#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00640 Uniform title: ūrdhvāmnāya Manuscript : manuscript 4894 Shri Raghunatha Temple MSS Library Jammu Description: Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Diplomatic transcription of manuscript. Revision 0: Nov. , 21, 2023 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नं० - ४८९४ नाम - ऊर्ध्वाम्नायः पत्रसंख्या - ३५ पत्राणि विषयः - तन्त्रम् उ०म्ना० पृ० १अ) || श्रीगणेशायनमः|| || ईश्वरुवाच शृणुदेविप्रवक्ष्यामियत्मात्वंपरिपृछसि त स्यश्रवणमात्रेणदेवतासुप्रसीदति १ कस्यचिन्नमयाख्यातमितःपूर्वंकुलेश्वरि कथयामितवस्नेहान्दूर्ध्वाम्नायंशृणुप्रिये २ वेदशास्त्रपुराणानिप्रकास्यानिसुरे श्वरि शैवाद्याश्चागमाःसर्वेरहस्याःपरिकीर्त्तिताः ३ रहस्यातिरहस्यानिकुलशास्त्रा णिपार्वति रहस्यातिरहस्यानांरहस्यमिदमंबिके ४ ऊर्ध्वाम्नायार्थतत्वंहिपूर्णाहं तात्मकंपरं सुगोपितंमयायत्नादिदानींतुप्रकाश्यते ५ ममपंचमुखेभ्यश्चपंचाम्ना याःसमुद्गताः पूर्वश्चपश्चिमेचैवदक्षिणश्चोत्तरस्तथा ६ ऊर्ध्वाम्नायश्चपंचैतेंमो क्षमार्गाःप्रकीर्त्तिताः आम्नायावहवःसंतिनोर्ध्वाम्नायेनतेसमाः ७ सत्यमेत पृ० १ब) द्वरारोहेनात्रकार्याविचारणा आम्नायावहवोगुप्ताश्चतुराम्नायभेदजाः ८ अस्मि न्तंत्रेमयाख्याताःपूर्वंतेकुलनायिके चतुराम्नायवेत्तारोवहवःसंतिभामिनि ९ ऊर्द्ध्वाम्नायार्थतत्वज्ञाविरलाविरवंदिते यावंतःपांसवोभूमेस्तावंतिसमुदीरिताः १० एकैकाम्नायजामंत्राभुक्तिमुक्तिफलप्रदाः उपमंत्राश्चतावंतःशावराःसमुदाहृताः ११ मयैवकथितास्तेपिलोकानुग्रहकांक्षया सर्वेषामपिमंत्राणांदेवतास्तत्फलप्रदा १२ आवयोरंशभूतास्तेसमुद्दिष्टाःशुचिस्मिते सर्वमंत्रानहंवेद्मितान्योजानातिकश्च न १३ मत्प्रसादेनयःकोपिवेत्तिमानवकोटिषु एकाम्नायंचयोवेत्तिसमुक्तोनात्रसंश यः १४ किंपुनश्चतुराम्नायवेत्तासाक्षाछिवोभवेत् चतुराम्नायविज्ञानादूर्ध्वाम्नायः ऊ०म्ना० पृ० २अ) परःप्रिये १५ तस्मात्तदेवजातीयाद्यदिछेदात्मनोहितं उर्ध्वत्वात्सर्वधर्माणामूर्ध्वाम्ना यःप्रशस्यते ऊर्ध्वंनयत्यधस्थंचेदूर्ध्वाम्नायितीरितः १६ उर्ज्जितत्वात्कुलेशानिध्व स्तसंसारसंकटात् ऊर्ध्वलोकैकसेवात्वादूर्ध्वाम्नायितिस्मृतः १७ तस्माद्देवेशिजा नीहितस्मान्मोक्षैकसाधनं सर्वाम्नायाधिकंपुण्यमूर्ध्वाम्नायंपरात्परं १८ सर्वलो केषुसर्वेषामहंपूज्योयथाप्रिये आम्नायेषुचसर्वेष्वप्यूर्द्धाम्नायस्तथाप्रिये १९ देव तानांयथाविष्णुर्ज्योतिषांभास्करोयथा अश्वमेधःक्रतूनांतुपाषाणानांयथामनिः २० यथारसानांमधुरोलोहानांकांचनंयथा चतुष्पदांयथाधेनुर्यथाहंसस्तुपक्षिणां २१ आश्रमाणांयथाभिक्षुर्वर्णानांब्राह्मणोयथा मनुष्याणांयथाराजावयवानां पृ० २ब) यथाशिरः २२ आमोदानांतुकस्तूरीयथाकांचीपुरीषुच तथैवसर्वधर्माणामूर्ध्वाम्नायो धिकःप्रिये २३ नानाजन्मार्जितपरपुण्यकर्मफलोदयात् ऊर्ध्वाम्नायंविजानीयान्नान्य थावीरवंदिते २४ नवेदैर्नागमैःशास्त्रैःर्नपुराणैःसुविस्तरैः नयज्ञैर्नतपोभिर्वानतीर्थ व्रतकोटिभिः २५ नान्यैरुपायैर्देवेशिमंत्रौषधिपुरःसरैः आम्नायोज्ञायतेचोर्ध्वःश्रीम द्गुरुमुखंविना २६ तमेवान्वेषयेत्तस्मात्सर्वज्ञंकरुणानिधिः सर्वलक्षणसंपन्न मूर्ध्वाम्नायार्थकोविदं २७ तस्माद्देविविजानीयादूर्ध्वाम्नायंकुलेश्वरि लभतेकांक्षि तोसिद्धिंसत्यंसत्यंवरानने ऊर्ध्वाम्नायंविजानातियःसम्यक्श्रीगुरोर्मुखात् शास्त्र मार्गेणसनरोजीवन्मुक्तोनसंशयः ईदृशंचोर्ध्वाम्नायंवैयोजानातिह्रितत्वतः सवंद्यः सगुरुःसोचाःसवैविज्ञःसमांत्रिकः ससेव्यःसचमेस्तुत्यसयष्टव्यःससात्विकः स उ०म्ना० पृ० ३अ) व्रतीसतपस्वीचसोनुष्टातासपूजकः सवेदागमशास्त्रादिसर्वविद्याविशारदः साचा र्यःसचश्रीमान्सपत्निःसचकौलिकः सयज्वासचपूतात्मासजापीसचसाधकः सयोगीसकृतार्थस्तुसवीरःसचुत्तमः सपुण्यात्माससर्वज्ञःसमुक्तःसशिवःप्रिये तत्कुलंपावनंदेविधन्यातज्जनीस्मृता तत्पितात्रकृतार्थःस्यान्मुक्तस्तत्पितरस्तथा पुण्यास्तद्वंशजाःसर्वेपूतास्तन्मित्रबांधवाः वहुनेहकिमुक्तेनचोर्द्ध्वाम्नायपरस्यच स्मरणंकीर्त्तनंवापिदर्शनंवंदनंतथा संभाषणंचकुरुतेराजसूयाधिकंफलं सयत्र वसतेदेवितत्रश्रीर्विजयोभवेत् अनामयंसुकृष्टिश्चसुभिक्षंनिरुपद्रवः तस्माद्गुरु प्रसादेनचोर्ध्वाम्नायंनरोत्तमः योवेतितत्वोदेविसमेप्रियतमोभवेत् पूर्वाम्नायःसृ ष्टिरुपःस्थिरूपश्चदक्षिणः संहारःपश्चिमोदेविउत्तरोनुग्रहोभवेत् मंत्रयोगंविद्रुःपू पृ० ३ब) र्वंभक्तियोगंतुदक्षिणं पश्चिमंकर्मयोगंतुज्ञानयोगंतथोत्तरं पूर्वाम्नायस्यसंकेतश्चतु र्विंशतिरीरितः दक्षिणाम्नायसंकेतःपंचविंशतिरीरितः पश्चिम्नायसंकेतोद्वात्रिंशत्स मुदाहृतः विंदुःषड्त्रिंशदाम्नायःसंकेतःश्रीमदुत्तरे ऊर्ध्वाम्नायस्यचैतानिनसंतिकुल नायिके साक्षाद्ज्ञानस्वरूपावानकिंचित्कर्मविद्यते ऊर्ध्वाम्नायस्यमाहार्त्म्यामितितेकथि तंमया समासेनकुलेशानिमंत्रमाहात्म्यमुच्यते इतःपूर्वंमयानोक्तंयस्यकस्यापि पार्वति तद्वदामतवस्नेहाछृणुमत्प्राणवल्लभे श्रीप्रसादपरामंत्रमूर्ध्वाम्नामधिष्टितं आवयोपरमाकारंयेवेत्तिसशिवःस्वयं शिवादिक्रिमिपर्यंतंप्राणिनांप्राणवर्त्मनां निः श्वासोछासरूपेणमंत्रोयंवर्त्ततेप्रिये अनिलेनविनामेद्योयथाकाशेनचेष्टते पराप्रा सादमंत्रेणविनालोकस्तथाप्रिये पराप्रासादमंत्रार्थस्युतमेतच्चराचरं अभिन्नंत उ०म्ना० पृ० ४अ) त्वतोदेविवृतालतेयथानिलः वीजेंकुरस्तिलेतैलेमश्नावौष्णंरवौप्रभा चंद्रेज्योत्स्नान लःकाष्टेपुष्येगंधोजलेरसः शब्देचाथशिवेशक्तिःक्षीरेसर्पिःफलेरुचिः शर्क्करायांचमाधु र्यंघनसारेणशीतले निग्रहानुग्रहौमंत्रेप्रतिमायांचदेवता दर्पणेप्रतिविंवंचसमीरे चलनंयथा पराप्रासादमंत्रोयंप्रपंचेपितथास्थितः वटवीजेयथावृक्षःसूक्ष्मरूपेणति ष्टति पराप्रसादमंत्रेपिब्रह्मांडोपितथास्थितः सुपक्वेषुपदार्थेषुसरसेषुकुलेश्वरि ल वणेनविनास्वादुर्यथाभोक्तुर्नजायते पराप्रसादमंत्रेणयेमंत्रावानसंगताः तेफलं नप्रयछंतिमंत्रशक्तिविवर्जिताः श्रीप्रसादपरामंत्रगोपनायकुलेश्वरि विचार्याहं पुराणानिदर्शनाम्नायवेदजाः समवीक्ष्यंतयेमंत्राःशास्त्राणिविविधानिच भ्रमंति येषुमूढास्तेतवमायाविमोहिताः जायंतेचमृयंतेचसंसारक्लेशभाजनाः नलभं पृ० ४ब) तेहिमोक्षंतेत्वत्प्रसादाविवर्जिताः मद्रूपेश्रीगुरौयस्यदृढाभक्तिःप्रजापते पूर्वजन्मसह स्रेषुशिवादिसमयोदितान् चतुराम्नायजान्मंत्रान्गुर्वनुज्ञांभविष्यति सपापकंचुको न्मुक्तःशुद्धात्मागुरुवत्सलः श्रीप्रासादावरंमंत्रंविजानातिनचान्यथा श्रीप्रासादपरामं त्रंसज्ञात्वाशुप्रमुच्यते सब्रह्मविष्णुरुद्राश्चशक्रादिःसुरपुंगवाः वसुरुद्रार्कदिक्पाल मनुचंद्रादयःप्रिये मार्कंडेयादिमुनयोवशिष्टादिमुनीश्वराः सनकाद्याश्चयोगीशाजी वन्मुक्ताःशुकादयः यक्षकिन्नरगंधर्वसिद्धविद्याधरादयः श्रीप्रासादपरामंत्रप्रसादा त्कामितंफलं प्राप्यमंत्रपरंनित्यंजपंत्यद्यापिपार्वति सामर्थ्यंपूज्यताविद्यातेजः सौम्यमरोग्यता राज्यंस्वर्गंचमोक्षंचपराप्रासादजापितः