष्कृष्ट एवांशः - K. ष्. ष्.] प्रत्यायितो भवति | चितिक्रिया च चितौ कर्तृता, स्वातंत्र्यं संयोजनवियोजनानुसंधानादिरूपम् आत्ममात्रतायामेव न तु देहावच्छिन्नविज्ञानम् | ततश्चैवमत्रार्थः, सर्वं भावजातं परित्यज्यवस्तुबुद्ध्यविषयतां नीत्वा, एकं मां - तत्र सारतया स्थितम्, प्रकाशमात्रस्वरूपं सन्मात्ररूपञ्च किमपि तत्त्वम्, शरणं व्रज - स्वस्यापि सत्ताप्रदत्वेन जानीहि इति, सर्वपापानि च तत्र बन्धकं भावजातमेव ज्ञेयं | बन्धनस्यैव पापत्वात्, न तु अदृष्टस्य कस्यापीत्यलं प्रपंचेन | उपसंहारं करोति तत् इति | तस्याः - संविदः, स एव - संविद्रूप एव, कर्तृकृदन्तात् - कर्तरि कृत् इति सूत्रेण सूत्रयतीति कर्तरि विहितः यः कृत्प्रत्ययः यु प्रत्ययः सः अन्ते यस्य, तादृशात् प्रातिपदिकात्, भावे विहितेन ष्यञा, संबन्धम् - धर्मधर्मिभावम्, प्राधान्येन - आत्मस्वरूपत्वेन, दर्शितः | भावो हि स्वरूपमेव | एतदेव समर्थयितुमुपक्रम्ते तथा हि इति | संबन्धिनोर्विश्रान्तस्य संबन्धिविश्रान्तस्य, द्रव्यरूपस्य - चेतनाख्यधर्मिरूपस्य, प्रकृत्या - चित्याख्यधातुप्रकृत्या | चितिक्रियारूपम् इति, क्रियाया एव बाहुल्येन धात्वर्थत्वादिति भावः | धर्मम् - चितिक्रियाख्यम्, संबद्धम् - चेतनेन संबन्धयुक्तम्, अवगमयता - भावे विहितत्वेन सूचयता, ष्यञा - ष्यञ् प्रत्ययेन, निष्कृष्टांशः - चितिक्रियारूपः चेतनात् पृथक्कृतो भागः, प्रत्यायितो भवति - बोधितः स्यात् | तदुक्तम् :- यस्य हि गणस्य द्रव्ये भावाच्छब्दनिवेशः तदभिधाने तात्वौ भवतः इति | तात्वयोश्चात्र सर्वभावप्रत्ययोपलक्षत्वम् | ननु भवतु ततः किमित्यतः चित् इति पदं व्याख्यातुमाह चिति इति | चितिक्रिया च अहम् इति भवति इति योजना | किंस्वरूपासौ चितिक्रियेत्यपेक्षायामाह चितौ कर्तृता जडवत् अविश्रान्तत्वम् अपरिच्छिन्नप्रकाशसारत्वम् अनन्यमुखप्रेक्षित्वम् इति | तदेव अनात्मरूपात् जडात् संयोजनवियोजनादिस्वातंत्र्यविकलात् वैलक्षण्यादायि इति | तदेवं [तदेव - K. ष्. ष्.] परत्वेन प्रधानतया अभिसंधाय आत्मा चेतन इति वक्तव्ये धर्मान्तराधरीकरणाय विमर्शधर्मोद्धुरीकरणाय च आत्मा इत्यादि अनन्यमुखप्रेक्षित्वम् इत्यन्तम् | चितिक्रिया च - चेतनाख्यात् द्रव्यात् ष्यञा निष्कृष्टा चित्याख्या क्रिया च, चितौ - चेतयतीति कर्तृप्रत्ययान्तचितिशब्दवाच्ये चेतने, स्थिता कर्तृता, क्रियाया एव हि कर्ता कर्ता भवति, अन्यथा सामर्थ्यपि गौणकर्तृत्वात् जडवत् आत्ममात्रतायामविश्रान्तत्वम् - जडन्यायेन स्वरूपमात्रे स्थित्यभावः, स्वं प्रति परान् प्रति च ग्राहकत्वमिति यावत् | एतेन चित्क्रियाचितिकर्तृतातात्पर्येण इति समासपदव्याख्या | तथा हि चित्क्रिया एव चितिकतृता - चितौ कर्तृता, तस्याः यत्तात्पर्यं तेन, चित्क्रियैव चितिकतृता यथा ज्ञायते इत्यभिप्रायेणेत्यर्थः | तेन इत्यादि श्लोकशेषं व्याचष्टे तदेव इति | तदेव - अहंरूपचितिकर्तृत्वमेव, वैलक्षण्यादायि - आत्मभेदकारि, तेष्वहंपरामर्शासंभवादिति भावः | एतदवष्टंभेन शिवसूत्रस्य स्फुटं व्याख्यां करोति अस्य श्लोकस्य च संक्षिप्तार्थं कथयति तदेवम् इति | परत्वेन - एतन्निष्ठत्वेन, अभिसन्धाय - चेतसि कृत्वा, धर्मान्तराधरीकरणाय - नित्यत्वाद्यन्यधर्मगौणीभावापादनाय, विमर्शधर्मोद्धुरीकरणाय च - अहंविमर्शमुख्यीकरणाय च | अत्रचाहंविमर्शस्य प्रकाशजीवितभूतस्य अद्वैतस्थिरताकरणाय आत्मधर्मत्वमवधूय आत्मस्वरूपत्वमेवोक्तम्, न च तावता आत्मनो वस्तुतः ततो भेदः शङ्क्यः, अत्र हि शिष्यबोधनमात्रप्रयोजना एव सर्वाः प्रक्रियाः, बोधनञ्च अद्वैतविषयमेव तेन यावन्मात्रेणाद्वैत सिद्धिः तावन्मात्रमेव ग्राह्यम्, न तु बलादायातं द्वैतमपि, अपि तु ततो विमुख्यमेवाश्रयणीयम्, शब्दस्य च द्वैतापादकत्वमपरिहार्यमेव | तदुक्तम् :- यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते | तदा भिन्नमिवाभाति शाब्दीं भूमिमुपाश्रितम् || चैतन्यम् इत्युक्तम् | चित्क्रियाचितिकर्तृतातात्पर्येण इति समासः | अर्धयुक् पादविश्रान्तिः इति हि काव्ये समयः, न शास्त्रे | यदि वा चित्क्रिया आत्मा उदितः चितिकर्तृता च इति पृथगेव | एवं तु न क्वचित् पठितम् || १२ || इति | अतोपि परमार्थविचारे तु मनसोप्यत्र द्वैतापादकत्वमेव, अत एव यावदहमिति स्फुरति तावत् परिच्छिन्नप्रमातृत्वस्पर्श एव आयाति, अतश्चात्र स्वयं सदास्फुरणशीले अहंपरामर्शे समाधानमेव कार्यम् | तदुक्तम् :- हन्त रहस्यं भणामो मूढा मा भ्रमत गर्भगोलेषु | अत्यासन्नं हृदयं परिधारयत तस्य चोद्योगम् || इति | तदपि वा न तत्रारोहति समाधेयत्वेन परिच्छिन्नतापातात् तदुक्तम् :- त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विविशन्स्वयं तत् | पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् || इति | अलमनाख्ये वस्तुन्युन्मत्तप्रलापैः | सूचनया कथितं समासं स्फुटत्वेन कथयति चित्क्रिया इति | ननु कथमयं समासः संभवति न हि पूर्वार्धस्योत्तरार्धेन संबन्धः क्वापि दृश्यते इत्यत आह अर्ध इति | अर्धयुक् - अर्धेयोगः, न तु परार्धेन सह पूर्वार्धस्य योगः | पादविश्रान्तिः - पादे विश्रान्तिः - विरामः, शास्त्र - शिवप्रणीतादौ | पक्षान्तरमाह यदि वा इति | तर्हि एवमेवास्तु किमित्यप्रसिद्धाश्रयणं करिष्यामः इत्यत आह एवम् इति | शिष्यप्रशिष्यपरंपरया एतन्नैव श्रुतमित्यर्थः | अत्रायं संक्षेपः | अत एव - अवभासस्य विमर्शस्वभावत्वादेव, चित्क्रियाचितिकर्तृतातात्पर्येण हेतुना आत्मा चैतन्यमुदितः - चैतन्यमात्मा इति सूत्रे शिवन कथितः | हि - यस्मात्कारणात्, सः - आत्मा, तेन - चैतन्येन, जडाद्विलक्षणो भवति भवति च ननु यथा प्रकाशोऽप्रकाशश्च इति उभयमपि स्वात्मनि, ततश्च प्रकाश इति उक्ते जडात् न वैलक्षण्यम् उदितं स्यात्, तद्वत् विमर्शोऽपि अविमर्शोऽपि च स्वात्मनि, इति तेनापि कथं वैलक्षण्यं जडाजडयोः इत्याशङ्क्याह :- चितिः प्रत्यवमर्शात्मा परा वाक्स्वरसोदिता | स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः || १३ || चेतयति इत्यत्र या चितिः चितिक्रिया तस्याः प्रत्यवमर्शः स्वात्मचमत्कारलक्षण आत्मा स्वभावः | तथा हि - घटेन स्वात्मनि न चमत्क्रियते, बाहुल्येन प्रधानस्य धर्मस्य स्वरूपतया निर्देशः मनोधर्मस्य संकल्पस्येव मनस्तया इत्यलम् || १२ || अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- उभयम् - युगलकम्, स्वात्मनि स्थितं भवति नत्वन्योन्यं प्रति वैलक्षण्या - पादकं भवति निर्विकल्पत्वात् भेदापादनस्य च विकल्पकार्यत्वात्, तद्वद्विमर्शोपि अविमर्शोपि च इति उभयं च, स्वात्मनि स्यात्, इति - अतः कारणात्, कथं तेनापि - विमर्शयुगलकेनापि, जडाजडयोर्वैलक्ष्यण्यम् इत्याशङ्क्य - एवंरूपां शङ्कां कृत्वा, आह - कथयति चितिः इत्यादि | अत्र टीका :- चितिः इति शब्दस्य व्याख्यां करोति चेतयति इति | चेतयतीत्यत्र या चितिः, अस्मिन् विग्रहे स्थिता या धातुप्रकृतिवाच्या चित्याख्या क्रिया न तु कर्तविहितकृत्प्रत्ययान्तवाच्या चितिः, अत एवोक्तं चितिक्रिया इति | प्रत्यवमर्श पदं व्याचष्टे स्वात्म इति | स्वात्मचमत्कारलक्षणः - अहम् इतिस्वविषयास्वादरूपः | आत्मा इति पदं व्याचष्टे स्वभाव इति | एतेन प्रत्यवमर्श आत्मा यस्याः सा इति विग्रहोऽस्य पदस्य सूचितः | कथमस्याः स स्वभाव इत्यत आह तथा हि इति | न चमत्क्रियते - अहम् स्वात्मा न परामृश्यते, न स्वात्मनि तेन प्रकाश्यते, न अपरिच्छिन्नतया भास्यते, ततो न चेत्यत इति उच्यते | चैत्रेण तु स्वात्मनि अहमिति संरम्भोद्योगोल्लासविभूतियोगात् चमत्क्रियते, स्वात्मा परामृश्यते, स्वात्मन्येव प्रकाश्यते, इदमिति यः परिच्छेद एतावद्रूपतया तद्विलक्षणीभावेन नीलपीतसुखदुःखतच्छून्यताद्यसंख्यावभास- योगेन अवभास्यते, [आभास्यते - K. ष्. ष्.] ततः चैत्रेण चेत्यते इति उच्यते | एवं च विमर्शः स्वात्मनि अविमर्शोऽपि इति स्वविषय आनन्दो नानुभूयते | अस्य व्याक्यां स्वयं करोति स्वात्मा इति | परामृश्यते - परामर्शविषयतां नीयते, अत एव न प्रकाश्यते, अत्र स्वयमेव व्याख्यां करोति न इति | अपरिच्छिन्नतया न भास्यते - अहम् इति अपरिच्छिन्नाभासविषयेण न भूयते, प्रत्युत इदम् इति परिच्छिन्नाभासविषयेण भूयते, ततः कारणात् इति उच्यते - कथ्यते, इति किमिति ? तेन - घटेन, न चेत्यते - चेतनक्रियाकर्तृत्वं न आसाद्यते इति | ननु अचेतनवर्गस्येयं वार्ता भवतु चेतनवर्गस्य तु कीदृशी वार्ता इत्यत आह चैत्रेण इति | स्वात्मनि - स्वविषये, अहम् इति यः संरम्भोद्योगः - उद्यन्तृतां प्रत्युद्योगः, तस्य यः उल्लासः स एव विभूतिः - ऐश्वर्यं, तस्याः योगांत्, स्वात्मन्येव, न तु परप्रमातर्यपि, प्रकाश्यते - प्रकाशविषयेण भूयते, स्वप्रकाशत्वादिति भावः | तद्विलक्षणीभावेन, अहम् इति यावत् | यस्तु अयं चैत्रः, इति परिच्छिन्नतया परामर्शः सः तद्देहादिनिष्ठ एवेति भावः | तच्छून्यता - नीलादिशून्यता, एतेन सौषप्तावभासस्य ग्रहणम् अवभास्यते - नीलादिग्राहकत्वेननापि स्वात्माऽनुभूयते अहं नीलादिज्ञानवान् इति | ततः - तस्मात्कारणात् | उपसंहारं करोति एवञ्च इति | एतत्, अवतरणिकायां शङ्कितमित्यर्थः | चितिर्हि चेतन्क्रिया सा एव प्रत्यवमर्शस्वरूपम् इति तस्य प्रत्यवमर्शस्य स्वाश्रयादजडात् जडस्य भेदद्योतने सामर्थ्यम् इति भावः | कथमेतदित्यपेक्षायामाह स्वात्मनि इत्यसिद्धमेतत् | विमर्शो हि सर्वंसहः परमपि आत्मीकरोति, आत्मानं च परीकरोति, उभयम् एकीकरोति, एकीकृतं द्वयमपि न्यग्भावयति इत्येवंस्वभावः | प्रत्यवमर्शश्च [अनतरभिलापात्मक - K. ष्. ष्.] आन्तराभिलापात्मकशब्दनस्वभावः, तच्च शब्दनं सङ्केतनिरपेक्षमेव अविच्छिन्नचमत्कारात्मकम् विमर्शो हि इति | विमर्शः - चितिक्रियारूपः प्रत्यवर्मशः, सवसहः न तु प्रकाशत्वाद् बाह्यप्रतिबिंबग्रहणमात्रसमर्थः, अत एव परमप्यात्मीकरोति, भूतावेशसमये इत्यर्थः, तत्र हि अहम् अमुकवटस्थो यक्ष इत्यादिज्ञानमनुभूयते | पुनः किं क्रियते इत्यत आह आत्मानम् इति | नाहं चैत्रोऽस्मि इति भावः | उभयमपि एकीकरोति - य एव वटयक्षः स एवाहम् इति | द्वयम् इति | द्वयम् - आत्मानं परञ्च अहं चैत्रोपि नास्मि यक्षोपि नास्मि इत्यर्थः | तदुक्तम् :- रज्ज्वां नास्ति भुजंगस्त्रासं कुरुते च मृत्युपर्यन्तम् | भ्रान्तेर्महती शक्तिर्निश्चेतुं केन शक्यते नाम || इति | एतेन पदद्वयेनैव अभिप्रेतोऽर्थः सिद्धः, शेषाणि विशेषणानि प्रत्यवमर्शस्य अत्याश्चर्यत्वद्योतनमात्रपराणीति ज्ञेयम् | तत्र परा वाक् इति पदं व्याचष्टे प्रत्यवमर्शश्च इति | प्रत्यवमर्शश्च | चितिरूपतया प्रोक्तः प्रत्यवमर्शश्च, आन्तरञ्च तत् - बाह्ये मध्यमाभावेन स्थितम्, न तु पश्यन्तीपदमारूढं वैखरीभावं वा पतितम्, आन्तरत्वे तु पराभावेन स्थितम्, अभिनाषात्मकम् - व्यक्तवाग्रूपम्, न तु कुक्कुटादिरुतवत् अव्यक्तम्, शब्दनम् - शब्दोच्चारणं सः स्वभावः यस्य तादृशः, शब्दस्मृतेरेव विकल्परूपप्रत्यवमर्शत्वात्, एतेन वाक्त्वं साधितम् | पराशब्दवाच्यं पूर्णत्वं साधयति तच्च इति | तच्च शब्दनम् - प्रत्यवमर्शस्वरूपभूतं शब्दनम्, सङ्केतनिरपेक्षमेव - वाह्यशब्दवत् सङ्केतापेक्षारहितमेव, अन्यथा सद्योजातबलादौ तदुत्पादो न स्यात्, तस्यापि हि सूक्ष्मः अहम् इति परामर्शो विद्यते एव, अन्यथा स्वात्मार्थ स्तन्याद्यभिलषणमयुक्तं स्यादिति भावः | तथा अविच्छिन्नः - इदन्तास्पर्शाभावेन परमात्मनः अप्रच्युतः यः चमत्कारः - अन्तर्मुखशिरोनिर्देशप्रख्यम् अकारादिमायीयसाङ्केतिकशब्दजीवितभूत [भूतं नीलमिदं चैत्रोऽहम् इत्यादि - K. ष्. ष्.] - नीलमिदंचैत्रोऽहमित्यादिप्रत्यवमर्शान्तरभित्तिभूतत्वात्, पूर्णत्वात् परा, वक्ति विश्वम् अभिलपति [अपलपति - K. ष्. ष्.] प्रत्यवमर्शेन इति च वाक्, अत एव सा स्वरसेन अहम् इति स्वरूपः स्वरूपास्वादः स आत्मा यस्य तादृशम्, अत एव अन्तर्मुखः यः शिरोनिर्देशः - शिरःकम्पादिना कृतः वस्तुनिर्देशः तस्य प्रख्यम् - सदृशम्, यद्यप्यत्रापि सङ्केतो विद्यत एव, एतावन्मात्रस्तनिका इत्यादौ अभिनये हि सङ्केतो विद्यत एव, तथाप्यस्फुटताऽभिप्रायेणेदमुक्तम् | तथा अकारादयः ये मायीयाः साङ्केतिकशब्दाः - भेदरूपत्वेन मायाकार्यसङ्केतविषयगवादिशब्दाः ते संस्कारभावेन जीवित भूतानि येषां तानि च तानि लीलमिदम् चैत्रोहम् इत्यादीनि प्रत्यवमर्शान्तराणि - अन्ये बाह्याऽऽन्तरवस्तुविषयाः विकल्परूपाः प्रत्यवमर्शः, तेषां भित्तिभूतत्वात् - आधारतया स्थितत्वात् | तदुक्तम् :- गुणादिस्पन्दनिष्पन्दाः सामान्यस्पन्दसंश्रयात् | लब्धात्मलाभाः इति | पूर्णत्वात्, एवंरूपया पूर्णतयेत्यर्थः, पराशब्दस्य हि पूर्णत्वमेवार्थः, तथा च गर्भस्थितसकलपश्यन्तीमध्यमावैखरीरूपसकलवाक्प्रपंचा इत्यर्थः | एतेन परात्वं साधितम् | समुच्चयेन वाक्शब्दस्य व्याख्यानं करोति वक्ति इति | वक्ति इति पदं व्याचष्टे अभिलपति इति | प्रत्यवमर्शेन - प्रत्यवमर्शवृत्त्या, न तु उच्चारवृत्त्या इत्यर्थः | च शब्दः समुच्चये पूर्वव्याख्यया सह इमां व्याख्यां समुच्चिनोति | स्वरसोदिता इति पदं व्याचष्टे स्वरसेन इति | स्वः - स्वात्मभूतः यः रसः - आस्वादः, न तु कस्यापि केनापि प्रयत्नेन, चिद्रूपतया स्वात्मविश्रान्तिवपुषा उदिता सदानस्तमिता [सततम् - K. ष्. ष्.] नित्या अहमित्येव | एतदेव परमात्मनो मुख्यं स्वातन्त्र्यम् ऐश्वर्यम् ईशितृत्वम् अनन्यापेक्षित्वम् उच्यते | परापरं तु इदंभावरूपस्य प्रत्यवमर्शस्य अख्यातिप्राणस्य उद्बोधमात्रेऽपि अहंभाव एव विश्रान्तेः श्रीसदाशिवादि - भूमौ पश्यन्तीदशायाम् | अपरं तु इदंभावस्यैव निरूढौ मायागर्भाधि - स्वभावेन इति यावत् | स चास्याः चिद्रूपतैव इति चिद्रूपतया इत्युक्तम् | कीदृश्या ? स्वात्मनि या विश्रान्तिः - अहम् इति विश्रमणम् सा वपुः यस्यास्तादृश्या | उदिता इति पदं व्याचष्टे सदा इति | सदानस्तमिता सदोदितेत्यर्थः, सकृद्विभातेति यावत् | तदुक्तम् :- सकृद्विभातोयमात्मा इति | अस्य पदस्यापि स्वयमेव व्याख्यां करोति नित्या इति | अहम् इत्येव, नित्याहन्ताभावेन स्फुरणशीलेत्यर्थः | द्वितीयार्धं व्याख्यातुमाह एतद् इति | एतदेव च - प्रत्यवमर्श एव च, स्वातन्त्र्यशब्दापेक्षं नपुंसकत्वम्, परमात्मनः - प्रकाशरूपस्य अपरिमितप्रमातुः, न तु ग्राहकाभिमतस्य मितप्रमातुः, तस्य परिमिताहन्तास्पदत्वात् | ऐश्वर्य पदं व्याचष्टे, ईशितृत्व इति | पर्यायान्तरमाह अनन्य इति | उच्यते इति, पण्डितैरिति शेषः | नन्वत्र परात्वं भवतु परापरात्वन्तु अस्याः कुत्रास्तीत्यत आह परापरम् इति | अख्यातिप्राणस्य - उपर्यपि मायातत्त्वस्पर्शात् मायाजीवितस्य, उद्बोधमात्रेपि - प्रादुर्भावमात्रेऽपि, न तु स्वकार्यौन्मुख्ये, आदिशब्देन ईश्वरादेर्ग्रहणम् | यद् वक्ष्यति :- ईश्वरो बहिरुन्मेषो निमेषोन्तः सदाशिवः इति | ईश्वरदशायाम् अहन्तेदन्तयोः समप्राधान्येऽपि ब्रह्मादिभ्योऽतिशययुक्तत्वात् श्रीसदाशिवेन सह समकक्षतया कथनम् | अपरात्वं कुत्रास्तीत्य - पेक्षायामाह अपर इति | निरूढो - विश्रान्तौ | ननु तर्हि श्रीसदाशिवादीनामपि कृतानामेव विष्णुविरिञ्चेन्द्रादीनाम्, तत्तु तेषां [एषाम् - K. ष्. ष्.] परमेश्वरप्रसादजमेव | इति अन्यनिरपेक्षतैव परमार्थत आनन्दः, ऐश्वर्यम्, स्वातन्त्र्यम्, चैतन्यम् | तस्मात् युक्तमुक्तम् ..........टेन जडात् स हि विलक्षणः | इति || १३ || प्रधानागमेष्वपि एतत् प्रदर्शितमेव इति निरूपयति : - सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः || १४ || ऐश्वर्यं स्यादेवेत्यत आह तत्तु इति | तत् - ऐश्वर्यम्, तेषाम् - सदाशिवादीनाम्, परमेश्वरप्रसादजम् - परप्रकाशरूपपरशिवप्रसादजम् | तदुक्तम् :- एते तदीयैश्वर्यविप्रुड्भिरीश्वरीभूताः इति | अथवा कथमैश्वर्यादेरनन्यापेक्षित्वस्वरूपत्वमित्यपेक्षायामाह परापरम् इति | उपसंहारं करोति इति इति | इति - अतः कारणात् | एतदवष्टंभेन फलितं समर्थनीयं सिद्धत्वेन कथयति तस्मात् इति | प्रत्यवमर्शस्य हि जडाजडभावविवेचकत्वं स्फुटमेवानेन श्लोकेन कथितमिति भावः || १३ || अथ चतुर्दशश्लोकस्यावतरणिकां करोति प्रधान इति | अत्र टीका :- प्रधानागमेषु - महाऽद्वैतवादिषु मालिनीविजयादिप्रधानशास्त्रेषु | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | सा स्फुरत्ता इति | अत्र टीका :- प्रकृतिचितिरूपप्रत्यवमर्शपरामर्शपरं सा इति पदं स्फुटार्थत्वेन अव्याख्यया स्फुरत्ता इति पदं व्याचष्टे इह इति | इह - अत्र व्यवहारविषया इह घटः कस्मात् अस्ति, खपुष्पं [खपुष्पं च - K. ष्. ष्.] कस्मात् नास्ति इत्युक्त इति - वक्तारो [इति उक्ते वक्तारो भवन्ति - K. ष्. ष्.] भवन्ति घटो हि स्फुरति मम न तु इतरत् इति | तदेतत् घटत्वमेव यदि स्फुरत्त्वं स्फुरणसंबन्धः, तत् सर्वदा [तत्सर्वस्य स्फुरेत् - K. ष्. ष्.] सर्वस्य स्फुरेत् न कस्यचिद्वा, तस्मात् मम स्फुरति इति कोऽर्थः, मदीयं स्फुरणं स्पन्दनम् आविष्टम् [आविष्ट - K. ष्. ष्.] इति | स्पन्दनञ्च किञ्चिच्चलनम्, एषैव च किञ्चिद्रूपता यत् अचलमपि भावभरिते जगति, घटः कस्मात् - अर्थतः कारणात्, अस्ति - सत्तां भजते तस्य अस्तित्वेन प्रसिद्धत्वात्, खपुष्पं कस्मान्नास्ति, अस्यापि नास्तित्वेन प्रसिद्धेः, इत्युक्ते - निर्णयपरेण केनापि पृष्टे सति, इतिवक्तारः एवमुत्तरकर्तारः भवन्ति, इति किमिति ? हि - यस्मात्, घटः मम स्फुरति - मद्बोधे स्फुरणकर्ता भवति, अतः अस्तीति भावः | इतरत् - खपुष्पम्, न स्फुरति, अतो नास्तीति भावः | ननु ततः किमित्यत आह तदेतत् इति | तत् - तस्मात्कारणात्, एतत् - भासमानम्, घटत्वम् - घटत्वाक्यः स्वभाव एव, स्फुरत्त्वम् - स्फुरणकर्तृत्वम्, अस्य पर्यायमाह स्फुरंसंबन्धः - स्फुरणक्रियासंबन्धः, कर्तुः क्रियासंबन्धस्य युक्तत्वात् अन्यथा कर्तृत्वायोगात्, तत् सर्वदा सर्वस्य स्फुरेत् - न हि घटस्य घटत्वं केचित् प्रत्येव दृश्येत, वा - पक्षान्तरे, अस्फुरणस्वभावत्वेऽङ्गी क्रियमाणे कस्यचिन्न स्फुरेत्, विशेषाभावात्, न चैतद्युक्तं स्फुरणाविष्टस्य एकस्यैव तत्स्फुरणात् इति भावः | ननु तर्हि किमत्र वाच्यमित्यत आह तस्मात् इति | उत्तरमाह मदीयम् इति | मदीयम् - मम प्रमातुः संबन्धि, स्फुरणम् - प्रकाशरूपा स्फर्तिः, स्पन्दनम् - घटविषयीकरणरूपं किंचिच्चलनम्, आविष्टम्, इति, एवमर्थो भवतीत्यर्थः | ननु स्पन्दनं किमुच्यते इत्यत आह स्पन्दनञ्च इति | किंचित्त्वस्य निर्णयं करोति एषैव इति | चलमाभासते, चलतया चलमाभासते इति, प्रकाशस्वरूपं हि मनागपि नातिरिच्यते, अतिरिच्यते इव इति तत् [इति अचलम् - K. ष्. ष्.] अचलमेव आभासभेदयुक्तमिव [आभासभेदयुक्तमेव - K. ष्. ष्.] च भाति | तत उक्तम् :- आत्मैव सर्वभावेषु स्फुरन्निर्वृतचिद्वपुः | अनिरुद्धेच्छाप्रसरः प्रसरद्दृक्क्रियः शिवः || इति | तथा :- अतिक्रुद्धः प्रहृष्टो वा किं करोमिति वा मृशन् | धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः || (स्प. २२) इति | भ्रमेण दृश्यते इत्यर्थः | ननु पारमार्थिकमेव किन्न चलनं स्यादित्यत आह प्रकाश इति | नाऽतिरिच्यते - चलनरूपविशेषयुक्तं न संपद्यते, अतिनिर्मलत्वेन न किंचित् - कल्पत्वात्, अन्यथा अतिनिर्मलत्वायोगात्, अतिनिर्मलं हि तदुच्यते यत् स्वयम् असद् इव परं प्रतिबिंबतया भासयति, अतिनिर्मलत्वानङ्गीकारे तु प्रकाशत्वाऽयोगः, प्रकृष्टं काशनं हि समलस्य न संभवति मलावृतत्वात्, न किंचित् त्वे च किंचिद् रूपस्य चलनस्यायुक्तत्वं स्फुटमेव, न हि अतिमुक्तसारे वस्तुनि स्थूलस्य अवस्थानसंभवः, तथापि च यत् प्रतिबिंबतया भासनं तदेव किम्चित् त्वेन साधितम्, यद्यपि असतः किंचित् त्वमयुक्तमेव तथापि सत्यताभ्रमग्रस्तान् प्रत्येवमुक्तम् इत्यलं प्रपंचेन | ननु यदि नातिरिच्यते तर्हि स्पन्दोऽस्य नास्त्येवेत्यत आह अतिरिच्यत इव इति | पारमार्थिकत्वशङ्कानिवारणप्रयोजनम् इव शब्दग्रहणम् | इति - अतः कारणात् | तत् - प्रकाशस्वरूपम्, अचलमेव सत् आभासभेदयुक्तमिव च - चलत्वाअख्याभासभेदसहितमिव च, भाति, तथास्वभावत्वात्, न च स्वभावस्य पर्यनुयोगो युक्त इति भावः | अत्र शास्त्रान्तरसम्मतिमाह तत इति | स्फुरन् इति, स्फुरत्तायुक्तो भवतीत्यर्थः | स्पन्दतत्त्वविविक्तये - किंचिच्चलनरूपस्पन्दस्वरूपविवेचनार्थम्, ............ष्पन्दतत्त्वविविक्तये | (स्प. २१) इति | गुणादिस्पन्दनिःष्यन्दाः................| (स्प. १९) इति च | लोकेऽपि विविधवैचित्र्ययोगेन [लोकेऽपि विविधवैचित्र्ययोगेऽपि स्वरूपात् अचलन् जनो गम्भीरः स्पन्दवान् इति उच्यते - K. ष्. ष्.] स्पन्दवत्त्वम् | सत्ता च भवन - सततमुद्युक्तः सन्निति सबन्धः, तत्र अतिक्रुद्धाद्यवस्थासु प्रतिष्ठितः स्पन्दः विशेषस्पन्दाधारभूतः सामान्यस्पन्दो भवति इति योजना | गुणादिस्पन्दनिष्यन्दाः गुणत्रयप्रधानाः सुखादिस्पन्दप्रवाहाः, सामान्यस्पन्दसंश्रयात् लब्धात्मलाभाः सन्तः ज्ञस्य परिपन्थिनो न स्युरिति संबन्धः | एतच्च स्पन्दटीकायां वीक्ष्यमीह तु विमर्शरूपस्फुरत्तास्वभावस्पन्दनाममात्रव्यवहारोदाहरणमात्र- मेवोपयोगीति मूलकारेणापि तन्मात्रमेव कथितम्, अस्माभिश्च स्तोकं संबन्धमात्र - योजना कृतातिविस्तरभयात् प्रकृतानुपयोगाच्च सम्यङ्निर्णयो न कृत इत्यन्यथा न भ्रमितव्यमित्यलम् | अयं भावः, यदि प्रत्यवमर्शो नाम न किञ्चित् स्यात् तदैतेषु महारहस्यशास्त्रेषु तत्पर्यायभूतस्फुरत्तायास्तत्स्वरूपस्य स्पन्दस्य च व्यवहारो न स्यात् इति लोकव्यवहारमप्यत्र साधकत्वेनाश्रयति लोके इति | विविधानि यानि वैचित्र्याणि तेषां योगेन, स्पन्दवत्त्वम्, किञ्चित्क्षोभावेशात् अचलत्वेन गम्भीरत्वमिति विवेकः | एतेन स्फुरत्ताभावः चितिरूपस्य प्रत्यवमर्शस्य साधितः | प्रकाशस्पन्दो हि स्वरूपप्रत्यवमर्शव्यतिरिक्तो न संभवत्येव तत्सन्निधौ तद्व्यतिरिक्तस्य सर्वस्य वह्निसन्निधाविव तूलराशेरसंभवात्, प्रत्यवमर्शस्तु तदैश्वर्यविजृम्भामयत्वेन कल्पितः, न तादृशीमयोग्यतामावहतीत्यलम् | कर्तृता सर्वक्रियासु स्वातन्त्र्यम् | सा च खपुष्.पादिकमपि व्याप्नोति इति अथ महासता इति पदं व्याचष्टे सत्ता च इति | महदिति अवयवभूतपदं तावदवस्थाप्य विशेष्यभूतं सत्तेति अवयवं व्याचष्टे भवन इति | भवने - सत्तायाम्, कर्तृता पदं व्याचष्टे सर्व इति | अयं भावः, धातुपाठे तावत् अस भुवि इति पठ्यते, भूश्च भवनं तच्च प्रादुर्भावमात्रं न तु नवीन उत्पादः | यदुक्तं श्रीभगवता :- नासतो विद्यते भावः इति | तस्माद्धातोश्च कर्तरि लट् तदुपरि च शतृप्रत्ययः सोऽपि स्थानिवद्भावेन कर्तर्येव, ततः श्नसोरल्लोपः इत्यलोपः, ततः सुप्रत्ययः, सन्निति सिद्ध्यति, स च प्रादुर्भवन्नित्यस्यार्थे, तस्य सतः भावः स्वरूपभूतो येन तत् सन्नित्यच्यते, सा सत्ता भावे तल्प्रयोगात्, एतेन प्रत्ययेन धर्मिणो निष्कृष्टः कर्तृतासाधकः भवनक्रियारूपः केवलो धर्म उच्यते, स च फलतः प्रादुर्भावः, तमेव चाश्रित्य सर्वाः क्रियाः स्वरूपं लभन्ते, पचतीत्यादौ प्रयोगे हि पचन् भवतीत्यादिरर्थ एव परमार्थतोऽस्ति भवनाभावे पाचकत्वायोगात्, अतोऽस्य प्रादुर्भावक्रियाकर्तुः सर्वक्रियाकर्तृत्वं सिद्धमेव सर्वत्र | स्वातन्त्र्यं च प्रत्यवमर्श एव प्रकाशस्य नान्यत् किञ्चित् | प्रादुर्भावश्च प्रकाशस्य सर्वदा स्थितस्याभिव्यक्तिरूपः स्वात्मप्रत्यवमर्श एवेति सिद्धं सत्तायाः चितिरूपप्रत्यवमर्शत्वम् इति | अस्या एव विकल्परूपप्रत्यवमर्शत्वनिवारणाय महच्छब्दप्रयोगं सफलीकर्तुमाह सा च इति | सा च - सत्ता च, खपुष्पादिकं व्याप्नोति सर्वक्रियास्वातन्त्र्यात्, नास्तीत्युक्ते हि असन् भवतीति फलतो हि ज्ञायते, ततश्चेदं भवनं भावमात्रनिष्ठभवनवन् न परिमितम् | ननु कथं न परिमितं भावाभावमात्रव्याप्तेः ? सत्यम्, भावाभावव्यतिरिक्तं किमस्ति न वा ? न चेत् तदा फलितमस्मन्मनोरथेन, न हि असतोऽव्याप्यत्वं युक्तम्, तथा चास्यापि व्याप्यत्वं केनापहस्तितम् | तदुक्तम् :- समुदेति यथा भावैर्विना भानुर्नभस्तले | वेद्यं विनैव भगवन् भवान् केन कृतोदयः || महती, देशकालौ नीलादिवत् सैव सृजति इति ताभ्यां विशेषणीया न भवति, यत् किल येन तुल्यकक्ष्यतया भाति तत् तस्य विशेषणं कटक इव इति | अस्ति चेत्तर्हि सुतराम्, स्वयमेव तत्रापि भवनव्याप्त्यङ्गीकरणात् | ननु तर्हि द्वैतापत्तिः | अहो विस्मृतिः, समनन्तरमेव चितिक्रियायास्तत्कर्तुश्चैकतया व्यपदेशो दर्शितः, अत्रापि स एव न्यायः, अत एव वेदान्तिभिरपि सत्तामात्रमेव ब्रह्मणो रूपमुक्तम्, यत्तु ते विमर्शासहिष्णुत्वमस्य कथयन्ति तदन्यत् किञ्चिदेव | अस्माभिरपि सदाशिवतत्त्वस्य तथा कथनात् परमशिवावस्थामनारूढेष्वेतच्चोद्यानवकाशात् इति | स्वाभिप्रायमुपसंहरति इति इति | इति - अतः कारणात्, इयं सत्ता महतो - अपरिच्छिन्ना भवति, अत एव सूत्रे महासत्तेत्युक्तम् इति भावः | देशकालाविशेषिणी इति पदं व्याचष्टे देश इति, सैव - प्रत्यवमर्शरूपा चितिरेव, सृजति - विमर्शरूपत्वेन परमप्रकाशस्वरूपाच्च्यावयति, भासयतीति यावत्, विमर्शरूपो विसर्गो हि त्रिधा, स्थूलः, सूक्ष्मः, परश्च | तदुक्तम् :- विसर्गस्त्रैधमुच्यते इति | तत्र परः आकारवाच्यः आनन्दरूपत्वात्, येनाभेदप्रधानस्य शिवतत्त्वस्य प्रादुर्भावः | एतच्च निराभासादिति मङ्गलश्लोके प्रतिपादितम् | ननु कथं तस्यैवाहंविमर्शरूपस्य शक्तितत्त्वस्य स्वाविर्भावकत्वं युक्तम् ? सत्यम्, अत्राविर्भावकत्वकथनं बोधनमात्रप्रयोजनमेव, परमार्थतस्तु सर्वदा सर्वमयमेव तत्तत्त्वम् न तु केनापि क्वचिदेव | तदुक्तम् :- वस्तुनि योऽसौ निवसति कार्त्स्न्येन विस्मयनिधये तस्मै नमो नमः श्रीमते गुरवे | इति | गुरुरत्र विमर्शशक्त्या सहैकीभूतः परः शिव एव ज्ञेयः | सूक्ष्मः अ इत्यनेनोच्यते तेन च भेदाभेदप्रधानस्य शिवादेः शुद्धविद्यान्तस्य तत्त्वव्रातस्य प्रादुर्भावः | स्थूलश्वासश्च हकारवाच्यः, तेन भेदप्रधानस्य मायादेस्तत्त्वसमूहस्य प्रादुर्भावः | इति स्फुटमेव स्थूलभावेनास्या एव देशकालप्रकृतित्वम् | ननु सृजतु ततः किम् इत्यत आह इति इति | इति - अतः कारणात्, ताभ्याम् - देशकालाभ्याम्, विशेषणीया न भवति, न हि तत्सृष्टस्य तद्विशेषणत्वं युक्तम्, तत्सृष्टेः चैत्रस्य | न च देशकालौ विमर्शेन तुल्यकक्ष्यौ भातः तयोः इदन्तया तस्य च अहन्तया प्रकाशे तुल्यकक्ष्यत्वानुपपत्तेः | एवं देशकालास्पर्शात् विभुत्वं नित्यत्वं च, सकलदेशकालस्पर्शोऽपि तन्निर्माणयोगात् इति ततोऽपि व्यापकत्वनित्यत्वे | तदुक्तम् :- महासत्ता महादेवी विश्वजीवनमुच्यते | इति | सारम् इति यत् अतुच्छं रूपं तत् इयमेव विमर्शशक्तिः, ग्राह्यग्राह - पूर्वं तदविशिष्टतया सिद्धस्य तस्योत्तरकाले तद्विशेषणताया व्यर्थत्वात् | हेत्वन्तरमाह यत् इति | कुतो न तुल्यकक्ष्यौ भात इत्यत आह तयोः इति | तयोः - देशकालयोः | तस्य - विमर्शस्य, प्रकाशे - परप्रकाशविषये प्रतिबिम्बतया स्फुरणे, परप्रमाता हि स्वात्मानमहमिति गृह्णन् तमहंभावमपि स्वात्मविश्रान्त्यैव गृह्णाति, अन्यथा तस्यापि बाह्यविकल्पत्वापातात्, देशकालयोस्त्विदन्तया ग्रहणं स्फुटमेव, तथा च तद्ग्रहणकाले तस्या ग्रहणं नास्ति, तद्ग्रहणकाले च तयोरिति का विशेषणविशेष्यभावकथेति भावः | एतेन फलिते विभुत्वनित्यत्वे अस्याः कथयति एवम् इति | देशानवच्छेदे विभुत्वं कालानवच्छेदे च नित्यत्वं स्फुटमेवेति भावः | ननु तर्हि यथा न देशो देशस्य कालः कालस्य वापरः | तथा त्वययपि भगवन् न तौ भिन्नौ कदाचन || इति न्यायेन देशकालसमानयोगक्षेमत्वमेवास्यायातम् इत्यत आह सकल इति | तन्निर्माणयोगात् - देशकालसर्जनसमये ताभ्यां स्रष्टतया संबन्धात् | ततोऽपि, देशकालाभ्यां बहिरपीत्यर्थः, तयोरेतदन्तर्गतत्वादिति भावः, ततश्च नास्यास्ताभ्यां तुल्यौ योगक्षेमौ इत्यभिप्रायः | अत्र वृद्धसम्मतिमाह महा इति | विश्वजीवनम् इत्यनेन देशकालाविष्टत्वमप्युक्तम्, तयोरपि विश्वान्तर्गतत्वात्, यच्च येन जीव्यते न तत्तस्य विशेषणं युक्तम् | सैषा इति तावदवस्थाप्य सारतया इति पदं व्याचष्टे सारम् इति | सारपदवाच्यम् आह अतुच्छम् इति | काणां यत् प्रकाशात्मकं रूपं तस्यापि अप्रकाशवैलक्षण्याक्षेपिका इयमेव इति श्रीसारशास्त्रेऽपि निरूपितम् :- यत्सारमस्य जगतः सा शक्तिर्मालिनी परा | इति | सैषा इति शक्तिप्रत्यभिज्ञानं दर्शितम् | हृदयं च नाम प्रतिष्ठास्थान- अतुच्छम् - न तु भावराशिवत् भावमात्रसिद्धम्, अन्यथा जगतः सारदानायोगात्, न हि शशशृङ्गस्य धनुषः सारदाने शक्तिर्दृष्टा, यच्च, जगतस्तुच्छता कथ्यते तज्जगत्त्वापेक्षामात्रेण, परमार्थतस्तु सारात् प्रादुर्भूतत्वेन तदपि सार एव | इयम् इति, समनन्तरप्रोक्तस्वरूपा | ननु कथमस्यास्सारत्वमित्यत आह ग्राह्य इति | प्रकाशात्मकं रूपम् - सारतया स्थितः प्रकाशभागः, घटसारतया स्थितः मृद्भाग इव, तस्यापि - ग्राह्यादिगतस्य प्रकाशात्मकरूपस्य च, अप्रकाशेभ्यो यद्वैलक्षण्यम् - भेदः, तस्याक्षेपिका - आक्षेपकारिणी, प्रकाशिकेति यावत् | न केवलं परप्रकाशस्यैव वैलक्षण्याक्षेपिकेयमपि तु सर्वेषां ग्राह्यग्राहकाणाम् इत्यपिशब्दाभिप्रायः | इति - एतत्, श्रीसारशास्त्रे - मालिनीविजये, निरूपितम् इति, श्रीपरमेश्वरेणेत्यर्थः | ननु तर्हि जडेभ्यो वैलक्षण्यमेव ग्राह्यग्राहकाणामियं करोति सारत्वं तु प्रकाशस्यैव युक्तम् | पुनरपि विस्मृतिर्जाता किं कुर्मः, प्रकाशादस्या न कोऽपि भेदः, बोधनार्थमेवैकत्र तत्त्वे द्वित्वमारोपितम् | ननु के ते जडाः येभ्यः प्रतियोगिभूतेभ्यो वैलक्षण्यं करोति, ग्राह्याश्चेत्तेषामपि वैलक्षण्यमेव साधनीयम् ? सत्यम्, सारभागमपेक्ष्य तेषां जडेभ्यो वैलक्षण्यमत्राभिप्रेतम्, यस्तु ग्राह्यताख्यः स्वभावः स भेदप्रतियोग्यवेति न काप्यनुपपत्तिः | ननु केन वाक्येनैतत्तत्र निरूपितम् इत्यत आह यत्सारम् इति | मालिनी - नादिफान्तवर्णसमाम्नायरूपमहामंत्रवाच्यत्वेन त्रिकशास्त्ररतैः सङ्केतिता प्रत्यवमर्शशक्तिः, सैव हि स्वान्तः सर्वं जगद्धारयति, परा - परारूपा महाद्वैतप्रधानत्वात् इति शब्दः श्रीसारशास्त्रवाक्यसमाप्तौ | सूत्रे स्थापितस्य सैषा इत्यस्य व्याख्यां करोति शक्ति इति | शक्तिप्रत्यभिज्ञानम् - प्रत्यवमर्शरूपायाः चितेः प्रत्यभिज्ञा, स्वदर्शनरीत्या पूर्वं निर्णीइतायाः पुनर्दर्शनान्तररीत्या निर्णेतुमुपात्तायाश्चानुसन्धानरूपं प्रत्यभिज्ञानमिति यावत् | हृदयम् इति व्याचष्टे प्रतिष्ठा इति | प्रतिष्ठायाः - मुच्यते, तच्च उक्तनीत्या जडानां चेतनम्, तस्यापि प्रकाशात्मकत्वम्, [प्रकाशात्मत्वम् - K. ष्. ष्.] तस्यापि विमर्शशक्तिः इति विश्वस्य परमे पदे तिष्ठतो विश्रान्तस्य तस्य [तिष्ठतो विश्रान्तस्य इदमेव हृदयम् - K. ष्. ष्.] इदमेव हृदयं विमर्शरूपं परमन्त्रात्मकं यत्र तत्र [तत्र तत्र - K. ष्. ष्.] अभिधीयते | सर्वस्य हि मन्त्र एव हृदयम्, स्वस्य विश्वस्य च स्थितेः, स्थानम्, व्यवस्थापकत्वात्, विमर्शेनैव हि प्रकाशस्य भावानां च स्वरूपव्यवस्था भवति, तत्र प्रतिष्ठितस्पन्दरूपया प्रकाशव्यवस्था स्वभावमवभासस्य इति न्यायेन विशेषस्पन्दरूपया भावव्यवस्थेति विभागः | हृद्देशे एव हि सर्वभावव्यवस्था सर्वैरनुभूयते इति सर्वं प्रतीतिसाक्षिकमेव इति न्यायेनास्या अपि सर्वव्यवस्थापकत्वेन हृदयत्वमेवेति भावः | तच्च - हृदयं च, अजडानाम् - ग्राहकरूपाणामजडवस्तूनाम्, चेतनम् - सारतया प्रोक्तः परिच्छिन्नः प्रकाशभाग एव भवति, तस्यापि - चेतनस्यापि, प्रकाशात्मकत्वं भवति, शुद्धप्रकाशादुत्थितत्वात्, तस्यापि - चेतनात्मतया स्थितस्य शुद्धप्रकाशस्यापि, विमर्शशक्तिः भवति | मध्ये परमेष्ठिनः इति पदं व्याचष्टे विश्वस्य इति | अर्थात् विश्वस्य तत्त्वषट्त्रिंशकात्मनो जगतः, परमे पदे - परमशिवरूपे सप्तत्रिंशे स्थाने | तिष्ठतः इत्यस्य पर्यायमाह विश्रान्तस्य इति | विगृहीतस्य समस्तत्वेन परामर्श करोति तस्य इति | इदं विमर्शरूपमेव - प्रत्यवमर्शस्वरूपमेव, पण्डितैः तस्य - परमेष्ठिनः, ग्राहकसारविज्ञानसार - शुद्धप्रकाश - सारत्वात्, हृदयम् यत्र तत्र - सर्वशास्त्रेषु, अभिधीयते | एतेन प्रोक्ता इत्यस्य व्याख्या | कीदृशम् ? परमन्त्रात्मकम् - महामन्त्रस्वरूपम् | तदुक्तम् :- आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् इति | हेतुगर्भमिदं विशेषणम्, यतः परमन्त्रात्मकं तत एव हृदयमित्यर्थः | मन्त्रश्च विमर्शनात्मा, विमर्शनं च परावाक्च्छक्तिमयम् | तत एवोक्तम् :- न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः | इति | तत्र तावत्समापन्ना मातृभावम्........................ | ननु परमन्त्रात्मकत्वं कथमस्य ? सत्यम्, मन्त्रः - गुप्तभाषणम् तच्च विमर्श एवान्तरशब्दनरूपत्वात्, तच्चाहंपरामर्शत्वात्, परत्वञ्च अस्य विकल्परूपेभ्यः अन्यप्रत्यवमर्शेभ्यः उत्तीर्णत्वात्, अथवा मन्त्रशब्देनात्र लक्षणया मन्त्रवीर्यं लक्ष्यते, अतः परमन्त्रवीर्यरूपमित्यर्थः, मन्त्रवीर्यत्वं च विमर्शस्य स्फुटमेव, अविमृष्टो हि मन्त्रो न किमपि फलं दातुं समर्थः | तदुक्तम् :- तदास्य बलिनो [बलम् - C.] मत्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् || इति | सर्वज्ञबलं ह्यत्रात्मबलरूपं विमर्शनमेवेष्टम् | करणानां च स्फुटमात्मबलेन स्वक्रार्यसाधकत्वम् इत्युपमानतया ग्रहणम्, महामन्त्रस्य च शैवादिनयेषु बहुप्रकाराः बीजवर्णसमुदायमयाः बहवः सङ्केताः, ते अतिरहस्यत्वात् स्फुटमनुकृत्य वक्तुमयोग्या एवेति निजनिजगुरुभ्य एव ते महासेवापूर्वमासादनीयाः जप्याश्च, अस्माभिस्तु प्रसङ्गात्तद्वीर्यनिर्णय एव कृतः, परमार्थविचारे तु वीर्यमात्रासादनमेव जपादेः - फलं, अधिगतमन्त्रवीर्यास्तु व्यवहारकथास्वपि मन्त्रजपनिष्ठा एव | तदुक्तम् :- कथा जपः इति | अधिगमस्तु तस्य सदास्थितस्यावधानमात्रेण तत्परत्वमेव न त्वपूर्वोधिगमः, अवधानं च शनैः शनैः जपादिद्वारेण, येषां तद्रहित एवाधिगमस्तीव्रतरभगवच्छक्तिपाताघ्रातेभ्यस्तेभ्यो नम एव | तदुक्तम् :- न न्यायतो न जपतः स्याद्यस्याविधिपूर्वकम् | एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् || इति | ये तु प्रतिदिनं जपं कुर्वन्तोऽपि तद्वीर्येऽवधानं न कुर्वन्ति, सिकताभ्यस्तलार्थिनां तेषां विधिरेव त्राणम्, अधिगतमन्त्रवीर्यस्य च युगपदेव सर्वमन्त्रोच्चारणमपि इत्यादि च, इत्यागमेषु | तत्रभवद्भर्तृहरिणापि :- न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते || वग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती | न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी || इति | सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते | यदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्ठकुड्यवत् || संभवत्येवेत्यलं प्रसक्तानुप्रसक्त्या | ननु कथं मन्त्रात्मकत्वेन प्रत्यवमर्शस्य हृदयत्वमित्यत आह सर्वस्य इति | सर्वस्य - समस्तस्य चेतनवर्गस्य, अचेतनानामेतन्निष्ठत्वेनैव स्वरूपलाभात्, अनेनैव सर्वभावाभावव्यवस्थाकरणात्, अङ्गुष्ठप्रमाणस्य दहरस्य तु एतदाश्रयत्वमात्रेण हृदयत्वादिति भावः | ननु मन्त्रस्य हृदयत्वं भवतु विमर्शस्य तु किमनेनायातम् इत्यपेक्षायामुक्तमपि विमर्शरूपत्वमतिस्फुटीकरणाय पुनः कथयति विमर्शनात्मा इति | ननु तद्विमर्शनं किंरूपमित्यत आह परा इति | परा या वाक् - समनन्तरोक्ता चितिरूपा, तस्या या शक्तिस्तन्मयम्, विशेषस्पन्दरूपमित्यर्थः | एवं च ग्राहकवर्गगतस्य विशेषस्पन्दरूपस्य प्रत्यवमर्शस्य मन्त्रत्वसाधनेनापरिमितप्रमातृगतस्य सामान्यस्पन्दात्मकस्य प्रत्यवमर्शस्य महामन्त्रत्वमयत्नसिद्धमेवेति भावः | अत्रागमवाक्यान्युदाहरति तत एव इति | श्रीशिवेन कर्त्रा, इत्यादि - कर्म, इत्येवं रूपेष्वागमेषु उक्तमिति संबन्धः, तैविना, मन्त्रैर्विनेत्यर्थः, प्रत्यवमर्शप्राणत्वात् सर्वस्येति भावः | तत्र तावत् इति | मातृभावम् - अवर्गादिरूपवर्गाष्टकात्मब्राह्म्यादिमातृभावम्, आदिशब्देनान्येषां वाक्यानां ग्रहणम् | श्रीभर्तृहरिवाक्यान्यप्युदाहरति तत्र इति | इत्यादि उक्तम् इति योजना | किमुक्तमित्यपेक्षायां तद्वाक्यान्येकदेशतया पठति न सोस्ति इति | वाग्रूपता चेत् इति | सैषा इति | आदिशब्देनान्येषां तत्रत्यवाक्यानां ग्रहणम् | वाक्यत्रयेऽप्यत्र प्रत्यवमर्शस्य सर्वात्मकत्वसाधनमेव, विस्तरभयात्त न इत्यादि च | तत् एतेन विदुः इत्येतत् निर्वाहितम् | बौद्धैरपि अध्यवसायापेक्षं प्रकाशस्य प्रामाण्यं वदद्भिः उपगतप्राय एव अयम् अर्थः, अभिलापात्मकत्वात् अध्यवसायस्य इति || १४ || ननु असंख्यशक्तिश्रेणीशोभितवपुषि परमशिवे विमर्शशक्तिरेव इयम् इत्थंकारम् अभिषिच्यते कस्मात् इत्याशङ्क्याह :- प्रपञ्चितम् | एतदवष्टम्भेन स्वभावमवभासस्य इत्यत्र स्थितस्य विदुः इत्येतस्य निर्वाहं करोति एतेन इति | निर्वाहितम् - निराकाङ्क्षीकृतम्, वादिरूपस्य कर्तृभागस्य पूरणादिति भावः | ननु कथं निर्वाहितं बौद्धैरस्यार्थस्यानङ्गीकरणात् इत्याशङ्क्याह बौद्धेः इति | अध्यवसायापेक्षम्, अध्यवसायापेक्षयेत्यर्थः | तदुक्तम् :- यथाध्यवसायः प्रकाशः इति | उपगतप्रायः - बाहुल्येनाङ्गीकृतः न तु सर्वथा, तन्मते विमर्शस्य भ्रमत्वात्, भ्रमस्यापि भ्रान्तमिदमिति भ्रान्तिविशिष्टज्ञानं प्रति प्रमाणत्वं दृश्यत एवेत्यलम् | नन्वध्यवसायस्य प्रामाण्यमुक्तम् न तु प्रत्यवमर्शस्येत्यपेक्षायां हेतुमाह अभिलाप इति | अभिलापात्मकत्वात् - शब्दरूपत्वात्, ततश्चाध्यवसायस्यापि प्रत्यवमर्शत्वमेवेति सिद्धम् | तन्मतेऽपि प्रत्यवमर्शस्य प्रकाशजीवितत्वात् [प्रकाशजीवितत्वमिति - C.] | इति शब्दः श्लोकव्याख्यासमाप्तौ || १४ || अथ पंचदशषोडशयोः श्लोकयोरवतरणिकां करोति ननु इति | अत्र टीका :- असंख्याः याः शक्तयः - जगद्गतपदार्थरूपाः शक्तयः | तदुक्तम् :- शक्तयोऽस्य जगत् सर्वं शक्तिमांश्च महेश्वरः | इति | तासां या श्रेणी - पङ्क्तिस्तया शोभितम् - विशेषितं वपुः - स्वरूपं यस्य तादृशे, परमशिवे - शिवशक्तिसामरस्यरूपे परमशिवाख्ये सप्तत्रिंशे तत्त्वे, इत्थंकारम् - इत्थं कृत्वा, कुप्रकारेणेति यावत् | कस्मात् - कुतो हेतोः, इयम् - समनन्तरोक्तस्वरूपा, विमर्शशक्तिरेव - अहंप्रत्यवमर्शशक्तिरेव, अभिषिच्यते - अभिषेकयुक्ता संपाद्यते, आत्मानमत एवायं ज्ञेयीकुर्यात् पृथक् स्थिति | ज्ञेयं न तु तदौन्मुख्यात् खण्ड्येतास्य स्वतन्त्रता || १५ || स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसंकल्पैर्निर्माय व्यवहारयेत् || १६ || सर्वाः शक्तोः कर्तृत्वशक्तिः ऐश्वर्यात्मा समाक्षिपति | सा च विमर्शरूपा इति युक्तम् अस्या एव प्राधान्यम् इति तात्पर्येण उत्तरमुक्तम् | शब्दार्थस्तु अयम्, प्रकाशात्मा परमेश्वरः स्वात्मानं युक्ता संपाद्यते, महाधिकारिपदे स्थाप्यते इति यावत् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे | आत्मानम् इति | अत्र टीका :- तत्र प्रथमं श्लोकद्वयस्य तात्पर्यमाह सर्वाः इति | ऐश्वर्यात्मा - ऐश्वर्यरूपा [ऐश्वर्यरूपः - C.] समाक्षिपति - स्वान्तः करोति, सा च - कर्तृत्वशक्तिश्च, विमर्शरूपा - प्रत्यवमर्शस्वरूपा, विमर्शपूर्वमेव करणसंभवात्, यस्तु तत्र कायादिव्यापारो दृश्यते सोपि विमर्शपूर्वक एवेति स्फुटमेव विमर्शशक्तेः कर्तृत्वम् | इति - अतः कारणात्, अस्या एव - विमर्शशक्तेरेव, प्राधान्यम् - सर्वशक्तिभ्यः प्रधानता | तदुक्तं श्रीमत्तन्त्रालोके :- तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः | इति | अत्र ह्येवमभिप्रायः, तेन इति पूर्वापेक्षम्, यतः स्वातन्त्र्यशक्तिरेव प्रधानं ततः स्वातन्त्र्यशक्त्या युक्त एव भवति भगवान्, तयैव सर्वशक्त्याक्षेपात्, इति विधिराञ्जसः प्रकटो भवति सङ्क्षेपेण सर्वसाधकत्वात् इति | इति - एवम्, तात्पर्येणोत्तरमुक्तम् - तात्पर्यार्थोऽत्रैवं भवति इत्युक्तमित्यर्थः | अक्षरार्थकथनं प्रतिजानीते शब्द इति | शब्दार्थमेव दर्शयति अयम् इति | प्रभुः इत्यस्य पदस्यार्थमाह परमेश्वरः इति | ज्ञाता इति भावप्रधानो निर्देशः, ज्ञात्रेकरूपत्वात् अज्ञेयमपि ज्ञेयीकरोति इति यत् संभाव्यते कारणान्तरस्य अनुपपत्तेः दर्शितत्वात् दृढेन संभावनानुमानेन, तदत [तत एव - K. ष्. ष्.] एव विमर्शशक्तिलक्षणात् कर्तृत्वात् हेतोः भवति, यतो हि अयम् आत्मानं परामृशति ततो विश्वनिर्भरत्वात् तथा नीलादित्वेन चकास्ति | ननु एषैव कुतः संभावना, आत्मानं ज्ञेयीकरोति इति ? आह, पृथक् ज्ञातृत्वमेकं रूपं यस्य सः, तस्य भावस्तत्त्वम् तस्मात्, अज्ञेयमपि - ज्ञेयताऽसहमपि, तदुक्तम् :- आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः | पर आत्मा तदानीं स्यात् स परो यस्तु मीयते || इति | ज्ञेयीकरोति - अज्ञेयं सत् स्वयं स्वशक्त्यास्वादनरूपक्रीडार्थं ज्ञेयतया भासयति | इति - एवम्, यत्संभाव्यते - सूत्रस्थकुर्यादितिपदस्थलिङ्द्योत्यसंभावना - विषयतां नीयते | कुतः संभाव्यते ? कारणान्तरस्य - स्वव्यतिरिक्तोपादानादिकारणानां सामग्याः, अनुपपत्तः - अयोग्यत्वात्, दृढेन - नत्वन्यतर्कवत् शिथिलेन, संभावनानुमानेन - स्यादेतत् इति श्लोकोक्तेन संभावनारूपेणानुमानेन दर्शितत्वात् | यच्छब्दापेक्षां पूरयति तत् इति | तत् - यच्छब्दोक्तं वस्तु, अत एव इति सूत्रस्थं पदं व्याचष्टे अत एव इति | कर्तृत्वाद्धेतोः, स्वातन्त्र्याद्धेतोरित्यर्थः | भवति, सिद्ध्यतीत्यर्थः | कुत इत्यपेक्षायामाह यतः इति | हि - यस्मात्कारणात्, अयम् - प्रकाशरूपः परमात्मा, यतः - यस्मिन् स्वांशे, आत्मानं परामृशति - अहमिति परामर्शविषयतां नयति, ततः - तस्मिन्नंशे, विश्वनिर्भरत्वात् - वस्त्ववस्तुरूपसर्वजगद्भरितत्वेन, तथा नीलादित्वेन - परामर्शानुगुणेन नीलादिभावेन, चकास्ति - भासते, तत्स्वभावत्वात् | अन्यथा भावाभावरूपजगद्भानासंभवात् | न च स्वभावस्य पर्यनुयोगो युक्त इति बहुवारमुक्तम् | अत्र शिष्यः प्रश्नयति ननु इति | एषा का इत्यत आह आत्मानम् इति | इति शब्दः प्रश्नपरिसमाप्तौ | उत्तरं कथयति आह इति, गुरुरिति शेषः | प्रकाशात् बहिर्भूता स्थितिः यस्य तादृक् ज्ञेयं नैव भवति | तुः अवधारणे | तत्र च उक्ता युक्तयः | अभ्युच्चययुक्तिमपि आह, यदि व्यतिरिक्तं ज्ञेयं स्यात् तत् ज्ञातृरूपस्य आत्मनो यत् एतत् ज्ञेयविषयम् औन्मुख्यं स्वसंवेदनसिद्धं दृश्यते तत् न अस्य स्यात्, तेन व्यतिरिक्तविषयौन्मुख्येन अन्याधीनत्वं नाम पारतन्त्र्यम् अस्य आनीयते | पारतन्त्र्यं च स्वातन्त्र्यस्य विरुद्धम् | स्वातन्त्र्यमेव च अनन्यमुखप्रेक्षित्वम् [अनन्यमुखप्रेक्षित्वलक्षणम् - K. ष्. ष्.] किमाहेत्यपेक्षायामाह पृथक् इति | अस्य पदस्य विग्रहं करोति प्रकाशात् इति | तु शब्दार्थमाह अवधारणे इति | एतेन पृथक्स्थिति इति पदमुत्तरार्धेन योजनीयम् इति सूचितम् | सर्वं वाक्यं सावधारणम् इति न्यायेन सूत्रेऽनुक्तस्यापि एवशब्दस्य ग्रहणम् | उक्ताः, प्रागिवार्थः इत्यादिना | तत्र - बहिर्ज्ञेयासंभवे, युक्तयः - मुख्ययुक्तयः, साक्षात्तत्साधनेन प्रवृत्तत्वात् | ननु तर्हीदानीं मौनमेव कुरु इत्यत आह अभ्युच्चय इति | अभ्युच्चययुक्तिम् - अन्वाचययुक्तिम्, अप्रधानयुक्तिमिति यावत्, स्वतन्त्रताखण्डनप्रसङ्गद्वारेण युक्तित्वादिति भावः | आह इत्यस्याकाङ्क्षां पूरयति तदौन्मुख्यात् इत्यादिश्लोकशेषं च व्याचष्टे यदि इति | व्यतिरिक्तम् - स्वतो भिन्नम्, तत् - तदा, आत्मनः - प्रकाशरूपापरिमितप्रमातुः | ननु कुतो न स्यात् इत्यत आह तेन इति | अन्याधीनत्वम् - स्वव्यतिरिक्तज्ञेयवशीभावम्, अस्य - आत्मनः, आनीयते - बलात्संपाद्यते | ननु ततः किम् इत्यत आह पारतन्त्र्यं च इति | ननु तर्हि स्वातन्त्र्यमेव मास्तु इत्यत आह स्वातन्त्र्यमेव च इति | अनन्यमुखप्रेक्षित्वम् - स्वप्रसिद्धौ परानपेक्षा | अयं भावः - आत्मा हि ज्ञातृत्वेनैवात्मा भवति, अन्यथा घटादेरप्यात्मत्वप्रसङ्गात्, अतः ज्ञेयेनैवात्मसिद्धिः, तच्च यदि व्यतिरिक्तं तर्हि स्फुटैवात्मनोऽन्यापेक्षा, परापेक्षाग्रस्त आत्मा चात्मैव आत्मनः स्वरूपम्, इति व्यतिरिक्तोनमुख आत्मा अनात्मैव स्यात् | अनात्मा च जडो ज्ञेयं प्रति न उन्मुखीभवति इति प्रसङ्गः | ततः प्रसङ्गविपर्ययात् इदमायातम् - अव्यतिरिक्तोन्मुखः स्वतन्त्रः सन् आत्मानमेव ज्ञेयीकरोति इति || १५ || न च केवलं नीलादिरूपमेव ज्ञेयम्, यावत् अत्यक्तकर्तृस्वभावं स्वातन्त्र्येण अपरित्यक्तमेव सन्तम् आत्मानं निर्माय व्यवहारेण ध्यानोपा - न स्यात् | स्वं तत्त्वं ह्यात्मा, यस्य च परापेक्षा तस्य तदधीनतासमये स्वं तत्त्वं हीयते, परकीयत्वापातत्, तद्धानौ च सातत्यगमनं न स्यात् | सातत्यगन्तृत्वं हि आत्मशब्दार्थः, तच्च लक्षणया स्वरूपे सदा तथैवावस्थानमेव न कुत्रापि सदागमनम्, तत्र गत एव हि प्रायस्तत्रस्थ उच्यते इति तान्तेन निर्देशः | ज्ञेयस्य स्वाव्यतिरिक्तत्वे तु स्वाधीनत्वमेव, तच्च नाधीनत्वम्, यतस्तदेव स्वातन्त्र्यमिति | ननु आत्मत्वमेव मास्तु इत्यत आह अनात्मा इति | नोन्मुखीभवति इति, तत्राशक्तत्वात्, न हि [न हि जलं तृणभादेतौत्मुख्ययुक्तं दृष्टमिति भावः - C.] जलं तृणलाभौन्मुख्ययुक्तं दृष्टमिति भावः | ननु मा भवतु इत्यत आह इति प्रसङ्गः इति | एतच्चानिष्टमेवानुभवविरोधात् इति भावः | ननु तर्हि किं कार्यम् इत्यत आह ततः इति | प्रसङ्गविपर्ययात् - पूर्वोक्तप्रसङ्गस्य विपर्ययाद्धेतोः, ज्ञेयं प्रत्यात्मन औन्मुख्यदर्शनादिति यावत् | किमायातमित्यत आह अव्यतिरिक्त इति || १५ || अथ द्वितीयश्लोकं व्याख्यातुं सङ्गतिं दर्शयति न च इति | न केवलम् इत्यस्याकाङ्क्षां पूरयति यावत् इति | स्वातन्त्र्यामुक्तम् इति व्याचष्टे अत्यक्त इति | निर्माय इति निगदव्याख्यातम् | सङ्कल्पेन स्वयमत्पाद्येत्यर्थः | व्यवहारयेत् इति व्याचष्टे व्यवहारेण इति | कृदन्ततावशेन प्रातिपादिकीभूतसुबन्तसोपसर्गधातुप्रकृत्यर्थं स्फुटयति ध्यान इति, सनार्चनोपदेशादिना योजयति इति यत् संभाव्यते तदपि अत एव इति संबन्धः | ननु स्वातन्त्र्ययुक्तं च निर्मायते च इति विरुद्धम् इदम् ? अत्राह [तत्र - K. ष्. ष्.], अद्वयात्मनः संविदेकरूपस्य स्वातन्त्र्यात् हेतोः इदं न न युज्यते, यत् किल मायापदे अतिदुर्घटं प्रतिभाति, तत्संपादने यत् अप्रतिहतं स्वातन्त्र्यं तदेव पुनः स्वातन्त्र्यशब्देन दर्शितम् | अत एव इत्यनेन तु विमर्शशक्तिरूपम् इति अपुनरुक्तम् | अथ वा अत एव स्वातन्त्र्यात् इति सामानाधिकरण्येन ध्यानादेरेवात्र व्यवहारत्वात् | तृतीयया णिजन्तयुजिना च णिजर्थ उक्तः, तृतीयान्तव्यवहारशब्दात् हस्तिना क्रामतीतिवत् णिजुत्पत्तेः | योजयति - विषयत्वाभावेऽपि स्वातन्त्र्यात् विषयतया संबध्नाति | लिङर्थमाह संभाव्यते इति | यच्छब्दाकाङ्क्षां पूरयति तत् इति | एतेन पूर्वसूत्रस्थस्यातःशब्दस्य हेतुत्वेनेहापि योजना कृता | शिष्योऽत्र प्रश्नयति ननु इति | गुरुणा दत्तमुत्तरं कथयितुमाह अत्र इति | किमाहेत्यपेक्षायां सूत्रस्थम् अद्वयात्मनः स्वातन्त्र्यात् इति सष्ठ्यन्तपञ्चम्यन्तपदद्वयं व्याचष्टे संविदेक इति | न न युज्यते, अपि तु युज्यते इत्यर्थः | कुतो युज्यते इत्यत आह यत् किल इति | मायापदे - भेदपदे, अतिदुर्घटम् - अतिशयेनासंभवोपहतम् | अप्रतिहतम् - प्रतीघातरहितम्, पुनः शब्दो व्यतिरेके | अत एव इत्यनेन इति, पूर्वसूत्रस्थेनेहापि योजितेनात एवेति शब्देन | विमर्शशक्तिरूपम् - विमर्शशक्त्याख्यं हेतुस्वरूपम्, अपुनरुक्तम्, पुनरुक्तं न भवतीत्यर्थः [अपुनरुक्तम् न भवतीत्यर्थः - C.] | अन्यथा द्वयोरपि हेत्वोः स्वातन्त्र्यवाचकत्वात् पौनरुक्त्यं स्यादिति भावः | मतान्तरमाह अथ वा इति | अत एव स्वातन्त्र्यात्, विमर्शरूपात् स्वातन्त्र्यात् हेतोरित्यर्थः | ईशादिसङ्कल्पैः इत्यस्य व्याख्यां कर्तुं योजनां करोति श्लोकद्वयेन संबन्धनीयम् | उदाहरणम् अत्रार्थे दर्शयति, नीलादिनिर्माणवत् अस्य स्वतन्त्रनिर्माणस्य [स्वतन्त्ररूपनिर्माणस्य - K. ष्. ष्.] अप्रसिद्धत्वात्, ईश्वरो भगवान् आत्मा नित्यो विभुः स्वतन्त्रः इत्येवमादौ हि प्रमातुः, पूजयितुः, ध्यातुः वाऽपृथग्भूतं तत् प्रमेयम्, पूज्यम्, ध्येयं च भाति इति तत् तावत् निर्मितम्, न च अनीश्वरम् [अनीश्वररूपम् - K. ष्. ष्.] | एवं हि ईश्वर इति, अनीश्वर इति संकल्पध्यानादेः तुल्यत्वं स्यात्, न च एवम् फलभेदस्य उपलब्धेः इति, तस्मात् उदाहरणम् इति, सामान्ये विशेषरूपम्, अत्रार्थे - ईशादिसङ्कल्पैर्निर्मित - ज्ञेयव्यवहारविषये, तदुक्तम् :- शिवश्चालुप्तविभवस्तथामृष्टोऽवभासते | स्वसंविन्मात्रमुकुरे स्वातन्त्र्याद् भावनादिषु || इति | ननु किमर्थमत्रोदाहरणं दर्शयति इत्यत आह नील इति, स्वतन्त्रनिर्माणस्य - स्वातन्त्र्यामुक्तात्मरूपेशादिनिर्मितेः, अप्रसिद्धत्वात् - लोके प्रसिद्ध्य - भावात् | ननु कथं स्वातन्त्र्ययुक्तानामीशादीनां निर्मितत्वं युक्तमित्यत आह ईश्वरः इति | ईश्वरः इत्येनेन ईश शब्दव्याख्या, भगवान् इत्यादयस्तु आदिशब्दगृहीताः, अपृथग्भूतम् - अभिन्नम्, तत् प्रमेयम् - ईशादिरूपं प्रमेयम्, निर्मितम् - सङ्कल्पेन संपादितम्, प्रमेयस्य स्फुटमेव निर्मितत्वानपायात् इति भावः | ननु तर्हि निर्मितत्वेन स्वातन्त्र्यमुक्तमेव भवतु इत्यत आह न च इति | कुतो नानीश्वरम् इत्यत आह एवं हि इति | आदि शब्देन पूजादेर्ग्रहणम् | ननु तुल्यतैवास्तु इत्यत आह न चैवम् इति | कुतो नैवम् इत्यत आह फल इति | फलभेदस्य - भोगमोक्षरूपस्य, नीलादिसेवनेन हि भोगः, ईशादिसेवनेन हि मोक्ष इति भावः | ये तु भगवत्तीव्रतरशक्तिपवित्रीकृताः नीलादेरपि येनैव मुह्यति जडः प्राज्ञस्तेनैव तरति संसारात् | पिण्डितमयोप्सु मज्जति तदेव पात्रीकृतं प्लवते || स्वातन्त्र्यशून्यताभासनेन स्वातन्त्र्ययुक्तताभासनेन च यत् इदम् उभयं ज्ञेयं आत्मरूपमेव परमेश्वरो भासयति तत् विमर्शशक्तिबलात् एव, इति सैव प्रधानम् इति || १६ || ननु प्रकाशबलात् भावव्यवस्था, स च प्रकाशो विमर्शसार इति विमर्शाभेदे तदेव तत् इति वक्तुं युक्तम् ईश्वर आत्मा इत्यादिसंकल्पेषु च निर्मितस्य इदन्तया परामर्शः, स्वातन्त्र्यं तु अहंपरामर्शरूपम्, इति निर्मितस्य तद्रूपत्वाभावे कथं स्वातन्त्र्यामुक्तत्वम् इति ? तत् एतत् परिहर्तुमाह :- नाहन्तादिपरामर्शभेदादस्यान्यतात्मनः | अहंमृश्यतयैवास्य सृष्टेस्तिङ्वाच्यकर्मवत् || १७ || स्वरूपे भावप्रत्ययः, आदिग्रहणात् आत्मेश्वरादिपरामर्शः, तिङ्ग्रहणं इति दृशा मोक्षफलभागिन एव, तेषां कथाऽन्यैव | तदुक्तम् :- भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदं | इत्याशंसेह शोभेत शंभोर्भक्तिमतः परम् || इति | संङ्क्.एपेण श्लोकद्वयार्थं कथयत्युपसंहाररीत्या तस्मात् इति | उभयम् - नीलादिरूपमीशादिरूपं च, तत् - भासनम्, इति - अतः कारणात्, सैव - विमर्शशक्तिरेव, प्रधानम्, प्रधानभूतप्रकाशजीवितत्वादिति भावः || १६ || अथ सप्तदशश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- तदेव, तदित्यर्थः, तद्रपत्वाभावे - अहंपरामर्शविषयत्वाभावे | परिहर्तुम् - परिहारविषयीकर्तुम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | नाहन्तां इति | अत्र टीका :- तल् अर्थमाह स्वरूपे इति, न तु भावे, असंबन्धात् | स्वरूपं हि धर्मी भावस्तु स्वरूपगतः शब्दप्रवृत्तिनिमित्तभूतो धर्मः, इह च धर्म्येवोपयुक्तः | क्रियावाचिप्रत्ययोपलक्षणम्, कर्मग्रहणम् असत्त्वभूतशक्तिरूपोपलक्षणम् | आदि शब्दग्राह्यमाह आत्मा इति | आदि शब्देन स्वतन्त्र इत्यादीनां ग्रहणम् | तिङ्प्रत्ययग्राह्यमाह प्रत्यय इति | न स्वान्तर्गतस्वरूपसहिततिप्तस् - आदिप्रत्ययमात्रपरम्, अपि तु क्रियावाचिसर्वप्रत्ययपरम् | प्रत्ययग्रहणमप्यत्रोपलक्षणमेव, निपातानामप्यनेन ग्रहणात् | कर्म शब्दग्राह्यमाह असत्त्व इति | असत्त्वभूतानाम् - सर्वनामप्रयोगासहत्वेनाऽद्रव्यभूतानां यत् शक्तिरूपम् - शक्त्याख्यं वस्तु तस्योपलक्षणम्, न तु केवलस्य वाच्यभूतस्य क्रियामात्रस्य ग्रहणपरम् | तिङादिवाच्यम् - क्रियादि, निपातावाच्याः समुच्चयादयश्च बहिः स्वप्रधानतया स्थितं सर्वनामव्यपदेशार्हं स्वरूपं न विभ्रति परनिष्ठत्वेनैव स्थितत्वात्, अत एव च निपातानां निपात इति नाम सार्थकम् एव, निपतन्ति - सूचकत्वेन विषयी - भवन्ति परनिष्ठेष्वर्थेषु इति निपाताः | तिङादिवाच्याक्रियाकारकाणि च स्फुटमेव परनिष्ठान्येव, परं तु तद्वाचकानां निपातत्वेन रूढिर्नास्त्येव यतस्ते योगमात्रेण तत् अयम् अर्थः, अहम् इत्येवंस्वरूपो [इत्येवंरूपः - K. ष्. ष्.] यः परामर्शो यश्च ईश्वरः प्रमाता आत्मा शिव इत्यादिः अनन्तप्रकारः परामर्शः, तस्य यद्यपि भेदोऽन्योन्यरूपता, तथापि तद्भेदात् हेतोः अस्य आत्मनो निर्मातृरूपस्य अहंपरामर्शमयस्य निर्मेयरूपस्य च ईश्वरादिपरामर्शास्पदस्य यो भेदः शङ्कितः स न युक्तः | यत ईश्वर इत्यपि यः परामर्शः, स ईशनशीले ज्ञातृत्वकर्तृत्वतत्त्वे विश्राम्यति, ज्ञातृत्वादि च ज्ञानादौ स्वातन्त्र्यम् अनन्य - निपाताः, विकल्पादिवाचकानां वादीनां तु योगरूढ्या निपातत्वम्, यद्यपि कारकाणां बहिः प्रधानं स्वरूपं वर्तत एव तथापि तदर्थरूपत्वेनैव न कारकत्वेन, कारकत्वं हि स्वरूपनिष्ठशक्तिमात्ररूपमेव, अन्यथा विदितकार्यकारणभावो बालश्छिदाद्यर्थं पादुकादि न गृह्णीयात् इत्यलं प्रपंचेन | एतदवष्टम्भेनार्थकरणे प्रतिज्ञां करोति तत् इति | अहन्ता शब्दे प्रकृतिं व्याचष्टे अहम् इति | तल्प्रत्ययार्थमाह स्वरूपाः [तल्प्रत्ययार्थमाह स्वरूपमिति - C.] इति | परामर्शशब्दस्य प्रसिद्धत्वेन निगदव्याख्यानम् | आदिगृहीतं वस्तु आह ईश्वर इति | भेदात् इति पदं व्याचष्टे अन्याय इति | तेषाम् - परामर्शानां भेदस्तद्भेदस्तस्मात् तत्राहंपरामर्शः निर्मातृविषयः, ईश्वरादिपरामर्शाः निर्मेयविषयाः | पञ्चम्यर्थमाह हेतोः इति | अस्य आत्मनः इति | पदद्वयं व्याचष्टे निर्मातृ इति | अन्यता पदं व्याचष्टे भेद इति | शेषत्वेन युक्तः इत्यध्याहृतम् | अत्र हेतुत्वेन स्थितमुत्तरार्धं व्याचष्टे यतः इति | ईशन इति | ईशनम् - समर्थीभवनक्रिया, शीलम् - निष्प्रयोजना प्रवृत्तिर्यस्य तादृशे | ज्ञातृत्वरूपं यत् कर्तृत्वं तस्य यत्तत्त्वं तस्मिन्, ज्ञानपल्लवभूतैव हि क्रिया वक्ष्यते इति भावः | विश्राम्यति इति | ईश् धातोः कर्तरि कृत्प्रत्ययोत्पादादिति भावः | ननु विश्राम्यतु ततः किमित्यत आह ज्ञातृत्व इति | ज्ञातृत्वादि च - ज्ञातृत्वमादिशब्देन कर्तृत्वं च, ज्ञानादौ - ज्ञाने आदिशब्दात्करणे च, मुखप्रेक्षित्वम् अविच्छिन्नज्ञानयोगः, [अविच्छिन्नज्ञानादिशक्तियोगः - K. ष्. ष्.] अविच्छेदश्च जानामि करोमि इति अस्मदर्थविश्रान्तिः इति अस्य ईश्वरस्य आत्मनः सृष्टेः सृज्यमानस्य अहंविमर्शनीयत्वमेव | सृष्टेरिति वा हेतौ पञ्चमी | अस्य ईश्वरस्य यतः ईश्वरादिसंकल्पेषु अपि अहंपरामर्शनयोग्यस्यैव सृष्टिः | अर्हे कृत्यः | यथा स्वातन्त्र्यं भवति | कर्तरि प्रत्ययोत्पादादिति भावः | तच्च अनन्यमुखप्रेक्षित्वं भवति, तच्च अविच्छिन्नज्ञानयोगो भवति, विच्छिन्नज्ञानयोगो हि कादाचित्कत्वेन स्वव्यतिरिक्तहेत्वपेक्षत्वेनान्यमुखप्रेक्षित्वग्रस्त एव | स अविछेदश्च अहं जानामि, अहं करोमि, इति - एवम्, अस्मदर्थे या विश्रान्तिः - भित्तितया तदाश्रयणम्, सा भवति, स्फुटं ज्ञानकरणयोरस्मदर्थेऽहंपदार्थे स्थिततया स्फुरणात्, इति - अतः कारणात्, अस्य इति पदं व्याचष्टे ईश्वरस्य इति | सृष्टेः इति पदं व्याचष्टे सृज्यमानस्य इति | एतेन कर्मणि क्तिन्निति द्योतितम् | सृज्यमानस्य, संकल्पेन भाव्यमानस्येत्यर्थः | अहंपरामर्शनीयत्वमेव - अहंपरामर्शविषयत्वमेव, साक्षात्तत्वाभावेऽपि फलतस्तत्त्वानपायात् | पक्षान्तरमाह सृष्टेरिति वा इति | पञ्चमीं व्याचष्टे यतः इति | अस्मिन्पक्षे सृष्टेः इत्यस्य भावे क्तिन् पञ्चम्यन्तता च | ननु योग्यतायाः कुतोऽवगम इत्यत आह अर्हे इति | कृत्यः - मृश्यतया इत्यत्र स्थितः कृत्यप्रत्ययः | अहमिति म्रष्टुं योग्यः - अहंमृश्यः, तस्य भावस्तत्ता तयेत्यर्थः, पूर्वपक्षे तु कर्मणीति भावः | तिङ्वाच्य इति पदस्य अर्थोपमापरस्य व्याख्यां करोति यथा इति | वतिप्रत्ययार्थमाह यथा इति | प्रकृत्यर्थमाह क्रिया इति | आदिशब्देनोपमादेर्ग्रहणम् | यथास्वम् इति | तत्र क्रियाशक्तिः तिङ्प्रयोगावसेयपरामर्शपरमार्था, तिङ्प्रयोगेनावसेयः - द्योत्यः, यः परामर्शः स एव परमार्थः यस्याः सा | धातुवाच्यत्वेपि प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः क्रियाकारकसमुच्चयविकल्पादिशक्तयो यथास्वं तिङ्तृतीयादिचवादिप्रयोगावसेयपरामर्शपरमार्थाः पाकः कर्ता समुच्चयो विकल्पः इत्यादिशब्दैः अभिधीयमानाः सत्त्वभावमापादिता अपि पचति चैत्रेण च वा इत्येवंरूपे [इत्येवंभूते - K. ष्. ष्.] मूलपरामर्शे विश्राम्यन्ति, अन्यथा तु ताः प्रतीता नैव भवेयुः | तद्वत् इति न्याये तु प्रत्ययरूपतिङ्मात्रग्रहणम्, उपलक्षणं चैतत्कृत्प्रत्ययादीनाम्, तेषामपि क्रियायां प्रयोगात् | तथा कारकशक्तिः तृतीयादिप्रयोगावसेयपरामर्शपरमार्था, तृतीयाया एव कर्तृत्वकरणत्वद्योतकत्वात्, आदिशब्देन चतुर्थ्यादीनां ग्रहणम्, तासामपि संप्रदानादिद्योतकत्वात्, एवं सर्वत्र योजना | वादि इत्यत्रादिशब्देनोपमादिद्योतकस्य इवादेर्ग्रहणम्, उपमाशक्तिरपि हि इवादिप्रयोगावसेय - प्ररामर्शपरमार्थैव, ताश्च शक्तयः एवंविधाः सत्यः पाकः कर्ता समुच्चयो विकल्प इत्यादिशब्दैरभिधीयमानाः | पाको हि भावविहितघञन्तत्वेन क्रियामभिदधाति, एवं कर्त्रादिकमपि कारकादीन् आदिशब्देनोपमादेरभिधायकस्य सादृश्यादेः शब्दजातस्य ग्रहणम् | अत एव सत्त्वभावमापादिताः - सहजस्वरूपतया स्थितात् अद्रव्यभावात् प्रच्याव्य कल्पिते अयं पाकः इत्येवमभिनवनामपरामर्शसहे सत्त्वे - द्रव्ये तादात्म्यमापादिताः, अपि पचति चैत्रेण च वेत्येवंरूपे मूलपरामर्शे विश्राम्यन्ति, अन्यथा - मूलपरामर्शविश्रामाभावे, ताः प्रतीता एव - लब्धस्वरूपा एव, न भवेयुः | अनेन पाकः क्रियते इति ह्युक्ते पचत्ययमिति परामर्शे सद्यो विश्रान्तिर्जायते, न हि पाके नाम सिद्धं वस्तु कुत्रापि तिष्ठति पूर्वापरीभूतावयवत्वेन सिद्धत्वासंभवात्, तिङ्प्रत्ययस्य तु तत्रैव सङ्केतितत्वात् झटिति प्रत्यायकत्वम्, मूलत्वं च तत एव प्रथमं क्रियापरामर्शोत्पादात् | सिद्धतया कथनं तु व्युत्पन्नं प्रत्येव, अत्र स्वबुद्धिरेव साक्षिणीति नऽऽयस्यते | एवं कारकत्वादिकमपि कार्यमात्राधिगम्यमेव न सिद्धतया स्थितम्, न हीदं कारकमित्युक्ते वस्तुस्वरूपं विना किञ्चिल्लभ्यते, कार्येण तु ज्ञायतेऽस्य कारकत्वशक्तिरस्तीति, सत्त्वस्य च सर्वनामपरामर्शसहत्वम् अत्रापि | एतदुक्तं भवति - परामर्शो नाम विश्रान्तिस्थानम्, तच्च पार्यन्तिकमेव पारमार्थिकम्, तच्च अहमित्येवंरूपमेव | मध्यविश्रान्तिपदं तु यत् वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते | द्रव्यमित्युच्यते सोर्थो भेद्यत्वेन विवक्षितः || इति वृद्धसम्मत्या ज्ञेयम् | उपमानोपमेयभावरूपं योजनां करोति तद्वत् इति | एवं च तिङ्वाच्यकर्मणीव तिङ्वाच्यकर्मवत् इति सङ्क्षेपः | एतदुक्तं भवति | यथा पाक इति परामर्शः तिङ्वाच्ये कर्मणि पचतीत्येवंरूपपरामर्शे एव फलतो विश्राम्यति, तथेश्वर इत्युक्तेऽहंपरामर्शे एव फलतो विश्रामः, अन्यत्र स्वातन्त्र्य - रूपेश्वरत्वासंभवात्, यस्तु मूढानां पाकादिसिद्धत्वे ईश्वरविषये च स्वतो भिन्नत्वेन निश्चयः स भ्रम एवेति | अत्र स्वयमपि भावकथनं प्रतिजानीते एतदुक्तं भवति इति | किमुक्तं भवति इत्यपेक्षायामाह परामर्शो नाम इति | विश्रान्तिस्थानम् इति, विषयग्रहे परामर्शानन्तरमेव पुरुषो हि तूष्णीं तिष्ठति, तूष्णींभावश्च विषयसुखानुभवः, स एव च विश्राम इति स्फुटमेव परामर्शस्य विश्रान्तिस्थानत्वम् | तच्च - विश्रान्तिस्थानं च, पार्यन्तिकमेव - पर्यन्ते भवमेव नत्ववान्तरम्, पारमार्थिकम् - सत्यभूतम्, अवान्तरविश्रान्ति - स्थानानां परमार्थतो मार्गरूपत्वात्, तच्च - पारमार्थिकं विश्रान्तिस्थानं च, अहमित्येवंरूपमेव, अहंपरामर्श एवेत्यर्थः, विषयकृते सुखे विश्रान्तोऽपि हि परमार्थतः स्वात्मविश्रान्त एव भवति, तदुक्तम् :- दृश्यदर्शनसंबन्धे यत्सुखं पारमात्मिकम् इति | ये त्वेतेन विषयरसिका अपि परमात्मविश्रान्तिमभिनयन्ति तेषां स्ववञ्चकत्वमेव, तत्र विश्रान्ता हि केनापि वस्तुना सदैव सुखिनस्सन्तः प्रवाहवशेन विषयेभ्यः सुखं प्राप्नुवन्तोऽपि विषयवैमुख्यपरा एव, आत्मन्येव सुखकार्त्वनिश्चयात् | यस्तु विषयकाले एव सुखी स विषयमात्रपर एव, सदा सुखित्वे चात्मैव साक्षीकार्योऽन्यथा स्ववञ्चकत्वापत्तेरित्यलं परचोदनाभिः | ननु मध्ये स्फुरणशीलं विषयपरामर्शनं कुत्रापसारयामः इत्यत आह यत् इति | मध्यविश्रान्तिपदम् - ईश्वरपरामर्शरूपं नीलादिविषयपरामर्शरूपं चावान्तरविश्रान्तिस्थानम्, ग्राम - वृक्षमूलस्थानीयं ग्रामगमने तस्य तदपेक्षया सृष्टत्वम् उच्यते इति को विरोधः | अनेन नीलादेः अपि इदं नीलम् इति मध्यपरामर्शेऽपि मूलपरामर्शे अहमित्येव विश्रान्तेः आत्ममयत्वम् उपपादितमेव | नीलम् इदम् वेद्मि इत्यपि हि अहं प्रकाशे इतीयत्तत्त्वम् | यथोक्तम् इदमित्यस्य इत्यादि | मूढस्तु नीलादिविमर्शात् एव अर्थक्रियादिपरितोषाभिमानी गमने वृक्षमूलस्थानीयम् - वृक्षमलसदृशम्, ग्रामं गन्ता हि श्रान्तस्तावद्विश्रामार्थं वृक्षतले तिष्ठति, मूलशब्दस्य तलवाचकत्वं लक्षणया ज्ञेयम् | ननु मध्यपरामर्शस्य सृष्टत्वं कथमुक्तमित्यत आह तदपेक्षया इति | पार्यन्तिकविश्रान्तिस्थानभूताहंपरामर्शापेक्षया तत्पूर्वकत्वादस्येति भावः | नन्वीश्वरपरामर्शस्य प्रत्यासन्नत्वेनाहंपरामर्शविश्रान्तत्वं भवतु, नीलादिविषयपरामर्शस्य का वार्तां इत्यत आह अनेन इति | अनेन - ईश्वरपरामर्शस्याहंपरामर्शविश्रान्तिसधनेन, उपपादितमेव - समर्थितमेव, विषयत्वाविशेषादिति भावः | अत्र च भरःकृतः इति न पुनरायस्यते | ननु कथमेतद्युक्तम् इत्यत आह नीलम् इति | हि - यस्मात्, नीलमिदं वेद्मि इत्यपि अहं प्रकाशे [नीलमिदमहं वेद्मि इति अहं प्रकाशे इति हि इयत्तत्वम् - K. ष्. ष्.] इतीयत् - एतावन्मात्रं तत्त्वम् - परमार्थः यस्य तत्, भवति नीलद्वारेणाहंपरामर्शात्, अन्यथाहंप्रयोगासंभवात् इति भावः | अत्राऽऽचार्यसम्मतिमाह इदम् इति | आदि शब्देन विच्छिन्नविमर्शस्य इत्यादेः श्लोकशेषस्य ग्रहणम्, अत्र च पूर्वं व्याख्या कृतेति न पुनरायस्यते | ननु कथं तर्हि मूढा एवं न जानन्ति इत्यत आह मूढः इति | अथ च यद्येवं तर्हि कथमीश्वरादिविषयस्यैव स्वातन्त्र्यामुक्तत्वमुक्तं न नीलादेरपीत्यत आह मूढः इति | अर्थक्रियादिकृतः परितोषः - अर्थक्रियादिपरितोषस्तमभिमन्यत इति तादृशः, परमार्थतोऽपेक्षाग्रस्तस्य तस्य सः परितोषोऽपि हस्तं इति नीलादेः स्वातन्त्र्यनिर्मुक्तत्वम् उक्तम् | आत्मादौ तु तन्मूलपरामर्शविश्रान्तिमन्तरेण प्रतीतिपरिसमाप्तिम् अर्थक्रियां च मूढोऽपि न अभिमन्यत इति तस्य निर्मितौ अपि अनुज्झितस्वातन्त्र्यम् उक्तम् || १७ || नन्वेवं विश्वपरामर्शानाम् अहम् इत्येव विशुद्धैकपरामर्शविश्रान्तिरेव तत्त्वम् तत् कथम् इदम् उच्यते - ज्ञानस्मृत्यादिका अस्य शक्तय इति, ज्ञानस्य च संशयनिर्णयादिभेदः [निर्णयसंशयभेदाः - K. ष्. ष्.] नीलादीनां च वैचित्र्यम् ? इति आशङ्कायां परिहारमाह :- नायाति इत्यभिमानीत्युक्तम् | निर्मितौ अपि - सृष्टत्वेऽपि, उक्तम् इति, मूढप्रबोधनमात्रफलत्वादस्य शास्त्रस्य, अन्यथा सर्वथाऽनिर्वाच्ये ततोऽपि व्यतीते प्रसिद्धात् प्रसिद्धे च भगवत्स्वरूपे का प्रक्रियाजालपरिनिष्ठतेति भावः | एवमत्र संङ्क्षेपः | अस्यात्मनः - परप्रकाशतया ईश्वरादिरूपतया च भावितस्य परमात्मनः; अहन्तादेः परामर्शस्य यो भेदः भिन्नविषयताकृतस्तत अन्यता - भेदो न भवति कुतः ? अस्य सृष्टे - सृज्यमानस्येश्वरादेः अहंमृश्यतया, कथम् ? तिङ्वाच्य इति | अस्येश्वरादेः सृष्टेर्हेतोरिति वेति || १७ || अथाष्टादशश्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका :- विश्वपरामर्शानाम् - अयमीश्वर इदं नीलमित्यादीनां सर्वेषां परामर्शानाम्, विशुद्धः - विषयोपरागाऽरूषितत्वेन अतिशुद्धो यः परामर्शः - प्रकाशस्य स्वरूपमात्र - निष्ठोहंपरामर्शः, स एव, तत्त्वम् - पारमार्थिकं स्वरूपम्, तत् - तदा, इदं किम् इत्यपेक्षायामाह ज्ञान इति | आदिशब्देनापोहनस्य ग्रहणम् | अस्य - प्रकाशस्य, ज्ञानस्य इति | ज्ञानस्य संशयनिर्णयादिभेदः नीलादीनां च वैचित्र्यम्, कथं शक्तिरुच्यते इति संबन्धः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | माया इति | मायाशक्त्या विभोः सैव भिन्नसंवेद्यगोचरा | कथिता ज्ञानसंकल्पाध्यवसायादिनामभिः || १८ || अनुपपन्नम् अवभासनं माया इति उच्यते, ततश्च भिन्नं प्रकाशात् सर्वम् अवभासजातं माया, तत्र च चित्तत्त्वस्यैव स्वातन्त्र्यं मायाशक्तिः, तया भिन्नं यत् संवेद्यं प्रमातुश्च अन्योन्यतश्च, मायाशक्त्या भिन्नेन प्रमातुः अन्योन्यतो वेद्याच्च करणवर्गेण यत् संवेद्यं स एव गोचरो विश्रान्तिपदं अत्र टीका :- माया पदं व्याचष्टे अनुपपन्नम् इति | अनुपपन्नम् - उपपत्त्यसहम्, अवभासनम् - भेदेन वस्तूनां स्फुरणम् | फलितं मायास्वरूपमाह ततश्च इति | ततश्च - तस्माच्च, भिन्नम् - भेदधर्मितया स्थितम्, प्रकाशात् - परमप्रकाशाख्यात्प्रतियोगिनः, अवभासजातम् - नानाविधबाह्यान्तरभावविषयो ज्ञानसमूहः | शक्ति पदं व्याचष्टे तत्र च इति | तत्र च - अवभासजाते मायास्वरूपे सति, स्वातन्त्र्यम् - अवभासोद्भावने समर्थता, अनन्यमखप्रेक्षित्वमिति यावत् | योजनामात्रप्रयोजनं पुनर्मायापदग्रहणम् | तृतीयार्थमाह तया इति | भिन्न इत्यादिसमस्तपदस्य विग्रहं व्याख्यां चावयवविभागेन करोति भिन्नम् इति | संवेद्य इत्यवयवं व्याचष्टे माया इति | प्रमातुरन्योन्यतश्च इति पदद्वयस्य व्यवहितेन भिन्नम् इत्यनेन योजना | कुतो भिन्नम् ? प्रमातुः - ग्राहकात्, अन्योन्यतश्च इत्यर्थः | संवेद्य इत्यस्य सापेक्षशब्दत्वात् तदपेक्षापूरकस्य करणवर्गेण इत्यस्याध्याहारः | करणवर्गेण - बाह्यान्तररूपेण करणसमूहेन, तद्द्वारेणेति यावत् | यत्संवेद्यम् - संवेदनविषयः, अर्थाद् बाह्यान्तरं भावजातम्, सः - भिन्नं संवेद्यं च भावजातं च | एकेनैव तच्छब्देन यच्छब्दद्वयस्याकाङ्क्षा पूरिता | गोचरा इत्यवयवं व्याचष्टे विश्रान्ति इति | अयं च लक्षणाप्रयोग एव, गाव एव हि गोचरे विश्राम्यन्ति | विगृहीतानां पदानां समसनं करोति यस्या इति, योग्यतया यस्याः तादृशी सती, सैव प्रत्यवमर्शात्मा चितिः परावाग्रूपा ज्ञानम् इति, संकल्प इति, अध्यवसाय इति च उच्यते, आदिग्रहणात् संशयः स्मृतिः इत्यादि | तथा हि - यत् इन्द्रियेण स्फुटग्राहिणा बाह्येन विषयेण स्फुटेन च नियन्त्रितं संवित्तत्त्वं तत् ज्ञानम् | मनसा विषयेण च अस्फुटेन संकल्पः | बुद्ध्या विषयेण च विषयत्वपर्यन्तभाजा अध्यवसायो निश्चयः | विषयस्य च यत् भिन्नत्वं बहिरन्तः करणानां च तत्प्रकाशाभेदात् अनुपपन्नं चित्तत्त्वेन भास्यते [आभास्यते - K. ष्. ष्.] इति भेदे यतो विश्रान्तिः, न तु भेदस्य अभेदे ईश्वरसदाशिवादिवत्, सती इत्यस्याध्याहारः | सैव इति पदं व्याचष्टे प्रत्यवमर्श इति | ज्ञान इत्यादि पदं व्याचष्टे ज्ञानम् इति | सर्वत्र इति शब्दः स्वान्तः - कृततृतीयार्थः शब्दस्वरूपाक्षेपपरः शब्दस्वरूपस्यैव नामत्वात् | कथिता इति पदं व्याचष्टे उच्यते इति | आदि शब्दग्राह्यं वस्तु कथयितुमाह आदि इति | इत्यादि ग्राह्यमिति शेषः | आदिशब्देन भ्रमज्ञानादेर्ग्रहणम् | ज्ञानादीनां स्वरूपकथनं प्रक्रमते तथा हि इति | स्फुटग्राहिणा - सर्वधर्माक्षेपेण ग्रहणात् स्फुटतया वस्तुग्रहणं कुर्वता, स्फुटेन - सन्निकर्षचतुष्टयवशेन स्फुटतां गतेन | नियन्त्रितम् - प्रमाणतया प्रमेयतया च परिच्छिन्नतां नीतम्, संवित्तत्त्वम् - अपरिच्छिन्नप्रकाशस्वरूपम् | ज्ञानम् इति | प्रमारूपमित्यर्थः | सङ्कल्पस्य स्वरूपमाह मनसा इति | अध्यवसायस्वरूपमाह बुद्ध्या इति | विषयत्वस्य - भावगतस्य विषयभावस्य यः पर्यन्तस्तं भजतीति तादृशेन | ततः परं हि भावस्य विषयीभावो नस्तीति भावः | ननु कथं ज्ञानादीना भिन्नत्वं युक्तमित्यपेक्षायां निर्णेतुमाह विषयस्य इति | प्रकाशेन - परप्रकाशेन सह यः अभेदस्तस्मात् | भास्यते इति, मायाशक्त्येति भावः | इति - एवम् | यतः कारणाद् भेदे विश्रान्तिः भवति नत्वीश्वरसदाशिवादिवत्, आदिशब्देन शक्त्यादेर्ग्रहणम्, भेदस्याभेदे विश्रान्तिर्भवति, ततः - तस्मात्कारणात्, ज्ञानसङ्कल्पादयो भिन्ना ततो ज्ञानसंकल्पादयो भिन्नाः तस्य अप्रध्वस्तस्वस्वभावाभेदस्य संवित्तत्त्वस्य अनुसंधातुः शक्तय इति उक्ताः, संशयादयश्च भिन्ना नीइलादिवैचित्र्यं च इति सर्वम् अखण्डितम् || १८ || ननु प्रत्यवमर्शात्मत्वं चितिशक्तेः सङ्कल्पस्मरणादिशक्तिषु सविकल्पात्मिकासु भवति | या तु निर्विकल्परूपा साक्षात्करणलक्षणा अनुभवशक्तिः, तत्र कथम् | प्रत्यवमर्शो हि अभिलापविशेषयोजनामयः, [अभिलापभेदयोजनामयः - K. ष्. ष्.] अभिलापविशेषयोजना च सङ्केतस्मरणम् अपेक्षते | तच्च संस्कारप्रबोधम् | सोऽपि भवन्ति, विषयभेदेनैव ज्ञानभेदस्य युक्तत्वात् | ज्ञानादीनामपि शक्तित्वं साधयति तस्य इति | तस्य - परमप्रकाशरूपस्य | उक्ताः इति, मायावत् तत्सामर्थ्यसिद्धत्वादिति भावः | संशयादयश्च - आदिशब्दगृहीताः संशयादयश्च, शक्तय इत्युक्ताः, नीलादिवैचित्र्यं च शक्तिरित्युक्तमिति संबन्धः | इति - एवम्, सर्वम् - समस्तम्, अखण्डितम् - खण्डनाऽसहं भवति, न हि मायायाः किमपि दुष्करम् इति सर्वैरङ्गीकृतत्वादिति भावः || १८ || अथैकोनविंशस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- प्रत्यवमर्शात्मकत्वम् - प्रत्यवमर्शस्वभावत्वम् | चितिशक्तेः - चैतन्यशक्तेः | अनुभवशक्तिः - चितिशक्तिः, तत्र - तस्यां शक्तौ, कथं प्रत्यवमर्शात्मकत्वमिति संबन्धः | कुत इत्यपेक्षायामाह प्रत्यवमर्शो हि इति | अभिलापविशेषाणाम् - प्रतिपदार्थेऽभिन्नतया स्थितानां शब्दानां या योजना - स्मृत्या योजनं तन्मयः - तत्स्वरूपः | ननु ततः किमित्यत आह अभिलाप इति | अपेक्षते इति, न हि पूर्वगृहीतसङ्केतस्मृतिं विना ज्ञातार्थः शब्दो योजयितुं शक्यते इति भावः | तच्च - सङ्केतस्मरणं च | सोऽपि - संस्कारप्रबोधोऽपि | तादृशी चासौ दृक् तादृशदृक्ताम्, सदृशज्ञानमित्यर्थः | प्रथमसमये - प्रथमतया स्थितनिर्विकल्पज्ञानसमये | तादृशदृशम्, इति एवं प्रथमसमये कथम् अभिलापयोगः इति परस्यव्यामोहम् अपोहितुमाह [अपोहयितुम् - K. ष्. ष्.] :- साक्षात्कारक्षणेऽप्यस्ति विमर्शः कथमन्यथा | धावनाद्युपपद्येत प्रतिसंधानवर्जितम् || १९ || इह तावत् चैतन्यस्य आत्मभूतोऽङ्गुलिनिर्देशादिप्रख्योऽभिलापयोगः, अन्यथा बालस्य प्रथमं व्यवहारे दृश्यमाने व्युत्पत्तिरेव न स्यात् | कल्पज्ञानसमये | परस्य - तार्किकादेः | अपोहितुम् - दूरीकर्तुम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | साक्षात्कारक्षणेऽप्यस्ति इति | अत्र टीका श्लोकं व्याख्यातुं प्रक्रियां तनोति इह इति | इह - भासमाने जगति, चैतन्यस्य - प्रकाशस्य, अङ्गलिनिर्देशप्रख्यः - अङ्गुल्या कृतो यो निर्देशः - वस्तुनिर्देशस्तस्य प्रख्यः - सदृशः | आदिशब्देन शिर - आदिनिर्देशग्रहणम् | अभिलापयोगः - शब्दयोगः, तेन सहाव्यभिचार इति यावत् | अस्तीति शेषः | व्यतिरेकरीत्यात्र समर्थनं करोति अन्यथा इति | अन्यथा - बालस्य - अद्य तावदशिक्षितस्य शिक्षोन्मुखस्य, न तु स्तनपायिनः | प्रथमव्यवहारे - तावत्कालमननुभूतायां वृद्धमध्यमवृद्धयोर्घटमानयनयेत्यादिरूपायां व्यवहृतौ, दृश्यमने सति, व्युत्पत्तिः - अस्य वाक्यस्यायमर्थ इत्येवमावापोद्वापाभ्यां सङ्केतग्रहणकृता निपुणता, एव न स्यात् का कथा तत्कार्यस्य व्यवहारस्येत्येव - शब्दाभिप्रायः | कुतो न स्यात् इत्यत आह निर्विकल्प इति | हि - यस्मात् - बालो निर्विकल्पकज्ञानपरम्परया - इदंप्रथमतः ग्रहणवशेन शब्दार्थ - विषयपरामर्शरूपविकल्परहितश्रवणेन्द्रियकृतशब्दश्रुतिप्रमातृरूपा नु-भवपरम्पराभावेन, निर्विकल्पकज्ञानपरंपरया [निर्विकल्पविज्ञानपरंपरया - K. ष्. ष्.] हि तं शब्दं शृणोति, ततः तमर्थं पुरः पश्यति, पुनस्तद्विविक्तं भूतलं पश्यति इति घटम् आनय नय इति व्यवहारात् कथम् अस्य अयम् अर्थ इति हृदि [अस्य अयमर्थो हृदि परिस्फुरेत् - K. ष्. ष्.] परिस्फुरेत्, इदम् घट इति, इदमानय इति, इदं नय इति, इतियोजनाप्राणो [इदमिति - K. ष्. ष्.] हि अयमर्थः, योजना च विकल्प - तं शब्दम् - वृद्धेनोच्चारितं घटानयननयनवाचकं शब्दम्, शृणोति | बहुवारं श्रवणानन्तरं सङ्केतग्रहणसंभवमपेक्ष्य परम्परया इत्युक्तम् | ततः - तदनन्तरम् | तमर्थम् - व्यवहारविषयं घटरूपमर्थम्, पुरः पश्यति तत्रैव स्थितत्वात्, पुनस्तद्विविक्तं भूतलम् - घटरहितं तं भूप्रदेशम्, पश्यति, मध्यमवृद्धेनानयतिशब्दश्रवणे अन्यदेशं प्रत्यानीतत्वात् नयेति शब्दव्यवहारे तु अन्यत्र नीतत्वात्, न तु तत्र तस्य कोऽपि शृङ्गग्राहिकया शब्दार्थयोर्योजनां कृत्वा दर्शयति अस्यायमर्थः इति इति भावः | इति - अतः कारणात्, व्यवहारात् - वृद्धेनोच्चार्यमाणशब्दवाच्यात् मध्यमवृद्धेन क्रियमाणादानयननयनव्यवहारात् | अस्य - तटस्थस्य, बालस्येति शेषः | इति - एतद्वस्तु, हृदि कथं परिस्फुरेत् | इति किमिति ? अस्य शब्दस्यायमर्थो भवति इति | अस्य इत्यस्य काकाक्षिवदुभयत्र योजना | अथवा अयमर्थः इत्यनेनैवास्यायमर्थ इति ज्ञायते | कुतो न परिस्फुरेदित्यत आह योजना इति | हि - यस्मात्, अयमर्थः - अस्यायमर्थः इत्येतद्वस्तु, इतियोजना - एवंरूपं योजनं प्राणो यस्य तादृशो भवति | इति किमिति ? इदम् - वस्तु घट इति - घटशब्दवाच्यं भवति, इदम् - वस्तु, आनयेति - आनयशब्दवाच्यं भवति, इदम् - वस्तु, नयेति - नयेतिशब्दवाच्यं भवति | तत्र प्रथमं घटमानयेति श्रुतेऽखण्डो वाक्यार्थ एव ज्ञायते, न तु प्रतिपदम् अर्थतः. पुनः प्रसङ्गेन घटं नयेति श्रुते घटशब्दस्यान्वयेन नयशब्दस्य व्यतिरेकेण च ज्ञायते घटपदस्यायमर्थः, आनय - व्यापारः | अथ बालस्य प्राग्जन्मानुभूतसङ्केतस्मृतेः एवम्, तथापि सङ्केतकाले शब्दस्यायं नयशब्दस्यायमिति आनयनयेत्युक्तम्, अन्यथा प्रतिपदमर्थज्ञानं कदापि न संभवेत् | ननु योजनाप्यत्रास्त्येवेत्यत आह योजना च इति | विकल्पव्यापारः इति, अनुसन्धानात्मकत्वात् इति भावः | अनुसन्धानकारिविकल्पाभावे हि घटदर्शनसमये शब्दस्मृतिर्नास्ति, तस्यां चोत्पन्नायां तदतिक्रान्तमेवेति संकल्प एव घटोऽपि जात इति किं कुत्र योजयेत् | शब्दस्मृतिरपि तस्य दुरुपपादैव | ननु कथं दुरुपपादा समनन्तरमेव हि शब्दः श्रुतः, मध्ये घटदर्शनमात्रमेव संपन्नम्, इति घटदर्शने जाते तदुद्बुद्धेन संस्कारेण घटशब्दस्मृतिर्युक्तैवेति | सत्यम्, प्रथमं घटम, नयेति व्यवहारे तस्याखण्डवाक्यार्थप्रतीतिरेव, घटं नयेति व्यवहारे तु प्रतिपदमर्थो ज्ञायते, तत्र च पुरातनस्य घटशब्दस्यैव स्वार्थेन सह स्मृत्या योजना क्रियते एव | किन्त्वखण्डवाक्यार्थे या खण्डशब्दयोजना क्रियते अस्य वाक्यस्यायमर्थ इति, तत्र या शब्दस्मृतिः सैवास्माभिर्दुरुपपादत्वेनोक्ता | ननु सापि न दुरुपपादा मध्यमवृद्धव्यवहारदर्शनमात्रस्याखण्डवाक्यानुभूतेर्व्यवधा नात्, अनुभूतेश्च मध्यमवृद्धव्यवहारे तत्कृतसंस्कारोद्वोधात् अखण्डवाक्यस्मृतिरयत्नमेव जायते | सत्यम्, सा स्मृता - खण्डपदपङ्क्तिरखण्डे वाक्यार्थे येन स्मृतेन शब्दराशिरूपेण परामर्शेन योज्यते, अस्यायमर्थ इति तत्स्मृतिः कथं सिद्ध्यति ? न हि तदनुभवस्तस्याद्यतावज्जातः, तदभावे च तस्या दुरुपपादत्वमेवेति सा स्मृतिः तस्य बलस्य चैतन्ये स्वरूपतया स्थितैव युक्ता, परमार्थविचारे तु तस्याः स्मृतेरस्यायमर्थ इत्यपि रूपं न भवत्येव, अस्य पदत्रयस्य संस्कृतभाषापेक्षया सामान्यत्वेऽपि देशादिभाषापेक्षया विशेषत्वम् इत्यङ्गुल्यादिनिर्देशप्रख्यत्वमुक्तम्, अङ्गुलिनिर्देशोऽपि विचार्यमाणो विशेष एव, अत एव प्रख्य इत्युक्तम् | अत आन्तरः कोऽप्यसौ चैतन्यशक्तिरूपः परामर्शः, येन बालः प्रथम स्वयमेव योजनां करोति, सा शक्तिश्च पश्वादिष्वपि वर्तत एव, गवादयोपि हि अङ्गुल्यादिनिर्देशेन वस्तु जानन्त्येव | तदुक्तम् :- बालास्तिर्यक्प्रमातारो ये ऽप्यसङ्केतभागिनः | तेऽप्यकृत्रिमसंस्कारसारामेनां हि संविदम् || भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् | स शब्दो विषयत्वेन इदंभावेन प्रत्यवमृश्यमानत्वात् [अप्रत्यवमृश्यमानत्वात् - K. ष्. ष्.] भेदात् प्रच्युत्य इति | पाषाणादिष्वपि तस्याः स्थितिरनिवार्यैव, शक्तियुक्तचैतन्ययुक्तत्वात्, अन्यथा वृद्ध्याद्यसंभवात् | अत्र तरूणां चैतन्ये स्वकीयं केशादि, पाषाणानां चैतन्ये स्वकीयमस्थिजातं साक्षितया स्थितमित्यलमनिर्वाच्येषु वस्तुषु हेतुपर्येषणाभिः | अत एव च सर्वेषां जडाजडानां भावानां भगवत्स्तुतिपरत्वं यत् कथयन्ति तद्युक्तमेव परामर्शमात्रस्य स्तुतित्वात् | परामर्शस्य चैतन्यद्वारेण सर्वत्रगतत्वेन साधनात् | चैतन्यस्य च सर्वगतत्वं सन्मात्रभावेन सर्वसत्तादायकत्वेन चिन्मात्रताद्वारेण सर्वज्ञापकत्वेन च द्विविधमेव, अन्यथा जगद्गतं भाववृन्दं किंमयं केन ज्ञातं च भवेत् | ननु परामर्शमात्रेण कथं सर्वोत्कर्षपरामर्शरूपस्तुतिकारित्वं युक्तम् ? सत्यम्, सर्वोत्कर्षः - स्वातन्त्र्यम्, तच्चानन्यमुखप्रेक्षित्वं तदेव चाहंपरामर्शस्य साधितम् स एव सर्वत्र जडाजडेषु सारतया स्थित इति सर्वे एव भगवत्स्वरूपा एवेति कः कं रतूयादित्यलं मूढसंबोधनार्थ कल्पितेषु प्रपंचेषु सूक्ष्मेक्षिकाभिः | प्रकृतमनुसरामः | अत्र शिष्यः प्रश्नं करोति अथ इति | प्राग्जन्मनि - पूर्वजन्मनि, अनुभूतो यः सङ्केतः - अस्यायमर्थ इत्येवंरूपस्तस्य स्मृतेः, एवम्, योजनं भवतीत्यर्थः | ननु प्राग्जन्मैव किमुच्यते ? शृणु, प्रथमं तावदयं यत उत्थितस्तदेवास्य प्राग्जन्म तत्र च सव शक्तितया स्ह्तितमिति यदनेन स्वतन्त्र्यतया नीतं तदस्य प्राग्जन्मकालीनमुच्यते, तदेव स्मरति इति कथ्यते | यदि तु नाऽत्र त्वद्बुद्धिः समर्था तर्हि पिता पुत्रस्य प्राग्जन्मेति जानीहि | तत एव च यद्रेतसा सहास्यागतम्, तदेव चास्य प्राग्जन्मकालीनं तदेव च स्मरतीति कथ्यते नवीनं जन्म च पुत्र एव | यदि चात्रापि त्वद्बुद्धिर्न व्यापृता तर्हि स्मृतिशास्त्रेषु यस्मात्पूर्वजन्मनोऽयमागतस्तदेवास्य पाग्जन्म, तत्रैव च यद्यदनेन कृतं तदेव अदृष्टवशात् अयमिह स्मरति, नवीनं च यत्र पुनर्येन भावेन जन्म प्राप्स्यतीति | अत्रोत्तरमाह तथापि इति | सङ्केतकाले - प्राग्जन्मनि स्थिते सङ्केतसमये, स शब्दः - अद्य योजनाहेतुत्वेन स्थितः परामर्शरूपः शब्दः | इदंभावेन - इदन्तया, अयं शब्दोऽस्यार्थस्य वाचकः इत्येवम् | विषय वेन - विषयभावेन, प्रत्यवमृश्यमानत्वात् - प्रमात्रापरामर्श - निर्भासमानो विज्ञानशरीरे [विज्ञानशरीरविश्रान्तीकृतः - K. ष्. ष्.] विश्रान्तः सन् वाचक इति भवति, तद् विज्ञानस्य स्वरूपं चेत् भाति तत् अभिलापमयमेव इति, यथा विषयस्य सुखरूपत्वाभावेऽपि ज्ञानं सुखात्मकं तथा मा भूत अभिलापात्मा रूपादिः विषयः, तथापि विज्ञानं तदात्मकं अवभासिष्यते | अत्र तु दर्शने विषयीकृतत्वेन, संपादितात् भेदात् प्रच्युत्य - परप्रमातुः शून्यप्रमातुश्च विच्छिन्नीभूय, निर्भासमानः - तस्मिन् काले भासमाः, विज्ञानशरीरे - बुद्धिप्रमातरि, विश्रान्तस्सन् वाचक इति भवति | परापश्यन्तीभावात् प्रच्युतो मध्यमाभावमागत्य बुद्धिप्रमातरि निरूढः शब्दो हि स्वार्थनियमितः सन् वाचक इति कथ्यते | ततोऽपि च्युतस्तु वैखरीभावमागतः प्राणदेहरूपप्रमातृद्वये विश्रान्तः तराम्, तद्विज्ञानस्य - वाचकविश्रान्तिस्थानभूतस्य बुद्धिप्रमातुः, स्वरूपं चेद् भाति - स्वप्रकाशत्वेन स्फुरति, तत् - तर्हि, अभिलापमयमेव - शब्दमयमेव, भाति, वाचकविश्रान्तिस्थानस्वभावत्वात् | तज्जन्मान्तरे बालस्याभिलापः स्वाभाविक एव सिद्ध इति भावः | इति शब्दः प्रमेयपरिसमाप्तौ | नन विषयोऽभिलापरूपो नास्तीति कथं विज्ञानं तन्मयतायुक्तं विषयानुगुणेनैव विज्ञानोत्थानात्, अन्यथा तस्यापि परप्रमातृत्वानपायात् इत्यत आह यथा इति | ज्ञानम् - विज्ञानम्, भाति - स्फुरति, विषयकृततात्कालिकनैरपेक्ष्यवशेन स्वरूपभूतसुखाविर्भावात् | तथा - तद्वत्, तदात्मकम् - स्वात्मविश्रान्ताभिलापमयम् | अवभासिष्यते - स्वप्रकाशत्वेन स्वयं स्वं प्रति भासनविषयीभविष्यति, कर्मकर्तरि ऌडुपरि ते आदेशः | अस्मद्दर्शने तु विषयोऽप्यभिलापमय एव इत्याह अत्र तु दर्शने इति | अत्र दर्शने, श्रीशैवनये इत्यर्थः | तदुक्तम् :- अनादिनिधनं बह्म शब्दतत्त्वं यदक्षरम् | विवर्ततेर्थभावेन प्रक्रिया जगतो यतः || विषयस्यापि विमर्शमयत्वात् अभिलापमयत्वमेव वस्तुतः, स्तैमित्याद्यवस्थापि यदि न परामर्शमयी तर्हि अस्यां विकल्पात्मकप्रमातृव्यापारानुल्लासात् संभवः शपथपरमार्थ एव, स्मरणं च न स्यात्, रूपविषयाध्यवसायी हि यदि विकल्प उदियात् किमन्यत्, सर्वचिन्तासंहरणेन स्तैमित्यं नाम न स्यात्, इति तत्रापि अस्ति अन्तः परामर्शः, सकलेन च शब्दग्रामेण शब्दनं हि सहन्ते वस्तूनि, तत्र च नियतशब्दयोजनं क्रियते | तथा हि - बालस्य पुरः [पुरतः पिण्डे - K. ष्. ष्.] पिण्डे सहजो यः परामर्शः, अहम् इत्यविच्छेदेन इदम् इति विच्छेदेन इति | ननु यदि सर्वमभिलापमयमेव तर्हि कथं स्तैमित्यं नाम संभवति इत्यत आह स्तैमित्य इति | विकल्पात्मकः - विकल्परूपः यः प्रमाता - बुद्धिप्रमाता तस्य यो व्यापारः - ग्रहणरूपः तस्यानुल्लासात् | शपथपरमार्थः, शपथेनैव यदि कश्चित्तत्सत्त्वमङ्गीकरोति तर्हि तं प्रत्यस्ति, अन्यथा तत्सत्तामेव कोऽपि नाङ्गीकरोति, साक्ष्यभावात्, साक्षी च विज्ञानमयः स्वात्मैवेति भावः | स्मरणं च - स्तैमित्यादुत्थितस्य उत्तरकालीनम् स्तैमित्यं ममासीत् इत्येवंरूपा स्मृतिः | ननु यद्येवं तर्हि तत्राप्यध्यवसायः स्फुट एव भवतु इत्यत आह रूप इति | रूपविषय अध्यवसायः - परामर्शोऽस्यास्तीति रूपविषयाध्यवसायी, स्तैमित्ये इति शेषः, यदि उदियात्, तर्हीति शेषः | किमन्यत् - अत्राङ्गीकृतादस्मादध्यवसायाद् भिन्नम्, सर्वचिन्तासंहरणेन स्तैमित्यं नाम - सर्वचिन्तासंहरणरूपं स्तैमित्याख्यं वस्तु किं स्यात्, स्तैमित्याध्यवसायस्यैव स्तैमित्यसिद्धिहेतुत्वान्न किमपि स्यादित्यर्थः | फलितमाह इति इति | इति - अतः कारणात् | तत्रापि - स्तैमित्येऽपि, अन्तः परामर्शः अस्ति | एतेनायातं सर्वशब्दानां सर्वार्थविषयत्वं कथयति सकलेन इति | शब्दनम् - कथनम्, वाचकतया संयोजनम् | अत्र समर्थनं करोति तथा हि इति | पुरः पिण्डे - अग्रगते गवादिपिण्डे | सहजः - स्वाभाविकः, न तु इहानुभूतशब्दसंस्काररूपः, परामर्शः - प्रथमव्यवहारयोजनानिमित्तभूतः, वाशब्दद्वयमुभयत्रविकल्पप्रधानताद्योतनार्थम् | तत्पृष्ठे - अविच्छदपरामर्शस्य वा तत्पृष्ठे एव गौर इति गौः इति वा शब्द आरोप्यते, सोऽपि अभ्यासात् प्रमातृमयो [प्रमातृमयीभवति - K. ष्. ष्.] भवति, तत्पृष्ठे च अन्यः शुक्ल इति, अन्यत् बलीवर्द इति, [अन्यः शुक्ल इति, बलीवर्द इति एवमन्यत् इति सङ्केततत्त्वम् - K. ष्. ष्] इत्येवं सङ्केततत्त्वम् | तस्मात् अस्ति साक्षात्कारे प्रत्यवमर्शः | अपिशब्दस्य अयमाशयः | इह साक्षात्कारो वस्तुतः पश्यामि इत्येवंभूतविकल्पनव्यापारपर्यन्त एव | विकल्पो हि प्रत्यक्षस्य व्यापार इति परोऽपि मन्यते | न च व्यापारः तद्वतो भिन्नो युक्तः, तत्स्वरूपभूतो हि सः | भवतु वा विच्छेदपरामर्शस्य वा पृष्ठे, गौर इति देशभाषाशब्दोपलक्षणम्, गौः इति नानाविधशास्त्रभाषाशब्दोपलक्षणम् | आरोप्यते इति, शुक्तिकायां रजतमिवारोपविषयतां नीयते, परमार्थतस्तु काकवाशितादिरूपस्यान्तरपरामर्शस्यैव स्थितत्वात् तस्यैव च वर्णविशेषैः उपरागीकरणात् | सोऽपि - स शब्दोऽपि, प्रमातृमयः - विज्ञानशरीराविष्टः | तत्पृष्ठ च - प्रोक्तशब्दद्वयपृष्ठे च, अन्यः शुक्लः इत्यारोप्यते, अन्यत् बलोवर्दः इत्येवमारोप्यते, इत्येवं सङ्केततत्त्वं भवति, न तु कोऽपि शब्दः कुत्रापि नियतो वर्तते, तत्त्वे हि सर्वा भाषा एकरूपा एव भवेयुरिति भावः | विमर्श इत्यन्तं व्याख्यातस्य श्लोकखण्डस्य वाच्यमुपसंहरति तस्मात् इति | एतद्वाक्यगतस्य अपि शब्दस्याभिप्रायमाह अपिशब्दस्य इति | साक्षात्कारः - प्रत्यक्षीकरणम् | कुतो विकल्पव्यापारपर्यन्त इत्यत आह विकल्पो हि इति | प्रत्यक्षस्य - प्रत्यक्षप्रमाणस्य | तदुक्तम् :- प्रत्यक्षं द्विविधं सविकल्पकं निर्विकल्पकं च इति | परोऽपि - तार्किकोऽपि न तु बौद्धः, तन्मते विकल्पस्याप्रत्यक्षरूपत्वात् | ननु ततः किम् इत्यत आह न च इति | तद्वतः - व्यापारवतः | कुतो न भिन्न इत्यत आह तत् इति | ततश्च स्फुटमेव साक्षात्कारस्य विमर्शमयत्वमेवेति भावः | एतत्तु वाक्यदृष्ट्या साधनम् | अत्र बौद्धमतमुत्थापयति क्षणमात्रस्वभावः साक्षात्कारः, तत्रापि अस्ति विमर्शः | अवश्यं चैतत् | कथम् अन्यथा इति | यदि स न स्यात् तत् एकाभिसंधानेन जवात् गच्छन्, त्वरितं च वर्णान् पठन्, द्रुतं च मन्त्रपुस्तकं वाचयन्, न अभिमतमेव गच्छेत्, उच्चारयेत्, वाचयेत् वा | तथा हि - तस्मिन् देशे ज्ञानम् - आचिक्रमिषा - आक्रमणम् - आक्रान्तताज्ञानम् - प्रयोजनान्तरानुसंधानम् - तित्यक्षा देशान्तरानुसंधिः, तत्रापि आचिक्रमिषा इत्यादिनां योजनवियोजनरूपेण [संयोजनवियोजनरूपेण - K. ष्. ष्.] प्रत्यवमर्शेन [परामर्शेन विना - K. ष्. ष्.] विनाभिमतदेशावाप्तिः कथं भवेत् | एवं त्वरितोद्ग्रहणवाचनादौ भवतु वा इति | क्षणमात्रस्वभावः - विकल्पारूषितैकक्षणस्वरूपः, बौद्धमते सर्वस्य क्षणिकत्वात् | अत्रापि विमर्शस्य सत्त्वं साधयति तत्रापि इति | तत्रापि - क्षणमात्रस्वभावे साक्षात्कारेऽपि | तेषामत्रानङ्गीकारमाशङ्क्याह - अवश्यम् इति | कथमित्यपेक्षाया कथमन्यथा इत्यादिश्लोकशेषमुत्तरतया व्याचष्टे कथम् अन्यथा इति | कथमन्यथा इति पदद्वयं व्याचष्टे यदि इति | सः - विमर्शः | प्रतिसन्धान इति पदं व्याचष्टे तत् इति | तत् - तदा, एकाभिसंधानेन - धावनं करोमीत्यादिप्रथमपरामर्शरूपेणानुसन्धानेन, अभिमतम् - इष्टगन्तव्यदेशाद्येव | अत्र समर्थनं कर्तुमारभते तथा हि इति | तस्मिन्देशे - प्रथमं धावनविषयीकृते देशे | ज्ञानम् - इतो देशाद्धावनं करोमीति, तत आचिक्रमिषा - आक्रान्तुमिच्छा, तत आक्रमणम् - तद्देशाक्रान्तिः, ततः तित्यक्षा - तस्य देशस्य त्यक्तुमिच्छा, ततो देशान्तरानुसन्धिः - द्वितीयपदाश्रयभूतस्य देशस्य मनस्यभिसन्धानम्, तत्राचिक्रमिषा, आदिशब्देनाक्रमणादेः देशान्तराभिसन्धानादेश्च ग्रहणम् | इत्यादिना - इत्येवंरूपेण, योजनवियोजनरूपेण परामर्शेन - अस्फुटेनावश्याङ्गी - कर्तव्येन च, प्रत्यवमर्शेन विनाभिमतदेशाप्तिः कथं भवेत्, प्रतिपदमेतावतः मन्तव्यम् | तत्र विशेषतः स्थानकरणाक्रमणादियोगः | अत्र च यतः ज्ञानेच्छाऽऽक्रान्त्यादिजालस्य संभव एव तत्संभवात् न स्यादित्यर्थः | येन रूपेण च तस्य ज्ञानादि तत्र स्थितं तदेव सहजोहंपरामर्श इति तत्रावधानपरेणैव भाव्यम् | तदुक्तम् :- धावन् वा यत्पदं गच्छेत् तत्र स्पन्दः प्रतिष्ठितः | इति | न चात्राप्यसंभवो ज्ञानादेर्वाच्यः, पदद्वयमध्यप्रदेशरूपस्य सर्वमयस्य मध्यपदस्यात्र स्थितत्वात्, मध्यपदं च ज्ञानाज्ज्ञानान्तरगमने स्फुटतरमेव प्रबुद्धानाम्, सुप्रबुद्धानां सर्वदा सर्वं तन्मयमेव, अप्रबुद्धानां त्वत्राधिकार एव नास्ति | तदुक्तम् :- एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तदुपलक्षयेत् || इति | श्रीवसिष्ठेनापि एतदेव मनसि कृत्वा देशाद्देशान्तरं दूरं गतायाः संविदः क्षणात् | यद्रूपममलं मध्ये तद्रूपं परमात्मनः || इत्युक्तम् | अत्रैव स्थितिं कुर्वतामणिमादिकमैश्वर्यं विघ्नत्वेनाविर्भवति | तदुक्तम् :- अतो बिन्दुरतो नादो रूपमस्मादतो रसः | प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः || इति | देहिन इत्यनेनैतत् सूचितम् - प्रथमं यथातथाभूतादेवोत्थाय [प्रथमं यथा तयादेवोत्थाय - C.] गन्तव्यम् अन्यथा मध्यधामाभ्यासिनोऽपि मध्ये क्षोभा आयान्त्येवेत्यलम् | आदिशब्दगृहीते तद्ग्रहणवाचनादौ चामुं न्यायम् अतिदिशति एवम् इति | आदिशब्देन त्वरितं क्रियमाणस्य सर्वस्य क्रियाजातस्य ग्रहणम् | तत्रापि विमर्शस्फूर्तिरस्तीति भावः | तदुक्तम् :- अयमुच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत् | यावन्न मध्ये विश्रान्तस्त्वयि शुद्धचिदात्मनि || पश्चाद्भाविस्थूलविकल्पकल्पना न संवेद्यते, तत एव त्वरितत्वम् इति सूक्ष्मेण प्रत्यवमर्शेन संवर्तितशब्दभावनामयेन भाव्यमेव | संवर्तिता हि शब्दभावना प्रसारणेन विवर्त्यमाना स्थूलो विकल्पः, यथा इदमित्यस्य प्रसारणा घटः शुक्ल इत्यादिः, तस्यापि पृथुबुध्नोदराकारः शुक्लत्वजातियुक्तगुणसमवायी इत्यादिः | धावु गतिशुद्धौ इति पाठात् धाविस्त्वरितगतौ स्वशक्तिवशात् वर्तत इति || १९ || भवतु एवं सूक्ष्मो विमर्शः प्रकाशशरीरावेशी, यत्र तु स्थूलत्वेन इति | शुद्धाहंपरामर्शयुक्त एव शुद्धचिदात्मेति नान्यथा शङ्क्यम् | नन्वेतत्कथमित्यपेक्षायामाह तत्र इति | तत्र - त्वरितोद्ग्रहणादौ | स्थानानाम् - कण्ठादीनाम्, करणानाम् - स्पृष्टत्वादिरूपाणाम् | अत्र - त्वरितोद्ग्रहणादिसमये, च भाविनी - ततो विश्रम्य स्फुरणशीला, न संवेद्यते - नानुभूयते | इति - अतः कारणात्, संवर्तितशब्दभावनामयेन - अतिसङ्कुचितशब्दपरामर्शरूपेण, भाव्यमेव, अन्यथा एकवर्णोच्चारानन्तरं द्वितीयवर्णज्ञानाद्यसंभवे द्वितीयवर्ण - पठनमयुक्तमेव स्यादिति भावः | संवर्तिता - प्रथमं त्वरितपठनरीत्या सङ्कुचिता, शब्दभावना - वर्णद्वयमध्यगता तत्संयोजनहेतुप्रत्यवमर्शरूपा, विवर्त्यमाना - स्फुटतां नीता सती, स्थूलो विकल्पो भवतीति योजना | अत्रोदाहरणमाह यथा इति | आदिशब्देन क्रियादेर्ग्रहणम् | तस्य - घटः शुक्ल इत्यादेः | तत्र घट इत्यस्य प्रसारणमाह पृथु इति | शुक्ल इत्यस्य प्रसारणा शुक्लत्व इति | ननु कथं धावतेस्त्वरितगतिवाचकत्वम् इत्यत आह धावु गति इति | स्वशक्तिवशात् - स्वशक्तिवशेन | धातूनां हि उपसर्गैर्विनापि स्वशक्त्यैव नानार्थत्वम्, यथा यौतेः मिश्रणामिश्रणार्थत्वमिति भावुः | धावु गतिशुद्ध्योः इति प्रशस्तः पाठः | इति शब्दः श्लोकव्याख्यासमाप्तौ || १९ || अथ विंशस्य श्लोकस्यावतरणिकां करोति भवत्वेवम् इति | अत्र टीका :- एवम् - त्वदुक्तप्रकारेण, सूक्ष्मः - शुद्धाहंमात्रस्वरूपः, प्रकाशशरीरावेशो - विकल्परूपता स्फुटा, तत्र शब्दो नीलादिवत् एव पृथक् प्रतिभासते - नीलम् इदम् इति, स कथं प्रकाशस्वरूपात् अपृथग्भूतः स्यात्, शब्दात्मा च विमर्शः, स च अत्र मायात्मके भेदपदेऽपि प्रकाशापृथग्भूतो भवद्भिः इष्टः, तत् एतत् कथं प्रतिपत्तव्यम् इत्याशङ्क्याह :- घटोऽयमित्यध्यवसा नामरूपातिरेकिणी | परेशश्क्तिरात्मेव भासते न त्विदन्तया || २० || केन एतत् उक्तम् घट इति यः स्थूलः शब्दः स प्रकाशजीवित स्वभावो विमर्श इति | सोऽपि हि स्थूलः शब्दोऽर्थवत् पृथग्भूत एव भाति | तौ नामरूपलक्षणौ शब्दार्थौ एकरूपतया सोऽयम् इत्येवंरूपत्वेन परामृशशन्ती अध्यवसा [अध्यवसायशक्तिः - K. ष्. ष्.] या सा परमेश्वरशक्तिः विमर्शरूपा आत्मव - प्रकाशस्वरूपाविष्टः, प्रकाशस्य तं विना स्वरूपानुद्भूतेः, यत्र तु - यस्मिन्नीलादौ, कथं प्रतिभासते इत्यत आह नीलम् इति, सः - विकल्परूपः शब्दः, अत्र पुरःस्थितः [परः स्थितः - C.] अपि शब्दो भिन्नक्रमः, तथा च भवद्भिरपीष्ट इति योजना | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | घटोयम् इति | अत्र टीका :- श्लोकं व्याख्यातुं प्रक्रियां तनोति केनैतत् इति | पुनः किमुक्तमस्तीत्यपेक्षायामाह सोऽपि इति | पुनः कस्य प्रकाशजीवितत्वमित्यत आह - तौ इति | तौ - प्रसिद्धौ, नामरूपौ - घट इति नामेदमिति रूपम् लक्षणम् - स्वरूपं ययोस्तौ, शब्दार्थौ | एकरूपतया स्वयमेवास्य पदस्य व्याख्यां करोति सोऽयम् इत्येवम् इति | परामृशन्ती - शब्दार्थैकीकरणरूपया प्रत्यभिज्ञया परामर्शविषयतां नयन्ती, अत एव ताभ्यामतिरेकेण युक्तेति भावः | अध्यवसा - बुद्धिव्यापाररूपमध्यवसानम्, या भवति सा न तु घट इति स्थूलः शब्दः, परमेश्वर देव अहमित्यनवच्छिन्नत्वेन भाति, न तु कदाचित् इदन्तया विच्छिन्नत्वेन भाति विच्छिन्नत्वेन अवभासे परप्रतिष्ठत्वात् पुनर्विमर्शान्तरेण भाव्यम्, तत्रापि एवम् इति अनवस्थातो [अनवस्था अतः - K. ष्. ष्.] नीलस्य प्रकाशनमेव न स्यात् प्रतिष्ठालाभाभावात् | तस्मात् सर्व एव विमर्शः प्रकाशात् अविच्छिन्न एव इति | अध्यवसा इति, आतश्चोपसर्गे (पा. व्या. ३ - ३ - १६ ) इत्यङन्तः स्त्रियाम् || २० || शक्तिः विमर्शरूप - नामरूपोपरागेपि परमार्थतोहमित्येव विमर्शरूपा सती | आत्मवदेव - प्रकाशवदेव, अहमित्यनवच्छिन्नत्वेन भाति, तत्स्वभावभूतत्वात्, उपरागस्य तु अकिञ्चित्करत्वादिति भावः | ननु कुतो न इदन्तया भाति इयं घटाध्यवसा इति भिन्नत्वेन भानादित्यत आह इदन्तया इति | परप्रतिष्ठत्वात् स्वात्मविश्रान्त्यभावेन विषयनिष्ठतया ग्रहणात्, पुनः विमर्शान्तरेण - स्वात्मारोहार्थं कृतेनान्येन विमर्शेन, भाव्यम्, विमर्श विना स्वात्मारोहाभावात्, स्वात्मारोहं विना च संपन्नाप्यध्यवसाऽसत्कल्पैवेति भावः | ननु भवतु विमर्शान्तरमपि ततः किम् इत्यत आह तत्रापि इति | तत्रापि - तस्मिन्विमर्शान्तरेऽपि, एवम्, विमर्शान्तरेण भाव्यमित्यर्थः, समानन्यायत्वादिति भावः | इति - एवम्, अनवस्थातः - अनवस्थादोषप्रसङ्गात्, नीलस्य प्रकाशनमेव न स्यात्, प्रमातुरध्यवसानग्रहणमात्र एव क्षीणत्वादिति भावः | फलितं स्वाभीष्टं सिद्धत्वेन कथयति तस्मात् इति | सर्व एव - अहंस्वरूपः नीलादिरूपश्च सामान्यविशेषस्पन्दात्मकः | इति शब्दो व्याख्यासमाप्तौ | अध्यवसा इति पदं व्युत्पादयति अध्यवसा इति | अङ इति, भावे विहितः इत्यर्थः, स्त्रियां टाबन्तत्वात् स्त्रीलिङ्ग इत्यर्थः | अध्यवसेति उपसर्गद्वयपूर्वस्य षो अन्तकर्मणि इत्यस्येदं रूपम्, आदे च इति ओकारस्याकारः || २० || ननु एवं सर्वस्यैव ज्ञानकलापस्य अहमित्येव प्रतिष्ठाने वेद्यभूमिस्पर्शो नास्ति वेद्यभुवि च देशकालयोगः न तु वेदकांशे, देशकालयोगाभावे च यत् इदं ज्ञानानां देशापेक्षया प्रमात्राद्यंशापेक्षया [स्वांशापेक्षया ज्ञानान्तरापेक्षया - K. ष्. ष्.] च सक्रमत्वं लक्ष्यते तत् कथं स्यात्, क्रमाभावे च एकत्वमेव वस्तुतो भवेत्, ततश्च ज्ञानस्मृत्यादिभिस्तद्वान् [ज्ञानस्मृत्यादिशक्तिभिस्तद्वान् - K. ष्. ष्.] परमेश्वरः इति यत् उक्तं तत् कथं निर्वहेत् इत्याशङ्कां शमयन् पूर्वोक्तमुपसंहरति :- केवलं भिन्नसंवेद्यदेशकालानुरोधतः | ज्ञानस्मृत्यवसायादि सक्रमं प्रतिभासते || २१ || अथैकविंशस्य श्लोकस्यावतरणिकां करोति ननु एवम् इति | अत्र टीका :- एवम्, समनन्तरोक्ते प्रकारे सतीत्यर्थः, प्रतिष्ठाने - स्थितौ सत्याम्, कुतो नास्तीत्यत आह वेद्य इति | च शब्दो हि शब्दार्थे, मास्तु देशकालस्पर्शस्ततः किम् इत्यत आह देश इति | दोशापेक्षया प्रमात्राद्यंशापेक्षया कथं स्यात्, कालस्यैव क्रमहेतुत्वान्न स्यादित्यर्थः | ननु तदपि मास्तु इत्यत आह क्रम इति | नन्वेकत्वमेव भवतु ततोऽपि किम् इत्यत आह ततश्च इति | ततश्च - एकत्वे च सतीत्यर्थः | ज्ञानस्मृत्यादिभिः तद्वान् - ज्ञानस्मृत्यपोहनशक्तिमान् | उक्तम् इति, न चेदन्तःकृतेति श्लोके इत्यर्थः | निर्वहेत् - सिद्धिं गच्छेत् | उपसंहरति, सङ्कलययकत्र कथयतीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | केवलम् इति | सत्यम् एवम् अक्रममेव संवित्तत्वम्, किन्तु स्वशक्तिवशात् भिन्नत्वेन भासितानि यानि वेद्यानि तेषां मूर्तिभेदकृतो यो दूरादूरवैतत्यावैतत्यादिः देशः, क्रियाभेदकृतश्च [क्रियाभेदकृतश्च चिरशीघ्रक्रमादिरूपः कालः - K. ष्. ष्.] यः चिरशीघ्रकर्मादिरूपः कालः, तौ अनुरुध्य छायामात्रेण अवलम्ब्य, ज्ञानस्मरणाध्यवसायानां स्वांशा इव भान्ति निरंशानामपि, तद्भासमानांशकृतश्च सक्रमत्वावभासः परस्परापेक्षया स्वांशापेक्षया च, यद्यपि कालक्रम एव स्फुटो विज्ञानेषु भाति न देशक्रमः, अत्र टीका :- केवलम् इति पदं व्याचष्टे सत्यम् इत्यादिना किन्तु इत्यन्तेन | स्वशक्तिवशात् इत्यस्योपयोगित्वेनाध्याहारः | भिन्नसंवेद्य इत्यादेस्समस्तपदस्य विग्रहं व्याख्यां च कतोति भिन्नत्वेन इति | संवेद्य पदं व्याचष्टे वेद्यानि इति | वेद्यानि - नीलादयो विषयाः, तेषां यः मुर्तिभेदः - स्वरूपभेदः - तेन कृतः यो देशः, देशो हि वस्तुस्वरूपभेदमात्रमेव | किंरूपो देश इत्यपेक्षायां तद्विशेषणमाह दूर इति | तथा यः क्रियाभेदः - चेष्टाभेदस्तेन कृतः यः कालः, कीदृशः कालः इत्यत आह चिर इति | तौ - देशकालौ | अनुरोधतः इत्यस्यार्थमाह छाया इति | छायामात्रेण - भासमात्रेण, न तु परमार्थतः, अवलंब्य, आश्रित्येत्यर्थः, एतेन ल्यब्लोपेऽयं तसिलिति सूचितम् | पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे ज्ञान इति | आदि शब्देन ज्ञानाद्यंशानां ग्रहणम् | कथमादिशब्दगृहीता अंशाः संभवन्ति इत्यत आह स्वांशा इति | निरंशानामपि सतां स्वांशा इव भान्ति, उपाधिवशेनाकाशांशवदिति योजना | ते भासमानाश्च ते अंशास्तैः कृतः - तद्भासमानांशकृतः | सक्रमं प्रतिभासते इति व्याचष्टे सक्रम इति | तत्र क्रम [तत्र कृत इति पदेन - C.] इति पदेन सूचनया तद्व्याख्या, अवभास इत्यनेन प्रतिपूर्वभासृधातुव्याख्या | नन तथापि विमूढस्य पर्वतसंवेदनं विततमिव बदरसंवेदनं च सूक्ष्ममिव भाति इति देशक्रमोऽपि दर्शितः, तेन वेद्यगतक्रमस्वीकाराभासात् सक्रमत्वम् आभासमानमपि न अपारमार्थिकम् आभासमानस्य परमार्थत्वात्, ततश्च युक्तमुक्तम् ज्ञानादयोऽस्य भगवतः शक्तयः इति | मायाशक्त्या विभोः इति श्लोकेन स्वरूपवैचित्र्यं ज्ञानानां दर्शितम् | अनेन तु देशकालवैचित्र्यम् इति विशेषः | इति शिवम् || २१ || इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्र - विमर्शिन्यां प्रथमए ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम पञ्चममाह्निकम् || क्रमशब्दस्य सापेक्षशब्दत्वात् किमपेक्ष्य स क्रमः प्रतिभासते इत्यपेक्षायां सूत्रे कृतमप्येतन्निर्णयं करोति परस्पर इति | न हि ज्ञानादय एककाले एव संभवन्तीति भावः | न हि ज्ञानं युगपत् प्रादुर्भवति, अपि तु प्रमात्राद्यंशावलंबक्रमेणैव, एवं स्मृत्याद्यपि | शिष्यशङ्कां मनसि कृत्वा निर्णयान्तरमपि करोति यद्यपि इति | अपि शब्दो देशक्रमदर्शनस्य स्तोकमयुक्ततां सूचयति | फलितमाह तेन इति | आभासमानस्य च पारमार्थिकत्वं प्रागिवार्थं इति श्लोकोक्तयुक्त्या ज्ञेयम् | एतदवष्टम्भेन पूर्वोक्तवस्तुनो युक्ततां साधयति ततश्च इति | मायाशक्त्या इति पूर्वश्लोकेन सहास्य पुनरुक्ततां निवारयति माया इति | अनेन - एतेन श्लोकेन, इति विशेषः - एवं भेदो भवति | इति शब्द आह्निकसमाप्तौ | शिवम् इति मङ्गलवाचकं परतत्त्वपरामर्शसूचकञ्चेति शिवम् || २२ || इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां श्रीभास्कर्याख्यायां ज्ञानाधिकारे पञ्चममाह्निकं समाप्तम् | शुभमस्तु सर्वजगताम् | अथ षष्ठमाह्निकम् | स्वात्माभेदघनान्भावांस्तदपोहनटङ्कतः | छिन्दन्यः स्वेच्छया चित्ररूपकृत्तं स्तुमः शिवम् | एवं स्मृतिशक्तिर्ज्ञानशक्तिश्च निरूपिता | अथ तदुभयानुग्राहिणी अपोहनशक्तिर्वितत्य श्लोकैकादशकेन अहं प्रत्यवमर्शो यः प्रकाशात्मा अथ षष्ठाह्निकप्रारम्भः | स्वरूपस्तम्भगा भावपुत्रिका विविधात्मिकाः | अपोहशक्त्यापास्येवोद्भावयन्तं शिवं स्तुमः || अथ ज्ञानाधिकारे षष्ठाह्निकयाख्यामारभमाणस्तन्निर्विघ्न- समाप्तये परतत्त्वाख्येष्टदेवतानुस्मरणरूपं मङ्गलं समस्ताह्निकाभिप्रायसूचकश्लोकेन शिष्यशिक्षार्थं निबध्नाति स्वात्माभेद इति | अत्र टीका :- वयं तं शिवम् - प्रकाशस्वरूपपरमात्मतत्त्वरूपं शिवेति प्रसिद्धं सुखकारि किमप्यान्तरं तत्त्वम्, स्तुम्ः - स्तुतिद्वारेण तत्स्वरूपं विमर्शविषयतां नयामः | ततो यः स्वेच्छया - स्वातन्त्र्यप्रेरितया कार्यैकगम्ययाऽतिसूक्ष्मयेच्छाशक्त्या स्वरूपभतया, न तु लौकिकेच्छया मनोधर्मरूपया, स्वात्मनः - प्रकाशरूपात् स्वस्मात्, यः अभेदः - भेदराहित्यम्, स्वस्मिन् तादात्म्येनावस्थानमिति यावत्, तेन घनान् - एकपिण्डरूपान् घटादीनिव मृदन्तः, भावान् - ग्राह्यग्राहकरूपान् जडाजडान पदार्थान्, ते - भावाः, अपोह्यन्ते - स्वतोऽन्योन्यतश्च भेदेन भास्यन्तेऽनेनेति तदपोहनशक्तिरिति यावत्, तदेव टङ्कम् - पाषाणदारणं करणम्, ततः, तेनेत्यर्थः | च्छिन्दन् - स्वतोऽन्योन्यतश्च भेदेन भासयन् | चित्राणि यानि रूपाणि अर्थात्तेषां भावानां स्वरूपाणि तानि करोति - प्रतिबिंबतया स्वात्मन्याविर्भावयतीति तादृशो भवति | सार्वकालीनां प्रत्यत कालस्यापि सत्ताप्रदत्वेनातिमहतीं स्वरूपत्वेन स्थितां सत्तां इत्यादिना सिद्धे सर्वस्य जीवतः इत्यन्तेन निर्णीयते | तत्र श्लोकेन प्रत्यवमर्शे अविकल्पो विशेषः इति सूच्यते | ततः श्लोकेन शुद्धेऽहंप्रत्यवमर्शेऽपोहनव्यापारासंभवः उच्यते | ततः स्वदृष्टावेव तदुपपत्तिः इति स्वात्मनि कर्तृत्वमाभास्य तद्भावेन भजति | शस्त्रस्य छेदनस्य करणं प्रति हेतुत्वं द्योतयति | एतेनापोहनशक्तिरत्र निर्णीयत इति सूचितम् | अन्योपि महाशिल्पी स्फाटिकशिलादेः टङ्केन खण्डान् छिन्दन् चित्राः पुत्रिकाः करोति, परन्तु व्यतिरिक्तान् व्यतिरिक्तेन करणेन छिन्दन् व्यतिरिक्तानेव तान् करोति | अयन्तु स्वात्मन एव छिन्दन् स्वात्मरूपाण्येव रूपाणि स्वस्मादभिन्नेनेच्छामात्रेण करोति इति व्यतिरेको व्यङ्गयः | एवं मङ्गलं संपाद्य समस्ताह्निकाभिप्रायं शिष्यबुद्धिसमाधानार्थं प्रथममेव कथयति एवम् इति | अत्र टीका :- निरूपिता, समनन्तरोक्ताह्निकद्वयेनेत्यर्थः | ते उभे - ज्ञानस्मृतिरूपशक्ती तयोरुभयम् - युगलकम् अनुगृह्णाति - अपोहितविषयप्रदानेनानुग्रहविषयतां नयतीति तादृशी | केन श्लोकैकादशकेनेत्यपेक्षायां श्लोकैकादशकमाद्यन्ताभ्यामुपलक्षयति अहम् इति | निर्णीयते, प्रतिपक्षदलनपूर्वकं निश्चयविषयतां नीयते इत्यर्थः | सामस्त्येनाभिप्रायमुक्त्वा व्यस्तत्वेनापि कथयति तत्र इति | तत्र, श्लोकैकादशकमध्ये इत्यर्थः | प्रत्यवमर्श - शुद्धप्रकाशगतेऽहंप्रत्यवमर्शे | अविकल्पः - द्वयाक्षेपिविकल्पाभावः, विशेषः - लौकिकपरामर्शाद्विशेषः | सूच्यत, सूचनामात्रेण न तु साक्षात् कथ्यत इत्यर्थः | ततः - तदनन्तरम् | अपोहनव्यापारस्य, अन्यव्यवच्छेदरूपस्येति भावः, असंभवः - अन्याभावकृतः संभवाभावः | स्वदृष्टौ श्लोकेन | ततोऽपि द्वयेन अशुद्धस्याहमित्यवमर्शस्य विकल्परूपता | ततः श्लोकेन अनुसंधानस्यापि विकल्परूपता | एवंरूपानुसंधानादिरूपमेव [एवं भूतानुसंधानादिरूपमेव परमेश्वरस्य स्रष्ट्टत्वम् - K. ष्. ष्.] परमेश्वरस्य स्रष्ट्टत्वम् इति श्लोकेन | ततः प्रकृते चिदात्मन्यर्थावभासस्य सत्तोपसंह्रियते श्लोकेन | ततो द्वयेन तस्यैवार्थावभासस्यानुभवस्मरणादौ वैचित्र्यमुच्यते, तदुक्तिश्च प्रकृतायामीश्वररूपस्वात्मप्रत्यभिज्ञायामुपयुज्यते इति श्लोकेन | इत्याह्निकस्य तात्पर्यार्थः | अथ ग्रन्थार्थो व्याख्यायते | उक्तमिदम् :- स्वभावमवभासस्य विमर्शम् ...............| इति | तत्र विमर्शोऽभिलापात्मना शब्देन योजित एव, तद्योजनाकृतं च स्वदर्शनभूते शैवनये | तदुपपत्तिः - अहंप्रत्यवमर्शेऽपोहनव्यापारोपपत्तिः | अशुद्धस्य - भेदाख्यमलयुक्तदेहादिप्रमातृगतत्वेन परमार्थतः शुद्धिराहित्याभावेपि तद्युक्तस्य | अनुसन्धानस्यापि - प्रत्यवमर्शकार्यस्य योजनस्यापि, एवंरूपानु सन्धानादिरूपमेव - विकल्पस्वरूपानुसन्धानादिस्वरूपमेव | चिदात्मनि - शिवस्वरूपभूते प्रकाशे | उपसंह्रियते - उपसंहाररीत्या कथ्यते | तस्यैव - संहृतस्यार्थावभासस्यैव, तदुक्तिश्च - वैचित्र्योक्तिश्च | उपसंहारं करोति इति इति | इति - एवम्, आह्निकस्य तात्पर्यार्थः, समस्ताह्निकस्य व्यस्तत्वेन तात्पर्यार्थ इत्यर्थः | ग्रन्थार्थकथनं प्रतिजानीते अथ इति | व्याख्यायते, व्याख्याविषयतां नीयत इत्यर्थः | स्वभावमवभासस्य इति श्लोकव्याख्यावसरे मनसि स्फुरितं शिष्यस्याशङ्कनीयं वस्तु तदशङ्कितमपि कृपादृष्ट्या निर्णेत् स्वयमेव तदनुगुणाम् अवतरणिकां तादृगपेक्षारहितस्यापि प्रथमश्लोकस्य करोति उक्तम् इति | अत्र टीका :- तद्योजनाकृतम् - शब्दयोजनाकृतम् | शुद्धेऽपि - विकल्पासहेपि | तदुक्तम् :- विकल्परूपत्वं शुद्धेपि परमेश्वरे प्राप्तम्, न चैतदिष्टं तस्य संसारपदे मायात्मन्युपपत्तेः इत्याशङ्क्याह :- अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः | नासौ विकल्पः च ह्युक्तो द्वयाक्षेपी विनिश्चयः || १ || प्रकाशस्य शुद्धसंविद्रूपस्य [विशुद्धसंविद्रूपस्य - K. ष्. ष्.] देहादिसंस्पर्शैरनाविलीभूतस्य यः आत्मा जीवितभूतः सारस्वभावो विच्छेदशून्योऽन्तरभ्युपगमकल्पोऽनन्य - विकल्पातीतवृत्तित्वात् प्रत्यक्षोप्यसि विस्मृतः | पुरःस्थितो यथा भावः चेतसोन्याभिलाषिणः || इति | ननु परमशिवमपि प्राप्नोत्वित्यत आह न च इति | कुतो नेष्टमित्यत आह तस्य इति | तस्य - विकल्पस्य | मायात्मनि - मायाकार्यभेदरूपत्वेन लक्षणया तत्स्वरूपे | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | अहम् इति | अत्र टीका :- प्रकाशात्मा इति पदं व्याचष्टे विगृह्णाति च प्रकाशस्य इति | शुद्ध इति, शुद्धा - संवेद्याऽरूषिता, या संवित् - आन्तरं संवित्तत्त्वम्, सा रूपं यस्य तादृशस्य | शुद्धत्वे हेतुगर्भं विशेषणमाह देहादि इति | आदिशब्देन प्राणादेर्ग्रहणम् | देहादिभिरवच्छिन्नतामनानीतस्येत्यर्थः [देहादिभिरवच्छिन्नतामानीतस्य - C.] | आत्मा इत्यवयवं व्याचष्टे जीवित इति | एतेन षष्ठीतत्पुरुषत्वमस्य द्योतितम् प्रत्यवमर्शः इत्यस्य विशेषणत्वञ्च | अहंप्रत्यवमर्शः इति पदं व्याचष्टे अहम् इति | अहम् इति - शुद्धे प्रकाशरूपे स्वात्मनि स्थितत्वात् अहम् इत्येवं - रूपः, न तु भावविषयत्वेन इदम् इतिरूपः, प्रत्यवमर्शः, प्रति - आन्तरत्वेन, अवमर्शः - सूक्ष्माभिलापेन स्पर्शनम् अहम् इति प्रत्यवमर्शः | ननु कीदृगसा - मुखप्रेक्षित्वरूपस्वातन्त्र्यविश्रान्तिरूपः [अनन्यमुखप्रेक्षित्वस्वातन्त्र्य - K. ष्. ष्.] अहम् इति प्रत्यवमर्शः असौ विकल्पो न भवति | विकल्पत्वाशङ्कायां बीजं दर्शयति वाग्वपुरपि इति | विषयरूपात् श्रोत्रग्राह्यात् शब्दादन्य एव अन्तरवभासमानः संविद्रूपावेशी शब्दनात्माभिलापो वागित्यनेनोक्तः - वक्ति अर्थं स्वाध्यासेन सोऽयमित्यभिसंधानेन [सोयमित्यभिसंबन्धेन - K. ष्. ष्.] | यदि वाग्वपुः, कस्मान्न विकल्पः ? आह - न ह्यस्य विकल्पलक्षणमस्ति, तथा हि - विविधा कल्पना विविधत्वेन च शङ्कितस्य कल्पोऽन्यव्यवच्छेदनं वित्यपेक्षायां स्वयमपि विशेषणान्याह विच्छेदशून्यः इति | प्रकाशस्वात्मभूतत्वेन तद्वन्नित्याव्यभिचरितरूप इति भावः | एतेनास्य बाह्यस्पर्शवन्नवीनमुत्थानं निवारितम्, तथा अन्तरभ्युपगमकल्पः इति, स्वात्मनि यः स्वात्माङ्गीकारस्तद्रूपः, न तु बाह्याभ्युपगमतुल्य इति कल्पग्रहणम् | तथा अनन्यमुखप्रेक्षित्वरूपम् - स्वग्रहणे परापेक्षाराहित्यं नाम यत्स्वातन्त्र्यं तत्र या विश्रान्तिः - आस्वादरूपो विश्रामः सा रूपं यस्य तादृश.ः | यच्छब्दाकाङ्क्षां पूरयति असौ इति | वाग्वपुः इति विशेषणस्य हेतुगर्भत्वं साधयितुमाह विकल्प इति | बीजम् - हेतुम् | वाक्शब्दस्यालौकिकार्थत्वं साधयति विषय इति | अन्तरवभासमानः इत्यस्य हेतुमाह संवित् इति | तत्र प्रकाशमात्रनिष्ठत्वेन [नात्राप्रकाशमात्रनिष्ठत्वेन - C.] तच्छरीरविश्रान्तः इत्यर्थः | ननु तर्हि वाग्रूपोसौ न स्यादित्यत आह शब्दन इति | अस्य पर्यायमाह अभिलापः इति | वागित्यनेन, सूत्रस्थेन वाक्शब्देनेत्यथः | इयं परामर्शरूपा वाक् सद्योजातेषु बालेषु स्तन्याभिलाषयुक्ततयाऽनुमीयते एव परन्तु सोपि पुष्टिं गतैव भवति, अन्यथा बहिः प्रसारासंभवात्, अतश्चान्तरेव गुरुपदेशादिना स्वयमेवानुभाव्या | तदुक्तम् :- हन्त भणामो मूढाः इति | परमार्थविचारे तन्मयीभाव एव सिद्ध्यति न तत्रावधानम्, भेदापादकत्वात् | विकल्पः, विविधत्वं च वह्नावनग्निसंभावनासमारोपनिरासेऽसति भवत्, द्वयं वह्न्यवह्निरूपं समाक्षिपति [आक्षिपति - K. ष्. ष्.] तेन विकल्पेऽवश्यं तदुक्तम् :- त्यजावधानानि इति | अतोपि परमार्थविचारे सिद्धिकथनमपि तत्रायुक्तमेव | सर्वदा सर्वस्य तन्मयत्वात् परं सुप्रबुद्धा एव ................