#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00261 Uniform title: ṣaṭcakranirṇaya Manuscript : BHU C4253 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### षट्चक्रनिर्णय अथ षट्चक्रनिर्णयोयं लिख्यते || ओं षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् | शरीरं येन जानन्ति न ते योग्याः कुलागमे || १ || आ *? ब्रह्मबिलं चक्रं सन्दन्ततेष्व?वस्थितम् | योगनालं समुत्पन्नं त्रैलोक्ये स चराचरे || ३ || ब्रह्मकंन्दाधारं ब्रह्मकं सुखं ददातीति ब्रह्मकान्दम् || अन्यशास्त्राभिप्रायः || नाडि त्रितयमुद्दिष्टं यत्र लीयेतसंज्ञितम् | तच्च कन्देति पर्यायं तच्च ब्रह्मबिलं स्मृतम् || ३ || वामदक्षिणके नाड्या विडापिङ्गलसंज्ञके | fओलिओ १९३ इस् मिस्सिन्ग् बुत् थिस् सेएम्स् तो बे अ नुम्बेरिन्ग् मिस्तके प्. १९४अ) तयोर्मध्ये स्थिता नाडी सुषुम्णा मध्यमा स्मृता || ४ || विश्रुता ब्रह्मनाडीति ब्रह्मदर्शयतिस्स्फुटम् | तस्य *? लबिलं कन्दं नाभ्यूर्ध्वाधोङ्गुलं स्मृतम् || ५ || तत्त्रिकोणमिति ज्ञेयं विस्तरादङ्गुलि त्रयम् | तस्य मध्ये स्थिता शक्तिः पञ्चकारणभक्षिणी || ६ || सङ्कोचन प्रयोगेन प्रबुद्धा भवतीति सा | भावानाभावगम्या साप्रयाता परमे पदे || ७ || एवं ज्ञात्वा महाभागे कन्दाधारे स्थितिं कुरु | तत्र स्थित्वात्मनो रूपं प्राकृतं तु परित्यजेत् || ८ || ग्राहयेद् भावना यातं *? हात्सर्वगतं शिवम् | यं प्राप्य तरते पारं घोरात् संसारसागरात् || ९ || द्वितीयं नाभिचक्रं तु नागकुण्डलसन्निभम् | कुण्डलीकृति विख्यातमुदयास्तगकारणम् || १० || अन्यशास्त्राभिप्रायः || नाभिमध्ये स्थिता शक्तिः प्रसुप्तभुजगाकृतिः | फणपञ्चकसंयुक्ता वामावर्ता त्रिवर्तुला || ११ || पञ्चाशंद्विजजननी प्रणवाख्या त्रिवाहगा | ऊर्ध्वाधः क्रमयोगेन या शिवान्तं शिवोल्वना || १२ || प्रबुद्धा चाणु वज्ज्ञेय * *? सुप्ता कुण्डलाकृतिः | त्रिपञ्चाङ्गुलविस्तारामितवर्णा कुलारणी || १३ || तस्य मध्ये यदा * *? संस्थितो ह्येकमानसः | नानाविधानि चिह्नानि पश्यति स्वप्नवत् प्रिये || १४ || तस्मात् सर्वप्रयत्नेन बोधयेत् कुण्डलाकृतिम् | प्. १९५अ) तृतीयं हृदये चक्रं षट्त्रिंशद्व्यापकं प्रभुम् | पद्मरागसमाकारमादित्यसमतेजसम् || १६ || तृत्रोदाहरणम् || नाभे ऊर्ध्वं वितश्रातु कण्ठदूर्ध्वं षडङ्गुलम् | हृदयं तद् विजानीयाद् विश्वस्यायतनं महत् || १७ || हृच्चक्रमध्ये कमलं षोडशाराङ्गुलैर्युतम् | अष्टाङ्गुलप्रमाणेन लम्बमानमधोमुखम् || १८ || कर्णिकाकेसरैर्युक्तं हंसस्य पदमेव हि | तत्राभ्यासगतो योगी पश्यत्यात्मानमात्मना || १९ || चतुर्थं कण्डचक्रं तु नाडीसङ्घट्टगोचरम् | सङ्घतं सर्वनाडीनां हृदयं तदुदाहृतम् || २० || प् १९५ब्) अन्यशास्त्राभिप्रायः || कण्ठ रूपात्क्षुत्पिपासा * * *? || ईशत्कृतापि रसना बिलसूलसंस्थापी श?