#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00151 Uniform title: ṣaṭtriṃśāttattvasandoha Main title: ṣaṭtriṃśāttattvasandoha with commentary by rājānakānanda Commentator : rājānakānanda Editor : śāstrī m r Description: E-text transcribed from volume 13 of the Kashmir Series of Texts and Studies. Notes: This e-text was transcribed by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: March 19, 2005 Publisher : Research Department, Jammu and Kashmir State Publication year : 1918 Publication city : Srinagar Publication country : India #################################################### यदयमनुत्तरमूर्तिर् निजेच्छयाखिलमिदं जगत्स्रष्टुम् | पस्पन्दे स स्पन्दः प्रथमः शिवतत्त्वमुच्यते तज्ज्ञैः || १ || इह हि स्वतन्त्रशिवाद्वयदर्शने परमेश्वरः स्वतन्त्रश्चिद्घनसंवित्स्वभावः स्वया स्वातन्त्र्याख्यया शक्त्या सततं शिवादिधरण्यन्ततत्तद्भुवनभूततत्त्वात्मना क्रीडनादिशीलत्वात् कृत्यपञ्चकविधायी, वस्तुतः क्रमराहित्येऽपि विश्वसृष्टौ आभासनमात्रसारेण पारमार्थिककार्यकारणभावेन क्रममपि उद्भावयन्, अनाख्यत्वेऽपि स्वेच्छयैव स्वात्मभित्तौ तत्तच्छिवादितत्त्वाभिख्याम् अवभासयति | तथात्वेऽपि षट्त्रिंशत्तत्त्वमयकुलस्वरूपपरामर्शनात् आखण्ड्येन विश्वभरितां स्वचमत्कारविमर्शसाराम् अनुत्तरानन्दघनावस्थां नोज्झति, इति वास्तवाशयावबोधनाय कश्चिन्महामाहेश्वरः परमेशशक्तिपातानुगृहीतः तत्त्वक्रमप्रक्रियाम् आर्याभिरेकविंशत्या समुप निबबन्ध, - यदयमित्यादिना | अनुत्तरमूर्तेर्भगवतः परमेश्वरस्य प्रकाशघनस्वात्मैकात्म्येन अवस्थितं विश्वं सिसृक्षोः दर्पणनगरवत् स्वेच्छयैव स्वात्मनि आद्या प्रोन्मिमीलयिषावस्था शिवतत्त्वव्यपदेश्या पञ्चशक्तिनिर्भरत्वात् स्वातन्त्र्यात् चिदादिप्राधान्येन क्रमशः शुद्धाध्वनि तत्त्वसृष्ट्यवभासनम्, मायाविद्यादेः संवित्प्रकाशघनपरमशिवात् व्यतिरेकानतिरेकविकल्पैरुपहतत्वात् स्वातन्त्र्यमेव केवलं विश्वोत्पत्तिसंहरणादौ मूर्धाभिषिक्तं - तत्तदनन्तशक्तिनिचयानां क्रोडीकारित्वात्, वक्ष्यमाणेऽपि तत्तद्रूपोपग्रहणे स्वातन्त्र्यामुक्तत्वान्न प्राच्यस्वभावापायः || १ || इच्छा सैव स्वच्छा संततसमवायिनी सती शक्तिः | सचराचरस्य जगतो बीजं निखिलस्य निजनिलीनस्य || २ || प्. ३) तस्य स्वाभिन्ना स्वतन्त्रेच्छाशक्तिरेव उद्भविष्यतो विश्वस्य स्वान्तर्निलीनत्वात् बीजभूता शक्तितत्त्वतां याति, शक्तेः शाक्तिमद्धर्मत्वेऽपि न अन्यदर्शनाभिमतवत् तस्मात् व्यतिरेकः, नैष्कर्म्येण अत्र इच्छायाः स्वच्छत्वात् हृदय-विमर्श-सारोर्मि- प्रभृतिभिः संज्ञाभिः तत्तद्दर्शनेषु अभिधानम् | परमेश्वर एव हि स्वैश्वर्योच्छलत्तया पूर्णाहन्ताचमत्कारतारतम्येन शक्तिदशामधिशेते, इत्यत्र आनन्दशक्तिप्राधान्यम् || २ || स्वेच्छाशक्त्युद्गीर्णं जगदात्मतया समाच्छाद्य | निवसन्स एव निखिला- नुग्रहनिरतः