#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00198 Uniform title: aṃśumatkāśyapāgama Main title: aṃśumadāgama Manuscript : IFP transcript 1 Description: IFP transcript 1 of RE. 19987 Palm-leaf beginning leaf (25)19a Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: October 23, 2009 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### अंशुमत्काश्यपागमः (अंशुमदागमः) शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये || १ || शशिधरं महादेवं सर्वलोकैकनायकम् | महेन्द्र मध्यगं शान्तं पार्वती सहितं परम् || २ || देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् | प्रणम्य चरणौ देव संघैस्सह तु काश्यपः || ३ || शुचे परमसद्भाव प्रशान्तं सृष्टिकारणम् | जगतामभिवृद्ध्यर्थं योगिनामुपकारकम् || ४ || देवानां च हितार्थाय शिवज्ञानसमुद्भवम् | महार्थमल्पग्रन्थं च कर्षणादिज्ञानसीमकम् || ५ || अंशुमानिति तन्त्रं च त्वयोक्तं हि पुरातनम् | तन्त्रं तव च देवानां यन्त्राणामधिकारिणाम् || ६ || अल्पायुष्यादि धर्माणां नराणां चाधिकारिणाम् | अनुग्रहान्तं तत्तेषां संक्षेपाद्वद मे प्रभो || ७ || साधु साधु महाविप्र ! यत्त्वया परिचोदितम् | दुर्लभं तदहं वक्ष्ये शृणुष्वैकाग्रमानसः || ८ || पुष्यमासादि षण्मासा माघमासेतराः शुभाः | दक्षिणे चाश्वयुङ्मासं श्रावणी कृत्तिका तथा || ९ || प्. २) पूजिता दक्षिणादीनां शेषा मासा विवर्जिताः | पौष्णादित्यमघास्वाती सावित्री त्वष्ट्ट मैत्रकः || १० || श्रवणार्द्रा प्रजेशस्तिष्याश्वयुक् च त्रयोत्तराः | दिनेषु पूजितास्त्वेताः प्रतिपत्षष्ठि सप्तमी || ११ || तृतीया पंचमी चैव द्वितीया च त्रयोदशी | दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः || १२ || प्रतिपत्पौर्णमासी च द्वितीया पंचमी तथा | तृतीया मध्यमा ख्याता कृष्णपक्षे द्विजोत्तम ! || १३ || षष्ठी च दशमी कृष्णे कनिष्ठा चैव गर्हिताः | सितसौम्यशशी जीववाराः श्रेष्ठतमाः शुभाः || १४ || तेषामंशोदयं होराद्रेक्काणाश्चैव दर्शिताः | शुभमेवेति विज्ञेयाः तत्र शश्युदयं विना || १५ || कटकं तौल्यमकरं मेषं च धनुषं विना | मेषराश्युदयं शस्तं सर्वसंपत्समृद्धिदम् || १६ || उच्चस्थानगतश्चन्द्रः सौख्यो मित्रगतस्तथा | शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् || १७ || भौमादित्येन्दु राहुश्च सौरी वा लग्नसंस्थिते | आयुष्यं धनधान्यं च कर्तृनाशं न संशयः || १८ || धनस्थान गताः क्रूरा धनधान्यविनाशनाः | तथैव चन्द्रसंयुक्तं धनधान्यविवर्धनम् || १९ || प्. ३) भ्रातृस्थानगतास्सर्वे सर्वसंपत् समृद्धिदाः | बन्धुस्थानगताः पापाः सर्वदुःख भयावहाः || २० || पुत्रस्थानगताः क्रूराः मृत्युपीडा भविष्यति | शत्रुस्थान गताः सर्वे सर्वदुःख भयावहाः || २१ || भार्यास्थानगता जीवचन्द्र भार्गाश्च वै तथा | आयुष्यं धनधान्यं च सर्वसिद्धिप्रदाः सदा || २२ || निधनं संगतास्सर्वे कर्तुर्निधनमादिशेत् | शुभग्रहो नवस्थाने सर्वसौख्यधनावहः || २३ || कर्मस्थान गताः क्रूराः सर्वेवित्तायुषक्षयाः | शुभग्रहाश्च कर्मस्थाः सर्ववित्तायुष प्रदाः || २४ || अशुभाश्च शुभाश्चैव वलस्थानगताः शुभाः | द्वादशस्थो बुधो जीवो वित्तवृद्धिं समावहेत् || २५ || नक्षत्रान्ते च मासान्ते पक्षान्ते वेधितर्क्षके | व्यतीपाते परिघशूले वै घृते कालकण्ठके || २६ || कण्टके च तथा स्थूलं परिवेषे च दुर्दिने | उल्कापाते च भृगुजे वृद्ध्या च विषनाडिके || २७ || षडशीतिमुखे चैव मासशून्ये तथैव च | कर्षणादि प्रतिष्ठान्तं सर्वकर्म विवर्जयेत् || २८ || मर्त्यानामायुषच्छेदं कृष्णपक्षे तु चन्द्रवत् | तस्माद्युक्तेन शीघ्रं च कर्तव्यो धर्मसंग्रहः || २९ || प्. ४) अल्पदोषगुणाधिक्यं दिनं वृद्धिं च संग्रहेत् | अनेककोटि दोषाढ्यं दिनं लग्नं च मेव च || ३० || दोषहीनतमं याति जीवदृष्ट्या द्विजोत्तम | अनेककोटिदोषस्तु जीवैकेन विनाशनम् || ३१ || तमसा परिवृतौ रात्रौ ख्येकेन विनश्यति | तथैव जीवदृष्ट्या तु सर्वदोषसमुद्गमाः || ३२ || एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् | पत्रैव सदनं कुर्यात् तद्देशं कर्षणं कुरु || ३३ || अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् | पैशाचिक पदे कुर्यात् आलयं तु पराङ्मुखम् || ३४ || परिखास्तु त्रिदण्डादि यावत्त्रिंशत्तदान्तकम् | तावदेवेष्टदिग्भागे कर्तव्यं शिवमन्दिरम् || ३५ || परिखाभ्यन्तरे वापि पैशाचिक पदे कुरु | मानुषे तु पदे वाथ कर्तव्यं शिवमंदिरम् || ३६ || विप्रक्षत्रियविट्छूद्राः अनुलोमास्तथैव च | समनिर्माणकर्तारः सर्वप्राणि हिताय वै || ३७ || हस्तमात्रं तु तद्घातं कृत्वातद्भूमि मध्यमे | पूरिते तन्मृदं धीमान् अधिके चोत्तमान्मही || ३८ || समता मध्यमाख्याता हीना सा कन्यसा स्मृता | गृहीता चोत्तमा मध्या गृहीता कन्यसा मही || ३९ || प्. ५) श्वेता रक्ता तथा पीता कृष्णा विप्रादयः क्रमात् | चतुर्विधा महीख्याता तत्तज्जात्यार्हता शुभा || ४० || परेषामपराः शस्ताः स्वपरेषां परं विना | तत्तद्योग्यमहीग्राह्या मर्त्यानामालयं कुरु || ४१ || सर्वा महीप्रशस्ता च देवानां तु विशेषतः | भूतप्रेतपिशाचेभ्यो दद्याद्दध्योदनं बलिम् || ४२ || अस्त्रेणोच्चाटयेदेतान् पश्चात्कर्षणमाचरेत् | श्वेतौ रक्तौ च कपिलौ कृष्णौ जात्यर्हकौ क्रमात् || ४३ || यौवने कर्षणे पूर्वौ नागहीनौ बलान्वितौ | हेमशृंगखुरोपेतौ वर्णान्तर न संस्पृशौ || ४४ || संपूज्य वृषगायत्र्या गन्धपुष्पादिभिर्बुधः | पूर्वं निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ || ४५ || याज्ञिकैस्सारवृक्षैर्वा लक्षणेन युगं हलम् | सीरायामं त्रिहस्तं स्यात् नाहं सप्तांगुलं भवेत् || ४६ || वृत्ताकारमशेषं तु मूलं वेदांशमश्रकम् | मेखलोच्चं त्रितालं स्यात् त्रिमात्रं तद्घनं भवेत् || ४७ || मूलं षण्मात्र विस्तारं घनं वेदांगुलं भवेत् | मूलादग्रं क्रमात्क्षीणं किंचित्क्षीणं तु मध्यमम् || ४८ || मेखलायास्तु मूले तु विर्यवेशं नवांगुलम् | वेशांशे द्व्यंगुलं व्यासं घनमर्धार्ध मात्रकम् || ४९ || प्. ६) चतुर्विंशांगुलायामं घ्राणदीर्घं तु काश्यप | सीरोर्ध्वे घ्राण तुंगं तु पंचांगुलमुदाहृतम् || ५० || घ्राणकुक्ष्युन्मुखं कुर्यात् मनुमात्रं तदायतम् | शेषं चित्रमिति ख्यातं सीरमेखलसन्धितौ || ५१ || षण्मात्रं घ्राणविस्तारं घनं वेदांगुलं भवेत् | अग्रं सूचिनिभाकारं अनुपूर्वात्कृशं भवेत् || ५२ || त्रिपंच मात्रमित्युक्तं सीरघ्राणाग्रकान्तकम् | अयसा हलजिह्वा तु घ्राणाग्रे योजयेद्बुधः || ५३ || सीरायामसमं नाहं युगं चिद्रं युगाश्रकम् | कनिष्ठांगुली परीणाहं गोचर्मद्विकरायतम् || ५४ || हृदयं मंत्रमुच्चार्य बध्वा युगाश्रयौ वृषौ | युगमध्ये हलं बध्वा किंचिद्दक्षिणमाश्रितम् || ५५ || कर्षयेन्मतिमान्विप्रः तृणादीनि व्यपोह्य च | तिलसर्षपमुद्गानि नेत्रमंत्रेण वापयेत् || ५६ || आचार्यं पूजयेत्तस्मै दद्याद्युगहलौ वृषौ | त्रिरात्रां कुरिते श्रेष्ठं वेदयत्रौ तु मध्यमम् || ५७ || अधमं भूतरात्रं स्यात् अधमं परिवर्जयेत् | आपुष्पात्फलगं रक्ष्य गोगणानां निवेदयेत् || ५८ || एकरात्रं द्विरात्रं वा गावस्तत्रैव वासयेत् | गोवक्त्रगतकेनैश्च गोमयेः प्रस्तवैरपि || ५९ || प्. ७) स्थपतिं पूजयेत्पश्चात् वस्त्राद्यैश्च यथा मति | प्रशस्तं भूतलं पश्चात् मध्ये समतलं गुरुः || ६० || गोमयालेपनं कृत्वा दिक्परिच्छेदनं कुरु | शंकुं कलांगुलायामं नाहं तत्सममुच्यते || ६१ || मूलताराष्टभागैकं हीनमग्रविशालकम् | मूलाग्रं मुकुलाकारं मूलाग्रं क्रमशात्कृशम् || ६२ || सुवृत्तमार्जवं कुर्यात् सारवृक्षं तु शोषितम् | शंकु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् || ६३ || तन्मध्ये स्थापयेच्छंकुं चतुर्दिक्षु समं तथा | पूर्वापराह्नयोः छायादिति तन्मण्डलान्तगौ || ६४ || छायाग्रमध्ये संलक्ष्य तथैव तु पराह्नके | तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते || ६५ || तयो मध्यन्तरं भ्राम्यश्च पराननं पृश्चिवत् | दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् || ६६ || ये मर्त्या मध्यमार्धी तु अवच्छायांगुलं व्रजेत् | मण्डलं कुब्जतालेन कन्यसं तु विभाजिते || ६७ || भानुर्वानेष्टविंशांशं सप्तं विंशांशयोत्तरे | गतेत्वार्जवमित्युक्तं कन्यायाश्च तथैव हि || ६८ || मीनेऽष्टविंशदंशादिभाग मध्यस्थ मात्रकम् | वर्धयेन्मिथुने सप्तविंशदंशावसानकम् || ६९ || प्. ८) ततोर्धमात्रं क्षीणं स्यात् भागं प्रति विशेषतः | कन्यायां चाष्टविंशांशात् अर्धमात्र विवर्धनात् || ७० || चापेऽष्टविंशदंशान्तं तथा ह्रस्वं तथैव हि | छायावृद्धिक्षयं ह्येवं कीर्तिता शंकुमध्यमात् || ७१ || छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् | पूर्वापराह्वयोर्मध्ये छायामानं च वर्जयेत् || ७२ || प्रागादि परितस्सूत्रं इष्टमानेन विन्यसेत् | पुण्याहं वाचयेपश्चात्खात्वा प्रासादमानकः || ७३ || यावत्प्रासादविस्तारं एकाशीतिपदं गुरुः | तत्पदे वास्तु देवांश्च पूजयित्वा तु नामतः || ७४ || दध्याज्यगुलसंमिश्रं ओदनं च बलिं ददेत् | प्रणवादीन्नाममध्ये स्वाहान्तं बलिमाचरेत् || ७५ || वास्तुहोमं ततः कृत्वा मध्ये वा चोत्तरेऽपि वा | वास्तुहोमं विनायत्र कृतं वास्तु विनश्यति || ७६ || पर्यग्निकरणं कृत्वा प्रोक्षयेत्पंचगव्यकैः | स्थपतिः कृत्ययोग्यः स्यात् स्थापको मन्त्रयोग्यकः || ७७ || कर्षणं ह्येवमाख्यातं शृणु प्रासादवास्तुकम् | इत्यंशुमत्काश्यपे कर्षणविधिपटलः (प्रथमः) || १ || अथ वक्ष्ये विशेषेण प्रासादे वास्तुलक्षणम् | प्रासादस्य विशाले तु नवभाग विभाजिते || १ || प्रागग्रं दशसूत्रं स्यात् उदगग्रं तथैव च | एवं नवनवांशे तु ब्रह्मा मध्ये नवांशभुक् || २ || मरीचिः पूर्वभागे तु विवस्वान्दक्षिणे तथा | मित्रः पश्चिमभागे तु उत्तरे पृथिवीधरः || ३ || ब्रह्माणं च निरीक्ष्यैव स्थित्वा षट्पदभागिनः | आपश्चैवापवत्सश्च त्वैशान्यां दिशि संस्थितौ || ४ || सवित्रश्चैव सावित्रो ह्याग्नेययां दिशि संस्थितौ | इन्द्र इन्द्रजयश्चैव नैर्-ऋत्यां दिशि संस्थितौ || ५ || रुद्रो रुद्रजयश्चैव वायव्यां दिशि संस्थितौ | एते द्विपदभोक्तार अर्धमर्धद्वयं तथा || ६ || ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः | आदित्यस्सत्यकश्चैव भ्रंशश्चैवान्तरिक्षकः || ७ || अग्निः पूषा च वितथो राक्षसश्च यमस्तथा | गन्धर्वो भृंगराजश्च मृगश्चैव तु दक्षिणे || ८ || निर्-ऋती चैव दौवारी सुग्रीवः पुष्पदन्तकः | वरुणः शोषरोगौ च पापयक्ष्मा च पश्चिमे || ९ || वायुर्नागस्तथा मुख्यो भल्लाटस्सोम एव च | ऋगादितिद्युतिश्चैव बाह्ये त्वेकांशभागिनः || १० || प्. १०) चरकी च विदारी च पूतना पापराक्षसी | ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः || ११ || पूर्वादिषु चतुर्दिक्षु स्कन्दो वैचार्यमा तथा | विजृम्भो बलिपिंछश्च पूर्ववत्पदवर्जिताः || १२ || एते चैकोन पंचाशद् देवताः परिकीर्तिताः | विंशत्सूत्रैस्तु ते सर्वे बध्वा वै वास्तुमूर्तिनाम् || १३ || अधोमुखान्शयित्वा तु उद्धृताः पीठधस्थिताः | वास्तुमूर्तिः कथं देव ! बध्वा तं शाययेत्कथम् || १४ || देवासुरमहायुद्धं वर्तते तु यदा तदा | असुराणां हितार्थाय शुक्रः प्रत्यादिहत्तपः || १५ || ततस्तपसिसंभूतो भूताकारं महाबलम् | अप्रबुद्धिस्तु तं भूतं देवैर्युद्धं प्रवर्तते || १६ || सर्वदेवायुधैर्देवोवाधं चैव न शक्यते | सर्वदेवाश्च तं भूतं शयनं तु ह्यधोमुखम् || १७ || विंशत्सूत्रैश्च तं भूतं बध्वा संपीड्य संस्थितः | समाप वास्तु पुरुषो वास्तुमूर्तिं तमुच्यते || १८ || तन्मूर्त्याधोमुखं ह्येवं सर्वेषां दुःखमावहेत् | यत्र यद्वास्तु विन्यासं तत्सर्वं वास्तुमूर्तिमान् || १९ || तदुद्धृतनिवृत्त्यर्थं सर्वदुःखनिवारणम् | सर्व ऋद्धिकरार्थं तु वास्तुहोमबलिं कुरु || २० || प्. ११) ब्रह्मादिदेवतानां तु तृप्ति होमबलिं द्विजः | तासां तृप्तिं कृते वास्तु पुरुषाच्च न बाध्यते || २१ || तस्मात्सर्वप्रयत्नेन ब्रह्मादीनां बलिं ददेत् | वास्तुहोमश्च कर्तव्यो ब्रह्मादीनां स्वनामतः || २२ || ईशाने तु शिरो न्येव पादौ निर्-ऋतिगोचरौ | आग्नेययां वायुदिग्भागे कोर्परौ जानुशायिनौ || २३ || मूर्तिगेहस्थिता देवा स्वीशानो शिरसन्धितः | नेत्रस्थाने च पर्जन्यो जयन्तश्च त्रिकं भृगः || २४ || आपः कृकादिकोर्ध्वे तु आपवत्सस्तथैव च | नाभिसूत्रे परब्रह्म बीजेत्विन्द्रस्तथैव च || २५ || लिंगे त्विन्द्रजयश्चैव पादयोर्निर्-ऋतिस्तथा | समरी पृथिवी चैव स्तनसूत्रपदे स्थितौ || २६ || विवस्वतः कुक्षिपार्श्वे * * * विवरे स्थितौ | ऊर्ध्वहस्ततले चैव सवितारं प्रकल्पयेत् || २७ || ऊरुप्रकोष्ठमध्ये च सावित्रं तु निधापयेत् | रुद्रोरुद्रजयश्चैव वामपार्श्वे तु पूर्ववत् || २८ || महेन्द्राद्यन्तरिक्षान्ताः सर्वावयसंस्थिताः | तज्जानुकोर्परे विप्र त्वग्निमूर्तिं निधापयेत् || २९ | नामादि ऋगपर्यन्तं जंघाया दक्षिणे न्यसेत् | दौवारिपापयक्ष्मान्ताः जंघाया दक्षिणेन्तरे || ३० || प्. १२) वामकूर्पर जानूर्ध्वे वायुमूर्तिं निधापयेत् | नागादि ऋगपर्यन्ता वामबाह्वौ च संस्थिताः || ३१ || चरक्याद्याश्चतुष्कोणे कर्णसूत्राग्रके स्थिताः | एते स्वधोमुखा वास्तुमूर्तिदेव द्विजोत्तम || ३२ || प्रागिवैव बलिं दद्यात् वास्तु संकल्पयेद्द्विजः | प्रासादवास्तु चैवं हि वास्तु होमं ततः परम् || ३३ || इत्यंशुमान्काश्यपे प्रासादवास्तु लक्षण पटलः (द्वितीयः) || २ || अथ वक्ष्ये विशेषेण वास्तु होमविधिं