द्द्विजाधरदले विवृते च कृत्वा | ईशत्सुधार सवरं शशिनश्च पीत्वा तत्क्षुत्तृषां मरणदाहरुजां निवृत्तिः || २१ || पञ्चमं बिन्दुचक्रं तु त्रिखण्डं व्योमगोचरम् | व्योमातीतं परंशान्तमात्मरूपं व्यवस्थितम् || २२ || भ्रुवोर्मध्ये स्थितं चक्रं बिन्द्वाख्यं मोक्षदायकम् | पञ्चवर्णधरं देवं पञ्चकालसमायुतम् || २३ || पञ्चवेलायुतं नित्यं पञ्च पञ्च विवर्जितम् | निष्प्रपञ्चं निराभासमङ्गुष्ठैकप्रमाणकम् || २४ || षष्ठं वै तालु चक्रं च देवानामपि दुर्लभम् | प्. १९६अ) चन्द्रकान्ति समप्रख्यं चिन्तयेत्कलया युतम् || २५ || तत्रोदाहरणम् | तालुमध्ये स्थितं चक्रममृताख्य कलायुतम् | तत्र वै दण्डपाणिस्तु संस्थितः परमेश्वरः || २६ || अङ्गुलत्रयमानेन त्रिकोणाकृति * * *?म् | आद्विजात्यन्व्यजात्यन्तमेकादृ *? व रूपिणी || २७ || तस्योर्ध्वे? नासनं चक्रं रेखाद्वारविवर्जितम् | प्रमाणरूपरहितं भावगम्यं सदोदितम् || २८ || यत्र सा च स्थिता शक्तिर्विमला रूपवर्जिता | शिवेन सह चैकत्र विश्रान्तिं कुरुते सदा || २९ || हकारादूर्ध्वगा कार्या कालाग्निनयगापुरः || सा ह्येव गुल्फजानुह सर्वाधारे लयं गताः || ३० || प्. १९६ब्) सर्वा *? रातु सङ्कोचे सङ्कोचात् तुर्यकोणके | तुर्यकोणा तु जन्माख्ये ततः स्कन्दस्य भामिनि || ३१ || स्कन्दात् कुण्डलिनीमध्ये कुण्डलाख्यात् घटोदरे | तद्वै सञ्जीवनस्थानं भूतानां जीवसंपुटे || ३२ || सञ्जीवन्याश्च कूर्मे तु कूर्माश्च स्पर्शसंज्ञके | स्पर्शाश्च ललनामूले लालाख्याल्लम्बके तथा || ३३ || * *? ख्यात् गुरुवक्त्रे च गुरुर्ह्यजमुखे तथा | इत्ये ते षोदसाधारास्संस्थिताः कुलमध्यतः || ३४ || यैर्भित्वा बाह्यतः शक्तिर्वजेत् सपादशंपदम् | या शक्तिरूहकाख्याधारमधो मार्गं गछ?तिसौ *? कार्या तस्याश्च धाराः षोडस?क *? न्ते || प्. १९७अ) * * *? नूत * *? र्गोः सर्वाधारे *? संज्ञिते | गुदस्य कालाग्निरुद्रेति पर्या?यः | अस्यैव कामसङ्कोचो वायुः | योनिमार्गद्वयं वायोः सङ्ग?मे सर्वदा स्थितम् | अशक्त्या समतां नीत्वा दि?व्योयोधः प्रवर्तते || त * *? तं क्रोश्य?