सदाशिवोऽभिहितः || ३ || तस्यैव परमेश्वरस्य स्वस्वातन्त्र्योद्भासितस्य विश्वस्य विशुद्धसंविन्मात्राधिकरण्येन स्वात्मन्येव समुल्लासनात् सदित्याख्यानात् सदाशिवतत्त्वावस्था, तत्र प्रोन्मीलितमात्रचित्रकल्पतया इदमंशस्य अस्फुटत्वात् इच्छाप्राधान्यम्, अतः स भाविनः समस्तभावराशेः सम्यक् बहिरवबिभासयिषालक्षणक्रीडारसिकत्वात् अनुग्रहनिरतस्तद्भूमिकां गृह्णाति इत्यतो निवसन्नित्युक्तम् || ३ || प्. ४) विश्वं पश्चात्पश्यन्- इदन्तया निखिलमीश्वरो जातः | सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमतिः || ४ || एवं क्रमावभासनात् विश्वस्य शुद्धसंविन्मात्राधिकरण एव स्फुटतया परामृश्यमानस्य अहमंशेऽभिषेचनात् स एव परमेश्वरः ईश्वरतत्त्वदशामधिश्रयति, अत्र वेद्यजातस्य स्फुटाव भासनात् ज्ञानशक्त्युद्रेकः | आन्तरदशाया उद्रिक्तत्वात् सदाशिवावस्था, बहिर्भावपरतोद्रेकात् तु ईश्वरावस्था इत्यनयोर्विशेषः | प्ररूढभेदस्य इदन्तांशस्य समधृततुलापुटन्यायेन अहमंशस्फुरणायां शुद्धविद्यातत्त्वम् | अत्र विश्वस्य स्फुटतरं परामर्शनात् क्रियाशक्तिः प्रधाना | इयति च शुद्धस्वातन्त्र्यमेव तत्तद्वैचित्र्येण प्रस्फुरति, इति शुद्धोऽध्वा || ४ || माया विभेदबुद्धि- र्निजांशजातेषु निखिलजीवेषु | नित्यं तस्य निरङ्कुश- विभवं वेलेव वारिधे रुन्धे || ५ || प्. ५) अशुद्धे पुनरध्वनि परमेश्वर एव स्वात्मप्रच्छादनक्रीडया अघोरभट्टारकभूमिं मन्त्रमहेश्वररूपां गृहीत्वा दुर्घटसंपादनसामर्थ्येन मायाशक्त्या स्वतोऽन्योन्यश्च भिन्नम् अणूनां भोगसिद्धये कलादिक्षित्यन्तं जडाजडवर्गं क्रमतोऽक्रमतोऽपि अवभासयति, तत्र भिन्नभिन्नप्रथात्मकमायीयमलेन स्वाङ्गकल्पेष्वपि जडवेद्यवर्गेषु विभिन्नतया बुद्धिरेव मायाख्यं तत्त्वं, येन तस्य निरर्गलं स्वातन्त्र्यं प्रतिहन्यते, वेलयेव अब्धितरङ्गाणां वैभवम् || ५ || स तया परिमितमूर्तिः संकुचितसमस्तशक्तिरेष पुमान् | रविरिव संध्यारक्तः संहृतशक्तिः स्वभासनेऽप्यपटुः || ६ || अविकार्यस्यापि तस्य चिदात्मनः स्वशक्तीनां संकोचनपुरःसरं शक्तिदारिद्र्यमापन्नस्य अण्वपरपर्याया पुरुषसंज्ञा, संहृतशक्तित्वेन परिमितात्मा स स्वात्मैश्वर्यमपि प्रत्यभिज्ञातुमपटुः संचरति विचित्रयोनिषु | यदा पुनः शक्तिपाततारतम्यात् विद्याभिज्ञापितैश्वर्यः स्वाङ्गकल्पमेव विश्वं प्रत्यभिजानीयात् तदा जीवच्छिवभावं प्रत्यापद्यते || ६ || प्. ६) संपूर्णकर्तृताद्या बह्व्यः सन्त्यस्य शक्तयस्तस्य | संकोचात्संकुचिताः कलादिरूपेण रूढयन्त्येवम् || ७ || शक्त्यन्तरक्रोडीकारिण्या स्वातन्त्र्यशक्त्यावियुक्तत्वादेव परमेश्वरस्य बहुशक्तित्वं, संकोचग्रहणादेव सर्वास्तच्छक्त्यः संकुचितीभूय कलादितत्त्वपञ्चकेन प्ररोहमुपगच्छन्ति | ता यथासर्वकर्तृता सर्वज्ञता तृप्तिः नित्यता स्वातन्त्र्यमिति, एतत्पञ्चकं शुद्धाशुद्धभेदेन द्विधा,-परमेशविषयतया शुद्धं, संसारविषयतया तु अशुद्धम् || ७ || तत्सर्वकर्तृता सा संकुचिता कतिपयार्थमात्रपरा | किंचित्कर्तारममुं कलयन्ती कीर्त्यते कला नाम || ८ || गोपितस्वरूपत्वान्निरुद्धशक्तेः परमेश्वरस्य सर्वकर्तृताशक्तिः प्राणादिपरिमितप्रमातृभावे किंचित्कर्तृतोद्वलनात्मना कलनेन अधःप्रक्षेपात् कलातत्त्वात्मतां याति, यद्वशात् किंचिदेव कर्तुमुत्सहतेऽणुः न सर्वत्र कर्तृत्वमिति || ८ || प्. ७) सर्वज्ञतास्य शक्तिः परिमिततनुरल्पवेद्यमात्रपरा | ज्ञानमुत्पादयन्ती विद्येति निगद्यते बुधैराद्यैः || ९ || एवं तस्यैव सर्वज्ञताशक्तिः संकोचं गृहीतवती किंचिज्ज्ञेयमात्रपरत्वेन ज्ञानोत्पादनात् विद्यातत्त्वं, विद्ययैव बुद्धिदर्पणे प्रतिफलिता भावा विविच्यन्ते- गुणसंकीर्णतया तस्या विवेक्तुमक्षमत्वात्, तस्मात् विद्ययैव अर्थविवेकः || ९ || नित्यपरिपूर्णतृप्तिः शक्तिस्तस्यैव परिमिता तु सती | भोगेषु रञ्जयन्ती सततममुं रागतत्त्वतां याता || १० || परमेश्वरस्य नित्यपरिपूर्णतृप्तिर्नाम शक्तिः पारिमित्यं याता यत्र क्वचन उपादेयाद्यभिमते किंचिन्मे भूयात् इति सामान्येनाभिष्वङ्गमात्रादापद्यते रागतत्त्वम् | प्. ८) विशेषाभिष्वङ्गस्तु अस्यैव पल्लवितप्राय इति एतदेव कलाविद्ययोः प्रागुक्तयोः किंचिद्भागे निमित्तम् || १० || सा नित्यतास्य शक्ति- र्निकृष्य निधनोदयप्रदानेन | नियतपरिच्छेदकरी कॢप्ता स्यात्कालतत्त्वरूपेण || ११ || अकालकलितस्य चिदात्मनो नित्यत्वाख्या शक्तिः न्यग्भावमाश्रित्य कार्यारूषितकर्तृत्वकलनया अणुं तुट्यादिक्रमाभासनात्मना कालेन संयोज्य कालतत्त्वव्यपदेश्या कल्प्यते, येन अयमणुः भूतादिक्रियाक्रमकलितः कालवशतामापद्यते || ११ || यास्य स्वतन्त्रताख्या शक्तिः संकोचशालिनी सैव | कृत्याकृत्येष्ववशं नियतममुं नियममन्त्यभून्नियतिः || १२ || प्. ९) स्वातन्त्र्यमेव अस्य परप्रमातुः संकुचत् नियतितत्त्वतामाभासयति, यतः कार्याकार्येषु नियमाधानात् विशिष्टे कार्ये विशिष्टं कारणमेव आदध्यान्नानियतमिति | एतेन कलादिना कञ्चुकेन आवृतोऽयं शक्तिदारिद्र्यमनुभूय कलादिमुखेनैव स्ववैभवात् प्रतिवितीर्णकिंचिदंशः पशुरित्युच्यते || १२ || इच्छादित्रिसमष्टिः शक्तिः शान्तास्य संकुचद्रूपा | संकलितेच्छाद्यात्मक- सत्त्वादिकसाम्यरूपिणी तु सती || १३ || बुद्ध्यादिसामरस्य- स्वरूपचित्तात्मिका मता प्रकृतिः | इच्छास्य रजोरूपा- हंकृतिरासीदहंप्रतीतिकरी || १४ || अस्य शान्ताख्या शक्तिरक्षुब्धत्वात् इच्छादीनां शक्तीनां गर्भीकरणात् समष्टिरूपा, पारिमित्यग्रहणाच्च गुणानामविभागावस्था प्रकृतितत्त्वम् | गुणानामिच्छादिशक्तित्रिकेन अन्वारब्धत्वात् त्रित्वं - यत्प्रक्षोभात् प्राकृतिकसर्गस्य प्रसरः | प्. १०) तत्र चित्तात्मके बुद्ध्यहंकृन्मनांसि साम्यावस्थामधिश्रयन्ति | अत्र तत्त्वक्रमप्रसरे शिवादिसकलान्तेषु प्रमातृवर्गेषु ज्ञानक्रियाशक्ती एव मुख्यमुपकरणं, ते एव संकुचद्रूपे ईश्वर-शुद्धविद्ये, संकुचिते विद्याकले, अत्यन्तं संकुचिते बुद्धिकर्मेन्द्रियाणि, क्रियायाः संकोचसीम्नि भूतसूक्ष्मादि इति विज्ञेयम् | अणोः रजःपरिणामिणी