परम् | हर्म्ये त्वाद्येष्टकाकाले लिंगसंस्थापने तथा || १ || सकलस्थापने चैव संप्रोक्षणे तथैव च | बाललिंगप्रतिष्ठायां मण्टपे नृत्तरंगके || २ || सभायां यागशालायां वास्तुहोमं समाचरेत् | आचार्यलक्षणोपेतः स्वाचार्यो होममाचरेत् || ३ || समरीय पदे चैशे सौम्ये वा ब्राह्मिके पदे | स्थण्डिलं सिकतैः कुर्यात् हस्तमात्रसुविस्तरम् || ४ || उत्सेधं द्व्यंगुलं खातं चतुरश्र समं कुरु | कलशं विन्यसेदैन्द्रे शालिमध्ये द्विजोत्तमः || ५ || प्. १३) गन्धतोयेन संपूर्य हेमं तत्रैव निक्षिपेत् | पलाशपत्रदूर्वां च तज्जले च निधापयेत् || ६ || गन्धपुष्पादिना पूज्य तज्जले वारिदेवताम् | अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् || ७ || पूर्वादि वास्तुदेवांस्तु अग्निमध्ये समावहेत् | गन्धैः पुष्पैश्च धूपैश्च पूजयेत्स्वस्वनामतः || ८ || प्रणवादीनि मध्ये तु स्वाहान्ते नैव होमयेत् | ब्रह्मवृक्षसमिद्भिस्तु प्रत्येकं होममाचरेत् || ९ || शतमर्धं तदर्धं तु होमयेद्गोघृतेन तु | पायसेनैव चरुणा प्रत्येकं तु शताहुतिः || १० || जयादिरभ्यतां नं च राष्ट्रभृच्चैव होमयेत् | इन्द्राहुतिं च कूष्माण्डं प्रायश्चित्ताहुतिं चरेत् || ११ || हव्यवाहेति मंत्रेण स्विष्टमग्नेति मंत्रतः | यदस्येति च मंत्रेण होमयेत्तु घृतेन तु || १२ || परिषेचं ततः कृत्वा प्रासावीरिति मंत्रतः | परिस्तरांश्च परिधीन् आज्येनोक्तान्हुनेत् क्रमात् || १३ || ब्रह्मणे तु वरं दद्यात् अग्नौ वा सूर्यमण्डले | प्रणीततोयैः संप्रोक्ष्य चात्मानं पवमानकैः || १४ || एवं समाप्य होमं तु प्रणिपत्य क्षमापयेत् | दर्भैः पलाश पत्रैश्च शोषितैर्बन्धयेद्बुधः || १५ || प्. १४) तदग्नौ दीपयित्वा तु प्रासादं मण्टपं तथा | प्राकारं गोपुरस्थानं पर्यग्निकरणं कुरु || १६ || बाह्ये तदग्निमुद्वास्य स्थापितैस्तु जलैर्बुधः | सर्वत्र प्रोक्षयेद्विद्वान् शुची वो हव्यमंत्रतः || १७ || वास्तु देव * * थां तु पर्यग्निकरणं कुरु | वास्तुहोमं समाख्यातं स्वाद्येष्टकविधिं शृणु || १८ || इत्यंशुमान्काश्यपे वास्तुहोमविधि पटलः (तृतीयः) || ३ || अथ वक्ष्ये विशेषेण शृणुष्व प्रथमेष्टकाम् | प्रासादे मण्टपे साले गोपुरे च तथैव च || १ || सदने परिवाराणां विन्यसेत् प्रथमेष्टकाम् | स्निग्धं चैवा तथाऽस्निग्धं द्विविधं भूमिलक्षणम् || २ || चिक्कणा शर्कराढ्या च त्वशक्यं खननक्रियाः | या सा स्निग्धा मही ख्याता तनुवालुकसंयुता || ३ || पुरुषांजलि मात्रे तु दृष्टतोयसमन्विता | अक्लेशात्खननीयं तत् सुस्निग्धा स मही स्मृता || ४ || प्रासादस्य तु विस्तारात् द्विहस्ताधिक विस्तृतम् | हस्तमात्रं खनेद्विप्रा सुस्निग्धं तु महीतलम् || ५ || प्. १५) यावताजलदृष्टं तु तावता स्निग्धकं खनेत् | अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् || ६ || पूरयित्वा स्थलं पश्चात् जलेन समतां कुरु | मुसलैर्हस्तपादैश्च स्निग्धं कृत्वा बृहच्छिलैः || ७ || एवमाधारमानं तु त्वधिकामवटं कुरु | मानसूत्राणि सूत्राणि पातयेत्तत्र देशिकः || ८ || प्रथमं मानसूत्रं तु विन्यासं तु द्वितीयकम् | तृतीयाधिष्ठसीमा च चतुर्थोपपीठसीमका || ९ || पंचमं होमसूत्रं तु षष्ठं प्रकृति सूत्रकम् | एवं क्रमेण विन्यस्य सूत्रषट्कं द्विजोत्तम || १० || तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः | षोडशस्तम्भ संयुक्तं वितानध्वजभूषितम् || ११ || तोरणैर्दर्भमाल्यैश्च मुक्तादामैरलं कृतम् | मण्टपस्य त्रिभागैकं वेदिकायास्तु विस्तरम् || १२ || हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् | परितस्त्वग्निकुण्डानि महाशासु प्रकल्पयेत् || १३ || वेदाश्रं च धनुर्वृत्तं अब्जमिन्द्रादिषु क्रमात् | हस्तमात्रप्रविस्तारं घातं चैव त्रिमेखलाम् || १४ || गोमयालेपनं कृत्वा प्रोक्षयेत्पंचगव्यकैः | पिष्टचूर्णैरलंकृत्य ततो वै विप्रभोजनम् || १५ || प्. १६) कृत्वोच्छिष्टं समुद्वास्य वास्तुहोमं ततः परम् | पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु कुशांभसा || १६ || स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः | तदर्धैस्तंडुलैश्चैव तदर्धैश्च तिलैरपि || १७ || स्थंडिलं कल्पयेद्विद्वान् दर्भैः पुष्पैः परिस्तरेत् | शिलाहर्म्ये शिलाभिस्तु दारुभिर्दारुहर्म्यके || १८ || आद्येष्टका तु कर्तव्या विपरीतं तु नाचरेत् | पुंलिंगाभिश्शिलाभिस्तु कारयेत्प्रथमेष्टकाम् || १९ || द्वारबन्धस्तु कर्तव्यः स्त्रीशिलाभिर्विशेषतः | नपुंसकोपलेनैव मूर्धेष्टकां द्विजोत्तम ! || २० || नुपंसकोपलेनैव भित्तिं कुर्याद्दृढीकृताम् | यथालाभशिलाभिर्वा भित्तिस्तम्भादयो(दिकं) भवेत् || २१ || वस्वंगुलं समारभ्ये द्विद्व्यंगुलविवर्धनात् | अष्टत्रिंशांगुला यावत् आयामं तु कला भवेत् || २२ || आयामार्धं विशालं स्यात् विशालार्धं घनं भवेत् | मानांगुलेन कर्तव्यं अन्यमानं न कारयेत् || २३ || नवांगुलं समारभ्य द्विद्व्यंगुल विवर्धनात् | एकोन चत्वारिंशान्तं भेदभोजांगुलेन तु || २४ || विस्तारं च घनं पश्चात् तत्संख्या चैव षोडश | एकादि षोडशान्तानां भूमीनां क्रमशोच्यते || २५ || प्. १७) मूर्धेष्टकासुपुंसादिरेखाभिस्तु परीक्षयेत् | अयुग्मं ऋजुरेखा च पुंलिंगाय प्रकीर्तिता || २६ || युग्मरेखा स चक्रा च स्त्रीलिंगाय प्रकीर्तिता | युग्मरेखा सयुग्मं वा कर्णिका सा नपुंसका || २७ || रेखाबिन्दुकलंकादि लूतपातसमन्वितम् | वर्जितानि प्रयत्नेन दोषहीनं तु संग्रहेत् || २८ || ईषदुन्नतमूलस्य नतमग्रमुदाहृतम् | ऊर्ध्वभागमुखं ख्यातं अपरं भूपतांशकम् || २९ || अश्मानं भूगतं चाग्रं ऊर्ध्वं चापरमुच्यते | प्रागुदक्स्थकमैशान्यं शीर्षं वै परिकीर्तितम् || ३० || मूलं तदितरज्ज्ञातं प्रमाणं त्विष्टकासमम् | गव्यैर्गन्धोदकैः स्नाप्य पूर्वरात्राधिवासयेत् || ३१ || शिवद्विजकुलोत्पन्नः शिवदीक्षासमन्वितः | सर्वलक्षणसंपन्नो वेदाचाररतः शुचिः || ३२ || आपोवहनकं स्नानं भस्मस्नानं च कारयेत् | नवाम्बरधरोष्णीषाः सोत्तरीयानुलेपनः || ३३ || गन्धमाल्यैरलंकृत्य सकलीकृतविग्रहः | पंचांगभूषणैर्भूष्य क्षालयेत्प्रथमेष्टकाः || ३४ || हैमैः कार्पाससूत्रैर्वा बध्वा प्रतिसरं हृदा | स्थंडिले कर्णिकाबाह्ये महाशासु निधापयेत् || ३५ || प्. १८) लकारं प्राग्दिशो भागे वकारं याम्य गोचरे | रकारं वारुणे देशे यकारं सौम्यगोचरे || ३६ || शालिपिष्टेन संलिख्य प्रत्येकं वस्त्रवेष्टितम् | पूर्वाग्रं सौम्य याम्ये तु शेषौ द्वौ चोत्तराग्रकौ || ३७ || स्थापयेत्तु समभ्यर्च्य पृथिव्याद्यात्मकं क्रमात् | नवसंख्यानवान्कुंभान् ससूत्रान्वस्त्रवेष्टितान् || ३८ || ससूत्रान्सापिधानांश्च नानागन्धाम्बुपूरितान् | हेमपंकजसंयुक्तान् मध्यादिक्रमशो न्यसेत् || ३९ || कुंभमध्ये तु सादाख्यं परितो लोकपालकान् | तत्तन्मन्त्रं न्यसेत्कुम्भे ध्यात्वा गन्धादिभिर्यजेत् || ४० || नैवेद्यं दापयेद्धीमान् ततो होमं समाचरेत् | अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् || ४१ || पलाशौ दुम्बराश्वत्थ वटमिन्द्रादिषु क्रमात् | समिधस्सद्यमंत्रेण मूलेनाज्यं तु होमयेत् || ४२ || चरुहोममघोरेण नेत्रेणैव तिलं तथा | सर्षपं कवचेनैव प्रत्येकाष्टशताहुतिः || ४३ || द्रव्यं प्रति विशेषेण व्याहृत्याहुतिमाचरेत् | एवं जागरणं रात्रौ प्रभाते देशिकोत्तमः || ४४ || आपोवगाहनादीनि प्रागिवैव समाचरेत् | इष्टकाः कलशाग्निं च पूजयेत्तु विशेषतः || ४५ || प्. १९) जयादिरभ्यातानं च राष्ट्रभृच्चैव होमयेत् | स्विष्टमग्नेति मंत्रेण पूर्णाहुतिमथाचरेत् || ४६ || स्थापकः स्थपतिं पूज्य वस्त्रहेमांगुलीयकैः | मुहूर्ते समनुप्राप्ते द्वारं नीत्वाऽथ देशिकः || ४७ || द्वारस्य दक्षिणे चांघ्रिमूले भित्त्यन्तरालके | इष्टकां वा शिलां वा तु स्थापयेद्देशिकोत्तमः || ४८ || प्रासादमण्टपानां च निर्गमस्य प्रदक्षिणे | सालानां गोपुराणां च प्रवेशस्य प्रदक्षिणे || ४९ || अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत् | अग्रमग्रं तथैशान्यां मूलमूलं च नैर्-ऋते || ५० || अग्रमूलसमायुक्तं अग्नौ वा वायुगोचरे | पंचब्रह्म समुच्चार्य पूर्वादिक्रमशो न्यसेत् || ५१ || तन्मध्ये विन्यसेद्रत्नान् हेमपंकजसंयुतम् | पंचमृद्भिः समालिप्य कुंभस्थाद्भिः प्रपूरयेत् || ५२ || शोभनं दक्षिणावर्तं वामावर्तमशोभनम् | वामावर्ते भवेत्सम्यक् शान्तिहोमं समाचरेत् || ५३ || यागोपकरणं सर्वं आचार्याय प्रदापयेत् || ५३-१/२|| इत्यंशुमान्काश्यपे प्रथमेष्टका पटलः (चतुर्थः) || ४ || अथ वक्ष्ये विशेषेण उपपीठविधिं परम् | स्वाधिष्ठानसमोच्चं वा त्रिपादं वार्धमेव वा || १ || पंचभागाग्निभागं वा सपादं सार्धमेव वा | पादोनद्विगुणं वाथ द्विगुणं वा विशेषतः || २ || एवमष्टविधं ख्यातं उपपीठोदयं द्विज | दशधाभज्यमधिष्ठानं एकद्वित्रिचतुष्टयम् || ३ || पंचांशं वाथ निष्क्रान्तं अधिष्ठानस्य पादुका | उपपीठस्य नीर्वं तु पंचधा परिकीर्तितम् || ४ || तन्नीव्रमुपपीठे तु पादवाह्यं परिकल्पयेत् | अथवाग्रपादसदृशं द्विगुणद्विगुणं तथा || ५ || जगतेनीर्व तुल्यं वा उपानसदृशं तु वा | एवं हि पंच भेदं स्यात् उपपीठस्य निर्गमम् || ६ || सभादीनामुपपीठस्य निष्क्रान्तं दण्डमुच्यते | सभादीनां तु तद्बाह्ये निष्क्रान्तं दण्डमुच्यते || ७ || अथैकदण्डमारभ्य नवदण्डावसानकम् | उपानं नवधा तीव्रं अधमादित्रयं त्रयम् || ८ || तदुच्चे द्वादशांशे तु उपानोच्चं द्विभागया | पद्ममंशेन कर्तव्यं अर्धांशं कम्पमुच्यते || ९ || भूतांशकण्ठतुंगं तु कम्पमब्जं तु पूर्ववत् | सार्धांशं वाजिनं कुर्यात् कम्पमर्धेन कारयेत् || १० || प्. २१) अष्टांगमेवमाख्यातं षडंगं तद्विनाम्बुजम् | कंपेनाम्बुजमानं तु योज्यं भद्रोपपीठकम् || ११ || ऊर्ध्वकंपं विना वापि पंचांगमुपपीठकम् | उपपीठस्य चोत्सेधं सप्तविंशतिभाजिते || १२ || द्विभागं पादुकोत्सेधं पंकजं तत्समं भवेत् | कम्पमेकांशमित्युक्तं द्वादशांशं गलोदयम् || १३ || उत्तरं चैकभागेन तत्समं चोर्ध्वमम्बुजम् | अग्निभागं कपोतोच्चं मंशमालिं मिष्यते || १४ || त्र्यश्रमेकेनमन्तरितं कुर्यात्प्रतिद्विभागया | वाजनं चैकभागेन नाम्ना तत्प्रतिभद्रकम् || १५ || द्विभागं पादुकोत्सेधं द्विभागं पंकजोदयम् | कम्पमेकेन कर्तव्यं एकान्तरितं भवेत् || १६ || द्विभागं प्रतितुंगं तु त्वेकेनैव तु वाजिनम् | अष्टांशं गलमानं तु कम्पमेकेन कारयेत् || १७ || अब्जमेकेन कर्तव्यं कपोतोच्चं गुणांशकम् | एकेन लिंगमानं तु मन्तर्यंशेन कल्पयेत् || १८ || प्रतितुंगं द्विभागेन वाजनं चैकभागया | सप्तविंशतिभागे तु नाम्ना तत्प्रतिसुन्दरम् || १९ || उपपीठस्य चोत्सेधं एकविंशतिभाजिते | उपानं तु द्विभागेन तत्समं त्वम्बुजोदयम् || २० || प्. २२) कम्पमर्धेन कर्तव्यं पद्ममर्धेन कारयेत् | महापट्टी द्विभागेन पद्ममर्धेन कारयेत् || २ || कम्पमर्धेन कर्तव्यं कर्णोच्चं वसुभागया | भागेन कम्पमर्धेन पद्मकम्पे कपोतकम् || २२ || त्रिभिस्तत्कम्पमर्धेन नाम्ना सौभद्रमुच्यते | उपानद्विभागमर्धांशैः अम्बुजांशेन कन्धरम् || २३ || द्विभागेनाब्जं कर्तव्यं पट्टिका तत्समं भवेत् | पद्मकं सार्धभागेन कम्पमर्धेन कारयेत् || २४ || सप्तभागं गलोत्सेधं कम्पमर्धेन कारयेत् | अम्बुजं सार्धभागेन महापट्टी द्विभागया || २५ || अब्जमर्धार्धभागेन कम्पमर्धेन कारयेत् | पंचपंचोपपीठोच्च समभागद्विभाजिते || २६ || कल्याण कारिका नाम्ना सर्वधामसु पूजितम् | एवं षडंगमाख्यातं उपपीठं द्विजोत्तम ! || २७ || अंगनिष्क्रान्तवेशं च अधिष्ठानविधानवत् | भूतैव्यालेभसिंहैश्च मकरैः पत्रजातिभिः || २८ || उपपीठगले विप्र ! भूषयेत्सर्वलक्षणम् | प्रत्यग्रमकरस्याभा वालारूढसमस्तकम् || २९ || अवले बलवर्धं च अधिष्ठानोत्तमाचरेत् | प्. २३) उपपीठं समाख्यातं अधिष्ठानविधिं शृणु || ३० || इत्यंशुमान्काश्यपे उपपीठविधान पटलः (पंचमः) || ५ || अथ वक्ष्ये त्वधिष्ठान विधानं शृणु सुव्रत ! | धरातलमधिष्ठानं आधारं धरणी तया || १ || भुवनं पृथिवी भूमिः पर्याय वचनादिभिः | हर्म्यतारं तु कूटादि नीव्राधिष्ठाननीव्रकम् || २ || तस्मात्तदुपपीठं स्यात् नीव्रं होमा विनिर्गमम् | तस्मात्प्रकृति नीव्रं च सूत्र पातं तु कारयेत् || ३ || यत्रैवाद्येष्टकान्यासं तत्रैवं मानलक्षयेत् | तस्मात्तु घनभित्त्येवं प्रकृत्यन्तं प्रकल्पयेत् || ४ || स्वभाव प्रकृतेरूर्ध्वे प्रकृत्युच्चैकहस्तकम् | द्विहस्तं वा प्रकृत्युच्चं त्रिहस्तं वा घनाकृतिः || ५ || षडंगुल्यसमुत्सेधं षट्षडंगुलवर्धनात् | उत्तमं मध्यमं चैव अधमं च तथापि वा || ६ || प्रकृत्यन्तं स्थलं ख्यातं अन्तर्मण्डलकस्य तु | एवं कृत्वा प्रकृत्यूर्ध्वे होमं संकल्प्य देशिकः || ७ || प्. २४) भित्तिपादस्य विष्कंभं द्विगुणं त्रिगुणं तु वा | होमनीव्रमिति ख्यातं तदर्धं बहुलान्वितम् || ८ || तद्धोमाप्रकृतीनीव्रैः द्वित्रिदण्डमथापि वा | कुड्यपादाद् बहिर्नीव्र दुपपीठगलं तु वा || ९ || होमनीव्रसमं प्रोक्तं द्विविधं द्विजसत्तम ! | होमतुंगार्धमानेन होमोर्ध्वाब्जं प्रकल्पयेत् || १० || अब्जस्योच्चसमं वेशं अब्जाच्चोर्ध्वोपमानकम् | तस्योपरित्वधिष्ठानं सोपपीठान्वितं तु वा || ११ || अन्यद्धोमात्प्रकृत्यूर्ध्वे उपोपानं प्रकल्पयेत् | तत्तदूर्ध्वे धरातलं वाथ सोपपीठमथापि वा || १२ || उपापानं विनाधारं होमोर्ध्वे वा प्रकल्पयेत् | प्रकृतीसमसूत्रे तु कल्पयेच्छिल्पिकोत्तमः || १३ || होमापद्मोपपानादीन् हर्म्ये निवेशयेत् | आप्तोत्सेधांशमानेन त्वधिष्ठानस्य चोच्छ्रयम् || १४ || पादोदयार्धमानं वा षट्षडष्टांशमेव वा | अग्रपादविशालं तु दण्डमित्यभिधीयते || १५ || एकदण्डं