रुद्रेंद्रब्रह्मविष्णूनामपि दूरायतेपदं सर्वधर्मविहीनोपिपराप्रासादमंत्रवित् सुखेनयांगतिंयातिततांस उ०म्न० पृ० ५अ) र्वेपिधार्मिकाः तस्यचिंतामणिमधेनुःकल्पतरुर्गृहे कुवेरःकिंकिरःसाक्षात्पराप्रासा दजापिनः यथादिव्यरसस्पर्शाल्लोहोभवतिकांचनं पराप्रसादजापीचशुचिःपशुपति स्तथा श्रीप्रासादपरामंत्रंयोजातातिहितत्वतः समांचत्वांचजानातिचावयोरपिसप्रि यः पराप्रासादमंत्रज्ञःश्ववचोवापिपार्वति देवतास्थापनेशक्तःप्रतिमादिष्वशंस यः मंत्रमात्रंचयोवेतिपराप्रसादसंज्ञकं स्वपचोवापिमुच्येतकिपुनस्तद्विधानवित् पराप्रासादमंत्रज्ञोयत्करोतियदीछति यद्भूतेतन्महेशानितपोध्यानंजपोभवेत् दीक्षापूर्वंमहेशानिपारंपर्यसमन्वितं पराप्रासादमंत्रंयोवेतिसोसोवान्संशयः चराचर * मेतानिभुवनानिचतुर्द्दश पराप्रासादमंत्रज्ञदेहेतिष्ठंतिपार्वति पराप्रासा दमंत्रज्ञोपत्रतिभामिनि दिव्यक्षेत्रंसमुद्दिष्टंसमंताद्दशयोजनं पराप्रसादमंत्रा पृ० ५ब) र्थतत्वज्ञंकुलनायिके सुरासुराश्चवदंतेकिंपुनर्मानवाददयः पराप्रासादमंत्रज्ञमनु तिष्ठंतिपार्वति देवक्षेत्रनदीयोगिमुनिदेवगणैःसह शैववैष्णवदौर्गार्कगाणपत्यें दुसंभवान् सर्वमंत्रान्सजानातिपराप्रासादमंत्रवित् श्रीप्रासादपरामंत्रोजिह्वाग्रे यस्यवर्त्तते तस्यसंदर्शतादेवश्चपचोपिविमुच्यते ब्राह्मणोवांत्यजोवापिशुचिर्वा प्यशुचिःप्रिये पराप्रसादजापीयःसमुक्तोनात्रसंशयः गछतस्तिष्टतोवापिजा ग्रतःस्वपतोपिवा पराप्रासादमंत्रोयंदेवेशिनचनिःफलः चिरेणैकैकफलदामं त्राःसंतिसहस्रशः कुलेशिमंत्रराजोयंशीघ्रंसर्वफलप्रदः पराप्रासादमंत्रोयंस र्वमंत्रोत्तमोंत्तमः जानतोऽजाततोवापिभजतांकामदोमणिः शचींद्रौरोहिणी चंद्रौस्वाहाग्रीवप्रभारवी लक्ष्मीनारायणौचान्याधातारौगिरिजाशिवौ अग्निसोमौ उ०म्न० पृ० ६अ) विंदुनादौदेविप्रकृतिपुरुषौ| आधाराधेयनाम्नोचभोगमोक्षौकुलेश्वरि प्राणापाणौ चशब्दार्थौप्रियेविधिनिषेधकौ सुखदुःखादियद्वंद्वंदृश्यतेश्रुयतेपिवा सर्वलोकेषुय त्सर्वमावामेवनसंशयः पुंस्त्रीरूपाणिसर्वाणिचाषयोरंशजानिहि पराप्रासादमंत्रो यंतत्स्मात्मकोभवेत् अरूपंभावनागम्यंपरंब्रह्मकुलेश्वरि निष्कलंनिर्मलंनित्यंनि र्गुणंव्योमसन्निभं अनंतमव्ययंतत्वंमनोवाचामगोचरं पराप्रासादमंत्रानुसंधा नात्सप्रकाशते तस्मान्मंत्रमिदंदेविपराप्रासादसंज्ञकं परतत्वस्वरूपत्वात्सच्चिदानं दलवणात् शिवशक्तिमयत्वाच्चभुक्तिप्रदानतः सकर्मापिचनिष्कर्मासगुणंचापिनि र्गुनं श्रीप्रासादपरामंत्रंसर्वमंत्रशिखामणिं जपन्मुक्तिंचभुक्तिंचलभतेनात्रसंशयः वहुनात्रकिमुक्तेनसर्वसारंशृणुप्रिये श्रीप्रासादपरामंत्रसमोमंत्रोनविद्यते इद पृ० ६ब) मेवपरंज्ञानमिदमेवपरोजयः इदमेवपरंध्यानमिदमेवपरार्च्चनं इदमेवपरादीक्षाइद मेवपरंजयः इदमेवपरंधर्ममिदमेवपरंव्रतं इदमेवपरोयज्ञदमेवपरात्परं इदमेव परंश्रेयिदमेवपरंफलं इदमेवपरंतत्वमिदमेवपरागतिः इदमेवपरंगुह्यंसत्यंस त्यंनसंशयः इतिमत्वामनुवरंतत्तिष्टःस्यात्सदात्प्रिये नास्तिगुर्वधिकंतत्वंनशिवा धिकंदैवतं नहिवेदाधिकाविद्यानकुलाधिकदर्शनं नकुलाद्याधिकोज्ञानीज्ञानाद्वाना धिकंसुखं नाष्टाष्टकाधिकापूजानहिमोक्षाधिकंफलं श्रीप्रासादपरामंत्रादधिकंनैव विद्यते इदंसत्यंमिदंसत्यमिदंसत्यनसंशयः श्रीप्रासादपरामंत्रमाहात्म्यरिहवर्णि तुं नशक्नोमिवरारोहेकल्पकोटिशतैरपि गिरौसर्षपमात्रंतुसागरेचुलुकांवुवत् त थाचमंत्रमाहात्म्यंकिंचितेकथितंमया ऊर्ध्वाम्नायस्यमाहात्म्यंश्रीप्रासादपरामृतोः|| उ०म्न० पृ० ७अ) श्रीदेव्युवाच || || कुलेशंश्रोतुमिछामिश्रीप्रासादपरात्मकं मंत्र राजंवदेशानन्यासध्यानादिभिःसह|| || श्रीईश्वरुवाच शृणुदेविप्रवक्ष्यामियन्मांत्वंपरिपृछसि तस्यश्रवणमात्रेणशि * कारःप्रजायते इतःपूर्वमयानोक्तंमंत्रायंयस्यकस्यचित् तवस्नेहाद्वदाम्यद्यशृणुत्प्राणवल्लभे अनंतंचंद्रभुवनविंदुविंदुयुगान्वितं श्रीप्रासाद परामंत्रोभुक्तिमुक्तिफलप्रदः पराप्रसादमंत्रस्तुसादिरुक्तःकुलेश्वरि अनंतःहका रःचंद्रःसकारःभुवनौकारः बिंदुरनुस्वारःबिंदुयुगंविसर्गः एतैःह्सौःइतिवीजंसि द्धं अयंप्रासादपरामंत्रः अयमेवमंत्रःसकारादिश्चेत्पराप्रासादमंत्रोभवति त थाप्रकाशानंदरूपत्वात्प्रत्यक्षफलदानतः प्रसन्नचित्तरूपत्वात्प्रसिद्धार्थनिरूपनात् प्रक्तनाघप्रशमनात्प्रयत्नार्त्तिनिवारनात् प्रसादकरणाछीघ्रंप्रासादमनुरीरितः पृ० ७ब) परतत्वस्वरूपत्वात्प्रसिद्धार्थनिरूपणात् परमानंदजननात्परमैश्वर्ययकारणात् प रोक्षफलदानाच्चपरधर्मनिदर्शनात् परत्वात्सर्वमंत्राणांपरामंत्रितीरितः कुलमंत्र मिदंदेवित्यासान्शृणुवदामिते अथःप्रातःसमुत्थायगुरुदेवात्मचिंतनं कहृन्मूले षुकृत्वाचकुर्याद्धिरामूप्रमोचनं सौचास्यशोधनंस्नानंसंध्यातर्प्पणचरेत् एकांतेद्वा रयजनंविघ्नत्रयनिवारणं पूजास्थानंप्रवेशंचकुर्यात्समुपवेशनं देविपूजागृहध्या नंशिवादिगुरुवंदतं आसनंगणपक्षैत्रंपालवंदनमीश्वरि पादुकास्मरणंकुर्याद्दीपना थार्चनंप्रिये करांगशोधनंप्राणावामंसब्रह्मरंध्रकं दिग्वंधनंचांगयुग्मंविधियुक्ताच मातृका दशप्रकारभूताख्यलिपिःकमठसंज्ञकं षड्दीर्घमूलवीजेनषडंगानिचपा र्वति पंचब्रह्माणिचतथाचांगुलिन्यासमेवच आधारशक्तिमारभ्यपीठमंत्रांतमंवि उ०म्ना० पृ० ८अ) के अंतःषोढांकुलेशातिकुर्यात्पूर्वोक्तवर्त्मता महाषोढाह्वयंन्यासंततःकुर्यात्समाहि तः वक्ष्यमाणेनविधिनादेवताभावसिद्धये यस्यकस्यापिनैवोक्तंतवस्नेहाद्वदाम्यहं प्रपंचोभुवनंमूर्त्तिर्मंत्रदैवतमातरः महाषोढाह्वयोन्यासःसर्वन्यासोत्तमोत्तमः ल लिताविलासे ऋषिर्ब्रह्मासमुद्दिष्टोगायत्रीछंदीरितं अर्द्धनारीश्वरोदेवोदेवतापरि कीर्त्तितः ओकाराद्यैःस्वरैर्ह्रस्वैर्नपुंसकविवर्जितैः संयोज्यकिद्वितयंविन्यसेन्मूर्त्ति पंचकं अंगुष्टादिष्वंगुलीषुमूर्द्धास्यहृदयेषुच गुह्येपादद्वयेपंचवक्त्रस्थानेषुविन्य सेत् ईशानाख्यंतत्पुरुषमघोरंचतृतीयकं चतुर्थंवामदेवंचसद्योजातंचपंचमं त्रितारांतेहसोंत्यहोमीशीनायनमस्ततः अंगुलीषुचमूर्द्धादिष्वेवंविन्यस्यदेशिकः ईशानायोर्ध्ववक्त्रायनमोमूर्द्धनिविन्यसेत् एवंतत्पुरुषायांतेपूर्ववक्त्रायहृन्मुखे पृ० ८ब) दक्षकर्णेनवामेचचूडाधश्चप्रविन्यसेत् दक्षिणंचोत्तरंवक्त्रंपश्चिमशिष्टमूर्त्तिभिः इति अंगप्रविन्यस्यवक्ष्यमाणंस्मरन्शिवं महाषोढाह्वयन्यासंततःकुर्यात्समाहितः तत्रा दौपरमेशानिप्रपंचन्यासुच्यते प्रपंचद्वीपजलधिगिरिपदनपीठकाः|| क्षंत्रंवानाश्र मगुहानदीचत्वरकोह्रिजाः स्वेदजांडजरापूजाइत्युक्ताह्रिचषोडश श्रीर्न्नायाकमला विष्णुवल्लभापद्मधारिणी समुद्रतनयालोकमाताकमलवासिनी इंदिरामारमापद्मत थानारायणप्रिया सिद्धलक्ष्मीराज्यलक्ष्मीर्महालक्ष्मीरितीरिताः शक्तयःस्युःप्रपं चानांस्वराणामधिदेवताः लवस्तुंटिःकलाकाष्टानिमेषःस्वासेवच घटिकामु हूर्त्तश्चप्रहरोदिनेवच संध्यारात्रिस्तिथिश्चैववारोनक्षत्रमेवच योगश्चकरणं पक्षोमासोराशिरृतुस्तथा अयनंवत्सरयुगंप्रलयाःपंचविंशतिः आयोर्माचंडि उ०म्ना० पृ० ९अ) कादुर्गाशिवापर्णाम्विकासती ईश्वरीशांभवीशानोपार्वतीसर्वमंगला दाक्षायणीहै मवतीमहामायामहेश्वरी