गुदद्वारं सर्वाधारमङ्गुलि *? यस्योर्ध्वे तुर्यकोणं चतुष्कोणं मेढ्रे जन्माख्यं यस्मिन् स्थाने स्त्रीपुंसयोः संयोगकाले बीजं पतितं भूत्वा गर्भः स भवति जन्माख्य हाटकस्या भ्य?न्तरे तिर्यग्ग्?त्याङ्गुल षट्कम् | ऊर्ध्वगत्याङ्गुलि द्वयम् || अन्यशास्त्राभिप्रायः || जकारे जननं यत्र मकारे मरणं भवेत् | जन्ममृत्यु भय स्थानं जन्मस्थानं तु तद्विदुः || मेढ्रोध्वा?ङ्गुल द्वये जन्म कन्दं तस्योर्धे अङ्गुल द्वयम् | तच्च त्रिकोणं नाडि त्रितयस्या धारम् | तद्यथा नाड्यधो ह्यङ्गुला दृ?ष्टौ मेढ्रमूलं त्व?तद्विदुः | तत्र मध्ये महाचक्रं कन्दं नाम प्रकीर्तितम् | तालुसंज्ञा भवेत्तस्य शोधनं नामनामतः || अन्य शास्त्राभिप्रायः || नाभि मेढ्रान्तरं कन्दं तत्वाधारं प्रकीर्तितम् | दहन्तात्क * मध्यस्थं चैतन्यं चित्तवर्जितम् | षडरं प्रस्फुरन्तं च कन्दसंस्थानसंस्थितम् | कुलबिन्दुरिति ख्यातं ख्यातं ब्रह्मबिलं तथा || प्. १९८अ) एतत् प्रकृष्टकमुच्यते || कुण्डलिनी नाभि देशे घटोदरं नाभि हृत्पद्ममध्यस्थं तस्यैव सङ्जीवनीति पर्यायः | नाभि हृदयपद्मसंपुटं मध्यम् | कूर्मं हृदयं सर्वाणि पदार्थानि यत्र कूर्माङ्गानीवतिष्ठन्ति तत्कूर्माधारं सर्वम्बरः? स्थानम् | हृदयाच्चतुरङ्गुलं लोलाख्यं लोलाजिह्वा तस्यामूलं लोलामूलं कण्ठस्थानम् | लम्पिकाधः षडङ्गुलम् | लम्बाख्यं लम्बाघण्टिकागुरुवक्त्रं गुरुवक्त्रेति बिन्दुसंज्ञं भ्रूमध्यं भ्रूमध्येति बिन्दुसंज्ञकं तुर्यस्थाने सर्वेति कथ्यते | अजमुखमजमाकाशं अविद्यमानं जन्मायस्मात्तस्मिन्स्थाने ध्वज? इति || प्. १९८ब्) इति षोडशाधारम्? || अथ त्रिलक्षम् || अन्तर्लक्षं बहिर्लक्षं लक्षं चोभयवर्जितम् | बाह्यल *? प्रयोगेन प्रतिमादि *? चालनम् | सर्वावयवसंयुक्तं सर्वतन्त्रार्थसंयुतम् | शा * * *? समासाद्य चित्तचैतन्य योगतः | पराप्रवर्तते दृष्टिरन्तर्लक्षस्य दर्शनम् | बहिरन्तर्बहि कृत्वा स्वस्थानस्थस्य या स्थितिः | तल्लक्षं मध्यमं? प्रोक्तं न किञ्चिद्यत्र लक्षयेत् | लक्ष त्रय विनिर्मुक्तं वा *? यातीतमव्ययम् | सर्वा?वस्थं न सावस्थं परं तल्लक्षमुच्यते || व्योमपञ्चकमिति || प्रथमं तु ब्रह्मव्योमविष्णुव्योम द्वितीयकम् | प्. १९९अ) रुद्रव्योम तृतीयं तु चेश्वराख्यं चतुर्थकम् | सदाशिवं पञ्चमं तु ह्येतद्वै व्योमपञ्चकम् || नाद्यादि हृदयं यावद्ब्रह्मज्ञानं विदुः प्रिये | जाग्रद्वृत्युनुभावेन पार्थिवं तत्वमुत्तमम् || १ | हृदयात्कण्ठसंस्थानं विष्णुस्थानं प्रकीर्तितम् || २ || कण्ठा