समारभ्य त्वर्धदण्ड विवर्धनात् | यावता पंचसंख्या तु अग्निदण्डावसानकम् || १६ || पाद्बाह्ये परनिष्क्रान्तं तत्त्रिभागविभाजिते | प्. २५) उपानव्यासमेकांशं शेषं जगति विस्तरम् || १७ || कुमुदं वेदमेकांशं तन्निव्रं जगतेस्समम् | कुमुदोर्ध्वे पट्टवेशं तत्समं कण्ठवेशनम् || १८ || सर्वेषामम्बुजानां तु नीव्रतुंगसमं भवेत् | ऊर्ध्वपट्टमशेषं तत् समं वा कण्ठवेशनम् || १९ || कम्पानामपि सर्वेषां चतुर्भागेन नीव्रकम् | महावाजन्निष्क्रान्तं तुंगतुल्यार्धमेव वा || २० || त्रिपादं वाथ निष्क्रान्तिं यथाबलवशान्नयेत् | जन्मादिपंचवर्गेषु तत्तदंगावसानकम् || २१ || द्वारार्धं वा स्थलार्धं वा छेदयेत्तद्धरातलम् | उपानं जगतीं चैव कुमुदं कण्ठपट्टिका || २२ || पंचवर्गेति विख्यातं पादबन्धतले बुधः | द्वारं च जलधारं च स्थलं च प्रतिबन्धकैः || २३ || प्रतिरूर्ध्वे तु कर्तव्यं अंगच्छेदं न कारयेत् | प्रत्यंगच्छेदनं चेत्तु विपदामास्पदं सदा || २४ || तस्मात्सर्वप्रयत्नेन प्रत्यंगच्छेदनं विना | अधिष्ठानं द्विधा ज्ञेयं प्रतिबन्धांघ्रिबन्धनम् || २५ || प्रत्येकानेकभेदेन प्रोच्यते द्विजसत्तम ! | सर्वेषां प्रतिबन्धानां कुमुदं वृत्तमुच्यते || २६ || प्. २६) पादबन्धतलानां तु वस्वश्रं कुमुदं भवेत् | तयोस्संकरमेकस्मिन् कर्तव्ये कर्तृनाशनम् || २७ || प्रासादं प्रतिबन्धं च तत्तद्भेदेन संकरम् | कूटकोष्ठादिकानां तु कर्तव्यं तच्छुभावहम् || २८ || तथैवांघ्रिप्रबन्धं चेत् तस्मिन्संकरमुत्तमम् | अशुभं विपरीतं चेत् वास्तु राष्ट्रनृपस्य च || २९ || तस्मात्सर्वप्रयत्नेन वर्ज्यो वर्गेण संकरम् | अधिष्ठानस्य चोत्सेधं एकोनाविंशदंशके || ३० || उपानं चैकभागेन सप्तांशं जगती भवेत् | षट्त्रिंशं कुमुदोच्चं तु आलिंलं चैकभागया || ३१ || त्रिपट्टं चैकभागेन प्रत्युत्सेधाद्विभागया | वाजनं चैकभागेन प्रतिबन्धमिदं भवेत् || ३२ || उपानरहितं शेषं पूर्ववत् तत्त्वनेकधा | अधिष्ठानस्य चोत्सेधं पंचविंशतिभाजिते || ३३ || शिवांशं पादुकोत्सेधं जगती वसुभागया | धात्वंशं कुमुदोच्चं तु व्योमांशं कंपमानकम् || ३४ || अनलांशं गलोत्सेधं शश्यंशं चोर्ध्वकम्पकम् | महापट्टी गुणांशं तु तदूर्ध्वेऽंशेन कम्पकम् || ३५ || पादबन्धमितिख्यातं उपानरहितं तथा | प्. २७) एतच्च पादबन्धं च नानाभेदेन कीर्तितम् || ३६ || त्रिस्सप्तांशे तलोत्सेधं कृत्वांशेनैव पादुकाम् | अम्बुजं सार्धभागं स्यात् कम्पमर्धांशमुच्यते || ३७ || सप्तांशं जगतेरुच्चं रसांशं कुमुदोदयम् | आलिंगमेकभागेन त्रिपट्टं चैकभागया || ३८ || द्विभागं प्रतितुंगं स्यात् भागेनैकेन वाजनम् | प्रतिक्रममिदं नाम्ना प्रतिबन्धं तु भेदितम् || ३९ || तदेव पक्षभागेन उपानं परिकल्पयेत् | आलिंगोच्चं द्विभागेन शेषं पूर्ववदेव हि || ४० || उपानोपरि पद्मं च कम्पं चैव परित्यजेत् | तदुच्चं प्रतिक्रमं ख्यातं सर्वदेवालयावहम् || ४१ || षड्विंशद्विभजेदुच्चं उपानं चैकभागया | द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् || ४२ || षडंशं जगते रुच्चं एकांशं दलमानकम् | कण्ठमेकेन कर्तव्यं कण्ठोच्चं तद्द्विभागया || ४३ || एकांशं कम्पतुंगन्तु तत्समं तु दलोदयम् | महापट्टी द्विभागेन दलमेकांशमानतः || ४४ || कम्पमेकेन कर्तव्यं अष्टाश्रं कुमुदान्वितम् | अंभोजकेसरं ख्यातं पादबन्धे तु भेदितम् || ४५ || प्. २८) एकोनविंशदंशं तु तलोत्सेधं विभाजिते | उपानमेकभागेन पद्मोच्चमनलांशकम् || ४६ || कम्पोच्चं त्वर्धभागेन जगत्युच्चं युगांशकम् | अम्बुजं चार्धभागेन गलमर्धांशमानतः || ४७ || अर्धांशं पद्म तुंगं तु गुणांशं पट्टमानकम् | पद्ममर्धांशमानेन तत्समं कम्पमुच्यते || ४८ || अध्यर्धांशं तु कंठोच्चं कम्पमर्धेन कारयेत् | पद्ममर्धेन कर्तव्यं पट्टिका सार्धभागया || ४९ || अम्बुजं चार्धभागेन कम्पमर्धेन कारयेत् | पुष्पपुष्कलमाख्यातं पादबन्धे तु भेदितम् || ५० || द्वात्रिंशद्विभजेदुच्चं उपोपानं द्विभागया | उपानं चैकभागं स्यात् सप्तांशं कमलोच्छ्रयम् || ५१ || कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् | कुमुदोच्चं चतुर्भागं एकांशं गलमुच्यते || ५२ || कम्पमेकेन कर्तव्यं गुणांशं गलमानकम् | एकेनकम्पमेकेन ऊर्ध्वे पद्मं प्रकल्पयेत् || ५३ || कपोतोच्चं युगांशेन आलिंगं चैकभागया | एकेनान्तरितं कुर्यात् प्रतितुंगं द्विभागया || ५४ || वाजनं चैकभागेन कल्पयेत्तु क्रमेण तु | प्रतिबन्धे तु भेदं स्यात् श्रीबन्धान्तरिताद्धृतम् || ५५ || प्. २९) अधिष्ठानस्य चोत्सेधं अष्टाविंशति भाजिते | उपानं चैकभागेन जगत्युच्चं रसांशकम् || ५६ || कुमुदं पंचभागेन कम्पमेकेन कारयेत् | गलांशं गुणमानं तु कम्पमेकेन कारयेत् || ५७ || पद्ममेकेन कर्तव्यं कपोतोच्चं गुणांशकम् | आलिंगमेकभागेन अन्तरीतं तु कल्पयेत् || ५८ || प्रतितुंगं द्विभागेन शिवांशं वाजनं तथा | प्रतिबन्धस्य वर्गस्य मंचबन्धमुदाहृतम् || ५९ || तदेवालिंगिकामूर्ध्वं ऊर्ध्वं द्वाविंशदंशकैः | कल्यं श्रीकान्तकं नाम्ना पादबन्धे तु भेदितः || ६० || तुंगे षट्विंशदंशे तु एकांशं पादुकं भवेत् | द्विभागं गलमानं तु कम्पोच्चं शशिभागया || ६१ || षडंशं तु जगत्युच्चं चतुर्भागं घटोदयम् | कम्पमेकेन कर्तव्यं कण्ठोच्चं तु द्विभागया || ६२ || ऊर्ध्वकम्पमथैकांशं अगमानं द्विभागया | वाजनं * * * * * द्विभागं कण्ठमुच्यते || ६३ || वाजनं चैकभागेन सार्धांशं कमलोदयम् | कम्पमर्धेन कर्तव्यं श्रोणीबन्धमिदं परम् || ६४ || पादबन्धे तु भेदं स्यात् संहव्यालैर्विभूषितम् | त्रिष्षडंगं तलोत्सेधं कृत्वा सार्धांश पादुकम् || ६५ || प्. ३०) कम्पमर्धांशमित्युक्तं भूतांशं पंकजोदयम् | गलमेकेन कर्तव्यं पद्ममेकेन कारयेत् || ६६ || कुमुदोच्चं त्रिभिर्भागैः दलमेकांशमानतः | आलिंगमेकभागेन त्वन्तरीतत्समं भवेत् || ६७ || प्रतेरुच्चं द्विभागेन वाजनं चैकभागया | अब्जबन्धमिदं नाम्ना भेदं तत्प्रतिबन्धके || ६८ || तलं द्वाविंशदंशे तु द्विभागं पादुकोन्नतम् | अब्जमेकेन कम्पं तु त्वेकांशेन प्रकल्पयेत् || ६९ || जगती भाग तु कुमुदं चतुरंशकैः | पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् || ७० || कण्ठतुंगं द्विभागेन कम्पमेकेन कारयेत् | शिवांशं दलमानं तु महापट्टीद्विभागया || ७१ || कम्पमेकेन कर्तव्यं वप्रबन्धमिदं स्मृतम् | पादबन्धस्य वर्गस्य सर्वधामसु पूजितम् || ७२ || तन्महापट्टिकामाने कपोतं कपोतबन्धकम् | कपोतोपरिकम्पोर्ध्वे त्रिपट्टं चैकभागया || ७३ || प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया | तुंगे षड्विंशदंशे तु कल्पं तत्प्रतिसुन्दरम् || ७४ || अधिष्ठानस्य चोत्सेधं त्रयोविंशति भाजिते | उपानमेकभागेन पद्ममेकेन कम्पकम् || ७५ || प्. ३१) कण्ठं द्विभागमंशेन कम्पमेकेन पद्मकम् | द्व्यंशेन पट्टिकां विद्यात् कम्पमेकेन कल्पयेत् || ७६ || पद्ममेकेन कण्ठं तु एकांशेनैव कल्पयेत् | एकांशेनाम्बुजं कुर्यात् गुणांशं कुमुदोदयम् || ७७ || पद्ममेकेन कर्तव्यं आलिंगं चैकभागया | त्रिपट्टं शिवभागेन द्विभागं प्रतिमानकम् || ७८ || वाजनं चैकभागेन कल्पयेत्तु यथाक्रमम् | प्रतिबन्धे तु भेदं स्यात् श्रीकण्ठं तदुदाहृतम् || ७९ || उपानमेकभागेन पद्ममंशेन कम्पकम् | कण्ठं द्विभागमंशेन कम्पं द्व्यंशेन पट्टिका || ८० || कम्पमेकेन पद्मं तु एकांशेन प्रकल्पयेत् | कुमुदं तु त्रियंशेन पद्ममेकांशमानतः || ८१ || आलिंगमेकभागेनान्तरितं शशिभागया | द्विभागेन प्रतिं कुर्याद् वाजनं चैक भागया || ८२ || अधिष्ठानस्य चोत्सेधं द्वाविंशति विभाजिते | एतत्करीरबन्धं स्यात् प्रतिबन्धे तु भेदितम् || ८३ || पादुकं चैकभागेन द्विभागेनाब्ज तुंगकम् | कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया || ८४ || कम्पमेकं द्विभागेन पट्टिकांशेन कम्पकम् | द्विभागं गलमानं तु गलमेकांशमानतः || ८५ || प्. ३२) अम्बुजं चैकभागेन कुम्भमानं गुणांशकम् | एकांशं गलमानं तु द्व्यंशेनालिंगमुच्यते || ८६ || त्रिपट्टं चैकभागेन प्रतिमानं द्विभागया | वाजनं चैकभागेन भागं द्विगुणितांशके || ८७ || एतच्च प्रतिबन्धं स्यात् भेदं कलशबन्धनम् | अधिष्ठानस्य चोत्सेधं चतुर्विंशति भाजिते || ८८ || पादुकांशं तु भागेन तत्समं पंकजोदयम् | खुरमेकेन कर्तव्यं जगत्युच्चं रसांशकम् || ८९ || पद्ममेकेन भागेन कण्ठं पद्मं तु भागया | वेदांशं * * * त्सेधं कलशं चैकभागया || ९० || आलिंगमेकभागेन भागेनान्तरितं भवेत् | द्विभागं प्रतितुंगं तु वाजनं चैकभागया || ९१ || प्रतिबन्धं तु भेदं स्यात् श्रीकरं नामचोच्यते | भानुद्व्यंशे तलोच्चं तु द्विभागं पादुकं भवेत् || ९२ || उपोपानं शिवांशं स्यात् षडंशं गलमानकम् | कण्ठमंशेन कर्तव्यं अंशेनाब्जं प्रकल्पयेत् || ९३ || गुणांशं घटमानं तु गलमेकेन वृत्तकम् | कम्पमेकेन कण्ठं तु गुणांशमेकेन कम्पकम् || ९४ || व्योमांशं कम्पमंशं तु द्विभागं पट्टिका भवेत् | एकांशं गलमानं तु कम्पमेकेन कारयेत् || ९५ || प्. ३३) सुन्दराम्बुज नाम्ना तु पादबन्धे तु भेदितम् | चतुस्सप्तद्विभागं तु तत्तन्मानं विभाजिते || ९६ || द्विभागं पादुकं ख्यातं दलमानं युगांशकम् | गलमेकेन कर्तव्यं अम्बुजं तु द्विभागया || ९७ || द्विभागं पट्टिकामानं अंशं पादुकमुच्यते | जगती चतुरंशं तु पद्ममंशे द्विजोत्तम ! || ९८ || कण्ठमंशेन पद्मं तु शश्यंशं प्रविधीयते | गुणांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् || ९९ || कम्पमंशेन कर्तव्यं त्रिपट्टं चैकभागया | द्व्यंशेन प्रतिमानं तु वाजनं च शिवांशकम् || १०० || एवं नलिनकान्तं स्यात् सर्वदेवप्रियावहम् | त्रयोविंशति भागं तु तलोच्चं तु विभाजिते || १०१ || सार्धांशं पादुकोत्सेधं उपोपानं शिवांशकम् | अधः पद्मं द्विभागं स्यात् एकांशं कण्ठमुच्यते || १०२ || तदूर्ध्वे पद्ममेकांशं कुमुदोच्चं गुणांशकम् | तदूर्ध्वे पद्ममेकांशं एकांशं कम्पमानकम् || १०३ || कण्ठं द्व्यंशेन कर्तव्यं एकांशं चोर्ध्वपट्टिका | एकांशं पद्मतुंगं तु सार्धांशं वाजनोदयम् || १०४ || एकांशं पद्मतुंगं तु आलिंगं चैकभागया | त्रिपट्टं तु तथांशेन प्रतिमानं द्विभागया || १०५ || प्. ३४) एकेन वाजनं कुर्यात् श्रीसौन्दर्यं समुच्यते | प्रतिबन्धस्य भेदं स्यात् एतच्चं पुरतस्तथा || १०६ || चतुर्विंशति भागं तु तलोच्चं तु विभाजिते | उपानं चैकभागेन द्विभागेन तु दलोदयम् || १०७ || तदूर्ध्वे कंपमेकांशं जगत्युच्चं शरांशकम् | वेदांशं कुमुदोच्चं तु पद्ममंशेन कल्पयेत् || १०८ || कण्ठमेकांशमित्युक्तं ऊर्ध्वपद्मं शिवांशकम् | वाजनोच्चं द्विभागेन एकांशं पद्मभागकम् || १०९ || आलिंगमेकभागेन त्रिपट्टं तत्समं भवेत् | प्रतिमानं द्विभागं स्यात् वाजनं चैकभागया || ११० || स्कन्दकान्तमिदं नाम्ना प्रतिबन्धस्य भेदिते | धरातलोच्चं विभजेत् त्रयोविंशति भागया || १११ || उपानोदयमेकांशं षडंशमम्बुजोदयम् | एकांशं कण्ठमानं तु ऊर्ध्वं पद्मं शिवांशकम् || ११२ || युमांशं कुंभकोत्सेधं एकांशं पद्ममानकम् | कम्पमेकेन कर्तव्यं द्विभागं कन्धरोदयम् || ११३ || एकांशं कंपमानं तु ऊर्ध्वपद्मं च तत्समम् | कपोतोच्चं गुणांशं तु आलिंगं चैकभागया || ११४ || एतच्चाम्बुजकान्तं स्यात् पादबन्धे तु भेदितम् | एवं त्वनेकभेदेन प्रोच्यते तु धरातलम् || ११५ || प्. ३५) तथैवोच्चैकमात्रं वा हीनाधिकं न दोषभाक् | अर्धं वार्ध त्रिपादं वा बलांगद बलान्वितम् || ११६ || त्रिपट्टस्य विशालं तु द्विविधं प्रविधीयते | मूलपादस्य माव्यास पादमूले त्रिपट्टिकम् || ११७ || पादान्तरे त्रिपट्टानां व्यासं त्रिपादमर्धकम् | पादबाह्यसमावेशं नीव्रं चैव समं भवेत् || ११८ || युग्मा व युग संख्या वा पादान्तरेषु कल्पयेत् | सिंहेभमकरैर्व्यालैः भूतहंसैर्विभूषितम् || ११९ || प्रत्यग्रमकरैर्व्यालैः पादाधारस्य निर्गमम् | त्रिपट्टोर्ध्वे प्रतिं हेम सर्वत्र परिकल्पयेत् || १२० || ऊर्ध्वाधस्तम्बुजोपेतं कुमुदं वृत्तमाचरेत् | अन्ये द्वे कुसुमास्सर्वे प्रतिबन्धांघ्रि बन्धयेत् || १२१ || वृत्तं च वसुकोणं च क्रमेणैव तु कल्पयेत् | इत्यंशुमान्काश्यपे अधिष्ठानलक्षण पटलः (षष्ठः) || ६ || अथ वक्ष्ये विशेषेण निर्माल्यद्वारलक्षणम् | प्रतिबन्धे प्रतेरन्ते तदन्ये पट्टिकान्तिके || १ || प्. ३६) गलान्ते कुमुदान्ते वा व प्रान्ते पादुकान्तके | नालं कुर्यादधश्चोर्ध्वे नालं तस्मिन्सुयोजयेत् || २ || भान्वंगुलं समारभ्य त्रित्र्यंगुल विवर्धनात् | चतुर्विंशांगुलं यावत् तावत्पंचविधाय तम् || ३ || भित्ति बाह्यगतं ह्येतत् तस्यार्धं गर्भगेहकम् | वेशयित्वाथ वा भित्तेः अभ्यन्तरसमं तु वा || ४ || वस्वंगुलं समारभ्य द्विद्वयंगुल विवर्धनात् | कलांगुलावसानं तु विस्तारं पंचधा क्रमात् || ५ || तन्मूलतारपंचांशं त्र्यंशं चाग्रसुविस्तरम् | तद्विस्तरसमं व्यासं त्रिपादं वार्धतद्घनम् || ६ || विस्तारस्य त्रिभागैक उच्चतारं नतं तथा | नालमध्ये तु कर्तव्यं निम्नोन्नतविवर्जितम् || ७ || मूलादग्रं नतं किंचित् मूलं सिंहस्य बन्धितम् | गजोष्ठसदृशालम्ब्य यथा सुन्दरमग्रतः || ८ || व्यालेभसिंहभूतं वा नालं धृत्वासनस्थितः | नालमेवं प्रकर्तव्यं सौम्ये प्रा * ममध्यमे || ९ || स्थापयित्वा विशेषेण अनेन विधिना बुधः | नालं गन्धोदकैर्गव्यैः स्नापयित्वाम्भसा ततः || १० || शान्तिहोमं तु कुर्वीत वारुणं सूक्तमुच्चरन् | स्नापकस्सुप्रसन्नात्मा सुमुहूर्ते सुलग्नके || ११ || प्. ३७) नालं तु स्थापयेद्धीमान् स्थपतिः स्थापकान्वितः | सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् || १२ || सुधया गुलतोयैश्च बन्धयेत्सुदृढं यथा | पुंशिलाया सुकर्तव्या नालं तु