मृडानीचैवरुद्राणीसर्वाणीपरमेश्वरी कालीकात्यायनी गौरीभवानीतिसमीरिताः शक्तपस्युर्लवादीनांस्पर्शानामधिदेवताः पंचभूताश्चत न्मात्राःकर्मज्ञानेंद्रियानिलाः गुणांतःकरणावस्थाधातुदोषादशेरिताः ब्राह्मीवा गीश्वरीवाणीसावित्रीचसरस्वती गायत्रीवाक्प्रादापश्चाछारदाभारतीप्रिये विद्यात्मि कापंचभूतव्यापकानामधीश्वराः त्रितारामूलविद्यांतेमातृकाक्षरतःपरं वदेत्प्रपंच रूपायैश्रियैनमितिक्रमात् प्रपंचादिभिरामोज्यवर्णशक्तिर्नियोजयेत् मातृका न्याससंप्रोक्तस्थानेषुपरमेश्वरि त्रितारमूलसकलप्रपंचस्यात्स्वरूपतः आयैपरांवा देव्यैनमुक्त्वाव्यापकंन्यसेत् प्रपंचन्यासेवंस्याद्भुवनन्यासुच्यते त्रितारमूल पृ० ९ब) विद्यांतेअंआमिमतलंवदेत् लोकंचनिलयंचैवशतकोटिपदंततः| गुह्याढ्योयोगिनी मूलदेवतांतेयुतंप्रिये वदेदाधारशक्त्यांबादेव्यैहृत्पादयोर्न्यसेत् ईंमूंमूंवितलंगुह्य लोकंचानंतसंज्ञकं शेषंचपूर्ववत्प्रोक्तागुल्फयोर्विन्यसेत्प्रिये ऋंऋंलंसुतलंवापिगु ह्यंचाचिंत्यसंज्ञिकं शेषंचपूर्ववत्प्रोक्ताजंघयोर्विन्यसेत्प्रिये ॡंमेमैंमहातलंचमहा गुह्यंस्वतंत्रकं शेषंचपूर्ववत्प्रोक्तादेविजान्वोप्रविन्यसेत् औमौंतलातलंपरमगुह्यंवो क्त्वाविधानकं शेषंचपूर्ववत्प्रोक्ताचोर्वोर्देवेशिंविन्यसेत् अमोरंसातलंचैवरहस्यंज्ञा नसंज्ञकं शेषंचपूर्ववत्प्रोक्तागुह्यदेशेन्यसेत्प्रिये कवर्गमपिपातालंसरहस्यंचत त्क्रिया|| शेषंचपूर्ववत्प्रोक्तामूलाधारेन्यसेत्प्रिये चवर्गंभूरतिरहस्यंचश्रीडाकिनीम पि शेषंचपूर्ववत्प्रोक्तास्वाधिष्टानेन्यसेत्प्रिये टवर्गंभूश्चमहारहस्यंराकिनीमपि शेषं उ०म्न० पृ० १०अ) चपूर्ववत्प्रोक्तानाभिदेशेन्यसेत्प्रिये तवर्गंस्वश्चपरमरहस्यंलाकिनीमपि शेषंचपूर्व वत्प्रोक्ताहृदयेविन्यसेत्प्रिये पवर्गंचमहागुप्तंकाकिनीमपिचक्रमात् शेषंचपूर्ववत्प्रो क्ताकंदेदशेन्यसेत्प्रिये पवर्गंचजनोगुप्ततरश्चासाकिनीमपि शेषंचपूर्ववत्प्रोक्ताचा ज्ञायांविन्यसेत्प्रिये शवर्गंचतपश्चापिगुप्तंश्रीहाकिनीमपि शेषंचपूर्ववत्प्रोक्ताललाटे विन्यसेत्प्रिये लंक्षंसत्यमहगुप्तंयाकिनीमपिचप्रिये शेषंचपूर्ववत्प्रोक्ताब्रह्मरंध्रे न्यसेत्सुधीः त्रितारमूलमंत्रांतेचतुर्द्दर्शभुवंवदेत् नाधिपायैश्रीपरांबादेव्यैहृद्व्याप कंन्यसेत् कृत्वैवंभुवनन्यासंमूर्त्तिन्यासमथाचरेत् केशवनारायणमाधवमाधवगो विंदविष्णवः मधूसूदनसंज्ञश्चस्यात्क्रिविक्रमवामनौ श्रीधरश्चहृषीकेशःपद्मना भोदामोदरः वासुदेवःसंकर्षणः प्रद्युम्नश्चानिरुद्धकः अक्षराद्येष्टदेशानाउग्रीर्ध्वन पृ० १०ब) यनस्तथा ऋद्धिश्चरूपिणीलुप्तालूतदोषैकनायिका ऐकारिणीचौद्यतीचौर्वकाचांजन प्रभा अस्थिमालाधराचेतिसंप्रोक्ताःसरदेवताः भवःशर्वोथरुद्रःपशुपतिश्चोयेवच महादेवस्तथाभीमीशस्तत्पुरुषाह्वयः अघोरःसद्योजातश्चवामदेवितीरिताः करभद्रा खलवलागरिमादिफलप्रदा घोरपादापंक्तिनासातथाचंद्रार्द्धधारिणी छंदोमयीजगत्स्था नाहुंकृतिश्चजतःपरा ज्ञानदाचततष्टंकठकृधराठंकृतिश्चडामरी कभादीनांठडांतानां वर्णानांदेवतास्त्विमाः ब्रह्माप्रजापतिर्वेधापरमेष्ठीपितामहः विधाताथविरिश्चिश्च स्रष्टाचचतुराननः हिरण्यगर्भित्युक्ताःक्रमाद्ब्रह्मादयोदश यक्षिणीरंजनीलक्ष्मी वज्रिणीशशिधारिणी षडाधारलयासर्वनायिकाहसिताननाः ललिताचक्षमाचे तिप्रोक्तायाद्यार्णदेवताः त्रितारमूलमंत्रांतेस्वाराविष्णून्सशक्तिकान् चतुर्थ्यातम पृ० ११अ) सायुक्तान्मस्तकेचाननेन्यसेत् संस्कंधपार्श्वकभूरजानुजंघापदेषुच दक्षादिवाप्तपर्यं तंविन्यसेत्परमेश्वरि कभाघर्णयुतात्मंत्रान्भवानीशक्तिसंयुतान् पादापार्श्वबाहुकंठं पंचवक्त्रेषुविन्यसेत् दक्षाधारेषुब्रह्मादिर्यादिशक्तियुतान्न्यसेत् त्रितारमूलमंत्रांतेश्री मूर्त्यम्विकाततः आयैपरांबादंवौनमुक्ताव्यापकंन्यसेत् मूर्त्तिन्यासंविधायैत्थंमं त्रन्यासमथाचरेत् त्रितारमूलमंआंइंएकलक्षंचकोटिच| भेदश्चप्रणवाद्येकाक्षरा त्माखिलमंत्रतः ततोधिदेवतायैस्यात्सकलंचफलंप्रदं आयैतथैककूटेश्चर्यम्बादे व्यैनमोवदेत् ईमुमूंचद्विलक्षादिहंसादिपूर्ववत्परं ऋंऋंऌंचत्रिलक्षादित्रिकूटंपू र्ववत्परं ॡमेमैंचचतुर्लक्षंचंद्रादिपूर्ववत्परं औमौमंमःपंचलक्षंसूर्यादिपूर्वव त्परं कंखंगंचैवषड्लक्षंस्कंदादिपूर्ववत्परं च्चंङंवंसप्तलक्षंगणेशादिंपूर्ववत्परं छंजं पृ० ११ब) झमष्टलक्षंवटुकादिपूर्ववत्परं ̌̌धंनंयंद्वादशलक्षंवाण्यादिंपूर्ववत्परं फबंमंत्रयोदश+ जंटंठंनवलक्षंचब्रह्मादिपूर्ववत्परं|| डढणंदशलक्षादिविष्ण्वादिंपूर्ववत्परं तंथंदमेकाद शलक्षंशैपादिंपूर्ववत्परं + लक्षंलक्ष्म्यादिंपूर्ववत्परं मंयंरंचचतुर्दशलक्षंगौर्यादिंपूर्व वत्परं लंवंशंपंचदशलक्षंदुर्गांदिंपूर्ववत्परं पाद्यर्शांषोडशलक्षंत्रैपुरादिचषोडश क्ष रात्माखिलमंत्राधिदेवतासकलंभवेत् तथाफलप्रादायैषोडशकूटेश्वरीयुतः अंबा देव्यैनमःप्रोक्तोमंत्रन्यासोमहेश्वरि आधारलिंगयोर्नाभिहृत्कंठास्यात्क्षिकश्रुतौ निरोधिकायामर्द्धेक्षौविंदौचैककलापदै उन्मादिषुवक्त्रेषुनादानादांतयोरपि ध्रुव मंडलदेशेचविन्यसेत्कुलनायिके त्रितारामूलमंत्रांतेसर्वमंत्रात्मिकापदं आयैपरां बादेव्यैवहृदयेव्यापकंन्यसेत् मंत्रन्यासंविधायेत्थंदैवतन्यासमाचरेत् त्रितारमू उ०म्न० पृ० १२अ) लमंत्रांतेअंआंसस्रकोटिच योगिकुलशब्दांतेसेवितायैपदंवदेत् विधिनिवृत्तंबादे व्यैनमित्युच्चारेत्प्रिये इदंयोगिप्रतिमांचशेषंपूर्वपदुच्चरेत् उऊंतपश्चिविघांचशेषं पूर्वदुच्चरेत् ऋंऋंशांतंतथाशांतिशेषंपूर्ववदुच्चरेत् ऌंॡंमुनिंशांत्यतीताशषंएऐ देवंतुहृल्लेखांशेषं ओमौराक्षसशब्दांतेगगनांपूर्ववदुच्चरेत् अमर्विद्याधरंरक्तांशेषं कंखंसिद्धमहाच्छुष्मांशेषंगद्यंसाध्यंकरालींचशेषंङंचंतथाप्सरजपाशेषंछंजंगंध र्वाविजयांशेषं झंझंगुह्यकशव्दांतेअजितांपूर्ववत्परां टंठंपक्षापराजिताशेषंडंढं किन्नरवामांचशेषंणंतंचपन्नगज्येष्टांशेषं धनंर्गणेशमायाचशेषं पंफंभैरवश व्दांतेकुंडलींपर्ववत्परंबंभंवटुककालींचशेषं मंयंक्षेत्रेशशव्दांतेकालरात्रिंचपूर्वव त् रंलंप्रथमभगवतींशेषंपू० वंशंब्रह्माचसर्वेशीशेवंसंविष्णुंचसर्वज्ञांचशेषं हं पृ० १२ब) लंरुद्रंसर्वकर्त्तीशेषं मंयंक्षेत्रेशशव्दांतेकालरात्रिंचपूर्ववत् क्षेचराचरशक्तिंचशेषंपू० अंयंष्टगुल्फजंघाचजानूरुकटिपार्श्वयोः स्तनकक्षकरस्कंधकर्णमूर्द्धिचरंधके दक्ष भोगादिवामांतंविन्यसेत्कुलनायिके त्रितारमूलमंत्रांतेसर्वदेवात्मिकाततः आयै परांबादेव्यैचहृदयेनतुव्यापकं दैवन्यासंविधायेत्थंमातृकान्यासमाचरेत् त्रितार मूलमंत्रांतेवर्गांनंतुकोटिभू चरीकुलंचसहितायैआंक्षांसंगलापदं अंबादेव्यैततो जूयादांक्षांब्रह्माणितःपदं अंबादेव्यैततोनंतकोटिभूतकुलेवदेत् संहितायेचअंक्षं मंगलनाथायश्रंवदेत् क्षचासितांचभैरवनाथायनमुच्चरेत् चवर्गंखेचरीमीलां चर्चिकांचमहेश्वरीं वेतालमिलिचर्चिकंचरुरुंशेशंचपूर्ववत् ठवर्गंपातालवरींमू हांयोगेश्वरीवदेत् कौमारींपिशाचंडंहंवदे गेशचंडकौ तवर्गंदिक्चरींरिंसाहरसिद्धां पृ० १३अ) बावैष्णवीं अपस्मीरंरिंसंहरसिद्धक्रोधादिपूर्ववत् पवर्गंसहचरींॡंषांभट्टिनीवाराहृ तःपरं