#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00660 Uniform title: īśvarasiddhiḥ Author : utpaladeva Description: Copied from volume 34 of the K.S.T.S. series Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: Apr. 6, 2024 Diplomatic transcription Publisher : Publication year : 1921 Publication city : Publication country : India #################################################### ओं काश्मीर-संस्कृतग्रन्थावलिः | ग्रन्थाङ्कः ३४ सिद्धित्रयी ईश्वरप्रत्यभिज्ञाकारिकावृत्तिश्च श्रीमन्महामाहेश्वराचार्यवर्य-राजानक-उत्पलदेवविरचिते श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश- (रिसर्च) कार्यालये तदध्यक्ष-पण्डित-मधुसूदनकौल-शास्त्रिणा उद्दिष्ठकार्यालयस्थेतरपण्डितसहायेन पाश्चात्यविद्वत्परिपत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य श्रीनगरे कश्मीर प्रताप स्टीम प्रेस मुद्रणालये मुद्रयापयित्वा प्राकाश्यमुपनीते विक्रमाब्दः १९७८ खैस्ताब्दः १९२१ काश्मीर-श्रीनगर पृ० १) || ओं || अथ ईश्वरसिद्धिः श्रीमदाचार्योत्पलदेवविरचिता | .......................................... ...................................... | करोति तमहं देव- मेकं नौमि महेश्वरम् || १ || तनुकरणादिकार्यं बुद्धिमत्कर्तृपूर्वकं संनिवेशविशेषवत्त्वात्, यद्यत्संनिवेशविशेषवत् तत्तद्बुद्धिमत्कर्तृनिर्मितं यथा घटः, बुद्धिमत्कर्तृपूर्वकं यन्न भवति न तत् संनिवेशविशेषवत्कार्यं यथा परमाण्वाकाशशशविषाणादि, तथा च भवति संनिवेशविशेषवत् तन्वादिकार्यं, तस्माद्बुद्धिमत्कर्तृपूर्वकमिति | तदाह तन्वादि बुद्धिमद्धेतु संनिवेशविशेषवत् | पृ० २) घट.................... .........परमाणुवत् || २ || इति || अत्र च धर्मिसंबन्धबलात्............................. हेतुभूतार्थक्रियोपयोगिता च कथ्यते | घटस्य हि मृदुपादानकारणत्वेन सिद्धा | तत्र च न पृथुबुध्नोदराकारसंनिवेशविशेषसंभवः, लोकयात्रायाश्च तथा संनिवेशविशेषवता विचित्रेण वस्तुना विना महती खण्डना, सहकारी च तथा संनिवेशवत एव रूपरसाद्यन्यथात्वे व्याप्रियेत | यथा स्वच्छसरस्यूष्मसंपर्कः | वायुसंबन्धवशादपि कार्यस्य संस्थानान्तरं स्यादपि कदाचित् न तु नियमेन भवेत् अनन्तपदार्थसार्थस्य समानजातीयतोत्थापननिमित्तमन्यथापि वायुप्रसरस्य संभवात्, एकरूप.............................. उत्थापकत्वे वा वायुरेव बुद्धिमानस्तु............किं संविदा.......................................................... बुद्धिमत्प्रोरितो वा............. ............................. | ............................... ..............ततो घटो यथा || ३ || इति || घटजातीय एव दृष्टान्तधर्मी....................................... रपि तदाकारनियतः साध्यधर्मितया जातिप्राधान्येनैवोपादीयते | तदित्थं धर्मविशेषसंनिवेशविशेषो लोकयात्रा निर्वाहकहेतुरुपादानकारणासंभवी च न स्वतन्त्रेच्छावत्का- पृ० ३) रणसंबन्धमन्तरेण नियमात् उपादानदेशपरिहारेणापरदेशगमनेनोपपद्यते | कर्माण्यपि सहकारितामापद्यमानानि तदवस्थासंस्थाने रूपमात्रवैचित्र्यं विदध्युः, न त्वेकैकसाधना देशक्रमाक्रमणलक्षणा संनिवेशनापदेशा सदृशार्थक्रियाकारिसजातीयार्थजातोत्थापननियता क्रिया तत्कार्या भवितुमर्हति | यद्यप्याधारसंयोगभङ्गोत्पातलक्षणा क्रिया स्यात् तथापि आधारस्यैकसंस्थानावस्थानात् भङ्ग एव नोपपन्नो यावत्साक्षात् पारंपर्येण वापि अवयवानामस्य प्रेक्षापूर्वकारिणा बुद्धिमता देशान्तरसंचरणं न कृतं, वातादिकृत............मयमप्रसङ्गः प्रागुक्त एव | ..............निरुपाख्यतामाधारमापादयन्नाधेयमधः पातयति, तदाप्यग्नेः प्राक्तनदेशपरिहारे निमित्तान्तरमिच्छावद्वाच्यम् | ................पार्थिवद्रव्यसंघर्षजत्वेऽपि पूर्ववन्नियमोद्धोषणदूषणम् | यदा पुनर्नियमेनाग्नेः स्वेदपाकदाहादिना द्रव्यमन्यसंनिवेशं करोति, येन विशिष्टजातिभाञ्जि भावान्तराण्युच्छूनतादिरचनाविशेषवन्ति उत्तिष्ठन्ति, तदा बुद्धिमत्प्रेरणोपपादिततथाकृतीनि तानि, नान्यथा पूर्वोक्तनयेन नियमयोगः | तदेवमुपादानासंभवी देशान्तरोपसर्पणात्मा लोकस्थितिहेतुः संनिवेशो नियमेन तज्जातीयतापादको बुद्धिमत्कारणाभावे सर्वथानुपपद्यमानो बुद्धिमत्कर्तृनिर्मितो दृष्टः | ......... ............................ .........