चरणाधिपम् || १३ || नालस्थापनमेवं तु स्तम्भलक्षणमुच्यते | इत्यंशुमान्काश्यपे नालस्हापनविधि पटलः (सप्तमः) || ७ || अथ वक्ष्ये विशेषेण चरणायामविस्तृतम् | आकारं भूषणं चैव संक्षेपाच्छृणु सुव्रत || १ || स्तंभं च तलिपं चैव चरणं जंघमेव च | स्थाणुः स्थूणं च पादं च पर्याय वचनस्त्विमे || २ || आप्तोत्सेधांशमानेन पादायामं विधीयते | अधिष्ठानस्य तुंगस्य द्विगुणं वांघ्रितुंगकम् || ३ || तस्माद्धरातलोच्चं तु षडष्टांशाधिकं तु वा | पादोच्चपंक्ती नन्दाष्टभागैकं वांघ्रितुंगकम् || ४ || दारुपादं तु ततं ह्येतत् कुड्यपादमथोच्यते | तदर्धं वा त्रिभागोनचतुर्भागोनमेव वा || ५ || प्. ३८) कुड्यस्तम्भविशालं स्यात् एतत्सर्वेषु धामसु | प्रतेरुत्तरसीमान्तं (अन्यराघ?) षालस्तंभमुच्यते || ६ || उपानादुत्तरान्तं यत् निखातस्तंभमुच्यते | तुंगं सप्ताष्टधा भज्य नवधर्मांशमेव वा || ७ || रुद्रभान्वंशकं कृत्वा एकांशं त्वंघ्रिविस्तरम् | तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् || ८ || एकभागविहीनं तु शेषमग्रविशालकम् | एकादिषोडशान्तानां तलं प्रत्येवमाचरेत् || ९ || मूलादग्रं युगाश्रं तु कुंभमृण्ड्यादि संयुतम् | ब्रह्मकान्तमिति ख्यातं वस्वश्रं विष्णुकान्तकम् || १० || रसाश्रमिन्द्रकान्तं स्यात् चन्द्रकान्तं कलाश्रकम् | कण्ठमानेन तन्मूले वेदाश्रं तु प्रकल्पयेत् || ११ || स्तंभाग्रं चैकमानेन चतुरश्रसमन्वितम् | तयोर्मध्यं तु वस्वश्रं षोडशाश्रमथापि वा || १२ || वृत्ताकारं तु वा विप्र ! कुंभमंड्यादि संयुतम् | रुद्रकान्तमिदं ख्यातं मूलादग्रं तु वर्तुलम् || १३ || कुंभमंड्यादिहीनं यत् तद्व्यापी रुद्रकान्तकम् | मूलादग्रं युगाश्रं तु मध्येष्टाश्रं तदुच्यते || १४ || चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा | तदूर्ध्वे वृत्तमेवं स्यात् त्रिभागं तुंगसादृशम् || १५ || प्. ३९) शिवच्छन्दमिदं ख्यातं शिवहर्म्ये प्रशंसितम् | दण्डं सार्धद्विदण्डं वा मूले पद्मासनोदयम् || १६ || द्विगुणं तस्य विस्तारं पद्माकारं तु कारयेत् | सपद्मं कर्णिकायां तु चरणस्थापनं कुरु || १७ || यथेष्टाकृतिसंयुक्तं कुंभमण्ड्यादिसंयुतम् | चक्रवाकलताद्यैस्तु भूषितं पद्मपादकम् || १८ || पद्ममानेंघ्रिमूले तु व्यालेन व्यालपादकम् | मूलेभं तत्प्रमाणेन गजपादमुदाहृतम् || १९ || मूले सिंहादिभिर्युक्तं यथेष्टाकृति संयुतम् | कुंभमंड्यादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् || २० || वृत्ताकारे तदायामे शुण्डुपादैः समन्वितम् | कुंभमंड्यादिसंयुक्तं शुण्डुपादमुदाहृतम् || २१ || मुक्तादामैरलं कृत्य पिण्डिपादमुदाहृतम् | विष्कंभ कर्णमानेन स्तंभाग्रे चतुरश्रकम् || २२ || तदर्धस्वर्धदण्डेन त्वब्जमष्टाश्रसंयुतम् | दण्डमानेन तस्याधो वस्वश्रं परिकल्पयेत् || २३ || तदधः पूर्ववत्पद्मं तस्याधो दण्डमानतः | चतुरश्र समायुक्तं तस्याधस्तात्तु पूर्ववत् || २४ || मूले तु शेषं वेदाश्रं चित्रं वाथ तदुच्यते | तन्मध्ये पट्टं वस्वश्रं श्रीकण्ठं तदुदाहृतम् || २५ || प्. ४०) मध्यपट्टकलाश्रं चेत् श्रीवक्त्रं स्तंभमुच्यते | मुलादग्रं युगाश्रं स्यात् त्रिपट्टं क्षेपणान्वितम् || २६ || क्षेपणस्तंभमाख्यातं पट्टं पत्रादिशोभितम् | स्तंभतारत्रिभागैकं चतुर्भागैकमेव वा || २७ || स्तंभमध्ये शिवां कुर्यात् ऊर्ध्वाधस्ताद्विशेषतः | स्तंभमूले तु पद्मादीन् स्तंभमानेन कल्पयेत् || २८ || स्तंभलक्षणमाख्यातं बोधिकालक्षणं शृणु | इत्यंशुमान्काश्यपे स्तंभलक्षण पटलः (अष्टमः) || ८ || अथ वक्ष्ये विशेषेण बोधिकालक्षणं परम् | मूलपादसमव्यासं श्रेष्ठमध्येन मध्यमम् || १ || अग्रपादविशालेन समं कन्यसबोधिकाः | विस्तारसदृशोत्सेधं पंचदण्डायतान्वितम् || २ || उत्तमा बोधिका ख्याता तारद्वित्र्यंशमुन्नतम् | चतुर्दण्डायतो पेता मध्यमा सा प्रकीर्तिता || ३ || विस्तारस्यार्धतुंगं तु तत्त्रिदण्डायतान्विता | कन्यसा बोधिका ख्याता त्वंघ्रीयो बोधिकान्विता || ४ || प्. ४१) बोधिकोच्चत्रिभागे तु एकांशेनोर्ध्वपट्टिका | मध्येमंशे तरंगस्या लताद्यैर्भूषितं तु वा || ५ || तदधस्त्वेकभागेन कुक्षिबन्धं तु कारयेत् | दण्डं त्रिपादमर्धं वा छायामानं च दग्रयोः || ६ || ऊर्ध्वस्थ पट्टिकाधस्तात् छायाकारं प्रकल्पयेत् | अधस्ताद्बोधिकांशेन अलंकारं वदाम्यहम् || ७ || मध्यपट्टत्रिभागैकं विस्तारार्धमथापि वा | पार्श्वयोरुभयोः शेषं तरंगस्थानमुच्यते || ८ || सक्षुद्रक्षेपणं मध्यपट्टं पत्रैरलंकृतम् | पार्श्वयोस्तु तरंगः स्यात् समाश्चान्योन्यहीनकम् || ९ || बोधिकाविस्तरार्धं वा त्रिपादं वाग्रनीव्रकम् | तन्निव्रसदृशं व्यासं संभोजकारकल्पितम् || १० || तदुत्सेधं षडंशं तु कृत्वोर्ध्वं पट्टिकांशकम् | ऊर्ध्वपद्ममथांशेन कर्णमर्धेन कारयेत् || ११ || अधः पद्मं द्विभागेन अधः पट्ट्यंशमुच्यते | अधःस्थाम्बुजमर्धांशं कल्पयेत्तु क्रमेण तु || १२ || पद्मस्य मुकुलाकारं अग्रादधे गतं कुरु | अग्रनिष्क्रामयुक्तं वा छत्राकारमथापि वा || १३ || पार्श्वयोर्मुष्टिबन्धाग्रं व्यालरूपादिकल्पितम् | भूतैश्च मकरैर्व्यालैः नाटकाद्यैर्विभूषितम् || १४ || प्. ४२) रत्नबन्धक्रिया वापि चित्रा वाग्रस्थ घट्टितम् | बोध्यग्रयोस्तरंगः स्यात् तन्मध्ये दण्डमानतः || १५ || युगाश्रं पट्टं कर्तव्यं तारोच्छ्राये ससुव्रता | नानाचित्रैरलं कृत्य बोधिका चित्रबोधिका || १६ || पत्रैर्विचित्रिता पत्रबोधिका परिकीर्तिता | महार्णवतरंगाभान् तरंगांस्तु प्रकल्पयेत् || १७ || पादमर्धं त्रिपादं वा भित्तेस्तम्भस्य निर्गतिः | चतुरश्राष्टवृत्तानां क्रमात्साधारणं तु वा || १८ || बोधिकायस्त्वधस्तात्तु वीरकाण्डं युगाश्रकम् | अग्रपादसमं तारं त्रिपादं तुंगमुच्यते || १९ || सर्वेषामपि पादानां वीरकाण्डं युगाश्रकम् | अधस्थाद्वीरकाण्डस्य फलकालक्षणं शृणु || २० || इत्यंशुमान्काश्यपे बोधिकालक्षणपटलः (नवमः) || ९ || अथ वक्ष्ये विशेषेण फलकानां तु लक्षणम् | त्रिदण्डं फलकाव्यासं कन्यसार्धाधिकं समम् || १ || चतुर्दण्डविशालं तु उत्तमा फलका भवेत् | अथवा फलकाव्यासं कुंभकर्णसमं भवेत् || २ || प्. ४३) सर्वेषां फलकानां तु तुंगं पादोन दण्डकम् | तदुत्सेधं त्रिधाभज्य ऊर्ध्वांशोत्संधिरुच्यते || ३ || तदधो वेत्रमेकांशं तस्याधस्तांशमम्बुजम् | नागवक्त्रसमाकारं आपोत्रात्पादरूपवत् || ४ || सर्वेषां फलकानां तु उत्सन्ध्याभं युगाश्रकम् | फलकेव प्रकर्तव्या तस्याधस्ताद्घटं कुरु || ५ || द्विदण्डं पादहीनं वा सार्धदण्डमथापि वा | सपाददण्डतुंगं वा घटोच्चं तु चतुर्विधम् || ६ || प्रियदर्शनसौम्यं च चन्द्रकान्तं च श्रीकरम् | यथा क्रमेण नामानि कलशानां क्रमोदितम् || ७ || घटोच्छ्रये नवांशेनघृतभागेन परिकल्पयेत् | वेदांशं कलशोत्सेधं कण्ठमेकांशमानतः || ८ || आस्योच्चमेकभागेन पद्ममेकेन कल्पयेत् | अर्धेन वृत्तमर्धेन हीनौ संकल्पयेद्बुधः || ९ || ऊर्ध्वादधोगतं कुर्यात् तदेतेन विना क्रमात् | एवमुच्चं समाख्यातं निष्कंभमधुना शृणु || १० || पादव्याससमं हीरौ तत्कर्णं चास्य विस्तृतम् | आस्यं कर्णं विशेषेण कुंभस्यैव तु विस्तृतम् || ११ || स्तम्भव्याससमं प्रोक्तं विस्तारं धृगकण्ठयोः | तस्याधोलशुनं मूलतुंगदण्डैकमानतः || १२ || प्. ४४) तदर्धस्तत्तदर्धेन मानेनाब्जं प्रकल्पयेत् | अब्जाथस्वर्धदण्डेन वक्त्रस्थानमुदाहृतम् || १३ || तस्याधोदण्डमानेन मुक्तादामैर्विभूषितम् | लशुनं चाब्जपत्रं च मुक्तादाम तथैव च || १४ || स्तंभव्याससमं व्यासं कल्पयेत्कल्पवित्तमः | अथवा बोधिकादीनां उदयं तु वदाम्यहम् || १५ || गुणांशं चरणोत्सेधं कृत्वाधोद्व्यंशकं व्रजेत् | ऊर्ध्वभागं तु संग्राह्य द्वाविंशत्यंशकं भवेत् || १६ || युगांशं बोधिकोत्सेधं वीरकाण्डं च तत्समम् | भूतांशं फलकोत्सेधं घृतमानांशकं भवेत् || १७ || घटोत्सेधं तुं वेदांशं कण्ठमानं शिवांशकम् | तदास्योदयमेकांशं पद्ममेकेन कारयेत् || १८ || वित्तमर्धेन कर्तव्यं हीरौ तत्सममुच्यते | लशुनाब्जलता मुक्तामालामानादि पूर्ववत् || १९ || स्तंभभूषणमेवं स्याद् वेदिका लक्षणं तथा | इत्यंशुमान्काश्यपे स्तम्भभूषण पटलः (दशमः) || १० || प्. ४५) अथ वक्ष्ये विशेषेण वेदिका लक्षणं परम् | अधिष्ठानोपरिष्ठात्तु स्तंभमूले तु कल्पयेत् || १ || प्रस्तरस्योपरिष्टाच्च कर्तव्या वेदिका द्विज ! | अध्यर्धदण्डमानं तु कन्यसा वेदिकामधम् || २ || द्विदण्डेन तु मध्यं स्यात् श्रेष्ठतुंगं त्रिदण्डकम् | अथवान्य प्रकारेण वेदिकोत्सेधमुच्यते || ३ || चरणोदय षट्सप्तवसुभाग विभाजिते | एकांशं वेदिकामानं क्रमाच्छ्रेष्ठान्तराधमम् || ४ || एवं हि चरणायां तु मूले तु वेदिकोदयम् | ऊर्ध्वे भूम्यंघ्रि तुंगं तु सप्तभागं विभाजिते || ५ || एकांशं कण्ठहर्म्याणां वेदिकोदयमिष्यते | त्रिचतुःपंचभागं तु गलोत्सेधं विभाजिते || ६ || गलमूले तु वेद्युच्चं अंशं श्रेष्ठान्तराधमम् | आपेतोत्सेधांशमानं वा गलमूले तु वेदिका || ७ || षडंशे वेदिकोत्सेधं गुणांशं गलमानकम् | गलोर्ध्वे कंपमेकांशं एकेनाब्जं प्रकल्पयेत् || ८ || तदूर्ध्वकंपमेकेन कर्तव्यं द्विजसत्तम ! | सप्तांष्टांशे तु वेद्युच्चे वेदभूतं क्रमाद्गलम् || ९ || कम्पपद्मं च कम्पं च प्रागिवैव प्रकल्पयेत् | कर्णमानेन तन्मूले कंपमेकेन कल्पयेत् || १० || प्. ४६) शेषं कर्णोदयं प्रोक्तं तत्कंपरहितं तु वा | अध्यर्धांशं तु वा पद्मं तुंगं द्व्यंशमथापि वा || ११ || पद्मशैवलपत्राभा चित्रांगा वेदिका मता | सर्वासां वेदिकानां तु गलमंघ्रिविभूषितम् || १२ || कुड्यस्तंभसमं व्यासं नीव्रं च वेदिकांघ्रिणा | प्रस्तरोपरिवेदीनां वेशनं शृणु सुव्रत ! || १३ || गर्भभित्तित्रिभागैकं अंघ्रिवेद्यंघ्रिवेशनम् | चतुर्भागैकवेशं वा * * * * * * * * || १४ || कुड्यस्तंभस्य बाह्यां तु वेद्यांघ्री बाह्यवेशनम् | एवं वान्यप्रकारेण वेदिका विस्तृतं शृणु || १५ || कुड्यपाद्बाह्यमानं तु उभयोः पार्श्वयोरपि | षट्सप्ताष्टनवांशं वा दशभागं तु वा भजेत् || १६ || एकांशरहितं शेषं वेदिकायास्तु विस्तरम् | युगाश्रवेदिकाकारा नागरे प्रस्तरोपरि || १७ || द्राविडे वेसरे हर्म्ये वस्वश्रं वेदिकाकृतिः | अथवा वेसरे हर्म्ये वेदिका वृत्तमेव वा || १८ || अनेकाश्रायताश्रे च गलाश्रा वेदिकाश्रकाः | वेदिकालक्षणं प्रोक्तं शृणु जालाकलक्षणम् || १९ || इत्यंशुमान्काश्यपे वेदिकालक्षणपटलः (एकादश) || ११ || अथ वक्ष्ये विशेषेण शृणुजालाकलक्षणम् | पादवर्गे गले चैव जालकस्थानमुच्यते || १ || प्रासादेषु महाशालास्वन्तराले च मध्यमे | वातायनं प्रकर्तव्यं अनेन विधिना बुधः || २ || योजयेद्वेदिकोर्ध्वे तु जालकं तु द्विजोत्तम ! | वेदिकाजालकार्धं तु छेद्यं सर्वविनाशनम् || ३ || तस्माद्यत्नेन वेदिं तु जालकार्धं न छेदयेत् | द्विदण्डं कन्यसं व्यासं त्रिदण्डं मध्यमं भवेत् || ४ || चतुर्दण्डविशालं तु उत्तमं परिकीर्तितम् | विस्तारसदृशोत्सेधाद् एकदण्ड विवर्धनात् || ५ || विस्तारद्विगुणं यावत् तावद्वैजालकोन्नतम् | एषु तुंगविशालेषु यदिष्टं तत्परिग्रहेत् || ६ || स्तम्भव्यासार्धमानं तु घनव्यासांघ्रिकंपयोः | विस्तारार्ध घनं व्यासं त्रिचतुर्थांशमेव वा || ७ || मध्ये स्तंभं च रंघ्रं च वर्ज्या जालकमाचरेत् | युग्मपादसमायुक्तं युग्मकं पेनमुच्यते || ८ || गोनेत्रं हस्तिनेत्रं च नन्द्यावर्तमृजुंक्रियाम् | पुष्पघण्डं रसकण्ठं च जालकं षड्विधं भवेत् || ९ || दीर्घाश्रं कण्ठगच्छिद्रं गोनेत्रमिति संज्ञितम् | प्. ४८) युगाश्रं कण्ठगच्छिद्रं हस्तिनेत्रमुदाहृतम् || १० || पंचसूत्रं तु यच्छिद्रं प्रदक्षिणवशात्कृतम् | नन्द्यावर्तस्य पुष्पाभं नन्द्यावर्तमुदाहृतम् || ११ || आर्जवं संभकं वौद्वौ जालकं तदृजुक्रियम् | पुष्पखण्डं च कर्णं च नन्द्यावर्तमिवाकृतिः || १२ || स्तम्भयोगं कवाटं च भित्तिमध्याद्बहिः स्थितम् | युग्मायुग्मकवाटं वा घाटनाद्घाटनक्षमम् || १३ || जालकं तु सभादीनां मध्यमानेन कल्पयेत् | लोहैद्रुमोत्पलैर्द्रव्यैः वेष्टकाभिस्तु जालकम् || १४ || त्रयोविधं तु यद्द्रव्यं तेन तत्रैव योजयेत् | जालकं ह्येवमाख्यातं ततस्तोरणलक्षणम् || १५ || इत्यंशुमान्काश्यपे जालकलक्षणपटलः (द्वादश) || १२ || अथ वक्ष्ये विशेषेण तोरणानां तु लक्षणम् | पादोदये दशांशे तु सप्तांशं चरणोदयम् || १ || शेषं च गुणभागं तु झषमानमुदाहृतम् | नवांशे पादतुंगं तु षडंशं चरणायतम् || २ || प्. ४९) शेषं झषोदयं ख्यातं अष्टांशे वांघ्रितुंगकम् | पंचांशं चरणोत्तुंगं झषोत्सेधं गुणांशकम् || ३ || तुंगार्धं विपुलं वाथ वेदभूतरसांघ्रिकैः | तोरणस्यैव पाद्बाह्ये व्यासमेवं चतुर्विधम् || ४ || प्रासादमण्टपादीनां मध्यभागे तु तोरणम् | अनेन विधिना वापि कर्तव्यं भित्तिबाह्यके || ५ || पत्राख्यतोरणं चादौ द्वितीयं मकरतोरणम् | तृतीयं चित्रसंज्ञा तु त्रिविधं तोरणाकृतिः || ६ || अर्धचन्द्रमिवाकारं पत्रजादिविराजितम् | पत्रतोरणमाख्यातं ततोमकरमुच्यते || ७ || पंचवक्त्रसमायुक्तं पार्श्वयोर्मकरास्यकम् | मध्ये पूरीससंयुक्तं नानाविधलतान्वितम् || ८ || नानालंकारसंयुक्तं युक्तं मकर तोरणम् | तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि || ९ || नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्यकम् | सिंहेभव्यालहंसाद्यैः पालास्रं मुक्तदामकैः || १० || अन्यैश्च विविधैश्चित्रैः रत्नबन्धैश्च भूषितम् | चित्रतोरणमेतत्स्यात् प्रोच्यते तोरणत्रयम् || ११ || तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः | प्. ५०) पादोच्चं पंचषट्सप्तभागेद्वौ तोरणाग्रकम् || १२ || शेषं पादोदयं ख्यातं एवं चित्रमिदं भवेत् | चतुराश्राष्टकं