तु यावद्भ्रूमध्यं रुद्रस्थानं तु तद्विदुः || ३ || सुषुप्तावस्थया संस्थं तेजस्तत्त्वं तु संस्थितम् | बिन्दौ तु यावत्तल्वन्तमीश्वराख्यमनुक्रमम् || ४ || तुर्यावस्थाश्रितं ज्ञेयं वायुतत्वं समाश्रितम् | ताल्वन्ताद् द्वादशान्तं तु स्थानं सदाशिवं स्थितम् || ५ || तुर्यातीतपदावस्थं नभ पर्त् ओf थे तेxत् इस् मिस्सिन्ग् हेरे * * मि चित्पतिं होमं बिन्दुनादेन्दु संयुतम् | प्. १९९ब्) षष्ठम्बा समायुक्तं स्वच्छदं विगता मयम् || ३ || नमः स्वाहा स्वधा वौषट् स्ववषट्कङ्समन्वितम् | दीर्घस्वरसमायुक्तं हंसं हंसाङ्गभूषितम् || ४ || शक्तिमन्त्रसमायुक्तं परानन्दपदं स्थितम् | व्यापिनी सहितं देवं सृष्टिकृद्व्यापिनीश्वरम् || ५ || षट्त्रिंशत्तत्त्वमध्यस्थं परमं मन्त्रविग्रहम् | मन्त्रातीतं परं शान्तमुन्मन्यन्तं निरामयम् || ६ || ज्योतिषांधामधामाख्यं चिदानन्दप्रकाशकम् | मतिज्ञनैकगम्यं तमितरेषामगोचरम् || ७ || परमात्मापदातीतं स * * *? विवर्जितम् | शिवं सर्वगतं शून्यं स बाह्याभ्यन्तरे स्थितम् || ८ || fओलिओ २०० - २३९ इस् मिस्सिन्ग् सेएमिन्ग्ल्य दुए तो नुम्बेरिन्ग् मिस्तके प्. २४०अ) नित्योदितं महातेजं सूर्यहंसं शिवात्मकम् | राशिचक्रगतं देवमयनद्वयसंस्थितम् || ९ || उदरे दक्षिणे चन्द्रं दक्षिणो चोत्तरं रविम् | पक्षद्वयसमायुक्तं सर्वभूतेष्ववस्थितम् || १० || योगेश्वरं योगगम्यं योगातीतं निरामयम् | षट्पथं षट्पथातीतं शून्यं षट्कसमन्वितम् || ११ || हृत्कुशेशयमध्यस्थं ग्राह्यग्राहकगूहितम् | षट्पथं षडभावाख्यं चित्पतिं चेतनात्मकम् || १२ || खरूपं खचरं खस्थं खपरं खपतिं खगम् | कूला * * *? लाधारमकुलं कुलना * *? म् || १३ || प्. २४०ब्) स एव बन्धुर्माता च पिता च ससुहृत्?गुरुः | यं सर्वस्वमिति प्राहुस्तं वन्दे परमेश्वरम् || १४ || यस्य? सर्वज्ञता ज्ञा?प्ति दधि बोधस्वतन्त्रता | अ * * * * * क्तिश्च तस्मै पूर्णात्मने नमः || १५ || सर्वेन्द्रिय परित्यागाद् व्याप्तिर्यस्य विलक्षणा | षाड्गुण्यगुणसंयुक्ता तस्मै व्याप्तात्मने नमः || १६ || ज्ञानादि गुणसंयुक्तं वर्जितं प्राकृतं गुणैः | क्षयोत्पत्ति न यस्यस्थस्तस्मै नित्यात्मने नमः || १७ || यस्य मूलं न चाग्रं च न दिशो विदिशस्तथा | न शब्दो न तथाकाशस्तस्मै शून्यात्मने नमः || १८ || वा? पश्यत्यक्षिरहितः स्वादं बिन्दत्य जिह्वकः | प्. २४१अ) अकर्णः शृणुते यश्च तस्मै चित्त्रात्मने नमः || १९ || * * * * * * * * * * * * * * * * | विश्वं