विज्ञाः प्रबुधानामुपदेशमात्रयोग्यत्वात्, अप्रबुद्धानां तत्राप्यनधिकारात् | तदुक्तम् :- सेयं क्रियात्मिका शक्तिः शिवस्य वशवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || इति | अलं प्रसङ्गेन | अत्रोपयोगि वाक् शब्दस्य व्युत्पादनं करोति वक्ति इति | स्वाध्यासेन इति, अयं घटः इति हि घटशब्दाध्यासपूर्वं घटशब्दार्थो निश्चीयते | सो यमित्यभिसंधानेन - यः घटशब्दवाच्यः सोयं पुरःस्थितो भावो भवति, योजनया इत्यर्थः | एतेनात्र वाच्यवाचकसङ्केतकरणहेतोरान्तरस्य परामर्शस्यैव वाक्त्वमुक्तम्, न तु बाह्यस्य स्थूलशब्दस्य | अत्र शिष्यः पच्छति यदि इति | अत्र गुरुणा दत्तमुत्तरं कथयितुमाह आह इति | किमाहेत्यत आह न ह्यस्य इति | अस्य - प्रत्यवमर्शस्य | कथमित्यपेक्षायां समर्थनमुपक्रमते तथा हि इति | तत्र विकल्प शब्दस्यावयवार्थमाह विविधा इति | विविधा - तदतद्रूपा, कल्पना | द्वितीयमर्थमाह विविधत्वेन च इति | चः समुच्चये, विविधत्वेन - तदतद्रूपत्वेन | कल्प पदस्यार्थमाह अन्य इति | अन्यस्य - अतद्रूपस्य, व्यवच्छेदनम् - अर्थात् तद्रूपाद् व्यावर्तनम् | एवमवयवार्थं कृत्वा उपसर्गवाच्यस्य विविधत्वस्य कार्यमाह विविधत्वञ्च इति | तावद् असति सति इति योजनीयम् | समाक्षिपति - तच्च निश्चेतव्यम् अतच्च अपोहितव्यं [व्यपोहितव्यम् - K. ष्. ष्.] भवति | तथा च भिन्नयोरवभासो हि स्याद्घटाघटयोर्द्वयोः | प्रकाशस्येव नान्यस्य भेदिनस्त्ववभासनम् || २ || अन्योन्याभावाग्रहणात् प्रमातृबुद्धौ स्फुरणशीलं करोति | उपसर्गप्रकृतिसमुदायकार्यमाह तेन इति | तेन - ततः कारणात् | विकल्पे - विकल्पविषये | तच्च - विकल्पविषयद्वयमध्ये पुरःस्थितं वस्तु च | निश्चेतव्यम् - अस्तित्व - निश्चयार्हं भवति | अतच्च - [अतश्च - C.] केवलशङ्काविषयं वस्तु च | अपोहितव्यम् - नास्तीति व्यवच्छेद्यम् | भवति, तच्च विकल्पकार्यमेव भवतीत्यर्थः | परमार्थतस्तु कल्पपदस्यैवात्र सामर्थ्यं निश्चयव्यवच्छेदवाचकत्वात् | अथवा कल्पस्येत्यध्याहारः तथा चैवमर्थः | तेन विकल्पे - विकल्पपदे स्थितस्य कल्पस्य तन्निश्चेत - व्यमतच्च [अतश्च - C.] व्यपोहितव्यं भवति उपसर्गेणैकत्र तदतत्त्वारोपणादिति भावः || १ || अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति तथा च इति | अत्र टीका:- तथा च, तदेव दर्शयिष्यामीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भिन्नयोः इति | घटे हि दृष्टे घटस्थान एवाघटोऽपि योग्यदेशाभिमतस्थानाक्रमणशीलो विज्ञानजनकः स्वकारणोपनीतः संभाव्यते पटादिस्वभावः, अतो घटाघटयोर्द्वयोरवभासस्य संभावनात् समारोपः सावकाशो भवति, अघटस्य सत्यारोपे निषेधनलक्षणोपोहनव्यापारः [निषेधलक्षणः - K. ष्. ष्.] इति तदनुप्राणिता विकल्परूपता घट इत्येतस्य निश्चयस्य, लिङ्संभावनायाम् | यस्त्वयं प्रकाशो अत्र टीका :- भङ्ग्या श्लोकं व्याचष्टे घटे हि इति | घटस्थाने एव - घटविषये एव, घटरूपतयेति यावत् | पटादिस्वभावः अघटोपीति योजना | कीदृशः अघटः ? योग्यः - तदवस्थाने योग्यताभाक् यो देशः - पटादिव्यक्तिरूपः देशः, स एवाभिमतं स्थानं तस्य यदाक्रमणं तदेव शीलं यस्य तादृशः, अर्थात् परमार्थतो घटस्थाने संभवसह इति भावः | संभाव्यते - तावत्तादात्म्याभावग्रहणात् स्यादिति संभावना - विषयतां नीयते | प्रथमं व्यक्तिमात्रं पश्यन् पुरुषः संकीर्णतयैव भावस्वरूपं गृह्णाति | तदुक्तम् :- गौर्हि स्वरूपेण न गौः नागौः इति | ततः तादात्म्याभावं निर्णीय तत्र तद्व्यवहारं करोति, अन्यथा शुक्तिकादौ रजतभ्रमाभावप्रसङ्गात् | सादृश्यनिमित्तोयं भ्रम इति चेत् सत्तारूपसमानधर्मस्य सर्वत्र भावात् सर्वत्रैव सादृश्यं भवतीति यत्किञ्चिदेतत् | यस्तु सद्य एवासंकीर्णतया भावव्यवहारः सोऽभ्यासपाटवकृत एवेत्यलम् | ननु ततः किमित्यत आह अतः इति | अतः - अवभाससंभावनाया हेतोः | समारोपः - अध्यासः | ननु भवतु समारोपः सावकाशः ततः किमित्यत आह अघटस्य इति | निषेधनलक्षणः - अघटनिषेधकरणस्वभावः, युक्त इति शेषः | ननु ततोपि किमित्यत आह इति | इति - अतः कारणात्, तदनुप्राणिता - अपोहनदत्तसत्ताका, अतिन्निषेधपरस्य निश्चयस्यैव विकल्पत्वादिति भावः | लिङो वाच्यमाह संभावनायाम् इति | एतेन पूर्वार्धं गतव्याख्यम् | तथा नाम तस्य स्थाने यः संभाव्यते स तावदप्रकाशरूपो न भवति तुल्यकक्षस्य हि संभावनं भवति, न च यत्प्रकाशेन कर्तव्यं तदप्रकाशस्य कदाचित् दृष्टम् संभावनारोपणादिबलादेव च अस्याप्रकाशरूपत्वं विघटेत, अतः प्रकाशतुल्यस्यान्यस्याप्रकाशरूपस्य भेदिनस्तत्तुल्यकक्ष्यस्यापोहनात्मकभेदनव्या - पारासाहिष्णोरवभासनमेव नास्ति, तदभावे कस्यापोहनम् ? अवभास सङ्क्षेपः | प्रकृतत्वात् घटग्रहणकाले भिन्नयोः - स्फुटं भेदेन स्थितयोः, द्वयोर्घटाघटयोरवभासः स्यात् - भवेत्, तावत्तादात्म्याभावग्रहणादित्यर्थः | तथा चातद्व्यपोहनार्थमत्र विकल्पो युक्त एवेति भावः | उत्तरार्धं व्याचष्टे यस्त्वयम् इति | तस्य - प्रकाशस्य, स्थाने - विषये, कुतो नाप्रकाशरूपो भवेदित्यत आह तुल्य इति | तुल्यकक्ष्यस्य - सदृशबलस्य, प्रतियोगिन इति यावत् | संभावनम् - संभवं प्रति प्रेरणम् | ननु कथं घटाघटयोस्तुल्यकक्षत्वम् ? सत्यम्, यथा सत्तायोगन घटस्य भावबुद्धिजनकत्वं तथाऽघटस्यापीत्येतावन्मात्रेणैवात्र प्रतिस्पर्धित्वरूपं तुल्यकक्षत्वमिति | ननु प्रकाशाप्रकाशयोः अपि तुल्यकक्षत्वं स्यादेवेत्यत आह न च इति | अन्यथा तमसोपि पदार्थप्रकाशकत्वप्रसङ्गादिति भावः | तथापि तुल्यकक्षत्वमभ्युपगम्य दोषमाह संभावना इति | संभावनाया यदारोपणादि, आदिशब्देन व्यवच्छेदग्रहणम्, तस्य बलात्, विघटेत् - नश्येत् | प्रागिवार्थ इति न्यायेन संभावनार्थं ग्रहणेनैवाप्रकाशत्वाभावापातात् | फलितमाह अतः इति | अतः कारणात् | प्रकाशस्येव इति पदद्वयं व्याचष्टे प्रकाश इति | अन्यस्य इति पदं व्याचष्टे अप्रकाश इति | भेदिनः इति पदं व्याचष्टे तत् इति | तत्तुल्यप्रकाशस्य - प्रकाशेन सह तुल्यकक्ष्यस्य | अत्रापि व्याख्यां करोति अपोहन इति | तुल्यकक्ष्य एव हि प्रतिस्पर्धितया भेदेन पुरः स्थातुं शक्नोति इति तुल्यकक्ष्यस्येत्युक्तम् | नास्ति इति, न हि प्रकाशग्रहणसमये तमोग्रहणं संभवतीति भावः | तदभावे - अवभासाभावे, अवभाससंभवमभ्युपगम्यापि दोषमाह प्रकाश इति | प्रागिवार्थ इत्य संभवेऽपि प्रकाशरूपत्वमेव | न च प्रकाशस्य स्वरूपदेशकालभेदो येन द्वितीयः प्रकाश एकस्मादपोह्येतेति | हीति, यस्मादेवं ततो द्वयाभावादपोहासंभवे विकल्परूपत्वाभावात् चिन्मात्रे परामर्शात्मनि अहमिति प्रत्यवमर्श एव, न तु विकल्पः || २ || ननु घटे परिनिष्ठितरूपे दृष्टे तद्दर्शनमुपजीवता विकल्पेन कथमघटस्य निषेधनं क्रियते, न ह्यघटस्य केनचिन्नामापि गृहीतम्, अघटवासनापि घटे दृष्टे कथंकारं प्रबुध्यताम् ? सत्यम्, एवं शाक्यः पर्यनुयोज्यो न तु वयम्, यतः त्रोक्तन्यायेनेत्यर्थः | भेदस्याप्यसंभवं वक्तुमाह न च इति | भेदो यदि ह्यत्राभ्युपगम्यते तर्हि अप्रकाशासंभवोपहतत्वात् प्रकाशान्तरेण सहैव स वाच्यः | न च प्रकाशस्य स्वरूपगतो भेदो युक्त इति भावः | हि शब्दस्यार्थमाह हीति | हिशब्दद्योतितं पूर्वं प्रत्यस्य श्लोकस्य हेतुत्वं स्फुटीकृत्य कथयति यस्मादेवम् इति | ततः - तस्मात्, द्वयाभावात् - प्रकाशाप्रकाशाख्ययुगलाभावात्, अपोहासंभवे - अप्रकाशापोहनासंभवे | अहमिति - अहमित्येवं स्थितः स्वस्वरूपपरामर्शः, प्रत्यवमर्श एव - तद्रूपप्रकाशाख्यस्वरूपपरामर्शनमात्रमेव भवति, न तु विकल्पः, अतद्रूपाप्रकाशव्यवच्छेदनं न भवतीत्यर्थः | अयमत्र सङ्क्षेपः | अर्थात् अयमिति प्रकाशस्य स्वग्रहणसमये प्रकाशस्येव - प्रकाशवत्, अन्यस्य भेदिनः - अप्रकाशरूपस्य प्रतियोगिनः घटग्रहे अघटस्येव, तुः व्यतिरेके, अवभासनं न भवति अतोऽत्र विकल्पत्वं नास्तीति | हि - यस्मादेवं ततः पूर्वश्लोकोक्तं वस्तु युज्यत एवेति योजना हि शब्देन द्योत्यते | अथ तृतीयश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- परिनिष्ठितम् - स्वाकारमात्रेऽवसानं गतम् रूपं यस्य तादृशे | तद्दर्शनम् - घटानुभवम् उपजीवता - अपेक्षाविषयतां नयता | कुतो न क्रियत इत्यत आह अघट इति | सदृशदर्शनादेव हि वासना प्रबुध्यते न च घटोऽघटसदृशः प्रत्यत विलक्षण इति भावः | गुरुरुत्तरमाह सत्यम् इति, एवम् - अनेन तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात् | तन्निश्चयनमुक्तो हि विकल्पो घट इत्ययम् || ३ || इह प्रमाता नाम प्रमाणादतिरिक्तः प्रमासु स्वतन्त्रः संयोजनवियोजनाद्याधानवशात् [संयोजनविअयोजनाद्याधारवशात् - K. ष्. ष्.] कर्ता दर्शितः, तस्य च प्रमातुरन्तः सर्वार्थावभासः, चिन्मात्रशरीरोऽपि तत्सामानाधिकरण्यवृत्तिरपि दर्पणनगरन्यायेनास्ति - इत्यपि उक्तम् | एवं च तत्प्रतिभां घटाभासम्, अतत्प्रतिभां च अघटाभासं प्रमाता भजते - सेवते तावत् तदविकल्पदशायां चित्स्वभावोऽसौ घटः प्रकारेण | शाक्यः - क्षणिकज्ञानरूपं परमात्मानमनिच्छन् बौद्धः | पर्यनुयोज्यः - चोदनीयः | कुतो न पर्यनुयोज्या इत्यत आह यतः इति | यत एवं भवतीत्यर्थः | एवमवतरणिकां कृत्वा तत्र स्थापितं यतःशब्दं निराकाङ्क्षयितुं श्लोकमुपन्यस्य व्याचष्टे | तदतत् इति | अत्र टीका :- प्रमाणात् - इहैव वक्ष्यमाणस्वरूपात् प्रमाकरणात् | प्रमासु - प्रमाणसाध्येषु ज्ञानेषु | स्वतन्त्रः कर्ता इति योजना, न तु हेतुकर्तेति भावः | आधानम् - संपादनम् | तेन - चिन्मात्रशरीरेण, समानाधिकरण्येन - एकतया वृत्तिर्यस्य सः | अपिशब्दद्योतितमस्तित्वासंभवं दूरीकर्तुं दर्पण इति दृष्टान्तग्रहणम् | अस्ति - ततो भेदेन स्फुरति, तथाभासमानत्वादिति भावः | उक्तम् इति, न चेदन्तः इत्यत्रेत्यर्थः | ननु ततः किम् इत्यत आह एवञ्च इति | तदतत् इति समस्तपदं व्याचष्टे विगृह्णाति च तत् इति | सेवते इत्यनेन कर्तर्यत्र क्विप् इति सूचितम् | ताअवत्, अत्र कस्यापि विप्रतिपत्तिर्नास्तीत्यर्थः | तदविकल्पदशायां चित्स्वभावः - प्रागिवार्थः इति न्यायेन चित्स्वरूपः | विश्वम् - भावराशिः, शरीरे यस्य सः, अत चिद्वदेव विश्वशरीरः पूर्णः, न च तेन कश्चिद्व्यवहारः, [न केचिद् व्यवहाराः - K. ष्. ष्.] तत् मायाव्यापारमुल्लासयन्पूर्णमपि खण्डयति भावम्, तेनाघटस्यात्मनः पटादेश्चापोहनं क्रियते निषेधनरूपम्, तदेव व्यपोहनमाश्रित्य तस्य घटस्य निश्चयनमुच्यते घट एव इति, एवार्थस्य संभाव्यमानापरवस्तुनिषेधरूपत्वात्, एष एव परितश्छेदात्तक्षणकल्पात् परिच्छेदः, हीति - यत एवम्, तस्मात् युक्तं द्वयाक्षेपी विकल्पः इति पूर्वश्लोकोक्तेन [तस्माद्युक्तं द्वयाक्षेपी विकल्प इति पूर्वश्लोकोक्ते वस्तुद्वये श्लोकद्वयेन हेतू क्रमेणोक्तौ - K. ष्. ष्.] वस्तुद्वयेन हेतू क्रमेणोक्तौ यस्मादेवं विकल्पः एव पूर्णः, तेन - विश्वशरीरेण घटेन, न कश्चिद् व्यवहारः सङ्कीर्णतया स्फुरणात् न कोपि व्यवहारः सम्भवतीत्यर्थः | तर्हि कथं तेन व्यवहार इत्यत आह तत् इति | मायाव्यापारम् - भेदनरूपं मायातत्त्वसंबन्धिनं व्यापारम् | भावम् - घटरूपम्, तेन - मायाव्यापारोल्लासनेन | आत्मनः - चिन्मात्ररूपात् स्वस्मात्, पटादेश्च - स्वान्तर्गतादघटाच्च, अपोहनम् | कीदृशम् ? निषेधनरूपम् - निषेधकरणरूपम्, निश्चयनम् - निश्चयकरणम्, सङ्कीर्णतानिवारणेन स्वात्ममात्रे ऽवस्थापनमिति यावत् | ननु कथं निषेधनं गम्यते घट एवायमित्येतन्मात्रमेव तत्र स्फुरतीत्यत आह घट एव इति | एवार्थस्य, एवशब्दार्थस्येत्यर्थः | अपरवस्तु - अघटरूपं वस्तु | अवधारणं हि फलतोऽन्यनिषेधनमेवेति भावः | ननु तर्हि परिच्छेदः क उच्यत इत्यत आह एष एव इति | एष एव - अपोह एव, परितः - अभितः, परप्रमातुरन्योन्यतश्चेति यावत् | छेदनात् इति स्वयं व्याचष्टे तक्षणात् इति, भेदेन भासनादिति यावत् | हि शब्दाभिप्रायं वक्तुमाह हीति इति | इतिशब्दः शब्दस्वरूपाक्षेपपरः | यतः - यस्मात्, एवम् - एतच्छलोकोक्तं वस्तु, भवति, तस्मात् - ततः, द्वयाक्षेपा इति युक्तम् - प्रथमश्लोकोत्तरार्धप्रोक्तं विकल्पस्य द्वयाक्षपित्वं युक्तं भवति | ननु यदि द्वयाक्षेपित्वं प्रत्यनेन हेतुत्वमुक्तं तर्हि पूर्वश्लोकोक्ताभ्यां ततोऽहमिति शुद्धो विमर्शः न विकल्पः - इति श्लोकत्रये [श्लोकत्रयेण - K. ष्. ष्.] महावाक्यार्थः | शाक्यैरपि प्रमातुरेवायं व्यापार उक्तः एकः प्रत्यवमर्शाख्यः इत्यत्र प्रपत्ता, किं साधितमित्यत आह पूर्व इति | वस्तुद्वयेन - पूर्वार्धोत्तरार्धाभ्यामुक्तेन वस्तुद्वितयेन, हेतू - हेतुद्वयम्, क्रमेणोक्तौ इति | तत्र द्वितीयश्लोकपूर्वार्धेन प्रथम्श्लोकोक्तं नासौ विकल्पः इत्येतत्प्रति हेतुत्वमुक्तम्, उत्तराधन तु तत्रैवोक्तं प्रत्यवमर्श इति प्रति हेतुत्वम् | यद्यपि तत्र प्रत्यवमर्श इत्यस्यानन्तरम् एव शब्दप्रयोगो नास्ति तथापि सर्वं वाक्यं सावधारणमिति न्यायमाश्रित्यैवमुक्तम् | अस्य श्लोकस्य शृङ्खलाबन्धेन परस्परसंबद्धार्थमाह यस्मादेवम् इति | यस्मादेवम् हि शब्दत्रयाक्षिप्तं वस्तु भवति ततः कारणात् | अहमिति - अहमित्येतद्वस्तु | शुद्धो विमर्शः भवति, विमर्श एव भवतीति यावत | न विकल्पः, द्वयकल्पनामिश्रो विकल्पः सर्वो भवतीत्यर्थः, इति - एवम्, श्लोकत्रये - श्लोकानां त्रितये, महावाक्यार्थः - गर्भीकृतावान्तरवाक्यसमूहस्य परमवाक्यस्यार्थो भवति | अत्र चायं विभागः | प्रथमश्लोकोक्तः कुतो न विकल्प [कुतो विकल्प इत्यपेक्षायाम् - C.] इत्यपेक्षायां स ह्युक्तः इत्यादिना हेतुकथनम् | भवतु विकल्पो द्वयाक्षेपी विनिश्चयः, किम् तेन प्रत्यवमर्शस्य प्रत्यवमर्शैकरूपता विकल्पतानिषेधश्चेत्यपेक्षायामेकेनैव हेतुद्योतकेन हिना पूर्वार्धापरार्धगतहेतुद्वयकथनम् | तत्र पूर्वार्धेन विकल्पतानिषेधं प्रति हेतुरुक्तः, यत्र द्वयं संभवति तत्रैव विकल्पता यथा घटविमर्शे, अत्र तु तथा नेति व्यतिरेकद्वारेण | उत्तरार्धेन तु प्रत्यवमर्शैकरूपतां प्रति, यतोऽत्र द्वयग्रहणं संभवति ततोत्र प्रत्यवमर्शतामात्रत्वमेवेत्यन्वयेनैव | अत्रापि पूर्वार्धे कथं द्वयोर्ग्रहणमत्र संभवतीत्यपेक्षायां तृतीयेन श्लोकेन हेतुकथनरीत्या समर्थनम् | परमार्थतस्तु प्रथमश्लोकोक्तवस्तुन एव साधनमिति स्फुटमेव श्लोकत्रयस्य संबद्धार्थत्वम् | ननु शाक्या एतन्न सहन्ते इत्यत आह शाक्यैरपि इति | अयं व्यापारः - इति स्वयम् इति च वदद्भिः, स त्वेतैः कथं समर्थ्यः - इत्यास्तामेतत् || ३ || नन्वेवमहमित्यपि प्रत्यवमर्शेऽनहंरूपस्य घटादेः प्रतियोगिनोऽपोहनीयस्यापोहे विकल्परूपता कथं न स्यात् इत्याशयेनाह :- चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः | देहे बुद्धावथ प्राणे कल्पिते नभसीव वा || ४ || विमर्शाख्यो व्यापारः | शाक्यैः कीदृशैः ? | एकः प्रत्यवमशाख्यः इत्यत्र अस्मिन् श्लोके प्रपत्ता इति स्वयम् इति च वदद्भिः - कथयद्भिः | एतेन पदद्वयेनैवास्यार्थस्य तैः प्रमातृव्यापारत्वमुक्तमिति भावः | तथा चैवमयं श्लोक :- एकः प्रत्यवमर्शाख्यो ज्ञान एकत्र हि स्थितः | प्रपत्ता तदतद्रूपान् भावान् विभजते स्वयम् || इति | अत्रायमर्थः | हि - यस्मात्, एकत्र ज्ञाने - ज्ञानक्षणे, एकः प्रत्यवमर्शाख्यः - प्रत्यवमर्श इति नामधेयः, प्रकृतत्वाद् व्यापारः, स्थितो भवति, ततः कारणात् प्रपत्ता - प्रमाता, तदतद्रूपान् भावान् - पदार्थान्, स्वकाले स्थितान् भावक्षणान् इति यावत्, स्वयं विभजते - निश्चेयापोह्यत्वाभ्यां विभागविषयीकरोति | तत्र तद्रूपाणां निश्चेयत्वेन स्थापनम् अतद्रूपाणां तु अपोह्यतयेति | अत्र च प्रपत्तेत्यनेन प्रमातुः कथनम्, स्वयमित्यनेन विभजनरूपस्य प्रत्यवमर्शस्य तत्संबन्धित्वं विभजनस्य च प्रत्यवमर्शत्वं स्फुटमेवेति युक्तमुक्तं प्रपत्तेति स्वयमिति चेति | ननु तर्हि शाक्यदर्शनस्यापि शैवनयसमानत्वमेवापतितमित्यत आह सः इति | सः - प्रत्यवमर्शः, एतैः - शाक्यैः, कथं समर्थ्यः - समर्थयितुं योग्यो भवति, तत्समर्थकस्य प्रमातृनित्यत्वस्यानङ्गीकारान्न समर्थ्य इति भावः | ननु तर्ह्यत्र भरः कार्य इत्यत आह इति इति | इति एतत् आस्ताम्, अप्रकृतत्वेन प्रपंचानर्हत्वादिति भावः | अयमत्र सङ्क्षेपः | हि - यस्मात्, तदतत्प्रतिभाभाजा - स्वान्तःकृतभावराशित्वेन घटाघटादिज्ञानसेविना, मात्रा - प्रमात्रैव, अतद्व्यपोहनात् - अघटव्यवच्छेदनाद्धेतोः, तन्निश्चयनम् - घटनिश्चयनं कर्म, पंडितैः, कर्तृभिः अयं घटः इति विकल्पः उक्तः, अतो द्वयग्रहणमत्र संभवत्येव येन पूर्वोक्तवस्तुनः संभव इति भावः | मात्रा इति कर्तरि तृतीया || ३ || प्रमातृत्वेनाहमिति विमर्शोऽन्यव्यपोहनात् | विकल्प एव स परप्रतियोग्यवभासजः || ५ || अहमित्यवमर्शो द्विधा - शुद्धो मायीयश्च, तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्वच्छायाच्छुरिताच्छात्मनि [विश्वच्छायाच्छुरितस्वच्छात्मनि - K. ष्. ष्.] वा | अशुद्धस्तु वेद्यरूपे शरीरादौ | तत्र शुद्धेऽहंप्रत्यवमर्शे प्रतियोगी न कश्चिदपोहितव्यः संभवति घटादेरपि अथ चतुर्थस्य पंचमस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका :- प्रतियोगिनः - विरुद्धत्वेन प्रतिस्पर्धिभूतस्य [प्रति अस्य विभूतस्य - C.] इत्याशयेन - इत्यभिप्रायेण, एतमेवाभिप्रायं मनसि कृत्वेति यावत् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे | चित्तत्त्वम् इति | अत्र टीका :- श्लोकद्वयस्य तात्पर्यार्थं वक्तुं प्रक्रियां करोति अहम् इति | द्विधात्वं विभज्य कथयति शुद्धः इति | तत्र शुद्धविषयं कथयति संवित् इति | मात्रचा संवेद्योपरागनिरासः | एतेन शिवतत्त्वस्य ग्रहणम् | शुद्धाशुद्धविमर्शविषयाणां सदाशिवादीनामप्यत्रैव समुच्चयेन विषयत्वं कथयति विश्वच्छाया इति | विश्वस्य - इदन्ताग्रहणयोग्यस्य वेद्यराशेः, या छाया - प्रतिबिम्बः, तेन छुरितः - स्तोकं रूषितः यः अच्छात्मा - श्रीसदाशिवादिरूप आत्मा तस्मिन् | यद्यप्येतदर्थं शुद्धाशुद्धस्यापि विमर्शस्य कथनं युक्तं तथापि विस्तरभयान्न कृतम्, शुद्धस्यैव प्रकारत्वेनास्य सूचनामुत्तरश्लोकावतरणिकायां करिष्यति | अशुद्धस्य विषयमाह वेद्य इति | आदिशब्देन प्राणादेर्ग्रहणम् | तत्र शुद्धस्य विकल्परूपतां निवारयति तत्र इति | तत्र, शुधाशुद्धविमर्शमध्य इत्यर्थः | प्रतियोगी - समकक्ष्यतया प्रतिस्पर्धी | अप्रतियोगित्वेन - प्रागिवार्थः इति न्यायागतप्रकाशरूपताकृतेन प्रतियोगित्वाभावेन | अपि शब्देन देहादिप्रमातॄणामत्र प्रतियोगित्वे कथैव प्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात्, इत्यपोह्याभावे [इत्यपोह्यत्वाभावे - K. ष्. ष्.] कथं तत्र विकल्परूपता | अशुद्धस्तु वेद्यरूपे शरीरादौ अन्यस्माद् देहादेर्घटादेश्च व्यवच्छेदेन भवन् विकल्प एव - इति वाक्यार्थः | अक्षरार्थस्तु - चित्तत्त्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमाता - इत्यभिमानेन योऽहं स्थूलः इत्यादि - विमर्शः स विकल्प एव न तु शुद्धं प्रत्यवमर्शमात्रम् | अत्र हेतुः - परो नास्तीति सूचितम् | ननु ततः किमित्यत आह इति इति | इत्यापोह्याभावे, एवमपोह्याभावे सतीत्यर्थः | तत्र - शुद्धे प्रकाशे | अशुद्धस्य विकल्परूपत्वं साधयति अशुद्धस्तु इति | प्रमातॄणां परस्परं स्थितमपोह्यत्वमभिप्रेत्याह देहादेः इति | प्रमेयमपेक्ष्याह घटादेश्च इति | व्यवच्छेदेन - अपोहेन | वाक्यार्थः - तात्पर्यार्थः | पदार्थकथनं प्रतिजानीते अक्षरार्थः इति | पदानामप्यवयवभावेनार्थकथनमभिप्रेत्याक्षरशब्दग्रहणम् | तु शब्दो यथा - शब्दार्थे व्यतिरेके च | चित्तत्त्वम् इति पदं व्याचष्टे प्रकाशमात्र इति | तत्र चिच्छब्दस्य प्रकाशमात्रपदेन व्याख्या, रूपपदेन तु तत्त्वपदस्य | हित्वा इति पदं व्याचष्टे सदपि इति | अपहस्तनया - वक्ष्यमाणेन मायाकृतेन प्रच्छादनेन | अप्रधानीकृत्य - कल्पितप्रमातृधर्मतया विभाव्य, देहादिनिष्ठो हि ज्ञानं देहादिगुणत्वेनैवाभिमन्यते | भिन्ने - परस्परं घटाद्यपेक्षया च समकक्ष्ये, प्रतियोगितया स्थिते इति यावत् | अहमेवेत्यभिमानेन - एवं रूपेणाभिमानेन, नीलादौ प्रमेये प्रमाता, प्रमातृत्वेन स्थित इत्यर्थः | स्थूलः इत्यादि इति | आदिशब्देनाहं पिपासायुक्त इत्यादेर्ग्रहणम् | अत्र हेतु कथयन् द्वितीयश्लोकचर्तुर्थपादस्यावतरणिकां करोति अत्र इति | द्वितीयश्लोकस्य चतुर्थपादं व्याचष्टे परः इति | पर इत्यवयवं व्याचष्टे द्वितीयः इति | प्रतियोगि पदं व्याचष्टे तुल्य इति | प्रतियोगितासाधनार्थं विरुद्धतां साधयति अन्योन्य इति | अन्योन्यं यः परिहारः - व्यवच्छेदेन अवस्थानं द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्योऽन्योन्यपरिहाराच्च विरुद्धस्तस्य योऽवभासः - समारोपणलक्षणः, तस्माद्यतोऽसावतन्निषेधानुप्राणितोऽहमित्यवमर्शो [तन्निषेधानुप्राणितः - K. ष्. ष्.] जातः अहं स्थूलः, न कृशः, न घटादिः इति, शुद्धप्रकाशरूपस्य अपहस्तनैव [अपहस्तनमेव - K. ष्. ष्.] देहादेर्भेदहेतुः [भेदे हेतुः - K. ष्. ष्.], तदपहस्तने तु परमेश्वरस्य स्वात्मप्रच्छादनेच्छारूपाऽभेदाप्रकाशनं भ्रान्तिरूपं प्रति स्वातन्त्र्यरूपा तस्मात् | अवभास इत्यवयवं व्याचष्टे समारोपण इति | अन्यत्रान्यारोपणरूपं ज्ञानमित्यर्थः | अवभासपदस्य पञ्चम्यन्ततया विग्रहं करोति तस्मात् इति | अतन्निषेधेन अनुप्राणितः - उत्थापितः अतन्निषेधानुप्राणितः डप्रत्ययान्तजनिरूपस्य जः इत्यस्यार्थमाह जातः इति | एतेनास्य हेतुगर्भविशेषणत्वं द्योतितम् | एतं विकल्पमनुसृत्य दर्शयति अहम् इति | एतच्चोपलक्षणं प्राणादिपरामर्शस्य | सामान्येन व्याख्यातमपि देहे बुद्धौ इत्यादि प्रथमश्लोकोत्तरार्धं विशेषतो व्याख्यातुं प्रक्रियां करोति शुद्ध इति | शुद्धप्रकाशरूपस्य इति भावप्रधानो निर्देशः, तेन शुद्धप्रकाशरूपत्वस्येत्यर्थः | अपहस्तनैव - मायाकृतं प्रच्छादनमात्रम् | देहादेः इति | आदिशब्देन प्राणादेर्ग्रहणम् | भेदहेतुः - भेदकारणम् | एव इति, नान्यत्किञ्चिदित्यर्थः | देहादिर्हि जाड्यादेव परमप्रकाशाद् भेदेन स्फुरतीति भावः | ननु तस्यापहस्तनस्य को हेतुरित्यत आह तदपहस्तने इति | तुः व्यतिरेके | तदपहस्तने - प्रकाशरूपत्वस्यापहस्तने, परमेश्वरस्य - महास्वातन्त्र्ययुक्तस्य महेश्वरस्य, मायाशक्तिर्हेतुर्भवति | मायाशक्तिः कीदृशी ? स्वात्मनः - प्रकाशरूपस्य, यत्प्रच्छादनम् - प्रत्युत जडदेहादिभावेन दर्शनं मितप्रमातृन् प्रति, तस्य या इच्छा सैव रूपं यस्यास्तादृशी, न तु धरादितत्त्ववद् बहिः प्रधानतया स्थितेति भावः | पुनः कीदृशी ? भ्रान्तिरूपम् - न तु परमार्थतया स्थितम्, अभेदाप्रकाशनं मायाशक्तिर्हेतुः, चिद्रूपस्य चापहस्तनं देहादेरेव अत्यक्तवेद्यभावस्य भिन्नस्यैव उपपत्तिशून्यतयैव प्रमातृत्वाभिमानः [प्रमातृताभिमानः - K. ष्. ष्.] | तथा च देहाभिमानभूमिकायां स्थिताश्चार्वाकाः चैतन्यविशिष्टः कायः पुरुषः इति कायमेव प्रति स्वाततन्त्र्यरूपा, स्वातन्त्र्यमिति यावत् | ननु तच्छुद्धप्रकाशस्यापहस्तनं किमुच्यत इत्यत आह चिद्रूपस्य इति | उपपत्तिशून्यतया - उपपत्तिराहित्येन, प्रमातृत्वाभिमानः - अहं प्रमातेत्यभिमानः | यद्यपि तदवच्छिन्नस्य प्रकाशांशस्यैव सः परमार्थतोऽस्ति तथापि भेदकृतां तदस्फूर्तिमपेक्ष्यैवमुक्तम् | अत्र मतभेदमाश्रित्य समर्थनं प्रक्रमते तथा च इति | देहाभिमानरूपा या भूमिका - कक्ष्या तत्र देहाभिमानभूमिकायाम् स्थिताः चार्वाकाः - लौकायतिकाः, कायमेव - पांचभौतिकं देहमेव, प्राधान्येन - प्रधानतया, विश्रान्तिस्थानभूत - परमात्मरूपतयेति यावत् कथम् ? इति | इति किमिति ? चैतन्यविशिष्टः - भूम्यन्तर्गतमद्यमदशक्तिन्यायेन संयोगशक्तिप्राप्तचैतन्यभूतपंचकमयत्वेन चैतन्ययुक्तः, काय पुरुषः - आत्मा भवति | तथा च श्रुतिः :- स वा एष पुरुषोऽन्नरसमयः इति | न त्वेतदन्तर्गत एतद्व्यतिरिक्तो मीमांसकाद्यभिमतः परलोकी अन्यः कायीति भावः | तथा च कायमात्रार्थमेव यत्नं कुर्यात्, न तु परलोकशङ्कया कायस्य तपःप्रभतिना खेदो देयः | यदुक्तम् :- यावज्जीवं सुखं जीवेन्नास्ति मृत्युरगोचरः | भस्मीभूतस्य शान्तस्य पुनरागमनं कुतः || इति | इत्यादि ते कथयन्ति | ननु प्रज्ञापौरुषहीनानां जीविकेति बृहस्पतिः इत्युक्तेर्ज्ञायते बृहस्पतिनैव तन्मतमुक्तम्, वेदेप्यस्य मतस्य प्रामाण्यं दृश्यत ए तथा च श्रुतिः :- न प्रेत्य संज्ञास्ति इति | एतया परलोकाभाव एव फलतः उक्तः | मृतस्य चेतनासंभवे परलोकः सिद्ध्यति नान्यथा, तत्कथमस्य मतस्य सर्व एव दुष्टत्वं कथयन्ति | सत्यम् | प्रथमं तावदन्ये कथयन्ति कलौ पापिप्रवृत्त्यर्थमेतन्मतं संपन्नमिति तत्तु नास्मन्मन आवर्जयति | यतोऽस्माकमयं निश्चयः, लौकिकास्तावद्देहोपयोगिबाह्यवस्तुनिष्ठा एव सन्तो देहमपि तत्साधनार्थं खेदयन्त्येव धनार्जनाद्यर्थं ताडनादिसहनात् | ननु देहार्थमेव ते तत्सहन्ते, सत्यम् | तद्धनमानीय लोकप्रसिद्ध्या विषय एव ते व्ययीकुर्वन्ति न तु भोगमात्रमेव साधयन्ति इति ज्ञायते तेषामयं देहोऽपि विस्मृतिमेव गत इति | ततस्ते नानापदार्थेष्वेव रताः ममतातिशयद्वारेण चात्रैवात्मभ्रान्तिं सेवमानाः यथा देहमेव तेभ्यः आन्तरतया स्थितमात्मतया जानीयुः | तत्र सम्यक् स्थिताश्च शनैः शनैस्ततोप्यन्तराविशन्त्येवेति चार्वाकमतस्यापि परोपकारनिष्ठत्वमेव, अन्यथा दर्शनत्वायोगात् | सर्वाणि दर्शनानि हि परोपकारार्थमेव काञ्चित्कांचिद्भूमिकां दृढीकुर्वन्ति, अन्यथा परपददर्शिनां तेषामवान्तरनिष्ठता न युक्ता | नन्वन्ये कथयन्ति ते तत्पदं न प्रविष्टा इत्यवान्तरे एव लग्नाः, सत्यम् | यत्रातिसामान्यजनाः प्राप्तास्तत्र ते दर्शनकारा न संप्राप्ता इत्यसंभावनीयमिदम् | यथा राजा मार्गमध्येऽध्वगार्थं गृहादि कुर्वन् न तत्रैव विश्रान्त इति वक्तुं युक्तोऽन्यत्रोत्तमस्य स्वगृहस्य स्थितत्वात्, एवमत्रापीति यत्किंचिदेतत् | तत्र ममताविषयवस्तुमध्येऽपि पुत्रविषया ममताऽऽन्तयव, वेदे आत्मा वै जायते पुत्रः इति श्रवणात्, पुत्रार्थं च धनादि पुरुषः निर्विचारं व्ययीकरोत्येव, तत्र प्रेम्णैव तस्य तथा प्रवृत्तिरन्यत्र तु लोकप्रसिद्ध्या, प्रेम एव चान्तरताप्राप्तौ परमात्मरूपम्, आनन्दस्वरूपत्वात्, तदुक्तम् :- प्रेमैव परमं ब्रह्म प्राधान्येनाहुः | स्त्रीबालमूर्खाणां तथाभिमानात् ततोऽपि विवेकयुक्ताः [विवेकवन्तः - K. ष्. ष्.] पाकजोत्पत्तिपरिणामादिबलादस्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदोमन्यते | ततोऽपि समधिकविवेकभाजः प्राणस्यापि अनित्यत्वादनुसंधानयोग्यतामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां इति | यच्च शास्त्रे स्नेहहस्य रागत्वमेव कथयन्ति तत् अविषयप्रवृत्तेरेव [तदविषयप्रवृत्तेव - C.] न तु स्वरूपतः | अतश्च धनादिस्नेहयुक्ताश्चेदतिमूढा एव, पुत्रस्नेहयुक्ता देहस्नेहरहितास्तथा | परमार्थतस्तु इदं प्रेम यथा यथाऽऽन्तरवस्तुविषयीभवति तथा तथा शिवमेव, प्रेम्णः परनिष्ठाप्राप्तिस्तु परमान्दीभाव एव, स एव च परमात्मलाभः | यस्तु सर्वथा स्नेहरहितः सोत्रोपदेशऽयोग्य एव | सर्वथा तद्रहितत्वं च कुत्रापि न संभवत्येव, परमपदार्थमात्रस्नेहस्यैवास्नेहकथनम् [परं पदार्थ - C.] | अयमेवाशयः सर्ववादिविषये योज्यः, न पुनः पुनरायस्यते, इत्यलं प्रपंचेन | प्रकृतमनुसरामः | अतो विशिष्टस्य चार्वाकस्य मतं कथयति स्त्रीबाल इति | तथाभिमानात् - देहात्माभिमानात् | यद्यप्येषामयं सम्यक् नास्ति तथाप्यस्फुटतयाऽस्तीति सिद्धतया कथनम् | अस्माद्धेतोः ततोऽपि - तेभ्यश्चार्वाकेभ्योऽपि विवेकयुक्ताः, एतन्निश्चयस्य स्त्रीबालाद्यविषयत्वादिति भावः | पाकजानाम् - तार्किकोक्तपिठरपाकपीलुपाकजातानां रूपादीनां यत् उत्पत्तिपरिणामादि - मतभेदेनोत्पत्तिपरिणामामादिकम्, तस्य बलात्, शरीरमस्थिरं मन्वानाः - ज्ञातवन्तः, प्राणशक्तेर्यत्समधिष्ठानम् - प्रेरकतयाऽन्तरवस्थानम्, तेन, विकारशतावेशम् - स्तम्भादिरूपविकारशतग्रस्तत्वम्, श्रुत्यन्तविदः - वेदान्तविदः, लक्षणया, अन्योऽन्तर आत्मा प्राणमयः इत्यादिवेदवाक्यनिष्ठाः चार्वाकाः, मन्यते, त एव जानते न तु तथा संभवतीति भावः | अनुसन्धानयोग्यताम् - परामर्शप्राणयोजनायोग्यताम् | प्राणस्य चात्र बुद्धिमेव काणादप्रभृतय आत्मानमाहुः | अपरे तु तस्या अपि योगिदशायां वेद्यभावादपरत्वं मन्यमानाः असंवेद्यपर्वरूपं यन्न किंचिद्रूपं सकलवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावं तत् स्थूलत्वसूक्ष्मत्वभेदेन द्वैविध्यम् | तत्र प्रथमस्य भेदस्य देहादूर्ध्वमेव स्थितिः | द्वितीयस्य तु बुद्धेरुर्ध्वमिति कदाचिच्छून्यादनन्तरं कदाचिद्देहादनन्तरं स्थितः प्राणनिर्देशः न पूर्वापरविरोधावहः | बुद्धिमेव - विज्ञानरूपं बुद्धितत्त्वमेव | काणादप्रभृतयः इति, प्रभृतिशब्दान्नैययायिकविज्ञानवादिबौद्धादिग्रहणम्, तदुक्तम् :- आत्मा विज्ञानमयः इति | यद्यपि बुद्धिगुणयुक्तस्य तैरात्मत्वमुक्तं तथापि क्रियाक्रियावतोरभेदमाश्रित्यैवमुक्तम् | शून्यवादिमतमाह अपरे तु इति | अपरे, कर्तारः | तस्या अपि - बुद्धेरपि | योगिदशायाम् - योग्यवस्थायाम् | योगी हि अन्तःप्रविष्टः बद्धिमपि देहवदेव पश्यति | वेद्यभावादप रत्वम् - न्यूनत्वम्, मन्यमानाः सन्तः, तत्प्रमातृतत्त्वम् अर्थादात्मानम् आहुः | कीदृशम् ? सकलो यो वेद्यराशिः तस्मान्निर्मुक्तम्, तान्प्रति वेदकत्वात्, अन्यथा प्रमातृत्वायोगात्, तथा शून्यत्वान्नभस्तुल्यम् आकाशसदृशं न तु महाभूताकाशस्वभावम्, तस्य शून्यवादिबौद्धैरात्मत्वाङ्गीकरणात् | तत्किम् ? असंवेद्यपर्व - असंवेद्यम्, रूपम् - स्वरूपं यस्य तादृशम्, यन्न किञ्चिद्रूपम् - अतिसूक्ष्मत्वेन ग्रहणायोगात् परिमितत्वायोगाच्च किञ्चिन्न भवति, न तु लौकिकाभावरूपं भवति जगद्भावेन स्फुरणासंभवप्रसङ्गात्, तदुक्तम् :- अशून्यं शून्यमित्युक्तं शून्यञ्चाभाव उच्यते | अभावः स समादिष्टो यत्र भावाः क्षयं गताः || इति | तथा :- अशून्यमिव यच्छून्यम् प्रमातृतत्त्वं [माहाभूताकाशस्वभावं प्रमातृतत्त्वम् - K. ष्. ष्.] शून्यं ब्रह्मवादिनः सांख्यप्रभृतय आहुः | तस्मिन्नपि वेद्ये शून्यान्तरं तत्रापि शून्यान्तरम् - इति यावद्भेदः तावत्कल्पना न त्रुट्यतीति [न त्रुट्यति तदर्थमाह - K. ष्. ष्.] तदर्थमाह कल्पिते इति | न चानवस्था परमार्थप्रकाशबलेन यतः इति | एतच्चेह श्रीशैवनये शुद्धविद्यातत्त्वमेव | अत्रैव हि वेदान्तिप्रभृतयो निष्ठिताः, परमोत्कर्षस्तेषां सदाशिवदशा | अपरे इत्यस्य प्रपञ्चं करोति शून्य इति | शून्यब्रह्मवादिनः - विमर्शशक्तिरहितचिन्मात्राख्यब्रह्मतत्त्वनिष्ठाः वेदान्तिनः, सांख्याः - सांख्यशास्त्ररताः, प्रभृतिशब्देन पातञ्जलग्रहणम् | तत्र ब्रह्मवादिनामद्वैते विश्रान्तिः सांख्यादीनां तु द्वैते एव, ब्रह्मवाद्यद्वैतञ्चाद्वैताभास [ब्रह्मवादिद्वैतं य - C.] एव विश्वोत्तीर्णस्यैव सर्वत्वकथनात् | अद्वैतं हि परमार्थरूपं तद् भवति यत्र सर्वं तथैव स्थितं सत् एकतया भाति द्वैतञ्चाद्वतञ्चान्तः करोतीत्यास्तामेतदवान्तरम् | प्रकृतमनुसरामः | कल्पिते इत्यस्याभिप्रायमाह तस्मिन् इति | तस्मिन्नपि - देहादावपि, वेद्ये - परिमितत्वेन वेद्यत्वानपायात् स्वतो बाह्यं प्रति वेदकत्वेऽपि स्वत आन्तरं प्रति वेद्यत्वाख्यगुणयुक्ते सति, शून्यान्ताम् - न किञ्चिद्रूपं प्रमात्रन्तरम्, अपेक्षत इति शेषः, तत्रापि शून्यान्तरम्, समानन्यायात्, इति - एवम्, यावद् भेदः - परिमितप्रमात्रङ्गीकारकृतो भेदो भवति, तावत्कल्पना न त्रुट्यति, इति - अतः, तदर्थम् - कल्पनात्रोटनार्थम्, आह - कथयति, कल्पिते इति, एत्पदमित्यर्थः, कल्पनात्रोटनार्थमेवायं प्रमातृप्रप्रपञ्चः कृत इति न पुनः कल्पनायां प्रयोजनमिति भावः | एतेन नभसि इत्येतस्यैव कल्पिते इति विशेषणम्, न तु देहादेः अस्य अज्ञं प्रति स्फुटं बहिः स्थितत्वात्, तस्य तु प्रतिभया कल्प्यमानत्वादिति सूचितम् | ननु तथाप्यनवस्था स्यादेवेत्यत आह न च इति | कुतो नानवस्थेत्यत आह परमार्थ इति | अयं भावः | देहादिद्वारेण प्रकाश एव ग्रहणं करोतीति तद्वलेनैवैषां ग्राहकत्वं सिद्धम् | सर्वस्य प्रकाशो न तु देहादिवशात्, तथा त्वभिमानमात्रं [तथात्वाभिमानमात्रम् - K. ष्. ष्.] देहः [देहादिः - K. ष्. ष्.] प्रमातेति, सङ्कोचमात्ररूपं चित्तत्त्वं शून्यम्, भूतलं यथा घटाभावः, सङ्कोचोपरिवेद्यांशच्छायाच्छुरितं [संकोचः | अपरवेद्यांशच्छायाच्छुरितम् - K. ष्. ष्.] तु चित्तत्त्वमेव बुद्धिप्राणदेहादि इति | अमी एव भूमि - तत्र च देहादीनां बहिरज्ञं प्रति स्फुटं स्थितत्वादेकस्यैवास्य प्रमातृतत्त्वस्य कल्पनात्रोटनार्थं कल्पितत्वम् | उपदेश्यस्य तावत् परमार्थप्रकाशानभिज्ञत्वात् अत्रैव च तत्कथनेऽधिकाराभावात् परप्रकाशस्थाने तावदस्यैवाभिषेको दीयते नीचजनार्थं राजस्थान इव राजभृत्यस्य | अत्र निष्ठितस्तु स्वयमेव योग्यतासादनेन तत्परप्रकाशस्वरूपं ज्ञास्यत्येवेत्यलं प्रपञ्चेन | एतेन फलितं वस्तु कथयति तथा इति | तथा तु - तथा च सति, देहः प्रमाता भवति, इति - एतत्, अभिमानमात्रं भवति न तु सत्यवस्तु भवति | ननु कथं नभसः प्रमातृत्वं युक्तमिति शिष्याभिप्रायमाशङ्याह सङ्कोच इति | सङ्कोचमात्रम् - स्वकीयाप्रसृतिमात्रम्, न त्वभावासादनम् रूपं यस्य तादृशम्, चित्तत्त्वम् - चितः स्वरूपम्, शून्यं भवति, यथा सूर्यमण्डलात्पतितं भूमण्डलं तावदप्राप्तं तेज इति भावः | अत्र दृष्टान्तं स्फुटतयाप्याह भूतलम् इति | यथा सङ्कोचमात्ररूपं भूतलं घटाभावो भवति घटास्पृष्टस्य भूतलस्यैव तार्किकैरपि घटाभावत्वकथनात् | ननु देहादित्वमस्य कथं संभवतीत्यत आह सङ्कोचोपरि इति | सङ्कोचोपरि - प्रोक्तस्वरूपसङ्कोचपृष्ठे, या वेद्यांशच्छाया - स्वयंकल्पितबाह्यान्तरवेद्यप्रतिबिंबम्, तयाच्छुरितम् - व्याप्तं यच्चित्तत्त्वम् - [व्याप्तं तु चित्तत्त्वम् - C.] चित्स्वरूपम्, बुद्धिप्राणादि भवति | आदिशब्देन छायाधापिवेद्यग्रहणम् | एतेषां देहादीनां भूमिकात्वं नानाशास्त्रेषु प्रोक्तं नामभेदादि च कथयति अमो इति | अमो एव - देहादयः, उत्तरोत्तरम् - क्रमेण, योगपुष्टतासादनेन आरोहताम् - पूर्वस्य पूर्वस्य वेद्यभावापादनेनोत्तरमुत्तरं काविशेषा उत्तरोत्तरमारोहतां योगिनां जाग्रदादितया पिण्डस्थादितया चागमेषु भण्यन्ते, अपहस्तनं च व्याख्यास्यते :- कलोद्वलितमेतच्च चित्तत्त्वं कर्तृतामयम् | अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् || स्वरूपत्वेनाश्रितवताम्, योगिनाम् - कोशतत्त्वविवेकाख्ययोगयुक्तानां पुरुषाणाम्, भूमिका विशेषाः भवन्ति | तथा आगमेषु - नानाविधेषु श्रीशिवशासनेषु, जाग्रदादितया - अलौकिकजाग्रत्स्वप्नसुषुप्ततुर्यभावेन, तथा पिण्डस्थादितया - पिण्डस्थपदरूपरूपातीतभावेन च, श्रीशिवेन भण्यन्ते - कथ्यन्ते | तत्र देहप्रमातुः जाग्रत्त्वम् इन्द्रियैर्बाह्यार्थग्रहणात्, आरोहश्चात्र बाह्यवद्यापेक्षया ज्ञेयः | अस्यैव चापरिमितभावे शुद्धविद्यात्वं क्रियाप्रधानत्वात् | बुद्धिप्रमातुः स्वप्नत्वम्, आभासरूपवेद्यग्रहणात्, अस्यैव चापरिमितभावे ईश्वरत्वम् | प्राणप्रमातुः सवेद्यसुषुप्तित्वं परिमिते स्वरूपमात्रे स्थितत्वात्, सवेद्यत्वं चास्य सुखसंवेदनात्, अन्यथा सुखमहमस्वाप्समित्यौत्तरकालिकपरामर्शायोगात् | अपरिमितभावे तु एतदेव सदाशिवतत्त्वम् | शून्यप्रमातुश्चापवेद्यसुषुप्तत्वं नकिंचिद्रूप - परिमितप्रमातृरूपत्वात्, अपरिमितभावे त्वस्यैव शिवत्वम् | तत्र च परिमितभावे रूढिं गते योगी स्वयमेव शनैः शनैरपरिमिततामासादयत्येव | तदुक्तम् :- यदा त्वेकत्र संरूढस्तदा लयोद्भवौ | नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् || इति | अयं ह्यत्राभिप्रायः | यदा योगी एकत्र - परिमिते देहादौ, संरूढ :- सम्यक् प्रमातृभावेन स्थितः, तदा तस्यापि - परिमितत्वेकसादितस्य देहस्यापि, लयोद्भवौ नियच्छन् - वेद्यतापादनेन स्वनिर्मितत्वं [सुनिर्मितत्वम् - C.] जानन् सन्, भोक्तृतामेति - तरयापि परिमितदेहादिपदंस्यापि वेदकतामासादयति, ततः - तदनन्तरं परिपुष्ट्यासादनेन, चक्रेश्वरो भवेत् - शुद्धविद्यादिरूपभेदाभेदाभेदप्रधानापरिमितत्वरूपो [शूद्धविद्यादिरूपभेदभेदाभेदं - C.] भवेदिति | इति, तत्स्थितम् - अशुद्धः अहम् इत्यवमर्शो विकल्प एव || ५ || द्विविधोऽपि चायम् अहं - प्रत्ययो द्विधा - तत्र जाग्रदादयः प्रसिधाः | पिंडादेः स्वरूपन्तु :- पिण्डं कुण्डलिनीशक्तिः पदं हंसः प्रकीर्तितः | रूपं चिद्विन्दुरित्युक्तं [रूपं चिद्विन्दुरित्युक्तः - C.] रूपातीतः परः शिवः || इत्यादिषु प्रदेशेषु निर्णीतम् | अत्र च पिण्डं लक्षणया पिण्डरूपदेहान्तगतः भुजगाकारः अन्त्रविशेषः, कुण्डलिनीशक्तिः - कुण्डलिनीतिप्रसिद्धायाः प्राणशक्ते - स्तदन्तर्गतत्वात् | हंसः - हंसेति शब्दोच्चारणेन प्राणः | तदुक्तम् :- षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः | हंस हंसेत्यमुं मंत्रं जीवो जपति सर्वदा || इति | जीवशब्देन प्राण एवात्रेष्टः, पदत्वं चाध्वाधारत्वात् | तदुक्तम् :- अध्वा प्राणे प्रतिष्ठितः इति | चिद्विन्दुः - विज्ञानरूपः, प्रकाशविप्रुड्रूपत्वञ्चास्य परिच्छिन्नत्वेन मूर्तत्वात्, परः शिवः - अनाश्रितः शिवः, स चात्र शून्यम्, रूपातीतत्वं चास्याग्रह्यत्वात्, परिमितत्वमनपेक्ष्यैवमुक्तम्, अपरिमितरूपातीतस्यैव शिवत्वात्, परिमिततायां तु शून्यप्रमातृत्वादित्यलं प्रपञ्चेन | नन्वपहस्तनं किमुच्यत इत्यत आह अपहस्तनञ्च इति | कुत्र व्याख्यास्यत इत्यत आह कलोद्वलितम् इति | इति शब्दः श्लोकसमाप्तौ | अस्य व्याख्या तत्रैव भविष्यतीतीहि नायस्तम् | फलितमर्थं सङ्क्षिप्य कथयति तत् इति | तत् - तस्मात्, स्थितम् - सिद्धम्, अशुद्धः - भेदाख्यमलदूषितदेहादिविषयत्वेनाशुद्धियुक्तः, अहमित्यवमर्शः - अहंविमर्शः, विकल्प एव भवति, न परः पत्यवमर्शो भवतीत्यर्थः | अथ षष्ठस्य श्लोकस्यावतरणिकां करोति द्विविधोपि इति | अत्र टीका :- द्विविधोपि च, शुद्धाशुद्धात्मकतया स्थितत्वेन प्रकारद्वययुक्तोपि चेत्यर्थः | तत्रैवं सति चतुष्प्रकारत्वमस्यापद्यत इति भावः | तत्र प्रथमं शुद्धस्य रूपद्वयं कथयति - अनुभवमात्ररूपश्चानुसंधानात्मा च, शिवात्मनि अहम् इति सदाशिवात्मनि अहमिदम् इति शुद्धो द्विधा | अशुद्धोऽपि अहं स्थूल इति, योऽहं स्थूलोऽभवं सोऽहं कृश, बालो, युवा, स्थविरः, स एव अहम् इति च अशुद्धो द्विविधः | तत्र शुद्धे विकल्परूपत्वमप्रतिष्ठमेव इत्युक्तम्, अशुद्धे तु अनुभवरूपे विकल्पत्वमुपपादितम्, अशुद्धेऽपि तु अनुसंधानात्मकतया अभेदस्य प्रस्फुरणात् कश्चिदविकल्पकत्वं शङ्केत तस्य व्यामोहं व्यपोहितुमाह [व्यपोहयितुम् - K. ष्. ष्.] :- कादाचित्कावभासे या पूर्वाभासादियोजना | संस्कारात् कल्पना प्रोक्ता सापि भिन्नावभासिनि || ६ || देहे इत्यादि वर्तते, कादाचित्कः कदाचिद्भवो [अनियतदेशकालाकारः - K. ष्. ष्.] नियतदेशकालाकारोऽवभासो अनुभव इति | अनुसन्धानात्मा - योजनरूपः | अशुद्धस्यापि भेदद्वयं कथयति अहं स्थूलः इति | तत्र - शुद्धाशुद्धमध्ये | उक्तम् इति, साक्षात्कारक्षणेप्यस्ति इत्यत्र | उपपादितम् - समनन्तरं साधितम् | अभेदस्य - योऽहं स्थूलोऽभूवं सोऽहं कृशः इत्यादिप्रत्यभिज्ञारूपस्यैक्यस्य | तस्य - शङ्काग्रस्तस्य, व्यपोहितुम् - छेदयितुम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | कादाचित्क इति | अत्र टीका :- देहे बुद्धावथ प्राणे कल्पिते नभसीव वा इत्यस्य पदवृन्दस्येहाप्यनुवर्तनं करोति देहे इति | आदिशब्देन बुद्धौ इत्यादीनां ग्रहणम् | वर्तते, अनुवर्तते इत्यर्थः | देहाद्यन्यपदार्थविशेषणतया कादाचित्क इत्यादि समस्तपदस्य विग्रहं व्याख्यां च करोति कादाचित्कः इति | यस्य देहादेः स्वलक्षणरूपस्य, तत्र या पूर्वाभासेन बालादिशरीरावभासेन योजना योऽहं बालः स एवाद्य युवा इत्यनुसंधानम्, आदि - ग्रहणादुत्तरेण भाविना आभासेन सह योजना स्थविरो भवितास्मि इति, सा योजना सर्वा कल्पना विकल्प एव, न तु शुद्धः प्रत्यवमर्शः | अत्र देहादेर्विशेषणं हेतुत्वाशयेन - यतो भिन्नतावभासित्वमेव [भिन्नावभासित्वम् - K. ष्. ष्.] देहादेस्तदानीमपि कादाचित्क इत्यवयवं व्याचष्टे कदाचित् इति | अस्यापि वाच्यमाह नियत इति | नियतयोः - नियत्या नियमितयोः, देशकालयोराकारो यस्य तादृशः | अवभासः - स्फुरणम्, यस्य देहादेः - देहादिरूपस्य प्रमातुः, स्वलक्षणरूपस्य - अननुयायिस्वरूपस्य, प्रत्येकं भिन्नतया स्थितस्येति यावत् | सप्तम्यर्थं योजयति तत्र इति | तादृशे देहादावित्यर्थः | पूर्व इत्यादि समस्तपदं व्याचष्टे पूर्व इति | पूर्वाभास इत्यवयवं व्याचष्टे बाल इति | आदि शब्देन युवशरीरादिग्रहणम् | योजनामेवानुकृत्य दर्शयति व्याचष्टे च योऽहम् इति | आदिशब्दग्राह्यं वस्तु वक्तुमाह आदि इति | योजनामनुकृत्याह स्थविरः इति | भवितास्मि - अग्रे भविता, ग्राह्यमिति शेषः | सा इति पदं व्याचष्टे योजना इति | अपि शब्दार्थमाह सर्वा इति | अपिशब्दः कार्त्स्न्ये | कल्पना इति पदं व्याचष्टे कल्पना इति | सर्वं वाक्यं सावधारणमिति न्यायमाश्रित्य एव शबप्रयोगः | एव शब्दव्यावर्त्यं स्वयमेवाह न तु इति | शुद्धः - कल्पनयाऽमिश्रः, एतेन कल्पनाया अपि प्रत्यवमर्शत्वमस्त्येवेति द्योतितम् | भिन्न इत्यादि समस्तं पदं हेतुगर्भविशेषणत्वेन व्याख्यातुमाह अत्र इति | अत्र, कल्पनात्वे इत्यर्थः | हेतुत्वाशयेन, हेतुत्वसूचनार्थमित्यर्थः | विशेषणान्तर्गतं हेतुत्वं स्फुटीकरोति यतः इति | भिन्नतया - परस्परतः स्वविषयात् परप्रकाशाच्च व्यवच्छेदेन, अवभासित्वम् - अवभासकर्तृत्वमेव न तु शुद्धप्रकाशवत् सर्वानुस्यूतत्वेन स्फुरणम् | तदानीम् - अविच्छिन्नम्, यदि हि तस्य देहादेः सर्वतः पूर्णत्वम् अवच्छेदहीनत्वं पश्यन् अनुसंधानम् अहमिदम् इति विदध्यात् तदियं सदाशिवभूः केन विकल्पास्पदत्वेन भण्येत [केन भण्यते - K. ष्. ष्.] यावताऽविच्छिन्ने एव सोऽनुसंधिः | भिन्नेपि [भिन्ने हि - K. ष्. ष्.] कथमनुसंधानम् इति चेदाह संस्कारात् प्राक्तनानुभवकृतवासनाप्रबोधजस्मृतिवशात् इति यावत्, प्राणे बलाबलवशादनुसंधिः, बुद्धौ ज्ञानसुखादितारतम्यात्, शून्ये वैतत्यावैतत्ययोगात्, अयमपि विकल्प एव, एवं स प्रमातृभावग्रहणेऽपि | अपि शब्दः प्रमेयभावग्रहणे भिन्नावभासित्वस्याविच्छिन्नत्वे युक्ततां सूचयति | ननु प्रमातृत्वान्यथानुपपत्त्या भिन्नावभासित्वं विच्छिन्नमेव भवत्वित्यत आह यदि हि इति | पूर्णत्वम् इति, अवच्छेदहीनत्वम् इति अस्य व्याख्या | पश्यन् - दर्शनक्रियाकर्ता प्रमाता, अहमिदम् इति, इदं कर्तृ अहमेवास्मि, ममैवैतद्भावेन भानात्, विदध्यात् - कुर्यात्, तत् - तदा, सदाशिवभूः - सादाख्यतत्त्वदशा | विकल्पास्पदत्वेन - विकल्पाश्रयत्वेन | केन भण्येत, सर्वस्य स्वान्तर्निगरणात् न कोऽपि वक्तुं शक्नुयादित्यर्थः | तद्वक्ष्यति निमेषोन्तः सदाशिवः इति | कुतो न भण्येतेत्यत आह यावता इति | सोऽनुसन्धिः - सदाशिवभूः, अत्र शिष्यः प्रश्नयति भिन्नेपि इति | न हि चैत्रस्य स्वस्मिन् मैत्रतानुसन्धानं युक्तमिति भावः | गुरुरुत्तरं कथयति आह इति | किमाहेत्यपेक्षायां सूत्रस्थं संस्कारात् इति पदं योजयति | संस्कारात् इत्येतत्पदं व्याचष्टे प्राक्तन इति | उपचारमाश्रित्येयं व्याख्या | ननु देहे एवं योजना भवतु प्राणे तु सा कथं संभवतीत्यत आह प्राणे इति | अनुसन्धिः - योजना, प्राणस्यैव बलहेतुत्वादिति भावः | स च योऽहं पूर्वमबलः स एवाद्य बलवान् इत्येवंरूपो ज्ञेयः | वैतत्यावैतत्ययोगात् इति, शून्यमातृत्वमेव शनैः शनैर्विततीभवत् एवायं घटः इति घटाद्यनुसंधानेऽपि विकल्पत्वं मन्तव्यम्, किन्तु एतासु अनुसंधानभूमिषु विद्याशक्तिराधिक्येन अचिरद्युतिवद्दीप्यते [अचिरद्युतिवदुद्दिप्यते - K. ष्. ष्.] इति तासां परपदपरिशीलनप्रथमकल्पाभ्युपायत्वमभ्युपागमन् गुरवः || ६ || परशिवीभवति, तस्य च मध्ये वैतत्यावान्तरवैतत्ययोर्योजना संभवत्येवेतिभावः | ननु कथमत्र विकल्पत्वमित्यत आह अयम् इति | अयमपि वैतत्यावैतत्यानुसन्धिरपि | बाह्यवस्तुप्रत्यभिज्ञास्वपि विकल्पत्वमतिदिशति एवम् इति | ननु परमार्थतः एकवस्तुविषयासु देहादिप्रमातृविषयकल्पनासु बाह्यवस्तुप्रत्यभिज्ञासु च कथमन्यवस्तुव्यवच्छेदप्राणो विकल्पो युक्त इत्यपेक्षायां पक्षान्तरमाह किन्तु इति | आधिक्येन - विकल्पापेक्षयाऽधिकतया देशकालादिभागभेदस्फूर्त्तावपि आकारस्यैकतया स्फुरणात्, विद्याशक्तिः - भेदान्निर्गता तावदप्राप्ताऽभेदा तदुन्मुखीभूता भेदबीजमायातत्त्वोर्ध्ववर्तिनी शुद्धविद्या | अचिरद्युतिवद्दीप्यते इति, तत्क्षणमेकताबुद्धिस्तत्र स्फुरितापि पुनरपि तस्य वस्तुनोऽन्यभ्यो भेदस्फूर्तेश्चिरं स्थातुं न शक्नोतीति भावः | सा चावस्था दृढीकृताभेदभूमिकानां प्रबुद्धानामेव विषयः नाप्रबुधानाम्, न ह्यचर्वितखण्डस्वादानां लेशतः तत्स्वादोपलब्धिरन्यत्र स्तोकं मधुरेषु वस्तुषु युज्यते, पूर्वज्ञाततत्स्वादानामेवात्रापि तदास्वादपरामर्शे शक्तत्वात्, सुप्रबुद्धानां सर्वदा सर्वत्र महाद्वैतबुद्धियुक्तानामत्रोपेक्षैवेत्यलम् | एतदवष्टम्भेन गुरुपरम्परातः आयातं संप्रदायं कथयति इति इति | इति - अतः कारणात्, तासाम् - देहादिप्रमातृविषयाणां योजनानां बाह्यवस्तुविषयाणां च, गुरवः, परपदस्य - परशिवाख्यस्योत्कृष्टस्थानस्य, यत् परिशीलनम् - सिद्धस्य यत्परिचयविषयीकरणं न तु साधनम्, तस्य प्रथमकल्पाभ्युपायत्वम् - प्रथमारम्भकारणत्वम्, अभ्युपागमन् - अङ्गीकृतवन्तः | नानाविधैरुपायैः श्रीभगवदनुग्रहेण वा लब्धं परपदं व्युत्थानकालेऽपि एवंविधास्ववस्थास्वेव परिशीलनीयम् इति गुरुभिः परम्परया प्रबुद्धेभ्यः शिष्येभ्यः शिक्षा दत्ता न तु बाहुल्येन प्रक्रियाशास्त्रेष्वेतल्लिखितम् | तेन हि मूढा अपि विषयग्रस्ताः क्लेशकारिणी नानाविधानुपायांस्त्यक्त्वात्रैव लगेयुः न च तत्प्राप्नुयुरिति न च देहादीनां पूर्वपूर्वप्रमातृवेद्यता येन प्रमातुरप्रकाशे प्रमेयं न भाति तत्प्रकाशश्च न पूर्वप्रकाशं विना, सोऽपि न प्रमात्रन्तरप्रकाशं विना इत्यनवस्था स्यात्, अपि तु शुद्धप्रकाश [विशुद्धप्रकाशः - K. ष्. ष्.] एव विश्वस्य प्रकाश इति निरूपयन् गुरवः इत्यस्याभिप्रायः | परमार्थतस्तु नानाविधोपायाश्रये नानाविधैरुपायैराश्रितैरपि भगवच्छक्तिपातं विना न किञ्चित्सेत्स्यति, तत्र प्रवृत्तिरपि वा तत्कार्यैवेत्यलम् || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति न च इति | अत्र टीका :- देहादीनां पूर्वपूर्वपमातृवेद्यता - प्राणस्य देहे वेद्यभावः बुद्धेश्च प्राणे इत्यादिरूपा, न च भवति, तदवच्छिन्नताभावस्य तद्वत् कल्पितत्वादिति भावः | येन - य या पूर्वं प्रमातारं प्रति वेद्यतया, प्रमातुः - परप्रकाशं प्रति प्रमातृतया कल्पितस्य नभसः, अप्रकाशे - बुद्धिप्रमातृकृतप्रकाशाभावे सति, प्रमेयम् - परप्रकाशाख्यं प्रमेयम्, न भाति, स्वयमसिद्धस्य परसिद्धिप्रवृत्त्ययोगात् | तत्प्रकाशश्च - बुद्धिप्रमातृप्रकाशश्च, पूर्वप्रकाशं विना - प्राणप्रमातृप्रकाशं विना न भवति सोऽपि - प्राणप्रमातृप्रकाशश्च, प्रमात्रन्तरप्रकाशं बिना - देहप्रमातृप्रकाशं विना न भवति | इति - एवम्, अनवस्था स्यात् - देहप्रमातुरपि प्रमात्रन्तरापेक्षापातात् तस्याप्यन्यस्यापेक्षा तस्याप्यन्यस्येत्यादिरूपमनवस्थानं स्यात्, न च नभ-उपरि परप्रकाश इव देहस्याधः कोपि प्रमातास्ति येनानवस्था न स्यादिति भावः | तथा च सर्वं सर्विकयाऽऽन्ध्यस्यैव साम्राज्यं स्यादिति भावः | पुनः किमस्तीत्यत आह अपि तु इति | अपि तु इति निर्णीते पक्षान्तरे, शुद्धप्रकाश एव विश्वस्य - सर्वस्य नभ - आदेः प्रमातृजातस्य बाह्यान्तरतया स्थितस्य प्रमेयजातस्य च, प्रकाशो भवति नभ - आदिनिष्ठस्य पूर्वं प्रति प्रमातृत्वस्यापि तत्प्रमातृत्वानपायात्, न हि गृहाकाशकृतं कार्यं महाकाशकृतं न भवतीति वक्तुं युक्तमिति भावः | इति - एवम्, निरूपयन् - योग्यतया निश्चयविषयी - उक्तयुक्त्या सदैव सृष्ट्यादिशक्त्यवियोगो [सृष्ट्यादिशक्तिवियोगोऽपि - K. ष्. ष्.] भगवत उक्तो भवति, इति दर्शयति :- तदेवं व्यवहारेऽपि प्रभुर्देहादिमाविशन् | भान्तमेवान्तरर्थौघमिच्छया भासयेद् बहिः || ७ || यत् पूर्वं दर्शितं देहे बुद्धौ इत्यादि तत् एवम् उपपद्यते, कथम् ? यदि व्यवहारे मायापदे देहप्राणादिमपि प्रभुरेव प्रकाशपरमार्थ इच्छया मायाशक्तिरूपया, आविशन् देहप्राणादिप्राधान्येन स्वरूपं प्रदर्शयन् अन्तः संविन्मात्रे, भान्तम् अहमित्येवंरूपम् अर्थौघम् इच्छयैव बहिः कुर्वन्, उक्तयुक्त्या - सदा सृष्टिविनोदाय इति पूर्वंमुक्तया युक्त्या, इति - एवम्, दर्शयति - अनुग्राह्यान् प्रति प्रकटीकरोति | इति किमिति ? भगवतः - स्वातन्त्र्याख्यमहाशक्तियुक्तस्य परप्रकाशय, सदैव सृष्ट्यादिशक्त्यवियोगो भवति, स च द्विप्रकारत्वेन पूर्वं दर्शित एवेति न पुनरायस्तम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तदेवम् इति | अत्र टीका :- पूर्वम् - चित्तत्त्वं मायया हित्वा इत्यत्र श्लोके, एवम्, वक्ष्यमाणवस्तुनि सतीत्यर्थः | उपपद्यते इति शेषत्वेनाध्याहृतम् | अत्र शिष्य आह कथम् इति कथमुपपद्यत इत्यर्थः | गुरुरुत्तरं कथयति यदि इति | व्यवहारे इति पदं व्याचष्टे माया इति, व्यवहारयोग्ये भेदप्राणे मायातत्त्वविषये इत्यर्थः | सूत्रे आदि शब्देन प्राणादिग्रहणम्, अत्र तु आदि शब्देन बुद्ध्यादेर्ग्रहणम् | प्रभु शब्दं व्याचष्टे प्रकाश इति | अन्तः इति व्याचष्टे संवित् इति | भान्तम् इति व्याचष्टे अहमित्येवम् इति | अन्तर्भाने हि अहंभावे विलय एव | तदुक्तम् :- अहमित्यस्य विच्छिन्न इदमिति भासयति तत एतदुपपद्यते, अन्यथा तु अनवस्था स्यात् | हेतौ लिङ् | अपिशब्द एवशब्दश्च भिन्नक्रमौ, यत् एतावत् उक्तम्, तदिति, तस्मात् हेतोः, एवं जातं वक्ष्यमाणरूपम्, किं तत् ? यत् किल प्रभुः परस्परं व्यवहारकाले क्रयविक्रयप्रेक्षाव्याख्यादौ [क्रेयविक्रेयप्रेक्षाव्याख्यादौ - K. ष्. ष्.] चैत्रमैत्रादिसंबन्धिनो देहप्राणादीन् एकतया तावति व्यवहारे [तावति आभासे - K. ष्. ष्.] आविशन् अन्तर्भान्तमेव अनुज्झितान्तःप्रकाशमेव सन्तं बहिः एकाभासतया भासयति इति इति | भावराशिवाचकस्य अर्थौघ शब्दस्य प्रसिद्धतया व्याख्या न कृता | बहिः इति पदं व्याचष्टे इदम् इति | भासयेत् इत्यस्य व्याख्यां करोति भासयति इति | ततः - तस्माद्धेतोः, एतत् - अर्थौघभानम्, अन्यथा - तदावेशाभावे, अनवस्था - अवतरणिकायां प्रोक्तमनवस्थानम् | लिङर्थमाह हेतौ इति | यतः अर्थौघं भासयति ततो ज्ञायते देहादिषु विशतीति योजना | भिन्नक्रमौ इति, देहशब्देन प्रभुशब्देन च संबन्धयोगादिति भावः | संभावनायामपि लिङ व्याख्यातुं तदेवम् शब्दयोः स्फुटतया योजनां करोति यत् इति | यदेतावदुक्तम् - समनन्तरं प्रोक्तम् | तत् शब्दस्योपन्यासपूर्वं व्याख्यां करोति तत् इति, तस्माद्धेतोः, एवं जातम् - सिद्धम्, कीदृशम् ? वक्ष्यमाणरूपम् - शेषेण वक्ष्यमाणस्वरूपम् | शिष्यः प्रश्नयति किं तत् इति, यज्जातं तत्किं भवतीत्यर्थः | अत्रोत्तरं वक्तुं व्याख्यातमपि श्लोकं पुनः योजनापूर्वं सङ्क्षेपेण व्याचष्टे यत् इति | क्रयविक्रय - इत्यनेन मलिनव्यवहारग्रहणम्, प्रेक्षा इत्यादिना शुद्धव्यवहारग्रहणम्, एकतया - स्वाभिन्नतया, तावति व्यवहारे, न तु सर्वत्र व्यवहारेषु तथा चात्रैव महाद्वतप्राप्तिप्रसङ्गात्, एकाभासतया, यथास्वं घटादिपदार्थाभासतया न तु संभाव्यते इत्येतज्जातम्, इति संभावनायां लिङ् | तेन तेन प्रमात्रा सह अस्मिन्काले ऐक्यं सृज्यते, अन्येन प्रमात्रा ऐक्यं संह्रियते, घटादिमात्ररूपे स्थितिः क्रियते, पूर्णस्वरूपनिमीलनात् तिरोभाव आधीयते, तावत्याभासे ऐक्यावभासपूर्णत्ववितरणात् [ऐक्यावभासनपूर्णत्ववितरणात् - K. ष्. ष्.] अनुग्रहः क्रियते, तेन न केवलं सर्वाभासतया | एतज्जातम् इत्यनेन किं तद् इति प्रश्नस्य स्फुटतया निराकाङ्क्षीकरणम् एतेन फलितम्, तस्य च सृष्ट्यादिपंचकृत्यकारित्वं कथयति तेन इति | तेन - देहाद्यावेशपूर्वमर्थौघभासनेन, प्रभुणा तेन, प्रमात्रा सह - देहादिप्रमात्रा सह, अस्मिन्काले - आवेशविशेषणीभूते समये, ऐक्यं सृज्यते, अन्यथा तदावेशासंभवात्, अन्येन प्रमात्रा सह - इतः पूर्वमावेशविषयीकृतेन प्रमात्रा सह, ऐक्यं संह्रियते - व्यापकत्वेऽपि अनौन्मुख्यमात्रेण तद्योगात्, तथा पूर्णस्वरूपनिमीलनात् - तदावेशान्यथानुपपत्त्या स्वकीयपूर्णस्वभावस्य तावति भागे सङ्कोचनात्, तिरोभाव आधीयते - संपाद्यते, तावत्याभासे - तत्कालकृतार्थावभासे, ऐक्यावभासपूर्णत्ववितरणात्, एक्यावभासस्य - अहंविमर्शरूपैक्यावभासस्य संबन्धिपूर्णत्वदानात्, अनुग्रहः - स्वात्मनि लयीकरण महासृष्टिषु महास्थितिषु महाप्रलयेषु प्रकोपतिरोधानेषु दीक्षाज्ञानाद्यनुग्रहेषु भगवतः कृत्यपञ्चकयोगः यावत् सततमेव व्यवहारेपि | यदुक्तम् :- सदा सृष्टिविनोदाय सदा स्थितिसुखासिने | सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः || इति | प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः | कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः || इत्यादि च | तथा :- रूपः अनुग्रहः, क्रियते, अर्थावभासो हि अहंविमर्शे विलीयते | तदुक्तम् :- अहमित्यस्य विच्छिन्नविमर्शस्य इति | स चाहंविमर्शः प्रकाशस्वरूपभूत एवेति भावः | प्रकोपतिरोधानेषु - प्रकोपेन यानि तिरोधानाति तेषु, व्यवहारेऽपि - ग्राह्यग्राहकोद्भावनेन संपादिते शुद्धाशुद्धव्यवहारेऽपि, न केवलं महासृष्ट्यादिष्वेवेति अपि शब्दाभिप्रायः | तत्र महासृष्ट्यादिषु सृष्ट्यादित्वं पूर्वं दर्शितमेव, मितप्रमातृव्यवहारेऽपि सदा सृष्ट्यादि तत्रैव सङ्क्षेपेण निर्णीतम्, इह चायं द्वितीयः प्रकारः स्वयमपि ग्रन्थकारेण स्फुटं निर्णीत इति अत्रापि [न तत्रापि - C.] योजनीयः, अस्माभिस्तु विस्तरभिया प्रपंचो न कृतः | अत्र वृद्धसम्मतिमाह यदुक्तम् इति, किमुक्तमित्यपेक्षायामाह सदा इति | अस्य श्लोकस्य पूर्वमर्थनिर्णयः कृत इति न पुनरायस्तम्, वक्तव्यशेषं यद्वर्तते तदिहोच्यते | अत्र आहार शब्देनैव तिरोधानानुग्रहयोरपि ग्रहणम्, तत्र व्यवहारे तिरोधानानुग्रहौ ग्रंथकृता इह दर्शितौ, महासृष्ट्यादित्रयानन्तरभाविनौ तु संहृतसृष्ट्यादेः स्वात्मनि संस्कारभावेन तावदवस्थापनं ततश्च स्वात्मनि लयीकरणमित्येवंरूपौ ज्ञेयौ, एतौ च तत्र योजनीयावेवेत्यलम् | अन्यदपि वाक्यद्वयमुदाहरति प्रतिक्षणम् इति प्राकाम्यम् इति च, इत्येतस्मिन् वाक्यद्वयेऽपि ...........प्राकाम्यमात्मनि यदा प्रकटीकरोषि | व्यक्तोः................................................................. || इति च || ७ || इह अन्तरर्थाभावभासः स्थित एव, तत् किं तत्र कारणान्तरचिन्तया इति प्रकृतं प्रमेयम्, तत्सिद्धये उपपत्तिः उक्ता, तेन विना इच्छारूपः प्रत्यवमर्शो न स्यात् इति, तत्प्रसङ्गात् प्रत्यवमर्शविकल्पादिस्वरूपम् उपपादितम्, इति शिष्याणां धियं समाधातुं प्रकृतं प्रमेयम् उपपादयन् उपसंहरति :- एवं स्मृतौ विकल्पे वाप्य पोहनपरायणे | ज्ञाने वाप्यन्तराभासः स्थित एवेति निश्चितम् || ८ || द्वयेऽपि सर्वदा सृष्ट्यादिकारित्वमेव प्रोक्तमिति नात्र प्रपंचः कृत इत्यलम् || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति इह इति | अत्र टीका :- अन्तः - पूर्णप्रकाशान्तः, स्थित एव इति, अन्यथा प्रागिवेत्यत्रोक्तन्यायेन प्रकाशासंभवात्, प्रकृतम् - आरब्धम्, प्रमेयम् - निर्णेयं वस्तु, कीदृशी असावुपपत्तिरित्यत आह तेन इति | एतच्च न विना तस्मादिच्छामर्शः प्रवर्तते इति श्लोकखण्डेनोक्तम्, समाधातुम् इति, अन्यथा तद्धियः [अन्यथा तद्धियः विक्षिप्तेत्र वस्तुजाते - C.] निक्षिप्ते अत्र वस्तुजाते समाधानं न संभवेत् इति | उपपादयन् - उपपत्त्या स्थापयन् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | एवम् इति | अत्र टीका :- एवम् शब्दस्य निमित्तवाचकत्वमभिप्रेत्य व्याख्यां करोति प्रकाश इति | प्रकाशात्मा - शुद्धप्रकाशरूपः, वस्तुतः, न त्वापाततः, तेन हि देहादेरेव निजनिजविषयं प्रति यथास्वं प्रमातृत्वम् | अपि शब्दः देहादिप्रमातृताभिमाननिरासे शुद्धप्रकाशस्य निःसंशयां प्रमातृतां द्योतयति | एवंशब्दापेक्षितं प्रकाशात्मा परमेश्वर एव यतो देहादिप्रमातृताभिमानदशायामपि वस्तुतः प्रमाता, एवम् इति, अतो हेतोः इदं सिद्धं भवति - स्मरणे अपोहनजीविते च विकल्पे अनुभवज्ञाने च अन्तराभासः प्रकाशविश्रान्तः स्थित एव, नात्र संशयः कश्चित् यदि हि देहादिरेव परमार्थप्रमाता स्यत् तत् शरीरस्य प्राणस्य धियः शून्यस्य वा अन्तर्घटादि इति न किंचित् एतत् - घटादिपरिहारेण देहादेः स्थितत्वात् | परमार्थप्रकाशस्तु सर्वंसहः वस्तूक्त्वा एवम् शब्दमुपन्यस्य व्याचष्टे | एवम् इत्येतेन एवम् शब्दस्य एवं सति इत्ये व्याख्या कार्या इति सूचितम् | किं सिद्धं भवति इत्यपेक्षायाम् स्मृतौ इत्यादिश्लोकं व्याचष्टे स्मरणे इत्येतेन स्मृतौ इत्यस्य व्याख्या | अपोहनजीविते इत्यनेन अपोहनपरायणे इत्यस्य व्याख्या | अन्तराभासः इति, प्रकाशविश्रान्तः इति अन्तः इत्यस्य व्याख्या, आभासः इति अर्थाभासवाचकम् कर्तृतया स्थितम् प्रसिद्धत्वेन न व्याख्यातम् | एवं स्मृत्यादावपि आभासः अन्तः स्थित एव भवतीति योजना | एवञ्च सर्वत्र प्रकाश एव प्रमाता इति भावः | इति शब्दः पूर्ववाक्योक्तसमस्तार्थाक्षेपपरः | निश्चितम् इति पदं व्याचष्टे नात्र इति | अत्र समर्थनं स्वयमेव करोति यदि इति, अन्तर्घटादि इति, प्रागिवार्थः इति न्यायेन घटादि अन्तर्भवेदिति योजना | भवतु ततः किम् इत्यत आह न किंचित् इति | कथं न किंचित् इत्यत आह घटादि इति | न हि देहान्तः कोपि घटं लभते इति भावः | ननु तर्हि प्रकाशान्तरपि कथं घटादि स्यादित्यत आह परमार्थ इति, सर्वसहः इति सर्वशक्तियुक्तत्वात् अन्यथा सर्वप्रादुर्भावासंभवः | इति तत्रान्तर्विश्वम्, इति अनायाससिद्धमेतत् || ८ || ननु अन्तराभासवर्गस्य बहिराभासनं यदि सर्वत्रास्ति कस्तर्हि स्मरणादौ आभासभेदः, न च असौ न संवेद्यते - स्फुटतास्फुटतादिप्रस्फुरणस्य [स्फुटास्फुटतां - K. ष्. ष्.] अनपह्नवनीयत्वात् इत्याशङ्क्याह :- किन्तु नैसर्गिको ज्ञाने बहिराभासनात्मनि | पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु || ९ || ननु शून्यप्रमातुरपि कथमेवंभावो न कल्प्यते ? सत्यम्, एवं कल्पिते तु स एव परः प्रकाशः स्यात् | अस्तु का हानिः, स्थलाद्बुद्धिप्रमातृभावान्निर्गत्य न हि सद्य एव प्रमाता व्यापकीभवति किन्तु क्षणं लेशतः संस्कारभावेन स्थितं परिमितत्वम् अवश्यमनुभवत्येव स एव च शून्यप्रमाता, ततः स्वयं स्फुरणशीलायाः अपरिमिततायाः स्फुरणे तस्यैव शुद्धप्रकाशभावः | यद्यपि अत्रापि शुद्धविद्यादितत्त्वारोहणरूपः क्रमोस्त्येव तथापि तत्र तादृशो यत्नो नास्ति इत्येवमुक्तमित्यलम् | तत्रान्तः - परमार्थप्रकाशमध्ये || ८ || अथ नवमश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- अन्तराभासवर्गस्य - प्रकाशान्तर्गतस्य अहन्तया ग्रहणयोग्यस्य घटाद्या - भाससमूहस्य, बहिराभासनम् - बहिर्देशत्वेन अफुरणम्, इदम् इति ग्रहणमिति यावत् | स्मरणादौ इति | आदिशब्देन सङ्कल्पादेर्ग्रहणम्, आभासभेदः, अनुभवादिति शेषः, उभयत्राप्यान्तरत्वाविशेषादिति भावः | ननु भास्त्वाभासभेद इत्यत आह न च इति | न च न संवेद्यते, अपि तु संवेद्यत एवेति भावः | कथं संवेद्यत इत्यत आह स्फुट इति | तत्र सर्वधर्माक्षेपेण इदम् इति ग्रहणम् स्फुटताग्रहणम्, तदनाक्षेपेण तत् इति ग्रहणम् अस्फुटताग्रहणम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | किन्तु इति | अनुभवज्ञानस्य इदं नीलम् इति अन्तरवभासं [अन्तराभासम् - K. ष्. ष्.] बहिराभासयतः स्वाऽन्तर्भावाभासो [सोऽन्तर्भावाभासः - K. ष्. ष्.] नैसर्गिकः - निसृष्टेः स्वातन्त्र्यात् आयातो न तु स्मरणादेरिव अन्यज्ञानकृतवासनादिबलात् | स्मरणे उत्प्रेक्षणे प्रत्यक्षपृष्ठभाविनी अध्यवसाये च योऽन्तर्नीलाद्यवभासो बाह्यतया अध्यवसायितव्यः [बाह्यतया अवभासयितव्यः - K. ष्. ष्.] नासौ स्वात्मीयः अपि तु पूर्वानुभवसंस्कारजोऽसौ, तत्र संस्कारो नाम अनुभवस्य अत्र टीका :- अन्तरवभासम् - अन्तःस्थितं नीलाभासम्, अहम् इति ग्रहणयोग्यं नीलाभासमिति यावत्, बहिराभासयतः - बाह्ये प्रकाशयतः, बहिरवभासनमनुकृत्याह इदम् नीलम् इति इति | स्वान्तर्भावाभासः - स्वान्तःस्थितभावाभासः | नैसर्गिकः इति पदं व्याचष्टे निसृष्टेः इति, तत्रापि प्रकृत्यर्थमाह स्वातन्त्र्यात् इति, निसर्गो हि स्वभावः स च परमार्थतः स्वस्वातन्त्र्यमेव, स्वरूपभूता निजा शक्तिरेवेति यावत् | ठञ्प्रत्ययार्थमाह आयातः इति | अत्र व्यतिरेकदृष्टान्तमाह न तु इति, अन्यस्य - पूर्वानुभूतस्य यज्ज्ञानम् - अनुभवः तेन कृतं यद्वासनादि - संस्कारादि तस्य बलात्, आयात इति पूर्वेण संबन्धः | एतेन पूर्वार्धव्याख्या कृता | एवमत्र योजना | उत्तरार्धे स्थितम् स इति इहापि योजनीयम् | किन्तु - पक्षान्तरे, सः - अन्तराभासः, बहिराभासनात्मनि - इदन्ताग्रहणस्वभावे ज्ञाने निर्विकल्पानुभवे, नैसर्गिकः भवति न तु स्मृत्यादाविव संस्कारकृतो भवति इति | अथोत्तरार्धं व्याचष्टे | स्मरणे इति स्मरण पदव्याख्या आदि शब्दगृहीतस्य उत्प्रेक्षणे इत्यस्य उल्लेखनमर्थः, अध्यवसाये इत्यस्य सविकल्पानुभवः, बाह्यातयाऽध्यवसायितव्या - तत् इत्यध्यवसायविषयः कार्यः, स्वात्मीयः - नैसर्गिकः | पुनः कीदृशोऽसावित्यत आह कालान्तरेऽपि अनुवर्तमानता, अतोऽसावनुवर्तमानोऽनुभवो यतो नीलाद्याभाससंभिन्नः ततः तत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते, तत एव स्मरणकालसंभवी आभासः तदनुभवपूर्वकालकलित एवेति स्वयं स्मरणादेर्निर्विषयत्वं गृहीतग्राहित्वं च उद्धोष्यते | एतदेव अस्फुटत्वम्, इति सिद्धोऽनुभवस्मरणादौ आभासभेदः अन्तराभासवर्गस्य बहिराभासनम् अन्याव्यवधानेन [बहिराभासनम् अव्यवधानेन - K. ष्. ष्.] स्फुटता, व्यवधानेन तु तात्कालिकत्वाभावात् अस्फुटता इति || ९ || ननु अनुभवज्ञानात् ऐन्द्रियकात् अन्यत् सर्वं ज्ञानं व्यवधानेन बहिराभासनरूपं प्राप्तम् इत्याशङ्क्य प्रविभागमाह :- अपि तु इति | ननु कथं पूर्वानुभवरूपः इति पदस्य संस्कारजत्वमर्थः इत्यत आह तत्र इति | एतत्समर्थयितुं संस्कारपदस्य प्रथममर्थमाह संस्कारो नाम इति | कालान्तरेऽपि विषयग्रहणकालादुत्तरस्मिन्कालेऽपि, नीलाद्याभाससंभिन्नः - ग्रहणकाले नीलादिविषयोपरक्तः, तत्तादात्म्यापन्नम् - तन्नीलम् इति नीलतादात्म्ययुक्तम्, तथा - पूर्वानुभववत् | फलितमाह ततः इति | तस्य अनुभवस्य यः पूर्वः कालः तेन कलितः - विशिष्टीकृतः एव, न तु इदानीन्तनतायुक्त इत्यर्थः | एतेन पूर्वानुभवरूपत्वं स्मरणस्य सिद्धम् तदेव च संस्कारजत्वमिति भावः | लोकप्रसिद्धं निर्विषयत्वं गृहीतग्राहित्वं चास्यैतदवष्टंभेन सिद्धतया कथयति इति इति | इति, अतः कारणात् इत्यर्थः | अस्यैवास्फुटत्वमपि कथयति एतद् इति | ननु स्फुटत्वं कीदृगस्ति इत्यपेक्षायामाह अन्तराभास इति | अन्याव्यवधानेन - संस्कारव्यवधानरहितत्वेन | पुनरपि एतत्प्रसङ्गेन अस्फुटत्वं निर्णीयते व्यवधानेन इति, व्यवधानेन, संस्कारकृतेनेत्यर्थः | सर्वधर्माक्षेपित्वेन तदनाक्षेपित्वेन च ग्रहणमत्रैव विश्राम्यतीति न पूर्वापरविरोधः शङ्कनीयः इति || ९ || स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि | यथाभिमतसंस्थानाभासनाद्बुद्धिगोचरे || १० || यः प्रत्यक्षव्यापारम् अनुपजीवन् व्यक्षेपसारतया मनोराज्यसङ्कल्पादिविकल्पः स स्वैरं कृत्वा स्वप्रेरणेन परप्रेरणनैरपेक्ष्येण स्वातन्त्र्येण चरति उदेति व्ययते च, तत्र यो बहिराभासो [बहिरवभासः - K. ष्. ष्.] नीलादेः अन्तराभासमयस्य स अथ दशमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- सर्वम् - मनोराज्यं भ्रान्तिज्ञानादि च समस्तम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | स नैसर्गिकः इति | अत्र टीका :- तच्छब्दस्य यच्छब्दाविष्टत्वेन विकल्पे इति पदस्य व्याख्यां करोति यः इति, प्रत्यक्षव्यापारम् - प्रत्यक्षप्रमाणव्यापारम्, अनुपजीवन् - अनपेक्षमाणः, व्याक्षेपसारतया - चित्तव्याकुलतामात्रसारत्वेन, आदि शब्देन भ्रान्तिग्रहणम् | विकल्पे इत्यस्य विशेषणीभूतं स्वैरचारिणि इति कृदन्तपदं व्याचष्टे विग्रहपूर्वं स्वैरम् इति | स्वैर इति व्याचष्टे स्वप्रेरण इति, मनोराज्यादि हि पुरुषस्य स्वयमेवोत्पद्यते विलीयते च न तु पुरुषप्रेरणामपेक्षते परस्य तु कथैवात्र नास्ति | अत्रापि पर्यायमाह स्वातन्त्र्येण इति, एतत् स्वातन्त्र्यं च मनोराज्यादेरेव ज्ञेयं न पुरुषस्य अन्यथा विरोधापातात् | चरति इति पदं व्याचष्टे उदेति इति, चरणं ह्यत्र उदयव्ययावेव, यत्तु जितचित्तानामत्र स्तोकं स्वातन्त्र्यं वर्तते तदनपेक्ष्यैवमुक्तम् | सामान्यजनमनोराज्यादेरेवात्र वक्तुमिष्टत्वात् | सप्तम्यर्थमाह तत्र इति, तत्र, एवंविधे विकल्पे इत्यर्थः | सः इत्यस्यार्थमाह यः इति | बहिराभासः - इदन्तया तत्तया वा आभासः | अन्तराभासमयस्य - परमार्थतः स्वान्तर्गतत्वेन अहम् इति ग्रहणयोग्यस्य | यच्छब्दाकाङ्क्षां पूरयति सः इति | सः - नैसर्गिक एव, तथा हि अपरिदृष्टपूर्वमपि श्वेतं दशनशतकलितकरयुगलयुक्तं दन्तिनम् अन्तः प्रमातृभूमौ स्थितं बहिः अन्तःकरणभूमौ स्वच्छधीदर्पणात्मिकायां स विकल्पः तात्कालिकमेव भासयति [आभासयति - K. ष्. ष्.] || १० || आभासः, बाह्यवस्तुनिरपेक्षमेव मनोमात्रसंपादित आभास इति यावत् | नैसर्गिक एव भवति, संस्कारजस्तु न भवति | कथं नैसर्गिक इत्यपेक्षायां समर्थनं प्रक्रमते तथा हि इति | अपरिदृष्टपूर्वम् - कदाचिदपि पूर्वं न दृष्टम्, न हि वक्ष्यमाणगुणो हस्ती कदापि दृश्यते इति भावः | श्वेतम् - सितम्, दशनशतकलितम्, न तु दन्तद्वयकलितम्, करयोर्युगलम् - द्वयं तेन युक्तम्, नत्वेककरयुक्तम्, दन्तिनम् - हस्तिनम्, प्रमातृभूमौ - बुद्धिप्रमात्रवच्छिन्नपरप्रमातृरूपपरप्रकाशभित्तौ, स्थितम् - शक्तिभावेन तिष्ठत्, अन्यथा निर्गमासंभवात् | बहिः अन्तःकरणभूमौ - प्रकाशापेक्षया बाह्यत्वेन स्थितायामन्तःकरणभित्तौ, कीदृश्याम् ? स्वच्छा या धीः सैव दर्पणम् - बाह्यप्रतिबिंबयोग्यत्वेन मुकुरः तदेव आत्मा यस्याः तादृश्याम्, स विकल्पः - मनोराज्यादिरूपः विकल्पः, तात्कालिकमेव, न त्वन्यकालावस्थायि, भासयति | अत्र च बुद्धिप्रमातुः स्वतो बाह्यग्रहणमपेक्ष्य प्रमातृत्वम्, स्वापेक्षयाऽऽन्तरं नभःप्रमातारं प्रति ग्राह्यत्वेन अन्तःकरणत्वमिति न किंचिद्विरुद्धम् | ननु य एवंविधो हस्ती प्रोक्तः सोऽपि संस्कारज एव, न हि सद्योजातस्य बालस्य कदाप्येवंविधस्य हस्तिनः चित्ते स्फुरणं युक्तम्, पुरुषो हि मनोराज्यादौ स्वयमेव कल्पनया अन्यत्र दृष्टानि विशेषणानि अन्यत्र योजयति, संस्कारवशेन यद्यपि भिन्नतया स्थितानि तानि विशेषणानि एकत्र न दृष्टानि तथापि भिन्नतया व्यस्तत्वेन यत्र तत्र दृष्टान्येव तानि, न चैतावता एषाम् असंस्कारजत्वं वक्तुं युक्तम्, सत्यम्, परमार्थस्त्वयमेव, किन्तु स्थूलबुद्धीन् प्रत्येवमुक्तम्, ते हि परमार्थंविचारे अनधिकृता एव | ननु तर्हि असौ परमार्थः स्वानुगदयया [सा (स्वा) न गदयया - C.] स्फुटीकार्य एवेति चेच्छृणु, नैसर्गिकः परामर्शः स एव, यः पूर्व सद्योजातबालादिष्वपि स्तन्याद्यभिलाषप्राणतया दर्शितः | अभिलाषो हि योजनाप्राण एव, योजना चानुसंधानम्, स एव प्रत्यवमर्शः | बहिरपि हि वस्तुविषयोऽभिलाषः तत्सुखकारित्वानुसंधानरूप एव | बालस्य वस्तुविषयोऽभिलाषः तत्सुखकारित्वानुसन्धानरूप एव तावद् बालस्य वस्तुग्रहणं न संभवतीति असौ ओष्ठगतमङ्गुल्यादिकमपि स्तनत्वेन अनुसंदधाति येन तत्रापि चयनं करोति | अतोऽपि परमार्थविचारे स्तन्यमसौ न काङ्क्षति स्तन्यज्ञानाभावात्, परं तृप्तिमात्रं काङ्क्षमाणः यत्र तत्र भ्रमति, मुखद्वारचांचल्यं तु अस्य स्वभावभतमेव, तृप्त्यर्तं तच्चंचलीकरणेन ज्ञायते अस्य स्वात्मनि शक्तिभावेन स्थितो योजनारूपः परामर्शोऽस्ति | यत्तु तस्य पूर्वजन्मसंबन्धित्वं कथयन्ति तदपि फलतः तदेव, परमार्थविचारे हि सर्वेषां पूर्वजन्म सर्वशक्तियुक्तं प्रकाशतत्त्वमेव, स्थावरा अपि हि निजं स्वभावमादाय तत एवोत्तिष्ठन्ति, तेषामप्यन्तः सः प्रत्यवमर्शो विद्यत एव अन्यथा तन्तूनां स्वं प्रति रसाकर्षणासंभवात् | एवं सः सूक्ष्मः प्रत्यवमर्शः सर्वेषु ज्ञानेष्वस्त्येव, तत्र अनुभवे साक्षादेव स्थितः तत्पृठभाविनि विकल्पे पूर्वानुभूत - वस्तुविषयायां स्मृतौ च, स्वैरचारिषु मनोराज्यादिषु तु केवलसंस्कारजत्वभ्रमेण स्थलबुद्धीन् प्रति केवलसंस्कारजत्वमस्याचार्येण साधितम्, न च तद्युक्तम्, यत्र स्थावरेष्वपि तस्य सत्ता युक्तत्वेन दर्शिता का तत्र मनोराज्यादिषु तदसत्त्वकल्पना, परमार्थविचारे हि यस्य यस्य सत्ता तस्य तस्य नैसर्गिकः प्रत्यवमर्शो विद्यते एव तदव्यभिचारिचिन्मात्ररूपसन्मात्रेणैव सर्वपूरणात्, अतोऽपि परमार्थविचारे असत्तायामपि तेनैव पूरणमसत्त्वभावेनैव पूरणात्, तथा हि भैरवशब्दस्य सर्वभावाभावभरणकतृत्वमेवार्थः, तदुक्तम् :- स एव भैरवो देवो जगद्भरणलक्षणः अस्माच्च अन्तराभाससंभवसमर्थनप्रसङ्गागतात् आभासभेदविचारात् शास्त्रे यत् प्रयोजनं मुख्यतया अभिसंहितं स्वात्मनि ईश्वरप्रत्यभिज्ञानरूपं तदधिकरणसिद्धान्तनीत्या अनायाससिद्धम् इति दर्शयति :- अत एव यथाभीष्टसमुल्लेखावभासनात् | ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः || यदिदं यथाभीष्टं [यथाभीष्टस्य - K. ष्. ष्.] बहिरसत्त्वात् अननुभूतस्यापि सम्यक् उल्लेखनम् इति | एतेन सर्वेषां जगद्गतानां जडाऽजडानां सतामसतां च प्रत्यवमर्शयुक्तत्वं साधितम् | यस्य च प्रत्यवमर्शयुक्तत्वं तस्य कथाकरणेऽपि योग्यत्वमिति सर्वे भावाः भगवत्स्तुतिपरा एवेति यत् कैश्चिदुच्यते तदपि युक्तमेव | अतोऽपि परमार्थ - विचारे सर्वे स्वयं स एवेति कः कं स्तूयात्, स्वातन्त्र्यरूपाहंपरामर्शमयत्वमेव सर्वत्र सिद्धमित्यलं स्वप्रतिभामात्रगम्ये वस्तुनि दोषापादकेन वाक्प्रपंचेन || १० || अथैकादशस्य श्लोकस्यावतरणिकां करोति अस्माच्च इति | अत्र टीका : शास्त्रे - अस्मिन् प्रत्यभिज्ञाशास्त्रे, अभिसंहितम् - ग्रन्थकारेण मनसि कृतम्, तत् - प्रयोजनम्, अधिकरणसिद्धान्तनीत्या, यत्रैकाश्रयेणान्यद्वस्तु सिद्ध्यति सोऽधिकरणसिद्धान्तः यथा शब्दानित्यत्वाश्रयणेन तद्रुणत्वसिद्धिः, तस्य या नीतिः तया | अनायाससिद्धम्, अयत्नसिद्धमित्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | अत एव इति | अत्र टीका :- अत एव इति व्याचष्टे यदिदम् इति | यथाभीष्टम् - बाह्यवस्तुनैरपेक्ष्येण स्वेच्छानुगुणतया, यत् अननुभूतस्य - कदाप्यनुभवविषयतामनीतस्य अवभासनं च विकल्पस्य प्रसङ्गात् दर्शितम् अस्मादेव हेतोः इदमपि सिद्ध्यति - यः कश्चित् कीटो वा ब्रह्मा वा जीवनक्रियाविष्टः तस्य अवभासनरूपा ज्ञानशक्तिः उल्लेखनरूपा च क्रियाशक्तिः नैसर्गिकी, ततः तस्यां भूमौ व्यतिरिक्तेश्वरकल्पितपूर्वसिद्धसृष्ट्युपजीवनसंभावनापि [व्यतिरिक्तेश्वरोपकल्पित - K. ष्. ष्.] नास्ति, सितहस्त्यादेः, उल्लेखनम् - मनसि कल्पनम्, अवभासनञ्च - विकल्पघनीभावेन पुरः स्फुरणम् | तदुक्तम् :- स्वप्नचौराद्युपद्रुताः | अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव | इति | प्रसङ्गात् - प्रत्यवमर्शविवेकप्रसङ्गेन | ननु ततः किमित्यत आह अस्मादेव इति | इदम् इत्यस्याकाङ्क्षां पूरयति यः इति | जीवनक्रियाविष्टः - जीवन्, सर्वं जङ्गमजातमिति यावत् | तस्य - कीटस्य ब्रह्मणो वा, सर्वस्य जीवजातस्य इति यावत् | नैसर्गिकी - स्वभाविकी | ननु किं सा स्थावराणां नास्ति, सत्यम् | तेषामप्यस्फुटाऽसावस्त्येव परन्तु स्फुटत्वापेक्षया एवमुक्तम् | नान्वस्तु ततः किम् इत्यत आह ततः इति | ततः - तस्मात्कारणात्, पुरुषेण तस्यां भूमौ - स्वैरविचारिमनोराज्यादिभूमौ, स्वमैश्वर्यमेव - निजं सहजं स्वातन्त्र्यमेव, स्फुटं प्रत्यभिज्ञेयम् - तत् ईश्वरविषयम् ऐश्वर्यम् ममैवेदमैश्वर्यमिति प्रत्यभिज्ञाविषयीकार्यम्, फलतः स ईश्वरः अयमहमेवेति प्रत्यभिज्ञा कार्या इति भावः | स्वमैश्वर्यं कीदृशम् ? जानाति करोति च इत्येवंरूपम् यत् ज्ञानक्रियास्वातन्त्र्यम् - ज्ञाने क्रियायाञ्च कर्तृत्वं तदेव लक्षणं स्वरूपं यस्य तादृशम्, कुतः स्वमेव प्रत्यभिज्ञेयम् ? इति, इति कुतः ? तस्यां भूमौ, व्यतिरिक्तः - स्वात्मनो भिन्नः य ईश्वरः तेन कल्पिता या पूर्वसिद्धा - बाह्यसृष्टिवत् मनोराज्यादेः पूर्वं सिद्धतया स्थिता या सृष्टिः - श्वेतादिगुणयुक्तहस्तिरूपं सर्जनीयं इति स्वमैश्वर्यमेव [स्वमेवैश्वर्यम् - K. ष्. ष्.] स्फुटं प्रत्यभिज्ञेयं जानाति करोति चेतिज्ञानक्रियास्वातन्त्र्यलक्षणम् | एकवचनेन सर्वस्य जीवजातस्य वस्तुत एकेश्वररूपतां सूचयति | इति शिवम् || ११ || आदितः || ६३ || वस्तु, तस्य यदुपजीवनम् - संस्कारद्वारेण अपेक्षणं तस्य संभावनापि - तर्केण ऊहनमपि, नास्ति, स्फुटं स्वयं कल्पितत्वात् बहिः कदाप्यदृष्टत्वात् | अपि शब्द सद्भावस्य तु का कथेति द्योतयति, तस्यां भूमौ इत्यस्य पदद्वयस्य काकाक्षिवदुभयत्र योजनम् | अयमुपदेशोऽपि प्रबुद्धं प्रत्येव अप्रबुद्धस्य अनधिकारित्वात्, सुप्रबुद्धस्य तु सर्वदा सर्वमात्मत्वेन पश्यतः तदपेक्षाया असंभवात्, न चाप्रबुद्धैरपि एतच्छ्रुत्वा सङ्कल्पविवशतया स्फुरिते मनोराज्यादावयं भ्रमः कार्यः सर्वथा जितसङ्कल्पानां कदापि देहस्वभाववशेनास्फुरितमनोराज्यानां [देहस्वभाववशेन स्फुरति - C.] प्रबुद्धानां भातात्मतत्त्वानां व्युत्थाने तत्प्रत्यभिज्ञाकरणे तावदसमर्थानामर्थे अस्योपदेशस्य स्थितत्वात् | कुर्वन्तु वा का नो हानिः इत्यलम् | जीवतः इत्यत्र स्थितस्यैकवचनस्याभिप्रायं वक्तुमाह एकवचन इति | सूचयति - सूचनया कथयति न तु साक्षात्, सूचनं च द्व्येकयोर्द्विवचनैकवचने इति सूत्रसामर्थ्यादिति भावः | ननु तर्हि सर्वपदं किमर्थं स्थापितम् ? तद् विस्फुटमेव कथयति, भिन्नानाम् एकत्र बुद्ध्या मेलनं हि सर्वपदप्रवृत्तिनिमित्तम्, सत्यम्, भेदग्रस्तबुद्धीन् प्रत्येवमुक्तम्, ते हि जीवतः इति श्रूत्वा कमप्येकं जीव प्रत्येतदुक्तमिति जानीयुः, तानेव च प्रति ग्रन्थकरणमिति न किंचिद्विरुद्धम् | इति शब्द आन्हिकसमाप्तौ, शिवम् इति पदं मङ्गलवाचकं परतत्त्वसूचनपरञ्चेति शिवम् || ११ || इति श्रीमदाचार्याभिनवगुप्तविरचितायामीश्वरप्रत्यभिज्ञासूत्र- विमर्शिन्यां प्रथमे ज्ञानाधिकारे ज्ञानशक्तिनिरूपणं नाम षष्ठमाह्निकम् || ६ || इति श्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां भास्कर्याख्यायां ज्ञानाधिकारे षष्ठमान्हिकं समाप्तम् || ६ || अथ ज्ञानाधिकारे एकाश्रयनिरूपणाख्यं सप्तममाह्निकमारभ्यते | अनन्तशक्तिरत्नानां यदेकाश्रयसंश्रयात् | विचित्रचन्द्रिकोल्लाससंसिद्धिस्तं स्तुमः शिवम् || अथ सप्तमाह्निकप्रारम्भः | यदेकाश्रययोगेन नानाशक्तिचयः स्फुटम् | शक्योद्भावनसामर्थ्यं लभते तं स्तुमः शिवम् || अथ ज्ञानाधिकारे सप्तमस्याह्निकस्य निर्विघ्नव्याख्यासमाप्तये प्रचयगमनाय च तत्त्वानुस्मरणरूपं मङ्गलं शिष्यशिक्षायै समस्तान्हिकतात्पर्यसूचकश्लोकेनोपनिबध्नाति अनन्त इति | वयं तम् - यच्छब्दाविष्टे पूर्ववाक्ये प्रोक्तम्, शिवम् - शक्तिपिण्डात्मकं प्रकाशपरमार्थ स्वात्मदेवतारूपं शिवतत्त्वम्, स्तुमः - स्तुतिद्वारेण परामृशामः, तं कम् ? अनन्तानि - अपरिच्छिन्नानि यानि शक्तिरत्नानि - उत्तमवस्तुत्वेन रत्नरूपाः ज्ञानस्मृत्यादिशक्तिसमूहाः तेषाम्, यदेकाश्रयसंश्रयात् यश्चासौ एक आश्रयः - शक्तिमत्त्वेन असाधारणं स्थानम् तस्य संश्रयात् - अवष्टंभेन, हेतौ इयं पंचमी | विचित्रा ये चन्द्रिकोल्लासाः - स्वविषयद्योतकाः प्रमादिरूपाः चन्द्रिकास्फूर्तयः तेषां संसिद्धिर्भवति, ज्ञानादयः शक्तयो हि परप्रकाशे स्थिताः तत एव बलं लब्ध्वा स्वविषयद्योतनं कुर्वन्ति | यद्यपि शक्तयोऽस्य जगत् कृत्स्नं शक्तिमांस्तु महेश्वरः | इति नीत्या सर्वे पदार्थाः शक्तिरूपा एव, तथापि प्रस्तावापेक्षया ज्ञानादिशक्तीनामेवेह ग्रहणं कृतम्, यतो ज्ञानादिशक्तिभिरेवात्मसिद्धिः तावन्मात्रमेव च ईश्वरत्वेन प्रत्यभिज्ञेयत्वेन इहेष्टम्, तन्मात्रपरत्वादस्य शास्त्रस्य | एतेन ज्ञानादिशक्तीनामेकाधारस्य निर्णयोऽत्रान्हिके क्रियते इति सूचितम् | एवं स्मृत्यादिशक्तीनां वितत्य स्वरूपमियता दर्शितम्, यत्तु अत्र प्रमातुरपि स्वरूपम् उन्मीलितम् तत्तासामेव शक्तित्वं समर्थयितुम्, न हि स्वन्त्रं शक्तिस्वरूपं भवितुमर्हति इति | अधुना तु तासां शक्तीनाम् एक आश्रयः, स च तच्छक्तिसंयोजनवियोजनादिस्वाच्छन्द्ययोगात् महेश्वरः न तु जडस्वरूपवह्न्यादिवत् दाहकपाचकादिशक्त्याश्रयमात्रम् इति यत् उभयम् उपक्षिप्तम् न चेदन्तःकृतानन्तविश्वरूपः ........| इत्यत्र सूत्रे, तत् वितत्य निर्णेतव्यम् | तत्र एकमाश्रयं निर्णेतुम् या चैषा प्रतिभा........................| इत्यादि ................व्यवहारोऽनुभूयते || एवं मङ्गलं संपाद्य समस्तान्हिकतात्पर्यं समस्तव्यस्तत्वाभ्यां कथयति एवम् इति | अत्र टीका :- ननु प्रमातुरपि निर्णयो वर्तते एव तत्कथमुक्तं शक्तीनां स्वरूपम् दर्शितम् इत्यत आह यत्तु अत्र इति | उन्मीलितम् - प्रकटीकृतम्, न तु निर्णीतम्, समर्थयितुम् - साधयितुम् | कुत इत्यपेक्षायामाह न हि इति | नन्विदानीं किं कथयति इत्यत आह अधुना इति | तासां शक्तीनां यत् संयोजन - वियोजनादि, आदिशब्देन स्वस्मिन् लयीकरणम्, तत्र यत् स्वाच्छन्द्यम् - स्वातन्त्र्यम् तस्य योगात्, उभयम् - शक्त्याश्रयस्यैकत्वं महेश्वरत्वञ्च, उपक्षिप्तम् - समर्पितम्, कथितमिति यावत् | कुत्रेत्यपेक्षायामाह न चेत् इति | तत् युगलम्, निर्णेतव्यम् - अवश्यं निर्णेयम्, अन्यथा महेश्वरत्वनिर्णयासंभवादिति भावः | तत्र - तस्य युगलस्य निर्णेतव्यत्वे सति, एकम् आश्रयम् - ज्ञानादिशक्तीनां परप्रमातृरूपमहेश्वररूपमेकं स्थानम् | एवं सामस्त्येनाभिप्रायमुक्त्वा इत्यन्तं चतुर्दशभिः श्लोकैः आह्निकं प्रस्तूयते | तत्र श्लोकेन एक आश्रयः स्वरूपत उपक्षिप्यते | ततोऽपि द्वयेन व्यवहारः सर्वः सति एकस्मिन् आश्रये युज्यते न असतीति अन्वयव्यतिरेकात्मा युक्तिरुच्यते | ततो व्यवहारस्वरूपं कार्यकारणभावतः, स्मरणतः, सत्यासत्यप्रविभागतश्च इति सङ्क्षिप्य श्लोकेन [सङ्क्षिप्य श्लोकेन श्लोकाष्टकेन - K. ष्. ष्.] श्लोकेन श्लोकाष्टकेन च प्रतिपाद्यते | ततः श्लोकेन सर्वोऽर्थो निगम्यते इत्याह्निकार्थसङ्क्षेपः | अथ श्लोकार्थो व्याख्यायते | यदुक्तम् सर्वस्य सिद्धे ज्ञानक्रिये जीवतः इति तत् कथम् ? यावता ज्ञानादिव्यतिरिक्तः कोऽसौ अन्यो यस्य ते स्याताम्, काणाददिशा हि दूषितः तदाश्रयः व्यस्तत्वेनापि कथयति तत्र इति | तत्र, श्लोकचतुर्दशकमध्य इत्यर्थः | स्वरूपतः - स्वरूपमात्रेण, न तु समस्तधर्माक्षेपेणेत्यर्थः, उपक्षिप्यते - कथ्यते, अन्वयव्यतिरेकात्मा - अन्वयव्यतिरेकरूपः, श्लोकेन श्लोकेन श्लोकाष्टकेन च, दशभिः श्लोकैरित्यर्थः | तत्र एकेन कार्यकारणभावनिर्णयः, पुनरेकेन स्मृतिनिर्णयः, अष्टकेन सत्यासत्यप्रविभागनिर्णय इति क्रमः | निगम्यते - निगमनविषयतां नीयते | व्यस्तत्वकथनमुपसंहरति इति इति | श्लोकार्थकथनं प्रतिजानीते अथ इति | तत्र प्रथमश्लोकस्यावतरणिकां करोति यदुक्तम् इति | अत्र टीका :- तत् कथम्, तन्न संभवतीत्यर्थः, कुत इत्यपेक्षायामाह यावता इति | यावता, यस्मात् कारणादित्यर्थः | ते - ज्ञानक्रिये | ननु पूर्वं ज्ञानादिगुणाश्रयस्ततो व्यतिरिक्तः साधित एवेत्यत आह काणाद इति | स्वदर्शनदृशा - शैवमतदृष्ट्या, तमेकम् - आश्रयम् | स्वरूपतः - स्वरूपमात्रेण, उपन्यस्यति - समर्पयति, कथयतीति यावत् | एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे या चैषा इति | ततो भिन्नेषु धर्मेषु.....................| इत्यादिना, तत् एतत् आशङ्क्य स्वदर्शनदृशा [स्वदर्शनदिशा - K. ष्. ष्.] तमेकं स्वरूपत उपन्यस्यति [उपक्षिपति - K. ष्. ष्.] :- या चैषा प्रतिभा तत्तत्पदार्थक्रमरूषिता | अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः || १ || प्रतिभाति घटः इति यद्यपि विषयोपश्लिष्टमेव प्रतिभानं भाति तथापि न तद्विषयस्य स्वकं वपुः, अपि तु संवेदनमेव तत् तथा चकास्ति मां प्रति भाति इति प्रमातृलग्नत्वात् | तथा च वेदः :- अत्र टीका :- अक्रमा इत्यन्तं श्लोकखण्डं व्याख्यातुं प्रक्रियां करोति प्रतिभाति इति | विषयोपश्लिष्टमेव - कर्तृभूतघटादिसंबद्धमेव, प्रतिभानम् - प्रतिभाति इतिक्रियास्वरूपम्, भाति - प्रमातॄन् प्रति स्फुरति, तत् - प्रतिभानम्, विषयस्य - घटस्य, स्वकं वपुः - अर्थात् स्वं [अर्थाख्यं निजम् - C.] निजं स्वरूपम्, पुनस्तत् किम् इत्यत आह अपि तु इति | संवेदनमेव - प्रमातनिष्ठा घटविषया संवेदनाख्या क्रियैव, तत् - प्रतिभानम्, तथा - विषयोपश्लेषेण, चकास्ति - स्फुरति | अत्र हेतुमाह मां प्रति इति | प्रमातृनग्नत्वात् - आपाततः कर्तृभूतघटनिष्ठत्वभागेऽपि परमार्थतः मां प्रति भाति इति एवं प्रमातुरेव तद्भित्तित्वात् | अयमत्र भावः | प्रमाता प्रथमम् अर्थितादिवशेन स्वस्य घटसंवेदने प्रोद्योगं करोति अन्यथा घटप्रस्तावस्यैवायोग्यत्वात्, तत्र तस्य यदि कोऽपि घटवार्तां पृच्छति तदां तं प्रति कथयति घटः प्रतिभाति इति, पुनः पृष्टः सन् कं प्रति भाति इति पुनरसौ कथयति मां प्रति इति | प्रति शब्दो हि घटस्य भानं प्रति कर्तृत्व - निवारकः प्रमातरि तद्योग्यतासाधकश्च, अन्यथा भाति इति ब्रूयात् मां प्रति इति प्रयोगरहिते भाति इति कथने तु प्रमाता भित्तिभूतं स्वात्मानं विस्मार्य घटमेव उद्धुरीकरोति तदर्थितातिशयेन विवशीकृतत्वात्, न च तावता घटस्यैव कर्तृत्वं वक्तुमुचितम् स्वात्मनो वा उदासीनत्वम्, जडस्य घटस्य कर्तृत्वायोगात् स्वात्मन एव सर्वत्र स्वतन्त्रतायोगेन सर्वकर्तृत्वयोगात्, यदुक्तम् स्वतन्त्रः कर्ता इति | ततश्च स्फुटमेव प्रतिभाति घटः इत्यत्र भानस्य प्रति उपसर्गसूचितं प्रमातृलग्नत्वं प्रमातृलग्नत्वे च बाह्यतानुपपत्तिः, तदनुपपत्तौ च विषयत्वानुपपत्तिरेव इति | अत्र श्रुतिं प्रमाणीकर्तुमाह तथा च इति, वेदवाक्यमेव कथयति तमेव इति | इयं श्रुतिश्चैवम् | न तत्र सूर्यो भाति न चन्द्रतारकाः नेमा विद्युतो भान्ति कुतोऽयमग्निः | तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति | इति | अत्रायमर्थः, तत्र - तस्मिन् परप्रकाशे, तत्सन्निधौ इति यावत्, सूर्यः - बाह्य - प्रकाशश्रेष्ठः आदित्यः, न भाति - स्वप्राधान्येन भानं प्रति कर्तृत्वं न भजति, चिदाख्यं तं प्रति भानेन तल्लग्नत्वेन भानात्, न हि प्रमातारं विना घटादिवत् सूर्योऽपि सिद्धिं लभते, तत्सन्निधौ भानं तु परमार्थतः तन्निष्ठमेव, शिलादौ पादन्यासो हि परमार्थतः भुवि एव | तदुक्तम् :- कथमन्यथा भवन्ति भुविदत्तपादानि नृणाम् ऽतमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति |ऽ इति | शत्रा अविरतस्फुरणत्वं कर्मप्रवचनीयेन तदीयस्वातन्त्र्योपकल्पित - निर्माणक्रियाजनितो वेद्यवेदकभावरूपो लक्षणात्मा संबधो द्योतितः, इति | कुतोऽयमग्निः इति, अग्नेर्भाने कथैव नास्तीति भावः | प्रकाशव्यतिरिक्तानां वस्तूनामभानं तु दण्डापूपिकान्यायेन स्फुटतरमेवेति न गृहीतम्, विद्युदनन्तरं सूर्याभानकथनस्य योग्यत्वेऽपि प्रथमं सूर्याभानकथनं तस्य तत्समीपे विद्युदादेरपि अतिन्युनत्वसूचनपरम्, अन्यथा तु श्रेष्ठस्य सूर्यस्याभाने कस्तद्भानप्रसङ्गः, तदप्रसक्तौ कस्तन्निषेधः | ननु तर्हि कथमेते भान्ति इत्यत आह तमेव इति | भान्तम् - स्वप्रकाशत्वेन अहम् इति सततमेव स्फुरन्तम्, तमेवानु - तं परप्रमातृरूपं प्रकाशं प्रति, सर्वम् - सूर्यादिप्रकाशजातम्, भाति, अन्यथा अहं सूर्यं पश्यामि इत्यादिप्रयोगासंभवात् | भाति इति प्रयोगस्तु [प्रयोगस्य तु - C.] अर्थितादिवशेन तदुद्धुरीकरणप्रमातृप्रयोजनत्वेन, अन्यथा असिद्धत्वात् इति भावः | फलितमाह तस्य इति, अतः इति शेषः | अतः कारणात् इदं सर्वम् - इदन्ताग्राह्यं सूर्यादिरूपं बाह्यं प्रकाशजातम्, तस्य भासा - तदाश्रयेण एतद्विषयेण च प्रकाशेन, विभाति, स्वतन्त्रतया विशिष्टं भानं प्रति कर्तृत्वमिव भजति इत्यर्थः, यथा सूर्यादिभासा घटादिकं सर्वं वस्तुजातमिति भावः | अत्र स्वयमपि लेशतोऽभिप्रायकथनं करोति शत्रा इति | शत्रा - भान्तम् इत्यत्र स्थितेन शतृप्रत्ययेन, अविरतस्फुरणत्वं द्योतितम् इति संबन्धः अन्यथा भातम् इति ब्रूयात् इति भावः | अनु शब्दस्याभिप्रायमाह कर्म इति | कर्मप्रवचनीयेन - लक्षणक्रियावाचकेन अनु शब्देन, लक्षणात्मा - वृक्षमनु द्योतते विद्युत् इतिवत् लक्षणक्रियारूपः, संबन्धो द्योतितः, यथा हि वृक्षेण विद्युतो द्योतनं लक्ष्यते - प्रेक्षकान् प्रति दर्श्यते, तथा परप्रमातृभानेन सूर्यादिभानं प्रमातॄन् प्रति लक्ष्यते | ननु तत्र वृक्षः स्फुटमेव दृश्यते तेन च युक्तमेव विद्युद् केवलं विषयोल्लेखनबलात् बहिः क्रमावभासः समर्थितः, स स दर्शनम्, अत्र तु परप्रमातुर्भानं न स्फुटम् इति कथं तेन एतल्लक्षणम् इति चेत् स एव कः ? देहादिः इति चेत् अहो परोपदेशाधिकारित्वम् | परप्रमाता इरि चेत्, सः भातो न वा ? न चेत्, तत् कथम् मया इति प्रयोगः ? अर्थदर्शनानन्तरमेव तद्वाचकशब्दस्फूर्तियोगात्, भासते चेत्, अद्यैव सदा वा ? अद्यैव इति चेत् तर्हि अद्यैव अहम् इति प्रयोगः कृतः इति पूर्वस्मृतिर्न युक्ता ह्यो मयेदं भक्तम् इति | अद्य तावद् भातः इतः परन्तु न जानामि भास्यति न वा इति चेत्, सत्यम्, परदेहावच्छिन्नो योहंप्रत्ययः स किं त्वदहमः भिन्नः अभिन्नो वा, यदि भिन्नः तर्हि देहप्रमातृत्वाभिमानस्तथैव स्थितः इत्यत उपदेशानधिकारिता तथैव, यदि तु अभिन्नः तर्हि आकारकृतस्य विच्छेदस्य अनङ्गीकारे का देशकालकृतं विच्छेदं प्रति शङ्का, इति परप्रमातुः सदा भानं स्फुटतरमेव तेनैव च सूर्यादिभानं लक्ष्यते इति न काप्यनुपपत्तिः | लक्षणात्मा संबन्धः कीदृशः इत्यपेक्षायां विशेषणान्याह तदीय इति | तदीयम् - परप्रमातृसंबन्धि यत् स्वातन्त्र्यम् - सर्वकार्येषु अनन्यमुखप्रेक्षित्वम्, तेन उपकल्पिता - तद्भाविता या निर्माणक्रिया, तया जनितः, अन्यथा स्वातन्त्र्यायोगात्, तथा, वेद्यवेदकभावरूपः - परमार्थतः घटगतवेद्यत्वपरप्रमातृगतवेदकत्वतदुभयविषयविषयी- भावकारणरूप्ः, आपाततस्तु घटदेहादिनिष्ठवेद्यवेदकभावरूपः | ननु यदि परप्रमातुः संवेदनमेव घटादिभानं तर्हि तत् संवेदनरूपमेव, न हि घटादेस्तद्व्यतिरेकेण कापि सिद्धिः, तथा च परप्रमातुः एकत्वेन संवेदनस्याप्येकत्वमेवेति घटादेरपि तद्वशेन एकत्वमेवायातम् इति क्रमस्य तिलाञ्जलिरेव देय इत्यत आह केवलम् इति | केवलम् - परम्, विषयाणाम् - वेद्यवस्तूनां यत् उल्लेखनम् - बहिरसत्त्वेऽपि क्रीडार्थ स्वातन्त्र्येण विमर्शनम्, तस्य बलात् - वशेन | बहिः क्रमावभासः - भिन्नभिन्नप्रदार्थविषयं क्रमावभासनम्, समर्थितः - आपातेन तावत् समर्थनविषयीकृतः, अन्यथा उपदेष्ट्रुपदेश्यभावाद्यनुपपत्तेः शास्त्रकरणस्याप्यसंभवप्रसङ्गात् इति भावः | उक्तप्रक्रियावष्टंभेन तत्तत्पदार्थ इति समस्तं पदं व्याचष्टे विगृह्णाति च स सः इति | तत्तद् इत्येतयोः प्रथमैकवचनान्तं रूपम् स सः इति, क्रमयौगपद्यादिविचित्ररूपो [स सक्रमयौगपद्य - K. ष्. ष्.] यः पदार्थानां वक्ष्यमाणेश्वरस्वातन्त्र्यरूपदेशकालशक्त्युपकल्पितः क्रमः देशकालपरिपाटी, तेन रूषिता प्रतिबिम्बकल्पतया उपरक्ता, या प्रतिभा उक्ता केवलं भिन्नसंवेद्य.............................| इत्यादिना | एषा इति च सर्वस्य स्वप्रकाशरूपा, परमार्थतश्च अन्तर्मुखत्वेन प्रकाशमात्रपरमार्थतया भेदाभावात् अक्रमा, सैव महेश्वरः, अनयोर्व्याख्यां करोति क्रम इति, आदिशब्देन दूरादूरादिग्रहणम् | वक्ष्यमाणे - क्रियाधिकारे कथयिष्यमाणे, ईश्वरस्वातन्त्र्यरूपे - परमेश्वरसंबन्धिमूर्तिवैचित्र्यक्रियावैचित्र्यग्रहणाख्यस्वतन्त्र- भावस्वरूपे ये देशकालशक्ती ताभ्याम् उपकल्पितः - स्वावच्छिन्नतावभासनेन संपादितः | क्रम इति पदं व्याचष्टे देश इति | देशकालपरिपाटी - एतद्देशस्थोयम् एतत्कालगतश्च इत्यादिरूपः सन्निवेशः, तेन - देशकालपरिपाटीरूपेण क्रमेण | रूषिता इति पदं व्याचष्टे प्रतिबिंब इति | प्रतिबिंबकल्पतया - प्रतिबिंबसदृशत्वेन, उपरक्ता - स्फटिकादीव नीलादिना उपरागविषयतां नीता, या प्रतिभा, उक्ता इत्यस्य पदस्य शेषत्वेन अध्याहारः | केनोक्ता इत्यपेक्षायामाह केवलम् इति, अनेन श्लोकेन इत्यर्थः | एषा इति व्याचष्टे सर्वस्य इति | सर्वस्य - समस्तचेतनवर्गस्य, स्वप्रकाशरूपा, स्वप्रकाशत्वेन स्वसंवेदनसिद्धेत्यर्थः | अक्रम इति पदं व्याचष्टे परमार्थतश्च इति | आपाततः देशकालोपरागेण सक्रमत्वेऽपि परमार्थतः - सत्यदृष्ट्या, च शब्दः तु शब्दार्थे, परमार्थतस्तु, अन्तर्मुखत्वेन - अहंजानामि इति प्रमातृलग्नत्वेन, स्फुरणात्, तद्वत् अहम् इति ग्रहणयोग्यत्वेन प्रकाशमात्रपरमार्थतया - शुद्धप्रकाशसारत्वेन, भेदाभावात् - देशकालावच्छिन्नताकृतभेदासंभवात्, अक्रमा - देशकालपरिपाट्या अस्पृष्टा, न हि नीलादिभिरुपरक्तमपि निर्मलं स्फटिकादि तत्स्पर्शभाग् अविद्यमानोऽन्तः परिच्छेदो देशतः कालतः स्वरूपतश्च यस्याः चितः संविदः तदेव रूपं यस्य इति, अत एव बहिर्मुखप्रकाशात्मकविज्ञानस्वभावस्य प्रमाणवर्गस्य योऽन्तः प्रत्याभासम् इदम् इदम् इति अनन्त - [इति अनन्तविकल्पमयः - K. ष्. ष्.] भवति इति का कथा अतिनिर्मलायाः प्रतिभायाः देशकालकृतस्पर्शे इति भावः | अथ अनन्तचिद्रूपः इत्यादि श्लोकखण्डं व्याचष्टे सैव इति | सर्वनाम्नां परामर्शनीयपरामर्शकलिङ्गसहत्वेन सूत्रे पुल्लिंगतया निर्दिष्टस्यापि तच्छब्दस्य इह स्त्रीलिंगेन निर्देशो न अयुक्तः, सैव - प्रोक्तस्वरूपा प्रतिभैव, महेश्वरः, एवकारो मूढशङ्कितस्य बाह्यस्य देवविशेषस्य महेश्वरत्वव्यावर्तनपरः | कीदृशः महेश्वरः इत्यपेक्षायां महेश्वरविशेषणानि सूत्रोक्तानि योजयति अविद्यमानः इति | अनन्तः इत्यादिसमस्तपदं व्याचष्टे विगृह्णाति च अविद्यमानः इति | अन्त [अनन्तपदं व्याचष्टे - C.] पदं व्याचष्टे परिच्छेदः इति, तदेव - सा चिदेव, इति शब्देन विगृहीतपदस्य पुनः समस्तत्वेन आक्षेपः | अस्य समस्तस्य पदस्य प्रमाता इति पदं प्रति हेतुत्वं द्योतयितुमाह अत एव इति, यतः अनन्तरूपः ततः कारणादित्यर्थः | प्रमाता इति विशेषणं व्याचष्टे बहिर्मुख इति | बहिर्मुखम् - अयं घटः इति इदन्तया ग्राहकम्, प्रकाशात्मकम् - भासकत्वेन परप्रकाशं बिन्दुरूपं यत् विज्ञानं तदेव स्वभावः - स्वरूपं यस्य तादृशस्य, प्रमाणवर्गस्य यः अन्तः - सारभूतः, प्रत्याभासम् - समस्तेषु अनन्तेषु पदार्थरूपेषु आभासेषु, इदम् इदम् इति - अनेन प्रकारेण, अनन्तकल्पः - परमार्थतः शान्तत्वेऽपि मितप्रमातॄन् प्रति अनन्त इव भासमानः, विकल्पमयः - प्रतियोगिव्यवच्छेदलब्धसत्ताकत्वेन विकल्परूपः, विमर्शात्मा - संस्कारजस्मृतिविषयशब्दनरूपः, प्रमासमूहः - फलभूतः प्रमावर्गः, तत्र - तस्मिन् प्रमासमूहे, यत् संयोजनवियोजनविश्रमणादि - एकविषयतया स्थापनम्, भिन्नविषयीकरणम्, अहम् इति परामर्शेन स्वभित्तौ आरोहणम्, आदिशब्देन अपोहनग्रहणम्, कल्पः विकल्पमयो विमर्शात्मा प्रमासमूहः, तत्र संयोजनवियोजनविश्रमणादिरूपानेकप्रकारस्वातन्त्र्यपरिपूर्णः [विश्रमणाद्यनेक - K. ष्. ष्.] शुद्धाहंप्रत्यवमर्शमयः [शुद्धः अहंप्रत्यवमर्शमयः - K. ष्. ष्.] प्रमाता स भण्यते, अतश्च बहिर्घटप्रकाशः अयं घटः इति अन्तर्विकल्पः स्वीकृत - ग्रहणम्, तद्रूपञ्च तत् अनेकप्रकारं स्वातन्त्र्यं तेन पूर्णः, तथापि शुद्धः - विकल्पामिश्रः यः अहम् प्रत्यवमर्शः तस्य विकारः, तत्स्वरूपः इति यावत्, प्रमाता | व्याख्यातस्य प्रमातुः सः इति पुनः परामर्शः, भण्यते - कथ्यते, भण्यते इति शेषत्वेन अध्याहृतम्, एतेन प्रमातृ शब्दसय कर्तृतृजन्तता सूचिता | अत्रैवं योजना, आचार्येण कर्त्रा यैषा प्रतिभा पूर्वम् उक्ता, स महेश्वरः प्रमाता - महेश्वररूपः प्रमाता, परमात्मेति यावत्, भण्यते इति विशेषेण योजना तु स्फुटैवति नायस्तम्, तदुक्तम् :- शब्दस्पर्शादयो वेद्याः वैचित्र्याज्जागरे पृथक् | ततो विविक्ता तत्संविदेकरूपा न भिद्यते || इत्यारभ्य अयमात्मा परानन्दः परप्रेमास्पदं यतः | इत्यन्तम्, तथा :- एवं स चित् परानन्द आत्मायुश्च तथाविधम् | परं ब्रम्ह तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते || इति | परन्तु वेदान्तेषु निष्कृष्टस्य संवित्तत्त्वस्य परमेश्वरत्वम् इह तु रूषितस्यापि इत्यास्ताम् | एतेन फलितं सिद्धान्तं कथयति अतश्च इति, यत एतत् श्लोकोक्तं वस्तु भवति ततः कारणात्, इतीयत् - इत्येतन्मात्रम् यत् प्रकाशस्य - शुद्धप्रकाशस्य पूर्ण स्वरूपं भवति, एतावन्मात्रस्यैव परप्रकाशरूपप्रमातृत्वसाधनात् इति भावः | पूर्वरूपः अहम् इति तदुभयविश्रान्तिस्थानम्, इतीयत् [इति - इयत् - K. ष्. ष्.] पूर्णं प्रकाशस्य स्वरूपम् || १ || अत्रैव उपपत्तिं प्रदर्शयितुमन्वयं तावदाह :- तत्तद्विभिन्नसंवित्तिमुखैरेकप्रमातरि | प्रतितिष्ठत्सु भावेषु ज्ञातेयमुपपद्यते || २ || इतीयत् किम् ? बहिः - बाह्यदेशे अयं घटः इति, घटप्रकाशः - घटदर्शनम् | तथा अन्तः - हृद्देशे, स्वीकृतपूर्वरूपः - गृहीतप्राक्कालीनघटस्वरूपः, विकल्पः, तथा अहम् इति, तदुभयस्य - घटप्रकाशघटविकल्परूपयुगलकस्य, विश्रान्तिस्थानम् - लयस्थानम् | एतेन घटमहं पश्यामि इति लौकिकव्यवहारस्यैव पूर्णप्रकाशभासकत्वं द्योतितम् | एतच्च देहादिप्रमातृभावान्निर्गतानां प्राप्तपरप्रकाशगन्धानां देहस्थितिं यावत् अवश्याश्रयणीयशुद्धव्यवहारकाले परप्रकाशस्पर्शसमर्थानां [परप्रकाशस्पर्शासमर्थानाम् - C.] प्रबुद्धानां वर्ग प्रत्येवोक्तम्, अप्रबुधानां देहादिप्रमातृभावनिश्चितानां सर्वदा तन्मयानां सुप्रबुद्धानां च अत्र अनधिकारात् | देहादिप्रमातृभावान्निर्गमे च स्वमन एव साक्षितया ग्राह्यम्, अन्यथा स्ववंचकत्वापत्तेः इत्यलम् || १ || अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति अत्रैव इति | अत्र टीका :- अत्रैव - प्रतिभायाः प्रमातृत्वे एव, उपपत्तिं - युक्तिम्, अन्वयम् - योजनामात्रम्, तावत् इति, तदनन्तरं स्फुटतया उपपत्तिं कथयिष्याम इति भावः | एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तत्तत् इति | संविन्निष्ठा हि विषयव्यवस्थितयः इति यत् उच्यते तत् न भिन्नरूप - प्रमात्मकसंविन्मात्रविश्रान्त्या सिद्ध्यति अपि तु तास्ता विभिन्नाः संविदो निश्चयरूपाः प्रमात्मानो याः तानि एव मुखानि द्वाराणि उपाया मार्गाः तैः मुखैः नदीस्रोतः स्थानीयैः यदि अमी भावा नीलसुखादय उह्यमाना एकस्मिन् अहम् इति प्रमातृरूपे महासंवित्समुद्रे प्रतितिष्ठन्ति आभिमुख्येन अत्र टीका :- श्लोकं व्याख्यातुं प्रक्रियां करोति संवित् इति | संविन्निष्ठाः - संविद्भित्तित्वेन स्थिताः, विषयव्यवस्थितयः - नीलसुखादिभावमर्यादाः, भिन्नरूपम् - प्रतिक्षणं भिन्नरूपम्, तथा प्रमात्मकम् - प्रोक्तप्रमास्वरूपम् यत् संविन्मात्रम् बौद्धैरात्मत्वेन मतं विज्ञानम्, तत्र विश्रान्त्या - विश्रमणेन, न सिध्यति, नीलग्रहणकाले हि पीतग्रहणं न सिध्यति, तद्ग्रहणकाले च तस्य, प्रमाता चोभयत्र भिन्न एवेति कस्तयोः स्वरूपं भेदेन व्यवस्थापयेत् उभयग्राहकस्यैकस्थ प्रमातुरेव तद्योगात् इति भावः | पुनः कथं सिध्यतीत्यपेक्षायां पक्षान्तरं कथयति तत्तत् इति समस्तपदस्य योजनां च करोति अपि तु इति | एतत्पदं व्याचष्टे विगृह्णाति च तास्ताः इति | संवित् शब्दं व्याचष्टे निश्चय इति निश्चयरूपाः नीलसुखादिनिश्चयरूपाः, तानि एव - संविद एव, मुख पदं व्याचष्टे द्वार इति | अस्यैव पुनः पर्यायद्वयमाह उपायाः मार्गाः इति, तृतीयाविभक्तेर्योजनां करोति तैः इति | नदीस्रोतः स्थानीयैः - नदीस्रोतःसदृशैः तैर्हि उह्यमानं तृणादि समुद्रान्तः प्रविशति इति आर्थोपमानत्वेन गृहीतानि सूत्रेऽनुक्तान्यपि | भाव पदं व्याचष्टे नील इति | उह्यमानाः - जले तृणादिवत् विवशतः भ्राम्यन्तः, स्थितस्य प्रतितिष्ठत्त्वमयुक्तं ज्ञात्वा उह्यमानाः इति अध्याहृतम् | एक इत्यादि पदं व्याचष्टे विगृह्णाति च एकस्मिन् इति | उह्यमानानां स्रोतोद्वारेण समुद्रप्रवेशयोग्यत्वं ज्ञात्वा समुद्रग्रहणम्, महासंवित्समुद्रे - महाप्रकाशरूपे समुद्रे, प्रतितिष्ठत्सु मुख्येन विश्रान्तिं भजन्ते, तत एषु परस्परं समन्वयरूपं यत् ज्ञातेयं तत् उपपत्त्या घटते, ज्ञातीनां भावः तच्छब्दप्रवृत्तिनिमित्तं परस्परं जानीयुः इति, कर्म च अन्योन्ययोगक्षेमोद्वहनात्मकं ज्ञातेयम्, तच्च समन्वयाभि - प्रायेण इह दर्शितम्, न जडानां स्वतः समन्वयः कदाचिदपि इति प्रतिपादयितुम् || २ || इति पदं व्याचष्टे प्रति इति | प्रति इत्यवयवं व्याचष्टे आभिमुख्येन इति, तिष्ठत् इति शत्रन्तां धातुप्रकृतिं व्याचष्टे विश्रान्तिं भजन्ते इति, लडादेशत्वसामान्यमाश्रित्यैवं विग्रहः, अहं घटं पश्यामि इत्यत्र हि घटः दर्शनाख्यसंविद्द्वारेण अहंवाच्ये परप्रमातरि एव स्फुटं विश्रान्तिं भजति, ततः परम् अहम् स्वरूपे एव ब्रुडितत्वात् | यत्तु कालान्तरे तस्य पुनर्दर्शनं तत् पुनर्विच्छिन्नस्य तस्य पुनस्तत्र विश्रमणमेवेति न विरोधः | प्रतितिष्ठतिरूपेण भावेन ज्ञातेयोपपत्तिरूपभावलक्षणं सप्तम्यर्थीभूतं कथयति ततः इति | ततः - तद्भावाद्धेतोः एषु - भावेषु, यज्ज्ञातेयम् - सम्बन्धः, तत् उपपद्यते इत्यस्य व्याख्यां करोति उपपत्त्या इति | घटते, युज्यते इत्यर्थः | ज्ञातेयम् इति भावकर्मणि व्युत्पादयितुमाह ज्ञातोनाम् इति | तद्धितप्रत्ययवाच्यस्य भावस्यार्थमाह तच्छब्द इति, तच्छब्द प्रवृत्तिनिमित्तम् - ज्ञातिशब्दप्रवृत्तिनिमित्तम्, येन धर्मेण ज्ञातिशब्दः प्रयुज्यते स एवात्र भाव इत्यर्थः | किं तत्प्रवृत्तिनिमित्तमित्यपेक्षायां तदेवानुकृत्य आह परस्परम् इति | परस्परं प्रति ज्ञानमेव ज्ञाति शब्दप्रवृत्तिनिमित्तम् इति भावः | भावार्थमुक्त्वा कर्मार्थमाह कर्म च इति | बान्धवा हि न केवलं परस्परं जानन्त्यव किन्तु उपकारपरा अपि भवन्ति इति भावः | नन्विह किमस्तीत्यत आह तच्च इति | तच्च - ज्ञातेयञ्च, इह - अस्मिन् श्लोके, दर्शितम् इति, लक्षणयेति भावः | न हि भावानामचेतनत्वेन मुख्यार्थद्वयसंभवः इति परमार्थः | कुतो न मुख्यमेवार्थं स्वीकरिष्याम इत्यत आह न इति | इति प्रतिपादयितुम्, एतत्सूचयितुम् इत्यर्थः || २ || तथा च व्यतिरेकमुखेन एतदेवाह :- देशकालक्रमजुषामर्थानां स्वसमापिनाम् | सकृदाभाससाध्योऽसावन्यथा कः समन्वयः || ३ || अर्थानां जडानाम्, तज्ज्ञानानां तद्विकल्पानां तन्निश्चयानां च देशक्रमं कालक्रमं चात्यजताम्, स्वसमापिनाम् - स्वरूपमात्रप्रतिष्ठानाम्, कः समन्वयः, न कश्चित् इत्यर्थः, यतो हि असौ समन्वयः सकृदाभासेन देशकालाकारमिश्रीकरणात्मना योजनाभासेन साधयितुं शक्यः नान्यथा, न हि पृथक् पृथक् परिक्षीणेषु स्रोतः सु तदुह्यमानाः तृणोलपादयः समन्वयं कंचित् यान्ति इति | अनेकत्वेन देशकालादिभेद [देशादिभेदः - K. ष्. ष्.] इत्याशयेन सकृच्छब्दः तन्निषेधतात्पर्येण प्रयुक्तः || ३ || अथ तृतीयस्य श्लोकस्यावतरणिकां करोति तथा च इति | स्पष्टम् | एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | देश इति | अत्र टीका :- अर्थानाम् इति व्याचष्टे जडानाम् इति | जडानाम् - नीलसुखादिरूपाणाम्, तज्ज्ञानानाम् - नीलसुखाद्यनुभवानाम्, विकल्प पदेन स्मृत्यादीनामपि ग्रहण, अर्थत्वञ्चैषां परप्रकाशं प्रति वेद्यत्वकृतमेव ज्ञेयम् | स्वसमापिनाम् इति व्याचष्टे स्वरूप इति | कुतो न इत्यपेक्षायामाह यतो हि इति | सकृदाभास इति पदं व्याचष्टे विगृह्णाति च देश इति | योजनाभासेन, परमार्थतः भेदस्य तथैव स्थितत्वादिति भावः, साधयितुं शक्यः इति, देशकालाकारैः भिन्नतया स्थितानाम् नीलादीनां केनापि समान्येन योजनं हि संबन्ध इति भावः | अन्यथा इत्यस्य विस्तारं करोति न हि इति | समन्वयम् - परस्परमेलनम् | तत्र कोऽसौ समन्वय इत्याशङ्क्य बहुतरव्यापकं कार्यकारणभाषं तावत् दर्शयति :- प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम् | कार्यकारणतासिद्धिहेतुतैकप्रमातृजा || ४ || इह अग्नौ प्रत्यक्षे धूमं नोपलभते, ततो धूमं प्रत्यक्षेण पश्यति, अग्निं तु यदि न उअपलभते धूमपि न उपलभते - इति प्रत्यक्षाभ्याम् अनुपलम्भैश्च इति पञ्चकात् कार्यकारणभावो धूमाग्न्योः सिद्ध्यति इति यदुक्तं तत् कथम् ? अग्निप्रत्यक्षेण हि धूमे [धूमेन किंचिद् उद्व्यूढम् - K. ष्. ष्.] न किंचित् उद्व्यूढम् अग्नि - इति शब्दः अन्यथाशब्दप्रपञ्चसमाप्तौ, सकृत शब्दस्य भावमाह अनेकत्वेन इति | अनेकत्वेन - आभासानेकतया, देशकालादि - भेदः भवति, इत्याशयेन - अभिप्रायेण, तन्निषेधतात्पर्येण - देशकालादिभेदनिषेधतात्पर्येण, सकृत् शब्दः प्रयुक्तः, सूत्रे इति भावः || ३ || अथ चतुर्थश्लोकस्यावतरणिकां करोति तत्र इति | स्पष्टम् | एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | प्रत्यक्ष इति | अत्र टीका :- इह - अस्मिन् व्यवहारविषये जगति | नोपलभते इति, आर्द्रेन्धनसंयोगा - भावात्, ततः - अग्निप्रत्यक्षानन्तरमार्द्रेन्धनप्रक्षेपात्, इति पंचकात् - एवंरूपात् पंचकाद्धेतोः | अन्वयव्यतिरेकाभ्यां व्याप्तेरिति यावत् | तत्र अन्वये अग्निप्रत्यक्षम्, धूमानुपलम्भः, धूमप्रत्यक्षम्, इति त्रयम्, व्यतिरेके अग्न्यनुपलंभः, धूमानुपलंभ इति द्वयम्, यदुक्तम्, तार्किकादिभिरिति भावः, तत् कथम्, तन्न सिध्यति इत्यर्थः, कुतो न सिध्यति इत्यत आह अग्नि इति, न किंचित् उद्व्यूढम् - लेशतोपि सिद्धिर्न दत्ता, कुतो न उद्व्यूढम् इत्याशङ्क्य सिद्धिहेतुता इत्यादि पदं व्याचष्टे अग्निलक्षणे इति | अग्निलक्षणे - अग्निस्वरूपमात्रे, लक्षणे धूमात् भिन्ने अंशे तस्य अवगमहेतुत्वात्, स्वस्वभावरूपे भिन्ने अंशे विश्रान्तत्वाच्च, परविषयानवगाहनात् ज्ञानान्तरस्वरूपानावेशाच्च इति | पातिः ज्ञापनवाची पतिश्च विश्रान्तिवाची प्रयुक्तस्तन्त्रेण | एवं धूमानुपलम्भादौ चतुष्टये वाच्यम् | ततश्च अग्निः धूमाभावः धूमः, अग्न्यभावः धूमाभावः इति एतानि अंशे - समस्तकार्यकारणभावविषयभागभूते, तस्य - अग्निप्रत्यक्षस्य, अवगमहेतुत्वात् - ज्ञानकारणत्वात् | अस्यैव पदस्य द्वितीयमर्थमाह स्व इति | विश्रान्तत्वात्, पातित्वादित्यर्थः | कुत एतदित्यपेक्षायाम् अत्र हेतुद्वये क्रमेण हेतुद्वयमाह पर इति | परविषयानवगाहनात् - धूमज्ञानविषयधूमानवगाहनात्, तथा ज्ञानान्तरस्य - धूमज्ञानस्य यत्स्वरूपं तत्र अनावेशात् - आवेशा - संभवात् | च शब्दोऽत्र क्रमद्योतकः न समुच्चयपरः | इति शब्दः तत्तत् इति समस्तपदविग्रहव्याख्यासमाप्तौ | ननु पातिनाम् इत्यस्यावयवस्य कथं ज्ञापकत्वविश्रान्तत्वरूपमर्थद्वयं संभवतीत्यत आह पातिः इति | पातिः - णिजन्तः पतॢ गतौ इति धातुः | ज्ञापनवाची, गत्यर्थानां ज्ञानवाचकत्वेन तत्र च णिच्प्रयोगे ज्ञापनवाचकत्वात्, पतिः - केवलोयं धातुः, विश्रान्तिवाची, श्रान्तो हि यदा विश्राम्यति तदा पतत्येव, तन्त्रेण - प्रोक्तरूपेण, प्रयुक्तः, कर्तरि णिन्प्रत्ययान्तत्वेन प्रयोगविषयीकृत इत्यर्थः | इममेव न्यायमन्यत्र चतुष्टयेऽप्यतिदिशति एवम् इति, समानन्यायत्वादिति शेषः | अत एव सूत्रे ततत् इति वीप्सा भावः | द्वितीयार्धं व्याख्यातुं प्रक्रियां करोति ततश्च इति | ततश्च - यतः एवं ततः कारणाच्च, यथा अग्निः, धूमाभावः, धूमः, अग्न्यभावः, धूमाभाः, वस्तूनि यथा पृथक्प्रमातृसंवेद्यानि धूमाग्न्योः कार्यकारणतां न गमयन्ति तथा एकप्रमातृवेद्यान्यपि, विकल्पोऽपि अनुभवातिरिक्तं ज्ञापयन् न प्रमाणमेव | यदा तु प्रत्यक्षानुपलम्भस्रोतःपञ्चकेन तानि पञ्च वस्तूनि एकसंवित्समुद्रविश्रान्तानि कृतानि तदा एकीभूतानि प्रमात्रा स्वतन्त्रतया अन्योन्यसापेक्षाणि न तु घटपटादिवत् भास्यन्ते, स एक [स एव एकः आभासः - K. ष्. ष्.] आभासः कार्यकारणभावावभास इति न किञ्चित् अवद्यम् || ४ || इत्येतानि वस्तूनि - प्रत्यक्षद्वयानुपलंभत्रयविषयीभूतं वस्तुपंचकम्, पृथग् यः प्रमाता तस्य वेद्यानि - वेद्यतां गतानि सन्ति, धूमाग्न्योः कार्यकारणतां न गमयन्ति, न हि परेण गृहीतमग्निं परो धूमकारणतया गृह्णाति सोऽपि वा धूममग्निकार्यतया इति भावः | एकप्रमातर्यपि वेद्यान्येव न तु विश्रान्तान्यपि न तां गमयन्ति इत्याह तथा इति | ननु विकल्पेनैव भिन्नप्रमातृवेद्येषु अग्न्यादिषु कार्यकारणताग्रहणमस्तु, न हि विकल्पस्य कुत्राप्य - शक्तिः असंभवोपहतेऽपि वस्तुनि प्रवृत्तेः इत्यत आह विकल्पोऽपि इति | अत्र उपयोगित्वेन बौद्धमतस्याश्रयणम् | ननु तर्हि प्रत्यक्षदृष्टा कार्यकारणता कथं सिध्यति इत्यत आह यदा तु इति | यदा तु प्रत्यक्षानुपलंभस्रोतः - पंचकेन - नदीप्रवाहस्थानीयेन प्रत्यक्षादिपंचकेन, तानि पंच वस्तूनि भावादिवत् एकसंवित्समुद्रविश्रान्तानि कृतानि तदा एकीभूतानि सन्ति, चलितानि सन्तीति यावत्, प्रमात्रा - सर्वाधारभूतेन ग्राहकेण, स्वतन्त्रतया - स्वस्मिन् स्थितया अप्रतिहतया स्वातन्त्र्यशक्त्या, परस्परं युक्तत्वेन अन्योन्यसापेक्षाणि भास्यन्ते, न तु घटपटादिवत् निरपेक्षत्वेन भास्यन्ते, स एक आभासः - द्वयोर्मेलनरूप आभासः, कार्यकारणभावावभासः - कार्यकारणतारूपः आभासः भवति, इति - एवम्, न किंचिदवद्यम्, किंचिद्दोषोपहतं न भवतीत्यर्थः || ४ || ननु प्रत्यक्षानुपलम्भैः यत् कृतं तत् स्मरणबलात् एकीकरिष्यते [एकीकरिष्यति - K. ष्. ष्.] उक्तं तावद् अत्र - स्मृतिरपि अनुभूतातिरिक्तेऽर्थे न व्याप्रियते | सापि च विज्ञानसमन्वयरूपा एकप्रमातृसद्भावं विना कथं स्यादिति दर्शयति :- स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे | पूर्वानुभवसद्भावे साधनं सैव नापरम् || ५ || इह अनुभूतो विषयः प्रकाशते स्मृतौ, तत्र विषयस्यासौ [सा स्मृतिः - K. ष्. ष्.] स्मृतिः न नूतनः प्रकाशः अपि तु अस्य स प्रकाशः प्राच्योऽनुभव [स प्राच्य एवानुभवप्रकाशः - K. ष्. ष्.] एव, स चानुभवो अथ पंचमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- यत् कृतम् - अग्न्यादिपंचकस्य यः उपलंभः कृतः, एकीकरिष्यते, प्रमात्रा इति शेषः | गुरुः अत्रोत्तरमाह उक्तम् इति, अत्र - अस्मिन् विषये, पूर्वमिति शेषः, अनुभूतातिरिक्ते - पूर्वानुभूतव्यतिरिक्ते, सापि - स्मृतिरपि, विज्ञानयोः - स्मृतिकालीनानुभवकालीनयोः ज्ञानयोः, यः समन्वयः - योजनम्, एकविषयीकरणम् इति यावत्, सः रूपं यस्याः तादृशी | इति दर्शयति, एतदेव दर्शयतीत्यर्थः | एवं अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | स्मृतौ इति | अत्र टीका :- अनुभूतः - पूर्वानुभूतः, विषयः - घटादिः, तत्र इति, तत्र सतीत्यर्थः, असौ स्मृतिः विषयस्य नूतनः प्रकाशो न भवति, अपि तु अस्य - विषयस्य स प्रकाशः - स्मृतिरूपः प्रकाशः, प्राच्योऽनुभव एव भवति, एकविषयत्वात्, ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात् न ज्ञानान्तरसंवेद्यः अपि तु स्वप्रकाशः, स च स्मृतिकाले यदि असन् तत् कथं प्रकाशताम्, भवतु वा असौ तथापि स्मृतिप्रकाशोऽनुभवप्रकाश इति अन्योन्यभिन्नं युगलम् इति न कदाचित् स्मृतिः स्यात्, तस्मात् एतत् एवमुपपद्यते, यदेव स्मृति - स्वसंवेदनम्, तदेव अनुभवस्य स्वसंवेदनम्, न तु अपरं स्वसंवेदनव्यतिरिक्तं प्रत्यक्षम् अनुमानादिकं वा तत्र क्रमते, ततश्च तावत्कालव्यापि अविच्छिन्नमेकं यत् स्वसंवेदनं तदेव प्रमातृतत्त्वम् इति सिद्धम् | अन्यत्र अनुभवितरि स चानुभवः - स्मृतिरूपतां गतः प्राच्योऽनुभवः, ज्ञानरूपत्वेन ज्ञेयरूपत्वाभावात् ज्ञानान्तरसंवेद्यो न भवति, दृक् स्वाभासा इत्युक्तन्यायेनेति भावः, अपि तु स्वप्रकाशः - स्वेन स्वं प्रति भासनशीलः भवति, स च - अनुभवः, स्मृतिकाले यदि असन् भवति, तत् - तदा, कथं प्रकाशताम्, न हि शशशृङ्गस्य प्रकाशो दृष्ट इति भावः | भवतु वा असौ, सन् वा भवत्वित्यर्थः, तथापि - नूतनप्रकाशत्वेऽपि सति, स्मृतिरूपः प्रकाशः स्मृतिप्रकाशः, अनुभवरूपः प्रकाशः अनुभवप्रकाशः, अन्योन्यभिन्नम् - परस्परनिरपेक्षम् | न स्यात् इति, योजकाभावादिति भावः | फलितमाह तस्मात् इति | ततः एवम् - अनेन प्रकारेण, एतत् - स्मृतिसंभवः | एवं कथम् इत्यपेक्षायाम् सूत्रं व्याचष्टे एतदुत्तरत्वेन यदेव इति | स्मृतौ स्वसवित्तिः इति पदद्वयं व्याचष्टे स्मृति इति | स्मृतौ स्वसंवेदनम् - स्वरूपभूतं स्ववेदनम् स्मृतिस्यसंवेदनम्, एवशब्दव्यावर्त्यमाह न तु इति, स्वसंवेदनव्यतिरिक्तम् - स्वरूपभूतसंवेदनव्यतिरिक्तम्, तत्र - तस्यां स्मृतौ, क्रमते - प्रगल्भते | तावन्तं कालम् - स्मृत्यवधिं कालम् व्याप्नोतीति तावत्कालव्यापि, स्वसंवेदनम् स्मृत्यनुभवयोः संवेदनम्, भावदायिसंवेदनमिति [सावदायिसंवेदनम् - C.] यावत् | ननु पूर्वं स्मृत्या प्रमातृसाधनं कृतमेव इति किमयं पिष्टपेषणसहोदरः पुनः प्रयत्न आरब्ध इत्यत आह अन्यत्र इति | अनुभवितरि, स्मर्ता अन्यो न उपपद्यते, इत्यनया छायया स्मृत्या प्रमातृसिद्धिः पूर्वमुक्ता, इदानीं तु स्वसंवेदनैकीभावेन भङ्ग्यन्तरेण इति विशेषः || ५ || नन्वनुभवातिरिक्तेऽपि अर्थे सन्तु विकल्पाः प्रमाणम्, अप्रामाण्यं हि बाधबलात् भवति, बाधाभावे तत् कथं स्याद् इत्याशङ्क्य सोऽपि अयं बाध्यबाधकभावः सत्यासत्यप्रविभाजनया [सत्यासत्यप्रविभाजनाय - K. ष्. ष्.] विश्वेषां व्यवहाराणां जीवितभूतो न एकेन प्रमातृतत्त्वेन विना घटत इति वितत्य दर्शयति :- बाध्याबाधकभावोऽपि स्वात्मनिष्ठाविरोधिनाम् | ज्ञानानामुदियादेकप्रमातृपरिनिष्ठितेः || ६ || अन्यस्मिन् सति अन्यः स्मर्तान उपपद्यते - उपपत्त्या न घटते, न हि अन्यदृष्टे अन्यस्य स्मृतिर्दृष्टेति भावः | इत्यनया छायया - रचनया पूर्वं स्मृत्या - करणभूतया, प्रमातृसिद्धिरुक्ता - कथिता, इदानीन्तु - अस्मिन् श्लोके तु, स्वसंवेदनैकीभावेन भङ्ग्यन्तरेण - सारभूतस्वसंवेदनैकत्वेन रचनान्तरेण, स्मृत्या प्रमातृ - सिद्धिरुक्ता, इति - एवम्, विशेषः भवति, तथा च न पौनरुक्त्याशङ्का इति भावः | एवमत्र सङ्क्षेपः, स्मृतौ यैव स्वसंवित्तिः - सारभूतं स्वसंवेदनम्, स्वात्मसंभवे - स्मृत्याख्यनिजस्वरूपस्य प्रकाशने भरणे च प्रमाणं भवति, सैव स्वसंवित्तिः पूर्वानुभवस्य सद्भावे पूर्वानुभवस्य प्रकाशने भरणे च साधनम् प्रमाणम् आसीत्, अपरम् - अन्यत् प्रत्यक्षादिकं नासीत् तस्य तत्राशक्तत्वात्, तथा च स्वसंवेदनाख्यैकप्रमातृ - सिद्धिरिति भावः || ५ || अथ षष्ठस्य श्लोकस्यावतरणिकां करोति नन्वनुभव इति | अत्र टीका :- सत्यासत्ययोः या प्रविभाजना - विभागविषयीकरणं तया | एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | बाध्यबाधक इति | बाधाभावे प्रामाण्यम् इत्येतदर्थम् अवश्यसमर्थ्यो यो बाधव्यवहारः सोऽपि कथम् इति अपि शब्दस्यार्थः | इह शुक्त्या तावत् रजतस्य न काचित् बाधा नाम क्रियमाणा दृश्यते, शुक्तिज्ञानेन रजतज्ञानं बाध्यते इत्यपि न युक्तम्, स्वस्मिन् विषये आत्मनि च स्वरूपे द्वयोः ज्ञानयोः परिनिष्ठितयोः विश्रान्तयोः अन्योन्यं विरोधस्य अभावात् | अथ [अथ अयमेव विरोधः परस्परपरिहाररूपः - K. ष्. ष्.] अयं परस्परपरिहार एव विरोधः तर्हि सर्वेषां ज्ञानानां विरोधात् बाध्यबाधक - अत्र टीका :- प्रथमम् अपि शब्दस्यार्थमाह बाधाभावे इति | एतदर्थम् - ज्ञानप्रामाण्यार्थम्, अवश्यसमर्थ्यः - अवश्यं साधनीयः, सोपि कथम्, एकप्रमातृ - परिनिष्ठितिं विना स्यादित्यर्थः | अर्थः, समुच्चयरूप इत्यर्थः | एवम् अपि शब्दार्थमुक्त्वा श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति | न दृश्यते इति, अत एव सूत्रे ज्ञानानामेव बाध्यबाधकभावो निर्दिष्ट इति भावः | इत्यपि - सूत्रे उपात्तो ज्ञानानां बाध्यबाधकभावोऽपि, न युक्तम्, न युक्तो भवतीत्यर्थः | कुत इत्यपेक्षायाम्, स्वात्मनिष्ठा इति पदं हेतुगर्भविशेषणत्वेन योजयति विग्रहपूर्वं व्याचष्टे च स्वस्मिन् इति | स्व इत्यवयवस्यार्थमाह विषये इति, स्वकीये विषये इत्यर्थः | आत्म इत्यवयवं व्याचष्टे स्वरूपे इति, आत्मशब्दस्य स्वरूपवाचकत्वात् | निष्ठा इति पदं व्याचष्टे विश्रान्तयोः इति, एतेन स्वात्मनिष्ठानि च तानि अविरोधीनि चेति विग्रहः, द्वयोरेव विरोधाभावविवक्षया बहुवचनस्यात्र तंत्रत्वं सूचितम् | अथास्यैव वाक्यस्य द्वितीयमर्थमाह अथ इति | अथ - यदि, अयं परस्परपरिहार एव - अन्योन्याभाव एव, ज्ञानानां विरोधो भवति, न हि शुक्तिकाज्ञानं रजतज्ञानं भवतीति भावः | तहि - तदा, सर्वेषा ज्ञानानां विरोधात् - अन्योन्याभावाऽव्यभिचारेण सिद्धात् विरोधात्, प्रकृतत्वात् बाध्यबाधकभावस्य, भावस्य स्वात्मनि [बाध्यबाधकभावस्य परिनिष्ठैव - K. ष्. ष्.] परिनिष्ठैव न लभ्येति सुतरां विघटेत सत्येतरप्रविभागः | न ञपि अत्र तन्त्रेण व्याख्येयः | एतदुक्तं भवति - यदि ज्ञानं स्वयं नश्यति तदा किं ज्ञानान्तरेण अस्य कृतम्, न हि तेन तत्कालेऽसंभवता तस्य विषया - स्वात्मनि परिनिष्ठा - नियतावस्थितिः, एव न लभ्या इत्यस्य शेषत्वेन अध्याहारः, लभ्या न भवति, अत्र बहुवचनं प्रधानमेव | ननु कथमत्रायमर्थो युक्त इत्यत आह न ञपि इति | अत्र - अस्मिन् विषये, तन्त्रेण - दीपवत् स्थितया युगपत् सर्वोपकारिरूपया तन्त्रवृत्त्या, व्याख्येयः, न केवलं ज्ञानानाम् इत्यन्तः श्लोकखण्ड एव तन्त्रेण व्याख्येयः अपि तु बुद्धया निष्कृष्य नञ् अपि इति अपि शब्दार्थः | तत्र पूर्वार्थे विरोधिपदसमस्ततया व्याख्येयः अविरोधिनाम् इति, द्वितीये तु अर्थे बुद्ध्या ततो निष्कृष्य न विरोधिनाम् इति व्याख्येयः | अन्यथा लभ्या इत्यध्याहृतेन सह संबन्धायोगात् | तथा चैवमत्र योजना | ज्ञानानां बाध्यबाधकभावोऽपि एकप्रमातृपरिनिष्ठितेः - एकप्रमातृविश्रान्तेरेव हेतोरुदियात् | कुत इत्यपेक्षायां स्वात्मनिष्ठाविरोधिनाम् इति हेतुगर्भं विशेषणम् | यतः एतानि ज्ञानानि स्वविषये स्वरूपमात्रे च विश्रान्तानि न तु अन्यविषये स्वरूपे च व्यभिचरण - शीलानि भवन्ति तत इत्यर्थः | न च अविरोधिनां परस्परं बाध्यबाधकभावो युक्तः, एकप्रमातृविश्रान्तत्वे तु तत्कृतस्य तस्य युक्ततैव इति बाध्यबाधकभावस्य स्वरूपलाभ इति भावः | अथ च अस्यामेवापेक्षायां यतः इति शेषः, यतः विरोधिनां परस्परं तादात्म्याभावाव्यभिचारेण स्वभावेन अविशेषेण विरोध - युक्तानां समस्तज्ञानानां संबन्धिनः, अर्थवशेन विभक्तिपरिणामः, बाध्यबाधक भावस्य स्वात्मनिष्ठा - यथास्वं बाध्यबाधकयोर्व्यवस्था इदं बाध्यम् इदं बाधकमित्येवंरूपा, लभ्या इति शेषः | लभ्या न भवति ततः स बाध्यबाधकभावः एकप्रमातृ - परिनिष्ठितः उदियात् - एकप्रमातरि प्रतितिष्ठत्त्वे सति तु तत्स्वातन्त्र्यवशेन बाध्यबाधकभावस्य स्वात्मनिष्ठा युक्तेति बाध्यबाधकभावोऽपि स्वरूपं लभते एवेति भावः | व्याख्यातस्य ज्ञानानाम् इत्यन्तस्य श्लोकखण्डस्य पहारः कर्तुं शक्यः, न रजतम् इत्यपि ज्ञाअं स्वं रजताभावं विषयीकुर्वत् न विषयम् अपहरेत् रजतज्ञानस्य | अथापि ज्ञानान्तरेण नाश्यते इत्यपि पक्षः, तत्रापि सर्वेषां ज्ञानानाम् इयमेव सरणिरिति किंचिदेव बाध्यम् इति कथं स्यात् ? यदा तु रजतज्ञानं शुक्तिज्ञानं च एकत्र स्वसंवेदने विश्राम्यतः तदा एतत् उपपद्यते, तथा हि - एकत्रापि प्रमातृतत्त्वे विश्राम्यतां ज्ञानानां अतिदुर्बोधतया पुनः सङ्क्षेपेण अर्थकथनं प्रतिजानीते एतत् इति | किमुक्तं भवतीति शिष्यप्रश्नमाशङ्क्याह यदि इति | ज्ञानम् - रजतज्ञानम्, नश्यति, एकक्षणावस्थायित्वादिति भावः, ज्ञानान्तरेण - शुक्तिकेयम् इति न रजतमिदम् [रजतमिदम् - C.] इति वा अन्येन ज्ञानेन | ननु तत्तर्ह्यस्य विषयापहारं करोति इत्यत आह न हि इति | तेन - ज्ञानान्तरेण, तत्काले - रजतज्ञानसमये | ननु शुक्तिकेयम् इति ज्ञानं शुक्तिकामात्रग्रहणमात्रनिष्ठत्वेन अस्य विषयं मा अपहरतु न रजतम् इति ज्ञानन्तु अपहरत्येव इत्यत आह न रजतम् इति | न रजतम् इति ज्ञानम् हि रजताभावविषयमेव न रजतविषयम्, तथा च कथमपहरणमिति भावः | नाशनम् अभ्युपेत्यापि कथयति अथापि इति | तत्रापि - तस्मिन्नपि पक्षे, किंचिदेव - रजतज्ञानमेव, कथं स्यात्, न हि सर्वाणि ज्ञानानि युगपत् संभवन्ति इति उत्तरज्ञानेन पूर्वं ज्ञानं नाश्यते एव इति सर्वज्ञानानां बाध्यत्वं स्यान्न केवलं शुक्तिविषयस्य रजतज्ञानस्यैवेति भावः | एवं सङ्क्षेपेण अर्थकथनं कृत्वा उदियात् इत्यादि अवशिष्टं श्लोकखण्डं व्याचष्टे यदा तु इति | स्वसंवेदने - स्वसंवित्तिरूपे प्रमातरि, एतत् - ज्ञानानां बाध्यबाधकभावः | कथमित्यपेक्षायाम् समर्थनमुपक्रमते तथा हि इति | सा - विश्रान्तिः, संवेद्यते - अनुभूयते, ज्ञाने - विशेषणे विशेष्ये च निष्ठां गतं ज्ञानद्वयम्, विश्राम्यन्ती अहं पश्यामि इति विश्रामं भजमाने, परस्परं यः उपरागाभासः - स्वविशिष्टबुद्धिजननरूपः, तेन, विश्राम्यतः - विश्रामं भजतः, अन्यथा विशेषणविशेष्यभावज्ञानासंभवादिति भावः | परस्परानाश्लेषेण - नैकप्रकारैव विश्रान्तिः अपि तु विचित्रतयैव सा संवेद्यते, तथा हि - नीलम् इति उत्पलम् इति ज्ञाने प्रमातरि विश्राम्यन्ती परस्परोपरागाभासेन विश्राम्यतः | घट इति पट इति परस्परानाश्लेषेण, शुक्तिका इति न रजतम् इति वा ज्ञानं रजतम् इति ज्ञानस्य उन्मूलनं तदीयविमर्शात्मक - प्रमारूपव्यापारानुवर्तनविध्वंसं कुर्वत् प्रमातरि प्रतिष्ठां भजते | एवं कार्यकारण भावादौ विश्रान्तिवैचित्र्यं प्रमेयासंभवि प्रमात्रा स्वातन्त्र्येण निर्मितं तत एव अस्य प्रमास्वतन्त्रतादायि वाच्यम् | एवमेकत्र प्रमातरि पूर्वज्ञानस्य परस्परानपेक्षया, न हि घटपटयोः कापि परस्परमपेक्षा दृश्यते, विश्राम्यत इत्यनेनैवात्रापि संबन्धः, कदाचिद्धि शुक्तिकायां रजतज्ञाने शुक्तिकेयम् इति बाधोत्पादः, कदाचित्तु न रजतम् इति, इति वा शब्दप्रयोगः | रजतम् इति ज्ञानस्य, शुक्तिकाविषये स्फुरितस्येति भावः उन्मूलनम् - नाशनम्, अस्यैव स्वयं व्याख्यां करोति तदीय इति | तदीया - रजतसंबन्धिनी या विमर्शात्मकप्रमा - परामर्शरूपा प्रमा, तद्रूपो यो व्यापारः तत्र यदनुवर्तनम् - पश्चाल्लगनम्, तस्य विध्वंसम् - नाशम्, कुर्वत् - प्रत्युत तद्विरुद्धशुक्तिकासंबन्धिविमर्शात्मकप्रमारूप-व्यापारानुवर्तनं कुर्वत्, प्रतिष्ठाम् - प्रोक्तरूपां विश्रान्तिम् | एनमेव न्यायं कार्यकारणभावादौ संबन्धनिवहे अतिदिशति एवम् इति | प्रमेयासंभवि - आपाततः अचेतनेषु प्रमेयेषु असंभवोपहतम् | तत एव - निर्मितेर्हेतोरेव, अस्य - प्रमातुः, स्वतन्त्रतादायि - स्वतन्त्रतोद्भावकम् | वाच्यम् - अवश्यं वक्तव्यम्, एतेन सर्वेषां संबन्धानाम् प्रमातृस्वातन्त्र्यप्राणत्वमेवोक्तम्, अन्यथा आपाततः अचेतनेषु परमार्थतः शुद्धचैतन्यरूपेषु भावेषु यथास्वं स्वगृहे स्थितेषु का संबन्धकलना | तदुक्तम् :- भावानां स्वगृहे रूपं तत्सत्यमितरन्मृषा इति | अत्र च पूर्ववाक्यस्थस्य यच्छब्दस्यापेक्षा, तथा च भावानां स्वगृहे - शुद्धप्रकाशान्तदशरूपे निजगृहे यद्रूपं भवति तत्सत्यम् - परमार्थसत् भवति, इतरत् - प्रमात्रा स्वकल्पनया कृते यद् भवति तत्, मृषा भवति, अत्र च यद्यपि प्रमातुरपि स्वगृहे एव सत्यत्वम् परिवर्जनेन यतो निश्चिता स्थितिः, इति बाध्यबाधकव्यवहार [अतः बाध्यबाधकव्यवहारः - K. ष्. ष्.] उपपन्नः, नीलादिवत् किल तानपि व्यवहारान् स एव परमेश्वरः स्वातन्त्र्यात् आभासयति तत् तेऽपि सत्या एवेति || ६ || तथापि तद् दण्डापूपिकान्यायसिद्धमेव न यत्नापेक्षम्, इत्यलम् | उपसंहारं करोति एवम् इति | पूर्वज्ञानस्य - पूर्वं भातस्य शुक्तिकायां रजतज्ञानस्य, परिवर्जनेन - प्रमातृस्वातन्त्र्यकृतेन उन्मूलनेन, निश्चिता - निश्चयविषयतां गता, स्थितिः - शुक्तिकाज्ञानस्वरूपम्, इति - अतः कारणात्, उपपन्नः, उपपत्त्या सिद्ध इत्यर्थः | ननु कथमनया इह भ्रमज्ञानं दर्श्यते इत्यत आह नीलादिवत् इति | तान् व्यवहारानपि - भ्रमज्ञानादिरूपान् व्यवहारानपि, स एव - सत्याज्ञानादिनिर्मातृत्वेनाभिमत एव | तत् - ततः कारणात्, ते अपि - भ्रमज्ञानादिरूपा व्यवहारा अपि | इति शब्दो व्याख्या - समाप्तौ | अयं भावः | सत्यासत्यतया मतं सर्वं भाववृन्दं यदि प्रकाशात्मतया दृश्यते तदा सर्वम् अविशेषेण परमार्थसदेव, यदि तु भावतया तदा सर्वमपमार्थमेवेति का भ्रमज्ञानं प्रति असत्यत्वाशङ्का इति || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति अत्र इति | अत्र परकीयं मतम् आशङ्कते दूषयिष्यामीति :- विविक्तभूतलज्ञानं घटाभावमतिर्यथा | तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् || ७ || इह शुक्तिकाज्ञानं स्वात्मानं संविदत् स्वात्माभिन्नं प्रमाणत्वं [प्रमाणम् - K. ष्. ष्.] बुध्यते, तत्परिच्छिनत्ति इति न्यायात्, तत्परिच्छेदनान्तरीयकश्च अन्यव्यवच्छेद इत्यशुक्तिज्ञानरूपस्य रजतज्ञानस्य अप्रमाणत्ववेदनं तदेव उच्यते यत् एतत् शुक्तिकासंवेदनाभिन्नप्रमाणत्ववेदनम्, न च एतत् अपूर्वं यत् अत्र टीका :- अत्र - अस्मिन् विषये, परकीयं मतम् - बौद्धमतम् | किमर्थमाशङ्कते इत्यत आह दूषयिष्यामि इति, दूषणधियेत्यर्थः | एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | विविक्त इति | अत्र टीका :- इह - अत्र लोके, शुक्तिकाज्ञानम् - पूर्वं रजतज्ञानविषयीकृतशुक्तिकाविषयं शुक्तिकेयम् इति ज्ञानम्, स्वात्मानम् - शुक्तिकाज्ञानरूपं निजं स्वरूपम्, संविदत् - स्वप्रकाशत्वेन स्वसंवेदनविषयतां नयत्, स्वात्माभिन्नम् - स्वरूपत्वेन स्थितम्, प्रमाणत्वम् - निजं प्रमाणभावम्, बुध्यते - स्वात्मवत् अनुभूयते | कुतः ? तत्परिच्छिनत्ति इति न्यायात्, बौद्धैरुच्यमानादस्मान्न्यायाद्धेतोरित्यर्थः | तत्परिच्छेदनान्तरीयकश्च - तद्रूपस्वात्मपरिच्छेदाव्यभिचारी च, अन्यव्यवच्छेदः - अतद्रूपरजतज्ञानव्यवच्छेदः भवति | तदुक्तम् :- तत्परिच्छिन्नवर्ति अन्यबुद्ध्यवच्छिन्नवर्ति इति | इति - अतः कारणात् | अशुक्तिज्ञानरूपस्य - शुक्तिज्ञानापेक्षयाऽतद्रूपस्य, अप्रमाणत्ववेदनम् - अप्रमाणत्वज्ञानम्, पण्डितैः तदेवोच्यते यदेतत् शुक्तिकासंवेदनाभिन्नप्रमाणत्वसंवेदनम् - शुक्तिकाज्ञानाभिन्नं तत्प्रमाणत्वज्ञानं वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानम् इति, शुद्धभूभागग्रहणमेव हि घटाभावग्रहणम् [घटाभावज्ञानं भवति - K. ष्. ष्.] इति प्रसिद्धमेतत् | एवम् अप्रमाणत्वसंवेदनमेव [अप्रमाणतासंवेदनम् - K. ष्. ष्.] रजतज्ञानस्य बाध्यत्वम् उच्यते, अतश्च बाध्यभाधकत्वम् एवं सिद्धम् इति चेत् अस्माभिः उच्यते - तत् किं प्रमात्रैक्येनेति || ७ || अत्र प्रसङ्गात् अभावव्यवहारस्य सिद्धौ तत्त्वमुपपादयिष्यन् दृष्टान्तमेव तावत् परदर्शने दूषयति :- नैवं शुद्धस्थलज्ञानात्सिद्ध्येत्तस्याघटात्मता | न तूपलब्धियोग्यस्याप्यत्राभावो घटात्मनः || ८ || भवति, एतदपूर्वम् - नवीनमुल्लिखितं वस्तु, यत् - यतः कारणात्, वस्त्वन्तरज्ञानमेव वस्त्वन्तराभावज्ञानं भवति, अतद्व्यवच्छेदेनैव तद्व्यवस्थासंभवात् | इति शब्दो दार्ष्टान्तिकोक्तिपर उत्तरार्धव्याख्यासमाप्तौ | समर्थकं दृष्टान्तं वक्तुं तद्वाचकं पूर्वार्धं व्याचष्टे शुद्ध इति | हि - यस्मात् शुद्धभूभागग्रहणमेव - घटरहितभभागग्रहणमेव घटाभावग्रहणं भवति, न तु अभावाख्यस्य स्वतन्त्रस्य ग्रहणं घटाभावग्रहणं भवति, इति - एवम्, एतत् प्रसिद्धं भवति, दृष्टान्तस्य सूत्रे यथातथाशब्दाभ्यां द्योतितं दार्ष्टान्तिके योजनमिह हेतुहेतुमद्भावेनैव कृतम् | ननु एतेन बाध्यबाधकभावस्य किमायातमित्यत आह एवम् इति | अप्रमाणत्वसंवेदनम् - अप्रमाणत्वज्ञानमेव | फलितमाह अतश्च इति | एवम् - अनेन प्रकारेण, सिद्धम् - सिद्धिं गतम्, इति - एवम्, चेत् - यदि, अस्माभिः - बौद्धप्रख्यैः उच्यते, चेच्छब्दापेक्षितं वस्तु सूत्रेऽनुक्तमपि शेषत्वेन व्याचष्टे तत् इति | तदा प्रमात्रैक्येन किं भवति बाध्यबाधकभावस्य तद्विनैव सिद्धत्वात् न किंचिद् भवतीत्यर्थः || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति अत्र इति | यो दृष्टान्त उक्तः स एव न, कुत इति चेत् उच्यते इह भूतलं न घटः इति तादात्म्येन अभावो व्यवहर्तव्यः कदाचित्, कदाचित् व्यतिरेकेण इह भूतले घटो न इति | तत्र शुद्धभूतलज्ञानात् आद्योऽयं व्यवहारः सिध्यति, यत्र दृश्यत्वं न उपयोगि, उपलब्धिलक्षणप्राप्तिरपि हि यस्य नास्ति पिशाचादेः स्वभावबलात्, यस्य वा शब्दादेः तद्गाहक - अत्र टीका :- प्रसङ्गात् - दृष्टान्तीकरणरूपात्, तत्त्वम् - परमार्थम्, परदर्शने - बौद्धमते एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | नैवम् इति | अत्र टीका :- नैवम् इति व्याचष्टे यः इति | उच्यते इति प्रतिज्ञां सफलीकर्तुं शुद्ध इत्यादि पूर्वार्धं व्याचष्टे इह इति | तादात्म्येन - सामानाधिकरण्येन, कदाचिद्, भूतलस्वरूपव्यवस्थाकरणार्थं तादात्म्याभावग्रहे इत्यर्थः | कदाचित् - भूतले घटाभावग्रहणकाले, व्यतिरेकेण - वैययधिकरण्येन, अभावो व्यवहर्तव्य इति पूर्वेण संबन्धः | तत्र इति, द्वयोर्व्यवहारयोर्मध्य इत्यर्थः | शुद्धभूतलज्ञानात् - घटरहितभूतलज्ञानात्, आद्यः - तादात्म्याभावरूपः, व्यवहारः - अभावव्यवहारः, यत्र - यस्मिन् आद्ये तादात्म्याभावव्यवहारे, दृश्यत्वम् - अभावप्रतियोगिनः अवश्यं द्रष्टुं योग्यत्वम्, नोपयोगि - उपयुक्तं न भवति, भूतलस्वरूपव्यवस्थायां हि तद्व्यतिरिक्तस्य सर्वस्य दृश्यस्य घटादेः स्वभावविप्रकृष्टत्वादिबलेन अदृश्यस्य वा पिशाचादेरविशेषेण तदात्मताया अभावो गृह्यते, न तु परमते संसर्गाभावे इह भूतले नास्तीत्येवंरूपे दृश्यस्य घटादेरेव न त्वदृश्यस्य [नत्वदृश्यस्य वा पिशाचादेरपि - C.] पिशाचादेरपीत्यभिप्रायः | अत्र स्वयमपि समर्थनं करोति उपलब्धि इति | हि - यस्मात् कारणात्, उपलब्धिरेव लक्षणम् - असाधारणो धर्मः तस्य प्राप्तिः - आसादनम्, सत्त्वे उपलम्भयोग्यत्वमिति यावत् | सा, स्वभावबलात् - तादृक्स्वभावतावशेन, यस्य पिशाचादेर्नास्ति श्रोत्रादिसामग्रीसाकल्यस्य तत्र एकज्ञानसंसर्गिवस्त्वन्तरप्रतिपत्त्यभावेना - निश्चयात् [प्रतिपत्त्यभावेनापि निश्चयात् - K. ष्. ष्.] तस्यापि तादात्म्येनायमभावो [अभावः व्यवहार्यः - K. ष्. ष्.] गृह्यते भूतलं न पिशाचो न न हि सन्नपि पिशाचादिरुपलभ्यते तादृक्स्वरूपत्वात्, वा - पक्षान्तरे, तद्ग्राहकम् - शब्दग्राहकं यत् श्रोत्रादिसामग्रीसाकल्यं तस्य | तत्र - तस्मिन् शुद्धभूतल - ग्रहणसमये | एकज्ञानेन - साकल्यकार्येणान्यदा सकलाभावप्रतियोगिग्राहकेण तेनैव ज्ञानेन, संसर्गि - संसृज्यमानम्, तस्य विषयीभवदिति यावत्, यद् वस्त्वन्तरम् - आन्तरप्राणस्पन्दादिजनितशब्दादिरूपं किमपि वस्तु, तस्य या प्रतिपत्तिः तस्या अभावेन - अभावात् हेतोः, अनिश्चयात् हेतोः, यस्य शब्दादेरुपलब्धिलक्षणप्राप्तिर्नास्ति, तस्मिन्समये ग्रहणोपायाभावात् यस्य वस्तुनः उपलम्भयोग्यत्वं नास्तीति यावत्, आदिशब्दद्वयेन श्रोत्रेतरेन्द्रियग्रहणं तद्ग्राह्य शब्देतरविषयग्रहणञ्च | तस्यापि - स्वभावविप्रकृष्टस्य पिशाचदेः ग्राहककारण - सामग्रीविप्रकृष्टस्य शब्दादेश्च, अपि शब्दात् उपलब्धिलक्षणप्राप्तस्य वस्तुजातस्यापि ग्रहणम्, तादात्म्येन - तदात्मतया, सामानाधिकरण्येनेति यावत्, अयमभावो गृह्यते | कुत्रेत्यपेक्षायामुदाहरणमाह भूतलम् इति, एतेन भूतलस्य पिशाचाद्यभावरूपत्वमेव सामानाधिकरण्येनोक्तम् | अयं भावः | पुरुषः वस्तु गृह्णन् तदितरसर्वव्यतिरिक्तमेव गृह्णाति, अन्यथा सङ्कीर्णतापत्तिः, तदितरसर्वव्यतिरेकेण ग्रहणमेव च फलतः तदितरसर्वाभावग्रहणम्, तदितरसर्वं च द्विविधम्, उपलब्धु योग्यमयोग्यञ्चेति | तत्र किञ्चित् स्वभावविप्रकृष्टम्, यथा पिशाचादि परमाण्वादि च, किञ्चित्तु ग्रहणोपायविप्रकृष्टं यद् गृह्यमाणवस्तु - ग्राहकसामग्र्या विषयतां न याति इति उपलब्धुमयोग्यमपि द्विविधम् | उपलब्धुं योग्यन्तु एकप्रकारमेव, तत्र द्वयोरपि स्वभावविप्रकर्षोपायविप्रकर्षयोरभावात्, अन्यथोपलभ्यत्वायोगात्, इति स्फुटमेव शुद्धस्थलज्ञानात् - केवलस्थलज्ञानात् तस्य स्थलस्याघटात्मतासिद्धिः - समस्तघटादिपदार्थाभावतासिद्धिरिति | शब्दः