वापि वृत्तं वा तोरणांघ्रिकम् || १३ || कुंभमंड्यादिसंयुक्तं बोधिकारहितं तु वा | बोधिका सहितं वापि वीरकाण्डसमन्वितम् || १४ || कुड्यस्तंभविशालार्धं त्रिपादं वा समं तु वा | तोरणांघ्रिविशालं तु प्रोच्यते द्विजसत्तम ! || १५ || उत्तरं वाजनं साब्जक्षेपणं कुद्रवाजनम् | यथाक्रमेण संकल्प्य अनेन विधिना बुधः || १६ || तोरणांघ्रि विशालं वा त्रिपादं वोत्तरोदयम् | तदर्धं वाजनोच्चं तु तस्यार्धं दलमानकम् || १७ || दलोर्ध्वक्षेपणं ख्यातं तस्यार्धं क्षुद्रवाजनम् | उत्तरं बोधिकोर्ध्वे वा वीरकाण्डे तु वा भवेत् || १८ || उत्संध्यं तन्नताग्रेण कुर्यान्मकरविष्ठरम् | तोरणाग्रविशालं तु कुड्यस्तंभोदयार्धकम् || १९ || कुड्यस्तंभद्वयोरन्तर्व्यासं वा तोरणाग्रकम् | अंघ्रिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा || २० || एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् | कुड्यतोरणमाख्यातं द्वारतोरणमुच्यते || २१ || प्. ५१) द्वारतुल्योन्नतं व्यासं तोरणांघ्र्यन्तरं समम् | उत्तरं वाजनं चाब्जक्षेपणं चाष्टमंगलम् || २२ || फलका पंचवक्त्राढ्यं प्रागुक्त विधिना कुरु | पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा || २३ || मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् | दर्पणं पूर्णकुंभं च वृषभं युग्मचामरम् || २४ || श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् | श्रीवत्सं मध्यमे कुर्यात् शेषास्तु तस्य पार्श्वयोः || २५ || लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् | द्वारतोरणमेवं हि स्तंभतोरणमुच्यते || २६ || पादोच्चं तु त्रिधाभज्य द्विभागं चरणोदयम् | पादं सर्वांगसंयुक्तं बोधिकारहितं कुरु || २७ || उत्तरं वाजनं चाब्जक्षेपणं निम्नवाजनम् | तदूर्ध्वे झषखण्डं तु नानाचित्रैर्विचित्रितम् || २८ || तोरणं मकराख्यं तु मृणाभ्ये द्विक्रकन्धरम् | द्युडानलात्मसंयुक्तं एतत्स्यात्स्तंभतोरणम् || २९ || पादान्तरे वा हारायां कर्णप्रासादमध्यमे | शालामध्यान्तरालायां कर्तव्यं सर्वधामसु || ३० || स्तम्भतोरणमाख्यातं कुंभलता विधिं शृणु | इत्यंशुमान्काश्यपे तोरणलक्षण पटलः (त्रयोदश) || १३ || अथ वक्ष्ये विशेषेण कुंभलताविधिं शृणु | स्तंभमूले तु वेद्यूर्ध्वे पद्मासनं प्रकल्पयेत् || १ || पादव्याससमं तुंगं सप्तादं पद्मविस्तरम् | पद्मोच्चं वसुधा भज्य कम्पमेकांशमुच्यते || २ || अधः पद्मं गुणांशं तु एकांशं गलमुच्यते | ऊर्ध्वपद्मं द्विभागं तु कम्पमेकेन कारयेत् || ३ || तदूर्ध्वे कुंभतुंगंतु पद्मस्योच्चसमं भवेत् | तत्तुंगद्विगुणं कुंभं व्यासमित्युच्यते मया || ४ || कुंभस्य स्तंभनिर्यूहं वल्लीमण्डलसंयुतम् | कुंभमंड्यादिसंयुक्तं वीरकाण्डविहीनकम् || ५ || फलकोपरि पद्मं तु कुंभमानेन कारयेत् | कुंभं कुंभं लतां ह्येतां अन्यथा वक्ष्यते बुधैः || ६ || तदेवोत्संधिकोर्ध्वे तु वीरकाण्डसमन्वितम् | बोधिकारहितं यत्तत् स्तंभकुंभलता स्मृता || ७ || स्तंभतोरणवन्मूर्ध्नि कर्तव्या तोरणलता | एवं त्रिविधिनीत्या तु प्रोच्यते कुंभलता द्विज ! || ८ || इत्यंशुमान्काश्यपे कुंभलताविधिपटलः (चतुर्दश) || १४ || अथ वक्ष्ये विशेषेण वृत्तस्फुटितलक्षणम् | षडंगुलं समारभ्यं द्विद्व्यंगुलविवर्धनात् || १ || कलांगुलावधिर्यावत् तावद्व्यासं तु षट्विधम् | वितारार्धं तु तन्निव्रं त्रिद्व्यंशं वा त्रिभागिकम् || २ || वृत्ताकारसमं चैव तोरणंघ्रिवदायतम् | सकन्धरं तदूर्ध्वे तु शुकनास्यान्वितं तु वा || ३ || कर्णकूटाकृतिं वाथ वृत्ताकारं प्रकल्पयेत् | स्तंभोत्सेधयुगांशे तु द्विभागं चरणायतम् || ४ || प्रस्तरोदयमेकांशं शुकनास्योदयांशकम् | तदेव कूटमानं तु तत्तदुक्तावसानयेत् || ५ || अथवान्तरमंचं तु प्रोक्तमार्गेण वा कुरु | वृत्त स्हुटितमेवं हि लतामंडलमण्डितम् || ६ || स्तंभाख्ये तोरणं चैव तथा कुंभलता द्विज ! | वृत्ताख्य स्फुटितं चैव हारान्तरेषु कल्पयेत् || ७ || स्तंभोत्तरे वा कर्तव्यं हर्म्यादीनां विशेषतः | इत्यंशुमान्काश्यपे वृत्तस्फुटित लक्षणपटलः (पंचदश) || १५ || अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् | पादोच्चं दशधा भज्य शुद्धद्वारं नवांशकम् || १ || चरणं नवधा भज्यं अष्टांशं द्वारमानकम् | अथवां घ्रिकतुंगं तु वसुभागविभाजिते || २ || सप्तांशं द्वारमानं तु शेषं तु रसभाजिते | सार्धवह्न्यंशमूर्ध्वे तु भुवंगस्योच्छ्रयं भवेत् || ३ || पतंगोच्चमधस्तात्तु सार्धद्विभगमुच्यते | शुद्धद्वारस्य तुंगार्धं शुद्धद्वारस्य विस्तृतम् || ४ || एकद्वित्रिचतुष्पंच षट्सप्ताष्ट नवांगुलम् | तुंगार्धादधिकं हीनं तारमेकोन विंशति || ५ || भेदमेवं त्रिधाख्यातं द्वारतुंगं त्रिधा भवेत् | सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् || ६ || पादविष्कंभमानं वा सपादं सार्धमेव वा | द्वारयोगस्य विस्तारं तस्यार्धं धनमुच्यते || ७ || साष्टांशार्धघनं वाथ त्रिपादं वाथ तदघनम् | योग तुंगं तु वेदांशे त्येकांशाश्रमयोगतम् || ८ || गुणांशमूर्ध्वगं ख्यातं बाह्याब्जं क्षेपणान्वितम् | बाह्याब्जं क्षेपणोपेतं भुवंगतारं च योगवत् || ९ || पतंगतारे योगस्य तुल्यमब्जविहीनकम् | भुवंगं च पतंगं च मध्यस्थ बलयान्वितम् || १० || प्. ५५) ताम्रजौ वायसौ वाथ वलयौ कीलबन्धितौ | तद्विस्तारत्रिभागैक शिखायोगे प्रवेशितौ || ११ || शैलजं च भुवंगादि योगाग्रशिखयान्वितौ | भुवंगपतंगयोच्छिद्ररग्रयोर्वेशनान्वितौ || १२ || एवं दृढीकृतं पश्चात् योगस्थापनमाचरेत् | सुनक्षत्रे शुभे वारे शुभहोममुहूर्तके || १३ || योगन्तु स्थापयेद्विप्र ! शान्तिहोमपुरस्सरम् | भित्तिव्यासे तु पंचांशे द्वाभ्यां पंचावसानकम् || १४ || अभ्यन्तरे तु सप्तांशसीमा योगस्य मध्यमम् | तद्बाह्येऽभ्यन्तरे चैव योगव्यासो गताश्रितम् || १५ || सर्वालंकारसंयुक्तं योगं स्थाप्य दृढीकृतम् | उभयोः पार्श्वयोः पश्चात् कवाटे योगमाश्रितौ || १६ || प्रत्येकमेकपक्षं वा द्वित्रिपक्षमथापि वा | अन्तस्सरदमैर्विप्र कंवाटं तु दृढीकृतम् || ७ || यष्टित्रयान्तरावेतौ चोर्ध्वेधस्ता च्छ्रितौ | स्निग्धसारद्रुमै बाह्याभ्यन्तरे यष्टिबन्धितौ || १८ || त्रिपंचसप्तसंख्या वा नवरुद्रत्रयोदश | पंचसप्तदशैवाथ यष्टिसंख्यैकपार्श्वकम् || १९ || तथैवोभयपार्श्वे च लोहकीलैर्दृढीकृतम् | प्. ५४) वामपार्श्वे कवाटे तु योजयेद्वादुपट्टिका || २० || त्रिचतुः पंचमात्रं वा द्वारपट्टिकविस्तृतम् | तत्त्रिभागैकभागं तु तस्य नीव्रमुदाहृतम् || २१ || तन्निव्र द्विगुणं ख्यातं नीव्रं वै तत्कवाटयोः | कवाटाग्रे च मध्ये च वामपट्टिकपार्श्वयोः || २२ || लोहजं वलयोपेता वेतानी कीलबन्धितम् | लोहजं दारुजं वाथ बाह्याभ्यन्तर यष्टयः || २३ || तासां त्रियंगुलं तारं तारार्धं घन संयुतम् | बध्वा कपाटयोगौ द्वौ दारुलोहैर्दृढीकृतम् || २४ || अर्गलादिसमोपेतं घाटनोद्घाटनक्षमम् | परेषां घाटनोद्घाटयन्त्रमव्यक्तमाचरेत् || २५ || प्रासादे मण्टपे चैव गोपुरे चैवमाचरेत् | द्वारमेवं समाख्यातं कम्पद्वारमतः शृणु || २६ || इत्यंशुमान्काश्यपे द्वरलक्षणपटलः (षोडश) || १६ || अथ वक्ष्ये विशेषेण कंपद्वारविधिं परम् | प्रासादमण्टपादीनां चतुर्दिक्षु विदिक्षु च || १ || प्. ५७) तयोर्मध्यान्तराले वा ह्योमाभीष्टं तु यत्र वै | तत्रैव कल्पयेत्सम्यक् कंपद्वारं द्विजोत्तम ! || २ || वस्त्रचितकृतं पंक्तिव्यासं यत्तु विशालकम् | स्थालादुत्तरसीमान्तं कंपद्वारोदयं भवेत् || ३ || भुवंगं च पतंगं च योगं प्राग्वद्घनं ततम् | कृत्वा दृढतरं बध्व योजयेदन्तरंघ्रयः || ४ || योगव्यासनतन्दीर्घं अन्तरांघ्रिं तथा कुरु | मूलाग्रयोः शिखेह्येता तारांघ्रिं परिकल्पयेत् || ५ || भुवंगे च पतंगे च छिद्रे युज्याद् दृढीकृतम् | चतुः पंच षडष्टौ वा दश द्वादश एव वा || ६ || ममुषोडशसंख्या वा कल्पयेदन्तरांघ्रयः | अन्तरायन्तरामत्या गमागमक्षमं विना || ७ || अन्तरांघ्रीन्सुयुंजीयात् स्थापयेद्द्वारयोगवत् | योजयेत्तु कवाटं च व्योमै प्रत्येकमेव वा || ८ || कवाटं व्योमद्वयं ग्रासं त्रिव्योमग्रवस एव वा | कल्पयेत्सुदृढं द्वारं न चलं हस्तिनापि च || ९ || कंपद्वारं समाख्यातं प्रस्तरं तु ततः शृणु | इत्यंशुमान्काश्यपे कंपद्वारलक्षणपटलः (सप्तदश) || १७ || अथ वक्ष्ये विशेषेण प्रस्तरस्य तु लक्षणम् | स्तंभार्धं मंचमानं तु आपोत्सेधांशमेव वा || १ || तदुच्चं त्वेकविंशांशं कृत्वा गुणांशकं तरम् | वाजनं चैकभागेन भूतमालां ततं त्रिभिः || २ || भूतमालोपरिष्टात्तु वाजनं त्वेकभागया | सप्तांशं तु कपोतोच्चं आलिंगं चैकभागया || ३ || अंशेनान्तरितं कुर्यात् प्रत्युत्सेधं गुणांशकम् | वाजनं त्वेकभागेन अथवान्यप्रकारतः || ४ || तुंगमेकोनविंशांशं कृतोत्तरं त्रिभागया | भागेन वाजनं कुर्यात् अग्न्यंशैर्वभी भवेत् || ५ || वाजनं त्वेकभागेन कपोतोच्चं रसांशकम् | आलिंगमंशमंगेन कुर्यादन्तरितं भवेत् || ६ || प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया | उत्सेधं चैवमाख्यातं अंगनीव्रमथोच्यते || ७ || स्तंभात्तु बोधिकानीव्रं बोधिकादुत्तरं तथा | वाजनस्य तु निष्क्रान्तिं उत्तराद्वाजनोन्नतम् || ८ || वाजनं वलयीनीव्रं वलभीतुंग सादृशम् | त्रिपादं वा तदर्धं वा प्राग्वद् वाजननीव्रकम् || ९ || वाजनं तु कपोतस्य नीव्रं होमावसानकम् | प्. ५९) उपानसीमावसानं वा जगत्यन्तं तथापि वा || १० || वाजनादर्धदण्डं वा द्विदण्डं सार्धद्विदण्डकम् | वाजनं तु कपोतस्य निव्रोच्चालंघनं समम् || ११ || कपोतं गोपानसहितं गोपनरहितं तु वा | पादबाह्यसमं प्रोक्तं आलिंगप्रतिरुच्यते || १२ || आलिंगान्तरितद्वेशं नीव्रं चोत्सेधसादृशम् | वाजनोच्चसमं प्रोक्तं वाजनस्य तु निर्गतिः || १३ || दण्डं त्रिपादमर्धं वा चोत्तरा तस्य नीव्रकम् | उत्तरस्यानुकूल्यं तु वाजने नीव्रवेशनम् || १४ || वलभीभूतहंसाद्यैः भूषयेदुत्तरोपरि | नानापत्रलताद्यैस्तु कपोते कर्णपालिकाः || १५ || प्रत्यग्रं ककरी बन्धं प्रतिसिंहादिभूषितम् | एवं प्रस्तरवर्गं तु प्रोच्यते द्विजसत्तम ! || १६ || इत्यंशुमान्काश्यपे प्रस्तरलक्षणपटलः (अष्टादश) || १८ || अथ वक्ष्ये विशेषेण गलभूषणलक्षणम् | ऊर्ध्वभूमं च तुंगं तु गलमानमुदाहृतम् || १ || प्. ६०) आप्तोत्सेधांशमानं वा गलमानं द्विजोत्तम ! | तदुच्चं त्रिचतुष्पंच अंशं वा वेदिकोदयम् || २ || शेषं गलोदयं ख्यातं अशेषं वा गलोदयम् | वेदिकायास्तु विस्तारं चतुष्पंच षडंशकैः || ३ || त्रिचतुष्पंचगलव्यासं तत्संख्या तु यथाक्रमम् | अंघ्रोर्वेद्यंघ्रिवेशं यत् तद्वेदार्गलवेशनम् || ४ || त्रिपादं वा तदर्धं वा वेद्यंघ्रेर्गल वेशनम् | एवं त्वनेकभेदेषु कर्तुरिच्छावशान्नयेत् || ५ || वेदाश्रं नागरे कण्ठं वस्वश्रं द्राविडे गलम् | वृत्तं तु वेसरे हर्म्ये शिष्टानुकूलकं नयेत् || १६ || दिशि भद्रसमायुक्तं नासिकानुकूलिकांघ्रिकम् | भानुद्व्यंशेगलोत्सेधे कलांशं तु गलोदयम् || ७ || उत्तरोच्चं गुणांशं तु वाजनं त्वेकभागया | अग्न्यंशं वलभीमानं व्योमांशं वाजनोदयम् || ८ || उत्तरेऽर्धंगलान्नीव्रं वाजनादीनि पूर्ववत् | अथवा नानु भागं तु गलोदयमुदाहृतम् || ९ || उत्तरोच्चं गुणांशं तु शिवांशं वाजनोदयम् | तदूर्ध्वे मुष्टिबन्धोच्चं अध्यर्धांशमुदाहृतम् || १० || मृणाल्युच्चं गुणांशं तु एकांशं पट्टिका भवेत् | प्. ६१) सार्धांशं दण्डिकोत्सेधं व्योमांशं वर्णपट्टिका || ११ || गोपानं कम्पयेदूर्ध्वे लुपारोहणमेव वा | वाजनादीनि निष्क्रान्तं तत्तदुच्चसमं भवेत् || १२ || एवं गलोन्नतं व्यासं अलंकारं च कीर्तितम् | इत्यंशुमान्काश्यपे गलभूषणलक्षणपटलः (एकोनविंशः) || १९ || अथ वक्ष्ये विशेषेण शिखरस्य तु लक्षणम् | ऊर्ध्वभूम्यंघ्रितुंगस्य सदृशं शिखरोदयम् || १ || आप्तोत्सेधांशमानं वा तुंगं वै शिखरस्य तु | वेदिविस्तारतुल्यं वा शिखरस्य कपोतकम् || २ || वलभिर्वाजनान्नीव्रं दण्डं वा ध्यर्धमेव वा | द्विदण्डं सार्धद्विदण्डं वा नीव्रं नालंबनं समम् || ३ || तन्नीव्रसदृशं तुंगं कपोतं वलभिवाजनात् | शिरस्तारं कपोतोर्ध्वे वलभीवाजनं समम् || ४ || शिखरे मध्यविस्तारं कपोतनिष्ठान्तसदृशम् | तत्त्रिपादार्धपादं वातारमेवं चतुर्विधम् || ५ || तत्र तारं तु पंचांशं त्र्यंशं बलिकविस्तृतम् | प्. ६२) शिखरे बलिकास्थानं भूतांशे तु शिरोदये || ६ || वेदभागावसाने तु बलिकं मण्डलाकृतिः | तत्तारे तु चतुर्थांशं तन्मण्डलघनं भवेत् || ७ || युग्मं वा युग्मसंख्या वा परितः कल्पयेत्समम् | बलिकानामधश्चोर्ध्वे वेत्रं तदर्धमानतः || ८ || बलिकव्यासभूतांशे युगांशं पद्मविस्तरम् | शिखरस्य तु मानान्तं पद्मतुंगमुदाहृतम् || ९ || पद्मतारं त्रिभागैकं स्थूपी कुंभविशालकम् | कुंभतारं त्रिभागैकं कुंभस्याधो बलग्नकम् || १० || वलग्नस्य त्रिभागैकं कुंभस्योपरिकन्धरम् | कन्धरं त्रिगुणं पालितत्त्रिभागैककुड्मलम् || ११ || पालीनालविशालं तु कन्धरादीन्बृहन्तरम् | वलग्नान्तं शिरोमध्यात् अनुपूर्वात्कृशं कुरु || १२ || मध्याद्वाजनतुल्यान्तं क्रमेण कृशतां कुरु | तस्मत्कपोतनीव्रान्तक्रमेणैव बृहन्तरम् || १३ || शिखरस्य तु भागार्धं पद्मोर्ध्वे स्थूपिकोदयम् | द्वाविंशद्विभजेदुंच्चं पद्ममानार्धभागया || १४ || कंपमर्धांशमित्युक्तं गलमर्धांशमानतः | तत्समं चोर्ध्वकंपं तु पद्ममंशेन कल्पयेत् || १५ || प्. ६३) भूतभागं घटोत्सेधं कंपमर्धांशमानतः | पद्ममंशेन कर्तव्यं कंपमर्धांशमानतः || १६ || पंचांशं पालिकानालं अर्धांशं कम्पमुच्यते | पद्ममर्धेन कर्तव्यं पालिकोच्चं तु एकया || १७ || अर्धेन पद्ममर्धेन कंपं शेषं तु कुड्मलम् | शिखराकृतिवत्कुंभं पालिकाकुड्मलं तथा || १८ || नागरे