कारणनिर्हीनस्तस्मै स्रष्टात्मने नमः || २० || यथा कालो ह्यसूत्रोपि कुरुते कार्यसाधनम् | तथैव कर्ता यो नित्यं तस्मैकर्त्रात्मने नमः || २१ || यो नित्यं वसते देहे विश्वमध्ये व्यवस्थितः | स्थैर्य रूपं समासाद्य तस्मै स्थित्यात्मने नमः || २२ || यस्य विश्वमिदं हंसर्कालमेकं ब्रुवन्तितम् | संहरेत्केवलात्मा च तस्मै कालात्मने नमः || २३ || य एको बहुधा रूपैर्वसत्यस्मिञ्चराचरे | संहृत्येदं पुनश्चैकं तस्मै मायात्मने नमः || २४ || विश्वं ज्ञानकराग्रेण धृतं तत्त्वसमन्वितम् | प्. २४१ब्) लीलया भ्राम्यते येन तस्मै वीरात्मने नमः || २५ || ब्रह्माण्डस्य यथामध्ये दृश्यते सर्षपा कणः | ब्रह्माण्डं च तथा यस्य तस्मै स्थूलात्मने नमः || २६ || बालाग्र भागः शतशः कल्पितोथ सहस्रशः | यस्यमानमिदं प्रोक्तं तस्मै सूक्ष्मात्मने नमः || २७ || महास्थानं शरीरे यस्सर्वसत्वैरधिष्ठितः | सत्वपञ्जरनिर्माणं तस्मै क्षेत्त्रात्मने नमः || २८ || क्षेत्त्रज्ञो ज्योतिरात्मा च हृन्मध्ये तु व्यवस्थितः | यः शुचिर्निर्मलोहंसस्तस्मै क्षे?त्रात्मने नमः || २९ || मह *? स्तमसः पारे उन्मन्यात्मानमुज्ज्वलम् | प्. २४२अ) यं ज्ञात्वा न पुनर्जन्म तस्मै ज्ञानात्मने नमः || ३० || ज्ञानेन प्राप्यते यस्मात् कार्यं वै कारणोत्तरम् | यावत्सर्वगता तृप्तिस्तस्मै ज्ञानात्मने नमः || ३१ || देहमध्ये स्थितो यच्च नाभिचक्रे परिभ्रमन् | चित्प्रकाशो हृदिव्यापी तस्मैजीवात्मने नमः || ३२ || इडा गङ्गा महापुण्या सुषुम्णा यमुना तथा | तयोः संक्रीडते यश्च तस्मैहंसात्मने नमः || ३३ || यः शुद्धः शुक्लपक्षे तु शुक्लगङ्गाजले स्थितः | शुक्लकर्मरतो नित्यं तस्मै शुक्लात्मने नमः || ३४ || यः कृष्णः कृष्णपक्षे तु संस्थितो यमुना जले | क्रूरकर्मरतो नित्यं? तस्मै कृष्णात्मने नमः || ३५ || प्. २४२ब्) रे?चकेन वहेन्नित्यं षड्रसा स्वादलम्पटः | यस्तेजस्तपते नित्यं तस्मै सूर्यात्मने नमः || ३६ || पूरके निवसेद्यश्च निशायाममृतात्मकः | आप्यायन करो नित्यं तस्मै सोमात्मने नमः || ३७ || यस्तृप्तस्तर्पयेद्देवान्देवयानेनसंस्थितान् | पितॄणां पितृस्थानेन तस्मै वह्न्यात्मने नमः || ३८ || सूर्यस्य ग्रहणे यश्च विषुवेन च संयुतम् | इडापिङ्गलयोर्मध्ये संलीनो हृदयान्तरे || ३९ || यत्पुण्यं हव्यकव्येन तस्मै तीर्थात्मने नमः || ४० || चन्द्रोदये चन्द्रगत्या इडांशे पिङ्गलार्पितम् | यः श्रेयः सर्वकार्याणां तस्मै लग्नात्मने नमः || ४१ || द्वादशान्ते शुभे