स्याब्रह्मराक्षसंऌंषंमधुन्मत्तादिपूर्ववत् पवर्गःस्याद्गिरिचरींऐंशाकिलिकिले तिच इंद्राणींचेटकंअंशंकिलिकिलश्चकपालिकःशवर्गःस्याद्वनचरी औंशंकलादि रात्रिच चासुंप्रेतोंवंचकालरात्रिश्चभीषणः लंक्षंजलचरीआःलांभवेत्पश्चाच्च भीषणा महालक्ष्मीश्चकूष्मांडअंलंपश्चाच्चभीषणाः संहारभैरवश्चोतिशेषंपूर्वव दुच्चरेत् मूलारेलिंगनाभ्यनाहतविशुद्धिषु आज्ञाभालतलब्रह्मरंध्रेष्येवंप्रविन्यसे त् त्रितारमूलमंत्रांतेमातृकामातृभैरव अधिपापैपरांबादेव्यैनमोक्ताव्यापकं न्यसेत् मातृन्यासंकुलेशानिकुर्यादेवंसमाहितः एवन्यस्ततनुर्द्देविध्यायेद्देवमन न्यधीः अमृतार्णवमध्योद्यत्स्वर्णद्वीपेमनोरमे कल्पवृक्षवनांतःस्थेतवमानिक्य पृ० १३ब) मंडपो नवरत्नमयेश्रीमत्सिंहासनगतांवुजे त्रिकोणांतःसमासीनंचंद्रसूर्यशतंप्र भं अर्द्धांविकासमायुक्तंप्रविभक्तविभूषणं कोटिकंदर्पलावण्यंसदाषोडशवार्षिकं मं दस्मितमुखांभोजंत्रिनेत्रंचंद्रशेखरं दिव्यांवरस्रगालेपंदिव्याभरणभूषितं पानपा त्रंचचिन्मुद्रांत्रिशूलंपुस्तकंकरैः विद्यांसंसदिविभ्राणांसदानंदमुखेक्षणं महाषो ढोदिताशेषदेवतागणसेवितं एवंचित्तांवुजेध्यायेदर्धनारीश्वरंविभुं पुंरूपंवास्मरे द्देविस्त्रीरूपंढाचिंतयेत् अथवानिष्कलंध्यायेत्सच्चिदानंदलक्षणं सर्वतेजोमयंध्याये त्सचराचरविग्रहं ततःसंदर्शयेन्मुद्रादशकंपरमेश्वरि योनिंलिंगंचसुरभिंहेतिमुद्रा चतुष्टं वनमालांमहामुद्रांनमोमुद्रामपिक्रमात् यथाशक्तिजपेन्मूलमंत्रश्रीपादुका मपि मूर्द्धिसंचिंतयेद्देवंश्रीगुरुंशिवरूपिणं सहस्रदलपंकजेसकलशीतरश्मिप्र उ०म्ना० पृ० १४अ) भं वराभयकरांवुजंविमलगंधपुष्पांवरं प्रसन्नवदनेक्षणंसकलदेवतारूपिण स्मरे छिरसिसततंतदभिधानपूर्वंगुरुं एवंन्यासेकृतेदेविसाक्षात्परशिवोभवेत् मंत्रीन चात्रसंदेहोनिग्रहानुमहक्षमः महाषोढाह्वयंन्यासंयःकरोतिदिनेदिने देवाःसर्वे नमस्यंतितनमामितसंशयः महाषोढाह्वयंन्यासंयःकरोतिहिपार्वति दिव्यक्षेत्रं समुद्दिष्टंसमतादशयोजनं कृत्वान्यासमिदंदेवियत्रतिष्टतिमानवः तत्रस्याद्वि जयोलाभःसमान्यःपुरुषःप्रिये महाषोढाकृतन्यासतदज्ञंवंदतेद्यदि मासान्मृत्यु मवाप्नोतियदित्राताशिवःस्वयं दिव्यंतरिक्षभूशैलजलारन्यतिवासिनः उद्दंडभूत वेतालदेवरक्षोग्रहादयः देवाःसर्वेपिकुर्वंतिऋषियोगीमुनिश्वराः वहुनोक्तेनकिंदे वीन्यासमेनंममप्रिये नापुत्रायवदेद्देविनाशिष्यायप्रकाशयेत् आज्ञासिद्धिमवा पृ० १४ब) प्नोतिरहसिन्यासमाचरेत् अस्मात्परतरारक्षादेवताभावसिद्धये लोकेनास्तिनसंदेह ःसत्यंसत्यंवरानने उर्ध्वाम्नायप्रवेशश्चपराप्रासादचिंततं महाषोढापरिज्ञानंन चाल्पतेसःफलं दिव्यौघेचादिनाथश्चतच्छक्तिश्चसदाशिवः तत्यत्रीचेश्वरस्तस्य भार्यारुद्रश्चतद्वधः विष्णुश्चतत्प्रियाब्रह्मातत्कांताद्वादशोरिताः दिव्यौघेसनकश्चै वसनंदनसनातनौ सनत्कुमारश्चसनत्सुजातश्चृभुक्षजः दत्तात्रेयोरैवतकोवा मदेवस्ततःपरं ततोव्यासःशुकश्चापिएकादशसमीरिताः मानवौघेनृसिंहश्चम हेशोभास्करस्तथा महेंद्रोमाधवोविष्णुःषडेतेपरिकीर्तिताः नामांतेयोजपेद्देविदि व्यौच्चैःपरमंशिवं महाशिवंचसिद्धौघेमानवौघेसदाशिवं देवतांपुरतोदेविगुरुपंक्ति प्रपूजयेत् पंक्तित्रयंक्रमेणाथध्यात्वासम्यगननाधीः षोडशैरुपचारैस्तुसांगं उ०म्ना० पृ० १५अ) सावरणंशिवं पूजयेन्मूलमंत्रेणगंधपुष्पाक्षतादिभिः महाषोढाश्रिताशेषपरिवा राश्चशांभवि प्रणवादिनमोंतेनतत्तनाम्नासमर्च्चयेत् वटुमंत्रंप्रवक्ष्यामिशृणुष्व कुलनायिके तारात्रयंततोदेवीपुत्रायावटुकेतिच नाथःस्यात्कपिलजटाभारभा सुरपिंगल त्रिनेत्रेपिपदंपश्चाज्ज्वालामुखपदंततः इमांपूजांवलिंगृह्णयुगंपा वकवल्लभा उक्तोवटुमनुश्चतुश्चत्वारिंशद्भिरक्षरैः वलिदानेनसंतुष्टोवटुकःसर्व सिद्धिदः शांतिंकरोतुमेनित्यंभूतवेतालसेवितः तारत्रयंततःसर्वयोगिनीभ्यः पदंभवेत् पश्चातुसर्वभूतेभ्यःसर्वभूतादिवर्त्तिच वंदिभ्योडाकिनीभ्यश्चशाकिनी भ्यस्ततःपर त्रैलोक्येतिपदंचैववासिनीभ्यिमांवदेत् पूजांवलिंगृह्णयुग्मंस्वाहां तोयोगिनीमनुः कथितोयंकुलेशानिएकपंचाशदक्षरः याकाचिद्योगिनीघोरासौ पृ० १५ब) भ्याघोरतरापरा खेचरीभूचरीव्योमचरीप्रीतास्तुमेसदा तारात्रयंवदेत्सर्वभूतेभ्यः सर्वेवच पश्चाद्भूतपतिभ्योहृदुक्तःसप्तदशाक्षरः भूतायेविविधाकारादिव्याभौमां तरिक्षगाः पातालतलसंस्थाश्चशितयोगेनभाविताः ध्रुवाद्याःसत्यसंध्याश्चापींद्रा द्याशाव्यवस्थिताः तृप्यंतुप्रीतमनसःप्रीतागृह्णंत्विमंवलिं तारत्रयंवदेदेहियुग्मं देविपदंततः पुत्रायवटुकनाथायपश्चादुछिष्टहारिणे गृह्णयुग्मंरुरुपदंक्षेत्रपा लपदंततः सर्वविघ्नान्यपदंपश्चान्नाशयद्वितयततः सर्वोपचारसहितामिमांपूजां वलिंवदेत् गृह्णयुग्मंद्विवांतोयंक्षेत्रपालमनुःप्रिये चतुःषष्ट्यक्षरैःप्रोक्तःसर्वसि द्धिप्रदायकः योस्मिक्षित्रेनिनिवासीचक्षेत्रपालसुकिंकरः शीतोयंवलिदानेनसर्व रक्षांकरोतुमे तारत्रयंवदेदाद्यंश्रीप्रासादपरामनुं ह्रांह्रींहूंचयुगांतेथभैरवाधिष्टि पृ० १६अ) तायच अक्षोभ्यांनंदतःपश्चास्मिदुदयाभीष्टतःपरं|| सिद्ध्यर्थपदमाभाष्यपश्चा दवतरद्वयं क्षेत्रपालपदंपश्चान्महाशान्महाशास्त्रंपदंततः मातृपुत्रपदंपश्चात्कु लपुत्रपदंभवेत् सिद्धपुत्रपदंवास्मिन्स्थानाधिपतयेततः अस्मिन्ग्रामाभिपयेस्मि न्देशाधिपतयेततः मेघनादंपश्चात्प्रचंडोग्रपदंभवेत् कृपाणंभीमतत्पश्चाद्भीष णेतिपदंभवेत् स्यात्सर्वविद्याधिपतयेइमांपूजांवलिवेत् गृह्णायुग्मंतुयुगंमुरुव र्णययुग्मकं ज्वलयुक्यज्वलयुगंसर्वविघ्नंनिवारय नाशयद्वितयंक्षांक्षांतत्पश्चा त्त्त्वमितीरयेत् क्षेत्रपालायवौषडंषष्ट्युत्तरशताक्षरः तारत्रयंवदेपश्चादमुकक्षे त्रपालच राजराजेस्वरिमांपूजांवलिमतःपरं गृह्णयुग्मंद्विठांतीर्णेरष्टाविंशति भिःस्मृतः अनेनवलिदानेनवटुवर्गसमन्वितः राजराजेश्वरोदेवोमेप्रसीदतुस पृ० १६ब) र्वदा पश्चिमेवटुकंदेवमुत्तरेयोगितीवलिं पूर्वेभूतवलिंदद्यात्क्षेत्रपालेचदक्षिणे राजराजेश्वरंमधोपूजयेत्कुलनायिके अंगुष्टानामिकाभ्यांतुवटुकस्यवलिःस्मृतः तर्जनीमध्यमानामिकांगु र्योगिनीवलिः अंगुलीभिश्चसर्वाभिरुक्तोभूतवलिःप्रिये अंगुष्टतर्ज्जनीभ्यांतुक्षेत्रपालवलिर्भवेत् अंगुष्टामध्यमाभ्यांतुराजाराजेश्वरस्यच अथप्रयोगः तत्रप्रातःकृत्यादिमातृकान्यासांते शिरसिब्रह्मणेऋषयेनमः मुखेज गतीछंदसे हृदिश्रीमदर्द्धनारीश्वरायदेवतायैनमितिविन्यस्यमहाषोढान्यासेविनि योग इतिकृतांजलिरुक्तांगुष्टयोः ऐंह्रींश्रींह्सोंस्हौंईशानायनमःतर्ज्जन्याःह्सों स्हौंतत्पुरुषायमध्यमयोः ३ ह्सुंस्हिंवामदेवाय०पादयोः सद्योजाताय० मूर्द्ध्निंह्सांस्हों ईशानायोर्द्ध्ववक्त्राय० मुखेह्सेस्हेंतत्पुरुषायपूर्ववक्त्राय० दक्षकर्णेह्सुस्हुंअघोराय उ०म्ना० पृ० १७अ) दक्षिणवक्त्राय० वामकर्णेह्सिंस्हिवामदेवायोत्तरवक्त्रायचोरकूपेह्संस्हंसद्योजातायप श्चिमवक्त्रायनितिअंगन्यासः क्रमेणांगुष्टादिपंचांगुलिभिरेकैकांगुल्यैकैकवक्त्रे न्यस्तव्यः ततःह्सांह्सीमित्यादिनाकरषडंगन्यासंकृत्वाप्रणामोक्तंदेवंध्यात्वान्यसे त् तत्रादोप्रपंचन्यासोयथा ४ ह्सौःस्हैःअंप्रपंचरूपायैश्रियैनमः एव ६ आंद्वि परूपायै ६ ईजलधिरूपायैकमलायै ६ ईंगिरूपायैंविष्णुवल्लभायै ६ उपत्तन रूपायैपद्मधारिण्यै ऊंपीठरूपायैसमुद्रतनयायै ऋंक्षेत्ररूपायैलोकमात्रे ६ ऋंवनरूपायैकमलवासिन्यै० ऌंआश्रमरूपायैइंदिरायै० ॡंगुहरूपायैमायायै ऐंतदीरूपायैरमायैःऐंचत्वरकपायैपद्मायै ओंउद्भिजरूपायैनरायणप्रियायैः ओंस्वेदजरूपायैसिद्धलक्ष्म्यैः अं पृ० १७ब) अंडजरूपायैःरालक्ष्म्यैः अजरायुजरूपायैमहालक्ष्म्यैः कंलवरूपायैआर्यायै० खं त्रुटिरूपायैःउमायै० गंकलरूपायैचंडिकायै घंकाष्टारूपायैदुर्गायै० ङंनिमेषरूपा यैवैशिवायै० चंश्वासरूपायैअपर्णायै छंघटिकारूपायैअंविकायै० जंमुहूर्त्तरू पायैसत्यै० झंप्रहररूपायैईश्वर्ययौ ञदिनरूपायैशांभव्यै० दंसंध्यारूपायैःईशान्यै० वंरात्रिरूपायैपार्वत्यै० डंतिथिरूपायैमंगलायै० टंवाररूपायैदाक्षायिण्यै० नंनक्ष त्ररूपायैहैमवत्ये तंयोगरूपायै महामायायै एकरणरूपायैमहेश्वर्येर दंपक्षरू पायै०मृडान्यै धंमासरूपायैरुद्रादायै० नंराशिरूपायैशर्वाण्यै पंऋतुरूपायैप रमेश्वर्यये फंश्रयंनरूपायैकाल्यै बंवत्सररूपायैकात्यायन्यै भंयुगरूपायैगौ र्यै मंप्रलयरूपायैभवान्यै० यंपंचरूपायैब्राह्म्यै रंपंचतन्मात्रारूपायैवागीश्वर्यै० लं उ०म्ना० पृ० १८अ) पंचकर्मेद्रियरूपायैवारायैः वंपंचज्ञानेंद्रियरूपायैसावित्र्यै० परांपंचप्राणरूपायै सरस्वत्यै षंगुणत्रयरूपायैगायत्र्यै| संम्मंतःकरणचतुष्टरूपायै० हंअवस्था त्रयरूपायैशारदायैः लंसप्तधातुरूपायैभारत्यै क्षंदोषत्रयरूपायै० विद्यात्मि कायैनमितिमातृकास्थानेषुविन्यस्य ऐंह्रीश्रींह्सौंस्हौंःअं ५० सकलप्रपंचाधि देवतायैश्रीपरांबादेव्यैनमः स्हौंह्सौंःश्रीह्रींऐंओंनमितिसर्वांगेव्यापकंकुर्यादि तिप्रपंचन्यासः अथभुवनन्यासः तत्रपादयोःओंऐंहींश्रीह्सौंस्हौःअंआंइंअ तललोकनिलयशतकोटिगुह्याद्ययोगिनीमूलदेवतायुताधारशक्तांबादेव्यैन मः गुल्फयोः ६ ईंऊंवितललोकनिलयशतकोटिगुह्यतरअनंतयोगिनीमूल देवता० जंघयोः ६ ऋंऋंऌंसुतललोकनिलयशतकोट्यतिगुह्याचिंत्ययोगिनी पृ० १८ब) मूलदेवतायुत जान्वोः ६ ॡंएंऐंमहातललोकनिलयशतकोटिमहागुह्यस्वतंत्रयोगि नीमूल ऊर्वोः ६ ओंऔंतलातललोकनिलयशतकोटिपरमगुह्येछायोयोगिनी मू लास्फिचोःअंअःरसातललोकनिलयशतकोटिरहस्यज्ञानयोगिसूंसूलावारे ६ कंपपाताललोकनिलयशतकोटिरहस्यतरक्रियायोगिम् स्वाधिष्टाने ६ चं ५ मूर्लो कनिलराशतकोट्यतिरहस्यडाकिनीयोगिनीमूल० मणिपूरके ६ वं ५ भुवर्लोकनिल यशतंकोटिमहारहस्यराकिनीयोगिनीमूल अनाहते ६ तं ५ स्वर्लोकनिलयशतको टिपरमरहस्यलाकिनीयोगिनीमूल| विशुद्धौ ६ पंमहर्लोकनिलयशतकोटिगुप्तका किनीयोगिनीमूलाज्ञायां ६६ यं ४ जनलोकनिलयशतकोटिगुप्तरसाकिनीमूल लाटेशं ४ तपोलोकनिलयशतकोटिगुप्तहाकिनीयोगिनीमूल ब्रह्मरंध्रेलंक्षंसत्यलो ऊ०म्ना० पृ० १९अ) कनिलय शतकोटिमहागुप्तयोगिनीमूलदेवताधारशक्त्यंबादेव्यैनमितिविन्यस्य ६ अं ५० सकलभुवनाधिपायैश्रीपराबादेव्यैनमः स्हौंःह्सौंःश्रींह्रींऐंओंइतिव्यापकं कुर्यादितिभुवनन्यासः अथमूर्तिन्यासः तत्रशिरसि ६ अंकेशवायाक्षरशक्त्यैनमः मुखे ६ आंनारायणापाद्यशक्त्यै० दक्षांस ६ ईमाधवायेष्टदायै० वामांसे ६ ईगोविंदा यै०शानायै० दक्षपार्श्वे ६ उविष्णवेउग्रायै० वामेऊंमसूदनायोर्द्धनयनायै० दक्षकट्यां ६ ऋंत्रिविक्रमायृद्ध्यै० वामायांऋंवामनायरूपिण्यै० दक्षोरौ० ऌंश्रीधरायलुप्तायै० वामोरौॡंहृषीकेंशापलन्दोषायै० दक्षजानुनिरापद्मनाभायैकनायिकायै० वामे ऐं०वामेऐंदामोदरायैकारिण्यै० दक्षजंघायांओंवासुदेवायौघवत्यै० वामायांऔंस कर्षणायौर्वकायै० दक्षपादेयंप्रद्युम्नायांजनप्रभायै वामेअः अनिरुद्धायास्थि पृ० १९ब) मालाधारिण्यै० दक्षपादाग्राहरुमूलपर्यंतं ६ कंभंभवायकरभद्रायै० वामपादाग्राहरुमू लपर्यंतंखंबंशर्वायखगलायै० दक्षपार्श्वेगंफंरुद्रायगरिमलप्रदायै वामपार्श्वेघंपंपशु पतयेघोरपादायै० दक्षेदार्मूलेङेंनंउम्नायप नासायै० वामोदोर्मूलेचंधंमहादेवाय चंद्रार्द्धधारिण्यै कंठेछंदोमप्यै० वदनेजंथंईशानायजगत्स्थानायै० दक्षकर्णेझंतंतत्पु रुवायझंकृत्यै० वामेञंणंअघोरायज्ञानदायै० भालेटंवंसद्योजातायटंकठक्वधरायै शिरशिठंडंवामदेवायझंकृतिडामर्यै० मूलाधारेयंब्रह्मणेपक्षिण्यै० स्वाधिष्टानेरं प्रजायतेऐंरंजिन्यै मणिपूरकेलंवेधसेलक्ष्म्यै अत्राहतेवंपरमेष्टिनेवज्रिन्यै० वि शुद्धौशंपितामहायशशिधरायै० आज्ञायांषंविधात्रेषडाधारालपायै० अर्द्धेंदौसंवि रंचयेसर्वनायिकायै० रोधिन्याहंस्रष्ट्रेहसिताननायै नादेलंचतुशतनायललितायै उ०म्ना० पृ० २०अ) नादांतेक्षंहिरण्यगर्भायःक्षमायैतमित्येवंविन्यस्य ओंऐंहींश्रींह्सौंस्हौःसकलत्रि मूर्त्त्यात्मिकायैश्रीपुरांबादेव्यैनमः स्हौंःह्सौःश्रीह्रींऐंओंइतिव्यापकंकुर्यादितिमू र्त्तिंन्यासः अथमंत्रन्यासः तत्रमूलाधारे ६ अंआंइंएकलक्षकोटिभेदप्रणवाद्येका क्षरात्मकाखिलमंत्राधिदेवतायैसकलफलप्रदायैद्विकूटेश्वर्यंबादेवौः मणिपूरके ६ ऋंऋंत्रिलक्षकोटिभेदवह्न्यादिअक्षरात्मत्रिकूटेश्वर्ययेंबादेव्यै० अनाहतेॡंऐंऐं चतुर्लक्षकोटिभेदचंद्रादिचतुरक्षरात्म०चतुःकुटेश्चविशुद्धौ० ओऔअंअःपंचल क्षकोटिभेदसूर्यादिपंचाक्षरात्म० पंचकूटे० आज्ञायांकंखंषट्लक्षकोटिभेदस्कंदा दिषडक्षरात्म० षट्कूटे० विदौघंटंचंलक्षकोटिभेदगणपत्यादिसप्ताक्षरासप्तकूटे० अर्द्धंद्वौछंजंझंअष्टलक्षकोटिभेदवटुकाद्यष्टाक्षरात्मअष्टकूटेश्व० रोधिन्यांजंटंठं पृ० २०ब) नवलक्षकोटिभेदब्रह्मादिनवक्षरात्मनवकूटे० नादेडंढंणंदशलक्षकोटिभेदविष्ण्वादिद शाक्षरात्मदशाकूटे० नादांतेतंथंदंएकादशलक्षकोटिभेदरुद्राद्यैकादशाक्षरा०एकाद शकूटे० शक्तौधंनंपंद्वादशलक्षकोटिभेदवारायादिद्वादशाक्षरा० द्वादशकूटेव्यापिका यांफंबंमंत्रयोदशलक्षकोटिभेदलक्ष्म्यादित्रयोदशाक्षरात्रयोदशकूटेसमानास्थ नेमंयंरंचतुर्दशलक्षकोटिभेदगौर्यादिचतुर्दशाक्षरात्मा चतुर्दशकूटेउन्मन्यांलंवं शंपंचदशलक्षकोटिभेदेदुर्गादिपंचदशाक्षरा पंचदशकूटे० ध्रुवमंडलेखंसंहंलंक्षं षोडशलक्षकोटिभेदत्रिपुरादिषोडशाक्षरात्मकाखिलमंत्राधिदेवतायेषोडशकूटे श्वर्यंबादेव्यैनमितिविन्यस्य ओंऐंह्रींश्रींह्सौंःस्हौंःअं ५० सकलमंत्राधिदेवतायै श्रीपरांबादेव्यैनमः स्हौंःह्सौंःश्रींह्रींऐंओंइतिव्यापकंकुर्यादितिमंत्रन्यासः तत्रदक्ष उ०म्ना० पृ० २१अ) पादे ६ अंआंसहस्रकोटिऋषिकुलसेवितायैनिवृत्यंबादेव्यैनमः वामे ६ इंईसहस्र कोटियोगिकुलसेवितायैप्रतिष्टाम्बादेव्यै० दक्षगुल्फेउंऊंसहस्रकोटितपस्विकुलपैवि द्यांवा० वामेऋंऋंसहस्त्रकोटिणंतकुलसेवितायैशांत्यंवादेव्यै० दक्षजंघायांऌंॡं सहस्रकोटिमुनिसेवितायैशांत्यतीतांवादेव्यै० वामायांएंऐंसहस्रकोटिदैवतकुलसेवि तायै०हृल्लेखांबादेव्यै० दक्षजानुनिओंऔंसहस्रकोटिराक्षसकुलसेवितायैगगनांबा देव्यैतामेअंअःसहस्रकोटिविद्याधारकुलसेवितायैरक्तांबादेव्यै० दक्षरौ०कखंसह स्रकोटिप्सरकुलसेवितायैजयांबा० वामोरुमूलेछंजंसहस्रकोटिगंधर्वकुलसेविता यैजयांबाः दक्षपार्श्वेझंसहस्रकोटिगुह्यककुलसेवितायैअजितांबादेव्यै० वामेटं ठंसहस्रकोटियक्षकुलसेवितायैअपराजितांबादेव्यै० दक्षस्तेतेडंढंसहस्रकोटिकि