चतुरश्राभं वस्वश्रं द्राविडे शिरः | वृत्तं वेसरहर्म्यं तु तत्ततद्वर्वर्तनं क्रमात् || १९ || नानावल्लिलताभिस्तु शिखरं तु सुभूषयेत् | शिखरं लक्षणं प्रोक्तं नासिका लक्षणं शृणु || २० || इत्यंशुमान्काश्यपे शिखरलक्षणपटलः (विंशः) || २० || अथ वक्ष्ये विशेषेण नासिका लक्षणं परम् | ललाटनासिका ख्याता शिखरे तारसादृशाः || १ || शिखरस्य तु विस्तारं त्रिचतुष्पंचभाजिते | क्रमान्नासीविशालांशं उत्तमामध्यमाधमा || २ || महानासीमिति ख्याता त्रिविधा सा प्रकीर्तिता | प्. ६४) समं त्रिपादमर्धं वा शिखरान्नासिनीव्रकम् || ३ || तद्व्यासं त्रिचतुर्थांशं हीनं शेषं गलोर्ध्वगम् | नासिकातुंगमाख्यातं तन्मध्योच्चमथापि वा || ४ || शक्तिध्वजं तदूर्ध्वे तु नासीतुंगार्धमेव वा | त्रिभागं वा त्रिभागैकभागं वाथ तदुन्नतम् || ५ || तच्छक्तिध्वजतुंगंतु गुणभागविभाजिते | द्विभागं किंपुरी वक्त्रं शेषांशं गलमानकम् || ६ || दण्डं तद्गलतारं स्याद् द्विगुणं किंपुरीमुखम् | शक्तिध्वजोपरिष्टात्तु पत्रं वाथ सशूलकम् || ७ || किंपुरीवक्त्रतुंगस्य समं शुलोदयं भवेत् | पत्रं चेत्तेन मानेन यथा सौन्दर्यमाचरेत् || ८ || विस्तारे मुखपट्यास्तु दण्डमध्येर्धमेव वा | वल्लिमण्डलचित्राद्यैः भूषयेन्मुखपट्टिका || ९ || मुखपट्ट्या विशेषं तु अवगाढमुदाहृतम् | शयितस्थितपट्ट्याभा मृणाल्यादि विभूषितम् || १० || शुलाभमतलाभं वा सव्यालं व्यासनादकम् | मालिका कूटकोष्ठादि मण्डितं वा विमानवत् || ११ || चित्रपत्राख्यमकरतोरणाग्रमथापि वा | सभद्रं तु महानासी पादसर्वांगसुन्दराः || १२ || प्. ६५) उत्तरं वाजनाब्जस्य क्षेपणं नासिकादयः | कल्पयित्वा विशेषेण करोत्तरदि मानतः || १३ || ऊर्ध्वे सहविशालं वा त्रिपादं वार्धमेव वा | नासिकास्तंभविस्तारं कण्ठोत्तरान्तमुन्नतम् || १४ || वस्वश्रं वाथ वृत्तं वा युगाश्रं वा तदाकृतिः | नासिकायास्तु विस्ताराद् द्विदण्डं वा त्रिदण्डकम् || १५ || हीनं शेषं विशालं स्यात् नास्याग्रे बाह्यसीमकम् | नासिकांघ्रिद्वयोर्मध्ये दिङ्मूर्तिस्थापनं कुरु || १६ || महानासीमिदं प्रोक्तं क्षुद्रनासीविधिं शृणु | सार्धदण्डं द्विदण्डं वा * * * वाथ विस्तृतम् || १७ || तत्तारं त्रिचतुर्थांशं हीनं शेषोदयं भवेत् | कपोतालम्बनात्कक्षं नासिकोच्चं तु कल्पयेत् || १८ || प्रतिवाजन सीमान्तं तस्यशक्ति ध्वजोन्नतम् | तदुच्चं तु त्रिधाभज्य एकांशं कण्ठमानकम् || १९ || शेषं किंपुरिवक्त्रोच्चतारं युक्तिवशान्नयेत् | ना सीतारार्धगाढं स्याद्गाढार्धं मुखपटिटिका || | २० || व्यासं लतादिभिर्भूष्यं नानालंकारसंयुतम् | पादं प्रतिकपोतेषु कल्पयेत्स्वस्तिकाकृतिम् || २१ || मध्ये च कूटशालानां पंजरे चात्प नासिका | प्. ६६) कल्पयेत्तु विशेषेण शिखरे भद्रनासिकाः || २२ || शालाग्रयोस्तु कर्तव्या ललाटाख्यानु नासिका | कल्पयेत्पंजरस्थाने महानास्याख्य नासिका || २३ || नासिका लक्षणं प्रोक्तं तथा प्रासादमानकम् | इत्यंशुमान्काश्यपे नासिका लक्षणपटलः (एकविंशः) || २१ || अथ वक्ष्ये विशेषेण प्रासादं मानलक्षणम् | प्रासादं सदनं सद्म हर्म्यं धाम निकेतनम् || १ || मन्दिरं भवनं व्यासं गेहं दिव्यविमानकम् | आस्पदं चाश्रयं चैव आधारं च मनोहरम् || २ || आशाममाव्रतं धिष्ण्यं एवं पर्याय वाचकाः | यस्मादणुपशो नास्ति परमाणुस्स उच्यते || ३ || अणवोष्टौ रथारेणुः स्यादथरेण्वष्टकं पिचुः | पिचूणामष्टको यास्तु केशाग्रमिति संज्ञितम् || ४ || बालानां तद्धिकेशं स्यात् अग्रं तद्वपनात्पुरा | तत्केशाग्राष्टकायास्तु लिख्यं तदुचदाहृतम् || ५ || लीख्याष्टकोस्तु यूकंस्या यूकाष्टकयवं भवेत् | प्. ६७) यवमष्टगुणं मानं अंगुलं तदुदाहृतम् || ६ || सप्तसंख्यायवं तारं मध्यमांगुलमुच्यते | षट्संख्यायवतारं स्यात् अधमांगुलमितिस्मृतम् || ७ || शाल्यायामचतुष्कं तु उत्तमांगुलि संज्ञितम् | त्रिसार्धाशालिदीर्घं तु मध्यमा इति संज्ञिताः || ८ || शाल्या च दीर्घ त्रिगुणं अधमं तदुदाहृतम् | श्वेतशालीमहाशाली रक्तशाली तथैव च || ९ || सौगन्धी हेमशाली च शालयः पंचधा स्मृताः | रक्तशाल्यायतं तेषु अंगुलार्धं तु संगृहेत् || १० || एवं हि षड्विधं प्रोक्तं मानांगुलं द्विजोत्तम | चन्द्रस्थिवोऽवकाशं च व्योममेकांगुलाख्यकम् || ११ || अक्षिपक्षाश्विनी चैव द्वितीयांगुलिसंज्ञिताः | कालं चानलरुद्राक्षं शूलं चालेखनं गुणम् || १२ || तृतीयांगुलसंज्ञास्ते वेदाब्धीयुगवर्धकम् | चतुरंगुलिसंज्ञास्ते बाणं भूतेन्द्रियामृतम् || १३ || पंचांगुलस्य संज्ञास्ते ऋतुषट्कौशिकं च वै | रसगायत्रिकृत्तिका षडंगुलस्य संज्ञका || १४ || पातालमृषिधातुर्वा सप्तांगुलस्य संज्ञका | मातृलोकस्वराश्चैव सप्तांगुलाभिधायकः || १५ || प्. ६८) हस्ति पर्वतनागाश्च वसवो मूर्तयस्तथा | अष्टांगुलस्य संज्ञास्ते शक्तिद्वार ग्रहास्तथा || १६ || सूत्रनन्दनवं नाट्यं बीजाश्चैव नवांगुलाः | नाडिकाष्ठायुधं धर्म दशांगुलस्य संज्ञकाः || १७ || ईशानश्चेश्वरो रुद्रस्त्वेकादशांगुलाख्याः | अब्दं भारं च भानुं च द्वादशांगुलसंज्ञकाः || १८ || चन्द्रादित्यशिवांशं च त्रयोदशांगुलाख्यकाः | ऋषिद्वयमनुश्चैव चतुर्दशांगुलाख्यकाः || १९ || पक्षश्चैव तिथिश्चैव पंचादशांगुलाः स्मृताः | कलामूर्तिद्वयं चैव षोडशांगुलसंज्ञकाः || २० || पंक्तिर्विंशति त्रिंशच्च चत्वारिंशत्तथैव च | पंचाशत्षष्टिसप्तत्याशीतिश्च नवतीशतम् || २१ || प्रत्ययस्त्रिषु षष्टिश्च जगती सुगतिस्तथा | शक्वरी सशक्वरी च तुष्टिपुष्टिधृतिस्तथा || २२ || सुधृती च दशाद्यादि शतान्तान्नाम गीयकम् | एकं दश शतं चैव सहस्रमयुतं तथा || २३ || नियुतं प्रयुतं कोटी सार्बुदं बृन्दखर्विनी | खर्वं च शंख पद्मं च समुद्रमध्यमं तरम् || २४ || आद्यं परं परार्धं च दशवृद्ध्या प्रकीर्तिताः | प्. ६९) श्रेष्ठमध्यान्तरैर्वान्यैः तालं भान्वंगुलं भवेत् || २५ || भानुद्वयांगुलं किष्कु हस्तमित्युच्यते द्विज ! | श्रेष्ठमध्याधमैर्मात्रैः कल्प्य हस्तं तथोदितम् || २६ || चतुष्कं भवेद्दण्डं तेन वास्तुनिमापयेत् | पंचविंशति मात्रं स्यात् प्राजापत्यं करं बुधः || २७ || षट्विंशति धनुर्मुष्टिः सप्तविंशद्धौर्ग्रहम् | अष्टाविंशांगुलं प्राच्यं वैदेहं नवविंशतिः || २८ || वैपुल्यं त्रिंशदंगुल्यं एकत्रिंशत्प्रकीर्णतम् | एवमष्टविधं हस्तं प्रत्येकं द्विजसत्तम ! || २९ || अधमं मध्यमोत्कृष्ट भेदेनैवं द्वयं द्वयम् | धनुर्ग्रहप्रकीर्णाभ्यां द्विजानां गृहमारभेत् || ३० || वैपुल्यधौर्मुष्टिभ्यां क्षत्रियाणां गृहं कुरु | प्राजापत्यकरं चैव वैदेहं वैश्ययोग्यकम् || ३१ || किष्कुप्राच्यकरं चैव शूद्रजात्यर्हकं भवेत् | अधिकजात्यहं हस्तं हीनं तत्तद् विसर्जयेत् || ३२ || हीनजात्यर्हकं हस्तं अधिकानां शुभावहम् | सर्वेषामुदितं हस्तं मानं सद्मनि पूजितम् || ३३ || अन्याश्च सर्वदेवानां योग्यं सद्मनि मानयेत् | अथवा किक्षुहस्तं तु सर्वजात्यर्हकं भवेत् || ३४ || प्. ७०) यानानि शयनानी च किक्षुहस्तेन मानयेत् | आरामोद्यानखादीनि प्राजापत्यकरेण तु || ३५ || धनुर्मुष्टिकरेणैव ग्रामादयस्तु मानयेत् | धनुर्ग्रहेण वाप्यादि नद्याध्वानं च मानयेत् || ३६ || सर्ववास्तुनि वा किक्षु हस्तेनैव द्विजोत्तम ! | त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् || ३७ || नवपंक्तिकरान्तं तु आभासैकतलं भवेत् | एवमष्टविधं मानं युग्मायुग्मं चतुश्चतुः || ३८ || पंचषढस्तमारभ्य द्विद्विहस्तविवर्धनात् | रुद्रभानुकरान्तं तु आभास द्वितकाऽष्टधा || ३९ || सप्ताष्टहस्तमारभ्य द्विद्विहस्तविवर्धनात् | तिथिकलाकरान्तं तु आभास त्रितलं दश || ४० || ग्रहकर्मसमारभ्य सप्ताष्टाधिकपंक्तयः | चतुष्पंचतलं वाथ युग्मायुग्मं च ते दश || ४१ || विस्तारं सप्तषट्पंच भागं कृत्वा द्विजोत्तम ! | रसभूतयुगांशं तु विस्तारा द्रोपयेत्क्रमात् || ४२ || विस्तारद्विगुणं चैव तस्मादष्टांशमाधिकम् | पंचधाभ्युदितं तुंगं आभासे सदने द्विज ! || ४३ || शान्तिकं पौष्टिकं चैव जयदं चाद्भुतं तथा | प्. ७१) सार्वकामिकमित्येते अभिधानं क्रमाद्भवेत् || ४४ || हस्तश्चेते तु वृध्या वा अन्या वा पूर्णमाचरेत् | आभासं हर्म्यमाख्यातं विकल्पमधुना शृणु || ४५ || नवपंक्तिकरात्पंच षट्पंचाशत्करान्तकम् | द्विद्विहस्तविवृद्ध्या तु चतुर्विंशति संख्यया || ४६ || पंचभूमी समारभ्य यावदर्कतलं क्रमात् | अधमं मध्यमोत्कृष्टं त्रयोभेदतलं प्रति || ४७ || सप्ताष्टाधिकपंक्त्यादि त्रित्रिहस्तविवर्धनात् | षट्सप्ताष्टाधिकाशीत्यन्तं उच्चं प्रागिव संख्यया || ४८ || एवं विकल्पमाख्यातं छन्दमार्गमतःशृणु | त्रिचतुर्दशहस्तादि द्विद्विहस्त विवर्धनात् || ४९ || पंचषट्षष्टि हस्तानां व्यासं वै सप्तविंशतिः | वेदभूमिं समारभ्य भानुभूमावसानकम् || १५० || अधमं मध्यमोत्कृष्टं मानं स्यूर्वै तलं प्रति | सप्ताष्टदशहस्तादि त्रित्रिहस्तविवर्धनात् || ५१ || पंचषण्णवतिर्यावत् उच्चं प्रागिव संख्यया | अधमं मध्यमोत्कृष्टं तुंगभेदं तलं प्रति || ५२ || छन्दमेवं समाख्यातं जातिहर्म्यमतः शृणु | सप्ताष्टदशहस्तादि द्विद्विहस्तविवर्धनात् || ५३ || प्. ७२) यावत्सप्ततिहस्तान्तं सप्तविंशति संख्यया | चतुर्भूमिसमारभ्य यावदर्कतलावधि || ५४ || तावद्विस्तारमाख्यातं उत्सेधं शृणु सुव्रत ! | एकद्वाविंशहस्तादि त्रित्रिहस्तविवर्धनात् || ५५ || यावदाशतहस्तान्तं उच्चं प्रागुक्तसंख्यया | अधमं मध्यमोत्कृष्टं उत्सेधं वै क्रमोदितम् || ५६ || एवं जातिविमानं तु सप्तविंशति बोदितम् | जातिच्छन्दविकल्पं च आभासेन द्विजोत्तम ! || ५७ || महतीष्यन्तराल्पं च क्षुद्रनाम्ना क्रमोदिताः | युगाश्रेत्युक्तमाने तु मानसूत्रं तु विन्यसेत् || ५८ || तदर्धाकृति हर्म्याणां वेदाश्रे गर्तपूरणम् | यत्रैव वर्जितं यत्तत्मानसूत्रं विधीयते || ५९ || प्रासादानां तु विस्तारं भित्तिपाद्बाह्यमेव वा | तत्पादाभ्यन्तरान्तं वा तत्पादमध्यमं तु वा || ६० || उत्सेधं तदुपानादिस्तूप्यन्तं वा शिरोन्तकम् | सभामण्टपशालानां भित्तिमध्यावसानकम् || ६१ || भित्तिमध्यांघ्रि बाह्ये वा मध्ये वा भ्यन्तरेऽपि वा | भित्ति बाह्यगतां घ्रौ तु बाह्ये वाऽभ्यन्तरेपि वा || ६२ || तदंघ्रि मध्यावसानं वा मानसूत्रं द्विजोत्तम ! | प्. ७३) भित्तिव्यासे तु भान्वंशे बाह्येऽथात्वंशकं व्रजेत् || ६३ || अभ्यन्तरयुगांशं तु त्यक्त्वा शेषं द्विजोत्तम ! | भित्ति मध्यांघ्रिविस्तारं अंघ्रिस्थाने निवोच्यते || ६४ || भित्ति बाह्ये गतं पादं प्रागेव प्रोच्यतेऽथवा | शालांनां भित्ति मध्ये वा बाह्ये वाऽभ्यन्तरेऽपि वा || ६५ || यानानां शयनानां च पादमध्ये मानसूत्रकम् | मानसूत्रं समाख्यातं सर्वेषां सदनादिनाम् || ६६ || मानसूत्रं तु बाह्ये तु कूटशालादि नीव्रकम् | कूटस्योक्त विशालं वा त्रिपादं वार्धमेव वा || ६७ || पादं सार्धं सपादं वा मानसूत्राद्बहिर्गतिः | अथवादण्डमानेन कूटादीनां तु निर्गतिः || ६८ || दण्डं वाध्यर्धदण्डं वा द्विदण्डं वार्धद्विदण्डकम् | त्रिदण्डं वाथ निष्क्रान्तं मानसूत्रात्तु बाह्यतः || ६९ || मानस्याभ्यन्तरे वेशं विपदामास्पदं सदा | तस्मात्सर्वप्रयत्नेन मानसूत्राद्बहिर्गतम् || ७० || एतद्विन्याससूत्रं वा समसूत्रं समं तु वा | होमबाह्यगतं सूत्रं अवसानमुदाहृतम् || ७१ || मानविन्याससूत्रं च अवसानं च ते त्रिधा | ख्यातं संक्षेपतो विप्रा ! शृणुष्वायादि लक्षणम् || ७२ || इत्यंशुमान्काश्यपे मानादिसूत्रलक्षणपटलः (द्वाविंशः) || २२ || अथ वक्ष्ये विशेषेण आयादिलक्षणं परम् | हर्म्यविस्तारहस्तं तु गुणवृद्ध्यावसुभिर्हरेत् || १ || शेषं ध्वजादि योनिः स्यात् उत्सेधं तु करं बुधः | वर्धयेद्वसुभिर्ह्रासे नक्षत्रेणाहयादिभम् || २ || नववृद्धिं परितो हस्तं पातालैस्त्रासयेद्बुधः | शेषमर्कादिवारं स्यात् व्यासायामकरं गुणैः || ३ || वर्धयेत्त्रिंशतिर्ह्रासे शेषं प्रतिपदोदयः | तिथयस्तु समाख्याता तुंगहस्ताष्ट वृद्धितौ || ४ || मुखभिस्तु हरेच्छेषं आयमित्युच्यते द्विज ! | तुंगं नवेन वृद्ध्या तु प्रागि वै नाडिभिर्हरेत् || ५ || शेषं व्ययमितिख्यातं आयाधिक्यं व्ययं क्षयः | केतुसिंहोवृषो हस्ती शुभयोनिमिति स्मृतम् || ६ || शुक्रेशनी बुधो जीवो शुभवारमिति स्मृतम् | यजमानस्य जन्मर्क्षा न विरोधदिनं तथा || ७ || वास्तु जन्मानुकूलं च नृपतेश्चानु कूलकम् | एवं परीक्ष्य बहुधा अंशुमानं तु संग्रहेत् || ८ || अथवा विस्तृतायामहस्तमष्टगुणी कृते | भानुर्वा एव शेषं तु आयमित्युच्यते बुधः || ९ || नववृद्द्यां दशभिर्ह्रासे शेषं व्यायमुदाहृतम् | प्. ७५) वसुभिर्गुणिते ऋक्षे हते शेषं हयादिकम् || १० || गुणवद्ध्याष्टभिर्ह्रासे शेषं ध्वजादि योनयः | नव वृद्ध्या परिथौ हस्तं सप्तसंख्या तु ह्रासयेत् || ११ || शेषमर्कादिवारं स्यात् नववृद्ध्यास्त्रंशह्रासे तिथिर्भवेत् | प्राग्वच्छुभाशुभं वीक्ष्य शुभमानं तु संगृहेत् || १२ || तज्जन्मयुगलं वेदं षडष्टनवमं शुभैः | सदेष्टसिद्धिदा ऋक्षाः प्रोक्ताः शेषास्तु वर्जिताः || १३ || नृपकर्तुश्च जन्मर्क्षात् गेह ऋक्षावसानकम् | गणयेन्मतिमान्विप्र ! शुभमानं तु गृह्यताम् || १४ || लग्नाष्टमपि नाशं च दुर्योगं च विवर्जयेत् | * * शूलादिदुष्टाढ्य दुष्टयोगमुदाहृतम् || १५ || आयादि रेवमाख्यातं नागरादि विधिं शृणु | इत्यंशुमान्काश्यपे आयादिलक्षणपटलः (त्रयोविंशाः) || २३ || नागरादि विमानानां लक्षणं वक्ष्यतेऽधुना | हिमाद्रिकन्ययोरन्त * तो देशमुदाहृतम् || १ || सोऽपि देशं त्रिधाभिन्नं तत्तद्देशोद्भवै गुणः | प्. ७६) यथैव देहिनां देवं हं वातपित्तकफात्मकम् || २ || तथैव दण्डवत्सर्वं यज्ञेयं त्रिगुणात्मकम् | सात्विकं तामसं चैव राजसं