इच्छाशक्तिः अहमित्यभिमानलक्षणा अहंकृतिः || १३-१४ || ज्ञानापि सत्त्वरूपा निर्णयबोधस्य कारणं बुद्धिः | तस्य क्रिया तमोमय- मूर्तिर्मन उच्यते विकल्पकरी || १५ || सत्त्वपरिणामिनी ज्ञानशक्तिरेव अर्थाध्यवसायलक्षणा बुद्धिः | तमःपरिणामिनी क्रियाशक्तिः | विकल्पकरणलक्षणं मनस्तत्त्वमुच्यते || १५ || वामादिपञ्चभेदः स एव संकुचितविग्रहो देवः | ज्ञानक्रियोपराग- प्राधान्याद्विविधविषयरूपोऽभूत् || १६ || प्. ११) स एव क्रीडादिसतत्त्वो वामदेवादिपञ्चमूर्तित्वात् संकुचितो भूत्वा ज्ञानशक्त्युपरञ्जनप्रधानतया ज्ञानेन्द्रियतद्विषयशरीरतां, क्रियाशत्युपाधिप्राधान्यात् कर्मेन्द्रियव्यापारवत्त्वं च उपादत्ते | शक्तिपञ्चकोपादानात् करणानां पञ्चधात्वं बोध्यम् || १६ || श्रोत्रं चक्षुः स्पर्शन- जिह्वा-घ्राणानि बोधकरणानि | शब्द-स्पर्शौ रूपं रस-गन्धौ चेति भूतसूक्ष्माणि || १७ || श्रोत्रादीनि ज्ञानेन्द्रियाणि, शब्दादीनि तन्मात्राणि || १७ || अयमेवातिनिकृष्टो जातो भूतात्मनापि भूतेशः | गगनमनिलश्च तेजः सलिलं भूमिश्च पञ्चभूतानि || १८ || अत्यन्तसंकोचग्रहणात् अचिद्रूपतामवभास्य आकाशादीनि पञ्चभूतानि || १८ || श्रोत्रादिकरणवेद्याः शब्दाद्यास्तानि वेदकान्येषाम् | वचनकरी वागासीत् पाणिः स्यात्करणभूत आदाने || १९ || शब्दादिज्ञानसाधनानि श्रोत्रादिकरणानि, वचनादिक्रियासाधनानि वागादीनि कर्मेन्द्रियाणि || १९ || गमन-विसर्गानन्द- त्रितये पादादिकं करणम् | गन्धवती भूमिः स्या- दापः सांसिद्धिकद्रवास्तेजः || २० || उष्णस्पर्शमरूप- स्पर्शो वायुरम्बरं सशब्दम् | षट्त्रिंशत्तत्त्वमयं वन्दे कौलं कुलातिगं शंभुम् || २१ || आदिना पायूपस्थौ गृह्येते | गन्धवत्त्वं भूमेर्लक्षणम्, सांसिद्धिकद्रवत्वमब्लक्षणम्, उष्णस्पर्शेन तेजो लक्ष्यते, अरूपस्पर्शो वायुलक्षणम्, शब्द आकाशस्य इति प्रत्येकं मुख्यगुणनिर्देशः | तत्त्वानामुत्तरोत्तरं व्याप्य-व्यापकभावेन भूमिर्व्याप्या जलादिशिवान्तं व्यापकानि पञ्चत्रिंशत्, एवं भूतसृष्टौ भूमौ व्योमादिगुणा व्यापकत्वेन अनुगताः सन्ति | परमशिवतत्त्वस्य सर्वत्र अनुगतत्वात् विश्वमयतदुत्तीर्णयामलकौलस्वरूपमेव भक्तानां समावेशार्हम्, इति वन्दनोपसंहारोक्त्या उपक्षिप्तम् इति शिवम् || इति षट्त्रिंशत्तत्त्वसंदोहः श्रीमद्राजानकानन्दाचार्य- विरचितविवरणोपेतः समाप्तः || प्. १४) सद्विद्यानां संश्रये ग्रन्थविद्वद्- व्यूहे ह्रासं कालवृत्त्योपयाते | तत्तत्सद्धर्मोद्दिधीर्षैकतान- सत्प्रेक्षौजःशालिना कर्मवृत्त्यै || १ || श्रीमत्कश्मीराधिराजेन मुख्यै- र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य | प्रत्यष्ठापि ज्ञानविज्ञानगर्भ- ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः || २ || तत्राजीवं निर्विशद्भिर्मुकुन्द- रामाध्यक्षत्त्वाश्रितैः सद्भिरेषः | पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् || ३ || तिलकम् || श्रीशिवार्पणं भूयात् || ########### END OF FILE #######