क्षेत्त्रे शिवराहुसमन्वितम् | प्. २४३अ) चित्सूर्यग्रहणं यत्र तस्मै स्थानात्मने नमः || ४२ || यत्र चन्द्रो ह्यपानाख्यो यत्र चास्तङ्गतो रविः | प्राणापानक्षयो यत्र तस्मै मन्त्रात्मने नमः || ४३ || ब्रह्मार्पणविधानेन दिनरात्रि परिक्षयात् | पूज्यते योगिभि यश्च तस्मै पूज्यात्मने नमः || ४४ || स्वयमुच्चरते यश्च स्वदेहावस्थितः शिवः | देहान्ते मोक्षदो यश्च तस्मै जप्यात्मने नमः || ४५ || चित्कृषाणुर्मनो होता अमृताख्या पराहृतिः | यत्र मन्त्रो हकाराख्यस्तस्मै होतात्मने नमः || ४६ || सर्वदेवस्थितो देवः सप्तार्चिः परमेश्वरः | यश्चान्तः षड्रसाहारस्तस्मै भोक्तात्मने नमः || ४७ || प्. २४३ब्) यो नित्यं भासयेत् सम्यक् मयूखैर्महाद्युतिः | स बाह्याभ्यन्तरं सर्वं तस्मै भासात्मने नमः || ४८ || यो व्योमपरमं ब्रह्म चित्प्रकाशं निरामयम् | भूताकाशं परित्यज्य तस्मै व्योमात्मने नमः || ४९ || योविनिद्रा महाबोधा युञ्जानाः संयतेन्द्रियाः | पश्यन्ति ज्योतिषां ज्योतिस्तस्मै योगात्मने नमः || ५० || पूरके यो बहिर्ब्रह्मा कुम्भके विष्णुरेव च | रेचके यो वसेद्रुद्रस्तस्मै प्राणात्मने नमः || ५१ || ब्रह्मत्वे सृजते विश्वं विष्णुत्वे स्थिति कृश्चयः | रुद्रत्वे संहरत्येव तस्मै स्थित्यात्मने नमः || ५२ || मात्रा पञ्चकसंयुक्तं प्रसादे पञ्चदैवतम् | प्. २४४अ) मनुनात्रा यते येन तस्मै मन्त्रात्मने नमः || ५३ || स्वयम्बश्चरते यश्च स्वल्पवृत्ति हलाकृतिः | अनाहत परः शान्तस्तस्मै वर्णात्मने नमः || ५४ || स्रगिवग्रथितो येन प्राकृतो भुमिसञ्चयः | धर्माधर्म मयैः पशैस्तस्मै वन्धात्मने नमः || ५५ || सर्वाद्वनपथातीत मुन्मन्यते व्यवस्थितम् | सर्वाख्येयं परंशान्तं तस्मै मोक्षात्मने नमः || ५६ || यस्य पीठमिदं विश्वं मूर्तिव्योमात्मिका भवेत् | लीयन्ते सर्व तत्वानि तस्मै लिङ्गात्मने नमः || ५७ || उन्मन्यन्तं परं शुद्धं समनावस्तु निष्कलम् | व्यापिन्या सकलं यश्च तस्मै मुक्त्यात्मने नमः || ५८ || प्. २४४ब्) चलाचलेषु सर्वेषु विश्वमध्ये व्यवस्थितः | मायांबाद्धास्थितो यश्च तस्मै सर्वात्मने नमः || ५९ || स्तवराजसमं दिव्यं ज्ञानाञ्जनमनश्वरम् | अज्ञानतिमिरान्धस्य उन्मीलनकरं स्मृतम् || ६० || नराणां क्षीणपुण्यानां सद्योधर्मविवर्धनम् | परं शुद्धं पवित्रं च सर्वदुःखनिवारणम् || ६१ || अध्यात्मगुणसंपूर्णं ज्ञात्वा यः पठते नरः | सर्वपापविशुद्धात्मा स गच्छेच्छा श्वतं पदम् || ६२ || ########### END OF FILE #######