इति, यत्र तु दृश्यत्वं विशेषणम् अवश्यम् उपयोगि तत्र व्यतिरेकेण अभावे व्यवहर्तव्ये न एषोऽभ्युपायः || ८ || कुत इति चेत् - अतिप्रसङ्गादिति ब्रूमः | तमेव दर्शयति :- विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः | तत्कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् || ९ || एवं पूर्वार्धं व्याख्याय कदाचिद् व्यतिरेकेणेत्यस्य विस्तारं कर्तुं द्वितीयमर्धं व्याख्यातुमाह यत्र तु इति | यत्र तु - यस्मिन् द्वितीये व्यतिरेकेणाभावव्यवहारे, संसर्गाभावव्यवहारे इति यावत् | अभावो हि सङ्क्षेपेण द्विधैव, तादात्म्याभावः संसर्गाभावश्चेति | दृश्यत्वं विशेषणम् - उपलब्धिलक्षणप्राप्तिरूपं विशेषणम्, उपयोगि, भवति, अन्यथा तत्र स्थितस्यापि स्वभावविप्रकृष्टस्य पिशाचादेः ग्राहकसामग्रीविप्रकृष्टस्यापि शब्दादेरभावविषयत्वापातादिति भावः | तत्र - तस्मिन्, व्यतिरेकेण - भूतलाधेयत्वरूपेण भूतलाद् भेदेन, व्यवहर्तव्ये - व्यवहारविषये अभावे, एषः - केवलभूप्रदेशदर्शनरूपः, अभ्युपायः - तदितरसर्वाभाव - ग्रहणोपायः न भवति, तत्र भूतलमात्रग्रहणेन तद्गतस्य कस्याप्यभावो न वक्तुं शक्यः, तत्र स्थितस्यादृश्यस्य पिशाचादेरपि अभावव्यवहारविषयत्वप्रसङ्गादिति भावः | एवमत्र योजना, उपलब्धियोग्यस्यापि - उपलब्धिलक्षणं प्राप्तस्यापि, घटात्मनः - घटस्वरूपस्य, अत्र भूतले शुद्धस्थलज्ञानात् अभावः सिध्येत्, उपलब्धिलक्षणं प्राप्तस्य पिशाचादेरभावसिद्धौ का कथेत्यपिशब्दाभिप्रायः, अन्ये हि वादिनः उपलब्धियोग्यस्य शुद्धभूतलज्ञानेनाभावं साधयन्त्येव, अस्माकं तदपि नेष्टम् || ८ || अथ नवमस्य श्लोकस्यावतरणिकां करोति कुतः इति | अत्र टीका :- कुतः - घटात्मनः अभावः कुतः कारणात् न सिद्ध्येत्, इति चेत् - एवं यद्यवोचः, तदा अतिप्रसङ्गादिति ब्रूमः, अतिप्रसङ्ग एवात्र हेतुरिति भावः | ननु किंरूपोऽसावतिप्रसङ्ग इति शिष्यप्रश्नमाशङ्क्याह तमेव इति | सूत्रकार एव दर्शयतीति वयं किमर्थं यतामह इति भावः | विद्यमानेऽपि घटे भूतलं शुद्धमेव, न हि भावा मिश्रीभवन्ति, ततश्च तदापि शुद्धभूतलज्ञानम् अस्ति, इति सत्यपि घटे कथम् अभावो व्यतिरेकेण न व्यवह्रियते अत्र भूतले घटो नास्ति इति, तज्ज्ञानम् इति विविक्तभूतलभागज्ञानम्, जातु इति कस्यांचिदेव दशायां घटासंनिधानरूपायाम्, भिन्नस्य घटस्य अभावं साधयति न तु सर्वदा इति केन प्रकारेण एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | विविक्तम् इति | अत्र टीका :- शश्वत् इति पदं व्याचष्टे विद्यमानेपि इति | अपि शब्दादविद्यमाने तु तराम्, तथा च शश्वत् नित्यमित्यर्थः, विविक्तम् इति व्याचष्टे शुद्धम् इति | शुद्धमेव - स्वरूपमात्रे स्थितमेव | कुत इत्यपेक्षायाम भावानां स्वात्मनिष्ठितेः इति पदं व्याचष्टे न हि इति | मिश्रीभवन्ति, सङ्कीर्णीभवन्तीत्यर्थः, तथा चोदकाहरणार्थं पटस्यापि ग्रहणमापद्येतेति भावः | ततश्च - तस्माद्धेतोश्च, तदापि - घटावस्थानेऽपि | पूर्वार्धावष्टम्भेनोत्तरार्धं व्यतिरेकरीत्या व्याचष्टे इति इति | इति - अतः कारणात्, सत्यपि घटे कथम् - केन प्रकारेण, अभावो व्यतिरेकेण न व्यवह्रियते - व्यवहारविषयतां न नीयते | व्यतिरेकमेवानुकृत्याह अत्र भूतले घटो नास्ति इति | व्यतिरेकरीत्योत्तरार्धस्य वाक्यार्थमुक्त्वा तस्यैवान्वयरीत्या पदार्थमाह तज्ज्ञानम् इति विविक्तभूतलज्ञानम् इति | जातु इति व्याचष्टे कस्यांचिदेव दशायाम् इत्यादि | दशामेव स्फुटयति घट इति | भिन्न पदस्य वाच्यमाह घटस्य इति | अभाव इत्यादि पदं व्याचष्टे अभावम् इति | साधयति इत्यनेन कर्तर्यत्र ल्युट् इति द्योतितम् | जातु शब्दस्य व्यावर्त्यमाह न तु इति | केन प्रकारेण भवेत्, न केनापीत्यर्थः | अवतरणिकायां हेतुत्वेनोक्तमतिप्रसङ्गं सूच्यत्वेनाह एतेन इति | आपतितम् - भवेत्, एतेन अत्र भूतले पिशाचो नास्ति इत्यपि स्यादिति आपतितं मन्तव्यम् || ९ || नन्वेवं व्यतिरेकाभावनिष्ठो व्यवहारो लोके तावत् अविगीतः कस्यांचिदेव दशायां दृष्टः, तत्र का गतिरित्याशङ्क्य चिरन्तनैरपरिदृष्टं तत्सिद्धिप्रकारं दर्शयति :- किं त्वालोकचयोऽन्धस्य स्पर्शो वोष्णादिको मृदुः | तत्रास्ति साधयेत्तस्य स्वज्ञानमघटात्मताम् || १० || इह भाव एव भावान्तरस्य अभाव इति व्यवहर्तव्यः इति अयं तावत् अपरित्याज्यः प्रातीतिकः पन्थोः, तत्र भावस्य भावान्तरेण य प्रसङ्गादायातम्, मन्तव्यम् - ज्ञातव्यम्, निष्ठितेः इत्यत्र नेर्गदनद इति षत्वम्, तेन स्वात्मस्थितेरित्यर्थः || ९ || अथ दशमस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका :- व्यवहारः - भूतले घटो नास्तीत्येवंरूपः, अविगीतः - अदूषितः, स्फुट इति यावत्, कस्यांचिदेव दशायाम् - घटादिसन्निधिरूपायाम्, गतिः - उपायः, अपरिदृष्टम् इति, कथनस्य तु का कथेति भावः, चिरन्तनैर्हिशुद्धभूतलदृष्टेरेवाभावसाधकत्वमुक्तम् न चैतद्युक्तम्, उक्तयुक्ते | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | किन्तु इति | अत्र टीका :- श्लोकं व्याख्याअतुं प्रक्रियां करोति इह इति | प्रातीतिकः - प्रतीतिसिद्धः, पन्था - मार्गः, तत्र - तस्मिन् पथि, अपरित्याज्ये सति, भावतदभावयोः - भावाभावयोः | ननु ततः किमित्यत आह ततश्च इति | वस्त्वन्तरमेव विशेषतः आधार्याधारभावः स एव भावतदभावयोः, ततश्च भूतले घटव्यतिरिक्तं वस्त्वन्तरं शिलादिकम् आलोकपुञ्जादिकं वा यत् चाक्षुषे ज्ञाने भाति तदेव व्यवह्रियते भूतले घटाभावः, भूतले घटो नास्ति इति वा, यत्रापि नास्ति चक्षुर्व्यापारो नेत्रनिमीलनसंतमसादौ तत्रापि भूतले घटोचितकठिनस्पर्शविविक्तं मृदुम् उष्णं शीतम् अनुष्णाशीतं वा गृह्णन् तमेव अत्र घटाभाव इति व्यवहरति वायुस्पर्शस्य सर्वगस्य अवश्यंभावात्, इति वाक्यार्थः | पदार्थस्तु - किं तु इति स्वमतोपक्षेपाय स्वप्रतिभाप्रश्नपरामर्शः, [प्रतिभाप्रश्नपरामर्शः - K. ष्. ष्.] किं पुनरत्र न्याययमिति तत्राह तत्र भूतले आलोकचयः तावत् अस्ति ज्ञेय; अन्धस्य उष्णादिकः स्पर्शः अस्ति तस्य आलोकचयस्य कथयति शिलादिकम् इति | चाक्षुषे - चक्षुषा कृते, ज्ञाने - प्रत्यक्षज्ञाने, तदेव - शिलादिकम् आलोकपुञ्जादिकं [आलोकपुंजादिकं चैव - C.] वा | यत्रापि इति | आदि शब्देन नेत्रोपहत्यादेर्ग्रहणम्, अन्धस्य हि नेत्रोपहतिरेव चक्षुर्व्यापाराभावे कारणम्, विविक्तम् - भिन्नम्, तमेव - स्पर्शमेव | ननु यदि स्पर्शो न भवेत्तदा किं कार्यमित्यत आह वायु इति | पदार्थकथनं प्रतिजानीते पदार्थस्तु इति | किन्तु शब्दस्य सूचनीयमर्थमाह स्वमत इति | स्वप्रतिभया कृतः प्रश्नः स्वप्रतिभाप्रश्नः, तस्य परामर्शः स्वप्रतिभाप्रश्नपरामर्शः | प्रश्नमेवानुकृत्याह किम् इति | इति शब्दः प्रश्नानुकृतिसमाप्तौ | तत्र - तस्मिन् प्रश्ने | किमाहेत्यपेक्षायां श्लोकार्थं कर्मत्वेन व्याचष्टे तत्र इति | तत्र इति पदं व्याचष्टे भूतले इति | आलोकचयः - आलोकपुञ्जः, ज्ञेयः - दृश्यः | यद्यपि नेत्रसहितस्यापि स्पर्शोस्ति तथापि तस्य तदपेक्षा - भावादेवमुक्तम् | एतेन तत्रास्ति इत्यन्तं कृतव्याख्यम् | साधयेत् स्पर्शस्य वा यत् स्वज्ञानम् अन्यघटादिविविक्तेन स्वेन रूपेण ज्ञानम् तत् कर्तृ, तस्य आलोकादेः अघटरूपतां घटाभावरूपतां तत्र भूतले साधयति इति शक्योऽयमर्थः | शकि लिङ् च (पा. सू. ३ - ३ - १७२) इति लिङ् | आन्तरप्राणस्पन्दनजनितसूक्ष्मशब्दाकर्णनाच्च श्रोत्रादिसाकल्यं संभवायमानः तमेव शब्दम् एकज्ञानसंसर्गिणं शृण्वन् शब्दान्तरं निषेधयति न इह अन्यः शब्दः इति | तत्सूक्ष्मशब्दाभावमपि इत्याद्यवशिष्टं श्लोकखण्डं व्याचष्टे तस्य इति | तस्य इति पदं व्याचष्टे आलोक इति | तत्र नेत्रसहितापेक्षया आलोक इति, अन्धापेक्षया तु स्पर्शस्य वा इति, सम्बन्धि इति शेषः | स्वज्ञानम् इति व्याचष्टे अन्य इति | एतेन स्वज्ञानम् इत्यस्य तृतीयासमासत्वं द्योतितम् | तत् - ज्ञानम् | अघटात्मताम् इति व्याचष्टे अघट इति, अस्यापि पर्यायमाह घटाभाव इति | लिङर्थमाह शक्योयम् इति | ननु कथं लिङोऽयमर्थ इत्यत आह शकि इति | नन्वालोकचयदर्शनेन नेत्रादिसाकल्यनिश्चययुक्तस्य भूतले समस्तालोकचयव्यतिरिक्तनेत्रदृश्यवस्त्वभावज्ञानं भवतु, शब्दादेरभावज्ञानं कथं तत्र स्यात्, न हि तदा तत्र कस्यापि शब्दस्य श्रवणेन शब्दग्राहकश्रोत्रादिसामग्री - साकल्यज्ञानमस्त्येवेत्यत आह आन्तर इति | बहिः शब्दाभावेपि हि पिहितकर्णः प्राणजनितमान्तरं सततमच्चरन्तमनाहताख्यं शब्दं शृणोत्येवेत्येवमुक्तम् | एक - ज्ञानेन - समस्तशब्दग्रहणयोग्येन श्रोत्रकृतेन ज्ञानेन, संसर्गिणम् - संसृज्यमानम् | नन्वत्यवहितत्वे तमपि न शृणोत्येवेत्यत आह तत् इति | तस्य सूक्ष्मतमस्य शब्दस्याभावः तम्, सूक्ष्मतमः यः अन्तर्नादः तत्रावहिते श्रोत्रे यस्य सः, वेदयते - सूक्ष्मतमान्तर्नादावहितश्रोत्रो वेदयते, रसगन्धस्पर्शाभावोऽपि दन्तोदकरसंत्रिपुटिकागन्धं कायीयं च स्पर्शं संवेदयमानेनैव [संवेदयमानेनैव संवेद्यः - K. ष्. ष्.] रसाभावो वेद्यः, न हि एकज्ञानसंसर्गयोग्यवस्त्वन्तरोपलम्भेन विना उपलब्धिकारणसाकल्यनिश्चयोऽसोति, इति एकान्त एषः | अचिरप्रवृत्ततत्तद्विषयानुभवकल्पितस्य [अचिरप्रवृत्तितत्तद्विषय - K. ष्. ष्.] अनुभूयते, आन्तरशब्दानां दशधा भिन्नत्वात् | तदुक्तम् :- घोषादिदशधा शब्द भजतिताय शंभवे इति | समाधौ लीनस्य समस्तान्तरशब्दाभावबोधः सततोच्चरदपरिमिताहंपरामर्शावधानकृतो ज्ञेयः, तदभावस्त्वसंभवोपहत एवेत्यलम् | रसाद्यभावग्रहणं साधयति दन्तोदक इति | दन्तोदकरसम् - रसनेन्द्रियस्थिते लालारूपे जले मधुरादिवस्तुदर्शनेन प्रोद्भवनशीलं शक्तितया सर्वदा स्थितं रसविशेषम्, संवेदयमानेन - अनुभवता, अत एव रसनेन्द्रियावैकल्यं संभावयमानेन, रसाभावः - आस्वादाभावः, वेद्यः भवति | एवमन्यत्रापि योजनीयम् | त्रिपुटिका - नासान्तर्वर्तिनी सर्वदा गन्धयुक्ता, तदुक्तम् :- एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः इति | कायीयम् - कायसंबन्धिनम्, कायस्य पार्थिवत्वेन स्फुटं स्पर्शवत्त्वात् | आन्तस्य तेजसः नेत्रनिमीलनेनैव दृश्यत्वात् न नेत्रसाकल्यज्ञानहेतुत्वमस्ति इति तस्य नेह ग्रहणम् | पूर्वं स्पर्शेन अन्धस्य तदाधारघटाभावज्ञानमुक्तम्, इह तु कायीयस्पर्शेनान्यस्पर्शाभाव इति न पौनरुक्त्यम् | ननु कुत एतदित्यत आह न हि इति | हि - यस्मात् कारणात् | इति - एषः, एकान्तः - निश्चयः भवति | इत्येषु तदैव ध्वंसानाशङ्कनात् करणस्य कारणसाकल्यनिश्च्यः किम् एकज्ञानसंसर्गितया इति चेत् न, तत्तदभावोपलिप्सुर्हि प्रयत्नेन तत्तदिन्द्रियाधिष्ठानं व्यापारयन्नेव लक्ष्यते || १० || कः ? एकज्ञानसंसर्गयोग्यानां मध्ये यद्वस्त्वन्तरं तस्य उपलंभेन विना उपलब्धिकारणसाकल्यस्य निश्चयः नास्ति | अयमत्राभिप्रायः | पुरुषस्य तावदभावग्रहणे निजेन्द्रियसाकल्यतापि निर्णेया, अन्यथा इन्द्रियवैकल्यदोषकृततद्वस्तुग्रहणाभावेन तदभावं वदन् उपहासविषयतामेव भजते, तन्निजेन्द्रियसाकल्यज्ञानञ्च न समस्त - तद्ग्राह्यग्रहणापेक्षं किन्तु तद्ग्राह्यमध्ये यद्येकमेव कंचिदर्थं गृह्णाति तेनैव तत्साकल्यं जानाति ममेन्द्रियं पुष्टमेव वर्तत इति, ततश्चागृहीतानामन्येषामभावं निश्चिनोति, ते इह न सन्तीति | तत्र तदिन्द्रियकार्यं सर्वग्राह्यज्ञानम् एकज्ञानम्, तद्विषयभूतं यदेकं वस्तु - संसर्गयोग्यवस्त्वन्तरम्, तस्य यज्ज्ञानं तेन ग्राहकसामग्रीसाकल्यज्ञानम्, अन्यथोपायविप्रकर्षेणागृहीतमपि वस्तु नाऽभाव - व्यवहारयोग्यं पिशाच इव स्वभावविप्रकर्षेणेत्यलम् | अत्र शिष्यप्रश्नं शङ्कते अचिर इति | अचिरप्रवृत्तः - समनन्तरसंपन्नः यः तत्तद्विषयानुभवः तेन कल्पितस्य - अस्तित्वेन कल्प्यमानस्य, करणस्य - ग्राहकसाकल्यरूपस्य प्रमाणस्य, तदैव - समनन्तरमेव, क्रियमाणवस्तुग्रहणसमय एव, ध्वंसनाशङ्कनात् - नाशशङ्काकरणायोगात्, कारणसाकल्यनिश्चयः भवति | अतः एकज्ञान - संसर्गितया किं भवति, व्यक्तत्वान्न किंचिद् भवतीत्यर्थः | उत्तरमाह न इति | अत्र हेतुमाह तत्तत् इति | तेषां तेषां वस्तूनामभावमुपलब्धुमिच्छुः तत्तदभावोपलिप्सुः, तेषां तेषाम् - तत्तदर्थग्राहकाणाम्, चक्षुरादीनामिन्द्रियाणाम् अधिष्ठानम् - गोलकादिरूपम्, व्यापारयन्नेव - सन्ति वा न वेति ज्ञानार्थं ग्रहण - व्यापारं प्रति योजयन्नेव न तूदासीनतया स्थापयन्, लक्ष्यते - दृश्यते | तथा चैकज्ञानसंसर्गिवस्त्वन्तरज्ञानेन ग्राहकसामग्रीसाकल्यज्ञानमवश्योपयोग्येवेति भावः || १० || अथैकादशस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति | नन्वेवम् अदृश्यास्यापि पिशाचादेः निषेधव्यवहारो व्यतिरेकेणापि प्राप्नोति, स हि आलोकपुञ्जो यथा घटात् अन्यः तद्वत् पिशाचादेरपि | तदेतत् आशङ्क्याह :- पिशाचः स्यादनालोकोऽप्यालोकाभ्यन्तरे यथा | अदृश्यो भूतलस्यान्तर्न निषेध्यः स सर्वथा || ११ || आलोकपुञ्जो यद्यपि पिशाचाद् व्यतिरिक्तो यद्यपि च आलोकोऽस्ति अपिशाचात्मा इत्येतावत् सिद्ध्यति तथापि अत्र पिशाचो नास्ति इत्येतत् अशक्यम् अध्यवसातुम्, घटो हि आलोकपूरमध्येऽपि असंभाव्यः, घट - [अघटसंनिधौ - K. ष्. ष्.] अत्र टीका :- एवम् - तादात्म्याभाववद्व्यतिरेकाभावव्यवहारेऽपि वस्त्वन्तरदर्शनस्यैव न तु शुद्धभूप्रदेशदर्शनस्य साधकत्वे सति, अदृश्यस्य - सत्त्वेपि द्रष्टुमयोग्यस्य, अपि शब्देन तादात्म्याभावव्यवहारे पिशाचनिषेधस्य युक्ततामेव सूचयति, इह त्वयुक्तताम् | व्यतिरेकेणापि, भूतले नास्ति एवंरूपे व्यतिरेकेण निषेधव्यवहारेऽपीत्यर्थः | कुत इत्यपेक्षायामाह स हि इति | तदेतत् - समनन्तरोक्तं वस्तु | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | पिशाचः इति | अत्र टीका :- पिशाचः स्यादनालोकोपि एतद्व्याचष्टे आलोक इति | यद्यप्यालोकपुञ्जः - आलोकचयः, पिशाचाद् व्यतिरिक्तः | एतदेव पुनः पर्यायान्तरेण सुबोधीकर्तुं कथयति यद्यपि इति | यद्यपि आलोकः अपिशाचात्मा अस्ति इत्येतावत्सिद्ध्यति | अपि शब्दसूचितं वस्त्वाह तथापि इति | तथापि अत्र - भूतले, पिशाचो नास्तीत्येतदध्यवसातुम् - निश्चेतुम्, संनिधौ तत्र आलोकपूरासमर्पणात्, [आलोकपूरापसर्पणात् - K. ष्. ष्.] अतश्च सिद्ध्यतीदम् अत्र घटो नास्ति इति, पिशाचस्तु तादृक्स्वभावो यो भूतलमध्ये आलोकमध्येऽपि वा भवन् भूतलस्य आलोकस्य वा तां निबिडतां न विहन्ति [न प्रतिहन्ति - K. ष्. ष्.] ततश्च [अतश्च - K. ष्. ष्.] आलोकमध्ये तस्य संभावनात् कथं व्यतिरेकेण निषेधव्यवहारः, एवं रूपमध्ये रसादेः संभावनात् तस्यापि अनिषेधः | यद्यपि अनालोकः आलोकात् अन्यः पिशाचः तथापि असौ भूतलस्य अन्तर्मध्येऽदृश्यो भवति इति अशक्यम्, शक्यं न भवतीत्यर्थः | कुत इत्यपेक्षायामाह घटो हि इति | हि - यस्मात्, आलोकपूरमध्येऽपि - आलोकचयमध्येऽपि, अपि शब्दाद् भूप्रदेशेऽपि, असंभाव्यः - संभावयितुमशक्यः, कुत ? घटसन्निधौ तत्र - तस्मिन्नधः प्रदेशे, आलोकपूरासमर्पणात् - व्यवधानकारित्वेनालोकपुञ्जावकाशादानात्, आलोकमध्ये धारितं छत्रादिकं हि तावति प्रदेशे छायामेव करोति, भूतले तस्यासंभवस्तु आलोकपुञ्जव्यतिरिक्तत्वेन स्फुट एव | अतश्च इति इदं सिद्ध्यति इति | इदं किं ? अत्र - भूतले, घटो नास्ति | तु व्यतिरेके, पिशाचः तादृक् - तादृशः, स्वभावः - स्वरूपं यस्य तादृशः, भवति, यः भूतलमध्ये आलोकमध्येऽपि वा भवन् भूतलस्यालोकस्य वा ताम् - प्रसिद्धाम्, निबिडताम् - घनताम्, न विहन्ति - न नाशयति शून्यशरीरत्वात् | ततश्चालाकमध्ये तस्य संभावनात् - संभावयितुं शक्यत्वात्, व्यतिरेकेण - भूतलाधेयत्वेन, निषेधव्यवहारः कथं स्यात् | एनं न्यायमन्यत्राप्यतिदिशति एवम् इति | तस्यापि - रसादेरपि | एवं वाक्यार्थमुक्त्वा योजनासहितं पदार्थमाह यद्यपि इति | यद्यपि, अनालोकः इत्यस्य व्याख्यां करोति आलोकादन्यः इति | तथापि संभाव्यते यथा, तद्वदेव आलोकस्याभ्यन्तरेपि [आलोकस्याभ्यन्तरे सोऽस्ति - K. ष्. ष्.] सोऽस्ति इति संभाव्यत एव, ततश्च यद्यपि आलोकस्ततोऽन्यः इत्यनेन पथा निषिद्धः पिशाचः तथापि सर्वप्रकारेण न निषिद्धः इति तदभावनिबन्धनाः कथं तत्र व्यवहाराः प्रवर्तन्ताम् इति श्लोकार्थः || ११ || एवं प्रसङ्गात् अभावव्यवहारस्य तत्त्वम् उपदर्श्य प्रकृते योजयति :- एवं रूप्यविदा भावरूपा शुक्तिमतिर्भवेत् | न त्वाद्यरजतज्ञप्तेः स्यादप्रामाण्यवेदिका || १२ || असौ पिशाचः, भूतलस्यान्तः मध्ये, अदृश्यः - अतिसूक्ष्मत्वेन द्रष्टुं योग्यो न भवति इति संभाव्यते, एतेनात्र संभावनायां लिङिति द्योतितम्, तद्वदेव - तथैव, आलोकस्याभ्यन्तरेपि सोऽस्तीति संभाव्यते एव, ततश्च यद्यपि आलोकः ततः - पिशाचात्, अन्यः भवति अन्यस्यान्यरूपत्वायोगात्, इत्यनेन पथा - तदात्मतामार्गेण, पिशाचः निषिद्धः, तथापि सर्वप्रकारण न निषिद्धः आलोकव्यतिरेकेणावस्थानस्य शङ्कास्पदत्वात्, इति - अतः कारणात्, तदभावनिबन्धनाः - पिशाचाभावनिबन्धनाः व्यवहाराः तत्र - भूतले, कथं प्रवर्तन्ताम् - येनालोकचयेन घटस्याभावः साध्यते तन्मध्येपि तस्य संभवास्पदत्वेन न प्रवर्तन्ते इत्यर्थः | उपसंहारं करोति इति इति | इति - एवम्, श्लोकार्थः भवति | एवमत्र योजना | अनालोकोपि पिशाचः यथा भूतलस्यान्तः - अदृश्यः सत्त्वेपि द्रष्टुमयोग्यः स्यात् तथा आलोकाभ्यन्तरेऽपि स्यात् समानन्यायत्वात् | अतः इति शेषः | अतः स सर्वथा निषेध्यो न भवति | आलोकरूपतानिषेधविषयत्वेपि तदन्तर्वर्तितानिषेधायोगात् | अतश्च तस्य व्यतिरेकेणाभावो भूतले व्यवहर्तुमशक्य एवेति भावः || ११ || अथ द्वादशस्य श्लोकस्यावतरणिकां करोति एवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | एवम् इति | यथा आलोको घटाभाव इति आलोके गृहीते प्राक् गृहीतस्य घटस्य न किंचित् आयातम् तथैव शुक्तिज्ञानं रूप्यज्ञानाभाव इति इयत् संभाव्यते | यथा घटज्ञानं घटज्ञानप्रामाण्यसंवित् पटज्ञानाभावः पटज्ञानाभावप्रामाण्यसंवित् इयता च न पूर्वप्रवृत्तं पटज्ञानम् अप्रमाणीभवति, एषा हि तस्य घटज्ञानस्य स्वरूपचिन्ता सर्वा न ज्ञानान्तरस्य आद्यस्य किमपि अतो जातम् | एवं शुक्तिरियम् इति, न रजतम् इदम् इति च ज्ञानमेव स्वात्मना प्रकाशताम्, अहं शुक्तौ रजताभावे च प्रमाणं न तु रजते इति, तावता तु प्राक्तनस्य रजतज्ञानस्य न किंचित् वृत्तम् इति तद्विषयीकृतं रजतं कथम् असत्यं स्यात् || १२ || अत्र टीका :- एवम् शब्दं व्याचष्टे यथा इति | न किञ्चिदायातम् - न कापि बाधा संपन्ना | रूप्यज्ञानाभाव :- रजतज्ञानाभावः, इयत् - एतावन्मात्रम्, संभाव्यते - संभावयितुं शक्यते न तु रूप्यज्ञानस्य बाधा संभाव्यते | एतदेव सविस्तरं पुनरपि कथयति यथा इति | पूर्वप्रवृत्तम् - घटविषये पूर्वं प्रवृत्तम्, पटज्ञानम् - पटोऽयमिति ज्ञानम् | कुत इत्यपेक्षायामाह एषा हि इति | ज्ञानान्तरस्य - तत्रैव क्रमेण प्रवृत्तस्य पटोऽयमिति ज्ञानस्य | किमपि, कापि बाधेत्यर्थः | उपसंहारं करोति एवम् इति | प्रकाशनमेवानुकृत्य दर्शयति अहम् इति | एतच्च स्वात्मना प्रकाशनं प्रमातृद्वारेणैवास्य दिद्ध्यति, न हि ज्ञानं नाम प्रमातुर्भिन्नं यदहमिति परामर्शं कुर्यादिति न कोऽपि विरोधः | तावता तु - प्रकाशमात्रेण, किञ्चित् - कापि बाधा, न वृत्तम् - न संपन्नम् | इति - अतः कारणात्, तद्विषयीकृतम् - अबाधितरजतविषयीकृतम्, रजतमसत्यं कथं स्यात्, भ्रमस्थलेपि एकं प्रमातारं विना तस्यासत्यत्वं न युक्तमिति भावः | संभावनायां लिङ् || १२ || अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति नन्विदम् इति | नन्विदमित्यनेन तदेव परामृश्यते यत्र रजतज्ञानम् अभूत् तत्रैव इदानीं ऽन रजतम्ऽ इति शुक्तिः इति च ज्ञानं प्रमाणभूतं जातम्, तत् अतोऽनुमीयते - तत् [यत् - K. ष्. ष्.] ऽप्राच्यंऽ रजतज्ञानम् अप्रमाणम्ऽ इति, न हि एतत् संभवति - विरुद्धविषयद्वयावगाहि [विरुद्धविषयावगाहिं - K. ष्. ष्.] ज्ञानद्वयं प्रमाणम् एकत्र विषयीभवति इति, तदयम् आनुमानिको बाधव्यवहारो भविष्यति इत्याशङ्क्याह :- धर्म्यसिद्धेरपि भवेद्वाधा नैवानुमानतः | स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा || १३ || न केवलं स्वसंवेदनात् न सिद्ध्यति बाधा, यावत् अनुमानतोऽपि अत्र टीका :- यत्र - परमार्थतः स्थितायां यस्यां शुक्तौ, तत्रैव - तस्यां शुक्तावेव, प्रमाणभूतम् - प्रमाणतया स्थितम्, जातम् - सम्पन्नम् | तत् - ततः कारणात् | अतः - अस्माद्धेतोः | किमनुमीयते इत्यपेक्षायामाह तत् इति | कुतो ऽनुमीयते इत्यपेक्षायामाह न हि इति | एतच्छब्दाकाङ्क्षां पूरयति विरुद्ध इति | विरुद्ध - विषयद्वयावर्गाह - अन्योन्यव्यावृत्तस्वरूपशक्तिकारजताख्यविषयविषयम्, ज्ञानद्वयम् - पूर्ववृत्तं रजतमिदमितिज्ञानं तदनन्तरं प्रवृत्तं शुक्तिकेयमितिज्ञानम्, एकत्र - एकस्यां शुक्तौ | इति शब्दः प्रमेयसमाप्तौ | फलितमाह तदयम् इति | आनुमानिक :- अनुमानसिद्धः | एवमत्र प्रयोगः | पूर्ववृत्तं शुक्ताविदं रजतमिति ज्ञानमप्रमाणम्, इदानीं तत्रैव विरुद्धशुक्तिकेयमिति ज्ञानोत्पादादिति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | धर्मी इति | अत्र टीका :- पूर्वार्धं व्याचष्टे न केवलम् इति | स्वसंवेदनात् - प्रत्यक्षानुभवात् | कुत इत्यपेक्षायां सूत्रोक्तं हेतुं योजयति धर्मिणः इति | अपि शब्दात् - न सिद्ध्यति, धर्मिणोऽसिद्धेः, अपिशब्दात् हेतोः व्याप्तेश्च, अपिः उभयत्र नेयः, इह धर्मिणि सिद्धे सिद्धेन हेतुना स्मर्यमाणव्याप्तिकेन साध्यधर्मायोगव्यवच्छेदोऽनुमानव्यापारः [साध्यधर्मावच्छेदकः - K.ष्.ष्.], इह च प्राच्ये रूप्यज्ञाने धर्मिणि अप्रामाण्यं साध्यो धर्मः तत्र शुक्तिकाज्ञानं वा, न रजतम् इति ज्ञानं वा, तज्ज्ञानविषयीकार्यत्वं वा विषयगतं हेतूक्रियेत [हेतूक्रियते - K. ष्. ष्.] न चैतत् युक्तम् तत्काले प्राच्यरूप्यबोधस्य धर्मिणोऽभावात्, न चापि तस्य शुक्तिज्ञानादयो धर्माः, न च अपक्षधर्मात् साध्यसिद्धिः, अतः स्मर्यमाणं तद्धर्मि स्यात् इत्यपि असत् | अथ शुक्तिः न रजतज्ञानस्य विषय इति साध्यते शुक्तिकाज्ञान समुच्चयवाचिनः अपिशब्दात् | हेतोः व्याप्तेश्च, असिद्धेरिति शेषः | उभयत्र नेयः, धर्म्यसिद्धेरपि अनुमानतोपीति द्विर्योजनीय इत्यर्थः | कुत एतदित्यपेक्षायां समर्थनं करोति इह इति | साध्यधर्मस्य यः अयोगः - असंबन्धः, तस्य व्यवच्छेदः, साध्यधर्मेण तद्वत्त्वमिति यावत्, अनुमानव्यापारः, लक्षणया अनुमानव्यापार - विषय इत्यर्थः | रूप्यज्ञाने - रजतज्ञाने | तत्र - तस्मिन् साध्यधर्मे | ताभ्यां ज्ञानाभ्यां विषयीकार्यत्वं तज्ज्ञानविषयीकार्यत्वम्, विषयगतम् - शुक्तिगतम् | हेतूक्रियेत इति संभावनायां लिङ् | ननु त्रयमध्ये किञ्चिद्धेतूकरिष्याम एवेत्यत आह न चैतत् इति | कुतो न युक्तमित्यत आह तत्काले इति | तत्काले - शुक्तिज्ञानकाले न रजतमिति ज्ञानकाले वा, प्राच्यश्चासौ रूप्यबोधः - रजतबोधः, तस्य, प्राच्यरूप्यबोधस्य, आदि शब्देन न रजतमिति ज्ञानस्य विषयगतस्य तज्ज्ञानविषयीकार्यत्वस्य च ग्रहणम् | ननु ते तस्य धर्मा मा सन्तु ततः किमित्यत आह न च इति | अपक्षधर्मात्, पक्षावृत्तेर्हेतोरित्यर्थः | स्मर्यमाणम् - स्मृतिविषयीक्रियमाणम्, तत् - प्राच्यं रजतज्ञानम्, असत् इति, धर्मिसिद्धावपि हेतोरपक्षधर्मत्वादिति भावः | प्रकारान्तरेणानुमानं शङ्कते अथ इति | विषयत्वात् इति, तत् यदि इदानीम् तदा सिद्धसाधनम् [तत् सिद्धसाधनम् - K. ष्. ष्.], अथ पूर्वम् तदा तत्पूर्वस्वसंवेदनेन बाध्यविषयता | केन चैवं व्याप्तिर्गृहीता - यत्र इदानीम् अन्यत् ज्ञानम् तत्र पूर्वम् अन्यत् न भवति इति, अनुमानान्तरेण इति चेत्, अनवस्था | एतेन एतत् प्रत्युक्तम् - एकस्मिन् विषये कथं ज्ञानद्वयं स्यात् इति, को हि एकविषयतां तयोर्ज्ञानयोः [द्वयोर्ज्ञानयोः - K. ष्. ष्.] जानीयात्, ते हि तावत् इति - एवम्, साध्यत, तथा च न धर्मिणः सिद्धिः, नापि हेतोरपक्षधर्मत्वमिति भावः | नन्वत्र हेतुः कः क्रियत इत्यत आह शुक्तिका इति | इति शब्दः पूर्वपक्षसमाप्तौ | अत्र प्रतिसमाधानं करोति तत् इति | तत् - शुक्तेः रजतज्ञानाविषयत्वसाधनं, यदि इदानीम्, क्रियते इति शेषः, तदा सिद्धसाधनम् भवति प्रत्यक्षसिद्धत्वात् | अथ - यदि, पूर्वम्, तदानीमपि शुक्तिः न रजतज्ञानस्य विषयः इति तच्छुक्तेः रजतज्ञानविषयत्वसाधनं क्रियते, तदा स्वसंवेदनेन करणेन, बाध्यविषयता - बाध्यो विषयः साध्यं यस्य हेतोः स बाध्यविषयः, तस्य भावस्तत्ता, बाध्यविषयत्वमिति यावत्, भवति, अत्र हि स्वसंवेदनमेव साक्षि, पूर्वं शुक्तिः रजतज्ञानस्य विषय आसीदिति | तथा च यथा अग्निरनुष्णो द्रव्यत्वात् इत्यत्र बाधितविषयत्वं तथात्रापीति भावः | अत्र दोषान्तरमाह केन च इति | बौद्धमते नित्यस्य प्रमातुरसंभवात् अनुमानान्तरेण इत्युक्तम् | अनवस्था इति | तस्यानुमानस्याप्यन्यापेक्षा तस्याप्यन्यापेक्षेत्येवमादिरूपमनवस्थानम् | एतदवष्टंभेनान्यदपि किञ्चित्पूर्वपक्षवाद्युक्तं प्रतिसमाधत्ते एतेन इति | प्रत्युक्तम् - प्रतिसमाहितम् | एतत्किमित्यपेक्षायामाह एकस्मिन् इति | इति शब्दः प्रत्याख्येयवस्तुसमाप्तौ | कथं प्रत्युक्तमित्यपेक्षायामाह को हि इति | तयोर्ज्ञानयोः रजतमिदम् इति ज्ञानस्य शुक्तिकेयम् इति ज्ञानस्य च, जानीयात्, भवन्मते एकस्य नित्यस्य प्रमातुरसंभवान्न कोऽपि जानीयादिति भावः | ननु कुतो न जानीयादित्यत आह ते हि इति | ते - स्वात्मनि स्वविषये च विश्राम्यत इति उक्तम्, इति अनुमानतोऽपि न बाधा, न च तथाभूतमपि व्यवधानम् अत्र प्रतीतौ संवेद्यते, स्वसंवेदन - सिद्धतया झटिति भासनात् | अत एव एतदपि अशक्यं वक्तुम् - मा भूत् बाधा नाम इति | एवं परपक्षेऽनुपपत्तिं प्रदर्श्य स्वपक्षे एकप्रमातृपरिनिष्ठितेः उदियात् बाध्यबाधकभाव इति वाक्येन प्रतिज्ञातं निगमयति - युक्ता सा एकस्मात् प्रमातुः यदि जायेत इति, स एव हि तथा निर्माता इति व्याख्यातमेव, ज्ञाने | उपहारं करोति इति इति | इति - अतः कारणात्, अनुमानतापि बाधा न भवति | एवं युक्तितोऽनुमानं निरस्य स्वसंवेदननिरस्तत्वमप्यस्य कथयति न च इति | अत्र प्रतीता - अस्मिन् बाधप्रतीतिव्यवहारे, तथाभूतं व्यवधानम् - अनुमानयोग्यहेतुग्रहणव्याप्तिस्मरणादिरूपव्यवधानम् [अनुमानयोग्यहेतुग्रहणव्याप्तिव्याप्तिस्मरणं - C], न संवेद्यते - नानुभूयते | कुत इत्यत आह स्व इति | स्वसंवेदनसिद्धतया - स्वसंवेदनरूपप्रत्यक्षसिद्धतया, झटिति - हेतुग्रहणव्याप्तिस्मृत्यादिकं विना | एतदवष्टंभेनोत्तरार्धं व्याख्यातुं बाधाया अनिर्वाच्यत्वमाह अत एव इति | अत एव, यतो झटिति भासनमस्ति अतः कारणादित्यर्थः | एतत्किमित्यपेक्षायामाह मा भूत् इति | एतेन स्वसंवेदनसिद्धा तु इत्यस्य व्याख्या कृता | चतुर्थपादं व्याख्यातुमवतरणिकां करोति एवम् इति | परपक्षे - बौद्धपक्षे, प्रतिज्ञातम् - प्रतिज्ञाविषयीकृतम्, निगमयति - निगमनविषयतां नयति, मध्य ऽवयवत्रयकथनमर्थादेव ज्ञेयम् | एवमवतरणिकां कृत्वा चतुर्थं पादं व्याचष्टे | युक्ता इति | इति शब्दः चतुर्थपादव्याख्यासमाप्तौ | अत्र समर्थनं करोति स एव हि इति | हि - यस्मात्, स एव - प्रमातैव, तथा निर्माता - स्थिते चैवं यदि व्यवहारसिद्धयेऽन्यथानुपपत्तिरप्युच्यते तत् उच्यतां कामम्, अधुना सर्वं सिद्ध्यति, इति || १३ || न केवलमेते कार्यकारणभावस्मरणबाधाव्यवहाराः सकललोकयात्रा सामान्यव्यवहारभूता एकप्रमातृप्रतिष्ठाः, यावत् अवान्तरव्यवहारा अपि ये क्रयविक्रयादयः समलाः, उपदेश्योपदेशभावादयश्च निर्मलाः, तेपि एकप्रमातृनिष्ठा एव भवन्ति, व्यवहारा हि सर्वे समन्वयप्राणाः [व्यवहारो हि सर्वः समन्वयप्राणः - K. ष्. ष्.] इति उपसंहारक्रमेण दर्शयति :- इत्थमत्यर्थभिन्नार्थावभासखचिते विभौ | समलो विमलो वापि व्यवहारोऽनुभूयते || १४ || बाधकर्ता भवति, पूर्वापरव्यापित्वात् | इति व्याख्यातमेव - पूर्वकथितमेव | वादिभिर्यो व्यवहारान्यथानुपपत्त्या बाध्यबाधकभावः प्रोक्तः सोप्येकप्रमात्रङ्गीकार एव सिद्ध्यतीत्याह स्थिते च इति | एवं स्थिते च सति, अन्यथानुपपत्तिः - बाध्यबाधकभाव विना अयोग्यता, अर्थापत्तिप्रमाणेन बाध्यबाधकभावसाधनमिति यावत् | उच्यते इति, वादिभिरिति भावः | अधुना - एकप्रमात्रङ्गीकारे, सर्वम् - सर्वः स्मृतिसंबन्धनिवहः, सिध्यति, योजकस्याङ्गीकृतत्वादिति भावः | इति शब्दः श्लोकव्याख्यासमाप्तौ || १३ || अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति न केवलम् इति | अत्र टीका :- सकला या लोकयात्रा तत्र सामान्यव्यवहारभूताः - परमव्यवहाररूपाः, एक - प्रमातरि निष्ठा येषां तादृशाः, तेन लब्धसत्ताका इति यावत् | समन्वयप्राणाः - संबन्धजीविताः | उपसंहारक्रमेण - समस्तान्हिकार्थोपसंहाररीत्या | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | इत्थम् इति | ऽतत्तद्विभिन्न इति श्लोकद्वयोक्तेन अनेन उपपत्तिप्रकारेण, अन्वयव्यतिरेकात्मना तथा श्लोकान्तरैरुक्तेन व्यवहारोदाहरणप्रकारेण इदमपि मन्तव्यम् - यत् विभौ देशकालानवच्छिन्ने, अत एव अत्यर्थभिन्नैः मायाबलात् भेदैकप्राणितैः नीलसुखाद्याभासैः प्रतिबिम्बकल्पैः अनतिरिक्ततया वर्तमानैः, खचिते स्वरूपानन्यथाभावेन उपरक्ते, विश्रान्तः सर्वो व्यवहारोऽनुभूयते, अनुभव एव अत्र दृढतमं प्रमाणम् इति यावत्, अत्र टीका :- इत्थम् शब्दं व्याचष्टे तत्तत् इति | तत्तद्विभिन्न इति, श्लोकान्तरैः - तत्तद्विभिन्न इत्यादिरूपैरन्यैः श्लोकैः, मन्तव्यम् - अवश्यज्ञातव्यम् | इदम् इत्यस्याकाङ्क्षां पूरयति यत् इति | विभौ इति पदं व्याचष्टे देश इति | अत्यर्थ इत्यादिसमस्तपदस्य व्याख्यां विग्रहं च करोति अत एव इति | अत एव, विभुत्वादेवेत्यर्थः | भिन्ना इत्यवयवं व्याचष्टे माया इति | भेदेन एकम् - केवलम् प्राणितैः - दत्तसत्ताकैः, अर्थावभास इत्यवयवद्वयं व्याचष्टे नील इति | युक्ततया बिंबप्रतिबिंबभावमाश्रयितुं विशेषणमध्याहरति प्रतिबिंब इति | बिंबाभावात् परमार्थतः प्रतिबिंबवादस्य शैथिल्यं द्योतयितुं कल्पप् प्रत्ययः | एतेन फलितं विशेषणान्तरमध्याहरति अनतिरिक्त इति | प्रतिबिंबं हि आदर्शादेरभिन्नमपि भिन्नमिव भाति | यद्यपि वस्तुपिण्डरूपायाः शक्तेरेवात्र बिंबत्वात् कल्पप्प्रत्ययोऽयुक्त एव तथापि लौकिकप्रतिबिंबविलक्षणताप्रयोजनोसौ न विरोधावहः | खचिते इति पदं व्याचष्टे स्वरूप इति | स्वरूपस्य चिन्मात्राख्यस्य निजरूपस्य यः अन्यथाभावः - अचिद्रूपतासादनम्, तेन, उपरक्ते - तत्कृतरागमात्रास्पदे | सप्तम्यर्थमाह विश्रान्तः इति, अधिकरणकारकस्य विश्रान्तिस्थानत्वात् | अनुभूयते इति व्याचष्टे अनुभवः इति | अनुभवस्य केनाप्यन्येन प्रमाणेन शैथिल्योत्पादनायोगात् दृढतमम् इत्युक्तम् | ननु तर्हि सर्वेषामेव परमात्मतत्त्वप्राप्तिरयत्नसिद्धैवेति अनुभूयते च सोपदेशैः अवधानपरैः [अवधानधनैः - K. ष्. ष्.] येन एषां यैव संसारदशासंमता [संसारसंमता - K. ष्. ष्.] व्यवहारदशा सैव प्रमातृतत्त्वप्रख्यात्मिका शिवभूमिः | यदुक्तम् :- ऽ...................षंबन्धे सावधानता || ऽ किमर्थं शास्त्रान्तरेषु यमनियमादि शरीरक्लेशहेतुकमुपायत्वेनोपदिष्टमित्यत आह अनुभूयते च इति | च शब्दः एवशब्दार्थे | सोपदंशैः - प्रथमं यमनियमादिद्वारेण चित्तशुद्ध्यासादनेन तीव्रतरभगवच्छक्तिपातप्राप्तमहागुरुकृतोपदेशसमाहितैः, तदनुसारेण अवधानपरैश्च - व्यवहारदशायामपि प्रियासक्तकामिनीन्यायेन परमात्मतत्त्वपरामर्शनपरैरेव न तु भोगैकासक्तत्वेऽपि कृतनिरर्थकतदभिमानैः स्ववञ्चकैः | अनुभूयते - सर्वो व्यवहारः परमात्मनि विश्रान्तः अनुभूयते | येन - अनुभवेन, एषाम् - अवधानपराणाम्, चैव संसारदशासंमता - बाह्यजनैः स्वदृष्टान्तेन भ्रमतः संसारावस्थात्वेनाभिमता, व्यवहारदशा - देहस्थितिं तावदपरिहार्यत्वेन शैथिल्येन क्रियमाणा भोजनादिव्यापारावस्था भवति सैव तेषां प्रमातृतत्त्वप्रख्यात्मिका - परमात्मतत्त्वज्ञानात्मिका, शिवभूमिः - परप्रकाशरूपशिवावस्था भवति, तत्समयेपि व्यवहारमूलपरप्रमातृतत्त्वात्मतासादनात् बाह्यदृष्ट्यैव व्यवहारित्वात् | तदुक्तम् :- येनैव मुह्यति जडः प्राज्ञस्तेनैव तरति संसारात् | पिण्डितमयोऽप्सु मज्जति तदेव पात्रीकृतं प्लवते इति | अत्रायमर्थः | जडः - प्रोक्तयुक्त्यनभिज्ञः पुरुषः, येनैव - बाह्यव्यवहारेण, मुह्यति - फलप्राप्तिकृतं हर्षरूपं तदप्राप्तिकृतामर्षरूपञ्च मोहं भजति, देहमात्रनिष्ठत्वेन तदुपयोगिवस्तुविषयव्यवहारमात्रैकरतत्वात् | प्राज्ञः - चित्तशोधनपूर्वं गुरुतः सिद्धत्वे मन्दशक्तिपाताघ्रातत्वेन, प्राप्तसद्गुरुपदेशत्वेन शास्त्रतः सिद्धत्वे तीव्रशक्तिपाताघ्रातत्वेन, चित्तशुद्धिपूर्वं प्राप्तमहारहस्यशास्त्रत्वेन स्वतः सिद्धत्वे तु श्रीभगवतीव्रतरशक्तिपाताघ्रातहृदयत्वेन प्रोक्तयुक्तिज्ञः पुरुषः | तेनैव - बाह्य - व्यवहारेण, संसारात् - रागद्वेषमयात् तरति - तदुत्तीर्णतामासादयति, तन्मूलसंबन्धयोजकपरमात्मतत्त्वमात्रपरत्वेन तत्फलाप्राप्तिकृतामर्षभागी न भवतीति यावत्, तद्द्वारेण प्राप्तमहाफलत्वात् | कश्चिद्धि वराटिकार्थं यत्नं कुर्वन्नकस्माच्चिन्तामणिं प्राप्नुवन् वराटिकालाभालाभकृतहर्षामर्षभागी न भवति | एतेन परतत्त्वपरामर्शपरस्य चित्तस्य भुज्यमाना अपि भोगा उपकृतिमेव कुर्वन्ति न हानिमिति द्योतितम् | तथा चास्मदीयं वृत्तम् :- प्रवाहेनायाता उपकृतिकराश्चित्तविषया यदिच्छिद्रैर्न त्वं कलित [कलितमिह - C.] इह सङ्कल्पनिचयैः | अरन्ध्राया नावो जलमुपकरोत्येव नियतं भजन्तीं सौषिर्यं ब्रुडयति तु तामेतदनिशम् || इति | अत्र दृष्टान्तमाह पिण्डितम् इति | पिण्डितम् - पिण्डभावेन स्थितम् अयः अप्सु - जलेषु, मज्जति, तदेव - पिण्डितमय एव, पात्रीकृतम् - घटादिपात्र - भावेन संपादितम्, सत् प्लवते - उह्यते, युक्तेः सर्वंसहत्वादिति भावः इति | अत्र रहस्यशास्त्रवाक्यमुदाहरति सबन्धे सावधानता इति | एवमिदं पद्यम् :- ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् | योगिनान्तु विशेषोयं संबन्धे सावधानता || इति | अत्रायमर्थः | सर्वदेहिनाम् - तज्ज्ञानामतज्ज्ञानाञ्च सर्वेषां प्राणिनाम्, ग्राह्यग्राहकसंवित्तिः - लक्षणया ग्राह्यग्राहकसंबन्धज्ञानम् | ग्राह्यग्राहकसंबन्धः इति वा पाठः | सामान्या - सदृशी भवति | तज्ज्ञा अपि हि अज्ञाऽविशेषेणैव शरीरयात्रानिमित्तं यावच्छरीरं व्यवहारं कुर्वन्त्येव | ननु तर्हि एषामपि सामान्यजनत्वमेवायातम् इत्यत आह योगिनाम् इति | तु व्यतिरेके, योगिनाम् व्यवहारेऽपि परमात्मपराणाम्, अयं विशेषः - अज्ञेभ्य उत्कर्षो भवति | अयं कः ? संबन्धे - ग्राह्यग्राहकयोजने, तत्समये इति यावत्, या सावधानता - तद्योजके प्रमातरि यदवधानं भवति | क्रयविक्रयादिरूपे समलव्यवहारेऽपि तेषां न परमात्मविष्मृतिर्जायते इति स्फुट एव तेषां सामान्यजनेभ्य उत्कर्ष इति भावः | एतच्च मध्यधामाभ्यासिनामयत्नमेव सिद्धयति, इति | अप्रत्यभिज्ञातात्मपरमार्थानां समलो व्यवहारः, अन्येषां स एव निर्मलः || इति शिवम् || १४ || आदितः || ७७ || इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामीश्वर- प्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यव्याख्योपेतायां प्रथमे ज्ञानाधिकारे एकाश्रयं निरूपणं नाम सप्तममाह्निकम् || ७ || ते हि ग्राह्यग्राहकयोर्मध्ये किमपि तद्योजकं तत्त्वं यत् इदमस्य ग्राह्यम्, इदमस्य ग्राहकम्, इति परामर्शकं भवति तत्र निष्ठा एव भवन्ति | तदुक्तम् :- एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः | उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् इति | अस्मदीयं पद्यमपि :- देहाद्रिस्थमनोद्रुमस्थकलनाशाखालिसन्ध्यन्तरात् द्रष्टुं जाड्यहरं विमर्शविभवादुन्मेषरूपं रविम् | लग्ना ये सततं तदेकमयतां पश्यन्त आत्मन्यथो संसारेऽपि च तत्प्रकाशवशतो भातेऽस्तु तुभ्यं नमः || इति | ननु समले व्यवहारे कथं प्रमातृतत्त्वप्राप्तिर्युक्तेत्यत आह अप्रत्यभिज्ञात इति अन्येषाम् - पूर्वं बहुविधैरुपायैः प्रत्यभिज्ञातात्मतत्त्वानाम्, एतेन प्रबुद्धानामेवात्राधिकार इति द्योतितम् | समलो व्यवहारश्च क्रयविक्रयादिरूपः ऋजुतया कृतोपि, विमलः उपदेशादिरूपः, देशकालशास्त्रविरुद्धस्तु व्यवहार एव न भवतीति नान्यथा भ्रमितव्यम् | इति शब्द आह्निकसमाप्तौ | शिव इति पदं मङ्गलप्रतिपादकं परतत्वसूचनपरञ्च | इति शिवम् इति श्रीभासकरकण्ठविरिचतायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां श्रीभास्कर्याख्यायां ज्ञानाधिकारे सप्तममाह्निकं समाप्तम् | [शुभमस्तु | पुनः प्रारंभो भूयात् | ओं श्रीगुरवे नमः | ओं श्री शिवार्पणमस्तु | ओं श्रीपरशिवाय नमः | ओं श्री परादेव्यै नमः | ओं श्री स्वात्मने शिवाय नमः | ओं ज्योतीरूपाय परमात्मने नमः | ओं श्री विघ्नहन्त्रे नमः | ओं श्री प्रतिभादेव्यैः नमः |] अथ ज्ञानाधिकारे माहेश्वर्यनिरूपणं नामाष्टममाह्निकं प्रारभ्यते | स्वसंवेदनसंसिद्धव्यवहारवशेन यः | नित्यं महेश्वरः सिद्धः सिद्धानां तं स्तुमः शिवम् | अथ अष्टमाह्निकप्रारम्भः | प्रसिद्धव्यवहारेण स्मृतिमात्रैकसिद्धिना | स्मृत्याश्रयं स्वयं सिद्धं हृदये तं स्तुमः शिवम् || अथ ज्ञानाधिकारे ऽष्टमाह्निकव्याख्यानिर्विघ्नसमाप्तये परतत्त्वरूपेष्टदेवता - परामर्शनरूपं मङ्गलं मनसानुष्ठितमपि शिष्यशिक्षार्थ [शिष्यशिक्षार्थे - C.] सकलाह्निकतात्पर्यसूचनापरेण [सकलाह्निकसूचनापरेण - C.] श्लोकेनोपनिबध्नाति स्वसंवेदन इति | वयं तम् - यच्छब्दाविष्टे पूर्ववाक्ये प्रोक्तस्वरूपम्, शिवम् - अपरिच्छिन्नंप्रकाशस्वरूपं सर्वेषां भावानां प्रकाशकारि सारप्रदञ्च किमपि तत्त्वम्, स्तुमः | तं कम् ? यः शिवः सिधानाम् - सुप्रबुद्धानां न तु प्रबुधानाम्, तेषामर्थे एवोपदेशप्रवृत्तेः, नाप्यप्रबुधानाम्, तेषामत्र कथामात्रेप्यनधिकारात् | स्वसंवेदनसंसिद्धः - स्वप्रतीतिसाक्षिकः, यः व्यवहारः - देहस्थितिपर्यन्तं त्यक्तुमशक्या समला क्रयविक्रयादिरूपा, विमला वा उपदेशादिरूपा व्यवहृतिः, तस्य वशेन - सामर्थ्येन, न तु केवलभावनाद्यपायनिचयेनैव | नित्यम् - सदैव, न तु कुत्रापि परिमिते समाधिसमये एव, महेश्वरः - ज्ञानक्रियारूपमहैश्वर्ययुक्तः, सिद्धः - स्वयंसिद्धनिजात्मरूपतया स्थितः, न तु बहिः साधनीयतया स्थितो भवति, सिद्धा हि व्यवहारसमयेऽपि तत्कारणस्मृतिसंबन्धादिमूलभूतयोजक- ज्ञानक्रियाशक्तियुक्तपरप्रमातृरूपान्तरतत्त्वमेव महेश्वरतया जानते न तु बहिः कमपि भस्मादिभूषितं मूढोपासामात्रार्थं कल्पितं परिमितं देवविशेषम् | सोऽपि एवं ज्ञानस्मरणपोहनानि व्युत्पाद्य एषामेकमाश्रयं [तेषाम् - K. ष्. ष्.] विना व्यवहारो न युक्तः इति निरूपितम् एतावता, कल्पितः किं ज्ञानक्रियासहितः क्रियते ? न चेत्तर्हि पाषाणोपमः स न क्रीडाशीलवाचकदेवशब्दवाच्यतां भजते, यदि तु तद्युक्तः तर्हि स आत्मैवेति किमर्थं कल्पनया स्वात्मा खेद्यते, या तु ज्ञानक्रिययोः परिमितत्वापरिमितत्वशङ्का सा उपाधिकल्पितैव, उपाधिरप्यत्र विचारितो न ततो ऽतिरिच्यते | अत्र चाग्निकण एव दृष्टान्तीकार्यः, स हि महाग्निना सह कमपि भेदं नैव भजते, शनैः शनैः शक्त्यासादनेन सोऽपि हि महाग्निरेव भवतीत्यलम् | सिद्धानां समाधिदेशो व्यवहारदेशव्यतिरिक्तो नास्त्येवेति तस्याकथनम्, भवन्नपि वा समानविश्रान्तिस्थानतया अवज्ञापदमेव | यद्यपि तेषां व्यवहारपदमप्यवज्ञापदमेव तथापि समाधौ विश्रान्तानां व्यवहारसमये क्षोभभाजां प्रबुद्धानामर्थे एवमुक्तम्, यथा तेऽपि सुप्रबुद्धा भवेयुरिति | अप्रबुद्धानां यद्येतदुच्यते तर्हि स्वप्रवृत्त्यैव व्यवहारावटलग्नास्ते [व्यवहारवटलग्ना - C.] ततोऽप्यधःपातं भजेयुः | यदि तु ते स्वप्रवृत्त्यैवात्र विशन्ति विशन्तु, विधिरेव त्राणं तेषां करिष्यति किमस्माकमशक्तानां तत्र निषेधप्रवृत्त्या | तदुक्तम् :- तेषामवटलग्नानां विधिस्त्राणं करिष्यति इति | एतेनात्राह्निके माहेश्वर्यनिरूपणमेव करिष्यतीति सूचितम् | एवं मङ्गलं संपाद्य समस्तव्यस्तत्वाभ्यामाह्निकतात्पर्य- निरूपणं करोति एवम् इति | अत्र टीका :- व्युत्पाद्य - पृथक् पृथग् आह्निकत्रयेण निर्णीय, ऐषाम् - ज्ञानस्मरणापोहनानाम्, एकमाश्रयम् - प्रमातृरूपमेकमधिकरणम्, व्यवहारः - समस्ता समला विमला वा व्यवहृतिः, एतावता, समनन्तरोक्ताह्निकेनेत्यर्थः | न चेदन्तः कृता ............................., इत्यत्र यत् उक्तम् ऽएकःऽ इति तत् परिघटितम् | अन्तराभाससमर्थनेन ऽअन्तःकृतानन्तविश्वरूपःऽ, इत्यपि निरूपितम् | यदत्रैव [यत्तत्रैव - K. ष्. ष्.] ऽमहेश्वरःऽ इति उक्तम् तन्माहेश्वर्यं स्वातन्त्र्यरूपमुपपादयितव्यम्, तच्च ज्ञानविषयं क्रिया - विषयं च इत्युभयप्रकारम्, तत्र यतो [ततो भगवान् - K. ष्. ष्.] भगवान् ज्ञाता कर्ता च, यद्यपि च प्रकाशविमर्शात्मकं चिदेकघनम् एकमेव संविद्रूपम्, तथापि व्युत्पादनाय न चेदन्तः कृत इत्यत्र, अस्मिन् श्लोके इत्यर्थः | एकः इति ज्ञानाद्याश्रयस्यैकत्वकथनम्, तत् - एकः इति कथनम्, परिघटितम्, एकाश्रय - समर्थनेन? समर्थितमित्यर्थः | अन्तराभासानां [अनन्तराभासानाम् - C.] यत् समर्थनम् - युक्त्या साधनम्, तेन, इत्यपि - अयं श्लोकभागोऽपि, निरूपितम् प्रागिवार्थः इत्यत्र निर्णीतमित्यर्थः? | अत्रैव - न चेदन्तःकृत इत्यत्र श्लोक एव, तन्माहेश्वर्यम् - महेश्वरत्वसमर्थकं महेश्वरभावम्, कीदृशम् ? स्वातन्त्र्यरूपम् - अनन्यमुखप्रेक्षित्वरूपम्, कर्तृत्वरूपमिति यावत्, उपपादयितव्यम्, अवशिष्टत्वेन साधनीयमित्यर्थः | एतेन न चेदन्तकृत इत्यादिपदनिवहरूपस्यास्य श्लोकस्यैव ज्ञानाधिकारसूत्रत्वं सूचितम्, स एव हि पूर्वपक्षक्षोदानन्तरं बीजत्वेन स्थापितः तस्यैव च प्रतिपदं निर्णयः कृतः क्रियते चेति | ननूपपादयितव्यं स्वातन्त्र्यरूपं माहेश्वर्यं किंप्रकारमित्यत आह तच्च इति | तच्च - माहेश्वर्यं च, ज्ञानं विषयः यस्य तादृशम्, क्रिया विषयः यस्य तादृशम् इत्युभयप्रकारम् - द्विप्रकारं भवति तत्र - तस्मिन्नैश्वर्ये सति, यतः - यस्मात् प्रकारद्वयाद्धेतोः, भगवान् - ऐश्वर्ययुक्तः परप्रमाता, ज्ञाता कर्ता च भवति, ज्ञाने स्वतन्त्रो हि ज्ञाता, क्रियारूपे कर्मणि स्वतन्त्रः कर्ता | ननु सर्वत्रैश्वर्यस्यैकत्वेन प्रसिद्धत्वात् कथं द्विप्रकारत्वमुक्तम् इत्यत आह यद्यपि इति | प्रकाशविमर्शात्मकम् - सर्वोपरागसहप्रकाशता - तत्परिघटित एव अयं विभागः, तेन ज्ञानात्मकक्रियाविषयं स्वातन्त्र्यं यद्यपि क्रियाशक्तिरूपं तथापि तत् ज्ञानाधिकार [तथापि ज्ञानाधिकार एव - K. ष्. ष्.] एव निर्णेतव्यं तद्विषयत्वात् एवं च ज्ञातृशब्दार्थः प्रकृतितः प्रत्ययतश्च संपूर्णतया निर्णीतो दृक्स्वरूपामर्शनरूपम्, अत एव चिता एकघनम् - अतिनिबिडम्, तथा एकमेव, न हि शक्तिशक्तिमतोर्भेदो युक्त इति भावः | संविद्रूपम् - प्रमातृतत्त्वरूपं भवति | तथापि व्युत्पादनाय - अज्ञबोधनार्थाय, विभागः - शिवशक्तिरूपः शक्तौ कर्तृत्वज्ञातृत्वरूपश्च, तत्परिघटित एव - शास्त्रकारभावमासाद्य तेन निर्मित एव भवति | तदुक्तम् :- एकस्मिन्नेव तत्त्वे शिवशक्तिविभागकल्पनां कुर्मः इति | न च प्रयोजनापेक्षया तावत् कल्पिते वस्तुनि मध्ये आक्षेपो युक्त इति भावः फलितमाह तेन इति | तेन - यतोऽयं विभागः परव्युत्पादनमात्रप्रयोजन एव भवति ततः कारणात्, ज्ञानात्मिका - ज्ञा अवबोधने इति दृशा ज्ञानरूपा, क्रिया - ज्ञानात्मकक्रिया सा विषयो यस्य तादृशम्, स्वातन्त्र्यम् - तृच्प्रत्ययवाच्यं कतृत्वम्, यद्यपि क्रियाशक्तिरूपं भवति, कर्तृत्वं हि कारकशक्तिरेव, सा च करोतीति कारकम् इति व्युत्पत्त्यनुसारेण क्रियैव, तथापि तत् - स्वातन्त्र्यम्, ज्ञानाधिकारे एव न तु वक्ष्यमाणे क्रियाधिकारे, निर्णेतव्यम् - निर्णयविषयीकार्यम्, कुतः ? तद्विषयत्वात् - ज्ञानविषयत्वात्, न हि अयं नियमः क्रियावचन एव धातुः इति, गडि वदनैकदेशे इत्यादौ तद्व्यतिरिक्तवाचकस्यापि दर्शनादिति भावः | ज्ञानाधिकारे हि ज्ञानं तद्विषयः कर्ता च निर्णेयः, यदि तु तस्य ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वमुच्यते तर्हि अस्यापि क्रियाधिकारे एव कथनं युक्तं स्यादिति अस्याधिकारस्य निर्विषयत्वमेवापतेत्, यत्तु कारकशक्तित्वेन कर्तृत्वस्य क्रियात्वमुच्यते तत्राङ्गीक्रियमाणे क्रियाद्वैतवाद एवापतेत् गौणमुख्यकारकमात्रभरितत्वाज्जगतः, अत एव च ज्ञातृत्वेऽन्तर्गतं कर्तृत्वं निष्कृष्यापि ज्ञानाधिकार एव निर्णीतम्, ज्ञानाधिकारस्य येन कर्तरि ज्ञातरि इत्युपक्रमे शुद्धे भवति | तत्र ज्ञानं नाम स्वयंभेदिताभासभेदोपाश्रयनियन्त्रणासंकुचितम् ऽअहमितिऽ संवेदनम् | तत्राभासेषु यत् स्वातन्त्र्यं तदेव ज्ञानाशक्तिविषयं स्वातन्त्र्यं संपद्यते इति | ज्ञानक्रिये यतः इति पर्यन्ते च प्रतिपादनम् [प्रतिपादितम् - C.], क्रियाधिकारे तु ततो निष्कृष्य कालादिभावेन पुष्टिं गतस्य क्रियातत्त्वस्य तद्विषयस्य च निर्णयः | प्रथमं हि प्रमाता जानामीत्यनुभवति, ततः करोति, तत्र जानामीत्यत्र प्रकृत्या ज्ञानमुच्यते प्रत्ययेन तु कर्तृत्वम्, परन्तु एतत् कर्तृत्वं ज्ञातृत्वमेव, अज्ञावबोधनार्थन्तु पृथग्निदशः, यत्तु करोतीत्यत्र कर्तृत्वं तत् पुष्टिरूपमन्यत् किञ्चिदेवेत्यलमतिगहनेषु वस्तुषु व्यर्थकल्पनाभिः | एतेन फलितं वस्तु कथयति एवञ्च इति, ज्ञानक्रिययोरेकत्वे सति, ज्ञातृशब्दार्थः - तृच्प्रत्ययाप्तज्ञाधात्वर्थः, प्रकृतितः - अवबोध - वाचिन्याः प्रकृतेः, प्रत्ययतश्च - स्वान्तःकृतक्रियाकर्तृवाचितृच्प्रत्ययाच्च, संपूर्णतया - सम्यक् पूर्णतया, निर्णीता भवति, ज्ञानक्रियात्मकैकपिण्डवाचकत्वेन स्थापनादिति भावः | ननु ततः किमित्यत आह तत्र इति | तत्र सति आचार्येण कर्त्रा, तत् - ज्ञानं कर्म, तात्कालिकाक्षसामक्ष्य इत्यादिना शुद्धे ज्ञानक्रिये यतः इत्यन्तेन श्लोकैकादशकेन निरूप्यते - निरूपणाविषयतां नीयते | कुतः ? इति, इति कुतः ? तदेव कर्तृ, ज्ञानशक्तिविषयं स्वातन्त्र्यम् - पराकाष्ठाप्राप्तौ पराहन्तारूपं महास्वातन्त्र्यम्, संपद्यते | तदुक्तम् :- ततश्चक्रेश्वरो भवेत् इति | तदेव किम् ? स्वयंभेदिताः - अपोहनशक्त्या तेन परप्रकाशेन स्वतो भिन्नतया भासिताः ये आभासभेदाः - घटपटादिरूपाः, ते उपाश्रयाः यस्याः तादृशी या नियन्त्रणा ऽतात्कालिकाक्षसामक्ष्य........... |ऽ इत्यादिना ऽ...................शुद्धे ज्ञानक्रिये यतः |ऽ इत्यन्तेन श्लोकैकादशकेन तत् निरूप्यते | तत्र अभासान्तरापेक्षी च आभासोऽन्यथा वा इति श्लोकेन उक्त्वा, स एव आभास एक इति श्लोकान्तरेण उच्यते | अर्थक्रियाभासोऽपि तथैव आभासनियत इति श्लोकद्वयेन उक्त्वा कस्मिन् आभासे सा अर्थक्रिया इति पुनः श्लोकद्वयेन | नियतरूपाश्रयणम्, तया सङ्कुचितम् - सङ्कोचं गतम्, तन्मात्रज्ञातृत्वेन स्थितमिति यावत्; अहमिति संवेदनम्, परिमिताहंरूपमित्यर्थः | अत एव तत्राभासेषु स्वातन्त्र्यम् - तावन्मात्रेण तु सर्वत्र स्वातन्त्र्यरूपम् | अयं सङ्क्षेपः | यतः परिमिताहंरूपमघटघटादिषु [परिमिताहंरूपयाघटघटादिषु - C.] ज्ञातृतया स्थितं ज्ञानशब्दवाच्यं वस्तु एव देहाद्युपाधेर्निष्कृष्टमत एव पराकाष्ठामाश्रितं पराहन्तारूपं सर्वज्ञत्वरूपं [सर्वज्ञतृरूपम् - C.] महास्वातन्त्र्यं भवति, अतः तदेव आद्यन्ताभ्यामुपलक्षितेन श्लोकैकादशकेन निर्णीयते इति | एवं सामस्त्येनाह्निकाभिप्रायमुक्त्वा व्यस्तत्वेन कथयति तत्र इति | तत्र - श्लोकैकादशकमध्ये, आभासान्तरापेक्षा - स्फुटतावस्थायां दर्शनाद्याभासरूपव्यतिरिक्ताभासापेक्षी, आभासः - नीलाद्याभासः, चः समुच्चये, अन्यथा वा, स्फुटत्वावस्थायामाभासान्तरानपेक्षी चेत्यर्थः, वा शब्दोपी समुच्चये एव, स आभासः एक एव इति, एवकारो भिन्नक्रमः, श्लोकेन, प्रथमेनेत्यर्थः, श्लोकान्तरेण - द्वितीयेन श्लोकेन, तथैव - आभासानुसारेणैव, आबासनियतः - नीलाद्याभासनियतः, श्लोकद्वयेन - तृतीयचतुर्थाभ्याम्, पुनः श्लोकद्वयेन - पञ्चमषष्ठाभ्याम्, आभासान्तरैः चित्रितः - विचित्रीकृतः आभासः आभासान्तरचित्रिताभासः, तस्य भित्तिस्थानीयम् - आधारभूतम्, आन्तरत्वम् - प्रकाशान्तर्गतत्वम्, आभासान्तरविचित्रिताभासभित्तिस्थानीयम् [आभासान्तरविचित्रस्य भित्तिस्थानीयम् - K. ष्. ष्.] आन्तरत्वम् इति श्लोकेन | ततो बाह्यत्वं स्वरूपतो विभागतश्चेति [विभागश्च श्लोकयुग्मेन - K. ष्. ष्.] श्लोकयुग्मेन | ततः श्लोकेन ज्ञानादिशक्त्याश्रयस्य एकस्य उपसंहारः | श्लोकान्तरेण महेश्वरत्वम् उपसंहरता भाविनः क्रियाधिकारस्य उपक्षेप इति सङ्क्षेपार्थ आह्निकस्य | अथ श्लोकार्थो निरूप्यते | ननु यदि परमेश्वरनिष्ठतयैव समस्तोऽयं व्यवहारः तत् अस्य स्फुटत्वास्फुटत्वप्रायप्रसिद्धवैचित्र्यानुपपत्तिः, येन किल अयम् अनुप्राणितः स एक एव भगवान्, न च तद्व्यतिरेकेण व्यवहारस्य निजं किंचन तत्त्वम् उत्पश्याम इत्याशङ्क्याह :- श्लोकेन, सप्तमेनेत्यर्थः, श्लोकयुग्मेन, अष्टमनवमाभ्यामित्यर्थः | ततः - तदनन्तरम्, श्लोकेन, दशमेनेत्यर्थः, एकस्य, एकात्मतया स्थितस्य चिदात्मन इत्यर्थः, उपसंहारः - समस्तधर्माक्षेपेण सङ्क्षेपतः कथनम्, श्लोकान्तरेण - एकादशेन, महेश्वरत्वम् - चिदात्मगतं महेश्वरभावम्, इति - एवम् | श्लोकार्थकथनं प्रतिजानीते अथ इति | एवं समस्तव्यस्तत्वाभ्यां सकलाह्निकतात्पर्यमुक्त्वा प्रथमद्वितीययोः श्लोकयोरवतरणिकां करोति ननु इति | अत्र टीका :- परमेश्वरनिष्ठतयैव - योजकरूपपरप्रमातृभित्तित्वेनैव, तत् - तदा, अस्य - व्यवहारस्य, येन - भित्तिभूतेन येन प्रमात्रा, अनुप्राणितः - दत्तसत्ताकः | ननु तर्हि व्यवहारस्तद्व्यतिरिक्त एवास्तु इत्यत आह न च तद्व्यतिरेकेण इति | तद्व्यतिरेकेण - परमेश्वररूपपरप्रमातृव्यतिरेकेण, इत्थंभावे तृतीया | एवमवतरणिकां कृत्वा श्लोकद्वयमु?पन्यस्य व्याचष्टे | तात्कालिक इति | तात्कालिकाक्षसामक्ष्यसापेक्षाः केवलं क्वचित् | आभासा अन्यथान्यत्र त्वन्धान्धतमसादिषु || १ || विशेषोऽर्थावभासस्य सत्तायां न पुनः क्वचित् | विकल्पेषु भवेद् भाविभवद्भूतार्थगामिषु || २ || केवलम् एतावता आभासानां भेदो न पुनरर्थावभासस्य स्वात्मगतः कचिदपि भेद इति श्लोकद्वयस्य संमेलितस्य संबन्धः | यस्मिन्नेव काले स आभास आभाति तत्काले एव भवति, यत् अक्षसामक्ष्यं बाह्येन्द्रियप्रत्यक्षत्वं नाम आभासान्तरं पश्यामीत्येवंरूपं तत्सापेक्षाः तद्व्यामिश्राः क्वचित् आभासा भवन्ति, यत्र स्फुटताव्यवहारः | अन्धविषयः अन्ध - अत्र टीका :- तत्र प्रथमं श्लोकद्वयस्यार्थिकं संबन्धं कथयति केवलम् इति | एतावता, अक्षसामक्ष्यापेक्षित्वान्यथात्वमात्रेणेत्यर्थः | आभासानाम् - नीलाद्याभासानां तज्ज्ञानाद्याभासानाञ्च, भेदः - परस्परतो भिन्नता, पुनः - पक्षान्तरे, स्वात्मगतो भेदः, स्वगतभेद इत्यर्थः | संबन्धः - आर्थिकी योजना | संबन्धमुक्त्वा व्याख्यां कर्तुमारभते यस्मिन्नेव इति | यस्मिन् काल एव स आभासः नीलाद्याभासः, आभाति - फुरति, तत्काले एव बाह्येन्द्रियप्रत्यक्षत्वं नाम - बाह्येन्द्रियप्रत्यक्षत्वाख्यमक्षसाम-क्ष्यम आभासान्तरम् - अक्षसामक्ष्यरूपः अन्य आभासः यद् भवति, कीदृशम् ? पश्यामि इत्येवं रूपं यस्य तादृशम्, पश्यामोत्येवंरूपम्, तत्सापेक्षाः - आभासान्तरापेक्षायुक्ताः | एतद् व्याचष्टे तद्व्यामिश्राः इति | क्वचिद् आभासाः - नीलाद्याभासाः, भवन्ति | क्वचिच्छब्दद्योतितं विषयं स्फुटीकृत्याह यत्र इति | यत्र, यस्मिन् प्रत्यक्षस्थले इत्यर्थः | एतेन आभासाः इत्यन्तं गतव्याख्यम् | अन्यथा इत्यादि शोकखण्डं व्याचष्टे अन्ध इति | अन्धतमस इति लक्षणामाश्रित्य व्याचष्टे अन्धकारस्थ इति | सूत्रस्थन आदि शब्देन व्याध्यादिनष्टकारस्थप्रमातृविषयः पुनः योऽन्यो व्यवहारोस्फुटतामयः तत्र ते आभासा अन्यथा, तथा हि जात्यन्धस्य बाह्येन्द्रियप्रत्यक्षत्वलक्षणम् आभासान्तरं नैवास्ति, दृष्टतस्तु अन्धीभूतस्य संतमसस्थितस्य च तात्कालिकं तत् नास्ति अपि तु प्राक्तनमेव बाह्येन्द्रियप्रत्यक्षत्वम् अनुसंधत्ते || १ || तस्मात् अर्थावभासस्य केषुचिदपि विकल्पेषु सत्तायां स्वरूपे विशेषोऽसि इति संभावना न कर्तव्या | ते हि विकल्पा भाविवस्तुगामिनो वा भविष्यन्निष्ठा वा भवन्तु वर्तमाननिष्ठा वा अतीतवस्तुविश्रान्ता वा | एतदुक्तं भवति - नीलमिदं पश्यामि, सङ्कल्पयामि, उत्प्रेक्षे, स्मरामि, करोमि वच्मि [वेद्मि - K. ष्. ष्.] इत्यादौ नीलाभासोऽसौ स्वरूपतोऽनूनाधिकः | एवं नेत्रादेः प्रमातुर्ग्रहणम् | अस्फुटतामयः - अस्फुटतारूपः, तत्र - विकल्पमात्ररूपे तस्मिन् व्यवहारे, अन्यथा, आभासान्तरव्यामिश्रणारहिता इत्यर्थः | अत्र समर्थनमुपक्रमते तथा हि इति | अन्धीभूतस्य - रोगादिना नष्टदृष्टेः, तात्कालिकम् - दर्शनकालीनम्, तत् - अक्षसामक्ष्यम्, अनुसन्धत्ते - स्मरति | एतेन प्रथमः श्लोकः कृतव्याख्यः || १ || अथ द्वितीयस्य श्लोकस्य व्याख्यां फलितरीत्या करोति तस्मात् इति | तस्मात् - यत आभासानाम् आभासान्तरव्यामिश्रणातदभावकृत एव भेदोस्ति ततः कारणात् | सत्तायाम् इति व्याचष्टे स्वरू |? इति | संभावना न कर्तव्या इत्यनेन संभावनायामत्र लिङिबि सूचितम्, भावि इत्यादि समस्तं पदं व्याचष्टे ते हि इति | अत्र साङ्क्षिप्तार्थकथनं प्रतिजानीते एतद् इति | किमुक्तं भवतीत्यपेक्षाया-माह | नीलमिदं पश्यामि इति निर्विकल्पानुभवग्रहणम्, संकल्पयामि इति सविकल्पानुभवग्रहणम्, उत्प्रेक्षे इति भ्रमज्ञानादिग्रहणम्, स्मरामि इति स्मृतिज्ञानग्रहणम् करोमि इति कर्मेन्द्रियव्यापारग्रहणम्, वच्मि इति प्रधानत्वेन वागिन्द्रियव्यापारस्य पृथग्ग्रहणम्, पश्यामीत्यपि [पश्यामीत्येवम् - K. ष्. ष्.] यः पीतादिषु | ते पुनराभासाः स्वातन्त्र्येण यदा भगवता स.योज्यन्ते वियोज्यन्ते च तदा अयं स्फुटत्वादिर्व्यव-हारः, [स्फुटत्वास्फुटत्वादिव्यवहारः - K. ष्. ष्.] नीलमित्याभासस्य उत्प्रेक्षे इत्याद्याभासान्तरव्यवच्छेदनेन [व्यवच्छेदेन - K. ष्. ष्.] पश्यामीति आभास-व्यामिश्रणायां स्फुटताव्यवहारः | एवं त्रैकालिकव्यवहारवैचित्र्योपपत्तिः | परमेश्वरस्वरूपान्तर्भूतत्वे पुनराभासानां न कुतश्चित् व्यवच्छेदः न केनचित् व्यामिश्रणा इति || २ || आदिशब्देनान्येषां सर्वेषां व्यवहाराणां ग्रहणम्, नीलाभासः - दर्शनादिक्रियाकर्मभूतनीलाभासः, अन्यूनाधिकः - अन्यूनातिरिक्तः, एकरूप इति यावत् | दर्शनादि - क्रियाणामपि अन्यूनाधिकत्वम् अतिदेशरीत्या कथयति एवम् इति | एवम् - नीलवत्, पीतादिषु यं पश्यामीत्यपि - पश्यामीत्येवंरूप आभासो भवति सोपि स्वरूपतोऽन्यूनाधिको भवति इति पूर्वेण संबन्धः | नीलाभासः पीतद्याभाससोपलक्षणम्, पीताद्याभासा-नामपि अन्यूनाधिकत्वात् | पश्यामोत्यपि इति, अपिशब्दः सङ्कल्पयामीत्यादिक्रिया-भासोपलक्षणपरः, तेषामप्यननाधिकत्वात् | पुनः - पक्षान्तरे, ते - आभासाः, भगवता स्वातन्त्र्येण यदा संयोज्यन्ते - परस्परं व्यामिश्रीक्रियन्ते, वियोज्यन्ते - भिन्नतया भास्यन्ते, तदा अयम् - प्रसिद्धः, स्फुटत्वास्फुटत्वादिर्व्यवहारः, भवति, कथमित्यपेक्षायामाह नीलम् इति | व्यवच्छेदनेन - वियोजनेन, अर्थादस्यैव व्यत्ययेनास्फुटताव्यवहारः | सर्वेषु व्यवहारेषु स्फुटत्वास्फुटत्वेऽतिदिशति एवम् इति | ननु यद्ययमेव सिद्धान्तस्तर्हि द्वैतापत्तिरित्यत आह परमेश्वर इति | पुनः - पक्षान्तरे, परमेश्वरस्वरूपान्तर्भूतत्वे - परप्रमातृरूपचित्स्वरूपान्तर्ब्रुडितत्वे | इति शब्दः सङ्क्षिप्तार्थकथनसमाप्तौ | एवमत्र श्लोकद्वययोजना | क्वचिदाभासाः - नीलाद्याभासाः तज्ज्ञाना-भासाश्च, अक्षसामक्ष्यसापेक्षाः केवलं भवन्ति, अन्यत्रान्धतमासादिषु अन्यथा भवन्ति | पुनः - नन्वेतत् नीलादिषु उपपद्यतां यत्र बाह्येन्द्रियव्यपारोऽस्ति, सुखादौ तु तदभावात् कथं वैचित्र्यमित्याशङ्क्याह :- सुखादिषु च सौख्यादिहेतुष्वपि च वस्तुषु | अवभासस्य सद्भावेऽप्यतीतत्वात्तहा स्थितिः || ३ || गाढमुल्लिख्यमाने तु विकल्पेन सुखादिके | तथा स्थितिस्तथैव स्यात्स्फुटमस्योपलक्षणात् || ४ || सुखे स्रक्चन्दनादिके च तत्कारणे, दुःखे अहिकटकादौ च तद्धेतौ अतीतेऽनागते वा यद्यपि आभासः स एव तथापि अतीतमिदम् पक्षान्तरे, अर्थावभासस्य सत्तायाम्, लक्षणया स्वरूपे, क्वचिद्विशेषो न भवति | केषु विकल्पेषु कीदृशेषु ? भावि भवत् इति || २ || अथ तृतीयस्य श्लोकस्य चतुर्थस्य चावतरणिकां करोति नन्वेतत् इति | अत्र टीका :- एतत् - वैचित्र्यम् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे | सुखादिषु इति | अत्र टीका :- सुख पदं प्रसिद्धत्वेन निगदव्याख्यातम्, सौख्य इत्यादि पदं व्याचष्टे स्रक् इति | तत्कारणे - सुखकारणे, आदिशब्दद्वयग्राह्यं वस्त्वाह दुःखे इति | अतीत इति पदं व्याचष्टे व्यतीते इति | एतदपि निगदव्याख्यातम्, अस्योपलक्षणत्वमभिप्रेत्-याह अनागते इति | अनागते, भविष्यतीत्यर्थः | अवभासस्य सद्भावे इति व्याचष्टे यद्यपि इति | स एव, एक एवेत्यर्थः | यद्यपि तथापि इति योजना अपि शब्दद्योत्या [अपिशब्दद्योत्यगव्याख्यातस्यातीत - C.] | व्याख्यातस्य अतीत शब्दस्य हेतुपञ्च-मीं व्याख्यातुं यद्यपीत्यस्य चाकाङ्क्षां पूरयितुमाह अनागतमिदम् इति आभासान्तरेण यतो व्यामिश्रणा अनुभवामीति आभासाच्च यतो व्यवच्छेदः तेन विद्यमानेष्वपि तेषु तस्य प्रमातुः तेन प्रकारेण स्थितिर्न भवति यथा पूर्वम् अभूत् अहम् अधुना सुखो दुःखीति समर्जिततत्तन्निमित्तसामग्रीको वा इति || ३ || तथापि इति | आभासान्तरण - व्यतिरिक्तेनाभासेन सह, यतः - यस्माद्धेतोः | व्यामिश्रणा - मिश्रीभावः, योजनेति यावत्, अर्थात् अर्थावभासस्य, अनुभवामीत्याभासात् - वर्तमानतावभासात्, विच्छेदः - वियोजना, तेन, व्यामिश्रणाविच्छेदाभ्यां हेतोरित्यर्थः | सतिसप्तम्यर्थमाह विद्यमानेष्वपि इति | विद्यमानत्वं चात्र स्मरणकृतमेव ज्ञेयम्, अनागते तु मनोराज्यकृतम्, तेषु - सुखादिषु तद्धेतुषु च, तस्य प्रमातुः इति शेषत्वेनाध्याहृतम् | तथा स्थितिः इति व्याचष्टे तेन इति | एतेनाश्राद्धभोजीतिवदत्र प्रसज्यप्रतिषेध इति द्योतितम् | तथा शब्दाकाङ्क्षितं वस्त्वाह यथा इति | यथा सा स्थित्ः पूर्वमभूत्, कथम् ? इति, इति किमिति ? अहम - अधुना सुखी अस्मि, दुःखी अस्मि इति, तथा अहमधुना समर्जिता - सम्यगर्जिता तत्तन्निमित्तानाम् - सुखदुःखनिमित्तानाम्, सामग्री येन तादृशः अस्मीति वा | अत्र च सूत्रानुरोधेनैतन्मात्रमुक्तम्, उपलक्ष्यत्वेन गृहीतेऽनागते एवं योजना कार्या, यथा अग्रे भविष्यति, अधुनाहं सुखी दुःखीति समर्जिततत्तन्निमित्तसामग्रीको वेति, तथाद्य नास्तीति | एतेन पूर्वश्लोकव्याख्या सम्पन्ना | तथा च योजना | सुखादिषु सौख्यादिहेतुषु च वस्तुषु सत्स्वपि - स्मर्यमाणतया मनोराज्यविषयत्वन च वर्तमानेष्वपि, तथा अवभासस्य - सुखावभासस्य तद्धेत्ववभासस्य च, सद्भावेऽपि - स्मृतिरूपमनोराज्यरूप-त्वाभ्यां सद्भावेऽपि सति, प्रमातुः अर्थात् तेषु, तथास्थितिः - तथा स्थितिर्न भवति, कुतः ? अतीतत्वात्, न हि अतीतं स्मर्यमाणं सुखादि तद्धेतुर्वा तादृगवभासते तथा उपलक्षणत्वमाश्रित्य अनागतत्वात्, न हि मनोराज्यलिखितं [मनोराज्यलेखितम् - C.] भावि सुखं तद्धेतुर्वा तादृगवभासते इति || ३ || यदा तु विकल्पेन तानि वस्तूनि बाढम् [गाढम् - K. ष्. ष्.] उल्लिखति तदा पौनः पुन्यविशिष्टसुखतद्धेतूल्लेखनाभिधानकारणाभासानुप्रवेशात् आभासान्तरव्यामिश्रणात्मना तेनैव अस्मदुक्तेन प्रकारेण न पुनरन्येन, तथा इति, सुखी अहमित्यादिकेन स्थितिः भवति इति संभाव्यम् | उचितमेतत् यतस्तदानीं अथ द्वितीयश्लोकव्याख्यां करोति यदा तु इति | विकल्पेन - स्मृतिमनोराज्यरूपया विकल्पसन्तत्या, तानि वस्तूनि - सुखादिरूपाणि तद्धेतुरूपाणि च वस्तूनि, बाढम् - अर्थित्वहेतुकेनातिशयेन, पौनःपुन्येन - आवृत्त्या, यद्विशिष्टं सुखतद्धेतूल्लेखनम् तदेव अभिधानम् - नाम यस्य तादृशं यत्कारणं तस्य यः अवभासः तस्य योऽनुप्रवेशः - व्याप्तिः, तस्माद्धेतोः | भिन्नतया स्थितं तथा शब्दं व्याचष्टे तेन इति | अस्मदुक्तेन - तात्कालिकाक्ष इत्यत्रोक्तेन, स्थिति शब्देन संबद्धं तथा शब्दं व्याचष्टे सुखी इति, अस्मीति शेषः | इत्यादिकेन प्रकारेण, वर्तमानतयेति यावत् | सुखादेर्मनोव्यापारैकगम्यमानत्वेन उल्लिख्यमान इत्युक्तम् | सुखहेतौ दुःखहेतौ च बाह्येन्द्रियव्यापारो यद्यपि भवत्येव तथाप्युपचारादेवमुक्तम् | संभाव्यम् इत्यनेन संभावनायामात्र लिङ इति द्योतितम् | स्फुटमस्योपलक्षणात् इति वाक्यशेषस्य अवतरणिकां करोति उचितमतत् इति | अवतरणिकां कृत्वा व्याख्यां करोति यतः इति | तदानीम् - गाढोल्लेखनसमये, असौ - गाढोल्लेखः | ननु सूत्रे अतीत ग्रहणमे-वास्ति त्वया कथं भाविनोपि व्याख्या कृतेत्यपेक्षायामाह अतीत इति | अन्यथा तन्निर्णयो न भवेदिति भावः | एतेन द्वितीयश्लोकस्य व्याख्या कृता | तथा च योजना | तु शब्दो व्यतिरेके पूर्वश्लोकोक्तवस्तुनो व्यतिरेकं द्योतयति | विकल्पेन - स्मृतिरूपेण मनोराज्यरूपेण च विकल्पसन्तानेन, अतीते अनागते वा सुखादिके, गाढम् - अविच्छिन्नप्रवाहेण, उल्लिख्यमाने सति, तथा - अस्मदुक्तप्रका-रेण, आभासान्तरव्यामिश्रणारूपेणेति यावत्, तथा स्थितिः - भूतभाव्यनुभ-वकालवत् स्फुटतयाऽवस्थानम्, स्यात् - भवेत् | कुतः ? अस्य - सुखाद्यवभासस्य स्फुटमुपलक्षणात् स्फुटत्वाभासमिश्रं सुखाभासम् उपलक्षयति असौ | अतीतग्रहणं भाविनोऽपि उपलक्षणम् || ४ || ननु इयता किमुक्तम् भवति - बाह्यरूपाः स्रगादयः सुखादिहेतवो बाह्य-जनिताश्च सुखादयः सुख्यहमिति अभिमानहेतवः इति, ततश्च बाह्यत्वाभावे तज्जन्यत्वाभावे च न तथा [न तथा इति उक्तम् स्यात् - K. ष्. ष्.] उक्तं स्यात्, तत्र च त एव न केचित्, ततश्च कथमुक्तम् अर्थावभासस्य सत्तायां न क्वापि विशेष इति सत्ताया एव अभावात् इत्याशङ्क्याह :- भावाभावावभासानां बाह्यतोपाधिरिष्यते | नात्मा सत्ता ततस्तेषाभान्तराणां सतां सदा || ५ || अर्थात् गाढोल्लेखकृतादुपलक्षणात्, दर्शनाद्धेतोरित्यर्थः | एवञ्चात्राभा-सान्तरव्यामिश्रणयैवाभासवैचित्र्यं न स्वरूपत इति श्लोकद्वयाभिप्रायः | उपपूर्वात् कृतणिचो लक्षेर्ल्युटि रूपं उपलक्षण इति || ४ || अथ पंचमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- इयता - श्लोकद्वयेन | गुरुः यदुक्तं भवति तदाह बाह्य इति | इति उक्तं स्याद् इति संबन्धः | इति किमित्यपेक्षायामाह बाह्य इति | अत्र शिष्य आक्षेपं करोति ततश्च इति | ततश्च - तस्मादुक्ताद्धेतोः, न तथा उक्तम् - वस्तु नेत्युक्तं स्यात् | ननु ततः किमित्यत आह तत्र च इति | तत्र च, बाह्यत्वाभावे तज्जातत्वाभावे च सतीत्यर्थः | त एव - सुखादय एव, न केचित्, केवलविकल्पोल्लिखितस्य न किञ्चित्त्वादिति भावः | ननु ते किञ्चिन्मा भवन्त्वित्यपेक्षायां पुनरपि पूर्वोक्तमेव दोषं प्रसञ्जयति ततश्च इति | इति शब्दः उक्तम् इत्यस्य कर्मत्वेन योजनीयः | अस्य हेतुमाह सत्ताया एव इह सुखमस्ति मम, दुःखं नास्ति ममेति ये भावाभासा अभावाभासाश्च तेषां बाह्यत्वं नाम आत्मा स्वरूपं न भवति, न हि सुखमित्यस्य स्वरूपं बाह्यम् इति वपुषा भाति, सुखस्य हि सुखमेव स्वरूपम् केवलं बाह्यत्वं नाम अभासान्तरम् ईश्वरेण स्वातन्त्र्यबलादेव यदा तत्र सुखाभासे मिश्रतया भास्यते तदा तत् तस्य उपाधिरूपताम् उपरञ्चक्रतां विशेषणत्वं गच्छति, ततश्च यथा नीलाभासाभावे उत्पलाभासस्य न किंचित् वृत्तं स्वरूपतो राजाभासाभावे वा पुरुषाभासस्य, तथा बाह्यत्वाभासाभावेऽपि इति | न हि असति धर्मिणि धर्मकल्पना युक्तेति भावः | इति शब्दः समस्ताश- ङ्क्यमानवस्त्वाक्षेपपरः | आशङ्क्य, प्रश्नोत्तरपूर्वमाशङ्काविष- यतां नीत्वेत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भाव इति | अत्र टीका :- भावाभासाः - सुखाभासाः, अभावाभासाः - दुःखाभावाभा- साः, तेषाम् - भावाभावाभासानाम्, बाह्यता इति प्रथमान्तं पदं व्याचष्टे बाह्यत्वम् इति | आत्मा इति पदं व्याचष्टे स्वरूपम् इति | कुतो न भवतीत्यत आह न हि इति | हि - यस्मात् | सुखमित्यस्य - सुखाख्यस्य वस्तुनः, स्वरूपम् - आत्मा, बाह्यम् इति वपुषा - बाह्यतारूपेण, भाति | न हीदं बाह्यमिति कोपि सुखं गृह्णाति अपितु सुखम् इति | तर्हि बाह्यत्वं भासमा- नं किमस्तीत्यत आह केवलम् इति | आभासान्तरम् - सुखाभासव्यतिरिक्त आभासः | ईश्वरेण - परप्रमात्रा, यदा - यस्मिन् बाह्यताग्रहणकाले, भास्यते - भासनविषयतां नीयते | तत् - बाह्यत्वम्, तस्य - सुखाभासस्य | उपाधि पदं व्याचष्टे उपरञ्जकताम् इति | पर्यायान्तरमाह विशेषणत्वम् इति | फलितमाह ततश्च इति | स्वरूपतः न किञ्चिद् वृत्तम् - न कापि स्वरूपहानिः संपन्ना | तथा - तद्वत् | सर्वाभिमतबाह्यत्वाभि- प्रायेणाप्रस्तुतस्यापि कान्तादेर्ग्रहणम्, सुखादेर्हि केचन सूक्ष्मदर्शिन एव बाह्यत्वमामनन्ति | म्लानता - शिथिलता | एतेन आत्मा इत्यन्तं सुखाभासस्य दुःखाभावाभासस्य कान्ताभासस्य च न स्वरूपतः काचन म्लानता इति आन्तराणां सदैव स्थितिः एषाम् || ५ || इह अन्तःकरणे बुद्धिदर्पणात्मनि नीलादीनामवभासानाम् आन्तरत्वमप्यस्ति अन्तःकरणमध्येभवत्वात्, बाह्यत्वमपि ग्राह्यतारू- पं प्रमातुः विच्छेदेनावभासात्, बाह्यत्वं च केवलं बाह्यप्रत्यक्षता, अत्र च अवस्थाद्वयेऽपि व्याख्यातम् | सत्ता इत्यादिवाक्यं व्याचष्टे इति इति | ततः इति पदं व्याचष्टे इति इति | सत्ता इति पदं व्याचष्टे स्थिति इति | आभासपरामर्शकं विशेष्यवा- चकं तेषाम् इति पदं व्याचष्टे आन्तराणाम् इति | सताम् इत्यस्य आन्तराणाम् इति विशेषणेन संबन्धः | एषाम आभासानां कीदृशानाम् ? आन्तराणां सताम्, प्रमात्रैक्येन वर्तमानानामित्यर्थः | एवमत्र योजना | पण्डितैः भावाभावावभासानां बाह्यता उपाधिः - विशेषको धर्म इष्यते, उत्पलस्येव नीलत्वम्, तैः पण्डितैः बाह्यता आत्मा स्वरूपं नेष्यते | ततः कारणात् तेषाम् भावाभावाव- भासानाम् आन्तराणां सतां सदा सत्ता भवति | ततश्च बाह्यत्वाभावे न तेषां सत्ताया अभावः | ततश्च तस्यां सत्तायां तेषां विषेष एवेति भाव इति || ५ || अथ षष्ठस्य श्लोकस्यावतरणिकां करोति इह इति | अत्र टीका :- अन्तः करणे - नीलाद्यपेक्षयाऽऽन्तरसुखादिग्रहणसाधनत्वेनान्तः- करणतया स्थिते, बुद्धिदर्पणात्मनि - निर्मलतया बाह्यप्रतिबिंब- सहिष्णुत्वेन मुकुरस्थानीये बुद्धितत्त्वे, नीलादीनामवभासानाम् - नीलपीताद्याकाराणामाभासानाम्, आन्तरत्वमप्यस्ति, कुत इत्यत आह अन्तःकरण इति, भवत्वात् - स्फुरत्वात्, तथा बाह्यत्वमप्यस्ति कुतः ? प्रमातुः - परप्रकाशरूपात् प्रमातुः, विच्छेदेनावभासात्, अन्यथा इदमिति नीलादिसमकक्षतया भानायोगात्, अर्थक्रियाम् अमी कुर्वन्त्येव अन्ततो ज्ञानं स्वविषयम् | यत् पुनः प्रमातृतादात्म्यलक्षणम् आन्तरत्वं तत्र अमी कथं [कस्मात् - K. ष्. ष्.] न कांचित् अर्थक्रियां विदधीरन् इत्याशङ्क्याह :- आन्तरत्वात्प्रमात्रैक्ये नैषां भेदनिबन्धना | अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः || ६ || चः तुशब्दार्थे | केवल बाह्यत्वं च बाह्यप्रत्यक्षता - बाह्येन्द्रिय- प्रत्यक्षता भवति | नन्वेवं भवतु ततः किमित्यत आह अत्र च इति | अवस्थाद्वयेऽपि - बाह्यत्वान्तरत्वरूपे अवस्थायुगलेऽपि | अमी - नीलाभा- सादयः | अन्ततः - परमार्थतः, स्वविषयं ज्ञानमर्थक्रियाम् - स्वविषयज्ञानरूपामर्थक्रियाम् | कुर्वन्त्येव - न तु न कुर्वन्ति, स्वानुभवस्यात्र साक्षित्वादिति भावः | पुनः - पक्षान्तरे, यत् प्रमातृतादात्म्यलक्षणम् - परप्रमात्रैक्यस्वरूपम्, आन्तरत्वं भवति | तत्र - तस्मिन्नान्तरत्वे, अमी - नीलावबासादयः कांचिदर्थक्रियां कथं न विदधीरन् - कथं न कुर्वन्तीति संभा- व्यते, न च सा दृश्यते इति संभावनागर्भं कथनम् | एतेन योगिनां सदा सर्वविषयं प्रतिविषयं च ज्ञानं वर्तत इति भ्रमोपि निरस्त एव ज्ञातव्यः, देहोपाधिं तावत् तदसंभवात् | न हि सर्वदाहे समर्थोप्यग्- निकणः कणत्वावस्थायां तत्र समर्थो दृश्यते | ननु तर्हि योगिनां सामान्यजनेभ्यः को भेदः इति चेन्न, तद्दृष्टया हि भेदकल्पना कापि न विद्यत एव, त्वद्दृष्टया भवन्ती तु सा तेषामेतज्ज्ञानरूपा एव, न हि अतिशयप्राप्तिभ्रमेण ग्रस्ताः सामान्यजनाः अत्र समाश्वस्ता भवन्ति | ननु तहापि कथं तेषां योगित्वमिति चेत्, सत्यम्, ते हि सर्वस्वरूपचिन्मात्र- निश्रिताः स्वात्मनि तत्त्वमेव पश्यन्ति, तेन च स्वात्मानं सर्वव्यापकं जानन्ति, तेन चातितृप्ताः न किमपि वाञ्छन्ति, न प्रवाहागतं त्यजन्ति | तदुक्तम् :- शान्तैर्न गृह्यते किञ्चिन्न च सन्त्यज्यतेऽपि च | त्यागादाने न जानन्ति तेऽतस्तैः शान्तमास्यते || इति | अत्रास्मदीयं पद्यमपि :- चिता सिद्धं यत्तु न तदचिदिति वक्तुं समुचितम् तया ऽसिद्धं नाचिन्न चिदपि कदाचित् क्वचिदपि | चितो द्वारैः सिद्ध यदपि च समस्तं तदपि चित् इतीदं बुद्ध्वान्तः कुरु निजकृतिं मूढवदिमाम् || इति | ननु तर्हि योगिनां सर्वज्ञत्वं सर्वव्यापकत्वं च किं लेशतोऽपि नास्तीति चेन्नैवम् चिन्मात्रस्वरूपं हि सर्वसाक्षित्वेन सर्वज्ञम्, सर्वसत्ता- दायकत्वेन च सन्मात्रतया सर्वव्यापकमेव, तत्रैव च स्वात्मत्वे निश्चिता- नां तेषामान्तरस्पर्शभावेनोभयं [अन्तरस्पर्शभावेन - K. ष्. ष्.] विद्यते एव तदुक्तम् :- दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते | तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते || इति | अत्र ह्ययमभिप्रायः | दिदृक्षासमये द्रष्टुः दिदृक्षाविषयीकृतेषु बहुषु वस्तुषु यादृशी सूक्ष्मस्पर्शमात्ररूपा व्याप्तिर्भवति तादृश्येव योगिनः सर्वविषयत्वेनोक्ता, न तु त्वदभिमता, ययाऽसौ महातुष्णाग्रस्तस्य तव समस्तदेशकालगतान् भावान् कथयेद्येन त्वदभिमतसिद्धिः स्यात् | देहास्थितिं तावत्तदसंभवात्, पर्यन्ते तु त्वदभिमतासिद्धेः, सा सुक्ष्मा व्याप्तिश्च मूढेषु तात्कालिकतृप्तिमात्ररूपा विद्युद्द्योतितरत्नवत् क्षणमात्रमेव स्फुरन्ती न विषयीभवति | प्रबुद्धानाम् अन्यत्र सम्यगभ्यस्तमात्रापि हस्तमायात्येव, सुप्रबुद्धास्तु सर्वदा तन्मया एवेति कापेक्षा तेषां क्षणस्थायिन्यामस्याम् | अतिसूक्षत्वमेवापेक्ष्य च स्वयमेव इत्याद्युक्तम् | तदुक्तम् :- यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते | तदा भिन्नमिवाभाति शाब्दीं भूमिमुपाश्रितम् || इति | भवन्ति च कदाचिदतिनिर्मलेभ्यो योगिभ्यस्तप - आद्दिप्रभावेण देशकालविप्रकृष्टविषया आभासाः, परन्तु तेऽपि लेशत एव भवन्ति न तु सामस्त्येन, येन त्वदाशा पूर्णा स्यात् | ईश्वरेच्छानुसारेणैव च ते उत्पद्यन्ते न त्वदिच्छानुसारेण, स्वप्रयोजने विमुखानां तेषां त्वत्प्रयोजनानुसरणायोगात् | ये तु तदनुसरन्ति तेभ्य ऐन्द्रजालिकेभ्यो प्रमात्रैक्ये इति, तन्निमित्तकं यत् आन्तरत्वं तस्माद्धेतोः, एषाम् आभासानाम् अर्थक्रिया न काचित् अस्ति, सा हि अर्थक्रिया भेदे सति भवति, स हि नीलाभासः पीताभासात् यतो भिद्यते यतश्च प्रमातुर्भिद्यते ततः स्वेन साध्यां [स्वसाध्याम् - K. ष्. ष्.] नियतां भिन्नाम् अर्थक्रियां तस्य प्रमातुः कुर्यात्, नम एवेत्यलम् प्रसक्तानुप्रसक्त्या | प्रकृतमनुसरामः | इत्याशङ्क्याह इति, एतां शिष्यशङ्कां संभाव्य कथयतीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | आन्तरत्वात् इति | अत्र टीका :- प्रमात्रैक्ये - आन्तरत्वात् इति पदद्वयं व्याचष्टे तन्निमित्तकम् इति | तन्निमित्तकम् - प्रमात्रैक्यनिमित्तकम् | एतेनेयं निमित्तसप्तमीति सूचितम् | पंचमीविभक्तिं व्याचष्टे तस्माद्धेतोः इति | एषाम् इति पदं व्याचष्टे आभासानाम् इति | अर्थक्रिया विशेषणं भेदनिबन्धना इति पदं हेतुगर्भत्वेन व्याचष्टे सा हि इति | भेदे सति, भेदे निमित्तभूते सतीत्यर्थः | ननु कथमर्थकिया भेदेसति भवतीत्यपेक्षायां समर्थनं करोति स हि इति | यतः - यस्मात्कारणात्, भिद्यते - भगवदपोहनशक्त्या स्वयं भेदविषयतां भजते, कर्मकर्तरि लकारः | एवमुत्तरत्र | स्वेन साध्यां नियताम् - स्वमात्रे लग्नाम्, अर्थक्रियाम् - स्वविषयज्ञानादिरूपाम्, कुर्यात् इति | तथैव भगवन्मायाशक्त्या उत्थानादिति भावः | तदा - प्रमात्रान्तरत्वावस्थायाम् | ननु तर्हि भावानां कदापि नार्थक्रियाका- रित्वं भवेत्, ते हि सदैव प्रमात्रन्तर्गता एव, न तु कदाचिदेव केनापि कारणेन, सत्यम्, यथा भासमाना अपि भावाः सदा तदन्तर्गता एव तथा तत्कृतार्थक्रियापि [तत् कृत्वा अर्थक्रियापि - C.] भासमानापि तदन्तर्गता एवेति यथा न भावैः प्रमातृशरीरे भेदाशङ्का तथा तत्कृतयाऽर्थक्रिययापि सा न युक्ता एव | न च एष तदा भेदोऽस्ति प्रमात्रैक्यात् | सा हि अर्थक्रियाभासभेदनियता, तथा च कान्ताभासस्य बाह्यत्वेऽपि सति आभासान्तरस्य आलिङ्गनलक्ष- णस्य व्यपगमे दूरीभवति, इयम् इति च आभासान्तरस्य उपगमेऽन्यैव प्राक्तनाह्लादविपरीता दृश्यते अर्थक्रिया, अत आभासभेदाभावः यतः प्रमात्रैक्यकृते आन्तरत्वे तस्मात् न अर्थक्रिया इति | अर्थक्रियाभासोऽपि येषां तु ते भावा न भान्ति तेषां साऽर्थक्रियापि न भात्येव समानन्- यायत्वात्, देहस्थितिं तावच्च भावभानं तदर्थक्रियाभानञ्च दुर्निवारमेव | अभानन्तु अन्यभावेन ज्ञानमात्रमेव | तदुक्तम् :- प्रकाशमाने परमार्थभाने नश्यत्यविद्यातिमिरे समस्ते | तदा बुधा निर्मलदृष्टयोऽपि किञ्चिन्न पश्यन्ति भवप्रपञ्चम् || इति | अत्र च निर्मलदृष्टित्वं भावभानरूपमेव ज्ञेयम्, ज्ञानिनो हि तीक्ष्णेक्षणत्वेन लौकिकनिपुणवदेव सम्यक् पश्यन्ति, अन्यथा जडत्वापातात् | तदुक्तम् :- ते ह्यज्ञा निपुणा इव इति | अन्यभावेन ज्ञानमपेक्ष्य न पश्यन्ति इत्युक्तमित्यलं प्रपञ्चेन | एतेन अर्थक्रिया इत्यन्तं कृतव्याख्यम् | ननु बाह्यत्वे सा किन्निबन्धनास्- तीत्यपेक्षायाम् अपि इत्यादि श्लोकशेषं व्याचष्टे सा हि इति | तसिलर्थं व्याख्यातुं हि शब्दप्रयोगः | सा इति पदं व्याचष्टे अर्थक्रिया इति | बाह्यत्वेऽपि इत्यत्र योजयितु युक्तमप्युदाहरण एव योजयिष्यति आभासभेदे नियता आभासभेदनियता | कथमित्यपेक्षायां समर्थनमुपक्रमते तथा च इति | आलिङ्गनलक्षणस्य - तया सह आलिङ्गनस्वरूपस्य, व्यपगमे - दूरीभवने, दूरीभवति | इयम् इति चाभासान्तरस्य - इत्यं कान्ता दूरे गतेत्येवंरूपस्यान्यस्याभासस्य, उपगमे - प्राप्तौ सत्याम्, अन्या - प्रह्लादाभावरूपा प्रत्युत सन्तापरूपा, अतः - अस्माद्धेतोः | इति शब्दः प्रमेयसमाप्तौ | नन्वर्थक्रियाभावे भावाभावयोरसत्त्वमेवा- यातमिति [भावे भावयोरक्षत्वम् - C.] बौद्धमतमाशङ्क्याह अर्थक्रिया च आभासान्तरमेव इति अर्थक्रियाकारित्वमपि न भावानां सत्त्वम्, येन तदभावे स्वरूपतोऽभावः [स्वरूपत एवाभावः - K. ष्. ष्.] स्यात् || ६ || ननु च बाह्याभासव्यतिभेदनकाले आन्तराभासो विरोधात् विच्छिन्न इति कथम् इदम् उक्तम् आन्तराणां य आभासः स सदा इति ? एतत् परिहरति :- चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा | मायया भासमानानां बाह्यत्वाद्बहिरप्यसौ || ७ || इह अवभासानां सदैव बाह्यताभासतदभावयोः अपि अन्तरेव इति | आभासान्तरमेव - भावाऽभावाभासादन्य एवाभासः | इति - अतः कारणात, तदभावे - अर्थक्रियाया अभावे, स्वरूपतोऽभावः - भावाभावाभासयोः स्वरूपाभावः || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति ननु च इति | अत्र टीका :- बाह्याभासेन यद् व्यतिभेदनम् - विशिष्टीकरणम्, तस्य काले - समये, यदा बाह्यमिदम् इति वस्तु गृह्यते तदेति यावत् | आन्तराभासः - आन्तरमि- दम् इत्याभासः | इति - अतः कारणात् | किमुक्तं भवतीत्यपेक्षायामाह आन्तर इति | आन्तराणाम् - प्रमात्रन्तःस्थितानां वस्तूनाम्, इति शब्दः उक्तिसमाप्तौ, एतत् - शङ्कितं वस्तु, परिहरति - अयुक्तत्वेन परिहारविषय- तां नयतीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | चिन्मयत्वे इति | अत्र टीका :- अवभासानाम् - नीलसुखादिरूपाणामाभासानाम्, सदैव इति व्याचष्टे बाह्यताभासतदभावयोः इति, बाह्यताभाससमये आन्तराभाससमये वेत्यर्थः | प्रमातृप्रकाश एव स्थितिः, यत एते चिन्मयाः, अन्यथा नैव प्रकाशेरन् इति उक्तं यतः | यदा तु मायाशक्त्या विच्छेदावभासनस्वातन्त्र्यरूपया [विच्छेदनावभासन - K. ष्. ष्.] बाह्यत्वम् एषाम् आभास्यते तदा तत् अवलम्ब्य अवभासमानानाम् असौ स्थितिः बहिरपि अन्तरपि | नायम् अन्तराभासो बाह्यत्वस्य विरोधी प्रत्युत सर्वाभासभित्तिभूतोऽसौ, तत् कथं विरोधः इति युक्तमुक्तम् ऽसदैव आन्तराणां सत्ताऽ इति || ७ || अन्तरेव इति व्याचष्टे प्रमातृ इति | एव शब्दस्य काकाक्षिवदुभयत्र संबन्धः | कुत इत्यपेक्षायां चिन्मयत्वे इति व्याचष्टे यतः इति | यतः शब्देन सप्तमीद्योत्यस्य हेतुत्वस्य कथनम्, स्थिति शब्दस्य स्फुटत्वेन निगदव्याख्यानम् | सूत्रेऽनुक्तमपि व्यतिरेकरीत्या हेतुमाह अन्यथा इति | उक्तम् इति, प्रागिवार्थः इत्यत्र | यतः इति हेतुत्वद्योतनार्थम् | पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे यदा इति | विच्छेदेन - परप्रमातुरन्योन्य- तश्च भेदेन, अवभासने - नीलाद्यवभासने, स्वातन्त्र्यम् - स्वतन्त्रता, तद्रूपं यस्यास्तादृश्या | एषाम् - नीलाद्याभासानाम्, तत् - बाह्यत्वम्, अवलम्ब्य - आश्रित्य | असौ इति पदं व्याचष्टे स्थितिः इति | अपि शब्दात् अन्तरपि इत्युक्तम् | एतेन बाह्यत्वात् इत्यत्र ल्यब्लोपे पञ्चमीति द्योतितम् | सूत्रेऽनुक्त- मपि फलितं स्वाभिप्रायं कथयति नायम् इति | असौ - अन्तराभासः, तत्कथं विरोधः इति न हि मृदाभासो घटाभासविरोधीति भावः | इति - अतः कारणात्, इति - एतत्, आचार्येण युक्तमुक्तम् | इति किमिति ? सदैव इति, आन्तराणाम् - आन्तरत्वेन स्थितानां नीलादीनाम् | एवमत्रोत्तरार्धे योजना | मायया भासमानानाम् - भेदेन भासमानानाम्, अर्थात् एषामान्तराणां नीलाद्याभासानाम्, मायया बाह्यत्वात् - मायाकृतं बाह्यत्वमाश्रित्य, ननु बाह्यत्वे सति अर्थक्रिया, तच्च बाह्येन्द्रियगम्यत्वम्, न च विकल्पोल्लिखितानां तत् संभवति, तत् कथम् अमीषाम् अर्थक्रिया स्यात्, दृश्यते च विकल्पोल्लिखितः पिशाचादिः त्रासादिविधायी इत्याशङ्क्याह :- विकल्पे योऽयमुल्लेखः सोऽपि बाह्यः पृथक्प्रथः | प्रमात्रैकात्म्यमान्तर्यं ततो भेदो हि बाह्यता || ८ || विमर्शविशेषरूपे विकल्पज्ञाने य उल्लिख्यमानः कान्ताचौरादिः अर्थः सोपि बाह्यः, न केवलं बहिरवलोक्यमानः, यस्मात् सोऽपि प्रमातुः सकाशात् पृथगेव प्रथते ऽअयम्ऽ इति, यच्च प्रमातरि अहमित्येव विश्रान्तत्वं तत् आन्तरत्वम्, अन्तरिति निकटम्, तच्च किंचित् अपेक्ष्य, अपेक्षणीयश्च असौ स्थितिः बहिरपि भवति | अपि शब्दः समुच्चये, काकाक्षिवत् मायाशब्दस्- योभयतो योजनेति || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका :- तच्च - बाह्यत्वञ्च, तत् - बाह्येन्द्रियगम्यत्वम्, अमीषाम् - विकल्पोल्लि- खितानाम् | मास्त्वित्यत आह दृश्यते च इति | आदि शब्देन हर्षादिकारिण्याः स्त्र्यादेर्ग्रहणम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | विकल्पे इति | अत्र टीका :- विमर्शस्य - सामान्यतया स्थितस्य विमर्शस्य, विशेषरूपे, विमर्शविशेषरूपे, उल्लिख्यमानः - उल्लेखविषयतां नीयमानः, सोपि - कान्ताचौरादिरपि, यस्मात् - यतः कारणात्, प्रथते - प्रकाशते | कथं प्रकाशत इत्यत आह अयम् इति, इदन्तयेत्यर्थः | कुतस्तदेवान्तरत्वमित्यत आह अन्तरिति इति | निकटम् - समीपम्, तच्च - निकटञ्च, अपेक्ष्य भवतीति शेषः | अपेक्षणीयान्तराभावे, प्रमातुर्व्यतिरिक्तस्यापेक्षणीयस्याभावे सतीत्यर्थः | ततश्च - तस्माद्धेतोश्च, तादात्म्यम् - सर्वत्र प्रमातैव अपेक्षणीयान्तराभावे, ततश्च प्रमातरि निकटं तादात्म्य - प्राप्तमेव [तादात्म्यं प्राप्तम् - K. ष्. ष्.] इति, ततो यत् भिन्नं तत् बाह्यमेव इति युक्ता उल्लेखस्यापि अर्थक्रिया || ८ || ननु कुम्भकारादिव्यापारेण घटादेः अस्तु बाह्यत्वम्, अन्तःकरण- गोचरस्य तु किं कृतं तत् इत्याशङ्क्य आह :- उल्लेखस्य सुखादेश्च प्रकाशो बहिरात्मना | इच्छातो भर्तुरध्यक्षरूपोऽक्ष्यादिभुवां [अक्षादिभवाम् - K. ष्. ष्.] यथा || ९ || अन्तर्विकल्पप्रतिबिम्बितस्य नीलादेः यो बहिरात्मना प्रमातृविच्छिन्नेन स्वभावेन प्रकाशः, स भर्तुः अन्तराभासान् बिभ्रतो बहिः सृष्टिं च पुष्णतः ईश्वरस्यैव इच्छया, यथैव चक्षुरादिविषयभूतानां प्रत्यक्ष - ऐक्यम् प्राप्तम्, तादात्म्यप्राप्तम् | इति - अस्मात् कारणात् | ततः - तस्मात् कारणात् | ततः - तस्मात्प्रमातुः | इति - अतो हेतोः, उल्लेखस्य - लक्षणया उल्लेखविषयस्य || ८ || अथ नवमस्य श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | ऊल्लेखस्य इति | उल्लेखस्य इति पदं व्याचष्टे अन्तः इति | भर्तुः इति पदं व्याचष्टे अन्तः इति | डुभृञ् धारणपोषणयोरिति धात्वनुसारेणार्थद्वयं कृतम् | इच्छया इत्यनेन तृतीयार्थेऽत्र तसिल् इति सूचितम् | एतेन भर्तुः इत्यन्त गतव्याख्यम् | अध्यक्ष इत्यादि दृष्टान्तपदं व्याचष्टे यथैव इति | अक्ष्यादयः - नेत्रादयः, तेषां याः भुवः - विषयाः, तासाम्, इति विग्रहः सूचितः | अध्यक्षरूपः इति व्याचष्टे प्रत्यक्ष इति | नीलादीनाम् ज्ञानशब्दवाच्यो बाह्यात्मना प्रकाशो नीलादीनाम् | एतदुक्तं भवति - कुम्भकारव्यापारो नाम परमार्थतः ईश्वरेच्छैव तदवभासितकाय- स्पन्दपर्यन्ता, न पुनरन्यः कश्चन सः, ततश्च तथा ईश्वरेच्छया प्रकाशात् अबहिर्भूता अपि नीलाद्या बाह्यकरणगोचरीभूताः कल्पितात् प्रमातुः विच्छिन्नरूपत्वेन [विच्छिन्नरूपेण - K. ष्. ष्.] बाह्यत्वेन भासन्ते, तथा अन्तःकरणगोचरीभूता अपि इति को विशेषः | सुखदुःखप्रायास्तु भरताद्युक्तरूपाः स्थायिव्यभिचारिरूपा इति विशेष्याध्याहारः | दुर्बोधत्वमाशङ्क्य पुनः कथनं प्रतिजानीते एतदुक्तं भवति इति | किमुक्तं भवतीत्यपेक्षायामाह कुम्भकार इति | कीदृशीच्छा ? तदवभासितः - ईश्वरेणैवापोहनशक्त्याऽवभासितः, यः कायस्पन्दः - कुम्भकारशरीरचेष्टा, सः पर्यन्तः यस्यास्तादृशी | अन्तःस्फुरितेच्छैव हि बाह्यस्पन्दभावेन स्फुरति | तदुक्तम् :- लोकेऽपि किल गच्छामीत्येवमन्तःस्फुरैव या | सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया || इति | पुनः - पक्षान्तरे, सः - कुम्भकारव्यापारः | नन्वेवं भवतु ततः किमित्यत आह ततश्च इति | ततश्च - तस्मात्कारणाच्च, यथा ईश्वरेच्छया प्रकाशात् - परप्रमातुः, अबहिर्भूता अपि - बहिर्देशमगता अपि, नीलाद्याः - बाह्यान्तः - करणाग्राह्याः नीलपीतादयः, बाह्यकरण- गोचरोभूताः सन्तः कल्पितात्प्रमातुः - देहादेः प्रमातुः, विच्छिन्नरूपत्वेन बाह्यवेन - इदन्ताग्राह्यत्वरूपेण बहिर्देशस्थत्वेन, भासन्ते, तथा - तद्वत्, अन्तःकरणगोचरीभूता अपि नीलाद्याः विच्छिन्नरूपत्वेन बाह्यत्वेन बासन्ते, परप्रमात्रपेक्षया अन्तःकरणस्- यापि बाह्यत्वात्, अन्यथा इदम् इति ग्रहणायोगादिति भावः | भरतादौ - भरतशास्त्रादौ, उक्तरूपाः विभावादिशब्देनोक्तरूपाः भरताद्युक्त- रूपाः, सुखदुःखप्रायाः, न तु सर्वथा सुखदुःखमात्ररूपाः, हासादिरूपत्वस्यापि स्थितत्वात्, रतिनिर्वेदादयोऽन्तःकरणैकगोचरीभूता [अन्तःकरणैकगोचराः - K. ष्. ष्.] बहिरात्मना भान्ति, सङ्कल्पेषु यद्यपि क्षेत्रज्ञस्यैव स्वातन्त्र्यम् तथापि चित्परमार्थताया न्यग्भवयितुम् अशक्यत्वात् ईश्वरस्यैव तत् वस्तुतः, यथोक्तं ग्रन्थकृतैव :- ऽयद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते | जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता || तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा |ऽ स्था?यिव्यभिचारिरूपाः - स्थाययष्टकत्रयस्त्रिशत्संख्याकव्यभिचारिरूपाश्च, रतिनिर्वेदादयः - लक्षणया रतिनिर्वेदादिसंयोगप्रादुर्भूतं रसाष्टकम्, अन्तःकरण- स्यैकम् - केवलम्, गोचरीभूताः, अन्तःकरणैकगोचरीभूताः सन्तः, बहिरात्मना बाह्यत्वेन, भान्ति | परप्रमातुर्विच्छिन्नीभूतत्वात [विच्छित्तीभूताः - C.] नीलादीनां द्विविधकरणग्राह्यत्वेन बाह्यत्वम्, सुखादीनान्तु अन्तःकरणग्राह्यत्वमात्रेणेति भावः | लौकिक - सुखादीनां तु तादृक्पुष्ट्यभावाद् भरतशास्त्रप्रसिद्धरसग्रहणम् | यद्यपि तत्र दुःखस्यापि सुखरूपतैव तथापि दुःखतया स्फुरणमप्य- निवार्यमेव पानके इव मरिचतिक्ततायाः | पानके भातापि हि मरिचतिक्तता ऽऽस्वादमधिकं करोति | तथा विभावादिसंयोगे भातमपि दुःखमा- स्वादमेव जनयति, अन्यथा रसत्वायोगात्, रसो हि मिलितविभावादिस्वादमात्र- मेव, तदुक्तं भरते :- विभावानुभावव्यभिचारिसंयोगाद्रसनिष्यत्तिः इति | निर्वेदस्थायिकस्य नवमस्य शान्तरसस्येहाप्रस्तुतत्वात् प्रकृतरसाष्ट- कसमकक्षतया कथनमयुक्तमेवेति नान्यथा शङ्कनीयम् | ननु सङ्कल्पे स्फुटमेव जीवस्यैव स्वातन्त्र्यं दृश्यते त्वया कथमीश्वरस्योच्यत इत्यत आह सङ्कल्पेषु इति | क्षेत्रज्ञस्यैव - देहाभिमानिनो जीवस्यैव, न्यग्भावयितुम् - नाशयितुम्, तत् - स्वातन्त्र्यम्, वस्तुतः - परमार्थतः | न हि इति | यत्र तु अनिच्छोरेव क्षेत्रज्ञस्य स्वरसवाहिव्याक्षेपसारा साङ्कल्पिकी सृष्टिः तत्र स्फुटः ईश्वरस्यैव व्यापारः | तस्मात् साङ्कल्पिकानामपि बहिर्भावे परमेश्वरेच्छैव हेतुरिति सिद्धान्तः || ९ || अधुना पूर्वोक्तम् ऐक्यं माहेश्वर्यं? च निगमयति :- तदैक्येन विना न स्यात्संविदां लोकपद्धतिः | प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितम् || १० || स एव विमृशत्त्वेन नियतेन महेश्वरः || विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः || ११ || गृहाद्वहिर्निर्गतं दैपमर्चिः गृहद्वारसंबन्धीति वक्तुं युक्तमिति भावः | तथा चास्मदीयं पद्यमपि :- प्रमातृत्वं भातं यदपि च शरीरादिनिवहे तथाप्येतद्द्वारा स्फुरति ननु चिन्मात्रनभसः | गृहद्वारैर्ज्योतिः प्रसरति यदेतद्वहिरिदम् गृहान्तःस्थस्यैव भवति खलु दीपस्य नियतम् || इति | अत्र श्रीमदुत्पलदेवस्य सम्मतिमाह यथोक्तम् इति | ग्रन्थकृता - श्रीमदुत्पलदेवेन | किमुक्तमित्यपेक्षायामाह यद्यपि इति | अर्थस्थितिः - अर्थविषयो ज्ञानादिव्यवहारः, निरुद्धा - नियता | न हि प्राणपुर्यष्टकरहिताद् घटादेरर्थस्थितिर्दृश्यते | सा - अर्थस्थितिः, तदात्मना - परमात्मरूपेण, तस्य - परमात्मनः, यन्त्रणा - परिच्छेदः | इति शब्दः प्रमेयसमाप्तौ | स्वरसवाही - स्वेच्छया प्रसरणशीलः यः व्याक्षेपः स सारो यस्यास्तादृशी | कदाचिद्धि जीवः स्वेच्छां विनैव सङ्कल्पविवशीभवति | फलितमाह तस्मात् इति | राद्धान्तः - सिद्धान्तः || ९ || अथ दशमैकादशयोः श्लोकयोरवतरणिकां करोति अधुना इति | यत् एतत् पूर्वोक्तेन ग्रन्थेन उपपादितम्, तत् इति, तस्मात् हेतोः, संविदां ज्ञानानाम् ऐक्येन विना, लोकपद्धतिः लोकमार्गः सर्वो व्यवहारो न संभवेत्, संभवति च अयम्, तस्मात् ऐक्यम् आसाम् | न चैतत् दुर्घटम् यतो विषयप्रकाश एव संवित् उच्यते, केवलं विषयोपरागमहिम्ना बहिर्मुखतया नीलप्रकाशोऽन्यः, पीतप्रकाशश्चान्यः, परमार्थतस्तु प्रकाशस्य देशकालाकारसङ्कोचवैकल्यात् एकत्वमेव, इत्येक एव प्रकाशोऽन्तर्विश्रान्तः, स एव च प्रमाता उच्यते इति स्थितम् इदानीमुपपत्तितः || १० || अत्र टीका :- ऐक्यम् - सविदेकताम् | निगमयति - निगमविषयीकरोति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तदैक्येन इति | अत्र टीका :- तत् इति पदं व्याचष्टे यदेतत् इति | उपपादितम् - उपपत्त्या स्थापितम्, संविदाम् इति व्याचष्टे ज्ञानानाम् इति | लोकपद्धति इति व्याचष्टे लोकमार्गः इति, अस्यापि पर्यायमाह सर्वः इति | आसाम् - संविदाम्, दुर्घटम् - असंभवोपहतम् | कुत इत्यपेक्षायामाह यतः इति | तर्हि संविदो भेद एवायात इत्यत आह केवलम् इति | बहिर्मुखतया - इदम् इति बहिर्मुखत्वेन | ननु सत्यतया किमस्तीत्यत आह परमार्थतः इति | देशकालाकारैः यः सङ्कोचः - परिच्छेदः, तेन वैकल्यात् - रहितत्वात् | न हि परिच्छेदकं प्रति परिच्छेद्यस्य परिच्छेदकत्वं युक्तमिति भावः | एतेन प्रकाशैक्यात् इति कृतव्याख्यम् | तदेकत्वम् इति व्याचष्टे एकवम् इति | एकत्वम् - प्रकाशैकत्वम् | मातैकः इत्यादि व्याचष्टे इत्येक एव इति | स एव च - प्रकाश एव च, स्थितम् - प्रतिष्ठाम् गतम् - इदानीमुपपत्तितः इति पदद्वयं शषत्वनाध्याहृतम् | एतेन प्रथमस्य श्लोकस्य व्याख्या संपन्ना || १० || न च अस्य असौ प्रकाशलक्षणः स्वात्मा नीलाद्युपरागश्च परामर्शन- शून्य एव आस्ते स्फटिकमणेरिव, अपि तु सदैव विमृश्यमानरूपः, इति विमृशद्रूपत्वम् अनवच्छिन्नविमर्शता अनन्योन्मुखत्वम् आनन्दैकघन- त्वम्, [आनन्दैकघनत्वमेव अस्य माहेश्वर्यम् - K. ष्. ष्.] तदेवास्य माहेश्वर्यम् | स एव हि अहंभावात्मा विमर्शो देवस्य क्रीडादिमयस्य शुद्धे पारमार्थिक्यौ ज्ञानक्रिये, प्रकाशरूपता ज्ञानं तत्रैव स्वातन्त्र्यात्मा विमर्शः क्रिया, विमर्शश्च अन्तःकृतप्रकाशः, अथ द्वितीयं श्लोकं व्याचष्टे न च इति | विमृशत्त्वेन इति व्याख्यातुं प्रक्रियां तनोति न च इति | अस्य - प्रकाशस्य, स्वात्मा - प्रकाशाख्यो निजात्मा, परामर्शनशून्यः - स्वकर्तृकपरामर्शाविषयः, अत्र व्यतिरेकदृष्टान्तमाह स्फटिकमणेरिव इति | यथा स्फटिकमणेरात्मा नीलाद्युपरागश्च अहमिति इदमिति च परामर्शस्याविषयः तथास्य नास्तीत्यर्थः | पुनरस्यात्मा नीलाद्युपरागश्च कीदृशोस्तीत्यत आह अपि तु इति | अपि तु अस्य प्रकाशस्य स्वात्मा नीलाद्युपरागश्च विमृश्यामानरूपः अहम् इति अयम् इति च विमर्शविषयरूपयुक्तो भवतीत्यर्थः | विमृशत्त्वस्य पर्यायानाह अनवच्छिन्न इति | महेश्वरः इति व्याचष्टे माहेश्वर्यम् इति | तदेवास्यमाहेश्वर्यं भवति, तेनैवासौ महेश्वरो भवतीत्यर्थः | एव शब्देन नियतेन इत्यस्य व्याख्या | पूर्वार्धं व्याख्याय उत्तरार्धं व्याचष्टे स एव, इति | विमर्श एव इति व्याचष्टे स एव इति | इदंभावस्यापि परमार्थतोऽहंभाव एव विश्रान्तेः अहंभावात्मा इत्युक्ततम् | स एव - प्रकृतत्वेन [ते एव प्रकृतत्वेन प्रसिद्धे एव - C.] प्रसिद्ध एव | देवस्य इति व्याचष्टे क्रीडादि इति | आदि शव्देन विजिगीषादेर्ग्रहणम् | शुद्धं इति व्याचष्टे पारमार्थिक्यौ इति | ज्ञानक्रिययोः पृथक् पृथग्व्याख्यां करोति ज्ञानम् इति | तत्रैव - ज्ञान एव, इति विमर्श एव परावस्थायां ज्ञानक्रिये, परावस्थायां ज्ञानक्रिये, परापरावस्थायां तु भगवत्सदा - शिवभूवि इदन्तासामानाधिकरण्- यापन्नाहंताविमर्शस्वभावे, अपरावस्थायां च मायापदे इदंभावप्राधान्येन वर्तमाने इति विशेषः | सर्वथा तु विमर्श एव ज्ञानं तेन विना हि जडभावोऽस्य स्यात् इति उक्तम्, स एव च क्रिया इति भाविनः क्रियाधिकारस्य उपक्षेपं करोति इति | शिवम् || १० || ११ || आदितः || ८९ || स्वातन्त्र्यात्मा - कर्तित्वरूपः, विमर्शः - तलन्ततृच्प्रत्ययवाच्यो विमर्शः, क्रिया भवति | कर्तुः क्रियामयत्वात् तृचश्च कर्तरि विहितत्वादिति भावः | ननु तर्हि क्रियैव पर्यन्ते विश्राम्यतीति ज्ञानस्याप्रधानत्वमे- वायातमित्यत आह विमर्शश्च इति | अन्तःकृतप्रकाशः, सारभूतप्र- काश इत्यर्थः | एतेन विमर्शशक्तेः प्रकाशेन संपुटीकृतत्वसाधनमेव | अत एव च श्रीबहुरूपाख्ये निष्कलतत्त्ववाचकस्य बीजस्यादौ अन्ते चावस्थितिः मध्ये तु शक्तिरूपायाः अकारादिरूपायाः वर्णसन्ततेरित्यलं रहस्योद्धाटनेन | इति - अतः कारणात्, विमर्श एव - अहंपरामर्श एव, परावस्थायाम् - शिवभुवि | न हि तत्रेदन्तायाः नामाप्यस्ति | इदन्तासामानाधिकरण्यापन्नो योऽहन्ताविमर्शः स एव स्वभावः ययोर्ज्ञानक्रिययोः ते | अहमिदमिति स्वरूपे इत्यर्थः | ईश्वरदशाप्यत्रैव ज्ञेया | वर्तमाने - स्थिते, ज्ञानक्रिये इति पूर्वेण संबन्धः इति - एवम्, विशेषः, ज्ञानक्रिययोरिति शेषः | सिद्धान्तं कथयति सर्वथा इति | अस्य - प्रकाशस्य | उक्तम् इति, स्वभावमवभासस्य इत्यत्र | स एव च - विमर्श एव च, क्रिया भवति, पुष्टीभूय क्रियाभावेन स्फुरणशीलत्वात् | इति - अतः, स एव भाविनः - एतदनन्तरं स्थितस्य, उपक्षेपम् - बीजत्वेन वापनम्, करोति इति, तस्यैतत्पल्लवत्वात् | इति शब्दः आह्निकसमाप्तौ, शिव पदं मङ्गलप्रति- पादकं परतत्त्वसूचकञ्च | इति शिवम् | इति श्रीमन्माहेश्वराचार्यवर्योत्पलदेवपादविरचितायामीश्वर- प्रत्यभिज्ञायां श्रीमदा चार्याभिनवगुप्तकृतविमर्शिन्याख्य- व्याख्योपेता-यां माहेश्वर्यनिरूपणाख्यमष्टममाह्निकम् || ८ || प्रथमो ज्ञानाधिकारश्च समाप्तः | इति श्रीकश्मीरमण्डलान्तर्वर्त्याराध्यतमपादश्रीवैडूर्यकण्ठात्मजा- वतारकण्ठपुप्रश्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शि- नीटीकायां भास्कर्याख्यायां ज्ञानाधिकारेऽष्टममाह्निकम् | समाप्तश्चायं ज्ञानाधिकाराख्यः प्रथमो विमर्शः || तृज्वाच्यस्य महेश्वरस्य कुरुते ज्ञावाच्यतासादनात् स्वातन्त्र्यस्य सुसूत्रणां सह ततो वाच्येन भावेन या | पुष्टीभावि कृतेः सुबीजमुदिता शक्तिः स्फुटं यत्र सा व्याख्यातो ननु भास्करेण स इह ज्ञानाधिकारो मया || नाभिमानो मनः कार्यः शिवः कर्तात्र यत्स्थितः | तदैक्येनाभिमानस्ते यद्यस्ति स तु शोभनः || शिवः कर्ता शिवो द्रष्टा शिवः पाठक एव च | व्याख्याता च शिवः प्रोक्तः शिवार्पणमिति स्फुटम् || अथेश्वरप्रत्यभिज्ञायाः क्रियाधिकाराख्यः द्वितीयोऽधिकारः | विमर्शिनी विततविशदस्वात्मादर्शे स्वशक्तिरसोज्ज्वलां प्रकटयति यो मातृस्वांशप्रमेयतटद्वये | बहुतरभवद्भङ्गीभूमिं क्रियासरितं परां प्रकटयतु नः श्रीमान्गौरीपतिः स ऋतं परम् || १ || भास्करी ओं - स्वभूमौ येनास्यामहमिति निजामर्शरसतः सुसिक्ता व्यासुप्ताद्विदिमयस्वबीजादिव सदा | प्रकाशव्याप्तायां भिदि कुसुमिता भेदफलिनी क्रियावीरुद्रूढा तमिह हृदि सेवे परशिवम् || एवं ज्ञानाधिकाराख्यं प्रथमं विमर्शं व्याख्याय क्रियाधिकाराख्यस्य द्वितीयस्य विमर्शस्य निर्विघ्नपरिसमाप्तये प्रचयगमनाय च मनसोऽन्तः सम्यगनुष्ठितमपि बहिः शिष्यशिक्षार्थं परतत्त्वानुस्मरणरूपं मंगलमाशीरीत्या समस्ताधिकारतात्पर्यसूचकेन श्लोकेनोपनिबध्नाति वितत इति | यः - सर्वेषामात्मत्वेन प्रसिद्धः, श्रीमान् - अहंविमर्शाख्यमहा - स्वातन्त्र्यरूपमाहेश्वर्ययुक्तः, अत एव गौर्याः - अतिनिर्मलाया अस्या एव शक्तेः, पतिः - शक्तिमत्त्वेन स्थितत्वाद् भर्तृरूपः, विमर्शनिर्भरप्रकाश इति यावत् | परमृतम् - निजस्वरूपाख्यं पूर्णं सत्यं वस्तु, नः - स्वांशभूतानां परिमिताहंविषयाणां प्रमातॄणाम्, प्रकटयतु - देहादिन्यक्कारेण निजस्वरूपतया स्फुरणशीलं करोतु, येन ते स्वात्मानं तद्रूपं तदैश्वर्ययुक्तं चानुभवन्तीति भावः | स कः ? यो गौरीपतिः विततः - सर्वव्यापकश्चासौ विशदश्च - संक्रान्तभाववृन्दकृतलेप - गहित्येनातिनिर्मलश्च यः स्वात्मा - प्रकाशाख्यो निज आत्मा, स एव प्रतिबिंबसहिष्णुत्वेना - दर्शः, तस्मिन | पराम् - सर्वविषयत्वेन पूर्णाम्, क्रियासरितम् - ज्ञानशक्तिपुष्टीभावरूपां करणसशक्तिमेव नदीम्, प्रकटयति - प्रतिबिंबभावेन बहिः स्फुरणशिलां करोति, अन्यथा भासमानत्वा - योगात् | सरितं कीदृशीम् ? मातृरूपाः - ग्राहकरूपाः ये स्वांशाः - रुद्रक्षेत्रज्ञरूपाः, परिमितप्रमातार इति यावत्, ते च प्रमेयाणि च - तद्विषयीभूतं ग्राह्यजातं च, तान्येव तटद्वयम् - आश्रयविषयरूपं तीरद्वयम्, तत्र, तन्मध्ये इति यावत् | स्वशक्तिरसेन - निजामर्शरूपजलेन, उज्ज्वलाम् - रम्याम्, दत्तसत्तामिति यावत् | विमर्शशक्तिरेव [विमर्शशक्तेरेव - C.] ज्ञानशक्तित्वमासाद्य क्रियाशक्तिभावेन स्फुरति | अहं जानामि अहं करोमि इत्यत्र हि प्रथममहंपरामर्शः जानामीति भावेन परिणमते, ततः करणभावेन स्फुरति, अन्यथा शिलादेरपि करणप्रसङ्गात्, युक्तञ्च नद्यास्तीरद्वयमध्ये जलकृतमुज्ज्वलत्वम् | पुनः कीदृशीम् ? बहुतरम् भवन्त्यः याः भङ्ग्यः - कालादिरूपाः वीचयः, तासां भूमिम् - अनन्यसाधारणं स्थानम् | सरितश्च स्वभावेन भंग्यो भवन्त्येव | इयमेव च बहिः स्फुटमनुभूयमाना परमेश्वरशक्तिपाता - स्पृष्टानां रागद्वेषादिविवशकारित्वेन संसारपदम्, तत्स्पृष्टानां [तत्सृष्टानाम् - C.] तु तत्प्राप्तौ सोपानभूता एव, मूलान्वेषणा - द्वारेण तत्प्राप्तिकारित्वादिति सामान्यदृष्ट्या न दर्शनीया | तदुक्तम् : - सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || इति | तथा परमेश्वरस्थानुत्तरादिभावेन [अनुत्तराभिभावेन - C.] व्यस्तत्वेनं स्फुरणादकारादिकलाविलुप्तैक्यरूपविभवस्य ततश्च तत्स्वरूपशब्दराशिप्रादुर्भूतस्वरवर्गकवर्गाद्यष्टकरूपमा त्र - कस्य [सुरवर्गः - C.] संकल्पविवशताद्वारेण परमार्थंतो भोक्त्तृत्वेऽपि भोग्यतां गतस्य अत एव पशुतुल्यस्येयमेव स्वात्मप्रच्छादनक्रीडा पर्यन्तभूतैव [पर्यन्तभूतेव - C.] | तदुक्तम् : - शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन् [चन्द - C.] स पशुः स्मृतः || इति | अत्रायमर्थः | पण्डितैः सः - स्वान्तःकृतकुलाकुलपरतत्त्वरूप - महाकुलाख्यपतिवाचकत्वेन प्रसिद्धः | स्वान्तर्निगीर्णसकलवर्ण - कलापः प्रत्याहाररूपः अहं - शब्दः | पशुः - लक्षणया पशुवाचकः, अत एव च पशुबुद्धौ अनच्कहकारवाच्यजीववाच - कास्मच्छब्दरूपतया [पशुबद्धो वच्छहकार - C.] स्थितः, मूढान् प्रतीति शेषः, मूढा हि व्याकरणमात्रे प्राप्तनिष्ठाः कृतामादेशसुप्रत्ययांतकृताहादेशास्मच्छब्दरूपमेवाहमिति शब्दं जानते, न तु अनुत्तरात् प्रवृत्तः इत्यादिनीत्याऽकारहकारसमुदा - यरूपं पदत्वसिद्धये कृतसुप्रत्ययान्त अहं इतिप्रत्याहाररूपं स्वरूपसहितमध्यगसमस्तवर्णग्राहकम् | सः कीदृशः सन् ? शब्दराशेः - स्वान्तर्निगीर्णात् अकारादिहकारान्तशब्दरूपवर्ण- समुदायात् उत्तिष्ठतीति तादृशस्य, शक्तिवर्गस्य - वर्गाष्टकतन्मयपदवाक्यात्मकमातृकाचक्रस्य, भोग्यताम् - आयुक्तताम्, आधेयतामिति यावत्, गतः सन्, बुद्धिपाटवरहितेषु हि वर्णारब्धा अपि वर्गादयो वर्णाधेयतंया स्फुरन्ति, अत्र वर्गादावेतत्संख्याका वर्णा इत्यादिनिश्चयदर्शनात् | कुतो भोग्यतां गत इत्यपेक्षायां हेतुगर्भं विशेषणमाह कला इति | कलाभिः - बुद्धिपाटवरहितेषु ततो भिन्नतया स्फुरद्भिः निजैरकाराद्यवयवैः, विलुप्तः विभवः - समस्तवर्णान्तः - कृतिरूपमैश्वर्यं यस्य तादृशः, एकाशीतिमात्रामयत्वेऽपि सार्धमात्राद्वयमात्रभावेन स्फुरणात् तस्य मातृकारूपशक्तिवर्गभोग्यता संपन्नेति भावः | अथ च पण्डितैः सः - पूर्णप्रकाशरूपे स्वात्मनि अहंपरामर्शकर्तृत्वेन स्थितः विमर्शसारः प्रकाशः, पशुविकल्पाख्यैः पाशैः बद्धत्वेन पशुशब्दवाच्यो जीवः, स्मृतः | तदुक्तम् : - शिव एव गृहीतपशुभावः इति | कीदृशः सन् ? शब्दराशिसमुत्थस्य - स्वरूपभूतनिजविमर्शरूपा- नुत्तरादिवाचकाकाराद्यान्तरशब्दनरूपवर्णसमूहात् प्रादुर्भू-तस्य, शक्तिवर्गस्य - ब्राह्म्यादिशक्तिरूपस्य वर्गादिमातृकाष्टकस्य तथा तदारब्धस्य पदवाक्यसमूहस्वरूपस्य क्षुद्रशक्तिसमूहस्य च, भोग्यताम् - विकल्पद्वारेण परायत्तताम्, गतः सन् | कुतो गत इत्यत् आह कला इति | कलाभिः - निजविमर्शांशभूतैः अकारादिवर्णैः, विलुप्तः - व्यस्तत्वेन स्फुरणात् नाशितः, विभवः - मातृकोद्भावकत्वाख्यमैश्वर्यं यस्य तादृशः | अयं भावः - पूर्णचिद्रूपः परशिवाख्यः परमात्मा स्वेच्छया स्वात्मविश्रान्तनिजामर्शलेशतयाऽनुत्तरादिवाचकान् अकारादिवर्णान् प्रोद्भाव्य तत्र च योजनाद्वारेण वर्गाष्टकं नानाविधं पदवाक्यसमूहं च प्रकटीकृत्य संस्कारभावेन तेषां विकल्परूपतां संपाद्य ततो विकल्पाधीनतां स्वस्य कृत्वा पशुरूपजीवभावेन स्फुरति | एतदेव च ब्राह्म्यादिमातॄणां मातृत्वं यत्तस्य परिवारभावेन तिष्ठन्ति, विकल्पा हि चिद्रूपस्य जीवस्य परितो वारणात् परिवार एव, मातृशब्दो ह्यत्र परिवारवाच्येव न जननीवाचकः, वाक्प्रपंचं प्रति तु कारणत्वेन जननीवाचकमपि भवत्वित्यलमतिबह्वया रहस्यचर्चया | अथ च पण्डितैः सः - समस्ततत्त्वाधारतया प्रसिद्धः सप्तत्रिंशः परशिवः, पशुः - पञ्चविंशाण्डतत्त्वरूपः, स्मृतः | यद्यपि सर्वाणि तत्त्वानि तद्रूपाण्येव तथाप्यधिकारापेक्षयैवमुक्तम् | कीदृशः सन् ? शक्तिवर्गस्य - तत्त्वेषु यथास्वं स्थितस्य शक्तिसमूहस्य, [यथास्वं स्थितस्य शक्तिभोग्यतां समूहस्य - C.] भोग्यताम् - नियोजकत्वेऽपि नियोज्यताम्, गतः सन् कुतः ? यतः कलाभिः - शिवादिभूम्यन्ततया स्थितैः तत्त्वरूपैः स्वांशैः, विलुप्तविभवः - नष्टपूर्णत्वः | शक्तिवर्गस्य कीदृशस्य ? शब्दराशिसमुत्थस्य - शब्दराशिरूपाद् भैरव कल्पात्परशिवात् प्रादुर्भूतस्य | तदुक्तम् : - एकामर्शस्वभावत्वे शब्दराशिस्स भैरवः | इति | एतेन क्रियाशक्तिरत्र निर्णेतव्यत्वेन स्थितेति सूचितम् | ननु पूर्वं ज्ञानाधिकारारम्भे मङ्गलं किं न कृतम्, सत्यम्, तत्र सकलशास्त्र-निर्विघ्नपरिसमाप्तये बहु मङ्गलमेव कृतम्, तेनैव तस्यापि समङ्गलत्वं ज्ञात्वा पुनर्न कृतम्, नहि कर्षणाद्यर्थमानीत-मुदकुम्भादि मङ्गलवस्तु तदनन्तरभाविबीजावपनाद्यर्थं न भवतीति वक्तुं युक्तम् | इह तु व्यवधानाशंकया पुनः कृतम् | यद्यपि परतत्त्वनिर्णयपरस्यास्य शास्त्रस्य कुत्रापि व्यवधानं न संभवत्येव तथापि शिष्यशिक्षार्थं ग्रन्थकारशैली न त्यक्तेत्यलम् | यत्र विश्रान्तिमासाद्य चित्रं क्रीडाविजृम्भितम् | क्रियाशक्तिप्रियात्यन्तं [क्रियाशक्तिः प्रिया - K. ष्. ष्.] दर्शयेत्तं स्तुमः शिवम् || २ || अथ क्रियाशक्तिस्वरूपं वितस्य निर्णेतुम् अधिकारान्तरम् आरभ्यते | तत्र श्लोकाष्टकेन अत एव............................................, इत्यादिना यदवभास्यते......................................, यस्यावष्टंभयोगेन नानाक्रीडामयीं स्थितिम् | नारीव भर्तुर्भजते सा क्रिया तं स्तुमः शिवम् || एवमधिकारनिमित्तं मङ्गलं विधाय प्रथमाह्निकनिर्विघ्न-समाप्तिहेतुभूतमपि मङ्गलं तदभिप्रायसूचनपरेण श्लोकेनोपनिबध्नाति यत्र इति | वयं तं शिवम् - बहुधा प्रोक्तस्वरूपविभवं परमेश्वराख्यं तत्त्वम्, स्तुमः | तं कम् ? क्रियाशक्तिप्रिया - क्रियाशक्तिरूपा कान्ता, यत्र - यस्मिन् शिवे, विश्रान्तिम्, - विश्रामम्, आसाद्य, यदभिन्नत्वेन [यद्भिन्नत्वेन - C.] स्थित्वेति यावत् | चित्रम् - असंभवोपहतत्वेनाश्चर्यकारि नानाविधं च, क्रिडाविजृम्भितम् - कालादिनिर्मातृतारूपं क्रीडाविलसितम्, अत्यन्तं दर्शयेत् दर्शयितुं शक्ता भवति, शक्यत्र लिङ्, अन्यथा जडत्वेनाकिञ्चित्करत्वादिति भावः | युक्तञ्च प्रियाया भर्तरि विश्रान्तिमासाद्य क्रीडादर्शनं न तु चित्रमिति व्यतिरेकालङ्कारो व्यंग्यः | अप्रिया तु तत्राशक्तैवेति प्रियेत्युक्तम् | क्रियाशक्तेश्चाहं जानामीत्यत्र ज्ञानशक्तेरिवाहं - करोमीत्यत्राहंशब्दवाच्ये परमात्मस्वरूपे शिवे विश्रान्तिः स्फुटैव, स्फुटं प्रमातृलग्नत्वेनैव स्फुरणात् | एतेन क्रियाशक्तेरत्राह्निके निरूपणं स्थितमिति सूचितम् | एवं मङ्गलद्वयं संपाद्य क्रियाधिकारकथनं प्रतिजानीते, अथ इति | अत्र टीकाः : - अथ - ज्ञानाधिकारानन्तरम्, वितत्य इत्यनेन ज्ञानाधिकारे संक्षेपेण क्रियास्वरूपनिर्णयः कृत इति सूचितम् | आरभ्यते इति, सूत्रकारेणेति भावः | इत्यन्तेन परमेश्वरे परमार्थतोऽक्रमा क्रिया, परिमितसांसारिकप्रमातृक्रमावभासनयोगात् [परिमितसांसारिकप्रमातृगतक्रम - K. ष्. ष्.] सक्रमापि च, इत्युपपाद्यते | तथाहि श्लोकेन उक्तपूर्वपक्षप्रतिक्षेपः | ततः श्लोकेन सक्रमत्वाक्रमत्वविवेकः | ततः श्लोकत्रयेण क्रमस्वरूपनिरूपणम् | ततः श्लोकद्वयेन सक्रमत्वा - क्रमत्वयोर्विषयविभागः, विषयविभागे च सति वस्तुतः एकत्रैव तयोः विश्रान्तिः, इति श्लोकेन निरूप्यते, इति तात्पर्यम् आह्निकस्य | आह्निकाभिप्रायं सामस्त्येन कथयति तत्र इति | तत्र - प्रतिज्ञातक्रियाधिकारमध्ये, प्रथममिति शेषः | श्लोकाष्टकेन, प्रथमाह्निकारम्भकेणेत्यर्थः | श्लोकाष्टकमाद्यन्ताभ्यामुपलक्षयति अत एव इति | इति उपपाद्यते - एवमुपपत्त्या स्थाप्यते | इति किमिति ? परमेश्वरे - श्रीशिवभट्टारके, परमार्थतः - सत्यदृष्ट्या, क्रिया अक्रमा भवति भासमानस्य समस्तस्य देशकालकृतस्य क्रमस्य युगपत्तदन्तःस्थितत्वात्, दृश्यते च सक्रमत्वेन भासमानेषु मुद्रिकया संक्रान्तेष्वक्षरेषु परमार्थतोऽक्रमत्वम्; युगपदेव पत्रादौ संक्रान्तेः | अत्रापि च सर्वः क्रमहेतुर्देशादिः प्रागिवार्थः इति न्यायेन प्रकाशशरीरान्तर्गत एव भाति, इति तदन्तर्गतभावजातसक्रमत्वसंपादनशक्तावपि न तं सक्रमीकर्तुं शक्तः, यथातथा कल्पितस्य तत्क्रमस्यापि तदन्तर्गतत्वानपायात्, अन्यथा महाद्वैतासिद्धेः, तदसिद्धौ च तद्विषयत्वेन प्रवृत्तस्य शास्त्रजातस्य निर्विषयत्वापातात्, तत्र निर्विषयत्वे च तेन प्रसंगालोचितस्य तदितरव्यवहार- जातस्यासम्यक्प्रतिष्ठानालब्धेः, तन्मतभरितमेव जगत् स्यादिति भावः | तथा सा क्रिया परिमिताः - परप्रमात्रंशरूपाः ये सांसारिकाः - विश्रान्तिपदात् प्रच्यावेन संसृतौ स्थिताः प्रमातारः, तेषु यत् क्रमावभासनं तस्य योगात्, सक्रमाऽपि भवति | कथमुपपाद्यते इत्यपेक्षायां व्यस्तत्वेन श्लोकाष्टकाभिप्रायं कथयितुमुपक्रमते तथाहि इति | उक्तः - ज्ञानाधिकार प्रारंभे प्रोक्तः, अर्थात् तत्रानुपयोगित्वेन अप्रातसमाहितः, यः पूर्वपक्षः तस्य प्रतिक्षेपः - प्रतिसमाधानम् | ततः - तदनन्तरम्, विषयविभागः - विषयविभजनम्, भिन्नविषयतया कथनमिति यावत् | तयोः - सक्रमत्वाक्रमत्वयोः, आह्निकस्य, प्रथमाह्निकस्येत्यर्थः | अथ श्लोकार्थो [श्लोकार्थस्तु निरूप्यते - C.] विभज्यते | तत्र पूर्वोक्ते ज्ञानशक्तिसमर्थनोपयोगिनिमेये सिद्धे प्रमेयान्तरमपि अयत्नतः सिद्धम्, इति अधिकरणसिद्धन्तदिशा दर्शयति : - कारिका : अत एव यदप्युक्तं क्रिया नैकस्य सक्रमा | एकेत्यादि प्रतिक्षिप्तं तदेकस्य समर्थनात् || १ || यत् तावत् उक्तम् ज्ञानान्येव अनुभवविकल्परूपादिभिन्नानि न तेषाम् आश्रयोऽस्ति कश्चित्, संस्काराच्च स्मृतिः सिद्धा ज्ञानं च जडं चेत् न अर्थस्य प्रकाशः, अजडं चेत् देशकालसंकोचवैकल्यात् आत्म-तत्त्वात् अभिन्नम् इति, तत् तावत् प्रतिक्षिप्तं भिन्नानामनुभवादी-नामनुपपत्तेः वितत्य दर्शितत्वात् | न च संस्कारमात्रात् स्मृतिः अथ श्लोकार्थकथनं प्रतिजानीते अथं इति | विभज्यते, विभागेन कथ्यते इत्यर्थः | अथ प्रथमस्य श्लोकस्यावतरणिकां करोति तत्र इति | अत्र टीकाः :- प्रमेयान्तरम् - ज्ञानशक्तिसमर्थनसमयेऽनुपयोगित्वेन तत्रासमर्थितं क्रियाशक्तिसमर्थनोपयोगि अन्यत् निर्णेयं वस्तु, अधिकरणसिद्धान्तदिशा - अधिकरणसिद्धान्तरीत्या | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | अत एव इति | अत्र टीका - तत्र प्रथमम् अपि शब्दाभिप्रायं कथयति यत् इति | उक्तम् इति, ज्ञानाधिकारे पूर्वपक्षनिर्णये, तेषाम् - अनुभवादीनाम्, आश्रयः - आत्मस्वरूप एकाधारः, प्रतिक्षिप्तम् - प्रतिसमाहितम्, कुत इत्यपेक्षायामाह - भिन्नानाम् इति | अनुपपत्तेः - अनुपपद्यमानतायाः | उक्तम् - सम्यङ् निर्णीतम् | तस्य - परप्रमातुः, यत् स्वातन्त्र्यं तेनावभासितानि यानि ज्ञयानि तैः य उपरागः - स्वावच्छिन्निकरणम्, तस्य वशात् - सामर्थ्येन | तस्य - इत्येतदप्युक्तम्, अजडमेव च असंकुचितरूपं ज्ञानम्, तत्स्वातन्त्र्याव-भासितज्ञेयोपरागवशात् तु तस्य [अस्य - K. ष्. ष्.] संकोचावभास इत्यपि दर्शितं यतः, न केवलम् अतो हेतुकलापात् ज्ञानशक्तिचोद्यानि निवारितानि, यावत् क्रियाशक्तिविषयाण्यपि दूषणानि अत एव हेतुकलापात् [हेतुजातात् - K. ष्. ष्.] अपसारितानि इति अपिशब्दः [अपसारितानि, इति अपिशब्दार्थः - K. ष्. ष्.] | एका क्रिया क्रमिका कथम् आश्रयस्य एकस्वभावत्वे सति घटते ? इति यदुक्तम्, तथा तत्र तत्र स्थिते.................................., इति, द्विष्ठस्यानेकरूपत्वात्.................., इति च यदुक्तं तदपि प्रतिक्षिप्तमेव, यतः इयति पूर्वपक्षे इयदेव जीवितम् ज्ञानस्य, यतः इति, तत्तावत् प्रतिक्षिप्तम् इत्यपि दर्शितम् [इत्येतदप्युक्तम् - इत्यपि दर्शितम् -C.] - इत्येतदप्युक्तम् | अतो हेतुकलापात् [ततः कारणात् - अतो हेतुकलापात् - C.] - ततः कारणात्, न केवलं ज्ञानशक्तिचोद्यानि निवारितानि - अपसारितानि, यावत् - यावता, क्रियाशक्तिविषयाण्यपि दूषणानि - चोद्यान्यपि, अत एव हेतुकलापात् अपसारितानि - अधिकरणसिद्धन्तावष्टंभेन निवारितानि | इति - एतदर्थम् | एतदेव द्योतयितुमिति यावत् | अपिशब्दः भवति | एवं समुच्चयवाचि अपि शब्दाभिप्रायमुक्त्वा श्लोकं व्याचष्टे - एका इति | एकस्वभावत्वे, एकरूपत्वे सतीत्यर्थः | उक्तम्, ज्ञानाधिकारोक्ते पूर्वपक्षे इति भावः | तथा शब्दः समुच्चये, तद्वदित्यर्थः | तत्र तत्र स्थिते इति, अस्मिन् श्लोके इत्यर्थः | इति च, अस्मिन् श्लोके चेत्यर्थः | प्रतिक्षिप्तमेव - प्रतिसमाहितमेव, अत एव हेतुकलापात् इति भावः | अपिशब्दाभि-प्रायकथने स्थितं सूत्रस्थस्यात एवेत्यस्य वाच्यभूतमिहापि योजनीयम् | एकस्यापि समर्थनात् इति सूत्रस्थं हेतुं व्याख्यातुमाह एकमनेकस्वभावं कथं स्यात् इति | अत्र [तत्र - K. ष्. ष्.] च उक्तं चित्स्वभावस्य दर्पणस्येव एकतानपबाधनेन आभासभेदसंभवे क इव विरोध इति, तस्मात् प्रत्यभिज्ञानबलात् एकोऽपि असौ पदार्थात्मा स्वभावभेदान् विरुद्धान् यावत् अङ्गीकुरुते तावत् ते विरोधादेव क्रमरूपतया निर्भासमानाः तमेकं क्रियाश्रयं संपादयन्ति इति, ततश्च संबन्धादीनामपि उपपत्तिरिति || १ || ननु च क्रमिकत्वमेव क्रियायाः स्वरूपम्, क्रमश्च कालकलनाहीने यतः इति | इयति पूर्वपक्षे - ज्ञानाधिकारे प्रोक्ते सर्वस्मिन् पूर्वपक्षे | इयत् किमित्यत आह एकम् इति | नन्वेतदेव परमार्थतोऽस्ति [परमात्मतः - C.] इत्यत्राह अत्र इति | अत्र च - अस्मिन् विषये च | किमुक्तमित्यत आह चित्स्वभावस्य इति | एकतायाः अनपबाधनम् - बाधाऽविषयीकरणम्, एकतानपबाधनम्, तेन, आभासभेदसंभवे - नीलपीताद्याभास-संभवे सति, विरोधः - एकस्यानेकस्वभावत्वविरोधः, इति शब्दः एकत्वस्य समर्थनात् इति हेतोः व्याख्यासमाप्तौ | एतेन फलितं वस्त्वाह तस्मात् इति, प्रत्यभिज्ञानबलात् - योऽहं घटमद्राक्षम् सोऽहं स्पृशामीत्यादिप्रत्यभिज्ञावशतः, एकोऽपि सन् असौ - प्रकाशरूपः परप्रमाता, पदार्थात्मा - नीलपीतादिसारभूतः, स्वभावभेदान् - नीलपीतादिरूपान् स्वरूपभेदान्, विरुद्धन् - परस्परपरिहारेण स्थितत्वात् विरोधयुक्तान्, इति सब्दः फलितसमाप्तौ | अत्रापि फलितमाह ततश्च इति | आदि शब्देन स्मृत्यादेर्ग्रहणम् | एवमत्र योजना | पूर्पक्षे यदपि इत्यादि यदुक्तम्, तदपि - अर्थात् तत्रानुपयोगित्वेनाप्रतिसमाहितं तदपि, अत एव - पूर्वोक्ताद्धेतु- कलापाद्धेतोः प्रतिक्षिप्तम्, कुतः ? एकस्य परमात्मतत्त्वस्य समर्थनात्, इत्यादि किम् ? एका सक्रमा क्रिया एकस्य न भवति || १ || अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति ननु च इति | अत्र टीका :- क्रमिकत्वम् - क्रमभावित्वम्, पूर्वापरीभूतावयवयुक्तत्वमिति यावत् | चिन्मये भगवति नास्ति, इति कथम् अस्य सा भवेदित्याशङ्क्याह :- सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः | घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव || २ || उत्क्षिपति अपक्षिपति हस्तम् इति ये पूर्वोत्तरे क्षणाः ते क्रमवन्तः, तत्र येषां त एव क्रिया काणादादीनामिव [क्रिया काणादानामिव - K. ष्. ष्.] तेषां सा सक्रमा प्रत्यक्षेणैव भाति | ये तु मन्यन्ते तथाभूतप्रत्यक्षपरिदृश्यमानरूपभेदसंपादिका [तथाभूतपरिदृश्यमानभेदसंपादिका - C.] या असौ काचित् अतीन्द्रिया हस्तगता शक्तिर्व्यापारोद्बोधरूपा नित्यानुमेया तस्याः केवलं पूर्वापरीभूतत्वम् अनुमीयते, इति लौकिक्याः क्रियायाः सक्रमत्वं कालशक्तेः आभासविच्छेदनप्रदर्शनसामर्थ्यरूपात् चिन्मये - चित्स्वरूपे. भगवति - माहेश्वर्ययुक्ते परप्रमातरि, अस्य - भगवतः, सा - क्रिया | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | सक्रमत्वम् इति | अत्र टीका - तत्र प्रथमं सक्रमत्वं साधयति उत्क्षिपति इति | पूर्वोत्तरे - उत्क्षेपणापक्षेपणरूपाः, क्षणाः - क्रियाक्षणाः, क्रमवन्तः - पूर्वापरीभूतत्वेन क्रमविशिष्टाः, तत्र - क्रमवत्त्वे सति, येषां काणादादीनाम् इति सबन्धः, आदि शब्देन नैयायिकादिग्रहणम् | सा - क्रिया, भाति इति, उत्क्षेपणादीनां प्रत्यक्षगम्यत्वादिति भावः | ये तु, मीमासकादयस्तु इत्यर्थः | किं मन्यन्ते इत्यपेक्षायां वाक्यं कर्मत्वेनाह तथाभूत इति | प्रत्यक्ष [परिमृश्यमानः - C.] परिदृश्यमानः यः रूपभेदः चैत्रादिहस्ततत्तद्देशसंयोगविशिष्टताकृतः स्वरूपभेदः तस्य संपादिका - संपादयित्री, व्यापारस्य - उत्क्षेपणादेः कर्मणः यः उद्बोधः तद्रूपा | पूर्वापरीभूतत्वम् - सक्रमत्वम्, लौकिक्याः - लोकसंबन्धिन्याः, सक्रमत्वम् - क्रमसहितत्वम् | कालशक्तितः इति व्याचष्टे काल इति | अस्यापि व्याख्यां करोति आभास इति | आभासानाम् - नीलपीताद्याभासानां यद्विच्छेदनम् - पारमेश्वरात् शक्तिविशेषात् घटते उपपद्यते, या तु प्रभोः संबन्धिनी तदव्यतिरिक्ता क्रियाशक्तिः शाश्वती कालेन अस्पृष्टा तस्याः सक्रमत्वम् अस्ति इति संभावनाऽपि नास्ति, यथा प्रभोः सक्रमत्वमसंभाव्यं तथा अस्या [तस्या अपि - K. ष्. ष्.] अपि | उक्तं हि :- हस्तस्य सक्रमत्वे तद्गताऽपि क्रिया तथा स्यात् इति || २ || ननु कालो विशेष भावम् उपगच्छन् भावं स्वेन रूपेण अवच्छिनत्ति तत्र कोऽसौ कालो नाम इत्याशङ्क्याह :- स्वविशिष्टताकरणेनान्योन्यतो भेदनम्, तस्य यत् प्रदर्शनम् - बाह्यभूमौ प्रमातृविषयीकरणम्, तत्र यत् सामर्थ्यम् - समर्थता, तद्रूपात्, पारमेश्वरात् - परमेश्वरसम्बन्धिनः | घटते इति व्याचष्टे उपपद्यते इति | एतेन घटते इत्यन्तश्लोकखण्डव्याख्या | न तु इत्यादि खण्डं व्याचष्टे या तु इति | प्राभव्याः इति व्याचष्टे प्रभोः इति | अत्रापि पर्यायमाह तत् इति | साश्वत्याः इति व्याचष्टे कालेन इति | कालेन अस्पृष्टा, कालकृतपरिच्छेदरहिता इत्यर्थः | संभावनापि नास्ति इति संभावनायां लिङ् इति सूचितम् | प्रभोरिव इति व्याचष्टे यथा इति | अस्या अपि - क्रियाया अपि | अत्र वृद्धसम्मतिमाह उक्तं हि इति | तद्गता - हस्तगता, तथा स्यात्, सक्रमा स्यात् इत्यर्थः | इति शब्दो व्याख्यासमाप्तौ | एतदेव च | उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् | तत्रैव च सती पूर्णा मानमेयादिरूपिणी || १ || पाकादिस्तु क्रिया कालपरिच्छेदात् क्रमाश्रिता | मतान्त्यक्षणबन्ध्यापि न पाकत्वं प्रपद्यते || २ || इति श्लोकद्वयेन श्रीतन्त्रालोके निर्णीतम् || २ || अथ तृतीयस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका - अवच्छिनत्ति - अवच्छेदविषयीकरोति, तत्र, तत्र सति इत्यर्थः | कालो - कालः सूर्यादिसंचारस्तत्तत्पुष्पादिजन्म वा | शीतोष्णे वाथ तल्लक्ष्यः क्रम एव स तत्त्वतः || ३ || ये इयत्तया परिनिष्ठिता आभासाः सिद्धाः, तद्यथा चन्द्रसूर्यादीनां सहकारमल्लिकाकुटजादीनां शीतोष्णादेः परभृतमदविलासादेः त एव कालः यतोऽपरिनिष्ठितं गमनपठनादि तैरियत्तया परिनिष्ठीयते परिवर्तकैरिव कनकम् | स एव च सूर्यादीनां स्वभावविशेषस्तत्त्वतः पर - नाम - कालाख्यं वस्तु | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | कालः इति | अत्र टीका :- सूर्यादिसञ्चारः इति व्याचष्टे, ये इति | इयत्तया - परिच्छिन्नत्वेन, परिनिष्ठिताः - परिनिष्ठां गताः, एतन्मात्रस्वरूपा इति स्थितिं गता इत्यर्थः | सिद्धाः - प्रसिद्धाः, आभासान्विशेषतो दर्शयितुं प्रतिजानीते तद्यथा इति | यथाशब्दाकांक्षां पूरयति, चन्द्र इति | सूत्रेऽकृतमपि चन्द्रग्रहणमिहादिशब्देनयोग्यतया कृतम् | तत्तत् इत्यादि समस्तपदं व्याचष्टे सहकार इति | शीतोष्णे वा इति व्याचष्टे शीतोष्णादेः इति तल्लक्ष्यः इति व्याचष्टे परभृत इति | परभृतमदविलासादिर्हि शीतोष्णादिनैव लक्ष्यो भवति | आभासाः [आभासाः आभासा इति सवः - C.] इति सर्वैः षठ्यन्तैः सह युज्यते | ये इत्यस्यापेक्षां पूरयति ते इति | ते एव - आभासा एव, कालो भवति | कुत इत्यपेक्षायां सूत्रेऽनुक्तमपि हेतुं वक्तुमाह यतः इति | अपरिनिष्ठितम् - स्वभावन परिनिष्ठामगतम्, निर्मर्यादमिति यावत् | तैः - सुर्यसञ्चारादिभिः, इयत्तया परिनिष्ठीयते - इयत्तया स्थाप्यते, सूर्योदयादनन्तरं गच्छामि, तदुदयादारभ्य तदस्तमयं यावत्पठामि, इत्येवमादि समर्यादीक्रियते इत्यर्थः | किमिव कैः ? कनकमिव - हेमेव, परिवर्त्तकैः, गुञ्जादिरूपैः प्रतिमानखण्डैः इत्यर्थः | क्रम एव इत्यादिश्लोकशेषं व्याचष्टे स एव इति | स एव इति व्याचष्टे शूर्य इति | स्वभावविशेषः - सञ्चारादिरूपः स्वभावभेदः | तत्त्वतः मार्थतः क्रमो नान्यः कश्चित् क्रमो नाम, क्रम एव च कालो नान्योऽसौ कश्चित्, इति एवकारो भिन्नाभिन्नक्रमो योज्यः, यौगपद्यमपि द्वयोराभासयोः [यौगपद्यमपि आभासयोः - K. ष्. ष्.] अपराभासापेक्षया क्रम एव, चिरक्षिप्रादिधीरपि विततान्यत्ववशात् आभासभेदे क्रम [आभासभेदे क्रमरुप एव - K. ष्. ष्.] एव, परत्वापरत्वबुद्धिरपि स्फुटत्वादिना तत्रैव, इति तेन तेन प्रतिमानवर्तकतुल्येन सूर्यसंचारादिना सह मीयमानो इति व्याचष्टे परमार्थतः इति | क्रमः - भावगतः क्रमाभासः | एव - कारव्यावर्त्यमाह नान्यः इति | क्रमो नाम - क्रमाख्यं वस्तु | नन्वस्तु सूर्यादिसञ्चारस्य क्रमत्वं ततः किम् इत्यपेक्षायामत्रैव तन्त्राश्रयणेन द्वितीयमर्थं हेतुत्वेन योजयति क्रम एव च इति | इह स इति शब्देन कालपरामर्शः | इहापि एवकारव्यावर्त्यमाह नान्यः इति | अन्यः - क्रमव्यतिरिक्तः असौ - कालः, इति - एवं, तत्र प्रथमेऽर्थे भिन्नक्रमत्वं द्वितीये त्वभिन्नक्रमत्वम् | ननु यौगपद्यस्य कालविशेषस्य कथं क्रमत्वं युक्तं तद्विरोधित्वादित्यत आह यौगपद्यम् इति | द्वयोराभासयोः - युगपद्भाविनः आभासद्वयस्य, अपराभासापेक्षया - पूर्वं भूतान्याभासापेक्षया [पूर्वं भूतान्याभासापेक्षया - C.] भाव्यन्याभासापेक्षया वा | चिरक्षिप्रादौ कालविशेषेऽपि क्रमत्वं कथयति चिर इति | चिरक्षिप्रादिधीरपि क्रम एव, क्रमविषयैव भवतीत्यर्थः, तत्र विततत्वे चिरबुद्धिः अविततत्वे क्षिप्रबुद्धिरिति विभागः | तत्रव - क्रमे एव, क्रमविषये एवेत्यर्थः | तत्र स्फुटत्वे अपरव्यवहारः प्रत्यक्षदृष्टजन्मनि अपरोऽयमिति व्यवहारदर्शनात् | आदिशब्दगृहीतेनास्फुटत्वेन तु परव्यवहारः | अत्र फलितं वस्त्वाह इति इति | इति - अतः कारणात्, प्रतिमानवर्तकतुल्येन - हेमस्थानीयो देवदत्ताभासस्य वैचित्र्यभेद इत्थम् उच्यते दिवसं गच्छति इति || ३ || ननु एवं कालो नाम भावस्वभाव [भावस्वभावभूत - K. ष्. ष्.] एव अस्तु, का असौ कालशक्तिः इत्याशङ्क्याह :- क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः | आभाससदसत्त्वे तु चित्राभासकृतः प्रभोः || ४ || इह स्वभावभेदमात्रं यदि क्रमात्मा कालः तदाङ्गुली- चतुष्टयं [तदङ्गुलीचतुष्टयम् - K. ष्. ष्.] भिन्नस्वभावम् इति भिन्नकालं भवेत्, तस्मात् अरुणाभासस्य प्रतिमानखण्डतुल्येन, तेन तेन सूर्यसञ्चारादिना सह मीयमानः - तुलनाविषयीकृतः | हेमस्थानीयः - कनकसदृशः, इत्थम् इत्यस्याकांक्षां पूरयति, दिवसम् इति | दिवसम् - सूर्योदया- दारभ्य तदस्तमयपर्यन्तस्थितिम्, तत्सञ्चाररूपं कालविशेषम् | उपलक्षणञ्चैतत् समस्तानां क्षणादिरूपाणां कालभेदानाम् | इति शब्दो व्याख्यासमाप्तौ || ३ || अथ चतुर्थश्लोकस्यावतरणिकां करोति ननु एवम् इति | अत्र टीका - एवम्, सूर्यसञ्चारादेः कालत्वे सतीत्यर्थः, भावानाम् - सूर्यादीनाम्, यः स्वभावः - सञ्चाररूपः सः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | क्रमः इति | अत्र टीका - प्रक्रियापूर्वं पूर्वार्धं व्याचष्टे इह इति | इह भासमाने जगति, स्वभावभेदमात्रम् - सूर्यादीनां नित्यसञ्चारादिरूपः केवलः स्वभावभेदः | यदि क्रमात्मा - क्रमरूपतया साधितः, कालः स्यात्, न तु तद्द्योतितः काप्यन्योऽतीन्द्रियः भवेत्, तदाङ्गुलीचतुष्टयम् - पाणौ युगपत् सन्धिबन्धेन स्थितं तर्जन्यादिचतुष्टयम्, भिन्नकालम् परस्परापेक्षयाकालभेदयुक्तम् | भवेत्, कुत इत्यपेक्षायामाह भिन्नस्वभावम् इति | इति - अतः, भिन्नस्वभावम् - सद्भावः स्फुटप्रभापुञ्जसय च असद्भावः इत्येवंभूतो यो भेद आभाससद्भावासद्भावाभ्यामनुप्राणितः तत्कृतः क्रमः कालात्मा, तौ च आभासानां भावाभावौ न बाह्यहेतुकृतौ इति विस्तार्य उपपादितम्, इति य एव संवित्स्वभाव आत्मा स्व्प्नसंकल्पादौ आभासवचित्र्य - भिन्नस्वरूपं भवति, न हि अङ्गुलीचतुष्टयं सन्धिबन्धैक्येपि [सन्धिबन्धैक्येऽपि च एकस्वभावम् - C.] एकस्वभावम् ह्रस्वदीर्घत्वादिकृतस्य भेदस्य स्फुटत्वात्, अंगुष्ठस्य तु ताभिः सह सन्धिबन्धैक्यं नास्तीति तस्याग्रहणम् | उक्तप्रक्रियावष्टंभेन फलितरीत्या व्याख्यां करोति तस्मात् इति | भेदः इति व्याचष्टे अरुण इति | आभास सदस्त्त्वतः इति व्याचष्टे आभास इति | आभासयोः अरुणाभासस्य स्फुटप्रभापुञ्जाभासस्य च यौ सदसद्भावौ - क्रमेण सद्भावः असद्भावश्च ताभ्याम्, अनुप्राणितः - दत्तसत्तकः, अनुप्राणितपदेन तसिला द्योतित्तं हेतुत्वमुक्तम् | भेदाश्रयः इति व्याचष्टे तत्कृतः इति | तत्कृतः आभाससदसद्भावानुप्राणितभेद-कृतः | क्रमः इति व्याचष्टे कालात्मा इति | शृङ्खलाबन्धेन व्याख्याकरणम् अपि शब्दद्योत्यम् | तथा चैवमत्र योजना | क्रमः - क्रमतया साधितः कालः, भेदः - सूर्यादिसञ्चाररूपस्वभावभेदः, आश्रयः हेतुर्यस्य तादृशो भवति, न तु तद्रूपो भवति, अङ्गुलीचतुष्टस्यापि भिन्नकालत्वापातात्, भेदोऽपि - क्रमहेतुः भेदश्चाभाससदसत्त्वतो भवति, सूर्यसञ्चारविशेषभूतारुणाभाससद्भावस्फुटप्रभापुञ्ज अ-सद्भावकृतो भवतीत्यर्थः, अन्यथा सूर्यसञ्चारस्य समानत्वात् तदपेक्षया साधितः कालः सर्वत्रैकतामाश्रयेदिति भावः | एवं तत्तत्पुष्पादिजन्मादिष्वपि ज्ञेयम्, एतदपेक्षयापि कालसाधनात् | ननु तर्हि कालस्य भगवच्छक्तित्वं नास्ति, बाह्यवस्तुजन्यत्वादित्य-पेक्षायामेत तदुत्तरद्योतकमुत्तरार्धं व्याचष्टे तौ च इति | आभासानाम् - अरुणाभासस्फुटप्रभापुञ्जाभासादीनाम्, एतेन आभाससदसत्वे इत्यस्य व्याख्यानम् | उपपादितम्, पूर्वं ज्ञानाधिकारे इत्यर्थः | चित्राभासकृतः इति व्याचष्टे य एव, इति | प्रसिद्धत्वेन स्वप्नादेर्ग्रहणम्, स्वसंविदितः इति निर्माणे प्रभुः प्रभविष्णुः इति स्वसंविदितस्तत एव तौ भवतः स हि आत्मनि नीलादीन् आभासान् आभासयन् चित्रतया अपरिमेयया भासयति, तथाहि - लोहिताभासं घटाभासम् उन्नताभासं दृढाभासं च सामानाधिकरण्येन घटाभासं पटाभासं च पृथक्त्वावभासेन अन्योन्यत्र आभासाभावेन, स्वात्मनि तु एकरसेनाभासेन, इयति च न क्रमस्य उदयः, यदा तु शरदाभासं हेमन्ताभासेन च सर्वथैव शून्यमाभासयति हेमन्ताभासं च शारदाभासेन तदा कालात्मा क्रम उत्तिष्ठति, इति सेयम् इत्थंभूता भाववैचिंत्र्यप्रथनशक्तिः [इत्थंभूताभासवैचित्र्यप्रथनशक्तिः - K. ष्. ष्.] भगवतः कालशक्तिः इत्युच्यते || ४ || चित्राभासकृत्त्वमेव स्फुटयति : - मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ | क्रियावैचित्र्यनिर्भासात्कालक्रममपीश्वरः || ५ || प्रसिद्धः | प्रभोः इति व्याचष्टे प्रभविष्णुः इति | प्रथमान्ततया व्याख्या - तस्य प्रभोः इत्यस्यापादानपञ्चम्यन्ततां योजयति ततः इति | तौ - आभासभावाभावौ, एतेन जनिकर्तुः प्रकृतिः इत्यनेनात्रापदा-नत्वे पञ्चमीति द्योतितम्, सदसत्त्वाख्ययोर्जनिकर्त्रोः प्रभोरेव प्रकृतित्वात् | अथवा भुवः प्रभवः इत्यपादानत्वे पञ्चमी | अत्र समर्थनं करोति स हि इति | अपरिमेयया - अपरिच्छिन्नया, अत्रापि समर्थनं कर्तुमारभते तथाहि इति | सामानाधिकरण्येन - एकाधिकरणत्वेन, आभासयति इति पूर्वेण सम्बन्धः | पृथक्त्वावभासेन कीदृशेन ? अन्योन्यत्र - अन्योन्यस्मिन्, आभासाभावेन - आभासाभावरूपेण, घटे पटाभासाभावात् पटे च घटाभासाभावात्, अत्रापि आभासयति इति पूर्वेण संबन्धः | स्वात्मनि - चिद्रूपे स्वस्मिन्, तु एकरसेनाभासेन आभासयति, परमार्थतः सर्वस्य चिन्मयत्वात् | इयति च क्रमस्योदयो न भवति, युगपदेवैकज्ञानेन स्फुरणात् | सर्वथैव - निःशेषमेव, भावानां अद्वैचित्र्यं तस्य यत् प्रथनम् - विस्तरणम्, तत्र शक्तिः, उच्यते, पण्डितैः कथ्यते इत्यर्थः | एतेन भगवच्छक्तेरेव कालशक्तित्वं साधितम् ||४|| अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति चित्र इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | मूर्ति इति | पदार्थस्य स्वं रूपं मूर्तिः, तस्या यत् वैचित्र्यं विभेदः, तद्यथा गृहमिति अन्यत् स्वरूपम्, प्राङ्गणमिति अन्यत्, विपणिरिति अन्यत्, देवकुलमिति अपरम्, उद्यानमिति अन्यत्, अरण्यमिति तदन्यतरत्, [तदितरत - K. ष्. ष्.] तस्मात् वैचित्र्यात् आभास्यमानात् देशरूपो दूरादूरविततत्वावित-तत्वादिः क्रमो भगवता अवभास्यते | यदा तु गाढप्रत्यभिज्ञा-प्रकाशबलात् तदेव इदं हस्तस्वरूपम् इति प्रतिपत्तौ मूर्तेर्न भेदः, अथ च अन्यान्यरूपत्वं भाति तदैकस्मिन् स्वरूपे यदन्यत् अन्यत् रूपं तद्विरोधवशात् असहभवत्क्रिया उच्यते, [क्रिया इति उच्यते - K. ष्. ष्.] तस्या यत् वैचित्र्यं परिमितापरिमितात्मकं [परिमितापरिमितरूपतात्मकम् - K. ष्. ष्.] तदेकानुसन्धानेन फलसिद्ध्यादिनिबन्धनवशात् यथारुचि चर्चितेन निर्भासयन् कालरूपं क्रममेवावभासयति [क्रममेव भासयति - K. ष्. ष्.] | न चैतत् वाच्यम् - एकस्वरूपस्य कथम् अत्र टीका - मूर्ति पदं व्याचष्टे पदार्थस्य इति | तस्याः - मूर्तेः, वैचित्र्य पदं व्याचष्टे विभेदः इति | वैचित्र्यं दर्शयितुं प्रतिजानीते तद्यथा इति | विपणिः - प्राङ्गणादपि बहिर्वर्तिनी पण्यवीथिका | तस्मात् उद्यानात् अन्यतरत्, तदन्यतरत्, आभास्यमानात् - आभासविषयीभूतात्, भगवता - भासने शक्ति युक्तन परमात्रा, अवभास्यते - अवभासविषयीक्रियते, अन्यथा गृहस्थोऽयम् इत्यादिव्यवहारायोगात् इति भावः | पूर्वार्धं व्याख्यायोत्तरर्धमपि व्याख्यातुमाह यदा तु इति | प्रत्यभिज्ञाप्रकाशबलात् - प्रत्यभिज्ञाख्यज्ञानवशात्, मूर्तेः हस्तादिस्वरूपस्य, न केवलं भेदः अपि तु भेदोऽपि इत्याह अथ च इति | अन्यान्यरूपत्वम् - उत्क्षेपणावक्षेपणादिविशिष्टतया भिन्नभिन्नरूपत्वम्, भाति प्रमातारं प्रति स्फुरति | तदैकस्मिन् - अभिन्ने, स्वरूपे - हस्ताख्यायां मूर्तौ, तत् - अन्यदन्यद्रूपम्, क्रिया उच्यते - क्रिया कथ्यते | तत्र सः प्रमातृरूपो भगवान्, तस्याः - क्रियायाः, यत् परिमितापरिमितात्मकम् - परिमितरूपमपरिमितरूपं च, वैचित्र्यं भवति, तत्र सूर्यसञ्चारादेरपरिमितत्वं देवदत्त-गमनादेः परिमितत्वम्, तत् निर्भासयन् - प्रकटयन् | कालक्रमम् इति व्याचष्टे काल अन्यत् अन्यद्रूपमिति ? यतो न असौ कश्चित् भावो य एवं कल्प्यते; [विकल्प्यते - K. ष्. ष्.] संविदेव हि तथा भाति, तथा भानमेव च तस्या [तथाभासनमेव चास्याः - K. ष्. ष्.] ऐश्वर्यम्, न हि भासने विरोधः कश्चित् प्रभवति, स हि सुखदुःखादेर्भासनकृत एव, तथा इति | अवभासयति - भासयति, पूर्वार्धस्थक्रियया एवोत्तरार्धेऽपि सम्बन्धयोजना कृता | केन कृत्वा निर्भासयन् ? फलसिद्ध्यादेः - ग्रामप्राप्त्यादेः फलस्य निष्पत्त्यादेः, यन्निबन्धनम् - परिच्छिन्नीकरणम्, तस्य वशात् - सामर्थ्यात्, यथारुचि - रुच्यनुसारेण, चर्चितेन - कल्पितेन, तदेकानुसन्धानेन, वैचित्र्यमध्ये सूर्यसञ्चारादिरूपस्य एकस्य अनुसन्धानेन - योजनेन कृत्वा येनैवं प्रयोगः दिवसं ग्रामं गच्छति इति भावः | अन्यथा तु गमनमपि पृथक्क्रिया, दिवसोऽपि पृथक् सूर्यक्रियेति का तस्य तेन तुलनेति भावान्तरम् | तत शब्दस्य काकाक्षिन्यायेन द्विर्योजना | अत्र शिष्यप्रश्नमाशंक्य परिहरति न च इति | किमित्य पेक्षायामाह एक इति | इति शब्दः शिष्य- शङ्कासमाप्तौ | कुतो न वाच्यमित्यत आह यतः इति | भावः - नीलसुखादिरूपः पदार्थः | एवं कल्प्यते - एवंरूपकल्पनाविषय-तां नीयते | पुनः कथं भावभानं भवति इत्यत् आह संविदेव इति | तथा भाति - अन्यान्यरूपतया भाति | कुतो भातीत्यत आह तथा इति | हि - यस्मात् कारणात् | तथा भानमेव तस्याः - संविदः, ऐश्वर्यं भवति | तदुक्तम् : - अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं संवित्त्वं [सर्वत्वं - C.] तदत्यक्ष्यद् घटादिवत् || इति | ननु संविदो विरुद्धतया भानं कथं युक्तं इत्यत आह न हि इति | प्रभवति - समर्थो भवति | आभासने एव तद्योगादिति भावः | कुतो न प्रभवति इत्यत आह स हि इति | हि - यस्मात्, सुखदुःखादेः सः विरोधः भासनकृत एव भवति, तथा च भासनलब्धसत्ताकस्य तस्य भासनं प्रति बाधकत्वं न युक्तमिति भावः | ननु कुतो भासनकृत एवेत्यत आह तथा इति | भासनाभाव [तथा भासनाभाव - K. ष्. ष्.] एव हि विरोधतत्त्वम्, एतत् अपिशब्देन ईश्वरशब्देन च दर्शितम् || ५ || ननु एवम् आभासविषयाब्यामेव देशकालक्रमाभ्यां भवितव्यम्, अनाभासश्च प्रमाता, स हि न कस्यचित् आभासते, तस्य सर्वम् आभाति यतः, ततश्च तौ प्रमातरि कथम्, दृश्येते च अभवम् अहं भवामि भवितास्मि इति, गृहे तिष्ठामि अरण्ये देवगृहे इति च, किं च स्वयं देशकालक्रमशून्यस्य किं दूरं किम् अन्तिकं किं वर्तमानं किम् अतीतं किं भावि, इति प्रमात्राश्रयो भावेष्वपि क्रमो न युक्तः, न च प्रमातृनिरपेक्षेष्वपि तेषु स्वात्मनि दूरत्वादि भूतत्वादि वा, तदेतत् समर्थयितुम् आह : - हि - यस्मात्, तथाभासनस्य - नीलादौ पीतताद्याभासनस्य, अभावः, एव विरोधतत्त्वम् - विरोधस्वरूपं भवति | यत् यत्र भाति न तत् तत्र विरुद्धम्, यत्तु न भाति तद्विरुद्धमिति भासनाभावदत्तविषयो विरोधो भासनेऽकिञ्चित्कर एव इति भावः | ननु सूत्रेऽनुक्तमेतत् कुतो व्याख्यातमित्यत आह एतत् इति | एतत् एकस्वरूपस्य इत्यादिग्रन्थोक्तं प्रक्रियाजालम्, तत्र ईश्वर पदेनैश्वर्यसूचनम् | अपि शब्देन उक्तानुक्तसमुच्चयद्वारेण सर्वभावेन भासनसूचनमिति विभागो ज्ञेयः || ५ || अथ षष्ठसप्तमयोः श्लोकयोरवतरणिकां करोति ननु एवम् इति | अत्र टीका - एवम्, पूर्वश्लोकोक्ते वस्तुनि सतीत्यर्थः | अनाभासश्च - आभासरहितश्च, कुतोऽनाभास इत्यत आह स हि इति | तौ - देशकालौ, दर्शनमेवानुकृत्याह - अभवम् इति | कालत्रयमनुकृत्य दर्शयित्वा देशक्रममपि दर्शयति गृहे इति | प्रमातारं प्रति भावानामपि देशकालक्रमयुक्तत्वं न घटते इत्याह किञ्च इति | भावानां स्वभावतोऽपि देशकालक्रमयुकत्वं नाशयति न च इति | प्रमातैव हि भावानां देशकालविशिष्टतां कल्पयति इति भावः | तदेतत् - समनन्त सर्वत्राभासभेदोऽपि भवेत्कालक्रमाकरः | विच्छिन्नभासः शून्यादेर्मातुर्भातस्य नो सकृत् || ६ || देशक्रमोऽपि भावेषु भाति मातुर्मितात्मनः | स्वात्मेव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु || ७ || सर्वेषु वस्तुषु एकानेकरूपेषु यः कालात्मा क्रमः तस्य य आकरः - उत्पत्तिनिबन्धनम् इति व्याख्यातः, आभासस्य भावाभावकृतो भेदः स शून्यप्राणबुद्धिदेहादेः भवति, इति संभाव्यते, यतः स शून्यादिः विच्छिन्नभाः, न हि तस्य भासनं स्वरूपं नीलादिवत् जडत्वात्, अपि तु संवित्स्फुरणमस्य भासनम्, तत् यदा अस्य नास्ति, यथा सुप्ते देहस्य रोक्तं वस्तु | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | सर्वत्र इति | अत्र टीका - सर्वत्र इति पदं व्यचष्टे, सर्वेषु इति | तत्र प्रत्यभिज्ञाबलेनैक-रूपत्वं देशादिविशिष्टतयानेकत्वम् | कालक्रमाकरः इति पदं विग्रहपूर्वकं व्याचष्टे, काल इति | आकरः इति पदं व्याचष्टे, उतपत्ति इति | उत्पत्तिनिबन्धनम् इति - उत्पत्तिस्थनमिति, व्याख्यातः - व्याख्याविषय-तां नीतः, उत्पत्तिनिबन्धनमिति व्याख्यातः | आभासभेदः इति व्याचष्टे, आभासस्य इति | भावाभावकृतः - अरुणसद्भावस्फुट-तेजः - पुञ्जासद्भावादिकृतः, एतेन मध्यमपदलोप्ययं समास इति द्योतितम् | विगृहीतं पदं पुनः समस्ततया परामृशति स इति | लिङोऽर्थ-माह संभाव्यते इति | संभावनायामत्र लिङ् | विच्छिन्नभासः इति विशेषणं हेतुगर्भत्वेन व्याचष्टे | यतः इति, यतःशब्दो हेतुत्वद्योतनार्थः | शून्यादिः - शून्यादिरूपः प्रमाता, विछिन्ना भाः - ग्रहीतृस्वरूपः प्रकाशः यस्य, तादृशविच्छिन्नत्वं च समनन्तरमेव वक्ष्यति | कुत इत्यपेक्षायामाह न हि इति | तस्य - शून्यादेः | अत्रापि हेतुमाह जडत्वात् इति | तर्हि कथमस्य शून्यादेर्भासनम् अस्ति इत्यत आह संवित् इति | संविदः - आन्तरस्य संवित्तत्त्वस्य, स्फुरणम् - स्वातन्त्र्येणोद्भावितविषयावेशनिमित्तिका स्फूर्त्तिः | अस्य - शून्यादेः, भासनम् - संसारयात्रापतितत्वे शून्यस्य प्राणादेः, तदा अस्य भासनं विच्छिद्यते, इति आभाससद्भावासद्भावकृतः कालक्रमोऽस्ति, अतीतोऽहं बालदेहाभासरूपः, भवामि युवदेहाभासरूपः इति | स च यतः प्रमाता अहंभावसमावेशनात् अपरिपूर्णात् अत एव उद्रिक्तकालक्रमवत्त्वात् [उद्रिक्तकालक्रमत्वात् - K. ष्. ष्.] भावेष्वपि कालक्रमम् आभासयति, योऽहं बालोऽभवं तत्सहभावी स्वतो बाह्यं प्रति ग्रहीतृतया स्फुरणं भवति | तत् - प्रोक्तरूपं भासनम्, अस्य - शून्यादेः | ननु कदास्य तन्नास्ति इत्यपेक्षायां तदसंभवस्थानानि दर्शयितुमाह यथा इति | सुप्ते - सुषुप्ते, देहस्य - देहमातुः, तत्र हि देहः प्रमेयतयापि न स्फुरति का कथा प्रमातृतया स्फुरणस्य, संसारयात्रापतितत्वे - क्रयविक्रयादिरूपसंसार-यात्रान्तर्गतत्वे, [क्रयविक्रयादिरूपं - C.] आदिशब्देन बुद्धिप्रमातृग्रहणम् | अस्य - शून्यादेः | फलितमाह इति आभास इति | इति - अतः कारणात् | कालक्रमः - कालाख्यः क्रमः, आभाससद्भावा-सद्भावकृतोऽस्ति | कालक्रममेव अनुकृत्य दर्शयति अतीतः इति | अत्र च बालाभासस्यासद्भावः युवाभासस्य तु सद्भावः, वृद्धो भविष्यामीत्यस्याप्युपलक्षणमिदम् | इति शब्दः फलितकथनसमाप्तौ | एवं परिमितप्रमातुः सकालक्रमत्वमुपपाद्य सूत्रेऽनुक्तमप्य-वतरणिकायां शंकितं भावेषु सकालक्रमत्वमुपपादयति स च इति | अहंभावे - देहादिविषये परिमिताहंभावे, समावेशनं तस्मात् | अपरिपूर्णात् - परिपूर्णतारहितात्, न तु पराहंविमर्शवत् परिपूर्ण-स्वरूपात् | अतः - अस्मादहंभावसमावेशनात्, उद्रिक्तः - सातिशयः कालक्रमो यः सः विद्यते यस्य सः, तस्य भावः तत्त्वं तस्माद्धेतोः, भावेष्वपि कालक्रमम् आभासयति - स्वेन समकक्ष्यतया प्रकाशयति, स्वं यथाऽतीतत्वेन व्यवहरति तथा तत्कालीनं वस्तुजातमपीति भावः | स्वेन समकक्ष्यं भावविषयं कालक्रममेवानुकृत्याह, योऽहम् इति | तत्सहभावी - बालत्वसहभावी | एतेन शून्यादेः इत्यन्तं व्याख्या - घटाभसोऽपि अभवत् इति, न तु यः सकृद् विभातः इति अन्या वाचोयुक्त्या अविच्छिन्नभासनः प्रमाता संविद्रूपः, तस्य स्वात्मनि कालक्रमः, नापि तदपेषया वेद्ये भावजाते, तद्धि तत्र अभेदेन भाति इति | एवं देशक्रमोऽपि मितात्मनः परिच्छिन्नस्वरूपस्य शून्यादेः देहान्तस्य स्वात्मनि भाति इह तिष्ठामि इति, स्वापेक्षया च भावेष्वपि यत् मम संयोगपारिमित्येन वर्तते तदन्तिकम् इतरत् दूरम् इति | अमितस्य स्वरूपेयत्ताशून्यस्य तु संवित्तत्त्वस्य भावाः स्वात्मना अहंभावेन यतो भान्ति ततः पूर्णाः - अपरिच्छिन्नस्वरूपेयत्ताकाः, यतः तम् | अथ मातुः इत्यादिश्लोकखण्डं व्याचष्टे न तु इति | वाचोयुक्त्या सकृद्विभातोऽयमात्मा इत्येवंरूपश्रुतिमूलया इत्यर्थः | अविच्छिन्नभासनः - सकृद्विभातः | प्रमाता - परप्रमाता, स्वात्मनि - चिद्रूपे निजात्मनि, कालक्रमः - कालाख्यः क्रमः, तस्य न तु भवति, इति सम्बन्धः | न हि तेन दत्तसत्ताकः तस्यैव परिच्छिन्नतामानेतुं समर्थ इति भावः | तदपेक्षया - प्रमात्रपेक्षया, भावजाते - नीलसुखादिभावसमूहे, वेद्ये - भावजाते, कुतो नास्तीत्यत आह तद्धि इतिं | तत् - वेद्यजातं, तत्र - परप्रमातरि, इति शब्दः प्रमेयपरिसमाप्तौ || ६ || देशक्रमेऽप्येनं न्यायमतिदिशंस्तदभिधायकं द्वितीयं श्लोकं व्याचष्टे एवम् इति | मितात्मनः - परिमितस्वरूपस्य | देशक्रमभानमेवानुकृत्य दर्शयति इह इति | स्वापेक्षया - परिमितप्रमातुर्निजापेक्षया | भावेष्वपि भाति इति पूर्वेण संबंधः | एनम् भवसंबन्धिनं देशक्रममप्यनुकृत्य दर्शयति यत् इति | संयोगपारिमित्येन - संयुक्तसंयोगाल्पीयस्त्वेन, इतरत् - संयोगापारिमित्येन वर्तमानम्, इति शब्दः पूर्वार्धव्याख्यासमाप्तौ | द्वितीयश्लोकस्य पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे अमित इति | स्वरूपे या इयत्ता तया शून्यस्य, भावाः - बाह्यपदार्थाः, स्वात्मना इति व्याचष्टे अहंभावेन इति | यतो भान्ति स्वात्मा तस्य तथाभूत एव इति समुच्चयोपमा, तदुक्तम् - अपूर्वापरं हि इदं मूर्तितः क्रियातश्च सर्वं सर्वतः पूर्णम् इति | क्रियाप्रसङ्गात् इह कालक्रमः प्राकरणिको दृष्टान्तत्वेन तत्प्रसङ्गात् [एतत्प्रसंगात् - K. ष्. ष्.] देशक्रमो निरूपितः, दृष्टान्तश्च पूर्वं वाच्य इति वैचित्र्यनिरूपणावसरे देशक्रमस्य आदौ अभिधानं न्याययम्, उप्संहारे तु प्राकरणिकस्य कालक्रमस्यैव आदौ निर्देशः, पश्चात्तु प्रासङ्गिकस्य देशक्रमस्य इति || ६ - ७ || ननु एवं सत्यप्रमातरि [सत्ये प्रमातरि - K. ष्. ष्.] भगवति नास्त्येव क्रिया इति आयातं कालक्रमाभावात् क्रमाश्रयेण च तस्या अवस्थानात् इत्याशङ्क्याह :- इति, अन्यथा अमितत्त्वायोगात् इति भावः | पूर्णाः इति व्याचष्टे, अपरिच्छिन्न इति | अपरिच्छिन्ना स्वरूपस्य इयत्ता येषां ते तादृशाः, भवन्तीति शेषः | स्वात्मेव [स्वात्मैव - C.] इति हेतुभावेन व्याचष्टे यतः इति | स्वात्मा - निजं स्वरूपम्, तस्य - अमितस्य, तथाभूत एव - अहंभावेन भानात् पूर्ण एव, इति - एवम्, समुच्चयोपमा भवति | अमितस्य भावा अपि पूर्णाः भवन्ति आत्मापि, इति स्फुटं समुच्चयोपमा, यथा - श्रोतुर्वितन्त्रीरिव वाद्यमाना इत्यत्र | अत्र वृद्धसम्मतिमाह तदुक्तम् इति | इदम् - अपरिमितं प्रमातृतत्त्वम्, इति शब्दो वृद्धवाक्य-समाप्तौ | अत्र पूर्वापरविरोधित्वं शंक्यमानं निरसितुमाह क्रिया इति | प्राकरणिकः - प्रस्तुतः, क्रियावैचित्र्यहेतुकत्वादिति भावः | तत्प्रसंगात् - कालक्रमप्रसंगात्, न्याययम् - न्यायादनपेतम्, इति शब्दो व्याख्यासमाप्तौ || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति ननु एवम् इति | अत्र टीका - सत्यप्रमातरि - परमार्थप्रमातृभूते, तस्याः - क्रियायाः | एवमवतरणिकां किन्तु निर्माणशक्तिः साऽप्येवं विदुष ईशितुः | तथाविज्ञातृविज्ञेयभेदो यदवभास्यते || ८ || इह तत्त्वतः परमेश्वरस्य अप्रतिहतस्वातन्त्र्यरूपाविच्छिन्न- स्वात्मपरामर्शमयी [अप्रतिहतस्वातन्त्र्यरूपाविच्छिन्नस्वात्मविमर्शमयी -K. ष्. ष्.] अनन्योन्मुखतारूपा इच्छैव क्रिया इति उपसंहरिष्यते अधिकारान्तरे एवम् इच्छैव हेतुता कर्तृता क्रिया इति | चैत्रमैत्रादेरषि कृत्वा श्लोकमुपन्यस्य व्याचष्टे | किन्तु इति | अत्र टीका - प्रथमं वाक्यार्थं कथयति इह इति | इह - अस्मिन् प्रत्यभिज्ञाशास्त्रे, परमेश्वरस्य - प्रकाशाख्यस्य महेश्वरस्य, अप्रतिहतस्वातन्त्र्यरूपः - प्रतिघातरहितस्वातंत्र्यस्वरूपः, तथाऽविच्छिन्नः - नित्याव्यभिचारत्वेन कदापि विच्छेदमगतः यः स्वात्मपरामर्शः - अहमिति निजामर्शः, तन्मयी, अनन्योन्मुखतारूपा - अनन्यमुखप्रेक्षिता रूपा, इच्छैव - इच्छाख्या शक्तिरेव, क्रिया - भवति, पुष्टीभावेन तत्पर्यन्तरूपा-सादनात् | इति - एवम्, अधिकारान्तरे - उत्तरस्मिन् अधिकारे, उपसंहरिष्यते, आचार्येणेति शेषः | एवं सति इच्छैव हेतुता कर्तृता क्रियेति भवति | एतदेव पुनः सदृष्टान्तं कथयति चैत्र इति | अन्तः पचामि इति यैव अन्तरिच्छा सैव क्रिया, तथा च अधिश्रयणादिबहुतर- स्पन्दनसंबन्धेऽपि पचामि इति नास्य विच्छिद्यते, यत्तु पचामि इति इच्छारूपं तदेव तथास्पन्दनात्मतया [तथा स्पन्दनात्मत्या - K. ष्. ष्.] भाति, तत्र तु न कोऽपि [कश्चित् क्रमः - K. ष्. ष्.] क्रमः तत्त्वतः | एवम् ईश्वरस्यामि ईशे भासे स्फुरामि घूर्णे प्रत्यवमृशामि मनसि | ननु कथमिच्छायाः क्रियात्वं युक्तमित्यतः समर्थनमुप-क्रमते तथा च इति | अस्य - चैत्रमैत्रादेः अधिश्रयणादीनि - चुल्ह्यां स्थाल्यधिरोहणमधिश्रयणम्, आदिशब्देन दर्वीघट्टनादिग्रहणम्, अधिश्रयणादिरूपाणि यानि बहुतरस्पन्दनानि तेषां सम्बन्धेऽपि पचामि इति इच्छा न विच्छिद्यते, अधिश्रयणादि भावेन तस्या एव पुष्टीभावासादनात् | कुतो न विच्छिद्यते इत्यत आह यत्तु इति | तुशब्दो हेतौ, तु - यतः, तथास्पन्दनात्मतया - अधिश्रयणादिस्पन्दनरूपेण | ननु तर्हि इच्छाक्रिययोर्न कोपि भेद इत्यत आह तत्र इति | तत्र - तस्यामिच्छायाम्, तत्त्वतः - परमार्थतः, कोऽपि क्रमः न भवति, समस्तस्यास्य [समस्ता.........षकरणीयस्य] करणीयस्य सिद्धतया स्फुरणात्, अत एव श्रीस्पन्दशास्त्रेषु देवताविषयाया इच्छाया एव देवताप्राप्तिरूपत्व-मुक्तम् | तदुक्तं तत्र :- अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या इति | तथा :- इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः | इयं निर्वाणदीक्षा च शिवसद्भावदायिनी || इति च | इच्छामात्रमेव नैरपेक्ष्यकारित्वेन तद्विषयप्राप्तिरूपं सूक्ष्मदर्शिनं प्रबुद्धं प्रति, यस्तु फललाभः, स बाह्या- पेक्षाग्रस्तत्वेन क्षोभरूप एव, स्थूलदृष्टीनां तु इच्छाकालीननैर-पेक्ष्यपरामर्शाशक्तत्वेन फललाभ एव परमार्थप्राप्तिः, स च दैवाधीनत्वेन भविष्यति न वेति संशयग्रस्त एवेति श्रीस्पन्दशास्त्रकारिकाद्वयतात्पर्यम् | ये तु मूढा अपि व्यर्थं तदभिमानिनः ते फललाभैकविवशं स्वमनः एव तत्र साक्षीकुर्वन्तु, अन्यथा स्ववञ्चकतापत्तेरित्यलम् | दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह एवम् इति | एवम् ईश्वरस्यापि - प्रकाशरूपस्य परमेश्वरस्यापि, इत्येवंरूपं यदिच्छात्मकं विमर्शनम् अहम् इत्येतावन्मात्रतत्त्वं न तत्र कश्चित् क्रमः, एतदेव च उच्यते प्रमातृप्रमेयवैचित्र्यक्रम उल्लसतु इत्यमुना [उल्लसतु अमुना वाक्येन - K. ष्. ष्.] वाक्येन, तदत्रापि न कश्चित् क्रमः, यथा [यदा तु - K. ष्. ष्.] तु इच्छारूपं पचामि इति स्पन्दनात्मतां कायपर्यन्तां गतं क्रमारूषितम् आभाति ईशे - ईशिविषयमुद्भाव्य तत्कर्ता भवामि, भासे - स्वभानकर्तृत्व-पुरस्सरमीशनीयभानकर्ता भवामि, एवमेव स्फुरणघूर्णनयोरपि योजनीयम् | प्रत्यवमृशामि - अहंपरामर्शकर्तृत्वपूर्वमिदं-परामर्शकर्ता भवामि, इत्येवंरूपं यदिच्छात्मकम् - इच्छामात्र-रूपम्, विमर्शनम् - चेतनत्वेनाव्यभिचारि परामर्शनं भवति, तत्र कश्चित्क्रमो न भवति, तद्विषयस्य स्वस्मिन् स्वत्वेन शक्तित्वेन च सिद्धत्वात्, बाह्यं सामान्यं जनं प्रत्येवोपदेशार्थं क्रमवाचितिङ्प्रयोगात्, अन्यथाऽस्यापि सामान्यजनवत् क्षोभाविष्टत्वा-पातेन एतावत्प्रपंचाश्रयजगन्निर्मातृत्वासंभवेन, जगद्भानाअऽसंभवप्रसङ्गात् | यद्यपि परमेश्वरस्येच्छाकथन -मप्ययुक्तमेव, तथापि अस्य ब्रह्मणः ईदृगेव महिमा यत् सर्वरूपं वपुरिति [सर्वरूपे वपुरिति नीत्याश्रवणेन - C.] - नीत्याश्रयणेन सर्वमये तत्र तत्त्वे सर्वंसहत्वेनाज्ञजनबोधनार्थं तद्युक्तत्वमारोप्यैव- मुक्तमित्यलं कृपालुभिः कृपाविवशत्वेनाज्ञजनार्थं कल्पितासु युक्तिषु तमोदर्शनार्थं कल्पितदीपमालासहोदरीभिर्विचारणाभिः | नन्विच्छावाचकेषु वाक्येषु लोडादिकमेव दृश्यते तत्र लटा किमिति निर्देश इत्यत आह एतदेव इति | एतदेव च - समनन्तरोक्तं वस्त्वेव च, इत्यमुना वाक्येन उच्यते | इति किमिति ? प्रमातृ इति | ननु तर्हि प्रथम- मेवामुनैव वाक्येन किं नोक्तम्, किमिति द्वितीयः प्रयासः कृतः ? सत्यम्, बुद्धान् प्रति सातत्यद्योतनार्थं लट्प्रयोग एव युक्तः, अज्ञान् प्रति तु साक्षादिच्छावाचकत्वेन लोट्प्रयोग एवेति न किञ्चिद्विरुद्धम् | नन्वत्र वाक्ये सक्रमत्वमस्ति तद्रहितत्वं वित्यत आह तत् इति | अत्रापि इच्छामात्रस्यैव तत्स्थितत्वाद्बाह्यसंचारस्याभावाच्चेति भावः | दृष्टान्तदार्ष्टान्तिकयोरुभयोरपि इच्छायाः बाह्यसंचारं कथयति यथा तु इति | तु व्यतिरेके, यथा पचामि इतीच्छारूपम् - पचामीति स्थितमिच्छास्वरूपम्, कायपर्यन्ताम् शरीरविश्रान्ताम्, स्पन्दनात्मतां गतं सत् क्रमाऽऽरूषितम् - पूर्वापरीभूतावयव तथा [तदा - K. ष्. ष्.] भगवदिच्छा प्रमातृप्रमेयभेदपर्यवसिता तत्क्रमोपश्लिष्टा भाति दर्पणतलमिव विततप्रवहन्नदीप्रवाहक्रम-समाश्लिष्टम्, अत्र च केवलं दर्पणस्य तथा इच्छा नास्ति, परमेश्वरस्य तु सा अस्ति - इति उभयथा अस्य क्रियाशक्तिः क्रमरूपक्रियानिर्माण-सामर्थ्यं क्रमरूपक्रियोपरागयोगश्च इति | एवं देशक्रमेऽपि वाच्यम्, तत्र तु अस्य चिच्छक्तिः उच्यते अन्यैः, इह तु क्रियाशक्तिरेव सा स्वीकृता इति पिण्डार्थः | अक्षरार्थस्तु - तथा इति स्वरूपभेदेन देशक्रमकारिणा क्रियाभेदेन च कालक्रमसंपादकेन उपलक्षितो यो विज्ञातुः शून्यादेः प्रमातुः भेदोऽन्योन्यं ज्ञेयाच्च, एवं घटादेः परस्परं ज्ञातुश्च स भगवता अवभास्यते, त्वेन क्रमविशिष्टम्, आभाति, तथा भगवदिच्छा प्रमातृप्रमेय-भेदपर्यवसिता सती तत्क्रमोपश्लिष्टा - प्रमातृप्रमेयक्रमाऽऽरूषिता, भाति, किमिव ? दर्पणतलमिव, यथा तत् विततप्रवहन्नदीप्रवाहक्रमसमाश्लिष्टम् भाति तथेत्यर्थः | ननु तर्हि दपणपरमेश्वरयोः सदृशत्वमेवायातमित्यत आह अत्र च इति | अत्र च - दृष्टान्तदार्ष्टान्तिकमध्ये, सा इच्छा, उभयथात्वं विभज्य दर्शयति क्रम इति | सामर्थ्यमत्रेच्छारूपं ज्ञेयम्, उपरागयोगस्तु प्रतिबिम्बग्रहणम्, इति शब्दः प्रमेयसमाप्तौ | देशक्रमेऽप्येनं न्यायमतिदिशति एवम् इति | तत्र - देशक्रमे, अस्य - परमेश्वरस्य, अन्यैः - इतो बाह्यैः, इह - क्रियाक्रमे, सा - इच्छाशक्तिः | एवं वाक्यार्थमुक्त्वा पदार्थकथनं प्रतिजानीते अक्षरार्थस्तु इति | तु शब्दो दर्शयिष्यामीत्यर्थे | अक्षरार्थमेव दर्शयति तथा इति | तथा इत्यादि समस्तं पदं व्याचष्टे विग्रहपूर्वकं तथा इति, तथा इत्यवयवं व्याचष्टे, स्वरूप इति | विज्ञातृ पदं व्याचष्टे शुन्यादेः इति | एतन्निष्ठत्वेन भेदस्य प्रतियोगिधर्मिकथनं करोति अन्योन्यम् इति | विज्ञेय पदं व्याचष्टे एवम् इति | एतन्निष्ठत्वेनापि भेदस्य धर्मिप्रतियोगिकथनं करोति परस्परम् इति ज्ञातुः इति च | यः इत्यस्याकांक्षां पूरयति सः इति | सः - भेदः ईशितुः इति पदं अर्थवशात् तृतीयान्ततां यत् तदवभासनं सा ईशितुरपि निर्माणशक्तिः क्रियाशक्तिः न तु केवलं शून्यादेरेव क्रिया, यतश्च तन्निर्मितं ज्ञातृज्ञेयक्रियावैचित्र्यभेदम् असौ विद्वान् वेत्ति अविरतम् [अनवरतम् -K. ष्. ष्.] तत्रैव हि तत् स्फुरति ततोऽपि तस्य सा क्रियाशक्तिः | अतो भासनविच्छेदनाभावात् [भासनविच्छेदाभावात् - K. ष्. ष्.] क्रमाभावे स्थूलदृष्ट्या नीत्वा व्याचष्टे भगवता इति | अवभास्यते इति निगदव्याख्यातम्, णिजन्तोयं प्रयोगः | उत्तरार्धं व्याख्याय पूर्वार्धं व्याख्यातुं योजयति यत् इति | यत्तत् इत्यस्याकांक्षां पूरयति सा इति | सा इति क्रियाशब्दापेक्षं स्त्रीत्वम् | ईशितुरपि - भगवतः परप्रमातुरपि, अपिशब्दात् आपाततः शून्यादेरपि ग्रहणम् | निर्माणशक्तिः इति पदं व्याचष्टे क्रिया इति | शून्यादेरेव - आपाततः तद्वत्त्वेनाभासमानस्य शून्यादेरेव | कुतः ईशितुरपि अस्ति इत्यपेक्षायां विदुषः इति पदं हेतुगर्भविशेषणत्वेन व्याचष्टे यतश्च इति | विदेः सकर्मकत्वात् एवम् शब्दं कर्मत्वेन व्याचष्टे तत् इति | अविरतम् इति, न तु शून्यादिवत् कदाचिदेवेत्यर्थः, युक्ततयास्य पदस्याध्याहारः | वेत्ति ततः किमित्यपेक्षायामाह तत्रैव इति | हि - यस्मात्, तत् - निर्माणम्, तत्रैव - तस्मिन्नीशितर्येव स्फुरति, शून्याद्याधेयत्वेन स्फुरणेऽपि परमार्थतः तत्रैव स्फुरणात्, शून्यादेस्तत्सारत्वेन स्थितत्वादन्यथा स्वरूपलाभासंभवात् | तदुक्तम् :- कथमन्यथा भवन्ति भुवि दत्तपदानि नृणाम् इति | हि शब्दाकांक्षां पूरयति ततः इति | ततः - तस्मात्स्फुरणात् हेतोरपि, तस्य - परमेश्वरस्य, सा - क्रियाशक्तिर्भवति | तदुक्तम् :- ज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् इति | अपिशब्दात् क्रमो भेदाश्रयः इत्यत्रोक्तनीत्याप्यस्ति इति सूचितम् | फलितमाह अतः इति | अतः कारणात्, भासनविच्छेदाभावात् - सततस्फुरत्त्वेन, क्रमाभावे सति यद्यपि स्थूलदृष्ट्या ईशितुः यद्यपि अस्य भवेत् क्रियानुपपत्तिशङ्का, किं तु एवमस्य क्रियाशक्तिरुपन्ना - इति संगतिः | इति शिवम् || ८ || आदितः ९७ || इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे क्रियाशक्तिनिरूपणं नाम प्रथममाह्निकम् || १ || क्रियानुपपत्तिशंका भवति, यदाश्रयणेन सांख्यादिभिरस्यो- दासीनत्वमित्युक्तमिति भावः | किन्तु इति तथापीत्यत्रार्थे, तथाप् एवम् - उक्तप्रकारेण, क्रियाशक्तिरुपपन्ना भवति, न च शंकनीयं तद्वत्त्वेऽस्य क्षोभावेश इति, असमर्थस्यैव तद्योगात्, न हि दाहे शक्तस्याग्नेस्तत्र क्षोभावेशो दृश्यते, तदियं घोषणा सांख्यवेदान्त्यादि गृहेषु स्फुरत्ता कर्ता ईश्वर इति | ननु नैयायिका अपि एतदेव कथयन्ति, तेषां का वार्ता ? सत्यम्, यदि ते अपि महाद्वैतनिष्ठा भवयुः, तर्हि भवेदेव तेषामस्मत्सहृदयता, न च ते तत्र निष्ठा भवन्तीति तेषां दूरत एव त्यागः | कर्तृतापि च तैस्तत्र लौकिकी अंगीक्रियत्रे, नत्वनुत्तरस्वरूपा, इत्यलं परोपकारार्थं तत्तद्भूमिका परिघट्टनरतेषु कारुणिकेषु वादिषु चोद्यचर्चाभिः | एवमत्र योजनेत्याह इति संगतिः इति | इति - एवम्, संगतिः, संबन्धो भवतीत्यर्थः | इति शब्द आह्निकव्याख्यासमाप्तौ, शिवपदं मंगलवाचकं परतत्त्वसूचनपरञ्च | एवमत्र स्फुटा योजना | किन्त्विति पक्षान्तरे, सा निर्माणशक्तिः - क्रियाशक्तिः, विदुषः - तद्विषयज्ञानयुक्तस्य, ईशितुः - भगवतः, परप्रमातुरपि भवति, सा का ? तेन ईशित्रा कर्त्रा तथाविज्ञातृ- विज्ञेयभेदः यत् अवभास्यते | इति शिवम् || ८ || इति श्रीमत्पूज्यतमपादाचार्यश्रीभास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञासूत्र विमर्शिनीटीकायां भास्कर्याख्यायां क्रियाधिकारे प्रथममाह्निकम् || १ || क्रियाधिकारे द्वितीयमाह्निकम् ______ विरोधमविरोधं च स्वेच्छयैवोपपादयन् | भेदाभेदौ च यो मन्त्रतत्त्ववित्तं स्तुमः शिवम् || १ || आह्निकम् - २ अविरोधं विरोधं च भेदाभेदांश्च भासयन् | स्वेच्छया मन्त्रवीर्यज्ञो यस्तं हृदि शिवं स्तुमः || अथ क्रियाधिकारे द्वितीयस्याह्निकस्य निर्विघ्नं व्याख्यासमाप्तये स्वेष्टदेवतारूपपरतत्त्वपरामर्शनरूपं मङ्गलं कायमनोभ्यामनुष्ठितमपि शिष्यशिक्षार्थं सकलाह्निकतात्पर्यसूचकेन श्लोकेनोपनिबध्नाति विरोधम्, इति | वयं तं शिवं स्तुमः, तं कम् ? यः शिवः स्वेच्छयैव - आच्छादनक्रीडा- विषयान्योन्यप्रतिघातबाधविधुरभावनिर्माणान्यथानुपपत्त्य अ शिष्यबोधनार्थं महागुरुभिर्महाशास्त्रेषु तदाधारचित्ताभावेऽपि प्रकल्प्योक्तया निजेच्छयैव, न तु प्रोक्तव्यतिरिक्तप्रयोजनविवशतया कस्यापि स्वव्यतिरिक्तस्य प्रेरणया वा, विरोधम् - परस्परनिरपेक्षधर्म्य-पेक्षया तदाभासनकाले तदनाभासरूपं विरोधम्, तथा अविरोधम् - परस्परसापेक्षधर्मितन्निष्ठधर्मापक्षया युगपदाभासरूपं विरोधाभावम्, तथा भेदाभेदौ - स्वयमुद्भावितशिवरुद्रपशुरूप-प्रमातृवर्गविषयत्वेन भेदनम्, भेदाभेदौ, अभेदं च, तत्र शिवप्रमातृविषयत्वेनाभेदम्, रुद्रप्रमातृविषयत्वेन भेदाभेदौ, पशुप्रमातृविषयत्वेन भेदम् | अथवाऽविरोधविषयेऽभेदं विरोधविषये भेदम् उपपादयन् - परमार्थतः अनुपपत्तावपि स्वभावभूतमहाद्वैतरूपया उपपत्त्या स्थापयन् सन्, सर्वभरितस्वरूपवशेन भासयन् सन्निति यावत् | यदुक्तम् अप्रतिहतसामर्थ्यात् भगवतो निर्माणशक्तिः इति, तदेव बाह्यवाददर्शनानुपपद्यमानक्रियासंबन्धसामान्यादिपदा र्थ-राशिसमर्थनमुखेन निर्वाहयितुं क्रियासंबन्धसामान्य...............| इत्यादि ............टेन न भ्रान्तिरीदृशी | मन्त्रतत्त्ववित् - मन्त्रस्य - गुप्तभाषणरूपस्याहंपरामर्शस्य तत्त्वम् - पारमार्थिकं स्वरूपं वेत्ति - सर्वानुस्यूतत्त्वेन सकलमन्त्रवीर्यत्वेन स्थितत्वाद्वानुभवतीति तादृशः, विरोधाविरोधभेदाहेदभासनसमयेऽपि महाद्वैतदर्शीति यावत् | यद्यपि वेदनकर्तृत्वमत्राद्वैतवादिनं प्रति द्वैतावहत्वेन परमार्थदृष्ट्या वक्तुमयुक्तमेव, तथाप्यतिपरमार्थदृष्ट्या- श्रयेण स्वान्तःकृतद्वैताद्वैतमहाद्वैतनिष्ठानामेतत् कथनमपि नायुक्तम्, जलधौ हि जलद्वैतरूपास्तरङ्गास्तदद्वैतरूपं जलं चान्तः स्फुरत्येव, एतेन विरोधाविरोधयोः भेदाभेदयोश्च निर्णयोऽत्राह्निके स्थित इति सूचितम् | अत्र चान्योऽपि मंत्री स्वप्रभोः शत्रूणां परस्परं विरोधं भेदं [भेदं चानेन महत्तेष्टामविरोधम् - C.] चानेन महान्तं तेषामविरोधमभेदं चोपपादयन् सन् मन्त्रवित् भवति, किन्त्वस्य राज्ञः प्रेरणया न तु स्वेच्छया उपपादयतीति व्यतिरेकालंकारो व्यङ्ग्यः | भेदाभेदावित्यस्यावृत्त्या पृथग्भोजनोपयोगिपात्ररूपया द्विः सम्बन्धः | अथ सकलाह्निकस्य समस्तव्यस्तत्वभ्यां तात्पर्यकथनं करोति यदुक्तम् इति | अत्र टीका - उक्तम्, पूर्वाह्निके इति भावः | निर्माणशक्तिः - क्रियाशक्तिः, बाह्यवादयुक्तानि दर्शनानि - बाह्यवाददर्शनानि - सामान्याद्वैतनिष्ठत्वेऽपि महाद्वैतारतानि बौद्धादिशास्त्राणि, तेषु अनुपपद्यमानाः - अयोग्यतामासादयन्तः ये क्रियासम्बन्धसामान्यादिपदार्थराशयः - वक्ष्यमाणाः क्रियासम्बन्धादिसमूहाः, तेषां समर्थ इत्यन्तं श्लोकसप्तकेन आह्निकं प्रस्तूयते | तत्र प्रथमश्लोकेन सूत्रकल्पेन एकानेकरूपस्य क्रियादेः बाह्यवादे विरुद्धधर्माध्यासदूषणेन अनुपपद्यमानस्याप्यवश्यसमर्थनीयं वपुः इति दर्श्यते | द्वितीयेन तत्र उपपत्तिः सूच्यते | तृतीयेन निर्विकल्पकसंवेदनसंवेद्यत्वेऽपि विकल्पकाले एव स्फुटमेषां रूपम् इत्युच्यते | चतुर्थपञ्चमाभ्याम् एकानेकस्वरूपताया विषयविभागः चिन्त्यते | षष्ठेन ग्रहणकसूत्रसूचितसंबन्धस्वीकृतानां क्रियाकारकभावादीनां स्वरूपम् उच्यते | सप्तमेन अर्थक्रियोपयोग इति संक्षेपः | नन्वेवं तथा निर्माणशक्त्या अवभासनारूपया यत् निर्मीयते तस्यावभासनैव निर्माणम्, नान्यत्, सा च द्विचन्द्रादेरपि अस्ति, नीलादेरपि, नीलादिनिष्ठस्य कर्मसामान्यसंबन्धादेरपि, ततश्च असत्यं सत्यं संवृतिसत्यमिति य एवंप्रायेषु व्यवहारः स कथं संगच्छेत नम् - महाद्वैतवशेन सत्यतया साधनम्, तस्य मुखेन द्वारेण | निर्वाहयितुम् सिद्धीकर्तुम्, प्रस्तूयते - आरभ्यते | तत्र - प्रोक्ताभिप्रायश्लोकसप्तकमध्ये, सूत्रकल्पेन - बह्वर्थसूचकत्वात्सूत्रसदृशेन, क्रियादेः - प्रोक्तस्य क्रियासम्बन्धादेः, विरुद्धधर्माणां यः अध्यासः, तेन यत् दूषणं तेन, अनुपपद्यमानस्यापि - स्वरूप - सत्तयामयोग्यस्यापि, वपुः - क्रियाद्याख्यं स्वरूपम् | तत्र - पूर्वश्लोकोक्ते वस्तुनि, उपपत्तिः - युक्तिः | एषाम् - क्रियासम्बन्धादीनाम्, ग्रहणकसूत्रेण क्रियासम्बन्ध इत्यादिप्रथमश्लोकरूपेण, सूचितः यः - संबन्धस्तेन स्वीकृतानाम् | अथ प्रथमश्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका - एवम्, पूर्वाह्निकोक्ते वस्तुनि सतीत्यर्थः, निर्माणशक्त्या - क्रियाशक्त्या, निर्मीयते - संपाद्यते, अवभासनैव - अवभासनमात्रम्, न तु उपादानग्रहणपूर्वं करणम् | एवशब्दव्यावर्त्यमाह नान्यत् इति, अनुपलभ्यमानत्वादिति भावः | ननु ततः को दोष इत्यत आह सा च इति | सा च - अवभासना च, अप्यस्ति इत्यस्य सर्वत्र सम्बन्धः | ननु भवतु ततः किम् इत्यत आह ततश्च इति | संवृत्या सत्यं संवृतिसत्यम्, बौद्धमते क्रियासामान्यादेः विकल्परूपत्वेनाविद्यारूपया संवृत्त्या सिद्धत्वात् | एवंप्रायेषु - एवमादिषु व्यवहारस्थानेषु, व्यवहारः - भिन्नतया स्थितः व्यवहारः | कुतो न संगच्छते इत्यपेक्षायां हेतुमाह निर्मेयत्वाविशेषात् इत्याशंक्य क्रियादीनामसत्यत्वं तावत् नोपपन्नम् इति वदन् द्विचन्द्रादीनां तु इत्थमपि असत्यत्वम् इति सूचयन् आह - क्रियासंबन्धसामान्यद्रव्यदिक्कालबुद्धयः | सत्याः स्थैर्योपयोगाभ्यामेकानेकाश्रया मताः || १ || चित्तत्त्वात् अन्यत्र या क्रियाबुद्धिः कर्तृकर्मकरणादिषु चैत्रोब्रजति तण्डुला विक्लिद्यन्ते एधा ज्वलन्ति इति, तस्या एकानेकरूपश्चैत्राद्यर्थ आश्रयः आलम्बनम् | तथाहि - तत्तद्देशकालाकारभिन्नः तत्र चैत्रदेहोऽनेकस्वभावोऽपि स एवायम् इति एकरूपताम् निर्मेय इति | वदन् - साक्षात्कथयन्, इत्थमपि - नीलादिभिः सह निर्मेयत्वाविशेषेऽपि, सूचयन् - सूचनामात्रेण वदन् | एवम् अवतरिणकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | क्रिया इति | अत्र टीका - प्रथमं क्रिया इत्यादि व्याचष्टे चित्तत्वात् इति | चित्तत्वात् - परमार्थतः सर्वक्रियाधारभूताच्चित्स्वरूपात्, अन्यत्र - अननुरूपेषु, कर्तृकर्मकरणादिषु - कतृ कारके, कर्मकारके, करणकारके च, आदिशब्दात् संप्रदानादिषु च, या क्रियाबुद्ध्ः भवति सापि गृह्यते, कथम् ? चैत्रो व्रजति कर्तृभूतः चैत्रो गच्छति, तण्डुलाः - कर्मरूपाः तण्डुलाः, विक्लिद्यन्ते - क्लेदनक्रियाविषयी भवन्ति, एधाः - करणभूतानीन्धनानि, ज्वलन्ति, उपलक्षणञ्चैतत् विप्रो गा गृह्णातीत्यादेः | इति शब्दः कर्त्रादिविषयक्रियाबुद्धिनिदर्शनसमाप्तौ | एकानेकाश्रया इति, पदं व्याख्यास्यन् या इत्यस्याकांक्षां पूरयति तस्या इति | चैत्रादि [चैत्र इत्यादिशब्देन - C.] इति, आदिशब्देन तण्डुलादेर्ग्रहणम् | आश्रय - पदं व्याचष्टे आलंबनम् इति | कथमित्यपेक्षायां समर्थनमुपक्रमते तथा हि इति | ते ते च ते देशकालाकाराः तैः विशेषणतां गतैः भिन्नः, - तत्र - तेषु देशकालादिषु, अनेक - स्वभावोऽपि - बहुस्वरूपोऽपि, निर्भासते - प्रतिभासते, स एव च - अनेक - अपरित्यजन्नेव निर्भासते, स एव च एकानेकरूपा [एकानेकरूपोऽर्थः क्रिया - K. ष्. ष्.] क्रिया तथैव प्रतिभासनाच्च पारमार्थिकी, द्विचन्द्रादि तु तथाभासमानमपि उत्तरकालं प्रमाव्यापारानुवृत्तिरूपस्य स्थैर्यस्य उन्मूलनेन द्विचन्द्रो नास्ति इत्येवं - रूपेण असत्यम्, इह पुनः चलति चैत्रः इत्येवंभूतो विमर्शः अनुवर्तमानो न केनचित् उन्मूल्यमानः संवेद्यते, द्विचन्द्रादि च यद्यपि ह्लादोद्वेगयोः उपयुज्यते, तथापि द्विचन्द्राभिमानी न तावतीं तत्र अर्थक्रियाम् अभिमन्यते, अपि तु यादृशी एकेन शशिना कर्तव्या तिमिरापसारणादिरूपा, तादृश्येव अपरेण, इति न तद्द्विगुणाम् अर्थक्रियां स्वभावस्य एकतात्यागनिर्भास एव च, एकानेकरूपा - एकस्य देवदत्तकायस्य देशादिविशेषणकृतानेकतास्वरूपा, क्रिया भवति, तत्र देशभेदः तत्तद्देशासादनकृतः, कालभेदः सूर्यसंचारादिक्रियारूपो भेदः, आकारभेदः परिणामावस्थादिरूप इति विभागः | सत्या इति व्याचष्टे तथैव इति | तथैव - न त्वौत्तरकालिकबाधवशेनान्यथापि, प्रतिभासनाच्च पारमार्थिकी भवति भासनमात्रस्यैव वस्तुस्वरूपप्रतिष्ठापकत्वात् | च शब्दः प्रकाशरूपताकृतपारमार्थिकत्वसमुच्चयार्थः, एतेनार्थायातमौत्तरकालिकबाधायुक्तस्य द्विचन्द्रस्यासत्यत्वं कथयति द्विचन्द्रादि इति | तथाभासमानमपि तस्मिन् समये द्विचन्द्रादित्वेन भासमानमपि सत्, प्रमाव्यापारस्य याऽनुवृत्तिः - अनुवर्तनं सा रूपं यस्य तादृशस्य, स्थिरत्वं हि कालान्तरे पुनस्तथैव ग्रहणमेव, उन्मूलनेन - बाधनेन, कीदृशेनेत्यपेक्षायामाह द्विचन्द्रः इति | असत्यम् - अपारमार्थिकम् | ननु इहापि कथं न क्रियाया उन्मूलनमस्तीत्यत आह इह पुनः इति | संवेद्यते - अनुभूयते, एतेन स्थैर्य इति पदं व्याख्यातम् | उपयोग पदं व्याचष्टे द्विचन्द्रादि इति | आदिपदेन एकत्र सर्पे सर्पद्वय-भ्रमग्रहणम् | तस्यैवोद्वेगकारित्वात्, उपयुज्यते - उपयोगं करोति, कर्तरि लकारः, तावतीम् - द्विचन्द्रकरणीयाम्, पुनः कियतीमभिमन्यते इत्यत आह अपि तु इति | तस्याम् - तत्र अध्यवस्यति, तस्यां च असौ न उपयुज्यते, व्रज्यायां तु यामेव ग्रामप्राप्तिम् अध्यवस्यति तस्याम् अविकलायाम् उपयोगोऽस्या इति स्थैर्यात् उपयोगाच्च एकानेकरूपक्रियातत्त्वालम्बनबुद्धिः [एकानेकरूपक्रियातत्वालंबना बुद्धिः - K. ष्. ष्.] सत्यैव, एवं संबन्धादिषु कालपर्यन्तेषु वाच्यम् उत्तरकारिकासु स्फुटीकरिष्यति [स्फुटीभविष्यति - K. ष्. ष्.] || १ || नन्वेकत्वम् अनेकत्वं च परस्परं विरुद्धे, कथम् एकत्र वस्तुनि द्विचन्द्रकर्तव्यायामर्थक्रियायाम्, असौ - द्विचन्द्रः, व्रज्यायाम् - सत्यतया साधनीयायां गमनक्रियायाम्, अस्याः - व्रज्यायाः, स्थैर्योपयोगयोः प्रत्येकं पञ्चमीयोजनां करोति, स्थैर्यात् इति | एकानेकरूपा या क्रिया तस्याः यत् तत्त्वं - स्वरूपं तत् आलम्बनं विषयो यस्याः तादृशी चासौ बुद्धिः सा एकानेकक्रियातत्त्वालम्बन-बुद्धिः, सत्यैव, न तु द्विचन्द्रवत् प्रथमं सत्या, उत्तरकाले तु असत्येति भावः | पूर्वावस्थितक्रियादिषु मध्ये क्रियामात्रस्यैव निर्णीतत्वात् | सम्बन्धादिष्वप्येनमेव न्यायमतिदिशति एवम् इति | बुद्धेः सर्व- संबन्धित्वेन कालपर्यन्तेषु [कालपर्यन्तमित्युक्तम् - C.] इत्युक्तम् | ननु कथमतिदेशमात्रेणातिगहनसम्बन्धादिज्ञानं भवेदित्यत आह उत्तर इति | स्फुटीकरिष्यति, सूत्रकार इति शेषः || १ || ननु इति | यस्य कस्यचिद्वस्तुनः परस्परविरुद्धयोरेकत्वानेकत्वयोः सद्भावे स्याताम्, ततश्चायं बाधकप्रमाणकृतः स्थैर्योन्मूलनप्रकार इत्याशङ्क्याह :- तत्रैकमान्तरं तत्त्वं तदेवेन्द्रियवेद्यताम् | संप्राप्यानेकतां याति देशकालस्वभावतः || २ || अंगीक्रियमाणे एकस्यानेकत्वं बाधकम्, अनेकस्यैकत्वं बाधकमित्येकत्वानेकत्वयोर्बाधकप्रमाणकृतः स्थैर्योन्मूलनप्रकार इत्याशंक्य तत्परिहर्तुमाह तत्र इति | अत्र टीका - वस्तुनि - देवदत्तकायादिरूपे.................| एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्रैकम् इति | तेषु क्रियादिषु तत्प्रमाणभूतम् आन्तरम् अन्तर्मुखरूपं तत्त्वम् एकम्, तदेवेन्द्रियवेद्यतां प्राप्य इहामुत्रेति देशतः अधुना तदानीमिति कालतः, कृशः स्थुल इत्यादि स्वभावतः, अनेकतां याति | तत्रेति | तेषां सत्यत्वे स्थिते सति | तत्रेति - तयोरेकत्वानेकत्वयोर्मध्ये एकत्वमेवमनेकत्वमेवमिति वक्ष्यमाणप्रकारेण याजनम् | एकत्वं देशाद्याभासामिश्रतायामन्तःकरणैकवेद्यत्वे चिन्मात्रतायां च, अनेकत्वमाभासान्तरमिश्रतायामुभयकरणवेद्यत्वे चिदतिरिक्तताभासने चेति एकत्वानेकत्वयोः स्फुटो [एकानेकत्वयोः स्फुटो न विषयभेदः - C.] विषयभेदः | इह तावत् चैत्रे चलति दृष्ते न जातुचित् न चलति अयम् इति बुद्धिः जायते - न रजतम् इतिवत्, द्विचन्द्रेऽपि नायं द्विचन्द्रः तिमिरवशात् अहम् उपप्लुतनयनः परम् एवं वेद्मि इति भवति उन्मूलना बुद्धिः | यत्तु उक्तम् - एकमेव कथम् अनेकं भवति इति, तत्र उच्यते - इह कारणमेव कथम् अकारणं भवति अथ उच्यते - विषयभेदात् तथा इति, तद्विषयभेदे एतत् न विरुध्यते इति केन अयं वितीर्णोऽवसरः ? एकानेकवस्तुनिष्ठायाः क्रियाया एकानेकत्वं सत्यमिति व्यतिरेकदृष्टान्तमुखेन दर्शयति | इह - चैत्रमैत्रादेर्गमनक्रियायाम्, चैत्रे चलति दृष्टे अयं चैत्रो न चलतीति बुद्धिर्न जातुचिज्जायते, तस्मात् चलतश्चैत्रस्य तत्तद्देशकालाकारविशिष्टत्वादनेकत्वं स एवायमिति प्रतिभासादेकत्वमित्येकानेकरूपचैत्राश्रितत्वात् तत्सम्बन्धिनी [संबन्धिनी - C.] क्रियाप्येकानेकरूपा | एवंभूतरूपा क्रियाबुद्धिर्गन्तव्यप्रदेशप्राप्तेः पूर्वमेव मध्ये रजतमितिवन्न विच्छिद्यते, शुक्तिविषये भूतपूर्वा रजत बुद्धिः पश्चान्न रजतमिति निवर्त्यते तथा नैषा | पुनरपि व्यतिरेकदृष्टान्तेन दृढी करोति | रजतबुद्धिवत् द्विचन्द्रेऽपि नायं द्विचन्द्रस्तिमिरवशादहमुपप्लुत - नयनः परम् केवलमेव द्विचन्द्र इति वद्मीति द्वयबुद्ध्युन्मूलनं [द्व.........ऌअनं -C.] भवति | भवता एकमेव कथमनेकं भवतीति यत्तूक्तं तत्र प्रश्ने एकस्यानेकभवनप्रकार उच्यते, अङ्कुरादि प्रति कारणभूतं बीजाद्येव घटादि प्रति कथं कारणं न भवति | अथोच्यते विषयभेदात्तथेति बीजहेतुरङ्कुरोऽन्यः [मृज्जन्योः.....ट्येवं - C.] मृज्जन्यो घटोऽन्य इत्येवं स्वस्वकार्यरूपयोः विषयोर्भेदात् बीजमङ्कुरस्यैव कारणम् न घटस्येत्युच्यते चेत् तर्हि उक्तलक्षणभेदे एतद् इति, बीजस्याङ्कुरं प्रति कारणत्वं घटादि प्रत्यकारणत्वं च न विरुध्यते इति अयमवसरः समयः केन वितीर्णः बीजादेः ? कारणाकारणतापरामृष्टबीजमङ्कुरं प्रत्येव कारणं भवति न तु घट इत्येवं - संवेदनेन इति चेत् चलति इत्यादौ संवेदनमेव अस्माभिः प्रमाणीकृतं किमिति न सह्यते, विषयभेदोऽपि च अत्र वक्तुं न न शक्यते; तथाहि आभासान्तरेण असंभेदने तदेकाभासमात्रम्, अत एव अन्यापेक्षावियोगात् अन्तरङ्गत्वात् आन्तरम् अनुवर्तमानं तथाभूताभासमात्रग्रहणोचितान्तःकरणवेद्यतया च आन्तरं तथास्वरूपापरिच्युतेः तत्त्वम् आभासान्तरयोगेन तननसहिष्णुत्वाच्च तत्त्वम् एकम् इति प्रतीयते, तदेव देशाभासेन इह अमुत्र इति, कालाभासेन अधुना तदानीमिति, स्वभावाभासेन कृशः स्थूल इत्यादिना, मिश्रतया अनेकमिति बाह्येन्द्रियवेद्यतायां प्रतीयते | तथा स्वामिनश्चात्मसंस्थस्य....................... | भूतेन स्वानुभवेन इति चेत् चलतीत्यादौ अपि चलतो देवदत्तस्य तत्तद्देशकालाकारभिन्नत्वादनेकत्वं स एवायमिति प्रत्यभिज्ञा- विषयत्वादेकत्वमिति वस्तुत एकत्वानेकत्वे स्वसंवेदनमेवास्माभिः प्रमाणीकृतम् इति किमिति न सह्यते | अत्र - एकानेकत्वे, विषयभेदोऽपि वक्तुं शक्यत एव | तथाहि देशकालादीनाम् आभासान्तरेणासंभेदने [आभासान्तरेणासंवेदने - C.] तत् - चैत्रादिरूपम्, एकाभासमात्रम् अत एव इति, एकाभासमात्रत्वादेवेतरापेक्षायोगात् [त्वादेवेशापेक्षायोगात् - C.] अनुवर्तमानम् - अविच्छेदेन स्फुरत् | आन्तरम् - अन्तर्मुखम् | तथाभूत इति देशाद्यविशिष्टैकाभासमात्रग्रहणोचितान्तः- करणवेद्यतया चान्तरं तथाविधान्तर्मुखस्वरूपापरिच्युतेः तत्त्वम् - परमार्थभूतम् || किञ्च - गुणादिस्यन्दनिष्यन्दाः सामान्यस्पन्दसंश्रयात् | इत्युक्तनीत्या सामान्यस्पन्दरूपत्वेन निखिलव्यक्तिरूपा- भासान्तरयगेन तननसहिष्णुत्वाच्च तत्त्वम् - सर्वानुस्यूतम् एकमिति च प्रतीयते तदेव इति, एषामान्तरं तत्त्वमेव, इहामुत्रेति देशाभासेन अधुना तदानीमिति कालाभसेन कृशः स्थुल इत्यादिना स्वभावाभासेन च मिश्रीभुतम् अत एव अनेकमिति बाह्येन्द्रियवेद्यतायां प्रतीयते | किं च स्वामिनश्चात्मसंस्थस्य इति उक्तनीत्या विश्वमेव आन्तरं सत् एकम्, तदेव सान्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वम् इति वक्ष्यमाणकार्यकारणभावतत्त्वदृष्ट्या इन्द्रियवेद्यतायामनेकम्, देशाद्याभासमिश्रणात् इति | एकत्वम् - आभासान्तरामिश्रतायामन्तः - करणैकवेद्यत्वे चिन्मात्रतायाम्, अनेकत्वं पुनर - आभासान्तरमिश्रतायाम् उभयकरणवेद्यत्वे चिदतिरिक्तताभासने च, इति स्फुटो विषयभेदः, तस्यैव च तथात्वम् इति परामर्शबलादेव कारणाकारणवत् उपादानसहकारिवत् | अथ व्यपदेशमात्रम् एतत् कारणम् अकारणं च इत्यादि, तदिहापि एकमनेकमिति व्यवहारमात्रम्, नीलं पीतम् अविकल्पकं सविकल्पकम् इत्यपि सर्वं मायापदे व्यवहारमात्रम् इति - इत्यत्र सत् स्वामिवद् एकम् - अविभक्तम् | तादृग्विधं विश्वमेव अन्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वमिति वक्ष्यमाणकार्य- कारणभावतत्त्वदृष्ट्या इति वस्तुन एकानेकत्वे पुनरपि स्पष्टीकृते [स्पष्टीकृत - C.] देशकालादिरूपाभासमिश्रितामिश्रितस्यैव | एकत्वमाभासान्तरामिश्रतायाम् इत्यादिना स्फुटो विषयभेदः इत्यन्तेन ग्रन्थेन वस्तुन एकत्वानेकत्वे पुनरपि विषयभेदेन स्पष्टीकृते | तथात्वम् - सहजमेकत्वं तदेवेदमिति प्रत्यभिज्ञानबलादेव, यथा बीजात्मनः | कारणाकारणवदुपादानसहकारिवत् इति | यथा एकस्यैव बीजात्मनो वस्तुनः अङ्कुरं प्रति कारणत्वं घटादि प्रत्यकारणत्वमिति कारणाकारणात्मकं द्विरूपं प्राप्तम् | किञ्च एकस्यैव मृदात्मनो वस्तुनः घटं प्रत्युपादानत्वमङ्कुरं प्रति सहकारित्वमिति द्विरूपं प्राप्तम् | तद्वदेकस्यैव वस्तुनः अन्तरन्तःकरणैक - सर्वं समानम्, तस्मात् एकत्वानेकत्वविरोधो न बाधकः, तदेतत् एवकारेण उक्तम् | तत्र इति, तेषु क्रियादिषु यत् आन्तरं तत्त्वं तदेकम्, तदेव इन्द्रियवेद्यतां [इन्द्रियवेदनीयताम् - K. ष्. ष्.] प्राप्य देशादिभेदात् अनेकतां याति इति संबन्धः, तत्र इति सत्यत्वे स्थिते, तयोर्वा एकत्वानेकत्वयोः मध्ये एकत्वमेवम् अनेकत्वमेवम् इति वा योजना [इति योजना - K. ष्. ष्.] || २ || विषयत्वादेकत्वं बहिर्देशकालाकारकलितत्वेनानेकत्व- मित्येकत्वानेकत्वविरोधो न बाधकः || अथ बीजमंकुरं प्रति कारणं घटादि प्रत्यकारणम्, आदिग्रहणात् [आदिग्रहणाद् घटं - C.] मृद् घटं प्रत्युपादानकारणमंकुरं प्रति सहकारिकारणमित्ये-तादृग्व्यवहारमात्रम् न वस्तुस्वरूपपरामर्शनम् [वस्तुस्वरूपपरामर्श - C.] | तत् तर्हि, इह मायापदेऽपि वस्तुनश्चिन्मयत्वेऽपि अन्तरेकं बहिरनेकं नीलं पीतमविकल्पकम् सविकल्पकमित्येकानेकनीलपीता - विकल्पकसविकल्पकज्ञातृज्ञानादिकं [सविकल्पकः ज्ञातृज्ञानं] सर्वं व्यवहारमात्रमिति [सव्यवहारमात्रमिति - C.] भवदुक्तमस्मदुक्तं च सर्वं समानम् || तदेत् इति, एकानेकत्वम्, तदेवेन्द्रियवेद्यताम् इत्येवकारेणोक्तम्, तदेव विवृणोति तत्र इति || तेषु पूर्वोक्तेषु, क्रियादिषु यद् आन्तरं तत्त्वम् इति, तदाश्रयभूतमहन्तारूपमेकं तत्त्वं यत्तदेवेन्द्रियवेद्यतां प्राप्य देशादिभेदात् [देशाविभेदवत् - C.] - बहिरनेकतां यातीति संबंधः | तत्रेति सत्यत्वे [तत्रेति वा सत्यत्वे - C.] स्थित इत्यादि इति वा योजना इत्येतदन्तमन्वय [अन्वय एव दर्शितम् - C.] एव दर्शितः || २ || ननु एवं विषयभेदे अभ्युपगम्यमाने यदा एकं प्रतिभातं भवति तदा न अनेकम्, अनेकप्रतिभासे च न एकं प्रतिभातम्, इति कथम् एकानेकरूपं वस्तु स्यात्, तथाहि बाह्येन इन्द्रियेण चैत्रो विचित्रदेशकः परम् अनुभूयते, न तु अनेकाभाससंमिश्रीकारे बाह्येन्द्रियजस्य अविकल्पकस्य व्यापारः - संनिहितविषयबलोत्पत्तेः अविचारकत्वात् इत्याहुः, विकल्पेनापि मानसेन तथाभूतं वस्तु नैव स्पृश्यते इति कया धिया वस्तु एकानेकरूपं गृह्येत ? इति परव्यामोहनिबर्हणाय आह - तद्द्वयालम्बना एता मनोऽनुव्यवसायि सत् | करोति मातृव्यापारमयीः कर्मादिकल्पनाः || ३ || ननु इति अन्तर्बहीरुपतया एकानेकत्वयोर्विष्यभेदे अभ्युपगम्यमाने तद्वस्तु यदैकमिति प्रतिभाति तदैव नानेकं भाति, तस्यैवानेकत्वेन प्रतिभासे यदा तदेवानेकत्वेन प्रतिभाति तदैकत्वप्रतिभासो नास्ति इति कथं वस्तु एकानेकरूपं स्यात् | एकस्य चिद्वस्तुनः एकानेकत्वे गृह्यमाणे सति युगपदेवैकत्वानेकत्वाभावादेकानेकत्वं न भवतीत्यर्थः | तदेव प्रतिपादयति तथाहि इति | गच्छंश्चैत्रः केवलं बाह्येन्द्रियेणैव तत्तद्विचित्रदेशगोऽनुभूयते | तस्मिन्नेकस्मिंश्चैत्रदेहे अनेकत्वहेतुभूतदेशकालाद्याभाससंमिश्रीकारं [अनुकत्वहेतुभूत -] प्रति वस्तुमात्रप्रतिभासरूपस्य देशकालाद्यविशिष्टवस्तुमात्र-विषयस्य निर्विकल्पस्य व्यापारो नास्तीति | सहसोपनिपतितविषयवशोत्पन्नस्य निर्विकल्पस्य [निर्विकल्पः स्यात् तद्विषमविशेषणः भूतविकल्पसमय - भाविनं - C.] तद्विषयविशेषणभूतं विकल्पसमयभाविनं देशकालादिं प्रत्यविचारकत्वात् | सर्वश्चायं विकल्पो अनुभवमूलः इत्युक्तनीत्या तत्पृष्ठपातिना [तत्पृष्ठनीया - C.] मानसेनापि विकल्पेन तथाभूतमेकानेकं वस्तु नैव स्पृश्यते | किन्तु नैसर्गिको ज्ञाने बहिराभासनात्मनि | पूर्वानुभवरूपस्तु स्थितः स स्मरणादिषु || इत्युक्तनीत्या निर्विकल्पकविषयवत्त्वात्तस्य, इति कया धिया इति इतिनिर्विकल्पधिया सविकल्पधिया वेति | अनात्मवादिनः ज्ञानसन्तानमेव तत्त्वमिति मन्यमानस्य परस्य व्यामोहनिबहणायाह तद्द्वया इति || इह ज्ञानमालाया अन्तःसूत्रकल्पः स्वसंवेदनात्मा प्रमाता जीवितभूतः इति उपपादितं प्राक्, स च स्वतन्त्र इत्यपि निर्णीतम्, स तु विशुद्धस्वभावः शिवात्मा, मायापदे तु संकुचितस्वभावः पशुः, तदस्य मनःसमुल्लासावसरे विकल्पभूमिकायां स्फुट उल्लासः, ऐन्द्रियके निर्विकल्पके सदाशिवेश्वरदशाभ्युदयात्, अविकल्पबोधाबहिर्भूतस्य तद्द्वय इति, चैत्रघटादेर्वस्तुनः तदिति पूर्वोक्तमेवैकत्वानेकत्वद्वयमवलम्बन्त [एवमेकत्वानेकत्व - C.] इति तद्द्वयालम्बनाः एताः इति, क्रियासंबन्ध इत्यनेन ग्रहणकसूत्रेण सूचितास्तत्क्रियाद्याश्रयप्रमातृप्रमेयव्यापारमयीः व्यापारस्वरूपाः क्रियादिबुद्धीः [क्रियाधिबुद्धिः - C.] || मनः [नन्विति - C.] इति, निर्विकल्पविकल्पानन्तरभाध्यव्यवसायात्मक [निर्विकल्पविकल्पानन्तरभावि अध्य .....विश्चयः....षन् अनः ....व्यवसायात्मकः स्वे स्वे व्यापारसाधनम् - C] - निश्चयमन्तःकरणमेव करोति इति संकल्पाभिमानाध्यवसायात्मकस्वस्वव्यापारसाधनमन्तःक रणमेव करोति | इह ज्ञानमालायाः इति, अनुभवादिरूपाया ज्ञानशक्त्याद्याह्निकत्रयनिरूपिताया ज्ञानमालायाः, अन्तः इति, अन्तारूपत्वेन सूत्रकल्पधारकः जीवितभूतः कश्चित् प्रमाता अस्तीति प्राग् इति एकाश्रयनिरूपणाह्निंके, उपपादितम्, सच प्रमाता महेश्वरनिरूपणेनाष्टमेनाह्निकेन स्वतन्त्र इत्यपि निर्णीतम् | स च सद्गुरुकटाक्षवेधेन विगलितमायाकालुष्यो यदा भवति तदा स विशुद्धस्वभावः शिवात्मा, इदन्ताप्रतिभारूपे मायापदे पुनः शिवैकरूपोऽपि तया तिरोहितत्वात् चैत्रोऽहं मैत्रोऽहमिति संकुचितस्वभावः पशुः | अस्य - पशुरूपस्य प्रमातुः, मनस इति, प्रोक्तरूपस्यान्तः- करणस्य, समुल्लासावसर इति, संकल्पाभिमानादिस्वस्वव्यापारं प्रति सम्यगुल्लासावसरे, अहमत्रत्यः अस्मिन् काले वर्तमानः एवमाकार इति विकल्पभूमिकायां स्फुट उल्लासः | देशकालाद्यविशिष्टाहमिदमिति ऐन्द्रियके निर्विकल्पके अप्रत्यभिज्ञा - विमर्शव्यापारः | पश्चाद्भाविनं व्यवसायं निश्चयात्मकं विकल्पकम् अनुव्यवसायशब्दवाच्यं विदधदन्तःकरणम् एतान् क्रियासंबन्धादिविकल्पान् संपादयति | ते च विकल्पाः तद्द्वयम् एकत्वानेकत्वरूपम् अवलम्बन्ते, नहि विकल्पेषु प्रतिभासमानम् अवस्तुसत् [अवस्तु तत् - K. ष्. ष्.] इति हि उक्तम् नतोऽपि प्रथमं देशकालाविशिष्टमेवेदमिति प्रथनकाले, [प्रथकाले - C.] अहमिदमिदमहमित्यस्यैव सदाशिवेश्वरतयाभ्युदयात् [सदाशिवेश्वरदयाभ्युदयात् - C.] एवंभूतमैन्द्रियकं निर्विकल्पं विकल्पबुद्धिरूपान् क्रियासंबन्धान् न करोतीत्यर्थः || साक्षात्कारक्षणेप्यस्ति विमर्शः इत्युक्तनीत्या एवंभूताविकल्पकबोधाबहिर्गतस्य विमर्शव्यापारः | अनुव्यवसायि इति, अनु - पश्चाद्भावित्वात् व्यवसायशब्दवाच्यं [व्ययसायिशब्दवाच्यम् - C.] व्यवसायं निश्चयात्मकं विकल्पं विदधत्, मनः इति, अन्तःकरणमेतान् क्रियासम्बन्धादीन् करोति संपादयति | तद्द्वयालम्बना इति, ते च विकल्पाः एकत्वानेकत्वरूपं तद्द्वयमवलम्बन्ते | इह स्मृतिविकल्पे तावदर्थोऽध्यवसीयते | अन्यथा सुप्तमूर्च्छितकल्पतापत्तिः, एवं च यावदध्यवसायोऽर्थस्य तावदर्थादिति सामर्थ्यादिदमभ्युपगन्-तव्यम् यत् सोऽर्थः प्रकाशते | अप्रकाशमाने अध्यवसातव्ये अध्यवसायोऽन्धप्रायः स्यादित्यत्र न हि विकल्पेषु प्रतिभासमानम् [न हि विकल्पेषु प्रतिभानमस्तु सदित्युक्तं - C.] अवस्तुसदित्युक्तम् | सत्ता प्राकाश्यमेव हि प्रकाशतैव व तुत्वम् इति | न च विकल्पस्य प्रकाशरूपतां मुक्त्वा आरोपणाव्यवसायाभिमानादिनामधेयं व्यापारान्तरं युक्तं, ततोऽबाह्ये बाह्यम् आरोपयन्ति इत्यादि वचो वस्तुशून्यम्, तच्च एतत् उक्तम् भ्रान्तित्वे चावसायस्य.................| इत्यत्र | अथ ब्रूयात् परो यत् इन्द्रियज्ञानेन प्रकाशनीयं स्वलक्षणं तत् कथं विकल्पः स्पृशेदिति, भवेदेवं - यदि विकल्पो नाम स्वतन्त्रो भवेत्, यावता प्रमातुरसौ व्यापारः प्रमाता च पूर्वानुभवान्तः-स्वसंवेदनरूपः तदस्य च अयमेव पूर्वानुभवसंस्कारो यत् विकल्पनव्यापारकालेऽपि पूर्वानुभवात्मत्वम् अनुज्झन्नेव आस्ते, ततः पूर्वानुभवो यावत् स्वलक्ष - इति श्रीमत्तन्त्रवटधानिकोक्तनीत्या वस्तुनः प्रकाशतैव वस्तुत्वम् - स्वरूपम्, वस्तुन्यप्रकाशिते विकल्पस्य तस्मिन् वस्तुनि इदं गुञ्जाफलं वा वह्निर्वा, गुञ्जाफलमेव वह्निरिति, ममैवेदं - गुञ्जाफलमिति क्रमेण मनोबुद्ध्य हंकारव्यापारसाध्यं - व्यापारान्तरं न युक्तम् | ततोऽबाह्ये बाह्यम् [ततो अबाह्यं बाह्यं - K. ष्. ष्.] इत्यादि, ततः इति, वस्तुनः प्रकाशपरमार्थत्वात्, अबाह्ये ज्ञानसन्ताने, स्वतोऽसदपि बाह्यम् नीलादि, शुक्तौ रजतवद् आरोपयन्तीत्यादि वचो वस्तुशून्यम्, न परमार्थः | तच्चैतत् इति, तदेतत् - प्रमेयम् | भ्रान्तित्वे चावसायस्य | इत्यत्रोक्तम् | अनुव्यवसायि इत्युक्तमुद्दिश्याह निर्विकल्पप्रमाणादिज्ञानेन प्रकाशनीयं वस्तु - कथं विकल्पः स्पृशेद् इति | भिन्नविषयत्वादिति परो ब्रूयात् | भवेदेवम् इति, प्रमातारं विना यदि विकल्पः स्वयमेव स्वतन्त्रो भवेत्, तर्हि तदा विकल्पः निर्विकल्पविषयं स्पृष्टुं न समर्थः | यावता इति, विकल्पः प्रमात्रा विना विषयप्रवृत्तौ स्वतन्त्रो न भवति तस्मात् असौ विकल्पः, मानसं विकल्पज्ञानम्, प्रमातुः एव व्यापारः, प्रमाता च अयं घट इति पूर्वानुभवान्तर्मुखसंस्कारात्मकस्वसंवेदनरूपः | तस्य प्रमातुः अयमेव इति, अनुभवपृष्ठपातिनिर्विकल्पकव्यापारे पूर्वानुभवात्मत्वम् [पूर्वानुभवत्वम् - C.] इति, पूर्वानुभूतं वस्तु तं देशं तं कालमित्येतत् तस्य वस्तुनः तद्विशेषणभूतयोर्देशकालयोश्च विमर्शम् अनुज्झन्ने - णप्रकाशनात्मा तावत् पूर्वानुभवतादात्म्यापन्नप्रमातृतत्त्व-व्यापारोऽपि विकल्पस्तद्विषय एव, अत एवमुक्तम् आचार्येण पूर्वानुभवसंस्कारः प्रमातुरयमेव सः | यदपोहनकालेऽपि स पूर्वानुभवः स्थितः || इति | तस्मात् प्रमातुः यो व्यापार एकत्वानेकत्वसंयोजनात्मा स एव प्रकृतो यत्र तादृशीः क्रियादिकल्पना एकानेकवस्तुविषया एता इति ग्रहणकवाक्यसूचिता मन एव करोति इति स्थितम्, यद्यपि वास्ते यत्तदयं विमर्श एव संस्कारः प्रमातरि संस्कारात्मना वर्तमानः पूर्वानुभवो यावत् - स्वविषयप्रकाशनात्मा तावत्तादात्म्यापन्नं स्मरणाद्यपि तथा निर्भासते इत्युक्तनीत्या तादृग्विधपूर्वानुभवतादात्म्यापन्नः प्रमातृव्यापारोऽपि विकल्पः तावत् पूर्वानुभवविषय एव | अत एव हेतोराचार्यैः श्रीमदुत्पलदेवपादैरुक्तम् :- पूर्वानुभवसंस्कारः प्रमातुरयमेव सः | यदपोहनकालेऽपि स पूर्वानुभवः [यदपादन......भवस्थितः - C.] स्थितः || इत्यादि | प्रमातुरयमेव पूर्वानुभवसंस्कारः यत् प्रमाता अपोहनकालेपि पूर्वानुभवः स्थित इति | तस्माद् इति, प्रमातृव्यापाररूपात्, एकैकस्मिन् वस्तुनि एकत्वानेकत्वसंयोजनात्मा [एकात्वानेकत्व......यो - C.] यो विकल्पात्मा व्यापारः | व्यापारमयीः इति, स व्यापार एव प्रकृतं रूपं यासां तादृशीः क्रियादिकल्पनाः, एताः इति ग्रहणकवाक्यसूचितः क्रियादिकल्पनाः मन एव करोतीति स्थितम् | तृतीयेनानिर्विकल्पकसंवेदनसंवेद्यत्वेऽपि विकल्पकाल एव स्फुटमेषां रूपमिति अविकल्पेऽपि सामान्याद्यवभासो घटमात्रावभासादौ, तथापि न तदा सामान्यादि स्फुटम्, समानोपरञ्जकत्वे संबन्धिद्वयोद्भवे क्रमिकक्षणसंतानात्यागे अवयवकदम्बकस्वीकारे अवध्यवधिमत्परिग्रहादौ सामान्यसंबंन्धक्रियाद्रव्यदिगादि-पदार्थस्य परमार्थतः स्फुरणात्, इति मानसविकल्पग्राह्या एकानेकरूपाः सामान्यादयः इति स्थितम् | एवं च संवृतिः विकल्पबुद्धिः, तद्वशात् उच्यतां संवृतिसत्यत्वं सत्यत्वस्यैव तु प्रकारः तत्, इति द्विचन्द्रादिवत् न असत्यता || ३ || तत्र च अयं संविदवतरणक्रमो यत् क्रियाशक्तेरेव अयं सर्वो पूर्वोक्तनीत्या विशेषणविशिष्टघटमात्रावभासादौ अविकल्पेऽपि सामान्यसम्बन्धाद्याभासो यद्यपि, तदा इति निर्विकल्पावस्थायाम् तथापि सामान्यादि स्पष्टतया न प्रकाशते | तदेव प्रतिपादयति तथापि सामान्यादि [तथा हि सामान्यादि - C.] इत्यनेन | घटगतं घटत्वं सर्वदेशगतघटानुस्यूतमिति समानोपरञ्जकत्वे अपि द्विष्ठः संबन्ध इत्युक्तनीत्या संबन्धस्य द्विष्ठत्वात् राज्ञः पुरुष इति वक्ष्यमाणनीत्या राजपुरुषात्मकसम्बन्धिद्वयोद्भवे गच्छतश्चैत्रस्य क्रियायाः पूर्वापररूपपदविक्षेपात्मक- क्रमिकक्षणसन्तनात्यागे [पूर्वापररूपपदविस्नेशात्मक क्रमकक्षणं सन्तान - C.] घटादेर्मुखादिकदम्बकावयवस्वीकारे, अस्माद्धटादयं घटः पूर्वभागे स्थितः अयं पश्चाद्भाग इति, तस्मात् चैत्रादयं मैत्रः पुरत एव जातः अयं पश्चाज्जात इति अवध्यवधिमत्परिग्रहादौ इति क्रमेण सामान्यादेः कालान्तस्य [कालान्तरस्य - C.] वस्तुनः स्फुरणान्मानसविकल्पग्राह्या एकानेकरूपाः सामान्यादय इति स्थितम् || एवं च इति, असत्यं सत्यं संविऋतिसत्यमिति भवदुक्ता संवृतिः विकल्पज्ञानम् | तद्वशाद् इति, परमार्थरूपविकल्पबुद्धिमयत्वात् संवृतेरपि सत्यत्वमुच्यताम्, तत् संवृतिसत्त्वं सत्यस्यैव तु प्रकार इति भवदुक्तेः संवृतिसत्यरूपस्य [सम्प्रतिसत्यम् - C.] क्रियादेः द्विचन्द्रादिवत् नासत्यता || ३ || तत्र - संवृतिसत्यकथनेऽपि, अयम् - क्रियादिकालपर्यन्तः सर्व एव विस्फारः, तत्रापि सम्बन्ध एव मूलभूतः, तथाहि - समानानां यत् एकं भाति तत् सामान्यम्, देवदत्तस्य यत् वैतत्यं सा क्रिया, अवयवानां यदैक्यं वैतत्यं च देशतः सोऽवयवी, इमम् अवधिं कृत्वा अयम् इत्थम् ततोऽस्य अयं पुरस्तात् इत्यादिर्दिक्, अस्यायं क्रियाप्रतानः सहभावेन आस्ते विनाभावेन वा इति वर्तमानादिः कालः, यावत् हि प्रातिपदिकार्थस्य पृष्ठपाति वपुः भाति तदतिरिक्तं सर्वं संबन्ध एव इति कारकाणामपि संबन्धरूपतैव, केवलं क्वचित् असौ संबन्धो व्यपदेशान्तरग्रन्थिं सहते, यथा सास्नादिमतां संबन्धो गावः इति एकव्यप - संबन्धः, क्रियाशक्तिमययाः संविद एवावतरणक्रमः, क्रियाशक्तिमयी संवित् क्रियादिरूपेणावतीर्य स्फुरतीत्यर्थः | यथोक्तं :- यतो नासौ कश्चिद्भावो [कश्चिद्भावं - C.] य एवं विकल्प्यते संविदेव हि तथा भाति तथा भानमेव तस्या ऐश्वर्यम् इति | तत्र - क्रियादावपि मूलभूतः क्रियादिः कालपर्यन्तः सर्वः सम्बन्धरूप एव || तदेव प्रतिपादयति - तथाहि इत्यादिना || समानानाम् घटादिव्यक्तीनाम्, यदेकम् - अनुस्यूतं भाति तत् - घटत्वं सामान्यम् | गच्छतो देवदत्तस्य देशतः कालतः आकारतश्च यद्वैतत्यम् घटादेर्मुखाद्यवयवानामेकघटस्वरूपविश्रान्तत्वात् यदैक्यम् तदाधारभूतलव्याप्त्यां यत् वैतत्यं च सोऽवयवी, इमम् शैलम् अवधिं कृत्वा अयम् - शैलः, इत्थं - पुरस्तात् इति प्रागादिः दिक्, अस्य - चैत्रस्य, अयं क्रियाप्रतानः तस्य सहभावेन वर्तते इति गच्छतीतिरूपो [वर्तते गच्छतीतिरूपो - C.] वर्तमानः कालः | गमनादिरूपक्रियाप्रताने देवदत्तेन सहाऽवर्तमाने [देवदत्तेन सह वर्तमानैः - C.] अभूत् भविष्यतीति भूतादिः कालः | एकाश्रयरूपदेवदत्तनिष्ठत्वात् एकत्वेऽपि तत्तद्देशव्याप्त्या क्रियायामेकानेकरूपत्वम् | एवं सामान्यादीनामप्येकानेकरूपत्वम् | वृक्षादेर्वं?स्तुसत्तारूपप्रातिपदिकार्थपृष्ठपाति वृक्षस्तिष्ठति वृक्षेण स्थीयते इत्याद्यधिकरणपर्यन्तं यावद्वपुर्भाति तत्सर्वं संबन्ध एव | असौ संबन्धः क्वचित् सामान्यादिव्यवहारं व्यपदेशान्तरग्रन्थिं सहते तदानीं सामान्यादिसंज्ञया व्यवह्रियते | देशसहिष्णुः तत्र सामान्यादिव्यवहारः, व्यपदेशान्तरग्रन्थिभङ्गे तु संबन्धवाचोयुक्तिरेव, अत एव दिष्टिप्रस्थपलादिप्रमाणपरिमाणोन्-मानरूपं [मुष्टिप्रस्थपलादि - K. ष्. ष्.] तत्र अन्तर्गतं वा अणुमहदादि संख्यापृथक्त्वादि च यत् तत् सर्वं संबन्धस्यैव विजृम्भितम्, येऽपि सामान्यादि वस्त्वन्तरम् अमंसत तेऽपि तत्र समवायम् अभ्युपजग्मुः जीवितत्वेन, समवायश्च संबन्धात्मा तदनुग्राह्यो वा केषांचित्, यत आहुः - समवायाख्यां तां शक्तिमनुगृह्णाति [तां शक्ति समवायास्यामनुगृह्णाति संबन्धः - K. ष्. ष्.] संबन्धः | इति अत्र दृष्टान्तमाह यथा सास्नादिमतां कपिलादिगोपिण्डानामनुस्यूतो गोत्वरूपः संबन्धो गाव इति बहुवचनात्मकैकव्यपदेशसहिष्णुः, तत्र - व्यपदेशान्तरग्रन्थिसहने, सतः सामान्यादिना सबन्धस्य व्यवहारः | उक्तरूपव्यपदेशग्रन्थ्यभावे संबन्धवाचोयुक्तिरेव - सम्बन्धः स इत्येव व्यह्रियते | अत एव इति - कारकाणां संबन्धरूपत्वात्, दिष्टिहस्तादिभिः परिमेयक्षेत्रमानं तस्य पूर्वापराभ्यां मानाभ्यां संबन्धः [संबन्धं - C.] दिष्टिमात्रस्य क्षेत्रस्य पूर्वापरदेशाभ्यां [पूर्वा?परदशाभ्याम् - C.] सम्बन्धः, प्रस्थद्रव्ययोः संबन्धः प्रस्थद्रव्यगतस्य परिमाणस्य पूर्वापरपरिमाणाभ्यां संबन्धः पलादेरुन्मानस्य [फलादेः - C.] उन्मेयेन स्वर्णादिना सह संबन्धः पूर्वापरोन्मानाभ्यां चेति प्रमाणपरिमाणोन्मानरूपम् | तत्र दिष्टिप्रमाणपरिमाणांतर्गतं चाणुत्वमहत्त्वसंख्या पृथक्त्वादि च यत् तत्सर्वम् - लोकव्यवहाररूपं तत्सर्वम्, संबन्धस्यैव विजृम्भितम् | ये केचित् सामान्यादिसंबन्धं घटवत् पदार्थान्तरम् अमंसत तेऽपि समवायं तत्राभ्युपजग्मुः जीवितत्वेन समवायश्च संबन्धात्मा तदनु ग्राह्यः इति संबन्धानुग्राह्यः समवाय इति केषांचिन्मतम् [इति केषाञ्चिन्मते - C.] | तदेवाह | समवायाख्यां तां शक्तिमनुगृह्णाति संबन्धः यदपि च कारकं तदपि क्रियामुखप्रेक्षि, सापि कालं प्राणेश्वरम् आश्रयति, सोऽपि क्रियाद्वारेण सर्वभावात्मा [सर्वभावान् सापि - K. ष्. ष्.] सम्बन्धम् उद्धुरयति इति संबन्धाधीनैव इयं चित्रा लोकयात्रा | यदाह [तदाह - K. ष्. ष्.] आचार्य एव :- भेदाभेदात्मसंबन्धसहसर्वार्थसाधिता | लोकयात्राकृतिर्यस्य स्वेच्छया नौमि तं शिवम् || इति | अतः संबन्धमेव प्रथमं निरूपयितुम् आह :- स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि | अन्योन्यान्वयरूपैक्ययुजः संबन्धधीपदम् || ४ || इति | उक्तमेवार्थं स्पष्टीकरोति यदपि च कारकम् इति | क्रियाविमर्शविषयः कारकाणां समन्वयः इति वक्ष्यमाणनीत्या तिष्ठतीत्यादिमुखप्रेक्षि | सापि - क्रिया, स्वात्मनः प्राणेश्वरं भूतादिं कालमाश्रयति | सोऽपि कालस्तिष्ठत्यादिक्रिया-द्वारेण तत्तिष्ठत्यादिक्रियाश्रयभूतसर्वभावात्मा सम्बन्धमुद्धुरयतीति सम्बन्धाधीनेयं विचित्रा लोकयात्रा || यदाहाचार्य एव :- भेदाभेदात्मसंबन्धसहसर्वार्थसाधिता | लोकयात्राकृतिर्यस्य स्वेच्छया नौमि तं शिवम् || इति लोकयात्रायाः क्रियारूपायाः संबन्धमयत्वात् संबन्धमेव प्रथमं निरूपयति | राजाद्याभासरूपाः पुरुषाद्याभासरूपाश्च भावाः स्वात्मनिष्ठाः - स्वस्मिन्नेव रूपे विश्रान्ताः, अत एव विविक्ताभाः अन्योन्यभिन्नप्रकाशाः, राजा पुरुषश्च बहिस्तटस्थौ स्वात्मैकपरिसमाप्तौ प्रमातृभूमौ यदैक्यं गच्छतः, न च ऐक्यमात्रं तयोः भेदविगलनापत्तेः, अपि तु परस्पररूपश्लेषात्मकं युगपदेव निमज्जदुन्मज्जद्भेदाभेदकोटिद्वयदोलारोहणलक्षणम् अन्वयरूपम्, तदा तावेव सम्बन्धधिय आलम्बनं भवतो राज्ञः पुरुषः इति, तथाहि - राजा यदा पूर्वं धिया गृहीतोऽपि न स्वात्मविश्रान्त्या तुष्यति तदा रूपान्तरेण पुंसा श्लेषं भजन् कृतार्थी - भवति, पुरुषोऽप्येवं स च एष रूपश्लेष एक एव उभयोः चिदात्मनि एकप्रमातरि - राजपुरुषाद्याभासग्राहके एकस्मिन् प्रमातरि, अन्योन्यान्वयरूपमैक्यं भजन्ते यदा तदा त एव संबन्धधियः पदम् आलम्बनं भवन्ति || विविक्ताभाः इति, उभयग्राहकप्रमात्रन्तःकरणविश्रान्तेः पूर्वं बहिस्तटस्थौ - अन्योन्यासंपृक्तौ, स्वात्मनिष्ठाः [स्वात्मनि निष्ठा इति - C.] इति, अत एव स्वात्मैकपरिसमाप्तौ - [स्वात्मै परिसमाप्तौ - C.] स्वस्वरूपमात्रविश्रान्तौ, तदुभयग्राहकप्रमातृभूमौ [तदुभयग्राहकप्रमातृभूतौ - C.] यदैक्यं गच्छतः तदैक्यं तत्प्रमातृतादात्म्यरूपं न भवति | तयोः - राजपुरुषयोः, राजपुरुषत्वविगलनापत्तेः, अपि तु राजपुरुषेण परस्पररूप-श्लेषात्मकं युगपद् - एकदैव निमज्जदुन्मज्जत्पुरुषराजाभासरूप- भेदाभेदस्रोतोद्वयवेलारोहणलक्षणसमन्वयरूपं यदैक्यं गच्छतः तदा तावेव सम्बन्धधिय [संबन्धिय - C.] आलम्बनं भवत्ः राज्ञः पुरुष इति || तदेव प्रतिपादयति तथा हि इति | पुरुषदर्शनात् पूर्वं राजाभासग्राहकस्य प्रमातुः धिया गृहीतोऽपि पुरुषाभासविविक्तस्वात्मविश्रान्त्या यदा स राजा न तुष्यति तदा रूपान्तरेण पुंसा [पुंसः - C.] श्लेषं भजन् कृतार्थीभवति | पुरुषोऽपि स्वात्मविश्रान्त्या न तुष्यति, रूपान्तरेण राज्ञा श्लेषं भजन् कृतार्थीभवति | स राजपुरुषयोः रूपश्लेषः स्वयम् एक एव चिदात्मनि - प्रमातरि तथा अवस्थानरूपः पूर्वप्रतिलब्धसंवित्प्रतिष्ठः तत एव अधिकसंविन्निमज्जनात् अनाभासमानपृथग्भवनलक्षणः स्वातन्त्र्ये विश्राम्यति, इति तत्रैव निर्भासते समास्कन्दितपुरुषपरमार्थोऽपि, एवं बहिरनेकता, अन्तस्तु परस्पररूपश्लेषेणैक्यम्, इति संबन्धस्य रूपम् || ४ || जातिद्रव्यावभासानां बहिरप्येकरूपताम् | व्यक्त्येकदेशभेदं चाप्यालम्बन्ते विकल्पनाः || ५ || जात्यवभासस्य अवभासमानरूपायाः जातेः ग्राहिका याः तथा इति, उक्तरूपेणैक्येन स्थितः राज्ञः पुरुष इति पूर्वप्रतिलब्ध संवित् - प्रतिष्ठः [राजसंवित्प्रतिष्ठः - C.] अत एवाधिकपुरुषसंविन्निमज्जनात् राजपुरुषयोः अनाभासमानपृथग्भवनलक्षणः स्वातन्त्र्ये विश्राम्यति, तत्र - स्वतन्त्रे चिदात्मन्येव, निर्भासते, समास्कन्दितपुरुषपरमार्थोऽपि राजाद्याभासानन्तरम् [राजाद्याभासानन्तरगोत्वघटत्व - C.] || ४ || गोत्वघटत्वाद्येकरूपतामभेदरूपतां बहिरेव तयोः कपिलादिरूपया व्यक्त्या मुखादिनावयवरूपेणैकदेशेन च भेदमनेकत्वं चावलम्बन्ते || तयोर्भेदाभेदौ [भेदाभेदो - C.] बहिरेव | प्रकाशमानरूपाया जातेः ग्राहिकाः - ग्रहीत्र्यः प्रमातृविकल्पबुद्धयः, ता कल्पनाः, ता न केवलं संबन्धवत् अन्तर् एकरुपतां बहिश्च अनेकरूपताम् आलम्बन्ते, यावद् बहिरपि व्यक्तिभेदलक्षणम् अनैक्यं बहिरेव च तदनुस्यूततारूपाम् एकताम् आलम्बनत्वं नयन्ति | गावः इति हि प्रतिभासे पृथक्कृता [पृथक् च ताः बहिः - K. ष्. ष्.] बहिर् व्यक्तयो भान्ति, येन च बहुवचनम्, अनुयायि च आसां भाति वपुः, यत एकप्रातिपदिकार्थपरामर्शानुगमः, उभयं च तद् बहिरेव इमाः इति अङ्गुल्या निर्देशात्, केवलं बाह्यत्वमपि स्थिते परमार्थप्रकाशान्तर्भावे, इति न न केवलं संबन्धवदन्तरेव एकरूपतामालम्बन्ते यावद् बहिरपि कपिलादिव्यक्त्यनुस्यूतां गोत्वरूपाम् [गोत्वरूपतामेकताम् - C.] एकताम् अपि आलम्बनत्वन्नयन्ति [आलम्बनवन्नयन्ति - C.] तदेव संक्षेपेणोपपादयति | गावः इति बहुत्वप्रतिभासे पृथक्कृताः [बहुत्वप्रतिभाषे बहिः पृथक्कृतः - C.] - अन्योन्यं पृथक्कृताः, बहिः कपिलादिव्यक्तयो [कपिलादिव्यत्ययो - C.] भान्ति येन - प्रतिभासेन अनेकत्वद्योतकं बहुवचनम् | इयं गौरियं गौरिति, अनुयायि चासाम् गवां वपुः भवति | यदा तु गोत्वरूपैकप्रातिपदिकार्थपरामर्शानुगमः [गोत्वरूपकप्रातिपदिकार्थ परामर्शानिगमः एतदनुयीयि वपुः - C.] तदानुयायि वपुः | उभयम् इति, एकत्वानेकत्वे, बहिरेव | उभयस्यापि बहीरूपतां प्रत्यक्षेण दर्शयति इमाः इति अङ्गुल्यानिर्देशात् इत्यनेन | केवलं बाह्यत्वमपि स्वात्मनः पूर्वसंगपरमार्थप्रकाशान्तर्भावे [पूर्वसंग परमार्थः प्रकाशान्तभावे - C.] सति प्रकाशत इति तत्र बाह्यत्वेन वस्तूनां भेदाभेदौ न दूषणम् | उक्तं [एकतश्चैतत् - C.] चैतत् :- चिन्मयत्वेऽवभासानामन्तरेव स्थितिः सदा | मायया भासमानानां बाह्यत्वात् बहिरप्यसौ || तत्र भेदाभेदौ दूषणं चित्रसंवेदन इव | अनेन द्रव्यऽपि रक्तारक्तादिविरोधः कृतप्रतिविधानः, आन्तरं तु ऐक्यं संबन्धद्वारेण तद्वदेव सर्वत्र, एवम् अवभासमानस्य घट इति अवयविद्रव्यस्य ग्राहिका याः कल्पनाः ता न केवलं संबन्धवत् अन्तर्बहीरूपतया एकानेकविषया यावत् बहिरप्येकं निःसंधिबन्धरूपत्वेन भिन्नं च अवयवलक्षणैकदेशद्वारेण स्वीकुर्वते, घट इति हि निःसन्धिबन्धनैकघनात्मा विततरूपश्च भाति इति || ५ || इत्यत्र | चित्रसंवेदन इव इति चित्रगतस्य पतङ्गस्य पतंगरूपेणैक्यम्, भेदःनिलानीलवर्णपक्षत्वमनेकत्वम् [नीलनीलवर्ण - C.] | अनेन न्यायेन घटादिद्रव्येऽपि एको भागः काञ्चनः एको राजतः इति रक्तारक्तादिविरोधः परिहृतः, सर्वं वस्तु संविन्मयत्वात् संवित्स्वरूपत्वं [संविदतसर्वरूपत्वम् - C.] सहत इत्यर्थः | अस्या जातेः संबन्धद्वारेणान्तरम् अप्येकत्वमस्ति [अप्येकमस्ति - C.] न केवलं बहिरेव | सर्वत्र इति, सर्वेषु भावेषु, आन्तरं [अन्तरम् - C.] चैक्यं संबन्धद्वारा | एवम् इति, जातिवद् | अवभासमानस्य घट इत्यवयविद्रव्यस्य ग्राहिकाः याः कल्पनाः - विकल्पबुद्धयः अन्तरेकविषया बहिरनेकविषया इति न भवन्ति, बहिरप्यनेकवस्तुविषयाः | तासां विकल्पबुद्धीनां बहिरप्येकानेकरूपत्वमेव प्रतिपादयति | निःसन्धिबन्धरूपत्वेनैकरूपं मुखाद्यवयवलक्षणैकदेशद्वारेण [मुखाद्यवयविलक्षणैकदेशं - C.] भिन्नम् अनेकरूपं च घटादि स्वीकुर्वते | घट इति प्रतिभासमानो भावः निःसंधिबन्धनैकसमुदायमयैकरूपस्तत्तद्देश- व्यापिभिर्मुखाद्यवयवैर्विततरूपश्च भातीति || ५ || क्रियाविमर्शविषयः कारकाणां समन्वयः | अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः || ६ || कारकाणां कर्त्रादिशक्त्याधाराणा द्रव्याणां च योऽन्योन्यं समन्वयो दृश्यते, यथा मातृमेयमानानां मिथः सऽन्तर्लीनप्रमात्मकक्रियाविशेषपरामर्शैकनिमित्तकः, नहि प्रमापरामर्शम् अन्तर्वर्तिनं कारकाणाम् - कर्त्रादिशक्त्याधाराणां वृक्षादिद्रव्याणां देवदत्तः काष्ठैः स्थाल्यामोदनमिति कर्तृकरणाधिकरणकर्मरूपाणाम् अन्वयो यः स पचतीत्यादि क्रियाविमर्शविषयः - क्रियाविमर्शैकनिमित्तः, दिक्कालग्राहिका धीः इममवधिं कृत्वा अस्मादयं पूर्वजातः अतोस्यायमग्रजः, भानोरुदयगिरिमारभ्य [भानोरुदयगिरिपर्यन्त गमनम् - C.] चरमगिरिपर्यन्तं गमनं दिवसः, तं चरमगिरिमारब्य उदयगिरिपर्यन्तगमनं रात्रिरिति अवध्यवधिमद्भावान्वयालम्बा दिगादिधीः | कारकाणाम् इति प्रथमाद्यधिकरणान्तकर्त्रादिशक्त्या- धाराणां कारकाणाम्, चैत्रमैत्रादीनां वृक्षादीनां च द्रव्याणाम्, देवदत्तः काष्ठैः स्थाल्यामित्यादिरूपो योऽन्योन्यं समन्वयो दृश्यते स समन्वयः - स प्रमात्रन्तर्लीनतत्- प्रमात्मकपचत्यादिक्रियापरामर्शैकनिमित्तकः कारकाणां समन्वयः | क्रियाविमर्शविषयः इत्यत्र दृष्टान्तमाह यथा मातृमेयमानानाम् इति | मातुश्चैत्रस्य [मातुश्चैत्रस्य.....डेस्तदुभय - C.] मेयस्य घटादेस्तदुभयनिष्ठस्य बहिर्मुखस्य भानरूपस्य ज्ञानस्य च यथा पश्यत्यादिप्रमारूपायां क्रियायां मिथः समन्वयः तद्वदत्रापि प्रमातुरन्तवर्तिनं पश्यत्यादिक्रियारूपं प्रमापरामर्शं विहाय देवदत्तो वृक्षमित्यादिरूपयोः वस्तुनोः साक्षात् स्वत एव न स समन्वयो विमर्शविषय इति कारकाणां समन्वयः पचत्यादि विहाय वस्तुनः साक्षात् अन्वयोऽत्र संवेद्यते, अनन्यत्र भावरूपतानिमित्तता अत्र विषयार्थः, कारकशक्तीनामपि यः स्वाश्रयैः संबन्धः सोऽपि क्रियापरामर्शनिमित्तकः, द्रव्याणां च शक्तीनां च क्रियया साकं साक्षात् संबन्धः इति इयं क्रियैव भगवती एतावद्विजृम्भितं संबन्धम् आविर्भावयति | अस्मादिदं पूर्वं परं दूरे इत्येवं बहिर्भिन्नतयापरामृश्यमानयोः भावयोरन्तर् अभेदनपूर्वकं [अभेदपूर्वकम् - K. ष्. ष्.] भेदावमर्शमध्यम् अभेदविश्रान्तं च यत् रूपम् आमृश्यते तत् दिग् इत्युच्यते | अत्र हि तयोः मुखाद्यवयवविशेषपरामर्शादरः तत्संमुखत्वपराङ्मुखत्वादिनिश्चयः संयोगसंयुक्त- संयोगाल्पतादिपरिग्रहश्च उपयोगि | क्रियापरामर्शैकनिमित्तक इति क्रियां विना अत्रान्यत्र भवनासहिष्णुतारूपा निमित्तता विषयार्थः | कारकाणां प्रमातृपरामर्शरूपया क्रियया विना स्वत एव समन्वयो न संभवतीत्यर्थः | प्रथमादिकारकशक्तीनामपि स्वाश्रयैः - द्रव्यैर्वृक्षादिभिर्योऽन्योन्यं समन्वयः स तिष्ठत्यादिक्रियापरामर्शैकनिमित्तकः वृक्षस्तिष्ठति वृक्षं पश्यामि वृक्षेण स्थीयते वृक्षाय ददाति वृक्षात् पतति वृक्षस्येदं सर्वं भवति वृक्ष तिष्ठतीति इति द्रव्याणां शक्तीनां च क्रियया साकं साक्षात् संबन्ध इति इयती सैव [चैव - C.] भगवती विश्वव्यववहारहेतुभूता [विश्यव्यवहारहेतुभूतः प्रथमाद्यधिकरणान्त - C.] प्रथमाद्यधिकरणान्तकारकविजृम्भितं संबन्धमाविर्भावयति | बहिर्भावद्वयमालोक्यास्मात् पर्वतादयं पूर्वः अयमपर इति प्रमात्रा बहिर्भिन्नतया चक्षुरादिभिः परामृश्यमानयोः भावयोरन्तः अन्तःकरणे एकत्र विश्रान्तत्वात् अभेदनपूर्वकं पुनर्बहिर्मध्ये मध्यकोठौ अस्मादिदं पूर्वमित्याद्यन्योन्यभेदाव- भासनात्मकं पुनरपि अभेदविश्रान्तं चेत् ध्रुवमामृश्यते तत् सामान्येन दिगित्युच्यते | अत्र - दिक्सामान्ये, तयोः - भावयोर्मुखपृष्ठदक्षिणोत्तरावयवपरामर्शादरः इत्यनेन दिशां प्रागादिविभागसंभवः | तदवयवसंमुखत्वपराङ्मुखत्वादिनिश्चय इत्यनेन विदिगादिविशेषसंभवः | अनेन गिरिणा संयुक्तः इति संयोगः, वृक्षादिभिः [संयुतेन गिरिणा वृक्षादिभिः सह संबन्धः - C.] संयुक्तेन गिरिणा सह संबन्धः संयुक्तसंयोगः, भावयोरदूरत्वादिपरिग्रहश्च दिक्परामर्शे उपयोगी | वस्तुविषयत्वन कालपरामर्शस्य पूर्वपरादिरूपत्वे जन्मस्थित्यल्पतादिविमर्शश्चिरक्षि-प्रादिरूपत्वे च, पक्ष्यति पचति अपाक्षीत् इत्यादौ तु संभावितस्य स्फुटस्य स्फुटभूतपूर्वस्य आत्मीयसंवेदनस्पन्दितप्राणा - व्यवहारसाधनार्थमेव आश्रयणीयः, अन्यथा तदसंभवात् | ननु शरावत्यैवयं मर्यादा कृता, सत्यम्, येन सा न दृष्टा स किं कुर्यात्, किञ्च पुरस्थैर्वस्तुभिरेव तत्सिद्धौ का तस्या अपेक्षा, अन्यच्च तद्विभाजितायां पूर्वदिश्यपि तदन्तर्गतवस्त्वपेक्षया परादिव्यवहारो दृश्यते इति न किञ्चिदेतत् | ननु तर्हि कथं शास्त्रेषु तद्विभाजकत्वेन तस्याः स्तुतुइः कृता, तदुक्तम् : - सा नः पातु शरावती | इति | पूर्वादिदेशव्यवहारत्वेनेति ब्रूमः, वस्तुव्यवहारस्य च देशव्यवहारापेक्षयान्तरंगत्वमेव | किञ्च सूर्यस्य प्रथमोद्भूतिरपि मेरुपार्श्वापेक्षया विचित्रा भवति इति सर्वो दिग्विभागः कल्पनाप्राण एवेति दिश एकत्वकथनमपि अयुक्तमेव अपरिच्छिन्नभगवन्मूर्तिरूपस्य देशस्य परिच्छिन्नविषयिकत्वा- योगादित्यलं प्रपञ्चेन | अत्र च संयुक्तसंयोगाल्पतादिग्रहः दूरत्वादिनिर्णयार्थमुपयुज्यते | तथाहि द्रष्टुः शरीरेण संयुक्ता भूस्तया संयोगः देवदत्तस्य स एव संयुक्तसंयोगः, स च यत्राल्पः तत्रादूरता यत्र तु महान् तत्र दूरता | परमार्थतस्तु संयुक्तसंयोगः अन्तरमेवेत्यलम् | आदिशब्दगृहीतां कालधियं निर्णेतुमाह काल इति | कालपरामर्शस्य पूर्वपरादिरूपत्वे - पूर्वत्वरूपत्वे परत्त्वरूपत्वे आदि शब्देन मध्यरूपत्वे | जन्मन् आरभ्य स्थितिः जन्मस्थितिः, तस्या यत् अल्पतादि आदिग्रहणात् बहुतामध्यमभावयोर्ग्रहणम्, तस्य विमर्शः उपयुज्यते उपयोगी भवति | तत्राल्पतापरामर्शेन यूनि परत्त्वग्रहणम्, बहुतापरामर्शेन वृद्धे पूर्वत्वग्रहणम्, मध्यतापरामर्शेन मध्यमे मध्यमत्वग्रहणम् | इह पूर्वपरत्त्वयोस्तार्किकाभिमत- परत्त्वापरत्त्वयोश्चैकत्वमेव | पूर्वो हि परः परस्त्वपरः पूर्वेतरत्वात् | तथा चिरक्षिप्रादिरूपत्वे च जन्मस्थित्यल्पतादिविमर्श उपयुज्यते | अत्रापि आदिशब्देन मध्यमताग्रहणम् | अत्रापि अल्पतया क्षिप्रताग्रहणम् | बहुतया चिरताग्रहणम्, मध्यमतया मध्यभावग्रहणमिति क्रमः | यद्यपि चिरक्षिप्रतादिग्रहणमादित्यसंचारात्यल्पतादिवशेनापि भवति तथापि प्रपञ्चभियात्रैव नियतत्त्वेनोक्तं तथा | तु व्यतिरेके, पक्ष्यति, पचति, अपाक्षीत् इत्यादौ, भविष्यद्वर्तमानभूतग्रहणे दित्यादिक्रियान्तरस्य फलविशेषस्य च ओदनादेः परामर्श उपयुज्यते, एवं संख्यापरिमाणपृथक्त्वसंयोगविभागप्रभृतिषु संबन्धरूपतैव वाच्या, सर्वथा अयं सक्षेपः, यत्र पदार्थाभासस्य आत्मविश्रान्त्या संतोषमपुष्यतः आभासान्तरपरामर्शविश्रान्तिसाकाङ्क्षतया स्वरूपपरिनिष्ठा [स्वरूपनिठा - K. ष्. ष्.] तत्र संबन्धरूपतैव क्रियाशक्तिविजृम्भामयी, तत्रापि भावान्तरापेक्षया संबन्धान्तरमपि अस्तु, यथा संख्यादौ समवायं मन्यन्ते, न च अनवस्था भवन्त्यपि दोषाय, पूर्वापरकल्पसृष्ट्यनवस्थेव, इति यावत् | आदित्यादिक्रियान्तरस्य, स्वक्रियायाः भिन्नायाः आदित्यसञ्चाररूपक्रियायाः इति यावत्, आदिशब्देन [आदिशब्देन - C.] पुष्पादिजन्मादेः ग्रहणम् तस्य परामर्शः, तथा ओदनादेः फलविशेषस्य च परामर्श उपयुज्यते येन श्वः अद्य ह्यः इत्यादिवचनप्रयोगः [वचनसिति आदिप्रयोगः - C.] तत्र दृश्यते इति भावः | क्रियान्तरस्य ओदनादेश्च कीदृशस्य ? सम्भावितस्य - पक्ष्यतीत्यत्र भविष्यत्त्वेन संभावनामात्रेण प्रोक्तस्य, तथा स्फुटस्य पचतीत्यत्र वर्तमानत्वेन स्फुटस्य, तथा स्फुटभूतपूर्वस्य अपाक्षीदित्यत्रप्रतीतत्वेन पूर्व स्फुटीभूतस्य, आत्मीयम् प्रमतुः निजं यत् संवेदनं तस्य यत् स्पन्दितम् - स्फुरणम्, ग्रहणं प्रत्युन्मुखाभावः इति यावत्, तदेव जीवितं यस्य तादृशं यत् आदित्यादिक्रियान्तरं तस्य | संख्यादावप्येनं न्यायमतिदिशति एवम् इति, सम्बन्धरूपतैव इति | प्रमात्रपेक्षाबुद्धिसिद्धत्वेन [प्रमात्रपेक्षया बुद्धि - C.] योजनाप्राणत्वादिति भावः | संक्षेपकथनं प्रतिजानीते सर्वथा इति | आत्मविश्रान्त्या - पदार्थाख्यनिजरूपमात्रविश्रमणेन, सन्तोषम् - प्रभातुर्निरा- कांक्षत्वम्, अपुष्यतः - अकुर्वत्ः, स्वरूपपरिनिष्ठा - स्वरूपव्यवस्था, तत्रापि - संबद्धे स्वरूपेऽपि | ननु कुत्रैतदस्ति इत्यत आह यथा इति | अत्र हि प्रमात्रपेक्षाबुद्धिसिद्धत्वेन संख्यायाः स्वरूपग्रहणेपि प्रथमं सम्बन्धापेक्षा ततः स्वाश्रयेऽवस्थानार्थं समवायापेक्षा, आदिशब्देन परिणामादिग्रहणम् | ननु तर्हि तत्रापि सम्बन्धापेक्षायामनवस्था-पातः स्यादित्यत आह न च इति | भवन्त्यपि - स्थितापि सती | नहि उत्तरसंबन्धसृष्ट्या विना पूर्वसंबन्धावभासे हानिः काचित् येन् मूले क्षतिः शंक्येत ||६|| एवं सकललोकयात्रानुप्राणितकल्पानल्पसंबन्धबन्धुरी- भावं [संबन्धबन्धुरीभावभावम् - K. ष्. ष्.] क्रियाशक्तिविजृम्भात्मकम् अभिधाय, तस्य स्थैर्योपयोगौ पूर्वसूचितौ निरूपयितुमाह :- एवमेवार्थसिद्धिः स्यान्मातुरर्थक्रियार्थिनः | भेदाभेदवतार्थेन तेन न भ्रान्तिरीदृशी || ७ || इह भावानां न सत्तासंबन्धः सत्त्वम्, अव्यापकत्वाद् अनवस्था - अत्र दृष्टान्तमाह पूर्व इति | यथा सृष्ट्यनन्तरं पुनः पुनः सृष्ट्युत्पादे भवन्त्यपि अनवस्था न दोषाय तथेत्यर्थः | कुतो न दोषायेत्यतः आह नहि इति | येन, यया हान्येत्यर्थः, मूले क्षतिः उत्तरस्य सिद्धिं विना पूर्वासिद्धिरूपो मूलनाशः संक्येत - शंकाविषयो भवेत् | तदुक्तम् :- मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् | मूलसिद्धौ त्वरुच्यापि नानवस्था निवार्यते || इति || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका - बन्धुरीभावम् - उद्भटताम् क्रियाशक्तिविजृम्भात्मकम् - क्रियाशक्तिविलसितरूपम्, तस्य - सम्बन्धबन्धुरीभावस्य, पूर्वसूचितौ सत्याः स्थैर्योपयोगाभ्याम् इत्यत्र सूचनया कथितौ | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एवमेव इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति | इह - भासमानेऽत्र जगति, भावानाम् - नीलादीनां सुखादीनाञ्च, सत्तासंबन्धः - तार्किकाभ्युपगतसत्ताख्यपरजातिसम्बन्धः, सत्त्वम् - अस्तित्वं न भवति | कुत इत्यपेक्षायामाह अव्यापकत्वात् इति, तत्र सत्तायाः सामान्यदिभ्यो व्यावृत्तेः अव्यापकत्वम्, वैयर्थ्यादिदोषात्, न अर्थक्रिया वस्त्वन्तरत्वात्, न तत्कारित्वं सर्वदा तदावेशादशनात्, उक्तं हि अर्थक्रियापि सहजा नार्थानाम्.........|| इति | तत्कारित्वस्य च प्रत्यक्षानुपलम्भात्मकान्वयव्यतिरेकगम्यस्य अप्रत्यक्षत्वे सतोऽपि अप्रत्यक्षत्वप्राप्तेः, नार्थक्रियाकरणयोग्यत्वं तस्य तत्राप्यनुवृतौ अनवस्था, सत्तायां हि सत्तांगीक्रियते, तत्राप्यन्या तत्राप्यन्या इति अनवस्था स्यात् | तथा विशेषेषु तदंगीकारे संशयस्य तत्रापत्तेः पुनस्तन्निवृत्त्यर्थं विशेषान्तरानुसरणे स्फुटानवस्था | तथा समवाये तदंगीकारे तद्वृत्त्यर्थं समवायान्तरानुसरणेऽप्यनवस्था | अथ सामान्यदीनां प्रातिस्विकेन सत्त्वेनैव सत्ताव्यवहारः इति न तेषां तदपेक्षेति नायं दोषप्रसंगः, तर्हि द्रव्यादित्रयेऽपि तेनैव तद्व्यवहारः इति तत्रास्या व्यर्थत्त्वम्, अथ तद्विनैव तत्र सत्ताव्यवहारः तर्हि शश विषाणेऽपि सत्ताप्रसक्तिः | आदिशबेनाभावेऽपि सत्ताभ्युपगमे यः तस्याः स्वरूपव्याघातप्रसंगस्तस्य ग्रहणम्, अभावो ह्यसत्तैव | तथा अर्थक्रिया - प्रतिनियतत्वेन स्थिता भावैः क्रियमाणार्थक्रिया, भावानां सत्त्वं न भवति, कुतः ? वस्त्वन्तरत्वात् - भिन्नवस्तुत्वात्, सत्तापि हि भिन्नं वस्तु अर्थक्रियापि भिन्नं वस्तु, तथा तत्कारित्वम् - अर्थक्रियाकारित्वम्, सत्त्वं न भवति, कुतः सर्वदा तदावेशादर्शनात् सत्त्वं हि भावेषु सर्वदैव स्थितं भवति, तस्य चार्थक्रियाकारिता भावेऽङ्गीक्रियमाणे भावः सर्वदैवार्थ-क्रियाविष्टः स्यात् न च तद्दृश्यते इति नार्थक्रियाकारित्वभावः सत्त्वस्येति भावः | अत्र वृद्धसम्मतिमाह उक्तं हि इति | सहजा - स्वरूपभूता, इति शब्दो ग्रन्थकारवाक्यसमाप्तौ | अत्र दोषान्तरमाह तत्कारित्वस्य च इति | तत्कारित्वस्य च - अर्थक्रियाकारित्वस्य च प्रत्यक्षानुपलंभात्मकौ - प्रत्यक्षानुपलंभरूपौ यौ अन्वयव्यतिरेकौ ताभ्यां गम्यस्य - प्राप्यस्य, सत्त्वासत्त्वाभ्यां ज्ञातुं योग्यस्येसि यावत् | अप्रत्यक्षत्वे - तत्कालमनुपलंभे सति, सतोऽपि - सत्तां भजतोऽपि तदाधारस्य वस्तुनः अप्रत्यक्षत्वप्राप्तेः - तात्कालिकानुपलंभप्रसङ्गात्, न च तद् युक्तमिति भावः | ननु तर्ह्यर्थक्रियाकरणयोग्यत्वमात्रमेव सत्त्वमस्तु येन नोक्तदोषप्रसंगः | योग्यता हि तस्य सर्वदैव स्थितेत्यत आह नार्थ इति | कुत इत्यपेक्षायामाह तस्य इति | तस्य - अर्थक्रियाकरणयोग्यत्वस्य, सत्यासत्यके निश्चयकाले दुरवधारत्वात्, [दुरवधानत्वात् - K. ष्. ष्.] सर्वस्य च अस्य अप्रकाशमानत्वेन नरशृङ्गप्रायत्वम्, [अप्रकाशमानत्वे नरशृङ्गप्रायत्वम् - K. ष्. ष्.] अर्थक्रियान्तरपर्येषणे [अर्थक्रियाकारितान्तरपर्येषणे - K. ष्. ष्.] च अनवस्था, इति प्रकाशमानतैव अनुन्मूल्यमानतथोचितविमर्शपरिस्पन्दा भावस्य सत्त्वम्, सा च भेदाभेदवपुषां संबन्धादीनामस्ति, इति - निराशङ्कमेव सत्यत्वमेव एषाम्, [तेषाम् - K. ष्. ष्.] तथापि यदि परोऽनुबध्नीयात् - इह लोकः सत्यासत्यके निश्चयकाले, भावप्रधानो निर्देशः, सत्यत्वासत्यत्वसंबन्धिनिश्चयसमये, दुरवधारत्वात् - निर्णेतुमशक्यत्वात्, सत्त्वासत्त्ववशेनैव हि सत्यत्वासत्यत्वनिश्चयो भवति इति भावः | सामस्त्येनापि दोषप्रसङ्गमाह सर्वस्य इति | सर्वस्य च अस्य पक्षत्रयस्य, अप्रकाशमानत्वेन नरशृङ्गप्रायत्वम् नरशृङ्गसदृशत्वम्, अत्यन्ताभाव इति यावत् भवति, न ह्यर्थक्रियादित्रयं प्रकाशमानं सत्तायुक्तस्यैव प्रकाशमानत्वयोगात्, सत्तायाश्च बौधमतेऽर्थक्रियारूपत्वेनात्मा- श्रयापत्तेरर्थक्रियागतत्वायोगात्, सत्ताया असंभवेनेति भावः | ननु एतद्दोषनिवारणार्थं अर्थक्रियान्तरमेवाङ्गीकुर्मः इत्यत आह अर्थक्रियान्तर इति | अर्थक्रियान्तरस्य - अन्यस्या अर्थक्रियायाः, पर्येषणे - अनुसरणे पूर्वस्या अर्थक्रियायाः सत्त्वभावेनाङ्गीकारे इति यावत्, अनवस्था - मूलक्षतिकरी अनवस्था स्यात् तस्या अपि अर्थक्रियान्तरसापेक्षत्वात् | इति - अतः कारणात्, प्रकाशमानतैव - कैवलं प्रकाशकर्तृत्त्वमेव, भावस्य - नीलसुखादेः वस्तुनः, सत्त्वम् - स्वरूपं भवति, व्यवस्थापकत्वद्वारेण तन्मयतासादनात् | कीदृशी ? अनुन्मूल्यमानः - अवाध्यमानः, तथोचितः - तस्मिन् प्रकारे योग्यः, विमर्शपरिस्पन्दः - विकल्पाख्यो व्यापारः यस्याः सा, अन्यथा शुक्तिकाविषयस्य रजतप्रकाशस्यापि रजतसत्त्वभावः स्यादिति भावः | सा च - प्रकाशमानता च, भेदाभेदवपुषाम् - एकानेकस्वभावत्वेन साधितानाम् सम्बन्धादीनाम् - सम्बन्धानाम् आदिशब्दात् सामान्यादीनां च, अस्ति | इति - अतः, एषां निराशंकम् - निःसंशयं सत्यत्वं भवति, तथापि - एवमपि सति, परः - बौद्धः, अनुबध्नीयात् - अनुबन्धं कुर्यात् | अनुबन्ध - प्राचुर्येण अर्थक्रियार्थी तत्कारिणि सत्यत्वं व्यवहरति, तत् किं संबन्धादीनाम् अस्ति इति, तदस्य हृदयम् आश्वास्यते, यदि न कुप्यसि तत् सर्वत्रैव व्यवहारे यत्रापि स्फुटा संबन्धादिधीः न उदेति एवमेव तत्रापि, इति संबन्धादिरूपतया भेदाभेदवान् योऽर्थः तेनैव अथक्रिया, न तु स्वात्ममात्रविश्रान्तेन काचिदपि कदाचिदपि अर्थक्रिया, तथाहि सुखेन स्मर्यमाणेन अभिलाषः, इत्याइ क्रमेण सर्वो व्यवहारः सुखाभासश्च योऽनुभूतः स एव अभिलष्यते न तु अन्योऽननुभूतः, स एव च यदि प्राप्यते तदभिलषितं प्राप्तम् इति तुष्यते यदि च तत् तदेव तर्हि किम् अभिलष्यते - प्राप्तत्वात्, अथ अतदेव तथापि कथम् अर्थ्यते - अज्ञातत्वात्, तस्मात् एतत् एवं भवति - यदि तदेव च अतदेव च तदपि च अतदपि च इति | एवं सुखसाधनेषु वाच्यम् | तदुक्तम् आचार्येणैव :- स्वरूपमाह इह इति | प्राचुर्येण - बाहुल्येन, तत्कारिणि - अर्थक्रियाकारिणि, तत् - सत्यत्वम्, किमस्ति, नास्तीत्यर्थः | इति शब्दो बौद्धानुबन्धसमाप्तौ | तत् - तर्हि, अस्य - परस्य, संमुख एव समाश्वासनं करोति, यदि इति तत् तदा, सर्वत्र कुत्रेत्यपेक्षायामाह यत्र इति स्फुटा - प्रकटा, तत्रापि - तस्मिन् विषयेऽपि, भेदाभेदवान् - एकानेकस्वभावत्वेन भेदाभेदयुक्तः, काचिदपि, न कापीत्यर्थः | कदाचिदपि, जात्वपीत्यर्थः | अत्र समर्थनमुपक्रमते तथाहि इति | सुखेन कपित्थादिवस्तुकृतेन अनुकूलवेदनीयेन गुणविशेषेण, अभिलाषः - कपित्थादिवस्तु प्रत्यौत्सुक्यम्, आदि शब्देन कपित्थादिविषयाहरणादिपरिग्रहः | ननु तर्हि सुखग्रहणम् सामान्यादिस्पर्शारूषितमेव स्यात् इत्यत आह सुख इति | तुष्यते - तृप्तेन भूयते कृतकृत्यत्वासादनात्, तथाच सुखग्रहणाख्ये व्यवहारेऽपि सम्बन्धधीरुदेत्येवेति भावः | ननु तत्र कथमेकानेकस्वभावत्वमित्यपेक्षायामाह यदि इति | तत् - अनुभूयमानसुखम् | तदेव - पूर्वानुभूतं सुखमेव, प्राप्तत्वात् इति | नहि प्राप्तेऽभिलाषो युक्तः इति भावः | अतदेव - अन्यदेव, तदेव च अतदपि भवति, अतदेव च तदपि भवति इति सम्बन्धः | इति शब्द एकानेकस्वभावतासाध समाप्तौ | कपित्थादावपि अमुं व्यायमतिदिशति एवम् इति | अत्र चाचार्यसम्मतिमाह तदुक्तम् इष्टार्थितायामिष्टं वा विमृश्येतेष्टकारि वा | न चाप्यदृष्टमिष्टं द्यौरपीष्टाऽदृष्टभोगभूः || दृष्टं च सह दृष्ट्यैव विनष्टमिति कार्थिता | द्रष्ट्रैक्येन [द्रष्ट्रैकेन - K. ष्. ष्.] विमृष्टं तत्........................|| इति | किमुक्तमित्यपेक्षायामाह इष्ट इति | अत्रायमर्थः - धीमता इष्टार्थितायाम् - लक्षणाश्रयेण इष्टार्थितासमये इष्टसाधनार्थितासमये च इष्टं वा इष्टकारि वा इष्टसाधनं वा उभयत्रापि वाशब्दः द्वयोरपि प्राधान्यद्योतनार्थः | विमृश्येत - विचारविषयतां नीयेत, किं पूर्वदृष्टमेतद्युक्तमुतादृष्टमिति | विमर्शसिद्ध वस्तु स्वयमेव सिद्धत्वेन कथयति नचापि इति | तत् इष्टमदृष्टं न च अपि भवति, यतस्तत्त्वे अदृष्टभोगभूः - अननुभूतभोगस्थानम्, द्यौरपि इष्टा स्यात् | इह च प्रत्यक्षानुभूतविषयेष्टतापेक्षयैवमुक्तम्, आगमसिद्धविषयेष्टता [आगामिसिद्धविषयष्टता - C.] त्विहापि विद्यते एव | ननु तर्हि दृष्टस्यैवेष्टत्वं भवत्वित्यत आह दृष्टं च इति | विनष्टम् इति, क्षणिकत्वादिति भावः | इति - अतः कार्थिता नहि विनष्टे अर्थिता युक्तेति भावः | ननु तर्हि किं कार्यमित्यत आह द्रष्ट्रैक्येन इति | अतः अस्माभिः तत् - इष्टम्, द्रष्ट्रैक्येन विमृष्टम् - द्रष्ट्रा सह एकत्वन विमृष्टम्, द्रष्टरि संस्कारभावेन स्थितं विमृष्टं विचारितमिति यावत् | सर्वं वस्तु पूर्वानुभूतसुखत्वतत्साधनत्वस्मृत्यैवोपादीयते इति भावः | ननु तर्हि प्रथमं कथमुपादानमस्तीति चेत् संशयेनेति बूमः | तर्हि तत्र संबन्धानपेक्षा, नैतत्, संशयो हि द्विकोटिनिष्ठत्वेन योजनाप्राण एव, अथवा पूर्वसाधिता काप्यान्तरी योजना सर्वव्यवहारसाधनं यया सद्योजातबालेष्वपि स्तन्यविषयो व्यवहारो दृश्यते इत्यलं पुनः पुर्वा रहस्योद्घाटनेन | इति शब्द आचार्यवाक्य - समाप्तौ | आदि शब्दः अन्येषां तत्रत्यवाक्यानां ग्रहणपरः | उक्तप्रक्रिया - इत्यादि | एवं च आभासात्मनि अस्मिन् असंवेद्यमपि आभासान्तरं सामान्यसंबन्धरूपतया अनुप्रविष्टम्, अन्यथा न कथंचिद्व्यवहारः इति सकलदेशकालदशापुरुषोपयोगी यदि अयं [एष व्यवहारः - K. ष्. ष्.] व्यवहारो न सत्यः तर्हि न अन्यस्य सत्यत्वं विद्मः - इति न अत्र भ्रान्तिः इति भ्रमितव्यम् | इति शिवम् || ७ || आदितः || १०४ || फलितवस्त्ववष्टम्भेन श्लोकस्य योजनां करोति एवं च इति | एवं च एवं च सति, अस्मिन् आभासात्मनि, भासमाने आभासरूपे नीलसुखादिभाव जाते, असंवेद्यमपि, संवेद्यस्य तु कथैव नास्ति इति भावः | आभासान्तरम् - स्फुटतयाऽगृहीतोऽपि अन्यः आभासः, सामान्यसंबन्धरूपतयाऽनुप्रविष्टं भवति, अन्यथा - तदभावे, व्यवहारः कथञ्चिदपि न स्यात् समनन्तरमेवोक्तत्वात् | सकलदेशकालदशापुरुषोपयोगी - समस्तेषु देशेषु कालेषु दशासु पुरुषस्य उपकारी, अयं व्यवहारः यदि सत्यो न भवति वयं तर्ह्यन्यस्य सत्यत्वं न विद्मः, इति - अतः कारणात् पुरुषेणास्मिन् विषये न भ्रमितव्यम् - भ्रमो न कार्यः, इति किमिति भ्रान्तिः - अयं व्यहारः भ्रान्तिः भ्रमसिद्धत्वेन भ्रान्तिरूपः भवति | ननु तर्हि कथं ग्रन्थकृतैवान्यत्रोक्तम् | रज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम्, | भ्रान्तेर्महती शक्तिर्निश्चेतुं केन शक्यते नाम || इति | सत्यम्, मायाधोवर्तिनः प्रत्येवमुक्तम्, तेषां हि भ्रान्तिरूपा माया तावदाश्रयणीया, ये तु तदुपरिगतं शुद्धविद्यातत्त्वं प्राप्ता अत एव मायातत्त्वान्निर्गतास्ते समस्तं जगत् भानमात्रसिद्धत्वेन परमार्थसत्यशुद्धप्रकाशरूपमेव पश्यन्ति, प्रकाशो हि भानमेव, परंतु विषयोपरागरहितम् | ननु तर्हि विषयोपरागस्य तद् व्यतिरिक्तत्वमायातम्, न, तस्यैव तदुपरागीकरणायोगात्, सर्वं वा यथास्थितम् एव भवतु, महाद्वैतनिष्ठानां न कापि हानिः | महाद्वैते हि भेदस्य तत्त्वेनाभेदस्याभेदकत्वेनैकप्रकाशरूपत्वं न विघटतेऽन्यथाद्वैताभासत्वापातात्, यथा पर्णे भासमानं रेखावृन्दं पर्णमेव तथा प्रकाशे भासमानं भाववृन्दं प्रकाश एव, तदभावेऽप्रकाशोऽप्रकाश एव भवेत् | तदुक्तम् :- अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वे संवित्त्वं तदत्यक्ष्यत् घटादिवत् || इति श्रीमदाचार्योत्पलदेवपादविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तपादकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे भेदाभेदावमशनं नाम द्वितीयमाह्निकम् || २ || अत्र हि महेश्वरशब्देन विमर्शाख्यमाहेश्वर्ययुक्तः प्रकाशः एव उक्तः संवित्त्वं तु भावभावेन भानम् इति | यत्त्वज्ञदृष्ट्या सत्यत्वं तदन्यत् किञ्चिदेव सत्याभासरूपत्वादिति तैरप्ययमभिमानो न कार्यः वयं भावेषु सत्यत्वदर्शिनः इति, तेषां भ्रान्तिपदेऽप्यनारूढत्वादित्यलम् | इति शब्दः आह्निकसमाप्तौ, शिवशब्दः मङ्गलवाचकः परतत्त्वसूचनपरश्चेति शिवम् || ७ || इति श्रीमन्महामाहेश्वराचार्यवर्यश्रीभास्करकण्ठ- विरचितायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां भास्कर्याख्यायां क्रियाधिकारे द्वितीयमाह्निकम् || २ || क्रियाधिकारे तृतीयमाह्निकम् | _______ प्रमाणानि प्रमावेशे स्वबलाक्रमणक्रमात् | यस्य वक्त्रावलोकीनि प्रमेये तं स्तुमः शिवम् || १ || भास्करी स्वबलाक्रमणद्वारा यस्यावष्टंभमीहते | प्रमाणनिचयः स्प्रष्टुं प्रमां तं संस्तुमः शिवम् || अथ क्रियाधिकारे तृतीयस्याह्निकस्य निर्विघ्नव्याख्यासमाप्तये प्रचयगमनाय च स्वान्तरनुष्ठितमपि तत्त्वानुस्मरणरूपं मंगलं शिष्यशिक्षायै बहिरपि सकलाह्निकतात्पर्यसूचकेन श्लोकेन निबध्नाति प्रमाणानि इति | वयं तम् - प्रमाणानुग्राहकत्वेन प्रसिद्धम्, शिवम् - प्रमेयस्पर्शानारूपितप्रमारूपप्रकाशस्वरूपं शिवाख्यं परमवस्तु स्तुमः - उत्कर्षपरामर्शविषयतां नयामः | तं कम् ? प्रमाणानि - एतदाह्निकप्रथमश्लोके वक्ष्यमाणस्वरूपाणि बहिर्मुखवेदनरूपाणि प्रमाकरणानि, प्रमेये - प्रमेयाख्यविषयविषये, प्रमावेशे - प्रमाख्यफलविषयी - भवने, लक्षणया तत्करणे इति यावत् | यस्य - शिवस्य वक्त्रावलोकीनि - मुखप्रेक्षीणि भवन्ति, प्रमाणं हि प्रमेयविषयप्रमाजननोद्युक्तं सदान्तरं प्रमातृतत्त्वमेवावष्टंभकत्वेनापेक्षते, अन्यथा जडस्य तस्य तत्राशक्तत्वात्, तदुक्तम् :- प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते | तेषामपि परो जीवः स एव परमेश्वरः || इति | कथम् इत्यपेक्षायामाह स्वबल इति | स्वबलस्य - आत्मबलस्य यदाक्रमणम् - अवलम्बनं तस्य क्रमात्, क्रमेणेत्यर्थः | तत्समये हि तानि प्रमाणानि प्रमातुर्बलमपेक्षन्ते एव प्रमाता च परमार्थतः शिव एवेति तद्बलाक्रमणमेव तेषां शिववक्त्रावलोनमिति भावः | तदुक्तम् : - करणानिव देहिनाम् इति | अत्र हि मन्त्राणां स्वाधिकारप्रवृत्तौ स्वभाववशेन स्थिते आत्मबला - एवं क्रियाशक्तिविस्फारनिरूपणप्रसङ्गेन संबन्धपुरःसरं सामान्यादीनां तत्त्वम् उपपादितम्, अधुना तु संबन्धतत्त्वमेव एकघनतया व्युत्पादनीयम् | तच्च द्विविधमेव परमार्थतः ज्ञाप्यज्ञापकता कार्यकारणता च, तत्र पूर्वस्यां मानमेयभावादिचिन्तास्पदभूतायां सर्वम् उक्तचरं वक्ष्यमाणं च आयत्तं - प्रमाणाधीना वस्तुसिद्धिः इति तत्र क्रमणे करणैः स्वाधिकारे क्रियमाणमात्मबलाक्रमणं दृष्टान्तीकृतम्, करणानीव च प्रमाणानि प्रमाकरणत्वात्, प्रसिद्धं वस्तु च दृष्टान्तीक्रियते इति स्फुटमेव प्रमाणानां प्रमेयविषयप्रमाजनने स्वबलाक्रमणक्रमेण शिवमुखावलोकित्वम् | अयमेव चाभिप्रायः यथा ह्यर्थो स्फुटो दृष्टः सावधानेऽपि चेतसि | भूयः स्फुटतरो भाति स्वबलोद्योगभावितः || इत्यत्र कारिकायामपि श्रीस्पन्दशास्त्रेऽभिप्रेतः | चेतो हि बहिर्मुखबोधरूपत्वेन प्रमाणमेव, भानं प्रमा, स्वबलोद्योगभावनं स्वबलाक्रमणमिति, एतेन प्रमाणादिनिर्णयमत्र करिष्यतीति सूचितम् | एवं मंगलं संपाद्य समस्ताह्निकतात्पर्यकथनं समस्तव्यस्तत्वाभ्यां करोति एवम् इति अत्र टीका - क्रियाशक्तेर्यः विस्फारः - सामान्यादिभावेन विशिष्टं स्फुरणं तस्य निरूपणप्रसंगेन, संबन्धपुरस्सरम् - संबन्धप्रधानम्, तेन दत्तसत्ताकमिति यावत् | उपपादितम् - उपपत्त्या स्थापितम्, एकघनतया - एकपिण्डतया, निःसंधिबन्धत्वेनेति यावत् | व्युत्पादनीयम् - कथनीयम् | तच्च - संबन्धतत्त्वं च | परमार्थतः इत्यनेन संयोगादीनां काल्पनिकत्वं दर्शितम् | यद्यपि तार्किकादिभिः संयोगसमवाययोरेव सहजत्वमुक्तं तथापि तयोर्व्यवहारे तादृगुपयोगाभावादेवमुक्तम्, इह व्यवहारमात्रसत्यत्वसाधनात् द्वैविध्यमेव विभज्य दर्शयति ज्ञाप्य इति | तत्र - द्वयोर्मध्ये | पूर्वस्याम् - ज्ञाप्यज्ञापकभावरूपायाम्, आदिशब्दात् मात्रादिग्रहणम्, उक्तचरम् - पूर्वमुक्तम् | आयत्तम् - अधीनम् | कुत इत्यपेक्षायामाह प्रमाण इति | इतिशब्द एवंशब्दार्थे | ननु ततः तत्र प्रसिद्धेः, एवं च प्रकृतसमर्थनीयवस्तूपयोगितया स्वयं च संबन्ध रूपतया अवश्यविचार्यां मानादिस्थितिं निरूपयितुम् इदमेतादृक्................................| इत्यादि, ...............ईशादिव्यवहारः प्रवर्त्यते || इत्यन्तं श्लोकसप्तदशकेन आह्निकान्तरमारभ्यते | तत्र श्लोकद्वयेन प्रमाणतत्फलस्वरूपम्, ततः प्रमेयस्य स्वरूपं निरूपयितुं प्रत्याभासं प्रमाणस्य व्यापारो न तु स्वलक्षणात्मकवस्त्वेकनिष्ठतानियमेन - इति दर्शयितुं प्रत्यवमर्शबलेन आभासव्यवस्था, इति दशभिः श्लोकैः उच्यते, तत्प्रसंगात् मिथ्याज्ञानस्वरूपं श्लोकेन, प्रमेयस्वरूपसिद्धिश्च प्रकृतमपि ईश्वरवादम् अवलम्ब्य घटते - इति श्लोकेन उपदर्श्यते, स च एष सर्वः प्रमाणतत्फलप्रमेयादिप्रविभागः सति प्रमातरि प्रदर्शितरूपे, ततो न तस्य प्रमेयता येन अत्रापि प्रमाणव्यापारसंभवः, केवलं व्यवहारमात्रसिद्धिफलं प्रमाणम् अत्र, इति श्लोकत्रयेण - इति तात्पर्यार्थः | यदुक्तम् क्रियासंबन्धादिबुद्धयो न भ्रान्तिस्वभावाः इति, तदेव निर्णेतुं प्रमाणतत्फलस्वरूपं तावत् प्रसिद्धमनुवदति | किमित्यत आह एवं च इति | प्रकृतम् - आरब्दं यत्समर्थनीयं वस्तु - क्रियाशक्तिरूपं समर्थनीयं वस्तु तत्रोपयोगितया | मानादिस्थितिम् - मानमेयादिव्यवस्थाम् | आह्निकान्तरम् - अन्यदाह्निकम् | तत्र - श्लोकसप्तदशकमध्ये | तत्फलस्वरूपम् - प्रमास्वरूपम् | ततः - तदनन्तरम् प्रत्याभासम् - सर्वेष्वाभासेषु, स्वलक्षणात्मकम् - स्वलक्षणरूपं यद्वस्तु तत्र या एकनिष्ठता तस्या यो नियमस्तेन, श्लोकेन त्रयोदशेनेत्यर्थः | श्लोकेनोपदर्श्यते इति, चतुर्दशेनेत्यर्थः | प्रदर्शितरूपे - ज्ञानाधिकारे निर्णीतस्वरूपे प्रमातरि सति भवतीति सम्बन्धः | तस्य - प्रमातुः, अत्रापि - प्रमातर्यपि, अत्र - अस्मिन्प्रमातरि तात्पर्यार्थः - समस्ताह्निकस्य व्यस्तत्वेनाभिप्रायः | अथ प्रथमद्वितीययोः श्लोकयोरवतरणिकां करोति यदुक्तम् इति | स्पष्टम् इदमेतादृगित्येवं यद्वशाद्व्यवतिष्ठते | वस्तु प्रमाणं तत्सोऽपि स्वभासोऽभिनवोदयः || १ || सोऽन्तस्तथाविमर्शात्मा देशकालाद्यभेदिनि | एकाभिधानविषये मितिर्वस्तुन्यबाधिता || २ || यस्य वशात् - सामर्थ्यात्, वस्तु नीलसुखादिकं व्यवतिष्ठते - नियतां प्रकाशमर्यादां न अतिवर्तते इदमिति स्वरूपेण एतादृक् इति च विशेषणभूतनित्यत्वानित्यत्वादियोगेन, तल्लोके प्रमाणम् इति स्थितम्, तच्च विवेचकेन विचार्यम् - इह वस्तुनः स्वरूपं एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे | इदमेतादृक् इति | अत्र टीका - यद्वशात् इति व्याचष्टे यस्य इति | यस्य - वक्ष्यमाणस्वरूपस्य वशात् इत्यवययवं व्याचष्टे सामर्थ्यात् इति | नील इत्यनेन बाह्यवस्तुपरामर्शः | सुखम् इत्यनेन आन्तरवस्तुपरामर्शः | आदि शब्देन सर्वेषां बाह्यान्तरवस्तूनां ग्रहणम् | व्यवतिष्ठते इति व्याचष्टे नियताम् इति | नीलसुखादिरूपेणैव भासते इत्यर्थः | इदमेता - दृगित्येवम् इति अवयवसमुदायरूपं पदं व्याचष्टे इदम् इति | इदम् इत्यवयवं व्याचष्टे स्वरूपेण इति | एतादृक् इत्यवयवं व्याचष्टे विशेषण इति | विशेषणभूतानि च तानि नित्यत्वानित्यत्वादीनि [नित्यत्वानित्यत्वानिर्त्यत्वरूपा धर्मस्तेषाम् - C.] - नित्यत्वानित्यत्वादिरूपा धर्माः तेषां तैः सह वा यो योगः - सम्बन्धस्तेन | तृतीयाविभक्त्या एवंशब्दव्याख्या | स्थितम् इति योग्यतयाव्याहृतम् | एतेन तत् इत्यन्तं व्याख्या कृता | तथा चैवमत्रयोजना | स्वात्मवशेनैव न तावत् व्यवतिष्ठते - जडत्वात्, मम नीलं प्रकाशते चैत्रस्य वेति च तदा कथमवभासः, तस्मात् अन्यवशेन व्यवतिष्ठते, अन्योऽपि चेत् जडः तत् अन्धेन अन्धस्य हस्तादानम्, तस्मात् अन्योऽसौ संविदात्मा, सोऽपि यदि शुद्धो निर्विशेषो न तर्हि नीलस्यैव व्यवस्थाहेतुः भवेत् - पीतादावपि तस्य तथात्वात्, तदसौ नीलोपरक्तो यद्वशाद्वस्तु इदमेतादृगित्येवम् - इदमित्येवम् एतादृगित्येवम् च व्यवतिष्ठते लोके तत्प्रमाणमिति स्थितम् | अत्र दुर्बोधत्वेन विचारं विधेयत्वेन प्रतिजानीते, तच्च इति | तच्च प्रोक्तस्वरूपं वस्तु स्वरूपधर्मव्यवस्थापकं प्रमाणं च, विवेचकेन - विचारकेन, विचार्यम् - विचारविषयीकार्यम् | विचारमेव करोति इह इति | इह - भासमाने जगति | तावत् इति | नात्र कस्यापि विप्रतिपत्तिरिति भावः | स्वात्मवशेन - वस्तुस्वरूपसामर्थ्येन न व्यवतिष्ठते, नियतया मर्यादया न वर्तते इत्यर्थः | कुत इत्यपेक्षायामाह - जडत्वात् इति | जडो हि न स्वयं व्यवस्थां कर्तुं शक्तः, चेतनादेव स्वरूपलाभात् | हेत्वन्तरमाह मम इति | तदा, यदि वस्तुतः स्वात्मवशेनैव व्यवस्था भवेत्तदा इत्यर्थः | इति - एवम्, आभासः - स्फुरणम्, कथं च - स्यात्, न स्यादित्यर्थः | इति किमिति ? मम नीलं प्रकाशते, चैत्रस्य वा प्रकाशते इति प्रमातृलग्नतयावभासो न स्यादिति भावः | यद्यप्यन्यभासनमन्यस्य गोचरे न, तथापि व्यवहारवशेनैवमुक्तम् | फलितमाह तस्मात् इति | तस्मात् तत्तद्वस्तु अन्यवशेन व्यवतिष्ठते | तस्यान्यस्य विचारं करोति अन्योऽपि इति | अन्योपि - अहंरूपश्चैत्ररूपो वा, चेत् - यदि, जडो भवेत् तत् - तदा इदम् अन्धेनान्धस्य हस्तादानम् - हस्तावलंबः भवति | अत्रापि फलितमाह तस्मात् इति | तस्मात् - ततः कारणात् | असौ, अन्यः संविदात्मा - चेतनः युक्त इति शेषः | ननु स संविदात्मैव भवतु ततः किम् इत्यत आह - सोऽपि इति | सोऽपि - संविदात्मापि, यदि शुद्धः, अत एव निर्विशेषः सर्वेषु नीलादिष्वभेदेन प्रमातृतया स्थितो भवति, तर्हि - तदा, नीलस्यैव व्यवस्थाहेतुः - केवलं नीलग्राहकः, न भवेत्, अपि तु पीतादावपि तस्य - संविदात्मनः, तथात्वात् - व्यवस्थापकत्वात्, अन्यथा शुद्धत्वायोगात् | तत् - तस्मात्कारणात् असौ - आभासः, नीलोपरक्तः - विषयतया स्थितेन निल्ल - नीलोन्मुखो नीलप्रकाशस्वभाव इत्याभासः सन् नीलस्य व्यवस्थापकः, तत्प्रकाशस्वभावतैव हि तद्व्यवस्थापकता, स च नीलस्य प्रकाशो यदि अव्यतिरिक्तस्य, तत् पीतस्यापि स्यात् - प्रकाशात्मक - चित्तत्त्वतादात्म्याविशेषात्, तेन व्यतिरिक्तीकृतस्य नीलस्य स प्रकाशः | नीलं च इत्थम् ततो व्यतिरेकाभासयोग्यं यदि सोऽप्या - भासो महतः प्रकाशात् व्यतिरिच्यते, [व्यतिरिच्येत - K. ष्. ष्.] महाप्रकाशाव्यतिरेके तस्य ततो नीलादेः व्यतिरेकाभावप्रसंगात्, महाप्रकाशाच्च न व्यतिरेकं द्रव्येणोपरक्तः [नीलद्रव्येण स्वोपरक्तः कृतः] कृतः, तथा नीलोन्मुखः, अत एव नीलप्रकाशस्वभावः, इति - एवंरूपः सन्, नीलस्य व्यवस्थापकः, सर्वं वाक्यं सावधारणम् इति न्यायेन नीलस्यैव व्यवस्थाकारी भवति | कुत इत्यपेक्षायामाह - तत् इति | हि - यस्मात्, तत्प्रकाशस्वभावतैव तद्व्यवस्थापकता भवति | ननु ततोऽपि किम् इत्यत आह स च इति | अव्यतिरिक्तस्य - अस्मादभिन्नस्य नीलस्य, तत् - तदा, स्यात् इति | अनेन न्यायेन तस्य पीतादप्यभिन्नत्वात् इति भावः | कुत इत्यपेक्षायां स्वयमपि अमुमेव हेतुमाह प्रकाशात्मक इति फलितमाह तेन इति | सः - विषयतया स्थितः | ननु तंतो व्यतिरिक्त एव भवतु ततः किम् इत्यत आह नीलं च इति | इत्थम्, एवं सतीत्यर्थः | ततः - स्वविषयप्रकाशात्, व्यतिरेकरूपो य आभासः तत्र योग्यं व्यतिरेकाभासयोग्यम् | इत्थमित्यस्याकांक्षां पूरयति यदि इति | सोऽप्याभासः - नीलप्रकाशरूप आभासः, व्यतिरिच्यते - व्यतिरेकं भजते, अन्यथातद्द्वारेणैवानेनापि सहैकतासादनादिति भावः | स्वयमप्यत्र हेतुमाह महा इति | महाप्रकाशाव्यतिरेके - महाप्र्काशेन सहाभिन्नत्वे सति, तस्य - नीलप्रकाशस्य, व्यतिरेकाभावप्रसंगात्, व्यतिरेकप्रयोगिकाभावाख्यानिष्टा- पत्तेरित्यर्थः | ननु तर्हि किंचिदपि सहते, इति नूनं तेन [नूनं महाप्रकाशेन संकोच - K. ष्. ष्.] संकोच आत्मनि निर्भासनीयः, संविदो वस्तूनां च संकोचनप्राणो [अन्योन्यसंकोचनप्राणः - K. ष्. ष्.] नव्यर्थरूपोऽसौ शून्य इत्युच्यते, संकोचावभास एव च मायीयप्रमातुः उत्थानम्, अत एकया सृष्टिशक्त्या प्रमातृप्रमाणप्रमेयोल्लासः परमार्थतः, तेन - शून्यधीप्राणदेहा - महाप्रकाशोऽपि नीलादेर्भिन्नो भवतु येन नोक्तदोषप्रसंग इत्यत आह न सहते इति, सहत्वायोग्यत्वापातात्, इति भावः | फलितमाह इति नूनम् इति | इति - अतः कारणात् | नूनम् - निश्चये, तेन - महाप्रकाशेन, आत्मनि - नीलविषयतया संचार्यमाणे स्वात्मभागे, संकोचः - परिमितता, स्वस्मात् नीलाच्च भेदः, निर्भासनीयः - परमार्थतः सन्नपि स्वशक्तिवशेन भासयितुं योग्यः | ननु भासयतु ततः किम् इत्यत आह संविदः इति | पण्डितैः असौ - निर्भासनीयः संकोचः, शून्य इति - शून्यप्रमातेति, उच्यते | कुत इत्यपेक्षायां हेतुगर्भं विशेषणमाह नञर्थरूपः इति | यतः सर्वभरितमहाप्रकाशान्निर्गतत्वेन तावद्विषयोपश्लेषराहित्येन च न किञ्चिद्रूपत्वाद् अभावरूप इत्यर्थः | नञर्थस्य चाभावस्य शून्यत्वं स्फुटमेव, परमार्थतो नञर्थाभावत्वेन रूपपदग्रहणम् | पुनः कीदृशः ? संविदः वस्तूनां च नीलादीनां च यत्संकोचनम् - अन्योन्यतोऽव्यापकतासंपादनम् तदेव प्राणः यस्य सः, तेन लब्धसत्ताक इत्यर्थः | अस्यैव ग्राहकत्वं कथयति - संकोच इति | मायीयप्रमातुः, परप्रमातृव्यतिरिक्तस्य ग्राहकस्येत्यर्थः | उत्थनम् - प्रादुर्भावः | एतेन फलितं वस्तु कथयति अत एकया इति | अतः कारणात्, एकया - नतु प्रत्येकं भिन्नतया स्थितया, सृष्टिशक्त्या परप्रमातृगतया कर्तृत्वज्ञातृत्वरूपया सृष्टिविषयत्वेन सृष्टिरूपया शक्त्या, परमार्थतः प्रमातृप्रमाणप्रमेयोल्लासः - शून्यादिरूपाणां प्रमातॄणां प्रमाणानां नानाविधानां प्रमेयानां च प्रादुर्भावो भवति, युगपदेव सर्वं प्रादुर्भवतीति भावः, यद्यपि नासर्गं ब्रह्म विद्यते इति न्यायेन सर्वदैवात्र सर्वमस्त्येव, तथापि शिष्यबोधनार्थं प्रकल्प्यैवमुक्तम् | अत्राषि फलितमाह तेन इति | तेन - द्युपाध्याश्रयस्वीकारात्मकसंकोचपरिग्रहसंकुचितात् मायाप्रमातुः अनन्तकालान्तर्मुखसंवेदनरूपात् स प्रमाणाभिमत आभासो यावत् प्रमेयोन्मुखतास्वभावः तावत् प्रमेयस्य देशकालाकाराभाससंभेदवत्त्वात् सोऽपि तथैव क्षणे क्षणे अन्यान्यरूपः, [अन्यान्याभासरूपः स्रष्टव्यः - K. ष्. ष्.] स्रष्टव्यः, तदुक्तम् अभिनवोदयः यत एकया सृष्ट्या प्रमात्राद्युल्लासः ततः कारणात्, यावत् - यावति समये, शून्यधीप्राणदेहादिरूपाः, आदिशब्देन प्रमेयग्रहणम् | जडाभावावस्थायां तेषामपि प्रमातृत्वात्, ये उपाधयस्तेषामाश्रयः - आश्रयणं तस्य यः स्वीकार अंगीकरणं तदात्मको यः संकोचस्तस्य यः परिग्रहः तेन संकुचितात् - स्वातन्त्र्येण साधितसंकोचभावात्, मायाप्रमातुः महाप्रकाशरूपात्पर-प्रमातुर्भिन्नतया प्रादुर्भूतात् भेदप्राणत्वेन मायाश्रितात्प्रमातृतत्वात् | कीदृशात् ? अनन्तकालम् - अपरिच्छिन्नकालम्, सर्वदेति यावत्, अन्तर्मुखम् - बाह्योन्मुखतासमयेऽप्यहं [बाह्योन्मुखसमयेऽपि - C.] पश्यामीत्यहंपरामर्शैकनिष्ठत्वेन स्वमात्रविषयं यत् संवेदनम् - परामर्शाख्यो व्यापारः तत् रूपं यस्य तादृशात् | सः - प्रसिद्धः, प्रमाणाभितः - प्रमाणेति नाम्ना संमतः आभासः - भवति | कीदृश इत्यपेक्षायामाह प्रमेयोन्मुखता इति | एतेन संकुचितस्य महाप्रकाशस्याह-मित्यन्तर्मुखतावस्थायां प्रमातृत्वम्, इदमिति वाह्योन्मुखतायां प्रमाणत्वम् | अस्मिन्समयेऽहंपश्यामीत्यन्तर्मुखतायाः स्फुरणात् प्रमातृत्वस्य अपरिच्छिन्नत्वमेवेति सूचितम् | यावदित्यस्याकांक्षां पूरयति तावत् इति तावत् - तस्मिन्समये एव, तथा - तद्वत्, सोऽपि - प्रमाणाभासोऽपि क्षणे क्षणे अन्यान्यरूपः - न त्वन्तर्मुखप्रमातृवदेकरूपः, स्रष्टव्यः - सर्जनीयः | कुत इति हेत्वपेक्षायामाह प्रमेयस्य इति | प्रमेयस्य - प्रमाणविषयस्य, यत् देशकालाकाराभासैः, संभेदत्त्वम् उपरक्तत्वं तत् विद्यते यस्य तस्य भावस्तत्वं तस्मात्, क्षणे क्षणे, देशादिकृतभेदेन नवीनतया स्फुरणादिति यावत्, प्रतिप्रमेयं हि प्रमाणं भिन्नमेव युक्तमिति भावः | नन्वेतत्केनोक्तम् इत्यपेक्षायामवशिष्टं स्वाभासः इत्यादिश्लोकखण्डं व्याख्यास्यन् तदन्तर्गतम् अभिनवोदयः इतिपदमेतद्वाचकत्वेन योजयति इति - अभिनवः - क्षणपरिवासम्लान्यापि [क्षणवासपरिम्लान्यापि - K. ष्. ष्.] न कलङ्कितः, तेन नवनवोदय इत्युक्तं भवति, सोऽपि यदि तथाभूतो मायाप्रमातृलग्नो न भवेत् ततो मम नीलावभासो यस्य तस्यैव पीताभासो मम इति न स्यात्, अस्ति च इदं स्वसंवेदनं - यत् सर्वत्र अबाद्यमानम्, इत्येवं स्वत्वेन आभासमानो य आभासो - नवनवप्रमेयौन्मुख्यात् नवनवोदयः स प्रमाणम् यतः प्रमां विधत्ते | कासौ ? प्रमाणफलस्वभावा इति चेत्, आह - स एव बोधरूप आभासो मितिः प्रमाणफलम् इति संबन्धः | तदुक्तम् इति | अनेन पदेनैवोक्तमित्यर्थः | अस्य पदस्य व्याख्यां करोति अभिनव इति | अभिनव इत्यवयवं व्याचष्टे क्षण इति | क्षणं यो परिवासः - अवस्थानम्, तत्कृता या म्लानिस्तया | एतेन फलितमर्थमाह तेन इति | एतेन अभि पदस्य वीप्सावाचकत्वं द्योतितम् | सोपि स्वाभासः इति व्याख्यातुमवतरणिकां करोति सोऽपि यदि तथाभूतः इति | सोपि - प्रोक्तस्वरूपं तत्प्रमाणमपि, इदम् - अयमाभासः, स्वसंवेदनम् - स्वानुभवसिद्धम्, यद् इत्यस्याकांक्षां पूरयति इति इति | यदिदमस्ति इत्यतः कारणात् | एवं भवति | एवं किम् इत्यपेक्षायां स्वाभास इति अवयवविभागेन व्याचष्टे स्वत्वेन इति | स्वत्वेन - ग्राहकाश्रयममताविषयत्वेन, स प्रमाणम् [स एव प्रमाणमिति - C.] इत्यन्तं योजना सूचिता | एवमत्र योजना - सोऽपि - प्रमाणमपि अभिनवोदयस्तथा स्वाभासो भवति, इति | कुतः प्रमाणमित्यपेक्षाया-मध्याहृत्य हेतुमाह यतः प्रमाम् इति | एतेन प्रथमश्लोकः कृतव्याख्यः | अथ द्वितीयं श्लोकं व्याख्यातुमवतरणिकां करोति कासौ इति | प्रमाणफलस्वभावा - करणभूतप्रमाणफलस्वरूपा, असो - प्रमा का भवति इति चेत् - एवं यदि अवोचस्तत्, आह - आचार्यः कथयति | किमाहेत्यपेक्षायामेतदुत्तररूपं द्वितीयं श्लोकं व्याचष्टे स एव इति | सः इति व्याचष्टे स एव इति | सर्वं वाक्यं सावधारणमिति न्यायमाश्रित्य एवशब्दप्रयोगः | एवशब्देन तथाशब्दस्य समुच्चयार्थत्वं द्योतितम्, स एव मितिश्चेति | मितिः इति व्याचष्टे प्रमाण इति | इति संबन्धः - ननु एवं पर्यायत्वमुक्तं भवेत् न तु फलभावः, [फलस्वरूपम् - K. ष्. ष्.] आह - वाह्योन्मुखतया प्रकाशरूपया [प्रकाशरूपतया - K. ष्. ष्.] तत्र तत् प्रमाणम्, या तु तस्यैव अन्तर्मुखात्मा विमर्शरूपता प्राक् उपपादिता तत्स्वभावेन केवलं विषयदशासंकुचितेन स एव बोधः फलम्, यथाहि यः शूरोऽहं स एव विजयी इति एकनिष्ठे शूरत्वविजयत्वे विवेकवता हेतुफलभावेन व्यवस्थाप्येते, यतो हि अहं शूरः ततो विजयी इति | एवं यतो नीलप्रकाशः ततो नीलमिदम् अत्र द्वितीयश्लोके एवमेव संबन्धः | अन्तर्विमर्शात्मा इति पदद्वयं व्याख्यातुमवतरणिकां करोति ननु एवम् इति | एवम् - अनेन प्रकारेण, पर्यायत्वम् - पर्यायभावः, न तु फलभावः इति, फलं हि करणादिभिन्नमेव युक्तम्, यथा परशोः छिदा, न चात्र तत्, द्वयोरप्येकबोधरूपत्वादिति भावः | अत्रोत्तरं कथयति - आह इति | सूत्रकार इति शेषः | किमाहेत्यपेक्षायामेतदेव पदद्वयं व्याचष्टे बाह्य इति | तत्र - प्रमाणत्वफलत्वद्वयमध्ये, तत् - वस्तुव्यवस्थापकः बोधः, प्रकाशरूपया बाह्योन्मुखतया - इदं पश्यामीत्यादिरूपया, प्रमाणं भवति | तु - व्यतिरेके, तस्यैव - बोधस्य, याऽन्तर्मुखात्मा विमर्शरूपता - अहमिति स्थिता विमर्शस्वरूपता, प्राक् - ज्ञानाधिकारे, उपपादिता - उपपत्त्या स्थापिता, तत्स्वभावेन - तेन स्वरूपेण, स बोध एव - प्रमाणरूपो बोध एव, फलं भवति | तत्स्वभावेन कीदृशेन ? केवलं विषयदशासंकुचितेन - विषयोपरागवशतः परिमिततां गतेन, अन्यथा प्रमातृत्वापातात्, अन्तर्मुखो बोधो हि विषयोपरागावस्थायां प्रमारूपः, तदनारूषितत्वे प्रमातृरूपः | परमार्थविचारे तु परमप्रकाशाद्विच्चिन्नीभूतः प्रकाशः स्वरूपेण प्रमाता, बाह्योन्मुखतायां प्रमाणम्, पुनः स्वरूपोन्मुखतायां प्रमा, आश्थानीभावे प्रमेयमिति | एकस्य करणफलभावे दृष्टान्तमाह यथाहि इति | यथाहिशब्दो दृष्टान्तत्वद्योतकः | एकनिष्ठे - एकपुरुषविषये | व्यवस्थापनमेव दर्शयति यतो हि इति | दार्ष्टान्तिकयोजनां करोति एवम् इति | परामर्शः - प्रमा, अत्र वृद्धसम्मतिमाह इति परामर्श इति एकरूपत्वेऽपि हेतुफलभावः, यथोक्तं तद्वशात्तद्व्यवस्थानात्........