पृ० २१ब) न्नरकुलसेवितायैवामांबा| वामेणंतंसहस्रकोटिपन्नगकुलसेवितायैज्येष्टांबादेव्यै० दक्षदोर्मूलेथंदंसहस्रकोटिपितृकुलसेवितायैरौद्र्यंबादेव्यैः वामेधनंसहस्रकोटिगणे श्वरकुलसेवितायैमायांबादेव्यै० दक्षभुजेपंफंसहस्रकोटिभैरवकुलसेवितायैकुंड लिन्यंबादेव्यैवामेबंभंसहस्रकोटिवटुककुलसेवितायैकाल्यंबादेव्यै० दक्षांसेमंयंस हस्रकोटिक्षेत्रेशकुलसेवितायैकालरात्र्यंबादेव्यै वामेरंलसहस्रकोटिप्रथमकुल सेवितायैस्तवाकत्यंबादेव्यै० दक्षकर्णेवंशंसहस्रकोटिब्रह्मकुलसेवितायैःसर्वेश्व र्यंबादेव्यै वामेषंसंसहस्रकोटिविष्णुकुलसेवितायैसर्वज्ञांबादेव्यै० भालेहंलंसह स्रकोटिरुद्रकुलसेवितायैः सर्वकर्त्र्यंबादेव्यै० ब्रह्मरंध्रे ६ क्षंसहस्रकोटिचराचर कुलसेवितायैकुलशक्तांबादेव्यैनमितिविन्यस्य ६ अं ५० समस्तदेवताधिपायै उ०म्ना० पृ० २२अ) श्रीपरांबादेव्यैनमः सस्हौंःह्सौंःश्रींहींऐंओंइतिव्यापकंकुर्यादितिदैवतन्यासः|| || अथमातृकान्यासः|| || तत्रमूलाधारे ६ कं ४ अनंतकोटिभूचरीकुलसहितायैआं क्षांमंगलांबादेव्यैआंक्षांब्रह्माण्यंबादेव्यैअनंतकोटिभूतकुलसहितायअंक्षंमं गलनाथायअंक्षंअसितांगभैरवायनमः स्वाधिष्टाने ६ चं ४ अनंतकोटिखेचरीकु लसहितायैईंलारर्चिकांबादेव्यैईलांमाहेश्वर्यंबादेव्यैअनंतकोटिवेतालकुलसहि तायिंलंचर्चिकनाथायिंलंरुरुभैरवाय मणिपूरकेटं ४ अनंतकोटिपातालचरीकु लसहितायैहूंहांयोगेश्वर्यंबादेव्यैऊंहांकौमार्ययंबादेव्यै अनंतकोटिपिशाचकुल सहितायाउंहंयोगेश्वरनाथायुंहंचंडभैरवाय० अनाहते ६ तं ४ अनंतकोटिदिक्च रीकुलसहितायैऋंसांहरसिद्धांबादेव्यैऋसांवैष्णव्यंबादेव्यैअनंतकोट्यपस्मारकु पृ० २२ब) लसहिताय ऋंसंहरसिद्धनाथायृंसक्रोधभैरवाय विशुद्धौ ६ प ४ अनंतकोटिसहच रीकुलसहितायैहृंषांभट्टिन्यंबादेव्यैहृंषांवराह्यंबादेव्यैअनंतकोटिब्रह्मराक्षसकुल सहितायऌंषंभदिनाथायहृंषंउन्मत्तभैरवाय० आज्ञायां ६ यं ३ अनंतकोटिगिरिच रीकुलसहितायैऐंशांकिलिकिलांबादेव्यैऐंशांइंद्राण्यंबादेव्यै० अनंतकोटिचेटककु लसहितायेंशंकिलिकिलनाथायेंशंकपालिभैरवायः भाले ६ शं ३ अनंतकोटि वनचचरीकुलसहितायैऔंवांकालरात्र्यंबादेव्यैऔंवाचामुंडांबादेव्यैअनंतकोटिप्रे तकुलसहिताओंवंकालशक्तिनाथायोंवंभीषणभैरवायब्रह्मरंध्रे ६ लंक्षंअनंत कोटिजलचरीकुलसहितायैअःलांभीषणांबादेव्यैअःलांमहालक्ष्म्यंबादेव्यैअनं तकोटिकूष्मांडकुलसहितायैअंलंभीषणनाथायअंलंसंहारभैरवायनमितिवि उ०म्ना० पृ० २३अ) न्यस्य ६ अं ५० समस्तमातृभैरवाधिदेवतायैश्रीपरांबादेव्यैनमः स्हौंःह्सौःश्रींह्रींऐं ओं इतिव्यापकंकुर्यादितिमातृकान्यासः|| || इतिमहाषोढान्यासः|| || ततःपूर्वव त्करषडंगन्यासंविधायपूर्वोक्तरूपंदेवंस्वभादेनध्यात्वायोनिलिंगधेनुकपालण नत्रिशूलपुस्तकवनमालानमस्कारमहामुद्राख्यादशमुद्राविरच्यशिरसिश्रीगु रुंसहस्रदलपंकजेइत्यादिश्लोकोक्तरूपंध्यात्वातद्विद्ययातत्पादुकांशिरसिवि न्यस्यप्रणम्यस्वसंकेतनाममूलाधारेविन्यस्यशिवरूपमात्मानंध्यात्वामहाषो ढान्यासमाहात्म्यंपूर्वोक्तंस्मरेदितिमहाषोढान्यासंविधाययोगपीठन्यासांतेमूले नप्राणायामत्रयंकृत्वाशिरसिब्रह्मणेऋषयेनमःमुखेजगतीछंदसे हृदिश्रीमद र्द्धनारीश्वरायदेवतायैनमितिविन्यस्यह्सांस्हीमित्यादिनाकरषडंगन्यासंकृत्वा पृ० २३ब) प्रणामोक्तरूपंदेवंध्यात्वामानसोपचारैः संपूज्य त्रिकोणगर्भमष्टदलकमलंकृत्वातद्व हिःषड्विंशतिदलंतद्वहिःषोडशदलंतद्वहिरष्टत्रिंशद्दलंतद्वहिश्चतुर्दशदलंतद्वहिरेक पंचाशद्दलमितिपूजाचक्रंचतुरश्रोपेतंनिर्मायतत्रमूलेनपुष्पां जलिंदत्वाप्राग्वत्पात्रस्थापनादिपुव्योपचारांतेह्सांह्सीमित्यादिनाषडंगंसंपूज्यत्रिको णाष्टदलयोरंतरालेपक्रियेणोर्ध्वाम्नायगुरुतदिव्यसिद्धमानवक्रमेणध्यात्वाप्रथम रेखायांदिव्यौघेभ्यः पराख्येभ्योगुरुभ्योनमितिपुष्पांजलिंदत्वा ओंऐंह्रींश्रींआदिना थपरशिवायनमः एवंआदिशक्तिंपरशिवायैः ४ सदाशिवापरशिवाय ४ सदाशिवा परशिवायै०ईश्वरपरशिवाय०ईश्वरीपरशिवायै०रुद्रपरशिवाय०रुद्राणीपरशिवाये० विष्णुपरशिवाय०वैष्णवीपरशिवायब्रह्माणीपरशिवायैनमितिइतिसंपूज्यद्विती उ०म्ना० पृ० २४अ) यरेखायां सिद्धौघेभ्यःपराख्येभ्योगुरुभ्योनमः ओंऐंह्रींश्रींसनकमहाशिवायनमः ४ सनंदनमहाशिवाय ४ सनातनमहाशिव ४ सनत्कुमारमहाशिवाय० सनत्सुजातम हाशिवायृमुमहाशिवायदत्तात्रयमहाशिवायःरैवतकमहाशिवायवामदेवम हाशिवाय० व्याप्तम०शुकमहाशिवायनमितिसंपूज्यतृतीयरेखायां ४ मानवौघेभ्यः पराख्येभ्योगुरुभ्योनितिपुष्पांजलिंदत्वानृसिंहसदाशिवाय०महेशसदाशि०भास्क रसदा०महेंद्रसदाशिवाय०माधवसदा०विष्णुसदाशिवायनमितिसंपूज्यततःसर्ववा ह्यगतैकपंचाश ६ लकमले ४ एकपंचाशद्दलपद्मायनमितिपुष्पांजलिंदत्वाततो देवंग्रदलमारभ्यंओंऐंह्रींश्रींह्सौंःस्हौंःअंप्रपंचरूपायैश्रियैनमः ६ अंद्वीपरूपा यैसायायैनमः एवंप्रपंचन्यासोक्तैकपंचाशद्देवतावामावर्त्तेनसंपूज्य ६ ओंऐंह्रीं पृ० २४ब) ह्सोंस्हौंःअं ५० सकलप्रपंचाधिदेवतायैपरांबादेव्यैनमः स्हौंःश्रींह्रींऐंओंइतिपुष्पां जलिंदत्वा ६ अभीष्टसिद्धिमित्यादिश्लोकंपवित्वापुष्पांजलिंदत्वाप्रपंचदेवतामयू खायश्रीमदर्द्धनारीश्वरायनमितिप्रणमेत् ततश्चतुर्द्दशदलपद्मायनमितिपु ष्पांजलिनासंपूज्यदेवाग्रमारभ्य ६ अंआंइंअतललोकनिलयेत्यादिशक्त्यंबा देव्यैनमित्येवंभुवनन्यासोक्तचतुर्द्दशदेवतावामावर्त्तेनसंपूज्य ६ शमस्तमातृका मुच्चार्ययसकलभुवनाधिपायैश्रीपरांबादेव्यौनमः स्हौंःह्सौंःश्रींह्रींऐंओंइतिपुष्पां जलिंदत्वाप्राग्वद्वितीयावरणपूजांसमर्प्य ततः ६ अष्टत्रिंशद्दलकस्तलायनमि तिपुष्पांजलिंदत्वा ६ अंकेशवायाक्षरशक्त्यैनमित्यादिमूर्त्तिन्यासोक्ताष्टत्रिं शद्देवतावामावर्त्तेनसंपूज्य ६ अं ५० सकलत्रिमूर्त्त्यात्मिकायैश्रीपरांबादेव्यैन उ०म्ना० पृ० २५अ) मःस्हौंःह्सौंश्रींह्रींऐंइतिपुष्पांजलिंदत्वाप्राग्वत्तृतीयावरणपूजांसमर्प्य ततःषो डशदलपद्मायनमितिप्राग्वत्संपूज्यतथैव ६ अंआंईंएकलक्षकोटिभेदित्यादिए ककूटेस्वर्यंबादेव्यैनमः इत्येवंवामावर्त्तेनषोडशदेवताःमंत्रन्यासोक्ताःसंपूज्य ६ अं ५० सकलमंत्राधिदेवतायैनमः स्हौंःह्सौंःश्रींह्रींऐंओंइतिप्राग्वत्संपूज्यप्रा ग्वच्चतुर्थांवरणंसमर्प्यषड्विंशतिदलपद्मायनमितिपुष्पांजलिंदत्वा ६ अंआंस हस्रकोटीत्यादिनिवृत्यंवरदेव्यैनमितिदैवतन्यासोक्ताःषड्विंशतिदेवताःसंपू ज्य ६ अं ५० समस्तदेवताधिपायैश्रीपरांवादेव्यैनमितिप्राग्वत्संपूज्यप्रागवत्पं चमावरणंसमर्प्यततः ६ अष्टदलकमलायनमितिप्राग्वत्संपूज्य ६ अं ५ अनंतकोटिभूचरीत्यादिअसितांग पृ० २५ब) भैरवायनमित्येवंमातृकान्यासोक्ताष्टदेवताःसंपूज्य ६ अं ५० समस्तमातृभै रवाधिदेवतायैश्रीपरांबादेव्यैनमितिपुष्पांजलिंदत्वाप्राग्वत्षष्ठावरणंसमर्प्य ततश्चतुरस्रेलोकपालांस्तदस्त्राणिचसंपूज्यधूपादिविधायनित्यहोमांतेपूजा चक्रस्यपश्चिमभागेचतुरस्रनृत्तत्रिकोणात्मकंमंडलंविरच्यतत्रवटुकमंत्रेण तमावाह्यगंधायैरूपचारैःसंपूज्य तत्रसान्नव्यंजतजलपूर्णंसाधारंवलिपात्रं निधायैंह्रींश्रीदेवीपुत्रवटुकनाथपिंगलजटाभारभासुरपिंगलत्रिनेत्रज्वाल मुखिमांपूजांवलिंगृह्णागृह्णास्वाहेतिमंत्रेणवामांगुष्टानामिकाभ्यामर्घोदक