क्संस्थानवर्जितः | निश्चितोऽर्थोऽस्य संस्थाने तस्मिन्नर्थक्रियाचिते || ४ || पृ० ४) विचित्रे बुद्धिमानेव घटादिष्विव लक्ष्यते | कर्ता विज्ञो विचित्रैत- दुपयोगाभिसंधिमान् || ५ || इति || व्याप्तिसिद्धये न चाप्येष संनिवेशविशेषस्तन्वादिष्वसिद्धः | तथा हि शरीरे तावदुपादानकारणं शुक्रशोणितादि सिद्धं | न चास्य तत्संनिवेशयोगः | चक्षुःश्रोत्रपाणिपादादेरपि तदेवोपादानमतत्संनिवेशि, भुवनानामपि पार्थिवाद्यर्थरचनात्मकानां मृदाद्युपादानमतत्संनिवेश्येव सिद्धं, नात्र किंचिद्दुरुपपादम् | लोकयात्रात्राणहेतुतापि शरीरादेः सर्ववादिसिद्धैव प्रत्यक्षत एव | नात्रास्थाने विस्तरोपन्यासः सफलः | ततः सिद्ध एव हेतुः || तदाह अस्ति चार्थक्रियायोगे शरीरभुवनादिषु | संनिवेशविशेषोऽय- मनुपादानसंभवी || ६ || इति || ईश्वरसिद्धिपर्यवसानश्चायं साधनार्थः | तन्वादिषु हि विश्वापरपर्यायेषु परस्परानुगुणेषु सर्वेषु यावज्ज्ञानं नास्ति तावत्कथं निर्मित्सा स्यात्,-इति सर्वज्ञता तावत्स्थिता, तथा निर्माणसामर्थ्याच्च अनेकत्वे प्रमाणाभावाच्च एकस्य सर्व- पृ० ५) कर्तृत्वम्,-इति धर्मिविशेषसंबन्धौचित्यात् ईश्वर एव बुद्धिमान् पर्यवस्यति || तदाह तदत्र बुद्धिमत्कर्तृ- सिद्ध्या सिद्धेश्वरक्रिया | न हि तादृशवैचित्र्य- विदुषः स्यादनीशिता || ७ || इति || तथा हि संनिवेशविशेषस्य बुद्धिमन्मात्रेण अन्वयः प्रदर्श्यते, न तु बुद्धिमद्विशेषेण कुम्भकारेण ईश्वरेण वा; तत्तु सामान्यरूपं न विशेषसंबन्धं विना स्थितिं लभते,-इति पक्षसंबन्धौचित्यानुसारेण व्यक्तिविशेषं कुलालं कुविन्दमीश्वरमन्यं वाप्याश्रयविशेषमाश्रयत्वेनावलम्बते | यथा धूममात्रेण दूरात् खदिरवनेऽग्निमात्रेऽपि अनुमीयमाने खादिरत्वविशेषो धूमविशेषानपेक्षयापि आश्रयवशात्प्रसिद्ध्यति | यथा वा सांख्येनैव आत्मसिद्ध्यर्थं चक्षुरादौ धर्मिणि संघातवत्त्वलक्षणे हेतावुपन्यस्ते तस्य पारार्थ्यमात्रेण अन्यत्र शयनासनादौ अन्वयदर्शनेऽपि असंहत एवात्मा परो धर्मिसंबन्धबलाल्लभ्यते, न हि चक्षुरादेर्बुद्धिपर्यन्ताद्धर्मिणः परोऽसंहतरूपमात्मतत्त्वं विहाय अपरः संभवति,-इति तथाभूतपक्षसामर्थ्यादेव तस्यात्मतत्त्वस्यैव तत्र सिद्धिः | न तु तेनैव शयनासनादावन्वयः प्रदर्शनीयः, येन साध्यविकलत्वात् दृष्टान्तस्यासिद्धान्वयता हेतुदोषः स्यात् | नापि व्यवहर्तृपुरुषाकारपरार्थत्वेनान्वयः, येनात्मविरुद्ध- पृ० ६) संहतार्थसाधनाद्विरुद्धता स्यात् | एवमिहापि नेश्वरेण बुद्धिमता कुम्भकारेण वा अन्वयप्रदर्शनं, यतोऽसिद्धान्वयतादिदोषोद्भावनं क्रियते | तथोक्तं परैः कुम्भकाराद्यधिष्ठानं घटादौ यदि वेष्यते | नेश्वराधिष्ठितत्वं स्यादस्ति चेत्साध्यहीनता || यथासिद्धे च दृष्टान्ते भवेद्धेतोर्विरुद्धता | [श्लोकवार्तिके संबन्धाक्षेप० ७९ श्लो० |] इति | किं तु बुद्धिमन्मात्रेणैव अन्वयादि प्रदर्श्यते, तन्वादिषु च बुद्धिमन्मात्ररूप एव कर्तास्माभिः प्रसाध्यते, तस्य तु तत्र सिद्ध्यतो विश्वकर्तृतारूपमैश्वर्यमीश्वरशब्दव्यवहार्यमापतति | क्वचिद्धटादौ कर्ता कुलालशब्दव्यपदेश्यः फलतः संपद्यते न तु ईश्वरत्वं तनुकरणादेर्विश्वस्य कर्तुः संनिवेशविशेषानुमिताद्बुद्धिमतोऽन्यत्किंचित्, यत्साधनाय यस्य हेतोरत्राव्यापारात् प्रमाणान्तरमन्विष्येत | अन्योन्योपयोगितनुकरणादिसर्वक्रियैव ईश्वरत्वं यथा मृत्संनिवेशविशेषकर्तृतैव कुलालत्वम् | पक्षसंबन्धश्च धर्मो यदि प्रमाणान्तरसाध्यः स्यादनुमानस्य, तर्हि तदा को विशेषो धर्ममात्रस्य अनियतदेशादित्वेन अप्रमाणविषयत्वादस्य व्याप्तिमात्रविषयत्वं न तु त्रैरूप्यफलत्वं | तेन यथा धूमेनाग्निः सामान्येन क्वचित्प्रदेशे साध्यमानस्तत्प्रदेशाधारविशिष्टः सामर्थ्यात्सिध्यति न तु तत्र प्रमाणान्तरमुपयुज्यते, तथा ईश्वरसाधनेऽपि | न च शक्यं वक्तुं प्रदेशायोगव्यवच्छेदेनाग्निं विशेषयत्येव, स तु विशेषः केवलं धर्मिसंबन्धबलात्सिध्यति न तु प्रमाणान्तरापेक्षसिद्धिकः, तथैवेह बुद्धिमानपि विश्वनिर्माणशक्तिः सिद्ध्येत्; किं त्व- पृ० ७) ग्निप्रदेशावच्छेदेऽग्निरित्येव व्यवह्रियते, तन्वादिकर्ता पुनर्बुद्धिमान् ईश्वरशब्देनाऽपि,-इतीयानेव विशेषः, ततो न किंचित् विरुद्धतादिदोषावकाशः || तदाह न कुलालेन नेशेना- प्यन्वयोऽत्र प्रदर्श्यते | यतो विरुद्धतास्य स्या- दसिद्धान्वयतापि वा || ८ || केवलं बुद्धिमन्मात्र- व्याप्तिसंदर्शनादपि | पक्षधर्मबलाद्धीमा- न्क्वचित्कश्चित्प्रतीयते || ९ || यथा पारार्थ्यमात्रेण संघातत्वेऽन्वितेक्षिते [क्षते इति पाठान्तरम् |] | चक्षुरादौ तदौचित्या- दात्मेष्टोऽसंहतः परः || १० || यथा वा दूरतो धूमा- त्सिद्धिः खदिरकानने | वह्निस्तत्प्रतिपत्त्यैव खादिरत्वेन सिद्ध्यति || ११ || इति || पृ० ८) न चापि घटादिस्वलक्षणो विशिष्ट एव संनिवेशः प्रमाणेन सिद्धः-इति स एवान्यत्र धर्मिणि अदृष्टकर्तृके दृष्टसजातीयकमेव कर्तारं साधयति न तु संनिवेशनामात्रं, तस्य सामान्यरूपस्य कार्यत्वासिद्धेरिति वाच्यम्; यतः स्वलक्षणमेव | यद्यपि स्वलक्षणापेक्षया दर्शनादर्शनाभ्यां कार्यं प्रतीयते, तथापि तत्तथा स्वलक्षणं कार्यत्वेन तथा सिद्धं सजातीयस्वलक्षणान्तराण्यपि तत्कारणसजातीयस्वलक्षणान्तरकार्यत्वेन व्यवस्थापयति | यथा सकृदप्येको धूमोऽग्निकार्यतया सिद्धो धूमान्तराण्यपि अग्निकार्यत्वे सिद्धान्येव करोति | तच्च कार्यस्वलक्षणमनेकसहकारिजन्यतयानेकविधस्वलक्षणान्तरैः सजातीयं | तथा च घटस्वलक्षणं मृण्मयत्वेन वल्मीकादिभिः, संनिवेशेन पटादिभिः, परिवर्तुलत्वेन पिष्टादिमयशरावादिभिर्विच्छिन्नत्वेन च्छिन्नवृक्षादिभिरित्येवमादिना क्रमेण एकैकजातियुक्तानि स्वलक्षणानि एकैककारणकार्याणि व्यवस्थाप्यन्ते | तज्जातीयार्थितायास्तज्जातीयकारणोपादानाय सौगतैरपीयं व्यवस्था कृता, न मृदः संस्थानं न कुलालान्मृद्रूपता इत्येवं वदद्भिः | वस्तुस्थितिश्चेदृश्येव, न हि यथा घटः संस्थानवान् बुद्धिमता पुरुषेण नियतेन तथा पटोऽपि | तथैव च प्रतीतिरुभयत्रापि प्राज्ञकृतत्वप्रतीतेरुपयोगाय च प्रवृत्तिरित्येवंव्यवसायैव | केवलं तेषां परेषां सौगतानां यथा सजातीयत्वं जात्या विनैव अवश्याभ्युपगन्तव्यम् एकप्रत्ययकारित्वं स्वलक्षणनिष्ठमेव तथैव एतदपीति, सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् | संनिवेशादि तद्युक्तं यस्मात्तदनुमीयते || पृ० ९) अन्यथा कुम्भकारस्य मृद्विकारस्य कस्यचित् | घटादेः कारणात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः || इत्यादि तेषां पूर्वोक्तहेतुविभागकारिस्ववचनानुसंधानशून्यमभिधानम् | सामान्यानां गुणानां क्रियाणामन्येषामपि वा धर्माणामर्थक्रियाकारिस्वलक्षणनिष्ठतयैव पृथक्कारणोपयोगस्य सिद्धेरनवद्यत्वादित्यव्यभिचार्येव संनिवेशः स्त्रीपुंसादेरिव अन्योन्यसाध्यार्थक्रियानुगुण्यादिविशेषितस्तन्वादेरीश्वरकर्तृतासाधन इति || तदाह एवं च हेतुः संस्थान- मात्रमत्र विशेषितम् | तथा वैचित्र्यमात्रेण न स्वलक्षणलक्ष्मणा || १२ || परैस्तैरपि हेतूनां घटात्मप्रविवेचने | संस्थानमात्र एव.... हेतुत्वं बुद्धिशालिनः || १३ || अन्योन्यार्थक्रियायोग्य- संनिवेशविशेषितम् | तदिदं सकलं विश्वं युक्तमीश्वरनिर्मितम् || १४ || इति || पृ० १०) अत्र सांख्याः प्रत्यवतिष्ठन्ते | भवेदप्येतदेवं यदि किंचिदेकैकमेव कस्यचित् कारणं स्यात्, यावतानेकमेव तत्तदेककार्याभिव्यक्तिनिमित्ततां संतताविविक्तदेशकालादियोगेन उपयाति | ततश्च ये ते सहभावमापन्नाः कार्यभाविर्भावयन्ति ते परस्परयोगे विचित्रवृत्तयो दृश्यन्ते | तथा हि बीजान्तर्गमनेन बीजभूता जलभूम्यादयो रसादिपरिणामात् दीर्घप्रचितसंनिवेशमङ्कुरं सहकारितया कुर्वन्ति | क्रियापि देशान्तराक्रमणलक्षणा न तद्देशपरिणामवद्रूपातिरिक्ता काचिदुपलभ्यते | तेन यथैकोपादानदेशे एव प्रतिक्षणं परिणामस्तथा देशान्तरस्थितरूपतया यदि स्यात् तत्को विरोधः | कूटस्थनित्यताभ्युपगमे भावानामेष दोषो न तु क्षणपरिणामनये, वायुवह्निप्रभृतीनामपि भावानां दिगन्तराक्रमणमनियमेन यथा भावे, तथा तथाविधसहकारिकारणविशेषसाहित्यात् नियमेन | सजातीयतायोग्यकार्योत्थापनसमर्था अपि ते यदि स्युस्तन्न किंचिद्दुष्येत् | न च दृश्यमानार्थयोगितोपपन्नं वस्तु अदृष्टकल्पनाय अङ्गतामुपनयति, ईश्वरोपगमेऽप्यनवस्थाप्रसङ्गात् | अर्थानां स्वभाववैचित्र्यमभ्युपगमनीयं सर्ववादिभिः, येन बीजादेवाङ्कुरो मृद एव घटः, ततः सहकारिसामर्थ्यातिशयावेशितविशेषादेव देशान्तराक्रमणेन उपादानविलक्षणसंस्थानतया उद्भवन्तो भावा न वाच्यताभाजः | यत्र पुनः सहकारिणो बहिः स्वदेशसंनिविष्टा एव कार्येषु उपयुज्यन्ते यथा मृत्पिण्डचक्रादयः, तत्रोपादानसंनिवेशवैसादृश्ये स्यादवसरो बुद्धिमतः कुम्भकारस्येव, उपादानमात्रस्य हि देशान्तरगमनसमर्थावयवत्वे पूर्वमपि तथा- पृ० ११) भावः स्यात् | न पुनरत्र बुद्धिमदुपयोगमात्रेण सर्वत्र सहकारिणामियमेव व्यवस्था स्थापिता प्रामाणिकतां