| इति | किं च इह व्यापाररूपमेव फलं व्यापारश्च व्याप्रियमाणात् व्यापार्यमाणात् वा अनन्याकार एव सिद्धः, इति - अभेदः प्रमाणफलयोः विमर्शबलेन च यतः प्रमाणं विमर्शश्च शब्दजीवितः शब्दश्च आभासान्तरैः देशकालादिरूपैरनामृष्ते एकत्रैवाभासमात्रे प्रवर्तते - घट इति लोहित इति, ततो देशकालाभासयोः स्वलक्षणत्वार्पण - प्रवणयोः अनामिश्रणात् सामान्यायमाने आभासे प्रमाणं प्रवर्तते यथोक्तम् इति | किम् इत्यपेक्षयामाह तद्वशात् इति | तद्वशात् इति हेतुभावकथनम्, तद्व्यवस्थानात् इति फलभावकथनम्, इति शब्दः उक्तसमाप्तौ | पक्षान्तरमाह - किं च इति | इह - अस्मिन्संवेदनपथे, व्याप्रियमाणात् - प्रमातुः, व्यापार्यमाणात् - प्रमाणात्, अनन्याकार - एव - अभिन्न [अभिन्नव एव - C.] एव | देशकालाद्यभेदिनि इति व्याचष्टे विमर्शबलेन इति | यतः कारणात् प्रमाणं विमर्शबलेन भवति, विमर्शाभावे हि प्रमाणगृहीतमपि वस्तु अगृहीतकल्पमेव, विमर्शश्च शब्दः जीवितमस्येति तादृशः भवति शब्दस्मृतिरूपत्वात् | शब्दश्च देशकालादिरूपैः - देशकालाकार-स्वरूपैः आभासान्तरैः - वस्तुमात्रावभासादन्यैराभासैः अनामृष्टे - अमृष्टे, एकत्रैवाभासमात्रे - सामान्यरूपे केवले आभासे, प्रवर्तते - प्रवृत्तिं भजते | कथमित्यपेक्षायामाह घट इति | घट इति - घटत्वपरामर्शः, लोहित इति तद्रूपपरामर्शः, ततः - तस्मात्, स्वलक्षणत्वस्य - स्वलक्षणभावस्य यदर्पणम् - संपादनम्, तत्र प्रवणयोः, तत्तद्देशकालावच्छिन्नमेव हि स्वलक्षणं स्वं ल - लक्षणं भवति, देशकालानवच्छिन्नस्य सामान्यत्वात् | ईदृशयोः देशकालाभासयोः अनामिश्रणात् - मिश्रीभावाभावात्, सामान्यायमाने - परमार्थतः सर्वतो व्यवच्छेदेन स्थितत्वाभावात् सामान्यत्वाभावेऽपि सामान्य इव स्थिते, आभासे - घटाभासे लोहिताभासे वा, प्रमाणं प्रवर्तते, प्रवृत्तिं भजते, न तत्स्वलक्षणत्वापादकयोर्देशकालयोः, पृथक् प्रमाणप्रवृत्तिविषयत्वात्, अन्यथा अयम् इत्यपि हि अवभास आभासान्तरानामिश्रे पुरोऽवस्थिते भावावभासमात्रे, [पुरोऽबस्थितावभासमात्रें - K. ष्. ष्.] इति उक्तं श्रीमदाचार्यपादैरेव - नियतेऽप्ययमित्येवं परामर्शः पुरःस्थिते | सर्वभावगतेदन्तासामान्येनैव जायते || इति | तत आभासमात्रमेव [तत एवाभासमात्रमेव - K. ष्. ष्.] वस्तु, स्वलक्षणं तु तदाभाससामानाधि - तयोरप्येतद्रूपत्वापातात्, प्रमाणभेदादेव हि प्रमेयभेद इति भावः | ननु घट इत्याभासेऽयं न्यायो भवतु, अयम् इति योऽङ्गुलीनिर्देशेनावभासः तत्र तु स्वलक्षणस्य स्फुटमेव ग्रहणम् इत्यत आह अयम् इत्यपि इति | आभासान्तरानामिश्रे देशकालाभासमिश्रीभावरहिते, भावाभासमात्रे, घटाभासमात्रे लोहिताभासमात्रे वा, केनोक्तम् इत्यपेक्षायामाह - आचार्य इति | केन वाक्येनोक्तम् इत्यत आह नियते इति | अयमत्रार्थः अयमित्येवं परामर्शः पुरःस्थिते नियतेऽपि - अर्ग्रे स्थिते परिमिते घटादावपि, अपि शब्देन अनियतेऽत्र सन्देह एव नास्ति इति सूचितम् | सर्वभावेषु गता या इदन्ता तस्याः सामान्येनैव साधारण्येनैव, जायते | अयं भावः - पुरुषोऽयमिति पुरोगतं नियतं घटादिग्रहणमपि तत्स्वलक्षणं न गृह्णात्येव, अन्यथा सर्वसामान्येदंशब्दोच्चारायोगात्, यदा त्वन्यैः प्रमाणैर्गृहीतयोर्देशकालयोस्तत्र योजनां करोति अयमिदानीमिह इति तदैव तत्स्वलक्षणग्रहणम् देशकालवशेनैव तस्यासाधारणस्वरूपत्वभावनादिति | इति शब्द आचार्यवाक्यसमाप्तौ | फलितमाह ततः इति | ततः - ततः कारणात्, [कारणात् - C.] आभासमात्रमेव - केवलः सामान्याभास एव, भवति, स्वप्राधान्येन स्थितत्वेन देशादियोजनानपेक्षत्वात् | स्वलक्षणं वस्तु न भवति, देशादियोजनाप्राणत्वेन काल्पनिकत्वात् | एतेन सामान्यस्यावस्तुत्वं कथयतां बौद्धानां स्थूलबुद्धित्वं दर्शितम् | ननु तर्हि स्वलक्षणग्रहणं कथं सिद्ध्यति इत्यत आह स्वलक्षणं तु इति | स्वलक्षणम् - अन्याननुयायि स्वरूपम्, तदाभासानां - देशकालवस्तुरूपाभासानां यः सामाना - करण्याभासरूपम् आभासान्तरम् एकम् अन्यदेव, तत्र च पृथगेव च प्रमाणं, तत्परं मिश्रीकारेषु तेषु आभासेषु गृहीतग्राहि न प्रमाणम् इति अग्रे भविष्यति, अध्यवसायस्य अस्मदुक्तनयेन शब्दप्रणितस्य प्रयाभासविश्रान्तौ तदपेक्षमपि प्रामाण्यं वदता प्रत्याभासनिष्ठमेव प्रामाण्यमुपेत्यम्, इत्यास्ताम्, किमवान्तरेण | धिकरण्याभासः - मिश्रताभासस्तद्रूपं सत्, आभासान्तरं वस्त्वाभासादन्य एवाभासो भवति | तत्र चान्यदेव पृथक् प्रमाणं भवति एतेन तार्किकमतनिरासः | ते ह्येकस्यैव प्रमाणस्य सामान्यस्वलक्षणविषयत्वं कथयन्ति, तत्रापि च स्वलक्षणस्य श्रेष्ठत्वमिति | स्वलक्षणग्राहकस्य प्रमाणस्याप्रमाणत्वं साधयति तत्परम् इति | तत् - प्रमाणम्, मिश्रीकारेषु - मिश्रीकाररूपेषु, तेषु आभासेषु परम् - केवलम् गृहीतग्राहि भवति | प्रथमं हि सामान्यादित्रयं स्वस्वविषयैः प्रमाणैर्गृहीतमेव, तदनन्तरमिदं प्रमाणं विशेषणविशेष्यभावेन योजनामात्रमेव करोति, इत्यतस्तत्प्रमाणं न भवति, अगृहीतग्राहित्वात्प्रमाणस्य | तदुक्तम् :- अनधिगतार्थाधिगन्तृ प्रमाणम् | इति | यद्यप्येतद्दर्शने भाते सर्वत्र प्रामाण्यमेव, तथापि बौद्धादिभंगार्थमेवमुक्तम् | नन्वस्मिन्वस्तुनि विस्तारो युक्त इत्यत आह अग्रे इति | अत इह न तन्यते इति भावः | बौद्धैर्दूषितमध्यवसायप्रामाण्यं [बौद्धैर्दूषितं मध्यप्रामाण्यम् - C.] सिद्धतया दर्शयति अध्यवसायस्य इति | अस्मदुक्तनयेन - अस्मदुक्तरीत्या, शब्दप्राणितस्य स्मृतिद्वारेण विकल्पभावमागत्य शब्देन दत्तसत्ताकस्य, अध्यवसायस्य - सामान्यविषयस्य विकल्पकार्यस्याध्यवसायस्य, प्रत्याभासविश्रान्तौ - ग्रहणान्यथानुपपत्त्या प्रत्याभासं पर्यवसितत्वे सति, तदपेक्षमपि - अध्यवसायापेक्षायुक्तमपि, न तु प्रकाशमात्रापेक्षम्, प्रामाण्यं वदता - कथयता शैवेन अर्थात्तस्याध्यवसायस्य प्रत्याभासनिष्ठम् - सर्वेष्वाभासेषु न तु योजनामात्रेण निष्ठा यस्य तादृशम्, प्रामाण्यमुपेत्यम् - अंगीकार्यम्, इति - एतत्, आस्ताम् भवतु, यतः अवान्तरेण - अप्रकृतेन, किम्, न किञ्चिदित्यर्थः | ननु यदि विमर्शः प्रमाणव्यापारः स तर्हि द्विचन्द्रेऽपि अस्ति ? मैवम्, स हि संस्कारयोगात् आत्मानमभिमत्प्रसिद्धर्थक्रिया- प्राप्तिपर्यन्तमनुबन्धयन् [अनुवर्तयन् - K. ष्. ष्.] अनुन्मूलितवृत्तिः स्थिरः सन् तथा भवति, मध्ये पुनरुन्मूलनं चेत् सहते न तर्हि असौ तथा विमर्शः, नायं विमर्शः पूर्वमपि - एकेन अन्तर्मुखेन वपुषा पूर्वमेव - तस्य निर्मूलनात्, स्वसंवित् अत्र च साक्षिणी, तदैव न इदं रजतम् इति वृत्तपूर्वस्यैव विमर्शस्य अविमर्शीकरणं संवेद्यते | अबाधिता इति पदं व्याख्यातुमाह ननु इति | सः - विमर्शः, उत्तरमाह मैवम् इति | कुत इत्यपेक्षायामाह स हि इति | हि - यस्मात्, सः - विमर्शः, संस्कारयोगात् - संस्कारवशतः, अभिमता चासौ प्रसिद्धा च याऽर्थक्रिया तस्याः या प्राप्तिः सा पर्यन्ते यत्र तत्, तावत्कालमिति यावत् | आत्मानम् - परविमार्शाख्यं स्वरूपम् अनुबन्धयन् - अनुवर्तयन्, अत एव अनुन्मूलितवृत्तिः - अबाधितवृत्तिः सन्, तथा - मितिरूपम् भवति | पुनः - पक्षान्तरे, मध्ये चेत् - यदि, उन्मूलनम् - बाधाम्, सहते तर्हि असौ - विमर्शः, पूर्वमपि तथा - मितिरूपो न भवति | कुत इत्यपेक्षायां हेतुमाह एकेन इति | एकेन - एकतया स्थितेन, अव्यभिचारेणेति यावत्, अन्तर्मुखेन वपुषा - स्वरूपेण, न द्विचन्द्र इति रूपेण [इति रूपाव्यभिचारिणे मित्ये - C.] व्यभिचारिणेति यावत् | पूर्वमेव - पूर्वकाल एव, तस्य - द्विचन्द्रविमर्शस्य उन्मूलनात् - बाधनात्, द्विचन्द्रो नासीदिति द्विचन्द्रप्रत्ययस्य पूर्वमेव स्थितत्वेनोन्मूलनमपि पूर्वकालीनमेव युक्तमिति एवशब्दप्रयोगः | ननु किमत्र प्रमाणम् इत्यत आह स्वसंविद् इति | कुतः साक्षिणी इत्यत आह तदेव इति | अर्थवशेन स्वसंविदिति पदं तृतीयान्तीकार्यम्, यतस्तया स्वसंविदा वृत्तपूर्वस्य - पूर्वसंपन्नस्यैव विमर्शस्याविमर्शीकरणम् - लक्षणया अयमितिरूपताकरणम् संवेद्यते - अनुभूयते, कथम् ? इति, किमिति ? इदम् - अद्य शुक्तितया पुरो भासमानं वस्तु, तदैव - पूर्वमेव, रजतं न आसीत्, नतु पूर्वं रजतं भूत्वाद्य शुक्तिभावं उक्तं च एतत् बाधविचारे, वक्ष्यते च रजतैकविमर्श........... इत्यत्र, एवं स्थिते द्विचन्द्रेऽपि यावत् परकुतूहलसंपादनमर्थ- क्रियासंमतम् अपूर्ववस्तुदर्शनाय चिकीर्षति तावत् अवज्ञोपहासशोकादिविवशः परजनवचनाकर्णनेन समुन्मूल्यमानं प्राच्यं द्विचन्द्रोऽयम् इति परामर्शं स्वसंवेदनादेव अभिमन्यते | नन्वेवं यत्र अर्थक्रियां न अन्विच्छति तत्र कथं बाधाबाधव्यवहारः ? मा भूत् - किं नः त्रुटितम् प्रवृत्तिर्हि न सर्वत्र प्रमाणत एव, किं तर्हि क्वचन संशयत एव, अर्थपक्षाधिक्यात् अर्थित्वतारतम्यादपि वा कृष्यादौ सविषान्न - गतमिति | पूर्वमेतदुक्तमिति स्मारयति [पूर्वमेतदुक्तस्स्मारयति - C.] - उक्तं च इति | वक्ष्यते इति | रजतैकविमर्श इत्यत्र, वक्ष्यमाणेऽस्मिन् श्लोके इत्यर्थः | एतेन सिद्धं वस्तु कथयति एवं स्थिते इति | अर्थक्रियासम्मतम् - अर्थक्रियात्वेनाभिमतम्, अवज्ञोपहासाभ्याम् - परकृतयावज्ञया [परकृततयावज्ञया - C.] उपहासेन च ये शोकादयस्तेषां विवशः - आयत्ततां गतः सन् समुन्मूल्यमानमभिमन्यते - बाध्यमानं जानातीति संबन्धः | अत्र शिष्यः प्रश्नं करोति नन्वेवम् इति | अन्विच्छति - प्राप्नोति | उत्तरमाह मा भूत् इति | त्रुटितम् - नष्टम् | कुतो न त्रुटितम् इत्यत आह प्रवृत्तिर्हि इति | ननु केनान्येनापि प्रवृत्तिरस्तीत्यत आह किं तर्हि ति | क्वचन - अतिप्रयासरहिते धनव्ययरहिते कुत्रापि वस्तुनीत्यर्थः | कुत इत्यपेक्षायामाह अर्थ इति | अर्थपक्षस्य यदाधिक्यम् - अधिकता, अतिसाधनीयता तस्मात् | अत्रापि हेतुं दृष्टान्तरीत्याह कृष्यादौ इति | पुरुषो हि तत्फलसिद्धौ अनिश्चित एव कृष्यादौ प्रवर्तते | जीवनोपायत्वेन तत्फलस्यशाल्यादेरप्युत्तमत्वात् | संशयेन प्रवृत्तौ हेत्वन्तरं पक्षान्तररीत्याह अर्थित्व इति | अर्थित्वस्य - अर्थाधिक्याभावेऽपि साकांक्षत्वस्य यत् तारतम्यम् - मूढत्वादिना परा काष्ठा तस्मात् | अत्रापि हेतुं सदृष्टान्तमाह सविष भोजने निश्चितसंभावितदृष्टप्रत्यवाये च चौर्यादौ प्रवृत्तिदर्शनात्, तत् अर्थित्वातिशयः लोकस्य तावत् [प्रवृतौ तावत् निबन्धनम् - K. ष्. ष्.] प्रवृत्तौ निबन्धनम्, स च प्रवृत्तः [लोकश्र प्रवृत्तः - K. ष्. ष्.] क्वचन अनुन्मूलितप्रमितिकः प्रमाणतां प्रतिपद्यते, क्वचित् अन्यथा - भवन् विपर्ययमिति | एवम् आजन्म यतोऽनेन अभ्यस्त आजन्मशतेभ्यो वा प्रमाणाप्रमाणविभागः ततो मणिरूप्यादिवत् तत्स्वरूपम् इति | निश्चितसंभावितदृष्टप्रत्यवाये, सविषान्नभोजने निश्चितदृष्टप्रत्यवायत्वम्, चौर्यादौ संभावितदृष्टप्रत्यवायत्वमिति क्रमेण योजनीयम् | आदि शब्देन परहिंसनादिग्रहणम् | निश्चितदृष्टप्रत्यवायां सविषान्नभोजनप्रवृत्तौ मम मरणं न भवेदेवेति तर्करूपः संशयो वर्तत एव, तर्कस्य च निश्चयसंशयान्तरालवर्तित्वेन संशयप्रत्यासन्नत्वं वर्तत एवेति न विरोधः | अर्थपक्षाधिक्यं युक्ततत्वेनावस्थाप्यार्थित्वपक्षं फलितत्वेन कथयति तत् इति | तत् - तस्मात्कारणात्, अथित्वातिशयः - लोकस्य तावत् प्रवृत्तौ निबन्धनम् - कारणं भवति | स च - लोकश्च, क्वचन, प्रमास्थले इत्यर्थः | क्वचित्, द्विचन्द्रादिरूपे अप्रमास्थले इत्यर्थः | अन्यथा भवन्, उन्मूलितप्रमितिकः सन्नित्यर्थः, विपर्ययम् - अप्रमाणताम्, प्रतिपद्यते | इति शब्दः प्रमेयसमाप्तौ | अत्रापि फलितं कथयति एवम् इति | एवं सति, ततः - तस्माद्धेतोः, पुरुषः आपातमात्र एव, न तु महाविचारानन्तरमेव, तत्स्वरूपम् - प्रमायाः स्वरूपम् विलक्षणमीक्षते - पश्यति, कथम् ?, मणिरूप्यादिवत्, स्फटिकरजतयोरिवेत्यर्थः | आदि शब्देन पद्मरागादेर्ग्रहणम् | एवशब्दो विचारानन्तरं तद्वैलक्षण्येक्षणस्यातिस्फुटत्वं द्योतयति | ततः कुतः ? यतोऽनेन - पुरुषेण, आजन्म - जन्मन आरभ्य, आजन्मशतेभ्यो वा - पूर्वाणि जन्मशतान्यारभ्य वा, प्रमाणाप्रमाणविभागः अभ्यस्तः - अभ्यासविषयतां नीतः, सर्वत्र निश्चयेन प्रवृत्तौ तस्य कुत्रापि अप्रामाण्यं न भवेदित्येवंशब्दाभिप्रायः | आजन्मशतेभ्यो वा इत्यनेन विकल्परीत्या कथनेन जन्मान्तरस्य पूर्वस्य [आपूर्वजन्मशतेभ्योऽपि वा - K. ष्. ष्.] भाविनोपि शैथिल्यं आपातमात्र एव विलक्षणमीक्षते, अस्ति हि तस्य परमार्थतो वैलक्षण्यं द्योतितम् | ननु तर्हि कथं शास्त्रेषु जन्मान्तरप्रसिद्धिरस्ति ? सत्यम्, केषु अस्ति, [शहित - C.] अध्यात्मशात्रषु वा ? अध्यात्मशास्त्रेषु तावदेतत् जन्मापि परमार्थतोऽसत्यतया [परमार्थो सत्यतया - C.] संभावितम्, का कथा जन्मान्तरस्य, या त्वत्रापि कदाचिज्जन्मान्तरकथा दृश्यते, साऽवस्थापेक्षया पितृपुत्रादिभावापेक्षया वा भवत्येव, न तु स एव जीव एकतो निर्गत्य इह लोकेऽन्यं देहमाश्रयतीत्यत्र किमपि प्रमाणं दृश्यते | ननु कथं न दृश्यते ? श्रीमद्भगवद्गीतादौ वासांसि जीर्णानि यथा विहाय इत्यादिवाक्यदर्शनात् | सत्यम्, अत्राप्यवस्थाभेद एव तात्पर्यम् | तथा हि - श्रीभगवता तत्रैव देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा इत्यादिकथनात् | नन्ववस्थाभेदोऽत्र दृष्टान्ततया गृहीतः न तु दार्ष्टान्तिकतया स्थितः | सत्यम्, तज्ज्ञान्प्रति दृष्टान्तरीत्या एतत्सूचितम्, तज्ज्ञा हि तज्ज्ञेषु सूचनयैवार्थान्कथयन्ति, अवस्थाभेदस्य जन्मत्वं श्रीमोक्षोपायटीकायामस्माभिर्लीलोपाख्याने विस्तरेण निर्णीतम् | अथवा श्रीभगवतोऽमरणविषयं सुखमेवात्र विवक्षितम् | तथा चैवमत्राभिप्रायः - यथा वाससस्त्यागे कष्टं नास्ति, तथा मरणेऽपि | किं च देहाभिमानिनं प्रत्येवं कथनं युक्तमेव, स हि एतच्छुत्वा परलोकभयेन यत्र तत्र प्रवृत्तिं न कुरुते, एतेन स्मृतिशास्त्राभिप्रायोऽपि उक्तप्राय एव, तत एव श्रीभगवतात्र देहिन इत्युक्तम् | पुत्रस्योत्तरजन्मत्वं श्रुत्या स्फुटमेवोक्तम् | आत्मा वै जायते पुत्रः इति | तथा च पितुः पूर्वजन्मत्वं स्फुटमेव यथा वेतसशाखादेरारोप्यमाणस्य यतोऽसावनीतः स वृक्षः पूर्वजन्म तच्छाखाया उत्पन्नो वृक्षः उत्तरजन्मेति को दोषः | किं चैकचित्तत्त्वापेक्षया सर्वाणि जन्ममरणानि एकविषयाण्येव, तथा चान्यजीवजन्ममरणादिनापि [अन्यजीवन जन्ममरणादिनापि] अन्यजीवस्य जन्ममरणादिमत्त्वं युक्तमेव, तथा च कारणभेदादिकृतम्, ततश्च यदार्तिं परिमितां सह्याम् अभिमन्यते तत एव अर्थितामहाग्रहेण यत्र तत्र न प्रेर्यते तदा विसंवादभीरुः निश्चितप्रामाण्यात् बोधात् अदृष्टे दृष्टेऽपि वा प्रवर्तमानो न विसंवाद्यते, इति स - प्रेक्षापूर्वकारि भण्यते, तेन लौकिकं प्रमाणस्वरूपम् अनूदितं सामान्यसंबन्धादिज्ञानेऽपि मोहात् अप्रामाण्यशंकां शमयितुम्, अतएव विभागविशेषलक्षणपरीक्षादिभिरिह न आयासितो यथाऽब्दौ क्षिप्तो जलकुंभः पुनर्नवीनमुद्धृतो यदा भवेत् तदैकत्वापेक्षया तद्गतं जलमपि परिलीय, नवीनम्, पुनरुत्थितं वक्तुं शक्यते, एवं मृतोऽपि जीव एकत्वेनान्यजीवापेक्षया जात इत्यपि वक्तुं शक्यत एवेत्यलमुच्छृंखलजननियमनार्थं कल्पितशृङ्खलारूपवैदिकविधिनिषेधचोदनात्रोटनेन [त्रोरनेन - C.] | महाजनास्तु स्वयमेव स्वभावेन नियमिताः सन्तः एतत्परमार्थं ज्ञास्यन्त एव | यदुक्तम् :- विषयः प्रतिषेधाश्च स्वभावो विदितात्मनाम् | नियामकास्तु मूर्खाणां चौराणामिव शृंखलाः || इति | ननु विमर्शद्वयस्य परमार्थतो यदि प्रमाणत्वाप्रमाणत्ववैलक्षण्ये हेतुर्नास्ति तर्हि कथमभ्यासपाटवेप्यापातेपि भानं युज्यते, तद्विस्फुटहेतुकस्यैव युक्तम् इत्यपेक्षायामाह अस्ति हि इति | तस्य - प्रमाणाप्रमाणत्वस्य, फलितं वस्तु संगृह्य कथयति, ततश्च इति | सह्याम् - सोढुं शक्याम्, यत्र तत्र - संशयिते वस्तुनि, ततः - आर्तेः सह्यत्वात्, विसंवादभीरुः - विप्रलंभभीतः [विप्रलंभापीतः - C.] सन्, अदृष्टेलक्षणयादृष्टविषये यागादौ, सः - पुरुषः, प्रेक्षापूर्वकारी विचारपूर्वकारी, भण्यते - कथ्यते, प्रामारायनिश्चयानन्तरं प्रवृत्तेरित्यर्थः | एतदवष्टम्भेन लोके प्रसिद्धस्य प्रमणकथनस्यानुवादत्वे युक्ततां साधयति तेन इति | तेन - यतः प्रमाणेन वस्तु निर्णीयानन्तरं प्रवृत्त एव पुरुषः प्रेक्षापूर्वंकारी भण्यते, ततः कारणात् सूत्रकृता सामान्यसम्बन्धादिज्ञानेऽपि - व्यवहारकारणत्वेनातिप्रसिद्धे सामान्यादिज्ञानेपि, मोहात् अप्रामाण्यशंकाम् - बौद्धैर्मोहवशेनोत्पादितामप्रमाणत्वशंकाम्, शमयितुम् - दूरीकर्तुम्, प्रमाणस्वरूपमनूदितम् - लोके लोकः | यत् यत् अवाधितस्थैर्यम् अत एव अप्रतिहतानुवृत्तिकं विमर्शफलं विधत्ते तत्तद् बोधरूपं बोध्यनिष्ठं प्रमातृस्वरूपविश्रान्तं प्रमाणम् इति | तच्च ऐन्द्रियके वोधे सुखादिसंवेदने योगिज्ञाने च अविवादमेव, मुख्यतयैव प्रमेयरूपे आबासे साक्षात् विश्रान्तेः | प्रसिद्धत्वेपि अनुवादरित्या पुनः कथितम्, अतिकांक्षितं वस्तु हि पुनः पुनः कथ्यते ऐवेति भावः | ननु तर्हि विभागादि कथं न कृतमृत्यत आह अत - एव इति | अत एव - अनुवादाद्धेतोरेव, सामान्यलक्षणानुवादमात्रेणाभिप्रेतसिद्धेः लोके प्रसिद्धानां विभागादीनामनुवादो न कृत एवेति भावः | ननु लोके कथं प्रमाणसामान्यलक्षणादेः प्रसिद्धत्वमस्ति येनानूदितमित्युक्तम् इत्यपेक्षायां लोकप्रसिद्धं प्रमाणसामान्यादिलक्षणादि कथयति यत् इति | अप्रतिहतानुवृत्तिर्यस्य तादृशम्, स्वरूपविपर्ययासहमित्यर्थः | विमर्शफलम् - विमर्शाख्यं फलं प्रमाणमिति यावत् | बोध्यनिष्ठम् इत्यनेन प्रमातुर्व्यावृत्तिकारिणो बाह्योन्मुखत्वस्य कथनम्, प्रमातृस्वरूपविश्रान्तम् इति, तदाश्रयत्वात् अन्यथा बाह्यविषयत्वायोगात् इति भावः | सा च प्रमातृविश्रान्तिरहं पश्यामिति प्रयोगे स्फुटैव, इति शव्दो लोकप्रसिद्धप्रमाणसामान्यलक्षणसमाप्तौ | अस्य सामान्यलक्षणस्य विशेषेषु विश्रान्तिं दर्शयति तच्च इति | तच्च - प्रोक्तं सामान्य लक्षणं च, ऐन्द्रियके बोधे - बाह्येन्द्रियकृते पश्यामिति क्रियावाच्ये ज्ञाने, सुखादिसंवेदने - अन्तरिन्द्रियमनःकृते सुखादिज्ञाने, कुत इत्यपेक्षायामाह मुख्यतयैव इति | नत्वनुमानादिवत्प्रत्यक्षसापेक्षत्वेन, प्रत्यक्षपूर्वकत्वात् अनुमानस्य | साक्षात् इति, न त्वनुमानादिवल्लिङ्गज्ञानादिव्यवधानेनेत्यर्थः | एतेन प्रत्यक्षप्रमाणस्य सामान्यलक्षणयोजनम्, विशेषलक्षणं तु ऐन्द्रियके इत्यादि - विशेषणसूचितमेव ज्ञेयम् | ननु तार्किकैर्बोधाबोधरूपायाः सामग्र्या अबोधरूपस्येन्द्रियादेर्वा प्रमाणत्वमुक्तम्, इह कथं बोधमात्रस्यैव ? सत्यम्, सामग्र्या यत् प्रमाणत्वमुक्तं तद्युक्तमेव, तदन्तर्गतं ह्यस्माभिरुक्तं प्रमाणमपि भवति एवान्यथा सामग्रीत्वायोगात् | यत्त्विन्द्रियादेरुक्तं तदयुक्तमेव सर्वदा ज्ञानोत्पादप्रसंगात्, न हीन्द्रियं जीवतः कुत्रापिं क्षनेऽसन्निहितमिति वक्तुं शक्यते, अतिशयश्च करणस्य तत्सन्निधाववश्यं फलोत्पाद एव नान्यत् किञ्चित्, यच्च गौणत्वसाधनं तत्कुशकाशावलंबनमेव | बाह्योन्मुखो बोधस्तु बाह्यपरामर्शमवश्यमेव जनयति इति तस्य सातिशयत्वम् | यस्तु प्रमाणफलयोरभेदः शंकितः, स बाह्या - अनुमानजा तु प्रतीतिः आभासान्तरात् कार्यरूपात् स्वभावभूतात् वा आभासान्तरे प्रतिपत्तिः, वस्त्वन्तरस्य च तेन साकं कार्यकारणभावनियमः सामानाधिकरण्यनियमश्च ईश्वरनियतिशक्त्युपजीवन एव अवधार्यो भवति न अन्यथा | तेन यावति नियतिर्ज्ञाता तावति देशे काले वा अनुमानं प्रमाणम् | आगमस्तु नामान्तरशब्दनरूपो [नामान्तरः शब्दनरूपः - K. ष्. ष्.] दृढीय स्तमविमर्शात्मा चित्स्वभावस्य ईश्वरस्य अन्तरङ्ग एव व्यापारः न्तर्मुखत्वनिवारित एवेत्यलं प्रपंचेन | अनुमानेऽपि प्रमाणसामान्यलक्षणयोजनां करोति अनुमान इति | तु शब्दः प्रत्यक्षप्रमाणाद्व्यतिरेकद्योतकः | कार्यरूपात् - अग्न्यनुमाने धूमरूपात्, स्वभावभूतात् वृक्षानुमाने शिंशपारूपात्, आभासान्तरे - अग्निरूपे वृक्षरूपे वा | ननु तत्र कार्यकारणभावस्तादात्म्यं वा कथं भवति इत्यत आह वस्त्वन्तरस्य इति | वस्त्वन्तरस्य - घूमरूपस्य शिंशपारूपस्य वा, तेन साकम्, अग्निना वृक्षेण वा सहेत्यर्थः | सामानाधिकरण्यनियमः - तादात्म्यसंबन्धनियमः | ईश्वरनियतिशक्त्युपजीवनः - ईश्वरसंबन्धिनियतिशक्तिनियतत्वेन तत्सापेक्षः | फलितमाह तेन इति | तथा च नारिकेलद्वीपदेशवासिनां न घूमेनाग्न्यनुमानसिद्धिः [अग्न्यनुमानमितिसिद्धिः - C.], विस्मृतव्याप्तिकानां वा विस्मृतिकाले अगृहीतव्याप्तिकानां च तस्मिन्काले इति भावः | एतेनानुमानाख्ये प्रमाणे प्रमाणसामान्यलक्षणं योजितम्, विशेषलक्षणं त्वाभासान्तरादाभासान्तरे प्रतिपत्तिरित्येवं रूपं साक्षात्कथितं ज्ञेयम् | आगमप्रमाणेऽपि सामान्यलक्षणं योजयति आगमस्तु इति | तु शब्दः पूर्वप्रमाणद्व्याद्व्यतिरेकद्योतकः, आगमो नाम - आगमाख्यं वस्तु, चित्स्वभावस्य - चित्स्वरूपस्य, प्रकाशरूपस्येति यावत् | अन्तरंगः - स्वभावतया स्थितः | व्यापारो भवति | कुत इत्यपेक्षायां हेतुगर्भं विशेषणमाह आन्तरशब्दनरूपः इति | आन्तरम् पराभावेन स्थितत्वेपि पश्यन्तीभावमागत्य मध्यमाभावेन स्थित्वा परिमितप्रमातृद्वारेण वैखरीभावेन स्थितं च यत् शब्दनम् - जल्पनम् तद्रूपं यस्य तादृशः, अत एव दृढीयस्तमः - अतिशयेन दृढः, स्वरू - प्रत्यक्षादेरपि जीवितकल्पः तेन यत् यथामृष्टं तत [यत् यत् आमृष्टम् - K. ष्. ष्.] तथैव यथा नैतत् पादव्यभिचारीति यावत्, यः विमर्शः - अहमिति परामर्शः, तस्मादात्मा स्वरूपलाभः, बहिः संचार इति यावत्, यस्य तादृशः | तदुक्तम् :- आगतं शिववक्रात्तु गतं च गिरिजामुखे | मतं श्रीवासुदेवेन आगमस्तेन कीर्तितः || इति | अत्रायमभिप्रायः | यः शिवः प्रकाशस्तस्य मुखादागतं तत्र प्रथमं पराभावेन स्थितत्वात् पश्यन्तीभावमागतमित्यर्थः, तत्र भातमिति यावत् | तथा गिरिजामुखे, गिरिजा अविचलद्रूपात् [अचिर्वलरूपात् - C.] परमेश्वरादुत्थिता विमर्शेशक्तिस्तस्या मुखे गतम् - मध्यमाभावेन तया परामृष्टमित्यर्थः | तथा श्रीवासुदेवेन - भेदप्रधानप्रमातृवर्गव्यापकेन देवेन, मतम्, इदं शास्त्रमागमः कीर्तितः वर्णत्रयेणैवं सूचनादिति भावः | सन्ध्यभावोऽत्रैश्वर इति न दोषः | एतेनागमशास्त्रेषु स्थितं श्रीदेव्युचाच, श्री भैरव उवाच इत्यादि प्रयोगजातमपि समर्थितं ज्ञेयम्, भैरवो हि सर्वभरितः प्रकाश एव, देवी तु क्रीडाशीला विमर्शशक्तिः, वचनं तु परापश्यन्तीमध्यमावैखरीभावेन चतुर्विधम् | ततः शास्त्रस्य प्रकाशे पराभावेन सततमवस्थानम्, ततो निर्गमौन्मुख्ये पश्यन्तीभावेन तत्रैव भासनन्, ततो विमर्शे मध्यमाभावेन रूढिः तदैव तद्विमृष्टमिति प्रोच्यते, ततो बाह्ये शास्त्रकारेषु बैखरीभावेन स्थितिः, तत्र च मौलिकमुत्थानमपेक्ष्य भैरवदेवीसंवादकथनम् | ननु तर्हि सर्वत्रैवदेव भवेत् | भवतु काहानिः, तज्ज्ञान्प्रति, अतज्ज्ञेषु त्वेतत् कथनमयुक्तमेव, अत एव कारुणिकैर्न सर्वत्रैषा घोषणा कृता, अस्माभिस्तु व्याख्यायामुद्यतत्वेनैषोऽर्थः स्फुटीकृत एव | ननु तर्हि रहस्योद्घाटनं संपन्नम् ? न संपन्नम्, अनधिकारिणामत्र विश्वासाभावात्, अधिकारिणां तु तत्संभवेऽपि उच्छृंखलत्वायोगात्, उद्घाटनं हि अयोग्ये स्थाने प्राप्तिरेवत्यलं प्रपंचेन | एवं चान्तरशब्दनरूपस्यागमस्य अन्तरंगत्वं स्फुटमेव, प्रकाशस्य विमर्शस्वभावत्वात् | पुनः कीदृशोऽसौ ? प्रत्यक्षादेरपि - प्रत्यक्षानु - मानयोरपि, जीवितकल्पः - जीवितसदृशः, तयोरपि विमर्शप्राणत्वेन साधनत्वात् | एतेन बाह्यवादनिरासः, तेषु हि प्रत्यक्षापेक्षत्वं शब्दप्रमाणस्योक्तम् | कुत इत्यपेक्षायां वाक्यं हेतुत्वेनाह तेन इति, यतः तेन - आगमेन, यत् यथामृष्टं - परामृष्टम्, उक्तमिति यावत्, तत् तथा भवति | अत्र प्रत्यक्षफलं विषापसारमन्त्रमुदाहरति यथा इति | इति शब्दो मन्त्रसमाप्सौ | शास्त्रान्तराणाम - विषं मां मारयति गरुड एव अहम् इति | तत्र तु तथाविधे शब्दनात्मनि विमर्शे आनुकूल्यं यो भजते शब्दराशिः सोऽपि प्रमाणम्, यथा - वेद सिद्धान्तादिः, अन्योऽपि वा बौद्धार्हतागमादिः, तेन हि यत् शब्दनम् उत्पादितं ज्योतिष्टोमकारी अहं स्वर्गं गन्ता इति दीक्षितोऽहम् अपुनरावृत्तिभागी इति कारुणिकोऽहं बुद्धपदं गन्ता इति गाढक्लेशसहिष्णुरहम् अर्हत्पदं प्रपत्ता इति, तत्र न विपर्यय उदेति, तदा श्वस्तस्यैव तत्र अनुष्ठानयोग्यत्वात्, अन्यस्य तु दृढप्रतिपत्तिरूपत्वाभावात् अप्रमाणमेव तथाविमर्शनात्मकं शब्दनम् | नन्वेवं तदेव शास्त्रं कंचित्प्रति प्रमाणं कंचित्प्रति न इति स्यात्, न चैतद्युक्तम् - अपक्षपातित्वात्प्रमाणस्य इति, अतत्त्वज्ञोऽसि प्रतीतिवृत्तस्य, तथापि प्येतदानुकूल्ये प्रमाणत्वं कथयति तत्र इति | तत्र, तत्र सतीत्यर्थः, तथाविधे - आगमशास्त्ररूपे, आनुकूल्यम् - अनुवर्तित्वम् | ननु कोऽसौ शब्दराशिरित्यत आह वेद इति | अन्यः - वेदविरुद्धः, कुत इत्यपेक्षायामाह तेन हि इति | तेन - वेदादिना, प्रपत्ता, प्रापीत्यर्थः कुतो नोदेतीत्यत आह तदाश्वस्तस्य इति | अन्यस्य - अनाश्वस्तस्य, तदिति शेषः | अप्रमाणमेव, न तु प्रमाणमपीति भावः | एतेन विषापसारणमन्त्रस्याप्याश्वासपूर्वं जपादिनैव फलसाधकत्वमुक्तम् | तथा च पठनमात्रेणैतत्फलाभिलाषिणां महाजनानामप्युपहासपात्रत्वमेव दृश्यते | सामान्यजनरूपाणामपि गारुडिकानामेतादृङ्मन्त्रसिद्धिरिति न काप्यनुपपत्तिः, तदुक्तम् :- तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः | प्रवर्तन्तेऽधिकाराय करणानीव [कारणान्येव - C.] देहिनाम् || इति | अत्र तच्छब्देनात्मबलपरामर्शः तच्चाश्वासदार्ढ्यमेव न त्वात्मग्रहः, तद्युक्तानां सर्वेषु शब्देषु मन्त्रतादर्शित्वेन मन्त्रापेक्षाराहित्यात् | अत्र शिष्यः प्रश्नयति नन्वेवम् इति | एवम्, एवं सतीत्यर्थः, कञ्चित् - कमपि प्रमेयभागम्, इति स्यात्, एतदागतमित्यर्थः | नन्वेतदेव भवतु का हानिरित्यत आह न चैतत् इति | कुतो न युक्तमित्यत आह अपक्षपातित्वात् इति, न हि प्रमाणस्य पक्षपातिता युक्ता इति भावः | इति शब्दः प्रश्नसमाप्तौ | उत्तरमाह अतत्वज्ञोऽसि इति | प्रतीतिवृत्तस्य - प्रतीतिस्वरूपस्य | ननु तर्हि नोपेक्ष्यसे, अपक्षपाति प्रमाणम् इति कः अस्य वचनस्य अर्थः, किं यत् एकस्य नीलज्ञानं प्रत्यक्षरूपं तत् किं सर्वस्य नीलं भासयति धूमज्ञानं वा अग्निम्, त्वं प्रातर्निधिमनेन विधिना लब्धासे इति च यः सिद्धादेश [सिद्धादेशरूप आगमः - K. ष्. ष्.] आगमः स किं सर्वान्प्रति प्रमाणम्, अथ कस्यापि कदाचित् किंचित्, तथा इहापि दृढविमर्शनरूपं शब्दनम् आसमन्तात् अर्थं गमयति इति आगमसंज्ञकं प्रमाणं सर्वस्य तावत् भवति, तत्र यथा मिथ्याज्ञानसहायतां [मिथ्याज्ञाने सहायताम् - K. ष्. ष्.] भजमानम् आलोकेन्द्रियादिकम् अप्रमाणतासविवम् अप्रमाणम्, न च एतावता सम्यग्ज्ञानरूपस्य [सम्यक्ज्ञानस्वरूपस्य - K. ष्. ष्.] मौनमेव कुरु इत्यपेक्षायामाह तथापि इति | नोपेक्ष्यसे - उपेक्षाविषयतां न नीयसे, अनुगतत्त्वादिति भावः | शिष्योक्तोत्तरावष्टंभेनोतरं दातुं शिष्यं प्रत्येव प्रश्नं करोति अपक्षपाति इति | अर्थः - अभिधेयम्, धूमज्ञानं वा सर्वस्याग्निं भासयति इति संबन्धः | सिद्धादेशः, तप आदिना सिद्धियुक्ताः सिद्धास्तैः कृत आदेशः - आज्ञा सिद्धादेशः, अत्रायुक्ततां ज्ञात्वा पक्षान्तरं शिष्यमुखेनैव कथयति अथ इति | शिष्योत्तरानुसारेणैवोत्तरं करोति तथा इहापि इति | आगमशब्दस्यान्वर्थतां दर्शयितुमाह आसमन्तात् इति | आगमसंज्ञकं शब्दनं तावत्सर्वस्य प्रमाणं भवति इति संबन्धः | अत्र कस्यापि विप्रतिपत्तिर्नास्तीति तावच्छब्दाभिप्रायः | ननु तर्हि एतेन शास्त्रेण सर्वेषां शूद्रादीनां कथं नादृढविमर्शनरूपा प्रमा भवति, येन पक्षपातिता न भवेत्, इत्यपेक्षायामधिकारिभेदपराणां शास्त्राणामेवायं दोषो न तत्कृतबाह्योन्मुखसम्यग्ज्ञानरूपस्य प्रमाणस्येत्यभिप्रायेण भंग्या सदृष्टान्तमुत्तरमाह तत्र इति | तत्र, आगमसंज्ञके शास्त्रे प्रमाणे सतीत्यर्थः, मिथ्याज्ञानसहायताम् - मिथ्याज्ञानस्यबाह्योन्मुखासम्यग्ज्ञानरूपस्य प्रमाणाभासस्योत्पादे सहायभावम् भजमानम्, ज्ञानकर्तरि इति शेषः | न ह्यालोकेन्द्रियादिकं विना मिथ्याज्ञानोत्त्पादों युक्त इति भावः | आलोकेन्द्रियादिकम् - आदिशब्देनेन्द्रियार्थसन्निकर्षादेर्ग्रहणम् | अप्रमाणतासचिवम् - मिथ्याज्ञानाप्रमाण्ये सचिवं सत्, अप्रमाणं भवति, काचकामलादिदोषोपहतत्वात् | न चैतावता सम्यग्ज्ञानरूपस्य - प्रत्यक्षप्रमाण - प्रत्यक्षस्य काचित् पक्षपातिता, तथा स एव ज्योतिष्टोमादिशब्दः शूद्रादेरदृढविमर्शात्मनि अत एवाप्रमाणे आगमाभासे साचिव्यं विदधदपि दृढविमर्शात्मकसत्यागमरूपशब्दनलक्षणप्रमाणोप- योगितायां प्रामाण्यं भजन् न पक्षपातापक्षपातदोषप्रतिक्षेपयोग्यः, सर्व एव हि आगमो नियताधिकारिदेशकालसहकार्यादिनियन्त्रितमेव विमर्शं विधत्ते, रूपस्य साक्षात्कारिण्याः प्रमायाः कंचित्पुरुषं प्रत्येव करणे, काचित् - कापि, पक्षपातिता - पक्षपातयुक्तत्वं न भवति, रोगादिराहित्यवशेन तत्कारित्वात् | तथा स एव ज्योतिष्ठोमादिशब्दः - ब्राह्मणादेरधिकारिणः प्रति आगमे प्रमाणताकारी ज्योतिष्टोमादिविधिशब्दः, शुद्रादेः - अधिकाररहितानां शूद्रस्त्र्यादीनाम्, अदृढविमर्शात्मनि - अदृढविमर्शरूपे, अत एवाप्रमाणे - शूद्रादिकं प्रति प्रमाणतया स्थापितेऽपि परमार्थतोऽप्रमाणे, अत एव आगमाभासे - परमार्थत आगमत्वाभावेऽपि तद्वदाभासमाने, साचिव्यम् - सहायताम्, विदधदपि, वेदे एव हि शूद्रादेः वेदव्यतिरिक्ते स्मृत्यादिरूपे शास्त्राभासेऽधिकारो विहितः | दृढविमर्शात्मकं यत् सत्यागमरूपं शब्दनं तदेव लक्षणं स्वरूपं यस्य तादृशं यत् प्रमाणं तस्योपयोगितायाम् - साहायये, पक्षपातापक्षपातदोषप्रतिक्षेपयोग्यः, [प्रतिक्षेपसेवयोग्यः - C.] अधिकारभेदकथनमात्रदोषवशेन तदायातेन पारमार्थिकत्वाभावान्न भवतीत्यर्थः | कुतो न भवति इत्यत आह सर्व एव इति | हि - यस्मात्, सर्वः - विधि रूपो निषेधरूपो वा, आगमः, नियताः ये अधिकारिदेशकालसहकार्यादयः तैः नियन्त्रितम् - नियतमेव न त्वनियतम्, विमर्शम् - प्रमारूपं फलम्, विधधत्ते - करोति | तथा चानधिकारित्वेऽपि वेदान्तादिशास्त्रेष्ववगाहनं कुर्वतां स्ववञ्चकत्वमेव, यस्यैव हि तेनैव शास्त्रेणाधिकारो विहितः तस्यैव तत्र प्रवृत्तिः कार्याऽन्येषां तु प्रवृत्तानां दोषापात एवेत्यलं प्रपंचेन | तत्र अधिकारिनियमः स्वर्गकामो यजेत इति | देशनियमः समे देशे यजेत इति | कालनियमः उदिते जुहोति सायं प्रातः सन्ध्यामुपासीत इति | सहकारित्वं तु सर्वेषां योजनीयम् | आदिशब्देन द्रव्यादिग्रहणं यथा पयसा जुहोति जन्तिल यवाग्वा जुहुयात् इति | अथवा सहकार्यपि पृथग्नियत एव, यथा यज्ञे पत्न्याः सहकारित्वम् विधिरूपो निषेधात्मा वा | तेन प्रसिद्धिः [अत एव प्रसिद्धिरविगीता हि सत्या वागैश्वरी मता | तयेति यत्र हि यदा यत्तद्ग्राह्यमशंकितैः || - K. ष्. ष्.] इति श्लोके यत्र यदा इत्युक्तम्, तेन - प्रत्यक्षागमौ बाधकौ अनुमानस्य, इति तत्रभवद्भर्तृ - यज्ञसंयोग एव पत्नीशब्दसाधनात् | एतेन फलितं वस्तु कथयति तेन - इति | यतः अधिकार्यादिनियमः ततः कारणादित्यर्थः | तथाचैवमयं श्लोकः - प्रसिद्धिरविगीता हि सत्या वागैश्वरी मता | तया यत्र यदा सिद्धं एतद्ग्राह्यमसंशयम् || इति अविगीता - वेदाविरुद्धा, तथा च प्रसिद्धमपि वेदविरुद्धं चेत्त्याज्यमेव | प्रसिद्धिरित्यनेनाविदितकर्तृकं परंपरागतमुपदेशजातं गृहीतम् | ऐश्वरी वाक् - ईश्वरसंबन्धिनी वाक्, आगमवागित्यर्थः | तया - ईश्वरीयवाचा, यत्र यस्मिन्नधिकारिणि देशे वा, यदा - यस्मिन्काले | एवं च सर्वम् आगमशास्त्रं परंपरागतमेव | तथा चात्र श्रीमत्तन्त्रालोके प्रसिद्धिनिबन्धकारिणां श्रीमठिकागुरूणां निर्णयः कृत एवेत्यलं रहस्येषु सूक्ष्मेक्षिकाभिः | ननु किमेते उपदेशाः वेदे न सन्ति येन प्रसिद्धिः शरणीकृता | सत्यम्, न भविष्यन्त्यपि, न हि श्रीपरमेश्वरस्यैश्वर्यमेतावन्मात्रे समाप्तिं गतम् | सन्तोऽपि वाऽतिरहस्यत्वेन तत्र व्याख्याकृद्भिर्न स्फुटीकृताः, इति कर्णोपकर्णिकया महागुरुभिर्महाशिष्येषु सूचिताः, दयावद्भिः मठिकागुरुभिः प्रकटीकृताः | तेषां ह्ययमभिप्रायः | येषामधिकारस्तेऽयत्नं ज्ञास्य - हरि न्यायभाष्यकृत्प्रभृतयः, तस्मात् प्रमाणलक्षणे ज्ञाते सर्वं प्रमाणस्वरूपं ज्ञातं भवति किं विशेषलक्षणैः, यस्तु अविसंवादकत्वं तस्य लक्षणम् आह तेनापि प्रापकत्वं प्रवर्तकत्वं प्रवृत्तियोग्यशक्यप्राप्तिकवस्तूपदर्शकत्वं प्रमाणलक्षणं ब्रुवता न किंचित् प्रमाणाभिमतबोध - न्त्येव, ये त्वन्यथा ते श्राव्यमाणा अपि जलगतनलिनीदलवन्न तत्स्पर्शं कर्तुं शक्नुवन्त्येव, किं च तैस्तत्राधिकारिनियमः स्थापित एवेति न कोऽपि विरोधः | ननु तैस्तत्र दीक्षानियमः स्थापितः, तत्र केचिद्दीक्षिता अप्यनधिकारिणो दृश्यन्ते, केचित्वकृतदीक्षा अप्यधिकारिणस्तत्र किं कार्यम् | सत्यम्, तत्र प्रथममनधिकारिदीक्षादाने न गुरुणां लोभादिदोष एव कारणम् | कदाचित्तु महागुरवोऽपि सामान्यदृशा सर्वत्र प्रवृत्ता दृश्यन्त एव, तत्र चानधिकारिणां शिष्याणां स्वकीया भाग्याल्पतैव, यथा गङ्गां प्राप्तानां कुंभादिरहितानाम् | ये तु महागुरुणामनुवृत्तिपरा एव, तेषामवश्यमेव कोऽप्यतिशयो जायते | थे तु दीक्षारहिता अप्यधिकारिणस्तेषां बाह्यानधिकारेणैतच्छास्त्रं भयेनास्पृशतामुत्तरोत्तरं [भयेन्नाष्टसताम् - C.] भक्त्यावेशे महाधिकारित्वं जायते | कालेन महागुरुसंयोगे दीक्षया महाफलयोगित्वं भविष्यति, तदप्राप्तौ तु तदन्तरे मृतानां परमफलालाभः | ये तु भक्त्यावेशेन बाह्याधिकारं नापेक्षन्ते, तेऽपि केचित् कालेन भक्तेश्च्यवन्ते, केचित्तु भगवत्कृपया फलभाजोऽपि भविष्यन्ति एव | सर्वथा बाह्याधिकारेऽपि यथा तथा यतनीयमेव, तदसंभवे त्वन्यशास्त्रेषु रतिः | तेन इति | आहुरिति शेषः | एतेनागमप्रमाणे प्रमाणसामान्यलक्षणयोजना कृता | अत्र च विशेषलक्षणमान्तरशब्दनमूलत्वमेव | लोकप्रसिद्धविशेषलक्षणकथनमुपसंहरति तस्मात् इति | तस्मात् - यतस्तर्कशास्त्रेषु विशेषलक्षणानां प्रसिद्धिरस्ति ततः कारणात् इत्यर्थः | प्रमाणलक्षणे - प्रमाणसामान्यलक्षणे | अत्र बौद्धैः कृतं सामान्यलक्षणं कथयति यः इति | तस्य - प्रमाणस्य, तदुक्तम् - प्रमाणमविसंवादि इति | प्रमाणाभिमतः - यो बोधस्तत्र विश्रान्तम्, स्वरूपम्, लक्षणया लक्षणम्, नोक्तम् - इति, अविसंवादकत्वादि हि प्रवृत्तेः कार्यं न प्रमाणस्य, तस्य प्रकाश - विश्रान्तं स्वरूपम् उक्तम्, तच्च [तच्चेद् - K. ष्. ष्.] अनेनैव [ अनेन - K. ष्. ष्.] लक्षणेन निर्वाह्यते तत् निर्व्यूढं भवति, अन्यथा मुखभङ्गमूर्धकम्पाङ्गुलीमोटनादिमात्रतत्त्वं तत्, इति अलं विस्तरेण || २ || कत्वादिति भावः | तच्च - प्रमाणस्वरूपं च, अनेनैव - तत्सूत्रोक्तेन, निर्वाह्यते - साध्यते, निर्व्यूढम् - सिद्धम्, अन्यथा, - अनेन लक्षणेनापि निर्वाहाभावे, तत्प्रमाणंमन्यैः कृतानि प्रमाणलक्षणानि उपहासपात्रमेवेति भावः | उपहासे हि मुखभंगादि क्रियत एवेति तद्ग्रहणम् | विस्तारकथनं निषेधयति अलम् इति | एतेनाऽन्योपि प्रपंचः करणीयोऽस्त्येव परं न क्रियत इति सूचितम् | एकाभिधानविषये इत्यस्योत्तरश्लोके निर्णयो भविष्यतीति इह न व्याख्यातम् | एवमत्र द्वितीये श्लोके योजना संक्षिप्तार्थश्च | सः - प्रमाणतयाभिमतो बोधः, तथा तद्वत्, प्रमाणतया भवनवत् इति यावत्, अन्तर्विमर्शात्मा - प्रमाणतावस्थायामागतं बहिर्मुखत्वं विहाय पुनरन्तर्मुखविमर्शरूपतां प्राप्तः सन्, अबाधिता - इति बाधासहा प्रमा भवति, मितिश्च भवतीति तथा शब्दवशेन समुच्चयेन योजना | ननु तर्हि तस्य प्रमातृत्वमेवागच्छति, अन्तर्मुखस्य बोधस्य प्रमातृत्वमेवेत्यत आह वस्तुनि इति | वस्तुनि - वस्तुविषये सा मितिः, संकोचावस्थायां सा मितिर्भवतीत्यर्थः | तथा च न तस्या अन्तर्मुखेपि प्रमातृत्वम् | प्रमातुः सारभूतमहाप्रकाशापेक्षया परिच्छिन्नत्वे एतदपेक्षयाऽपरिच्छन्नत्वादिति भावः | बहिर्मुखतामागतं प्रमातुः स्वरूपं प्रमाणं भवति, पुनरन्तर्मुखतामागतं तावदत्यक्तविषयोपरागवत् प्रमा स्यात्, ततः क्षणेन संकोचत्यागे एषा प्रमापि प्रमातृरूपैव भवति, प्रमातापि यदि तज्ज्ञत्वेन तस्मिन् समये एव कुत उत्थितेयं कुत्र लीना चेति प्रमामूलान्वेषणद्वारेण स्वं रूपं प्रकटीकरोति, तदा प्रमावत् स्वयमपि परप्रकाशे लीनीभवति, सैव च प्रत्यभिज्ञा स ईश्वरोऽहमेवेत्येवंरूपा, अस्यैव चोपायस्य मार्गो नवः इति पदद्वयेनापूर्वोपायत्वं कथयिष्यति, प्रसिद्धयमनियमाद्युपायव्यतिरिक्तत्वात्, इति रहस्यसंक्षेपः | वस्तुनि कीदृशे ? देश कालाद्यभेदिनि, तथैकाभिधानविषये इति || १ || २ || ........ ननु च एकाभिधानविषये मितिः इति यत् उक्तम्, तत्र - एकमभिधानं बाह्ये स्वलक्षण एव प्रवर्तते यदि, तत्कथम् उक्तं प्रत्याभासं प्रमाणम्, आभासमिश्रीकरणाभासस्तु स्वलक्षणं इत्याशङ्कां शमयन् प्रमाणस्य यत् प्रमेयं तत् परमार्थतो निरूपयितुम् आह - यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते | आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते || ३ || यद्यपि घट इति बहिः परिदृष्ट एकोऽर्थः तथापि तावानेव असौ न, अपि तु पृथङ्निर्भज्यमानतामपि सहते, तथाहि - स्वतन्त्रं वा विवेचनम् अर्थित्वानुसारेण वा पूर्वप्रसिद्ध्युपजीवनेन वा, तत्र त्रिधापि अथ तृतीयस्य श्लोकस्यावतरणिकां करोति - ननु च इति | अत्र टीका - एकाभिधानविषये - एकनामविषये, तत्र - तस्मिन् उक्ते, बाह्ये - बहिःस्थिते, स्वलक्षणे - वस्तुनः सामान्याकारव्यतिरिक्ते असाधारणे स्वरूपे एव नतु सामान्याकारे | किमुक्तम् इत्यपेक्षायामाह प्रत्याभासम् इति | प्रत्याभासम् - प्रत्येकं सर्वेषु धर्मिधर्मरूपेष्वाभासेषु, इत्याशंकाम् - एवंरूपामाशंकाम्, परमार्थतः इत्यनेन पूर्वोक्तस्य प्रमेयनिर्णयस्य शैथिल्यं द्योतितम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे, यथारुचि इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति, यद्यपि इति | तावानेव - एक एव | तर्हि कियानसौ इत्यपेक्षायांपक्षान्तरमाह अपि तु इति | पृथङ्निर्भज्यमानताम् - पृथग्विभागविषयताम्, बहुरूपतामिति यावत् | कथम् इत्यपेक्षायां समर्थनमुपक्रमते तथाहि इति | समर्थनं कुर्वन् श्लोकं व्याचष्टे स्वतन्त्रं वा इति | यथारुचि इति व्याचष्टे स्वतन्त्रम् इति | यथार्थित्वम् इति व्याचष्टे अर्थित्व इति | यथाव्युत्त्पत्ति इति व्याचष्टे प्रसिद्ध्युपजीवनेन इति | पूर्वप्रसिद्ध्यपेक्षयेत्यर्थः | तत्र - तत्र सति, त्रिधा - विवेचने क्रियमाणे पृथगेव भान्ति आभासाः, नन्वेवं चेत् कथम् एकं स्वलक्षणं ? उच्यते - तेषां पृथक् भासमानानामपि आभासानां यो विमर्शः अनुप्राणितभूतः स कदाचित् प्रत्याभासमेव विश्राम्यति, तदा परापरसामान्यग्रहणम् [परापरसामान्यव्यवहारः - K. ष्. ष्.], कदाचित् पुनः गुणप्रधानतापादनेन अत्र इदम् इत्थम् इति मिश्रणाप्राणो [व्यामिश्रणाप्राणः - K. ष्. ष्.] विमर्शः तदा तदेकं स्वलक्षणम् | अपिः भिन्नकमः, अनुसन्धानेन मिश्रताविमर्शेन साधितो य एकोऽर्थः प्रोक्तप्रकारत्रयेण | तथा चोत्तरश्लोके प्रकारत्रयं दर्शयिष्यत्येव इति हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने स्थितमप्येतत्प्रकारत्रयं विस्तरभयान्न दर्शितम् | अत्र शिष्यः प्रश्नं करोति नन्वेवम् इति | उत्तरमाह उच्यते इति | प्रतिज्ञां सफलीकरोति तेषाम् इति | तेषाम् आभासानाम् - पूर्वोक्तानां देशादिरूपाणामाभासानाम्, न त्वन्येषां रुच्यादिमेदवशेन स्थितानाम् | विमर्शः - घटोऽयं घटोऽयमिति विमर्शनम्, अनुप्राणितभूतः - ग्राहकत्वेन सत्तादायकः, प्रत्याभासम् - सर्वेष्वाभासेषु, प्रत्येकं प्रधानतया यत्र तेषां योजनारहितं यथास्वं ग्रहणम् इत्यर्थः | तदा - तस्मिन्काले, परापरसामान्यग्रहणम् - सत्तारूपगोत्वादिरूपसामान्यद्वयग्रहणम्, सदितिग्रहणेन सत्ताग्रहणम् पृथक् पृथगेव, अत्रेदं सदिति योजनाराहित्यात्, तथापरसामान्ये देशकालग्रहणं पूर्ववदेव पृथक् पृथक्, गौरिति गोजातिग्रहणम्, शुक्लेति शुक्लत्वजातिग्रहणं चलेति चलनत्वग्रहणम्, डित्थेति डित्थत्वग्रहणम् पृथक्पृथगेवायमत्र गौः शुक्लश्चलो डित्थसंज्ञ इति योजनयाऽग्रहणात् | पुनः पक्षान्तरे, गुणप्रधानतापादनेन - विशेषणविशेष्यभावसंपादनेन, अत्र - अस्मिन्देशे काले च, इदम् - एतद्वस्तु, इत्थम् - एतैर्गुणैर्युक्तम्, मिश्रणाप्राणः - योजनाप्राणः, स्वलक्षणम् - असाधारणं स्वरूपम्, तदन्यस्य तद्देशादिविशेष्यत्वासंभवात् इति भावः | अपेर्भिन्नक्रमत्वं दर्शयन् अनुसन्धानसाधिते इति व्याचष्टे अनुसन्धानेन इति | अनुसन्धानेत्यवयवं व्याचष्टे मिश्रता - इति | सप्तमीयोजनं करोति तत्र इति | अति - स्वलक्षणात्मा तत्र एकस्मिन्नपि सति रुचि - स्वातन्त्र्यम्, अर्थित्वम् - अर्थक्रियाभिलाषपरवशताम्, व्युत्पत्तिं - वृद्धव्यवहारशरणतां च अनतिक्रम्य भिद्यत एव आभासः || ३ || क्व यथा इति निदर्शयितुम् आह - दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः | यथाभासा विभिद्यन्ते देशकालविभेदिनः || ४ || दुर्बोधत्वेन पुनर्योजनां करोति एकस्मिन्नपि [तत्रैकस्मिन्नपि - C.] इति | एवमत्र स्फुटा योजना | अनुसन्धानसाधिते एकस्मिन्नपि वस्तुनि सति देशादिधर्ममिश्रीकारेण स्वलक्षणे एकत्रापि सति, यथारुचि - रुच्यनुसारेण, तथा यथार्थिस्वार्थित्वानुसारेण, तथा यथाव्युत्पत्ति - प्रसिद्ध्यनुसारेण, अर्थात्तस्मिन्नेकत्र वस्तुनि आभासा भिद्यन्ते, अन्यथा हर्षचरिते एकस्य श्रीकण्ठाख्यजनपदस्य संगीतशालादिभावेन वर्णनायोगात् | तथा च प्रत्याभासं भिन्नस्य स्वलक्षणस्यापि एकाभिधानविषयत्वमवतरणिकायां शङ्कितं तद्द्वारेण प्रमाणस्य प्रत्याभासविषयत्वकथनायोग्यत्वं स्वलक्षणस्यैव प्रमाणविषयत्वापादनं च युक्तमिति भावः || ३ || अथ चतुर्थस्य पंचमस्य च श्लोकस्यावतरणिकां करोति - क्व यथा इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे दीर्घ इति | तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः | आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः || ५ || इह तावत् एकस्मिन्नपि चेतनतया प्रसिद्धे पुरुषस्वलक्षणे विततदेशव्यापितां दीर्घतामेव कदाचित् विमृशति, या तरुणामपि अस्ति, निःसंधिबन्धनरूपतां [निःसन्धिबन्धरूपताम् - K. ष्. ष्.] वा वृत्ततां या शिलानामपि संभविनी, ऊर्ध्वदिगाक्रमणरूपां वा ऊर्ध्वतां या स्थाणोरपि संबन्धिनी, गमनागमनादिस्वतन्त्रभावयोग्यतारूपं वा पुरुषत्वं यद् अन्यपुरुषसाधारणम् | तथा हि - स्वतन्त्रया वा इच्छयां रुचिरूपया यावदेवं कुर्यात् [रुचिरूपया एवं कुर्यात् - K. ष्. ष्.] यथोक्तम् या त व्याक्षेपसारत्वाच्चेतसः स्वरसोद्गता अत्र टीका - दीर्घ इति समासावयवं व्याचष्टे इह इति | पुरुषस्वलक्षणे - पुरुषस्यासाधारणे स्वरूपे | यद्यपि स्वलक्षणस्य चेतनत्वं न युक्तं तथापि लक्षणयैवमुक्तम् | विततदेशव्यापिताम् - विस्तीर्णदेशव्यापित्वरूपाम्, दीर्घो हि विततदेशव्यापको भवति, अन्यथा दीर्घत्वायोगात्, कदाचित् - तद्रुचित्वादियुक्तत्वावस्थायाम् [तदुचिताद्यवस्थायाम् - C.] | ननु सा दीर्घतैव तस्य स्वरूपं भवत्वित्यत आह या इति | तथा च न तस्या एतत्स्वरूपत्वं युक्तमिति भावः | वृत्त इत्यवयवं व्याचष्टे निःसन्धि इति | निःसन्धिबन्धनरूपताम् - एकघनतारूपाम्, ऊर्ध्वताम् - उन्नतत्वम्, गमनागमनादिषु यः स्वतन्त्रभावः - स्वतन्त्रता तत्र या योग्यता सा रूपं यस्य तादृशम् | अत्र समर्थनमुपक्रमते तथा हि इति | स्वतन्त्रया इच्छया - प्रयोजनानुसन्धानविरहितेन इच्छा मात्रेण | रुचि इति | यावदेवं कुर्यात्, दीर्घोऽयमित्यादि व्यवहारं कुर्यात् इत्यर्थः | अत्र वृद्धवाक्यमुदाहरति यथोक्तम् इति | अत्रायमर्थः | सा रुचिर्भवति | सा का ? या चेतसः - मनसो व्याक्षेपसारत्वात् - व्याकुलतासारत्वात्, व्याकुलतावशेन, स्वरसोद्गता भवति - प्रयोजनमनपेक्ष्योद्गता इति | विततदेशव्यापिन एव वा अर्थान् [अर्थात् - K. ष्. ष्.] तिरोधिलक्षणाम् अर्थक्रियाम् अर्थयमानो विभजेत्, एवं व्यवहारे वृद्धैः कीदृक् दीर्घं नाम गीयते इति व्युत्पित्समानो व्युत्पादयितुमुच्छुः वा विभागं कुर्यात् | इत्येवंतत्र आभासानां भेदः | एकस्वलक्षणं तु - एकस्मिन् देशाभासे कालाभासे च विश्रान्तेः, देशकालाभासावेव हि सामान्यरूपताप्रयोजकव्यापित्वनित्यत्वखण्डनाविधानसविधवृ त्ती विशेषरूपतां बितरतः | एवं पुरुषत्ववत् अन्येऽपि ब्राह्मणाद्याभासा अपि निरूप्याः, एवम् अत्र तावत् प्रसिद्धतर आभासभेदो - जडाजडसाधारणबहुतरधर्मास्पदत्वात् भवतीति यावत् | कदाचिद्धि पुरुषो व्याकुलतावशेन प्रयोजनमनपेक्ष्य येन तेन शब्देन व्यवहरति, स व्यवहारश्चाभासपूर्वएव, अन्यथोच्चारासंभवात् | इति शब्दः समाप्तौ | विततदेशव्यापिनः - दीर्घान्, अर्थान् - वस्तुनः, तिरोधिलक्षणाम् [तिरोधिलक्षणा सन्तवानरूपाम् - C.] - अन्तर्धानरूपाम्, अर्थयमानः - कांक्षमाणः, एवम् - दीर्घोयमिति, इति व्युत्पित्समानः - एवं स्वयमेव स्वस्य व्युत्पत्तिं कर्तुमिच्छन् | इति किमिति ? वृद्धैः - कर्तृभिः, दीर्घ नाम - दीर्घाख्यं वस्तु, कीदृक् - कीदृशम् गीयते इति | वा पक्षान्तरे | अन्यं व्युत्पादयितुम् - व्युत्पत्तियुक्तं कर्तुम् इच्छुः सन्, विभागं कुर्यात् - दीर्घोऽयमिति विभजनं कुर्यात् | एतेन व्युत्पत्तिकरणसमये एव व्युत्पत्तेराभासकारणत्वमिति सूचितम् | उपसंहारं करोति इत्येवम् इति तत्र - एकस्मिन् पुरुषस्वलक्षणे | ननु तर्हि एकत्वं न युक्तमित्यपेक्षायां मध्ये देशकालविभेदिनः इति पदं व्याचष्टे एक - इति | विश्रान्तेः, इदमत्रस्थितमिति प्रतीतिविश्रामादित्यर्थः | कुत इत्यपेक्षायामाह देश इति | सामान्यरूपताप्रयोजके ये व्याप्यत्वनित्यत्वे तयोर्यत् खण्डनाविधानम् - परिमिततापादनद्वारेण नाशनं तस्य सविधा वृत्तिः - व्यापारः यस्य तौ | तत्र देशेन व्याप्यत्वखण्डना कालेन नित्यत्वखण्डनेति क्रमो ज्ञेयः | विशेषरूपताम् - स्वलक्षणताम्, पुरुषगतेष्वन्येषु धर्मेष्वपि अमुं न्यायमतिदिशति एवम् इति | प्रसिद्धतरः - अतिशयेन प्रसिद्धः | कुत इत्यपेक्षायां हेतुमाह जडा इति | जडाजडसाधारणः - चेतनेषु पुरुषादिषु तर्वादिषु [तरु......... C.] अचेतेनेषु च त्वात्, अनेन निदर्शनेन धूमेऽपि धूमत्वचान्दनत्व- श्रीखण्डचन्दनोत्थितत्वादयः [चन्दनत्व - K. ष्. ष्.] प्रसिद्धा आभासभेदा विभजनीयाः | प्रसिद्धेन दृष्टान्तेन अप्रसिद्धभागोऽपि यो घटः तत्रापि आभासभागभेदो भवति, तथाहि - किंचिदपि अत्र नास्ति इति हृद्भङ्गमिव आपद्यमानो घटं पश्यन् साधारणत्वेन स्थिताः ये बहुतरधर्माः - दीर्घत्वादिरूपाः अतिबहवो धर्मास्ते एवास्पदं यस्य स तस्य भावस्तत्वं तस्मात्, तद्विषयत्वादिति यावत् | धूम इत्यादिभागं व्याख्यातुमवतरणिकां करोति अनेन इति | अनेन निदर्शनेन दृष्टान्तेन धूमत्वं च चान्दनत्वम् चन्दनादुत्थितत्वं च श्रीखण्डश्वेतचन्दनोत्थितत्वादयश्चेति विभजनीयाः - रुच्यादिविषयत्वेन विभागविषयीकार्याः, तत्र कृष्णत्वार्थी घूमत्वम्, सौगन्ध्यार्थी चान्दनत्वम् इत्यादिप्रकारेण विभागः कार्यः | प्रसिद्धत्वं चात्र भेदस्य धूमत्वचान्दनत्वादेः भिन्नेन्द्रियग्राह्यत्वेन स्फुटं भिन्नत्वेन भानात्, एकवस्तुगतत्वेन भेदस्य स्फुटतरत्वाभावात्, तरपोऽत्र प्रयोगः प्रसिद्धतरप्रसिद्धदृष्टान्तद्वयावष्टंभेन || ४ || दार्ष्टान्तिकं कथयितुं द्वितीयं श्लोकं व्याचष्टें प्रसिद्ध इति | अप्रसिद्धश्चासौ भागः अप्रसिद्धभागः, अप्रसिद्धत्वं चात्र घटस्यैकत्वेनैव स्फुरणात्, तद्गताभासभेदस्य तु प्राकट्याभावात् [प्रकक्ष्याभावात् - C.] | तत्रापि - तस्मिन् घटेऽपि, आभासभागानाम् - सत्वघटत्वादिरूपाणाम् भेदः | आभासभागभेदमेव दर्शयति तथाहि इति, हृद्भङ्गम् - हृदयभंगम्, आपद्यमानः - प्राप्नुवन्, वस्त्वदर्शनेन अस्ति इदम् इति सत्त्वाभासमेव पश्यति, अपरान् आभासान् नाम्नापि तु नाद्रियते, तथा उदकाहरणार्थी घटाभासम्, स्वतन्त्रनयनानयनयोग्यवस्त्वर्थी द्रव्याभासम्, मूल्याद्यर्थी काञ्चनावभासम्, हृद्यतार्थी औज्ज्वल्याभासम्, आदिग्रहणात् दृढतरभावार्थी दार्ढ्याभासम् इति द्रष्टव्यम्, एवं रुचिव्युत्पत्त्योरपि योजनीयम् | एवम् एते आभासभेदा एव वस्तु आभासमानतासारत्वात् वस्तुतायाः | योऽपि आभासस्य प्राणभूतो विमर्शः सोऽपि प्रत्याभासमेव, शब्दस्य अभिजल्पात्मनो बोधजीवितप्रख्यस्य प्रत्याभासमेव विश्रान्तेः, हि पुरुषस्य हृदयं भज्यते एव, सत्वाभासम् - सत्वरूपमाभासम्, अपरान् - घटत्वादिरूपान्, नाद्रियते इति, तत्सत्तामात्रस्यैवात्रार्थित्व-विषयत्वात् | तथा - तद्वत्, द्रव्यस्य आनयनादियोग्यतामपेक्ष्य [द्रव्यस्यानयतनादि - C.] स्वतन्त्र इत्युक्तम् | आद्रियते इति सर्वत्र योजनीयम् | मूल्याद्यर्थी इति | आदिशब्देन नानाभूषणादिनिर्माणग्रहणम् | औज्ज्वल्य इति | उज्ज्वलो हृद्यो भवति | आदिशब्दग्राह्यं वस्तु कथयति दृढ इति | आदिशब्देन जलमात्रेण शुद्ध्यर्थी जलाहरणयोग्यताभासमित्यादेर्ग्रहणम् | रुचिव्युत्पत्योरर्थित्वयोजनामतिदिशति एवम् इति | एवम् - अर्थित्ववत् | तत्र व्युत्पत्तेः शिक्षाकालमात्रे स्थितत्वात्, रुचेः चित्तव्याक्षेपसारत्वात् | सर्वव्यवहारेष्वर्थित्वस्यैव प्राधान्यात् साक्षाद् योजना दर्शिता | तत्र प्रसिद्धतराऽप्रसिद्धस्थानद्वययोजनेन मध्ये स्थिते प्रसिद्धे स्थाने योजनमप्ययत्नमेवेति ज्ञेयम् | उपसंहारं करोति एवम् इति | कुत इत्यपेक्षायामाह आभास इति | न ह्याभासाविषयीकृतं वस्तु वस्तु भवतीति भावः | नन्वाभासस्यैव एषा वार्ता भवतु तत्समनन्तरभाविविकल्पस्य किं भेदोऽस्ति न वा इत्यपेक्षायां पदं ध्वनेः इति व्याचष्टे योऽपि इति | प्राणभूतः - जीवितभूतः, परामर्शं विना ह्याभासोऽसत्कल्प एवेति भावः | प्रत्याभासमेव इति, भिन्न एव भवतीति भावः | कुत इत्यपेक्षायामाह शब्दस्य इति | अभिजल्पनात्मनः - जल्पनरूपस्य, व्यक्तवाग्रूपस्येति यावत् | एतेन समुद्रघोषादेर्निरासः | विमर्शमूलस्य शब्दस्य प्रत्याभासभेदसाधने विमर्शस्यापि तदयत्नसिद्धमेवेति न कोऽपि विरोधः | सत् घटो लोहितः इत्यादि | अर्थक्रियाकारित्वमपि अन्वयव्यतिरेकाभ्यां प्रत्याभासमेव नियतं - सदाभासेन हृद्भङ्गपरिहारमात्रस्य संपादनात्, तत्र आभासान्तरस्य या अपेक्षा सा अग्न्याभासेन अर्थक्रियायां साध्यायां पात्राभासस्य इव तदाभासनान्तरीयकत्वेन आभासान्तरस्यापि नियतस्य [अनियतस्य - K. ष्. ष्.] अपेक्षणात् | एवं येन येन मुखेन अर्थो विचार्यते तेन तेन आभासमात्रात्मैव तथैव प्रतिभासनात् विमर्शनात् अर्थक्रिया - अथवा ध्वनेरिति ग्रहणादेवमुक्तम् | विश्रान्तिमेवाभिनीय दर्शयति सत् इति | आदिशब्देन द्रव्यमित्यादेर्ग्रहणम्, विश्रान्तिविशेषणत्वेन योजनीयम् | अर्थक्रियाकारित्वस्यापि प्रत्याभासं भिन्नत्वं कथयन् भिन्नार्थकारिणः इति व्याचष्टे अर्थ इति | तत्र यस्यान्वयेन यस्या अर्थक्रियाया अन्वयः यस्य व्यतिरेकेण तु व्यतिरेकः तस्य तत्कारित्वं नियमेनेति संक्षेपः | अत्र हेतुकथनं करोति सदाभास इति | मात्रचा घटाद्याभाससाध्यायाः उदकाहरणाद्यर्थक्रियाया निरासः | ननु तस्य सत्त्वं केनापि उदकाहरणादिप्रयोजनेन कांक्षति इति तत्संपादनमपि सत्वकार्यमेव, यदर्थं हि यदपेक्षते सा तस्यार्थक्रियैवेत्यत आह तत्र इति | तत्र - सत्त्वे, आभासान्तरस्य - उदकाद्याहरणरूपस्य, पात्राभासस्य - इति | अन्यथाऽग्न्यानयनासंभवात् इति भावः | कुत इत्यपेक्षायामाह तदाभास इति | तदाभासेन - सत्त्वाभासेन यत् नान्तरीयकत्वम् - अविनाभावः तेन, नियतस्य - अवश्यंभाविनः, आभासान्तरस्य - उदकाहरणादिरूपस्यान्यस्याभासस्याऽपेक्षणात् | अग्न्याभासेन पात्राभासो नियतोऽपेक्ष्यते एवेति दृष्टान्तीकृतः | प्रक्रियामुपसंहरति, एवम् इति | मुखेन - सत्त्वादिना द्वारेण, अर्थः - घटादिः, आभासमात्रात्मैव - आभासमात्ररूप एव, तथैव - आभास मात्रभावेनैव, प्रतिभासनात् - स्फुरणात्, विमर्शनात् - विमर्शकरणात्, इति करणाच्च इति सिद्धम् | एवं प्रसिद्धतरप्रसिद्धाप्रसिद्धत्वातिशयेन एकोऽपि अर्थो ग्रन्थकारेण त्रैधं निरूपितो दीर्घवृत्तेति धूमेति सद्धटेति || ५ || सिद्धम्, एतत्सिद्धं भवतीत्यर्थः | स्थानत्रयं विभज्य दर्शयितुमुपसंहारं करोति एवम् इति | तत्र प्रसिद्धस्य प्रसिद्धतरेण हस्तादानम्, अप्रसिद्धस्थ तु प्रसिद्धेनेति ज्ञेयम् | रूपत्रयमेव दर्शयति दीर्घ इति | एवमत्र पिण्डार्थः | दीर्घवृत्तोर्ध्वंपुरुषाश्च धूमचान्दनतादयश्च ते यथा प्रसिद्धतरत्वेन स्थिताः दीर्घादिरूपाः आभासाः, तथा प्रसिद्धत्वेन स्थिताः घूमादय आभासाः, देशकालविभेदिनः - देशकालभेदरूपस्य तद्देशत्वेन तत्कालत्वेन च स्थितस्यैकस्य वस्तुस्वलक्षणस्य संबन्धिनोऽपि सन्तः, भिद्यन्ते - रुच्यादिवशेन भेदेन भासन्ते, तथा - तद्वद् तद्दृष्टान्तेनेति यावत्, अप्रसिद्धाः सद्धटद्रव्यकाञ्चनोज्ज्वलतादयः आभासभेदाः भिद्यन्ते - रुच्यादित्रयवशेन भेदभासादयन्ति | तत्र दीर्घादीनां कदाचित् रुच्याऽऽभासनं कदाचिदर्थित्वेन कदाचिद्व्युत्पत्या | तत्र तेषां दीर्घादीनाम् आभासानां धूमाद्याभासानां च रुचौ अन्यथात्वम्, अर्थित्वेऽन्यथात्वम्, व्युत्पतौ चान्यथात्वम्, रुचौ हि निष्प्रयोजनं तथा स्फुरणम्, कथम् ? .....ऽर्थित्वे अतिप्राप्यत्वेन, व्युत्पत्तौ शिक्षामात्रार्थमेव, यथात्र व्युत्पन्नः स्यादिति | इति सर्वत्र रुच्यादित्रययोजनं कार्यम् | तत्र रुचिः - निष्प्रयोजनं वस्तुनो ज्ञाने निर्देशे वा, अर्थित्वम् सर्वव्यवहारेषु, व्युत्पत्तिः शिक्षाग्रहणसमये शिक्षादानसमये चेति | तथा ते - आभासभेदाः, भिन्नार्थकारिणः - भिन्नार्थक्रियाकराः, तथा, ध्वनेः शब्दस्य तन्मूलस्य विमर्शस्य च पदं - विषयः भवन्ति, दीर्घस्य तिरोधानरूपार्थक्रियाकारित्वाद्दीर्घोयमिति विमर्शेन ग्रहणात् दीर्घोऽयमिति शब्दविषयत्वाच्च | एवं सर्वत्र ज्ञेयम् | ४ | ५ | ननु एवं प्रत्याभासमेव वस्तुत्वे एको घटात्मा न वस्तु स्यात् इत्याशंक्याह आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः | सामानाधिकरण्येन प्रतिभासादभेदिनाम् || ६ || आभासानां मिश्रं यद्रूपं तत्र अवश्यं कश्चिदाभासः प्रधानत्वेन अन्याभासानां विश्रान्तिपदीकार्यः [विश्रान्तिपदीकर्तव्यः K. ष्. ष्.] स तेषां समानमधिकरणम्, तेन अथ षष्ठस्य श्लोकस्यावतरणिकां करोति नन्वेम् इति | स्पष्टम् | एवम् - वतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे आभास इति | अत्र टीका :- प्रथमं सामाधिकरण्येन इति पदं व्याचष्टे आभासानाम् इति | मिश्रम् - मिश्रतया स्थितम्, स्वलक्षणरूपमिति यावत् | तत्र - तस्मिन्मिश्रखपे, विश्रान्तिपदीकार्यः - विश्रान्तिस्थानतया भावनीयः, हृद्भंगनिवृत्यर्थित्वे सत्वाभास इव घटाभासादीनाम्, अथवा उदकाहरणार्थित्वे घटाभास इव सत्वाभासादीनाम् | सः - प्रधानीकृत आभासः, तेषाम् तद्व्यतिरिक्तानामाभासानाम् | समानमधिकरणम् एकं स्थानं तत्रैव धर्मत्वेनारोपणात् | तद्धितप्रत्ययव्याख्यां करोति तेन इति | तेन - समानाधिकरणेन, सह तेषाम् - आधेयभूतानामाभासानाम्, यः संबन्धः - आधाराधेयभावाख्यः | तृतीयायोजनं करोति तेन सह यस्तेषां संबन्धः तत् सामानाधिकरण्यम्, तेन उपलक्षितो यः प्रतिभासः - अर्थोन्मुखः प्रकाशः तदनुप्राणकश्च [तदनुप्राणकश्च कश्चन पदात्मा - K. ष्. ष्.] नपदात्मा परामर्शः - तस्य सर्वस्य एकाभासविश्रान्ततानियमात्, तस्मात् तं सामानाधिकरण्याभासं समनुप्राणयति यो वाक्यात्मा वाक्यार्थपरामर्शरूपो विमर्शः - इह इदानीं एष घटोऽस्ति इत्येवंरूपः ततो हेतोः ये अभेदिन इति | उपलक्षितः - विशिष्टीकृतः | एतेनोपलक्षणे इयं तृतीयेति द्योतितम् | प्रतिभासात् इति पदं व्याचष्टे अर्थोन्मुखः इति | अर्थोन्मुखः - अर्थं विषयीकर्तुं प्रवृत्तः, प्रकाशाव्यभिचारेण विमर्शस्यापि ग्रहणं करोति तदनु इति | तदनुप्राणकः - प्रकाशस्यासत्कल्पतानिवारकः, [असत्कल्पनिवारकः - C.] यः नपदात्मा - नपदम् आत्मा रूपं यस्य सः नपदात्मा, परामर्शः - विमर्शः | कुतो नपदात्मेत्यपेक्षायामाह तस्य इति | तस्य सर्वस्य - पदात्मनः परामर्शस्य, एकाभासविश्रान्ततानियमात् - वाक्याभासरूपैकाभासविश्रान्तत्वनियमात्, न हि पदस्य स्वरूपे प्राधान्यं तस्य वाक्ये ब्रुडितत्वात् इति भावः | तर्हि किंरूपः स परामर्शः इत्यपेक्षायामुपसंहाररीत्या कथयति, तस्मात् इति | तस्मात् - ततः कारणात्, सामानाधिकरण्याभासम् - उपलक्षणत्वेन स्थितं पूर्वोक्तं सामानाधिकरण्याभासम्, समनुप्राणयति - पुष्टीकरोति, यो वाक्यात्मा - वाक्यसंस्कारत्वेन स्थितः, वाक्यार्थपरामर्शरूपो विमर्शः - परामर्शस्तदनुप्राणकः पदात्मपरामर्शव्यतिरिक्तः, वाक्यात्मा च यः परामर्श इति यावत् | वाक्यात्मानं परामर्शमेवानुकृत्याह इह इति | इह अस्मिन् देशे, इदानीम् - अस्मिन् काले, एषः - एवंगुणकः, घटः अस्ति | तत्र इहेति देशाभासः, इदानीमिति कालाभासः, एष इति गुणाभासः, घट इति जात्याभासः | अत्र च घटाभासस्यैव समाना एकस्वलक्षणताम् प्राप्ता [एकस्वलक्षणतामाताः - K. ष्. ष्.] न च स्वरूपभेदम् [न तु - K. ष्. ष्.] उज्झन्तः तेषाम् अन्या विशिष्टा समुदिता [समुदितरूपा - K. ष्. ष्.] अर्थक्रिया | आभासविमर्शभेदे पुनरन्या नियता एकैकमात्ररूपा | आभासप्रतिभासशब्दाभ्यां सूत्रे विमर्शोऽपि आक्षिप्तो मन्तव्यः | पुनः शब्दो विशेषद्योतकः काकाक्षिवत् उभयत्र धिकरणत्वं | तदाश्रयत्वेनैवान्याभासस्थापनात् | यो ये इत्यस्य द्वयस्याकांक्षां पूरयन् प्रतिभासात् इति पंचमीयोजनां करोति ततः इति | ततः - प्रतिभासाद्वाक्यात्मकपरामर्शाच्च हेतोः | अभेदिनाम् इति व्याचष्टे एक इति | एकस्वलक्षणतां प्राप्ताः - देशादिमिश्रतावशेनैकस्वलक्षणभावं गताः | ननु तर्ह्येकत्वमेव तेषां भवतु इत्यत आह न च इति | नचोज्झन्त इति योजना, देशादीनां पृथगेव स्फुरणादिति भावः | षष्ठीयोजनं करोति तेषाम् इति | वस्तूनाम् इति | प्रसिद्धत्वेन न व्याख्यातम् | अन्यशब्दार्थवाचि पुनः शब्दं व्याचष्टे अन्या इति | पुनः अन्या, प्रत्येककार्याय [प्रत्येककार्यायाभिन्ना - C.] भिन्नेति यावत् | अत - एव विशिष्टा तथा समुदिता कुत्रापि न नियमिता, सर्वांभाससाध्यत्वेनाभिमतेति यावत् | अर्थक्रिया भवति | आभासभेदात्पुनर्नियतार्थक्रिया इति व्याचष्टे आभास इति | आभासविमर्शभेदे सति अन्या नियता एकैकमात्ररूपा - प्रत्येकं भिन्नस्वरूपार्थक्रिया भवति | इह तु विमर्शः पदसंस्काररूप एव ज्ञेयः एकाभासोत्थितत्वात् | ननु सूत्रे विमर्शस्य नामापि न गृहीतमिति कथं व्याख्यायां तस्य योजनं कृतम् इत्यत आह आभास इति | आक्षिप्तः - अनुप्राणकत्वेनाक्षेपविषयतां नीतः | नन्वेक एव पुनः शब्दो दृश्यते, व्याख्यायां कथं द्विर्योजित इत्यत आह पुनः शब्दः इति | उभयत्र - समुदितनियमितार्थक्रियारूपे योज्यः | बहुवचनेन ऐक्येऽपि स्वरूपभेदापरित्याग उक्तः, तत्र च ऐक्यावभासे परतन्त्रं सत् पृथक्त्वं यदा आभासानां तदा समानरूपव्यक्त्युपरञ्जकत्वेन पारमार्थिकं सामान्यरूपत्वम्, घटाभासस्य तु शुद्धस्य स्वतन्त्रपरामर्शे योग्यतामात्रेण सामान्यरूपता न वस्तुतो - स्थानद्वये | अभेदिनाम् इति बहुवचनाभिप्रायमाह बहुवचनेन इति | अन्यथैकत्वमेवात्रयुक्तं स्यादित्यर्थः | एवमत्र योजना - सामानाधिकरण्येनोपलक्षितात्प्रतिभासात् - प्रतिभासविमर्शैक्याद्धेतोरभेदिनां वस्तूनामर्थक्रिया पुनरन्या समुदिता भवति, तथाभासभेदात् - आभासपरामर्शभेदात् पुनः अन्या नियता भवति, इति पुनःशब्दस्य द्विर्योजना [हति पुनःशब्दस्य त्रिर्योजना - C.] | प्रत्याभासं स्थितस्य आभासमिश्रीभावेन लब्धसत्ताके स्वलक्षणे स्थितस्य सामान्यद्वयस्य योग्यतामात्रेण साक्षाच्च सत्त्वं कथयति तत्र इति | तत्र - प्रत्याभासस्थितस्वलक्षणस्थितसामान्य-द्वयमध्ये, यदा ऐक्यावभासे - प्रत्येकं देशादीनामैक्यावभासे देशोऽयं देशोयम् इत्यादिरूपे, आभासानाम् - देशादिरूपाणां प्रत्येकं स्थितानामाभासानां सत् - वर्तमानम्, पृथक्त्वम् - प्रत्येकभावः, स्वे स्वे रूपे निष्ठत्वमिति यावत् | परतन्त्रं - धर्मतया भासनं भवति, तदा समानरूपा या व्यक्तयः - बहिःस्थिता - आधारभूता व्यक्तयः, तासामुपरञ्जकत्वेनस्वविशिष्टीकरणेन, पारमार्थिकम् - सहजम्, सामान्यरूपत्वं भवति सामान्यस्य द्रव्यादिनिष्ठत्वेनैव स्थितत्वात्, देशत्वं नाम सामान्यं हि देशाख्यव्यक्तिरूपद्रव्यपरतन्त्रमेव दृश्यते, न च व्यक्तेरेव स्वलक्षणत्वं वाच्यम्, तस्य प्रमातृकृतदेशकालयोजनाप्राणत्वात्, अस्यास्तु बहिःस्थितत्वात्, अन्यथा सामान्यव्यङ्जकत्वायोगात् | तु व्यतिरेके, शुद्धस्य - अन्याभाससमानाधिकरणत्वेनास्थितत्वात् [अन्याभाससमानाधिकरणत्वेन स्थितत्वात् - C.] तद्भेदामिश्रस्य, घटाभासस्य - उदकाहरणार्थित्वादिना प्रधानतया स्थितस्य घटाकारस्याभासस्य, घटस्वलक्षणस्येति यावत् | स्वतन्त्रपरामर्शे - पृथग्वस्तुत्वाभासेन धर्मितया परामर्शे सति, योग्यतामात्रेण - केवलया योग्यतया, भाविनि स्वाभाविकधर्मतया भाने समुचितत्वेनेति यावत् | सामान्यरूपता द्रव्यादन्यो हि सर्वः पदार्थः परतन्त्रतासारः, एवम् एकोऽपि घटात्मा च इत्यपि [एकोऽपि घटात्मा इत्यपि - K. ष्. ष्.] सत्यमेव - आभासविमर्शार्थक्रियाबलेन तथा व्यवस्थापनात् [तथा अवस्थापनात् - K. ष्. ष्.] इति || ६ || ननु एकेनैव अर्थक्रिया न तत्र, अपि तु आभाससमुदायात् अर्थक्रियासमुदायः, आभासाश्च भिन्ना अपि यदि एकाम् अर्थक्रियां कर्तुं मिश्रीभवन्ति, तदा कस्तेषाम् इयत्तावधिः इति चोद्यम् अपवदति | पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा | अविरुद्धावभासानामेककार्या तथैक्यधीः || ७ || भवति, वस्तुतः - परमार्थतो न भवति, योजनाप्राणधर्मितया भानरूपेऽस्मिन्काले न भवतीति यावत् | समानव्यक्तिगतस्य धर्मस्यैव पारमार्थिकसामान्यरूपत्वात् | कुत इत्यपेक्षायामाह द्रव्यात् इति | अन्यः - गुणादिरूपः, तथा च सामान्यस्यापि द्रव्यान्यत्वेन परतन्त्रत्वमेव युक्तमिति भावः | फलितं स्वाभीष्टमुपसंहरति एवम् इति | घटात्मा च - घटस्वरूपं च, अपिशब्देन भिन्नतया स्थितानामाभासानां पारमार्थिकं सत्यत्वं द्योतयति | अत्र हेतुमाह आभास इति | आभासः - घटप्रकाशः, विमर्शः - घटपरामर्शः | अर्थक्रिया-उदकाहरणम्, तासां बलेन, तथा व्यवस्थानात् - एकत्वव्यवस्थितेः | इति शब्दः श्लोकव्याख्यासमाप्तौ || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका - आभाससमुदायात् - आभाससमूहात्, तेषां - आभासानाम्, इयत्तावहिः - मिश्रीभावावसानमर्यादा, केषांचिदेव कुत्रचिदेव मिश्रीभाव इति यावत् | चोद्यम् - शिष्याक्षेपम्, अपवदति - प्रतिसमाधत्ते [प्रतिसमादधते - C.] | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे पृथक् इति | पृथक् वतिन्यो याः प्रदीपस्य प्रभाः सूक्ष्मतमावलोकनसामर्थ्या [सूक्षमतमा अवलोकनसामर्थ्या - K. ष्. ष्.] धानलक्षणां याम् अर्थक्रिया न कृतवत्यः तामेव एकभवनाभ्यन्तरं संमूर्छितात्मानों विदधते, न तत्र अर्थक्रियाणां समुदायोऽस्ति | सागरपतितानि च स्रोतांसि वहुतरतरङ्गारंभार्थक्रियाकारीणि | तद्वत् घटः काञ्चनो लोहितः ततोऽयं शिवलिङ्गशिरोमार्जनोचितसलिलाहरणार्थक्रियोचितो [शिवलिङ्गशिरःसमावर्जनोचितसलिल - K. ष्. ष्.] दृष्टमात्र एव तीव्रप्रीतिलक्षणार्थक्रियाकारी; इति सिद्धमेवार्थक्रियाकारित्वम् | यत् पुनराभासानां मिश्रणे का सीमा इति ? तत्र उच्यते - येषाम् अविरोधः त एव आभासा मिश्रीभवन्ति, नहि रूपाभासो मारुताभासेन मिश्रीभवति - विरोधात्, सोऽपि च नियतिशक्त्युत्थापितः | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति पृथक् इति | सूक्ष्मतमस्य - अतिसूक्ष्मस्य यदवलोकनम् दर्शनम् तत्र यत्सामर्थ्याधानम् - समर्थतासंपादनम् - , तत् लक्षणम् स्वरूपं यस्यास्तादृशीम्, न कृतवत्य - नाकुर्वन्, तामेव - सूक्ष्मतमावलोकनसामर्थ्याधान-लक्षणामर्थक्रियामेव, संमूर्छितः - समुदायस्थित्या वृद्धिं गत आत्मा यासां तादृश्यः, विदधते - कुर्वते | एकं दृष्टान्तमुक्त्वा द्वितीयमपि कथयति सागर इति | बहुतरतरङ्गाणां य आरम्भः स एव अर्थक्रिया तां कुर्वन्तीति तादृशानि भवन्ति इति संबन्धः | दृष्टान्तद्वयमुक्त्वा दार्ष्टान्तिकं कथयति तद्वत् इति | अयं घटः शिवलिङ्गशिरसो यन्मार्जनम् क्षालनं तत्रोचितं यत्सलिलं तस्य यदाहरणम् तदेवार्थक्रिया तत्रोचितो योग्यः, शिवलिंगे काञ्चनघटेनैव स्नानस्य विहितत्वात् | दृष्टमात्र एव - केवलं दृष्ट एव, एकार्थक्रियाकारित्वम् इति, समुदायस्येति शेषः | समुदायादेकामर्थक्रियां सदृष्टान्तमुक्त्वाऽऽभासानां मिश्रीभावे इयत्तावधिं कथयति यत्पुनः इति | सीमा - मर्यादा | इयत्तावधिरिति यावत् | येषाम् - येषामाभासानाम् | सामान्यं विशेषेण समर्थयति नहि इति | विरोधात् इति, वायो रूपराहित्यादिति भावः | ननु कथं मारुतरूपयोर्विरोधोऽस्तीत्यत आह सोऽपि च इति | सोऽपिच - पृथक् ये दीपप्रकाशाः तेषां संबन्धि यदेकं सागरे स्रोतसां च यदेकं वस्तु तेन कार्या यथा ऐक्यघीः तथा अविरुद्धा ये अवभासा घटलोहितकाञ्चनादयः तेषां संबन्धि यदेकं स्वलक्षणं तत्कार्या ऐक्यधीरिति संबन्धः, ऐक्यधिया - प्रतिभासो विमर्शोऽर्थक्रिया च इति स्वीकृतम् || ७ || नन्वेवं प्रत्याभासं प्रमाणस्य विश्रान्तत्वात् अग्न्याभासे अग्निज्ञानं प्रमाणं धूमज्ञानं च धूमाभासमात्रे कार्यकारणभावावभासोऽपि तावन्मात्रे, ततश्च धूमाभासोऽपि अग्न्याभासं व्यभिचरेत् इत्यादि बहुतरोपप्लवप्रसंगः इति शंकाम् अपोहितुम् [व्यपोहितुम् - ण्. ष्. ष्.] आह विरोधोऽपि च, न च नियतेः पर्यनुयोगो युक्त इति भावः | प्रक्रियां संपाद्य सूत्रयोजनां करोति पृथक् इति | एकं वस्तु इति संबन्धः | वस्तु शब्द उभयत्र स्वलक्षणवाची | तेन - वस्तुना, कार्या - संपाद्या, स्वलक्षणम् - देशकालादियोजनानुप्राणितम् अन्याननुयायि स्वरूपम् | संबन्धः, श्लोकस्येति शेषः | नन्वैक्यधीः स्वलक्षणकार्या भवतु, अर्थक्रिया कथमेका ज्ञेया इत्यत आह ऐक्यधिया इति | ऐक्यधिया कर्त्र्या, इति - एतत् स्वीकृतम् स्वकारणत्वेन लक्षणया गृहीतम् | इति किमिति ? प्रतिभासः विमर्शः अर्थक्रिया इति | तेनैकप्रतिभासः एकविमर्शः, एकार्थक्रिया च एककार्या भवति इति योजनीयम् | प्रतिभासादित्रये एवैक्यधीर्भवति इत्यत्र न कोऽपि विरोधः || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति | अत्र टीका - एवम् - उक्तप्रकारेण, प्रत्याभासम् - प्रत्येकमाभासेषु, तावन्मात्रे - अग्न्याभासधूमाभासकार्यकारणभावाभासमात्रे, ततश्च - ततो हेतोश्च, व्यभिचरेत् इति, भिन्नप्रमाणवेद्यत्वादिति भावः | आदिशब्देनान्येषां व्यभिचाराणां ग्रहणम् | अपोहितुम् [अपोहयितुम् - C.] - दूरीकर्तुम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्र इति | तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता - - तत्तच्छब्दार्थताद्यात्मा प्रमाणादेकतो मतः || ८ || तत्रेति - प्रत्याभासं प्रमाणं विश्राम्यति, इत्यस्मिन्नपि पक्षे न कश्चित् दोषः, तथाहि - - अविशिष्टो यद्यपि वह्न्याभासो देशकालाभासप्रमुखैः आभासैः असंकीर्णत्वेन सामान्यमात्ररूपत्वात् तथापि स एवाभासो यावद्भिराभासैरविनाभूतो भगवत्या नियतिशक्त्या नियमितः तावतोऽवभासान् स्वीकृत्यैव प्रमाणकृतां निश्चयपदवीम् अवतरति | ततश्च [तथा च - K. ष्. ष्.] वह्न्याभास इन्धनकार्यत्बाभासेन धूमकारणताभासेन उष्णस्वभावताभासेन च स्वाभाविकाव्यभिचरितनियमः [स्वाभाविकाव्यभिचरितसाहचर्यः - K. ष्. ष्.] प्रतीयमानो विश्वत्रैव सर्वदैव च तथा प्रतीतो भवति - एकत्वात् तस्य | अस्वाभा - अत्र टीका - तत्र इति पदं व्याचष्टे प्रत्याभासं इति | अपि न कश्चिद्दोषः इति शेषत्वेनाध्याहृतम् | कथं न दोष इत्यपेक्षायाम् अविशिष्टे इत्यादि व्याख्यास्यन् समर्थनमुपक्रमते तथा हि इति | तथाहीत्यस्याकांक्षां पूरयति अविशिष्टः इति | अविशिष्टः - स्वलक्षणतामप्राप्तः | कुतोऽविशिष्ट इत्यपेक्षायां हेतुमाह देश इति | प्रमुख शब्देनाकारादिग्रहणम्, असंकीर्णत्वेन - अमिश्रत्वेन, स एवाभासः - वह्न्याभास एव, आभासैः - कार्यकारणतादिरूपैः, अविनाभूतः - व्याप्तः, तावतः - तान् समस्तान्, प्रमाणकृताम् - प्रमाणसंपादिताम्, निश्चयपदवीम् - प्रमाविषयताम्, अवतरति - अवगाहते, तादृक्स्वभावत्वात् इति भावः, फलितमाह ततश्च इति | ततश्च - तस्माद्धेतोश्च, वह्न्याभासः - वह्निरूपाभासः, बह्नेरिन्धनकार्यत्वम् इन्धनद्योत्यत्वकृतं ज्ञेयम् | स्वाभाविकः - स्वभावादागतः, अत एवाव्यभिचरितो नियमः यस्य सः - स्वाभाविकाव्यभिचरितनियमः, विश्वत्र - सर्वदेशेषु, सर्वदा - सर्वकालेषु, कुतः प्रतीतो भवति इत्यपेक्षायामाह एकत्वात् इति | विकोऽपि यः स्वभावः पुरुषकृतसमयादिमुखप्रेक्षी, तद्यथा - अग्निशब्दवाच्यत्वं घटप्रतिपत्तिकारित्वमित्येवमादिः, सोऽपि एकप्रत्यक्षादेवनिश्चीयते, तस्य हि प्रमातुः कृत्रिमेण इतरेण वा रूपेण आभासान्तरनान्तरीयकतया असौ वह्न्याभासः संविदितः सर्वदेशकालगतः तथा [तथैव संविदितः - K. ष्. ष्.] संविदितः, इति तत्र किं प्रमाणान्तरेण | तस्य तस्य - वह्नेः, एकत्वात् - सामान्यद्वारेण सर्वेषु देशेषु कालेषु चैकतया स्थितत्वात् | एतेन पूर्वार्धव्याख्या संपन्ना | पूर्वार्धेन सह समस्ततया स्थितं तत्तत् इत्याद्युत्तरार्धगतं व्याख्यातुमाह अस्वाभाविकः इति | अस्वाभाविकः - पुरुषकृतसंकेतसिद्धत्वे-नागन्तुकः, स्वभावः - वह्निस्वरूपम्, कथमस्वाभाविकः इत्यत आह पुरुष इति | पुरुषेण - आदिपुरुषेण सामान्यपुरुषेण वा कृतो यः समयः अस्यायमर्थः इत्येवंरूपः संकेतः स आदिर्यस्य बृद्धव्यवहारादेस्तस्य मुखं प्रेक्षते इति तादृशः | कोऽसौ स्वभावः इत्यपेक्षायामाह तद्यथा इति | वह्नेः अग्निशब्दवाच्यत्वं हि पुरुषसमयसिद्धमेव, न सहजम् | आदिशब्दगृहीतं वस्तु कथयति घट इति | प्रदीपभावेन घटप्रकाशकत्वमित्यर्थः | तदपि हि वह्नौ न स्वाभाविकमपि तु नियतिशक्तिकृतत्वात् स्वरूपाद्व्यतिरिक्तमेव, कादाचित्कत्वात्, स्वरूपस्य [रूपस्य च सदा स्थितत्वात् - C.] च सदास्थितत्वात् | इत्येवमादिः - इत्यादिरूपः, आदिशब्देन गन्धरसशून्यत्वादेर्ग्रहणम् | सोअ.पि - यच्छब्दोक्तः सर्वः अस्वाभाविकः स्वभावोऽपि, एकप्रत्यक्षादेव - एकस्मात्प्रत्यक्ष-प्रमाणादेव | कुत इत्यपेक्षायां वाक्येन हेतुमाह तस्य इति | तस्य - वह्निग्राहकतया स्थितस्य, कृत्रिमेण पुरुषसमयमुखप्रेक्षिणा, इतरेण - अकृत्रिमेण रूपेण, उपलक्षितानि यानि आभासान्तराणि - वह्न्याभासादन्ये आभासाः सदाद्याभासास्तैर्या नान्तरीयकता - साहचर्यनियमो व्याप्तिरिति यावत्, तया संविदितः - प्रथमं सम्यग्ज्ञातो भवति, अतः सर्वदेशकालगतः स तथा संविदितः - आभासान्तरनान्तरी यकतया संविदितः स्यात्, इति किं तत्र प्रमाणान्तरेण एकेन प्रमाणेनैव सिद्दत्वात् न किञ्चिदित्यर्थः | तत्तच्छब्दार्थ इत्यस्य समासावयवचतुष्कस्य सूचनीयं वस्तु विग्रहद्वारेण दर्शयति तस्य इति | तस्य तस्य इत्यस्यार्थमाह यथेच्छं पुरुषसमयेन नियुज्यमानस्य शब्दस्य अर्थोऽयं ज्वलद्भास्वराकार आभास इत्यनेन नियतिशक्तिरेव सर्वत्र शरणम् इति पिशुनयति | एतदुक्तं भवति - यत्किंचित् कृत्रिमम् इतरद्वा भावाभासस्य आभासान्तरेण नान्तरीयकतया [नान्तरीयकत्वं - K. ष्. ष्.] प्रतिभाति तत्र नियतिशक्तिमात्रमेव परं विजृम्भते | तत्तु नियतिरूपं [नियतिशक्तिरूपम् - K. ष्. ष्.] पूर्वापरविततकालम् - इन्धनकार्यत्वे घ्हूमकारणत्वे उष्णस्वभावत्वे च आभासमाने, अनतिचिरक्वालं तु वह्न्यादिशब्दवाच्यतावभासादाविति [वह्न्यादिशब्दवाच्यत्वाभासादाविति - K. ष्. ष्.] विशेषः | ततश्च नियतिशक्त्युपजीवनेन धूमाभासोऽपि अग्न्याभासाव्यभिचारी इति न कश्चित् विप्लवः | यथेच्छम् इति | इत्यनेन - एतेन, पिशुनयति - सूचयति, दण्डापूपिकान्यायेनेति भावः | यत्र हि पुरुषकृतया नियत्या शब्दानांस्वार्थे स्थितिः तत्रकः संशयः ईश्वरनियतेराभासमिश्रीभावनियमने इति | एतेनोक्तं वस्तु संग्रहेण कथयति एतत् इति | किमुक्तं भवतीत्यत आह यत्किञ्चित् इति | भावाभासस्य - वह्न्याभासादिरूपस्य पदार्थाभासस्य, नान्तरीयकतया - व्याप्त्या, साहचर्येणेति यावत् | परम् - केवलम् | नियतेर्विषयकृतं विशेषं दर्शयति तत्तु इति | नियतिरूपम् - नियतिशक्तिस्वरूपम् | तत्र इन्धनकार्यत्वे भासमाने पूर्वकालं भवति वह्नेः पूर्वस्थितत्वात्, अन्यथेन्धनकार्यतानियमायोगात्, तथा घूमकारणत्वेऽवभासमाने अपरकालंभवति, अन्यथा घूमकारणत्वं प्रतिकं नियमयेत्, तथोष्णस्वभावत्वेऽवभासमाने विततकालं लक्षणया सर्वकालं भवति, वह्नेः सर्वदोष्णत्वनियमात्, तथा वह्न्यादिशब्दवाच्यतावभासादौ अनतिचिरकालं भवति, अस्य समयस्य मध्ये कल्पितत्वेनानादित्वाभावात् अन्यथा पुरुषकृतत्वायोगात्, इति विशेषः, एवंरूपो विशेषो भवतीत्यर्थः | फलितं स्वाभिप्रायं कथयति ततश्च इति | नियतिशक्त्युपजीवनेन - नियतिशक्त्यपेक्षया, एवमेव नियतेः स्थितत्वात् इति यावत् | विप्लवः - नियमविधुरता | योजनां दर्शयन् प्रथमं कार्यता कारणता उष्णता च तस्य तस्य शब्दस्यार्थता तत्तच्छब्दा-भिधेयता, आदिग्रहणात् - गन्धरसशून्यता ऊर्ध्वदिक्संयोगिता जल-विरोधिता च, इत्येवंभूतो य आत्मा स्वभावो वह्न्यादौ स एकस्मादेव प्रमाणात् मतः - संविदित इति यावत् | अविच्छेदः [अधें छेदः - K. ष्. ष्.] इति काव्ये अयं समयो, न ग्रन्थे, इति द्वितीयतृतीयपादयोः सामस्त्येऽपि अदोषः | पृथग्भावप्रत्ययप्रयोगो वस्त्वन्तरापेक्षानपेक्षातः कृतकत्वाकृतकत्वा-भ्यां वर्गभेदं सूचयितुम् || ८ || कार्यकारण इत्यादिरूपस्य दीर्घसमासस्य विग्रहं दर्शयति कार्य इति | आदिशब्दगृहीतं वस्तु दर्शयितुमाह आदि इति | इत्येवंभूतः - इत्येवंरूपः | आत्म शब्दवाच्यमाह स्वभावः इति | एतन्नये सर्वेषां धर्माणां स्वरूपतानपायात् आत्मशब्दग्रहणम् | बह्न्यादौ इति | आदि शब्देन सर्वेषां पदार्थानां ग्रहणम् | प्रमाणात् इत्येकवचनस्य व्याख्यां करोति एकस्मात् इति | मतः इत्यस्य व्याख्यां करोति संविदितः इति | यावत् शब्दः पर्यायत्व-सूचनार्थः | पूर्वोत्तराऽवस्थितानां शब्दानां समसने दोषं निवारयति, अविच्छेदः कार्य इति शेषः | ग्रन्थे, संग्रहेण महारहस्यवाचके पदसन्-दर्भे इत्यर्थः | अदोषः, दोषाभाव इत्यर्थः | समासान्ते स्थितेनैकेन भाव प्रत्ययेनापि सिद्धौ प्रत्यवयवं स्थितस्य भावप्रत्ययस्याभिप्रायमाह पृथक् इति | भावप्रत्ययप्रयोगः - तलः प्रयोगः, वस्त्वन्तरस्य - समयादेः, वर्गभेदं इति, एवं भावस्वभावव्यवस्थापनं प्रत्याभासविश्रान्तेन एकेन प्रमाणेन [एकेनैव प्रमाणेन - K. ष्. ष्.] क्रियते, तेषामपि आभासानां यथोचितं यदन्योन्यनान्तरीयकत्वं तत् एकेन संवेदनरूपेण तदनेकप्रमि- ताभासविषयपूर्वप्रवृत्तसंवेदनकलापानुप्राणकान्तर्मुखस्व् अरूपेण निश्चीयते, तच्च ऐक्याभासमात्रे अनुसंधानरूपं प्रमाणम्, अनुसन्धीय-मानेषु तु आभासेषु गृहीतग्राहित्वात् अप्रमाणम्, तत्र तु प्रत्येकं प्राच्यमेव प्रमाणम् | भावस्वभावव्यवस्थापनात्मकमानसप्रवृत्त्यतिरिक्तकायप्र- वृत्त्युपयोगस्तु यथा प्रमाणविषयः तं समानां समूहो हि वर्गः, तत्रैव चैको भावप्रत्ययो युक्तः, न विसदृश-समूहे इति भावः | तत्र कार्यकारणभावादेरकृतकत्वम् शब्दाभिधेयत्वादेः कृतकत्वमिति || ८ || अथ नवमस्य श्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका - एवम् - पूर्वश्लोकोक्तप्रकारेण, भावस्वभावव्यवस्थापनम् - वह्न्यादिस्वरूपस्य मर्यादयावस्थापनम्, प्रत्याभासम् - भावगतेषु सर्वेष्वाभासेषु, विश्रान्तेनैकेन प्रमाणे क्रियते पृथक् पृथक् एकैकप्रमाणेन वह्नो इन्धनकार्यतादि - स्वभावव्यवस्थापनात् | तेषाम् आभासानाम् - इन्धनकार्यताद्याभासानाम्, यथोचितं यदन्योन्यनान्तरीयकत्वम् - परस्परं साहचर्यनियमः, तत् संवेदनरू-पेण - संवेदनस्वरूपेण, निश्चीयते, संवेदनरूपेण कीदृशेन ? ते च ते अनेके प्रमिता आभासास्ते विषयाः यस्य तादृशः पूर्ववृत्तः - पूर्वसं-पन्नः, संवेदनकलापःप्रमासमूहः, तस्यानुप्राणकं - सत्तादायि अन्तर्मुखं स्वरूपं यस्य तादृशेन, सकल - विमर्शरूपेणेत्यर्थः | अनुसन्धानरूपम् - पूर्वगृहीताभासयोजनारूपम्, तच्च - संवेदंन-रूपं च, ऐक्याभासमात्रे प्रमाणं भवति, योजनारूपत्वात् | तु व्यतिरेके, अनुसन्धीयमानेषु तु आभासेषु गृहीतग्राहित्वात् अप्रमाणं भवति, ते हि यथास्वं स्वविषयेन प्रमाणेनैव पूर्वं गृहीताः, अनेन त्वनुसन्धी-यन्ते, अन्यथैक्येन ग्रहणासंभवात् | कथम् इत्यपेक्षायामाह तत्र इति | तु शब्दो हिशब्दार्थे, तु - यस्मात् तत्र - तेष्वाभासेषु प्राच्यमेव - ग्रहण- कालीनमेव, प्रमाणं भवति | नन्वेवं सति कायप्रवृत्तिरयुक्तैव, किमर्श-मात्रसाध्यत्वात् अर्थक्रियायाः तस्य च मानसप्रवृत्तिमात्रसाध्यत्वात् इत्यत आह भाव इति | यथा - येन प्रकारेण | प्रकारं दर्शयितुम् आह - सा तु देशादिकाध्यक्षान्तरभिन्ने स्वलक्षणे | तात्कालिकी प्रवृत्तिः स्यादर्थिनः ......................... बाह्य तावत् अर्थक्रिया स्वलक्षणतः, स्वालक्षण्ये च देशकालाभास-योजनस्यैव अन्तरङ्गत्वम् तत्रापि च विशेषरूपतापि परामर्श विना न किंचित्, परामर्शेद्वारेण तु प्रमातरि विश्राम्यन्ती प्रमातुः संवेदनैकरूपस्य देशकालायोगेन ऐक्यात् अभ्युज्झत्येव विशेषरूपताम्, इति सर्वत्र अद्वयं परमार्थतः, तथापि तु या विशेषरूपता भाति तस्यां [तस्याः - K. ष्. ष्.] परमेश्वरस्वातन्त्र्यमेव निमित्तं यत्, तत् मायाशक्तिरित्युच्यते | तत्र एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सा तु इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति बाह्या इति | बाह्या इति, बाह्यवस्तु-साध्यत्वादिति भावः | तावत्, नात्र कस्यापिविप्रतिपत्तिरित्यर्थः | स्वलक्षणतः - देशाद्याभासयोजनासिद्धात् [देशाद्याभासयोजनासिद्धत्वात् - C.], वस्तुनो-ऽन्याननुयायिस्वरूपात्, स्वालक्षण्ये च - स्वलक्षणबावे च, अन्तरङ्गत्वम् - असाधारणकारणत्वम् | देशादियोजनेनैव हि सामान्यं स्वलक्षणीभवति | तत्रापि च - तस्मिन् स्वलक्षणे च, परामर्शं विना - विशेषामर्शनं विना, न किञ्चित् - न किमपि भवति, परामृष्टमेव हि वस्तु स्वरूपं लभते | ननु परामर्शोऽपि भवतु इत्यत आह परामर्श इति | परामर्शद्वारेण - परामर्शमुखेन, संवेदनैकरूपस्य - नित्यव्यापकसंवेदनैकस्वरू-पस्य, देशकालायोगेन - देशाद्यसंबन्धात्, ऐक्यात् हेतोः, सा विशेषरूपता विशेषरूपतामभ्युज्झत्येव - जहात्येव, इति - अतः कारणात्, अद्वयम् - द्वैताभावः परमार्थतो भवति, तथापि तु या विशेषरूपता भाति - वाह्यवस्तुविषयत्वेन स्फुरति, तस्यां यत् परमेश्वरस्वातंत्र्यमेव भवति निमित्तं तत् पण्डितैः मायाशक्तिरित्युच्यते असंभवोपहतवस्तुभानहेतो-रेव मायात्वकल्पनात् | उक्तप्रक्रियावष्टंभेन सूत्रे योजनां करोति तत्र इति | विशेषसाध्यार्थक्रियाविशेषेण योऽर्थी तस्य या स्वलक्षणे तस्मिन् विशेषरूपे अर्थे तत्कालभाविनी वाङ्मनः कायप्रवृत्तिः सा देशे, आदिग्रह-णात् काले स्वरूपान्तरे तदनुसन्धानादौ [स्वरूपानुसंधानादौ - K. ष्. ष्.] च यानि अध्यक्षान्तराणि बहूनि प्रत्यक्षाणि तेषां भिन्ने भेदे निमित्ते सति भवति, न अन्यथा | नैकैकतः प्रमाणात् सा प्रवृत्तिः अपि तु प्रमाणसमूहा-देव | समूहता च परस्य न उपपन्ना, अस्माकं तु एकस्वसंवेदनविश्रान्तिमयी सा तत्र सति | अर्थिनः इति व्याचष्टे विशेष इति | विशेषेण - स्वलक्षणेन साध्यो योर्थक्रियाविशेषः तेनार्थी - अर्थित्वयुक्तः, तत्कांक्षायुक्त इति, यावत् | षष्ठीयोजनां करोति तस्य इति | स्वलक्षणे इति व्याचष्टे तस्मिन् इति | तात्कालिकी इति व्याचष्टे तत्काल इति | ग्रहणकालभाविनीत्यर्थः | प्रवृत्तिः इति व्याचष्टे वाक् इति | प्रवृत्तेस्त्रिविधत्वादेवमुक्तम् | देश इत्यादि समस्तं पदं विग्रहपूर्वं व्याचष्टे देशे इति | आदिशब्दग्राह्यं वस्तु कथयति काले इति | स्वरूपान्तरे - देशादिस्वरूपाद्भिन्ने तदवच्छिन्ने वस्तुस्वरूपे, तस्यैव वस्तुस्वरूपस्य यः अनुसन्धानादिः, आदिशब्देन देशाद्यनुसन्धानग्रहणम्, तत्र अध्यक्षान्त-राणि - ऐक्यग्राहकात् प्रत्यक्षादन्यानि, बहूनि - विषयबहुत्वेन बहुतया स्थितानि, प्रत्यक्षाणि - बाह्ममानसरूपाणि तेषाम् भिन्ने इति व्याचष्टे भेदे इति | एतेन भावे क्तोऽत्रेति विद्योतितम्, निमित्ते सप्तमीति च | संग्रहेणामुमेवार्थ पुनः कथयति नैकैकतः इति | प्रथमं हि पुरुष इह इदानीमयमिति प्रत्येकं देशादिकं प्रमाणैर्गृहीत्वा ततो विकल्पेन सर्वेषां योजनां कृत्वा वागादि-कं तत्र प्रवर्तयति | यद्यपि स्वलक्षणग्रहणमेकस्मादेव प्रमाणात्पूर्व-मुक्तं तथापि मूले स्थितां प्रत्याभासप्रमाणप्रवृत्तिमपेक्ष्येहैवमुक्त-मिति पूर्वापरविरोधो न शंकनीयः | अथवा स्वलक्षणस्य ग्रहणमेकस्मात्-प्रमाणादुक्तम्, प्रवृत्तिस्तु बहुभिः प्रत्यक्षैरिति पूर्वापरविरोधाशंकैव नास्ति, ग्रहणं ह्यापातमात्रेऽपि भवति प्रवृत्तिस्तु मूलविचारानन्तरमेवेत्-यलम् | ननु स्वाभासोऽभिनवोदयः इत्यत्र प्रमाणानांक्षणिकत्वमेवोक्त- मिति कथं तेषां समूहः संभवतीत्यत आह समूहता च इति | परस्य - बौद्धस्य, अस्माकम् - श्रीशिवनये निष्ठितानाम्, सा - समूहता | ननु कुत्रोक्तमित्यपेक्षायां ११५) युज्यते, इति उक्तं प्राक् न चेदन्तः कृता .................| (२|३|७) इत्यत्र | इयमेव च सा प्रमाणानां योजना, योजिका च युक्तिरित्युच्यते | गन्ध-द्रव्यादियुक्तिवत् | एवं प्रत्यक्षसमूहादेव प्रवृत्तिरिति तात्पर्यम् | देशादि-केष्वध्यक्षेष्वपि [देशादिकेष्वप्यध्यक्षेषु सत्सु - K. ष्. ष्.] देशाभासादियोजनायामपि [देशाभासयोजनायामपि - K. ष्. ष्.], अन्तह्. - प्रमातरि अभिन्नं यत् स्वलक्षणं तत्र इति वा संगतिः | देशादिकैरध्यक्षान्तरैः प्रत्यक्षीभूतैराभासान्तरैर्भिन्ने स्वलक्षणे निमित्ते सति प्रबृत्तिः, इति वा योजना | अत्रापि प्रमेयवहुत्वनिरूपणदिशा तदनुयायित्वेन अभिधीयमानः प्रमाणसमूहो निमित्तत्वेन उक्तो भवति | पूर्व व्याख्यातं श्लोकमनुस्मारयति न चेत् इति | अस्मिन् श्लोके हि सर्वसंविन्मयपिण्डमयमेकं तत्त्वमात्मत्वेन साधितम् | तत्रैव च प्रमाणसमूहस्यापि स्थितिर्युक्तैवेति भावः | अस्याः समूहताया एव युक्तिरिति नाम कथयति इयमेव इति | सा - समूहता | अत्र दृष्टान्तमाह गन्ध इति | संग्रहेणास्य श्लोकस्य तात्पर्यं कथयति एवम् इति | देशादिक इति समस्तपदस्यान्यथा योजनां करोति देशादिक इति | देशादिकेष्वध्यक्षेष्वपि देशाभासादियोजनायामपि | अन्तः इत्यस्य व्याख्यां करोति प्रमातरि इति | अभिन्ने एकस्मिन् सति, एतेन कर्मणि क्तप्रयोग इति द्योतितम्, स्वलक्षणे इति निमित्तसप्तमी | सङ्गतिः - संबन्धः | अन्यथा पुनर्योजनां करोति देशादिकैः इति | नन्वनेन व्याख्याद्वयेन किं फलितमित्यत आह अत्रापि इति | अत्रापि - अस्मिन् व्याख्याद्वयेऽपि, तदनुयायित्त्वेन - प्रमेयबहुत्वानुगतत्वेन, अत्रापि प्रत्यक्षसमूहादेव प्रवृत्तिरिति भावः | एतेन अर्थिनः इत्यन्तं व्याख्या संपन्ना | एवमत्र स्फुटा योजना | तु शब्दः एकस्मात् प्रमाणात् कार्यताद्याभासकदंबकात् पक्षान्तरद्योतकः | सा कर्त्री देशादिकाध्यक्षान्तरभिन्नस्वलक्षणे भवति, सा का, या अर्थिनस्तात्कालिकी प्रवृत्तिः स्यादिति | ननु किं प्रात्यक्ष्यामेव प्रवृत्तौ प्रमाणसमूह उपयोगी ? नेत्याह ................... अप्यनुमानतः || ९ || न केवल प्रत्यक्षतः प्रवृत्तिः देशादिकाध्यक्षान्तरभेद- रूपप्रमाणसमूहनिमित्ता यावत् अनुमानतोऽपि तथैव | धूमाभासमात्रे अग्न्या - भासमात्रे धूमस्याग्न्याभासाव्यभिचारित्वे पर्वताभासे च यानि प्रत्यक्षान्तराणि यच्च तद्गृहीतातिरिक्ते अयोगव्यवच्छेदे अग्निरत्र इत्येवंभूते पृथक् अनुमानं प्रमाणम् तत्समूहादेव अर्थिनः तात्कालिकी प्रवृत्तिः इति संबन्धः || ९ || एवं विमर्शबलादेव भेदाभेदव्यवस्था, तदेव हि परमेश्वरस्य संवेदनात्मनः शिवनाथस्य स्वातन्त्र्यशक्तिविजृम्भितम्; ततश्च परैः यत् उच्यते दूरान्तिकादौ अर्थस्य अभेदः इति तदपि उपपद्यते न तु अन्यथा कथंचित्, - इति निरूप्यते | शिष्टस्य अपि इत्यादेः श्लोकखण्डस्यावतरणिकां करोति ननु इति | प्रात्यक्ष्यामेव - प्रत्यक्षसंबन्धिन्यां तदनन्तरभाविन्यामिति यावत् | अत्रोत्तरं कथयति नेत्याह इति | एवमवतरणिकां कृत्वा श्लोकखण्डमुपन्यस्यति अप्यनुमानतः इति | एतद्व्याचष्टे न केवलम् इति | तथैव, देशादिकाध्यक्षान्तरभेदरूप-प्रमाणसमूहनिमित्तैवेत्यर्थः | एतदेव विस्तरेण कथयितुमाह धूम इति | धूमाभासमात्रे - लिंगरूपे, अग्न्याभासमात्रे - व्याप्तिकालीने, धूमाग्न्याभासाव्यभिचारित्वे - साहचर्ये, पर्वताभासे - पक्षे, तेभ्यो गृहीतेभ्यो घूमादिभ्यः अतिरिक्ते - तद्गृहीतातिरिक्ते, अयोगव्यवच्छेदे - अग्न्यसंबन्धव्यावृत्तौ, तद्वत्त्वे इति यावत् | अयोगव्यवच्छेदस्वरूपं दर्शयति अग्निः इति | पृथक् - प्रत्यक्षेभ्यो भिन्नम्, तत्समूहात् - प्रत्यक्षानुमानप्रमाणसमूहात्, इति संबन्धः, अस्य श्लोकखण्डस्यैवं योजना भवति इत्यर्थः || ९ || - अथ दशमस्यैकादशस्य च श्लोकस्यावतरणिकां करोति - एवम् इति | अत्र टीका - एवम् - उक्तन्यायेन, तदेव - विमर्श एव, संवेदनात्मनः - प्रकाशरूपस्य, दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना | वाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा || १० || भिन्नावभासच्छायानामपि मुख्यावभासतः | एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् || ११ || प्रतिभासमात्रेण व्यवस्थां कुर्वंतः कथं दूरादूरयोर्वस्तुनोरभेदः, प्रतिभासस्य सकलासकलावृतानावृतादितया यथाकथंचिदपि भेदात् ? ननु विमर्शेऽपि प्रत्याभासं तथैव भिन्नता, ? सत्यम्, तथापि तु परो यो विमर्शः स एवायं पदार्थः इति एकप्रत्यवमर्शरूपः, तेन प्राणितकल्पेन आ समन्तात् ख्यानं प्रथनं यस्य मुख्यावभासस्य एकरूपभावाभासस्य, परैः - तार्किकैः | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे दूरान्तिक इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति प्रतिभास इति | प्रतिभासमात्रेण - विमर्शरहितेन प्रकाशेन, व्यवस्थाम् - नीलादि-व्यवस्थाम् कुर्वतः बौद्धस्येति शेषः | कुतो नाभेद इत्यपेक्षायामत्र हेतुमाह प्रतिभासस्य इति | तत्र दूरेऽसकलः अदूरे सकलः तथा दूरे आवृतः अदूरेऽनावृतः, आदिशब्देनास्फुटत्वस्फुटत्वयोर्ग्रहणम् [आदिशब्देनास्फुटत्वयोर्ग्रहणम् - C.] | यथाकथञ्चित्, येन केन प्रकारेणेत्यर्थः | अत्र शिष्यः प्रश्नयति ननु इति | तथैव - आभासवत्, सकलादितयेत्यर्थः | उत्तरमाह सत्यम् इति | परः - [परसामान्यरूपः - C.] सामान्यरूपः, कीदृशः, इत्यत आह स एवायम् इति | तेन - परविमर्शेन, प्राणितकल्पेन - सत्कल्पत्वकारिणा, आ इति निपातस्य व्याख्यां करोति समन्तात् इति | ख्या इति कृत्प्रत्ययान्तधातुप्रकृतिं व्याचष्टे ख्यानम् इति | अस्यापि पर्यायमाह प्रथनम् इति | प्रत्यवमर्शेनैव हि अवभासः स्फुरतीति भावः | मुख्यावभास इति व्याचष्टे एकप्रत्यवमर्शे तदुचितोऽपि [अतदुचितः - K. ष्. ष्.] हि अस्त्येकावभासः, आभासविमर्शयोरन्योन्यमवियोगात् | तस्मात् मुख्यावभासादेकत्वमप्रतिहतमास्ते | यदेवानुमितं तदेव दृष्टम्, - इत्यत्र प्रत्यक्षपरोक्षतारूपेणात्मना स्वभावेन भिन्ना अवभासच्छाया अमुख्योऽवभासो येषां तेषाम् एकत्वं मुख्यावभासत एकप्रत्यवमर्शानुप्राणितात्, - इति संगतिः | बाह्यान्तरतया भिन्नावभासानामैक्यं यथा यदेव दृष्टं तदेवान्तरहमुल्लिखामि, - इति | व्यञ्जकानां दीपालोकादीनां दोषैर्भिन्नावभासानाम् ऐक्यम्, यदेव रक्तोत्पलं दीपेन नीलं दृष्टं तदेव सूर्यांशुभिर्लोहितं पश्यामि, इति | एक इति | सामान्यरूपावभासस्येत्यर्थः | नन्वेकरूपोऽवभासो ऽत्र नानुभूयते, इत्यत आह एक इति | हि - यस्मात्, एकप्रत्यवमर्शे - स्फुटमेवानुभूयमाने सोऽयं पदार्थ इति सामान्यप्रत्यवमर्शे, तदुचितः - तद्योग्यः, एकावभासः - सामान्यावभासः अस्त्येव, कुतः, आभासविमर्शयोरन्योन्यमवियोगात्, विमर्शो ह्यवभासं तत्संस्कारं वा बिना नोत्तिष्ठत्येव अवभासोऽपि विमर्शं विनाऽसत्कल्प इति | तसिलो योजनां करोति तस्मात् इति | एकत्वमनिवारितम् इति व्याचष्टे एकत्वम् इति | अप्रतिहतम् - प्रतीघातरहितम्, आस्ते - तिष्ठति | दूरान्तिकतयार्थानाम् इत्यस्यैतेन योजना कृता | एवमत्र संबन्धः | भिन्नावभासच्छायानाम् इति विशेषणमुत्तरत्र व्याख्यास्यमानमपि इहापि युज्यते एव तेनैवं योजना | दूरान्तिकतया भिन्नावभासच्छायानाम् - भिन्नाऽमुख्यप्रतिभासानामपि, अर्थानाम् - नीलादीनाम्, एकप्रत्यवमर्शाख्यात्, अयमिति सामान्यप्रत्यवमर्शवशेन स्फुरितात्, मुख्यावभासतः एकत्वमनिवारितं भवति | एवमुत्तरत्रापि योजना कार्या | परोक्षाध्यक्षतात्मना - इत्यस्य योजनां करोति यदेव इति | संगतिः, अनिवारितम् इत्यनेन संबन्धः इत्यर्थः | बाह्यान्तरतया इति योजयति वाह्य इति | इति शब्दो योजनासमाप्तौ | अत्रापि योजना पूर्ववदेव कार्या | व्यञ्जकस्य दोषैः इति योजयति व्यञ्जकानाम् इति | अन्यथापि वा इति योजयति अन्येनापि [अन्येन वापि - K. ष्. ष्.] प्रकारेण इन्द्रियापाटवादिना एकपार्श्वसंमुखत्वादिना वा येषामवभासच्छाया भिन्ना, तेषामपि मुख्यप्रत्यवमर्शानुवर्त्यवभासस्वरूपबलात् ऐक्यमेव, - इति स्थितम् || १० - ११ || ननु दूरादूरादावस्तु स एवाअर्थः प्रमात्रध्यवसितार्थक्रियांशे तथैवोपयोगात्, बाह्यान्तरत्वादौ कथम्, आन्तरस्यार्थक्रियायां प्रमात्रध्यवसितायामनुपयोगात् - इति भ्रान्तिं भङ्क्तुमाह अन्येनापि इति | अन्यं प्रकारमेव स्फुटयति इन्द्रिय इति | आदिशब्देन व्याध्यादिकृतविकारादेर्ग्रहणम् [व्याख्यादिकृत - C.] | एकस्मिन्पार्श्वे यत् संमुखत्वादि तेन | आदिशब्देन द्वितीयपार्श्ववैमुख्यग्रहणम् | ताभ्यामपि ह्येकमपि वस्तु भिन्नमिव भाति | मुख्यं प्रत्यवमर्शमनुवर्तते इति तादृशं यत् अवभासस्वरूपम् मुख्यावभासस्वरूपम् तस्य बलात्, स्थितम्, स्थितियुक्तं भवतीत्यर्थः || १० || ११ || अथ द्वादशस्य श्लोकस्यावतरणिकां करोति - ननु इति | अत्र टीका - दूरादूरादौ इति | आदिशब्देन परोक्षाध्यक्षत्वग्रहणम् | स एवार्थः, एक एवार्थ इत्यर्थः | कुत इत्यत आह प्रमातृ इति | प्रमात्राऽध्यवसितः - निर्णीतो यः अर्थक्रियांशः तस्मिन्, तथैव - तद्वत्, उपयोगात्, - दूरे परोक्षे वा स्थितं हि अदूरेऽध्यक्षे च स्थितं वा नीलं स्वविषयज्ञानरूपायामर्थक्रियायां हि सदृशमेवोपयोगं करोति, यस्तु मंदत्वादिभेदः सोऽकिञ्चित्कर एव | तु, विशेषे बाह्यान्तरत्वादौ स एवार्थः कथम्, न युक्तमित्यर्थः | कुत इत्यपेक्षायामाह आन्तरस्य इति | नह्यन्तरुल्लिखितोऽग्निः बाह्याग्निसाध्यायां शीतापहरणरूपार्थक्रियायामुपयुक्तो भवतीति भावः | भंक्तुम् - त्रोटयितुम् [तोषयितुम् - C.] | एवमवतरिणकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे अर्थक्रिया इति | अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया | नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् || १२ || इह कार्यकरणता [कार्यकारणतोष्ण - K. ष्. ष्.] (२|३|८) इत्यत्र स्वरूपमिवार्थक्रियापि या मध्ये गणिता, सा सहजार्थस्वरूपभूता न भवति, तत्कारित्वं हि यस्मात् ईश्वरेच्छया नियतं भवने चाभवने च | यतो नैषा स्वरूपं, तेन तस्या अकरणात् हेतोर्भावस्यान्यत्वं नाशङ्कनीयं स्वरूपभेदात् हि संभाव्येतान्यत्वं, न च स्वरूपम् अर्थक्रियाकारित्वम्, - इत्युक्तं वक्ष्यते च बहुशः | स्वरूपं च प्रत्यवमर्शवलादेकमेव बाह्यान्तरादावपि, इति || १२ || अत्र टीका - अर्थक्रिया इति व्याचष्टे इह इति | इह - अस्मिन् शास्त्रे, कार्यकारणता इत्यत्र, तत्राविशिष्टे, इत्यादि श्लोकस्थेऽत्र पदकदंबके, स्वरूपमिव - कार्यतादिस्वरूपवत्, सहजा इत्यस्य व्याख्यां करोति अर्थ इति | न इति व्याचष्टे न भवति इति | ईश्वरेच्छया इत्यादि सा हि इत्यन्तं हेतुत्वेन व्याचष्टे तत्कारित्वम् इति | हि - यस्मात्, तत्कारित्वम् - अग्नेः शीतनिवृत्तिकारित्वम्, निजार्थक्रियेति यावत् | भवने - सत्तायाम्, अभवने च - असत्तायाम् ईश्वरेच्छानियतं भवति तदुक्तम् - दैवं चैवात्र पंचमम् इति | दैवं हि क्रीडाशीलपरमेश्वरसंबन्धी इच्छाविशेष एव देवस्येदमिति योगवलात् | ईश्वरेच्छाप्रेरिता एव हि भावाः स्वसाध्यामर्थक्रियां संपादयन्ति न तु स्वरूपमात्रेण | अन्यथा भावानां वैफल्यं कदापि न स्यात्, दृश्यते च शीतज्वरेऽग्नेरपि शीतनिवारेणे असामर्थ्यम् इत्यलम् | तेन इत्यादि श्लोकखण्डं व्याख्यातुं तेन इत्यस्याकांक्षां पूरयति यत् इति | एषा - अर्थक्रिया, तस्याः - अर्थक्रियायाः, अपि शब्दाद् दूरान्तिकादावपि | इति शब्दः श्लोकव्याख्यासमाप्तौ || १२ || ननु विमर्शबलादेव यदि वस्तूनां भेदाभेदव्यवस्था तर्हि इदानीं त्रिजगति निवृत्ता भ्रान्तिसंकथाः, शुक्तिकायामपि सत्यरजततैव आपतति इदं रजतम् इति विमृश्यमानत्वात्, ततश्च भ्रान्त्यभावे बाधानुपपत्तेः किमर्थमुक्तं मितिर्वस्तुन्यबाधिता (२ | ३ | २) इति | व्यभिचाराभावे हि अबाधिता इत्यस्य विशेषणस्य व्यवच्छेद्यं न लभ्यते, इत्याशङ्कां निरस्यति रजतैकविमर्शेऽपि शुक्तौ न रजतस्थितिः | उपाधिदेशासंवादाद् द्विचन्द्रेऽपि नभोऽन्यथा || १३ || इदं रजतं स्थिरं सर्वंप्रमातृसाधारणम् अर्थक्रियायोग्यम् इति इदमंशे रजताद्यंशेषु तत्संमेलनांशे च आभासविमर्शनबलात् न तावत् किंचित् मिथ्यात्वम् | किंतु उत्तरकालं यो भविष्यति अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति - ननु इति | अत्र टीका - ननु भ्रान्तिसंकथा निवृत्ता भवतु ततः किम् इत्यत् आह शुक्ति इति | आपतति - बलादायाति | कुत इत्यपेक्षायां हेतुमाह इदम् इति | ननु ततोऽपि किम् इत्यत आह ततश्च इति | उक्तम् इति, प्रागिति भावः | अत्र वाक्येन हेतुमाह व्यभिचार इति | व्यवच्छेद्यम् - व्यावर्त्यम्, निरस्यति - दूरीकरोति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे रजतैक इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति इदम् इति | इदमंशे - इदमित्यस्मिन् भागे, रजतादि इति | आदिशब्देन स्थिराद्यंशग्रहणम् | तेषाम् - इदमंशादीनां यः संमेलनांशः सामानाधिकरण्येन योजनरूपो भागः तस्मिन् | किञ्चित् - लेशेनापि, मिथ्यात्वं न भवति इति संबन्धः | प्रकाशविमर्शावेव हि वस्तुस्वरूपव्यवस्थापकाविति भावः | ननु तर्हि सत्यरजतज्ञानात्कोऽस्य भेदः इत्यत आह किन्तु इति | किन्तु - पक्षान्तरे, उत्तरकालम् - बाधकाले, यः भविष्यति विमर्शो नेदं रजतं वस्तु स्थिरं प्रमात्रन्तरगम्यमभिमतकार्यकारि इति तद्विमर्शविमर्शनीयम् यत् तत्पूर्वविमर्शकालसमुचितमेव रूपं तत् तस्मिन् पूर्वविमर्शकाले नैवामृश्यते, भाव्यं च तेनामर्शनीयेन | विमर्शः, किंरूपोसौ विमर्श इत्यपेक्षायामाह नेदम् इति | अभिमतकार्यकारि - रजतकार्यकारि | इति शब्द औत्तरकालिकविमर्शस्वरूपदर्शनसमाप्तिपरः | तत् - सः विमर्शः, विमर्शविमर्शनीयम् - विमर्शेन कृत्वा विचारणीयो भवति | सामान्यत्वेन नपुंसकलिंगेन निर्देशो नायुक्तः अव्यक्तलिंगं लिंगानाम् इति | स्फुटमेव हि बाधोत्पत्तेः पूर्वे तस्य ज्ञानस्य सत्यत्वम्, तदुत्पादनानन्तरं तु तद्विमर्शो युक्तः किमयं बाधः सत्योऽन्यथा वेति | ननु कथं [किमयम् - C.] तद्विमर्शविमर्शनीयं भवतीत्यत आह यत् इति | यत् - यतः कारणात्, अर्थात् तेन उत्तरविमर्शेन | तस्मिन् पूर्वविमर्शकाले, तत्पूर्वविमर्शकालसमुचितम् - तस्य पूर्वकालविमर्शस्य योग्यम् तत् - प्रसिद्धं रूपम्, नैवावमृश्यते - नैवावसीयते, यतः पूर्वस्माद्विमर्शात् नवीनोऽसौ विमर्शो विरुद्ध उत्पद्यते, ततोऽस्य विमर्शो युक्त एव, तदनुकुलोत्पादे तु नास्य विचारो युक्तः स्यादिति भावः | ननु यद्युत्तरकाले विमर्शो नोत्पद्यते तर्हि तस्य पूर्वस्य सत्यत्वं न व्याहन्यते एवेत्यत आह भाव्यं च इति | तेनामर्शनीयेन - विमर्शनीयत्वेनोक्तेनोत्तरकालविमर्शेन भाव्यं च - अवश्यमेव भाव्यम् रजतभावेन गृहीता शुक्तिर्हि न रजतकार्ये समर्थेति रजतार्थिनस्तत्र प्रवृत्तस्य अवश्यमेव नेदं रजतम् [न भेदरजतमिति विमर्शो - C.] इति विमर्शोऽवश्यभाव्येव | यस्तु अनर्थो तृणादिन्यायेन तत्रोपेक्षायुक्तस्तस्य चर्चैव नेह युक्ता [वचैवो नेह युक्तः - C.] | तत्रैव काले नेदं रजतं अभूत् [नेदं रजतं हि अभूत् - K. ष्. ष्.] इति हि उत्तरः परामर्शो न तु उदितप्रत्यस्तमितायां शतह्रदायामिव इदानीमेव इदं न इति विमर्शः; ततो यावता पूर्णेन रूपेण प्रख्यातव्यं विमर्शपर्यन्तं तावत् न प्रख्याति, इत्यपूर्णख्यातिरूपा अख्यातिरेव भ्रान्तितत्त्वम् | तद्वशेन ह्यसद्विपरीतानिर्वाच्यादिख्यातयोऽपि उच्यन्ताम् | अपूर्णख्यातिरूपत्वमस्य शुक्तिकारजतज्ञानस्य साधयति तत्रैव इति | हि - यस्मात्, तत्र - तस्मिन् रजतपरामर्शे, काले - अग्रे नेदं रजतमभूत् इति - इदं रजतं नासीत् किन्तु मया भ्रमेणैव ज्ञातमित्येवमुत्तरः परामर्शो भवति | न तु उदितप्रत्यस्तमितायाम् - क्षणादुत्पन्नविनष्टायाम्, शतह्रदायामिव - विद्युतीव, नेदम् इति - विमर्शो भवति | ततः - ततः कारणात्, यावता पूर्णेन रूपेण - विमर्शपर्यन्तेन इदं रजतम् इति विमर्शपर्यन्तम् - सत्यविमर्शपर्यन्तम्, विश्रान्तिपर्यन्तम् इति यावत्, अग्रे स्थितं वस्तु प्रख्यातव्यम् - प्रकटीकरणीयम् आसीत् तावन्न प्रख्याति - न प्रकटीकरोति भ्रान्तिः, इति - अतः कारणात्, अपूर्णख्यातिरूपा - अपूर्णज्ञानरूपा न तु ख्यात्यभावरूपा, अख्यातिः - अज्ञानम्, भ्रान्तितत्त्वम् - भ्रान्तिस्वरूपं भवति | ख्यात्यभावरूपत्वे तु रजतभावेन ज्ञानमप्ययुक्तमेव स्यात् इति भावः | ईषदर्थेऽत्र नञ् नत्वभावे | नन्वन्ये वादिनो भ्रान्तौ असत्ख्यातित्वादिभावेन व्यवहारं कुर्वन्ति इत्यत आह तद्वशेन इति | तद्वशेन - अपूर्णख्यातिवशेन तैस्तैर्वादिभिः असद्विपरीतानिर्वाच्यादिख्यातयः उच्यन्ताम् का हानिः, अपूर्णज्ञानं त्वत्र तावदस्ति शुक्तेःरजततया ग्रहणात् इति भावः | आदिशब्देनात्मख्यातिग्रहणम् | अत्र वादिनो भ्रान्तेः ननु सत्यरूप्यज्ञानमपि अपूर्णख्यातिः | ततस्तर्हि किम् ? इदम्, अतः सर्वं भ्रान्तिः, - इत्यागच्छेत् | दिष्ट्या दृष्टिरुन्मीलिष्यति [उन्मिमीलिषति - K. ष्. ष्.] आयुष्मतः, मायापदं हि सर्वं भ्रान्तिः, तत्रापि तु स्वप्ने स्वप्न इव ख्यातिपंचकरूपत्वं पृथक् पृथक् कथयन्ति | तत्र शून्यवादिबौद्धमते असत्ख्यातिः | ते हि असत्तत्र रजतं भातीति कथयन्ति | भाट्टादयस्तु विपरीतख्यातिं कथयन्ति, यतस्तेऽन्यदेशकालगतं रजतं तद्विपरीतान्यदेशकालगतत्वेन संस्कारवशेन पुरुषो गृह्णाति इति कथयन्ति | अनिर्वाच्यख्यातिर्वेदान्तिमते, ते तु सदसद्भ्यामनिर्वचनीयत्वमेव भ्रान्तेः कथयन्ति, भानेनाऽसत्त्वायोगात्, हस्तग्रहाभावेन सत्त्वायोगादिति | विज्ञानवादिबौद्धमते आत्मख्यातिः, ते हि आत्मैव भ्रान्तौ बहिर्वस्तुत्वेन भातीति कथयन्ति तदुक्तम् - यदन्तर्ज्ञेयतत्त्वं तद्वहिर्वदवभासते इति | सुशिक्षितमते तु अपूर्णख्यातिरूपा अख्यातिः | इयमेव च ग्रन्थ - कर्तुरिष्टा इत्यलं प्रपंचेन | अत्र मध्ये शिष्यः प्रश्नयति ननु इति | अपूर्णख्यातिः - अपूर्णख्यातिरूपमेव भवति, परप्रकाशरूपताज्ञानस्यैव पूर्णख्यातित्वादिति भावः | गुरुरपि शिष्यीभूय पृच्छति ततः इति | तर्हि - यद्येवं भवेत्, ततः किम्, को दोषः स्यादित्यर्थः | शिष्यो दोषमाविर्भावयति इदम् इति | अतः इति - इदम्, आगच्छेत्, इतीदं किम् ? सर्वं भ्रान्तिः - भासमानं समस्तं वस्तुजातं शुक्तिकारूप्यन्यायेन भ्रान्तिर्भवति | गुरुरिष्टापत्तिं सूचयन् शिष्यस्य प्रोत्साहनण् करोति दिष्ट्या इति | दिष्ट्या, आनन्दे, आयुष्मतः - तव, दृष्टिः - पूर्णदृष्टिः, उन्मीलिष्यति - प्रकटीभविष्यति, सर्वपदार्थविषयायाः भ्रान्तेस्तर्कि तत्वात् | आगच्छेत् इति तर्करीत्यांगीकारात् उन्मीलिष्यति इत्युक्तमन्यथा उन्मीलितेति ब्रूयात् | कथमियं दृष्टिरित्यत आह माया इति | मायापदम् मायाविषयो भेदः | मायोर्ध्वे तु पुनरपि सर्वं सत्यभूतमेव [सर्व सर्व्यभूतम् - C.] इत्यास्तामेतत् | ननु यदि सत्यतया भासमानं पदार्थजातं भ्रम एव तर्हि प्रसिद्धो गण्डे स्फोट इव अपरेयं भ्रान्तिरुच्यते, अनुवृत्त्युचितस्यापि विमर्शस्यास्थैर्यात् | अतश्च पृथक् इदन्ताद्याभासेषु न काचन भ्रान्तिः, मेलनांशे तु विमर्शानुवृत्तिनिर्मूलनं विमर्शोदयकालादेव आरभ्य बाधकेन क्रियते, इति तत्रैव भ्रान्तिभावः, - इति सिद्धम् | रजतस्य शुक्तिकया सह यद्यपि एको विमर्शः तथापि शुक्तौ रजतस्य तेन ज्ञानेन भ्रमः किमस्ति इत्यत आह तत्रापि इति | अपरा भ्रान्तित्वेन प्रसिद्धा | ननु प्रसिद्धाया भ्रान्तेर्भ्रान्तित्वं युक्तमेव सत्यरूप्यज्ञानस्य कथं भ्रान्तित्वं युक्तम् इत्यत आह अनुवृत्ति इति | अनुवृत्तौ उचितः अनुवृत्त्युचितः तस्य, अपि शब्देन प्रसिद्धभ्रान्तिपरामर्शस्यास्थैर्ये न काप्यसंभावनेति द्योतितम् | अनुवृत्त्युचितस्य परामर्शस्यास्थैर्ये च पराहंभावपरामर्शरूपताकृतमेव ज्ञेयम्, पर्यन्ते हि सर्वमहंपरामर्शविषयत्वेनव योगिनां स्फुरति, अन्यथा तेषामप्यज्ञानित्वमेव | तदुक्तम् - एतदन्धकारं यद् भावेषु प्रकाशमानतया स्वात्मानतिरिक्तेष्वपि भवति अनात्माभिमानोऽयम् इति | उक्तप्रक्रियया फलितं स्वाभिप्रायं कथयति अतश्च इति | पृथक् - स्वस्वविषये, न काचन, न कापीत्यर्थः | इदमिति हि सत्यतयाऽग्रस्थवस्तुविषयम्, रजतमिति तु स्मर्यमाणरजतविषयम्, अन्यथा दृष्टरजतस्यापि शुक्तौ रजतभ्रमापत्तेः | एवं स्थिरत्वादेरपि सत्यत्वं योज्यम् | ननु तर्हि मिथ्यात्वं कुत्रांशे भवति इत्यत आह मेलनांशे तु इति | मेलनांशे यदेवेदं तदेव स्थिरत्वादिगुणयुक्तं रजतमिति समानाधिकणतया स्थापनरूपे भागे तु, विमर्शस्य - पूर्वविमर्शस्य या अनुवृत्तिः तस्याः निर्मूलनम्, विमर्शोदयकालात् - पूर्वविमर्शोदयसमयात्, वाधकेन - उत्तरपरामर्शेन क्रियते इति, नेदं रजतमभूदित्येवमुत्पादादिति भावः | इति - अतो हेतोः, तत्रैव - मेलनांशे एव, भ्रान्तिभावः - भ्रमत्वम् | उक्तप्रक्रियावष्टंभेन सूत्रे योजनां करोति रजतस्य इति | तत्रापिप्रथमं रजतैकविमर्शेपि इति समस्तं पदं व्याचष्टे रजतस्य इति | शुक्तिकया सह इति अत्रानुराधेनाध्याहृतम् | अथवा उक्तार्थानामप्रयोग इति वचनेनैतद्ग्रहणम् | अपि शब्दं व्याचष्टे तथापि इति | शुक्तौ - इति निगदव्याख्यातम् | रजतस्थितिः इति व्याचष्टे रजतस्य इति | या दत्ता स्थितिः इदं रजतम् इति सा न, यत उपाधिरूपो यो देशः अत्र रजतम् इति रजतच्छायाम् आत्मनोपरञ्जयन् शुक्तिदेशः, तस्यासंवादात्, सम्यग्विमर्शानुवृत्त्याभासनं संवादनम् वदिः अत्र भासनविषयः, तस्याभावात् कारणात् | तेन ज्ञानेन - भ्रान्तिज्ञानेन, स्थितिमनुकृत्य दर्शयति इदं रजतम् इति | या इत्यस्याकांक्षां पूरयति सा इति | न इत्यपि निगदव्याख्यातम्, न भवतीत्यर्थः | कुत इत्यपेक्षायाम् उपाधिदेशासंवादात् इति हेतुत्वेन योजयितुं व्याचष्टे यतः इत्यादि | उपाधिरूपः - विशेषणरूपः यः देश इति पदं व्याचष्टे अत्र इति | अत्र रजतम् इति - अनेन प्रकारेण, आत्मना - आधारभावेन स्थितेन इदंशब्दवाच्येन निजस्वरूपेण, रजतच्छायाम् - तजतरचनाम्, उपरञ्जयन् - उपरागयुक्तां कुर्वन्, स्वस्वरूपाधेयत्वावच्छिन्नत्वेन भासयन् इतियावत्, अन्यथा उपाधित्वायोगात् इति भावः | शुक्तिदेशः - शुक्तिस्वरूपो देशः | यः इत्यस्याकांक्षां पूरयति तस्य इति | तस्य - शुक्तिदेशस्य, असंवादात् इति व्याख्यास्यन् सम् शब्दं व्याचष्टे सम्यक् इति | अत्रापि पर्यायमाह विमर्श इति | विमर्शानुवृत्त्या - अत्र रजतमिति विमर्शानुवर्तनेन | वाद इति पदं व्याचष्टे भासनम् इति | भासनम्, उपाधिभावेन स्फुरणमित्यर्थः | संवाद इति संकलयय व्याचष्टे संवादनम् इति | भावघञन्तस्य भावल्युडन्तेनेयं व्याख्या | ननु कथमत्र भासनमर्थः इत्यत आह वदिः इति | यतः इति पदं युक्तत्वेनात्रैव योजनीयम् | यतः कारणात्, वदिः - वदिरिति धातुः | अत्र - अस्मिन्विषये, भासनविषयः - भासनवाची भवति | अनेकार्थत्वात् धातूनामिति भावः | अथवा यतः इत्यस्य स्थाने कुतः इति पाठः | तथा च न कापि कष्टकल्पना | व्यस्तत्वसमस्तत्वाभ्यां व्याख्यातस्य नञः पञ्चम्याश्च योजनार्थं परामर्शं करोति तस्य इति | तस्य - उपाधिदेशसंवादस्य, अभावात् - असत्त्वात् | पञ्चम्या द्योतितं हेतुत्वं स्फुटं कथयति कारणात् इति | यत उत्तरकाले रजतार्थित्वे सति प्रवृत्त्यनन्तरं सा शुक्तिः रजतत्वाधारत्वेन न स्फुरति, ततः इदं रजतमिति पूर्वं रजतस्य शुक्त्या सह एकस्मिन्नपि विमर्शे सति शुक्तौ रजतस्थितिर्नभवतीति पिण्डार्थः | रजतस्य शुक्त्या सहैकविमर्शः रजतैकविमर्शः, रजतस्य भ्रमज्ञानेन दत्ता नन्वेवं भवतु शुक्तिकारजते, द्विचन्द्रज्ञाने तु द्वौ चन्द्रौ इत्याभासे शुक्तिकयेव मेलनं न केनचित्साकमाभासते यत्र बाधः स्यात्, एकाभासांशे च न बाधः, - इत्युक्तं भवतैव | क एतदाह - मेलनं न केनचित्सह इति | एवं हि सति स्वालक्षण्येन नियतदेशकालतया कथमाभासः, ? तद्देशकालाभ्यां सह तत्रापि अस्ति मेलनाभासो यद्विमर्शोऽनुविवृत्सुर्निरुध्यते [निरूप्यते - K. ष्. ष्.], द्वित्वाभासचन्द्राभासयोरपि मेलनाभासे स्थितिः रजतस्थितिरिति विग्रहः | उपाधिपदप्रयोगः पार्यन्तिकप्रतीतिमपेक्ष्य कृतः | आपाते तस्य रजतत्वेन स्फुरणात् | एतेन संवादादित्यन्तं व्याख्या संपन्ना | द्विचन्द्रेऽपि इत्यादिश्लोकशेषं व्याख्यातुमवतरणिकां करोति ननु इति | एवम् अयं न्याय इत्यर्थः, द्वौ चन्द्रौ इत्याभासे, एतदाभासरूपे इत्यर्थः | शुक्तिकयेव - रजतस्य शुक्तिकया सहेवेत्यर्थः | केनचित् साकम्, द्वित्वस्य केनापि सहेत्यर्थः | यत्र - यस्मिन्मेलने, एकस्याभासः - एकाभासः, तद्रूपो यः अंशस्तस्मिन् | गुरुः श्लोकखण्डं व्याख्यातुं प्रक्रियां कुर्वन् उत्तरं कथयति क एतत् इति | एतच्छब्दाकांक्षां पूरयति मेलनं इति | इति शब्दो वाक्यसमाप्तौ | मेलनाभावायोग्यतां समर्थयति एवं हि इति | हि - यस्मात्, एवम् - मेलनाभावे, सति, नियतदेशकालतया - इदानीमत्र नभसि द्वौ चन्द्रौ इति नियतदेशकालमेलनया सिद्धेन स्वालक्षण्येनाभासः कथं स्यात्, मेलनारूपाया योजनाया अभावान्न स्यादित्यर्थः | सामन्यस्य हि देशादियोजनेनैव स्वलक्षणतेति बहुवारमुक्तम् इति भावः | फलितमाह तत् इति | तत् - ततः कारणात्, तत्रापि - द्विचन्द्रज्ञानेऽपि, देशकालाभ्यां सह मेलनाभासः - मेलनम् [मेलनाभासः अस्ति मेलनं किं - C.] अस्ति, किं बाधकेनेति शेषः | बाधकेन कर्त्रा | यत् - मेलनम् अनुवर्तितुमिच्छुः अनुविवृत्सुः सन् विमर्शः कर्म निरुध्यते नात्र नभसीदानीं द्वौ चन्द्राविति निरोधविषयतां नीयते, प्रतिहन्यते इति यावत् | नन्वेतेन द्विचन्द्राभासस्य स्वरूपे न कोऽपि निरोधः संपन्नः | देशकालमेलनामात्रत्वेनैव तस्य स्थितत्वादित्यत आह द्वित्व इति | वाच्यम् - अवश्यं वक्तव्यम् | नहि देशकालाभ्यां निष्कृष्टस्य परिमितवस्तुनः सत्ता दृश्यते इति भावः | एतद् - विमर्शानुवृत्तिव्यावर्तनं वाच्यम् | तदेतदाह - द्विरूपे चन्द्रेऽपि, न केवलं रजत एव | नभः इति देशविशेषः कश्चित् | अन्यथा इति द्विचन्द्रावरुद्धो योविमृष्टः स न तथा, - इति बाधकेन उन्मूलितप्राच्यविमर्शानुवृत्तिकः क्रियते, - इति | एवमाभासस्तन्मेलनं च नियमानु प्राणितम् - इत्येतावदेव प्रमेयम् | एतान्येव आगमे तत्त्वानि वक्ष्यन्ते | वस्तु तत्त्वं प्रमेयम् - इति पर्यायाः [पर्यायः - K. ष्. ष्.] | तथा च काठिन्याभास इति पृथिवी, लोहिताभास इति रूपं तेजश्च, मेलनाभासो रजः, संनिवेशस्तु नियतिरूपः, नियतिर्हि नियमः, स च अभावप्राणः, अभावस्फुरणमेव वष्टंमेन सूत्रखण्डं व्याख्यातुमाह तदेतत् इति | तदेतत् - समनन्तरोक्तं वस्तु, आह इति, सूत्रखण्डेनेति शेषः, आहेति निराकांक्षीकर्तुं सूत्रखण्डमेव व्यचष्टे द्विरूपे इति | एतेन द्विरूपश्चन्द्रः - द्विचन्द्रस्तस्मिन् इति विग्रहः सूचितः | नभः इति व्याख्यातुमुपन्यस्यति नभः इति इति | देश विशेष इति, न तु न किञ्चिद्रूपः | अन्यथा पक्ष्याद्याधारत्वायोगादिति भावः | अन्यथा इति व्याचष्टे द्विचन्द्र इति | यः - नभोदेशः, द्विचन्द्रावरुद्धः - द्विरूपचन्द्रावरुद्धः, विमृष्टः - पूर्वविमर्शेन विमर्शविषयतां नीतः, सः तथा - द्विचन्द्रावरुद्धः न भवति, इति बाधकेन - एवरूपेण बाधकेन, उन्मूलिता प्राच्यविमर्शस्यानुवृत्तिर्यस्य तादृशः क्रियते | इति शब्दः व्याख्यासमाप्तौ | एवमत्र वाक्यखण्डे योजना | नभः अपि कर्तृ द्विचन्द्रेऽन्यथा भवति उक्तन्यावादिति भावः अत्र प्रमाणनिर्णयानन्तरं प्रमेयं निर्णेतुं फलितं सिद्धान्तमुपसंहाररीत्या कथयति एवम् इति | तन्मेलनम् - आभासमेलनम् | नियमानुप्राणितम् - नियतिकृतनियमव्यवस्थापितम् | प्रमेयस्यैव तत्त्वभाव इत्याह एतान्येव इति | आगमे - वक्ष्यमाणे आगमकाण्डे | ननु कथमागमे प्रमेयस्य तत्त्वशब्देन निर्देश इत्यत आह वस्तु इति | पर्यायाः - पर्यायब्दा इत्यर्थः | घटदृष्टान्तेन सर्वस्य प्रमेयजातस्य सर्वतत्त्वरूपत्वं कथयति तथा च इति | काठिन्याभासह्. - घटे स्फुटं स्थितः काठिन्यरूप आभासः, रजः - रागतत्वं रागस्य मेलनरूपत्वात्, सन्निवेशः - रचना, नियतिरूपः - नियतितत्त्वरूपः | ननु कथं सन्निवेशस्य नियतित्वमित्यत आह नियतिः इति | नियमः - परमेश्वरकृतो नियमः, स च - नियमश्च, अभावप्राणः - अभावदत्तसत्ताकः, तादात्म्याभावेनैव हि च पृथिव्याभासस्य विचित्रतया चकासत् पृथुबुध्नोदराकारता, भेदाभासश्च माया, तत्पृष्ठे सत्यप्रकाशाभासश्च शिवतत्त्वम्, - इत्यास्तां तावत् | अग्रे भविष्यति एतत् | सर्वथा तावदत्र प्रमेये भगवत एव भेदने च अभेदने च स्वातन्त्र्यं घटगताभासभेदाभेददृष्टिरेव च परमार्थाद्वयदृष्टिप्रवेशे उपायः समवलम्बनीयः, न तु व्यवहारोऽपि अयं परमेश्वरस्वरूपानुप्रवेशविरोधी, इति प्रतिपादितम् || १३ || भावः स्वस्वरूपे नियतो भवति, पृथिव्याभासस्याभावस्फुरणमेव च विचित्रतया - वैचित्र्येण - चकासत् - भासमानमेव सत्, पृथुबुध्नादराकारता - एतद्रूपः घटनियतः सन्निवेशः भवति, मृद्धि स्वरूपं जहती घटसन्निवेशं गृह्णाति, अन्यथा घटस्य मृदा सह संकीर्णताऽऽपतेत्, भेदाभासश्च - घटगतः स्वगतभेदः, माया - मायातत्त्वं भवति, तत्पृष्ठे - भेदाभासरूपे मायापृष्ठे, सत्यप्रकाशाभासश्च - घटो भाति इति भानकर्तृत्वरूप आभासश्च, शिवतत्त्वं भवति, अत्र च सर्वेषामेव तत्त्वानां योजनं कार्यत्वेन [योजनं कार्यम् | त्वेन ज्ञात्वा - C.] ज्ञात्वाह आस्ताम् इति | अग्रे इति, आगमकाण्डे, एतत् - प्रतिवस्तु सर्वतत्त्वयोजनम् | सिद्धान्तं कथयति सर्वथा इति | अत्र - भासमानघटादिरूपे, भेदने - भेदकरणे, भेदेन भासने इति यावत् | प्रकाशवशेनैव हि भेदाभेदव्यवस्थापनं भवति | एतदवष्टंभेन मोक्षमार्गं प्रति नवीनं मार्गं दर्शयति घटगत इति | घटगतो य आभासभेदः - घटादिमायान्तसकलतत्त्वाभासरूपः भेदः, तथाऽभेदः - शिवतत्त्वान्तरूपोऽभेदः, तयोर्दृष्टिः, सा एव च [स एव च - C.] परमार्थाद्वयरूपा या दृष्टिस्तस्यां यः प्रवेशस्तस्मिन्, उपायः समवलंबनीयः - आश्रयणीयः | नत्वयं व्यवहारोऽपि - घटादिविषयो व्यवहारोऽपि, परमेश्वरस्वरूपे योऽनुप्रवेशस्तस्य विरोधी भवति, तद्द्वारेणापि तत्स्वरूपपर्येषणारूपेण तत्सारभूतपरमेश्वरतत्त्वलाभात् | अपि शब्देन समाधिकृतपरमेश्वरस्वरूपानुप्रवेशहेतुना सहास्य समुच्चयो द्योत्यते | वेदान्तादिनिर्णीताद्वयाभासस्य बाह्यव्यवहारं प्रत्युपेयत्वाभावमपेक्ष्य परमार्थपदग्रहणम् | न चैतावता पदार्थापेक्षाग्रस्तैरपि अयमभिमानो धार्यः | पदार्थेषु ममतारहितानां प्रवाहागतपदार्थव्यवहारे पदार्थानपि शिवभावेन गृह्णतामेवात्राधिकारात् | ममताराहित्ये च स्वमन एव साक्षितया ग्राह्यमन्यथा स्ववञ्चकतापत्तेरित्यलम् || १३ || एतदेव स्फुटयन् सकलप्रमेयसिद्धिः परमेश्वर एव आयत्ता, इति निरूपयति | गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता | भावनामित्थमेकत्र प्रमातर्युपपद्यते || १४ || एह अनुवृत्तं व्यावृत्तं च चकासद्वस्तु कतरेण वपुषा न सत्यमुच्यताम् उभयत्रापि बाधकाभावात्, सत्यतो हि यदि बाधक एव एकतरस्य स्यात् तत्तदुदये स एव भागः पुनरुन्मज्जनसहिष्णुतारहितो विद्युद्विलायं विलीयेत; न चैवम्, अत- एव भेदाभेदयोर्विरोधं दुःसमर्थम - अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति एतदेव इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति | अनुवृत्तम् - सामान्याकारद्वारेण, व्यावृत्तम् स्वलक्षणद्वारेण, चकासत् - भासमानम्, वपुषा - स्वरूपेण उच्यताम् इति, अपि तु सर्वेण वपुषा सत्यमुच्यतामित्यर्थः | अत्र हेतुमाह उभयत्रापि इति | उभयत्र, अनुवृत्ते भागे व्यावृत्ते च भागे इत्यर्थः | नन्वत्र बाधकोऽपि [नवत्राबाधकोऽपि - C.] भवतु | का हानिरित्यत आह सत्यतः इति | सत्यतः - परमार्थेन, एकतरत्र, व्यावृत्तानुवृत्तभागयोर्मध्यादेकत्रेत्यर्थः | तत् - तदा, तदुदये - बाधकोदये, स एव भागः - बाधविषयो भागः, पौर्वकालिकमुन्मज्जनमपेक्ष्य पुनः शब्दप्रयोगः | विद्युद्विलायम् विलीयेत, विद्युदिव विलीयेतेत्यर्थः | उपमाने कर्मणि च इति णमुल्, न चैवम्, सत्यतो बाधक एकतरत्र न चास्तीत्यर्थः | भेदाभेदयोः - अनुवृत्तभागगतस्य [अनुवृत्तभागगतस्य] भेदस्याभेदस्य च, फलतः एकवस्तुगतयोर्भेदाभेदयोरित्यर्थः | दुःसमर्थम् - समर्थयितुमशक्यम्, एकैः - भिमन्यमानैरेकैरविद्यात्वेन अनिर्वाच्यत्वम्, अपरैश्च आभासलग्नतया सांवृतत्वम् अभिदधद्भिः आत्मा परश्च वञ्चितः | संवेदनविश्रान्तं तु द्वयमपि भाति संवेदनस्य स्वातन्त्र्यात् | सर्वस्य हि तिरश्चोऽपि एतत् [सर्वस्य तिरश्चोऽपि - K. ष्. ष्.] स्वसंवेदनसिद्धं - यत् संविदन्तर्विश्रान्तमेकतामापाद्यमानं जलज्वलनमपि अविरुद्धम्, तत एव उक्तम् अत एव यथाभीष्टसमुल्लेखा............ (१| ६ | ११) वेदान्तिभिः, अविद्यात्वेन - लक्षणयाऽविद्याकार्यत्वेन, अनिर्वाच्यत्वम् - सत्तासत्ताभ्यामनिर्वचनीयभावम् | वेदान्तिमते हि अविद्या तत्कार्यं चानिर्वचनीयमेव, अपरैः - बौद्धैः, आभासलग्नतया - आभासमात्रविश्रान्ततया, वैकल्पिकत्वेन वहिरसत्त्वादिति भावः, संवृतत्त्वम्, संवृतिसिद्धत्वम्, अभिदधद्भिः - कथयद्भिः | वञ्चितः इति, मूढत्वेनेति शेषः | मूढ एव ह्यात्मानं परं [मूढ एव हि आत्मानं च वंचयति - C] च वञ्चयति, यस्तु परमेव वञ्चयति स खलस्ततोऽप्यपरपदस्थः | ननु तर्हि कीदृशं तद्द्वयमस्ति इत्यत आह संवेदन इति | संवेदने - प्रकाशे तदव्यभिचारिणि विमर्शे च विश्रान्तम्, संवेदनविश्रान्तम् - तेन सत्यतया निर्णीतमित्यर्थः | ननु कथं संवेदनं स्वस्मिन् विरुद्धयोर्विश्रान्तिं दधातीत्यत आह संवेदनस्य इति | न हि स्वतन्त्रस्य कुतश्चित्प्रतीघातः स्वतन्त्रताहानेरिति भावः | अत्रापि वाक्ये हेतुं कथयति सर्वस्य इति | हि यस्मात्, सर्वस्य - समस्तस्य चेतनवर्गस्य, तिरश्चोपि - तन्मध्येऽतिजडस्य पशोरपि, एतत् स्वसंवेदनसिद्धं भवति | एतत् किम् ? जलज्वलनमपि - विरुद्धतया प्रसिद्धं जलाग्न्योर्युगलकमपि, संविदन्तर्विश्रान्तं सत् अविरुद्धम् यत् भवति, बहिरिव परस्परं बाध्यबाधकत्वाभावात् | पूर्वोक्तमत्र निदर्शनत्वेन स्मारयति तत एव इति | किमुक्तमित्यपेक्षायां [किमुक्तमित्यपेक्षायां श्लोकं स्तोकेन निर्दिशति अत-एव इति | किमुक्तमित्यपेक्षायां कारिकामेकदेशेन दर्शयति अत-एव इति | - C.] कारिकामेकदेशेन दर्शयति अत एव इति | अतश्च गुणैरुपाधिरूपैरुपाधितया [विशेषाधायितया - K. ष्. ष्.] विवक्षितैः शब्दादिभिर्वा दण्डादिभिरपि वा यो भेदः, जातिवशात् सादृश्यात् भेदाग्रहणाद्वा, यश्च अभेदो भावानाम् इत्थमित्युक्तनीत्या क्रियासंबन्ध (२| २| १) इत्यतः प्रभृति निरूपितः, स एकत्रप्रमातरि सकलप्रमाप्रमाणसंयोजनवियोजनादिविचित्रासंख्यकृत्य- प्रपञ्चोचितस्वातन्त्र्ये भगवत्यस्मदीयहृदयैकान्तशायिनि शिवशब्दव्यपदेश्ये सति उपपद्यते, नान्यथा | इति | उक्तप्रक्रियावष्टंभेन श्लोकं व्याचष्टे अतश्च इति | गुणैः इति पदं व्याचष्टे उपाधिरूपैः इति | अत्रापि व्याख्यां करोति उपाधितया इति | गुणो हि विशेषक एवेति भावः | आदि शब्दगृहीतं वस्तु कथयति दण्डादिभिरपि इति | शब्दादिभिः इति, आदिशब्देनरूपादिग्रहणम् | दण्डादिभिः इत्यादिशब्देन तु कुन्तादिग्रहणम् | सूत्रस्थस्यैकस्य आदि शब्दस्य रूपादि कुन्तादि च ग्राह्यमिति न कोऽपि विरोधः | जात्यादिभिरभिन्नता इति व्याचष्टे जाति इति | अत्राप्यादिशब्दग्राह्यं वस्तु कथयति सादृश्यात् इत्यादि | भावानाम् इति निगदव्याख्यातम् | इत्थम् इति पदं व्याचष्टे उक्तनीत्या इति | निरूपितः इत्यस्य क्रियात्वेनाध्याहारः | यच्छब्दद्वयस्याकांक्षां पूरयति सः इति | सः - भेदः अभेदश्च, एकत्र प्रमातरि इति व्याचष्टे सकल इति | वियोजनादि इति | आदिशब्देन विश्रान्तिदानादेर्ग्रहणम् | स्वतन्त्रोऽप्यशक्तः अकिञ्चित्कर एव इत्यत आह भगवति इति | तादृशस्य बहिःस्थस्य नान्तर्गतेषु संवेदनेषु प्रेरकत्वं युक्तमित्यत आह अस्मदीय इति | अस्मदीये हृदये एकान्तेन - निश्चयेन शेते सारतया प्रेरकतया च तिष्ठतीति तादृशे | न अन्यथा इति | तस्मिन् असति न युज्यते इत्यर्थः | भेदोऽपि हि तावद्धर्मिप्रतियोगिद्वयवेशेनैव सिद्धि लभते अयमस्माद् भिन्नः इति | तत्र प्रथमानिर्दिष्टस्य धर्मिणः पञ्चमीनिर्दिष्टस्य प्रतियोगिनस्तद्द्वयलब्धसिद्धेर्भेदस्य च भिन्नभिन्नस्वविषयज्ञानमात्रेण ग्राह्यस्य यद्येकः ज्ञानत्रयपिण्डात्मा तत्सारभूतो वा योजको न स्यात्, कथं भेदधर्मग्रहणं सिद्ध्येत्, अभेदेन ग्रहे तु योजकापेक्षाऽयत्नसाध्यैवेति किं तत्साधनेनेत्यलम् | विशेषणान्येव च भेदकानि - इति किमन्त्यैरन्यैर्विशेषैः अयं स परमाणुर्य [अयं च परमाणुः - K. ष्. ष्.] एतद्देशादिविशिष्टघटारम्भणकालस्थितपश्चात्तनसंघटि- तद्व्यणुकारम्भकाले [एतद्देशादिविशिष्टघटारंभणकाले पश्चात्तन - K. ष्. ष्.] पूर्वं मिलितः | अयं स आत्मा, यः पुरा स्वर्गसदने सुरयोषितमिमामित्थं परिरब्धवान्, - इति इयतैव योगिसर्वज्ञादीनां ननु तर्कशास्त्रेष्वन्त्यविशेषैरेव [अन्यविशेषैः - C.] नित्यद्रव्याणां भेद उक्तः, त्वया कथं सामान्येन शब्दादीनामेव भेदकत्वमुक्तमित्यत आह विशेषणान्येव च इति | अन्यैः - शब्दादिभ्यो भिन्नैः, गुणपदार्थाद्भेदेनोक्तत्वादिति भावः | अन्त्यैः विशेषैः, अन्त्यविशेषैरित्यर्थः | ननु योगिनां कथमतिसूक्ष्मेषु परमाण्वादिषु स्थूलैः शब्दादिभिर्भेदज्ञानं संभवेत् इत्यत आह अयम् इति | अयं सः परमाणुः भवति | सः कः ? यः एतद्देशादिविशिष्टः - एतद्देशकालावच्छिन्नः घटः तस्य य आरंभकालस्तस्मिन् स्थितं यत् पश्चात्तनम् - पश्चाद्भवम् संघटितम् - मिलितम् द्व्यणुकं तस्य य आरंभकालस्तस्मिन् | मिलितः - अन्येनाणुना सह संयुक्तः | पूर्वम् इति | द्वितीयाण्वपेक्षयेतिशेषः | इयतैव - संयोगाख्यगुणमात्रेणैव, तत्र परमाणोः परमाण्वन्तरेण संयोगः, आत्मनस्तु सुरयोषिता सह | ननु देहस्य सुरयोषिता सह संयोगः, नत्वात्मनः [नात्मना - C.] इति चेत्, सत्यम्, स्थूलदृष्टिभिस्तार्किकैः सह संवादे नेदृशीनां सूक्ष्मेक्षिकाणामवसरः, परमार्थविचारे हि शिवमये सर्वजगति कः सर्वज्ञयोगिविभागः, कश्च नित्यानित्यद्रव्यविभागः, को वा अन्त्यविशेषविषयो निर्णयः | यादृशो यक्षस्तादृशो बलिः इति नीतिमाश्रित्य शिष्यानुकंपया यत्र तत्र प्रवृत्तेषु महाचार्येषु चोद्यचुञ्चुभावो [चोद्यचञ्चुभावः - C.] न युक्त एव | अथवा महाद्वैते सर्वसाधनं सर्वनिराकरणं च संभवसहमेवान्यथाऽद्वैताभासतापातादित्यलम् | अत्र बहुवक्तव्यतामाशंङ्क्याह सिद्धः परमाण्वात्मादिषु भेदावभासः, - इत्यलमवान्तरेण | सिद्धं तावत् भेदाभेदरूपं प्रमेयतत्त्वम् एकप्रमातृविश्रान्त्या निःशङ्कतां श्रयति, इति || १४ || नन्वेवंभूतो यद्ययं प्रमाता तत्रव तर्हि प्रमाणोपन्यासे प्रयतनीयं न प्रमेये, यदाह प्रधाने हि यत्नः फलवान् इति | तदेतदाशङ्क्य प्रथमोपक्षिप्तमेव प्रमेयं स्मारयत्याचार्यः | तथा हि | अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः | (१| १| २) इति | यद्वस्तु तदेवेदानीं ज्ञाते प्रमाणस्वरूपे परमेश्वरस्वरूपे च निर्वाहणार्हम्, एवं भूतं हि प्रमाणं तदेवंभूते हि भगवति कथं क्रमताम्, इति | तदेतत् स्फुटयितुमाह - विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे | विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे || १५ || अलम् इति | अवान्तरेण - अप्रकृतेन | इह यथा तथा प्रमात्रैक्यमात्रस्यैव प्रकृतत्वादिति भावः | फलितं सिद्धान्तं सिद्धतया कथयति भेदाभेदरूपम् इति | तत्र सामान्यभावेनाभेदरूपम् | स्वलक्षणभावेन भेदरूपम् इति विभागः | एतेन पूर्वाधिकारेण सहास्याधिकारस्यैकाभिधेयत्वं सूचितम् || १४ || अथ पंचदशस्य षोडशस्य च श्लोकस्यावतरणिकां करोति नन्वेवंभूतः इति | अत्र टीका - प्रपंचेन [नन्वेवंभूत इति | अत्र प्रपंचेन कथनमुपक्रमते | C.] कथनमुपक्रमते तथाहि इति | यद्वस्तु भवति, पूर्वप्रतिज्ञातं भवति, तदेवेदानीं प्रमाणस्वरूपे ज्ञाते सति निर्वाहणार्हं, भवति | इति किमिति ? अजडात्मा इत्यादि योजना | वस्तु - निर्णेयं वस्तु, निर्वाहणार्हम्, निर्वाहणयोग्यम्, उपसंहारयोग्यमिति यावत् | निर्वाहणमेवानुकृत्य दर्शयति एवंभूतम् इति | तत् - प्रोक्तरूपम्, नवनवोदयशीलमिति यावत् | एवंभूते - सर्वज्ञानैक्यरूपे, क्रमताम्, ग्रहणे योग्यं भवेत् इत्यर्थः | स्फुटयितुम् - स्फुटीकर्तुम्, आह - कथयति | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे विश्व इति | प्रमातरि पुराणे तु सर्वदा भातविग्रहे | किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि || १६ || परिमितप्रमातृलग्नो नवनवाभासः प्रमेयोन्मुखः प्रमाणम् इत्युक्तम् | तत्र प्रकाशवपुषि प्रकाशमात्रस्वभावे पूर्वसिद्धे कः प्रमाणस्योपयोगः संभावना वा | तथा च पूर्वसिद्धे प्रमातरि सति तल्लग्नप्रकाशान्तर्भूतविमर्शमयीम् अभूतपूर्वां प्रमेयस्य सिद्धिं वितरति प्रमाणम् | प्रमातुश्चासिद्धस्य [आदिसिद्धस्य - K. ष्. ष्.] किं लग्ना सिद्धिरस्तु | विश्ववैचित्र्यं हि तत्र परमेश्वरे प्रकाशैकात्मनि सति भाति यथा चित्रं भित्तौ | यदि हि नीलपीतादिकं पृथगेव परामृश्यते तदा स्वात्मविश्रान्तेषु तेषु तथैव [तथा वा - K. ष्. ष्.] अन्योन्यविषये अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां कुर्वन् उपयोगित्वन पूर्वमुक्तं प्रमाणलक्षणमनुस्मारयति परिमित इति | परिमितप्रमातृलग्नः - ग्राहकविश्रान्तः, आभासः - ज्ञानम्, उक्तम् इति | इदमेतादृग् इत्यत्र श्लोके, तत्र - एवं प्रमाणस्वरूपे सति | प्रकाशवपुषि इति स्वयमेव व्याचष्टे प्रकाशमात्र इति | उपयोगस्यात्यन्तमयोग्यतां ज्ञात्वाह संभावना वा इति | एतदेव समर्थयितुमाह तथाच इति | सति - सत्तां भजति, तल्लग्नः - प्रमातृविश्रान्तो यः प्रकाशस्तस्मिन् अन्तर्भूतो यो विमर्शस्तन्मयीम्, प्रमारूपामिति यावत् | वितरति - दधाति, करोतीति यावत् | प्रमाणनिष्ठाम् अनधिगतार्थाधिगन्तृतामपेक्ष्य अभूतपूर्वाम् इत्युक्तम् | असिद्धस्य इति | तत्रापि प्रमाणोपयोगांगीकारे प्रमाणप्रवृत्तेः पूर्वसिद्धिरहितस्येत्यर्थः | किं लग्ना - कुत्रविश्रान्ता सकलविश्रान्तिधाम्नस्तस्य स्वविषयज्ञानविश्रान्तिस्थानत्वांगीकारे आत्माश्रयादिपातात् | अन्यस्य विश्रान्तिस्थानस्यानुपलंभात् इति भावः | ननुं विश्वं यत्र विश्राम्यति तत्रैव तदपि विश्राम्यत्वित्यत आह विश्व इति | तत्र - साधनीयत्वेन स्थिते, कथं भातीत्यपेक्षायामाह यथा इति, यथा चित्रं भित्तौ भाति तथेत्यर्थः | ननु स्वप्रधानमेव विश्वं भवतु, तथा चैतत्सिद्धिस्तत्रैव विश्राम्यतीत्यत आह यदि हि इति | पृथगेव - स्वप्रधानत्वेन भिन्नमेव, न तु प्रमातृविश्रान्ततया | यदीत्यस्याकांक्षां पूरयति तदा इति | तेषु - नीलपीतादिकेषु, तथैव - जडान्धबधिरकल्पानि ज्ञानानि स्वविषयमात्रनिष्ठितानि, विकल्पाश्च तदनुसारेण भवन्तः तथैव, इति चित्रम् इदम् इति कथंकारं प्रतिपत्तिः | एकत्र तु निम्नोन्नतादिरहिते भित्तितले रेखाविभक्तनिम्नोन्नतादिविभागजुषि गम्भीरनाभिरुन्नतस्तनीयम् इति चित्रावभासो युक्तः, तद्वत् एकप्रकाशभित्तिलग्नत्वेन वैचित्र्यात्मकभेदोपपत्तिः, इति भावभेदग्रहणप्रकाशभित्तेरनपायिनीं स्वप्रकाशतामाह | तत्र स्वप्रकाशे किं प्रमाणेन ? | अथोच्यते पूर्वमस्य प्रकाशो न भवति, तर्हि स एव नास्ति इति स्यात् प्रकाशमात्ररूपत्वात् तस्य | न च अस्य नास्ति, इत्यभावेन स्पर्श उपपन्नः, यतो हि असावेव परमार्थतः सन्, प्रकाशस्यैव सत्त्वात्, सतश्च असद्रुपत्वायोगात् | अथोच्यते - ईश्वरता तस्याप्र - नीलपीतादिवदेव, जडान्धबधिरकल्पानि - जडान्धबधिरसदृशानि, स्वविषयमात्रनिष्ठितानि - स्वविषयीभूतनीलपीतादिग्रहणमात्रे समाप्तिं गतानि, विकल्पाश्च - नीलपीतादिज्ञानानन्तरभाविनो नीलपीतादिविकल्पाश्च, तदनुसारेण भवन्तः - ज्ञानानुसृत्या सत्तां लभमानाः, तथैव - जडान्धबधिरकल्पाः, इति - अतः कारणात्, इति प्रतिपत्तिः कथं कारम् - कथं कृत्वा स्यात् | इति किमिति ? इदम् - विश्वम्, चित्रम् - आलेख्यभावेन स्थितं भवति | पुनः कुत्र चित्रप्रतिपत्तिर्युक्ता इत्यत आह एकत्र इति | तु व्यतिरेके, चित्रावभासः - आलेख्यभूतायाः स्त्रियो ज्ञानम् | दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति तद्वत् इति | वैचित्र्यात्मकः - विश्ववैचित्र्यरूपः यो भेदः तस्य उपपत्तिः - चित्रभावेनावस्थानयोग्यता, भवतीति शेषः | एतेन पूर्वश्लोकपूर्वार्धे व्याख्यातम् | इति - अतः कारणात्, आचार्यः, भावानां यत् भेदेन ग्रहणम् तद्रूपो यः प्रकाशः - परिमितज्ञानम् तस्य भित्तेः भित्तिभूतस्य परप्रमातुः, स्वप्रकाशताम् - स्वप्रकाशभावम्, आह - भातविग्रहे इत्यनेन कथयति | विरुद्धे - इत्यादिपदं व्याख्यातुमवतरणिकां करोति अथोच्यते इति | अस्य - प्रमातुः, स एव - प्रमातैव, इति स्यात् - एवंभवेत् | कुत इत्यपेक्षायामाह प्रकाशमात्र इति | तस्य - प्रमातुः न हि यो यत्स्वभावः स तदभावे सन्निति वक्तुं योग्यः इति भावः | ननु मास्तु असौ इत्यपेक्षायां परमार्थसति इति व्याचष्टे न च इति | अस्य - प्रकाशस्वभावस्य प्रमातुः | कुत इत्यपेक्षायामाह यतो हि इति | प्रकाशस्यैव सत्त्वात् इति, यतः प्रकर्षेण मिता प्रमास्यते तदपि न, यतो हि असौ प्रमातृत्वेन चेत् न चकास्यात् [नाचकास्यत् - K. ष्. ष्.] कस्यायमुद्यमः, चकास्ति चेत् तर्हि प्रमातृतैव ईश्वरता, तदाह ईश्वरे प्रमातरि सर्वदा भातविग्रहे इति | विशेषेण गृह्यते इति विग्रहोऽसाधारणं स्वरूपम्, अत एव स्वतन्त्रप्रकाशरूपत्वात् अभावस्पर्शायोगेनाभावानुप्रवेशनेन [अभावस्पर्शायोग्ये अभावानुप्रवेशनेन - K. ष्. ष्.] यः कालव्यवहारः सोऽत्र नास्ति, - इति पुराणे इत्युक्तम् | तत्र किं प्रमाणं, कुतः प्रयोजनात्प्रमाणं, काशनशीलत्वात्प्रकाश एवास्ति क्रियाकर्ता भवति न त्वप्रकाशः | बहिरप्यत्रास्तीति स्थानेऽत्र प्रकाशते इति कथयन्ति | सतोऽपि तस्यासत्त्वं भवतु, इत्यत आह असतश्च इति | विरुद्धत्वादिति भावः | ईश्वरे प्रमातरि सर्वदा भातविग्रहे इति विशेषणत्रयं योजयितुमवतरणिकां करोति अथोच्यते इति | प्रमास्यते - प्रमाविषयीकरिष्यते | कुत इत्यपेक्षायामाह यतो हि इति | चकास्यात् - स्वप्रकाशत्वेन स्फुरेत् | अयमुद्यमः - ईश्वरताप्रमाविषयीकरणरूपः उद्योगः, प्रमातृतैव ईश्वरता इति | तथा च नेश्वरतायाः प्रमाविषयीकरणापेक्षा, न हि प्रमाता प्रमाविषयीकरणे योग्यः | तदुक्तम् - आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः इति | एवमवतरणिकां कृत्वा विशेषणत्रयं योजयति तदाह इति | सूत्रकार इति शेषः | किमाहेत्यपेक्षायां विशेषणत्रयमनुकृत्याह ईश्वरे इति | विग्रहपददुर्बोधत्वेन पृथक्कृत्य व्याचष्टे विशेषेण इति | विशेषेण - विशेषभावेन, स्वलक्षणतयेति यावत् | एतदवष्टंभेन पुराणे इति पदं व्याचष्टे अत एव इति | स्वतन्त्रप्रकाशरूपत्वात् - सर्वदा भात इति पदेनोक्तत्वात्, स्वप्रधानप्रकाशस्वरूपत्वात् | अभावस्पर्शायोगेन - प्रागभावस्पर्शाभावेन, कालव्यवहारः - उत्पत्तिकालव्यवहारः, अत्र - अस्मिन्प्रमातरि, पुराणो हि प्रागभावप्रतियोग्येवेति भावः | किं प्रमाणम् इति व्याख्यातुमुपन्यस्यति किं प्रमाणम् इति | किं शब्दस्याव्ययत्वेनार्थत्रये योजनां करोति कुतः कस्तत्र प्रमाणस्योपयोगः, - इति, तत्र च किं प्रमाणम् न किञ्चित् उपपत्त्या घटते इत्यर्थः | यतः प्रमाणं नाम नवाभासरूपं [अभिनवाभासरूपम् - K. ष्. ष्.] प्रमातरि प्रमितिलक्षणां विश्रान्तिं विदधत् प्रमाणं भवति, प्रमाता चाविच्छिनाभासः सर्वाश्च प्रमितीः स्वात्मनि अन्तर्मुखरूपे भजते | तत् तस्मिन् कथमभिनवाभासस्तत्प्रमितिश्च [अभिनवः आभासः - K. ष्. ष्.] कुत्र विश्राम्यतु तस्मात् देहप्राणपुर्यष्टकशून्यप्राय एव प्रमातार प्रमाणमुच्यताम् | तत्रापि च वेद्यांशे यदि नाम, न तु कथंचित् संविदंशे, तत्रापि इति | नवाभासः इति व्याचष्टे यतः इति | प्रमाणं नाम - प्रमाणाख्यं वस्तु, नवावभासरूपम् इति, अभिनवोदयः इत्यनेनोक्तत्वादिति भावः | प्रमितिलक्षणाम् - प्रमारूपाम्, विश्रान्तिम् - बाह्यवस्तुविश्रान्तिम्, अविच्छिन्नाभासः - अविच्छिन्नप्रकाशः, भजते - विश्रान्तिधामतया सेवत इत्यर्थः | तत् - ततः कारणात्, तस्मिन् - प्रमातरि, अभिनवाभासः - अभिनवाभासरूपं प्रमाणम्, तत्त्वव्यवस्थापक इति शेषः | नह्यविच्छिन्नाभासे विच्छिनाभासस्तत्त्वव्यवस्थापक इति युक्तम् | अन्यमपि दोषं कथयति तत्प्रमितिश्च इति | तत्प्रमितिश्च - प्रमातृविषया प्रमाणकृता प्रमा च, कुत्र विश्राम्यतु, प्रमाणकृताः सर्वाः प्रमितयो हि प्रमातरि विश्राम्यन्ति तस्य तत्स्वभावत्वात्, अन्यथा सर्वेषु प्रयोगेषु अहं जानामित्यादिरूपेषु अहंशब्द - प्रयोगायोगात् | आत्मप्रमितिस्तु स्वयं साध्यमाने तस्मिन् विश्रान्तिं न भजते एवेति तस्या विश्रान्त्यभाव एव आपतेदिति भावः | फलितमाह तस्मात् इति | देहप्राणपुर्यष्टकशून्यप्राये - देहप्राणबुद्धिशून्यकल्पे, प्रायग्रहणेन पारमार्थिकप्रमातृत्वानरासः | अन्यथा प्रमाणविषयत्वकथनायोगात् | देहादिचतुष्टयं हि स्वतो वाह्यं प्रति प्रमाणभूतमान्तरं प्रति प्रमेयभूतमेव | तत्रापि च - देहादावपि च, वेद्यांशे - वेद्यभागे प्रमेये, तत् - प्रमाणं यदि नाम भवेत्, न तु कथंचित् - केनापि प्रकारेण, संविदंशे - प्रमातृभागे तत् प्रमाणम् भवति, यद्यपि वाह्यवस्तूनामपि प्रमेयभागे एव प्रमाणप्रवृत्तिर्न तु भानरूपे संविद्भागे तथापि तावदास्तामेतत् अप्रकृतत्वेन | तत्रापि - तस्मिन् देहादिगते संविदंशेऽपि, विषयोन्मुखे तत एव संकुचितत्वात् अभिनवाभासे संकोचविहीनसत्यप्रमातृलग्नतापेक्षया कथ्यतां स्वसंवेदनं प्रमाणम् | सौगतेनापि ममेदं ज्ञानम् इति कल्पितप्रमातृलग्नमेव तदुपेत्यम् न तु परमार्थप्रमातरि प्रमाणेन किंचित् | उक्तं च मयैव यत्प्रमेयीकृतोऽस्मीति सर्वोऽप्यात्मनि लज्जते | कथं प्रमेयीकरणं सहतां तन्महेश्वरः || इति || १६ || नन्वेवं यदि भगवति प्रमाणमनुपयोग्यनुपपत्ति च किमर्थं विषयोन्मुखे तत एव - विषयोन्मुखत्वादेव, संकुचितत्त्वात् - संकोचविषयत्वाद्धेतोः, अभिनवाभासे - अभिनवाभासरूपे, अत एव संकोचविहीनः यः सत्यप्रमाता प्रकाशाख्यः परमार्थप्रमाता तस्मिन् लग्नतापेक्षया न तु परमार्थतः, स्वसंवेदनम् - स्वरूपभूतं संवेदनम्, प्रमाणं कथ्यताम्, अवच्छिन्नत्वेनानवच्छिनां परसंविदं प्रति प्रमेयत्वात् अन्यथाऽस्यैव पर संवित्त्वापातात् इति भावः | ननु विज्ञानवादी तं स्वविश्रान्तमेव कथयति, अन्यथा विज्ञानवादित्वायोगादिति अत आह सौगतेन इति | तत् - संविदंशरूपं ज्ञानम्, उपेत्यम् अंगीकार्यं, सौगतानां परमार्थप्रमात्रनङ्गीकारमपेक्ष्य कल्पितेत्युक्तम् | परमार्थप्रमातरि - परशिवरूपे सत्यप्रमातरि, किञ्चित् - किमपि | तदुक्तम् प्रमाणान्यपि वस्तूनाम् इति | अत्र स्वकीयं पद्यं दृष्टान्तयितुमाह उक्तंच इति | किमुक्तमित्यत आह यत् इति | यत् - यतः कारणात्, सर्वोपि - समस्तोऽपि जनः, इति - एवम्, लज्जते - लज्जाकर्तृत्वं भजते | इति किमिति ? अनेन अस्मि - अहं प्रमेयीकृतः - ज्ञातः, किंसारोऽयमिति निर्णीतः, तोलित इति - यावत् | तत् - ततः कारणात्, अयं महेश्वरः प्रमेयीकरणं कथं सहताम्, अनीश्वरो हि बलादायातेन प्रमेयीकरणेनासमर्थत्वात्केवलं लज्जते एव, ईश्वरस्तु समर्थत्वात्तन्न सहते एव लेशतोपि, स्वात्मरूपस्य परमेश्वरस्य प्रमेयता न युक्तैवेति भावः || १६ || अथ सप्तदशस्य श्लोकस्यावतरणिकां करोति - नन्वेवम् इति अत्र टीका - एवम् - उक्तप्रकारेण, अनुपपत्ति च - उपपत्तिरहितं च, अयुक्तं चेति तद्विषयं शास्त्रम्, तद्धि प्रमाणमेव, परार्थानुमानात्मकं हि शास्त्रम्, तत्र च प्रमाणादिषोडशपदार्थतत्त्वमयत्वमेव परमार्थः | यत्तु सौगतैः पञ्चावयवत्वादि दूष्यते तदाग्रहमात्रं, षोडशसु हि पदार्थेषुनिरूप्यमाणेषु सम्यक् प्रतिपाद्यं परः प्रतिपाद्यते, [प्रतिपद्यते - K. ष्. ष्.] हिताहितप्राप्तिपरिहारयोः इत्यादिना च ग्रन्थेन | परस्य किं प्रयोजनम्, तद्धि परस्य प्रतिपत्त्यैः, सा च परार्थानुमानात्, तत्र च प्रतिज्ञादेरुपयोगः इति | तत् परिपूर्णपरप्रतिपत्तिकारि परमार्थतः सकलमेव शास्त्रं परार्थानुमानम् आगमव्यतिरिक्तं न्यायनिर्माणवेधसाक्षपादेन निरूपितम् | इति अत्रापि पूर्वोक्तमेव किंतु मोहवशात् (१| १| ३) इति स्मारयितुमाह | यावत् | तद्विषयम् - भगवदभिधायकम्, तत् - शास्त्रम्, कुतः प्रमाणमेवेत्यत आह परार्थ इति | परार्थानुमानात्मकम् - परार्थानुमानरूपम्, तत्र - तस्मिन् शास्त्रे, प्राचुर्ये मयट्प्रयोगः, सौगतैः - बौद्धैः दूष्यते - प्रत्याख्यायते, प्रतिज्ञादेस्तन्मते प्रत्याख्यानात् | तत् - दूषणम्, आग्रहमात्रमेव, हठमात्रमेवेत्यर्थः | कुत इत्यपेक्षायामाह षोडशसु इति | प्रतिपाद्यम् - अभिधेयं वस्तु, प्रतिपाद्यते - ज्ञाप्यते, परः - बोध्यमानः, ग्रन्थेन - बौद्धेरंगीक्रियमाणेन वाक्यसन्दर्भेण, आदि शब्देनान्येषां वाक्यानां ग्रहणम् | परस्य - सौगतस्य, यदेव प्रयोजनं तदेवास्माकमपि इत्यत आह तद्धि इति | तत् - स ग्रन्थः, परस्य बोध्यमानस्य, सा च - परप्रतिपत्तिश्च, तत्र च - परार्थानुमाने च, इति शब्दः प्रमेयसमाप्तौ | एतेन सौगतोऽपि पंचावयवत्वादौ युक्त्यांगीकारं कारितः | फलितं कथयति तत् इति | तत् - ततो हेतोः, आगमव्यतिरिक्तम् - आगमशास्त्रव्यतिरिक्तम्, तस्य महारहस्योपदेशकत्वेन प्रत्यक्षादपि श्रेष्ठत्वेनानुमानत्वकथनायोगात् | न्यायनिर्माणवेधसा - न्यायशास्त्रकरणे ब्रह्मतुल्येन, न्यायशास्त्र - कारिणेति यावत् | इति - अतः कारणात्, एवमाशंक्येति यावत् | अत्रापि - अस्मिन् व्याख्यास्यमाने श्लोकेऽपि, अपि शब्दः पूर्वश्लोकेन समुच्चयद्योतकः | तत्रापि पूर्वोक्तस्मारणत्वात्, स्मारयितुम् - विस्मृतिशीलान् स्मृतिं प्रति प्रेरयितुम्, अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् | शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते || १७ || इह परमेश्वरस्येदमेव परं स्वातन्त्र्यं - यत् अस्मादृक्प्राच्यपशुदशाविशेषासंभाव्यमानातिदुष्करवस्तु- संपादनं [अस्मादृशे प्राच्यपशुदशा - K. ष्. ष्.] नाम | इतश्च किम् अतिदुष्करं भविष्यति, - यत्प्रकाशात्मनि अखण्डितताद्रूप्ये एव प्रकाशमाने प्रकाशननिषेधावभासः प्रकाशमानः | तस्मात् परमेश्वरस्य [परमेश्वरस्येदं तत् परं - K. ष्. ष्.] तत्परं स्वातन्त्र्यं यत् तथानवभासनं [तथावभासनम् - K. ष्. ष्.] पशुरूपतावभासनं नाम ग्राहकांशसमुत्थापनं आह इति, अर्थतः इति भावः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे - अप्रवर्तित इति | अत्र टीका - मूढतावशात् इति पदं व्याख्यातुं प्रक्रियां करोति इह इति | परम् - निरतिशयम्, अस्मादृशानां यः प्राच्यपशुदशाविशेषः - पूर्वकालीनः पश्ववस्थाविशेषः, तत्रासंभाव्यमानानि यानि अतिदुष्कराणि वस्तूनि - सदाशिवादिधरान्तानि तत्त्वानि, तेषां संपादनम् - उद्भावनम् | ननु कथं वस्तूनामतिदुष्करत्वम् इत्यत आह इतश्च इति | इतः इत्यस्यापेक्षां पूरयति यत् इति | प्रकाशात्मनि - प्रकाशरूपे परप्रमातरि, अखंडितम् ताद्रूप्यम् - प्रकाशरूपत्वं यस्य तादृशे, प्रकाशनस्य यो निषेधः तस्यावभासः - न प्रकाशते इत्येवंरूपः, प्रकाशमानः - स्फुरणशीलः, अस्यैवंरूपस्य स्वातन्त्र्यस्य वेदान्तेषु प्रतिबन्धत्वेन व्यवहारः | तदुक्तम् - प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि | तन्निरस्य विरुद्धस्य तस्योत्पादनमुच्यते || इति | फलितमाह तस्मात् इति तस्मात् - ततः कारणात्, परमेश्वरस्य तत् परं स्वातन्त्र्यं भवति, तत् किम् ? यत् तथानवभासनम् - परमेश्वर - तद्द्वारेण च ग्राह्योल्लासनमपि | सैषा भगवतो मायाशक्तिरुच्यते | यथोक्तम् | माया विमोहिनी नाम.................... इति | तदेवंभूतान्मायाशक्तिरूपात् स्वातन्त्र्यात् या मूढता विनष्टपूर्णचेतनता स्वात्मवर्तिन इच्छास्पन्दोदयस्फुटस्फुरितविश्वभावनिर्भरतात्मनः [इच्छास्पन्दोदयस्फुटस्फुरितविश्वभावनिर्भरितात्मनः - K. ष्. ष्.] पूर्णत्वस्य, स्मृत्यादिशक्त्यात्मनः स्वातन्त्र्यस्य, देशकालसंकोचवैकल्यात् अयत्नसिद्धबैभवनित्यताधर्मस्य च प्रकाशमानस्यापि भावेनाप्रकाशनरूपं ग्राहकांशसमुत्थापनं भवति, तथा यत् तद्द्वारेण च - ग्राहकांशसमुत्थापनद्वारेण च, ग्राह्योल्लासनम् भवति | सैषा - प्रोक्तस्वातन्त्र्यरूपा | अत्र वृद्धसम्मतिमाह यथोक्तम् इति | विमोहिनी - विमोहकारिणी, इति शब्दः वृद्धवाक्यसमाप्तौ | उक्तप्रक्रियावष्टंभेनामुं पदं व्याख्यास्यन् उपसंहारं करोति तदेवम् इति | एवं भूतात् - पशुतावभासनरूपात्, स्वातन्त्र्यात् - स्वतन्त्रतायाः हेतोः | मूढता इत्यवयवं व्याचष्टे विनष्ट इति | अस्यापि पदस्य स्वयमेव व्याख्यां कुर्वन् पूर्ण इत्यवयवस्य व्याख्यां करोति स्वात्म इति | स्वात्मनि वर्तते इति तादृशस्य, तथा इच्छारूपो यः स्पन्दः तस्योदयेन स्फुटं यथा भवति तथा स्फुरिताः ये विश्वे भावाः पदार्थाः तैर्या निर्भरता तदात्मनः तद्रूपस्य, पूर्णत्वस्य - पूर्णभावस्य | किं रूपस्य ? स्मृत्यादिशक्त्यात्मनः स्वातन्त्र्यस्य - स्मृत्यादिशक्तित्रयरूपस्वातन्त्र्यरूपस्य, एतेन चेतनता इत्यवयवव्याख्या, पुनः कीदृशस्य ? देशकालसंकोचवैकल्यात् - देशकालकृतसंकोचराहित्यात्, अयत्नसिद्धौ वैभवनित्यताधर्मौ विभुत्वनित्यताख्यं धर्मद्वयं यस्य तादृशस्य | तत्र देशकृतसंकोचवैकल्यात्, वैभवधर्मस्यायत्नसिद्धता, कालकृतसंकोचवैकल्यात् नित्यताधर्मस्यायत्न सिद्धतेति क्रमो ज्ञेयः | विनष्ट - यदप्रकाशमानतया अभिमननम्, तस्या वशात् सामर्थ्यात्, पूर्वं यो न प्रवर्तितः समनन्तरश्लोकद्वयोक्तस्वरूपे प्रमातरि भगवति ईश्वरत्वादिना उक्तेनैव पूर्णतादिना [पूर्णत्वादिना - K. ष्. ष्.] व्यवहारो यः खलु अहम् इति भाति स पूर्णः विभुः स्वतन्त्रो नित्यः, - इत्येवमादिरूपः तं प्रवर्तयन्तु व्यवहारं लोका इति | एतेन शक्तीनाम् इच्छाज्ञानक्रियाणां प्रकाशकेन प्रत्यभिज्ञारूपेण व्यवहारसाधनपरार्थानुमानात्मना शास्त्रेण तं व्यवहारं प्रवर्तयतां तत्समर्थाचरणं क्रियते | प्रवर्त्यते इति द्वौ णिचौ | केवलमिति न तु किंचिदपूर्वं क्रियते, नापि तत्त्वतोऽप्रकाशमानं प्रकाश्यते, प्रकाशमान एव यत् न प्रकाशते इत्यभिमननं इत्यवयवमपि व्याचष्टे यत् इति | अभिमननम् इत्यनेनाप्रकाशमानताया अपारमार्थिकत्वं द्योतितम् | षष्ठीयोजनं करोति तस्या इति | तस्या - मूढताया इत्यर्थः | वशात् इति व्याचष्टे सामर्थ्यात् इति | अप्रवर्तितपूर्वः इति व्याचष्टे पूर्वम् इति | पूर्वम् - मूढतावस्थायाम् | ईशादिव्यवहारः इति व्याचष्टे पूर्ण इति | पूर्णतादिना - पूर्णतादिभावेन | कीदृशो व्यवहार इत्यपेक्षायामाह यः खलु इति | तम् व्यवहारमिति योजना, प्रवर्तयन्तु - प्रवृत्तिविषयतां प्रति प्रेरयन्तु | इति - एवम्, शक्तिप्रकाशेन इति व्याचष्टे एतेन इति | एतेन - क्रियमाणेन, प्रकाशकेन - ज्ञानकारिणा, एतेन प्रकाश इति पदस्य कर्तरि साधनमिति द्योतितम् | प्रत्यभिज्ञारूपेण - प्रत्यभिज्ञासाधकत्वात् प्रत्यभिज्ञास्वरूपेण | प्रत्यभिज्ञाख्येनेति यावत् | प्रवर्त्यते इति व्याचष्टे प्रवर्तयताम् इति | प्रवर्तयताम् - प्रवृत्तिविषयतां नयताम् लोकानाम्, तत्समर्थाचरणम् - तस्मिन् व्यवहारप्रवृत्तिविषयतानयने समर्थाचरणं क्रियते | प्रवर्त्यते इति, अस्मिन् प्रयोगे इत्यर्थः | द्वौ णिचौ इति | द्वयोरपि णेरनिटि इति लुप्तत्वादिति भावः | तत्र प्रवर्तमानं प्रेरयतीति एको णिच्, व्यवहारं प्रवर्तयतः प्रेरयतीति द्वितीयो णिच् | केवलम् इत्यस्याभिप्रायमाह न तु इति | तत्त्वतः - परमार्थतः, अप्रकाशमानम् - अप्रकाशकर्तृभूतम् | पुनः किं क्रियते इत्यत आह - प्रकाशमान एव इति | ननु किं व्यर्थेन तदपसारणेनेत्यत आह तदपसार्यते | तदपसरणमेव हि परमेश्वरतालाभो मुक्तिः, तदनपसरणमेव संसारः, अभिमननमात्रसारं हि एतद्द्वयम्, उभयमपि चेदं भगवद्विजृम्भितमेव | एतदुक्तं भवति - यथा भौतस्य भासमाने एवात्मनि अपहारितोऽहम् इति मोहान्मन्यमानस्य मोहोऽपसार्यते, - कः खलु त्वं ?, यस्येदृशं वस्त्रं मुखमीदृशम् - इति चेत्, पश्य तदस्ति भवतः - इति पुनः पुनरभिदधता न च अस्य अपूर्वं किंचन रचितम्, तथा पशुलोकस्य भासमान एव आत्मनि नाहमीश्वरः इत्यादि मोहादभिमन्वतो मोहोऽपोह्यते | यो हि ज्ञानक्रियास्वातन्त्र्ययुक्तः स ईश्वरो यथा सिद्धान्तपुराणादिषु प्रसिद्धः, तथा च त्वम् - इति | यदि वा यस्मिन् यदायत्तं स तत्रेश्वरो राजेव स्वमण्डले, तथा च त्वयि तदपसरणमेव [तदपसारणमेव - C.] इति | परमेश्वरतालाभः - परमेश्वरतालाभरूपः | एतद्द्वयम् - मुक्तिः संसारश्च | इदम् - मुक्तिसंसाररूपम् | नन्वेतेन किमुक्तम् इत्यत आह एतदुक्तं भवति इति | भौतस्य - भूताविष्टस्य, इति - एवम्, पुनः पुनरभिदधता पुरुषेण मोहोऽपसार्यते | इति किमिति ? कः खलु इति | हे भूताविष्ट ! खलु - निश्चये त्वं कः असि ? त्वं चेत् इति कथयसि, इति किमिति, यस्येदृशं वस्त्रं भवति, तथा यस्येदृशं मुखं भवति स एवाहमस्मि, तर्हि त्वं पश्य तत् - तादृशं वस्त्रं मुखं च भवतः अस्ति | इति शब्दः भौतमोहापसारणसमाप्तौ वाक्यार्थाक्षेपे च | अस्य - भौतस्य न रचितम् - न कृतम्, सिद्धस्यात्मनो दर्शनात् इति भावः | दृष्टान्ते दार्ष्टान्तिकयोजनां करोति तथा इति | भासमान एव - अहंताविषयत्वेन नित्यं स्फुरणशीले एव, अपोह्यते - अपसार्यते, कथमपोह्यते इत्यत आह यो हि इति | नन्वीश्वरस्य सर्वविषये ज्ञानक्रिये जीवस्य तु किञ्चिन्मात्रविषये इति कथं तयोरेकत्वम् | सत्यम्, यथाऽतिसूक्ष्मोप्यग्निकणः दाहकत्वेन महाग्निचयादभिन्न एव, तथा जीवोऽपि ज्ञानक्रियास्वतन्त्रत्वेन ईश्वराभिन्न एव, दृष्टान्ते संभवत्यपि उपाधिकृतः कणचय भावरूपो भेदः दार्ष्टान्तिके तु सोऽपि न संभवति एव उपाधेरपि तत्त्वानपायात्, न हि स एव तस्मिन्नुपाधिरिति युक्तम् | पक्षान्तरमाह यदि वा इति | आयत्तम् - वशे स्थितम्, विश्वमायत्तमिति योजना, जीवायत्तत्वं च विश्वस्य विश्वम्, - इति ईश्वरताव्यवहारो नान्यनिमित्तकः, - इति व्याप्तिः | यत् खलु यल्लग्नं भाति तत्तेन पूर्णं निधानमिव मणिभिः त्वल्लग्नं च विश्वम्, - इति | यस्य यदन्तर्वर्ति भाति, स तावति व्यापकः समुद्ग एव मणिषु, त्वयि च संविद्रूपे धरादिसदाशिवान्तं शास्त्र ज्ञानक्रियायत्तताद्वारेण ज्ञेयम् | अन्यनिमित्तकः - आयत्तताव्यतिरिक्तनिमित्तकः | अन्यमपि प्रकारं कथयति यत् खलु इति | यः लग्नः यस्मिन् तत् यल्लग्नम्, तेन - लग्नेन, त्वल्लग्नम् इति | अहं जानामीति त्वल्लग्नज्ञानसिद्धत्वादिति भावः | चतुर्थमपि प्रकारं कथयति यस्य इति | अन्तवर्तित्वं चात्र तन्मयत्वमेव ज्ञेयम् न मध्यदेशवर्तित्वम् | स्वप्नजगतश्च स्फुटं स्वप्नद्रष्ट्रन्तर्वर्तित्वम्, इति नायस्तम् | घटादिसदाशिवान्तम्, तत्त्वपंचत्रिशत्करूपम् इत्यर्थः | पंचमं [षष्ठं प्रकारम् - C.] प्रक्रियोक्तं विश्वम्, - इति | यस्मिन् स्थिते यदुदेति लीयते च तत् तत्पूर्वापरभागव्यापि यथा भूमावङ्कुरः, तथा च त्वयि प्रकाशरूपे विश्वम्, - इति | एवम् अन्येऽपि धर्माः सहस्रशोऽपि आगमादिसिद्धा योज्याः | तदेवं व्यपोहिते व्यामोहे स्थितेऽपि तत्संस्कारमात्रधृते [तत्संस्कारमात्रविधृते - K. ष्. ष्.] शरीरादौ अनात्मताभिमानपुरःसर एवात्मताभिमाने घटादौ च प्रकाशमान एवानात्मताभिमाने ज्ञातेन्द्रजालतत्त्वस्य पश्यतोऽपि इन्द्रजालं यथा न तत्त्वतो व्यामोहः तथा प्रत्यभिज्ञातात्मस्वरूपस्य | ततो निवृत्ते प्रयाणप्रापितपर्यन्ते देहे परमेश्वरतैव | अभ्यासभावना - प्रकारं कथयति यस्मिन् इति | पूर्वापरभागव्यापि - आद्यन्तभागव्यापकं | अन्ये - प्रोक्तेश्वरतादि धर्मव्यतिरिक्ताः, आगमादि इति, आदिशब्देन वेदान्तिग्रहणम् | उपसंहारं करोति - तदेवम् इति | तदेवं सति व्यामोहे - स्वात्मनि अनीश्वरतारूपे मोहे, व्यपोहिते - अपसारिते सति, तथा तत्संस्कारमात्रधृते - पूर्वकालीनव्यामोहसंस्कारमात्रधृते, शरीरादौ आदिशब्देन प्राणादिग्रहणम् | अनात्माभिमानपुरःसर आत्मताभिमाने स्थिते सति | तत्र समाधिकाले अनात्मताभिमानः व्युत्थानकाले अवश्यकार्यव्यवहृतिवशेन आत्मताभिमान इति क्रमो ज्ञेयः | तथा घटादौ - परमार्थत आत्मभावेन स्थिते पदार्थजाते, अनात्मताभिमाने प्रकाशमान एव - व्यवहारवशेन भासमाने एव सति, प्रत्यभिज्ञातात्मस्वरूपस्य - ईश्वरतया प्रत्यभिज्ञाविषयीकृतात्मस्वरूपस्य योगिनः, तथा व्यामोहः - देहमात्रात्माभिमानसत्यतारूपः, घटाद्यनात्माभिमानसत्यतारूपश्च, विशिष्टः समन्तात्स्थितः, मोहः न भवति | तथा कथम् ? यथा - ज्ञातेन्द्रजालतत्त्वस्य - निर्णीतेन्द्रजालरहस्यस्य, इन्द्रजालं पश्यतोऽपि - मन्त्रस्वभाववशेन दर्शनविषयतां नयतोऽपि, व्यामोहः - तत्सत्यतारूपो भ्रमो न भवति तथेत्यर्थः | जीवन्मुक्तिमुक्त्वाविदेहमुक्ति कथयति ततः इति | प्रयाणेन मरणेन प्रापितः पर्यन्तः यस्य तादृशे परमेश्वरता इति, सर्वव्यापकतालाभादिति भावः | तदुक्तम् - सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्रयम् | रुद्रो भूत्वा संहरति सृजत्येष पितामहः | बलेन तु शिव शासनोपदिष्टेन देहघटादावेव परमेश्वरतासमावेशमभिनिविश्य पश्यत इहैव शरीरे पारमेश्वर्याशधर्मोद्गमः, न तु वस्तुतः पूर्णता, देहत्वस्यैव संकोचप्राणस्य गलने यथास्थितविश्वात्मकतापत्तेः | यस्य तु व्यवहारसाधने हेतुकलापेऽपि असिद्धताभिमानः, इति | जीवन्मुक्तेः परांकाष्ठांकथयति अभ्यास इति | शिवशासनोपदिष्टेन - शिवशास्त्रकथितेन, अभिनिविश्य - अभिनिवेशं कृत्वा, हठेनेति यावत् | अभिनिवेशश्च अविच्छिन्नपरामर्शमात्ररूपो ज्ञेयः | कुतो न पूर्णतेति आह देहत्वस्य इति | गलने - नाशे, विदेहमुक्तौ इति यावत् | यथास्थितविश्वात्मकतापत्तेः, पारमार्थिक सर्वात्मतालाभात् इत्यर्थः | एतेन जीवन्मुक्तिविदेहमुक्त्योर्महान्भेदः उक्तः | जीवन्मुक्तिर्हि तत्त्वदर्शित्वमेवास्वादसहितम्, विदेहमुक्तितस्तु तत्त्वे लयः | परं तु जीवन्मुक्तिं विना विदेहमुक्तिर्दुष्प्रापैव | यत्तु भगवतोक्तम् | प्रयाणकालेऽपि च इति | तदपि जीवन्मुक्तिविषयमेव | प्रयाणसमयेऽपि हि जीवत्वमेव, मृतस्य प्रयाणायोगात् | यथा तथा तु सर्वदैव परतत्त्वनिष्ठेनैव भाव्यमुभयलोकहितत्वात् | तदुक्तम् - भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् | इत्याशंसेह शोमेत शंभोः भक्तिमतः परम् || इति | शंभोर्भक्तिर्ह्यत्रपरतत्त्वनिष्ठैव, न तु कल्पिताकारनिष्ठत्वम् | परतत्त्वनिष्ठो हि यथाप्राप्तं कुर्वन्नेव परतत्त्वनिष्ठो भवति | तेन च तस्योभयोरपि भोगमोक्षयोः सिद्धिरेव | तत्र भोगैकरतत्वं मूढत्वमेव मोक्षैकरतत्वमसंभवोपहतमुभयनिष्ठत्वं तु श्रेष्ठतरम् | तत्र भोगसाधने स्मृतिशास्त्रं प्रमाणम् | मोक्षसाधने च पतिशासनादीनि | ननु केचिद् ब्रुवन्ति मोक्षः सर्वेषां देहपाते स्वयंभाव्येवेति भोगैकपरेणैव भाव्यम् | सत्यम्, मोक्षस्तेषामनिष्ठोऽस्तीष्टो वा इति निर्णेयम् | यद्यनिष्टस्तर्हि तैः सहेयं चर्चैव न युक्ता, यदि त्विष्टस्तर्हि तेषां वाच्यम्, इष्टं यदि सत्वरमेव सिद्ध्यति तदिष्टतरमेवेति मोक्षार्थेमुद्यमः दिनानुदिनं वृद्धिं नेयः | परमार्थविचारे तु द्वयमप्येतदीश्वरायत्तमेवेति यद्यपि स एव सर्वत्र प्रमाणं तथापि भगवतैव दत्तसामर्थ्यानि निजबाह्यान्तःकरणानि अपि व्यापारयितव्यानि | यस्तु न व्यापारयति तानि तस्य तत्र प्रवृत्तिर्भगवतैव रुद्धा इति कोऽभ्युपायः | इत्यलमनाख्येषु वस्तुषु प्रसंगपरंपराभिः | यतो यद्भगवतः तस्य तत्रापि व्यवहारसाधनैरेव व्यामोहोऽपसार्यः | यस्य तु सर्वथा नापसरति, तत्रेश्वरशक्तिवलान्मूढतैव, तस्यापि कर्णपथगमनात् संस्कारपाकेनावश्यं कदाचिद्भविष्यत्येव स्वरूपलाभः इति | तदेवं [स्वरूपलाभः | तदेवं कर्तरि ....................K. ष्. ष्.] करणीयम् तत्स्वयमेव सर्वान् कारयति | ननु यदि अभ्यासभावनाबलेनैव पारमेश्वर्यांशधर्मोद्गमः तर्हि कृतमनया व्यवहारेण परतत्त्वसाधनपरया नवमार्गप्रदर्शिन्या प्रत्यभिज्ञयेत्यत आह यस्य तु इति | तु व्यतिरेके | यस्य पुरुषस्य अर्थादभ्यासादिना साधितपरतत्त्वनिर्णयस्य, व्यवहारसाधने हेतुकलापे - हेतु समूहे असिद्धताभिमानः, लक्षणया तन्निष्ठान् महागुरून् प्रति असिद्धाः एते इत्येवंरूपः अभिमानो [इत्येवंरूपः अभिमानो न भवति - C.] भवति, तस्य - सर्वं वाक्यं सावधारणमिति न्यायेन तस्यैव, नत्वभ्यासादिरहितस्य | तत्रापि - देहस्थितिं यावत् प्रहेये व्यवहारेऽपि, व्यवहारसाधनैरेव - [व्यवहारसारसाधनैरेव - C.] स्मृत्यादिरूपैर्व्यवहारकारणैर्वस्तुभिरेव, व्यामोहः अपसार्यः प्रत्यभिज्ञोक्तनयेन नाशनीयः, येन तेषां शुद्धे व्यवहारे प्रवृत्तिः तत्कारिषु महागुरुषु च भक्तिरुत्पद्यते इति भावः | एवं च ये केचिदेवं कथयन्ति - व्यवहाररतानामेव व्यवहारसाधनैरुपदेशः कार्य इति, ते तु तैः अवटपतिता अवटान्तरे पात्यन्त एवेत्यलं परचोद्याविर्भावनेन खलत्वाव्यभिचारिणा | ननु एवमुक्तोपि यदि न शृणोति तर्हि किं कार्यमित्यत आह यस्य इति | अभ्यासादिवशेन किञ्चिन्मोहापसारणमपेक्ष्य सवथा इत्युक्तम्, योग्यत्वेपि व्यवहारेपि परमार्थदृष्टियुक्तान्महागुरूनपेक्ष्यैवमुक्तम् | यथा सम्राडपेक्षया माण्डलिकस्यानीश्वरत्वमिति | ननु तर्हि तस्य कदापि किमेतच्चित्ते न लगिष्यतीत्यत आह तस्यापि इति | तस्यापि कालेनैतच्चित्ते लगिष्यत्येवेति भावः | ननु यस्यैतत्कर्णपथं न गतम् तस्य का वार्ता ? सत्यम्, प्रथमभगमनमेवासंभवोपहतम् [प्रथसमगमनमेवासंभवोपहतम् - C.], तत्संभवेऽप्यभ्यास महानिष्ठतायामयमर्थः स्वयं स्फुरिष्यत्येवान्यथा स्वतः सिद्धासंभवापत्तेः, कथिताश्च शास्त्रे स्वतः सिद्धाः | दृष्टाश्च शास्त्राध्ययनेन विनैव एवंविधोपदेशकर्तारो महागुरव कर्तरि (१|१|२) इत्यादिश्लोकद्वयेन यदुक्तं तदेव विश्ववैचित्र्य इत्यादिश्लोकत्रयेणोपस्कृत्य पुनर्निरूपितम्, एवं भूतं तावत् प्रमाणम् तदेवं - भूते भगवति कथमुपपद्यताम् | ततश्च युक्तमुक्तं शास्त्रादाविति भङ्ग्यन्तरेण इदानीं तदेव निर्वाहितम् - इति शिवम् || १७ || आदितः || १२० || इति श्रीमदभिनवगुप्ताचार्यविरचितायां प्रत्यभिज्ञासूत्रविमर्शिन्यां क्रियाधिकारे मानतत्फलमेयनिरूपणं नाम तृतीयमाह्निकम् || ३ || इत्यलं प्रपंचेन | भविष्यति इति, अत्र व्यामोहापसार इति शेषः, इति शब्दः प्रमेयसमाप्तौ | उपसंहारं करोति तदेवम् इति | शास्त्रादौ ज्ञानाधिकार प्रथमाह्निकप्रारंभे इत्यर्थः | उपस्कृत्य - उपस्कारयुक्तं कृत्वा, सविशेषमितियावत् | गुणाधानं हि उपस्कारः स एव विशेष इति | सिद्धान्तं कथयति एवं इति | एवंभूतम् - नवनवाभासरूपं प्रमेयतासहं च | एवंभूते - नित्ये स्वप्रकाशे च | उक्तम् - सिद्धिं विदधीत कः इत्येवं रूपं वस्तु, शास्त्रादौ, कर्तरि इत्येवं रूपे शास्त्रप्रारंभे इत्यर्थः | इति - अतः कारणात्, इदानीम् - क्रियाधिकारतृतीयाह्निकान्तसमये, तद् एव भग्यन्तरेण - अन्यथा रचनया, निर्वाहितम् - सिद्धीकृतम्, प्रारम्भोपन्यस्तवस्तुनिर्वाहणपरत्वात् सर्वशास्त्राणाम् इति भावः | इति शब्दः आह्निकव्याख्यासमाप्तौ | शिव - पदं मंगलवाचकं परतत्त्वसूचन - परञ्च इति शिवम् || १७ || इति श्रीमन्महामाहेश्वराचार्यवर्य श्रीभास्करकण्ठविरचितायामीश्वरप्रत्यभिज्ञासूत्रविमर्शिनी- टीकायां श्रीभास्कर्याख्यायां क्रियाधिकारे तृतीयमाह्निकं समाप्तम् | इति शम् क्रियाधिकारे चतुर्थमाह्निकम् भावानाभासयन् कर्ता निर्मले स्वात्मदर्पणे | कार्यकारणभावं च यश्चित्रं तं स्तुमः शिवम् || भास्करी स्वभित्तिदर्पणे भावान्भासयेद्योऽति निर्मले | कार्यकारणभावञ्च तेषां तं संस्तुमः शिवम् || अथ क्रियाधिकारे चतुर्थाह्निकस्य निर्विघ्नव्याख्यासमाप्तये प्रचयगमनाय च कायमनोभ्यां कृतमपि परतत्त्वरूपेष्टदेवतानमस्कारलक्षणं मङ्गलं सकलाह्निकतात्पर्यसूचकेन श्लोकेन शिष्यशिक्षार्थं वाग्विषयीकरोति भावान् इति | वयं तं शिवम् - सर्वाभासकरूपं सर्वकर्तृरूपं च शिवम् स्तुमः | तं कम् ? कर्ता - सर्वकर्तृतया स्थितो यः शिवः, निर्मले - स्वयं भासनयोग्यत्वेन परभासनरूप प्रतिबिम्बसहिष्णुतया च मलरहिते, स्वात्मदर्पणे - चिन्मात्राख्यनिजरूपमुकुरे, भावान् - सदाशिवादि धरण्यन्तं स्थितं तत्त्ववृन्दम्, आभासयन् - ज्ञातृत्वावस्थायां प्रतिबिम्बभावेन भासनशीलान् कुर्वन् भवति, ततः चित्रं कार्यकारण भावं च - नानाविधं कार्यकारणभावं च भासयन् कर्ता भवति | पूर्वाह्निकोक्तज्ञाप्यज्ञापकभावपूर्वं कार्यकारणभावमाभासयन् भवतीति यावत् | एतेनात्राह्निके कार्यकारणभावो भविष्यतीति सूचितम् | भासेर्णिजन्तस्य प्रथमासमानाधिकरणे शतृप्रयोगे रूपम् | तत्र च भावाः स्वयमेव भासनकर्तारः, अयन्तु तेषां तत्र क्रियाशक्तिस्फारप्रायसंबन्धप्रसङ्गात् [संबन्धाभिधानप्रसङ्गात् - K. ष्. ष्.] ज्ञाप्यज्ञापकभावस्य तत्त्वं प्रसाध्य, कार्यकारणभावस्य तत्त्वं प्रसाधयितुं श्लोकैकविंशत्या आह्निकान्तरमारभ्यते, - एष च इत्यादि एवमिच्छैव हेतुता कर्तृता क्रिया इत्यन्तम् | तत्र श्लोकेन स्वमते कर्तृकर्मभाव एव कार्यकारणभावः, - इत्युपक्षिप्यते | ततः श्लोकत्रयेण जडस्य कारणत्वं पराक्रियते | ततः श्लोकषट्केन चेतनस्यैव कर्तृतारूपा कारणता प्रसाध्यते | ततः प्रसङ्गादनुमाने नियतिशक्तिरवश्योपजीव्या, - इति श्लोकत्रयेणोच्यते | ततः सौगतोक्तकार्यकारणपरमार्थोऽपि [सौगतोक्तकार्यकारणभावपरमार्थो - K. ष्. ष्.] अस्मन्मतमेवावलम्बते, नो चेत् न किञ्चित्, - इति त्रिभिः श्लोकैः | सांख्योपदर्शितोऽपि कार्यकारणभावो नोपपद्यते, यद्यस्मदुक्तं चेतनस्य कर्तृत्वं नाङ्गीक्रियते, - इति त्रिभिः | चेतनस्यापि अनीश्वरतायां नैतद्घटते, - इति द्वाभ्यामिति संक्षेपार्थः | ग्रन्थस्तु [ग्रन्थार्थस्तु - K. ष्. ष्.] व्याख्यायते | भासने प्रेरणां करोति, प्रेरणा एव च समर्थाचरणम् | एवं मङ्गलं संपाद्य सकलाह्निकतात्पर्य समस्तव्यस्तत्वाभ्यां कथयति क्रिया इति | अत्र टीका - क्रियाशक्तेर्यः स्फारः - स्फुरणम्, विजृम्भणमिति यावत्, तत्प्रायः - तत्कल्पः यः सम्बन्धः तस्य प्रसङ्गात्, न तु प्रस्तुतत्वेनेति भावः | तत्त्वम् - स्वरूपम्, प्रसाध्य - पूर्वाह्निके प्रकर्षेण साधयित्वा | एवं सामस्त्येनाभिप्रायमुक्त्वा व्यस्तत्वेन कथयति तत्र इति | तत्र - श्लोकैकविंशतिमध्ये, उपक्षिप्यते, कथ्यते इत्यर्थः | एवम् शब्दः करणादेः कारणत्वव्यावर्तनसूचनपरः, ततः - तदनन्तरम्, श्लोक इति, द्वितीयतृतीयचतुर्थैरित्यर्थः | पराक्रियते - निवार्यते, अवश्योपजीव्या - अवश्यापेक्षणीया, श्लोकत्रयेण, एकादशद्वादशत्रयोदशश्लोकैरित्यर्थः | ततः [तत् - C.] सौगतोक्तकार्यकारणपरमार्थः त्रिभिः, चतुर्दशपञ्चदशषोडषरूपैरित्यर्थः, कुतो नोपपद्यत इत्यत आह यदि इति | त्रिभिः इति | एवं क्रियाशक्तिमुखेन प्रमात्रेकरूपतां भगवति व्यवहर्तव्यां प्रसाध्य, कर्तृरूपतापि तत एवायत्नसिद्धा, - इति दर्शयितुमाह एष चानन्तशक्तित्वादेवमाभासयत्यमून् | भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा || १ || चोऽवधारणे | एष एव पुराणः प्रमाता अमून् भावान् आभासितपूर्वान् आभासान् [आभासमानान् आभासयति अविच्छिन्नेन प्रबन्धेन - K. ष्. ष्.] आभासयति अविच्छिन्नेन प्रबन्धेन | कथम्, इच्छाया ईशितुरभिनाया अविकल्परूपाया अक्रमाया वशेन सामर्थ्येन | कुत्रास्य ते भावाः स्थिताः ? आह; अनन्तशक्तित्वात् इति | विश्वे हि भावास्तस्यैव शक्तिरूपेण स्वरूपात्मत्वेन स्थिताः; सप्तदशाष्टदशैकोनविंशतिरूपैरित्यर्थः | द्वाभ्याम्, विंशत्येकविंशतिरूपाभ्यामित्यर्थः | अथ प्रथमश्लोकस्यावतरणिकां करोति एवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एष च इति | अत्र टीका - एषः इति व्याचष्टे पुराणः इति, अमून् भावान् इति व्याचष्टे आभासित इति | पूर्वं न त्वद्यैव आभासितान् आभासितपूर्वान्, स्वरूपत्वादनादित्वेन स्थितानिति यावत् | आ समन्तात् भासन्ते इति आभासाः, तान्, अथवाऽऽभासमात्रसारत्वेनाभासरूपानित्यर्थः | आभासयति इति निगदव्याख्यातम् | वर्तमानताभिप्रायमाह अविच्छिन्नेन इति | वर्तमानता हि स्फुटं सातत्यद्योतनपरा, अन्यथा भासयेदिति ब्रूयात् | इच्छावशात् इति व्याख्यातुमवतरणिकां करोति कथम् इति | एतदुत्तरत्वेनैतत्पदं व्याचष्टे इच्छायाः इति | ईशितुः - इच्छायाः कर्तुः, शक्तितद्वतोरभेदमपेक्ष्याह अभिन्नायाः इति | लौकिकेच्छायाः अस्याः श्रेष्ठत्वं कथयितुमाह अविकल्प इति | अविकल्परूपायाः, एषणीयोपरागरहिताया इत्यर्थः | अनन्तशक्तित्वात् इति व्याख्यातुमवतरणिकां करोति कुत्र इति | विश्वे - सर्वे, अस्य - पुराणप्रमातुः, स्वरूपात्मत्वेन - स्वरूपभावेन, शक्तिर्हि शक्तिमतः स्वरूपमेव | इत्युक्तं स्वमिनश्चात्मसंस्थस्य...............१ | ५ | १० | इत्यत्र | यदेतदाभासनं यासाविच्छा, सा क्रिया, अस्य भगवतो निर्मातृत्वम् || १ || ननु बीजादङ्कुर उद्भवन् दृश्यते, न च अत्र कश्चिच्चेतनोऽनुप्रविशन् दृष्टः, तत्कथमेतदुक्तम् ?, - इत्याशङ्क्याह जडस्य तु न सा शक्तिः सत्ता यदसतः सतः | कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः || २ || जडस्य बीजस्यैवंभूतं सामर्थं नास्ति यत् असद्रूपं सद्रूपं वाङ्कुर तदुक्तम् - शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति | तादात्म्यमनयोर्नित्यं वह्निदाहकयोरिव || इति | कुत्रोक्तमित्यत आह स्वामिनः इति | अत्र, अस्मिन् श्लोक इत्यर्थः | एषा इत्यादि श्लोकशेषं व्याचष्टे यदेतत् इति | एतच्छब्देन व्यवहिता - व्यवहितयोः परामर्शः | असौ - आभासनविषया, निर्मातृत्वम्, निर्मातृरूपेत्यर्थः | सर्वं वाक्यं सावधारणमिति नीत्या, न तु अन्या स्थूला करणरूपेत्यर्थः || १ || अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे जडस्य इति | अत्र टीका - जडस्य इति व्याचष्टे बीजस्य इति | सा इति व्याचष्टे एवं भूतं इति | शक्तिः इति व्याचष्टे सामर्थ्यम् इति | सत्ता इति व्याकुर्वन् एवंभूतमित्यस्याकांक्षां पूरयति यत् इति | सद्रूपम् इति परिदृश्यमानसत्तावन्तं करोति | बीजादङ्कुरो जायते, - इति नाङ्कुरस्य महिमा असत्त्वात्; अङ्कुरो जायत, - इति च महिमा कथं बीजस्य, ततोऽङ्कुरादन्यत्वात् | यत एवं तस्मात् कार्यं क्रियाशक्त्या भास्यमानं [अवभास्यमानम् - K. ष्. ष्.] कर्मैव इति कृत्येनैव आविष्कृतम्, कार्यते अनेन कर्तां तत्समर्थाचरणेन, - इति कारणमपि कर्तरि चेतने विश्राम्यति | असतः सतः इति असद्रूपस्य सत इत्यर्थः | वार्थो वात्र गर्भीकृतः, असतोऽङ्कुरस्य सतो वा बीजस्य - इति | अङ्कुरस्य सतोऽसतो वा इत्येवं वा || २ || ननु जडस्य कथमेषा शक्तिर्न भवति, - इत्याह यदसत्तदसद्युक्ता नासतः सत्स्वरूपता | सतोऽपि न पुनः सत्तालाभेनार्थः.......... सद्वा कार्यमसद्वा संभाव्यते | उभयात्मकम् अनुभयात्मकमनिर्वाच्यम्, सांख्यमतापेक्षया, तेषां मते हि सत्कार्यम्, असद्रूपम् इति तार्किकमतापेक्षया | अत्र समर्थनं करोति बीजात् इति | असत्त्वात् इति, न हि शशशृङ्गस्य क्तापि महिमा दृश्यते इति भावः | एतेन पूर्वार्धस्य व्याख्या संपन्ना | उत्तरार्धं व्याख्यातुमवतरणिकां करोति यत एवम् इति | एवम् - जडस्य सा शक्तिर्न भवति इत्येवम्, भास्यमानम् - भासनविषयीकृतम् | कृत्येन - ण्यता, आविष्कृतम् - सूचितम्, कर्मणि विहितत्वादिति भावः | एतेन कार्यस्य कर्मतत्त्वता साधिता | कर्ता - स्वतन्त्रकर्ता, तत्समर्थाचरणेन - प्रेरणरूपेण तत्समर्थाचरणेन, कर्तरि - हेतुकर्तरि, एतेन णिजन्तात्करोतेरत्र कर्तरि ल्युडिति सूचितम् | एतेन कारणस्य प्रयोजककर्तृतत्त्वता साधिता | व्याख्यातमपि असतः सतः इति पदद्वयं प्रकारत्रयेण पृथक् व्याचष्टे असद्रूपस्य इति | सतः, वर्तमानस्येत्यर्थः | वा अर्थः विकल्पः | अत्र तृतीयः प्रकार एव युक्तः स एव च पूर्वं गृहीतः || २ || अथ तृतीयस्य श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे यत् इति | अत्र टीका - संभाव्यते - संभावयितुं शक्यते | ननु वेदान्तिभिरुभयात्मकत्वेऽपि अनु- इति तु स्ववाचैव विरुध्यते तत् किमनेन | यदि असन् घटः, तर्हि तस्यासद्रूपतैव परमार्थः [परमार्थतः - K. ष्. ष्.] इति कथं स्वरूपविरुद्धं सत्त्वमभ्युपगच्छेत, न हि पादपतनशतैरपि नीलमात्मनि पीतिमानं मृष्यते | अथ सन्नेव घटस्तर्हि किमन्यत् उपयाच्यते दण्डचक्रसूत्रात् | अभिव्यक्तिविषयत्वस्फुटत्वादयोऽपि सदसद्रूपतया चिन्त्याः || नन्वेवं तूष्णीमास्यताम्, नैतदपि युक्तम् इत्याह ....................................................... अथ चोच्यते || ३ || तदवश्यसमर्थ्योऽयमर्थ इति यावत् || ३ || भयात्मकतारूपमनिर्वाच्यत्वमत्र संभाव्यत इत्यत आह उभयात्मकम् इति | विरुध्यते इति, उभयात्मकत्वानुभयात्मकत्वयोः स्फुटं विरोधादितिभावः | अनेन - अनिर्वाच्यत्वपक्षेण, परमार्थः - सत्यं स्वरूपम् | अभ्युपगच्छेत् - अङ्गीकुर्यात् | कुत इत्यपेक्षायामाह न हि इति, पीतिमानम् - पीतताम्, मृष्यते - सहते | अन्यत् - सत्ताव्यतिरिक्तं वस्तु, दण्डचक्रसूत्रात्, एतद्रूपाद्धे तोरित्यर्थः | नन्वत्राभिव्यक्तिः स्फुटत्वादि [स्फुटत्वादण्डादिभिः - C.] च दण्डादिभिः साध्यत इत्यत आह अभिव्यक्ति इति | चिन्त्याः - इति, यदि सद्रूपास्तर्हि तत्साधनमफलमेव [तत्साधने महलमेव - C.], यदि त्वसद्रूपास्तर्हि तत्साधनमसंभवोपहतमेवेतिभावः | एतेन अर्थः इत्यन्तं व्याख्या संपन्ना | अथ चोच्यते इति व्याख्यातुमवतरणिकां करोति नन्वेवम् इति | अत्रोत्तरं कथयति नैतत् इति | केनाह इत्यपेक्षायां व्याख्येयं श्लोकखण्डमुपन्यस्यति अथ चोच्यते इति | अत्र वाक्येन पर्यायत्वेन भावं कथयति तदवश्य इति, तत् - ततो हेतोः, अयमर्थः - कार्यकारणभावाख्योऽर्थः, अवश्यसमर्थ्यः - अवश्यसमर्थनीयो भवति | यतो लोके इयं कार्यकारणतोच्यते ततः समर्थनीयेतिभावः | एतेन उत्तरश्लोकस्थं कार्यकारणता लोके इति पदद्वयमिहैव योजनीयमिति सूचितम् || ३ || ततश्च इत्थमुपपद्यत [उपपाद्यते - K. ष्. ष्.] इति दर्शयति कार्यकारणता लोके सान्तर्विपरिवर्तिनः | उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः || ४ || कुम्भकारहृदये अन्तर्मनोगोचरत्वात् पूर्वमपि स्वसंविदेकात्मतया विचित्रत्वेन विश्वस्य भेदाभेदात्मना परिवर्तमानस्य स्पन्दनेन स्फुरतो अथ चतुर्थस्य श्लोकस्यावतरणिकां करोति ततः इति | अत्र टीका - अयमर्थ इति शेषः | इत्थम् - वक्ष्यमाणेन प्रकारेण, उपपद्यते - घटते | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे कार्य इति | अत्र टीका - कार्यकारणता लोके इति पदद्वयं पूर्वश्लोके योजितत्वेन विहाय सान्तर्विपरिवर्तिनः इत्यादि व्याख्यातुं तावत् अन्तर्विपरिवर्तिनः इति समस्तं पदं विग्रहपूर्वं व्याचष्टे कुम्भकार इति | तत्रापि अन्तः इति अवयवं व्याचष्टे कुम्भकार इति | मनोगोचरत्वात् - इच्छाद्वारेण मनोविषयत्वात्, पूर्वमपि - निर्माणादग्रेपि | अव्ययत्वेन सर्वलिङ्गत्वात् अन्तरित्यस्य तृतीयार्थद्योतकत्वम्, अन्तः शब्दस्य संविदात्मत्वं पूर्वमेवोक्तम् | वि इत्युपसर्गं व्याचष्टे विचित्रत्वेन इति | विश्वस्य इति विशेष्यत्वेनाक्षिप्तम्, अन्यथा विशेषणस्य निर्विषयत्वापत्तेः | तच्चात्र [ततश्चात्र घट एव भेदाभेदात्मनो इति विचित्रत्वेनोत्पन्नेन योजनीयम् - C.] घट एव | भेदाभेदात्मना इति विचित्रत्वेन इत्यनेन योजनीयम् | भेदाभेदरूपया विचित्रतयेत्यर्थः | परिवर्तिनः इति व्याचष्टे परिवर्तमानस्य इति, अत्रापि स्वयमेव व्याख्यां करोति स्पन्दनेन इति | स्पन्दनेन - परामर्शरूपेण, स्फुरतः - भेदाभेदभावेन भासमानस्य, पदार्थवर्गस्येति यावत् | तत्र सामान्यभावेनाभेदः स्वलक्षण - यत् अन्तःकरणबहिष्करणद्वयवेद्यत्वमाभास्यते, एषैव सा कार्यकारणता | उभयग्रहणमुपलक्षणम्, यस्य यावति पूर्णाथक्रिया [यस्य यावति पूर्णार्थक्रियासमाप्तिरिति यावत् - K. ष्. ष्.] समाप्तिरिति यावत् | सुखादीनाम् अन्तःकरणैकवेद्यतापादनमेव निर्माणम् | न च कुम्भकारे प्राणपुर्यष्टकबुद्धिशून्यदेहप्राये तदेतत् स्थितम्, एतस्यापि [तस्यापि - K. ष्. ष्.] जडत्वात् | ततः संविदेव विश्वमात्मनि भासयति शक्तिवैचित्र्यात् | तस्य कस्यापि इति पूर्वमुक्तस्य अचिन्त्यापर्यनुयोज्यमहिम्न इत्यर्थः | न च वाच्यम् उभयेन्द्रियवेद्यत्वमपि भावेन भेद इति क्रमः | उभय इति समस्तं [उभयम् इति व्याचष्टे समस्तम् - C.] पदं व्याचष्टे यत् इति | आभास्यते - स्वयमेव भासविषयतां याति, कर्मकर्तरि लकारः | एषा इत्यनेन वाक्यार्थपरामर्शः | उभयेन्द्रियवेद्यत्वमिति यावत् | श्लोकस्थं सा इति पदं व्याचष्टे कार्यकारणता इति | सामर्थ्यत्वेनोक्तेत्यर्थः | कार्ये - कार्यविषये कारणता कार्यकारणता | अर्थक्रिया इत्यस्य पर्यायमाह समाप्तिः इति | स्वरूपग्रहणमिति यावत् | अन्यथानुमानादिवेद्यस्य ग्रहणं न स्यादिति भावः | ननु सुखादेरुभयेन्द्रियवेद्यत्वं नास्तीति तस्य कार्यत्वं न प्राप्नोतीत्यत आह सुखादीनाम् इति | तस्य कस्यापि इत्यादि व्याख्यातुमवतरणिकां करोति न च इति | तदेतत् - साध्यमानं कारणत्वम्, एतस्यापि - कुम्भकारप्राणादेरपि | फलितकथनरीत्या तस्य इत्यादि व्याचष्टे ततः इति | तस्य कस्यापि इत्यस्य व्याख्या संविद् इत्यनेन | शक्तितः इत्यस्य व्याख्या शक्तिवैचित्र्यात् इत्यनेन | एतेन शक्तितः इत्यस्य शक्तिभ्य इत्यर्थ इति द्योतितम् | ननु तस्य कस्यापि इत्यनेन संविदो न ग्रहणम् इत्यत आह पूर्वम् इति | अचिन्त्यापर्यनुयोज्यमहिमत्वं च संविद एवेति भावः | नन्वभिव्यक्त्यादिविषये यत् सदसत्त्वाभ्यां चिन्त्यत्वमुक्तं तदुभयेन्द्रियवेद्यत्वेऽपि समानमित्यत आह न च इति | चिन्त्यमित्यर्थः | कुतो न वाच्यमित्यत आह सदसद् वा इति | यतोऽयमत्र परमार्थः - यथा दर्पणान्तः कुम्भकारनिर्वर्त्यमानघटादिप्रतिबिम्बे दर्पणस्यैव तथाभासनमहिमा [तथावभासनमहिमा - K. ष्. ष्.], तथा स्वप्नदर्शने संविदः, तथापि तन्महिम्नैव एतेन एदं बहिः स्फुटरूपं क्रियत इत्यभिमान उल्लसति | एवं संविन्महिम्ना कुम्भकृति दण्डचक्रादौ घटे स्थिते [घटेऽवस्थिते - K. ष्. ष्.] तन्महिम्नैव अभिमानो जायते; यथा मया इदं कृतम्, अनेन इदं कृतम्, मम हृदये स्फुरितम्, अस्य हृदये स्फुरितमिति | तत्र जडस्य मृदादेर्दूरापेतोऽभिमान इति संवित्स्वभावे कर्तृत्वं व्यवस्थाप्यते | यतोऽयम् इति | अत्र - अस्मिन्विषये | क इत्यत आह यथा इति | दर्पणान्तः - मुकुरमध्ये, निर्वर्त्यमानः - अस्मिन्समय एव क्रियमाणः, न तु निर्वर्तितः, आदि शब्देन कुम्भकारनिर्वर्त्यमानतादिग्रहणम् | तथा भासनमहिमा - घटस्य कुम्भकारनिर्वर्त्त्यमानतया भासनरूपो महिमा, संविदः - स्वप्नसंविदः | अत्रापि कुम्भकारनिर्वर्त्यमानताग्रहणमेवेष्टम् | ननु तत्रापि कथं कुम्भकारेणायं घटः क्रियत इत्यभिमानो दृश्यत इत्यत आह तथापि इति | यद्यपि कुम्भकारेण निर्वर्त्यमानतयैवग्रहणमस्ति तथापीत्यर्थः | तन्महिम्ना - प्रतिबिम्बविषये दर्पणमहिम्ना स्वविषये संविदः महिम्ना, एतेन - कुम्भकारेण, क्रियते इति, नत्वहं स्वान्तर्भ्रमेणैव पश्यामीत्यर्थः | उल्लसति - स्फुरति, दर्पणाभावे हि घटोपि न भायात्, नापि कुम्भकारः, नापि तेन तस्य निर्वर्त्यमानत्वम् | अत्र हि पृष्ठे घटं कृतवतः कुम्भकारस्य पुरःस्थे दर्पणे प्रतिबिम्बतया ग्रहणमिष्टम्, न तु साक्षात्, तथा स्वप्नेऽपि घटस्य कुम्भकारक्रियमाणतयैव ग्रहणमिष्टम्, अतोऽत्रापि स्वप्नसंविद एवैतद्दर्शने सामर्थ्यमित्यलं प्रपञ्चेन | दृष्टान्तद्वयमुक्त्वा दार्ष्टान्तिकं कथयति एवम् इति | संविन्महिम्ना - घटनिर्माणप्रवृत्तकुम्भकारग्रहणप्रवृत्तायाः संविदः महिम्ना, स्थिते सति - संविन्निष्ठा वस्तुस्थितय इति न्यायेन सिद्धे सति | घट इत्यस्यानन्तरं समुच्चयवाचकशब्दाध्याहारः | अभिमानं दर्शयति यथा इति | तत्र - तस्मिन्घटव्यवस्थाकरणे, संवित्स्वभावे - संवित्स्वख्ये, व्यवस्थाप्यते - समर्यादीक्रियते, ननु भावरूपमेव इत्थं भास्यतां किं द्वयेन्द्रियवेद्यत्वेनोक्तमत्र, स्फुटमर्थक्रियाक्षमं रूपमनेनोक्तम्, - इति को विरोधः || ४ || अनेन च विचारेण प्रकृतमपि क्रियास्वरूपं सिद्धं भवति, - इति दर्शयति एवमेका क्रिया सैषा सक्रमान्तर्बहिः स्थितिः | एकस्यैवोभयाकारसहिष्णोरुपपादिता || ५ || सैषेति, यस्याः स्वरूपत आश्रयतश्च नोपपद्यते इति उपालम्भः तत्रैव युक्तत्वादिति भावः | तदुक्तम् - कुम्भकारस्य या संविच्चक्रदण्डादियोजने | शिव एव हि सा यस्मात्संविदः का विशिष्टता || तस्मादेकैकनिर्माणे शिवो [शिवे - C.] विश्वैकविग्रहः | कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः || इति | अत्र शिष्यः प्रश्नं करोति ननु इति | इत्थम्, त्वदुक्तप्रकारेणेत्यर्थः | गुरुरुत्तरं कथयति उक्तमत्र इति | अत्र, अस्मिन्विषये इत्यर्थः | किमुक्तमित्यत आह अर्थक्रियाक्षमम् इति | अनेन, उभयेन्द्रियवेद्यत्वेनेत्यर्थः | यत्तूभयेन्द्रियवेद्यत्वेन स्वलक्षणस्याक्षेपः ततस्तस्यैवाभिधानं युक्तमितिभावः | कोऽत्र विरोधः, नात्र विरोधोऽस्तीति भावः | एवमत्र योजना, तस्य कस्यापि शक्तितः सिद्धम् अन्तर्विपरिवर्तिनः उभयेन्द्रियवेद्यत्वम्, सा कार्यकारणता भवति इति | कार्यकारणता लोके इति अथ चोच्यत इत्यनेन सम्बध्यते || ४ || अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति अनेनच इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एवम् इति | अत्र टीका - सैषा इति व्याचष्टे यस्याः इति | उपालम्भः - मृषा प्रत्याख्यानम्, कृतः, सा उपपत्त्या स्थापिता | यतः संविद्रूपादान्तरात् प्रभृति इन्द्रियगोचरतया बहिष्पर्यन्ततया स्थितिराभासनारूपा, तत एव वेद्यात्मककर्मालिङ्गनेन सक्रमा तावदुपपन्ना, कर्तृकर्मैकाश्रयतादात्म्याच्च एका | स चैक आश्रयः संविद्रूपत्वेन स्वच्छत्वस्वतन्त्रत्वाभ्यामुभयमप्यन्तर्बहीरूपं सहत इति || ५ || क्रियया सह योजनार्थं पुनः परामर्शं करोति सा इति | उपपादिता इति पदं व्याचष्टे उपपत्त्या इति | उपपत्त्या - युक्त्या, स्थापिता - स्वयमेव स्थितवती सती तत्समर्थाचरणविषयतां नीता | अन्तर्बहिः स्थितिः इति विशेषणं हेतुत्वेन व्याचष्टे यतः इति | स्थिति पदं व्याचष्टे आभासनारूपा इति | सत्ता यस्याः सेति शेषः | तत्र संविद्रूपस्याभासना अहम् इति, बाह्यस्य तु करणरूपेति क्रमो ज्ञेयः | एतद्धेतुत्वेन सक्रमा इति पदं व्याचष्टे तत एव इति | वेद्यात्मकम् - वद्यरूपं यत्कर्म - कार्यम्, तस्यालिङ्गनेन, बहिर्विषयीकरणेनेत्यर्थः | तावदुपपन्ना इत्थध्याहृतेन पारमार्थिकत्वनिवारणं [पारमार्थिकनिवारणम् - C.] कृतम्, अन्यथा व्याख्यास्यमानैकत्वायोगात् | एका इति एकस्य इति च पदं व्याचष्टे कर्तृकर्म इति | ननु कोऽसौ कर्तृकर्मरूप एक आश्रयः येन तादात्म्यं भजते इत्यपेक्षायाम् उभय इति व्याचष्टे स चैक इति | संविद्व्यतिरेकेण स्वच्छत्वस्वतन्त्रतयोरयुक्ततामपेक्ष्य संविद्रूपत्वेन इत्युक्तम् | उभय इति पदं व्याचष्टे अन्त इति | तत्र स्वच्छत्वेनान्तारूपत्वम् स्वतन्त्रत्वेन बहीरूपत्वमिति क्रमः | आन्तरत्वं हि सारत्वं तच्च सूक्ष्मस्यैव संभवति, सूक्ष्मत्वस्य पराकाष्ठा च सत्त्वेऽप्यमानमेव | तच्च चिद्रूपस्यातिशुद्धस्फटिकदर्पणन्यायेन [स्फाटिकदर्पणन्यायेन - C.] स्फुटमेव | स्वतन्त्रत्वं च स्वेच्छया सर्वकारित्वं, तच्चात्र सर्वान्तरत्वेऽपि बहिर्भावासादनमेव | स्वेच्छया नीचयोग्येऽपि कर्मणि प्रवृत्तो हि सम्राट् स्वतन्त्र उच्यते इति सर्वमनवद्यम् | सहते इति, सर्वसहत्त्वादिति भावः | तदुक्तम् - अस्य ब्रह्मण ईदृगेव महिमा यत्सर्वरूपं वपुः इति | इति शब्दः श्लोकव्याख्यासमाप्तौ || ५ || ननु भवतु घटादावेवं, यत्र तु बीजाङ्कुरादौ चेतनानुप्रवेशो न दृश्यते तत्र कथं बीजस्यैवाङ्कुरः कार्यो न भवति ? इत्याशङ्क्याह बहिस्तस्यैव तत्कार्यं यदन्तर्यदपेक्षया | प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः || ६ || मातैव कारणं तेन स चाभासद्वयस्थितौ | कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता || ७ || अन्तराभासमानस्य तथारूपापरित्यागेनैव बहिराभासनं निर्माणम् | ततश्च यद् वस्तु यमपेक्ष्य अन्तरित्युक्तं तद् वस्तु तस्यैव आन्तररूपविपरिवृत्तिमात्रस्य [आन्तरवस्तुरूपविपरीवृत्तिमात्रस्य वहिष्करणार्हं भवति | K. ष्. ष्.] वहिष्कार्यं बहिष्करणार्हं भवति | संविद्रूपं च अथ षष्ठस्य सप्तमस्य च श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे बहिः इति | अत्र टीका - श्लोकद्वयं व्याख्यातुं प्रक्रियां करोति अन्तः इति | अन्तराभासमानस्य - मृद्रूपत्वेन मृदन्तराभासमानस्य घटस्य, तथारूपापरित्यागेन - आन्तररूपापरित्यागेन, घटो हि घटभावेऽपि मृत्त्वं न जहात्येव, न तु त्यागेन, बहिराभासनम् - मृद्व्यतिरिक्ततयाभासनम्, घटोऽयम् इति आभासनम् इति यावत् | निर्माणम् - करणम्, भवति | नन्वेवं भवतु ततः किमित्यपेक्षायां प्रथमे श्लोके योजनां करोति ततश्च इति | ततश्च - ततो हेतोश्च, इत्युक्तम् - इति कथितम् | तद्वस्तु - घटाख्यं वस्तु, तस्यैव - मृद्रूपस्य भावस्यैव, नत्वन्यस्य कस्यापि | सूत्रे व्यवहितत्वेन स्थितमपि बहिः इति कार्यम् इति च पदद्वयं संयोज्य व्याचष्टे वहिष्कार्यम् इति | अत्र पर्यायमाह बहिष्करणार्हम् इति, अर्हे कृत्यप्रत्ययः | तस्य कीदृशस्य ? आन्तररूपेण, भावप्रधानो निर्देशः, आन्तररूपत्वेन सारत्वेन, विशेषेण परितः वृत्तिमात्रम् - केवलं वर्तनं यस्य तादृशस्य, घटस्य ह्यान्तरं रूपं मृदेव | एतेन पूर्वार्द्धे गतव्याख्यम् | नन्वेवं भवतु ततः किम् इत्यपेक्षायामुत्तरार्धं व्याचष्टे संविद्रूपञ्च इति | प्रमातारमपेक्ष्य अन्तराभासिनो भावास्तदपेक्षयैव बाह्याभासा इति तेनैव एतेषां [तेषाम् - K. ष्. ष्.] बहिष्करणाभासनं [बहिष्करणावभासनम् - K. ष्. ष्.] युक्तम् | ततश्च प्रमातैव कारणं भवति न जडः ह्यर्थे चः | यस्मात् स प्रमाता कार्यस्यान्तर्बहिराभासनद्वयनिमित्ततया स्थितस्तेन विना तदपेक्षस्याभासद्वयस्यानुपपत्तेः, तस्मादेकस्य प्रमातुरेव न तु कथंचित् जडस्य उदिता प्रसाधितरूपा क्रिया निर्मातृता भवतीति || ७ || अन्तराभासिनः - इच्छाविषयत्वान्यथानुपपत्त्या प्रागिवार्थः इत्यत्रोक्तन्यायेन वा ऐकात्म्येन भासनशीलाः, भावाः - सर्वे पदार्थाः, तदपेक्षयैव - संविद्रूपमात्रपेक्षयैव [संविद्रूपमात्रापेक्षया - C.] | योग्यतया पूर्वार्धोक्तस्य वस्तुनोऽत्रापि योजनां करोति इति इति | इति - अतः कारणात्, तेनैव - आन्तररूपत्वेन स्थितेन प्रमात्रैव, एतेषाम् - भासमानानां सर्वेषां भावानाम्, बहिष्करणाभासनं युक्तम् भवति | फलितं कथयन् द्वितीयमपि श्लोकं व्याचष्टे ततश्च इत्यादि | तेन इति व्याचष्टे ततश्च इति | मातैव इति व्याचष्टे प्रमातैव इति | एवशब्दव्यावर्त्यं कथयति न जडः इति | सचाभासद्वयस्थितौ इत्यादेर्योजनां कर्तुमाह ह्यर्थे इति, चः - स च इत्यत्र स्थितः च शब्दः, ह्यर्थे हि - शब्दार्थे | योजनां करोति यस्मात् इति | सः इति व्याचष्टे प्रमाता इति | कार्यस्य इति निगदव्याख्यातम् | आभासद्वयस्थितौ इति व्याचष्टे अन्तः इति | सप्तमीयोजनां करोति निमित्ततया इति | एतेन निमित्तसप्तमीयम् इति द्योतितम् | तत् इति व्याचष्टे तस्मात् इति | एकस्यैव इति व्याचष्टे प्रमातुरेव | एवकारव्यावर्त्यमाह न तु इति | उदिता इति व्याचष्टे प्रसाधित इति, प्रसाधितरूपा - पूर्वं प्रसाधितस्वरूपा | क्रिया इति पदं व्याचष्टे निर्मातृता इति | भवति इति शेषत्वेनाक्षप्तम् | इति शब्दः श्लोक द्वयव्याख्यासमाप्तौ | एवमत्र श्लोकद्वये योजना | तस्यैव तद्बहिष्कार्यम् - स्वतो बहिः कार्यत्वेन भासनयोग्यं भवति | तस्य कस्य ? तत् किम् ? यदपेक्षया, एतदेव द्रढयति अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः | तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते || ८ || यत एवं चेतन एव निर्माता, अत एव नैयायिकादिभिरङ्कुरादौ यस्मिन्निति यावत्, यदन्तः भवति | पण्डितैः द्वयी - द्विरूपा बाह्यान्तरस्थितिः प्रमात्रपेक्षयोक्ता - प्रमातुरेव, तद्व्यतिरिक्तस्यान्यस्याभावात् | ततश्च प्रमातृकार्यत्वमेव सर्वेषां भावनामितिभावः | तेन - ततः कारणात्, मातैव - प्रमातैव, भावानां कारणं भवति | च - यस्मात्, सः - एकः प्रमातैव, कार्यस्य आभासद्वयस्थितौ [बाह्यान्तरस्थितौ - C] कारणम् - बाह्यान्तरस्थितिनिमित्तम् उक्तः | तत् - ततः कारणात्, उदिता - पूर्वं साधिता, क्रिया एकस्य - प्रमातुः संबन्धिनी भवति | अन्यनिमित्तताभासनस्यापि स्वप्ने घटे कुलालनिर्मीयमानताभानस्येव प्रमातृहेतुताऽनपायात् | न हि प्रमात्राऽगृहीतो हेतुर्हेतुर्भवतीति भावः इति || ६ || ७ || अथाष्टमस्य [सप्तमस्य - C.] श्लोकस्य अवतरणिकां विनैव व्याख्यां कर्तुमुपन्यासं करोति अत एव इति | अत्र टीका - अत एव इति व्याचष्टे यत एवम् इति | एवम् - उक्तप्रकारेण, निर्माता - कर्ता, कारणमिति यावत्, नैयायिकादिभिः इत्यस्य शेषत्वेन अध्याहारः | आदि शब्देन वैशेषिकादिग्रहणम् | इष्टः इति निगद - बुद्धिमानेव परमेश्वरो हेतुत्वेन इष्टः | ननु तैः निमित्तकारणतास्य अङ्गीकृता क्रियाविभागादिक्रमायातपरमाण्वादिद्वारकतया, समवायिकारणनिजावयवारम्भपरम्परया तु तत ईश्वरादन्यस्यापि बीजभूमिजलादेर्हेतुता कथिता | सत्यम् कथिता, सा तु नोपपद्यते, उक्तयुक्त्या जडस्य हेतुतायोगात्; ततश्चेश्वर एव बीजभूमिजलाभाससाहित्येनाङ्कुरात्मना भासते, - इतीयानत्र परमार्थः || ८ || ननुपरिदृष्टबीजादिव्यतिरिक्तबुद्धिमत्कारणकल्पनेन विना किमुपरु ध्यत इति परस्य भ्रान्ति भिन्दन्नाह व्याख्यातम् | एतेन पूर्वार्धव्याख्या संपन्ना | अथोत्तरार्धं व्याख्यातुमवतरणिकां करोति ननु इति | तु व्यतिरेके, तैः - नैयायिकादिभिः अस्य - ईश्वरस्य, क्रियाविभागादिक्रमेण - पूर्वं क्रिया, ततो विभागः, ततः पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादादिरितिक्रमेण, आयाता या परमाण्वादिद्वारकता - परमाणुहेतुता, आदि शब्देन द्व्यणुकहेतुता, तया सिद्धया, समवायिकारणभूता ये निजावयवास्तैर्या आरम्भपरम्परा - द्व्यणुकाद्यारम्भपङ्क्तिः तया हेतुभूतया, तत ईश्वरात् - तस्मादीश्वरात्, अन्यस्यापि - व्यतिरिक्तस्यापि, बीजभूमिजलादेर्हेतुता कथिता, नहीश्वरस्य व्यापकस्य क्रियाविभागादि युज्यते इति भावः | एवं प्रश्नरीत्यावतरणिकां कृत्वोत्तररीत्योत्तरार्द्धं व्याचष्टे सत्यम् इति | सर्वं वाक्य सावधारणमिति न्यायेन कथितैव इति योजनीयम् | एव शब्द व्यावर्त्यमाह सा तु इति | सा - बीजादिनिमित्तता | एतेन हेतुता इत्यस्य व्याख्या | उपपद्यते इति निगदव्याख्यातम् | स्पष्टत्वेन नान्यद् व्याख्यातम् | अत्र हेतुमाह उक्त इति | एतच्च क्षित्यादेः परमार्थतः स्थितां चेतनतामनपेक्ष्योक्तम् | अर्थबुद्ध्याविष्टं शिष्यं प्रत्येवमुक्तम् | फलितरीत्या सिद्धान्तं कथयति ततश्च इति | साहित्येन - सहिततया, तैः सह समेत्येति यावत् | अङ्कुरात्मना - बीजादिकार्यतया प्रसिद्धाङ्कुरभावेन, इयान् - एतावन्मात्रम्, परमार्थः - सत्यवस्तु || ८ || अथ नवमस्य श्लोकस्य व्याख्यां करोति ननु इति | अत्र टीका - उपरुध्यते - प्रतिवध्यते, कर्मकर्तरि लकारः, परस्य - बौद्धस्य, भ्रान्तिम् - तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया | तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् || ९ || तथा हि इति निदर्शनोपक्रमेण व्याप्तिरेवंभूतैव दृष्टा, - इति द्रढयति | जडा हेतवश्चेतनप्रेरिताः कार्यं कुर्वन्ति, मृदादयो यदि हि सन्निधानमात्रेण [यदि सन्निधिमात्रेण - K. ष्. ष्.] विदध्युः कुम्भकारेण किमत्र कृत्यम् | शिविकस्तूपकादिपरम्परया ते जनयन्ति; सा च कुम्भकारायत्ता इति चेत् सिद्धं नः साध्यम् - शिविकसंपादनेऽपि ते चेतनप्रेरणामपेक्षन्ते इति | तज्जडकारणानां चेतनप्रेरणामन्तरेण न क्वचित् कार्यकारित्वम् | यदि हि स्यात् भ्रमम्, भिन्दन् - नाशयन् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तथा हि इति | अत्र टीका - तथाहि इति व्याचष्टे तथाहि इति | निदर्शनोपक्रमेण - दृष्टान्तारम्भेण, दृढयति इति, दृष्टान्तेनैव दार्ष्टान्तिकदृढत्वापादनात् इति भावः | श्लोकं व्याख्यातुं प्रक्रियां करोति जडाः इति | चेतनेन - कुम्भकारादिना प्रेरिताः | कार्यम् - घटादिकम् | के ते जडा इत्यपेक्षायामाह मृदादयः इति | अत्र समर्थनं करोति यदि हि इति | सन्निधानमात्रेण - चेतनप्रेरणारहितेन सन्निधानेन | विदध्युः - कुर्युः | अत्र - अस्मिन्घटे, कृत्यम् - कार्यम् | अत्र शिष्यः प्रश्नं शङ्कते शिविक इति | ते - मृदादयः, सा च, शिविकस्तूपकादिपरम्परा च, कुम्भकारायत्ता, घटापेक्षया प्रथमोत्पादादिति भावः | शङ्किते उत्तरमाह सिद्धम् इति, साध्यम् - साधयितुमिष्टं सर्वत्र चेतनकर्तृत्वम् | तदेव दर्शयति शिविक इति | शिविकसम्पादने - प्रथमाभाविशिविकाख्याकारकरणे, ते - मृदादयः, इति शब्दः सिद्धसाध्यदर्शनसमाप्तौ | अपि शब्देन यत्रापूर्णघटरूपशिविकसंपादने चेतनापेक्षा तत्र घटकरणे तदपेक्षायाः का चिन्तेति दण्डापूपिकान्यायः सूचितः | फलितं कथयति तत् इति, क्वचित् - कुत्रापि देशे काले वा | व्यतिरेके व्याघातमाह यदि हि इति | स्यात् इति, समानन्या मृदादीनामपि स्यात्, इति एकान्त एषः | ततश्च यत् अचेतनं कार्यकारि तत् चेतनापेक्षं मृदादय इव, तथा च बीजादि, - इति स्वभावः | अचेतनकार्यकारित्वं हि कादाचित्कत्वात् सनिमित्तम्, न चान्यदस्य निमित्तमुपपद्यते अनुपलम्भात्, इति तत् [इति चेतनप्रेरणम् - K. ष्. ष्.] चेतनप्रेरणं यदि न निमित्तीकुर्यात् व्यापकविरुद्धमनिमित्तकत्वं [व्यापकविरुद्धमन्यनिमित्तकत्वम् - K. ष्. ष्.] प्रसज्येत; न च युक्तं तत्, मृदादावपि तस्यैव [तस्य प्रसङ्गात् - K. ष्. ष्.] प्रसङ्गात्, इति सिद्धा व्याप्तिः | अतश्च कुम्भकदेव यत्वादितिभावः | सिद्धमभीप्सितं संग्रहेण कथयति इति इति | इति - अतः कारणात्, एष एकान्तः - निश्चयो भवति | जडानां चेतनापेक्षत्वे न कोऽपि सन्देहोऽस्तीतिभावः | अत्र फलितमाह ततश्च इति | तथा च - यतोऽचेतनं कार्यकारि च अतश्चेतनापेक्षम् इति स्वयमेव योजनीयम् | इति स्वभावः - अयं स्वभावो भवति | न रूपादिसिद्धम् भवतीति भावः | कथमित्यपेक्षायामत्र समर्थनं करोति अचेतन इति | कादाचित्कत्वात् - कदाचिद्भवत्वात्, अनन्यथासिद्धनियतभाव्यन्यचेतनसन्निधिकाल एव भवनशीलत्वादिति यावत् | ननु तन्निमित्तं चेतनव्यतिरिक्तमेव भवतु इत्यत आह न च इति | अन्यत् - चेतनव्यतिरिक्तं किमपि वस्तु, अस्य - अचेतनकार्यकारित्वस्य, कुतो नोपपद्यत इत्यत आह अनुपलम्भात् इति | नह्यनुपब्धस्योपपन्नत्वं युक्तमिति भावः | इति - अतः कारणात्, तत् - अचेतनकार्यकारित्वम्, यदि चेतनप्रेरणां न निमित्तीकुर्यात् तदा तस्य अनिमित्तकत्वम् - निमित्तरहितत्वम् प्रसज्येत | अनिमित्तकत्वं कीदृशम् ? व्यापकविरुद्धम्, व्यापकेन - चेतनापेक्षारूपेण, विरुद्धम् - विरोधयुक्तम्, तेन बाध्यमानमिति यावत् | नह्यनिमित्तस्य सापेक्षत्वं युक्तमिति भावः | धूमेनाग्न्यनुमानेन चाग्निदेशगतं शीतं व्यापकविरुद्धम् | ननु व्यापकविरुद्धमप्यनिमित्तकत्वमत्र भवतु इत्यत आह न च इति | तत् - अनिमित्तकत्वम् | तस्यैव - अनिमित्तत्वस्यैव, प्रसङ्गात् - अनिष्टतया प्राप्तेः | नहि मृदादि चेतनानपेक्षं दृश्यत इति भावः | फलितमाह इति इति | इति - अतः कारणात्, अचेतनकार्यकारित्वचेतनापेक्षत्वयोः व्याप्तिः सिद्धा भवति | तत्रेश्वरः | तदेतदाह - ईश्वररूपया [ईश्वररूपा या व्यवस्था तया - K. ष्. ष्.] व्यवस्थया यः स स मृद्दण्डचक्रादीनां संस्कारः, मृदो मर्दनं, दण्डस्य प्रगुणत्वं, चक्रस्य परिवर्तनम् इत्यादिः, तदारम्भो यः क्रमः शिविकस्तूपकादिरूपः, तेन घटं नियोगतो जनयति, नान्यथा [नान्यथा, - इति नियोगे लिङ् - K. ष्. ष्.], - नियोगे लिङ् | किं च यदि न क्रुध्यते वस्तुतः कुम्भकारोऽपि ऐश्वर्यैव स्वतन्त्रविश्वात्मतारूपया व्यवस्थया मृदादि - अत्रापि फलितं कथयति अतश्च इति | तत्र - घटे, मृदादिप्रेरकत्वादिति भावः | उक्तप्रक्रियावष्टम्भेन श्लोकस्य व्याख्याकरणं प्रतिजानीते तदेतदाह इति | केनाहेत्यपेक्षायां श्लोकं व्याख्यातुमारभते ईश्वर इति | कुम्भकार इति पदं कुम्भकृदेव तत्रेश्वरः इत्यनेन कृतव्याख्यम् | ऐश्वर्यैव व्यवस्थया इति व्याचष्टे ईश्वर इति | ईश्वर इव रूपं यस्या सा ईश्वररूपा तया, व्यवस्थया - रचनया, ईश्वरसम्बन्धिन्या व्यवस्थया, ईश्वरवदिति यावत् | आदि शब्देन सूत्रादीनां ग्रहणम् | संस्कारमेव क्रमेण दर्शयति मृदः इति | मर्दनम् - पिण्डीकरणयोग्यतासंपादनम् | प्रगुणत्वम् - चक्ररन्ध्रे ऋजुतया स्थापनम् | आदि शब्देन रज्जोर्वेष्टनादेर्ग्रहणम् | तेन - संस्कारेण आरम्भो यस्य सः तदारम्भः | क्रमस्य स्वरूपं दर्शयति शिविक इति | तृतीयायोजनां करोति तेन इति | लिङर्थमाह नियोगतः इति | नियोगतः, नियमेनेत्यर्थः | नियोगव्यावर्त्यमाह नान्यथा इति | ननु नियोगोऽत्र कस्यार्थः इत्यत आह नियोगे इति | एतेन दृष्टान्तवाक्यत्वमस्य दृढीकृतम् | दार्ष्टान्तिकयोजनं तु स्वयमेव निपुणः करिष्यत्येव | तथा चैवमत्र योजना | असौ मृदादिकं प्रति प्रेरकत्वेन तदीश्वरतया स्थितः कुम्भकारः, ऐश्वर्या व्यवस्थयैव तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् - नियमेन जनयति इति, तथेश्वरोप्यङ्कुरादीन् जनयतीति दार्ष्टान्तिकयोजना स्वयमेव कार्या | अत्र च साध्यस्यापीश्वरस्योपमानीकरणं शास्त्रमपेक्ष्य कृतं न विरोधावहम् | ननु यद्येवं तर्हि दृष्टान्ते घटे कुम्भकारस्यैव परमार्थतः कर्तृत्वमायातमितीश्वरस्य सर्वकर्तृत्वं न युक्तमित्यपेक्षायामस्यैव श्लोकस्य द्वितीयां व्याख्यां कर्तुमवतरणिकां करोति किञ्च इति | ऐश्वर्या - ईश्वरे परमार्थतः स्थितया, संस्कारापेक्षया प्रदर्शितनियत्यभिधाननिजशक्तिविजृम्भातो घट जनयेत्; अन्यथा अचेतना मृदादयः कथं कुम्भकारेच्छामनुरुध्येरन्, तन्तवोऽपि वा पटसंपादनेच्छां किं नाद्रियेरन् | तदेतदपि उक्तम् अनेनैव सूत्रेण तथा हि इति | नन्वेवं कुम्भकृतो नास्ति कर्तृत्वम्, - इति समुत्सीदेत् धर्माधर्मव्यवस्था | यदि प्रत्येषि युक्त्यागमयोः तदेवमेव | तथापि समस्तेतरनिर्माणमध्य एव इदमपि परमेश्वरेणैव निर्मितं यदविचलस्तस्य कुम्भकारपशोर्मिथ्याकर्तृत्वाभिमानः प्रतिभुव इव अधमर्णताभिमानः | यदि पुनरीश्वरस्येच्छैव इयमीदृशी मा अस्य अनुरुध्येरन् - अनुगच्छेयुः | ईश्वरकृतया नियत्यैव कुम्भकारोऽपि मृदादिक घटकरणे प्रेरयितुं शक्नोतीति भावः | एवमत्र योजना | असौ - ईश्वरप्रेरितः कुम्भकारः ईश्वरस्थितया व्यवस्थयैव घटं जनयेत् न स्वतन्त्रतया | व्यवस्थया कीदृश्या ? तत्तन्मृदादिसंस्कारक्रमेण, प्रदर्शितनियतिशक्तिविजृम्भारूपयेत्यर्थः | युक्तत्वेनास्य पदस्याध्याहारः | अन्यथा स कुम्भकारः घटकरणे तन्तूनपि प्रेरयेदिति भावः | नन्वियं व्याख्या कस्य श्लोकस्य कृतेत्यत आह तदेतत् इति | केन सूत्रेणेत्यपेक्षायां सूत्रं भागेन दर्शयति तथाहि इति | तृतीयामपि व्याख्यां कर्तुमवतरणिकां करोति नन्वेवम् इति | एवम् - उक्तप्रकारेण, समुत्सीदेत् - नश्येत् | इति, सर्वत्रेश्वरकर्तृत्वाभिमानमभिनीय सर्वे उत्पथगामिन एव भवेयुरिति भावः | धर्माधर्मव्यवस्था - धर्माधर्ममर्यादा | उत्तरमाह यदि इति | यदि युक्त्यागमयोः - युक्तौ आगमे च, प्रत्येषि - प्रतीति करोषि, तदेवमेव भवति | ननु तर्हि धर्माधर्मव्यवस्थानाशः कथं निवार्यते इत्यपेक्षायामवतरणिकाविषयीकृतं श्लोकं व्याचष्टे तथापि इति | समस्तं यत् इतरत् - स्वस्माद् व्यतिरिक्तं भावजातम्, तस्य यन्निर्माणं तस्य मध्ये | इदं किमित्ययेक्षायामाह यत् इति | यस्त्वधमर्णमरणादिवशेन [यत्त्वधमर्णादि - C.] प्रतिभुवोऽधमर्णत्वाभिमानः स इह न विवक्षितः, तस्य सत्यरूपत्वात् | ननु तर्हि कदास्यासावभिमानो नश्यति इत्यत आह यदि इति | ईदृशी केत्यपेक्षायामाह मा - अस्य अभिमानोऽयम् उद्गमत् इति, तदा नासौ कर्ता कश्चित् | तदिदमपि उक्तं सूत्रेणैव तथा हि इति | कुम्भकारस्यापि मृदादिसंस्कार क्रमेण किं घटं जनयामि, उत न जनयामि इति य एकपक्षनिश्चयाय संप्रश्नात्मा विचारः, स ईश्वरसंबन्धिन एव विविधात् स्वरूपावच्छादनतत्त्वप्रकाशनरूपात् अवस्थानात्, - इति संप्रश्ने लिङ् | तस्मात् वस्तुत ईश्वर एव सर्वत्र कर्ता, अहं च स एव इति न परिमिते इति | अस्य - कुम्भकारस्य, अभिमानः - घटकर्ताऽहमित्यभिमानः मा उद्गमत् - मा उदेतु | इति शब्दः ईश्वरेच्छासमाप्तौ | असौ - कुम्भकारः, ईश्वर एव प्रमातृषु कर्तृताऽभिमानमुत्पाद्य धर्माधर्मव्यवस्थां रक्षतीति भावः | ननु तर्हि गलिताभिमानानामुत्पथगमनमेव प्राप्नोति इति चेत् अहो नैपुण्यम्, गलिताभिमानानां पन्था अपि विस्मृतिमेव गच्छति इति का कथोत्पथगमनस्य | परन्तु ते पुरातनसंस्कारवशेन प्रवाहागतं देशकालाविरुद्धं कर्मैव देहस्थितिं तावत्कुर्वन्तीत्यलं प्रपञ्चेन | नन्वियं व्याख्या कुत्र कृतेत्यपेक्षायामाह तदिदम् इति | एवमत्र योजना | असौ मिथ्याभिमानेन युक्तः कुम्भकारः, ऐश्वर्या व्यवस्थया - ईश्वरसम्बन्धिन्या इच्छयैव, तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् - घटजननाभिमानं कुर्यात्, अभिमानाभावे कर्तृत्वाभावादिति भावः | अत्र व्याख्या त्रयेऽपि नियोग एव लिङ् | अथ चतुर्थी व्याख्यां कर्तुमवतरणिकां करोति कुम्भकारस्यापि इति | संप्रश्नात्मा - संप्रश्नरूपः | नन्वत्र संप्रश्नः कस्य पदस्यार्थ इत्यत आह संप्रश्ने इति | एवमत्र योजना | असौ - घटकरणे उद्युक्तः कुम्भकारः विविधया नानारूपया, स्वरूपावच्छादनतत्त्वप्रकाशनरूपया [स्वरूपावच्छानन्तत्व - C.], अवस्थया - अवस्थानेन, तत्तन्मृदादिसंस्कारक्रमेण घटं जनयेत् - घटजननं प्रति निश्चितः, एकपक्षनिश्चित इति यावत्, भवतीति | एतेन सिद्धं वस्त्ववधान विषयीकार्यत्वेनादिशति तस्मात् इति | तस्मात् - ततः कारणात्, ईश्वर एव सर्वत्र कर्ता भवति अन्यकर्तृत्वस्यापि परमार्थतस्तत्रैव विश्रान्तेः | अहं च स एव - अस्मि तन्निष्ठकर्तृत्वादियोगात्, दाहकत्वशक्तियुक्तोऽग्निकणोऽपि हि अग्निरेवेति भावः | इति अहं परिमिते - एतद्देहविषये एव, कर्ता, अपि तु सर्वत्र कर्ता, - इति एतावति सर्वथा हृदयेन अवधातव्यम् इति स्थितम् || ९ || दृश्यतेऽस्य [दृश्यते चास्य - K. ष्. ष्.] चेतनस्य स्वातन्त्र्यमेव सर्वत्र जृम्भमाणं जडानपि यत् स्वात्मतामापादयति, न तु जडानां वस्त्वन्तराविष्करणे सामर्थ्यम्, - इति यदुक्तं, तत् सर्ववादिप्रसिद्धनिदर्शनेन द्रढयति योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् | घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् || १० || यदिह चेतनप्रेरितं कारणम् इति प्रसिद्धं मृदादि, यच्च तदनपेक्षं कायकर्ता नास्मि, अपि तु सर्वत्र कर्ता अस्मि ईश्वरकर्तृत्वेनैव तत्त्वात्, इति एतावन्मात्रे अवधातव्यम् - अवधानं कार्येम् | तदुक्तम् - कर्मण्यकर्म यः पश्यत्यकर्मणि च कर्म यः | स बुद्धिमान् मनुष्येषु इति || इति - एतत्, स्थितम् - स्थितियुक्तं भवति || ९ || अथ दशमस्य श्लोकस्यावतरणिकां करोति दृश्यतेऽस्य इति | अत्र टीका - चेतनस्यैव इति योजना | सर्वत्र - सर्वेषु जडवस्तुषु, स्वात्मताम् - स्वातन्त्र्यरूपां चेतनताम्, आपादयति - प्रापयति | ननु तेषां सा चेतनता स्वकीयैवास्त्वित्यत आह न तु इति | दृढयति - दृढीकरोति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे योगिनाम् इति | अत्र टीका - व्यतिरेकभङ्ग्या श्लोकं व्याख्यातुं प्रक्रियां करोति यदिह इति | कारणमिति, कारणतयेत्यर्थः | तदनपेक्षम् - चेतनानपेक्षम् | तत् - तदा, बीजादि घटादेरङ्कुरादेश्च जनकं, तदेव यदि परमार्थतः कारणं स्यात् तत् तद्व्यतिरेकेण घटाङ्कुरादेः कथं योगीच्छामात्रेण जन्म स्यात्, अकारणकत्वप्रसङ्गात् [अकारणत्व प्रसङ्गात् - K. ष्. ष्.] तेषां वा अकारणत्वप्रसंगात् [अकारणत्वापत्तेः - K. ष्. ष्.] अथोच्यते - अन्ये एव ते घटाङ्कुरादयो मृद्बीजादिजन्याः, अन्ये एव च योगीच्छादिजन्याः, - इति, तत्रापि प्रबोध्यसे - विमर्शाभेदात् तावदभेद, - इति पूर्वमेव उक्तम्; तत्रापि योगी खलु अप्रतिहतेच्छः, तस्य च इच्छा तादृगेव घटो भवतु यो मृदादिकृतकुम्भसंभवभूर्यर्थक्रियाकरणचतुर- वृत्तिरिति | तदेतदाह - तस्य तस्य स्थिरस्य अर्थक्रियान्तरानुबन्धिनः कालान्तरानुबन्धिनश्च स्वस्य आत्मीयस्थ अर्थक्रियाविशेषस्य करणे हेतुतच्छीलानुकूलरूपं घटादि जायते, - इति | ये त्वाहुः - नोपादानं विना घटाद्युत्पत्तिः, योगी तु इच्छया परमाणून् पश्यन् संघट्टयतीति | तद्व्यतिरेकेण - मृद्वीजादिव्यतिरेकेण | कुतो न स्यादित्यपेक्षायां विकल्परीत्या हेतुद्वयमाह अकारणकत्व इति | अकारणकत्वप्रसंगात् - घटाङकुरादेः कारणरहितत्वप्रसङ्गात्, वा - पक्षान्तरे, तेषाम् - मृदादीनाम्, अकारणत्वप्रसंगात् - घटाङ्कुरादीन् प्रति कारणत्वाभावप्रसंगात् | अत्र शिष्यः प्रश्नं शङ्कते अथोच्यते इति | उत्तरमाह तत्रापि इति | अन्यत्किञ्चिदपि कथयेत्यपेक्षायामाह तत्रापि इति | तादृगेव, तादृश्येवेत्यर्थः | तादृक् का इत्यपेक्षायामाह घटो भवतु इति | तत्तत् इत्यादि समस्तं पदं व्याचष्टे तस्य तस्य इत्यादि | तत्तत् इति व्याचष्टे तस्य तस्य [तत् तत् इति व्याचष्टे तस्य इति - C.] इति | स्थिर इति व्याचष्टे अर्थक्रियान्तर इति | अस्या अर्थक्रियाया अन्याः अर्थक्रिया - अर्थक्रियान्तराणि, तदनुबन्धिनः, तदनुवर्तिन इत्यर्थः | स्व इत्यवयवं व्याचष्टे आत्मीय इति | कृञो वाच्यमाह करणे इति | त प्रत्ययवाच्यमाह हेतु इति | अत्र तार्किकमतं प्रत्याख्यातुमुपन्यस्यति, ये त्वाहुः इति | इति शब्दः शङ्कितप्रश्नसमाप्तौ | ते वाच्याः - यदि खलु अन्वयव्यतिरेकागमादिपरिदृष्टः कार्यकारणभावो योगिषु न विपर्येति, - इति हृदयमावर्जयति वः तत् किं परमाणुग्रहेण; नो चेत् घटस्य कपालानि [कपालादि - K. ष्. ष्.] शरीरस्य स्वावयवाः, तेषां निजं निजं प्रसिद्धं तृणशस्तिलशोऽपि अन्यथाभवनमसहमानं लौकिकमेव कारणम्, इति घटे मृद्दण्डचक्रादि, देहे स्त्रीपुरुषसंयोगादि उभयमपेक्ष्यं [सर्वमपेक्ष्यम् - K. ष्. ष्.] परिदृष्टदीर्घतरकालपरिवासमिति | योगीच्छया तु समनन्तरोदितघटदेहादिसंभवो दुःसमर्थ एव | चेतन एव तु तथा तथा भवति | भगवान् भूरिभर्गो महादेवो नियत्यनुवर्तनोल्लङ्घनघनतरस्वातन्त्र्यः, - इत्यत्र पक्षे नियत्यनुवर्तिनः लौकिके प्रसिद्धे कार्यकारणभावे स्वातन्त्र्यं, अत्र प्रत्याख्यानं करोति ते वाच्याः इति | विपर्येति - व्यभिचरति | वो हृदयमावर्जयति इति संबन्धः | परमाणुग्रहो ह्यन्वयव्यतिरेकादिसिद्धौ व्यभिचारार्थमेव कल्प्यत इति भावः | नो चेत्, यदि नावर्जयतीत्यर्थः | कपालानि कारणमिति शेषः | तेषाम् - कपालानामवयवानाञ्च, तृणशस्तिलशः, लेशेनापीत्यर्थः, अन्यथाभवनम् - व्यभिचारम्, अपेक्ष्यम् - अपेक्षणीयम् | उभयं कीदृशम् ? परिदृष्टो दीर्घतरकालं परिवासः - कारणेनावस्थानं यस्य तादृशम् | दुःसमर्थ एव, समर्थयितुमशक्य एवेत्यर्थः | ननु त्वन्मतेऽपि दुःसमर्थ एवाऽयमर्थ इत्यत आह चेतन इति, तु - पक्षान्तरे, अस्मत्पक्षे इति यावत् | चेतन एव तथा तथा भवति - तत्तद्भावरूपेण स्फुरति, तथा च नायमर्थो दुःसमर्थः, न हि स्वतन्त्रस्य किमप्यशक्यमिति भावः | स्थूलदृष्टिशैवपक्षेऽपि विरोधाऽभावं कथयति भगवान् इति | भगवान् - माहेश्वर्ययुक्तः, भूरिभर्गः - बहुतेजाः, महादेवः, नियतेः ये अनुवर्तनोल्लङ्घने तत्र स्वातन्त्र्यं यस्येदृशः भवति | इत्यत्र पक्षे - अस्मिन्पक्षे, नियत्यनुवर्तिनः [नियत्यनुकृतिनः - K. ष्. ष्.], लौकिकस्येति यावत् | लौकिके प्रसिद्धे कार्यकारणभावे स्वातन्त्र्यं भवति | तु व्यतिरेके | तदुल्लङ्घनमाद्रियमाणस्य तु योगिप्रायप्रसिद्धे लोकोत्तरे, - इति न कश्चित् विरोधः | इयांश्च लोके एव | परमार्थतस्तु स एव क्रमाक्रमरूपविश्वसृष्ट्यादिकृत्यपञ्चकप्रपञ्चस्वभावः प्रकाशते | चेतनो हि स्वात्मदर्पणे भावान् प्रतिबिम्बवदाभासयति इति सिद्धान्तः | यदाह पूर्वगुरुः निरुपादानसंभारमभित्तावेव तन्वते | जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने || (स्तवचि. ९ श्लो.) इति || १० || ननु यदि प्रसिद्धकारणोल्लङ्घनेनापि तत्कार्यविशेषतुल्यवृत्तान्येव [तत्कारणजन्यकार्य - K. ष्. ष्.] कार्याणि जायन्ते, भग्नास्तर्हि अनुमानकथाः | तथा हि कथमन्यदन्यत्र तदुल्लङ्घनम् - नियत्युल्लङ्घनम्, आद्रियमाणस्य - आदरविषयतां नयतः, योगिन इति यावत् | योगिप्रायप्रसिद्धे - योगिषु प्रायेण प्रसिद्धे, अत एव लोकोत्तरे कार्यकारणभावे स्वातन्त्र्यं भवति | लौकिकभावेन च भगवतो महादेवस्यैव स्थितत्वादिति भावः | ननु तर्ह्यस्य पक्षस्य त्वत्पक्षात्को भेदः इत्यत आह इयांश्च इति | इयांश्च - त्वत्पक्षे प्रोक्तं वस्तु च, लोक एव भवति भेदरूपत्वात् | ननु तर्हि परमार्थतः किमस्तीत्यत आह परमार्थतः इति | स एव - भगवानेव, क्रमाक्रमरूपं यद्विश्वं तस्य यत्सृष्ट्यादिपञ्चकृत्यम् - सृष्टिस्थितिध्वंसपिधानानुग्रहरूपं कृत्यपञ्चकम्, तदेव स्वभावः - स्वरूपं यस्य तादृशः | प्रकाशते | तेषां मते भगवतः कृत्यपञ्चकव्यतिरिक्तत्वम्, अस्मन्मते तत्स्वरूपत्वमिति भावः | कथं प्रकाशते इत्यतो हेतुमाह चेतनो हि इति | न च दर्पणात्प्रतिबिम्बस्य भेदो युक्त इति भावः | इति सिद्धान्तो भवति | अत्र दृष्टान्तत्वेन श्री भट्टनारायणवाक्यमुदाहरति यदाह इति || १० || अथैका दशश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका - प्रसिद्धकारणानाम् - मृदादीनाम्, यत् उल्लङ्घनं तेन | तेभ्यः - प्रसिद्धकारणेभ्यः ये कार्यविशेषाः - घटादिरूपाः कार्यभेदाः, तेषां तुल्यं वृत्तं स्वरूपं येषां तानि | कथं भग्नाः इत्यपेक्षायां समर्थनमुपक्रमते तथा हि इति | अन्यत् - मृदादि, नियमवद्भवेत् इत्याशङ्क्य प्रामाणिकतरम्मन्यैस्तादात्म्यतदुत्पत्ती नियमनिदानमुपगते | न हि निःस्वभावं वस्तु भवति, नापि भिन्नस्वभावं स्वभावभेदेन भेदात् | पर्यायशस्तत्स्वभावद्वयाभावे च निःस्वभावताप्रसङ्गात् | एवं निर्हेतुके भिन्नहेतुके च कार्ये वाच्यम् | अन्यत्र - घटादौ, कथं भवेत्, सर्वभावानां स्वात्ममात्रपर्यवसानान्न भवेदिति भावः | इत्याशङ्क्य - एवं शिष्यकृतं प्रश्नं शङ्कित्वा, प्रामाणिकतरमात्मानं मन्यन्ते इति तादृशैः, न तु परमार्थतः प्रामाणिकतरैरित्यर्थः | योगिनिराकरणे तात्पर्यवत्त्वेन बौद्धैरिति यावत् | नियमनिदानम् नियमकारणम्, उपगते, अङ्गीकृते इत्यर्थः | तत्र तादात्म्यस्य नियमनिदानम् वृक्षोऽयं शिंशपात्वात् इत्यत्र | अत्र हि वृक्षप्रतियोगिकः शिंशपाधर्मिको भेदः स्फुटतर एव | तदुत्पत्तिनियमनिदानम् पर्वतो वह्निमान् धूमवत्त्वात् इत्यादौ | अत्रापि अग्निप्रकृतिका धूमधर्मिणी उत्पत्तिः स्फुटैव | कथमेतदित्यपेक्षायां समर्थनं करोति न हि इति | तत्र शून्यवादिनं प्रत्याह निःस्वभावम् इति | हि - यस्मात्, वस्तु निःस्वभावं न भवति, वस्तुत्वायोगात् | क्षणिकवादिनं प्रत्याह नापि इति | भेदात्, तस्यैव तस्माद् भेदापातादित्यर्थः | स्वभावभेदेनैव वस्तुभेद इति भावः | द्वितीयमपि प्रसङ्गं कथयति पर्यायशः इति | पर्यायशः - क्रमेण, तस्य - भिन्नस्य, स्वभावद्वयस्य अभावे, निःस्वभावता प्रसङ्गात्, क्षणे क्षणे भिन्नं वस्तु हि पूर्वस्वभावस्य त्यागे उत्तरस्वभावस्य तावदनागमे [पूर्वस्वभावस्य त्यागे उत्तरस्वभावस्य तावदनागमेन च - C.] च क्रमेण अभावग्रस्तमेव भवेत् अथवा पूर्वस्वभावकाले उत्तरस्वभावस्याभावः उत्तरस्वभावकाले च पूर्वस्वभावस्य, ततश्च तस्य निःस्वभावत्वमेवागच्छेत्, न हि उभयत्रापि च हेतुकतैव व्यवस्था | स्वहेतुत एव हि शिंशपा वृक्षस्वभावाव्यभिचारिणी जाता, स्वहेतुतश्च हुतभुग्धूमजननस्वभावः, तदिदानीं नियत्युल्लङ्घिनि कार्यकारणभावे सर्वमिदं विघटेत | योगीच्छया हि शिंशपापि अवृक्षस्वभावा भवेत्, धूमे तु द्विगुणं चोद्यम्; अग्न्यादिसामग्री योगीच्छोद्भूता धूमं न जनयेत्, योगीच्छा वा अनग्निकं धूमम्, - इति न स्यादनुमानम्, अस्ति च तल्लोके, इत्याशङ्क्याह योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते | कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः || ११ || योगीच्छापि सर्वथा तादृशमेव न तु वृश्चिकगोमयादिसंभूतवृश्चिकादिन्यायेन कथंचित् रसवीर्यादिना भिन्नं कार्यं जनयति, - इति यत् आगन्तुकस्य स्वभावत्वं युक्तम् इति भावः | सत्ता हि स्वभावः | एवञ्च यो यस्य स्वभावः स ततो न व्यभिचरति इति तादात्म्यस्य नियमनिदानत्वं समर्थितम् | तदुत्पत्तेः नियमनिदानत्वं समर्थयितुं स्वभावे प्रोक्तं न्यायं हेतावतिदिशति एवम् इति | तत्र निर्हेतुकत्वे उत्पत्त्ययोगः, भिन्नहेतुकत्वे तु भेदापात इति पर्यायशः योज्यम् | एवञ्च यो यस्य हेतुः स ततो न व्यभिचरति इति उत्पत्तेरपि नियमनिदानत्वं समर्थितम् | तार्किकाभिमतम् उत्पत्तिमात्रस्य नियमनिदानत्वं कथयितुमाह उभयत्रापि इति | व्यवस्था - नियमरूपा मर्यादा | कथमित्यपेक्षायामाह स्वहेतुतः इति | फलितमाह तत् इति | इदम् - पूर्वोक्तं प्रक्रियाजालम्, नियत्युल्लङ्घिनि - पूर्वोक्तनियमव्यभिचारिणि, विघटेत् - नश्येत् | कुत इत्यपेक्षायामाह योगीच्छया इति | न हीच्छायाः कुत्राप्यभिधातो युक्त इति भावः | द्विगुणमेव चोद्यं दर्शयति अग्न्यादि इति | धूमं न जनयेत् इति पूर्वेण संबन्धः | ननु मास्तु अनुमानमित्यत आह अस्ति च इति | तत् - अनुमानम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे योगि इति | अत्र टीका - अत एव इति व्याचष्टे योगी इति | तादृशमेव - बाह्यकारणजनितसदृशमेव, तद्वदेवार्थक्रियाकरमिति यावत् | वृश्चिकात् गोमयादेश्च संभूता ये वृश्चिकादयः तेषां यो न्यायः तेन | आदि शब्देन मलमूत्रादिजनितकीटादिग्रहणम् | कथितमत एवास्मादेव हेतोः कार्यं वा धूमादि अग्न्याद्यनुमाने [अग्न्यनुमाने - K. ष्. ष्.] शिंशपात्वादिस्वभावो वा वृक्षत्वाद्यनुमाने एवं हेतुर्भवति | यदि प्रमाणान्तरेण लोकप्रसिद्ध्या योगिनिर्माणत्वस्याभावो निश्चितो भवति नान्यथा | अत एवानुमाने जन्मान्तराभ्यासलोकप्रसिद्ध्यादिकमवश्यो- पजीव्यम्, सा च श्रुतानुमानप्रज्ञयोर्बीजम्, - इति च ऋतंभराविषयमुवाच पतञ्जलिः | तत्र रसभिन्नत्वं गोमयाज्जातस्य वृश्चिकस्य, वीर्यभिन्नत्वं तु वृश्चिकाज्जातस्य इति क्रमो ज्ञेयः | न हि वृश्चिकाद् गोमयाच्च जातौ वृश्चिकौ सदृशौ भवतः रसस्य दुर्बलत्वात् वीर्यस्य तु अतिबलत्वात् इति | अर्थक्रिया तयोर्न सदृशीति भावः | कथितम् इति, पूर्वश्लोके, कार्यम् इति व्याचष्टे धूमादि इति | तत्कार्ये कुत्र हेतुरित्यपेक्षायां सूत्रेऽनुक्तमपि वस्तु अध्याहृत्य कथयति अग्न्याद्यनुमाने इति | कदेत्यपेक्षायाम् एवम् इत्यस्याकांक्षां पूरयन् प्रथमार्धं व्याचष्टे यदि इति | नान्यथा इति, तत्र हि तेन न तत् कार्यं जनितं किन्तु योगिप्रभावतः तदिच्छामात्रेण तत्सम्पन्नमिति कथं तस्य तत्र हेतुत्वमिति भावः | एतदवष्टम्भेन अन्यत्किञ्चिदपि पतञ्जलिशास्त्रप्रसिद्ध कथयति अत एव इति | यतो लोकप्रसिद्धेः अत्रावस्योपयोगित्वमत एव हेतोः, पतञ्जलिः - भगवान् अनन्तः, अनुमाने जन्मान्तराभ्यासलोकप्रसिद्ध्यादिकम् - बालस्य स्तन्यानुमाने पूर्वजन्माभ्यासम्, अग्न्यनुमाने प्रसिद्धिम्, आदि शब्देन अदृष्टग्रहणम्, अवश्योपजीव्यम् [अवश्योपसन्धानम् - C], अवश्यापेक्षणीयम्, उवाच - स्वशास्त्रे कथयतिस्म | जन्मान्तराभ्यासप्रसिद्ध्यादिक कीदृशम् ? ऋतंभराविषयम्, पतञ्जलिशास्त्रे ऋतंभरासाध्यत्वेनोक्तमित्यर्थः, न च तैलपायिकादिवत् व्यर्था इयं संज्ञा | ऋतम् - सत्यम् विभर्तीति ऋतम्भरा इत्यन्वर्थत्वात्, तेनासत्याया लोकप्रसिद्धेर्न लोकप्रसिद्धित्वम् [तेनासत्या या लोकप्रसिद्धेर्न लोकप्रसिद्धिः - C.] | अस्या ऐश्वरीवागिति अन्ये च यौक्तिका योगिप्रत्यक्षकल्पप्रत्यक्षसद्भावं समस्तवस्तुग्रहणाय कल्पितवन्तः | सांव्यवहारिके च प्रमाणे नास्माकं भरः, प्रकृतं हि अस्माकमीश्वरस्वरूपम्, तच्च स्वप्रकाशमेव [तच्च स्वप्रकाशमेवान्यप्रमेयोपरोधेऽपि - K. ष्. ष्.], प्रमेयोपरोधेऽपि नोपरुध्यत इत्युक्तमसकृत् | ननु स्वभावहेतौ किमनया चिन्तया ?, आह - वृक्षत्वाव्यभिचारिण्याः शिंशपाया उत्पत्तेर्यन्मूलं कारणं तत नामानुत्तरशास्त्रीयाः कथयन्ति | कुत्र सूत्रे उवाचेत्यत आह | सा च - इति | सा च - पूर्वजन्माभ्यासप्रसिद्ध्यादिभावेन प्रोक्ता ऋतम्भरा च, श्रुतानुमानप्रज्ञयोः - प्रसिद्धिज्ञानानुमानज्ञानयोः बीजं भवति | कदाचिद्धि लोका अपि मनःशुद्धिवशेन भाविवस्तु प्रत्यक्षमेव पश्यन्ति, तच्च तार्किकाः प्रातिभं प्रत्यक्षमिति कथयन्ति यथा कन्या ब्रवीति श्वो मे भ्रातागन्ता | अन्येषां स्वयंकल्पितयुक्तिमात्रशरणानां वादिनां मतमाह अन्ये इति | यौक्तिकाः - युक्तिमात्रप्रमाणाः, योगिप्रत्यक्षकल्पम् - योगिप्रत्यक्षसदृशम्, प्रत्यक्षं तस्य सद्भावम्, कल्पितवन्तः - युक्त्या साधयन्ति स्म | नन्वत्र प्रतिसमाधानं कर्तव्यमित्यत आह सांव्यवहारिके इति | सांव्यवहारिके - सम्यग्व्यवहारादागते, भरः - अर्थित्वोद्रेकः | कुत इत्याह प्रकृतं हि इति | प्रकृतम् - प्रस्तुतम्, प्रमेयोपरोधेऽपि - प्रमेयाणां विषयीकरणेऽपि, न, उपरुद्ध्यते - प्रमाणेन विषयीकर्तुं शक्यते | सुगमत्वेन स्वभावो वा इत्यस्य योजना न कृता | उत्पत्तिमूलजः इति व्याख्यातुमवतरणिकां करोति ननु इति | स्वभावहेतौ - स्वभावाख्ये हेतौ, अनया - कार्येऽयोग्यया [कार्ये योग्यया - C.], नियत्यधीने स्वभावे योगिनिर्माणताऽयोगादिति भावः | अवतरणिकां कृत्वा व्याख्यानं करोति आह इति | सूत्रकार इति शेषः | किमाहेत्यपेक्षायामस्यपदस्य विग्रहपूर्वं व्याख्यां करोति | वृक्षत्व इति | उत्पत्तिक्रियाया अपेक्षां पूरयितुं कर्तारमध्याहृत्य कथयति वृक्षत्व इति | मूल इत्यवयवं व्याचष्टे कारणम् इति | बीजरूपमित्यर्थः | एव स तन्मात्रानुबन्धी स्वभावो जायते, - इति; ततश्च एकसामत्र्यधीनस्य रूपादे रसतो गतिः | हेतुधर्मानुमानेन धूमेन्धनविकारवत् || इति स्वभावहेतुर्न्यायः | ननु च वृश्चिकादीनां कीटगोमयाद्यनेककारणकत्वं तावत् दृष्टं, रसवीर्यादिभेदस्तु तत्र, - इत्यन्यदेतत् | तद्योगिजन्य - तन्मात्रानुबन्धी - शिंशपामात्रानुवर्ती, न तु तद्वत्सानुबन्धी, जायते इति कर्तृविहितस्य [पञ्चम्यामजातौ | पा. ३ - २ - ९८ |] ड प्रत्ययान्तस्य जनेर्व्याख्या, इति शब्दो पदस्य व्याख्यासमाप्तौ, अत एव स्वभावस्यापि कार्यत्वाव्यभिचारात् अस्याश्चिन्ताया अत्राप्यवकाश इति भावः | अतः फलितमन्यत्किञ्चिदाह ततश्च इति | यतः स्वभावः तन्मात्रानुबन्धी जायते ततः कारणाच्च, रसतः - रसाख्यात् हेतोः, एकसामग्र्यधीनस्य - रसेन सहैकसामग्र्यधीनस्य, तन्मात्रानुबन्धिन इति यावत् | न तु कारणतया स्थितस्य, रूपादेः [स्वरूपादेः - C.] - रूपस्य स्पर्शस्य च, गतिः - ज्ञानम्, हेतुधर्मानुमानेन - हेतुना यद्धर्मानुमानम् - तन्मात्रानुबन्धिनः अन्यधर्मस्यानुमानम्, तेन भवति | न तु कार्येण रसेन तत्ररूपादिकारणानुमानमिति भावः | अथवा षष्ठ्यर्थे तसिल् | रसस्येति भावः | अत्र दृष्टान्तमाह धूम इति | यथा अग्नौ धूमेन इन्धनविकारानुमानं हेतुधर्मानुमानेन भवति तथेत्यर्थः | इति - एवम्, स्वभावहेतुर्न्यायः भवति | उत्पत्तिमूलजः इत्यस्यापरां व्याख्यां कर्तुमवतरणिकां करोति ननु इति | ननु तत्र रसवीर्यादिभेद उक्त एवेत्यत आह रस इति | अन्यदेतत् इति | नहि रसवीर्यादिभेदेन वृश्चिकस्वभावभेदो वक्तुं शक्य इति भावः | फलितमाह तत् त्वमवह्निकस्यापि धूमस्य सह्यं नाम, स्वभावस्य तु कथं विपर्याससंभावना | न हि नीलं सदेवानीलं योगीच्छया भवति, - इति कश्चित् प्रामाणिकः प्रतीयात् | उच्यते | इह द्विविधो हि स्वभावहेतुरन्तर्लीनकार्यकारणभावस्तद्विपरीतश्च; वह्निमानयं पर्वतो धूमवत्त्वात् इति, अनित्योऽयं कृतकत्वात् इति | तत्र आद्यस्य तावत् कार्यकारणभाव एव मूलम् - इति किं तत्रोच्यते | अपरस्तु विचार्यते, यदि तावत् कृतकत्वस्य कारणायत्तत्वं नाम स्वभावः कथम् अभवनपरिच्छिन्नभवनस्वभावता नामानित्यत्वं स्वभावः स्यात् आभासभेदात् | अभेदे तु आभासस्य हेतुसिद्धावेव साध्यस्य सिद्धत्वात्, यदि परं व्यवहारः साध्यते, इति | सह्यं नाम इति | अनेकजत्वादिति भावः | कुतो न विपर्याससंभावना इत्यत आह न हि इति | अत्रोत्तरं कथयितुं प्रतिजानीते उच्यते इति | प्रतिज्ञां सफलीकरोति इह इति | हेतुद्वयं क्रमेण दर्शयति वह्निमान् इति | तत्र - हेतुद्वयमध्ये, आद्यस्य - अन्तर्लीनकार्यकारणभावस्य, अपरस्तु - तद्विपरीतः | विचारमेव करोति यदि इति | कारणायत्तत्वम् - कारणाधीनस्वरूपलाभत्वम् | अभवनेन - असत्तया परिच्छिन्नभावत्वेन [अभवनेन - असत्तया परिच्छिन्नभावित्वेन परिच्छेदविषयीकृतः - C.], परिच्छिन्नम् - परिच्छेदविषयतां नीतं यद्भवनम् - सत्ता, तत्स्वभावता नाम - तद्रूपाख्यम्, अनित्यत्वं स्वभावः स्यात्, आभासभेदात् इति | न हि कारणायत्तत्वभवनस्वभावत्वरूपयोराभासयोरेकत्वं युक्तमिति भावः | ननु कथमाभासभेद इत्यत आह अभेदे तु इति | साध्यस्य सिद्धत्वात् इति | साध्यसिद्धत्वाख्याश्रयासिद्धिभेदप्रसंगात्, संशयित एव हि अनुमानस्याऽऽश्रयो युक्तः न तु सिद्धे | शिष्योक्तं पक्षान्तरं शंकते यदि परम् इति | परम् - केवलम्, साध्यते - अयमनित्य इति व्यवहर्तव्यः कृतकत्वादिति साधनविषयतां नीयते | कथमिति शंकायामाह तरुरयं वृक्षत्वात्, - इति न्यायेन, व्यवहारश्च ज्ञानाभिधानात्मा कार्य एव, तत्र [तत्रैव - K. ष्. ष्.] च नियतिशक्तिरङ्गीकृता भवतापि | तस्मात् सर्वेषु स्वभावहेतुष्वाभासभेदं विना व्यवहारमात्रसाधनमेव, हेत्वाभासमयत्वादेवानधिको हि तत्र साध्याभासः, व्यावृत्तीनामेषैव वार्ता, सामान्यानामियमेव सरणिः | तस्मात् नियतः [नियतिशक्त्यायत्तः - K. ष्. ष्.] शिंशपाभासवृक्षाभासयोः पूर्वनीत्या सामानाधिकरण्याभासो हेतुबलात् | ततः स्वभावोऽयं तरुः इति | तरुरिति व्यवहर्तव्य इत्यर्थः | इति न्यायेन - अनेन न्यायेन इत्यर्थः | शंकिते पक्षेऽपि उत्तरमाह व्यवहारश्च इति | ज्ञानाभिधानात्मा - प्रख्योपाख्यारूपः, ज्ञानरूपः शब्दनरूपश्चेति यावत् | ननु स व्यवहारः कार्यो भवत्वित्यत आह तत्र च इति | तत्र - तस्मिन् कार्ये व्यवहारे च, भवताप्यङ्गीकृते इति योजना, अन्यथा व्यवहारसांकर्यापत्तेरिति भावः | फलितमाह तस्मात् इति | स्वभावहेतुषु - स्वभावरूपेषु हेतुषु, आभासभेदं विना - आभासभेदं विहाय, आभासभेदे व्यतिरिक्तो विषयी इति यावत् | कुत इत्यपेक्षायामाह हेत्वाभास इति | अन्यथा इति शेषः | हेत्वाभासमयत्वात्, साध्याभेदरूपाश्रयासिद्धरूपत्वादित्यर्थः | कुतो हेत्वाभासमयत्वमित्यत आह अनधिकः इति | अनधिकः - हेतोरनन्यूनानतिरिक्तः, तद्रूप इति यावत् | ननु अश्वोऽयमनश्वव्यावृत्तः इत्यादौ स्वभावहेतुविषये का वार्ता इत्यत आह व्यावृत्तीनाम् इति | अत्रापि व्यवहारमात्रसाधनमिति भावः | सरणिः - वर्तनी, अयं गौः गोत्वाश्रयत्वात् इत्यत्र सामान्यस्य स्वभावहेतुत्वम् | फलितं कथयति तस्मात् इति | नियतः - नियमविषयतां प्राप्तः, पूर्वनीत्या - पूर्वोक्तनीत्या, सामानाधिकरण्याभासः - तादात्म्याभासः, एकस्वभावत्वाभासः इति यावत् | हेतुबलात् भवति | न हि वीजादनुत्पन्ना शिंशपा वृक्षस्वभावा | ततः - तस्मात् कारणात्, अयं स्वभावश्च हेतुहेतुमद्भावमूल एव, तत एव सामान्येनेदमुक्तं द्रष्टव्यं - सर्वः स्वभावहेतुरुत्पत्तिमूलजः, - इति | आभासा एव च वस्तु, - इति च समर्थितं प्राक् | ततश्च शिंशपायामेकस्यामेव सृज्यमानायां शाखादिमदर्थान्तराणामसृष्टेर्वृक्षाभासस्य [शाखादिपदार्थान्तर - K. ष्. ष्.] सामान्यात्मनः साध्यस्य नामापि नास्ति, - इति संभाव्यत एव | यत्तु तदेकरूपं विशिष्टं वृक्षत्वं तत् खलु शिंशपात्वमेव तच्च सिद्धम्, - इति न साध्यम् | कारणायत्तमिदम्, - इत्याभासेऽपि न स्यादनित्यताभासः | एवमर्थक्रियाकारित्वाभावेऽपि क्षणिकत्वाभासाभावः इति नियत्यपेक्षयैव सर्वे स्वभावहेतवो नान्यथा, - इत्येकान्त एषः || ११ || हेतुहेतुमद्भावमूल एव - कार्यकारणभावमूल एव भवति | तत एव - तस्माद्धेतोरेव, इदम् - पूर्वोक्तं वस्तु, सामान्येन - न तु विशेषेण, उक्तंदृष्टव्यम् - ज्ञातव्यम् | केनोक्तमित्यपेक्षायामवतरणिकाविषयीकृतं सूत्रपदमुपन्यस्यति उत्पत्ति मूलजः इति | तथा च धूमादिवदत्रापि योगिजन्यत्वं युक्तमितिभावः | विशेष्यं विना विशेषणायोग्यतां ज्ञात्वा सर्वः स्वभावहेतुः इत्युक्तम् | उत्पत्तेः - कार्यकारणभावाख्यात्, मूलात् जातः, उत्पत्तिमूलजः इति विग्रहः | आभासपक्षमाश्रित्य व्यवहारसाधनव्यतिरेकेऽपि साध्याभेददोषं निवारयितुमाह आभासाः इति | यतः स्वभावस्योत्पत्तिमूलत्वमेव ततः कारणाच्च, एकस्यामेव शिंशपायां सृज्यमानायां सत्याम्, शाखादिमन्ति यानि अर्थान्तराणि - अन्ये वृक्षाः तेषाम्, असृष्टेः, सामान्यात्मनः - सामान्यरूपस्य, साध्यस्य - शिंशपाविषये साधनीयस्य, वृक्षाभासस्य स्थितत्वात् | तदेकरूपम् - सृज्यमानैकरूपम्, विशिष्टम् - विशेषरूपम् | तथा च नात्र साध्याभेददोषः, सिद्धेन विशेषणेन साध्यस्य सामान्यस्य साधनादितिभावः | अनित्यत्वकृतकत्वयोरपि एकत्वं निवारयति कारण इति | तथा च नात्रापि साध्याभेद इति भावः | प्रसंगेनान्यत्रामुं दोषं निवारयति एवम् इति | नन्वेवं सति कथमत्रैकस्वभावत्वम्, सत्यम्, विप्रतिपन्नं प्रति नास्ति, अधुना तु साध्यते, साधनार्थमेव च सिद्धस्यापि साध्यत्वमारोप्यते विप्रतिपन्नबोधार्थम्, अन्यथा हेत्वाभासतापत्तेरित्यलं प्रपञ्चेन | सिद्धान्तं फलितरीत्या कथयति इति इति | इति - अतः कारणात्, एषः एकान्तः - निश्चयो भवति | एष कः ? सर्वे स्वभावहेतवो नियत्यपेक्षयैव भवन्ति न तु योगीच्छया, अन्यथा न भवन्ति नन्वाभासवस्तुत्ववादेऽनाभातस्य अग्नेरवस्तुत्वम्, - इत्यनाभातेन कथं धूमो जन्यते, ततश्च धूमादग्नेः कारणस्य कथमनुमानम् ? इत्याशङ्क्य समर्थयितुमाह भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् | परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् || १२ || एकवारं यावत् महानसे प्रत्यक्षानुपलम्भबलेनाग्न्या- भासधूमाभासयोः उत्पत्तिमात्रे तदनुवर्तनादिति भावः | एतदुक्तं भवति | प्रायो वस्तु प्रसिद्धात् स्वकारणादेव जायते, कदाचित्तु योगीच्छया [कदाचित्तु योगीच्छयापि न विपर्यासो युक्तः - C.] विपर्यासो युक्तः, इति स्वभावहेतौ उत्पत्तिमात्रे योगीच्छाकारणत्वाऽभावो निर्णेयः, न स्वसाध्यसाधनकाले, इति न कापि अनुमानस्य क्षतिरिति | योगिविषये तु विचारः पूर्वम् चिदात्मैव हि देवोऽन्तः इत्यत्र कृत एवेति न पुनरायस्यते | अत्र श्लोके एवं योजना | अत एव - यतो योगी अपि इच्छामात्रेण कार्ये जनयति अस्मात् कारणात्, योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते सति कार्ये हेतुः भवति - स्वकारणं प्रति हेतुतां भजति नान्यथा | तथा स्वभावो वा हेतुर्भवति | कुत इत्यपेक्षायां विशेषणद्वारेण हेतुमाह उत्पत्ति इति | एतेन उत्पत्तिमात्रे एव योगिनिर्माणत्वाऽभावो निर्णेयः न स्वसाध्यसाधने - इति द्योतितमम् || ११ || अथ द्वादशश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका - अनाभातस्य - पर्वतस्थत्वेन आभासाविषयतां गतस्य | कथम् इति, अजनकत्वान्न युक्तमित्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे भूयः इति | अत्र टीका - श्लोकं व्याख्यातुं प्रक्रियां करोति एकवारम् इति | प्रत्यक्षानुपलम्भयोर्यद्वलं तेन | तत्र महानसे धूमाभासाग्न्याभासयोः प्रत्यक्षत्वम्, महाहृदे तयोरनुपलम्भः | कार्यकारणभावो गृहीतः | तत्र विज्ञानवादिनो दर्शने प्रतिसन्तानमन्यश्चान्यश्चाभासः, - इति स्वाभासयोरेव कार्यकारणता गृहीता न तु सन्तानान्तरगतयोस्तदीयवृत्तान्तस्यासंवेदनात् | ततश्चेदानीमनुमानं न भवेत् स्वसन्तानगतात् धूमाभासात् क्रिमिसर्वज्ञादिप्रमातृसन्तानान्तरनिष्ठस्याग्न्याभासस्य इति निश्चयः | इह तु दर्शने व्याप्तिग्रहणावस्थायां यावन्तस्तद्देशसंभाव्यमानसद्भावाः प्रमातारस्तावतामेकोऽसौ धूमाभासश्च वह्न्याभासश्च वाह्यनये इव, तावति तेषां परमेश्वरेणैक्यं निर्मितम्, - इति हि उक्तम् | ततः स्वपरसन्तानविशेषत्यागेन प्रतिसन्तानम् - सर्वेषु विज्ञानसन्तानेषु, इति - अतः कारणात्, विज्ञानवादिना स्वाभासयोः - स्वज्ञानसन्तानगतयोः [सज्ञात सन्तानगतयोः - C.] धूमाभासवह्न्याभासयोः, कार्यकारणता गृहीता | एव कार व्यावर्त्यमाह न तु इति, सन्तानान्तरगतयोः - गृहीतृव्यतिरिक्तसन्तानगतयोः | कुतो न गृहीतेत्यत आह तदीय इति | तदीयवृत्तान्तस्य - सन्तानान्तरवृत्तान्तस्य, असंवेदनात् - अननुभूतेः | न ह्यन्यस्य विज्ञानमन्यस्य विषयीभवितुं युक्तम् | ततश्च - तस्मात्कारणाच्च, इदानीम् - अनुमानकाले, स्वसन्तानगतात् - अनुमातृविज्ञानसन्तानगतात् | पर्वते हि क्रिम्यादयो दावाग्निमध्यगतास्तदनुभवयुक्ताः स्युरेवेति क्रिमिग्रहणम्, सर्वज्ञानां च सर्वविषयं ज्ञानं भवत्येवेति तद्ग्रहणम् | आदिशब्देन पर्वतगानामन्येषां प्राणिनां ग्रहणम् | नन्वेतत् त्वद्दर्शनेऽपि समानमित्यत आह इह तु इति | इहदर्शने - शैवनये, तद्देशे - महानसदेशे, संभाव्यमानः सद्भावः येषां ते | एकः इति, बहिःस्थत्वाङ्गीकारात्, बाह्यं वस्तु हि सर्वान् प्रति साधारणमेव, विज्ञानमात्ररूपं तु विज्ञातारं प्रत्येव | बाह्यनये इव - तार्किकनयवत्, तावति - महानसगते धूमाभासे अग्न्याभासे च, तेषाम् - तद्देशस्थप्रमातॄणाम्, ऐक्यम् - एकताम्, तद्ग्रहीतृरूपमेकत्वमिति यावत् | बहिःस्थं वस्तु हि सर्वो नियतिशक्त्या साधारण्येन गृह्णाति | फलितमाह ततः इति | ततः - उक्तात्कारणात्, स्वपरसन्तानयोर्यो विशेषः तस्य त्यागेन, सामान्येनेति धूमाभासमात्रं वह्न्याभासमात्रस्य कार्यम्, - इति व्याप्तौ गृहीतायां भूयोऽपि पर्वते यो धूमाभासः सोऽपि अग्न्याभासादेव [बह्न्याभासादेव - K. ष्. ष्.] इति व्याप्तिं स्मृत्वानुमिमीते अत्र पर्वते अग्न्याभासः इति | तावति धूमाभासविशेषे प्रमात्रन्तरैः सहैकीभूय वह्न्याभाससामान्यांशे परोक्षरूपांशसहिते विशेषाभासान्तरविविक्ते प्रमात्रन्तरैः साकमेकीभवति, इति यावत् | भूय इति व्याप्तिं गृहीत्वा पुनरपि यो धूमाभासः, आदिग्रहणादङ्कुराभासादिर्गृह्यते यावत् | धूमाभासमात्रं वह्न्याभासमात्रस्य, न तु स्वसन्तानगतः स्वसन्तानगतस्यैव, कार्यं भवति, इति - अतः व्याप्तौ - यत्र धूमाभासः तत्र वह्न्याभास इत्येवं रूपायाम्, गृहीतायाम् - महानसादौ ग्रहणविषयीकृतायां सत्याम्, भूयोऽपि - पुनरपि, धूमाभासः - स्वसन्तानगः धूमाभासः, अग्न्याभासादेव - परसन्तानगात् अग्न्याभासादेव, अनुमिमीते - पुरुषः अनुमातृत्वं भजति | एतेन किमुक्तं भवतीत्यत आह तावति इति | सः अनुमाता तावति - तावन्मात्रे, न तु सर्वत्र, अन्यथा सर्वज्ञत्वापत्तेः, धूमाभासविशेषे - पर्वतस्थे धूमाभासे, प्रमात्रन्तरैः - तद्देशस्थैः तद्धूमग्राहकैः अन्यैः प्रमातृभिः, सहैकीभूय - धूमाभासग्रहणेनैकतामासाद्य, परोक्षरूपः - अतीन्द्रियत्वेन परोक्षभूतो योंऽशस्तेन सहिते | अथवा भावप्रधानो निर्देशः, परोक्षतारूपो यः अंशस्तेन सहिते, परोक्षे इति यावत् | तथा विशेषभूतानि यानि आभासान्तराणि - सामान्याश्रयभूताः सर्वे वह्निव्यक्त्याभासाः, तेभ्यो विविक्ते - भिन्ने, वह्न्याभासस्य यः सामान्यांशः तस्मिन्, प्रमात्रन्तरैः साकम् - तद्देशस्थैः अन्यैः प्रमातृभिः सह, एकीभवति - वह्न्याभासग्रहणद्वारेण एकतामासादयति, इति यावत्, अयमेवार्थो भवतीत्यर्थः, न तु विज्ञानवादिदर्शने इव तद्गृहीतेन धूमाभासेन तस्यैवाग्न्याभासग्रहणमिति भावः | उक्तप्रक्रियावष्टम्भेन श्लोकस्य योजनां करोति | भूयः इति पदं व्याचष्टे व्याप्तिम् इति | पुनरपि इत्यनेन अपि शब्दस्य भिन्नक्रमत्वं द्योतितम् | धूमाभासादि इति | आदिपदग्राह्यं कथयति आदिग्रहणात् इति | नूतनम् सोऽप्याभासो नूतनोऽपूर्वो न तु धूमजधूमवदप्रत्यग्रः | स च अधिपतेरसंचेत्यमानात् वह्न्याभासात् बीजाभासादेव वा भवेत् तत एव जनितुं शक्नोति नान्यतः | शकि लिङ् | स चाभासस्तेषु तेषु प्रमातृष्वेक एव, अनेकत्वे न तु युज्यते एवैतदित्याशयः | यतश्च स एकोऽधिपतिश्च वह्न्याभासो धूमकारणं, ततो धूमाभासोऽस्यैवाग्न्याभासस्याव्यभिचरितं कार्यं लिङ्गं योगिकृतत्वाभावे निश्चिते सति, - - इति तस्मात् कार्यात् सोऽनुमीयते यतः परोक्षोऽसावधिपतित्वादेव || १२ || इति व्याचष्टे अपूर्वः इति | तत्कालमेवाग्नेरुत्थितत्वादिति भावः | धूमध्वजवत् - वह्निशान्त्यनन्तरमपि गोपालघटिकान्तरवर्तिधूमोत्थितधूमवत्, अप्रत्यग्रः - चिरकालीनः, स च - सः धूमाभासश्च, अधिपतेः इति कारणवाचकं सुगमत्वेन निगदव्याख्यातम् | परोक्षात् इति व्याचष्टे असंचेत्यमानात् इति | वह्न्याभासात् इत्यपि निगदव्याख्यातम् | अत्रापि आदिशब्दग्राह्यं वस्त्वाह बीजाभासादेव वा इति | भवेत् इति व्याचष्टे तत एव इति | तत एव - वह्न्याभासादेव | तत्तत्प्रमात्रेक इति भिन्नीकृत्य व्याचष्टे स चाभासः इति नन्वनेकेष्वनेक एव कथं न भवेदित्यपेक्षायां भावं कथयति अनेकत्वे इति | एतत् - एषः वह्न्याभासः, इत्याशयः, अयंभाव इत्यर्थः | वहिःस्थं वस्तु सर्वप्रमातृसाधारणमेवेति तात्पर्यम् | एतेनास्य श्लोकस्य व्याख्या सम्पन्ना | तथा च योजना | भूयोऽपि न केवलं व्याप्तिग्रहणकाल एव अपि तु अनुमानकालेऽपि, नूतनम् - अग्न्यादेः सह उत्थितं धूमाभासादि, अधिपतेः - कारण भूतात्, परोक्षात् - अदृश्यत्वेन परोक्षतया स्थितात्, दिवा हि पर्वते धूमाभास एव प्रत्यक्षो न अग्न्याभासः | एवं विधात् तत्तत्प्रमात्रेकवह्नयाभासादितः भवेत् - भवितुं शक्नोति इति | कार्यमव्यभिचार्यस्य लिङ्गम् इति उत्तरश्लोकखण्डम् युक्तत्वेन इहेव योजयति | कार्यं लिङ्गम् - कार्यरूपं लिङ्गम्, कारणत्वेन गमकत्वात् | पूर्वोक्तं वस्तु शेषत्वेन अत्रापि अध्याहाररीत्या योजयति योगि इति | इति - अतः कारणात्, तस्मात् - धूमाभासरूपात्, सः अग्न्याभासः, कुतोऽनुमीयते इत्यत आह यतः इति | यतः असौ परोक्षो भवति | परोक्षस्य हि अनुमेयत्वमेव युक्तम् | कुतः परोक्षत्वादनुमीयत इत्यत आह अधिपतित्वादेव, यतोऽसौ कारणं भवतीत्यर्थः | अन्यथा सर्वेषां परोक्षवस्तूनां तेन धूमाभासेन अनुमानमापतेदिति भावः || १२ || नन्वेवं गोपालघटिकान्तरालचिरोषितनिर्गतादपि धूमाभासात् स्यात् वह्न्याभासानुमानम्, - इत्याशङ्क्याह कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् | तदाभासस्तदाभासादेव त्वधिपतेः परः || १३ || परो नूतनादन्यो यो धूमाभासः स धूमाभासादेव प्रमात्रन्तरवर्तिनोऽधिपतिरूपात् परोक्षात्, - इति तथाभूतात् धूमाभासात् कथमकारणभूतो अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका - गोपलघटिकायाम् - गोपालैः शीतकाले गवां स्थापनार्थं रचिते विपुलरन्द्ररहिते कुङीरविशेषे, चिरम् - बहुकालम्, उषितः निर्गमोपयोगिविपुलरन्ध्ररहितत्वेन अग्निनिर्वाणानन्तरमपि [अग्निनिर्वाणानन्तरमपीति यावत् स्थितः - C.] स्थित इति यावत्, ततः तत्सूक्ष्मरन्ध्रान्निर्गतश्च तस्मात् | एकत्र सञ्चीयमानधूमराशिमध्यादुत्थितात् धूमात् इति यावत् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे कार्यम् इति | अत्र टीका : - लिङ्गम् इत्यन्तं पूर्वश्लोकेन योजितम् इह तु अन्य इत्यादि व्याचष्टे | परः इति | तत्रापि परः इति पदं व्याचष्टे नूतनात् इति | नूतनादन्यः - साक्षादग्नेरुत्थितादन्यः, अप्रत्यग्र इति यावत् | धूमाभासादेव - अग्निनिर्वाणानन्तरमपि गोपालघटिकान्तरालस्थितधूमाभासराशेरेव, नत्वग्न्याभासात् | प्रमात्रन्तरवर्तिनः - गोपालघटिकान्तरालवर्तिप्रमातृसन्तानगात्, तेषामेतदनुभवात्, अधिपतिरूपात् - निर्गम्यमानस्य धूमस्य कारणभूतात् धूमचयात्, इति - वह्न्याभासोऽनुमीयताम् इत्यभिप्रायशेषः | कुशलाश्च लक्षयन्त्येव विवेकम्, अस्यार्थस्यानुमानिकबहुतरव्यवहारोपयोगिनो यत्नेन व्युत्पत्तिः कार्या, - इत्याशयेन नूतनमिति यत्सूचितं [यदेव सूचितम् - K. ष्. ष्.] तदेव व्यवच्छेद्यद्वारेण स्फुटीकृतम् || १३ || ननु चैवं धूमाभासो वह्न्याभासात्, - इत्यङ्गीकृतं चेत् तर्हि चेतनस्यैव कर्तृत्वम्, - इति यदुक्तं तत् कथं ? तथाहि बीजे सत्यङ्कुरो भवति इति यदेतत् दृष्टं धूमाग्निवदेव तत् कथमनादरास्पदम् ? इत्याशङ्क्याह अस्मिन् सतीदमस्तीति कार्यकारणतापि या | साप्यपेक्षाविहीनानां जडानां नोपपद्यते || १४ || अतः कारणात्, अभिप्रायः, न तु वाच्याऽर्थः | कुशलाश्च इति | इत्याशयेन - अनेनाभिप्रायेण, विवेकं लक्षयन्त्येव | इति किमिति ? अस्यार्थस्य इत्यादि | अस्यार्थस्य, अनुमानस्येत्यर्थः | अस्य वाक्ययस्य नूतनपदव्यावर्त्यप्रदर्शकत्वं कथयति नूतनम् इति - अनेन पदेन यत्सूचितं तदेव नत्वन्यत्किञ्चित् वस्तु | व्यवच्छेद्यस्य यद्दर्शनं तस्य द्वारेण, न तु साक्षात्, स्फुटीकृतम् - प्रकटीकृतम् | एवमत्र योजना | परः - नूतनादन्यः, तदाभासः - गोपालघटिकान्तरालचिरोषितनिर्गतधूमाभासः, अन्यप्रमातृगात् - गोपालघटिकान्तर्वर्ति प्रमातृसन्तानवर्तिनः, तदनुभवगोचरात् इति यावत्, अधिपतेः, अधिपतेः - कारणभूतात्, तदाभासादेव - गोपालघटिकान्तर्वर्तिधूमराशिरूपादाभासादेव भवन् न तु वह्न्याभासात्, तस्य शान्तेः, इति न ततः वह्न्याभासानुमानम् || १३ || अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका : - कथम् इति न युक्तमित्यर्थः | कुत इत्यपेक्षायां समर्थनमुपक्रमते तथाहि इति | अनादरास्पदम् - अनादरविषयः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे अस्मिन् इति | एक एव भावस्तावत् न कार्यकारणभावः, भावद्वयमपि च न युगपद्भावि कार्यकारणरूपं घटपटवत्, क्रमभाव्यपि नानियतक्रमकं नीलपीतादिज्ञानवत्, नियतक्रमिकत्वेऽपि न पूर्वभावि कार्यमुत्तरकाल भावि च कारणम्, - इत्येवं नियतपूर्वभावं कारणं नियतपरभावं च कार्यम्, - इति परस्य तावन्मतम् | तत्र स्वरूपादनधिका चेत् पूर्वता परता च तत् भावद्वयमात्रं स च स च, - इति | चार्थोऽपि वा न कश्चित् तस्याप्यपेक्षारूपत्वात् स स इत्येव हि स्यात् | अथ पूर्वता नाम प्रयोजकसत्ताकत्वं परता च प्रयोज्यसत्ताकत्वं तर्हि बीजस्याङ्कुरप्रयोक्ती सत्ता अङ्कुरविश्रान्ता अङ्कुरान्तर्भावमात्मन्यानयति, अत्र टीका : - श्लोकं व्याख्यातुं प्रक्रियां करोति एक एव इति | तावत् इति, नात्र कस्यापि विप्रतिपत्तिरिति भावः | ननु तर्हि भावद्वयम् एव कार्यकारणभावो भवत्वित्यत आह भावद्वयमपि इति | युगपद्भावि - युगपद्भवनशीलम् | ननु तर्हि, क्रममाव्येव भवतु इत्यत आह क्रम इति | अनियतः क्रमः यस्य द्वयस्य तादृशम् | ननु नियतक्रमत्वमप्यत्रास्तु ततः किमित्यत आह नियत इति | इत्येवं न भवतीति योजना | तर्हि किमस्तीत्यत आह नियत इति | नियत इत्यत्र अनन्यथा सिद्धत्वमपि योजनीयम्, अन्यथा तन्तुरूपस्यापि पटं प्रतिकारणत्वं स्यात् | परस्य - बाह्यस्य तार्किकादेः | ननु भवत्वेतन्मतं तस्य ततः किमित्यत आह तत्र इति | स्वरूपात् - कार्यकारणयोः स्वभावात्, परता - पश्चाद्भाविता, भावद्वयमात्रम् - कार्यकारणरूपम्, न तु भावशब्दप्रवेशोऽत्रयुक्त इति भावः | भावद्वयमेव समुच्चयेन दर्शयति स च स च इति | चाऽर्थोऽपि - समुच्चयोऽपि, कुतः इत्यपेक्षायामाह तस्य इति | तस्य - समुच्चयस्य, समुच्चयो हि कांअचित् क्रियां गुणादिकं वा अपेक्ष्य भवति, न स्वतन्त्रः | पुनस्तस्य भावद्वयस्य कथं प्रयोगः स्यादित्यत आह स स इति | शिष्यप्रश्नमाशंकते अथ इति | प्रयोजिका - अन्यस्य संपादयित्री, सत्ता यस्य तादृशम् | प्रयोज्या - संपाद्या सत्ता यस्य तादृशम् | शंकिते प्रश्ने उत्तरं कथयति तर्हि इति | अंकुरे अन्तर्भावः अंकुरान्तर्भावः, अंकुररूपत्वमिति यावत् यो हि यत्र विश्रान्तो भवति स तद्रूप एव भवति घटे विश्रान्ता मृदिव घटरूपा इति भावः | ननु अङ्कुरस्य तत्राभाव एवास्तीत्यत अङ्कुराभावे प्रयोक्तृत्वमात्रं स्यात् तदपि न किंचित् अन्यापेक्षत्वात् तस्य | एवं प्रयोज्यसत्ताकेऽपि वक्तव्यम् | एवं न केवलं [वक्तव्यम्, - न केवलम् - K. ष्. ष्.] भावमात्रमेव कार्यकारणता इत्यादयः पक्षा नोपपन्ना, यावत् अस्मिन् सति इति भूतविभक्त्या सप्तम्या प्रयोजकसत्ताकत्वम्, इदमस्ति इति भाव्यमानविभक्त्या प्रयोज्यसत्ताकत्वम्, - इत्येवंरूपापि या कार्यकारणतासापि नोपपद्यते प्रमाणेन न संभवति जडानाम्, अन्योन्यापेक्षा हि अत्र जीवितं सा च जडानां न संभवति || १४ || आह अंकुराभावे इति | प्रयोक्तृत्वमात्रम् - स्वरूपे लीनं प्रयोजकतामात्रम्, तदपि - प्रयोक्तृत्वमात्रमपि, न निर्विषयस्य सत्ता युक्तेति भावः | कुत इत्यपेक्षायां स्वयमपि हेतुं कथयति अन्य इति | अन्यापेक्षत्वात् - प्रयोज्यापेक्षत्वात् | तस्य प्रयोक्तृत्वस्य | प्रयोक्तरि प्रोक्तं न्यायं प्रयोज्येऽप्यतिदिशति एवम् इति | एवमति - देशयोजनम् [सति योजने - C.] अंकुरस्य बीजप्रयोज्या सत्ता बीजविश्रान्ता बीजान्तर्भावमात्मन्यानयति, बीजाभावे प्रयोज्यतामात्रं स्यात्, तदपि च न किञ्चित्, अन्यापेक्षत्वात्तस्येति | उक्तप्रक्रियाऽवष्टम्भेन सूत्रे योजनां करोति एवम् इति | एवं सति, इत्यादयः पक्षाः न केवलं [इत्यादयः पक्षाः केवलं नोपपन्ना न भवन्ति - C.] नोपपन्नाः भवन्ति | इत्यादयः के ? कार्यकारणता एकं भावमात्रम् - तद्वाच्यः केवलो भावो भवतीति | एतेन सापि इत्यत्र स्थितस्य अपिशब्दस्य अनुक्रमसमुच्चयद्योतकत्वं सूचितम् | पुनः किमन्यदप्यनुपपन्नं भवतीत्यत आह यावत् इति भूतविभक्त्या - सिद्धवाचकविभक्तिरूपया सप्तम्या ङि प्रत्ययरूपया, भाव्यमानविभक्त्या - साध्यवाचिन्या तिप् विभक्त्या | नोपपद्यते इति व्याचष्टे प्रमाणेन न संभवति इति | केषामित्यपेक्षायामाह जडानाम् इति कुतो न संभवतीत्यपेक्षायाम् अपेक्षाविहीनानाम् इति विशेषणं हेतुत्वेन व्याचष्टे अन्योन्य इति | अत्र - अस्यां कार्यकारणतायाम्, न संभवति इति | न हि जडानामपेक्षा युक्तेति भावः | एवमत्र योजना | अत्र अस्मिन्कारणरूपे मृदाख्ये वस्तुनि सति, इदम् कथम् ? इति चेत् उच्यते न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् | सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते || १५ || जडाः किलान्योन्यरूपमनुसन्धातुमप्रभविष्णवः, अन्योन्यानुसंधानरूपत्वं जडविरुद्धेन चैतन्येन व्याप्तम्, अनुसंधानं चापेक्षा चैतन्यस्वरूपमेव, अन्यत्र तु सोपचरिता | अतोऽनुसन्धानविहीनत्वाज्जडो भावः स्वात्ममात्रविश्रान्तिसन्तोषसंकुचितशरीरः कथं परत्र कार्यरूप घटाख्यं वस्तु संभवति, इति - एवम्, या कार्यकारणता भवति सापि अपेक्षाविहीनानां जडानां नोपपद्यते इति | अपेक्षाविहीनानाम् इति हेतुगर्भं विशेषणम् | अपि शब्दादन्यैर्वादिभिर्यानि कार्यकारणलक्षणानि प्रोक्तानि तान्यपि नोपपद्यन्ते इति ज्ञेयम् || १४ || अथ पञ्चदशस्य श्लोकस्यावतरणिकां करोति कथम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे न हि इति | अत्र टीका : - अनुसन्धानवर्जिनाम् इति व्याचष्टे, जडाः इति | अन्योन्यरूपम् - परस्परस्य स्वरूपम्, अनुसन्धातुम् - अनुसन्धानविषयीकर्तुम्, अप्रभविष्णवः - असमर्थाः, न हि घटः पटस्वरूपमनुसन्धातुं शक्तः स वा तस्येति भावः | पुनः केषामनुसन्धाने प्रभविष्णुत्वमित्यत आह अन्योन्य इति | अन्योन्यस्मिन्ननुसन्धानम् - अन्योन्यानुसन्धानम्, तद्रूपं यस्य यस्य भावः तत्त्वम् | व्याप्तम् इति, यत्र यत्र हि अनुसन्धानं तत्र तत्र चैतन्यम्, अन्यथा घटस्यापि पटविषयानुसन्धानप्रसंगात् | कुतो व्याप्तमित्यत आह अनुसन्धानम् इति | अपेक्षा - अपेक्षारूपम्, च शब्दो हि शब्दार्थे | ननु घटो मृदमपक्षते इति व्यवहारः कथं दृश्यते इत्यत आह अन्यत्र इति, अन्यत्र - जडे, सा - अपेक्षा, उपचरिता - उपचारेण सिधा, अग्निर्माणवक इतिवदितिभावः | एतदवष्टम्भेन स्वात्मैकनिष्ठानाम् इति व्याचष्टे अतः इति | भावः - नीलादि वस्तु, स्वात्ममात्रे - भावरूपे केवले स्वस्वरूपे, या विश्रान्तिः - अवस्थानम्, तया यः सन्तोषः - अन्यत्र प्रसारचाञ्चल्यराहित्यम्, तेन संकुचितं शरीरं यस्य तादृशः | परत्र - स्वव्यतिरिक्ते वस्तुनि, प्रसरेत् - अनुसन्धानरूपं प्रकृष्टं सञ्चारं भजेत् | प्रसरेत् | ततश्च यदि बीजं सदङ्कुरोऽसन् अथापि विपर्यय उभयमपि वा सत् यदि वासत्, अथापि एकं सोपाख्यमन्यत् निरुपाख्यम्, द्वयमपि वा सोपाख्यं निरुपाख्यं वा, तथापि प्रातिपदिकार्थमात्रं धर्मान्तरेण समुच्चयादिनाप्यनालिङ्गितमवतिष्ठते, तस्य समस्तस्यापेक्षारूपत्वेन चैतन्यविश्रान्तत्वात् || १५ || नहि सन्तुष्टस्य सञ्चारो युक्त इति भावः | फलितं कथयन्नुत्तरार्धं व्याचष्टे ततश्च इति | तत्रापि सदसत्तापदे इति व्याचष्टे यदि इति | विपर्ययः - बीजमसत् अंकुरः सन्नित्येवंरूपव्यत्यासः | उभयम् - बीजमंकुरश्च, एकम् - बीजम् अंकुरो वा एकं वस्तु, अन्यत् - अंकुरो वा बीजं वा अन्यवस्तु | सोपाख्यम् इति, सत् पदव्याख्या, सत एव हि उपाख्या संभवति | निरूपाख्यम् इति असत्ता पदव्याख्या | सप्तम्यर्थः इति व्याचष्टे तथापि इति | प्रातिपदिकार्थमात्रम् - भावस्वरूपमात्रम् | आदि शब्देन अन्यधर्मग्रहणम् | न प्रकल्प्यते इत्यस्य सूचनया अर्थं करोति अनालिङ्गितमवतिष्ठते इति, अपेक्षामूलत्वेन न स्पृश्यते इत्यर्थः | समुच्चयादिनापि इति, अपि शब्देन सप्तम्यर्थस्य प्रयोजकत्वाख्यस्य धर्मस्य अत्र कथापि नास्तीति सूचितम् | कुत इत्यपेक्षायामाह तस्य इति | तस्य - समुच्चयादिरूपस्य | एवमत्र संक्षिप्तार्थः | हि - यस्मात्, अनुसन्धानवर्जितानाम् - अन्योन्यविषयानुसन्धानरहितानाम्, अत एव स्वात्ममात्रे तिष्ठन्तीति तादृशानाम्, अर्थात् जडानां बीजांकुरादीनाम्, सत्तापदेऽपि, अपिशब्दोऽभिव्याप्तौ, मतभेदेन सत्ताविषयत्वे असत्ताविषयत्वेऽपि अंगीकृते सति, एषः - पूर्वस्मिन् श्लोके अस्मिन् इत्यनेनोक्तः, सप्तम्यर्थः - प्रयोजकत्वम्, न कल्प्यते - न युज्यते, अनुसन्धानरूपापेक्षामूलत्वात् तस्याश्च चेतनमात्रे युक्तत्वात् | सप्तम्यर्थः उपलक्षणम् अस्तीति तिङर्थस्यापि, प्रयोज्यत्वमपि अचेतनेषु न युज्यत एवेति | अथवा उत्तरश्लोके तिङ्वाच्यायाः क्रियायाः अचेतनेषु अयोग्यतां साक्षादेव कथयति || १५ || यस्मादचेतनेषु नापेक्षोपपद्यते अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः | क्रियाकारकभावाख्यो युक्तो भावसमन्वयः || १६ || सप्तमीरूपाया विभक्तेरन्यस्या अपि वा योऽर्थः क्रियाकारकभाव लक्षणः स एव तावद्भावानां समन्वयो नान्यः शुष्कः कश्चित् | स च यदि स्वतन्त्रे चिद्रूपे भावद्वयं विश्राम्यति तदोपपद्यते, अन्यथा तु न कथंचित् | तथा हि विकल्पेनापि असौ व्यवह्रियमाणो न वस्तुनिष्ठतयोपपद्यते, अथ षोडशस्य श्लोकस्यावतरणिकां करोति यस्मात् इति | स्पष्टम् | श्लोकमुपन्यस्य व्याचष्टे अत एव इति | अत्र टीका : - विभक्त्यर्थः इति व्याचष्टे सप्तमी इति | अन्यस्याः - तिङ्रूपायाः द्वितीयादिरूपायाश्च | क्रिया इति पदं व्याचष्टे क्रिया इति | क्रियाकारकभावलक्षणः - क्रियाकारकभावस्वरूपः | भावसमन्वयः इति विगृह्णाति भावानाम् इति, शुष्कः - निःसारः, संयोगादिरूप इति यावत् | स च - प्रोक्तः समन्वयश्च, भावद्वयम् - समन्वयाश्रयं वस्तुद्वयम्, चिद्रूपे विश्राम्यति, चिद्रूपेण गृहीतं भवतीत्यर्थः | प्रमात्रेकसमाश्रयः इति व्याचष्टे स्वतन्त्रे इति | युक्तः इति व्याचष्टे उपपद्यते इति | अन्यथा - विश्रान्त्यभावे, एतेन सर्वं वाक्यं सावधारणम् इति न्यायेन प्रमात्रेकसमाश्रय एव युक्तः इति योजनीयम् इति सूचितम् | पूर्वश्लोकस्य हेतुद्योतकम् अत एव इति सुगमत्वेन न व्याख्यातम् | अत्र समर्थनमुपक्रमते तथाहि इति | विकल्पेन व्यवह्रियमाणोऽपि - प्रमात्रभावेऽपि यथा तथा विकल्पविषयीभूतः, असौ - क्रियादिसमन्वयः, वस्तुनिष्ठतया - वस्तुविश्रान्ततया, नोपपद्यते, वस्तुविश्रान्तो न भवतीति यावत् | ननु विकल्पस्य स्वयं वस्तुनिष्ठत्वं नास्ति इति कथं तेन व्यवह्रियमाणस्य वस्त्वनुसरणप्राणो हि विकल्पोऽनुभवानुसारितयैव भवति, सा चेह नास्ति वस्त्वप्रभवत्वेन [वस्तुप्रभवत्वेन - K. ष्. ष्.], वस्त्वनुसारी हि अनुभवो, वस्तु च स्वात्मनिष्ठम् - इत्युक्तम् | तस्मात् बीजे सति अङ्कुरो, वह्नौ सति धूमः, - इति च स्वतन्त्रचिद्रूपप्रमातृविश्रान्तत्वे सर्वमेतद्युज्यते नान्यथा, इति || १६ || ननु प्रयोज्यप्रयोजकसत्ताकतालक्षणापेक्षा [प्रयोज्यप्रयोजकसत्ताकत्वलक्षणा - K. ष्. ष्.] यदि स्वात्मैकनिष्ठत्वे समन्वयस्य तद्भवेदित्यत आह - वस्त्वनुसरण इति | हि - यस्मात्, वस्त्वनुसरणप्राणः - वस्त्वनुसरणेन लब्धसत्ताकः, वस्त्वनुसरीति यावत् | विकल्पः अनुभवानुसारितयैव - केवलमनुभवानुसारित्वेनैव | नन्वत्रापि अनुभवानुसारेण वस्तुनिष्ठा अस्तु इत्यत आह सा च इति | सा च - अनुभवानुसारिता च, इह - क्रियासमन्वयविकल्पे | कुत इत्यपेक्षायामाह वस्त्वप्रभवत्वेन इति | वस्तुजे एव विकल्पे अनुभवानुसारित्वं भवतीति भावः | ननु कुतो हेतोः वस्त्वप्रभवत्वेन अनुभवानुसारिता इह नास्ति इत्यत आह वस्त्वनुसारी हि इति | हि - यस्मात्, अनुभवः वस्त्वनुसारी भवति | नन्वत्र वस्तु अस्त्येवेत्यत आह वस्तु च इति | वस्तु च - समन्वयाश्रयं वस्तु च, स्वात्मनिष्ठम् - स्वात्ममात्रनिष्ठम्, प्रमातारं विना स्वविषयानुभवोत्पादेऽसमर्थमिति यावत्, भवति, अतः सतोऽपि तस्य असत्कल्पत्वमेवेति भावः | फलितमाह तस्मात् इति | एवमत्र श्लोके योजना | यतो जडभावानां स्वात्ममात्रनिष्ठानां सप्तम्यर्थः नोपपद्यते अत एव हेतोः क्रियाकारकभावाख्यः - क्रियाकारकभावनामकः, [ - - क्रियानामकः - C.] विभक्त्यर्थः - समस्तसुप्तिङादिवाच्यभूतः, भावसमन्वयः - जडभावाश्रयः संबन्धः, प्रमात्रेकाश्रय एव - चेतनैकविश्रान्तः सन्नेव युक्तो भवति नान्यथा | प्रमात्रगृहीतं हि जडवस्तु सर्वथाऽसत्कल्पमेवेति भावः | इति || १६ || अथ सप्तदशश्लोकस्यावतरणिकां करोति ननु इति अत्र टीका : - प्रयोज्या प्रयोजिका च सत्ता ययोः कार्यकारणयोः तौ प्रयोज्यप्रयोजकसत्ताकौ तयोर्भावस्तत्ता, तत् (सा ?) लक्षणम् - स्वरूपं यस्याः सा | स्वात्मैकनिष्ठत्वे - नोपपद्यते, तर्हि कार्यकारणयोस्तादात्म्यवादिनां सांख्यानां मते सा संभवत्येव, तत् किं चैतन्यविजृम्भात्मककर्तृवादसमर्थनेन ? इत्याशङ्क्याह परस्परस्वभावत्वे कार्यकारणयोरपि | एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता || १७ || यदि बीजस्याङ्कुरः स्वभावस्तर्हि अङ्कुर एव न बीजं स्यात् किंचित् विपर्ययो वा स्यात्, - इति किं कारणं किं वा कार्यम्; अथ अन्यद्विजमङ्कुरोऽन्यः, तर्हि न परस्परात्मकत्वम्, भेदाभेदौ हि एकदैकविषयौ विरुद्धावेव || १७ || नन्वेवमपि बीजमङ्कुरादिविचित्रमवभातं दीर्घदीर्घपरामर्शशालिभिः स्रोतोवदविच्छिन्नस्वरूपमेव निर्बाधं प्रत्यवमृश्यते | तथा च क्व गतं बीजम्, - इति प्रश्ने वक्तारो भवन्ति, न कुत्रचित् गतमङ्कुरात्मना प्रत्येकं स्वात्मैकमात्रविश्रान्तत्वे सा - अपेक्षा, संभवत्येव इति, तादात्म्य निष्ठत्वेन स्वात्मैकनिष्ठत्वाभावादिति भावः | तत् ततः कारणात्, चैतन्यविजृम्भात्मकः - चैतन्यविलासरूपः यः कर्तृवादः तस्य समर्थनेन, साधनेनेत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे परस्पर इति | अत्र टीका : - विपर्ययः - बीजमेव नांकुरः किञ्चिदित्यैवं रूपः | कुतो न परस्परात्मकत्वमित्यत आह भेदाऽभेदौ हि इति | एकदेशविषयौ - एकदेशगतौ || १७ || अथाष्टादशस्य श्लोकस्यावतरणिकां करोति नन्वेवमपि इति | अत्र टीका : - दीर्घदीर्घः यः परामर्शः तेन शालते इति तादृशैः, न तु बीजपरामर्शनिष्ठैः कर्तृभिरित्यर्थः | निर्बाधम् - औत्तरकालिकबाधारहितम्, प्रत्यवमृश्यते - परामर्शविषयतां नीयते | प्रत्यवमर्शमेव दशयति तथा च इति, वक्तारः - इति विशेष्यस्य [विशेषणस्य - C.] दीर्घदीर्घपरामर्शशालिनः इति विशेषणत्वेन [विशेष्यत्वेन - C.] योजनीयम् | किं वक्तारो भवन्तीत्यपेक्षायामाह न कुत्र इति | तत् - बीजम् | वर्तते, अङ्कुरीभूतमयमङ्कुरस्तत् इति | एवं प्रधानं महदादिधरान्तीभूतं यावद्विततीभूतमनन्तसर्गप्रलय- परम्परात्मतां प्राप्तम्, - इति विततग्राहिणी प्रतीतिः | भागाभिनिवेशवशात् तु कारणकार्यतापरिकल्पनं [कार्यकारणतापरिकल्पनम् - K. ष्. ष्.] तस्यैव भावस्य विशसनप्रायम्, - इत्याशङ्क्याह एकात्मनो विभेदश्च क्रिया कालक्रमानुगा | तथा स्यात्कर्तृतैवैवं तथापरिणमत्तया || १८ || इह दीर्घदर्शिना पत्यक्षानुमानागमान्यतमप्रमाण- मूलां प्रत्यभिज्ञामाश्रित्य तदेवेदं सुखदुःखमोहसाम्य- मनन्तप्रकारवैषम्यावलम्बनेन इति शब्दः प्रमेयपरिसमाप्तौ | दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति एवम् इति | एवम् - तद्वत्, प्रधानम् - प्रकृतितत्त्वम्, महदादि - महत्तत्त्वमारभ्य, धरान्तीभूतम् - धराभावं तावत् परिणतम् | तथा यावद्विततीभूतम् - यथोचितविस्तारभावेन परिणतम् | तथा अनन्ता - अनन्तवस्तुनिष्ठत्वेन अपरिच्छिन्ना या सर्गप्रलयपरम्परा, तदात्मताम् - तद्भावम्, प्राप्तम् भवति | इति - एवम्, विततग्राहिणी - एकस्य प्रधानस्य विस्तीर्णतया ग्रहणकारिणी, प्रतीतिः भवति | ननु तर्हि कथं महदादीनां कारणादिभावेन भेदेन ग्रहणं दृश्यते इत्यत आह भाग इति | भागेषु - महदादिरूपेषु यः अभिनिवेशः भेदेन ग्रहणरूपो हठः, तस्य वशात् - सामर्थ्यात्, कारणकार्यतापरिकल्पनम् - कार्यकारणभावपरिकल्पनं भवति, तत्र प्रधानादिषु कारणतामात्रपरिकल्पनम्, महदादिषु तु कार्यकारणतामात्रपरिकल्पनमिति विभागः | कारणकार्यतापरिकल्पनं किम् ? तस्यैव भावस्य - प्रधानरूपस्य वस्तुनः एव, विशसनप्रायम् - सरणकल्पम्, रूपान्तरग्रहणरूपमिति यावत् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एकात्मनः इति | अत्र टीका : - एकात्मनः इति व्याख्यातुं प्रक्रियां करोति इह इति | इह - भासमाने जगति, दीर्घदर्शिना - नत्वापातदर्शिना कर्त्रा, प्रत्यक्षानुमानागमानां मध्ये यत् अन्यतमं प्रमाणं तदेव मूलं यस्याः तादृशीम्, प्रत्यभिज्ञामाश्रित्य इति - एवम् विश्वीभूतम्, - इति समर्थ्यते | तत्र प्रत्यभिज्ञानबलेन यदेकात्मकमेकस्वभावं तस्य यो भेदोऽन्यान्यरूपता इयमेव सा क्रियोच्यते, यतः काललक्षणेन क्रमेणानुगता, ते हि अन्यान्यस्वभावा युगपत् न भान्ति, पूर्वापरीभूतरूपतैव च क्रियोच्यते | यत एवं क्रिया तथा इति तेन प्रकारेण प्रधानादेः क्रियाविशेषलक्षणेन कर्तृतैव स्यात्, नतु शुष्कं कारणतामात्रं, यतो हेतोः तथा इति तेन तेन महदादिप्रकारेण सततमेव क्रमिकां तथाभासनरूपां परिणामलक्षणां क्रियामाविशतः परिणमत्ता समर्थ्यते - समर्थनाविषयतां नीयते | इति किमिति ? इदम् - अग्रे भासमानं वस्तुजातम्, तदेव सुखदुःखमोहसाम्यम् - गुणत्रयसमानतारूपम् प्रधानमेव भवति नान्यत् किञ्चित् ? इदं कीदृशम् ? अनन्तप्रकारम् - बहुप्रकारम्, यद्वैषम्यम् - महदादिरूपा विषमता, तस्य अवलम्बनेन आश्रयणेन, विश्वीभूतम् - जगद्भावेन परिणतम्, इति | उक्तप्रक्रियावष्टम्भेन एकात्मनः इति व्याचष्टे तत्र इति | तत्र - उक्ते वस्तुनि सति, प्रत्यभिज्ञाबलेन - प्रत्यक्षाद्यन्यतममूलप्रत्यभिज्ञानबलेन, एकस्वभावम् - प्रधानाख्यमेकस्वरूपम् | षष्ठीयोजनां करोति तस्य इति, विभेदः इति पदं व्याचष्टे भेदः इति पदं व्याचष्टे भेदः इति | अत्रापि पर्यायमाह अन्यान्य इति | सा - पूर्वसाधिता | क्रिया इति निगदव्याख्यातम् | उच्यते इति शेषत्वेन अध्याहृतम् | कालक्रमाऽनुगा इति हेतुगर्भविशेषणत्वेन व्याचष्टे यतः इति | काललक्षणेन - कालस्वरूपेण, एतेन कालक्रमः अनुगः यस्याः सेति विग्रहो दर्शितः | कथमित्यपेक्षायां समर्थनं करोति ते हि इति | हि - यस्मात्, ते - महदादिरूपाः | अन्ये अन्ये - भिन्नभिन्नाः | मा भान्तु ततः किम् इत्यत आह पूर्व इति | स्फुटं हि पाकक्रिया विक्लित्त्यादिभावेन पूर्वापरीभूतरूपेत भावः | पूर्वार्धं व्याख्याय उत्तरार्धं व्याख्यातुमवतरणिकां करोति यतः इति | एवम् - कालक्रमाऽनुगा, तथा इति व्याचष्टे तेन इति | प्रधानादेः इति शेषत्वेन अध्याहृतम् | एवम् शब्दं व्याचष्टे क्रिया इति | शुष्कम् - कर्तृतारहितम्, क्रियाविष्टं हि कारकं कारकमिति भावः | तथापरिणमत्तया इति व्याख्यातुं योजनां करोति यतः इति | तत्र तथा इत्यवयवं व्याचष्टे तेन इति, आदि शब्देनाऽहंकारादीनां ग्रहणम् | सततमेव इति योग्यतया अध्याहृतम् | परिणामक्रियाकर्तारमध्याहरति क्रमिकाम् इति | तथाभासनरूपाम् - महदादिभावेन स्फुरणरूपाम्, आविशतः इत्यनेन किंचिद्रूपं परिवर्ज्य त्यक्त्वा व्यावर्त्यमनुवर्तनीयं [अनुवर्तयितव्यम् - K. ष्. ष्.] च व्यवस्थाप्य निर्वर्त्यमानतृतीयरूपप्रह्वता [निवर्त्यमान - K. ष्. ष्.] प्रधानादेस्तया हेतुभूतया || १८ || ननु प्रधानं परिणामक्रियायां कर्तृरूपमियता समर्थितम्, - इति को दोषो, न हि पुरुषवदस्याकर्तृत्वमिष्यते ? इत्याशङ्क्याह अग्रे स्थितस्य प्रधानादेः इत्यस्य योजना | परिणमत्तया इत्यस्य परि इत्यवयवं व्याचष्टे परि इति | अत्रापि पर्यायमाह त्यक्त्वा इति | व्यावर्त्यम् - त्याज्यम्, किञ्चिद्रूपं त्यक्त्वा इति योजना | परि इत्यस्य द्वितीयमर्थमाह अनुवर्तनीयम् इति | अनुवर्तनीयम् - सिद्धतया ग्राह्यम्, व्यवस्थाप्य - विशेषेण स्थापयित्वा | णमत्ता इत्यवयवं व्याचष्टे निर्वर्त्यमान इति | निर्वर्त्यमानम् - इतः परं संपाद्यमानम्, तृतीयं रूपम् - व्यावर्त्यानुवर्त्यापेक्षया तृतीयभूतम्, रूपम्, तत्र प्रह्वता - प्रह्वीभावः, न्यग्भवनम्, [न्यग्भावनम् - C.] तद्भावेन स्फुरणमिति यावत् | तृतीयायोजनं करोति तया इति | तृतीयार्थमाह हेतु इति | हेतावियं तृतीया | एवमत्र श्लोके योजना | च शब्दः एवार्थे, एकात्मनः - एकप्रत्यभिज्ञानवलेनैकस्वभावस्य प्रधानादेः विभेदश्च - विभेद एव, क्रिया भवति | कुतः ? यतः सा कालक्रमाऽनुगा - पूर्वापरीभूतरूपा, एकस्य विभेदश्च कालक्रमाऽनुगत्वमेवेति भावः | एवं सति तथा - तेन तेन प्रधानादेः क्रियावेशलक्षणेन प्रकारेण, प्रधानादेः कर्तृतैव स्यात् | कया हेतुभूतया ? तथापरिणमत्तया, महदादिभावेन परिणमत्वेन हेतुभूतेनेत्यर्थः | इति || १८ || अथैकोनविंशतिश्लोकस्यावतरणिकां करोति ननु इति | अत्र टीका : - इयता - एतेन प्रपञ्चेन, अस्य - प्रधानस्य | इष्यते इति, साख्यैरिति न च युक्तं जडस्यैवं भेदाभेदविरोधतः | आभासभेदादेकत्र चिदात्मनि तु युज्यते || १९ || एवमित्यभिन्नरूपस्य धर्मिणः सततप्रवहद्धर्मभेद- संभेदस्वातन्त्र्यलक्षणं [सततप्रवहद्बहुतरभेदसंभेद - K. ष्. ष्.] परिणमनक्रियाकर्तृकत्वं यदुक्तं तत् प्रधानादेर्न युक्तं जडत्वात्, जडो हि नाम परिनिष्ठितस्वभावः प्रमेयपदपतितः स च रूपभेदाद्भिन्नो व्यवस्थापनीयो नीलपीतादिवत्, एकस्वभाववत्त्वाच्चाभिन्नो नीलवत्, न तु स एव स्वभावो भिन्नश्चाभिन्नश्च भवितुमर्हति विधिनिषेधयोरेकत्रैकदा कर्तृत्वेन [कर्तृत्वेनेतियोजनीयम् - C.] योजनीयम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे न च इति | अत्र टीका : - एवम् इत्यस्य कर्तृवाचकत्वेन व्याख्यां करोति | अभिन्नरूपस्य - एकरूपस्य, धर्मिणः - बीजरूपस्य, सततम् - अविच्छिन्नं यथा भवति तथा प्रवहन्तः - सञ्चरन्तः ये धर्मभेदाः - अंकुरादिधर्मविशेषाः, तेषां यः संभेदः - समवायः तेन, तद्भावेनेति यावत्, स्वातन्त्र्यलक्षणम् - स्वातन्त्र्यरूपम्, यत् परिणमनक्रियाकर्तृत्वम्, यत् शब्दाका/क्षां पूरयति तत् इति | तत् - यच्छब्दकथितं वस्तु, प्रधानादेः इति | आदिशब्देन महदादेर्ग्रहणम् | जडस्य इति विशेषणं हेतुत्वेन व्याचष्टे जडत्वात् इति | न युक्तम् इति निगदव्याख्यातम् | च शब्दस्य पादपूरणार्थत्वात् व्याख्या न कृता | कथम् इत्यपेक्षायामत्र समर्थनं करोति जडो हि इति | परिनिष्ठितस्वभावः - परिच्छिन्नस्वरूपः, स च - जडश्च, भिन्नो व्यवस्थापनीयः - भेदेनव्यवस्थापयितुं योग्यः | अभिन्नः इत्यपि व्यवस्थापनीयः इत्यनेन युज्यते, स एव, एक एवेत्यर्थः | विरोधात् | कश्चित् स्वभावो भिन्नः कश्चित् त्वभिन्नः, - इति चेत्, द्वौ तर्हि इमौ स्वभावावेकस्य स्वभावस्य भवेताम्, न चैवं युक्तं भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु | इति न्यायात् | एवं जडस्य इदम् इति परिनिष्ठिताभासतया सर्वतः परिच्छिन्नरूपत्वेन प्रमेयपदपतितस्य नायं स्वभावभेद एकत्वे सत्युपपद्यते | यत्तु प्रमेयदशापतितं न भवति किं तु चिद्रूपतया प्रकाशपरमार्थरूपं चिदेकस्वभावं स्वच्छम्, तत्र भेदाभेदरूपतापलभ्यते; अनुभवादेव हि स्वच्छस्यादर्शादेरखण्डितस्वस्वभावस्यैव पर्वतमतङ्गजादिरूपसहस्रसंभिन्नं वपुरुपपद्यते | न च रजतद्विचन्द्रादि यथा शुक्तिकैकचन्द्ररूपतिरोधानेन [स्वरूपतिरोधानेन - K. ष्. ष्.] वर्तते, तथा दर्पणे पर्वतादि | दर्पणस्य हि तथावभासे दर्पणतैव सुतरामुन्मीलति - निर्मलोऽयमुत्कृष्टोऽयं दर्पणः इत्यभिमानात् | न हि पर्वतो बाह्यस्तत्र संक्रामति स्वदेशत्यागप्रसङ्गादस्य, न एकत्र - एकस्मिन् देशे, एकदा - एकस्मिन् काले | ननु भवेतां को दोषः इत्यत आह न च इति | कुतो न युक्तमित्यत आह भेद इति | एवम् - एकस्य स्वभावद्वयाङ्गीकारे | उपसंहारं करोति एवम् इति | इदमिति परिनिष्ठिताभासतया - इदम् इति परिच्छिन्नाभासविषयतया, सर्वतः - स्वव्यतिरिक्तेभ्यः सर्ववस्तुभ्यः | पूर्वार्धं व्याख्याय उत्तरार्धं व्याचष्टे यत्तु इति | तत्र - तस्मिन् चिदेकस्वभावे स्वच्छे, युज्यते इति व्याचष्टे उपपद्यते इति | कथं युज्यते इत्यपेक्षायां दृष्टान्तद्वारेण समर्थनं करोति अनुभवादेव इति | हि - यस्मादर्थे, संभिन्नम् - मिश्रीभूतम्, वपुः - स्वरूपम्, रूपतिरोधानेन - सहजस्वरूपानभिव्यक्त्या, तथा दर्पणे पर्वतादि कर्तृ रूपतिरोधानेन, न च वर्तते इति योजनीयम् | कुतो न वर्तत इत्यत आह दर्पणस्य हि इति | तथावभासे - पर्वताद्यवभासे, उन्मीलति - स्पुटीभवति, न तु तिरोधानं भजतीत्यर्थः | कुतः उन्मीलतीत्यत आह निर्मलोऽयम् इति | ननु बाह्यः पर्वत एव तत्रागत्य तिष्ठतीत्यत आह नहि इति | अस्य - पर्वतस्य, नहि परिमितस्यैकदा स्थानद्वये चास्य पृष्ठेऽसौ भाति दर्पणानवभासप्रसङ्गात्?, न च मध्ये निबिडकठिनसप्रतिघस्वभावस्य तत्रानुप्रवेशसंभावना- भावात्, न पश्चात् तत्रादर्शनात् दूरतयैव च भासनात्, न च तन्निपतनोत्फलितप्रत्यावृत्ताश्चाक्षुषा मयूखाः पर्वतमेव गृह्णन्ति, बिम्बप्रतिबिम्बयोरुभयोरपि पर्वतपार्श्वगतदर्पणाभासेऽवलोकनात् | [पार्श्वगतदर्पणावभासे - K. ष्. ष्.] तस्मात् निर्मलतामाहात्म्यमेतत् यदनन्तावभाससंभेदश्चैकता च | गिरिशिखरोपरिवर्तिनश्चैकत्रैव बोधे नगरगतपदार्थसहस्रा- भासः, - इति चिद्रूपस्यैव कर्तृत्वमुपपन्नम्, अभिन्नस्य भेदावेशसहिष्णुत्वेन क्रियाशक्त्यावेशसंभवात् || १९ || अवस्थानं युक्तमिति भावः | अस्य - दर्पणस्य, असौ - पर्वतः, पृष्ठे - पृष्ठदेशे, कुतः इत्यत आह दर्पण इति | नहि दर्पणपृष्ठे स्थितं वस्तु भासते इति भावः | मध्ये - दर्पणमध्यदेशे, न च भातीति पूर्वेण संबन्धः | पश्चात् - दर्पणपश्चाद्भागे, तत्र - पश्चाद्भागे, पुरत एव - दर्पण पुरोभागे एव, तत्र - तस्मिन् दर्पणे यन्निपतनम् तेन उत्फलिताः उत्थिताः - अत एव प्रत्यावृत्ताश्च - प्रतीपमागताश्च | चाक्षुषाः - नेत्रसंबन्धिनः, मयूखाः - रश्मयः, पर्वतमेव - सहजपर्वतमेव, न तु दर्पणे प्रतिबिंबतया स्थितम् | कुतो न गृह्णन्तीत्यत आह बिम्ब इति | बिंब प्रतिबिंबयोः - सहजस्य पर्वतस्य प्रतिबिम्बितस्य [प्रतिबिम्बतया - C.] पर्वतस्य च, तत्र पार्श्वगतदर्पणाभासे इति प्रतिबिम्बे एव योजनीयम् | नहि बिम्बं पर्वतनिकटस्थदर्पणे दृश्यते, स्वप्राधान्येन तस्य दर्शनात् | फलितमाह तस्मात् इति | एतत्किमित्यत आह अनन्तावभाससंभेदः - अनन्तावभासयोगित्वम् | एकता च - एकत्वञ्च | एतद्द्द्व्यमित्यर्थः | ननु दर्पणस्य निर्मलत्वेऽपि चेतनत्वं नास्ति, तथा प्रतिबिम्बाद् भेदेन स्फुरणञ्च दृश्यते इति कथमस्य दृष्टान्तत्वं युक्तमित्यत आह गिरि इति | गिरिशिखरोपरिवर्तिनः - गिरिशिखरस्थपुरुषसंबन्धिनः, नगरगतपदार्थसहस्रा- भासः - नगरगतपदार्थसहस्रज्ञानम्, तद्भावासादनमिति यावत् | एवमत्र योजना | एवम् - पूर्वोक्तं परिणामक्रियाकर्तृत्वम्, [परिणमनक्रियाकर्तृत्वं तत् यच्छब्दाका/क्षाम् - C.] जडस्य - प्रधानस्य, न युक्तम्, कुतः ? भेदाभेदविरोधतः - जडस्य भेदाभेदौ अयुक्तावेव, तु - नन्वेतावता विज्ञानमेव ब्रह्मरूपमिमां विश्वरूपतावैचित्री परिगृह्णातु किमीश्वरताकल्पनेन [किमीश्वरतापरिकल्पनया - K. ष्. ष्.] वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः | चिकीर्षालक्षणैकत्वपरामर्श विना क्रिया || २० || चिद्रूपस्यैकत्वं यदि वास्तवं भेदः पुनरयमविद्योपप्लवात्, - इत्युच्यते [इत्युच्यते कस्यायम् - K. ष्. ष्.] तदा कस्यायमविद्योपप्लवः, - इति न [कस्यायमविद्योपप्लव इति न संगच्छते - K. ष्. ष्.] संगच्छते व्यतिरेके, तत् एकत्र चिदात्मनि युज्यते, कुतः ? आभासभेदात्, अतिनिर्मलत्वेन आभासभेदसहिष्णुत्वादिति भावः | इति || १९ || अथ विंशस्य श्लोकस्यावतरणिकां नन्वेतावता इति | अत्र टीका : - एतावता - उक्तेन प्रपञ्चेन, विज्ञानम् - निर्विमर्शः प्रकाशः, ब्रह्मरूपम्, विज्ञानं ब्रह्म इति श्रुतेरिति भावः | इमाम् - पुरोभासमानाम्, ईश्वरताकल्पनेन - विमर्शरूपैश्वर्यविकल्पनेन, इत्याशंक्य - वेदान्त्युक्तमेतदाशंकाविषयतां नीत्वा | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे वास्तवेऽपि इति | अत्र टीका : - श्लोकं व्याख्यातुं प्रक्रियां करोति चिद्रूपस्य इति | वास्तवम् - सहजम्, पुनः शब्दः पक्षान्तरे, अयम् - भासमानभावरूपः, अविद्यया - उपप्लवात्मया कृतादुपप्लवाद्धेतोः, उच्यते, वेदान्तिभिरिति भावः | तथा च श्रूतिः | एकमेवाद्वितीयं ब्रह्म इति | तथा - इन्द्रोमायाभिः पुरुरूप ईयते इति च | यदीत्यस्याकांक्षां पूरयति तदा इति | न संगच्छते - न युज्यते | ब्रह्मणो हि विद्यैकरूपस्य कथमविद्यारूपता, न चान्यः कश्चिदस्ति वस्तुतो जीवादिर्यस्याविद्या भवेत् | अनिर्वाच्येयमविद्या, - इति चेत्, कस्य अनिर्वाच्या, - इति न विद्मः; स्वरूपेण च भाति, न चानिर्वाच्या, - इति किमेतत् ?; युक्त्या नोपपद्यते, - इति चेत् संवेदतिरस्कारिणी [संवेदनतिरस्कारिणी - K. ष्. ष्.] का खलु युक्तिर्नाम, अनुपपत्तिश्च भासमानस्य कान्या भविष्यति | सद्रूपमेव ब्रह्माभिन्नं चकास्त्यविकल्पके, [चकास्त्यविकल्पेन - K. ष्. ष्.] विकल्पबलात्तौ भेदोऽयम्, - इति चेत्, कस्यायं विकल्पनव्यापारो नाम ? ब्रह्मणश्चेत्, अविद्यायोगो न च अन्योऽस्ति; अविकल्पकं च सत्यं विकल्पकमसत्यम्, - इति कुतो विभागो भासमानत्वस्याविशेषात् | भासमानोऽपि भेदो ब्रह्मणः - व्यापकस्य चित्तत्त्वस्य, विद्यैकरूपस्य - ज्ञानैकरूपस्य, तथा च श्रूतिः | सत्यं ज्ञानमनन्तं ब्रह्म इति | न हि प्रकाशस्य तमोरूपत्वं युक्तमिति भावः | यस्य - यस्य जीवादेः, अनिर्वाच्या - एतदाश्रितेति वक्तुमशक्या, किमेतत्, न किञ्चिदेतदिति भावः | यो हि भाति स वक्तुमपि शक्यते इति भावः | संवेदतिरस्कारिणी - अनुभवापह्नवकारिणी | नन्वत्रानुपपत्तिरस्ति इत्यत आह अनुपपत्तिश्च इति | अन्या - भासमानस्वरूपविरुद्धा, सद्रूपम् - तन्मात्रस्वरूपम्, अभिन्नम् सजातीयविजातीयस्वगत- भेदरहितम्, अविकल्पके - निर्विकल्पावस्थायाम्, विकल्पनव्यापारः - विकल्पाख्यो व्यापारः, अविद्यायोग इति यावत्, तदा प्राप्त इति शेषः | तदा अविद्यायोगः प्राप्तः, विकल्पस्य अविद्यारूपत्वात् | नन्वन्यस्य भवतु इत्यत आह न च इति | अन्यः - ब्रह्मव्यतिरिक्तः कोऽपि, कुतः - कस्माद्धेतोरागतः | नन्वविकल्पके अन्यथा भासमानत्वं विकल्पेत्वन्यथा इति तत्कृतोऽयं सत्यासत्यविभागः इत्यत आह भासमानत्वस्य इति | यदेव भासमानत्वं बाधितः, - इति चेत्, अभेदोऽपि एवम्, भेदभासनेन तस्य बाधात् | विपरीतसंवेदनोदय एव हि बाधो नान्यः कश्चित् | बाधोऽपि च भासमानत्वादेव सन् नान्यतः, - इति भेदोऽपि भासमानः कथमविद्या | भासनमवधीर्य आगमप्रमाणकोऽयमभेदः - [आगमैकप्रमाणकः - K. ष्. ष्.] इति चेत् आगमोऽपि भेदात्मक एव वस्तुभूतः [भेदात्मक एवावस्तुभूतः - K. .ष्. ष्.] प्रमातृप्रमाणप्रमेयविभागश्च, - इति न किंचिदेतत् | तस्मात् वास्तवं चिदेकत्वमभ्युपगम्यापि तस्य कर्तृत्वलक्षणा भिन्नरूपसमावेशात्मिका क्रिया नोपपद्यते; परामर्शस्वरूपं [परामर्शलक्षणम् - K. ष्. ष्.] तु सत्यरजतस्य तदेव शुक्तिकारजतस्येति भावः | एवम्, बाधित इत्यर्थः | कुतः इत्यपेक्षायामाह भेद इति | ननु कथमभेदबाधो युक्त इत्यत आह विपरीत इति | विपरीतसंवेदनोदयः - विपरीतवस्तुज्ञानप्रादुर्भाव एव, अन्यः - तद्व्यतिरिक्तः | कथमविद्या, न अविद्यारूप इत्यर्थः | भासमानम् - व्यावहारिकैः प्रत्यक्षादिभिः स्फुरणम्, अवधीर्य - उपेक्ष्य, आगमप्रमाणकः - नेह नानास्ति किञ्चन इत्यादिश्रुतिप्रमाणकः | भेदात्मक एव वस्तुभूतः - भेदप्रधान एव सन् परमार्थभूतो भवति, सत्तां लभते इति यावत् | तदुक्तम् - यदभिन्नं स्वसंवित्तौ तत्परस्य यदोच्यते | तदा भिन्नमिवाभाति शाब्दीं भूमिमुपाश्रितम् || इति | प्रमातृप्रमाणप्रमेयविभागश्च भेदात्मक एव वस्तुभूत इति योजना | न किञ्चिदेतत्, एतद् वेदाद्युक्तं वस्तु न किञ्चिद् भवतीत्यर्थः | उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे तस्मात् इति | आभासभिन्नयोः इत्यतो निष्कृष्य चित्तत्वं तस्य इत्यनेनोक्तम् | तस्य, वास्तवैकत्वाधारस्य चित्तत्त्वस्येत्यर्थः | पूर्वोक्तं क्रियास्वरूपमनुवदति कर्तृत्व इति | कर्तृत्वलक्षणम् - कर्तृत्वस्वरूपम्, यत् अभिन्नम् - कर्तुर्भेदरहितम्, रूपम् - स्वरूपम्, तत्र यः समावेशः, अर्थात्तस्य कर्तुरेव सम्यगावेशनम्, स आत्मा यस्यास्तादृशी | स्वातन्त्र्यं यदि भवति तदोपपद्यते सर्वम् | परामर्शो हि चिकीर्षारूपेच्छा, तस्यां च सर्वमन्तर्भूतं निर्मातव्यमभेदकल्पेनास्ते, - इत्युक्तं स्वामिनश्चात्मसंस्थस्य.........| (१/५/१०) इत्यत्र | तेन स्वात्मरूपमेव विश्वं सत्यरूपं प्रकाशात्मतापरमार्थमत्रुटितप्रकाशाभेदमेव सत् प्रकाशपरमार्थेनैव भेदेन भासयति [भेदेन प्रकाशयति - K.ष्.ष्.] महेश्वरः, - इति तदेवास्यातिदुर्घटकारित्वलक्षणं स्वातन्त्र्यमैश्वर्यमुच्यते | आभासभिन्नयोरिति क्रियापेक्षा संबन्धसामान्ये षष्ठी, पश्चाद्यथोचितं विभज्यते | आभासेन भिन्नौ जडाजडाभासौ, जडोघटादिः कर्मरूपश्चिदाभासः न स्यात् इति व्याचष्टे नोपपद्यते इति | चिकीर्षा इत्यादि विना इत्यन्तं व्याचष्टे परामर्श इति | परामर्शस्वरूपम् - विमर्शस्वरूपम्, सर्वम् - समस्तं क्रियादि | चिकीर्षा इति व्याचष्टे परामर्शो हि इति | तस्याम् - चिकीर्षारूपायामिच्छायाम्, निर्मातव्यम् - निर्मेयवस्तु, अभेदकल्पेन - अभेदरचनया, इच्छा हि इष्यमाणमयी एवोदेति इति भावः | तदुक्तम् - अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि | तदात्मतासमापत्तिरिच्छतः साधकस्य या || इति | कुत्रोक्तमित्यत आह स्वामिनश्च इति | इत्यत्र, अस्मिन् श्लोके इत्यर्थः | अत्र हीच्छाद्वारेण सर्वं कर्तृगतं साधितम् | फलितमाह तेन इति | तेन - ततः कारणात्, महेश्वरः - परः शिवः, स्वात्मरूपमेव - इच्छाविषयतान्यथानुपपत्त्या स्वात्मरूपमेव सत्, अत एव सत्यरूपम्, तथा प्रकाशात्मतैव परमार्थः - सहजं रूपं यस्य तादृशम् | तथा अत्रुटितः प्रकाशात् - महाप्रकाशात् अभेदः यस्य तादृशम् | न हि मृदो घटत्वासादनेऽपि मृत्त्वं त्रुट्यतीति भावः | एवंविधं विश्वम् - जगत्, प्रकाशपरमार्थेनैव - प्रकाशप्राप्तसत्ताकेनैव, भेदेन भासयति - स्वतो भिन्नतया भासयति तत्र शक्तत्वात्, न चात्र पर्यनुयोगो युक्तः अग्नेरपि दाह्यदाहे तथापातात् | तदेव - विश्वप्रकाशनमेव, अस्य - महेश्वरस्य | आभासभिन्नयोः इति | षष्ठ्यर्थमाह क्रिया इति | विभागमेव दर्शयति आभास इति | जडाजडौ एव विभज्य कथयति घटादिः इति | षष्ठी - कर्तृरूपः - इति तयोः क्रिया, एकस्य क्रियमाणत्वमपरस्य कर्तृत्वं न भवेत् | चिकीर्षारूपेण निर्मातव्याभेदपरामर्शात्मना [निर्मातव्यभाववर्गाभेदपरामर्श - K. ष्. ष्] विना एका चासौ क्रिया कथं भिन्नयोः स्वभावभूता भवत् | कार्यकारणताप्रस्तावात् कर्तृकर्मणी उक्ते, कारकान्तराण्यपि तु एककर्तृत्वानुप्रवेशीनि परमार्थतोऽन्यथा करणादौ भिन्ने कारकव्राते कथमभिन्ना सा | यदि वा आभासेन यौ भिन्नौ जडचेतनौ तयोर्या चिकीर्षा एकस्येष्यमाणता, परस्यैषितृता तत्स्वभावमेकत्वपरामर्शं विना, - इति | यद्वा आभासभिन्नयोः अहमिदम् इति यः परामर्श एकविश्रान्ति - योजनां करोति तयोः इति | क्रियया सह योजनां करोति क्रिया इति | न स्यात् इत्यनेन योजनं करोति एकस्य इति | एकस्य - जडस्य, क्रियमाणत्वम् - करणरूपा क्रिया, अपरस्य - अजडस्य, कर्तृत्वम् - कर्तृत्वरूपा क्रिया | चिकीर्षालक्षणैकत्वपरामर्श विना इति योजयति चिकीर्षा इति | निर्मातव्यस्य यः अभेदेन - स्वाभेदेन परामर्शः तदात्मना, विना - ऋते, एका च - एकरूपा च, भिन्नयोः - जडाजडयोः, तत्सान्निध्ये तु भवेदेव, परामर्शस्य सर्वेसहत्वादिति भावः | नन्वत्र कर्तृकर्मणोरेव चर्चा कृतेति कारकान्तराणां का वार्तेत्यत आह कार्य इति | कारकान्तराणि - करणादीनि, एकम् - कर्तृनिष्ठं यत् कर्तृत्वं [एकं कर्तृनिष्ठं यत् कर्तृकत्वम् - C.] तत्र अनुप्रवेशः - उपकारकत्वेन पश्चात्प्रवेशः एषामस्तीति तादृशानि | अन्यथा - अनुप्रवेशाभावे, करणादौ - करणादिरूपे, भिन्ने - कर्तृकर्मव्यतिरिक्ते, अभिन्ना - एका | एकत्राऽनुप्रवेशे तु बहूनामेकक्रियत्वं संभवत्येवेति भावः | अन्यथा योजनां कर्तुं पक्षान्तरमाह यदि वा इति | चिकीर्षा पदं द्वैविध्येन व्याचष्टे एकस्य इति | एकस्य - जडस्य, इष्यमाणता - इषिकर्मत्वम्, परस्य चेतनस्य, एषितृता - इषि कर्तृत्वम्, तत्स्वभावम् - तल्लक्षणम्, इति - एवं योजना | पुनरन्यथा योजनां करोति यद्वा इति | एकत्र - चित्तत्त्वे या विश्रान्तिः सा रूपं यस्य तादृशः | एतेन आभासभिन्नयोः इत्यस्य परामर्श शब्देन सह संबन्धः कृतः | पुनरप्यन्यथा योजनां करोति आभास इति | एतेन आभासभिन्नयोः इत्यस्य एकत्व इत्यनेन रूपश्चिकीर्षात्मा तं विना, - इति | आभासभिन्नयोरेकपरामर्शं विना चिकीर्षालक्षणा कथं क्रिया, - इति वा | एवं क्रियां वा चिकीर्षा वा परामर्शं वा अपेक्ष्य षष्ठी, नित्यसापेक्षत्वाच्च समासः || २० || एतत् उपसंहरति इत्थं तथा घटपटाद्याभासजगदात्मना | तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया || २१ || यथा [यतो - K. ष्. ष्.] न जडस्य कारणता न कर्तृता, तथानीश्वरस्य चेतनस्यापि, संबन्धः कृतः | एताः योजनाः संकलयय दर्शयति एवम् इति | षष्ठी, षष्ठीद्विवचनमित्यर्थः | नन्वेवं सति सापेक्षस्य चिकीर्षाशब्दस्य परामर्शशब्दस्य च समासो न प्राप्नोति सापेक्षमसमर्थं भवति इति हि उक्तम्, पदविधिस्तु समर्थ एव भवति इत्यत आह नित्य इति | केचिद्धि अनित्यसापेक्षाः यथा ऋद्धस्य राज्ञः पुरुषः इति | अत्र सापेक्षस्य राजन् शब्दस्य पुरुषशब्देन समासो न युक्त एव | केचित्तु नित्यसापेक्षाः यथा देवदत्तस्य गुरुकुलम् इत्यत्र सापेक्षस्यापि गुरुशब्दस्य कुलशब्देन सह समासः युज्यत एव इति | एकत्वेन संबन्धोऽपि फलतः परामर्शेनैवेति तस्य पृथक् कथनं न कृतम् | एवमत्रश्लोके योजना | चिदेकत्वे वास्तवेऽपि सति, आभासभिन्नयोः क्रिया न स्यात् | कं विना ? चिकीर्षालक्षणैकत्वपरामर्शं विना | तत्सत्त्वं तु स्यादेवेति भावः | अथवा आभासभिन्नयोः चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया न स्यादिति योजना | अथवा कयोः परामर्शं विना ? आभासभिन्नयोः परामर्शं विना इति योजना | अथवा आभासभिन्नयोः एकत्वपरामर्शं विनेति संबन्धः | चिकीर्षालक्षणा इति क्रिया विशेषणम् || २० || अथैकविंशस्य श्लोकस्यावतरणिकां करोति एतत् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे इत्थम् इति | अत्र टीका : - इत्थम् इति पदं व्याचष्टे यथा इति | कारणता इति सामान्याभिप्रायेणोक्तम् | इत्यनेनैव हेतुताप्रकारेणेदं [हेतुप्रकारेण - K. ष्. ष्.] जातं [इदं जातं, य एव K. ष्. ष्.] यत् य एव तथा चिकीर्षुस्तस्यैव सा चिकीर्षा बहिष्पर्यन्ततां प्राप्ता क्रिया इत्यभिधीयते, सैव च कर्तृता तदेव च हेतुत्वं नान्यत् किंचित् | तेन घटस्तिष्ठति इत्ययमर्थः - घटात्मना तिष्ठासुः स्वातन्त्र्यात् स्थानमभ्युपगच्छन् न तु तद्रूपमसहमानो यो महेश्वरः प्रकाशः स तिष्ठति - इति | घटपटाद्याभासरूपं यत्किल जगत् तदात्मना यः तथा इति तेन तेन तज्जगद्रतजन्मस्थि - कर्तृता इति तु प्राधान्यात् विशेषाभिप्रायेण | हेतुताप्रकारेण, हेतुताव्यवस्थापनप्रकारेणेत्यर्थः | जातम् - सिद्धम् | इदं किमित्यपेक्षायामाह - यत् इति | योजनां कुर्वन् यत् इत्यस्य वाक्येनाकांक्षां पूरयति य एव इति | तथाचिकीर्षुः - तथा कर्तुमिच्छुः, तस्यैव - तथाचिकीर्षोरेव, सा चिकीर्षा - तथेच्छा, एतेन तथा शब्दः इच्छा शब्देन योजनीयः इति सूचितम् | बहिष्पर्यन्तताम् - बाह्यावयवचेष्ठारूपताम्, सैव च - प्रोक्तरूपा क्रियैव च, तदेव च, सा क्रियैव चेत्यर्थः | हेतुत्वापेक्षं नपुंसकत्वम् | अन्यत् - इच्छारूपचिकीर्षाव्यतिरिक्तम् | अत्र चिकीर्षा पदेन इच्छा शब्दस्य व्याख्या तथैव च चिकीर्षोराक्षेप इति न कोऽपि विरोधः | अथवा तिष्ठासोः इति विशेषणवशेन विशेष्यरूपस्य चिकीर्षोराक्षेपः | चिकीर्षुरेव हि परमेश्वरः कार्यभावेन तिष्ठति इति हेतुता कर्तृता पदयोः क्रियाविशेषणत्वेन सैव च इत्यादिना योजनं स्फुटमेव | घटपटाद्यात्मना तिष्ठासोः इति व्याख्यातुमवतरणिकां करोति तेन इति | तिष्ठासुः - स्थातुमिच्छुः, स्थानम् - स्थितिम्, स्वरूपसत्तामिति यावत्, अभ्युपगच्छन् - अंगीकुर्वन्, अत्र हेतुः स्वातन्त्र्यात् इति | न हि स्वतन्त्रस्य कुतोऽपि प्रतिघातः, स्वातन्त्र्यहानेरिति भावः | तद्रूपम् - भावप्रधानो निर्देशः, घटरूपताम्, न असहमानः, अपि तु किञ्चित्त्वेन सहनशीलः इत्यर्थः | इति शब्दः अर्थकथनसमाप्तौ | अवतरणिकाविषयीकृतस्य विग्रहपूर्वं व्याख्यां करोति घट इति | तदात्मना - तत्स्वरूपेण | तथा शब्दमत्रापि मध्ये तन्त्रेण योजयितुमुपन्यस्यति | तथा इति इति | अस्यैव व्याख्यां करोति तेन तेन इति | ते ते च ते जगद्गता जन्मस्थित्यादथो त्यादिभावविकारतद्भेदक्रियासहस्ररूपेण यः स्थातुमिच्छुः स्वतन्त्रः, तस्य या एवमिति विचित्ररूपेच्छा सैव क्रिया, - इति संबन्धः | तेन महेश्वर एव भगवान् विश्वकर्ता, - इति शिवम् || २१ || इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तकृतविमर्शिन्याख्यटीकोपेतायां क्रियाधिकारे कार्यकारणतत्त्वनिरूपणं नाम चतुर्थमाह्निकम् || ४ || सम्पूर्णश्चायं क्रियाधिकारो नाम द्वितीयो विमर्शः || २ || भावविकाराः तद्भेदरूपं यत्क्रियासहस्रम् - जायते इत्यादिरूपम्, तद्रूपेण, यः स्थातुमिच्छु | विशेष्यं कथयति स्वतन्त्रः इति | षष्ठीयोजनां करोति तस्य इति | एवम् इति व्याचष्टे विचित्ररूपा इति | या इत्यस्याकांक्षां पूरयति सैव इति | फलितं कथयन् कर्तरि ज्ञातरि इति प्रथमश्लोकस्य निर्वाहं करोति तेन इति | एतेन ज्ञातृत्वमप्ययत्नसिद्धमेव, ज्ञातृत्वव्यतिरेकेण कर्तृत्वायोगात् | इति शब्दः आह्निकसमाप्तौ शिव पदं मङ्गलवाचकं परतत्त्वसूचकं च | एवमत्र श्लोके योजना | इत्थम् - उक्तेनप्रकारेण, घटपटाद्यात्मना तिष्ठासोः स्वतन्त्रस्य चिकीर्षोः परमेश्वरस्य, एवम् - विचित्ररूपा तथेच्छैव क्रिया भवति | क्रिया का ? हेतुता तथा कर्तृता, एतद्द्वयरूपेत्यर्थः | तथा शब्दस्य तन्त्रेण द्विर्योजना | इति शिवम् || २१ || इति श्रीमत्काश्मीरमण्डलान्तर्वर्त्याराध्यपादस्वतःसिद्धमहा- माहेश्वरश्रीवैडूर्यकण्ठपुत्रश्रीमदवतारककण्ठात्मज- श्रीभासकरकण्ठविरचितायां भास्कर्याख्यायां श्रीप्रत्यभिज्ञासूत्रविमर्शिनीटीकायां क्रियाधिकारे चतुर्थमाह्निकम् | क्रियाधिकाराख्यो द्वितीयो विमर्शः समाप्तिं गतः | इति शिवम् | तृज्वाच्यस्य महेश्वरस्य कुरुते कृञ्वाच्यतासादनात् | स्वातन्त्र्यं परिपूरितं सह तलो वाच्येन भावेन या || पुष्टीभूतविदेः स्वरूपमुदिता शक्तिः स्फुटं यत्र सा | व्याख्यातोऽद्य मयाऽधिकार इह सोऽयं भास्करेणार्थतः || नाभिमानो मनः कार्यः शिवः कर्ताऽत्र यत्स्थितः | तदैक्येनाभिमानस्ते यद्यस्ति स तु शोभनः || शिवः कर्ता शिवो दृष्टा शिवः पाठक एव च | व्याख्याता च शिवः प्रोक्तः शिवार्पणमिति स्फुटम् || आगमाधिकारे प्रथममाह्निकम् | विमर्शिनी यं प्राप्य सर्वागमसिन्धुसङ्घः पूर्णत्वमभ्येति कृतार्थतां च | तं नौम्यहं शांभवतत्त्वचिन्तारत्नौघसारं परमागमाब्धिम् || भास्करी अत्र टीका: - शिवाच्चिन्मात्राख्यादतिमिततनोरागत- मथो शिवायास्तन्मूर्तेर्ननु वदनमामर्शवपुषः | गतं सद्भिः सर्वैर्मतमथ च गाङ्गेयजलवद् बहुस्रोतोयुक्तं सततमिह शस्त्रं हृदि भजे || १ || अथ तृतीयविमर्शरूपस्यागमाधिकारस्य निर्विघ्नपरिसमाप्तये, प्रचयगमनाय च मनसानुष्ठितमपि बहिः शिष्यशिक्षार्थं परतत्त्ववाचकागमशास्त्रनमस्कारलक्षणं मंगलं सकलाधिकारतात्पर्यसूचकेन श्लोकेनोपनिवध्नाति यं प्राप्य इति | अहम् - अभिनवगुप्ताचार्याख्यः, शांभवम् - सकलकल्याणप्रादुर्भावस्थानशिवशक्त्यैक्यरूपपरशिव- संबन्धि यत् तत्त्वम् - स्वान्तःकृतसदाशिवादिधरण्यन्ततत्त्व- चतुस्त्रिंशकं महाप्रकाशमयमनारोपितं स्वरूपम् तस्य याः चिन्ताः - विचारणानि ता एव रत्नानि - अत्युपादेयत्त्वेन मणयः तेषां यः ओघः - समूहः, स एव सारः यस्य, अन्यचिन्तानां जलस्थानीयत्वात् - तम् | अत एव परम् - वेदादिमहाशास्त्रेभ्यः उत्तिर्णम्, तेषां सादाख्यतत्त्वे एव तावद्विश्रान्तेः तदुपरि स्पर्शासंभवात्, ईदृशं तम् - सर्वत्र प्रसिद्धम्, आगमाब्धिम् - श्रीशिवादागतं गिरिजामुखे गतं श्रीवासुदेवस्य मतमिति निरुक्त्या प्रसिद्धं शास्त्ररूपं समुद्रम्, नौमि - सर्वोत्कृष्टवस्तुपरत्वेन सर्वोत्कृष्टत्वयुक्तत्वात् प्रह्वीभावविषयीकरोमि, अष्टांगप्रणतिविषयतां नयामि इति यावत् | तं कम् ? सर्वे ये आगमाः - वेदादिरूपाणि श्रीमत्सदाशिवोदारप्रारम्भं वसुधान्तकम् | यदन्तर्भाति तत्त्वानां चक्रं तं संस्तुमः शिवम् || शास्त्राणि, ते एव सिन्धवः - स्वल्पविषयत्त्वेन नद्यः, तासां संघः - समूहः | यम् - प्रोक्तस्वरूपमागमाब्धिम्, प्राप्य - मध्ये यत्किंचिद्भेदोद्दीपकमभिधायापि पर्यन्ते उपदिष्टमद्वैतं महासंरम्भेण लेशेन अभिधाय, पूर्णत्वम् - तेन सहैकार्थतानिष्ठताकृतं तदैक्यरूपम्, पूर्णभावेन स्फुरतीति यावत्, तथा कृतार्थतां च - साधितसाधनीयतां च, अभ्येति - अतः परं साधनीयाभावात् साधनीयावशेषेऽपि आगमाब्धिकृतसाधनेनैव साधना, सिन्धवश्च रत्नसारमब्धिमागत्य पूर्णत्वं यान्ति कृतार्थतां च, ततः परं पूर्णाब्धिभावेनैव स्फुरणात् तत्कार्येणैव च कार्यवत्त्वात् इति ध्वनिः | एतेनात्रागमाधिकारे आगमशास्त्रोक्तं वस्तु पूर्वोक्तस्य साधकत्वेन कथयिष्यति इति सूचितम् | आगमशास्त्रप्रामाण्ये च पूर्वं कृत एव भर इति न पुनरायस्तम् | श्रीशिवादिधरण्यन्तं तत्त्वचक्रं स्फुरद्वपुः | यदन्तर्भाति यत्सारं हृद्देशे तं स्तुमः शिवम् || अथात्राधिकारे प्रथमाह्निकस्य निर्विघ्नसमाप्तये स्वेष्टदेवतारूपपरतत्त्व - परामर्शलक्षणं मंगलं स्वान्तरनुष्ठितमपि बहिः शिष्यशिक्षार्थं सकलाह्निकतात्पर्यसूचकेन श्लोकेनोपनिवध्नाति श्रीमत् इति | वयं तं शिवम् स्तुमः - सम्यक् परामर्शविषयतां नयामः | तं कम् ? श्रीमान् ईश्वराद्यपेक्षया ऐश्वर्ययुक्तः यः सदाशिवः स एव उदारं यथा भवति तथा प्रारंभः यस्य तादृशम्, तथा वसुधा अन्ते यस्य तादृशम्, तत्त्वानाम् - वक्ष्यमाणस्वरूपाणाम्, चक्रम् - चतुस्त्रिंशत्संख्याकतत्त्वरूपः समूहः, यदन्तः - यत्स्वरूपभित्तिलग्नं सत्, भाति - स्वस्वरूपेण पृथक् पृथक् स्फुरति, अन्यथा निःसारत्वेन भानायोगात्, एतेन तत्त्वनिर्णयोऽत्र भवितेति सूचितम् | नन्वन्यत्रागमशास्त्रेषु | यत्परतत्त्वं तस्मिन् विभाति षट्त्रिंशदात्म जगत् इति न्यायेन सप्तत्रिंशपरशिवान्तः शिवादिधरण्यन्ततत्त्व- षट्त्रिंशकस्य भानमुक्तम् | इह कथं सदाशिवादिधरण्यन्तस्य तत्त्वचतुस्त्रिंशकस्य शिवतत्त्वान्तर्भानम् | सत्यम्, मालिनीशास्त्रादिरूपेषु परमाद्वैतपरेषु सारशास्त्रेषु तथैवोक्तमस्ति, तत्र एवमधिकारद्वयेन ज्ञानक्रियास्वरूपं वितत्य निर्णीतम् | अथेदं वक्तव्यं क्रिया नाम विश्वपदार्थावभासनलक्षणा इत्युक्तं समनन्तरमेव, के च ते विश्वे पदार्थाः, इति | तत्राभासरूपा एव जडचेतनलक्षणाः ह्ययमभिप्रायः, सदाशिवतत्त्वान्तः शुद्धविमर्शरूपशक्तिस्पर्शः पुष्टो नास्ति, वेदान्ताभिमतनिर्विमर्शप्रकाशरूपशान्तब्रह्मतत्त्वरूपत्वात् तस्य, इति विमर्शरूपा शक्तिरपि पंचत्रिंशत्वेन कथनीयैव, तद्युक्तः शिवोपि सदाशिवादन्य एवेति तस्य षट्त्रिंशत्त्वम्, एतयोश्च स्वरूपं स्वयमेव वक्ष्यति, तत्र च यद्यपि तत्त्वतः शिवपरमशिवयोरैक्यमेव तथापि स्वरूपनिर्देशाभिप्रायेण अनाश्रितशिवत्त्वेन कथनम्, व्यापकत्वाभिप्रायेण परशिवत्त्वकथनम्, न हि व्याप्यमध्ये व्यापकस्य समकक्षतया ग्रहणं युक्तम्, यथा कृतोर्मिकासप्तकस्य मध्ये समस्तस्य सुवर्णस्य अष्टमत्त्वकथनम्, यस्तु शिष्टः तत्र सुवर्णलेशस्तस्याष्टमत्त्वकथनेऽपि न दोषः इति न कोऽपि विरोधः | यत्वष्टात्रिंशत्वमप्यत्र कथयन्ति तच्छिष्योपदेशकाले तस्य मेयत्त्वमापतेदित्यभिप्रायेण, परमार्थेन तु सप्तत्रिंशत्त्वकथनमप्यत्रायुक्तमेव, नहि स्वव्याप्येन व्यापकस्य परिच्छेदो युक्तः, न हि कोशान्तर्गतः कोशकारः कोशं मातुं शक्तः इति | प्रत्यभिज्ञादिरूपेषु प्रक्रियाशास्त्रेषु तु तत्त्वस्वरूपकथनमात्रमेवेष्टं न महाद्वैतकथनमिति शिवतत्त्वपर्यन्तमेव निर्णयः कृतः अतस्तेषां भेददर्शनत्वमेव | परन्तु महाद्वैतं प्रति परोपायत्वं तेषां वर्तते, भिन्ना हि शास्त्राणां प्रवृत्तिरधिकार्युपयोगार्थमिति प्राङ्निर्णीतमेवेत्यलं विस्तरेण, अथवा तस्य तत्त्वस्य प्रमेयतापातो मास्त्वित्यभिप्रायेण अकथनम् | एवं मंगलं संपाद्य समस्तमाह्निकाभिप्रायं कथयति अस्याधिकारस्य चाभिप्रायकथनपूर्वकं पुर्वाधिकारद्वयेन सह संगतिं च दर्शयति एवम् इति | अत्र टीका: - अधिकारद्वयेन, ज्ञानक्रियारूपेणेत्यर्थः | पुनस्तर्हि मौनमेव कुरु इत्यत आह, अथ इति | वक्तव्यम् इति, शेषत्वेनेति भावः | किमित्यपेक्षायामाह क्रिया इति | विश्वेषाम् - सर्वेषाम्, पदार्थानां यदवभासनम् - सारदत्वेन प्रकाशकत्वेन च बहिः प्रकाशनम्, तल्लक्षणं स्वरूपं यस्याः सा | अनन्तरम् - पूर्वाधिकारे, ते - अवभासविषयीभूताः | इति शब्दः वक्तव्यसमाप्तौ, आभासरूपाः - आभाससिद्धत्त्वेन तन्मात्ररूपाः | ननु प्रत्यक्षसिद्धानां पदार्थानां किं पदार्थास्ते च कियता रूपेण संगृह्यन्ते, नहि प्रत्यक्षं मायाप्रमातुः सर्वत्र क्रमते | अनुमानमप्येवम्, न हि यद्यदस्ति तत्र तत्र लिङ्गव्याप्त्यादि ग्रहणसंभवः | आगमस्त्वपरिच्छिन्नप्रकाशात्मकमाहेश्वरविमर्शपरमार्थः किं न पश्येत्, इति तदनुसारेण पदार्थनिर्णयं विश्वप्रमेयीकरणप्रतिलब्धतद्विश्वोत्तिर्णप्रमातृपदहृदयङ्ग- मीकाराभिप्रायेण [हृदयंगमीकरणाभिप्रायेण - K. ष्. ष्.] निरूपयितुमाचार्य आगमाधिकारं तृतीयमारभते | तत्र श्लोकैकादशकेन एवमन्तर्बहिर्वृत्तिः इत्यादिना स्थूलसूक्ष्मत्वभेदतः इत्यन्तेनागमसिद्धं शिवादिधरणीप्रान्तमेकैकाभासरूपतात्मकं रूपसंग्रहकरणेनेत्यत आह, न हि इति | क्रमते - प्रगल्भते, शक्तं भवतीति यावत्, ननु तर्ह्यनुमानस्यात्राभिषेकं दास्यामः इत्यत आह अनुमानम् इति | एवं न क्रमते इत्यर्थः | अत्र समर्थनं करोति न हि इति | ननु तर्हि शब्दप्रमाणरूपस्य शास्त्रस्याप्यत्र का शक्तिरित्यत आह आगमस्तु इति | आगमः - श्रीशिवादिप्रणीतं शास्त्रम्, अपरिच्छिन्नप्रकाशात्मकः - अपरिच्छिन्नप्रकाशरूपः, महाप्रकाशस्वरूप इति यावत्, यः महेश्वरविमर्शः स एव परमार्थः - महेश्वरसंबन्धी स्वाश्रयः स्वविषयश्च अहंपरामर्शः मूलं यस्य तादृशः | तदुक्तम् : - आगतं शिववक्त्रात्तु गतं तु गिरिजामुखे | इति | अत्र हि शिवः प्रकाशः गिरिजा परामर्शः | किं न पश्येत् - सर्वं विमृष्टं शक्त इति यावत् | इति - अतः कारणात्, तदनुसारेण - आगमानुसारेण, पदार्थनिर्णयम् - शिवादिधरण्यन्ततत्त्व- षट्त्रिंशकनिर्णयम्, विश्वस्य - तत्त्वषट्त्रिंशकरूपस्य जगतः यत् प्रमेयीकरणम् - कथनद्वारेण सिद्धं परमार्थतोऽप्रमेयत्वेपि प्रमेयतासंपादनम्, तेन लब्धम् - अतद्व्यावृत्तिकारीत्यादिसिद्धम् | तस्माद् विश्वस्मात् - जगतः उत्तिर्णम् प्रमातृपदं तस्य यो हृदयंगमीकारः - उपादेयत्वेन ग्रहणम्, तस्याभिप्रायेण, प्रमेयदर्शनेन हि स्वयमेवाप्रमेयवस्तुस्पर्शो भवितेत्याशयेनेति यावत् | एवमधिकाराभिप्रायमुक्त्वा आह्निकाभिप्रायं सामस्त्येन तावत् कथयति तत्र इति | तत्र, अधिकारमध्ये इत्यर्थः | आगमसिद्धम् - पतिशास्त्रसिद्धम्, दर्शनान्तरे सामान्यम् इति यद्व्यवहृतं, यस्य सामानाधिकरण्ययोगादनन्तस्वलक्षणावभासनव्यूहविशेष- पूर्वकः समस्तोऽयं शरीरभुवनादिविभवः, तं परमेश्वरागमसिद्धं युक्त्याप्यवगतं [अनुगतम् - K .ष्. ष्.] प्रत्येकतस्तत्त्वग्रामं दर्शयति इत्याह्निकतात्पर्यम् | तत्राधिकारसंगतिं योजयन् पूर्वपक्षप्रतिक्षेपं चोपसंहरन् शिवतत्त्वस्वरूपमेव दर्शयितुमाह एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा | मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी || १ || एकैकम् - प्रतितत्त्वं या आभासरूपता तदात्मकम् - तत्स्वरूपम्, तथा च महाऽद्वैत रूपमिति भावः | महाद्वैते हि भेदोऽपि भासनयोग्य एव, अन्यथा अपूर्णत्वापातात् | तथा दर्शनान्तरे - हतो व्यतिरिक्ते, सामान्यम् इति व्यवहृतम्, आभाससामान्यतया व्यवहारविषयीकृतम् इत्यर्थः | अत्र भेदस्पर्शायोगोऽपूर्णतापादकः असंभवोपहतश्चेति भावः | यत् - यः तत्त्वग्रामः, तथा यस्य - तत्त्वग्रामस्य, सामानाधिकरण्ययोगात् - एकाधारत्ववशेन, अनन्तस्वलक्षणानाम् यत् अवभासनं तदेव व्यूहविशेषः - रचनाविशेषः, सः पूर्वं यस्य तादृशः विभवः - ऐश्वर्यम्, भवतीति शेषः - तत्त्वानां? सामानाधिकरण्ये एव हि शरीरादिव्यवहारो भवतीति भावः | तत्र समानमधिकरणञ्च प्राधान्यापेक्षया आधेयभूततत्वानां मध्ये किमप्येकं तत्त्वं भवति न तेभ्यः पृथक् | युक्त्यापि इत्यत्र अपिशब्दः समुच्चये | अवगतम् - अस्तित्त्वेन ज्ञातम्, प्रत्येकतः - प्रातिस्विकस्वरूपयुक्तम्, तत्त्वग्रामम् - तत्त्वसमूहम् | अथ प्रथमश्लोकस्यावतरणिकां करोति तत्र इति | अत्र टीका : - अधिकारसंगतिम् - अस्याधिकारस्य पूर्वाधिकारेण सह संबन्धम्, पूर्वपक्षस्य कार्यकारणभावविषयस्य यः प्रतिक्षेपः - प्रतिसमाधानम्, तम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे, एवम् इति | एवमिति, यतः परदर्शनोक्तः कार्यकारणभावो जडरूपप्रतिष्ठो न कथंचिदुपपन्नः, किन्तु चिद्रूप एवान्तर्बहिरात्मना प्रकाशपरमार्थेनापि वपुषा तथाभासनरूपेण [तदाभासरूपेण - K. ष्. ष्.] वर्तमानः कालक्रममाक्षिपन् क्रियाभिधीयते, तस्य प्रमातुरेव ज्ञानशक्तिवपुषो धर्मस्तत् [ज्ञानशक्तिवपुषो धर्मः; तत् इति तस्मादवियुक्तं - K.ष्.ष्.] इति | तस्मादवियुक्तं ज्ञानं क्रिया च | ज्ञानं विमर्शानुप्राणितम्, विमर्श एव च क्रियेति | न च अत्र टीका : - एवम् शब्दं व्याचष्टे यतः इति | परदर्शनोक्तः - शैवनयव्यतिरिक्तदर्शनप्रोक्तः, अन्तर्बहिरात्मना - परमार्थतः चिद्रूपेणाभासता, इदन्तया भासनशीलेन इत्यर्थः, तथाभासनरूपेण - कार्यकारणभावेनाभासरूपेण, वपुषा - स्वरूपेण, तत् - सा क्रिया | इति शब्दः समाप्तौ, मातुरेव इत्यन्तं व्याख्या समाप्तौ | एवमत्र योजना | एवम् - अचेतनविषये कार्यकारणभावे अनुपपन्ने सति | कालक्रमानुगा - कालरूपक्रमानुसारिणी, तथा अन्तर्बहिर्वृत्तिः - परमार्थतश्चिद्रूपत्वेऽपि आभासतः तद्व्यतिरिक्ततया भासमाना, क्रिया मातुरेव भवति, चेतन - स्यैव भवतीत्यर्थः | तत् इत्यादि अवशिष्टं श्लोकखंडं व्याचष्टे तस्मात् इति | अवियुक्तम् - अभिन्नम्, कर्म इति पदं व्याचष्टे क्रिया च इति | ज्ञानकर्मणोरवियोगमेव दर्शयति ज्ञानम् इति | विमर्शानुप्राणितम् - विमर्शदत्तसत्ताकम् | यदुक्तम् प्राक् स्वभावमवभासस्य | इति | नन्वेतेन कर्मणः किमायातमित्यत आह विमर्श एव च इति, ज्ञानशक्तिविहीनस्य क्रियायोगः इति | तदेतदवियुक्तज्ञानक्रियारूपं क्रियाद्वारेण सकलतत्त्वराशिगतसृष्टिसंहारशतप्रतिबिम्बसहिष्णु [प्रतिबिंबनसहिष्णु - K. ष्. ष्.] यत् तदुपदेशभावनादिषु तथाभासमानमनाभासमपि [अनाभासरूपमपि - K. ष्. ष्.] वस्तुतः शिवतत्त्वमित्युक्तं भवति || १ || नन्येवंभूतं शिवतत्त्वं चेत् तर्हि ततोऽनतिरिच्यमानमिदं विश्वमिति बाह्यक्रियाया अपि विमर्शस्थूलतारूपत्वादिति भावः ननु तथापि क्रियायाः ज्ञानैकरूपत्वं नायातमित्यत आह न च इति | इति शब्दः ज्ञानकर्मावियोगसमाप्तौ | फलितं कथयति, तदेतत् इति | तत् - तस्मात्कारणात् | एतत् - कर्तृ, शिवतत्त्वमित्युक्तं भवति | अर्थादेव च विमर्शाख्यं वस्तु शक्तितत्त्वमित्युक्तं भवति इत्यपि मन्तव्यम्, शक्तितत्त्वस्य शुद्धाहंविमर्शरूपत्वात् | तत्किम् ? एतत् इत्यादि यत् इत्यन्तम् | तत्र यत् इत्यस्य विशेषणद्वयमाह अवियुक्त इति | तत् इत्यस्य अपि विशेषणद्वयमाह उपदेश इति | वस्तुत अनाभासम् अपि उपदेशभावनादिषु तथाभासमानम् - उपदेश्यभाव्यत्वादिना भासनशीलम्, तत्र शक्तत्त्वादिति भावः | प्रतिबिंबसहिष्णु इत्यनेन प्रतिबिंबयोग्यस्यापूर्णस्य चित्तत्त्वस्य शिवत्त्वम, प्रतिबिंबाधारस्य पूर्णस्य चित्तत्त्वस्य परमशिवत्वमिति द्योतितम् | तथा च एतेन परमशिवाख्यं सप्तत्रिंशं तत्त्वं, शिवाख्यं षट्त्रिंशं शक्त्याख्यं पंचत्रिंशं तत्त्वं चोक्तम् इति ज्ञेयम् || १ || अथ द्वितीयस्य श्लोकस्यावतरणिकां करोति नन्वेम् इति | अत्र टीका : - एवंभूतम् - सर्वप्रतिबिंबसहिष्णु, सर्वभावेन स्फुरणशीलमिति यावत् ततः - तस्मात् शिवतत्त्वात्, अनतिरिच्यमानम् - अन्यूनातिरिक्तम्, तदेकरूपमिति किमन्यत् तत्त्वं स्यात् | एकचित्तत्त्वविश्रान्तौ च तत्त्वानां कथं क्रमो भवेत्, देशकालाभेदात् ? एवमेतत् [एवमेवैतत् - K. ष्. ष्.] किंत्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः | बहिर्भावपरत्वे तु, परतः पारमेश्वरम् || २ || यद्यप्येकमेव शिवतत्त्वं तथापि तदीयमेव स्वातंत्र्यं स्वात्मनि स्वरूपभेदं तावत्प्रतिबिम्बकल्पतया दर्शयति | स्वरूपवैचित्र्यमेव देशकालक्रमः | मूर्तिक्रियावैचित्र्यमयो हि असौ | ततश्चान्तरी ज्ञानरूपा या दशा तस्या उद्रेकाभासने सादाख्यम् सदाख्यायां भवम् | यावत् | अन्यत् - शिवतत्त्वव्यतिरिक्तम्, किं स्यात्, भवेत् इत्यर्थः | अत्राङ्गीकारं करोति एवम् इति | एतत् एवमेव भवतीत्यर्थः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | किन्त्वान्तर इति | अत्र टीका : - अवतरणिकायाम् एवमेतत् इत्यनेनोपसंहृतं पक्षमपेक्ष्य अन्यपक्षद्योतकं किन्तु इति पदं व्याचष्टे यद्यप्येकम् इति | तदीयम् - शिवतत्त्वसंबन्धि, स्वात्मनि - शिवरूपे स्वस्मिन्, स्वरूपभेदम् - सदाशिवादिभावेन स्थितम् स्वरूपभेदम्, प्रतिबिंबतया प्रतिबिंबरूपत्वेन, दर्शयति - स्वरूपभूतान् प्रमातॄन् प्रति स्फुटीकरोति | कुतः इत्यपेक्षायामाह मूर्ति इति | असौ - देशकालक्रमः, तत्र मूर्तिवैचित्र्यमयो देशक्रमः क्रियावैचित्र्यमयः कालक्रमः इति विभागः, उभयत्रापि चात्र स्वरूपवैचित्र्यमेव, न हि क्रिया स्वरूपाद् भिन्नेति भावः | सामान्येनोक्तं वस्तु विशेषेण वक्तुं फलितरीत्या श्लोके योजनां करोति ततश्च इति | आन्तर इत्यादि पदं व्याचष्टे ज्ञान इति | ज्ञानरूपा - अस्फुटपरामर्शबोधरूपा, अन्यथा शिवत्वापातात् | तस्याः - दशायाः, उद्रेकाभासने - क्रियां न्यक्कृत्य प्रधानतया स्फुरणे सति, सादाख्यम् इति पदं व्याचष्टे सदाख्यायाम् इति | नन्वेतेन किमुक्तं यतः प्रभृति सदिति प्रख्या | सदाख्यायाश्च सदाशिवशब्दरूपाया इदं वाच्यं तत्त्वम् | सृष्टिक्रमोपदेशादौ प्रथममुचितम् | तत्सादाख्यं तत्त्वम् | बहिर्भावस्य क्रियाशक्तिमयस्य परत्वे उद्रेकाभासे सति पारमेश्वरं परमेश्वरशब्दवाच्यमीश्वरतत्त्वं नाम | तच्च [ततश्च - K. ष्. ष्.] सादाख्यस्य पश्चादुचितावभासनम् | भवति इत्यत आह यतः इति | सदिति प्रख्या - सदिति प्रसिद्धिः, अतः पूर्वं हि शक्त्यादौ असदित्यनेन प्रतियोगिना परिमितीकृता सत्तापि न युक्तेति भावः | सादाख्यमिति प्रकारान्तरेण व्याचष्टे सदाख्यायाः इति | पूर्वं तु तत्र भवः | इति अण् प्रत्ययो विहितः, इह तु तस्य वाच्यम् इति, तेन सदाख्याया वाच्यं तत्त्वं सादाख्यम् इति विग्रहः | आदितः इति व्याचष्टे सृष्टि इति | सृष्टिक्रमेण - अवरोहक्रमेण यः उपदेशादिः तस्मिन्, आदिशब्देन परामर्शादेर्ग्रहणम्, आरोहक्रमेण तु सदाशिवतत्त्वस्यान्त्यत्वमेवेति भावः | उचितम् इति, ज्ञानस्यैव सृष्टिक्रमेण प्रथमत्वादिति भावः | प्रथमार्धं व्याख्याय द्वितीयार्धं व्याचष्टे तत् इति | तदित्यस्य कर्तृत्वेनाध्याहारः, अध्याहृतस्यास्य व्याख्यां करोति सादाख्यम् इति | बहिर्भाव इत्यादि व्याचष्टे बहिर्भावस्य इति | यद्यपि परमेश्वरपदं शिवतत्त्वे एव युक्तं तथापि लक्षणया प्रयुक्तमिहापि, परमेश्वरपदस्य वाच्यं पारमेश्वरमिति विग्रहः | इह तु सा विमर्शशक्तिः स्वयमपि स्फुटीभवति स्वप्रतियोगिनीमिदन्तामपि स्तोकमुन्मीलयति येन अहमिदम् इति अहमः प्राधान्येन इदमस्त्वप्राधान्येन परामर्शः | अयमेव च बहिर्भावाख्यायाः क्रियाशक्तेरुद्रेकः | अहंविमर्श एव इदंविमर्शभावेनापि स्फुरति | अत्रैव च शुद्धाहंपरामर्शस्य विकल्परूपतासूत्रणं च ज्ञेयम् | परतः इति व्याचष्टे तच्च इति | तच्च - ईश्वरतत्त्वं च, पश्चात् - ज्ञानानन्तरम् क्रियोद्रेके युक्तम् इति भावः | अत्रापि सृष्टिक्रमोपदेशादाविति योज्यम् | पूर्वार्धेऽवशिष्टं तत्त्वम् इति पदं व्याख्यातुमेतस्य एतदुक्तं भवति | इह तस्य भावस्तत्त्वम्, - इति भिन्नानां वर्गाणां वर्गीकरणनिमित्तं यदेकमविभक्तं भाति तत्तत्त्वम् | यथा गिरिवृक्षपुरप्रभृतीनां नदीसरःसागरादीनां च पृथिवीरूपत्वमब्रूपत्वं चेति | ततश्च शुद्धचैतन्यवर्गो यो मन्त्रमहेश्वराख्यः, तस्य प्रथमसृष्टावस्माकमन्तः- करणैकवेद्यमिव ध्यामलप्रायमुन्मीलितमात्रचित्रकल्पं यद्भावचक्रम्, तथा [भावचक्रं, संहारे च - K. ष्. ष्. ] संहारे च ध्वंसोन्मुखतया तथाभूतमेव श्लोकस्य संग्रहेणाभिप्रायं वक्तुञ्चावतरणिकां करोति एतदुक्तं भवति इति | किमुक्तं भवतीत्यत आह इह इति | भिन्नानां वर्गाणाम् - भेदेन स्थितानां बहूनां वर्गाणाम्, वर्गीकरणनिमित्तम् - एकवर्गीकरणम्, येन धर्मेण भिन्ना - अपि समतया भान्तीति यावत् | समानानां समूहो हि वर्ग इति भावः, एकम् - बहुष्वङ्गेषु एकत्वेन स्थितम्, अत एव अविभक्तम् - विबागरहितम् | अत्र वाह्यसिद्ध वस्तु उदाहरणत्त्वेन कथयति यथा इति | इति शब्दः तत्त्वशब्दव्याख्यासमाप्तौ | फलितं कथयति ततश्च इति | ततश्च यतो वर्गाणां वर्गीकरणं तत्त्वम् ततः कारणाच्च, मंत्रमहेशाख्यः - मंत्रमहेशेति रूढः यः शुद्धचैतन्यवर्गः - अभेदग्राही चैतन्यसमूहः तस्य प्रथमसृष्टौ - सविमर्शचैतन्यरूपशिवपदात्प्रच्याव- रूपायामवरोहरूपायां नवीनायाम् सृष्टौ, ध्यामलप्रायम् - तावदनुद्भूतत्वेन अस्फुटम्, तथा उन्मीलितमात्रचित्रकल्पम् - मश्यादिना लिखितमात्रं न तु गैरिकादिभिः पुष्टीकृतम्, यत् चित्रम् - आलेख्यम्, तेन सदृशम् | यद्भावचक्रम् - इदन्ताग्राह्यं वस्तुजातम्, प्रतिबिम्बप्रायतया - प्रतिबिम्बकल्पतया, चकास्ति - भाति | तथा पुनः संहारे च - आरोहक्रमरूपे संहारे च, ध्वंसोन्मुखतया - नाशोन्मुखतया यद् भावचक्रं तथाभूतमेव - ध्यामलप्रायं उन्मीलितमात्रचित्रकल्पं प्रतिबिम्बकल्पतया चकास्ति | केषां किमिव चकास्ति ? अस्माकम् - मायाप्रमातॄणाम्, अन्तःकरणैकवेद्यमिव - केवलान्तः चकास्ति प्रतिबिम्बप्रायतया, तस्य चैतन्यवर्गस्य तादृशि भावराशौ तथाप्रथनं नाम यच्चिद्विशेषत्वं तत्सदाशिवतत्त्वम् | मन्त्रेश्वरादिरूपस्य तु चैतन्यराशेः स्फुटीभूतमस्मद्बहिष्करणसरणिसंप्राप्तभाववर्गप्रतिमं विश्वं प्रतिबिम्बकल्पतया [प्रतिबिंबतया - K. ष्. ष्.] भाति, तस्य तु तत् तथाप्रथनमीश्वरतत्त्वम् | यस्तु सदाशिवभट्टारक ईश्वरभट्टारकश्च ध्येयोपास्यादिरूपतया स ब्रह्मविष्णुतुल्यः पृथगेव मन्तव्यो न तु नामसारूप्यात् भ्रमितव्यम् | यथाहुरेके ब्रह्मविष्णुरुद्रा अपि तत्त्वमध्ये किं न गणिताः इति || २ || करणग्राह्यं वस्तु इव, अन्तःकरणेन हि वस्तु अस्फुटतयैव गृह्यते, तस्य - प्रोक्तस्य चैतन्यवर्गस्य तादृशि - ध्यामलप्रायादिरूपे, भावराशौ - भावराशिविषये इति यावत्, तथा प्रथनं नाम - प्रोक्तध्यामलप्रायादिभावेन स्फुरणाख्यम्, यत् चिद्विशेषत्वम् - चिद्विशेषभावो नाम धर्मो भवति, तत् सदाशिवतत्त्वं - भवति | सर्वत्र भावराशौ अस्फुटप्रतिबिंबत्वम्, नष्टप्रायत्वदर्शनमेव सदाशिवांवस्थेति भावः | तथा च अहन्तया ग्रहणस्य शिवशक्तितत्त्वरूपत्वम् स्वयमेव ज्ञेयम् | प्रमाता चात्र स्वयं शिव एव, तत्र पराहन्ताया एव प्राधान्यात् | परशिवावस्था तु सर्वदा सर्वमयी एव इति न तत्र कापि विशेषकल्पना | अत्र तु सर्वेषामेव सर्वथा प्रमातृत्वमिति श्रीगुरुभ्य एव श्रुतम् | ननु सदाशिवत्वमेवं भवतु, ईश्वरत्वं तु कीदृशमस्तीत्यत आह मन्त्रेश्वर इति | मंत्रेश्वरादिरूपस्य, ईश्वरतत्त्वविद्यातत्त्वरूपे पदद्वये स्थितयोः मंत्रेश्वरमंत्ररूपयोः प्रमात्रोरित्यर्थः, प्रतिबिंबकल्पतया इत्यनेन मायाप्रमातृनिरासः, तेषां हि विश्वं सत्यतयैव भाति न प्रतिबिम्बतया, प्रतिबिम्बतया दर्शनमेव ईश्वरतत्त्वासादनं शुद्धविद्यातत्त्वासादनं च भवतीत्यभिप्रायः | ननु यथा सदाशिवादेस्तत्त्वरूपता अस्ति तथा विष्ण्वादेरपि कथं नास्तीत्यपेक्षायामाह यस्तु इति | उपास्यादिरूपतया इति | आदिशब्देन पूज्यादिग्रहणम्, कल्प्यते इति शेषः | पृथक् - तत्त्वरूपाभ्यां भिन्न एव | ननु केषामयं भ्रमो जात इत्यत आह यथाहुः इति || २ || नामधेयान्तरमप्यत्र तत्त्वद्वये दर्शयति ईश्वरो बहिरुन्मेषो, निमेषोऽन्तः सदाशिवः | सामानाधिकरण्यञ्च, सद्विद्याहमिदंधियोः || ३ || यस्योन्मेषादुदयो जगतः, इत्यत्र ईश्वरतत्त्वमेवोन्मेष- शब्देनोक्तम्, विश्वस्य हि स्फुटत्वबाह्यत्वमुन्मेषणम् [स्फुटत्वं - K. ष्. ष्.] निमेषणं त्वस्फुटत्वापादनमहन्तारूपतोद्रेचनम् [अन्तारूपतोद्रेचनम् - K. ष्. ष्.] इति निमेषः सदाशिवतत्त्वम् | यतो जगतः प्रलय इति | शोद्धोऽयं स्पन्दः परमेश्वरस्याचलस्याप्यप्ररूढरूपान्तरापत्तिलक्षणः अत्र टीका : - तृतीयस्य श्लोकस्यावतरणिकां करोति नामधेयान्तरम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | ईश्वरः इति | अत्र टीका : - कुत उक्तम् इत्यत आह, विश्वस्य हि इति | स्फुटत्वं च बाह्यत्वं च तत् स्फुटत्वबाह्यत्वम् समाहारे द्वन्द्वः | अहन्तारूपतायाः - आन्तरत्वस्य, उद्रेचनम् - अधिकीकरणम्, अहन्तारूपतोद्रेचनम् कुतः सदाशिवतत्त्वमित्यत आह यतः इति | सदाशिव एव जगतः प्रलयः ततः परं जगत्स्पर्शा - संभवात्, इति शब्दः पूर्वार्धव्याख्यासमाप्तौ | सदाशिवेश्वरतत्त्वयोः शुद्धस्पन्दत्वं कथयति शुद्धोयम् इति | अचलस्यापि - परमार्थतः स्वरूपे स्थितत्वात् चलत्तारहितस्यापि, परमेश्वरस्य - शिवशक्तिसमुदायरूपस्य, अयम् - सदाशिवेश्वररूपः स्पन्दः शुद्धः भवति, कीदृशः ? अप्ररूढा - प्ररोहमगता अस्फुटा, अस्फुटप्रतिबिम्बभावेन जगत्स्फुरणात् दार्ढ्यमगता इति यावत्, या रूपान्तरापत्तिः [या भेदापत्तिः सा - C.] भेदापत्तिः सा लक्षणम् - स्वरूपं यस्य सः | कुतः स्पन्द इत्यपेक्षायां किंचिच्चलनात्मतया स्फुरद्रूपत्वात् | परमेश्वरस्य हि परमार्थत एताः शक्तयो यस्तत्त्वग्रामः, काचित्तु शक्तिरन्यबहुतरशक्तिक्रोडी कारं कुर्वती निकटत्वादुपास्या घटस्येव घटत्वात्मिका, काचिदन्यापेक्षिणी स्वरूपमात्रनिष्ठा दूरा घटस्येव सत्तात्मिका | एवं निमेषोन्मेषशक्ती एव सदाशिवेश्वरौ तयोस्त्वधिष्ठातृदेवते अपि तथानामे || अथ तदधिष्ठातृद्वयगतं [तदधिष्ठातृदेवताद्वयगतम् - K. ष्. ष्.] करणं विद्यातत्त्वमाह | प्रकाशस्य यदात्म - हेतुमाह किंचित् इति | अन्यथा सदाशिवेत्याद्याभासान्तरायोगात् इति भावः | स्पदि किञ्चिच्चलने इति धात्वनुसारेण अयमर्थः कृतः यद्यपि सारशास्त्रेषु शक्तेरेव स्पन्दत्वमुक्तं तथापीह प्रक्रियाशास्त्रे प्रोक्तनीत्या सदाशिवादेरुक्तम्, शक्तिशिवयोरेव हि [शक्तिशिवयोरेव बहिः इह शास्त्रे - C.] इह शास्त्रे परमार्थस्वरूपत्वं न परशिवस्येत्यलम् | शुद्धत्वस्य नैकट्यकृतत्वं साधयति, अथवा तयोस्तत्त्वयोरुपास्यत्वं कथयति परमेश्वरस्य इति | हि - यस्मात्, परमेश्वरस्य एताः शक्तयो - भवन्ति, एताः काः ? यः तत्त्वग्रामः - सदाशिवादिरूपः तत्त्वसमूहः भवति | उपास्या इति, तावन्मलानासादनात् सत्वरं शक्तिमत्प्रापकत्वात् वा उपासितुं योग्या | सद्वस्त्वन्वेषणे हि घटः चिरेण प्राप्यते घटत्वयुक्तवस्त्वन्वेषणे तु सद्य एवेति भावः | उपसंहारं करोति एवम् इति | शिवस्य शक्तिमतः इति शेषः, अधिष्ठातृदेवते - प्रेरकतया स्थितं देवताद्वयम्, तथानामे - सदाशिवेश्वराख्ये इत्यर्थः | तत्र शिवशक्तितत्त्वयोरधिष्टातृभावः तत्त्वद्वयस्यैव स्वयं तद्रूपत्वात् | सदाशिवतत्त्वे सदाशिवोऽधिष्ठाता, ईश्वरतत्त्वे ईश्वरः, विद्यातत्त्वे सदाशिवेश्वरौ, ततो मायापदे रुद्रः विष्णुब्रह्माणौ च | तदुक्तम् - ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | इति | एतत् च संहारक्रमेणोक्तं न सृष्टिक्रमेणेति नान्यथा शंकनीयम् | अथोत्तरार्धं व्याख्यातुमवतरणिकां करोति अथ इति | तदधिष्ठा - मात्रविश्रमणमनन्योन्मुखस्वात्मप्रकाशताविश्रान्तिलक्षणो विमर्शः सोऽहम् इति उच्यते | यस्त्वन्योन्मुखः स इदम् इति | स च स्वप्रकाशमात्रे पुनरनन्योन्मुखरूपे विश्राम्यति परमार्थतः | तत्राद्ये विममर्शे [आद्ये विमर्शेऽपि - K. ष्. ष्.] शिवतत्त्वम् द्वितीये विद्येशता मध्यमे तु रूपे अहमिदम् इति समधृततुलापुटन्यायेन यो विमर्शः स सदाशिवनाथ ईश्वरभट्टारके च, इदंभावस्य तु ध्यामलाध्यामलताकृतो विशेषः | ये एते तृद्वयगतम् - सदाशिवेश्वरतत्त्वगततदाख्याधिष्ठातृद्वय- गतम्, करणम् - प्रेरणोपायः, विद्यातत्त्वम् - शुद्धविद्यातत्त्वम् | एवमवतरणिकां कृत्वा उत्तरार्धं व्याचष्टे प्रकाशस्य इति | अहमिदंधियोः इति व्याचष्टे प्रकाशस्य इति | आत्ममात्रविश्रमणम् स्वयं व्याचष्टे अनन्य इति | अनन्योन्मुखः - अबाह्योन्मुखः अत एव स्वात्मप्रकाशतायां या विश्रान्तिः | सा लक्षणम् स्वरूपं यस्य तादृशः | यत् इत्यस्याकांक्षां पूरयति सः इति | सः, तद्विश्रमणमित्यर्थः, अध्याहार्यविमर्शशब्दापेक्षं पुंस्त्वम् | अहमित्ववयवं व्याख्याय इदम् इत्यवयवं व्याचष्टे यस्तु इति | अन्योन्मुखः बाह्योन्मुखः | ननु तर्हि भेदापत्तिरित्यत आह स च इति | पुनः इति, आरोहसमये इत्यर्थः | मध्ये मृषैव भातीत्यर्थः | ननु तर्हि प्रोक्ततत्त्वद्वयात्कोऽस्याः भेदः इत्यपेक्षायां विभागं करोति तत्र इति | तत्र, अहम् इदम् अहमिदम् इदमहम् इति विमर्शचतुष्टयमध्ये इत्यर्थः | आद्ये विमर्शे अहम् इत्यत्र इत्यर्थः | एतच्च शक्तिशिवयोरैक्यमारोप्योक्तम्, द्वितीये इदम् इत्यत्र विद्येशता - लक्षणया शुद्धविद्यात्त्वम्, विद्येशा हि विद्यारूपा एव भवन्ति, उपासनामात्रार्थं कल्पितत्वात्, द्वितीये इति सूत्रापेक्षया उक्तम्, अन्यथा मध्यासंभवात् | मध्यमे - अर्थाज्ज्ञाते अहमिदम् इदमहम् इति परामर्शद्वये | ननु तर्हि सदाशिवेश्वरयोरेकत्वमेवायातमित्यत आह - इदंभावस्य इति | ध्यामलता - अस्फुटत्वम्, तत्र सदाशिवतत्त्वे इदंभावस्य ध्यामलता, ईश्वरतत्त्वे त्वध्यामलतेति विभागः | ननु तर्हि सदाशिवतत्त्वे समधृततुलापुटन्यायो न युक्तः, सत्यम्, विस्तरभिया अत्रैवमुक्तमन्यथा तु सदाशिवतत्त्वे अहंभावस्य प्राधान्यमेव वर्तते इत्यलम् | ननु यदि शुद्धविद्या अहम् इति इदम् इति धियौ तयोर्मायाप्रमातरि पृथगधिकरणत्वम् अहम् इति ग्राहके इदम् इति च ग्राह्ये, तन्निरासेनैकस्मिन्नेवाधिकरणे यत्संगमनं संबन्धरूपं प्रथनं [संबन्धस्वरूपप्रथनम् - K. ष्. ष्.] तत् सती शुद्धा विद्या, अशुद्धविद्यातो [शुद्धा विद्या; अतोऽशुद्धविद्यातः - K. ष्. ष्.] मायाप्रमातृगताया अन्यैव | तत्र यदा अहम् इत्यस्य यदधिकरणं चिन्मात्ररूपं तत्रैवेदमंशमुल्लासयति तदा तस्यास्फुटत्वात् सदाशिवता अहमिदम् इति | इदमहम् इति तु इदमित्यंशे स्फुटीभूतेऽधिकरणे यदाहमंशविमर्शं निषिञ्चति तदेश्वरता, - इति विभागः || ३ || वामपीदन्तायाः उद्धुरीभावस्तर्हि मायाया अस्याः को भेदः इत्यपेक्षायाम् सामानाधिकरण्यञ्च इति व्याचष्टे ये एते इति | पृथगधिकरणत्वमेव स्फुटयति, अहम् इति | ग्राहके - प्रमातृतयाभिमते शून्यादौ, ग्राह्ये - प्रमेये, नन्वत्र शुद्धविद्यातत्त्वे किमस्तीत्यत आह तन्निरासेन इति | तस्य - पृथगधिकरणस्य निरासेन - आरोहदशायां दूरीकरणेन अवरोहदशायां तु स्वभावेनैव, एकस्मिन्नेवाधिकरणे - चिन्मात्रे एकाधारे एव, यत्संगमनम् - भेदाभेदग्रस्तत्वेन संगमनम् | संगमनम् इति स्वयं व्याचष्टे संबन्धरूपं प्रथनम् इति, चिद्भागापेक्षयाऽहमिति योजनम्, चेत्यतापेक्षया तु इदम् इति योजनम् | तत् - प्रोक्तस्वरूपं वस्तु | सती इत्यवयवं व्याचष्टे शुद्धा इति | विद्या इति निगदव्याख्यातम् | कुतः शुद्धेत्यपेक्षायामाह अशुद्ध इति, अस्य शुद्धविद्यातत्त्वस्य सदाशिवेश्वररूपतां विषयभेदेन दर्शयति तत्र इति | अधिकरणम् - विषयाश्रयभूतम्, उल्लासयति - अत एवोत्थितमेतदिति जानाति, उल्लापयति इति वा पाठः | निषिञ्चति - अन्तर्भावयति, विभागः - शुद्धविद्याविषये इति भावः | तत्रावरोहे अस्याः सदाशिवपदानन्तरम् ईश्वरपदाश्रयणम्, आरोहे तु, ईश्वरपदानन्तरं सदाशिवपदग्रहणम् इति, अधिष्ठातृरूपयोः सदाशिवेश्वरयोरियं करणम् क्रमेण भेदाभेदरूपाध्वद्वयप्रापकत्वात् इति ज्ञेयम् || ३ || ननु कस्मादियं शुद्धा विद्या इत्याह इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् | भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् || ४ || अवलोकनं प्रथनं वेदनं विद्या, यथावस्तुत्वं वस्त्वनुसारित्वं च; तस्याः शुद्धिरविपरीतता | वेद्यदशां चोपगतवतामङ्गीकृतवताम्, अत एवेदमित्येवंभूतेनोचितेन परामर्शेनोपपन्नानां परामृश्यमानानां भावानां बोध एव प्रकाशात्मा साररूपं वस्तु, प्रकाशश्चानन्योन्मुख - अत्र टीका : - अथ चतुर्थस्य श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | इदंभाव इति | अत्र टीका : - प्रथमं यथावस्त्ववलोकनात् इत्यस्य अवलोकनात् इत्यवयवं बहुभिः पर्यायैर्व्याचष्टे प्रथनम् इति | यथावस्तु इत्यास्यात्र योजनां करोति व्याचष्टे च वस्त्वनुसारित्वञ्च इति | तस्याः - विद्यायाः, एतेन भावप्रधानोऽयं निर्देश इति सूचितम् | तथाचैवमत्र योजना | यथावस्तु - वस्तु यथा भवति तथा, यत् अवलोकनम् - विद्या, तत्त्वात् इयं सद्विद्या इति पूर्वेण संबन्धः | सती पदवाच्यस्य शुद्धि पदस्य पर्यायान्तरमाह अविपरीतता इति | वेद्यभूमिमुपेयुषाम् इति व्याचष्टे उपगत इति | अत्रापि पर्यायमाह अंगीकृत इति | एतदवष्टंभेन इदंभावोपपन्नानाम् इति व्याचष्टे अत एव इति | इदंभावस्य स्वरूपमाह परामर्शेन इति | उपपन्नानाम् इति व्याचष्टे परामृश्यमानानाम् इति | भावानाम् इति निगदव्याख्यातम् | बोधसारत्वात् इति व्याचष्टे बोध एव इति | एतेन बोधस्यात्र भंग्या विमर्श एव वाच्यतयोक्तः, तेन बोधसारत्वात्, अहं - विमर्शात्माहमिति | तदेषां यदेव पारमार्थिकं रूपं तत्रैव प्ररूढत्वात् अहमिदमित्यस्य [अहमित्यस्य - K. ष्. ष्.] शुद्धवेदनरूपत्वम् || ४ || अधिष्ठातृरूपाद्देवताद्वयात् तत्त्वद्वयं विभक्तम्, - इत्येतद्भङ्ग्या प्रतिपादयत्यागमव्यवहारेण | विमर्शसारत्वादित्यर्थः | फलितं कथयति तत् इति | प्ररूढत्वात् अहमिदम् इत्यस्य - सदाशिवादिगतस्य परामर्शस्य शुद्धवेदनस्वरूपत्वम् - शुद्धविद्यारूपत्वम्, आपाततः भेदेपि परमार्थतः अभेदे विश्रान्तत्वात् इति भावः | एवं चात्र संग्रहः | नित्याव्यभिचरद्रूपयोः प्रकाशशुद्धाहंविमर्शयोः शिवशक्तितत्त्वव्यवहारः, [शिवतत्त्वव्यवहारः - C.] वेद्यत्वाभावात्प्रमातृत्वमप्यत्र शिवस्यैव भावानाञ्चाहन्तयैव ग्रहणम् | अपरिमिताहन्तेदन्ताविषये सदाशिवतत्त्वव्यवहारः | अत्र तु वेद्यतोद्भवेन मंत्रमहेश्वररूपः चेतनवर्गः प्रमाता, भावानान्तु स्तोकमिदन्तास्पर्शरूषितया अहन्तया ग्रहणम्, यत्सर्वमिदं तदहमेव नत्विदमाख्यं किमपि वस्तु भवति, एकस्य चिन्मात्रस्यैव सत्त्वात् इति | तयोरेवाहन्तेदन्तयोः समत्वे ईश्वरतत्त्वव्यवहारः | अत्र मन्त्रेश्वरः प्रमाता, भावानां तु समधृततुलान्यायेन इदन्ताऽहन्ताभ्यां ग्रहणम् | चिच्चेत्यभागयोः इदमिति विषये तु शुद्धविद्यातत्त्वव्यवहारः, भावानान्तु स्तोकम् अहन्तास्पृष्टया इदन्तया ग्रहणम् परं तु [परंत्वशुद्धा - C.] शुद्धाहस्फूर्तिरप्यस्फुटा वर्तते एव, अन्यथा मायातत्त्वापातात् तत्र हि प्रलयाकलाख्यः शून्यरूपः प्रमाता, न चात्राहन्तेदन्तयोः परस्परं प्रति स्फुटं प्रतियोगित्वं शंक्यम् येन विकल्परूपतापातः स्यादपि तूभयमप्यत्र पर्यायेण अपरिमितमेव, मायापदे तु तयोः परस्परं प्रति स्फुटं प्रतियोगित्वमेव | यस्तु परशिवः सर्वत्र सर्वदा सर्वमय एवेति न तस्येह प्रस्तावः इति || ४ || अथ पंचमस्य श्लोकस्यावतरणिकां करोति अधिष्ठातृ इति | अत्र टीका : - तद्द्वयम् - देवताद्वयम्, सदाशिवेश्वररूपम्, आगमव्यवहारेण - सार - शास्त्रव्यवहारेण | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | अत्र इति | अत्रापरत्वं भावानामनात्मत्वेन भासनात् | परताहन्तयाच्छादात्परापरदशा हि सा || ५ || परता [परत्वं पूर्णत्वम् - K. ष्. ष्.] पूर्णत्वमनन्या- पेक्षाहमिति, अपरत्वम् अपूर्णत्वमन्यापेक्षितेदमिति [अपूर्णतान्यापेक्षेदमिति - K. ष्. ष्.] | अत्र च तत्त्वद्वये भावानां ध्यामलाध्यामलरूपाणामुभयांशस्पर्शात् परापरत्वमिति | वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा तदवभासयितृमन्त्रेश्वरादि- अत्र टीका : - प्रथमम् परता इति व्याचष्टे पूर्णत्वम् इति | पूर्णत्वस्यापि पर्यायमाह अनन्य इति | अहन्तयाच्छादात् इति व्याचष्टे अहम् इति अपरत्वम् अपि व्याचष्टे अपूर्णत्वम् इति | अत्रापि पर्यायमाह अन्यापेक्षिता [अन्यापेक्षता - C.] इति | अनात्मत्वेन भासनात् इति व्याचष्टे इदम् इति | अत्र इति पदं व्याचष्टे तत्त्वद्वये इति | सदाशिवरूपे ईश्वररूपे चेत्यर्थः, भावानाम् इति व्याचष्टे ध्यामलाध्यामलरूपाणाम् इति | तत्र सदाशिवदशायां ध्यामलत्वम् ईश्वरदशायामध्यामलत्वमिति विभागः | परापरदशाहि सा इति व्याचष्टे उभयांश इति | विद्यायाः इति शेषः | इति शब्दः व्याख्यासमाप्तौ | एवमत्र पर्यवसितोऽर्थः | अत्र - सदाशिवेश्वराख्ये तत्त्वद्वये, भावानाम् - बाह्यान्तरपदार्थानाम्, अनात्मत्वेन भासनात् - इदन्तया भासनात्, अपरत्वं भवति | तथा अहन्तयाऽऽच्छादनात् - अहन्त्वेन वलनात्, अहन्तया ग्रहणादिति यावत्, परत्वं भवति | हि इति अतः शब्दार्थे, अतः कारणात् सा - सद्विद्या परापरमयी भवति, उभयतत्त्वसमुदायरूपत्वादिति भावः | भासनात् छादात् इति एताभ्यां शब्दाभ्याम् सूचितं तत्त्वानां वेद्यभावमवलंव्य तत्त्वाधिष्ठातृप्रमातृप्रमातृ- तद्गतविद्याविभागं करोति वेद्य इति | वेद्यभावनिष्ठा दशा तत्त्वस्वरूपा भवति, वेद्यभाव एव तत्त्वभावो भवतीति शुद्धप्रमातृसंवेद्यवस्तुसारा | या तु तन्निष्ठसंवेदनदशा सा शुद्धा विद्या, तत्प्रमात्रधिष्ठातृत्वं [तत्प्रमातृवर्गाधिष्ठातृत्वम् - K.ष्.ष्.] श्रीसदाशिवेश्वरभट्टारकरूपता इति संक्षेपः || ५ || एवमेकेषां मते अहम् इत्याच्छादको यो भागः तत्प्रथाप्रधाना शुद्धविद्या | अन्ये तु मन्यन्ते, - योऽसाविदंभाग आच्छादनीयस्तस्य यदवभासनं तत्प्रधाना शुद्धविद्या | अन्यथा हि स इदमंशः केन भास्यतां मायायास्तत्राभावात् भावे वा प्ररोहप्रसङ्गात्; अत एवेयं प्ररोहासहिष्णुं यत इदन्तां भासयति ततः शुद्धा | भासनाच्च विद्येति | तत एवाप्ररूढमायाकल्पत्वात् महामायेयं श्रीरौरवादिगुरुभिरुपदिष्टा, तदेतदाह | यावत् | कीदृशी ? तदवभासयितारो ये मंत्रेश्वरादयः शुद्धप्रमातारः तेषां संवेद्यं यद्वस्तु सः सारः यस्याः सा, तद्रूपेति यावत् | अत्यासन्नत्वेन मंत्रेशानां साक्षाद् ग्रहणम्, आदिशब्देन मंत्रमहेश्वराणां ग्रहणम् | तन्निष्ठसंवेदनदशा - शुद्ध - प्रमातृगता ज्ञानदशा, तत्प्रमात्रधिष्ठातृत्वम् - मंत्रेश्वरादिप्रेरकत्वम्, इति संक्षेपः, इति संक्षिप्तार्थो भवतीत्यर्थः || ५ || अथ षष्ठस्य श्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका : - शुद्धविद्या इति, चिद्भागस्य शुद्धविद्यारूपत्वादिति भावः | तत्प्रधाना - अवभासप्रधाना, अन्यथा - अवभासनस्य प्राधान्याभावे | ननु मायापदे तस्य भासनमस्त्येवत्यत आह मायायाः इति | तत्र - शुद्धविद्यातत्त्वे, प्ररोहप्रसंगात् - मायाविश्रान्तिप्रसंगात्, तथा च भेदापत्तिः स्यादिति भावः | फलितमाह अत एव इति | प्ररोहासहिष्णुम् - अहन्ताच्छाद्यत्वेन विश्रान्त्थसहम्, अप्ररूढमायाकल्पत्वात् - शिथिलमायासदृशत्वात् | इयम् - शुद्धविद्या, तत् एतत् - समनन्तरोक्तं वस्तु | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भेदधीः इति | भेदधीरेव भावेषु कर्तुर्बोधात्मनोऽपि या | मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा || ६ || मायाप्रमातरि शून्यादिरूपेऽप्यनुल्लसिते, चिन्मात्र एव प्रमातरि कर्तरि च सति चिदेकरूपेष्वपि भावेषु यदचिद्रूपतया भेदप्रकाशनलक्षणं [तदप्रकाशनलक्षणम् - K.ष्.ष्.] स्वातन्त्र्यं सा शुद्धविद्या मायाशक्त्या तुल्या, वेद्यभागे भेदप्रकाशनात् | न च मायैव, ग्राहकस्य चिन्मात्रभागे तावदविपर्यासनात्, येन प्रकारेण विद्येश्वरा भगवन्तोऽनन्ताद्या वर्तन्ते | ते हि शुद्धचिन्मात्रगृहीताहं भावाः स्वतस्तु भिन्नं वेद्यं पश्यन्ति, यथा द्वैतवादिनामीश्वरः | एवं ग्राहकेऽशतश्चैतन्यरूपात् परमार्थरूपे ग्राह्यविपर्यासनशक्तिः शुद्धविद्या विद्येश्वराणाम् || ६ || अत्र टीका : - अनुल्लसितेऽपि इति योजना | अपिशब्दस्तदुल्लासने भेदप्रकाशनस्य योग्यतां सूचयति | भावेषु - शून्यादिरूपेषु मातृमेयरूपेषु समस्तेषु पदार्थेषु भेदप्रकाशनलक्षणम् - चिद्रूपत्वेन ज्ञातात् स्वस्मात् भेदेन भासनस्वरूपम् | कुतः मायाशक्त्या तुल्या इत्यत आह वेद्य इति | तर्हि मायारूपैवेयमस्तीत्यत आह न च इति | अविपर्यासनात् - अचिद्रूपताख्यविपर्यासकरणाभावात् | विद्येश्वरा यथा इति व्याचष्टे येन इति | अनन्ताद्याः इति | आदिशब्देन शिवोत्तमादीनां ग्रहणम् | ते - विद्येश्वराः, द्वैतवादिनाम् - तार्किकादीनाम् | उपसंहारं करोति एवम् इति | चैतन्यरूपात् अंशतः इति योजना | ग्राह्यस्य यत् विपर्यासनम् - अचिद्रूपताकरणम्, तत्र या शक्तिः सा, विद्येश्वराणाम् - अनन्तादीनाम्, उपलक्षणं चैतत् शुद्धविद्यातत्त्वस्थप्रमातॄणाम् | एवमत्र श्लोके योजना | बोधात्मनोऽपि कर्तुः सकाशात् मायाशक्त्या इवमायाशक्तिकृतभेदधीवत् या भावानां भेदधीः भवति सा विद्या भवति, इति एवम्, अन्ये रौरवादिगुरवः आहुरिति शेषः || ६ || परे प्राहुः - भगवतः परमशिवस्याप्ररूढभेदावभासनं सदाशिवेश्वरता | तत्रास्फुटे [अस्फुटत्वे - K.ष्.ष्.] भेदे इच्छाशक्तिरीश्वरस्य व्याप्रियते, स्फुटत्वे ज्ञानशक्तिः, प्ररूढे तु भेदे ग्राह्यविपर्यासेऽपि ग्राहकचिन्मात्रतायां विद्येश्वरेषु क्रियाशक्तिः ग्राह्यग्राहकविपर्यासद्वयप्ररूढौ तु मायाशक्तिः, सा च पशुप्रमातृषु, ग्राहकग्राह्योभयविपर्याससंस्कारे तु अविनिवृत्तेऽपि यदेतत् वस्तुपरमार्थप्रथनं तत्र विद्याशक्तिव्यापारो योगिज्ञानिप्रभृतिष्वपशुप्रमातृषु | तदेतद्दर्शयति | तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका | विद्याशक्तिः ........................... पशुभावे विपर्यासैकरसत्वलक्षणे पाशनीयत्वेऽस्वतंत्र- त्वे दृश्यद्रष्ट्टदर्शनभेदे अथ सप्तमस्य श्लोकस्यावतरणिकां करोति परे इति | अत्र टीका : - अन्ये त्रिकशास्त्रपारदृश्वानः, अप्ररूढः - शिथिलत्वेन विश्रान्त्यसहः यो भेदस्तस्यावभासनम् - स्वातन्त्र्येण प्रकाशनम्, सदाशिवेश्वरयोर्भावः सदाशिवेश्वरता, अस्फुटे भेदे - ध्यामलत्वे, ईश्वरस्य - श्रीशिवभट्टारकस्य, प्ररूढे - भेदविश्रान्तौ, विद्येश्वरेषु - शुद्धविद्याप्रमातृषु | अर्थात् मंत्रमहेश्वरेषु, इच्छाशक्तिः मंत्रेशेषु ज्ञानशक्तिरिति ज्ञेयम् | ग्राह्यग्राहकयोः यद्विपर्यासद्वयम् अचिद्रूपतया इव भासनरूपम्, तस्य प्ररूढौ विश्रान्तौ, सा च - मायाशक्तिश्च, वस्तूनाम् - भावानाम् यत् परमार्थप्रथनम् चिन्मात्राख्यसहजस्वरूपस्फुरणम्, तत्र - तस्मिन् प्रथने सति, तदेतत् - समनन्तरोक्तं वस्तु | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | तस्यैश्वर्य इति | अत्र टीका : - पशुभावे इति व्याचष्टे विपर्यासैक इति, विपर्यासे - चिन्मयेष्वप्यचिन्मयताज्ञानरूपे, एकः रसः यस्य तस्य भावस्तत्त्वम् लक्षणम् - स्वरूपं सत्यपि जाते पूर्वोक्तयुक्तिबलेन यदेतदैश्वर्यमुक्तं तस्य या प्रकाशिका परमेश्वरशक्तिः - यद्वशात् केचिदेव ता युक्तीरादृत्य तदाश्वस्तहृदयाः कृतिनो भवन्ति - सा विद्याशक्तिः | अयमेव षडर्धसारादिदृष्टोऽप्यस्याचार्यस्य हृदयमावर्जयति पक्षः, अन्ये इत्यनुक्तेः | एतदानन्तर्यौचित्येन च मायातत्त्वनिरूपणात् तदाह .............टिरोधानकरी मायाभिधा पुनः || ७ || यस्य तादृशे | द्वितीयां व्याख्यां करोति पाशनीयत्वे इति | बन्ध्यत्वे [बध्यत्वे - C.] इत्यर्थः, व्याख्यान्तरमप्याह अस्वतन्त्रत्वे इति | अस्यैव पुनर्व्याख्यान्तरमाह दृश्य इति | लक्षणया ग्राह्यग्राहकरूपभेदज्ञाने, जाते सत्यपि, जाते इत्यस्य युक्त्वेन अध्याहारः | तस्य - ऐश्वर्यस्य, केचिदेव - शक्तिपातगृहीताः केचित्पुरुषा एव | कुतः आवर्जयतीत्यत आह अन्ये इत्यनुक्तः इति | येषां मतं न रोचते तेषाम् अन्ये इत्यनेन निर्देशः क्रियते, अत्र तु न कृतः इति ज्ञायते अयमेव पक्षः आचार्यस्याभिप्रेत इति भावः | एतेन विद्याशक्तिः इत्यन्तं व्याख्या संपन्ना | एवमत्र योजना | प्रमातुः जाते इति शेषः | प्रमातुः पशुभावे पशुत्वे जातेऽपि सति, तस्य - पूर्वोक्तस्य, ऐश्वर्यस्वभावस्य - ऐश्वर्यस्वरूपस्य, विद्याशक्तिः प्रकाशिका भवति इति, न तु इदन्ताप्रकाशिनी भवतीति भावः | तिरोधानकरी इत्यादि व्याख्यातुमवतरणिकां करोति एतद् इति | एतस्याः - शुद्धविद्यायाः यद् आनन्तर्यम् अनन्तरता, तत्र यदौचित्यं तेन, मायातत्त्वनिरूपणात् हेतोः तत् - मायातत्त्वम् आह - कथयति | औचित्य इत्यनेन शुद्धविद्यातत्त्वनिष्ठानामपि कदाचित् देहस्थितिपर्यन्तं निकटवर्तिनि मातृमेयतया स्थिते मायापदेऽपि अवस्थानं भवत्येवेति द्योतितम् | मायाशक्तिः पुनरचिद्रूपे शून्यादौ प्रमातृताभिमानं प्ररूढं दधती भावानपि चिन्मयान् भेदेनाभिमाअनयन्ती सर्वथैव स्वरूपं तिरोधत्ते आवृणुते विमोहिनी सा | तिरोधानमत्र न विलयनरूपं [विलयरूपम् - K.ष्.ष्.] मन्तव्यं, यत् कृत्यपञ्चकमध्य आगमेषु गण्यते, दीक्षितस्यापि गुरुमन्त्रादिनिन्दनप्रायमपि त्वावरणमेव || ७ || तिरोधानमावरणरूपं स्फुटयति एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तिरोधान इति | माया इति निगदव्याख्यातम् | पुनः शब्दः शुद्धविद्यायाः व्यतिरेकद्योतकः | प्ररूढम् - विश्रान्तम्, एतेन शुद्धविद्यायाः निरासः, तत्र हि शून्यादौ प्रमातृताभिमानः अप्ररूढव्तेन स्फुरत्येव येन तत्रस्थानां मायास्पर्शो गण्यते, चिन्मयानपि भावान् इति योजना, भेदेन - चितःभिन्नतया, स्वरूपम् - आत्मनः भावानाञ्च पारमार्थिकं चिदाख्यं स्वरूपम्, तिरोधानकरी इति व्याचष्टे आवृणुते इति | आङ् पूर्वेण वृञा तिरोधानपदव्याख्या, तिङा कर्तृप्रत्ययान्तस्य कृञः | कुतः इत्यपेक्षायामाह विमोहिनी इति | विमोहकारी हि ऐन्द्रजालिकः स्वमपि विस्मारयति स्वकीयं वस्त्वपीति भावः | ननु तिरोधानं सृष्ट्यादि भगवत्कृत्यपंचकवर्त्येवास्ति उत अन्यत् इत्यत आह तिरोधानम् इति | विलयनरूपम् - संस्कारनाशस्वरूपम् | पुनः किमस्तीत्यत आह दीक्षीतस्यापि इति | गुरुमंत्रादेर्यन्निन्दनं तत् प्रायः बाहुल्येन यत्र - आवरणे तादृशम् | मायाग्रस्तो हि दीक्षितोऽपि गुरुमंत्रादिनिन्दनपरो भवति इत्यन्येषां का कथा इति अपि शब्दाभिप्रायः | अपि तु इति पदं दीक्षितस्य इत्यतः पूर्वं योजनीयम् || ७ || अथाष्टमस्य श्लोकस्यावतरणिकां करोति तिरोधानम् इति | अत्र टीका : - स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | भेदे इति | भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते | शून्ये बुद्धौ शरीरे वा मायाशक्तिर्विजृम्भते || ८ || सुषुप्ते प्रलये न इत्यभावसमाधौ च तावच्छून्यमाकाशकल्पमनात्मरूपं वेद्यभावोचितम् अहम् इत्यात्मत्वेन वीक्ष्यते; उच्छ्वसननिः - श्वसनादौ वा अहमुच्छ्वसिभि, - इति प्राणो वायुकल्पः स्थावरजङ्गमजिघत्सामन्युप्रज्वलनादौ वा प्राण एव तेजःसमुपवृंहितः, स्वच्छोदकाशयकल्पा वेद्यप्रतिबिम्बनवती वा बुद्धिरभिनिविश्यते अन्तरहं वेद्मि दुःख्यहमिति चिन्ताद्यवस्थासु, शरीरमेव [शरीरमेव - K.ष्.ष्.] तु पृथिवीप्रायं कृशोऽहमित्यादिदशासु अत्र टीका : - भेदेस्वेकरसे भाते इत्येतत्सुगमत्वेन विहाय अहन्तया इत्यादि व्याचष्टे सुषुप्ते इति | भेदस्यैकरसेन भानमंत्र भावजातस्य अचिद्रूपतया ज्ञानमेव ज्ञेयम्, प्रलये - मूर्छावस्थायाम् न इत्यभावसमाधौ - अहं नास्मि इत्येवंरूपे भावनासाधिते समाधाने शून्ये इति व्याचष्टे, आकाशकल्पम् इति | अनात्मनि इति व्याचष्टे वेद्यभाव इति | अनात्मा हि वेद्यभावमेवार्हति | अहन्तया ईक्षिते इति व्याचष्टे अहम् इति इति | वीक्ष्यते इति, प्रमात्रा इति शेषः, प्रमात्राऽनुभूयते इत्यर्थः, अन्यथा न किञ्चिदासम् इति स्मृत्यनुपपत्तेः इति भावः | योग्यतयाऽऽक्षिप्तं प्राणे इति योजयति, उच्छ्वसन इति | वायुकल्पः - वायुरूपः, आत्मत्वेन वीक्ष्यते इति पूर्वेण संबन्धः | स्थावरजंगमाना या जिघत्सा तत्र यः मन्युप्रज्वलनादिः तस्मिन्, तेजःसमुपवृंहितः - तेजसा पुष्टि नीतः, अत्रापि पूर्वेणैव संबन्धः | बुद्धौ इति योजयति स्वच्छ इति | स्वच्छोदकाशयकल्पा - स्वच्छजलाशयसदृशी, अभिनिविश्यते - प्रमात्रा आत्मस्थाने स्थाप्यते, कदा स्थाप्यते इत्यत आह चिन्ताद्यवस्थासु इति | इति किमिति ? अन्तः इति अन्तः प्रदेशो हि बुद्धिरेवेति भावः | शरीरे इति योजयति शरीरमेव तु इति | एव शब्देन तदवच्छिन्नचैतन्यव्यवच्छेदः | अहमित्यात्मतया भाति | सर्वमेव [सर्वे चैवेदम् - K.ष्.ष्.] चेदं शून्यादि वस्तुतश्चिन्मात्रसारमेव माययैव तावदचिद्रूपतया भासितम् | तथाविधमेव तु सत् अहमिति संविद्रूपताभिनिवेशस्थानं संपादितमप्रशान्तजडभावमेव इति अतिदुष्करवस्तुसंपादनाप्रतीघातरूपा [दुष्करतमवस्तुसंपादना - K.ष्.ष्.] परमेश्वरस्य मायाशक्तिः, - मायाशक्तिर्विजृम्भते इति व्याचष्टे सर्वमेव च इति | तथाविधमेव तु सत् - अचिद्रूपतया भासितमेव तु सत्, एतेन चिद्रूपताज्ञाने तु तस्याप्यात्मत्वं युक्तमेवेति द्योतितम् | संविद्रूपतयाः यः अभिनिवेशः तस्य स्थानम्, अहन्ताविषयमिति यावत् | अप्रशान्तजडभावमेव इति, जडभावस्य प्रशान्तौ तु अहन्ताविषयत्वं तस्य युक्तमेवेति भावः | इति - अतः कारणात्, अतिदुष्करं वद्वस्तु - चिद्रूपाणां भावानां भेदनरूपम्, अप्रशान्तजडभावे [अप्रशान्तजडभावे तदेकभेदे नरूपे शून्यादौ च अहन्ताविषयीकरणरूपम् च - C.] तदेकभेदे नरूपे शून्यादौ अहन्ताविषयीकरणरूपम्, तस्य यत् संपादनं तत्र यः अप्रतीघातः सः रूपं यस्याः तादृशी | तदुक्तम् - अघटितघटनापटीयसी इत्येतत् विजृम्भते इत्यनेन दर्शितम् | वाग्रहणेन वेद्यरूपाणां सुतधनदारादिनामप्यहंताभिनिवेशविषयत्वमसंख्यातं सूचयति || ८ || नन्वचिद्रूपत्वादनात्मा यदि शून्यादिस्तदात्मतयासौ अभिनिविश्यमानश्चिद्रूप एव, - इति सर्वज्ञत्वसर्वकर्तृत्वादिविशुद्धैश्वर्यधर्मैव स्यात्, - इत्याशङ्क्याह यश्च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि | माता स मेयः सन्कालादिकपञ्चकवेष्टितः || ९ || स्यादैश्वर्यधर्मयोगः शून्यादेः यद्यहमित्यभिनिविश्यमानोऽपि मेयतां इति | वा शब्दाभिप्रायमाह वाग्रहणेन इति | असंख्यातम् - सूत्रे साक्षादनुक्तम्, अतिजडत्वेन पुरुषो हि वाह्यवस्त्वपि स्वात्मत्वेनाभिमन्यते, अन्यथा तदर्थं क्लेशसहनायोगादिति भावः || ८ || अथ नवमश्लोकस्यावतरणिकां करोति नन्वचिद्रूपत्वात् इति | अत्र टीका : - तदा - मायादशायाम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे | यश्च इति | अत्र टीका : - श्लोकं व्याख्यातुमवतरणिकायां शंकितस्य वस्तुनः व्यापकारोपप्रसंजनार्थं तर्करीत्या अंगीकारं करोति स्यात् इति | ऐश्वर्यधर्मयोगः, अवतरणिकायां शंकितः इत्यर्थः | ननु तर्हि सोऽस्य भवत्वित्यत आह यद्यहम् इति | सः शून्यादिः प्रमाता अहमित्यभिनिविश्यमानोऽपि अहमिति स्वस्य [स्वस्याग्रहणकुर्वन्नपि - C.] ग्रहणं कुर्वन्नपि, मेयताम् - तावत्स्वभावेन स्थितं मेयभावम्, अहम् इस्यभिनिविश्यमानो न च जहातीति सूचनया व्यापकप्रसंजनम्, यत्र यत्र हि ऐश्वर्ययोगः तत्र तत्र मेयताहानम् अपि शब्दः अहम् इत्यभिनिवेशस्य मेयताहानौ हेतुत्वं जह्यात् | तथाहि सति प्रमेयमप्यस्य नीलादिव्यतिरिक्ततया नैव भासेत | यावता यः शून्यादिः प्रमाता कथितः, स यावदेव स्वरूपाद्व्यतिरेकाभिमते नीलादौ प्रमेये प्रमाता [नीलादौ प्रमेये माता - K.ष्.ष्.] तावदेव स्वयमपि मेयभूतः एव सन् माता | मेयं हि मीयमानत्वादेव परिमितम्, - इति तादृशादेव मेयान्तरादुपपन्नव्यतिरेकम्, न त्वेवं चिद्रूपमपरिमितत्वात् | द्योतयति | ननु मेयतां जहातु [ननु मेयतां जहात्वेव - C.] इत्यत आह तथा इति | हि - यस्मात्, तथा सति - मेयताहाने सति, अस्य - शून्यादेः प्रमातुः नीलादि प्रमेयं व्यतिरिक्ततया न भासेत | कुतो न भासेत इत्यपेक्षायामाह यावता इति | यावता - यस्माद्धतोः, यः शून्यादिः प्रमाता कथितः - शास्त्रेषूक्तः, सः यावदेव - यस्मिन् क्षणे एव, स्वरूपाद्व्यतिरेकाभिमते - इदन्ताऽहन्ताग्रहणान्यथानुपपत्या स्वतो भेदेनाभिमते, नीलादौ प्रमेये प्रमाता भवति, तावदेव - तस्मिन्नेव क्षणे नतु तदनन्तरम्, मेयभूत एव - आन्तरं चिद्रूपं प्रति मेयतया स्थितः, सन् माता भवति, ग्राहकरूपतादत्तहस्तावलम्बेन मातृत्वयुक्तो भवति, माण्डलिक इव सम्राजोऽवष्टम्भेन स्वमण्डले राजा, अन्यथा स्वमेयाद् व्यतिरेकेण न मायादिति भावः | ननु कथमसौ मेयः सन् माता भवतीत्यत आह मेयं हि इति | हि यस्मात्, मेयम्, मीयमानत्वात् परिमितं सत् तादृशात् - स्वसमानयोगक्षेमात्, मेयान्तरात् उपपन्नव्यतिरेकं भवति, नतु चिद्रूपम् अपरिमितत्त्वात् एवं भवति, तद्धि शून्यादिप्रमातृग्रहणकाले शून्यादि स्वात्मसात्करोति, अन्यथा शून्यादिः नीलादेरिव तदपि शून्यादेः व्यतिरेकेण भायात्, न च भाति, नहि तत्र नीलमिव शून्यादिप्रमातुः शून्यादिरपि चिद्रूपाद्व्यतिरेकेण भाति, द्वयस्यैव स्फुरणात् | ननु तर्हि असत्यस्वरूपं शून्यमेव किमिति भाति, न सत्यरूपं चिद्रूपम् | सत्यम् तस्मिन्काले अतिनिर्मलत्वेन शून्याद्युपरक्तोऽसौ जडान् प्रति तद्रूप एव भाति, ये तु मध्यधामाब्यासिनः ते तत्र शून्यादि न किंचित् पश्यन्ति इत्यलम् | एवं स्थितमत्र शून्यादि अहन्तया ग्रहणेऽपि आन्तरं चिद्रूपं प्रति मेयतां न जहात्येव, अन्यथा तस्मिन्नेव काले चिद्रूप इव शून्यादिभावेन परिमितत्वं च शून्यादेरहंभावस्य यत् तदेव कालादिपञ्चकम् | तथा हि कालः क्रममासूत्रयन् प्रमातरि विजृम्भमाणस्तदनुसारेण प्रमेयेऽपि प्रसरति, योऽहं कृशोऽभवं स स्थूलो वर्ते भविष्यामि स्थूलतरः इत्येवमात्मानं देहरूपं क्रमवन्तमिव परामृशंस्तत्सहचारिणि प्रमेयेऽपि भूतादिरूपं क्रमं प्रकाशयति | अस्य शून्यादेर्जडस्य विद्या किंचिज्ज्ञत्वोन्मीलनरूपा बुद्धिदर्पणसंक्रान्तं भावराशिं नीलसुखादिं विविनक्ति | कला किंचित्कर्तृत्वोपोद्वलनमयी कार्यमुद्भावयति, किंचिज्जानामि | किंचित्करोमि, - इति | अत्र चांशे तुल्येपि [तुल्ये किंचित्त्वे - K. ष्. ष्.] किंचित्त्वे कस्मादिदमेव शून्यादिः [चिद्रूप - इव शून्यादिभावेन नीलादिरूपतया - C.] नीलादिरूपतया स्फुरेत्, नच स्फुरति ग्राह्यग्राहकयोः स्फुटं भेदेन स्फुरणात् इति न तस्य ऐश्वर्ययोगो युक्तः तद्ग्राहकस्य चिद्रूपस्येव इति | अस्य शून्यादिप्रमातृगस्यापरिमितभावस्यैव कालादितत्त्वपंचकरूपतां कथयति परिमितत्वं च इति | परिमितत्वं च - स्वमेयाद्व्यतिरेकेण भाननिमित्तकः परिमितत्वाख्यो गुणश्च, कालादिपंचकं - मायानन्तरभावि कालविद्याकलारागनियतिरूपं पञ्चकं भवतीत्यर्थः | एतदेव साधयितुमाह तथाहि इति | आसूत्रयन् प्रथमत्वेन उद्भावयन्, प्रमातरि - शून्यादिरूपे प्रमातरि, तदनुसारेण - प्रमात्रनुसारेण, प्रसरति - संचारं करोति, तदनुसारं प्रसारं दर्शयति योऽहम् इति | वर्ते, भवामित्यर्थः, आत्मानम् - प्रमातारम्, तत्सहचारिणि - तद्विषयभूते, प्रमेये - नीलादौ, प्रकाशयति, अज्ञासिषम्, जानामि, ज्ञास्यामि इति प्रकटीकरोति इत्यर्थः | कालनिर्णयं कृत्वा सूत्रे आदिशब्देन गृहीतस्य विद्यातत्त्वस्य निर्णयं करोति अस्य इति | नीलसुखादिम् - नीलसुखादिरूपम्, विविनक्ति - व्यवस्थापयति | कलातत्त्वनिर्णयं करोति कला इति | तत्र विद्यास्वरूपं दर्शयति किंचिज्जानामि इति | कलायाः स्वरूपं दर्शयति किंचित्करोमि इति | रागस्य स्वरूपं दर्शयति अत्र चांशे इति | अत्र चांशे - ज्ञेयरूपे कार्यरूपे चांशे, तुल्येपि किंचित्त्वे - किंचिद्वस्तुभावे, इदमेव - किंचित् - इत्यत्रार्थेऽभिष्वङ्गरूपः प्रमातरि देहादौ प्रमेये च गुणाद्यारोपणमय [गुणारोपणमय - K. ष्. ष्.] इव रागो व्याप्रियते | न च तद्बुद्धिगतमवैराग्यमेव, तद्धिस्थूलं वृद्धस्य प्रमदायां न भवेदपि, रागस्तु भवत्येव | बुद्धिधर्माष्टकेऽपि च दृष्टोऽभिष्वङ्गः | अत्रैव कस्मादभिष्वङ्ग - इत्ययमर्थो नियत्या नियम्यते इति | एवं कलाविद्याकालरागनियतिभिरोतप्रोतो माययापहृतैश्वर्यसर्वस्वः सन् पुनरपि प्रतिवितीर्णतत्सर्वस्वराशिमध्यगतभागमात्र एवंभूतोऽयं मितः प्रमाता भाति - इदानीमिदं किंचिज्जानानः, इदं कुर्वाणोऽत्र रक्तोऽत्रैव च यः सोऽहम् - इति | एषां च भिन्नविषयत्वमपि इष्टत्वेन आश्रितं कार्यं वा वस्तु एव, किंचिद् - भवति, उपादानविषयीकृतं भवतीति यावत् | इति - एवं केनाप्याक्षेपे कृते सति इति यावत् | अत्रार्थे - अस्मिन्विषये, अभिष्वंगरूपः - आसक्तिरूपः, तथा गुणादीनां यत् आरोपणम् - असत्वेप्यारोपः तत्प्राचुर्येण प्रकृतमस्मिन् तादृशे इव, रागः - रागतत्त्वम्, व्याप्रियते - व्यापारं करोति | कुत्र इत्यपेक्षायामाह देहादौ प्रमेये च प्रमातरि प्रमेये चेत्यर्थः, तत्र प्रमातुराश्रयत्वेन व्यापारविषयत्वं प्रमेयस्य तु विषयत्वेनेति विभागः | ननु बुद्धिधर्मभूतावैराग्यरूपस्य रागस्य कथमणूपरि सन्निवेशः इत्यत आह तद्धि इति | तत् - बुद्धिगतमवैराग्यम्, रागः - तत्त्वान्तरवर्ती रागः अयं रागो जीवस्यान्तःस्वभावभूत एव न बाह्यवैराग्याऽभावः इति भावः | ननु तर्हि बुद्धिगतत्त्वमेव अवैराग्यस्य मा भवतु इत्यत आह बुद्धि इति | अभिष्वङ्गः - रागः तत्रापि स्थूलतयाऽऽस्तीति भावः | एतेन विद्याया अपि बुद्धिधर्मज्ञानव्यतिरेकः स्वयमेव ज्ञातव्यः | नियतेः स्वरूपं दर्शयति, अत्रैव इति | अत्रैव अस्मिन्निष्टे वस्तुन्येव, नियम्यते - नियमविषयतां नीयते | उपसंहारं करोति इत्येवम् इति | ओतप्रोतः - बलितः बद्ध इति यावत्, प्रतिवितीर्ण तत्सर्वस्वराशिगतात् - सर्वज्ञत्वसर्वकर्तृत्वादिरूपमाहेश्वर्यराशिगतात् भागमात्रं यस्य तादृशः, सर्वज्ञत्वभागं विद्यायाः सर्वकर्तृत्वभागं कलायाः कथं भातीत्यत आह इदानीम् इति | इदानीम् इत्यनेन कालनिर्देशः जानानः इत्यनेन विद्यानिर्देशः, कुर्वाणः इत्यनेन कलानिर्देशः रक्त इत्यनेन रागनिर्देशः, एव कारेण नियतेर्निर्देशः सोऽहम् इत्यनेन कलादिपञ्चकस्य प्रमातरि भवति कदाचित्, यथान्यत्र रक्तोऽपि नियत्यान्यत् कार्यते इति | एते च प्रमातृलग्नतयैव भान्ति, - इति तस्यैव शक्तितरूपाः प्रतिप्रमातृभिन्ना एव, कदाचित् तु नटमल्लप्रेक्षादावीश्वरेच्छया एकीभवेयुरपि | न ह्येतेषामीश्वरेच्छातिरिक्तं [एषाम् - K. ष्. ष्.] निजं किमपि जीवितमस्ति, - इत्यसकृदुक्तं वक्ष्यते च || ९ || यदुक्तमिदमित्यत्र प्रमेये व्यतिरेकिणि माता, - इति तत्र तत्प्रमेयं दर्शयति | त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् | तस्याविभागरूप्येकं प्रधानं मूलकारणम् || १० || व्यापारदर्शनम् प्रमेयविषयत्वं तु स्फुटमेवेति न कोऽपि विरोधः | एवमेकविषयत्वेन कालादिपञ्चकं दर्शयति एषां च इति | तदेव दर्शयति यथा इति | ननु कथमेषां प्रमातुरान्तरत्वमित्यत आह एते च इति | तस्यैव - प्रमातुरेव, कदाचित्तु इत्यनेन एतेषां सर्वदा प्रतिप्रमातृभिन्नत्वमेव द्योतितम् | नटादिप्रेक्षायां हि बहूनामप्येक एव कालाद्यामासो दृश्यते | नन्वीश्वरेच्छायाः कोऽत्राधिकारोऽस्ति इत्यत आह नहि इति | एतेषाम् - कालादीनाम् जीवितम् - सत्ता | एवमत्र संक्षेपः | यः - शून्यादिः, व्यतिरेकिणि स्वतो भिन्ने प्रमेये, माता भवति, स मेयः सन् - आन्तरं चित्तत्वम् प्रति मेयीभवन् एव माता भवति, अन्यथा स्वयमसिद्धः सन् कथं परत्र सिद्धि कुर्यात्, अत एवासौ परिमितत्वात् कालादिपञ्चकवेष्टितः भवति | मेयभावगमनमेव तस्य कालादिपरिच्छेद इति भावः | यस्तु व्यतिरेकिणि माता न भवति सः स्वयं न मेयीभवति एव यथा चित्तत्त्वम्, तद्धि शून्यादिभासनसमये तद्रूपमेव भवति इति || ९ || अथ दशमस्य श्लोकस्यावतरणिकां करोति यदुक्तम् इति | स्पष्टम्, एवम् अवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे त्रयोविंशतिधा इति | यत् कार्यकरणरूपं त्रयोविंशतिप्रकारं, यच्च तस्य मूलभूतं कारणं सर्वकार्यकरणाविभागरूपं प्रधानं नाम तत्सर्व मेयम् - इति सम्बन्धः | योगिमन्त्रतदीश्वरप्रभृतीनां हि भूततन्मात्रकरणप्रधान- वशीकारयोगित्वात् सर्वमेव प्रमेयम् | संसारिणामप्यनुमाना- गमादिदिशा प्रमेयमेव, इतीयत् प्रमेयम् | कालादयस्तु प्रमेया अपि प्रमातर्येव लग्नाः, - इति प्रमातृशक्तिस्वभावत्वात् न प्रमेयत्वेनेहावसरे मायाप्रमातृव्यतिरिक्तप्रमेयप्रस्तावे [प्रस्तावात्मनि - K. ष्. ष्.] गणिताः | वस्तुतो हि अत्रत्योऽयं [अत्र योऽयं प्रमाता स प्रमेय एव - K. ष्. ष्.] प्रमातापि प्रमेय एव, स तु प्रमात्रीक्रियमाण आच्छादितप्रमेयताक इहोच्यते || १० || नन्वत्र त्रयोविंशतौ किं कार्यं किं करणम् ? इत्याशङ्क्याह त्रयोदशविधा चात्र बाह्यान्तःकरणावली | कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदता || ११ || प्रमातुः पूर्वं करणोपयोगः, - इत्यत्रादौ त्रयोदश करणानि; तत्र अत्र टीका : - यच्च इति, युक्तत्वेन च शब्दाध्याहारः तस्य - कार्यकरणरूपस्य मेयस्य, कार्यकरणानां यः अविभागः सः रूपं यस्य तादृशम्, अव्यक्तरूपमित्यर्थः | ननु कालादीनामपि प्रमेयत्वं स्फुटमेव इति इयत् इति किमुक्तमित्यत आह कालादयस्तु इति | आदिशब्देन विद्यादेर्ग्रहणम् | मायाप्रमातुः व्यतिरिक्तानि यानि प्रमेयाणि तेषां यः प्रस्तावः, तस्मिन् | प्रमेयत्वेन गणिताः - इति योजना | अत्रत्यः - मायापदसंबन्धी, प्रमात्रीक्रियमाणः - परमार्थतः अप्रमातृत्वेऽपि स इव संपाद्यमानः, इह - अस्मिन्नवसरे || १० || अथैकादशस्य श्लोकस्यावतरणिकां करोति, नन्वत्र इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे त्रयोदश इति | अत्र टीका : - प्रमातुः पूर्व करणोपयोगः इति, अनेन न्यायेनेत्यर्थः, आदौ बुद्धिरव्यवसायसामान्यमात्ररूपा, ग्राह्यग्राहकाभिमान- रूपोऽहंकारः, संकल्पादिकारणं मनः, - इत्यन्तःकरणं त्रिधा बुद्धौ शब्दाद्यध्यवसायरूपायामुपयोगीनि बुद्धीन्द्रियाणि पञ्च - श्रोत्रं, त्वक्, चक्षुः, जिह्वा, घ्राणम्, - इति | कर्मणि तूपयोगीनि पञ्च कर्मेन्द्रियाणि | तथा हि - त्यागो ग्रहणमिति [त्यागो ग्रहणं द्वयम्, - इति - K. ष्. ष्.] द्वयम्, - बहिर्विषयं यत् तत्र पाणिः पायुः पादः, - इति करणानि | एतदेवान्तः प्राणे येन क्रियते तद्वागिन्द्रियम् | तत्प्रक्षोभप्रशान्त्या विश्रान्तिक्रियोपयोगी उपस्थः | सर्वदेहव्यापकानि च कर्मेन्द्रियाण्यहङ्कारविशेषात्मकानि | तेन च्छिन्नहस्तो बाहुभ्यामाददानः पाणिनैवादत्ते, एवमन्यत् | केवलं तत्तत्स्फुटपूर्णवृत्तिलाभस्थानत्वात् पञ्चाङ्गुलिरूपमधिष्ठानमस्योच्यते, - इत्येवं करणानि त्रयोदश | एषां च कार्यत्वेऽप्यसाधारणेन करणत्वेन प्रथमम्, तत्र - त्रयोदशकमध्ये, अध्यवसायः - विषयाभिमुख्येन इदम् इति ज्ञानम् | ग्राह्यग्राहकाभिमानः इदं मम ग्राह्यम् अहमत्र ग्राहकः इत्येवंरूपः अभिमानः, न तु बुद्धौ उदिता प्रतियोगिरहिता अहन्ता | बुद्धिन्द्रियाणि - ज्ञानेन्द्रियाणि | कथमेषां कर्मण्युपयोग इत्यत आह तथाहि इति | इतिद्वयम्, एवंरूपं कर्मद्वयम् इत्यर्थः, बहिर्विषयम् - बाह्यवस्तुविषयम्, तत्र - तस्मिन्कर्मद्वये, करणानि - करणत्रयम् | एतदेव - प्रोक्तत्यागग्रहणरूपं द्वयमेव | अन्तःप्राणे येन क्रियते - अन्तः प्रदेशस्थस्य प्राणस्य त्यागग्रहणे येन क्रियते इति यावत्, तत् - वागिन्द्रियम्, न तु वागेव, एतेन प्राणप्रयत्नस्य वागिन्द्रियत्वमुक्तम्, तत्प्रक्षोभस्य प्राणक्षोभस्य प्रशान्त्या, विश्रान्तिक्रियोपयोगी उपस्थः - पुंस्त्रीलक्षणाख्यमिन्द्रियं भवति, संयोगकाले हि प्राणः स्वभावेन प्रशाम्यति इति तत्प्रशान्त्या इत्युक्तम् | अन्यत् - छिन्नपादादेः गमनादि | ननु यदि सर्वशरीरव्यापीनि कर्मेन्द्रियाणि तर्हि कथमेषां पाण्यादिस्थाननियम इत्यत आह केवलम् इति | ताश्च ताः स्फुटाः पूर्णाश्च वृत्तयः तासां यः लाभः तस्य स्थानत्वात्, यादृशं ग्रहणं हि पञ्चाङ्गुलियुक्तेन पाणिना भवति न तादृशम् बाह्वादिना, एवं सर्वत्र स्वयमेव योजनीयम् | उपसंहारं करोति एवम् इति | एषाम् - त्रयोदशकरणाम् | व्यपदेशः | स्थूलं कार्यं पृथिवी, आपः, तेजो, वायुः, नभः, - इति पञ्च भूतानि | सूक्ष्ममेषामेव रूपं, गन्धो, रसो, रूपं, स्पर्शः, शब्दः, - इति | तत्रैकैकगुणमाकाशादि, एकैकवृद्धगुणं वा, - इति दर्शनभेदः, - इति न विवेचितोऽनुपयोगात् | तत्र स्थूलं विभक्तमविभागस्यानुमापकम्, - इति स्थूलरूपोपक्रममुक्तम् | अत्र [तत्र - K. ष्. ष्.] पृथिव्याद्याभासा एव मिश्रीभूय घटादिस्वलक्षणीभूताः कर्मेन्द्रियैरूपसर्पिताः, बुद्धीन्द्रियैरालोचिताः, अन्तःकरणेन संकल्पिताभिमतनिश्चितरूपाः, विद्यया विवेचिताः, कलादिभिरनुरञ्जिताः, प्रमातरि विश्राम्यन्ति, - इति तात्पर्यम् | एतच्च विस्तरतस्तत्प्रधानेषु तन्त्रालोकसारादिषु मया निर्णीतम्, - इतीहानुपयोगान्न वितानितम्, - इति शिवम् || ११ || इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेताया- मागमाधिकारे तत्त्वनिरूपणाख्यं प्रथममाह्निकम् || १ || स्थूल इत्यादि व्याचष्टे | दर्शनभेदः - मतभेदः | विभक्तम् - व्यक्तम् | अविभागस्य - अव्यक्तस्य, अत्र - स्थूलमध्ये | नन्वत्र भरः किं न कृतः इत्यत आह एतच्च इति | न वितानितम् - न विस्तारितम् | अयं तत्त्व निश्चयश्च श्रीतन्त्रालोकस्य नवमे आह्निके मयैव सम्यक् कृतोऽस्ति | इह तु विस्तारभिया मूलकारानुसृत्या च न कृतः, इति तत एव अवधार्यमितिभावः | इति शब्दः आह्निकसमाप्तौ | शिव शब्दः मंगलवाचकः परतत्त्ववचनपरश्चेति शिवम् || ११ || इति श्रीमद्भास्करकण्ठविरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां भास्कर्याख्यायाम् आगमाधिकारे प्रथममाह्निकं समाप्तम् || आगमाधिकारे द्वितीयमाह्निकम् | विमर्शिनी | अखण्डितस्वभावोऽपि विचित्रां मातृकल्पनाम् | स्वहृन्मण्डलचक्रे यः पथयेत्तं स्तुमः शिवम् || भास्करी एकचित्साररूपोऽपि मितमातृमयीं स्थितिम् | स्वान्तर्धारयतीवेह यस्तं चित्ते स्तुमः शिवम् || अथागमाधिकारे द्वितीयाह्निकस्य व्याख्यानिर्विघ्नपरिसमाप्तये प्रचयगमनाय च स्वान्तरनुष्ठितमपि बहिः शिष्यशिक्षार्थं स्वेष्टदेवतापरामर्शनरूपं मङ्गलं सकलाह्निकतात्पर्यसूचकेन श्लोकेनोपनिबध्नाति अखण्डित इति | वयं तं शिवम् स्तुमः | तं कम् ? यः शिवः अखण्डितः - यथा तथा कल्पितायां खण्डनायामपि साक्षित्वेन सारत्वेन च स्थितत्वात् परमर्थतः खण्डनारहितः, स्वभावः - विमर्शखचितं प्रकाशाख्यं स्वरूपं यस्य तादृशः अपि सन्, स्वहृन्मण्डलचक्रे - अखण्डचिद्रूपे निजहृदयमण्डलचक्रे, विचित्राम् - नानाविधाम्, मातृकल्पनां प्रथयेत् - स्फारयेत् | एतेन मातृविचारोऽत्राह्निके भवितेति सूचितम् | एवं मङ्गलं कृत्वा आह्निकाभिप्रायं समस्तत्वव्यस्तत्वाभ्यां कथयति एवम् इति | एवं तत्त्वराशौ निर्णीते एतदन्तर्भावेनोक्तमपि मुख्यतया निर्णेतव्यं प्रमातृतत्त्वं वितत्य निर्णेतुं तत्रैतन्मातृतामात्र इत्यादि व्यानो विश्वात्मकः परः इत्यन्तैर्विंशतिश्लोकैराह्नि- कान्तरं प्रस्तूयते | तथाहि - प्रमातुरत्र स्वरूपप्रत्यभिज्ञानमुपदिश्यते शास्त्रे | स हि हेयमुपादेयं च स्वं स्वभावं विद्वान् परमोपादेयरूपं शिवस्वभावं स्वात्मानमभेदेना - विशन् जीवन्नेव मुक्तो भवति, - इति | तत्र श्लोकेन ब्रह्मादित्रयस्वरूपम्, ततोऽपि द्वयेन हेयोपादेयप्रमातृतत्त्वम्, ततस्तदुपयोगिमलस्वरूपम्, तत्कृतं च प्रमातृभेदं श्लोकसप्तकेन, द्वयेन समावेशस्वरूपम्, श्लोकपञ्चकेन प्रमातुरेव सुषुप्ताद्यवस्थाः, त्रयेण तासां हेयोपादेयविभागं निरूपयति, - इत्याह्निकतात्पर्यम् | ग्रन्थार्थस्तु निरूप्यते || तत्रैतन्मातृतामात्रस्थितौ रुद्रोऽधिदैवतम् | भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ || १ || तत्रेति, एवंभूतेऽस्मिन्नागमसिद्धे युक्त्यनुगते च तत्त्वस्वरूपे सति यदेतत् कालादिपञ्चकवेष्टितं प्रमातृतारूपम्, तदेव यस्यां शुद्धमुपसंहृतप्रमेयजातं भवति दशायां संहाराख्यायां तस्यामधिष्ठातृदेवतात्वं तद्दशासंपादनेन स्वोपासकलोकस्य तद्दशाध्यानावेशसमापन्नस्य स्वाभिमुख्यसंपादनेन च भजमानो भट्टारक ईश्वर एव रुद्रो भगवान्, यो एतदन्तर्भावेन - तत्त्वराश्यन्तर्भावेन | हेयम् - मायापर्यन्तवर्ति, उपादेयम् मायोर्ध्ववर्ति सदाशिवान्तम् | इति शब्दः समस्तत्वेनाभिप्राय - कथनसमाप्तौ | व्यस्तत्वेन कथयति तत्र इति | तदुपयोगि - हेयोपादेयप्रमातृतत्त्वोपयोगि, मलस्वरूपम् - आणवादिमलत्रयरूपम्, तत्कृतम् - मलत्रयकृतम् | अथ प्रथमश्लोकमवतरणिकां विनैवोपन्यस्य व्याचष्टे तत्र इति | अत्र टीका : - तत्र इति व्याचष्टे एवं भूते इत्यादि सति इत्यन्तम् | एतन्मातृतामात्रस्थितौ इति व्याचष्टे यदेतत् इति | प्रमातृतारूपम् तदेव - प्रमातृतारूपमेव, यस्याम् - संहाराख्यायां दशायाम्, उपसंहृतप्रमेयजातम् अत एव शुद्धम् भवति | तस्यामधिष्ठातृदेवतात्वं भजमानः ईश्वरो भट्टारक एव - शुद्धविद्यायां स्थितः ईश्वरो भट्टारक एव, भगवान् रुद्रो भवति, मायापदेऽपि प्राणापानात्मकधर्माधर्मसूर्येन्दुदिननिशादिविमुक्त- मध्यमज्योतीरूपप्रमातृस्वरूपस्पर्शाद् [दिननिशादिमुक्तमध्यमज्योति - K. ष्. ष्.] उन्मीलिततृतीयनेत्रः | भिन्नस्य तु प्रमेयस्य प्रसरे संपादनेऽधिष्ठातृदेवतात्वं भजन् ब्रह्मा, प्रसृते भिन्ने प्रमेये तत्संतानप्रवहणलक्षणे प्रसरेऽधिष्ठातृदेवता विष्णुः, अत एव तयोः प्रमेयप्रसररूपस्य इदं नीलम् इत्येवं प्रकाशात्मनः प्राधान्यात् अहम् इति प्रमातृदशावेशशून्यत्वात् न तृतीयनेत्रोन्मीलनम् | देवतैव दैवतम् | प्रसर उत्पत्तिः संतानश्च || १ || रुद्रभावमागच्छतीति यावत् | केन हेतुना भजमान इत्यपेक्षायामाह तद्दशा इति | यतः तद्दशाध्यानसमावेशयुक्तस्य तद्दशादानं स्वाभिमुख्यसम्पादनञ्च करोतीत्यर्थः | भगवान् रुद्रः कः इत्यपेक्षायामाह यः इति | यः - भगवान् रुद्रः, प्राणापानात्मकौ यौ धर्माधर्मौ तथा सूर्येन्दू तथा दिननिशे, आदि शब्देन ज्ञानादिग्रहणम्, ततो विमुक्तम् - उभयस्पर्शाऽरूषितम्, यन्मध्यमज्योतिः - बाह्यान्तरकुम्भकप्राप्यः मध्यावस्थाख्यः प्रकाशः, तद्रूपं यत् प्रमातृस्वरूपम् - शून्यस्वान्निर्गतस्य तावदप्राप्तशिवभावस्य चिन्मात्ररूपस्य प्रमातुः स्वरूपम्, तस्य स्पर्शात् - उन्मीलनामात्रात्, उन्मीलिततृतीयनेत्रः - प्रादुर्भूततृतीयनेत्रः, प्रमातृरूपस्य प्राणः सूर्याख्यं दक्षिणनेत्रम्, अपानः चन्द्ररूपं वामनेत्रम्, द्वादशान्तहृद्देशगतं तन्मध्यावस्थाख्यमग्निरूपं तृतीयनेत्रं येन त्रिनेत्रत्वं तस्य कथयन्ति | एतेन श्रीविष्णोः क्रियाशक्तिद्वैगुण्यमेव बाहुचतुष्टयम् | श्रीब्रह्मणः वैखरीभावापन्नवेदचतुष्टयोद्भावनमेव चतुर्मुखत्वमित्यादि ज्ञेयम् | नत्वसम्भवोपहतेष्वतिशयेषु मन्तव्यमित्यलम् | द्वितीयमर्धं व्याचष्टे भिन्न इति | प्रसरस्य द्विविधं वाच्यं कथयति उत्पत्तिः सन्तानश्च | तत्र ब्रह्मपक्षे उत्पतीः, तस्य हि प्रमेयोत्पत्तौ अधिष्ठातृत्वम् | विष्णुपक्षे सन्तानः, विष्णुर्हि उत्पन्नं प्रमेयजातं प्रवाहेण प्रसारयन् अधिष्ठाता भवति पूर्वं शुद्धेऽध्वनि तु सदाशिवेश्वरभट्टारकयोरधिष्ठातृत्वमुक्तमेवेति कारणानि पञ्च कृत्यपञ्चके | तदुक्तम्: - ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः इति | परमार्थतस्तु सर्वमेतच्छ्रीशिवे एव विश्राम्यतीति तस्यैव पञ्चकृत्य कारित्वमुक्तम् || १ || यदेतन्मातृतामात्रमुक्तं तस्य विभागमागमिकं च संज्ञाभेदं निरूपयति | एष प्रमाता मायान्धः संसारी कर्मबन्धनः | विद्याभिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते || २ || स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः | मायातो भेदिषु क्लेशकर्मादिकलुषः पशुः || ३ || माययान्धो विमोहितः, अत एव कर्माणि स्वात्मनो बन्धकान्यभिमन्यमान एष इति कालादिवेष्टितः शून्यादिप्रमाता संसरति, - इत्यतः संसारी | देहोऽपि हि स्वरूपसादृश्यं बाल्ययौवनादिष्वनुवर्तयन् संसरतीव | बुद्ध्यादेस्तु जन्मान्तरेऽपि संसरणम् | विद्यया तु स्वरूप - प्रकाशनशक्त्या प्रत्यभिज्ञापदं प्रापितमैश्वर्यं यस्य, अत एव शरीराद्यपि विश्वमपि [विश्वमपि संवेदनमेव - K. ष्. ष्.] च संवेदनमेवाभिमन्यमानोऽत एव चिदेव घना अन्याचिद्रूपव्यामिश्रणशून्या अथ द्वितीयस्य तृतीयस्य च श्लोकस्यावतरणिकां करोति यदेतत् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे एष इति | अत्र टीका : - मायान्धः इति व्याचष्टे विमोहितः इति | एतद्धेतुकत्वेन कर्मबन्धनः इति व्याचष्टे अत एव इति | एष इति व्याचष्टे कालादि इति | प्रमाता इति व्याचष्टे शून्यादि इति | संसारी इत्यस्य व्याख्यां करोति संसरति इति | ननु चेह जडस्य कथं संसरणमित्यत आह देहोऽपि इति | परमार्थेन संसरणाभावात् इव शब्दोपादानम्, जन्मान्तरेऽपि पुत्रादिरूपेऽन्यजन्मन्यपि, पुत्रस्य हि पितुरेव बुद्धिर्बीजभावेन आगच्छति, अन्यथा सद्योजातस्य बालादेस्तदयोगापातात्, [तदयोगात् - C.] यत्तु अग्रे तत्प्राकट्यं तद्विस्ताराप्तिमात्रकृतमेव ज्ञेयम् इत्यलं रहस्योद्घाटनेन | विद्या इत्यादि समस्तं पदं व्याचष्टे विद्यया इति | ऐश्वर्यम् - ज्ञातृत्वकर्तृत्वरूपा ईश्वरता | प्रत्यभिज्ञासाध्यं वस्तु अध्याहृत्य कथयति अत एव इति | विश्वमपि - बाह्यं प्रमेयजातमपि, च शब्दः यस्य रूपम्, स पुनर्जन्मबन्धविरहात् देहेऽपि स्थिते मुक्त इति व्यपदेशयोग्यः | पतिते तु शिव एकघनः इति कः कुतो मुक्तः | भूतपूर्वगत्या तु प्रमात्रन्तरापेक्षया मुक्तः शिवः, - इति व्यवहारः | यश्चासौ मुक्तः स भावान् स्वाङ्गवदभिमन्यमानः प्रमिमीते इति स तेषां स्वामी, स्वरूपपरमार्थसमर्पणाच्च पालकः इति पतिरुपदिष्टः शास्त्रे | मायाशक्तिकृतभेदान् व्यतिरिक्तानेव सतो यदा मिमीते तदा तैरेव मेयैः पाशरूपैः पाशितः इति पशुरुक्तः | तथाहि वेद्यराशिवशादेवास्या - विद्यास्मितारागद्वेषाभिनिवेशादयः क्लेशाः, धर्माधर्मादिरूपाणि कर्माणि, आदिपदादाशयरूपा वासना, फलभोगरूपो विपाकः, - इति कालुष्यमनन्तप्रकारम्, यतः पाशितत्वात् पशुः इत्युक्तः || ३ || समुच्चये, संवेदनमेव - ज्ञानस्वरूपमेव | एतद्धेतुकत्वेन चिद्घनः इति व्याचष्टे अत एव इति | चित् एव घना, अन्येन स्वव्यतिरिक्तेन अचिद्रूपेण यद् व्यामिश्रणं तेन शून्या, रूपं यस्य सः | मुक्तः इति व्याचष्टे स पुनः इति | उच्यते इति व्याचष्टे व्यपदेशयोगः इति | जीवन्मुक्ततामुक्त्वा तदनन्तरभाविनीं विदेहमुक्ततामर्थादेव योजयति पतिते तु इति | पतिते, देहे पतिते सतीत्यर्थः | ननु तर्हि तस्य मुक्तः शिव इति कथं व्यपदेश इत्यत आह भूत इति | भूतपूर्वा - पूर्वंभूता या गतिः तया | द्वितीयं श्लोकं व्याचष्टे यश्चासौ इति | कुतोऽभिमन्यमान इत्यपेक्षायां प्रमाता इत्यस्य विग्रहं करोति प्रमिमीते इति | सः - प्रमाता, तेषाम् - भावानाम्, पतिः इति व्याचष्टे स्वामी इति | अस्य पदस्य द्वितीयां व्याख्यां करोति स्वरूप इति | स्वरूपमेव परमार्थः - सहजं वस्तु, तस्य समर्पणात् | ननु किमयमर्थः स्वबुद्ध्यैवोक्त इत्यत आह उपदिष्टः इति | पूर्वार्धं व्याख्यायोत्तरार्धं व्याचष्टे माया इति | पाशितः - बद्धः, इति - अतो हेतोः, क्लेशकर्मादिकलुषः इति व्याचष्टे तथा हि इति | अस्य - प्रमातुः, एतद्धेतुकत्वेन पशुः इति व्याचष्टे यतः इति | यतः - यस्मात्कालुष्याद्धेतोः, पाशितत्वात् - बद्धत्वात् || ३ || यदेवैतत्पशुरूपं तदेवागमेषु त्रिविधं मलम्, - इत्याह | स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता | द्विधाणवं मलामिदं स्वस्वरूपापहानितः || ४ || भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् | कर्तर्यबोधे कार्म तु मायाशक्त्यैव तत्त्रयम् || ५ || इह ज्ञातृकर्तृरूपं तावच्चित्तत्त्वस्य स्वरूपं, तस्यापहारो नामाणवं मलं येनासावणुः संकुचितो जातः | तत्र स्वरूपस्य निमीलनं संकोचः | तत्स्थिते बोधरूपे कर्तृत्वलक्षणस्य स्वातन्त्र्यात्मनः स्वरूपान्तरस्य निमीलनं विपर्ययो वा, - इत्युभयथाप्याणवं मलं स्वरूपापहानिरूपमेकमेव | अत्रैवेति, सत्याणवे मले द्विप्रकारे स्वरूपसंकोचे वृत्ते भिन्नस्य अथ चतुर्थस्य पञ्चमस्य च श्लोकस्य व्याख्यां करोति यदेव इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकद्वयमुपन्यस्य व्याचष्टे स्वातन्त्र्य इति | अत्र टीका : - श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति | इह - अत्र शिवाद्वयशास्त्रे, तस्य - ज्ञातृकर्तृत्वरूपस्य स्वातन्त्र्यस्य, येन - मलेन, असौ अणुः - शून्यादि - प्रमाता, तत्र इति | तस्मिन् आणवे मले इत्यर्थः | निमीलनम् इत्यस्य स्वयमेव पर्यायमाह संकोचः इति, स च विद्याकलाऽवच्छेदरूपो ज्ञेयः | उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे तत् इति | तत् - यतः ज्ञातृकर्तृरूपस्य संकोच एव न तु स्वरूपतो नाशः ततः कारणात्, बोधरूपे स्थिते सति, ज्ञातृत्वे स्थिते सतीति यावत्, कतृत्वलक्षणस्य - कर्तृत्वरूपस्य, स्वातन्त्र्यात्मनः - स्वातन्त्र्यस्वभावस्य, स्वरूपान्तरस्य - ज्ञातृत्वाद् व्यतिरिक्तस्य स्वरूपस्य, निमीलनम् - सूत्रे हानि शब्देनोक्तः संकोचः, विपर्ययो वा - सूत्रे अबोधता शब्देनोक्तः बोधविपर्ययो वा, इत्युभयथापि - एवं प्रकारद्वयेनापि | द्वितीयं श्लोकं व्याख्यास्यन् तदन्तर्गतं अत्रैव इति पदद्वयम् व्याचष्टे सत्याणवमले इति | भिन्नवेद्यप्रथा इति व्याचष्टे भिन्नस्य इति | यत्प्रथनं तस्य मायीयम् इति संज्ञामात्रम् | मायाकृतत्वेन मायीयता मलत्रयस्यापि | तत्र कर्तुरबोधरूपस्य देहादेर्भिन्नवेद्यप्रथने सति धर्माधर्मरूपं कार्मं मलम्, यतो जन्म भोगश्च स च नियतावधिकः, इति जात्यायुर्भोगफलं कर्म इत्युक्तं भवति || ४ || ५ || संज्ञामात्रम् [संज्ञामात्रमिति, तैलपायिकादिवदितिभावः | अन्यथा मायाशक्त्यैव तत्त्रयमिति कथनमयुक्तं स्यादिति भावः | कुतः संज्ञामात्रमित्यत आह माया इति | जन्मभोगदम् - C.] इति, तैलपायिकादिवदिति भावः, कुतः संज्ञामात्रमित्यत आह माया इति, अन्यथा मायाशक्त्यैवतत्त्रयम् इति कथनमयुक्तं स्यादिति भावः | जन्मभोगदम् इत्याद्यवशिष्टं व्याचष्टे तत्र इति, स च - भोगश्च, नियतावधिकः - कार्ममलस्थिति तावत् स्थितिभाग् भवति, इति - अतः कारणात्, इति - कर्तृ, उक्तं भवति, इति किमिति ? कर्मजात्यायुर्भोगफलम् जन्मायुर्भोगफलम् भवति | एवमत्र संक्षिप्तार्थः | इदम् आणवमलं कर्तृ अपरिमितस्य प्रमातुः अव्यु?