धारदानेनवलिमुत्सृज्यवलिदानेनसंतुष्टित्यादिमंत्रेणपुष्पांजलिंदत्वाउत्त रेतयैवमंडलंकृत्वायोगिनीमंत्रेणतथैवसंपूज्यतत्रप्राग्वद्वलिपात्रंनिधाय उ०म्ना० पृ० २६अ) ऐंह्रींश्रींसर्वयोगिनीभ्यःसर्वभूतवर्त्तिनींवंदिनीभ्योडाकिनीभ्यःशाकिनीभ्यस्त्रैलो क्यवासिनीभ्यःइमांपूजांवलिंगृह्णगृह्णस्वाहेतिवामतर्ज्जनीमध्यमानामाभिर्यो न्याकारेणपूर्ववद्वलिमुत्सृज्ययाकाचिद्योगिनीघोरेतिमंत्रेणपुष्पांजलिंसम र्प्यःततःपूर्वेतथैवमंडलंविधाय तत्रसर्वभूतमंत्रेणपूर्ववद्गंधादिभिःसंपूज्य तत्रवलिपात्रंनिधायैंह्रींश्रींसर्वभूतेभ्यःसर्वभूतपतिभ्योनमितिमंत्रेणवा मांगुलिभिःप्राग्वद्वलिमुत्सृज्यभूतायेविविधाकाराइतिमंत्रेणपुष्पांजलिदत्वा ततोदक्षिणेतथैवमंडलंकृत्वातत्रक्षेत्रपालमंत्रेणसंपूज्यप्राग्वलिपात्रंनि धाय ओंऐंहींदेहिदेवीपुत्रायवटुताथायुछिष्टहारिणेगृह्णगृह्णरुरुक्षेत्र पालसर्वंविघ्नान्नाशयसर्वोपचारसहितामिमांपूजांवलिगृह्णगृह्णस्वाहेति पृ० २६ब) मंत्रेणवामांगुष्टतर्ज्जनीभ्यांपूर्ववद्वलिमुत्सृज्ययोस्मिन्क्षेत्रेनिवासीचेतिमं त्रेपुष्पांजलिंसमर्प्याथवा ऐंश्रींह्रींह्सौंःह्रांह्रींह्रूंह्रांह्रींह्रूंभैरवाधिष्टितायाक्षोभ्या नंदोदयायाभीष्टसिद्ध्यर्थंमवतरावतरक्षेत्रपालमहाशास्त्रमातृपुत्रकुलपुत्र सिद्धपुत्रास्मिन्स्थानाधिपतयेअस्मिन्ग्रामाधिपतयेअस्मिन्देशाधिपतयेमेघ नादप्रचंडोग्रकृपाणभीमभीषणसर्वविघ्नाधिपतयेइमांपूजांवलिंगृह्णगृह्ण रुरुरुमुरुचूर्णयचूर्णयज्वलज्वलप्रज्वलप्रज्वलसर्वविघ्नान्निवारयनाशय नाशयक्षांक्षींक्षूंक्षेत्रपालायवौषठुंइतिमंत्रेणवापूर्ववद्वलिमुत्सृजेत् त ताग्नेयकोणेप्रागुन्मंडलेराजराजेश्वरमावाह्यगंधादिभिः संपूज्य तत्रप्रा ग्वद्वलिपात्रंनिधाय ऐंह्रींश्रींअमुकक्षेत्रपालराजराजेश्वरिमांपूजांवलिंगृ उ०म्ना० पृ० २७अ) ह्णगृह्ण स्वाहेतिमंत्रेणांगुष्टमध्यमाभ्यामर्घोदकधारादानेनवलिमुत्सृज्याते नवलिदानेतेतिमंत्रेणपुष्पांजलिंदत्वानीराजनादिकंशेषंप्राग्वत्समापयेदि ति तथा मंत्रीविशुद्धहृदयःपूर्वोक्तनियमान्वितःश्रीप्रासादपरामंत्रंतत्वक्षं जपेत्प्रिये दशांशजुहुयाद्देविसंस्कृतेहव्यवाहजे गंधपुष्पाक्षताकल्पधेनु वस्त्रादिभिःप्रिये भक्ष्यभोज्यान्नपानाद्यैःकुलद्रव्यैर्मनोहरैः तोषयेद्योगिनी चक्रंयथाविभवविस्तरं एवंन्यासजपध्यानसहोमार्चनतर्प्पणैः मंत्रीसिद्धम नुर्देविसाक्षात्परशिवोभवेत् ततःस्वमतसोभीष्टान्प्रयोगान्कुलनायिके मंत्रेणा तेनमतिमान्साधयेद्भुक्तिमुक्तये सिद्धमंत्रस्यसिद्ध्यंतिषट्कर्माणिनसंशयः नै वसिध्यंत्यसिद्धस्यदेवताशामाप्नुयात् काम्यप्रयोगकर्तृणांपरलोकेनविद्यते प्र पृ० २७ब) योगसिद्धिरेवैषांफलमन्यत्रचप्रिये एकस्यापिविधानस्यनकुत्रापिफलद्वयं दे वेशिदश्यतेतस्मान्निःकामोदेवतांभजेत् होमतर्प्पणंयंत्राद्यैर्तानाध्यानविशेष जैः आत्मनश्चपरस्यापिषट्कर्माणिसमाचरेत् प्रयोगांतेचक्रपूजांतिथिनैव समाचरेत् एवलक्षंजपेन्मंत्रंध्यानन्याससमन्वितः प्रयोगदोषशांत्यर्थमात्म रक्षार्थमेतच नचेत्फलंचनाप्नोतिदेवताशापमाप्नुयात् तिथिवारर्क्षकरणयो गमासर्त्तुपक्षकं द्वीपेशकूर्मचक्रादिज्ञात्वाकर्माणिसाधयेत् पंचशुध्यासनं प्राणामंत्रन्यासाक्षमालिकाः दोषसंस्कारमुद्रादीन्ज्ञात्वामंत्राणिसाधयेत् द्विषद्बांधवदाराख्यराशिवर्णानुकूलता भूतमैत्रोमथाद्यंतंज्ञात्वामंत्राणिसा धयेत् मंत्रविद्याभेदनिद्राचोधा|ग्नौसोमरूपकं पुंस्त्रीनपुंसकादिंचज्ञात्वामं उ०म्ना० पृ० २८अ) त्राणिसाधयेत् अथनामनदिग्वर्णनाडीतत्वानुसंगतिं देवताकालमुद्रादीन्ज्ञा त्वाकर्माणिसाधयेत् साध्यासाधककर्माणिलेखद्रव्यपंचकं स्थानंयंत्रप्रमाणंच ज्ञात्वायंत्राणिसाधयेत् उत्पत्तिरसनावर्णमूर्त्तिसंस्कारसंस्थितिं कुंडद्रव्यप्रमा णादीन्ज्ञात्वाहोमंसमाचरेत् धामप्रभाधूमर्णध्वनिगंधाशिषाकृतिं दूतचेष्टा दिकंज्ञात्वाकथयेत्शुभाशुभं मंत्रतत्वानुसंधानंदेहावेशादिलक्षणं संत्रोच्चा रणभेदंचज्ञात्वामंत्राणिसाधयेत् मंडलंकालशक्वाथौदकंगंधाष्टकादिकंदीक्षा नामप्रदानादिज्ञात्वादीक्षांसमाचरेत् नित्यंनैमित्तिकंकाम्यंनियमंनामवासनां पूजाधारणयंत्रादिज्ञात्वाकर्माणिसाधयेत् पूजागृहप्रवेशादिकुलपूजकल क्षणं कुलद्रव्यादिसिद्धिंचज्ञात्वापूजासमाचरेत् अंतर्यागंवहिर्यागमर्घ्यादि पृ० २८ब) मतर्प्पणयोः स्वाहान्यासजनयोर्तमः मंत्रांतेयोजपेन्मंत्रीजपकालेयथास्वितं शांतिकेराजतंताम्रंर्भूर्जपत्रेतुवश्यके सर्वकार्येषुसौवर्णंक्रूरेस्यात्प्रेतकर्पटं त्रि गंधंशांतिकेप्रोक्तंपंचगंधंतुवश्यके सर्वकार्येषुगंधःस्याक्रूरेचाष्टविषाणिच शांतिकेलेषनीदूर्वावश्यादौशिखिपिछिका हेम्नासर्वाणिकार्याणिकूरेस्यात्काक पिछिका गृहितुशांतिकर्मस्याद्वश्याद्यंचंडिकालये सर्वकार्यदेवगृहेश्मशानेक्रू रकर्मच लक्षणान्येवमादीनिज्ञात्वागुरुमुखात्प्रिये सर्वकर्माणिकुर्वातमंत्री तत्फलाप्तये मूलेप्रासादवीजंतमरुणयुतसन्निभं उन्नमांगेपरावीजंचंद्रायु तसमप्रभं परस्परकरस्पर्शज्वालितानंदनिर्भरैः मूलादिब्रह्मरंध्रांतमनव छिन्नरूपिभिः परमृतरसासेकैः सिक्तमापादमस्तकंआत्मानंभावयेन्नित्यंस पृ० २९अ) स्थापनार्चनं पंचपुष्पांजलिंदेविज्ञात्वापूजांसमाचरेत् पात्राधारादिपिशितं कुलमेलनतर्प्पणं वटुकादिवलिंदेविज्ञात्वापूजांसमाचरेत् कुलाकुलाख्यास हजाशक्तिभेदंचलक्षणं शुभलक्षणसंयुक्तंस्त्रीसंस्कारार्चनादिकं देविसंभोग कालंचज्ञात्वाशक्तिंपरिग्रहेत् इत्याद्याःकथिताःकेचिद्विशेषाःकुलनायिके सर्वेषामपिमंत्राणांविधिःसाधारणक्रमःमंत्राःफट्देवताहुंफडंताःप्राणेच दक्षिणे प्रवुध्यंतेद्विठांताःस्युर्विद्याःस्त्रीदेवताःप्रिये वामेप्राणेप्रवुध्यंतेनमों ताःस्युर्नपुंसकाः नाडीद्वयगतेप्राणेसर्वेवोधंप्रयातिच शांतिमनवःसौम्या भूयिष्टानमृतादराः स्वाहांताः स्युर्वियत्साक्षाच्चाग्नेयाःक्रूरकर्मसु फटुच्चा टेटेवषद्धश्येहुंद्वेषेस्येचमारणे| स्तंभनेचमनःप्रोक्तंस्वाहाशांतिकपौष्टिके हो पृ० २९ब) भयेदजरामरः एवंध्यात्वाकुलेशानिसर्वकर्माणिसाधयेत् सिध्यंतितरसा देविनात्रकार्याविचारणा ध्यानभेदंप्रवक्ष्यामिसर्वसिद्धिकरंप्रिये ईप्सितंलभ तेयेनपूजाहोमादिकंविना स्थानेमातोहरेदेविसाधकःस्थिरमानसः स्थित्वामृ द्वासनेध्यायेद्गुरुवंदनपूर्वकं मस्तकस्थितसंपूर्णचंद्रमंडलमध्यमे श्रीप्रासा दपरावीजंषोडशस्तसंयुतं मुक्तास्फटिककर्पूरकुंदेंदुधवलप्रिये सचंद्रविंव संजातसुधाप्लावितविग्रहं आत्मानंभावयेद्देविनिश्चलेनांतरात्मना श्रीप्रासा दपरामंत्रमष्टोत्तरसहस्रकं तरुणोल्लासहितोमंडलंप्रजपेत्प्रिये अपमृत्युम हारोगजरामरणजंभयं ग्रहापस्मारवेतालभूतोन्मादादिजंभयं जित्वाधिव्याधि रहितःपुत्रपौत्रसमन्वितः जीवेहर्षशतंसाग्रंपूजितःसर्वमानवैः अश्रुतंवुध्य उ०म्ना० पृ० ३१अ) तेशास्त्रंकवितानिर्मलाभवेत् चितायोजायतेसाक्षान्नात्रकार्याविचारणा ज्वरोन्म हादिरोगेवुजपेछिरशिसिंचयेत् शूलवातव्रणग्रंथिमूत्रकृछ्रादिसंभवैः तत्र त्स्थानेषुदेवेशिपूर्ववच्चिंतयन्जपेत् महारोगेषुजातेषुसर्वांगेषुविचिंतयेत् तत् क्षणाछांतिमायांतिरोगाःसर्वेनसंशयः दशेंद्रियेषुयोध्यायेल्लभेद्रियसोष्टवं