पुष्णाति || तदाह अत्रोच्यते गतिश्चित्रा दृश्यते सहकारिणाम् | केचित्कथंचिदेवेयु- रुपादानैः समागमम् || १५ || हेतुमन्तःप्रविश्यान्ये प्राप्योपादानरूपताम् | चित्रयन्ति हि कार्याणि भौमोदकरसा इव || १६ || अन्ये पुनरुपादाने बहिर्विपरिवर्तिनः | रूपवैचित्र्ययोगाय कार्येषु न तथा क्षमाः || १७ || तत्र बुद्धिमतो नाम प्रसरो यदि कल्प्यते | न तावतैव सर्वत्र व्यवस्था घटते तथा || १८ || इति || पृ० १२) एवं कारणानामेकत्र कार्यात्मना व्याप्रियमाणानां प्रवृत्तिप्रकारवैचित्र्ये व्यवस्थापिते, प्रस्तुततनुकरणादिसकलभागलक्षणकार्यकारि प्रधानसंज्ञं तावन्मूलकारणं प्रधानसिद्धौ समन्वयादिवीतोपन्यासेन निर्बाधमेव साधितमेव,-इति नेह तत्प्रमेयम् | न हि प्रधानसिद्धिमात्रेणैव ईश्वरनिराकृतिः स्यात् उपादानकारणतया परमाणुस्थान एव प्रधानस्य मूलकारणत्वेन समर्थनात् | तच्च प्रधानेन परमाणुवाद एव यदि परं निराक्रियेत, ततः प्रधानव्यवस्था विश्वस्य उपादानकारणविचारप्रस्तावे प्रमेयीभवति, न तु निमित्तकारणोपपादनप्रक्रमे | तदेवं मूलप्रकृतिः सत्त्वरजस्तमःसंज्ञगुणत्रयसाम्यात्मिका प्रकृतितयैव प्रसवधर्मिणी गुणानामेवाङ्गाङ्गिभावगमनेन यावन्महदादिविकारात्मना परिणमते, तावत्पुरुषार्थत्वमेव तत्र तस्याः स्वभावभूतं निमित्तम् | न हि यदृच्छया वर्तमानायाः कार्यवर्गस्य देवमानुषतिर्यग्योनिरूपस्य तदवान्तरजातिवैचित्र्यवतो नियमेन स्त्रीपुंससंस्थानद्वयस्य वा अन्योन्यानुगुण्यमुपपद्यते | तदेतत्संनिवेशविशेषरूपतया अभ्युपेतमीश्वरवादिनापि | तदेतदप्येषां सप्रकृतिकानां व्यूहविभवभावेनावस्थितानामशेषविकाराणाम् इतरेतराङ्गाङ्गिभावगमनं लोकयात्रोपयोगितया तावत्संनिवेशविशेषफलंनिरर्थकम् | यदुक्तं न स्यात्क्रियाव्यूहविधिस्तथायं यादृच्छिका................... | इत्यादि | अर्थवत्त्वं च सुखदुःखोपलम्भसंपादनार्थतयैव सर्वस्यैव अर्थरूपस्य परम्परया पर्यवस्यति | सन्तोऽपि हि सविधमुपयान्तोऽर्थाः शशविषाणकल्पाः प्रकल्पन्ते | अ- पृ० १३) तः संविदौत्सुक्येन तदर्थतयैव तद्भोग्यस्वभावा एव,-इति भोग्यादपि भोक्तुः संवित्स्वभावस्य आत्मतत्त्वस्य सिद्धेरनुपपन्नमेव प्रमाणम् | यद्यपि भावाश्चित्तभूमौ भासमानाः प्रत्यक्षेणापि संवित्तत्त्वमवभासमानमावेदयन्ति, तथापि तदर्थात्मोपरागकलुषमवभास्यमानं भोग्यभूतमविशुद्धं भोक्तृताभिन्नलक्षणं तत एव केवलमेकचिन्मात्ररूपसाक्षिमात्रमात्मतत्त्वमनुमीयते भोग्यभोक्तृभावापरपर्यायस्वस्वामिसंबन्धवशात्, न तु साक्षात्कार्यतां तदुपयाति | तदुक्तम् विज्ञातारमरे केन विजानीयात् (बृ० आ० ४|५|१५) इति | तत्संनिधानमात्र एव च यतश्चित्तोपारोहिविषयाकारप्रकाशनं भवेत् अन्यथा जडात्मनः स्वशक्त्या तथाभावायोगात् | ततोऽतदर्थमपि वस्तुतः प्रकृतिपरिणामकर्म तदधीनं चित्रावभासनार्थत्वात्तदर्थमुपवर्ण्यते | परस्परार्थत्वे गुणपरिणामस्यैकतम एषां पर्यायेण चित्स्वभावः स्याच्चिदुपयोगपरिसमाप्तेः सर्वपरिणामानाम् | न चैतदत्यन्तभिन्नजातीयं चिदचिद्रूपमेकस्य घटते | तदेव कदाचिदुपकारकतायां जडम्, अजडस्य तु चिदात्मनः परोपकारक्रियापरिणामायोगात्, अन्यदा चोपकार्यतायामजडम्, न चैवमेकत्वं विरोधे सति उपपद्यते न चाप्युपकार्यता चिन्मात्रवपुषः क्रमते | तदङ्गभूतार्थोपकारसंस्पर्शेन चिद्रूपादाधिक्यप्रसङ्गाज्जडतापत्तिः | तदाधिक्यमेव हि जडत्वं | तदेवं यावदङ्गाङ्गितोपकार्योपकारकभावेन तावज्जडतामुपेयुषी भोग्यभूमिरेव, पुरुषस्य तूपकार्योपचारस्तत्संनिधाने चित्तस्यार्थाकारवतः प्रकाशमानत्वात् | पृ० १४) एवं च गुणानामभ्युपगमेन चिद्रूपतापत्तिप्रसङ्गेन गुणताहानेः | अत एवैषां स्वार्थता न युक्ता | तस्यैवैकस्य विरुद्धोभयभोक्तृभोग्यरूपतापत्तेरिति सर्वमेतत्प्रकृतिचलं गुणवृत्तमचलाचित्तत्त्वसाक्षिकचित्तगतविषयसंवित्प्रयोजनमेव | यावांश्च विषयभेदः संवेदनक्षमस्तत्संवेदनं सर्वमेव पुरुषार्थसंज्ञं गुणपरिणामप्रवृत्तिनिमित्तं, विषयश्च संवेदनस्य सुसूक्ष्मादिभावावस्थिता गुणास्तथा गुणपुरुषान्तरमपि | ततो यथा सुखदुःखमोहमयपरार्थसंवेदनं पुरुषार्थस्तथा शास्त्रोपदिष्टानुमानोपमानादिना गुणपुरुषान्तरोपलब्धिरपि | तदुभयमपि प्रयोजनं भोगापवर्गरूपगुणप्रवृत्तेः | तत्प्रयोजनसंपादनयोग्यस्वभावता च निमित्तकारणमुच्यते | न तु भाविप्रयोजनमनागतमेव निमित्ततां गच्छेत् | तत्र च विवेकज्ञानपर्यन्तपुरुषार्थप्रयोजने परिसमाप्ते प्रवृत्तिनिमित्तकारणाभावात् न