भावापादकं मलम्, इति - एवं स्वस्वरूपापहानितः द्विधा भवति, इति किमिति ? बोधस्य चिन्मात्रस्य, स्वातन्त्र्यहानिः - ज्ञातृत्वस्य संकोचः एकः प्रकारः, तथा स्वातन्त्र्यस्य - कर्तृत्वस्य अबोधता - बोधव्यतिरिक्तताभिमानः द्वितीयः प्रकारः | अत्रैव - द्विरूपे आणवे मले स्थिते सति, भिन्नवेद्यप्रथा मायाख्यं मलम् - मायीयं अथैषां मलानां विविक्तविषयनिरूपणात् स्वरूपं स्फुटीकर्तुं स्वातन्त्र्यहानिर्बोधस्य इत्यस्य तावद्विषयमाह | शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता | निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् || ६ || येषां चिन्मात्रमेव परमार्थो न तु अहम् इति स्वात्मविश्रान्त्यानन्दरूपं परमं स्वातन्त्र्यम् | ते परमेश्वरेण तथा निर्मिताः स्वात्मनः सकाशाद्व्यतिरिक्ताः | अत्र हेतुः - कर्तृताया उत्तमस्वातन्त्र्यलक्षणाया अत्ययात् अभावात्; परमेश्वरस्य तूत्तमस्वातन्त्र्यावियुक्तबोधरूपत्वम्, - इत्यभिप्रायशेषः || ६ || मलं भवति | कर्तरि अबोधे - बोधव्यतिरिक्ते - बोधव्यतिरिक्तस्वरूपे सति कार्ममलं भवति, कीदृशम् ? जन्मभोगदम्, तत्त्रयं मायाशक्त्यैव || ५ || अथ षष्ठस्य श्लोकस्यावतरणिकां करोति अथैषाम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे शुद्ध इति | अत्र टीका : - शुद्धबोधात्मकत्वेऽपि इति व्याचष्टे येषाम् इति | सुद्ध पदस्य मात्रचा व्याख्या, परमार्थः - परमात्मतयाऽभिमतं विश्रान्तिस्थानम् | नोत्तमकर्तृता इति व्याचष्टे न तु इति | स्वातन्त्र्यम् - विमर्शशक्तिरूपा स्वतन्त्रता | द्वितीयमर्धं व्याचष्टे ते इति | ते - सांख्यादिरूपाः, भर्त्रा इति व्याचष्टे परमेश्वरेण इति | तथा - तेन प्रकारेण | युक्तत्वेन अस्य अध्याहारः | व्यतिरिक्ताः निर्मिताः इति योजना | कर्तृतात्ययात् इत्यस्य हेतुत्वेन योजनां करोति अत्र हेतुः इति | शुद्धबोधस्य किं परमेश्वरत्वं नास्तीत्यपेक्षायामस्याभिप्रायमाविष्करोति परमेश्वरस्य इति | अहम् इति विमर्शशक्तियुक्तस्य बोधस्यैव परमेश्वरत्वं न सांख्यादिमतस्य शुद्धबोधस्येति भावः || ६ || नन्वस्माद्धेतोर्भवतु परमेश्वरात् तेषां भिन्नत्वमन्योन्यतस्तु कथं भेदो बोधरूपस्य व्यापित्वनित्यत्वकृतस्य च देशकालाभेदस्य समानत्वात्; अन्योन्यभेदाभावे च निर्मितास्ते इति कथं बहुवचनम् ? इत्याशङ्कां व्यपोहति | बोधादिलक्षणैक्येऽपि तेषामन्योन्यभिन्नता | तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः || ७ || इह हि सर्वत्राप्रतिहतशक्तिः परमेश्वर एव तथाबुभूषंस्तथा [तथा वुभूषुः - K. ष्. ष्.] तथा भवति, नत्वन्यः कश्चित् परमार्थतोऽस्ति, - इत्यसकृदुक्तम्; ततश्च व्यापकनित्यबोधस्वभावोऽपि अहं भेदेन निर्भासे इत्येवंभूतेनेश्वरेच्छाविशेषेण तेषां शरीरादिशून्यान्तप्रमातृपदोत्तीर्णानां बोधत्वनित्यत्व - विभुत्वादिधर्मजातस्यैक्येऽप्यन्योन्यं भेदः, ते च शास्त्रे विज्ञानकेवला उक्ताः | तत्र विज्ञानकेवलो मलैकयुक्तः, - इत्यादौ विज्ञानं बोधात्मकं रूपं केवलं स्वातन्त्र्यविरहितमेषामिति || ७ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति नन्वस्मात् इति | अत्र टीका: - अस्माद्धेतोः - कर्तृतात्ययाद्धेतोः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे बोधादि इति | अत्र टीका: - श्लोकं व्याख्यातुं पूर्वोक्तां युक्तिमनुसरति इह हि इति | तथाभवितुमिच्छन् तथा बुभूषन्, तथा तथा भवति - तथा तथा वस्तुस्वरूपो भवति | एतदवष्टम्भेन श्लोकं व्याचष्टे ततश्च इति | कुत्रोक्ता इत्यपेक्षायामाह तत्र इति | इत्यादौ - एवमादौ वाक्यकदम्बके | विज्ञानकेवलाः इति व्याचष्टे विज्ञानम् इति || ७ || एवं स्वातन्त्र्यहानिर्बोधस्य इत्यस्य भागस्य विज्ञानाकलविषयता - मुक्त्वा स्वातन्त्र्यस्याप्यबोधता इत्यमुमंशं विषयप्रदर्शनेन स्पष्टयति | शुन्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः | तेषां कार्मो मलोप्यस्ति मायीयस्तु विकल्पितः || ८ || शून्ये जडत्वादबोधरूपे एव, यदि वा प्राणे बुद्धौ वा येषाम् अहमिति चमत्कारयोगात् कर्तृत्वं ते प्रलयेन कृताः अकलाः कलातत्त्वोपलक्षितकरणकार्यरहिता अबोधरूपाः कर्तारश्च | प्रलयावधि हि ते तथाकृताः [तथाभूताः - K. ष्. ष्.] उत्तरकालं तु कार्यकरणसंबद्धा एव भवन्ति; यतस्तेषां न केवलमुक्तस्य आणव एव मलो यावत् कार्मोऽपि वासनासंस्काररूपो धर्माधर्मात्मास्त्येव | यद्येवम्, भिन्नवेद्यप्रथाप्येषां स्यात् | सत्यम्, सवेद्ये [सवेद्यरूपे - K. ष्. ष्.] सुषुप्तपदे, ऽपवेद्ये तु न भवति; तेन मायीयो मल एषां विकल्पितो व्यवस्थितविषयत्वेन | तथा हि - केऽपि शून्यादिभागविश्रान्ता गाढनिद्राजडीकृता अपवेद्यसुषुप्तपदभाजः | अन्ये तु बुद्ध्यादिनिष्ठाः सुखदुःखवशेषसामान्यात्मकभिन्नवेद्यसंवेदनयोगिनः सवेद्यसौषुप्तपदलीनाः | अथाष्टमस्य श्लोकस्यावतरणिकां करोति एवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे शून्ये इति | अत्र टीका : - आदि शब्दगृहीतं वस्तु पक्षान्तररीत्या कथयति यदि वा प्राणे इति | अहमिति चमत्कारयोगात् - अहमित्यास्वादयोगात्, शून्यादावात्माभिमानपूर्वमिति यावत् | प्रलयेन - मूर्च्छारूपेण प्रलयकालेन, प्रलयावधि - प्रलयकालं तावत्, तथा कृताः - अकलाः कृताः, उत्तरकालम् - प्रलयानन्तरम्, कुतो भवन्तीत्यत आह यतः इति | अत्र शिष्यः प्रश्नयति यद्येवम् इति | एषाम् - प्रलयाकलानाम्, उत्तरमाह सत्यम् इति | सवेद्ये - सुखाख्यवेद्यसहिते, सुषुप्तपदे तेषां भिन्नवेद्यप्रथा सत्यमस्तीति योजना | व्यवस्थितविषयत्वेन - बीजभावस्थितनानारूपवस्तुविषयत्वेन, अत्र समर्थनं करोति तथाहि इति | स्थूलदेहेन्द्रियात्मककार्यकरणवियोगरूपत्वं तु परलयाकललक्षणं सर्वेषां तुल्यम् || ८ || एवं स्वातन्त्र्यस्याप्यबोधता इत्येवमंशः स्फुटीकृतः, प्रसङ्गाच्च कार्ममलस्य विषयो दर्शितः, मायामलस्य च पाक्षिकत्वमुक्तम् | अधुना पुनराणवकार्ममलद्वयाभावेऽपि शुद्धोऽस्तिमायाख्यस्य मलस्य विषयः, - इति दर्शयति बोधानामपि कर्तृत्वजुषां कार्ममलक्षतौ | भिन्नवेद्यजुषां मायामलो विद्येश्वराश्च ते || ९ || ये चिन्मात्रमेवात्मतया पश्यन्ति अहम् इति च चमत्कारोल्लासात् कर्तारस्तत एव सर्वज्ञाः सर्वकर्तारश्च ते विद्येश्वराः | किन्तु तनुकरणभुवनादि यदेषां वेद्यतया कार्यतया च भाति, तत् कुविन्दपटदृष्ट्या भिन्नमेव सत् - इत्यस्ति विद्येश्वराणां मायाख्यमलयोगः || ९ || अथ मलत्रयस्यापि यौगपद्येन यो विषयस्तं दर्शयितुमाह | देवादीनां च सर्वेषां भविनां त्रिविधं मलम् | तत्रापि कार्ममेवैकं मुख्यं संसारकारणम् || १० || सर्वेषाम् - सवेद्यसुषुप्तपदस्थानाम् - अपवेद्यसुषुप्तपदस्थानाञ्च, तुल्यम् इति, सर्वेषां सुष्ठु सुप्तत्वेन स्थूलदेहाद्यभिमानाभावादिति भावः | एवमत्र संक्षिप्तार्थः | तु - व्यतिरेके, शून्याद्यबोधरूपाः कर्तारः प्रलयाकलाः भवन्ति | तेषाम् - प्रलयाकलानाम्, कार्मो मलोऽपि - संस्काररूपः कार्माख्यो मलोऽपि, अस्ति, न केवलं संस्काराभावरूपः आणवः | तु - व्यतिरेके | तेषां मायीयो मलोऽपि कल्पितः भवति, संस्कारभावेन स्थितत्वात् || ८ || अथ नवमश्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका : - पाक्षिकत्वम् - सवेद्यसुषुप्तपक्षनिष्ठत्वम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे बोधानाम् इति | अत्र टीका : - विद्येश्वराः - शुद्धविद्यानिष्ठाः मन्त्राख्याः प्रमातारः || ९ || अथ दशमस्य श्लोकस्यावतरणिकां करोति अथ इति | स्पष्टम् | एवमवतरणिकां इह विद्येश्वरविज्ञानाकलास्तावन्न भविनो मायान्ताध्वातिक्रमणात्; प्रलयाकला अपि कंचित्कालमविद्यमानभवाः | ये त्वेते मायातत्त्वान्तरालपरिवर्तिनो देवादयः स्थावरान्ताश्चतुर्दश [चतुर्दशधा - K ष्. ष्.] शास्त्रेषु परिगणितास्ते सर्वे भविनः संसारिणः, तेषां च त्रयोऽपि युगपन्मलाः | ननु मलत्रयमध्ये कतमो मलः संसरणमेषां संपादयेत् ? आह, तत्रापि तेषु त्रिष्वपि सत्सु कार्मं मलं मुख्यतया संनिपत्य संसरणे कारणम् | यथोक्तम् | कृत्वा श्लोकमुपन्यस्य व्याचष्टे देवादीनाम् इति | अत्र टीका : - चतुर्दश इति | तदुक्तम् : - अष्टविकल्पो दैवः तिर्यग्योनिश्च पञ्चधा भवति | मानुष्यश्चैकविधः [मानुषश्च - C.] समासतो भौतिकः सर्गः || पैशाचो राक्षसो याक्षो गान्धर्वः शाक्र एव च | सौम्यस्तथान्यः [सौप्यस्तथान्यः - C.] प्राजेशो ब्राह्मण्य इत्यष्टधा स्मृतः || इति | अष्टविकल्पो दैवः | पशु मृग - पक्षि सरीसृप स्थावरभेदस्तिर्यग्योनिः पञ्चधा, विज्ञानाकलाः - विज्ञानकेवलाः, भविनः [भाविनः - C.] - संसारिणः, पुनः के भविनः सन्तीत्यत आह ये तु इति | प्रश्नं करोति ननु इति | उत्तरं कथयति आह इति | सन्निपत्य - अन्याभ्यां मिलित्वा, अत्रागमवाक्यमुदाहरति यथोक्तम् इति | कर्मतस्तु शरीराणि विषयाः करणाणि च | इति तनुकरणविषयसंबन्ध एव च वर्तमानो भविष्यंश्च, - इत्यनवरतं प्रबन्धतो वर्तमानः संसरणमुच्यते | आणवमायामलौ तु यद्यपि न कारणं संसारे, तथापि कार्मेण विना तौ देहादिविचित्रभावाभिनिर्वर्तनशक्तिशून्यौ विज्ञानाकलादिषु, - इति मुख्यं कार्ममेव मलं संसारकारणं तत्र तत्र शास्त्रे गण्यते | अत एव तदुपक्षये वृत्ते दत्तस्तावदसंसरणसोपानपदबन्धः, - इत्याशयेन कर्मबन्धाभिमानपरिहानिरेव यत्नतः सांख्यपुराणभारतादिशास्त्रेषूपदिश्यते | एवं मलत्रयस्यैकैकभेदैस्त्रिभिर्द्विभेदैस्त्रिभिस्त्रिभेदेनैकेन, इति सप्त प्रमातार उत्तिष्ठन्ति | तथा च शास्त्रे शिवादिसकलान्ताश्च शक्तिमन्तः सप्त | ननु संसरणाख्यो भवः किमुच्यत इत्यत आह ननु इति | नवीनानामुत्पत्तिमपेक्ष्य भूत इति नोक्तम् | ननु तर्हि आणवमायीयौ तत्र व्यर्थावेवेत्यत आह आणव इति | एतेन फलितं वस्त्वाह अत एव इति | तदुपक्षये - कार्ममलक्षये, वृत्ते - सम्पन्ने, पदबन्धः - पदस्पर्शः | उपसंहारं करोति एवम् इति | एवम् - उक्तप्रकारेण | इति - एवम्, मलसप्तकेनेति यावत् | सप्तप्रमातारः - शिवादयः सकलान्ताः, उत्तिष्ठन्ति - संपद्यन्ते | इति कथम् ? मलत्रयस्य त्रिभिः एकैकभेदैः, केवलेन प्रत्येकं मलत्रयेणेत्यर्थः | तथा त्रिभिः द्विभेदैः - आणवमायीयाभ्याम्, आणवकार्माभ्याम्, मायीयकार्माभ्याम्, इत्येवं द्वयत्रिकेणेति यावत् | तथा एकेन त्रिभेदेन, एकीभूतेन मलत्रयरूपेण एकेन त्रिकेणेत्यर्थः | तत्र केवलेन आणवमलेन शिवतत्त्वमुत्तिष्ठति, शक्तेर्भिन्नतया गणनया आपाततः तद्रहिततया स्फुरणात्, तस्यैव च स्वातन्त्र्यहानित्वात् | यद्यप्याणवमलद्वितीयभेदेन स्वातन्त्र्याबोधतारूपेण शक्तितत्त्वस्योत्थानम्, तथापि तदिह न गणितम्, अप्रकृतत्वात् | शक्तिमतां निर्णयस्यैव प्रकृतत्वात् | शिवाद्भेदेन गणिता शक्तिरबोधकल्पत्वमाश्रयत्येव, सैव स्वातन्त्र्यस्याऽबोधता, केवलेन आणवेन शिवोत्थानम्, केवलेन मायीयमलेन मन्त्र महेश्वरोत्थानम् केवलेन कार्ममलेन मन्त्रोत्थानम्, आणवमायीयाभ्यां मन्त्राख्य विद्येशोत्थानम्, आणवकार्माभ्यां विज्ञानाकलोत्थानम्, मायीयकार्माभ्यां प्रलयाकलोत्थानम्, आणवादित्रिकेण सकलोत्थानमिति क्रमः | अत्रागमशास्त्रमुदाहरति तथा च इत्युक्तम् | तत्राप्यवान्तरभेदेन गुणमुख्यताभेदेन विकल्पसमुच्चयतादिभेदेन चानन्तप्रकारत्वमिति || १० || अस्य च मलत्रयस्योद्भवतिरोभावभेदात् संसारिणां प्रकारद्वयम्, - इति दर्शयति कलोद्बलितमेतच्च चित्तत्त्वं कर्तृतामयम् | अचिद्रूपस्य शून्यादेर्मितं गुणतया स्थितम् || ११ || मुख्यत्वं कर्तृतायाश्च बोधस्य च चिदात्मनः | शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् || १२ || एतच्चेति, यत् त्रिदशादीनां भविनां चैतन्यं कर्तृतांशस्य प्राधान्यान्मलेन संविद्भागस्य निमज्जितत्वात् कर्तृतामयम् चिद्रूपस्य तत्त्वं स्वातन्त्र्यम्, कलाख्येन परमेश्वरशक्त्यात्मना तत्त्वेन उपोद्वलितम् अनुप्राणितम्, मलेन न्यक्कृतं सदुद्बोधितम्, शून्यादेर्देहपर्यन्तस्य इति | सप्तकेऽपि अवान्तरभेदेन बहुत्वं कथयति तत्र इति | इति शब्दः श्लोकव्याख्यासमाप्तौ | एतेन ऊर्ध्वमपि शिवतत्त्वान्तं मायातत्त्वस्य व्याप्तिर्दर्शिता, अन्यथा एकत्र तत्त्वे कां शिवादिकल्पना | शिवस्याणवमलादुत्थानञ्च तत्परामर्शकाणवमलसंस्कारवशेन ज्ञेयम् | अन्यथा एकस्मिन् पूर्णे तत्त्वे का शिवादिकल्पना | एवं सदाशिवादौ ज्ञेयम् || १० || अथैकादशस्य द्वादशस्य च श्लोकस्यावतरणिकां करोति अस्य च इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे कलोद्वलितम् इति | अत्र टीका : - एतच्च इति व्याचष्टे यत इति | भविनाम् - संसारिणाम्, मलेन - कार्ममलेन, कर्तृतामयम् - स्थूलकर्तृतास्वरूपम्, चित्तत्त्वम् इति व्याचष्टे चिद्रूपस्य इति, कलाख्येन [चित्तत्त्वम् इति व्याचष्टे कलाख्येन इति - C.] इति | अत्र पर्यायान्तरमाह मलेन इति | शून्यादेर्गुणतया स्थितम् इति व्याचष्टे शून्यादेः इति | षष्ठ्यर्थमाह मायाप्रमातुः संबन्धि, तत् गुणत्वेन अप्रधानत्वेन स्थितम्, यतो मितम् इदन्तापन्नदेहादिशून्यान्तप्रमेयभागनिमग्नत्वात् प्रमेयम्, यो गौरो, यः सुखी, यस्तृषितो, यः सर्वरूपरहितः सोऽहम्, - इति हि इदन्तैवान्तर्नीताहंभावा [इदन्तैवान्तर्लीनाहंभावा - K. ष्. ष्.] संसारिणां परिस्फुरति | सेयं जाग्रत्स्वप्नसुषुप्तरूपा संसारावस्था | यदा तूक्तगुरुपदेशादिदिशा तेनैवाहंभावेन स्वातन्त्र्यात्मना व्यापकत्वनित्यत्वादिधर्मपरामर्शमात्मनि विदधता ततः शून्यादेः प्रमेयादुन्मज्ज्येवास्यते तदा तुर्यातीतावस्था | यदापि परामृष्टतथाभूतवैभवादि- नित्यैश्वर्यसंभेदेनैवाहंभावेन [परामृष्टतथाभूतवैभवनित्यैश्वर्यादिधर्म- संभेदेनैवाहंभावेन - K. ष्. ष्.] शून्यादिदेहधात्वन्तं सिद्धरसयोगेन सम्बन्धि इति | एतद्धेतुकत्वेन मितम् इति व्याचष्टे यतः इत्यादि प्रमेयम् इत्यन्तम् | ननु कथं प्रमातुः स्वरूपस्य प्रमेयत्वं युक्तमित्यत आह यो गौरः इति | गौरः इति पदेन देहप्रमातुः परामर्शः | यः सुखी इति बुद्धिप्रमातुः, तृषितः इति प्राणप्रमातुः परामर्शः | सर्वरूपरहितः इति शून्यप्रमातुः परामर्शः | संसारिणाम् अन्तर्नीताहंभावा इदन्तैव परिस्फुरति इति | सोऽहम् इति हि परमार्थतः अहन्तासामानाधिकरण्येन तच्छब्दाक्षिप्तयच्छब्दानुरोधतः इदन्ताविषयस्यैव ग्रहणम् | स्मृतिनिर्णये चात्र भरः कृत एवेति न पुनरायस्तम् | सेयम् - अन्तर्नीताहंभावा इदन्तैव, संसारावस्था, संसारदशा, तत्र प्रमेयप्रधानायां देहप्रमात्रवस्थायां जाग्रदवस्था, प्रमाणप्रधानायां धीप्रमात्रवस्थायां स्वप्नावस्था, प्रमातृप्रधानायां प्राणशून्यप्रमात्रवस्थायां सुषुप्तावस्था इति क्रमो ज्ञेयः | द्वितीयं श्लोकं व्याख्यातुमवतरणिकां करोति यदा तु इति | आत्मनि - सत्ये चिदात्मनि, प्रमेयात् - आपाततः प्रमातृत्वेऽपि परमार्थेन प्रमेयरूपात्, उन्मज्येव - उत्थायेव, तदा तुर्यातीतावस्था, परमार्थतः उन्मज्जना ऽयोग्यतामपेक्ष्य इव शब्दोपादानम् | परामृष्टं [परामृष्टं तथा भूतं वैभवादि नित्यैश्वर्यं - यत् व्यापकत्वादि - C.] तथा भूतं यत् वैभवादिनित्यैश्वर्यम् - व्यापकत्वादिरूपमैश्वर्यम्, तस्य संभेदः यस्य तादृशेन, सिद्धरसस्य - ताम्रादौ विध्यते, तदास्यां तुर्यदशायां तदपि प्रमेयतामुज्झतीव | सेयं द्वययपि जीवन्मुक्तावस्था समावेश इत्युक्ता शास्त्रे | सम्यगावेशनमेव हि तत्र तत्र प्रधानम्, तत्सिद्धये तूपदेशान्तराणि | यथा गीतम् | मययावेश्य मनो ये मां | (गी. १२/२) इति | अथावेशयितुं चित्तं | (गी. १२/९) इत्यादि च | समावेशपल्लवा एव च प्रसिद्धदेहादिप्रमातृभागप्रह्वीभावभावनानुप्राणिताः परमेश्वरस्तुतिप्रणामपूजाध्यानसमाधिप्रभृतयः कर्मप्रपञ्चाः | यद्गीतमपि | अभ्यासेऽप्यसमर्थः सन्मत्कर्मपरमो भव | (गी. १२/१०) इति | देहपाते तु परमेश्वर एवैकरसः, - इति कः कुत्र कथं समाविशेत् | तदेतदाह - यत् पुनः कर्तृताया मुख्यत्वं तन्नान्तरीयकश्च शून्यादेर्गुणभावः, सुवर्णताऽऽपादकस्य पारदादेः सिद्धरसस्य, यो योगः तेन, विध्यते - व्याप्यते, सर्वत्राहन्ताग्रहे हि देहादिरपि तथैव गृह्यते | तदपि - शून्याद्यपि, उज्झतीव, तत्रापि चिन्मात्ररूपत्वेन ग्रहणात्, अन्यथाहंपरामर्शविषयत्वायोगात् | द्वयी अपि - देहाभिमानस्पर्शरूषिता तुर्यावस्था तदभिमानस्पर्शरहिता तुर्यातीतावस्था, समावेश इति - परतत्त्वेन सहैकीभाववाचकेन समावेश - शब्देन, शास्त्रे - अध्यात्मशास्त्रे | ननु शास्त्रे बहूक्तमस्ति इत्यत आह सम्यक् इति | तत्र तत्र - तेषु तेषु शास्त्रेषु | अत्र श्रीभगवता स्वयं प्रोक्तश्रीगीताशास्त्रवाक्यमुदाहरति यथा गीतम् - इति | किं गीतमित्यपेक्षायाम् आह मययावेश्य इति | आवेश्य - योजयित्वा | ननु सत्स्वपि प्रसिद्धेषु स्तुत्यादिषु किमिति समावेश एवेत्थमुक्तः इत्यत आह समावेश इति | देहादिरूपा ये प्रमातृभागाः तेषां यत् प्रह्वीभावभावनम् - परप्रमातारं प्रति गुणीभावापदनम् - नामनं च तेन अनुप्राणिताः - सन्दीपिताः, अत्रापि श्रीगीतावाक्यमुदाहरति अभ्यासे इति | ननु जीवन्मुक्तिर्द्वयरूपिणी भवतु, विदेहमुक्तिस्तु कीदृशी भवति इत्यत आह देह इति | देहपाते - विदेहमुक्त्यवस्थायाम्, तदेतत् - समनन्तरोक्तं वस्तु | तस्मिंश्चाप्यचिद्रूपे गुणीभूते स्वातन्त्र्यस्याप्यबोधता इति मलव्यापारस्यापहस्तनात् चितो यः परोऽप्यात्मभागो [योऽपरोऽपि - K. ष्. ष्.] बोधलक्षणो मलेन न्यक्कृतोऽभूत् तस्यापि अधुनोन्मग्नत्वेन मुख्यत्वम् | यच्च तत् कर्तृताया [यच्च कर्तृतायाः - K. ष्. ष्.] मुख्यत्वम् उन्मग्नता, इदमेव ज्ञानमज्ञानात्मकमलप्रतिपक्षत्वात्; तदेतन्मुख्यत्वं समावेशस्य लक्षणं येन देहस्थितोऽपि पतिः इति मुक्तः इति शास्त्रेषूक्तः || १२ || एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे यत्पुनः इति | तन्नान्तरीयकः - कर्तृतामुख्यत्वाविनाभावी, गुणभावः - अप्रधानत्वम्, तस्मिन् - शून्यादौ च, अपहस्तनात् - निमीलनात्, चितः - चिन्मात्रस्य परोऽपि - उत्तीर्णोऽपि सन्, आत्मभागः - स्वांशः, न्यक्कृतः - तिरस्कृतः, तत्कर्तृतायाः - चित्कर्तृतायाः, तदेतत् मुख्यत्वम् - प्रोक्तं चिद्भागस्य मुख्यत्वम्, लक्षणम् - स्वरूपम्, येन - येन मुख्यत्वेन, देहस्थितोऽपि - जीवन्नपि पुरुषः | एवमत्र श्लोकद्वयस्य संक्षिप्तार्थः | एतद् - देहादिभावमागतं सकलप्रमातृरूपम्, चित्तत्त्वम् - चितः स्वरूपम्, अचिद्रूपस्य जडस्य देहादेः शून्यादिप्रमातृचतुष्ट- यस्य, गुणतया स्थितम् - धर्मतया स्थितं भवति | कीदृशम् ? कलयाकिञ्चित्कर्तृत्वरूपेण कलातत्त्वेन, उपोद्वलितम् - अनुप्राणितम्, अत एव कर्तृतामयम् - कर्तृतास्वरूपम् | कुतो गुणत्वेन स्थितमित्यपेक्षायाम् विशेषणं हेतुत्वेननाह मितम् इति | यतः तार्किकाः हि प्रमातारं प्रति ज्ञानस्य गुणत्वमेव कथयन्ति | तु - व्यतिरेके | कर्तृताया मुख्यत्वं यद् भवति शून्यादौ तद् गुणे सति, गुणत्वेन नन्वेवं पत्युः समावेशात्मिका तुर्यतदतीतरूपा भवतु दशा, पशोस्तु कथं सुषुप्तस्वप्नजाग्रद्दशाभेद आगमेषूक्तः, - इत्याशङ्क्य सुषुप्तस्वरूपमेव तावदाचष्टे श्लोकत्रयेण | शून्ये बुद्ध्याद्यभावात्मन्यहन्ताकर्तृतापदे | अस्फुटारूपसंस्कारमात्रिणि ज्ञेयशून्यता || १३ || साक्षाणामान्तरी वृत्तिः प्राणादिप्रेरिका मता | जीवनाख्याथवा प्राणेऽहन्ता पुर्यष्टकात्मिका | तावन्मात्रस्थितौ प्रोक्तं सौषुप्तं प्रलयोपमम् || सवेद्यमपवेद्यं च मायामलयुतायुतम् || १५ || इह चित्तत्त्वं स्वस्वरूपमाच्छादयत् ज्ञेयरूपेण बुद्ध्यादिना देहान्तेन घटादिना वाभासते [भासते - K. ष्. ष्.] एकमेव चेदं स्वातन्त्र्यविजृम्भितं, न त्वत्र ज्ञाते सतीति यावत्, चिदात्मनः - चिद्रूपस्य बोधस्य च मुख्यत्वं यद् भवति तत् समावेशलक्षणम् - तुर्यतुर्यातीतसमावेशस्वरूपं ज्ञानं भवति इति | तदुक्तम् : - सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज इति | अत्र हि धर्म शब्देन शून्यादिप्रमातृप्रमेयवर्ग- ग्रहणम् माम् इत्यनेन चिद्रूपस्य, शरणव्रजनं चात्र समावेश एवेत्यलं बहुना || १२ || अथ त्रयोदशस्य चतुर्दशस्य पञ्चदशस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति | स्पष्टम् | एवम्वतरणिकां कृत्वा श्लोकमुपन्यस्य व्व्याचष्टे शून्ये इति | अत्र टीका : - प्रथमं श्लोकं व्याख्यातुं प्रक्रियां करोति इह इति | इह - अत्र जगति, आभासते - स्फुरति | तदुक्तम् | चिद्घनोऽपि जगन्मूर्त्याश्यानो यः स जयत्यजः | स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः || वास्तवः क्रमो वा भेदो वा | तत्रापि तु स्वातन्त्र्यात् क्रमश्च भेदश्चाभासते | तदेवंस्थिते यश्चित्तत्त्वस्य स्वरूपाच्छादनभागः स एवोत्तरभागान्तरासंकीर्णो यदा विश्राम्यति तदनुदयाद्वा तत्प्रध्वंसाद्वा प्रलय इव तदनादरणाद्वा निद्रासमाधिमूर्च्छादाविव, तत्रैव चाहन्तारूपं कर्तृतायाः पदं परामर्शोऽस्फुटत्वादरूपात्मना संस्कारेण शुद्धेन वेद्यपदवीमप्राप्तेन युक्तो भवति, तदा सैवावस्था नेत्येवपरामर्शलेशानपेक्षित - [नेत्येव परामर्शशेषा अनपेक्षितनिषेध्यबुद्ध्यादि - K. ष्. ष्.] इदम् - जगद्रूपम्, अत्र - अस्मिन्स्वातन्त्र्ये | ननु तर्हि कथं तन्निर्मितेषु भावेषु क्रमो वा भेदो वा दृश्यत इत्यत आह तत्रापि तु इति | तत्रापि, एवं सत्यपीत्यर्थः | एकस्य स्वतन्त्रस्य क्रमभासनं भेदभासनमपि वा स्वातन्त्र्यमेवेति भावः | उक्तप्रक्रियावष्टम्भेन श्लोकं व्याचष्टे तदेवम् इति | स्वरूपाच्छादनभागः - स्वरूपाच्छादनांशः, उत्तरभागान्तरैः - भूतभाविपदार्थरूपैः अन्यैरंशैः, असंकीर्णः | तदनुदयात् - उत्तरभागानुदयात्, अनुदयात् इत्यवरोहाभिप्रायेण, प्रध्वंसात् इत्यारोहाभिप्रायेण, अत्र दृष्टान्तं दर्शयति प्रलये इव इति | तदनादरणात्, उत्तरभागोपेक्षया, तत्र दृष्टान्तमाह निद्रा इति | तत्रैव च शून्यारव्ये तस्मिन् विश्रान्तिकाले एव | पद शब्दं व्याचष्टे परामर्शः इति | अस्फुट इत्यादि समस्तं पद व्याचष्टे अस्फुटत्वात् इति | मात्रचः व्याख्यां करोति शुद्ध इति | तद्धितप्रत्ययव्याख्यां करोति युक्तः इति | शून्ये इति व्याचष्टे तदा इति | तदा - तस्मिन् काले, सैवावस्था शून्य इत्युच्यते पण्डितैरिति शेषः | कीदृशी ? नेत्येव - न इत्येतावन्मात्ररूपः यः परामर्शलेशः तेन अनपेक्षितः - विषयत्वेन न अपेक्षाविषयीकृतः, निषेध्यबुद्ध्यादिविषयः - उत्तरकाले निषेधनीयबुद्ध्यादिविषयः, सुस्पष्टः परामर्शः तेन संभेदः संबन्धः यस्याः | निषेधपरामर्शे हि निषेध्यपरामर्शोऽवश्यंभावी एव, अन्यथा किं विषयः सः स्यात् | अस्याम् अवस्थायां तु स न युक्तः सुषुप्तत्वहानेः | किञ्च निषेध्यपरामर्शोऽप्यत्र न युक्त एव, उत्तरकाले एव न किञ्चिदवेदिषमिति परामर्शोत्पादादिति भावः | निषेध्यबुद्ध्यादिविषयसुस्पष्टपरामर्शसंभेदापि अवश्यंभाविनिषेध्ययोगात् अकिञ्चिनोऽहम् इतिवत् [इत्येवंभूतपरामर्शवत् - K. ष्. ष्.] स्वीकृतसामान्याकारनिषेध्या, अत एव संस्कारशेषीकृतज्ञेया [संस्कारशेषीकृतज्ञेयरूपा - K. ष्. ष्.] शून्य इत्युच्यते | तथाविधे बुद्ध्यादीनां देहादिनीलान्तानामभावरूपे शून्यत्वमुच्यते, यतस्तत्र ज्ञेयानां शून्यता अभावरूपता संस्कारशेषता | इयमेव हि सर्वत्राभावो न तु सतां सर्वात्मना विनाशः | तादृशी अपि अवश्यंभाविनिषेध्ययोगात् - उत्तरकाले अवश्यंभाविनिषेधनीययोगात्, अकिञ्चिनोऽहमितिवत् - एवं रूपसामान्यतो निषेधवत्, स्वीकृतः सामान्याकारः - बुद्ध्यादिविशेषरहितः निषेध्यः यया सा, तत्परामर्शाभावेऽपि फलतः तद्युक्तेति यावत् | अत एव - अस्माद्धेतोरेव, संस्कारशेषीकृतं ज्ञेयम् बुद्ध्यादिरूपंज्ञेयवस्तु यया सा, अन्यथाऽग्रे तत्प्रादुर्भावायोगादितिभावः | सप्तमीयोजनां करोति तथाविधे इति | बुद्ध्याद्यभावात्मनि [बुद्ध्यादिभावात्मनि - C.] इति व्याचष्टे बुद्ध्यादीनाम् इति | कुतः शून्यत्वमुच्यते इत्यपेक्षायाम् ज्ञेयशून्यता इति व्याचष्टे यतः इति | तत्र - तस्मिन् शून्ये, अभावरूपतामपि प्रकटीकरोति संस्कार इति | ननु अन्यत्र अभावः कीदृशो भवति इत्यत आह इयमेव इति | इयमेव - संस्कारशेषतैव, सर्वात्मना - निःशेषेण, तदुक्तम्; - नाभावो विद्यते सतः इति | एवमत्र श्लोके योजना बुद्ध्याद्यभावात्मनि तथा अहन्ताकर्तृतापदे उत्तरकाले न किञ्चिदवेदिषम् इति स्मृतिरूपपरामर्शान्यथानुपपत्तेः अहन्ता - रूपकर्तृतापरामर्शयुक्ते, तथा अस्फुटम् अरूपं संस्कारमात्रमस्मिन्नस्तीति तादृशे, शून्ये - सुषुप्तरूपे शून्यपदे, ज्ञेयशून्यता - ज्ञेयराहित्यम्, ज्ञेयस्य संस्कारमात्रेणावस्थानमिति यावत्, भवति इति | तत्रैव शून्ये प्रमातरि समवेता प्राणापानसमानोदानव्यानात्मके वायुचक्रे प्रेरणात्मिका शक्तिः, सा च विद्याकलयोः पपञ्चभूतौ यौ क्रमेण बुद्धीन्द्रियकर्मेन्द्रियवर्गौ तयोरान्तरी वृत्तिः | बाह्या हि तयोः शब्दाद्यालोचनशब्दाभिव्यक्तिस्थानाभिहननादिका वृत्तिः | तदुक्तम् सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च | (सां. २९ का.) इति | एवं शून्य एवाहन्ता अक्षचक्रोपोद्वलिता जीवनम्, इति स शून्य एव जीवः संसरति | यदि वेन्द्रियशक्तीनामेव यान्तरी साधारण - प्राणनात्मिका प्राणशब्दवाच्या प्राणादिमारुतविषेषप्रेरणामयी सैव अहम् इत्यधिशयाना जीवनम्, तदा प्राण एव जीवः संसारी, स एव शून्यः, प्राणश्च पुर्यष्टकशब्दवाच्यः, प्राणादिपञ्चकं बुद्धीन्द्रियवर्गः अथ द्वितीयं श्लोकं व्याचष्टे तत्रैव इति | समवेता इति | सा इति व्याचष्टे शून्ये इति | प्राणादिप्रेरिका इति व्याचष्टे प्राण इति | अक्षाणान्मातरीवृत्तिः इति व्याचष्टे सा च इति | सा च - शक्तिश्च, प्रपञ्चभूतौ - उपप्लवभूतौ, आन्तरी वृत्तिः - आन्तरो व्यापारः, तयोः - बुद्धिन्द्रियकर्मेन्द्रियवर्गयोः, तत्र शब्दाद्यालोचनं बुद्धीन्द्रियवृत्तिः शब्दाभिव्यञ्जनस्थानहननादि कर्मेन्द्रियवृत्तिरिति क्रमो ज्ञेयः | जीवनाख्या इति व्याचष्टे एवम् इति | शून्ये एव अहन्ता - शून्यप्रमातृगताऽहन्ता एव, इति - अतः कारणात्, यः जीवः संसरति सः शून्य एव - शून्यप्रमातैव भवति | अथवा इत्यादि व्याचष्टे यदि वा इति | अधिशयाना - आश्रितवती | नन्वत्र कस्य जीवत्वमित्यत आह तदा इति | पुर्यष्टकात्मिका इति पक्षद्वयेऽपि योजयति स एव इति | स एव - प्राण एव | कुतः प्राणस्य पुर्यष्टकवाच्यत्वमित्यत आह प्राणादि इति | प्राणाद्यष्टकव्यञ्जकत्वादेवास्य कर्मेन्द्रियगणो निश्चयात्मिका च यतो धीर्व्यज्यते | तन्मात्रपञ्चकं मनोऽहंबुद्धय इत्यन्ये तन्मात्रोदयरूपेण मनोऽहंबुद्धि . | (स्प. ४/९) इति | भूमिरापोऽनलं. | (गी. ७/४) इति च वदन्तः | एवं यदुभयात्मकं पुर्यष्टकं तावत्येव शुद्धे या विश्रान्तिः, तस्यां पुर्यष्टकत्वमिति भावः | अन्येत्वन्यथा कथयन्ति इत्याह तन्मात्रपञ्चकम् [प्राणादिपञ्चकम् - C.] इति | अन्ये इति - एवम्, आहुरिति शेषः | इति किमिति? तन्मात्रपञ्चकम् इति | एतदादि बुद्ध्यन्तं पुर्यष्टकम्, [एतदादि बुद्ध्यन्तम् पञ्चकं पुर्यष्टकम् - C.] नत्वेतद्व्यञ्जकः प्राण इति भावः | अन्ये कीदृशाः ? इति वदन्तः | इति किमिति ? तन्मात्रोदय इति | तथा इति च वदन्तः | इति किमिति ? भूमिः इति | तदुक्तम् :- तन्मात्रोदयरूपेण मनोऽहं बुद्धिना पुर्यष्टकेन संरुद्धः इत्यादि | एवमत्र श्लोकद्वये योजना पण्डितानाम् | अक्षाणाम् - सर्वेन्द्रियाणाम्, आन्तरीवृत्तिः - आन्तरव्यापाररूपा, तथा प्राणादिप्रेरिका सा अहन्ता जीवनाख्या मता | अथवा प्राणे स्थिता अहन्ता जीवनाख्या मता, अहन्ता कीदृशी ? पुर्यष्टकात्मिका, पुर्यष्टकरूपेत्यर्थः, इति | अथ तृतीयं श्लोकं व्याचष्टे एवम् इति | तावत् शब्दापेक्षितं वस्तु कथयति यत् इति | उभयात्मकम् - शून्यप्राणगताऽहन्तात्मकम्, मात्रचो व्याख्यां करोति शुद्धे इति | स्थिति पदं व्याचष्टे विश्रान्तिः इति | सत्यां यदहन्तायाः सुषुप्ताया बोधलक्षणं भावरूपं कर्म च क्रियास्वभावं तत् सौषुप्तम् | मलेन हि प्रमाता सुप्तः कलया त्वसुप्त इव, अत्र तन्निमज्जने [निमज्जनेन - K. ष्. ष्.] सुष्ठु सुप्तस्तस्य भावः कर्म वा, - इति | तत्र शून्यसौषुप्ते न किञ्चिद्व्यतिरिक्तं वेद्यम्, - इति मायीयमलाभावादपवेद्यं तत्; प्राणसुषुप्ते तु स्पर्शकृतस्य सुखदुःखादेर्भावात् मायाख्यमस्ति मलम्, - इति सवेद्यं तत् | एवं गाढागाढसुषुप्तद्वितयवत् प्रलयोऽपि मन्तव्यः | स परं देहादिप्रध्वंसानुदयकृतश्चिरतरकालश्च | सुषुप्तं तु देहाद्यनादरकृतमचिरकालं च, - इति विशेषः | तत्रापि श्रमकृतं निद्रा, धातुदोषकृतं मूर्च्छा, द्रव्यकृतं मदोन्मादादि, स्वातन्त्र्यकृतं समाधिः, - इत्याद्यवान्तरभेदाः | केचित्तु समाधिरूपं सवेद्यमन्यदपवेद्यम्, - इति प्रपन्नाः || १५ || नन्वेवं स्फुटवेद्यपदविनिर्मुक्ता सुषुप्तावस्थास्तु, स्वप्नजाग्रद्दशयोस्तु स्फुटवेद्यावभासयोगिन्योः को भेदः ? इत्याशङ्क्य श्लोकद्वयेन भेदमाह सप्तमीयोजनां करोति तस्यां सत्याम् इति | सौषुप्तम् इति भावे कर्मणि च व्याचष्टे अहन्तायाः इति | अहन्तायाः इति विशेष्याध्याहारः | सौषुप्तम् इति अन्यथा व्याचष्टे मलेन इति | अत्र - अस्यां सुषुप्तौ, तन्नि मज्जने - कर्तृरूपकलातत्त्वनिमज्जने सति | उत्तरार्धं व्याचष्टे तत्र इति | तत्र, सुसुप्तद्वयमध्ये इत्यर्थः | एतेन न किञ्चिदवेदिषम् इति शून्यसुषुप्तम् | सुख महमस्वाप्सम् इति प्राणसुषुप्तम् इति द्योतितम् | मध्ये त्यक्तं प्रलयोपमम् इति पदं व्याचष्टे गाढ इति | ननु तर्हि प्रलयसुषुप्तयोः एकत्वमेवायातमित्यत आह स परम् इति | अवरोहमपेक्ष्य अनुदय इत्युक्तम्, आरोहमपेक्ष्य प्रध्वंस इति प्रोक्तम् | अनादरः - निद्रादोषादिकृता उपेक्षा | सुषुप्तेऽपि हेतुभेदेन नामभेदानाह तत्रापि इति | द्रव्यम् - मद्यादि | अन्येषां मतमाह केचित्तु इति, प्रतिपन्नाः - अङ्गीकृतवन्तः || १५ || अथ षोडशस्य सप्तदशस्य च श्लोकस्यावतरणिकां करोति नन्वेवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे मनोमात्र इति | मनोमात्रपथेऽप्यक्षविषयत्वेन विभ्रमात् | स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् || १६ || सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा | सृष्टिः साधारणी सर्वप्रमातॄणां स जागरः || १७ || बाह्येन्द्रियाणि [बाह्येन्द्रियाधिष्ठानानि - K. ष्. ष्.] चक्षुर्गोलकादीनि निमीलितानि निद्रायमाणस्य लक्ष्यन्ते न च तेषु निमीलितेषु बाह्येन्द्रियग्रहणव्यापारो दृष्टः, तेन शुद्ध एव मनोमार्गे रूपस्पर्शादयो भावा अक्षग्रहणसमुचितेन स्पष्टेन वपुषा भासनयोग्याः परमेश्वरेण सृज्यन्ते, न त्वणुना, अनिष्टस्यैव दर्शनात्, इष्टस्यापि देशकालान्तरादियोगेन | अत एव मनोमात्रस्थितत्वादेव न प्रमात्रन्तरसाधारणीयं सृष्टिः | यत्तु तत्र बाह्येन्द्रियविषयत्वं प्रमात्रन्तरसाधारण्यं चकास्ति, तद्यद्यपि यावद्भाति तावत् तथैव, तथाप्युत्तरकालं प्रबुद्धस्य न तथा, - इति परामर्शेन तद्रूपं निर्मूलत्वेनावभाति, - अत्र टीका : - मनोमात्र इति व्याचष्टे बाह्येन्द्रियाणि इति | निद्रायमाणस्य - निद्रामाचरतः, शुद्धे - बाह्येन्द्रियस्पर्शानारूषिते | भावानाम् इति व्याचष्टे रूप इति | स्पष्टावभासा इति व्याचष्टे अक्ष इति | सृष्टिः इति व्याचष्टे सृज्यन्ते इति | नत्वणुना - अणुना जीवेन न तु सृज्यन्ते | कुतो न सृज्यन्ते इत्यत आह अनिष्टस्यैव इति कदाचित्स्वप्ने अनिष्टमेव केवलं दृश्यते अतो ज्ञायते तज्जीवेन न सृज्यते | न हि कस्यापि स्वानिष्टसर्जनं युक्तम् | यत्तु केनापि कारणेन तदेव दृश्यते तत्रेश्वरकृतत्वं स्फुटमेवेति | द्वितीयमपि हेतुमाह इष्टस्यापि इति | दर्शनात् इति अत्रापि संबध्यते | यदि स्वप्ने जीवस्य निर्मातृत्वं स्यात् तर्हि कदाचित् कुत्रचिदेवेष्टदर्शनमयुक्तं स्यादिति भावः | एतेन फलितं प्रसिद्धं वस्तु कथयति अत एव इति | इयम् - स्वप्नरूपा, न हि अन्यमनोगतमन्यस्य गोचरीभवितुं युक्तमिति भावः | विभ्रमात् अक्षविषयत्वेन इति व्याचष्टे यत्तु इति | तत्र - तस्मिन्स्वप्ने, चकास्ति - भासते | तथैव, सत्यभूतमित्यर्थः | न तथा इति परामर्शेन - जाग्रदवस्थायां स्थितेन इति भ्रान्तम् | यानि हि प्रमात्रन्तराणि स्वप्ने स्वेन्द्रियाणि च भान्ति, एतानि प्रबोधकालभाविभिरेव तैरभिन्नानि, - इति निश्चयः, प्रबोधकाले च न तथा, - इति निश्चयानुवृत्तिरपहृतैव | तेनोभयमपि भ्रान्तमुच्यते; भ्रान्तत्वमेव चास्थैर्यम् | एवमिन्द्रियाविषयत्वेनैवासाधारणत्वमाक्षिप्तम्, विभ्रमेणैव चास्थैर्यं....................| इति स्वकण्ठेन, तत् जाग्रत्प्रतियोगिधर्मनिरूपणावसरेऽपि न दर्शितम् | एवंभूता या सृष्टिः सा पशोः स्वप्नसमये भावात् स्वप्नपदं स्वप्नकाले विषयः इति, तथाभूतविषयं प्रमातृत्त्वं पशोः स्वप्नावस्था इति यावत् | अक्षग्रहणं बाह्येन्द्रियदशकस्योपलक्षणम् | असत्यत्वपरामर्शेन, तद्रूपम् - स्वप्नपदार्थरूपम्, निर्मूलत्वेन - बाध्यत्वेन, इति - अतः कारणात्, भ्रान्तम् - भ्रमसिद्धम् | तदुक्तम् :- स्वप्नो जाग्रत्यसद्रूपः इति | यत्तु जाग्रत्स्वप्नोऽप्यसद्वपुः इति नीत्या जागरस्याप्यसत्यत्वमेव तदिह अप्रस्तावहतमिति न वक्तुं युक्तम् | कथं भ्रान्तमित्यपेक्षायामाह यानि इति | तैः - प्रमात्रादिभिः, प्रबोधकाले च न तथा इति, मया यत्स्वप्ने दृष्टं तत् तथा न भवति | एवं निश्चयानुवृत्तिः - स्वप्ननिश्चयानुवर्तनम्, अपहृतैव - उन्मूलितैव भवति | तेन - ततः कारणात्, उभयमपि - प्रमात्रन्तराणि इन्द्रियाणि च, स्वप्ने भ्रान्तम् - भ्रमसिद्धमुच्यते | ननु तत्र अस्थैर्यत्वं कथमस्तीत्यत आह भ्रान्तत्वमेव इति | उपसंहारं करोति एवम् इति | तत् - असाधारणत्वम् अस्थैर्यञ्च, जाग्रतः - जाग्रद्दशायाः प्रतियोगिभूताः - प्रतिपक्षत्वेन स्थिताः ये धर्माः - असाधारणत्वादिरूपाः धर्माः, तेषां यन्निरूपणं तस्य अवसरे | स्वकण्ठेन न दर्शितम् - साक्षान्नोक्तम् | न हि आक्षेपमात्रसिद्धे यत्नो युक्त इति भावः | स्वप्नपदम् इति व्याचष्टे स्वप्नकाले इति | पदम् इत्यवयवं व्याचष्टे विषयः इति | अत्र पर्यायान्तरमाह तथाभूत इति | अक्ष शब्दस्य दशेन्द्रियोपलक्षणत्वं कथयति अक्षग्रहणम् इति | यत्र तु बाह्याक्षविषयं सर्वप्रमातृसाधारणत्वं च निश्चयानुवृत्त्या बाधारहितया परमार्थत्वेन चकास्ति, तत एव स्थैर्य विषयस्य सा सृष्टिः पशोः जागरः; तद्विषयं प्रमातृत्वं जागरावस्था, - इति यावत् | यावच्चानुवृत्तिस्थैर्यं निश्चयस्य चकास्ति तावज्जागरः | तन्मध्ये [तन्मध्ये एव च - K. ष्. ष्.] च निश्चयानुवृत्तिनिर्मूलनात् स्वप्नः, - इत्यवभाससारत्वात् वस्तूनां, स्वप्नेऽपि दीर्घे यत्र स्वप्नान्तरं स तदपेक्षया जाग्रदेव; जाग्रदभिमतमपि वा दीर्घदीर्घं कालान्तरे निश्चयानुवृत्तिनिरोधाज्जाग्रदन्तरापेक्षया स्वप्न एवेति मन्तव्यम् || १७ || आसां तिसृणां हेयत्वप्रदर्शनेन तुर्यावस्थातः प्रभृत्युपादेयत्वं सूचयति द्वितीयं श्लोकं व्याचष्टे यत्र तु इति | अनुवृत्तिरूपं स्थैर्यम् अनुवृत्तिस्थैर्यम् | जाग्रन्मध्येऽपि स्वप्नं साधयति तन्मध्ये इति | तन्मध्ये च - जाग्रन्मध्ये च, निश्चयानुवृत्तिनिर्मूलनात् - तत्कालजातनष्टवस्तुविषयनिश्चय - निर्मूलनेन, स्वप्नः इति भवति | कुतः ? वस्तूनामवभाससारत्वात्, यथावभासमेव हि वस्तूनि व्यवस्थाप्यन्ते इति भावः | स्वप्नमध्येपि जाग्रत्साधयति यत्र इति | स्वप्नान्तरम् - अन्यः स्वप्नः | नन्वस्य स्वप्नस्य जागरत्वं स्फुटमेवास्तीति कथं स्वप्नव्यवहारः इत्यत आह जाग्रदभिमतमपि इति | जाग्रत् इति अभिमतं जाग्रदभिमतम् | कालान्तरे - स्वप्नद्वयात्प्रबोधसमये | तदुक्तं श्रीवशिष्ठेन :- जाग्रच्चेत्क्षणदृष्टं स्यात्स्वप्नः कालान्तरस्थितः | तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमेव च || इति || १७ || अथाष्टादशस्य श्लोकस्यावतरणिकां करोति आसाम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे हेया इति | हेया त्रयीयं प्राणादेः प्राधान्यात्कर्तृतागुणे | तद्धानोपचयप्रायसुखदुःखादियोगतः || १८ || यत्रायं प्रमाता त्यागोपादानतदिच्छाप्रयत्नादिकं परिक्लेशं पश्यति, तदेवास्य हेयतया भाति | स चास्य सुखदुःखयोगवैचित्र्येणैव कृतः, तच्चैतदवस्थात्रये संभवति; यतः कर्तृतारूपं स्वात्मविश्रान्त्यनन्यौन्मुख्यलक्षण- मानन्दैकघनं [स्वात्मविश्रान्त्यानन्यौन्मुख्य - K. ष्. ष्.] यच्चिन्मयं वपुः, तद्यदा प्राणादिमत् शून्यपूर्यष्टकदेहादिभूमिषु [प्राणादिवृत्तिशून्य - K. ष्. ष्.] गुणतामभ्येति, तदा तस्मिन् गुणीभूते प्राणादेः प्राधान्यं स्फुरति | तथा च तस्य चिद्रूपस्य यथा यथा हानिस्तथातथा दुःखोपचयो, यथायथा किञ्चिदुन्मज्जनं तथातथा सुखोपचयः | तथाहि बुभुक्षाकाले प्राणस्यैवोद्रेकात् दुःखं, तृप्तौ तस्य न्यग्भावादहन्तोद्रेके सुखं युक्तम् [सुखम् | एवं - K. ष्. ष्.] एवं श्रान्तस्य मर्दनामर्दने देहप्राधान्याप्राधान्ये मन्तव्ये | अत्र टीका : - श्लोकं व्याख्यातुं प्रक्रियां करोति यत्र इति | आदि शब्देन सुखादिग्रहणम्, स च - परिक्लेशश्च, अस्य - प्रमातुः | तच्चैतत् - समनन्तरोक्तं त्यागोपादानतदिच्छादिकम्, अवस्थात्रये - जाग्रत्स्वप्नसुषुप्तरूपे | कुतः संभवतीत्यपेक्षायामाह यतः इति | स्वात्मनि - चिद्रूपे स्वात्मतत्त्वे या विश्रान्तिः - अहंपरामर्शरूपो विश्रामः, तत्र यत् अनन्यौन्मुख्यम् - परापेक्षाराहित्यम्, तदेव लक्षणम् - स्वरूपं यस्य तादृशम् | तत् - चिन्मयं वपुः, प्राणादिमत् - जीवनाख्यवृत्तिमत् सत्, गुणताम् - गुणभावम् | ननु तेन किं सेत्स्यतीत्यत आह तथा च, इति | तथा च, प्राणादिप्राधान्ये सतीत्यर्थः | हानिः - गुणीभावः, प्राणादिभावे न्यग्भावनमिति यावत् | कथमित्यपेक्षाया समर्थनं करोति तथाहि इति | तस्य - प्राणस्य, प्राण प्रमातुः, युक्तम् - न्याययम् | देहप्रमातर्यतिदिशति एवम् इति | श्रमसमये देहस्य प्राधान्यम् मर्दनसमये अप्राधान्यमिति क्रमो - यस्तु समावेशतत्त्वज्ञस्तस्य तत्काले [तत्तत्काले - K. ष्. ष्.] दुःखानुदय एव | यदाह दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते | आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः || (स्प. ३ ८) इति | एवं प्राणादेः प्राधान्ये कर्तृताया गुणभावे सुखदुःखवैचित्र्यशतयोगः प्रयासभूमिः, - इति जाग्रत्स्वप्नसुषुप्ते प्राणादिप्राधान्यं कर्तृतान्यग्भावश्चास्ति, - इति तत् त्रयमेव हेयम् | कर्तृताप्राधान्योन्मेषात्तु तुर्यरूपात्प्रभृति तत्स्थैर्यात्मकतुर्यातीतदशान्तमुपादेयम्, एकरसानन्दघन - ज्ञेयः | ननु सर्वेषां देहादिप्राधान्यं सममेवास्ति उत न इत्यपेक्षायामाह यस्तु इति | समावेशस्य - समनन्तरोक्तस्य तत्त्वं जानातीति तादृशः | तत्काले - बुभुक्षादिवशागतप्राणादि- प्राधान्यकाले | अथ श्रीस्पन्दवाक्यमुदाहरति दुर्बलोऽपि इति | अस्यैव श्लोकस्य तृतीयं पादमाह आच्छादयेत् इति | तत्र प्रथमे पादे सहजस्वरूपनिभालनक्ष?मस्य समावेशतत्त्वज्ञस्य क्षीणतासमये देहप्राधान्यनिवारणम् | तृतीयेन तु वभुक्षासमये प्राणप्राधान्यनिवारणम् सामान्यदृष्टान्तेन निर्वाहितम् | उक्तप्रक्रियावष्टम्भेन श्लोके योजनां करिष्यन् उपसंहारं करोति एवम् इति | एवम् - उक्तन्यायेन, प्राणादेः प्राधान्यात् इति व्याचष्टे प्राणादेः प्राधान्ये इति | कर्तृतायाः - अहन्तायाः, कर्तृतागुणे इति व्याचष्टे कर्तृताया गुणभावे इति | द्वितीयमर्धं व्याचष्टे सुख इति | इयं त्रयी हेया इति व्याचष्टे जाग्रत् इति | तत्त्रयम् - जाग्रदादिरूपं त्रयम् | एतेन फलितं तुर्यतदतीतयोरुपादेयत्वं कथयति कर्तृता इति | कर्तृताप्राधान्योन्मेषात् - पराहन्ता प्राधान्यप्रादुर्भावात्, तत्स्थैर्यात्मिका या तुर्यातीतदशा तदन्तम् तत्स्थैर्यात्मक - तुर्यातीतदशान्तम् | कुतः उपादेयत्वमित्यत आह एक इति | एकरसः - महाद्वैतमयः तथा आनन्दघनः यः स्वभावः - सहजं रूपम् तस्य लाभे सति, उपादित्साजिहासयोः - वस्तुविषययोः उपादानेच्छाहानेच्छयोः यत् वैवश्यम् - विवशता तस्य प्रशमात्, तुर्यतदतीतयोर्हि सहजस्वरूपलाभेन वस्तुविषयाः हानो - पादानेच्छाः न स्फुरन्त्येव | स्वभावलाभे उपादित्सा - जिहासा - वैवश्य - परिश्रम-प्रशमात्, - इति तात्पर्यम् || १८ || ननु प्राणादिप्राधान्यं हेयतायां कारणमुक्तं तच्चेज्जाग्रदादित्रय एव तर्हि तुर्यादौ तदभावात् तत्समावेशे व्युत्थानानुपपत्तिः, - इति श्लोकद्वयेन शङ्का परिहरति | प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः | तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्विव || १९ || मध्योर्ध्वगाम्युदानाख्यस्तुर्यगो हुतभुङ्मयः | विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः || २० || प्राण इति प्राणापानरूपा [प्राणनरूपा - K. ष्. ष्.] जीवनस्वभावा येयं चिद्रूपस्य स्थितिः, सा तावत्सामान्यपरिस्पन्दरूपा, देहप्राणादेरचेतनस्य चेतना एवमत्र संक्षिप्तार्थः | पुरुषेण इयं त्रयी - जाग्रदादित्रयम्, हेया, कुतः ? प्राणादेः प्राधान्यात्, तथा कर्तृतागुणे भावप्रधानो निर्देशः, पराहन्तायाः अप्रधानत्वे सति, तत् हानोपचयप्रायम् - प्राणहानोपचयरूपं यत् सुखदुःखादि तस्य योगतः - योगात् || १८ || अथैकोनविंशविंशयोः श्लोकयोरवतरणिकां करोति ननु इति | अत्र टीका : - तदभावात् - प्राणापानादिप्राधान्याभावात्, तत्समावेशे - चित्तत्त्वलयरूपे प्राणादिसमावेशे, व्युत्थानानुपपत्तिः - व्युत्थानायोग्यता स्यात्, पुनः प्राणादि - निष्ठैव व्युत्थानमितिभावः | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे प्राण इति | अत्र टीका : - प्राणापानमयः प्राणः इति व्याचष्टे प्राणापान इति | जीवन स्वभावा - जीवनरूपा स्थितिः भवतीति संबन्धः | सा - प्राणापानरूपा चिद्रूपस्य यमानतासंपादनात्मिका अहमितिस्वातन्त्र्यारोपसारा [अहम् इति स्वातन्त्र्यारोपसारा - K. ष्. ष्.] सती विकल्पपरामर्शमयी [विकल्परूपपरामर्शमयी - K. ष्. ष्.] सैव प्राणापानादिविशेषात्मना [प्राणादिविशेषात्मना - K. ष्. ष्.] पञ्चरूपतां भजते | तत्र किञ्चिज्जहती क्वचित्पतन्ती च श्वासनिःश्वासरूपा [प्रश्वासनिःश्वासरूपा - K. ष्. ष्.] क्रमेण प्रणात्वमपानत्वं च विशेषं दर्शयति | तदिदं विशेषद्वयं जाग्रति तावत् स्फुटमेव देहात् प्रसृत्य विषये विश्रान्तेः, ततोऽपि देहे; स्मृत्यादौ वाभ्यन्तरे वेद्ये विश्रान्तेः प्राणापानयोः सुस्पष्टत्वात् | स्वप्नेऽपि तद्द्वयमस्त्येव; स्वपतोऽपि हि प्राणापानौ निर्गमप्रवेशात्मानौ स्फुटमेव परेण [स्फुटमेवापरेण - K. ष्. ष्.] लक्ष्येते | स्वयमेव च वेद्यसंवेदनात् त्यागोपादानरूपा स्थितिः स्थितिः, चेतनायमानतासंपादनात्मिका - चेतनीभवनसंपादनस्वरूपा, चिदावेशेनैव हि प्राणादि चेतनीभवति | अहम् इति यः स्वातन्त्र्येण आरोपः - प्राणादौ आरोपणम् सः सारः यस्याः सा तादृशी, विकल्पपरामर्शमयी - द्वयाक्षेपित्वेन विकल्परूपाहंपरामर्शरूपा भवतीति योजना | सैव - चिद्रूपस्य स्थितिरेव, प्राणापानादिविशेषात्मना - प्राणापानोदानसमानव्यानभावेन, तत्र - पञ्चरूपमध्ये, सा चिद्रूपस्य स्थितिः किञ्चित् - हृद्देशाख्यं परिमितं वस्तु, जहती सती अत एव श्वासनिःश्वासरूपा सती क्रमेण पाणत्वम् - प्राणभावम्, अपानत्वम् - अपानभावम् च दर्शयति, बहिर्निर्गमकारी हि प्राणः अन्तःप्रवेशकारीत्वपानः | प्रत्येकं सुप्तजाग्रतोः इति व्याचष्टे तदिदम् इति | तत् - पूर्वोक्तम्, विशेषद्वयम् - प्राणापानरूपं भेदद्वयम्, तावत् इति, नात्र कस्यापि विप्रतिपत्तिरिति भावः | प्रसृत्य - नासिकाद्वारेण, अधोद्वारेण द्वादशान्तं तावत् निर्गत्य, विषये - बाह्यवाते | जाग्रति प्राणापानसत्तामुक्त्वा स्वप्नेऽपि कथयति स्वप्नेऽपि इति | परेण - अन्येन जाग्रता, वेद्यसंवेदनात् - स्वप्न स्थवस्त्वनुभवात्, त्यागोपादानरूपा - हृद्देशत्यागोपादनस्वरूपा, स्थितिः संवेद्यत एव, तेन प्राणना प्राणापानविशेषद्वयमयी जाग्रति, तथा स्वप्ने; सुप्तं स्वप्नः, तदेव तु यदा सुतरां पुष्टं भवति, तदा सुषुप्तः प्रमाता, तस्येदं सौषुप्तं पदम् | तत् द्विविधमपि समानाख्यरूपविशेषं [समानरूपं विशेषम् - K. ष्. ष्.] प्राणीयं स्वीकरोति | सवेद्ये तावत्सुषुप्ते यद्यपि प्राणापानस्पन्दो लक्ष्यते, तथापि तयोर्मध्ये या विश्रान्तिर्हृदयसदने निरिन्द्रिये प्रदेशे तदेव मुख्यतः सुषुप्तमिति | तत्र प्राणापानयोर्यश्छेदो विश्रान्तिः कंचित्कालं तदात्मा सकलरसादिवर्गस्योर्ध्वाधर- तिर्यक्षु समानीकरणव्यापारात्मा, तत एव हृत्पद्मविकासदानाद्भुक्तपीतजरणकारी समानो दिनरात्रिरूपयोः प्राणापानयोः कंचित्कालं साम्याद्विच्छेदाच्च विषुवत्कालतुल्यः | विषुं व्याप्तिं समानीकरणमर्हति, - इति, तदर्हम् (पा. सू. ५/१/११७) इति वतिः | प्राणापानयोः सत्ता, संवेद्यते - ज्ञायते एव, प्राणचारं विना वेद्यसंवेदनायोगात् | फलितमाह तेन इति | प्राणना - प्राणनरूपा चिद्रूपस्य स्थितिः, तथा स्वप्ने इति | तथा - तद्वत्, स्वप्ने प्राणनरूपा चिद्रूपस्य स्थितिः प्राणापानविशेषद्वयमयी भवति | द्वितीयमर्धं व्याचष्टे सुप्तम् इति | तदेव - सुषुप्तमेव, तस्य - प्रमातुः, सम्बन्धि इत्यर्थः | तत् - सौषुप्तपदम् | एतेन सौषुप्ते इत्यस्य व्याख्या कृता | अपि शब्दः साकल्ये, समानाख्यो यः रूपविशेषस्तम् समानाख्यरूपविशेषम्, प्राणीयम् - प्राणसम्बन्धि, सवेद्ये - वेद्यसहिते सुखमहमस्वाप्सम् इत्यौत्तरकालिक परामर्शानुमेये, तयोः - प्राणापानयोः, छेदे इत्यवयवं व्याचष्टे विश्रान्तिः इति | कञ्चित्कालम् इति, यावत् न किञ्चिद्रूपता भवति तावत्कालमित्यर्थः, तदात्मा - छेदात्मा, रसादि इति, आदिशब्देन अन्नादिग्रहणम् | तत एव - समानीकरणव्यापाराद्धेतोरेव, भुक्तपीतयोर्यज्जरणम् - जीर्णतापादनम् तत्करोतीति तादृशः | विषुवत्स्विव इति व्याचष्टे दिन इति | दिनरात्रिरूपयोः - उष्णशीतत्ववशेन दिनरात्रिरूपयोः, साम्यात् - समत्वाद्धेतोः, विच्छेदाच्च - हृद्देशे विश्रान्तेश्च, विषुवत्कालतुल्यः - विषुपदाख्यकालसदृशः, तत्र हि दिनरात्र्योः समत्वमेव भवति | विषॢ व्याप्तौ इति घात्वाश्रयणेन विग्रहं करोति विषुम् इति | व्याप्ति पदस्यापि लक्षणामाश्रित्य पर्यायमाह समानीकरणम् इति | असमानानां उपमाने वतेरेव चाव्ययत्वम् उद्वतो निवतः इति प्रयोगात्; तद्धि न्यायसिद्धं न वाचनिकम् | विशेषं वा दिनरात्रितदूनाधिकत्वलक्षणं सुवति प्रेरयत्यविरतम्, - इति शतरि विषुवत् | तत्र च विषुवति विच्छिद्यमानस्य प्राणापानस्य संस्काररूपतया सद्भावः, सैव हि विच्छेदो न तु सर्वात्मना नाशोऽस्ति, - इत्युक्तमसकृत् | ततश्च हानादानयोर्बीजरूपता समानतासंपादनं समानीकरणम्, तच्च व्यापकस्य न संभवति | नन्वत्र केन सूत्रेण वतिरित्यपेक्षायामाह तदर्हम् इति | अनेन सूत्रेणेत्यर्थः | नन्वत्राव्ययत्वेन सप्तमी बहुवचनं न प्राप्नोति इत्यत आह उपमाने इति | प्रयोगात्, एतद्वैदिकप्रयोगद्वयदर्शनाद्धेतोरिति भावः | अन्यथा अत्र षष्ठ्येकवचनान्तत्वं युक्तं न स्यादित्याशयः | उदः नेश्च [निरश्च - C.] उपसर्गाच्छन्दसि धात्वर्थे इति वतिः, ततः षष्ठ्येकवचनम् ङस् | ननु कुतः उपमानवतेरेवाव्ययत्वम इत्यत आह तद्धि इति, तत् - अव्ययत्वम्, न्यायसिद्धम् - तद्धितश्चासर्वविभक्तिः इति न्यायेन सिद्धमित्यर्थः | वाचनिकम् - पारिभाषिकम्, षु प्रसवैश्वर्ययोः इति धात्वाश्रयणेन विग्रहं करोति विशेषम् इति - वि इत्युपसर्गं व्याख्याय तं स्फुटीकृत्य दर्शयति दिन इति | वा पक्षान्तरे | दिनरात्री च तदूनाधिके च, भावप्रधानो निर्देशः, दिनरात्री तदूनाधिकत्वे च लक्षणम् - स्वरूपं यस्य तादृशम्, प्रेरयति - निवारयति | विषुवत्समये हि कालः सर्वो गलत्येव, अन्यथा आगमशास्त्रेषु तत्रावधानम् अवश्यानुष्ठेयतया न ब्रूयात्, शतरि - विपूर्वात् षुवतेः शतृप्रत्यये विहिते इदं पदं सिध्यतीत्यर्थः | ननु तत्र प्राणापानविगलनेन तुर्यतैवापतेत् इत्यत आह तत्र च इति | विच्छिद्यमानस्य - हृद्देशे विश्रान्ति भजतः, प्राणापानस्य इति समाहारे द्वन्द्वः | सैव - संस्काररूपतैव, तदुक्तम् :- नाभावो विद्यते सतः इति | फलितमाह ततश्च इति | हानादानयोः - प्राणापाननिष्ठयोः हृद्देशत्यागादानयोः | सुषुप्तेः; इयति च सर्वः प्रलयाकलान्तः पशुवर्गः | यदा तु सा प्राणनावृत्तिर्वामदक्षिणमार्गौ खिलीभावयन्ती मध्यरूपेणोर्ध्वेन प्रवहति, तदा तत्प्रवहणं सकलस्य भेदस्याभेदसारतादानलक्षणं विलापनमाश्यानस्येव सर्पिषो विदधती उदानवृत्तिर्विज्ञानाकलादारभ्य सदाशिवान्तम्, सा च तुर्यात्मिका दशा | मायोर्ध्वे हि विज्ञानाकलाः, - इति ततःप्रभृति भेदगलनं प्रवर्तते | विलीने तु भेदे सर्ववेद्यराशिरूपतत्त्व- भूतभुवनवर्गात्मकदेहव्यापनरूपेण [.........वर्गात्मकदेहव्यापाररूपेण - K. ष्. ष्.] प्राणवृत्तिर्व्यानरूपा विश्वात्मकपरमशिवोचिता तुर्यातीतरूपा | प्राण एव प्रमाता प्राणापानरूपः समानरूप उदानरूपो व्यानरूपश्च, - इति सामानाधिकरण्यम्, नन्वत्र केषां स्थितिरित्यत आह इयति च इति | अन्तः इत्यनेन विज्ञानाकलानामप्यत्र लेशतः स्थितिरस्त्येवेति द्योतितम् | द्वितीयं श्लोकं व्याचष्टे यदा तु इति | प्राणनावृत्तिः - चिद्रूपस्य प्राणनाख्या स्थितिः, खिलीभावयन्ती - न्यग्भावयन्ती, उपेक्षाविषयतां नयन्तीति यावत् | मध्यरूपेण - सुषुम्णाख्यनाडीस्वरूपेण, ऊर्ध्वेन, अतिश्रेष्ठत्वात् ऊर्ध्वदेशरूपेणेत्यर्थः | विलापनम् - लयीकरणम्, आश्यानस्य - घनीभूतस्य, उदानवृत्तिः - उदानाख्यः प्राणव्यापारो भवति | ननु तस्याः प्रचारः कुत्रेत्यपेक्षायां विज्ञानाकल इति पदं व्याचष्टे लक्षणया विज्ञान इति | मध्यगानां मंत्रादीनामुदानवृत्तिविषयत्वम् अयत्नसिद्धमेव ज्ञेयम् | साच - प्रोक्ता उदानवृत्तिश्च, ततः प्रभृति - विज्ञानाकलात् प्रभृति, आश्यानस्य सर्पिष इव इत्यनेन हुतभुङ्मयः इति पदं सुचनया व्याख्यातम् | हुतभुजैव आश्यानीभूतं सर्पिर्लीयते, मध्यनाड्याश्च अग्निनाडीत्वमागमेषु प्रसिद्धम्, वामदक्षिणनाड्योस्तु सोमसूर्यनाडीभावः | व्यानः इति श्लोकखण्डं व्याचष्टे विलीने तु इति | सर्ववेद्यराशिरूपः यः तत्त्वभूतभुवनवर्गात्मकः - तत्त्वादिरूपः देहः तत्र यद् व्यापनं तेन रूपेण, परमशिवोचिता - शिवशक्त्यैक्यरूपपरमशिवयोग्या, तुर्यातीतरूपा, तुर्यातीतदशारूपा भवतीत्यर्थः | इति - अतः कारणात्, सामानाधिकरण्यम् सूत्रे एकया प्रथमाविभक्त्या निर्देशः | विज्ञानाकलश्चासौ [सामानाधिकरण्यात् विज्ञानाकलश्चासौ मन्त्रश्चासौ - K. ष्. ष्.] मन्त्रश्चासौ वर्गापेक्षया, ईशश्च सदाशिवेश्वररूपो योऽसौ, - इति स उदानः एतदुक्तं भवति, यद्यपि तुर्यतदतीतयोरप्यस्ति प्राणना - अन्यथा जीवत्वस्य व्युत्थानस्य चानुपपत्तेः - तथापि भेदोपसंहारेणाभेदविश्रान्ति- प्रधानत्वादनयोर्दशयोः [अभेदविश्रान्तिप्राधान्यात् - K. ष्. ष्.] सुखदुःखादिवैचित्र्यायोगात् एकघनस्वात्म विश्रान्त्यात्मकपरमानन्दमयत्वेनोपादेयतैव | सुषुप्तादौ तु संस्काररूपत्वास्फुटवेद्योल्लासस्फुटवेद्यावभासरूपस्य भेदस्य विद्यमानत्वात् अस्ति सुखदुःखादिवैचित्र्यम्, - इति हेयतैव, - इति युक्तमुक्तं हेया त्रयीयम् इत्यादि | भगवतश्च विश्वशरीरस्य प्राणापानसमानोदानव्यानरूपतैव [प्राणापानसमानोदानव्यानरूपतयैव - K. ष्. ष्.] सकलगतोल्लासप्रवेशप्रलयाकलविज्ञानाकलादिवर्गशिवरूपता [विज्ञानाकलादिवर्गसदाशिवरूपता - K. ष्. ष्.] - इत्यप्यनेन दर्शितम् | यथोक्तम् ईशः कुतः ? सदाशिवेश्वररूपतया, इति योज्यम् | इति उदानः - विज्ञानाकलमन्त्रेशः उदानो भवतीत्यर्थः | एतेन विज्ञानाकलमंत्रेशः इत्यत्य कर्मधारयमाश्रीत्य विग्रहः | अभिप्रायकथनं प्रतिजानीते एतदुक्तं भवति इति | एतच्छब्दाकांक्षां पूरयति यद्यपि इति | प्राणना - जीवनरूपः प्राणव्यापारः | अन्यथा - प्राणनाभावे, भेदोपसंहारेण - भेदगलनात्, अभेदविश्रान्तिप्रधानत्वात् इत्यनेन गौणत्वेन देहस्वभाववशेन भेदविश्रान्तिरपि भवेदिति सूचितम् | अनयोर्दशयोः - तुर्यतदतीतरूपयोः | ननु सुषुप्तादौ कथमनुपादेयता अस्तीत्यत आह सुषुप्तादौ [आसुषुप्तादौ - C.] इति | संस्काररूपत्वेन यः अस्फुटवेद्योल्लासः स एव स्फुटं कृत्वा वेद्यवभासः सः रूपं यस्य तादृशस्य | अभिप्रायान्तरमाह भगवतश्च इति | भगवतः - परमशिवस्य, च समुच्चये, विश्वशरीरस्य - शिवादिधरण्यन्तषट्त्रिंशत्तत्त्वात्मकजगच्छरीरस्य, प्राणापानसमानोदानव्यानरूपतैव - सकलप्रलयाकलविज्ञानाकलादिवर्गशिवरूपता भवति, आदि शब्देन षट्त्रिंशदात्मकं विश्वं शम्भोः प्राणादिशक्तयः | इति || २० || आदितः १७१ || मन्त्रादिग्रहणम् | इत्यपि - एतदपि, अनेन - सूत्रेण, दर्शितम् - सूचनया प्रकटीकृतम् | न केवलमवस्थापञ्चकस्य हेयोपादेयतामात्रं अपि तु प्राणापानादेः सकलादिरूपताऽपि दर्शिता इति अपि शब्दाभिप्रायः | तत्र प्राणापानरूपतायाः सकलरूपता, समानरूपतायाः प्रलयाकलता, उदानरूपतायाः विज्ञानाकलादिवर्गरूपता, विज्ञानाकलमंत्रमण्त्रेश्वरमंत्रमहेश्वररूपता, व्यानरूपतायाः शिवरूपतेति विभागः | भेददर्शने तु मुखनासिकाभ्यां निष्क्रमणात् प्राणः, रसस्याधोनयनात् अपानः, तस्यैव समीकरणात् समानः, तस्यैवोर्ध्वनयनात्, उदानः, तस्यैव गर्भनाडीवितननात् व्यानः इत्येवं शरीरमात्रगतत्वेनेव प्राणादिपञ्चकनिर्णयः इति | आगमं संवादयति यथोक्तम् इति | इति शब्दः आगमावाक्यसमाप्तौ आह्निकव्याख्यासमाप्तौ च | शिव पदं मङ्गलवाचकम् परतत्त्वसूचनपरञ्च | एवमत्र श्लोकद्वये संक्षेपः | सुप्तजाग्रतोः प्राणः जीवनम्, प्रत्येकं प्राणापानमयः, स्फुटं दर्शनात्, सः प्राणः सौषुप्ते - सुषुप्त्यवस्थायाम्, तच्छेदात्मा - प्राणापानच्छेदरूपः समानाख्यो भवति, तत्र हि किञ्चित्कालमपानो हृद्देश एव लीनो भवति, प्राणस्तु नोत्तिष्ठति, तदुक्तम् : - यदा प्राणः पुरीतति प्रविशति तदा सुषुप्तिः इति | सौषुप्ते केष्विव ? विषुवत्स्विव - विषुपदेष्विव, तत्रापि हि दिनरात्र्योः कञ्चित्कालं समतैव भवति इति तत् उपमानत्वेन गृहीतम् | उदानाख्यः प्राणः तुर्यगः भवति | कीदृशः ? मध्यैव - मध्यनाडी एव ऊर्ध्वम् - ऊर्ध्वदेशः तत्र गच्छतीति तादृशः, तथा हुतभुङ्मयः - अग्निरूपः, अग्निनाडीगतत्वात्, तथा सः उदानः विज्ञानाकलमन्त्रेशः भवति | व्यानः - व्यानाख्यः प्राणः, परः परशिवरूपो भवति, अत एव विश्वात्मकः - सर्वस्वरूपः, अत एव च तदतीतमत्वमस्य अर्थात् ज्ञेयम् | इति शिवम् | इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीको- पेतायामागमाधिकारे प्रमातृतत्त्वनिरूपणाख्यं द्वितीयमाह्निकम् || २ || संपूर्णश्चायमागमाधिकारस्तृतीयः || इति श्रीमत्काश्मीरमण्डलान्तर्वर्त्याराध्यपादश्रीवैडूर्य- कण्ठात्मजश्रीमदवतारककण्ठपुत्रश्रीमद्भास्करकण्ठ- विरचितायां श्रीप्रत्यभिज्ञाविमर्शिनीटीकायां श्रीभास्कर्याख्यायामागमाधिकारे द्वितीयमाह्निकं समाप्तम् | समाप्तश्चायं तृतीयो विमर्शः | इति शिवम् | तत्त्वानां प्रविवेचनं कृतमिदं यत्रास्ति सम्यक्तया व्याख्यातो ननु भास्करेण स इहाध्यायस्तृतीयः स्फुटम् | सद्युक्त्यागमनामधेयसहितो बुद्ध्याधिकारो मया श्रीमत्सद्गुरुसंप्रदायवशतः शास्त्रानुसारात्तथा || नाभिमानो मनः कार्यो शिवः कर्तात्र यत्स्थितः | तदैक्येनाभिमानस्ते यद्यस्त्यस्तु स शोभनः || शिवः कर्ता शिवो द्रष्टा शिवः पाठक एव च | व्याख्याता च शिवः प्रोक्तः शिवार्पणमिति स्फुटम् || तत्त्वसङ्ग्रहाधिकारे प्रथममाह्निकम् विमर्शिनी अनन्तमानमेयादिवैचित्र्याभेदशालिनम् | आत्मानं यः प्रथयते भक्तानां तं स्तुमः शिवम् || भास्करी अनन्तमेयादिविचित्रतायामेवैकतां यो महतीं बिभर्ति | पूर्णातिपूर्णो भगवान् न किञ्चिद्रूपः स आश्चर्यमयः शिवोऽव्यात् || अथैकाह्निकरूपस्य चतुर्थविमर्शस्य आगमार्थसङ्ग्रहाधिकाराख्यस्य निर्विघ्नसमाप्तये एवं स्वसंवेदनोपपत्त्यागमसिद्धं महेश्वररूपमात्मस्वरूपं यदधिकारत्रयेण वितत्य निर्णीतं तदेव संक्षेपेण शिष्यबुद्धिषु निवेशयितुमागमार्थसंग्रहं श्लोकाष्टादशकेन दर्शयति स्वात्मैव सर्वजन्तूनाम इत्यादिना उत्पलेनोपपादिता इत्यन्तेनैकेनाह्निकेन | तत्र श्लोकेन पारमार्थिकं रूपमुक्ता श्लोकनवकेन बन्धस्वरूपं प्रमातृप्रमेयतत्त्वदर्शनदिशा, सप्तकेन प्रत्यभिज्ञात्मकं मोक्षतत्त्वं, श्लोकेनोपसंहारं दर्शयति, - इति तात्पर्यम् | ग्रन्थार्थस्तु निरूप्यते | स्वात्मैव सर्वजन्तूनामेक एव महेश्वरः | विश्वरूपोऽहमिदमित्यखण्डामर्शबृंहितः || १ || प्रचयगमनाय च स्वान्तरनुष्ठितमपि बहिः शिष्यशिक्षार्थं परतत्त्वानु स्मरणरूपं मङ्गलं सकलाधिकारतात्पर्यसूचकश्लोकेनोपनिबध्नाति अनन्त इति | वयं तं शिवम् स्तुमः | तं कम् ? यः शिवः भक्तानाम् - अतितीव्रशक्तिपाताघ्रातहृदयत्वेन समावेशरूपभजन- शालिनाम्, अनन्तमानमेयादिनां यद् वैचित्र्यम् - विचित्रता, नानात्वेन स्पूर्तिरिति यावत्, तदेवाभेदः - स्वान्तःकृतद्वैताद्वैतरूपातिपूर्णतास्वभावं महाद्वैतम्, तेन शालते इति तच्छीलम् | आत्मानम् - पूर्णप्रकाशरूपम् स्वरूपम् | प्रथयते - स्वप्रकाशत्वेन स्वयं प्रथनशीलं सत् तत्समर्थाचरणरूपप्रयोजकव्यापारेण तत्र प्रेरयति | राहोः शिर इतिवत् प्रयोगः | न हि स्वस्मात् कोऽपि भिन्नः, तद्द्वारेण तद्व्यतिरेको वा | अद्वैतप्राप्तप्रतिष्ठा भक्ता हि द्वैतावस्थायां महाद्वैतं पश्यन्ति | तदुक्तम् : - भुक्त्वा भोगान् भवभ्रान्ति हित्वा लप्स्ये परं पदं | इत्याशंसेह शोभेत शम्भोर्भक्तिमतः परम् || एवं मङ्गले कृते एकाह्निकरूपाधिकारतात्पर्यं समस्तव्यस्तत्वाभ्यां कथयति एवम् इति | अत्र टीका : - स्वसंवेदनोपपत्त्या - स्वानुभवयुक्त्या, निवेशयितुम् - संक्रामयितुम्, अथावतरणिकां विना प्रथमश्लोकमुपन्यस्य व्याचष्टे स्वात्मैव इति | इह जडास्तावच्चेतननिमग्ना एव भान्तिः; इदमिति हि जडपरामर्शोऽहमिति संवित्परामर्श एव विश्राम्यति | ततश्च जडा निरात्मान इति जन्तव एव जीवाः सात्मानः, तेषां च महेश्वर एव स्वात्मा स एव महेश्वरो न त्वन्यः कश्चित् | यतः संवित्स्वभावोऽसौ, संविदश्च न देशेन न कालेन न स्वरूपेण कोऽपि भेदः, कामं देहप्राणादयो भिद्यन्तां, ते तु जडपक्ष्याश्चेतननिमग्ना एव, - इत्येक एव चिदात्मा स्वातन्त्र्येण स्वात्मनि यतो वैश्वरूप्यं भासयति, ततो महेश्वरोऽन्तर्नीतामिदन्तां अत्र टीका: - जन्तूनाम् इति व्याचष्टे युक्तिपूर्वकम् इह इति | इह - भासमाने जगति, चेतननिमग्नाः - ग्रहणद्वारेण चेतने विश्रान्ताः | कुतो भीन्तीत्यपेक्षायामाह इदम् इति | इदम् इति - इदम् इत्येवम्, जडपरामर्शः - चेतनाश्रयः जडविषयः परामर्शः | अहम् इति संवित्परामर्शे - अहम् इत्येवंरूपे संविदाश्रये तद्विषये च परामर्शे | फलितमाह ततश्च इति | निरात्मानः - निरात्मकल्पाः, इति अतः कारणात्, षष्ठीयोजनां करोति तेषाम् इति | तेषाञ्च - जन्तुपदवाच्यानां जीवानाञ्च, स्वात्मैव महेश्वरः महेश्वर एव स्वात्मा इति योजनाद्वयेन अत्यन्तभेदाभावः सूचितः | एवकारद्वयव्यावर्त्यमाह नत्वन्यः इति | कुतः इत्यपेक्षायां स्वयमेव हेतुयोजनां करोति एक इति पदं व्याचष्टे च यतः इति | असौ - स्वात्मरूपो महेश्वरः | ननु संवित्स्वभावोऽसौ ततः किमित्यत आह संविदश्च इति | कामम् इति निश्चये | जडपक्षे भवाः जडपक्ष्याः, विश्वरूपः इति विशेषणं हेतुत्वेन योजयति स्वातन्त्र्येण इति | वैश्वरूप्यम् - विश्वरूपताम् | अहमिदम् इति पदं व्याख्यास्यन् फलितमाह ततः इति | अन्तर्नीताम् - स्वात्मनि लयीकृताम्, कृत्वा परानुन्मुखस्वात्मविश्रान्तिरूपाहंविमर्शपरिपूर्णः, अत एव सर्वज्ञसर्वकर्तृत्वे [सर्वज्ञत्वसर्वकर्तृत्वे - K. ष्. ष्.] नास्य यत्नोपपाद्ये | विचित्रबुद्धिकर्मेन्द्रियविषये हि यथा ज्ञातृत्वकर्तृत्वे एकस्यैवात्मनस्तथेन्द्रियस्थानीयरुद्रक्षेत्रज्ञ- सहस्रविषयस्य भावराशेर्यज्ज्ञानं करणं च तदेकत्र चिदात्मनि, - इति || १ || ननु यद्येक एवायं महेश्वररूप आत्मा कस्तर्हि बन्धो यदवमोचनायायमुद्यमः ? इत्याशङ्क्याह तत्र स्वसृष्टेदंभागे बुद्ध्यादि ग्राहकात्मना | अहंकारपरामर्शपदं नीतमनेन तत् || २ || तत्रैवं स्वात्मनि महेश्वरे स्थिते तस्मिन्नेव प्रकाशरूपे स्वात्मदर्पणे तेनैव परमेश्वरेण स्वातन्त्र्यात् तावत्सृष्टः संकोचपुरःसर इदंभागः, अत एव - अहंविमर्शपरिपूर्णत्वादेव, सर्वज्ञसर्वकर्तृत्वे - सर्वज्ञत्वं सर्वकर्तृत्वञ्च, अस्य - स्वात्ममहेश्वरस्य, कुतो न यत्नोपपाद्ये इत्यत आह विचित्र इति | विचित्रबुद्धिकर्मेन्द्रियविषये - साध्यत्वेन विचित्रबुद्धिकर्मेन्द्रियविषयभूते, आत्मनः - देहावच्छिन्नात्मतत्त्वस्य | दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति तथा इति | रुद्राः - मायोर्ध्ववर्तिनः प्रमातारः | इति शब्दः श्लोकव्याख्यासमाप्तौ || १ || अथ द्वितीयश्लोकस्यावतरणिकां करोति ननु इति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे तत्र इति | अत्र टीका: - तत्र इति पदं सत्सप्तमीमाश्रित्य व्याचष्टे एवम् इति | तत्र इति शब्दस्य तन्त्रेण आधारसप्तमीमाश्रित्य व्याख्यान्तरं करोति तस्मिन्नेव इति | अनेन इति व्याचष्टे तेन इति | तेन - स्वात्मरूपेण, स्वसृष्टेदंभागे इति व्याचष्टे स्वातन्त्र्यात् इति | संकोचपुरःसरः - संकोचपूर्वकः | बुद्ध्यादि तन्मध्ये यदेतद्बुद्धिप्राणदेहरूपमिदन्तया वेद्यंतद्बुद्ध्यादिभिन्नस्य [तद्भिन्नस्य - K. ष्. ष्.] वेद्यस्य ग्राहकतया समुचितम् इदंभावाभिभवाप्रभविष्णुत्वात् कृतकेनापूर्णेनाहं भावेन परामर्शेन भासमानं चकास्ति अहं देवदत्तोऽहं चैत्र इति || २ || नन्वेवमप्यस्तु, तथापि कस्य बन्धः ? ईश्वरव्यतिरिक्तो हि कोऽन्योऽस्ति ? तदेतत् परिहर्तुमाह - इति व्याचष्टे तन्मध्ये इति | तन्मध्ये - इदंभागमध्ये, आदि शब्दगृहीतं वस्तु कथयति प्राण इति | इदन्तया वेद्यम् - चिद्रूपं स्वं प्रति वेद्यतया स्थितम् | तद्बुद्ध्यादिभिन्नस्य - तस्माद् बुद्ध्यादेः भिन्नस्य, वेद्यस्य - नीलसुखादेः, ग्राहकात्मना इति व्याचष्टे ग्राहकतया [ग्राहकत्वेन - C. ] इति | ग्राहकतया समुचितम् - अहंभावपरामर्शयोग्यं सत्, इदंभावस्य यः अभिभवः तत्र अप्रभविष्णुत्वात् - असमर्थत्वेन, कृतकेन - असहजेन सता, अहंभावेन परामर्शेन - अहन्तया परामर्शेन, भासमानं चकास्ति | कथं चकास्तीत्यपेक्षायामाह अहं देवदत्तः इति | एवमत्र श्लोके स्फुटा योजना | तत्र सति स्वात्मनि महेश्वरे सति अनेन - स्वात्मना महेश्वरेण, काकाक्षिन्यायेन पुनः तत्र इति योजनीयम् | तत्र - प्रकाशरूपे स्वात्मनि भित्तौ, स्वसृष्टेदंभागे - स्वयमुत्पादिते इदंभागमध्ये, लक्षणया स्वयंसृष्टदंभावविषयवेद्यग्राममध्ये, तत् बुद्ध्यादि, स्वं प्रति वेद्यत्वेऽपि बाह्यं प्रति वेदकत्वेन प्रसिद्धं बुद्ध्यादिकम्, ग्राहकात्मना - नीलसुखादिकं प्रति ग्राहकतया, अहंकारपरामर्शपदम् - अहंपरामर्शविषयतास्थानम्, नीतम् - स्वातन्त्र्येण प्रापितम् | अत एव एकेश्वरवादेऽपि बद्धस्य ग्राहकस्य बुद्ध्यादेः मोचनाय उद्यमो युक्त एवेति भावः || २ || अथ तृतीयस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सस्वरूप इति | स [स्वस्वरूपापरिज्ञानमय - K. ष्. ष्.] स्वरूपापरिज्ञानमयोऽनेकः पुमान् मतः | तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः || ३ || सत्यम्, परमार्थतो न कश्चिद् बन्धः केवलं स्वस्मादनुत्तरात् स्वातन्त्र्यात् यदा स्वात्मानं संकुचितमवभासयति स एव, तदा स्वस्य पूर्णस्य रूपस्य यदपरिज्ञानं भासमानत्वेऽप्यपरामर्शरूपं तदेव कारणत्वेन प्रकृतं यस्य स पूर्णत्वाख्यातिमात्रतत्त्वः पुरुषः इत्युच्यते | अत एवानेकः तत्तद्देहप्राणबुद्धिविशेषेण संकोचग्रहणात् | स च पुमान् भोक्ता सम्बन्धनं [सम्बन्धम् - K. ष्. ष्.] भोगलक्षणमनुभवति | भोगश्च नाम तस्य यौ कल्पितौ क्रियानन्दौ, कल्पिता क्रिया दुःखम्, रजो हि प्रकाशाप्रकाश- चाञ्चल्यरूपं दुःखमुच्यते; प्रकाशरूपं च सत्त्वं सुखम्; तमस्त्वप्रकाशरूपो मध्ये विश्रमः प्रलयस्थानीयः || ३ || अत्र टीका : - स्वरूपापरिज्ञान इति व्याचष्टे सत्यम् इति | अवतरणिकायां शंकितं वस्तु अपेक्ष्यैव अङ्गीकारवाचकं सत्यम् इति पदं प्रयुक्तम् | स एव - स्वात्मरूपः परमेश्वर एव, अपरामर्शरूपम्, न तु ज्ञानाभावरूपम्, तस्यासंभवोपह- तत्वादिति भावः | मयटो व्याख्यां करोति तदेव इति, प्रकृतम् - प्राचुर्येण प्रस्तुतम् | विग्रहं कृत्वा अभिधेयं कथयति पूर्णत्व इति | पुमान् इति व्याचष्टे पुरुषः इति | कथमनेक इत्यपेक्षायां स्वयमेव हेतुयोजनां करोति तत्तत् इति | विशेषेण विशेषभावेन इत्यर्थः | नभसः तादृक्संकोचाभावेन अग्रहणम् | पूर्वार्धं व्याख्याय उत्तरार्धं व्याख्यातुं सङ्गतिं करोति स च इति | संबन्धनम् - विषयैः सह संबन्धनम् | सङ्गतिं कृत्वा उत्तरार्धं व्याचष्टे भोगश्च इति | दुःखसुखात्मकः इति व्याचष्टे दुःखम् इति | ननु कथं कृतिवाचिन्याः क्रियायाः दुःखरूपत्वमित्यत आह रजः इति | रजः - क्रियारूपप्रवृत्तिवाची रजोगुणः, सत्त्वम् - सत्त्वाख्यो गुणः, एतत्प्रसङ्गेन तमोगुणस्यापि निर्णयं करोति तमः इति प्रलयस्थानीयः - प्रलयसदृशः, न तु साक्षात्प्रलयरूपः, तत्र सर्वगुणध्वंसनात् || ३ || ननु सृष्टावित्यनेन किं व्यवच्छेद्यं किं च संग्राह्यम् ? इत्याह - स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या | मायातृतीये ते एव पशोः सत्त्वं रजस्तमः || ४ || विश्वरूपस्य भगवतः स्वरूपभूत एव विश्वत्रयः प्रकाशो यश्च विमर्शः, ते तावज्ज्ञानक्रिये स्वरूपद्वयपरमर्शापरित्यागेनैव [स्वरूपपरामर्श - K. ष्. ष्.] तु यद्विभिन्नतयापि [यद्भिन्नतयापि - K. ष्. ष्.] विमर्शनं स्वरूपपरामर्श एव विश्रान्तम् अहमिदमितिसदाशिवेश्वर- परमार्थ सा भगवतो मायाशक्तिः, ता एतास्तिस्रः शक्तयो भगवति नैसर्गिक्योऽसृष्टाः [दृष्टाः - K. ष्. ष्.] | अत्र टीका : - अथ चतुर्थश्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे स्वाङ्ग इति | अत्र टीका : - पत्युः इति व्याचष्टे विश्वरूपस्य इति | स्वाङ्गरूपेषु भावेषु इति व्याचष्टे स्वरूप इति | विश्वत्र - सर्वत्र भावजाते | ज्ञानम् इति व्याचष्टे प्रकाशः इति | क्रिया इति व्याचष्टे विमर्शः इति | ते - प्रकाशविमर्शौ | क्रियाशब्दापेक्षं स्त्रीत्वम् | माया इति व्याचष्टे स्वरूपद्वय इति | स्वरूपद्वयस्य - प्रकाशविमर्शरूपनीजरूपद्वयस्य, यः परामर्शः तस्यापरित्यागेनैव, विभिन्नतयापि विमर्शनम् - स्वतो भेदेन परामर्शनम्, अपि शब्दात् अभिन्नतया परामर्शनञ्च ग्राह्यम् | कीदृशं विमर्शनम् ? स्वरूप इति, अत एवेति शेषः | अत एव अहम् इदम् इति सदाशिवेश्वरौ परमार्थः - सहजं स्वरूपं यस्य तादृशम्, भगवतः - पत्युः, न तु पशोरितिं भावः | एतासां तिसृणां सृष्ट पदव्यवच्छेद्यत्वं दर्शयति एताः इति | स्वरूपापरिज्ञाने तु भिन्नेषु भावेषु ज्ञानं क्रिया, शुद्धमेव भिन्नत्वं प्रकाशविमर्शशून्यम्, - इति पशोः प्रकाशः प्रकाशाप्रकाशावप्रकाशश्च इति क्रमेण सुखदुःखमोहलक्षणानि प्रकाशक्रियानियमशीलानि [नियमनशीलानि - K. ष्. ष्.] सत्त्वरजस्तमांसि || ४ || ननु चैवं सति यथा परमेश्वरस्य ज्ञानक्रियामाया अव्यतिरेकिण्यः शक्तयः, - इत्युच्यन्ते, तद्वत् पशोः सत्त्वरजस्तमांसि प्रसज्यन्ते, व्यतिरिक्तानि च तानि पुंस्त्त्वाद् गण्यन्ते, तदेतत् कथम् ? इति संशयं शमयति भेदस्थितेः शक्तिमतः शक्तित्वं नापदिश्यते | एषां गुणानां करणकार्यत्वपरिणामिनाम् || ५ || असृष्टाः इति, स्वरूपत्वेन स्थितत्वादिति भावः | ते एव इत्यादि श्लोकखण्डं व्याचष्टे स्वरूप इति | स्वरूपापरिज्ञाने - मायाकृते पारमार्थिकस्वरूपापरिज्ञाने सति | भिन्नत्वम् इत्यनेन लक्षणया मायाग्रहणम् | शुद्धमेव इत्यस्यार्थं स्फुटीकरोति प्रकाश इति | पत्युर्माया हि प्रकाशविमर्शमयी एव, इयन्तु तद्रहितेत्यर्थः | सत्वं रजस्तमः इति योजनापूर्वं व्याचष्टे क्रमेण इति | तत्र सत्त्वं सुखलक्षणम् प्रकाशशीलम् | रजः दुःखलक्षणं क्रियाशीलम् | तमः मोहलक्षणं नियमशीलम् इति क्रमो ज्ञेयः | नियमः मौढ्येनाप्रवृत्तिः || ४ || अथ पञ्चमस्य श्लोकस्यावतरणिकां करोति ननु चैवम् इति | अत्र टीका : - तद्वत्प्रसज्यन्ते, शक्तित्वेन प्रसज्यन्ते इत्यर्थः | गण्यन्ते इति | प्रकृत्यादेः पुरुषाद् भेदेन गणनादिति भावः | सत्त्वरजस्तमसां हि साम्यावस्था प्रकृतिः तत्कार्याणि च महदादीनि सत्त्वादिरूपाण्येव | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे भेद इति | सत्यम् एवं स्यात् यदि भेदग्रहो न भवेत्, भेदस्त्वयं [भेदव्यवहारस्त्वयम् - K. ष्. ष्.] विचार्यते | तत्र च संकुचितचिन्मात्रस्वभावः [संकुचितस्वभावः - K. ष्. ष्.] पुरुषो, नास्य नैसर्गिकं भावविषयं प्रकाशनादि रूपं सर्वदा तत्प्रसङ्गात्, अपि त्वन्यसंबन्धकृतम् | ततश्च तस्मात् पशोः शक्तिमत्त्वेन शङ्क्यमानाद् भेदेन यत एतानि सत्त्वा दीनि, ततः शक्तयो व्यतिरेकमुक्ताः - इति नोच्यन्ते किं तूपकरणत्वात् अत्र टीका : - अवतरणिकायां शङ्कितस्य वस्तुनः परिहारमाह यदि इति | भेदग्रहः - गुणानां पुरुषाद् भेदेन ग्रहणम्, श्लोकं भङ्ग्या व्याख्यास्यन् भेदविचारणमेव प्रतिजानीते भेदस्त्वयम् इति | भेदविचारणमेव करोति तत्र च इति | सङ्कुचितम् - स्वातन्त्र्यवशेन सङ्कोचमागतम्, यच्चिन्मात्रम् तत्स्वभावः - स्वरूपं यस्य तादृशः, पुरुषः - जीवाख्यः अण्डः | अस्य - पुरुषस्य, प्रकाशनादि - प्रकाशप्रकाशौ, नैसर्गिकं रूपम्, सहजं स्वरूपमित्यर्थः | कुत इत्यपेक्षायामाह सर्वदा इति | तत्प्रसङ्गात् - भावविषयप्रकाशनादिप्रसङ्गात्, नहि क्षणमपि स्वभावत्यागो युक्त इति भावः | पुनः कथं तस्य भावविषयं प्रकाशनादि भवतीत्यत आह अपि तु इति | अन्यसंबन्धकृतम् - व्यतिरिक्तकरणसंबन्धकृतम् | श्लोकयोजनां कर्तुं फलितमाह ततश्च इति | भेदेन इति, भेदेन भवन्तीत्यर्थः | ततः - ततः कारणात्, सत्त्वादीनि शक्तय इति नोच्यन्ते इति संबन्धः | शक्तयः कीदृश्यः ? व्यतिरेकमुक्ताः, शक्तिमतोऽव्यतिरेकिण्य इत्यर्थः | तदुक्तम् : - तादात्म्यमनयोर्नित्यं बह्निदाहकयोरिव इति एतेन एषां गुणानां शक्तिमतो भेदस्थितेः शक्तित्वं नापदिश्यते इति पदसमूहः कृतव्याख्यः | ननु गुणानाम् इत्युक्तं तद्गुणत्वं कथमेषामित्यपेक्षायामाह किन्तु इति | उपकरणत्वात् - परमेश्वरस्य बाह्योत्पादं प्रति उपकरणभावात्, तेन आयातादप्रधानत्वादिति भावः | तदुक्तम् : - शक्त्यण्डमृत्पिण्डमुपाददानो मायाण्डचक्रभ्रमणक्रमेण | मूलाण्डदण्डेन..........ब्रह्माण्डभाण्डं भगवान्कुलालः || गुणा इत्युच्यन्ते | ननु पुरुषात् किमिति ते भेदेनोच्यन्ते ? उच्यते, इह सुखदुःखमोहपरिणामरूपमेतत्करणत्रयोदशकं [उच्यते, सुखदुःखमोहपरिणामरूपम् - K. ष्. ष्.] कार्यदशकं च सुखादिस्वभावत्वेनानुभूयते, - इति सुखदुःखमोहाः करणकार्यवर्गतादात्म्यवृत्तयो यदि पुरुषव्यापि तादात्म्यं भजेरन् तर्हि पुरुषः कार्यकरणपर्यन्तसृष्टिमयः संपन्नः, परिणामश्च दूषितः - इति स्वातन्त्र्यशक्त्या पुरुषो विश्वरूपः, - इत्यायातम् | तथा च न कश्चित् पुरुष ईश्वर एव, तस्मात् अप्रत्यभिज्ञानमयपुरुषस्वरूपविचारे सत्त्वादयो भिन्ना एव, - इति स्थितम् || ५ || इति | अत्र हि मूल शब्देन सत्त्वादिसाम्यावस्थारूपायाः प्रकृतेर्ग्रहणम्, दण्डस्य चोपकरणत्वं प्रसिद्धमेवेति न विरोधः | करण इत्यवशिष्टपदं व्याख्यातुमवतरणिकां करोति ननु इति | ते - गुणाः | अत्र परिहारं वक्तुं प्रतिजानीते उच्यते इति | प्रतिज्ञां सफलीकर्तुमवतरणिका - विषयीकृतं पदं व्याचष्टे इह इति | एतत् - पुरः स्थितम्, कार्यदशकम्, सूक्ष्मभूतरूपं शब्दादिपञ्चकम् स्थूलभूतरूपमाकाशादिपञ्चकञ्चेत्यर्थः | सुखादि इति | आदि शब्देन दुःखमोहयोर्ग्रहणम् | सुखदुःखमोहाः सुखादिरूपं गुणत्रयम्, करणकार्यवर्गेण सह तादात्म्येन वृत्तिर्येषां ते तादृशाः | परिणामश्च - गुणत्रयस्य बुद्ध्यादिभावेन परिणामः, दूषितः इति, पुरुषस्यैव तद्भावाङ्गीकारादिति भावः | इति - अतः कारणात् | नन्वेतदायातु किं तत इत्यत आह तथा च इति, तथा च सति, कश्चित् - कोऽपि जीवः पुरुषः न स्यात् अपि तु सर्वः ईश्वर एव स्यात् विश्वरूपत्वात् इति भावः | फलितमाह तस्मात् इति | अप्रत्यभिज्ञानमयः - परमेश्वरेण सह सोऽहम् इति प्रत्यभिज्ञामप्राप्तः यः पुरुषः - अण्डः, तस्य यत्स्वरूपं तस्य विचारे, सत्त्वादयः भिन्नाः एव भवन्ति, अन्यथा तस्येश्वरत्वापातात् | इति - एवम्, स्थितम् - स्थितियुक्तं भवति || ५ || ननु ज्ञानादीनि कथं सत्त्वादिरूपाणि पशुं प्रति ? इत्याह सत्तानन्दः क्रिया पत्युस्तदभावोऽपि सा पशोः | द्वयात्मा तद्रजो दुःखं श्लेषि सत्त्वतमोमयम् || ६ || इह तावत् पतिर्विश्वस्यावभासवैचित्र्यलक्षणेन [विश्वस्यावभासमानवैचित्र्य - K. ष्. ष्.] सृष्ट्यादिना पालयिता स्वप्रकाशस्वभावः, तस्य विश्वपतेर्या सत्ता भवनकर्तृता स्फुरत्तारूपा पूर्वं व्याख्याता सा स्फुरत्ता महासत्ता (ई. प्र. १/५/१४) इत्यत्र, सैव प्रकाशस्य विमर्शाव्यतिरेकात् विमर्शात्मकचमत्काररूपा सती क्रियाशक्तिरुच्यते, परौन्मुख्यत्यागेन स्वात्मविश्रान्तिरूपत्वाच्च सैव आनन्दः; तदेवं भगतश्चिदात्मतयैवेयद्रूपता | पशोस्तु सत्ता तदभावश्च अत्र टीका : - अथ षष्ठश्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सत्ता इति | अत्र टीका: - पत्युः इति व्याचष्टे इह इति | अवभासस्य यद्वैचित्र्यं तदेव लक्षणं यस्य तादृशेन, अवभासनमात्रसारेणेति यावत् | सृष्ट्यादिना - सृष्टिस्थितिध्वंसपिधानानुग्रहपञ्चकेन, पालयिता - रक्षिता पालनात्पतिरुच्यते इति न्यायादिति भावः | षष्ठीयोजनां करोति तस्य इति | सत्ता इति पदं व्याचष्टे भवन इति | भवनकर्तृता - भू क्रियाकर्तृत्वम्, अस्तीति सत् तस्य भावः सत्ता इति न्यायात् इति भावः | कुत्र व्याख्यातः इत्यत आह सा स्फुरत्ता इति | इति, अस्मिन् श्लोके इत्यर्थः | क्रिया इत्यस्य योजनां करोति सैव इति | सैव - सत्तैव, विमर्शात्मकः - अहंविमर्शरूपः यश्चमत्कारः - स्वरूपास्वादः, सः रूपं यस्याः सा | आनन्द इत्यस्यापि योजनां करोति परौन्मुख्य इति | सैव - सत्तैव | उपसंहारं करोति तदेवम् इति | इयद्रूपता - सत्तानन्दरूपता | एतेन पत्युः इत्यन्तं व्याख्यातम् | तदभावः इत्यादि आनन्दश्च तदभावश्च संकुचिततद्रूपत्वात्, तेन योऽसौ सत्तानन्दभागस्तत्प्रकाशसुखवृत्ति सत्त्वम्, यस्तदभावस्तदावरणमोहरूपं तमः, एते च ते सत्त्वतमसी नीलानीलवत् परस्परपरिहारेण यद्यपि वर्तेते कार्यकारणत्ववत् [कार्यत्वकारणत्ववत् - K . ष्. ष्.] तथापि एकपरामर्शगोचरीकार्यधर्म्यपेक्षया [धर्मापेक्षया - K. ष्. ष्.] चित्रपतङ्गसंगतनीलानीलात्मकरूपन्यायेनान्योन्यमिश्रतयापि भातः, अतो योऽयं द्वयात्मा मिश्रस्वभावः तद्रजोगुणः, अत एव प्रकाशाप्रकाशस्वरूपयोः सत्त्वतमसोरत्र श्लेषेणावस्थानम् इति दुःखत्वम्; प्रियपुत्रादेरेकघन एव हि प्रकाशः सुखम्; एकघन एवाप्रकाशो मोहः | यस्तु कथञ्चित्प्रकाशो यथा सव्याधिकदेहरूपतयानभिमतया, कथञ्चिच्चाप्रकाशो यथा गतगदकल्याणधर्मयोगितयाभिमतया तदेव दुःखत्वम्; अयमेव च व्याचष्टे पशोस्तु इति | तदभावः - सत्ताभावः | कुतः इत्यपेक्षायामाह संकुचित इति | ननु ततः किमित्यत आह तेन इति | प्रकाशसुखवृत्ति - प्रकाशसुखरूपम्, सत्त्वम् - सत्त्वगुणः, तदभावः - सत्तानन्दभागाभावः, तमः - तमोगुणः | कार्यकारणत्ववत् इत्यस्योत्तरवाक्येन संबन्धः | कार्यकार्णत्वयोः एकत्र धर्मिणि युगपत्स्फुरणात् | एकपरामर्शेन गोचरीकार्यः यः धर्मी तस्यापेक्षया, चित्ररूपयुक्तः पतङ्गः चित्रपतङ्गः, तत्र सङ्गतं यन्निलानीलात्मकं रूपं तस्य न्यायेन | एतदवष्टम्भेन द्वयात्मा इति पदं व्याचष्टे तद् इति | रजः इति व्याचष्टे रजोगुणः इति | श्लेषि इति व्याचष्टे दुःखम् इति च योजयति अत एव इति | अत्र - रजोगुणे, श्लेषेण - संगत्या, दुःखत्वम् - दुःखभावः | दुःखत्वमेव साधयति प्रिय इति, प्रकाशः - अग्रस्तत्वेन प्रकटता | सुखमोहयोः साधनं कृत्वा अभिष्टस्य दुःखस्यापि करोति यस्तु इति | कथञ्चित् - केनापि भागेन, अनभिमतया - अनिष्टया सव्याधिदेहो हि मरणमेव काङ्क्षते, देहापेक्षैव हि प्रकाशः, देहानपेक्षात्वप्रकाशः [देहापेक्षात्वप्रकाशः - C.] गतगदस्य [आगतगदस्य - C.] कल्याणधर्मयोगिता तया | तदेव - प्रकाशाप्रकाशस्वरूपमेव, अयमेव - दुःखमेव, पूर्वापरीभावसारः क्रियापरमार्थः | अत्रानुभयरूपत्वं तु नास्ति, प्रतीतौ कस्यांचित् कल्पिताकल्पितरूपायामननुप्रवेशात् तस्य | तथा हि - नीलं तावदकल्पितरूपायां धियि भाति; नीलाभावस्तु तुच्छोऽपि कल्पनाकल्पित आभासमानत्वात् तावद्व्यवहार- परमार्थः, तदुभयव्यामिश्रणात्तु नीलानीलं भातु नाम, यत्त्वनुभयरूपं तन्निलप्रतीत्या तावदकल्पितया न विषयीकृतं चेत् तत् कल्पितामनीलधियमनुधावेत्, अथ तां कल्पितां धियं नाविशत्यकल्पितया विषयीकृतं नीलमेव स्यात्, - इति न पशोश्चतुर्थोऽस्ति गुणः | अपिशब्दश्चार्थे, [अपिश्चार्थे - K. ष्. ष्.] पशोः सा सत्ता सत्त्वम्, तदभावस्तमः, द्वयात्मा रजश्च, - इति संबन्धः || ६ || क्रियापरमार्थः - क्रियासहजस्वभावः | रजोगुणस्य प्रवृत्तिरूपत्वात् प्रवृत्तेश्च स्फुटं क्रियात्वादिति भावः | नन्वनुभयरूपश्चतुर्थोऽपि गुणः अस्तु इत्यत आह अनुभय इति | अननुप्रवेशात् - संक्रान्त्यभावात् | तस्य - अनुभयरूपस्य | अत्र समर्थनमुपक्रम्ते तथा हि इति | तावत् इत्यनेन पारमार्थिकाकल्पितत्वनिरासः | धियि - नीलबुद्धौ, तदुभयमिश्रणात् - नीलानीलव्यामिश्रणाद्धेतोः, नाम इत्यनेन अस्य भानस्य असम्भवोपहतत्वं द्योतितम् | चेत् न विषयीकृतम् इति योजना, अनुधावेत् इति, स्वग्रहणार्थमिति भावः | अथ शिष्यः प्रश्नं करोति अपि इति | अत्रापि दोषमापादयति अकल्पित इति | अपि शब्दार्थमाह अपि शब्दः इति | चार्थे समुच्चयार्थे इत्यर्थः | संबन्धं स्फुटीकृत्य दर्शयति पशोः इति | सत्त्वम् - सत्त्वगुणः, तदभावः - सत्त्वाभावः, तमः - तमोगुणः | एवमत्र स्फुटा योजना | पत्युः - परमेश्वरस्य, सत्ता - निजं स्फुरत्तारूपं भवनम्, आनन्दः भवति तथा क्रिया भवति, त्रयस्यापि परमार्थतः शक्तित्वेन तत्र एकत्वात् | पशोः बद्धस्य जीवस्य, तदभावोऽपि सत्तानन्दाभावोऽपि, अपि - शब्दात् तद्भावश्च, द्वयात्मा - सत्तानन्दभावाभावरूपा सा आनन्दरूपा तत् - प्रसिद्धं रजः भवति | रजः किम् ? क्रिया, प्रवृत्तिरूपत्वेन क्रियापरमार्थमित्यर्थः | पुनः किम् ? दुःखम् - दुःखरूपम्, तथा सत्त्वतमोमयम्, अत एव श्लेषि - श्लेषयुक्तम्, एवं तावत् पतिपशुरूपं प्रमातृतत्त्वं संक्षेपेण निर्णीतम्; अथ प्रमेयतत्त्वं निर्णेतुं पत्यौ तावत् इत्थमिदं प्रमेयतत्त्वम् इति निर्णेतुमाह - येऽप्यसामयिकेदन्तापरामर्शभुवः प्रभोः | ते विमिश्रा विभिन्नाश्च तथा चित्रावभासिनः || ७ || इहाभासा एव तावदर्थाः, - इत्युक्तम्, ते च परामर्शैक्येन कदाचिन्मिश्रीक्रियन्ते यदा विशेषरूपता, कदाचिदमिश्रा एव परामृश्यन्ते यदा | समान्यरूपता, ते एते उभयात्मानोऽप्यर्था [उभयात्मानोऽप्यसामयिकेन - K. ष्. ष्.] असामायिकेनाकल्पितेनेदंभावेन अर्थादेव सत्तानन्दभावस्य सत्त्वभावः, तदभावस्य तमोभावः, किर्यातूभयत्र समाना, किन्तु पत्यौ शक्तित्वेन स्थिता, पशोस्तु रजोगुणत्वेन इति न तस्या अभावोऽत्रोपयोगी | यद्यपि सत्ताया अभावोऽपि असंभवोपहत एव तथाप्यपरिमितां सत्तामपेक्ष्यैवमुक्तम् || ६ || अथ सप्तमस्य श्लोकस्यावतरणिकां करोति एवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे येऽपि इति | अत्र टीका : - श्लोकव्याख्योपयोगित्वेन पूर्वोक्तं वस्तु स्मारयति इह इति | ते च - आभासाश्च, कदाचित् इत्यनेन वक्तुमिष्टं वस्तु प्रकटीकरोति यदा इति | विशेषरूपता - स्वलक्षणता, तत्र हि देशाद्याभासाः मिश्राः भवन्त्येव | ते एते आभासाः, उभयत्मानः - मिश्रामिश्रस्वभावाः, अर्थाः - नीलसुखादयः | एतेन विमिश्रा विभिन्नाश्च इति पदद्वयस्य व्याख्या | असामयिक इति समस्तं पदं विग्रहपूर्वकं व्याचष्टे असामयिकेन इति | असामयिकेन इति सहजपरामर्शरूपेणाङ्गुलिनिर्देशादिप्रख्येन [सहजभेदपरामर्शरूपेण - K. ष्. ष्.] गोचरीकार्याः प्रभोरपि न केवलं सद्योजातबालादेर्यावदीश्वरस्यापि, तथा तेन सामान्यविशेषप्रकारेण चित्रतयावभासन्ते | चित्रत्वं हि तयोः - यन्मिश्रत्वममिश्रत्वं च युगपदेकाहन्ताविश्रान्तं भाति, - इति ईश्वरदशायां भावोल्लासनान्तरीयकत्वेन संवित्संकोचरूपं निषेध्यानुपरक्तनञर्थ?मात्ररूपं शून्यं संवित्प्रकाशेनैव प्रकाशमानमहन्तानिषेध- रूपामसामायिकीभिदन्तामुल्लासयति || ७ || व्याचष्टे अकल्पितेन इति | इदन्ता इत्यवयवं व्याचष्टे इदंभावेन इति | परामर्श इत्यवयवं व्याचष्टे सहज इति | सहजपरामर्शरूपेण, न तु संकेतविषयीकृतशब्दस्मृतिरूपपरामर्शरूपेण, अत एव अङ्गुल्यादिना यो निर्देशः तस्य प्रख्येन - सदृशेन | भुवः इत्यवयवं व्याचष्टे गोचरीकार्याः इति | एतेन असामयिकस्य इदन्तापरामर्शस्य भुवः - गोचराः इति विग्रहः सूचितः | अपि शब्दाभिप्रायं कथयति प्रभोरपि इति | एतेन अपि सब्दो भिन्नक्रम इति सूचितम् | तथा असामयिकेदन्तापरामर्शगोचरीकार्याः एतेन सद्योजातबालवत् सामान्येदन्तापरामर्शेन भावस्फुरणम् ईश्वरावस्थेति सूचितम् | तथा इति व्याचष्टे तेन इति | चित्रावभासिनः इति व्याचष्टे चित्रतया इति | कुत इत्यपेक्षायाम् समर्थनं करोति चित्रत्वं हि इति | एकाहन्ता - विश्रान्तम् - एकप्रमातरि विश्रान्तम् | एतेन फलितम् ईश्वरदशायाः स्वरूपं साक्षात्स्फुटीकृत्य कथयति इति इति | इति - अतःकारणात्, सून्यम् - प्रत्यासन्नत्वेन मायापदगतः शून्यप्रमातैव, ईश्वरदशायाम् - ईश्वरावस्थायाम्, अहन्तानिषेधरूपाम् - नाहम् इति रूपाम्, असामयिकीम् इदन्ताम् - शिरोनिर्देशप्रख्याम् इदन्ताम्, उल्लासयति - स्फारयति | शून्यम् कीड्र्शम् ? भावानाम् - स्वतो व्यतिरिक्ततया वेद्याना नीलसुखादीनाम्, यः उल्लासः - स्वतो भेदेन निर्विकल्पकं स्फुरणम्, तस्य यत् नान्तरीयकत्वम् - व्याप्तिः तेन, संवित्सङ्कोचरूपम्, अन्यथा अहम् इति ग्रहणप्रसङ्गात् | तथा निषेध्यानुपरक्तः - प्रतियोगिस्पर्शरहितः, नञर्थः - अभावः, तन्मात्रं रूपं यस्य तादृशम्, न तु नाहम् इत्येवं रूपम्, अत एव संवित्प्रकाशेनैव - संवित्प्रकाशभावेनैव, न तु मायापदवत् न किञ्चिद्भावेन प्रकाशमानम् - स्वप्रकाशत्वेन स्वं प्रति भासमानम् || ७ || एवं तावदीश्वररूपस्य पत्युरित्थं प्रमेयतत्त्वं, परमशिवे तु भगवति प्रमेयकथैव कथमुत्तिष्ठति, प्रमेयकथोत्थापकत्वमेव भगवतः सदाशिवेश्वरत्वम्; अतोऽधुना पशुं प्रति कीदृक् प्रमेयस्य वृत्तान्तः, - इति सन्देहमपोहति श्लोकत्रयेण - ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः | तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे || ८ || तस्यासाधारणी सृष्टिरीशसृष्ट्युपजीविनी | सैषाप्यज्ञतया सत्यैवेशशक्त्या तदात्मनः || ९ || स्वविश्रान्त्युपरोधायाचलया प्राणरूपया | विकल्पक्रियया तत्तद्वर्णवैचित्र्यरूपया || १० || तुर्विशेषं द्योतयति, प्रत्यगात्मनस्तु इत्थं प्रमेयरूपा अर्थाः, न त्वीश्वरवदुक्तनयेनेति | भिन्न इति मिश्रामिश्रतया भिद्यमान आभासो येषामर्थानां ते विशेषसामान्यात्मानोऽर्थाः प्रत्यगात्मनः प्रतिपुरुषमव्यामिश्र - [अविमिश्रस्वसंवेदन - K. ष्. ष्.] अत्र टीका : - अथाष्टमनवमदशमश्लोकानामवतरणिकां करोति एवम् इति | स्पष्टम् | अथ श्लोकमुपन्यस्य व्याचष्टे ते तु इति | अत्र टीका : - द्योतयति इति | निपातानां द्योतकत्वादिति भावः | ननु कोऽसौ विशेष इत्याह प्रत्यगात्मनः इति | इत्थम् - वक्ष्यमाणप्रकारेण | इति इति विशेषकथनसमाप्तौ | भिन्न इति समस्तं पदं विग्रहपूर्वकं व्याचष्टे मिश्र इति | तत्र मिश्राः - स्वलक्षणरूपाः, अमिश्राः - सामान्यरूपाः | अवभास इत्यवयवं व्याचष्टे आभासः इति, भिन्नावभास इत्यवयवद्वयस्य बहुब्रीहिणा समासं कृत्वा व्याख्यां करोति विशेषसामान्यात्मानः इति | अर्थाः इति निगदव्याख्यातम् | एतेन भिन्नावभासाश्च ते अर्थाश्चेति विग्रहः सूचितः | प्रत्यगात्मनः इति व्याचष्टे प्रतिपुरुषम् इति | प्रति इत्यवयवं व्याचष्टे स्वसंवेदनावगमस्वरूपस्यासंकीर्णाहंप्रकाशात्मनः प्रकल्प्याः कल्पनीयाः, [विकल्पनीयाः - K. ष्. ष्.] प्रतिप्राणिस्ववासनानुसारेण विभिन्नाभिः संज्ञाभिः प्रियोऽयं शत्रुरयम् इत्यादिकाभिर्भावनाविशेषानुसारेण तत्तद्विचित्रसुखदुःखाद्युपयुक्ताभिः स्मरणे उत्प्रेक्षणे संकल्पनेऽन्यत्रान्यत्र च विकल्पयोगे | एतदुक्तं भवति - ईश्वरस्य विकल्पात्मकतामन्तरेण शुद्धविमर्शविषयीभाव्या अर्थाः, पशोस्त्वन्योन्यापोहनहेवाकिनि विकल्पे समारूढास्तेऽर्था भवन्ति, सांसारिकहानादानादिव्यवहारोपयोगात् इति | नन्वविकल्प्यत्वे यावानेवार्थस्तावानेव यदि विकल्प्यत्वे तत्कोविशेषः प्रमेयस्य पतिपशुरूपतायाम् ? उच्यते, तस्येति, पशुकर्तृका सृष्टि - अव्यामिश्र इति | अव्यामिश्रम् - विषयावच्छेदेन अन्येन सह व्यामिश्रताम् अगतं यत् स्वसंवेदनम् - स्वरूपभूतं संवेदनम्, तदेव अवगमः - ज्ञानम्, सः स्वरूपं यस्य | अत्रापि पर्यायमाह असङ्कीर्ण इति | प्रतिपुरुषं नियताहंप्रकाश - रूपस्येत्यर्थः | प्रकल्प्याः इति व्याचष्टे कल्पनीयाः इति | कामिरित्यपेक्षायां तत्तद्विभिन्न इति पदं व्याचष्टे प्रतिप्राणि इति | प्रतिप्राणि या स्ववासनानिजो भावनारूपः संस्कारः, तस्य अनुसारेण - अनुरोधेन | युक्तत्वेन अध्याहृत्य एतत् कथितम् | संज्ञाः एव स्फुटीकरोति प्रियोऽयम् इति | ननु ताभिः संज्ञाभिः क उपयोग इत्यपेक्षायां स्वयमेव किञ्चित् कथयति भावना इति | ननु ताः संज्ञाः कुत्र उपयुक्ता इत्यपेक्षायां स्मृत्युत्प्रेक्षादिगोचरे इति व्याचष्टे स्मरणे इति | आदि शब्दग्राह्यं वस्तु कथयति सङ्कल्पने इति | प्रिये हि स्मृते सुखमुत्पद्यते शत्रौ तु दुःखमिति स्वयं योजनीयम् | नन्वेतेन किमुक्तं भवतीत्यत आह एतदुक्तं भवति इति | उक्तमेव दर्शयति ईश्वरस्य इति | शुद्धविमर्शविषयीभाव्याः - अङ्गुलीनिर्देशप्रख्येदन्ताविमर्शविषयीभावयोग्याः | अन्योन्यापोहनहेवाकिनि - परस्य व्यावृत्तिकरणहठयुक्ते, व्यवहारोपयोगात् इति | अन्यथा सङ्कीर्णत्वेन व्यवहारो न युक्तः स्यादिति भावः | अथ द्वितीयस्य श्लोकस्य टीकां करोति ननु इति अत्र टीका : - पतिपशुरूपतायाम् - लक्षणया ईश्वरप्रमेयताभावे पशुप्रमेयताभावे च | स्तेषामर्थानामीश्वरसृष्टानामुपरिवर्तिनी, अत एव तामीश्वरसृष्टिमुपजीवन्ती असाधारणी प्रतिप्रमातृनियता | तद्यथा इदं हृद्यम् इति येन सृष्टं तत् तस्यिव तदा नान्यस्य | ननु यदि पशोरपि सृष्टिशक्तिरस्ति तर्हीश्वर एव ? सत्यम्, ईश्वर एवासौ | नन्वेवं साधारणत्वं कस्मात् सृष्टेर्न भवति ? भवेत् यदि स्वशक्तिं परिजानीयात्, यावता सा तस्यापरिज्ञाता परवशस्यैव सतो विकल्पक्रिया विकल्पनशक्तिरुदेति | ननु केन सा तस्योत्थाप्यते ? आह - ईश्वररस्य परामर्शरूपतया शब्दराशिलक्षणस्य अवतरणिकां कृत्वा श्लोकं व्याख्यातुं परिहारकथनं प्रतिजानीते उच्यते इति | तस्य इत्यस्य कर्तरि षष्ठीत्वं दर्शयति पशुकर्तृका इति | सृष्टिः इति निगदव्याख्यातम् | उपरिवर्तिनी इति | ईश्वरसृष्टपुत्राद्युपरि एव हि पुरुषो हृद्यत्वादि सृजति | एतच्च युक्तत्वेन अर्थादेवानीतम् | एतदवष्टम्भेन ईशसृष्ट्युपजीविनी इति व्याचष्टे अत एव इति | उपजीवन्ती - अपेक्षमाणा, अन्यथा निर्विषयत्वादिति भावः | असाधारणी इति व्याचष्टे प्रतिप्रमातृनियता इति | नियतत्वमेव दर्शयति तद्यथा इति | अत्र शिष्यः प्रश्नयति ननु इति | गुरुः परमार्थदृष्टिमाश्रित्य अङ्गीकारं करोति सत्यम् इति | असौ - पशुः | पुनरपि शिष्यः प्रश्नयति नन्वेवम् इति | एवं सतीत्यर्थः | कस्मान्न भवति इति | ईश्वरसृष्टेः साधारणत्वमेव युक्तमिति भावः | गुरुः उत्तरयति भवेत् इति | भवेत्, स्यादित्यर्थः | तर्हि भवत्येव इत्यत आह यदि इति | पशुरिति शेषः | न तु जानातीति भावः | ननु कथं न जानातीत्यपेक्षायामवशिष्टं द्वितीयश्लोकस्योत्तरार्धं तृतीयश्लोकं च व्याचष्टे यावता इति | यावता - यस्मात्कारणात्, सा - सृष्टिरूपा | तस्य - पशोः, विकल्पक्रिया - विकल्पक्रियारूपा, विकल्पनशक्तिः - विकल्पकरणशक्तिः | उदेति - उत्पद्यते | ननु सा उदेतु, परवशशक्तेः स्वयमुत्थानासंभवात् कस्तामुत्थापयतीत्याह ननु इति | उत्तरं कथयति आह इति | किमाहेत्यपेक्षायाम् ईशशक्त्या इति व्याचष्टे ईश्वरस्य इति | परामर्शरूपतया - आन्तरशुद्धपरामर्शभावेन, शब्दराशिलक्षणस्य - अकारादिशब्दराशिस्वभावस्य | ईश पदेन शक्ति पदस्य समासं कुर्वन् मध्ये स्वविश्रान्त्युपरोधाय या शक्तिः स्वरूपविश्रान्तिलक्षणपारमैश्वर्योपरोधप्रयोजन- ब्राह्म्यादिदेवताचक्रमयी [स्वरूपविश्रान्तिलक्षण - पारमैश्वर्योपरोधप्रयोजना ब्राह्म्यादिदेवता - चक्रमयी - K. ष्. ष्.] तैस्तैः ककारादिवर्णवैचित्र्यैर्विचित्रा, तया यासौ विकल्पक्रिया तस्य पशोरेकत्र निरूढ्यभावात् चञ्चला, तेन मित्रमिदं [मित्रमयम् - K. ष्. ष्.] शत्रुरयम् इत्यादिवर्णवैचित्र्यानुविद्धा, [अनुविद्धतया - K. ष्. ष्.] तया विकल्पनक्रियया तदात्मन ईश्वरस्वभावस्यैव पशोरसाधारणी सृष्टिः | इति योजनापूर्वं व्याचष्टे स्वरूप इति | स्व इत्यवयवं व्याचष्टे स्वरूप इति | चतुर्थीविभक्ति व्याचष्टे प्रयोजन इति | शक्ति पदं व्याचष्टे ब्राह्म्यादि इति | स्वरूपविश्रान्तिलक्षणः - स्वरूपविश्रान्तिस्वरूपः यः पारमैश्वर्योपरोधः - पारमैश्वर्याख्यधर्माश्रयणम् सः प्रयोजनम् यस्य तादृशम् यत् ब्राह्म्यादिदेवताचक्रम् - अवर्गादिशवर्गान्तरूपं ब्राह्म्यादिमातृकाऽष्टकम्, तन्मयी - तत्स्वरूपा | तत्तद्वर्ण इत्यादिपदम् एतद्विशेषणत्वेन व्याचष्टे तैस्तैः इति | अवर्गे तादृग्वैचित्र्याभावमपेक्ष्य [तादृग्वैचित्र्याभावमुपेक्ष्य - C.] ककारादि इत्युक्तम् | अकारस्य हि शक्तिपञ्चकवशेन वैचित्र्यं हि कवर्गः, इकारस्य च चवर्गः इत्यादि | तया - प्रोक्तया शक्त्या, याऽसौ विकल्पक्रिया, विकल्पो हि वर्णमय एव शब्दस्मृतिरूपत्वात् | चलया इति विशेषणत्वेन व्याचष्टे तस्य इति | तस्य - एतदाश्रयत्वेन स्थितस्य, पशोः - अणोः, निरूढ्यभावात् - विश्रान्त्यभावात्, चञ्चला, एतत्फलितत्वेन तत्तद् इति पदमत्र विशेषणत्वेन योजयति तेन इति | तेन - चञ्चलत्वेन, मित्रमिदम् शत्रुरयम् इत्यादि यत् वर्णवैचित्र्यम् तेन अनुविद्धा - व्याप्ता, प्रोक्तविषेषणस्य पदस्य पुनः परामर्शं करोति आशङ्कायां प्रोक्तस्य केन इत्यस्य विषयदानेन आकाङ्क्षां च पूरयति तया विकल्पनक्रियया इति | तदात्मनः इति समस्तं पदं विग्रहपूर्वकं व्याचष्टे ईश्वर इति | एतेन तस्य - ईश्वरस्य, आत्मनः पशोः इति तदात्मनः इति षष्ठीतत्पुरुषः सूचितः | असाधारणी सृष्टिः विकल्पसृष्टिः, भवतीति शेषः | सुगमत्वेन पञ्चवक्त्रश्चतुर्दन्तो हस्ती नभसि धावति | इत्यपिविमिश्रतायां [विमिश्रतया - K. ष्. ष्.] विकल्पसृष्टिः, तानाभासान् ईश्वरसृष्टानेवोपजीवति इति सर्वा पाशवी [पाशवी प्रत्ययसृष्टिः - K.ष्.ष्.] सृष्टिः प्रत्ययसृष्टिरीश्वरसृष्ट्युपजीविनीत्युक्तम् || १० || प्राणरूपया इति न व्याख्यातम् | ईशसृष्ट्युपजीविनी इत्यस्य समर्थनं करोति पञ्च इति विमिश्रतायाम् - दन्तादिगते अपूर्वपञ्चत्वादियोजने, हस्तिनि अपूर्वनभोधावनयोजने च, तान् आभासान् - दन्तपञ्चकादिरूपान् आभासान्, उपजीवति - अपेक्षते, सर्वं हि एतत् यत्र तत्र व्यस्तत्वेन ईश्वरेणैव सृष्टमस्ति, जीवस्तु तत्र स्वेच्छया योजनामात्रमेव करोति | ईश्वरसृष्टत्वाभावे तु सः किं केन योजयेदिति भावः | इति - अतः कारणात्, सर्वा पाशवी सृष्टिः - जीवसृष्टिः, प्रत्ययसृष्टिः - विकल्पसृष्टिः, ईश्वरसृष्ट्युपजीविनीत्युक्तम्, एतत्कथितमित्यर्थः | एवमत्र श्लोकत्रये संक्षिप्तार्थः | तु - व्यतिरेके, प्रत्यगात्मनः - प्रतिपुरुषं स्थितस्य पशुरूपस्य जीवस्य कर्तुः, ते भिन्नावभासार्याः - सामान्यविशेषरूपाः आभाससाराः परस्परतः स्वतश्च भिन्नाः नीलसुखादिरूपाः पदार्थाः, स्मृत्युत्प्रेक्षादिगोचरे - स्मृत्यादिविषयीभावे, तत्तद्विभिन्नसंज्ञाभिः [तत्तद्वैचित्र्य - C.] - ताभिः ताभिः भिन्नपशुत्वादिरूपाभिः डित्थत्वादिरूपाभिश्च संज्ञाभिः, प्रकल्प्याः - प्रकर्षेण कल्पनीयाः, भावनाविशेषेण सुखदुःखाद्युत्पादकत्वात्, तस्य प्रत्यगात्मनः सृष्टिः - भिन्नावभासार्थविषयतत्त्वसंज्ञाकल्पनरूपा विकल्पसृष्टिः, असाधारणी भवति | नहि एकस्य मित्रादि अन्यस्यापि तदेव | तथा ईशसृष्ट्युपजीविनी - ईशसृष्ट्युपरिस्थितत्वेन तदपेक्षिणी भवति | ईशसृष्टे पुरुषे एव हि उपरि जीवः मित्रत्वं योजयति नन्वेवं यदि पाशवी सृष्टिः संसाररूपा तर्हि पारमेश्वरी सृष्टिः पशोः किं कुर्यात् ? इति निर्णीयते - न तु स्वरूपेणापि तद्देहं सृजति, सा एषा अपि - प्रोक्तजीवसृष्टिरपि, अज्ञतया सत्या एव - स्वशक्तित्वेन अज्ञाततया वर्तमानैव, अन्यथा अस्याऽपि ईश्वरत्वापातात्, तदात्मनः - तस्येश्वररूपस्य पशोः सम्बन्धिन्या, चलया तथा प्राणात् रूपं यस्याः तादृश्या, प्राणसिद्धया, तथा तत्तद्वर्णवैचित्र्यचित्रया विकल्पक्रियया भवति | विकल्पनेनैव हि जीवः सर्वानाभासानुत्पादयति | ननु तस्य पशोः केन हेतुना सा विकल्पक्रिया अस्तीत्यपेक्षायामाह स्वविश्रान्त्युपरोधाय इति | ईशशक्त्या इति योजनीयम् | स्वैश्वर्य - विश्रान्त्याश्रयणाय या ईशस्य शक्तिः - अवर्गादि रूपवर्गाष्टकवाच्य - ब्राह्म्यादिमात्रष्टकरूपा शक्तिः तया, स्वां शक्तिम् उद्भाव्य स्वमैश्वर्यं प्रकटीकरोति | पशुरूपं जीवञ्च तद्रूपविकल्पवशेन परवशीकरोति | तदुक्तं स्पन्दशास्त्रे - शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् | कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः || इति | अत्र च क्रियाधिकारे कृतैव विवृतिरिति न पुनरायस्तम् | ईश्वरशक्त्या कीदृश्या ? तत्तत् यद्वर्णरूपम् - ककारादिवर्णरूपम्, वैचित्र्यं तेन चित्रया - आश्चर्यकारिण्या, ब्राह्मीवाचकादवर्गात् वैचित्र्यरूपं माहैश्वर्यादिवाचकं कवर्गादिसप्तकं जायते | तत्र अवर्णात् कवर्गः हकारश्च [कवर्गः हकारश्च इति च - C] अकुहविसर्जनीयानां कण्ठः इति वचनात् | अकार एव हि कण्ठे स्थूलत्वमासाद्य कवर्गहकारविसर्जनीयभावेन स्फुरति | इकारात् चवर्गः यकारश्च इचुयशानां तालु इति वचनात्, एवं सर्वत्र योजनीयम् | या तु अवर्गे अकारादिभ्य आकाराद्युत्पत्तिः सा सूक्ष्मत्वेन नेह गणनीया | तथा हि अकारः चिच्छक्तियुक्ते अनुत्तरे स्वरूपे संकेतितः | तस्यैव स्वान्तर्लीनाऽऽनन्दशक्तिप्रादुर्भावे आकारभावेन स्फुरणम् | तस्यैव चिन्मयत्वेन इच्छाशक्तिप्रादुर्भावे इकारोदयः | तस्या साधारणोऽन्यथा चैशः सर्गः स्पष्टावभासनात् | विकल्पहानेनैकाग्र्यात् क्रमेणेश्वरतापदम् || ११ || ऐश्वरः सर्गोद्विधा, साधारणञ्च घटादिरसाधारणश्च अन्यथा [अन्यथा इति निर्दिष्टः - K. ष्. ष्.] निर्दिष्टो एषणीयाख्यविषयलामे ईकारोदयः | उन्मेषाख्यज्ञानशक्ति- प्रादुर्भावे उकारोदयः | तस्यैव स्थौल्यरूप ऊह प्रादुर्भावे ऊकारोदयः | ततः कस्यापि वर्णस्य अनुत्पादकः इच्छाशक्त्युद्दीपनरूपः ऋकारः | अग्निवाचको हि रकारः, इच्छाशक्तिः इकारः, तयो संयोगः ऋकारः | तस्य पुष्टता ॠकारः | तथा इच्छाशक्तेः आस्वादरूपः ऌकारः | लकारो हि दन्त्यत्वेन रसवाचकः, रस एव चास्वादः, इकारेण मिलितः स एव ऌकारः | तत्स्थौल्यं ॡकारः | अनुत्तरेच्छयोः संयोगः एकारः | पुनः अनुत्तरेण प्रमात्रा संयोगः ऐकारः | अनुत्तरस्य उन्मेषेण संयोगः ओकारः | पुनरपि अनुत्तरेण प्रमात्रा संयोगे औकारः | अनुत्तरस्य स्तोकं पुष्टतापत्तिः विसर्जनीयः | उन्मेषस्य स्तोकं पुष्टतापत्तिः अनुस्वारः | एतावत् पर्यन्तं सूक्ष्मसृष्टिः | इयमेव च कलाविलुप्तविभवः इत्यनेन पदेनोक्ता | अकारादिकलाभिर्हि भेदापादिकाभिः श्रीशिवस्यकत्वलक्षणो विभवो विलुप्यत एव | इतः परं तु स्थूलसृष्टिः अकार - इकार - उकार - ऋकार - ऌकारस्थूलतारूपत्वात् कवर्गादि सप्तकस्येत्यलम् प्रपञ्चेन | तत्तद्वर्ण इति पदं तन्त्रेणोभयत्र सम्बन्धनीयम् || १० || अथैकादशस्य श्लोकस्यावतरणिकां करोति नन्वेवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे साधारण इति | अत्र टीका : - ऐशः इति पदं व्याचष्टे ऐश्वरः [ऐश - C.] इति | द्विधात्वमेव स्फुटीकरोति साधारणश्च इति | अन्यथा निर्दिष्टः इत्यनेन अन्यथा इत्यस्य द्विचन्द्रादिः; तस्य च सामान्यलक्षणं स्पष्टावभासनं नाम | सोऽयं सर्गो यदा विकल्पहानक्रमेण तस्मिन्निर्विकल्पकपरिगृहीत एव स्पष्टाऽभेर्थ एकाप्रत्वमवलम्ब्य अहमिदम् इत्यैश्वर्यपरामर्शपदं भवति तदा अन्तर्लक्ष्यबहिर्दृष्टिनिमेषोन्मेषपरिहारदिशा [निमेषोन्मेषपरिहारोपदेशदिशा - K. ष्. ष्.] क्रमेण अभ्यासतारतम्येन पशोः पशुत्वं प्रतिहन्तीश्वरत्वं च दर्शयति | किं च योऽयं विकल्पसर्गः व्याख्या | स्पष्टावभासनात् इति योजयति तस्य च इति | तस्य द्विविधस्य सर्गस्य स्पष्टावभासयुक्तत्वादिति भावः | पूर्वार्धं व्याख्याय उत्तरार्धं व्याचष्टे सोऽयम् इति | सोऽयम् सर्गः - द्विविधः ऐशः सर्गः | विकल्पहानेन क्रमेण इति पदद्वयं व्याचष्टे यदा इति | विकल्पहानक्रमेण - तत्त्वाभ्यासादिसाधितविकल्पत्यागक्रमेण | तस्मिन् - ऐशसर्गरूपे, एकाग्रत्वम् - एकाग्रभावम् | अवलम्ब्य - आश्रित्य | एतेन ऐकाग्र्यात् इति ल्यब्लोपे पञ्चमीति द्योतितम् | ईश्वरतापदम् इति व्याचष्टे अहम् इदम् इति ऐश्वर्यपरामर्शपदम् - ईश्वरसम्बन्धिपरामर्शपदं भवति | यदा इत्यस्याकांक्षां पूरयितुं फलितरूपं किञ्चित्स्वयमेव कथयति | तदा इति | तदा अन्तर्लक्ष्य - बहिर्दृष्टिनिमेषोन्मेषपरिहारदिशा अन्तर्लक्ष्यो बहिर्दृष्टिर्निमेषोन्मेषवर्जितः | एषा वै शाम्भवी मुद्रा सर्वशास्त्रेषु गोपिता || इति महारहस्यशास्त्रोक्तक्रमेण, अभ्यासतारतम्येन - अभ्यासपराकाष्ठासादनेन, पशोः पशुत्वं प्रतिहन्ति - नाशयति, ईश्वरत्वम् - परमार्थेन स्थितम् ईश्वरत्वम्, च दर्शयति - प्रकटीकरोति | तदुक्तम् : - सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || इति | तत्र अन्तर्लक्ष्य इत्यस्यायमर्थो भवेदिति शेषः | पुरुषः अन्तः - सर्वान्तः सारत्वेन स्थितं शुद्धचिन्मात्राख्यम् आन्तरं वस्तु, लक्ष्यम् - अवधानविषयो यस्य पाशव उक्तः सोऽपि यदि अन्यथा इति पूर्वोक्तरूपवैपरीत्येन परिज्ञातयेशशक्त्या परिज्ञाततादात्म्यस्य भवति तदा सोऽपि साधारण एवाप्यायनाभिचरणशान्त्यादिविकल्प इव न्यस्तमन्त्रस्य भावितान्तः - करणस्य || ११ || तादृशः | तथा बहिः - बाह्ये - कुत्रापि धारणया गृहीते बाह्यवस्तुनि, दृष्टिः - चक्षुः यस्य तादृशः | तथा निमेषोन्मेषाभ्यां तत्रैव वस्तुनि बद्धदृष्टित्वेन वर्जितः भवेत्, स्वभाववशेनैव दृष्टिक्षये निर्विकल्पत्वासादनात्, अन्यथा चिन्मात्रावधानपरस्यापि स्वभाववशेन बाह्यसंकल्पस्फुरणात् | मूढस्य तु उन्मेषनिमेषत्यागेन सिद्धाऽपि निर्विकल्पता जाड्यरूपैव इति अन्तर्लक्ष्य इत्युक्तम् | अथवा अन्तर्लक्ष्यत्वं सर्वत्र चिन्मयताभावनम् | बहिर्दृष्टित्वं लौकिकवत् बाह्यवस्तुषु व्यवहरणम् | उन्मेष निमेषराहित्यम् तद्विषयसंकल्पविकल्पराहित्यम् उक्तम् इत्यलं रहस्योद्धाटनेन | पण्डितैः एषा सर्वशास्त्रेषु गोपिता शाम्भवीमुद्रा - शाम्भवोपायरूपा मुद्रा - आनन्दप्रदायिनी विशिष्टावस्थितिः, प्रोक्ता इत्येतेन साधारणैशसर्गद्वारेण निर्विकल्पतासादनमुक्तम् | अधुना अन्यथा इत्यनेनोक्तम् असाधारणसर्गद्वारेणापि तदासादनं पक्षान्तररीत्या कथयति किञ्च इति | पाशवः - पशुनिष्ठत्वेन ईश्वरेणोत्पादितः द्विचन्द्रादिरूपः, पूर्वोक्तरूपवैपरीत्येन परिज्ञातया - मातृकाभाववैपरीत्येन ज्ञातया, शुद्धाऽहं परामर्शभावेन ज्ञातयेति यावत् | परिज्ञातं तादात्म्यम् - ईश्वरेण सह स्वस्यैकात्म्यं येन तादृशस्य, भवति | तदासोऽपि - सर्गः, साधारण एव भवति येन योगिकल्पितं वस्तु सर्व एव पुरोऽनुभवन्ति | न चेह ईश्वरोऽहम् इति वाचा कृतेन अभिमानेन भ्रमितव्यम् | अत्र हि भावनादार्ढ्यमुपयुक्तम् अन्यथा ऐन्द्रजालिकमायोत्पादकेषु मन्त्रेषु भावनादार्ढ्यं न कुर्युः | न च सहजज्ञानयुक्तैरत्र भ्रमितव्यम् इत्यलं बहुना | अत्र दृष्टान्तमाह आप्यायन इति | आप्यायनम् - पुष्टिः, अभिचरणम् अभिचारः, शान्तिः - शान्तिकर्म, आदि शब्देन समस्तमन्त्रादिसाध्यवस्तुग्रहणम् | न्यस्तमन्त्रस्य - प्रयुक्तमन्त्रस्य मान्त्रिकस्येत्यर्थः | मन्त्रोच्चारणमात्रेण एतदभिमानग्रस्तान् प्रति उक्तम् भावितान्तःकरणस्य इति | मन्त्रे भावनायुक्तचित्तस्येत्यर्थः || ११ || एवं विकल्पनिर्ह्वासेन निर्विकल्परूपसात्मीभावे विश्वात्मकसाक्षात्कारलक्षणः [विश्वात्मसाक्षात्कारलक्षणः - K. ष्. ष्.] स्वप्रत्यय एव मोक्षो दर्शितः, अधुना विकल्पनिर्ह्वासाभावेऽपि तं दर्शयति - सर्वो ममायं विभव इत्येवं परिजानतः | विश्वात्मनो विकल्पानां प्रसरेऽपि महेशता || १२ || नहि सः प्रत्यगात्मा [नहि प्रत्यगात्मा नाम - K. ष्. ष्] नाम पशुः कश्चिदन्यो योऽहम्, अपि तु परिगृहीतग्राह्यग्राहकप्रकाशैकघनः परो यः स एवाहं स चाहमेव, न अथ द्वादशस्य श्लोकस्यावतरणिकां करोति एवम् इति | अत्र टीका : - विकल्पनिर्ह्वासेन - विकल्पहानेन, निर्विकल्परूपेण यः स्वात्मीभावः - ऐक्यम्, तस्मिन् | विश्वात्मकसाक्षात्कारलक्षणः - परशिवसाक्षात्कार - स्वरूपः, स्वप्रत्यय एव - आत्मज्ञानमेव, न तु व्यतिरिक्तपरमेश्वरप्रत्ययः | विकल्पनिर्ह्वासाभावेऽपि - विकल्पहानाभावेऽपि, तम् - मोक्षम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सर्वो मम इति | अत्र टीका : - विश्वात्मनो मम इति भागं व्याख्यातुं प्रक्रियां करोति न हि इति | हि - यस्मात्, सः प्रत्यगात्मा नाम - प्रत्यगात्माख्यः, पशुः - अणुः, अन्यः - परमेश्वराद्भिन्नः कश्चिन्न तु अस्ति | सः कः ? यः अहम् मम इति षष्ठ्यन्तपदेन स्वामित्वेन उक्तोऽस्तीति यावत् | पुनः अहम् इति कोऽस्तीत्यपेक्षायां पक्षान्तररीत्या कथयति अपि तु इति | परिग्रहीतौ - साक्षित्वेन स्थित्वा ग्रहणविषयीकृतौ, ग्राह्यग्राहकौ येन तादृशः यः प्रकाशः तेन घनः - निबिडः | यः परः - सर्वोत्तीर्णत्वेऽपि सर्वमयं वस्तु भवति स एवाहम् | ननु त्वं सः भव, स तु त्वं नास्ति, तस्य सर्वत्वात् इत्यत आह स च इति | स च - परश्च, अहमेव, सर्वत्रापि अहम् इत्येव स्थितत्वात् | स्थावरेष्वपि त्वन्यः कश्चित्; अतो विकल्पसृष्टिरपि मम स्वातन्त्र्यलक्षणो विभवः, - इत्येवं विमर्शे दृढीभूते सत्यपरिक्षीणविकल्पोऽपि जीवन्नेव मुक्तः | यथोक्तम् - शङ्कापि न विशङ्क्येत निःशङ्क्त्वमिदं स्फुटम् | इति || १२ || हि अहं प्रतीतिरस्त्येव अन्यथा वृक्षस्य स्वं प्रति रसाकर्षणायोगात् | तु व्यतिरेके, अन्यः कश्चित् अहं न भवति, इदन्ताविषयत्वेन जडत्वापातात् | एतदवष्टम्भेन श्लोकं व्याचष्टे अतः इति | तत्रापि सर्वोऽयम् इति व्याचष्टे विकल्पसृष्टिः इति | अपि शब्दात् ईशसृष्टेर्ग्रहणम् | मम - परमार्थतः प्रोक्तरूपस्य, आपाततस्तु देहादिप्रमातृत्वेन स्थितस्य अस्मच्छब्दवाच्यस्य वस्तुनः सम्बन्धि | विभवः इति व्याचष्टे स्वातन्त्र्य इति | स्वातन्त्र्यमेव हि विभवः न द्रविणादीति भावः | इत्येवं परिजानतः इति व्याचष्टे इत्येवम् इति | विकल्पानां प्रसरेऽपि इति व्याचष्टे अपरिक्षीण इति | अपि शब्देन तेषां बाहुल्येन विकल्पराहित्यमेव भवेत्, परन्तु देहस्वभाववशेन कदाचिदागतानां विकल्पानां प्रसरेऽपि तेषां महेशतैवेति ज्ञेयम् | न तु सर्वदा विकल्पग्रस्तेध्वयं विधिः, अस्य परामर्शस्य तत्राभावात् | अपि शब्दः काकाक्षिन्यायेन द्विर्योजनीयः | महेशता इति पदं व्याचष्टे जीवन्नेव मुक्तः इति | मुक्तिर्हि महेशभावासादनमेवेति भावः | जीवत्वं चात्र विकल्पप्रसरेणैवाक्षिप्तम् | अत्र पूर्वाचार्यसम्मति कथयति यथोक्तम् इति | किमुक्तमित्यत आह शङ्कापि इति | अत्रायमर्थः | योगवशेन प्रक्षीणीभूताभिर्वस्तुशङ्काभिरलम् | योगिनां शङ्कापि - कदाचिद्देहस्वभावेन आगता विकल्परूपा शङ्कापि, न विशङ्क्येत - न विशङ्कनीया, किमर्थमियमागता इति न शङ्काविषयीकार्या, क्षोभावहत्वादिति यावत् | किन्तु अनादरविषयतामेव नेयेतिभावः | तदुक्तम् :- अनादरविरक्त्यैव न पश्यन्तौन्द्रियसंविदः | इति | इदं स्फुटम् - प्रकटम्, निःशङ्कत्वं भवति - शंकाग्रस्तस्य स्फुटमेव सशङ्कत्वात् इति | न च सर्वदा विकल्पग्रस्तैरयमभिमानः कार्यः, असम्भवोपहतत्वात्, नन्वेवं बद्धमुक्तयोः प्रमेयं प्रति को भेदः ?, उच्यते - मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते | महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् || १३ || श्रीमत्सदाशिवेश्वरपदादारभ्य क्रिमिपर्यन्तप्रमातृवर्गाधिष्ठातृ यदहमितिरूपं - ये तु विकल्पग्रस्तत्वेऽपि स्वात्मानं तथा न जानते, सन्निपातदोषग्रस्तेभ्यस्तेभ्यो दूरतो नम एव कार्यमित्यलं बहुना | सर्गः इत्यस्य स्थाने सर्गः इति प्रशस्तः पाठः | सर्व शब्दो हि सामान्येन जीवेशसृष्ट्योः आक्षेपं करोति, न तु विकल्पसृष्टेरेव | सर्गः इति पाठे तु अयम् इत्यनेन प्रकृतविकल्पपरामर्शः | सर्ग पदेन सृष्ट्यभिधानम् | अयं सर्गः, जीवसृष्टिरूपा विकल्पसृष्टिरित्यर्थः | अपि शब्दात्तु ईशसृष्टेर्ग्रहणम् | काश्मीरिकलेखकैस्तु स्तोकं सादृश्यवशेन सर्ग इत्यस्य स्थाने सर्व इति पाठो लिखितः | सहृदया एवात्र प्रमाणम् | कुत्राप्यादर्शे सोऽहम् इत्यपि पाठोऽस्ति, स तु न युक्तः | मम विश्वात्मनः इत्यस्य व्याख्यार्थं कृतेन प्रपञ्चेन कृतभ्रमसिद्धत्वात् [इत्यस्य व्याख्यार्थं कृतेन प्रपञ्चेन कृतभ्रमसिद्धत्वात् - C.] | एतन्मात्रनिर्णयपरेऽत्र शास्त्रे स्थितस्यास्य श्लोकस्यानुवादकत्वापत्तेश्च | न च सूत्रेष्वनुवादोयुक्तः | टीकाकारेण तु विश्वात्मनः इत्यस्य व्याख्यानुरोधेन कृतोप्यनुवादो न दोषमावहतीत्यलं बहुना प्रतिभान्वितेषु, तद्रहितानान्तु अत्रानधिकारात् | अथवा सर्व शब्द एव सृष्टिवाचकः, अयम् शब्देन तु तस्य प्रकृतविकल्पभावेन परिच्छेदः क्रियते इति || १२ || अथ त्रयोदशस्य श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे मेयम् इति | अत्र टीका : - श्लोकं व्याख्यातुमवतरणिकां करोति श्रीमत् इति | अधिष्टातृ, प्रेरकम्, तदेवात्मतयाभिनिविशते मुक्तः, ततश्च विश्वस्यापि प्रमेयं ममापि, मम प्रमेयं विश्वस्यापि, प्रमेयं चेदं ममैवाङ्गभूतं प्रमेयान्तरमपि तथा, - इत्यनेन क्रमेण प्रमेयं परस्परतश्च प्रमातृवर्गाच्चाव्यावृत्तम्, - इत्येकरसाभेदविश्रान्तितत्त्वमस्य सर्वं परामर्शपदमुपैति | बद्धस्य तु सर्वमेतद्विपरीतम्, - इत्येकरसभेदविश्रान्त एवासौ || १३ || ननु सदाशिवेश्वरभुवि जीवन्मुक्तिपदे बद्धरूपपशुप्रमातृविषये च प्रमेयवृत्तान्तः परीक्षितः, परमशिवे तु कथमसौ ? इत्याशङ्क्याह - सर्वथा त्वन्तरालीनानन्ततत्त्वौघनिर्भरः | शिवः चिदानन्दघनः परमाक्षरविग्रहः || १४ || न खलु भगवति श्रीपरमशिवे प्रमेयकथा काचिदस्ति, तत्त्वौघस्य अभिनिविशते - मन्यते | एतेन मन्यते इत्यस्य व्याख्या | अन्यथा मुक्तत्वायोगादिति भावः | एतदवष्टम्भेन श्लोकं व्याचष्टे ततश्च इति | विश्वस्य - सर्वस्य प्रमातृवर्गस्य | एतेन मेयं साधारणम् इत्येतयोर्व्याख्या | स्वात्माभेदेन इति व्याचष्टे ममैवाङ्गभूतम् इति | तथा - ममाङ्गभूतम् | अव्यावृत्तम् - अभिन्नम् | एकरसो यः अभेदः तत्र या विश्रान्तिः सा एव तत्त्वं यस्य तादृशम् | अस्य - मुक्तस्य, परामर्शपदम् - परामर्शविषयम्, उपैति इति, सर्वत्राऽहमिति ग्रहणादिति भावः | महेश्वरो यथा इति दृष्टान्तपदं सुगमत्वेन न व्याख्यातम् | बद्धः इत्याद्यवशिष्टं श्लोकखण्डं व्याचष्टे बद्धस्य इति | एतत् स्वकीयं परकीयञ्च प्रमेयमित्यर्थः | विपरीतम् - स्वतः अन्यतश्च व्यावृत्तम्, असौ - बद्धः || १३ || अथ चतुर्दशस्य श्लोकस्यावतरणिकां करोति ननु इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे सर्वथा इति | अत्र टीका : - सर्वथा - सर्वप्रकारेण, यत् यथा अस्ति तस्य तथैव स्थित्या | न तु अन्यथाभावाऽऽसादनेनेत्यर्थः | तत्र - तस्मिन् परशिवे, अन्तः तत्त्वौघस्य - शिवादि सर्वथा तत्र चिद्रूपतामात्रविश्रान्तत्वेन लीनत्वात्, ततश्च सावस्था संवित्स्वभावेन स्वात्मविश्रान्त्यानन्देन अकृत्रिमनैसर्गिकपरामर्शात्मकस्वात्मचमत्कारलक्षणेनैक- घना अविच्छिन्नतद्रूपा परमाक्षरेण विग्रहवती भगवतो विश्वमयस्यानवच्छिन्नानुत्तरधाम्नो [अनवच्छिन्नानुत्तरधाम्नो गलितप्रमेयकथा - K. ष्. ष्.] नित्यशुद्धस्यगलितप्रमेयकथा सर्वोर्त्तीर्णा व्यपदिश्यते || १४ || धरण्यन्तस्य तत्त्वग्रामस्य | एतद्धेतुकत्वेन उत्तरार्धं व्याचष्टे सावस्था इति | सावस्था - पूर्वोक्ताऽवस्था | चित् इत्यादि समस्तं पदं विग्रहपूर्वकं व्याचष्टे संवित् इति | तत्रापि चिद्रूपता इत्यवयवं व्याचष्टे संवित्स्वभावेन इति | आनन्द इत्यवयवं व्याचष्टे स्वात्म इति | स्वात्मनि विश्रान्तिरूपः आनन्दः स्वात्मविश्रान्त्यानन्दः तेन | स्वात्मविश्रान्त्यानन्दस्य स्वरूपं दर्शयति अकृत्रिम इति | अकृत्रिमः - विषयसाधितत्त्वाभावेन अकल्पितः, अत एव नैसर्गिकः - स्वाभाविकः, तथा परामर्शात्मकः - अहम् इति पराहन्तापरामर्शरूपः यः स्वात्मचमत्कारः - स्वात्माश्रयः स्वात्मविषयश्च आस्वादः, सः लक्षणम् - स्वरूपं यस्य तादृशः, तेन | घनः इत्यवयवं व्याचष्टे एकघना इति | अत्रापि पर्यायमाह अविच्छिन्नतद्रूपा इति | अविच्छिन्नं तद्रूपं यस्याः सा | परमाक्षरविग्रहः इति व्याचष्टे परमाक्षरेण विग्रहवती इति | परमाक्षरेण - सर्वोत्तीर्णाविनाशिस्वभावेन, विग्रहवती - विग्रहयुक्ता | परमाक्षरस्वरूपेत्यर्थः | सूत्रोक्तसामानाधिकरण्योपपादनाय अस्याः अवस्थायाः परमशिवसम्बिन्धित्वं कथयति भगवतः इति | विश्वमयस्य - पूर्णत्वेन विश्वनिर्भरस्य, तथा अनवच्छिन्नम् - अनुत्तरं धाम यस्य तादृशस्य | नित्यशुद्धस्य, नित्यशुद्धप्रकाश - रूपस्येत्यर्थः | आश्चर्यं च विश्वमयस्य अनवच्छिन्नानुत्तरधामत्वम् | न हि अङ्गिनः स्वाङ्गैः कोऽपि विकार इति तु परिहारः | गलिता प्रमेयकथा यस्यामवस्थायां सा गलितप्रमेयकथा, अत एव सर्वोत्तिर्णा, विश्वोत्तीर्णरूपेत्यर्थः | व्यपदिश्यते इति | व्यपदेशमात्रमेवेदम्, परमार्थतस्तु स एव सर्वथा सर्वं स्वयमेव भवति च न भवति च सर्वंसहत्वात् इति का सूत्रे सामानाधिकरण्यद्योतिता सम्बन्धित्वकथेति भावः || १४ || एवमधिकारचतुष्टयोक्तं यद्वस्तु तत्फलितमाह - एवमात्मानमेतस्य सम्यग्ज्ञानक्रिये तथा | जानन्यथेप्सितान्पश्यञ्जानाति च करोति च || १५ || एवमिति, ईश्वररूपमात्मानं तस्य च स्वाव्यतिरिक्ते स्वातन्त्र्यमात्ररूपे ज्ञानक्रिये जानन् एवंभूतोऽयमात्मा न तु काणादादिदर्शितः, इत्थं च ज्ञानक्रिये न तु तस्य व्यतिरिक्ते केचन इति परामृशन्, यद्यदिच्छति तत्तज्जानाति करोति च समावेशाभ्यासपरोऽनेनैव शरीरेण | अतत्परस्तु सति देहे जीवन्मुक्तस्तत्पाते परमेश्वर एवेति || १५ || अथ पञ्चदशस्य श्लोकस्यावतरणिकां करोति एवम् इति | स्पष्टम् | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे एवम् इति | अत्र टीका : - एवम् शब्दं व्याचष्टे ईश्वररूपम् इति | आत्मानम् इति निगदव्याख्यातम् | एतस्य इति व्याचष्टे तस्य च इति | तस्यात्मनः इत्यर्थः | ज्ञानक्रिये इति व्याचष्टे स्वाव्यतिरिक्ते इति | शक्तिभावेन स्थितत्वादिति भावः | एतेन तथा शब्दस्य समुच्चयद्योतकत्वं सूचितम् | पश्यन् इत्यस्य व्याख्यां करोति जानन् इति | पश्यन् इत्यन्तं कृतां व्याख्यां सङ्ग्रहेण पुनरनुवदिति एवं भूतः इत्यादि परामृशन् इत्यन्तम् | यथेप्सितान् इत्यादि अवशिष्टं श्लोकखण्डं व्याचष्टे यत् इति | समावेशस्य - परमेश्वरैक्यरूपताभवनरूपस्य अभ्यासः तत्र परः - एकनिष्ठः तत्परः | अतत्परः - ज्ञानित्वेऽपि बाह्यव्यवहारे सक्तः | तत्पाते - देहपाते | इति शब्दः समस्तप्रक्रियासमाप्तौ | एतच्च श्री स्पन्दशासने तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वस्वलक्षणः | यतस्तदीप्सितं सर्वं जानाति च करोति च || इति श्लोकेनोक्तं || १५ || अस्यार्थस्य स्वप्रत्ययसिद्धस्यापि गुरुपरम्परोपदेश उपोद्बलको वक्तव्यः, शास्त्रदृष्टिर्हि दर्शितागमाधिकारेण | एवं गुरुतः शास्त्रतः स्वतः एतद् दृढीकृतं भवति, इत्यभिप्रायेण गुरुपारम्पर्यं दर्शयति इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिरुच्यतेस्म शिवदृष्टिशास्त्रे यथा | तदत्र निदधत्पदं भुवनकर्तृतामात्मनो विभाव्य शिवतामयीमनिशमाविशन्सिद्ध्यति || १६ || अस्मत्परमेष्ठिभट्टारकश्रीसोमानन्दपादैः शिवदृष्टिशास्त्रेऽयमभिनवः सर्वरहस्यशास्त्रान्तर्गतः सन्निगूढत्वादप्रसिद्धो बाह्यान्तरचर्याप्राणाया - अथ षोडशस्य श्लोकस्यावतरणिकां करोति | अस्यार्थस्य इति | अत्र टीका : - अस्यार्थस्य - सः स्वतन्त्रः परमेश्वर एवाहम् इत्येवंरूपस्य रहस्यार्थस्य, स्वप्रत्ययसिद्धस्यापि - स्वानुभवसिद्धस्यापि, उपोद्बलकः - उपोद्बलनकारी | ननु शास्त्रदृष्टिरप्यत्रोपयुक्ता वर्तत एवेत्यत आह शास्त्र इति | फलितमाह एवम् इति | एवम् - गुरुपरम्परोपदेशस्य एतदर्थोपोद्बलकत्वे [एतदर्थोपोद्बलके सति - K. ष्. ष्.] सति, आचार्यः इत्यभिप्रायेण - अनेनाभिप्रायेण, गुरुपारम्पर्य दर्शयति - प्रकटयति | इति कथमिति ? एतत् - अयमर्थः, गुरुतः शास्त्रतः स्वतः दृढीकृतं भवति इति | एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य व्याचष्टे इति इति | अत्र टीका: - महागुरुभिः इति व्याचष्टे अस्मत् इति | शिवदृष्टिशास्त्रे - शिवतत्त्वप्रकटताहेतुभूतत्वेन ज्ञिवदृष्टि पदवाच्ये | अयम् अभिनवः इति व्याचष्टे सर्व इति | निघूढत्वात् इति | तत्र अन्यैरुपायैः सहोक्तत्वेन विविच्य प्रतिभारहितैर्दुर्लभत्वादित्यर्थः | ननु तेषां रहस्यशास्त्राणां रहस्यत्वं किं रूपमस्ति | न हि तत्कारिणः पक्षपातग्रस्ता भवेयुः | सत्यम् | तत्र पक्षपातकथा नास्त्येव, परं तत्र तैः केनापि कारणेन हृद्यं वस्तुजातं सेव्यत्वेन उक्तम् | संसारादुत्थिता हि सर्वथा भोगेभ्यो निवृत्तिपराः प्रवाहागतानपि भोगान् न भुञ्जते | न च मादिक्लेशप्रयासकलाविरहात् सुघटस्तावदुक्तः, स एवात्र प्रकटतां परवादकलङ्कशङ्कापसारणेन नीतः | यत एवं शास्त्रगुरुस्वप्रत्ययसिद्धोऽयमर्थः, तद्युक्तम् | देहस्थिति तावद् भोगनिवृत्तेरसम्भवोपहत्वात् | भागतः करणस्य परिहार्यत्वात् | भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् | इत्याशंसेह शोभेत शम्भोर्भक्तिमतः परम् || इति शीभट्टनारायणादिभिराशंसाविषयीकृतत्वाच्च | किञ्च तदुत्थहृदयाह्लादोऽपि तान् प्रबुद्धान् प्रति परानन्दोद्दीपक एव भवेत् | अप्रबुद्धास्तु तच्छ्रवणेन विशेषेण विषयश्वभ्रपतिता एव भविष्यन्तीति तेषु दर्शनायोग्यत्वेन तेषां महारहस्यत्वमुक्तम् | न तु पक्षपाताभिप्रायेण | ये तु मूढाः विषयग्रस्ताः अधिकारं विनैव तानि शास्त्राण्यवगाहन्ते स्ववञ्चनपरेषु तेषु दया कार्या | अशृण्वते तु दूरत एव नमः कार्यम् | ननु यदि तत्र आनन्दमार्गः सुप्राप्योऽस्ति तर्हि सर्वान् प्रति तद्दर्शनं युक्तमेवेति चेन्न, प्रबुद्धान्प्रति तथात्वेऽपि अप्रबुद्धान्प्रति तथात्वाभावात् | यथाश्वभ्रदेशाग्रे स्थितः पुरुषः स्तोकान्तरे श्वभ्रान्तरे स्थितं रत्नं पश्यन् प्रत्यासन्नत्वेऽपि पातभयेन न प्लुत्या गृह्णाति, किन्तु ततोऽवतीर्यं पुनः श्वभ्रान्तरमारुह्यैव गृह्णाति, तथा रहस्यशास्त्रेषु सेव्यत्वेन प्रोक्तं वस्तुजातम् आनन्दोद्दीपकत्वेऽपि विषयावटभयात् असमर्थैर्न ग्राह्यम्, किन्तु शमादिद्वारेण तत्प्राप्त्यर्थं यत्नपरैरेव भाव्यम् | निजसमर्थत्वासमर्थत्वयोः स्वात्मैव साक्षीकार्यः, अन्यथा स्ववञ्चकत्वापत्तेः | यस्तु मूर्छाग्रस्तत्वेन स्वपातमपि नानुभवति तदवस्थायां भगवानेव शरणमित्यलं प्रपञ्चेन | ननु तर्हि कथं तेषु रहस्य - शास्त्रेषु स्फुटं तेषां द्रव्याणामविशेषेण नमस्कार्यत्वमुक्तम् | सत्यम् | आनन्दोद्दीपकत्वेअन तत्र नमस्कारोऽपि युक्त एव, सेवनं तु अयुक्तमेव, यथा अशुचिजनघटान्तर्गतो गङ्गोदबिन्दुर्नमस्कारयोग्यत्वेऽपि पानाऽयोग्य एवेत्यलं प्रसक्तानुप्रसक्त्या | सूत्रोक्तं सुघटत्वं साधयितुं हेतुमाह बाह्यान्तर इति | बाह्यचर्या - यज्ञादि, आन्तरचर्या - भावनादि | सुघटः - सुप्राप्यः | उच्यते स्म इति व्याचष्टे उक्तः इति | ननु तर्हि तैरेवायं मार्गः उक्तः, त्वया किमयं व्यर्थो यत्नः कृत इत्यत आह स एव इति | नत्वपूर्वं किञ्चित्कृतमिति भावः | पूर्वार्धं व्याख्यायोत्तरार्धे व्याचष्टे यत एवम् इति | तत्रापि तत् इति व्याचष्टे यतः इति | तदिति तस्मादत्र प्रमेयपदे [प्रमेये पदं परामर्शम् - K. ष्. ष्.] परामर्शं विश्रमयन् विश्वकर्तृत्वलक्षणमैश्वर्यमात्मनो विभाव्य दार्ढ्येन यदा परामृशति तर्हि तत्परामर्शमात्रादेव तावज्जीवन्मुक्तो भगवाञ्छिव एव | यथोक्तं परमेष्ठिपादैः ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना | करणेन नास्ति कृत्यं क्वापि भावनयापि वा || सकृज्ज्ञाते सुवर्णे किं भावनाकरणादिना | सर्वथा पितृमात्रादि तुल्यदार्ढ्येन सत्यता || (शि . दृ.) इत्यादि | तां विभाव्य यद्यनिशमाविशति शरीरप्राणबुद्धिशून्येभ्योऽन्यतमं द्वयं सर्वं वा तत्रैव निमज्जयति, अनवरतं तत्तां तां विभूतिं महाविभूतिपर्यन्तां [परविभूतिपर्यन्ताम् - K. ष्. ष्.] लभते || १६ || इति | एवम् - उक्तप्रकारेण, अत्र इति व्याचष्टे प्रमेयपदे इति | प्रमेयपदे - निर्णेयवस्तुनि | पदं निदधत् इति व्याचष्टे परामर्शं विश्रमयन् इति | भवनकर्तृताम् इति पदं व्याचष्टे विश्वकर्तृत्वलक्षणमैश्वर्यम् इति | आत्मनो विभाव्य इति निगदव्याख्यातम् | अत्र मध्ये किञ्चिद् युक्तत्वेन स्वयं कथयति दार्ढ्येन इति | तत् शब्दाकांक्षां पूरयितुं शिवतामयीम् इत्यवशिष्ट श्लोकखण्डं व्याचष्टे तत् इति शिव एव भवतीति शेषः | अत्र शिवदृष्टिवाक्यान्युदाहरति यथोक्तम् इति | इत्यादि इति | आदि शब्देन अन्येषां तत्रस्थवाक्यानां ग्रहणम् | अत्र च प्रथममेव व्याख्या कृतेति न पुनरायस्यते | अनिशम् इति पदस्याभिप्रायं प्रकटयति यदि इति | अनिशम् - सततप्रवाहेण, अन्यतमम् - एकम्, तत् - तदा, तां तां विभूतिम् - सिद्धिनिवहम् | तदुक्तम् : - अतो बिन्दुरतो नादः रूपमस्मादतो रसः | प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः || इति | ननु तर्हि तस्य अवान्तरे एव स्थितिर्भवेदित्यत आह महाविभूति - पर्यन्ताम् इति | मध्ये क्षुद्रसिद्धिप्रादुर्भावेऽपि पर्यन्ते तस्य परशिवैक्यरूपमहासिद्धिप्राप्तिरेव भविष्यतीति भावः || १६ || ननु यद्यात्माख्यं वस्तु तदेव तर्हि तस्य प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः, न हि बीजमप्रत्यभिज्ञातं सति सहकारिसाकल्ये नाङ्कुरं जनयति, तत् क आत्मप्रत्यभिज्ञाने निर्बन्धः ? उच्यते, द्विविधार्थक्रियास्ति, बाह्य चाङ्कुरादिका, प्रमातृविश्रान्तिचमत्कारसारा च प्रीत्यादिरूपा | तत्राद्या सत्यं प्रत्यभिज्ञानं नापेक्षते, द्वितीया तु तदपेक्षते एव | अथ सप्तदशस्य श्लोकस्यावतरणिकां करोति ननु इति | तदेव - शिवरूपमेय चेत् तर्हि तस्य - शिवात्मनो वस्तुनः, प्रत्यभिज्ञानाप्रत्यभिज्ञानयोरविशेषः, बीजं प्रमात्रा अप्रत्यभिज्ञातमपि सलिलादिसहकारिसाकल्ये किमङ्कुरं न जनयति | प्रमात्रा अप्रत्यभिज्ञातमपि [नहि प्रत्यभिज्ञायैवोक्तं बीजम् ..........C.] बीजम् अंकुरं जनयत्येव | तद्वदात्माख्यं वस्तु अप्रत्यभिज्ञातमपि शिवरूपमेव | आत्मा ईश्वर इति प्रत्यभिज्ञाने को निर्बन्धः | अप्रत्यभिज्ञानेऽप्यात्मा ईश्वर एव | परिहारमाह - उच्यते इति | अंकुरात्मकजडरूपबीजाद्यर्थक्रिया बाह्या, अहंरूपप्रमातृविश्रान्तिचमत्कारसारा च प्रीत्यादिरूपा, इति द्विविधार्थक्रिया | भवदुक्तं सत्यम्, तत्र - तयोर्मध्ये, आद्या प्रत्यभिज्ञानं नापेक्षते | द्वितीया - प्रीत्यादिरूपार्थक्रिया, प्रत्यभिज्ञानम् अपेक्षते एव | इह च अहं महेश्वरः इत्येवं भूतचमत्कारसारा परापरसिद्धिलक्षणा जीवन्मुक्तिविभूतियोगमययर्थक्रिया, इतीश्वरप्रत्यभिज्ञानमत्रावश्यापेक्षणीयम् | ननु प्रमातृविश्रान्तिसारार्थक्रिया प्रत्यभिज्ञानेन विना न दृष्टा, सति तत्र दृष्टा, इति क्वैतुदुपलब्धमित्याशङ्क्याह - तैस्तैरप्युपयाचितैरुपनतस्तन्व्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा | लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता || १७ || तदेव दर्शयति इह इति | इह - ईश्वरप्रत्यभिज्ञाख्ये शास्त्रे, अहं चैत्रः अहं मैत्रः सद्गुरुकटाक्षात् अहम् ईश्वरः एव इत्येवं भूतचमत्कारसारा, परसिद्धिः - जीवन्मुक्तिः, अपरसिद्धिविभूतिः - सृष्ट्यादिना विश्ववशीकरणक्षमा विभूतिः, इत्येतदुभयलक्षणा, इति अस्थामर्थक्रियायाम् यः पुराणागमादिप्रसिद्धः ईश्वरः स एवाहम् इतीश्वरप्रत्यभिज्ञानमवश्यापेक्षणीयमेव | पुनश्चोदयति - प्रमातृविश्रान्तिचमत्कारसारार्थक्रिया प्रत्यभिज्ञानेन विना न दृष्टा प्रत्यभिज्ञाने सति अर्थक्रिया दृष्टा इति क्वैतदुपलब्धम् इत्याशंक्याह तैस्तैः इति | कान्तः - अभीष्टो नायकः द्वीपान्तरस्थितः, तैस्तैः - दूतीसम्प्रेषणैर्देवताप्रार्थनैः, यस्मिन् कस्मिंश्चिन्महाजनसमुदायरूपे महोत्सवे एकत्र मण्डपे समागत्य सविधे च स्थितोऽपि, चिरकालमाकाङ्क्षितः दैवयोगात् सविधे स्थितोऽपि, रूपादिगुणसंपदा दूतीमुखात् यथापूर्वं श्रुतः, एवम् इति तथा न परिज्ञातः - स्वसमीपेतरजनसमानतया स एवायमित्यपरिज्ञातः, रन्तुं यथा न अलम्, लोकस्य - प्रमातृवर्गस्य, एषः - आत्मा, तथानवेक्षितगुणः - अन्तःस्थितत्वेऽपि अप्रत्यभिज्ञातेश्वरलक्षणः अप्रत्यभिज्ञातात्मनिजवैभवः यः विश्वकर्तृत्वज्ञत्वपूर्णत्वनित्यत्वविश्वव्यापकत्वादिगुणः अहमितिरूपः स्वात्मा विश्वेश्वरः, लोकस्य - जनस्य अहमिति प्रथमानोप्यात्मा अहम् ईश्वरः इति प्रत्यभिज्ञानात्मकनिजवैभवाय नालम् - समर्थो न भवति, तत् - तस्मात्, इयम् - सर्वदाप्रकाशमानस्वानुभवसिद्धा, स एवेश्वरोऽहम् यदा नायकगुणसंश्रवणप्रवृद्धानुरागा कामिनी तद्दर्शनमेव परमुपादेयमाकाङ्क्षन्ती दिवानिशमवशहृदया देवतोपयाचितानि दूतीसंप्रेषणानि मदनलेखद्वारकात्मावस्थानिवेदनानि कुर्वाणा विरहक्षामीभवद्गात्रलतिका तिष्ठति, तदा तदुपयाचितवशात् अशङ्कितमेव सविधवर्तिनि प्रियतमेऽवलोकिते तैस्तैरुत्कर्षविशेषैः परामर्शपदवीमगच्छद्भिर्जनसाधारणतामापादिते संपन्नमपि प्रियतमावलोकनं न हृदयं पूर्णीकरोति; तथा स्वात्मनि विश्वेश्वरे सततं निर्भासमानेऽपि तन्निर्भासनं न हृदयस्य पूर्णतामाधत्ते; यतः सोप्यात्मा विश्वज्ञत्वकर्तृत्वाद्यप्रतिहतस्वशक्तिलक्षणपारमैश्वर्योत्कर्ष- योगेन न परामृष्टः - इति भासमानघटादितुल्यवृत्तान्तो जातः | यदा तु दूतीवचनाद्वा तल्लक्षणाभिज्ञानाद्वोपायान्तराद्वा तानुत्कर्षान् हृदयङ्गमीकरणेनामृशति, तदा तत्क्षणमद्भुतफुल्लन्यायेनैव तावत् कामपि पूर्णतामभ्येति, परिभोगाभ्या - सरसे तु विश्रान्त्यन्तराण्यपि लभते; तद्वदात्मनि गुरुवचनाज्ज्ञानक्रिया - लक्षणशक्त्यभिज्ञानादेर्वा यदा पारमैश्वर्योत्कर्षहृदयङ्गमीभावो जायते, इति प्रत्यभिज्ञा उदिता - कृपागृहीतमानुषविग्रहेण परमेश्वरेणोपदिष्टा | तदा तदुपयाचितस्य - तन्व्याः उपयाचितस्य वशात्, अविचारितमेव प्रियतमे सविधवर्तिनि अवलोकिते तस्य कान्तस्य रूपादिगुणवर्गातिशयैः स एवायम् इति हृदयपरामर्शपदवीमगच्छद्भिः स्वसमीपस्थितजनसाधारणताम् आपादिते, सम्पन्नमपि - प्राप्तमपि प्रियतमस्यावलोकनं तस्याः तन्व्याः हृदयं न पूर्णीकरोति | जनस्य स्वात्मनि विश्वेश्वरे सततं निर्भासमानेऽपि तन्निर्भासनम् - स्वात्मनो विश्वेश्वरात्मनिर्भासनम्, हृदयस्य न पूर्णतामाधत्ते, यतः, तस्मात् कान्तवत् सोऽपि जनस्य स्वात्मा - जनस्य अहम् इति प्रतीतः सोऽपि स्वात्मा, विश्वज्ञत्वाद्यप्रतिहतशक्तिलक्षणपारमेश्वरोत्- कर्षयोगेन न परामृष्टः इति भासमानघटादितुल्यवृत्तान्तो जातः, स्वयं चेतनोऽपि स्वाऽप्रत्यभिज्ञानात् चेत्यतुल्यो जात इत्यर्थः | अद्भुतफुल्लन्यायेन तेनामर्शेन कामपि वाचामगोअरां पूर्णताम् अभ्येति | कान्तायाः स्वाकान्तप्रत्यभिज्ञानवत् आदि गुरुवचनात् संपन्नात् ईश्वरशक्तिप्रत्यभिज्ञानादेव विश्वमयविश्वोत्तिर्णः परमेश्वरोऽहमिति उत्कर्षो जायते | तदा - तस्मिन्नवसरे महानन्दात्मिका तदा तत्क्षणमेव पूर्णतात्मिका जीवन्मुक्तिः; समावेशाभ्यासरसे तु विभूतिलाभः - इति तस्य प्रत्यभिज्ञैव परापरसिद्धिप्रदायिनी भवति || १७ || सर्वोपकारकं महाफलमिदं शास्त्रं प्रसिद्धान्वययोगेन नामधेयप्रसिद्ध्या च तदुत्कर्षस्मरणद्वारजनितसंभावनाप्रत्ययलक्षणप्रवर्तक - संवेदनया जनं प्रवर्तयितुं पितुर्नाम्ना चोपसंहारं दर्शयति जनस्यायत्नसिद्ध्यर्थमुदयाकरसूनुना | ईश्वरप्रत्यभिज्ञेयमुत्पलेनोपपादिता || १८ || जीवन्मुक्तिः | प्रत्यभिज्ञातस्वात्ममहेश्वरसमावेशाभ्यासरसे तु शिवादिक्षित्यन्तविश्ववशीकरणक्षमविभूतिलाभ इति तस्य स्वात्मन ईश्वरोऽहम् इति प्रत्यभिज्ञैव जीवन्मुक्तिविभूतिरूपसिद्धिद्वयप्रदायिनी भवति | यथोक्तम्: - अवस्थितमवस्थितं न पुनरत्र चित्रं महान् इदं प्रथमिकारसः स खलु देशिकापाङ्गभूः | प्रिया न किमियं प्रियो न किमयं किमेतावता न चेदयमुदारधीरुचितकाकुरेको जनः | इति || १७ || नात्र कश्चिन्नियम इति दर्शयति | प्रथमसूत्रव्याख्यानोक्तनीत्या सर्ववर्णोपकारकम् इत्यनेन वाक्येन एतत्सूत्रगतस्य जनस्य इति पदस्य अर्थगत्या प्रायेण व्याख्या दर्शिता | महाफलम् - जीवन्मुक्तिविभूत्यात्मकपरापरसिद्धिरूपमहाफलप्रदम् इत्यनेन सूत्रगतस्य अयत्नसिद्ध्यर्थम् इति पदस्य व्याख्या अर्थगत्या दर्शिता | इदम् शास्त्रम् इत्यनेन पदद्वयेन इयम् ईश्वरप्रत्यभिज्ञा इति पदद्वयस्य व्याख्या दर्शिता | प्रसिद्धान्वययोगेन नामधेय - प्रसिद्ध्या इत्यनेन पदद्वयेन उदयाकरसूनुना उत्पलेन इति पदद्वयस्य व्याख्या दर्शिता | किञ्च उदयाकरसूनुना इत्यन्वयप्रसिद्ध्या उत्पलेन इति स्वनामप्रसिद्ध्या स्वान्वयस्वनामोत्कर्षस्मरणद्वारजनितस्य इदमित्थमेव भवति नान्यथा इति संभावनात्मकविश्वासलक्षणस्य स्वोक्तं शास्त्रं प्रति प्रवर्तकसंवेदनस्य योजनात्, जनं प्रवर्तयितुम् - संवेदनं जने, योज्यजनं शास्त्रे प्रवर्तयितुम्, उपसंहरति जनस्य इति | यस्य कस्यचिज्जन्तोरिति नात्र जात्याद्यपेक्षा काचित् - इति सर्वोपकारित्वमुक्तम् | अयत्नेन सिद्धिः परापररूपा यथा स्यात् - इति महाफलत्त्वम् | उदयाकरपुत्रः श्रीमानुत्पलदेवोऽस्मत्परमगुरुरिदं शास्त्रमकार्षीत् - इति तत्प्रसिद्ध्या जनः प्रवर्तते - इति प्रवर्तनाद्वारेण सोऽनुगृहीतो भवति - इत्युभयनामनिर्देशः | इयमिति हृदयङ्गमतामुपपत्तिशतैरानीता | इति शिवम् || १८ || आदितः १९० || एषाभिनवगुप्तेन सूत्रार्थप्रविमर्शिनी | रचिता प्रत्यभिज्ञायां लघ्वी वृत्तिरभङ्गुरा || यस्य कस्यचित् जायमानस्य जन्तोः इत्यादिना ब्राह्मणादिवर्णापेक्षा आदि शब्देन तत्राप्यधिकार्यपेक्षा काचिन्नास्तीति अस्य शास्त्रस्य सर्वोपकारित्वमुक्तम् | एतच्छास्त्रश्रवणेन परापररूपा सिद्धिरयत्नेन स्यात् इति महाफलत्वं दर्शितम् | प्रसिद्ध्या जनः प्रवर्त्यते इति प्रवर्तनाद्वारेण च जनोऽनुगृहीतो भवतीति उभयनामनिर्देशः | इयम् इति स्वप्रत्ययविषयत्व - सूचकेन पदेन जनस्य उपपत्तिशतैः हृदयङ्गमत्वमानीता श्रीमदीश्वरप्रत्यभिज्ञेयम् | इति शिवम् | शिवात् प्रसृतत्वात् जनस्य शिवप्राप्तिहेतुत्वात् स्वयं शिवरूपत्वाच्चेति शिवम् | जीवन्मुक्तिविभूत्यात्मकपरापरसिद्धिद्वयप्रदं मङ्गलम् || १८ || एषा इति, स्वानुभवसिद्धा, किञ्च एषा इति जनस्य स्वानुभवसिद्धत्वेन दृश्यमाना, श्रीमदभिनवगुप्तनामधेयेनाचार्येण कथञ्चिदासाद्य इत्यादि उत्पले नोपपादिता इत्यन्तसूत्रार्थस्य प्रकर्षेण विमर्शिनी - सुत्रार्थं निश्शेषेण द्योतयन्ती, प्रत्यभिज्ञाख्ये शास्त्रे लघ्वी - शास्त्रार्थमशेषं संक्षेपेण दर्शयन्ती, अभङ्गुरा - बौद्धादिसिद्धान्तैः भङ्क्तुमशक्त्या, वृत्तिः - विस्पष्टत्वेन प्रकाशिका पदवी, रचिता साभिगुप्तं यत् पुराणं च प्रसिद्धिमत् | हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम् || इति स्वोक्तनीत्या अनुत्तरात्मकस्वहृदयस्फूर्जनेन रचिता - स्फारिता | लघ्वी इत्यनेन पदेन पुनरपि स्वमुखेन प्रत्यभिज्ञाशास्त्रं प्रति बृहती काचिद् विमर्शिनी भविष्यतीति सूचितम् | वाक्यप्रमाणपदतत्त्वसदागमार्थाः स्वात्मोपयोगमुपयान्त्यमुतः स्वशास्त्रात् | भौमान् रसाञ्जलमयांश्च न सस्यपुष्टौ मुक्त्वार्कमेकमिह योजयितुं क्षमोऽन्यः || आत्मानमनभिज्ञाय विवेक्तुं योऽन्यदिच्छति | तेन भौतेन किं वाच्यं प्रश्नेऽस्मिन्को भवानिति || इति श्रीमदाचार्योत्पलदेवविरचितायामीश्वरप्रत्यभिज्ञायां श्रीमदाचार्याभिनवगुप्तविरचितविमर्शिन्याख्यटीकोपेतायां तत्त्वसङ्ग्रहाधिकारः | समाप्ता श्रीमदीश्वरप्रत्यभिज्ञा || वाक्यम् - मीमांसाशास्त्रम्, प्रमाणम् - न्यायशास्त्रम्, सदागमाः - शिवप्रोक्ताः आगमाः, अमुतः - प्रत्यभिज्ञाख्यात्, सुशास्त्रात् - शोभनात् सर्वोत्तरात् अमुतः स्वानुभवसिद्धात् शास्त्रात्, स्वात्मोपयोगम् - महेश्वररूपस्वात्म - परामर्शात्मकमुपयोगम् - प्रयोजनम् उपयान्ति - समीपे प्राप्नुवन्ति इति, अनेन शास्त्रेण विना वाक्यादीनि शास्त्राणि केवलं स्वयमेव स्वात्मोपयोगं नायान्ति | तत्र दृष्टान्तमाह भौमान् - भूमिगतान् रसान् जलमयांश्च ग्रीष्मादेव क्षीणान् स्वमरीचिचक्रान्तर्निवेश्य वर्षिण्यादिमरीचिभिः सस्यपुष्ट्यै योजयितुम् अर्कं विना कोऽन्यः क्षमः | अहम् इति प्रथमानम् आत्मानम् - ज्ञानक्रियात्मकशक्तिप्रत्यभिज्ञानेनेश्वरात्मकम्, अनभिज्ञाय, अन्यत् - वाक्यप्रमाणादिशास्त्रम्, विवेक्तुमिच्छति, तेन भूताविष्टसमानेन स्वरूपप्रच्छादनात्मकमायाभूताविष्टेन को भवान् इति प्रश्ने किं वाच्यम्, न किमपीत्यर्थः | यथा चैत्रो भूताविष्टः स्वपित्रादिना संकेतितं स्वनामधेयं न जानाति तद्वन्महामायाभूताविष्टः आत्मन आदिसिद्धं महेश्वरत्वं न जानातीत्यर्थः || इति प्रत्यभिज्ञासूत्रविमर्शिनीव्याख्या समाप्ता || ########### END OF FILE #######