य त्रवीजंस्मरेत्तत्रतत्फलंभवतिध्रुवं सदासंचिंतयेन्मूर्द्धिसभवेदजरामरः सवंरो गहरंविंद्यादादारोग्यंचपदंप्रिये अस्मात्परतरंध्यातंनास्तिसत्यंनसंशयः सात्वि कंध्यानजंदेविफलमेतदुदीरितं शांतिकर्मणिविधिनाध्यानेनातेनसाधयेत् द्वादशाधारपद्मेषुद्वादशवरसंयुतं वीजंसंचिंतयेद्यस्तुसभवेदजरामरः षडाधा रेषुषड्दीर्घयुतंवीजंविचिंतयेत् षडाधारस्थदेवीभिः पूज्यतेकुलनायिके हृ पृ० ३०ब) त्पद्मकर्णिकामध्येसूर्यमंडलसंस्थितं पराप्रासादवाजंतदरुणारुणसंतिभं जया वंभूकसिंदूरपद्मरागप्रभोज्वलं पंचविंशतिभिःस्पर्शाक्षरैरावीतमंविके तत्प्रभा पटलछायारत्नीकृतजगत्त्रयं आत्मानंसंस्मरेद्देविनिश्चलेनांतरात्मना पराप्रा सादवीजंतंयौवनोल्लाससंयुतं अष्टोत्तरसहस्रंतुमंडलंप्रजपेत्सुधीः देवदान वगंधर्वसिद्धगुह्यककिन्नरान् विद्याधरान्मुभीन्यक्षानन्यानप्यशरःस्त्रियः सि घव्याघ्रोरग्रेंद्रादीनन्यादुष्टमृगानपि वशीकरोत्यसंदेहःकिंपुनर्मानवादिकान् महदेश्वर्ययमाप्नोतिस्वर्गभोगादिकंप्रिये यस्यमूर्द्धिस्मरन्जप्यात्सवश्योजाय तेचिरान् राजसध्यानजंदेविफलमेतदुदीरितं वश्यकर्माणिसर्वाणिविधिना नेनसाधयेत् सर्ववश्यकरंदेविसर्वैश्वर्ययफलेप्रभं अस्मात्परतरंध्यानंनास्तिस उ०म्ना० पृ० ३१अ) त्यंनसंशयः मूलाधारसरोजांतर्वह्निमंडलमध्यगं पराप्रासादवीजंतंकालांताग्नि समप्रभं प्रतिलोमैस्तुसंपीतंदशभिर्व्यापकाक्षरैः स्वयंजल्पानलःसम्यक्सर्वभूत भयंकर दक्षिणाशात्वितमुखश्चोग्रदष्टिर्मलोमसः यौवनोल्लाससहितःपराप्रासा दसंज्ञकं मंत्रंतुमंडलंजप्यादष्टोत्तरसहस्रकं अनिष्टकारिणसत्वान्कलहापास कारिणः वृथाद्वेघकरान्क्रूरान्सपर्याविघ्नकारिणः भूतोग्रग्रहवेतालपिशाचब्र ह्मराक्षसान् तद्वह्निमध्यपतितान्निदग्धाश्चविचिंतयेत् क्षणेननाशमायांतिश रभाइवपार्वति यस्यमूर्द्धिस्मरेद्वीजंसमृत्युमधिगछति ध्यानेनानेनदेवेशिका लादीनपिनाशयेत् ग्रहरोगादिदुष्टादिविनाशनकरंप्रिये अस्मात्परतरंध्यानं नास्तिसत्यंनसंशयः तामसध्यानजंदेविफलंमेतदुदीरितं दुष्टमारणकर्मा पृ० ३१ब) विधिनानेनसाधयेत् इत्यादिध्यानभेदांश्चज्ञात्वागुरुमुखात्प्रिये षट्कर्माणिप्रयुं जीतनान्यथावीरवंदिते खदिरश्वेतमंदारामृताभानुसमिद्वरैः पनसोदुंवराश्वत्थ प्लक्षायामार्गसद्वरैः नंद्यावर्त्तसितांभोजभयाद्रिकुसुमादिभिः सितैरन्यैःशुभ द्रव्यैःशमित्यत्रफलार्त्तवैः भक्षैश्चपापसैदूर्वासहविस्तिलतंडुलैः मधुरत्रयसं युक्तैर्मंत्रवित्कुलनायिके एकेनवाथसर्वैर्वातत्कार्यगुरुलाघवं जाप्यंदेविसह स्रंवात्रिसहस्रंतुपंचवा| अयुतंनियुतंवापिप्रयुतंबाकुलेश्वरि तत्कमोदितेकुं डेसंस्कृतेहव्यवाहते आवाह्यदेवतामस्मिन्ध्यात्वासावरणंप्रिये विधिवज्जुहु याद्देवितद्गतेनांतरात्मना सर्वरोगज्वरोन्मादायस्मारोत्यातकृत्यजं सर्वदुःखंप्रश मयेतक्षणान्नान्नसंशयः अतेनसर्वशांतिश्चविद्याज्ञानंलभेत्प्रिये कदंबाशो उ०म्ना० पृ० ३२अ) शोकवकुलपुन्नागान्नमधुकजैः चंपकद्वयपालाशपाटलश्रीकपित्थजैः मालती मल्लिकाजातिवंधूकारुणपंकजैः कल्हारारुणमंदारजातिकुंदजपादिभिः रक्तैरत्यैः शुभद्रव्यैःसमित्यत्रफलार्त्तवैः पूर्ववज्जुहुयाद्देविविधिवन्मंत्रवित्तमः महीपतीं श्चपुरुषान्कांतायौवनगर्विताः सिंहान्मत्तगजान्याघ्रन्सर्प्पन्दुष्टमृगामपि सि द्धदेवताप्सरोयक्षगंधर्ववनिता देवानपिकुलेशानित्शयेन्नात्रसंशयः राजी लवनहोमेनस्त्रिमाकर्षयेद्ध्रुवं विविधानेनदेवेशिसौभाग्यमतुलंभवेत् पीत द्रव्यैर्हरिद्राद्यैःसमित्यत्रफलार्त्तवैः गृहधूमवितांगारत्रिकद्वाग्निविषांजनं उन्मत्तरससंसिक्तंपिष्ट्वासम्यक्प्रसेवितैः साध्यपादरजोभिश्चचिताभस्मस मन्वितैः साध्यप्रतिकृतिंकुर्यादेकांनक्षत्रवृक्षजां सम्यक्प्रतिष्टिप्राणांकुंडस्यो पृ० ३२ब) परिलंवयेत् खनेन्मृत्प्रतिमांमंत्रीकुंडस्याधोयथाविधि मलीमसेनमनसाउग्र दृष्टिरमर्षणः चितानलेविषतरुन्मत्तकाष्टसमेधिते तद्रव्यैर्जुहुयाद्देविविधि वन्मंत्रवित्तमः कुर्याद्विद्वेषणोच्चाटमारणानितसंशयः शांतिकेसात्विकेदेवि श्वेतवर्णविचिंतयेत् वश्येतुराजसंदेविरक्तवर्णंविचिंतयेत् आतारक्षांपुरा कृत्वापश्चात्कर्माणिसाधयेत् तामसैतमसंदेविकृष्णवर्णंविचिंतयेत् योन्य थाकुरुतेमोहात्सभवेद्देवतापशुः तस्माद्देव्यामथन्यासंकारयेतुवलिंसुधीः कृत्वाकर्माणिकुर्वीतनान्यथावीरवंदिते लिखेत्रिकोणषट्कोणमष्टारंचमही पुरं मूलमंत्रंलिखेन्मध्येसाध्यनामसमन्वितं षट्कोणेषुषडंगानिविलिखेत्पर मेश्वरि केशरेषुस्वरातष्टौवर्गान्यत्रेषुपार्वति भूगृहेषुचतुष्कोणेष्वालिखेन्मू उ०म्ना० पृ० ३३अ) लमंबिके पंचवर्णरजोभिस्तुशुभंदृष्टिमनोहरं एवंयंत्रंसमालिखाविधिवन्मंत्र वित्तमः एकत्रिषद्दशचतुःकलशांस्थापयेत्प्रिये मध्यादिचतुरश्रांतंद्वाविंशतिघटा न्क्रमात् अथवाष्टदलेदलेदेविदशवासप्तवाप्रिये चतुरोवाप्यथैकंबाकु र्यात्साधकशक्तितः अस्थिरत्नंशिरातंतुर्मृन्मांसंरुधिरंजलं चर्मवस्त्रशिखा र्चंनालिकेरफलंशिरः मंत्रप्राणसमायुक्तंजपेत्कलशदेवतां सांवत्रिमूर्त्तिरंशा तिमातरोभैरवान्विताः विदिक्षुगुरुविघ्नेशदुर्गाक्षेत्रपतीन्प्रिये कलशेषुसम भ्यर्च्यविधिवन्मंत्रवित्तमः अभिषिंचेत्प्रियंशिष्यंसर्वपापप्रशांतये आयुः श्रीकांतिसौभाग्यविद्यारोग्यादिकंभवेत् राजाभिषिक्तोलभतेचतुःसागरगां महीं अकिंचनोभिषिक्तस्तुमहेदेश्वर्यमाप्नुयात् वंध्याभिषिक्तालभतेपुत्र पृ० ३३ब) सर्वगुणान्वितं भूतापमृत्युरोगाद्यावितश्यंतिनसंशयः त्रिलोहेवापिभूर्जेवा लिखित्वायंत्रमुत्तमं विधृतंवाहुनादेविसर्वरक्षाकरंभवेत् आयुरारोग्यमैश्व र्ययविद्यालाभयशोजयं पराप्रासादमंत्रज्ञेदृश्यंतेनात्रसंशयः वहुनात्रकिमुक्ते नत्रिषुलोकेषुमंत्रिणः अनेनमंत्रराजेननासाध्यंविद्यतेक्वचित् उर्द्ध्वाम्नायैक निस्नातःपराप्रासादमंत्रवित् कुलार्णवार्थतत्वज्ञोजीवन्मुक्तःकुलेश्वरि सुती र्थेवाप्यतीर्थेवाजनमध्येपिवावसन् पराप्रासादमंत्रज्ञोमुक्तेवनसंशयः आगमोक्तेनविधिनाक्रमपूजापुरःसरं श्रीप्रासादपरावीजमष्टोत्तरशतंजपे त् मुच्यतेब्रह्महत्यादिमहापापैश्चपंचभिः द्विशतंयोजपेद्देविश्रीप्रासादपरा मनुं चतुरासीतिलक्षांगधारणाचरितैरपि अयोतिजांगचरितैरसंख्याःज उ०म्ना० पृ० ३४अ) ननार्जितैः वार्द्धकेयोवनेवाल्पेजाग्रत्स्वप्नसुषुप्तिषु कर्मणामनसावाचज्ञानाज्ञा नकृतैरपि महापातकसंघैश्चाप्युपपातकराशिभिः मुच्यतेनात्रसंदेहःसत्यमे तद्वरानने त्रिशतंयोजपेद्देविश्रीप्रासादपरामनुं सर्वक्रतुषुयत्पुण्यंसर्वदा नेषुयत्फलं सर्वव्रतेषुयत्पुण्यंसर्वतीर्थेषुयत्फलं तत्फलंलभतेदेविनात्रका र्याविचारणा चतुःशतंजपेद्यस्तुश्रीप्रासादपरामनुं सदातस्यगृहद्वारमणि माद्यष्टसिद्धयः सेवंतेनात्रसंदेहःसर्वसिद्धिसमन्वितः यद्यन्मनोभिलषितंत न्नत्तत्प्राप्नोतिनसंशयं धर्मार्थकाममोक्षाश्चसाक्षात्तस्यकरेस्थितः सालोक्य प्रमुखांदेविलभतेन्मुक्तिचतुर्विधां जपेत्पंचशतंयस्तुश्रीप्रासादपरामनुं त त्फलंनैवसक्नोमिकथितंकुलनायिके तस्मात्सर्वप्रयत्नेनसर्वावस्थासुसर्व उ०म्ना० पृ० ३५अ) दा श्रीप्रासादपरामंत्रंप्रजपेद्भुक्तिमुक्तये|| || ########### END OF FILE #######