गुणास्तमुद्दिश्य पुरुषार्थं प्रवर्तन्ते,-इति कैवल्यं पुंस उच्यते नित्यकेवलस्यापि | इत्थमवस्थिते मृद्दण्डादेः स्वतो घटादिव्यक्त्यशक्तस्य सहकारी बुद्धिमान् कुम्भकारोऽस्तु, तन्त्वादेश्च तन्त्रवायस्तथा नामादृश्यः | न तावता शरीरादेरुत्पादसमये कश्चित्प्रसिद्धकारणातिरिक्तोऽपि कल्पनीयो भवति | मा भूदतिप्रसङ्गः,-इति दृष्टोपादानादिकारणसामर्थ्यविशेषादपि च उपपद्यते एव कार्याणां घटाङ्कुरादीनां रूपादिभेदः, तथा संस्थानविशेषप्रथापि तत्सामर्थ्यादेव स्यात्, को दोषः, किमर्थमदृष्टकल्पनं | यावता हि रूपेण संनिवेशेन वा पुरुषार्थोऽवस्थितिं लभते, तत्र तावति गुणस्वभाव एव निमित्तं तथैवोपपत्तेः | तत्स्वभावानुग्रहादेव च शरीरविषयेन्द्रियादिक- पृ० १५) चेतःपूर्वापरभूमिकावस्थायिनि कार्यवर्गे धर्मादिकर्मापि निमित्तकारणतया प्रभवेत् | अतः परं परिकल्पयन्नीतिमार्गातिगोऽवधीरणीय एव स्यादपि | एतावन्मात्रमष्टगुणं चित्तवर्ति धर्मादिवदैश्वर्यं कदाचिदभिव्यक्तं यद्गुणानामेव सहभावि भवद्योगिताव्यपदेशमावहेत् | यत्तु ततोऽधिकं नित्यं कस्यचित्पुरुषविशेषस्य तनुकरणभुवनादिविधौ सर्गस्थितिप्रलयेषु च कारणतामुपेयात् तत्प्रकृतिस्वभावसद्भावमनतिरिक्तमनेकवैचित्र्योपकल्प्यमानपुरुषार्थप्रयोजनमनादृत्य पृथग्भूतमाश्रीयमाणं भक्तिमात्रसाधनमेव || तदाह अस्ति चास्य प्रधानस्य प्रसिद्धस्यान्वयादिना | स्वार्थतादिनिषेधेन साधिता पुरुषार्थता || १९ || तेनास्य भोगसंसिद्धिः पुरुषस्य यथा यथा | तथा तथा परिणतिः स्यान्न किंचन दुर्घटम् || २० || अत एव प्रधानस्य महत्त्वपरिणामिनः | निमित्तकारणं नान्य- त्पुरुषार्थोद्यमादृते || २१ || पृ० १६) स्वभाव एव चैषोऽस्य मूलहेतोस्तथेक्षणात् | चित्तभूमेरधरतः शरीरादिविधिं प्रति || २२ || निमित्तकारणं कर्म स्यादप्याद्यस्वभावतः | ततोऽत्र कुत्र व्यापार ईश्वरस्योपकल्प्यताम् || २३ || चेतस्यष्टगुणे जातु जातादैश्वर्यतोऽधिकः | इति || उक्तनीत्या च चिन्मात्रस्य अधिकविशेषानुपपत्तेः | तथा हि जडतापत्तेरैश्वर्याभावात् धर्मादिवच्चित्तभूमिभागिनोऽस्येश्वरस्य कथमिवाभिव्यक्तचित्तावस्थे मूलकारणे महदादिकार्यपरिणामाय निमित्तकारणत्वमुपकल्प्येत | तदत्र पूर्वत्र परिणामे चेत्पुरुषार्थोचितोत्तरोत्तरविकारकारिणि निमित्तकारणं पुरुषार्थतास्वभावः प्रकृतेस्तत्सकलविशेषपर्यन्तेऽपि विकारराशौ स एवास्तु किमर्धजरतीयन्यायाभिनिवेशेन || तदाह रह[नत्व]स्य मूलप्रकृता- वन्तः करणचारिणः || २४ || पृ० १७) ईश्वरस्योपकल्प्येत परिणामनिमित्तता | इति || एवं चात्र प्रयोगः-प्रधानं महदादिपरिणामे निमित्तान्तरानपेक्षं पुरुषार्थोपयोगितया भूतविकारपरिणामैकस्वभावत्वात् | यद्यथा परिणामैकस्वभावं तत्तत्र परिणामेऽन्यनिमित्ता[न]पेक्षं ततः स्वभावादेव तथा भवति यथा बीजादिकारणकलापोऽङ्कुरपरिणामे | यच्चान्यानपेक्षं न तथा भवति न तत्तत्र तथास्वभावं यथा शालिबीजं यवाङ्कुरे जलादिरहितं वा बीजम् | तथा च प्रधानं पुरुषार्थोपयोगिमहदादिविकारपरिणामैकस्वभावं न तु शालिबीजं यवाङ्कुर इव | तस्मादन्येश्वरादिनिमित्तकारणानपेक्षं स्वभावादेव महदादिपरिणामवत्प्रधानमिति | अत्र प्रधानं तावत्समन्वयादिहेतुभिः सिद्धमेव | स्वार्थतादिनिषेधेन च पुरुषार्थस्वभावत्वमस्योपपादितम् | दृष्टान्तस्यापि बीजादिकारणकलापस्य न च परं प्रति संदिग्धसाध्यत्वे पक्षकृतत्वमेव | सा च तदङ्कुरकरणस्वभावैव,-इति न तं प्रत्यपि तस्यास्तावत्यास्तथा स्वकार्यकरणेन न्याया[अनन्या]पेक्षस्वभावत्वं संदिग्धमिति || तदाह यद्यथा परिणामैक- स्वभावं तत्र तत्ततः || २५ || अनन्यापेक्षि बीजादि- सामग्री यद्वदङ्कुरे | पृ० १८) महदादिविकारौघ- परिणामस्वभावकम् || २६ || त्रिगुणात्म प्रधानं च तेन सांख्यमनीश्वरम् | इति || तत्रैतान्सांख्यान्प्रत्युच्यते,-यथा नावगतो भवद्भिः साधनार्थ इति | यदि हि सर्वविचित्रसंस्थानकार्योत्पादनेषु प्रधानस्यैव या पुरुषभोगार्थता सैव निमित्तकारणं किमीश्वरेणेति उच्यते तत्कुम्भकारेणापि किं घटकरणे | तत्रापि प्राधानिकस्य मृत्पिण्डादेः पुरुषार्थस्वभावतावशादेव तथाभूतसंनिवेशवद्धटकरणसामर्थ्यं स्यात् | नहि पृथुबुध्नोदराकारसंनिवेशं विना भोक्तुरुदकाहरणलभ्यो भोगः सिद्ध्येत् | तृणवारिणाद्यर्थिनां वा कर्मभिरेव? तदाकारवत्ता घटस्य भवेत् किं तत्र कुलालेन | अथ प्रधानस्यायमपि स्वभावविशेष एव, यद्घटसंनिवेशादौ दण्डचक्रवद्बुद्धिमदपेक्षा, तावता प्राधानिकेन कारणकलापेन पुरुषार्थोपयोगितत्संनिवेशवद्घटवस्तुसिद्धेः | तदेवमेव तनुकरणादिकारणस्यापि प्राधानिकात्तथास्वभावयोगात् कथं तथाकरणयोग्यबुद्धिमदपेक्षा नेष्यते | एष हि तावन्न्यायोऽस्ति यदेकत्रैकदा धूमाग्न्योः संबन्धेऽवगतेऽन्यदा अन्यत्र अन्ययोरेव धूमाग्न्योस्तथैव संबन्धोऽवश्यभावी, येन धूमान्तराददृष्टोऽपि अग्निर्निश्चीयते | तदनेनैव न्यायेनैकत्र संनिवेशविशेषे बुद्धिमत्संबन्धप्रतीत्या सर्वत्रैव तथा संनिवेश- पृ० १९) स्य बुद्धिमदविनाभावसिद्धेर्देहादिसंनिवेशादप्यदृष्टस्य तादृशो बुद्धिमतः कथं नानुमतिः || तदाह पुरुषार्थस्वभावत्वं समस्तार्थक्रियासु चेत् || २७ || निमित्तकारणत्वेन प्रधानस्योपकल्प्यते | तद्विना कुम्भकारेण घटोऽपि न भवेत्कथम् || २८ || प्रधानमयमृत्पिण्डा- देव तादृक्स्वभावतः | अथ स्वभाव एषोऽस्य यत्कुलालाद्यपेक्षणम् || २९ || तथेश्वरव्यपेक्षास्तु देहहेतोः स्वभावतः | इति || न चापि सहकारिणामुपादानकारणस्यान्तः प्रवेशमात्रादुपयोगविशेषानुसंधानवतः कस्यचिदव्यापारेऽपि विचित्रा पुरुषार्थोपयोगिनी रचना उपकल्प्यते | तथाहि यावदिदमितो भवति किंचिदधिकविशेषात्पुनरत एवानेन विशेषेण सविशेषमिदमेव भवति, अपरविशेषयुक्तात्पुनरस्मादेव अन्यदेव अन्यजातीयमेव कार्यं जायते, ततः संप्रति पृ० २०) एवंविधमुपयुज्यते तथैव करोमीत्येवं विचारचतुरा मतिर्न स्यात्, तावत्कथं तथाभूतविशेषकरणाय हानोपादाने स्याताम् | तथा विज्ञत्वे च सर्वदा तथाभूतकार्यसंभवो न भवति, तस्य प्रज्ञावतः सर्वदा तत्करणेच्छाया अभावात्, ततः सापि तस्यापेक्षणीया; इच्छानुसंधानशून्येन तु जलभूम्यादिरसेन उपादानान्तःप्रविष्टेनापि कार्यस्य स्थूलतामात्रमविचित्रमेव स्यात्, न तूपयोगविभागप्रयोजिता अवयवसंस्थानभङ्ग्यः | विलक्षणा दृश्यन्ते एताः सर्वास्तथा | न चाप्येता एकान्तविलक्षणा एव, यावदेकार्थक्रियोपयोगिन्यः, सजातीया अपि प्राज्ञकृततत्तत्सहकारिसंयोजनवियोजनवशादुपलक्ष्यन्ते | बुद्धिशून्यसहकारिमात्रसामर्थ्ये संशयरूपता केवलकार्यस्योचिता; काकतालीयोऽवयवविभाग एकत्रैव सा..................दन्यत्रान्यादृशतैव भवेत् | यत्पुनरनुगामित्वमवश्यमुपयोगविशेषानुगामितानुविधायि सर्वकार्येषूपलभ्यते, तत्तथा नियमेन न स्यात् | तस्मान्मृत्पिण्डायातघटशरावोदञ्चनेष्टकादिसंनिवेशविभागकारी प्रयोजनभेदानुसारितया दृश्यते बुद्धिमत इच्छादिव्यापारः प्रज्ञाविशेषमयो, न तु जडविजातीयतापात्रतया सहकारित्वेन | तथा सति हि स कुम्भकारसंबन्धाद्घट एव वा स्यात् शराव एव वा, न तु कुण्डमपीष्टकान्य[द्य]पि वा | ततो यथाभूतमिच्छति जानाति च कर्तुं तादृगेवात्र कार्यविशेषोद्गमः | अत एव संनिवेशस्य विशेषः पुरुषार्थोपयोगित्वेनार्थनीयत्वात् न तु पृथुबुध्नोदराकारत्वादि, येन सिद्धं यादृगधिष्ठातृभाव........... इत्यादि चोद्येत | इच्छया सह संनिवेशस्यापि हि पुनर्हस्ताद्यपेक्षयानवस्थानात् | ततश्च पृ० २१) तनुकरणभुवनानामन्योन्यानुगुण्यविद एकस्यैव कर्तुस्तथेच्छामात्रसंनिवेशविशेषवत्त्वम् | रथादौ तक्ष्णो यद्यप्ययःसंनिवेशविज्ञतापि स्यात् तथापि तस्य हस्तादिव्यापारानभ्यासादयोयोजनेऽयस्कार एव कर्ता | भिन्नदेशकालगतविवर्तितत्वाद्यनुसंधानवतस्तु संहतेच्छामात्रात्कार्यस्य सिद्धौ न सिद्धा विश्वभागे कर्त्रन्तरापेक्षा, अयस्कार इव हस्ताभ्यासानपेक्षणादित्येक एव तन्वादिविश्वकर्ता पुरुषार्थोपयोगित्वेन | तच्चार्थिसार्थैरर्थनीयत्वं न घटमात्राश्रयेण, कुण्डपटशकटादिगतत्वेन प्राज्ञशक्तकर्तृकतया च तादृश एवानुमिताधिकृतो न तु घटकुम्भकारमात्रदर्शी, यथा तार्णपार्णचान्दनाद्यनेकाग्निधूमगतप्रत्यक्षानुपलम्भप्रवृत्तिमानग्निमात्रानुमाने | अनेकविशेषदर्शने हि सामान्यनिष्ठकार्यकारणभावप्रतिष्ठायां विशेषव्यभिचारः सिद्ध्यति; एकविशेषव्यभिचाराच्च सर्वविशेषव्यभिचारनिश्चयेन अत्यन्तादृष्टपूर्वशांशपादिविशेषानिराकरणात् न सर्वविशेषदर्शनमुपयुज्यते | एवमिहापि संनिवेशविशेषमात्रस्य तथाभूतचिकीर्षायाश्च अनेकसंनिवेशदर्शनात् सामान्येन कार्यकारणतासिद्धौ कुलालानीश्वरादिविशेषव्यभिचारनिश्चयेऽत्यन्तादृष्टतनुकरणादिचिकीर्षाविशेषानिराकरणेन संनिवेशविशेषात् तथा चिकीर्षामात्रानुमानम्; इच्छाकार्येषु अनङ्गभूतेऽप्यनीश्वरत्वे सहदर्शनमात्रादपेक्षोपगमेन किंचिदपीच्छाकार्यमुपदेशाद्यमीश्वरस्य अनीश्वरस्य वा सिद्ध्येत्; देहरागादिसहभावदर्शने च रूप्यधात्वादौ इच्छावतां तत्कार्यं न स्यात् | तदेवं तनुकरणभुवनानां संस्थानभङ्गीवैचित्र्यं तदनुगुणप्रज्ञा- पृ० २२) महिमानं विना कथं प्राधानिकजडवस्तुस्वभावमात्रादुपयोगविभागनियतमनुगामि चार्थितास्पदमुपपद्येत || तदाह नैवोपादनहेत्वन्तः- प्रवेशात्सहकारिभिः || ३० || संनिवेशविशेषोऽपि शक्यः कर्तुमिति क्षमम् | लोकयात्रानुसंधान- वतीं प्रज्ञां विना नहि || ३१ || तथा चिकीर्षां च विना विचित्ररचनोद्भवः | स्थूलतामात्रमेव स्या- न्न तु लोकोपयोगिनी || ३२ || रचना नियमेन स्या- द्विचित्रा जातिरूपिणी | कुलालसहकारित्व- मात्राच्चेज्जायते घटः || ३३ || न स्याज्जातु शरीरादि दीर्घमृत्पिण्ड एव वा | अत एवार्थनीयत्वा- त्संनिवेशो विशिष्यते || ३४ || पृ० २३) न घटादितया सिद्धः सोऽर्थितापरिपूरकः | न चेश्वरोऽनीश्वरो वा प्रकृतोऽत्राणुलक्षणः || ३५ || वैचित्र्यकारी यो यत्र स तत्रेश्वर इष्यते | इति || न च प्रधानस्यैव मूलकारणस्य व्यवसायादिभिर्व्यक्तिरस्ति तत्कथं तस्येच्छादियोगः पुरुषार्थोद्देशानीतः स्यात् यतः प्रवृत्तिर्भवेत् | यद्यपि च बुद्धेरस्तीच्छानुसंधानं च व्यापारस्तथापि पुरुषसंनिधानाद्यावन्न चेत्यमानः प्रकाशमानोऽसौ संपन्नस्तावन्नेच्छादिरूपतां धत्ते तथालक्षणत्वादिच्छानुसंधानादीनाम् | अन्यथार्थान्तरमेव तत्स्यात् | तथा च सति न बुद्धिप्रवृत्तिरेव पुरुषार्था यावत्पुरुषस्य संवेदनव्यापारोऽपि पुरुषार्थः स्यात् न तु केवलं प्रधानमेव संवेदनमेव च पुरुषस्यार्थः, तस्मात्पुरुषनैरपेक्ष्येण प्रधानबुद्ध्यादिव्यापारस्य पुरुषार्थता न वाच्या, तादृशस्य चेष्टानुसंधानरूपत्वाभावात् न सा युक्ता,-इति युक्तमेव | अथ सर्वपुरुषसाधारणस्य एकस्यापि बुद्धितत्त्वस्य महत्संज्ञकस्य प्रतिपुरुषमध्यवसायलक्षणवृत्तिः सत्यं भिद्यते, महत्कारणास्मिताजन्मनो वा मनःसंज्ञकरणस्य | एषा अध्यवसायादिवृत्तिः प्रत्येकपुरुषनियतास्तु, न तया उत्तरकालभाविन्या प्रधानस्य महतो वा पुरुषार्थानुसंधानेच्छावत्ता युज्यते किं तु प्रधानस्यैव पृ० २४) प्रथमविकारकरण एव सर्वपुरुषोद्देशेन सामान्यानुसंधानेच्छा व्यवसायादिवृत्तिः प्रथमा बुद्धिसंज्ञा अस्त्येव, येन तस्यापि बुद्धिपूर्वकारिता स्यात् | तदैव तदपि न युक्तम्, प्रधान्य[नस्य]सर्वथैव अव्यक्तरूपत्वेनानुपलक्षणीयवृत्तित्वात् | न च वृत्तौ पुरुषेणासंविदितायामिच्छानुसंधानादिरूपत्वं संभवति, पुरुषेणापि प्रधानवृत्तेः केन संवेद्यमानता सर्वपुरुषोद्देशेन सामान्यप्रवृत्तेः, एकैकेन चेत् तत्तस्य सर्वज्ञत्वं स्यात्, पुरुषार्थत्वं च पूर्ववत्सर्वपुरुषोपयोगि स्वकार्यानुसंधानवत्त्वात्, प्रकाश्यधर्मभूता[या]श्च प्रकाशस्थानताया अनन्तपुरुषसंनिधानानीतत्वादानन्त्येऽपि आश्रयैक्येन अन्योन्योन्मूलनात्पुरुषबहुत्वासिद्धिः | अथ सामान्यरूपेणैव सर्वज्ञेन च पुरुषविशेषेण सामान्यप्रधानवृत्तेः संवेद्यमानता तत्स एवेश्वरोऽस्तु, तस्यैव विश्वनिर्मित्सा संवेद्या सती संबन्धिनी भवति,-इति प्रधानवत् तस्यापि निमित्तकारणतायोगात्सर्वज्ञत्वात्सर्वकर्तृत्वाच्च || तदाह न च प्रधानस्येच्छादि- संभवः पुरुषार्थता || ३६ || यतः स्यादस्य बुद्धेस्तु संभवन्नप्यसंभवी | विना संवेद्यतां पुंस- स्तथात्वे पुरुषार्थता || ३७ || पुंसोऽपि स्यात्प्रधानस्या- वाच्या सा केवलस्य तु | पृ० २५) अथापि मनसो वृत्ति- र्बुद्धेर्वैकैकसंस्कृता || ३८ || इच्छा नाम कथं सर्व- पुरुषार्थोपयोगिनी | स्यात्किं तु सा प्रधानस्य सामान्यस्याखिलान्प्रति || ३९ || पुंसः स्यात्साप्यसंवेद्या नेच्छा वेद्या च कस्य सा | सर्वेषां यदि सार्वज्ञ्य- मेकैकस्य प्रसज्यते || ४० || संकीर्येरन्प्रकाशैक्या- द्भिन्नाश्चाभासमानताः | अथापि सर्वपुरुषा- भिन्नेनैकेन केनचित् || ४१ || वेद्या सा वैष तर्ह्येकः कर्ता ज्ञाता स चेश्वरः | इति || अथ न पुरुषस्योपयोगि करोमि इत्येवमनुसंधानवत एव पुरुषार्थत्वं येन प्रधानस्य तदभावान्न स्यात्, अपि तु प्रधानं महद्वा तन्मात्राणि वा यदि वा शुक्रशोणिताद्यपि त- पृ० २६) त्स्वभावत्वादेव तादृक्कार्यमभिनिर्व[र्त]यति, यज्जातं सद्विचित्रसंनिवेशादिकं परतोऽर्थक्रियाविशेषार्थी प्रमाता दृष्ट्वा स्त्रीपुंसादिवदन्योन्यं योजयति | क्वचित्पुनः कर्मवशाच्च व्याघातकादीनां काकतालीयेन अन्यथा वा संनिपातो भवेत्ततः पुरुषभोगार्थमिव कारणानां प्रवृत्तिरित्युपचारेण पुरुषार्थता उच्यते, तदेतदपि न युक्तं | यत एवं सति वस्तुतो निमित्तकारणाभावात् स्वातन्त्र्येण स्वभावादेव कारणानां तथाविधकार्यविशेषकारितेति दृष्टे प्रकृतिपुरुषान्तरे तमेव पुरुषं प्रत्यपि तेषां कथं कार्यकरणाय प्रवृत्तिर्न भवति | अथ भवत्येव प्रकृत्यैकस्य | ननु एकस्य प्रकृतिपुरुषान्तरज्ञानादेव सा निरुध्यते, सर्वपुरुषसाधनत्वं कस्य[स्याः]प्रकृतेरेकरूपत्वात् अष्टानां प्रकृतीनां, तदस्त्वासां; शुक्रशोणितादेस्तु मुक्ताभिमतं पुरुषं प्रति कस्माद्देहात्मककार्यजननं न भवेत् | अथ तस्यापि तद्भवत्येव किं तु पुरुषस्य कृतार्थत्वात् न तदुत्पन्नमतिसंवेद्यतां याति | तदेतदेवं स्यात्, यदि पुरुषस्य बुद्धिसंवेदनाय स्वरूपातिशयलक्षणः कश्चिदुद्यमः स्यात्, स चेदानीं कृतकार्यत्वात् तस्य निवृत्तः,-इति यावता सर्वदा निरभिप्रायो निरुद्यम एव चैकरूप उदासीनः पुरुषो न तस्यैकदातिशययोगोऽन्यदा तन्निवृत्तिः कूटस्थताहानिप्रसङ्गात् | केवलं बुद्धेः कर्मवशात् प्रतिपुरुषं वृत्तिविशेषोऽन्तःकरणस्य वा नियतो, येन मुक्तपुरुषस्यापरबुद्धिवृत्तिः संवेदनमनुभवति, अन्यथा एकात्मीयाभिमतबुद्धिवृत्तिभोगानिवृत्तेः, ततः पुरुषस्य अर्थित्वानर्थित्वविभागाभावात् नित्यनिर्मुक्तस्वभावस्य अन्तःकरणमात्मकर्मनियतं केवलं बद्धावस्थायां कर्मभिः संवेद्यं भवेत् पृ० २७) मोक्षदशायां तु नोत्पद्यत एव, अन्यथा कर्मणां तादवस्थ्यात् कथं न नियतप्रस्तुतपुरुषसंवेद्यता स्यादेव, न हि पुरुषाणां कर्म नियामकम् अपि तु अन्तःकरणस्यैव | तदेवं स्वकारणस्वातन्त्र्यादेवोत्पन्ने सान्तःकरणे देहे नानर्थित्वात् तस्य पुरुषसंवेद्यता स्यादेव, न भवतीति नोपपन्नं तस्य संवेद्यस्वभावत्वात् | अथ क्षीणकर्मणोऽन्तःकरणस्य न संवेद्यतास्वभाव उच्यते, तदत्र किं प्रमाणम् | कर्म[भावा] भावाभ्यां च तदानीं बन्धमोक्षाभ्युपगमः स्यात्, न संयोगवियोगाभ्यां, ततश्च दर्शनक्षतिः | न चापि कर्माणि करुणयापि दानादीनि ज्ञातपुरुषान्तरस्य विरमन्ति, रागद्वेषप्रयुक्तानां कर्मणां बन्धकत्वाभ्युपगमे रागादिभावाभावकृतबन्धमोक्षवादिदर्शनाश्रयणमेव स्यात्,-इति स्वाभाविकपुरुषवादे ज्ञातपुरुषविवेकस्यापि बुद्धिसंबन्धपरिहारायोगादनिर्मोक्षापत्तिः,-इत्यपरबुद्धिमत्पुरुषप्रेरणयैव सा मूलकारणस्य संसारोपयोगिसंनिवेशविशेषकरणे प्रवृत्तिरुपपन्ना,-इति निरवद्य एव प्राक्तनहेतूपन्यासः || तदाह न लोकयात्राभिप्राया- ज्जनयेद्बीजमङ्कुरम् || ४२ || किं तु स्वभावात्सा तस्य सामग्री हेतुरीदृशः | यज्जातं योग्यमन्योन्यं योजयेद्बुद्धिमाञ्जनः || ४३ || पृ० २८) अस्य तेनोपचारेण पुरुषार्थत्वमुच्यते | इति चेत्तत्समाप्तेऽपि पुरुषार्थेऽपि तं प्रति || ४४ || स्वकार्यपरिणामान्न विरमेन्मूलकारणम् | आहो न विरमत्येत- त्परं प्रकृतिसप्तके || ४५ || परिणामात्तदेकं हि सर्वान्पुंसः प्रतीष्यते | तथापि [तयेति पाठान्तरम् |] देहभूतादेः परिणामः स्वभावतः || ४६ || पूर्ववन्न भवेत्कस्मा- त्तं मुक्ताभिमतं प्रति | अथापि स भवत्येव किं तु तेन न युज्यते || ४७ || मुक्तपुंसा कृतार्थत्वा- दनर्थित्वात्स केवलः | नैतन्नार्थित्वमस्यास्ति जातु पुंसोऽथ चेतसः || ४८ || पृ० २९) अर्थित्वविगमान्न स्या- द्भूयः पुंसा समागमः | तदेतदपि न न्याययं जाते देहस्थचेतसि || ४९ || संवेद्यैकस्वभावत्वा- त्तस्य कर्मक्षयान्न चेत् | तत्स्वभावत्वमेव स्या- न्मोक्षः कर्मक्षयाश्रयः || ५० || स्युर्ज्ञातपुंविवेकानां कर्माण्यपि कृपादितः | न रागात्तानि चेदेवं मोक्षो रागक्षयाद्भवेत् || ५१ || तथा च दर्शनत्याग- स्तन्न युक्ता स्वभावदृक् | तस्मात्प्रसिद्धं तन्वादि बुद्धिमत्कर्तृपूर्वकम् || ५२ || संस्थानभेदादित्येत- न्निरवद्यं प्रसाधनम् || ५३ || इति || स एष हेतुः परमेश्वरं प्रति प्रयुज्यमानः स्वनिवेशितात्मना | पृ० ३०) न हेतुदोषैः परिभूयते मनाक् परोऽपि वा केवलमेतदुच्यते || ५४ || समुज्ज्वलन्न्यायसहस्रसाधितोऽ- प्युपैति सिद्धिं न विमूढचेतसाम् | महेश्वरः पाणितलस्थितोऽपि सन् पलायते दैवहतस्य सन्मणिः || ५५ || स्वात्मैवायं स्फुरति सकल- प्राणिनामीश्वरोऽन्तः कर्ता ज्ञातापि च यदि परं प्रत्यभिज्ञास्य साध्या | सा चास्माभिर्विहितघटना- न्यत्र किं त्वीशसिद्धि- र्द्वैतेऽप्यस्तीत्युचितमधिकं भाति वह्निर्निशीथे || ५६ || इति श्रीमन्महामाहेश्वराचार्योत्पलदेवेनोदयाकरसूनुना विरचिता ईश्वरसिद्धिः समाप्ता || श्रीमत्कश्मीरभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्येयं प्रकाशिता || ########### END OF FILE #######