च त्रिधा स्मृताः || ३ || हिमद्रि सिद्धयोरन्तर्गता तस्मात्सात्विका धराः | सिद्धादि कृष्णवर्णान्तं तामसाख्यं महीतलम् || ४ || कृष्णवर्णादिकन्यान्तं राजसं भूतलं भवेत् | नागरं सात्विकं देशं तामसं वेसरं तथा || ५ || राजसं द्राविडं देशं क्रमशः परिकीर्तिताः | सात्विकं नागरं हर्म्यं तामसं वेसरालयम् || ६ || राजसं द्राविडं हर्म्यं क्रमात्पुंषण्डयोषितः | विष्णुर्महेश्वरो धाता क्रमाद्धर्म्याधिदेवताः || ७ || नागरं भूसुरं विद्यात् वेसरं वैश्यमुच्यते | द्राविडं तु नृपो ज्ञेयो आकृतिं शृणु सुव्रत ! || ८ || कूटकोष्ठादि निष्क्रान्ति मानसूत्रे तु संस्थिताः | उन्नतावनतोपेतौ कूटकोष्ठौ यथा क्रमम् || ९ || एकानेकतलस्तंभं पत्रतोरणसंयुतम् | क्षुद्रकोष्ठसमायुक्तं महानास्यपरे द्विज ! || १० || वेदिकाजालकोपेतं कूटं वेदाश्रशीर्षकम् | एकानेकतलं वापि सालिन्दं वा विहीनकम् || ११ || प्. ७७) देवाग्रशीर्षकं कण्ठं शालाकारमथापि वा | नागरं भवनं ख्यातं तद्देशं तु प्रकल्पितम् || १२ || प्राग्वत्कूटादि निष्क्रान्तं कोष्ठं कूटाद्गतं तु वा | मानसूत्राद्बहिः कूटं नीव्रं कूटं तु कोष्ठकम् || १३ || मध्यकोष्ठं सभद्रं वा विभद्रं वा द्विजोत्तम ! | पंजरं मानसूत्रे वा कूटनिष्क्रान्त सादृशम् || १४ || उन्नतावनता शाला सौष्ठिकोष्ठं यथाक्रमम् | उन्नतं सान्तरं मंच तत प्रस्तरहीनकम् || १५ || चतुरश्राष्ट वृत्ताभं तले तले सौष्टिकं क्रमात् | नानामसूरकस्तंभे वेदिकाजालक तोरणैः || १६ || वृत्ताख्य स्फुटितैर्हस्ति कु(तु)ण्डे कुंभलतादिभिः | हारान्तरेषु मंचोर्ध्वे क्षुद्रकोष्ठयुतं तु वा || १७ || तत्रैव हस्ति कु(तु)ण्डं वा भद्रनास्यल्प एव वा | साधारं वा निराधारं एकानेकतलं तु वा || १८ || शिरसो वर्तनं कण्ठं वृत्तं वाष्टाश्रमेव वा | युगाश्रं वा शिरश्छन्दं विमानं द्राविडं भवेत् || १९ || तदेव चरणाधारं एकाकारेण कल्पयेत् | हारान्तरे विशेषेण कल्प्या वृत्तस्फुटादयः || २० || समौ तु कूटकोष्ठौ द्वौ सान्तरप्रस्तरान्वितौ | प्. ७८) हीनौ वान्तरमंचौ द्वौ नीव्रं च समसूत्रकौ || २१ || हारान्तरेषु कर्तव्यं भद्रपंजरसंयुतम् | कपोतपंजरं मध्यं वा सान्तरप्रस्तरान्वितम् || २२ || सर्वेषां कर्णकूटानां शीर्षं तु च युगाश्रकम् | वस्वश्रं वेदिकोपेतं मण्डलं शीर्षकं गलम् || २३ || वस्वश्रं वा शिरः कण्ठं युगाश्रं वा प्रकल्पयेत् | एतच्च द्राविडं ख्यातं हेमादिकुड्मलं तथा || २४ || वस्वश्रं वा षडश्रं वा तच्च द्राविडमुच्यते | एवं त्रिविधं नीत्या सु प्रोच्यते द्राविडालयम् || २५ || वेसरे कूटकोष्ठादि नीव्रं स्यात् समसूत्रकम् | वृत्ताकारं शिरोपेतं कर्णकूटं प्रकल्पयेत् || २६ || वृत्तं गर्भगृहाकारं बाह्ये वृत्ताभमेव वा | वृत्तग्रीवशिरोपेतं यथेष्टशिखरेण वा || २७ || सालिन्दं वा सभद्रं वा ह्येकानेकतलं तु वा | समाश्रं सायताश्रं वा वृत्तं वृत्तायतं तु वा || २८ || द्व्यश्र वृत्तं तु वा हर्म्यं कूटकोष्ठादिभिर्युतम् | उन्नतावनतोपेतौ कूटकोष्ठौ यथाक्रमम् || २९ || समौ वा कुटकोष्ठौ वा बहुभूम्यैकमेव वा | वेसरं भवनं ख्यातं अथवान्यप्रकारतः || ३० || प्. ७९) जन्मादिस्तूपिपर्यन्तं युगाश्रं नागरं भवेत् | वस्वश्रं शीर्षकं कण्ठं द्राविडं भवनं भवेत् || ३१ || वृत्तग्रीव शिरोपेतं वेसरं हर्म्यमीरितम् | कूटकोष्ठविहीनानां हर्म्याणां कथितास्त्विमे || ३२ || नानाधिष्ठानसंयुक्तं तलं प्रत्यंघ्रि भेदितम् | सर्वत्र वृत्त पादं वां वेसरे भवने कुरु || ३३ || लिंगं च पिण्डिकां चैव प्रासादं चैक जादिकम् | सर्वसंपत्समृद्धिः स्यात् नृपस्य वास्तुजन्मिनाम् || ३४ || विपरीते विपत्तिः स्यात् राजराष्ट्रभयंकरम् | तस्मात्सर्व प्रयत्नेन एकजात्येव माचरेत् || ३५ || नागरे सकलं शान्तं वेसरे यानमूर्तिनाम् | भोगवीरं च नृत्तं च द्राविडे भवने भवेत् || ३६ || अन्यथा चेद्विपत्तिः स्यात् कर्तुश्च भिक्षदेहिनाम् | नागरादि विधिः प्रोक्तः गर्भन्यासविधिं शृणु || ३७ || इत्यंशुमान्काश्यपे नागरादिविधिपटलः (चतुर्विंशः) || २४ || अथ वक्ष्ये विशेषेण गर्भन्यासविधिं परम् | प्. ८०) प्रासादं देहमित्युक्तं तस्य प्राणस्तु गर्भकम् || १ || गर्भहीने गृहे विप्र सकुत्कालवन्नवास्यकम् | अहमन्ये च देवाश्च न वासे पुन्नगर्भके || २ || तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत् | श्रीप्रदं प्राणिनां गर्भं इतरे श्रीकरं भवेत् || ३ || गर्भन्यासं न कर्तव्यं कर्तव्यं कर्तृनाशनम् | अधिष्ठाने प्रतेरूर्ध्वे भूसुराणां हिताय वै || ४ || जगत्यूर्ध्वे नृपाणां तु कुमुदोर्ध्वे विशां परम् | होमोर्ध्वे गर्भविन्यासं शूद्राणामभिवृद्धिदम् || ५ || एवं जात्यर्हकं प्रोक्तं भूमौ त्वाद्येष्टकोपरि | प्रासादे मण्टपे चैव प्राकारे गोपुरे तथा || ६ || परिवारालये चैव गर्भन्यासं तु कारयेत् | यत्रैवाद्येष्टकान्यासं तत्रगर्भं निधापयेत् || ७ || सौवर्णं राजतं ताम्रं श्रेष्ठमध्याधमं क्रमात् | कांस्येनैवायसा वापि कर्तव्यं गर्भभाजनम् || ८ || पंचांगुलं समारभ्य यावद्वै विंशदंगुलम् | एकांगुल विवृद्ध्या तु कलासंख्या तु भाजनम् || ९ || एकादिषोडशान्तानां भौमानां तु यथाक्रमम् | गर्भभाजनतारास्ते स्वांघ्रिमूलतदन्तु वा || १० || प्. ८१) गर्भभाजन विस्तारं सादृशोन्नतन्तथा | भाजनोच्च त्रिभागैकं पिधानस्योच्छ्रयं भवेत् || ११ || भाजने द्वित्रिभागान्तं पिधानालम्बनं द्विज ! | यवैकव्यासमारभ्य यावार्धं तु विवर्धनात् || १२ || यावत् सार्धाष्ट यवकं तावद्भित्ति विशालकम् | प्रागुक्तानां तु फेलायां क्रमशः परिकल्पयेत् || १३ || पंचविंशतिकोष्ठादि भाजनाभ्यन्तरे कुरु | फेलाभित्ति विशालार्धं एकोर्वा भित्तेस्तु द्विजसत्तम || १४ || अनन्तादि शिखण्ड्यन्तं मूलमंत्रं निधापयेत् | तद्बाह्ये षोडशे कोष्ठे पूर्वादि क्रमयोगतः || १५ || अकारादि विसर्गान्तं स्वरान्न्यस्त्वा क्रमेण तु | रत्नलोहानि धातूंश्च फेलाया भ्यन्तरे न्यसेत् || १६ || मृत्कन्दधान्य पत्राणि गर्भगर्ते तु विन्यसेत् | फेलाशुचिं ततो गव्यैः अस्त्रमंत्रमुदाहरन् || १७ || माणिक्यं विन्यसेत्कूटे कूटाक्षरमुदाहृतम् | अनन्ते विन्यसेद्वज्रं सूक्ष्मे तु मौक्तिकं न्यसेत् || १८ || शिवोत्तमेन्द्रनीलं स्यात् स्फटिकं त्वेकनेत्रके | एकरुद्रे तु शंखं स्यात् त्रिमूर्तौ पुष्यरागकम् || १९ || श्रीकण्ठे सूर्यकान्तं स्यात् वैडूर्यं तु शिखण्डिके | प्. ८२) स्वर्णे नैव गजं कृत्वा अकारे विन्यसेद्बुधः || २० || कपालं रजतेनैव इकारे तु निधापयेत् | ताम्रेणैव कृतं कुंभं उकारे द्विजसत्तम || २१ || आरकूटेन खट्वांगं ऋकारे तु निधापयेत् | स्वर्णेन वृषभं कृत्वा कूटाक्षरे निधापयेत् || २२ || आकारे विन्यसेच्छ्यामं ईकारे तु मनश्शिला | ऊकारे जातिलिंगं तु ऋकारे गैरिकं न्यसेत् || २३ || सौराष्ट्रं चैव ॡकारे ऐकारे त्वंजनं न्यसेत् | गोरोचनं तथौकारे विसर्गे हरितालकम् || २४ || तत्तद्बीजमनुस्मृत्य विन्यसेत्तु क्रमेण च | यवनी वारशाली च प्रियंगुतिलसर्षपम् || २५ || मुद्गानि सप्तबीजानि पूरयेद्गर्भ भाजनम् | भाजनोर्ध्वे पिधानेन सुस्निग्धं सुदृढं कुरु || २६ || प्रासादस्योत्तरे चाग्रे पंचषट्सप्तहस्त वा | षोडशस्तंभसंयुक्तं प्रपां कृत्वाति सुन्दरम् || २७ || पिधानस्योर्ध्वमाच्छाद्य तरंगस्तंभ वेष्टनम् | द्वारतोरणसंयुक्तं दर्भमालादि भूषितम् || २८ || मण्टपस्य त्रिभागैकं मध्ये वेदीं प्रकल्पयेत् | हस्तमात्रसमुत्सेधं तालमात्रमथापि वा || २९ || प्. ८३) परितस्त्वग्निकुण्डानि महाशासु द्विजोत्तम ! | चतुरश्रं धनुर्वृत्तं पद्मं प्रागादिषु क्रमात् || ३० || त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् | दर्पणोदरसंकाशं कुण्डवेदींस्त्वलं कुरु || ३१ || ततः शिल्पिनमुद्वास्य गोमयालेपनं गुरुः | पिष्टचूर्णैरलं कृत्य पुण्याहं प्रोक्षणं कुरु || ३२ || वेद्यूर्ध्वे स्थंडिलं कृत्वा चतुर्द्रोणैः सुशालिभिः | तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् || ३३ || गन्धपुष्पादिभिः पूज्य दिशि देवान्स्वमंत्रतः | गव्याभिषिच्य फेलायां स्नापयेद्गन्ध तोयकैः || ३४ || तन्तुना कौतुकं बध्वा नववस्त्रेण वेष्टयेत् | स्थण्डिले स्थापयेत्फेलां कूटाक्षरमुदाहरन् || ३५ || परितोऽष्टौ घटान्न्यस्त्वा ससूत्रान्सापिधानकान् | सकूर्चान्वस्त्रसंयुक्तान् गन्धाम्बुपरिपूरितान् || ३६ || विद्येशाधिपकुंभांस्तान् स्थाप्याभ्यर्च्य स्वमंत्रतः | कुण्डानि पंचसंस्कारं कृत्वा होमं समाचरेत् || ३७ || अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् | समिदाज्य चरुं लाजान् तिलसर्षपतण्डुलान् || ३८ || हृदयादि षडंगैश्च ईशानेन क्रमेण तु | प्. ८४) होमं कृत्वा विशेषेण प्रत्येकाष्टशताहुतिम् || ३९ || द्रव्यान्ते व्याहृतिं हुत्वा मूलेनैव शताहुतिम् | जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् || ४० || एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके | सुनक्षत्रे सुलग्ने च सुतिथौ च सुवारके || ४१ || आदिशैव कुले जातं स्वाचार्यं शिवदीक्षितम् | स्नानद्वयसमायुक्तं सकलीकृतविग्रहम् || ४२ || सितवस्त्रोत्तरीयं च सितमाल्यानुलेपनम् | आचार्यं पूजयेत्सम्यक् वस्त्रहेमांगुलीयकैः || ४३ || शिल्पिनं पूजयेत्तत्र वस्त्रैश्चाभरणादिभिः | गर्भस्थानं प्रविश्याथ कर्ताचाचार्य शिल्पिभिः || ४४ || अष्टधा विभजेद्भित्तिं बाह्यतश्चतुरं त्यजेत् | त्रीणि वाभ्यन्तरे वर्ज्य शेषांशे भाजनं न्यसेत् || ४५ || हृन्नदीसस्य वल्मीकं हलस्थं कुलिरावटे | नागदन्ते वृषशृंगे वा अष्टमृद्ग्राह्य देशिकः || ४६ || गर्भगर्त तमापूर्य कन्दं न्यस्त्वा मृदोपरि | मध्येत्वंबुजकन्दं च पूर्वे कुमुदकन्दकम् || ४७ || दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्चिमे न्यसेत् | सौम्ये कशेरुकन्दं च बीजं तदुपरि न्यसेत् || ४८ || प्. ८५) पूर्वे तु विन्यसेच्छालीं ब्रीहि वै दक्षिणे न्यसेत् | पश्चिमे कोद्रवं न्यस्त्वा माषमुत्तरतो न्यसेत् || ४९ || पावके विन्यसेन्मुद्गं नैर्-ऋत्यां कंगुबीजकम् | प्रियंगुं वायुभागे तु वैशान्यां तु कुलस्थकम् || ५० || एवं न्यस्त्वा हृदामंत्रं ततो वै गर्भभाजनम् | सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम् || ५१ || जयशब्द समायुक्तं ब्रह्मघोषसमायुतम् | प्रासादबीजमुच्चार्य स्थापयेद्गर्भभाजनम् || ५२ || गन्धपुष्पादिभिः पूज्य प्रासादं गर्भभाजने | शैलैर्वाचेष्टकाभिर्वा सैकतैस्सुदृढं कुरु || ५३ || गर्भन्यासविधिः ख्यातं ततस्त्वेकतलं शृणु | इत्यंशुमान्काश्यपे गर्भन्यासविधिपटलः (पंचविंशः) || २५ || अथ वक्ष्ये विशेषेण हर्म्यमेकतलं शृणु | तस्य विस्तारतुंगं च प्रोक्तं प्रासादमानके || १ || युगाश्रं वृत्तमायाश्रं द्व्यश्रं वृत्तं षडश्रकम् | अष्टाश्रं चाकृतिष्वेषां शिखरेऽपि तथैव च || २ || प्. ८६) हर्म्य तारार्धमानं तु कन्यसं मुखमण्टपम् | हर्म्य तारसमं श्रेष्ठं तयोर्मध्येष्ट भाजिते || ३ || मुखमण्टपदीर्घं तु नवधा कथिता मया | प्रासाद सदृशं व्यासं उत्तमत्रय मण्टपम् || ४ || प्रासादादविशेषिता दण्डमध्यर्धदण्डकम् | द्विदण्डं वा प्रवेशं तु मानसूत्राद्द्विजोत्तम ! || ५ || सार्धदण्डैक दण्डं वा मानसूत्रात्तु वेशनम् | युग्मस्तंभसमायुक्तं युक्त्या सर्वांगशोभितम् || ६ || सावकाशान्तरालं वा कुड्यद्वारं सजालकम् | सावकाशान्तरालं चेत् तद्दीर्घं द्वित्रिचतुष्करम् || ७ || सोपानं पाश्वयोः कुर्यात् गजहस्त विभूषितम् | प्रासादभित्तिविस्तारतुल्यं वार्धं त्रिपादकम् || ८ || अन्तरालस्य भित्तेस्तु व्यासास्युर्मण्टपं तथा | कूटकोष्ठादि युक्तं वा भिन्नं मुखमण्टपम् || ९ || त्रिवर्गसहितं वापि तोरणाद्यैर्विचित्रितम् | एकानेकतलं वाथ कर्तव्यं मुखमण्टपम् || १० || हर्म्यतारे त्रिभागैकं गर्भगेहस्य विस्तृतम् | पंचभागे त्रिभागं च वेदांशं सप्तभाजिते || ११ || दशांशे भूतभागं तु रसांशं रुद्रभाजिते | प्. ८७) त्रयोदशांशे सप्तांशं वस्वंशं तिथि भाजिते || १२ || सप्तादशांशे नवांशं च व्यासार्धं च द्विजोत्तम ! | गर्भगेहस्य विस्तारं नवधा कीर्तितां मया || १३ || शेषंभित्ति विशालं स्यात् परितः कल्पयेद्बुधः | एकद्वित्रिचतुष्पंच भित्तिः स्यादेकभूमिके || १४ || हर्म्ये च वसुधा भज्य एकांशं हि तलोन्नतम् | द्विभागं चरणायामं प्रस्तरार्धैकभागया || १५ || गलोच्चं त्वेकभागेन द्विभागं शिखरोदयम् | एकांशं स्तूपि तुंगं तु कल्प्येवं शान्तिकं भवेत् || १६ || शान्तिके मंचमानं तु दशाष्टसप्तभागिकम् | एकांशं रहितं शेषं मंचं वा प्राग्वदेव वा || १७ || एवं शान्तिकमाख्यातं पौष्टिकं चाधुना शृणु | सदनोच्चे नवांशे तु शिवांशं तु तलोदयम् || १८ || अर्धपादसमायुक्तं द्व्यंशं तु चरणोदयम् | मंचमानं तथैकांशं सार्धपादांशकं गलम् || १९ || सत्रिभागत्रिभागं तु शिखरोदयमीरितम् | स्तूप्युत्सेधं तथैकांशं पौष्टिकं सदनान्वितम् || २० || सदनोच्चदशांशे तु अधिष्ठानोदयं शिवम् | सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् || २१ || प्. ८८) सार्धांशगलमानं तु गुणांशं शिखरोदयम् | एकांशंस्तूपिमानं तु जयदं तदुदाहृतम् || २२ || रुद्रांशे हर्म्य तुंगं तु सपादांशं धरातलम् | सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् || २३ || अध्यर्धांशं तु कण्ठोच्चं सार्धत्र्यंशं तु शीर्षकम् | शेषं स्तूप्युदयं ख्यातं त्वद्भुतं सदनं भवेत् || २४ || तुंगे सप्तांशभागे तु त्रिपादांशं धरातलम् | पक्षांशं पादतुंगं तु त्रिपादांशं तु प्रस्तरम् || २५ || त्रिपादांशं गलं मानं शिखरोच्चं द्विभागकम् | स्तूप्युत्सेधं तथैकांशं एतत्स्यात्सार्वकामिकम् || २६ || शान्तिकाद्युदयोपेतं हर्म्यगण्यं क्रमोदितम् | विपरीते नृपादीनां विपत्तिं नित्यमावहेत् || २७ || तस्माच्छान्त्यादिगण्यं च दुदयं चैव कारयेत् | रुद्रांशे सदनोत्सेधे तलमेकांशमानतः || २८ || द्व्यंशं तु चरणायामं प्रस्तरं तु शिवांशकम् | उपग्रीवस्तु सार्धांशं त्रिपादं प्रस्तरोदयम् || २९ || सपादांशं गलोत्सेधं सार्धद्व्यंशं तु शीर्षकम् | एकांशं स्तूपिमानं तु एवं चैवाद्भुतं स्मृतम् || ३० || अथवाष्टौ द्विरष्टौ वा नवसप्ताष्टकं तु वा | प्. ८९) पक्षमाधारपादं च मंचोपग्रीवमंचकम् || ३१ || गलमूर्ध्नि शिखामानं समोवेष्टं नृपांशके | सोपग्रीवसमंचौ ता एकभूरेव विद्येते || ३२ || अथवाष्टौ द्विरष्टौ च सप्ताष्टशरधातुकम् | कृत्वाचाधारपादं च मंचोपग्रीवमंचकम् || ३३ || गलमूर्ध्नि शिखामानं समौ चाष्टनवांशके | ऊर्ध्वमंचोपरिष्टात्तु चतुष्कोणेषु सुव्रत ! || ३४ || कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः | अधिष्ठानादि सर्वांगं प्रागिवैव प्रकल्पयेत् || ३५ || वृत्तग्रीवसमायुक्तं तथैव शिखरं घटम् | शिखरे तु महानासी चत्वारस्तु महादिशि || ३६ || दिशिभद्रयुतं वास्ते मंचाल्पानासिका कलाः | प्रस्तरे चाल्पनासीं वा विजयं तदुदाहृतम् || ३७ || तदेव कर्णकूटाढ्यं वर्गपंचांशवानतम् | नागराद्युचितं कर्णकूटाकारं प्रकल्पयेत् || ३८ || कर्णकूटस्य मध्यं भद्रं तत्तद्भद्रनासिका | अन्तरालं च तत्तुल्यं क्षुद्रपंजरसंयुतम् || ३९ || सुभद्रं वा कर्णकूटं पंजरं त्वल्पनासिका | मध्यनासी विशालं वा मध्य भद्रविशालकम् || ४० || प्. ९०) त्रिचतुष्पंचषट्सप्तभागं वा सदनस्ततम् | कूटमेकद्विभागं वा मध्यभद्रविशालकम् || ४१ || दण्डं वाध्यर्ध दण्डं वा सर्वदेवार्हकं परम् | तदेव सदने बाह्ये मध्यभद्रयुतं तु वा || ४२ || तदन्तो जालकैश्चाढ्यं श्रीशैलं तदुदाहृतम् | तदेव वेदिकाकण्ठं शिखरं च घटं तथा || ४३ || वस्वश्र पट्टसंयुक्तं चतुर्दिग्भद्रनासिका | अभद्रनासी चत्वार शिखरे तु विदिक् स्थिताः || ४४ || पादं प्रत्याल्पनास्याढ्यं स्वस्तिबन्धं तदुच्यते | तदेवमध्यभद्रं च कर्णकूटविहीनकम् || ४५ || सुशोभनावहं ख्यातं सर्वदेव प्रियावहम् | शिखरे तु महानासी प्रस्तरेऽष्टौ द्विरष्ट वा || ४६ || युगाश्रं शिखरं कंठं वेदिका चैव श्रीकरम् | तदेव शिखरे चाष्टावल्पनासी समन्वितम् || ४७ || चतुर्महानासिकोपेतं श्रीकण्ठं तदुदाहृतम् | तानि वैद्वयश्र वृत्ताभं हस्ति पृष्ठमुदाहृतम् || ४८ || वेदिकाकण्ठमूर्धा च षडश्रं परिकल्पयेत् | पट्टं प्रतिमहानास्यं कल्पयेत्स्कन्दकान्तकम् || ४९ || मध्यभद्रसमायुक्तं कर्णकूटसमन्वितम् | प्. ९१) महानास्यपरे कोष्ठसंयुक्तं शीर्षकं भवेत् || ५० || नासिका विस्तृतं दण्डं द्वयं वाथ त्रिदण्डकम् | कोष्ठदीर्घसमाख्यातं उत्सेधं नासिकासमम् || ५१ || विदिक्षु भद्रनास्याढ्यं शिखरं परिकल्पयेत् | वृत्तमस्तककर्णास्यं वस्वश्रं वा गलं शिरः || ५२ || वृत्तकेसरमाख्यातं वस्वश्रं राजकेसरम् | प्रासादस्य तु विस्तारं पंचसप्ताष्ट वा भजेत् || ५३ || द्विभागं वा त्रिभागं वा प्राग्वद्वा मध्यभद्रकम् | दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् || ५४ || मध्यभद्रस्य निष्क्रान्तं भद्रावेष्टितहर्म्यकम् | चतुर्महानासिकोपेतं शिखरायतवृत्तकम् || ५५ || पादं प्रत्याल्पनास्याढ्यं कण्ठं वै शीर्षकाकृतिः | कल्याणसुन्दरं ख्यातं सर्वदेवार्हकं भवेत् || ५६ || तदेवभद्रनास्याढ्यं पूर्वे परे द्विजोत्तम ! | ललाटनासिकोपेतं पार्श्वयोर्द्विजसत्तम ! || ५७ || समं वा सायतं वाथ कल्पितं कौसलं भवेत् | तलं प्रतिविमानानां दिङ्मूर्तिमथ वक्ष्यते || ५८ || स्कन्दं वै पूर्वदिग्भागे दक्षिणामूर्तिं दक्षिणे | पश्चिमे विष्णुमूर्तिं वा लिंगोद्भवमथापि वा || ५९ || धातारमुत्तरे विप्र द्वारस्थाने तु वर्जयेत् | मण्टपे दक्षिणे भद्रे स्थापयेत्तु विनायकम् || ६० || प्. ९२) पूर्वे च पश्चिमे तस्य नृत्तमूर्तिं प्रकल्पयेत् | दुर्गामुत्तरदिग्भागे क्षेत्रपालं तथैव च || ६१ || स्थानकं वासनं वाथ दिशां मूर्तिं प्रकल्पयेत् | एवं धरातलोर्ध्वे तु कर्तव्यं द्विजसत्तम ! || ६२ || स्कन्दं वा पूर्वदिग्भागे शक्रो वा हस्ति रोहितौ | हस्ती विनाब्जकानासी नासिका रग्निविस्तरम् || ६३ || दक्षिणे दक्षिणा मूर्तिं वीरभद्रमथापि वा | पश्चिमे नारसिंहं तु सौम्य मूर्तिमथापि वा || ६४ || उत्तरे तु विधातारं धनदेवं द्विजोत्तम ! | प्रस्तरोपरिकर्तव्यं एकद्वित्रितले तथा || ६५ || चतुर्भूम्यादि महाशासु महेशास्तु यथेष्टकम् | उमास्कन्दादि सहिता महेशाः परिकीर्तिताः || ६५ || अन्यामराश्च गन्धर्वान्सिद्धाद्यैवमरुद्गणाः | कलान्तं युगभूम्यादि ग्रीवे च प्रस्तरान्तके || ६७ || एष्वष्टमूर्तिमष्टासु कल्पयेत्कल्पवित्तमः | गलाधस्तात्तु मंचोर्ध्वे कोणेषु वृषभं कुरु || ६८ || कोणं प्रति द्वयं वैकं वृषभं शयनं कुरु | भूतं वाथ चतुष्कोणे हृदयांजलि संयुतम् || ६९ || कल्पयेत्पद्मपीठोर्ध्वे त्वासीनं तु वृहत्तनु | प्. ९३) आमोदमग्नि कोणे तु प्रमोदं नैर्-ऋते भवेत् || ७० || प्रमुखं वायु कोणे तु दुर्मुखं त्वीश कोणके | श्वेतं रक्तं तथा पीतं कृष्णमग्न्यादिषु क्रमात् || ७१ || ममैव ताद्येषां तासां वैवाहनं कुरु | करालमुद्गीकुल्माषकल्कचिक्कण लेपनम् || ७२ || नानालंकारसंयुक्तं नानालीलासमन्वितम् | नानाक्रीडासमायुक्तं सुधया दारुभिस्तथा || ७३ || उचितं कल्पयेद्धीमान् चरुदार्वेष्टका भवेत् | एवमेकतलं ख्यातं द्वितलं तु ततो विदु || ७४ || इत्यंशुमान्काश्यपे एकतलविधिपटलः (षड्विंशः) || २६ || अथ वक्ष्ये विशेषेण द्वितलस्य तु लक्षणम् | प्रासादमूलवत्कार्यं विस्तारोच्चं तु निर्गमम् || १ || विन्याससूत्रयोरन्तर्व्यासं सप्तर्तु वा भजेत् | एकांशं कूटविस्तारं कोष्ठं तद्द्विगुणा यतम् || २ || कूटव्याससमं कोष्ठं विस्तारे द्विजसत्तम ! | शेषं हारान्तरं कोष्ठं पार्श्वयोस्तु सपंजरम् || ३ || प्. ९४) हारान्तरमशेषं वा त्रिपादं वार्धमेव वा | पंजरव्यासमाख्यातं कूटबाह्यसमोगतिम् || ४ || कूटात्किंचित् प्रवेशं वा मानसूत्रान्तनीव्रताः | पंजरं कर्णकूटाभं नासिकाकार एव वा || ५ || शालाकारं तु वा विप्र ! हस्तितुण्डाभमेव वा | प्रासादोच्चं तु विभजेदष्टाविंशति संख्यया || ६ || गुणांशं धरातलोत्सेधं रसांशं चरणोदयम् | प्रस्तरोत्सेधमग्न्यंशं भूतांशं चरणोदयम् || ७ || द्विभागं प्रस्तरोत्सेधं एकांशं वेदिकोदयम् | द्विभागं गलमानं तु सार्धवेदांशशीर्षकम् || ८ || स्तूप्युच्चं सार्धभागं तु कल्पितं शान्तिकं भवेत् | चतुस्त्रिंशति भागं तु कृत्वा तु सदनोदयम् || ९ || सार्धाग्न्यंशमधिष्ठानं तद्द्वयं चरणोदयम् | प्रस्तरोच्चं गुणांशं स्यात् तलिपं सार्धषड्भवेत् || १० || गुणांशं मंचमानं तु व्योमांशं वेदिकोदयम् | सार्धद्व्यंशं गलोत्सेधं भूतांशं शिखरोदयम् || ११ || अध्यर्धांशं शिखामानं पौष्टिकं सदनं भवेत् | तदेव गलमानं तु सार्धद्व्यंशेन कल्पयेत् || १२ || शेषं पूर्ववदेवं तु त्रयस्त्रिंशोदये कृते | प्. ९५) जयदं सदनं ह्येतत् सर्वदेव प्रियावहम् || १३ || षट्त्रिंशद्विभजेदहर्म्यतुंगं धारातलं युगम् | वस्वंशपादमानं तु सार्धाग्न्यंशं तु प्रस्तरम् || १४ || सप्तांशं चरणोच्चं तु गुणांशं मंचमानकम् | एकांशं वेदिकोच्चं तु गुणांशं तु गलोदयम् || १५ || भूतांशं शिखरोच्चं तु स्तूप्युच्चं सार्धभागया | अद्भूतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः || १६ || चत्वारिंशति भागं तु कर्तव्यं सदनोदयम् | अधिष्ठानोच्चं तु वेदांशं स्तंभं तद्द्विगुणायतम् || १७ || युगांशं मंचमानं तु तलिपं सार्धसप्तकम् | त्रिभागं प्रस्तरोत्सेधं द्विभागं वेदिकोदयम् || १८ || त्रिभागं ग्रीवमानं तु शिखरं सप्तभागया | शेषं शिखोदयं विद्याद्विमानं सर्वकामिकम् || १९ || होमादिस्तूपिपर्यन्तं युगाश्रं परिकल्पयेत् | चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् || २० || षडष्टैवाल्पनास्यास्युः पादं प्रति तु कल्पयेत् | शिखरे तु चतुर्दिक्षु महानासीसमन्वितम् || २१ || कल्पितं वेदिकाद्यैस्तु नानाचित्रैर्विचित्रितम् | एवं स्वस्तिकमाख्यातं सर्वदेव प्रियावहम् || २२ || प्. ९६) तदेव शिखरकोणेषु पार्श्वयोस्त्वल्पनासिका | स्वस्तिभद्रमितं ख्यातं मम प्रीतिकरं भवेत् || २३ || तदेव नतकूटं च कोष्ठोन्नतास्समंचकाः | नतपंजरसंयुक्तं एतद्विपुलसुन्दरम् || २४ || तदेवान्तरमंचाढ्यौ कूटकोष्ठौ विशेषतः | नतपंजरसंयुक्तं यथेष्टाकृति शीर्षकम् || २५ || स्तूपीघटं गलं तद्वद् श्रीकरं तदुदाहृतम् | तदेव नवशालाः स्युः कूटोन्नतसमंचकाः || २६ || निम्नपंजर संयुक्तं यत्तत्कैलासमुच्यते | तदेव कूटकोष्ठौ द्वौ निम्नोन्नतविहीनकौ || २७ || सान्तरप्रस्तरोपेतौ समसूत्रततोन्नतौ | हारान्तरे विशेषेण युग्मं वा युग्मपंजरम् || २८ || चतुष्कूटं चतुश्शाला षडष्टैवाल्पनासिकाः | वस्वश्रवेदिकोपेतं वर्तुलं शीर्षकं गलम् || २९ || शिखरं वसुनासाढ्यं भद्रं चैव चतुश्चतुः | वेदिका तोरणाढ्यं तु रुद्रकान्तमिदं परम् || ३० || तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् | विष्णुकान्तमिदं नाम्ना सर्वदेवार्हकं भवेत् || ३१ || तदेव वर्तुलं वेदीकन्धरं शिखरं तथा | प्. ९७) चतुश्शालाष्टकूटाढ्यं सप्ताष्टैवाल्पनासिकाः || ३२ || एतत्पर्वतमित्युक्तं विमानं संपदास्पदम् | कूटात्कोष्ठस्य निष्क्रान्तं दण्डं वाध्यर्धदण्डकम् || ३३ || द्विदण्डं वा त्रिदण्डं वा कूटकोष्ठस्य निर्गतिः | नानाधिष्ठानसंयुक्तं नानास्तंभसमन्वितम् || ३४ || प्रागुक्तानां तु सर्वेषां कल्पितं वा विहीनकम् | तदेव शिखरोच्चार्ध कोष्ठकं तु चतुष्टयम् || ३५ || चतुरश्रशिरोपेतं चतुष्कूटसमन्वितम् | षडष्टनासिकोपेतं स्वस्तिबन्धमिदं स्मृतम् || ३६ || कूटकोष्ठौ द्वौ चतुश्चान्तरप्रस्तरान्वितौ | हारापंजरसंयुक्ता नवाष्टैवाल्पनासिकाः || ३७ || सर्वालंकारसंयुक्तं तत्तत्कल्याणसुन्दरम् | तदेव शिखरे चार्धकोष्ठकं तु विवर्जयेत् || ३८ || चत्वारनासिकोपेतं शिखरं परिकल्पयेत् | नानालंकारसंयुक्तं एतत्पांचालमिष्यते || ३९ || तदेवाष्टाश्र वेदी च कन्धरं शिखरं घटम् | शिखरेऽष्टौ महानासी युक्तं वै विष्णुकान्तकम् || ४० || सान्तरे प्रस्तरोपेतं कूटकोष्ठाश्चतुश्चतुः | पंजराष्टकसंयुक्तं वृत्तशीर्षककन्धरम् || ४१ || प्. ९८) दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् | कर्णकूटात्तु कोष्ठादिनिष्क्रान्तं परिकल्पयेत् || ४२ || षडष्टाल्पनासिकोपेतं चत्वारि पङ्क्तिरेव वा | एतदीश्वरकान्तं स्यात् ईश्वरस्य प्रियावहम् || ४३ || तदेव त्रिचतुर्भागभागाधिक्यायताश्रकम् | तथा शीर्षककण्ठं च वेदिकां च प्रकल्पयेत् || ४४ || स्तूपि त्रयसमायुक्तं एतन्मंगलमुच्यते | तदेवायतवृत्ताभं गान्धारमिति विद्यते || ४५ || तारादर्धाधिकायामं आयताश्रं समाश्रं वा | द्व्यश्रवृत्तं शिरोयुक्तं वेदिका च गलं तथा || ४६ || नेत्रशालामुखाकारं हस्तिपृष्ठमिदं परम् | द्व्यश्रवृत्तमुपानादि कल्पितं वा तदेव हि || ४७ || समाश्रमायताश्रं वा बाह्यतः परिकल्पयेत् | वृत्तगर्भगृहोपेतां कूटकोष्ठादिसंयुतम् || ४८ || वृत्ताभं कर्णकूटानां श्रीकरं परिकल्पयेत् | कूटकोष्ठं च नीडं च समसूत्रे तु कल्पयेत् || ४९ || नाम्ना मनोहरं हर्म्यं सर्वदेवार्हकं परम् | उपानात्स्तूपि पर्यन्तं वृत्तं चैव बहिर्बहिः || ५० || शेषं प्रागिवमुद्दिष्टं शिवकान्तमिदं परम् | प्. ९९) चतुरश्रमधिष्ठानं गर्भगेहं तथैव च || ५१ || अधिष्ठानोपरिष्ठात्तु स्तूप्यन्तं वर्तुलाकृतिः | कूटकोष्ठादि सर्वांगं युक्तं वृत्तग्रहं भवेत् || ५२ || चतुरश्रमधिष्ठानं आयताश्रमथापि वा | रसाश्रं शिखरं कण्ठं कूटकोष्ठादि संयुतम् || ५३ || यथोचितं तु संकल्प्य नाम्ना कौबेर कान्तकम् | एवं तु द्वितलं योग्यं भेदा अष्टादश स्मृताः || ५४ || इष्टकाभिश्शिलाभिर्वा होमादिस्तूपिकान्तकम् | कल्पितं संचितं हर्म्यं पुमानेव घनीकृतम् || ५५ || दृषत्रदेष्टकामिश्च मिश्रहर्म्यं तदेव हि | मिश्रेष्वादौदृषत्कार्यं तदूर्ध्वे त्विष्टका क्रिया || ५६ || वनिता संचिता ख्याता घनाघनमिति स्मृतम् | इष्टकादारुणा चैव तन्मिश्रं षण्डमुच्यते || ५७ || तदेवोपसंचितं ख्यातं घनाघनमुदाहृतम् | अंशेन रहितं कार्यं संचितं स्मृति विद्यते || ५८ || अघनं चेति तत्ख्यातं एतत्पुंषण्डयोषितः | वक्त्रमण्टपमानं च गर्भगेहविशालकम् || ५९ || भित्तिव्यासं च ते सर्वे प्राग्वदेकतलोक्तवत् | द्वारस्योभय पार्श्वे तु पादयोरन्तरे द्विज ! || ६० || प्. १००) द्वारपालगुहां कुर्यात् तलादुत्तरसीमकम् | बिम्बोदित विशालं तु दण्डमात्रं तु वेशरम् || ६१ || सर्वधाम्नि च कर्तव्यं वेशनारहितं तु वा | एवं द्वितलमाख्यातं त्रितलं तु तथा विदुः || ६२ || इत्यंशुमान्काश्यपे द्वितलमानपटलः (सप्ताविंशः) || २७ || अथ वक्ष्ये विशेषेण त्रितलं शृणु सुव्रत ! | तस्य विस्तारतुंगं च पुरोक्तं हर्म्यमानवत् || १ || विन्याससूत्रयोरन्तः तदष्टांशविभाजिते | एकांशं कूटविस्तारं विशालायामं तु तद्द्वयम् || २ || समं त्रिपादमर्धं वा पंजरव्यासमुच्यते | शेषं हारान्तरं ख्यातं निष्क्रान्तादीनि पूर्ववत् || ३ || ऊर्ध्वभूमौ रसांशेंशं कूटव्यासमुदाहृतम् | शालायामद्विभागं तु शेषं हारान्तरं भवेत् || ४ || हारान्तरसमं वार्धत्रिपादं वाऽथ पंजरम् | ऊर्ध्वभूमिकभागैक मध्ये भद्रं विधीयते || ५ || दण्डं सार्धद्विदण्डं वा मध्यभद्रस्य नीव्रकम् | प्. १०१) प्रासादस्योच्छ्रयं भानुद्विगुणांशं विभाजिते || ६ || द्विभागं धरातलोच्चं वै वेदांशं चरणोदयम् | मंचमानं द्विभागेन पादोन चतुरंशकैः || ७ || पादायामं च सार्धांशं प्रस्तरोच्चमुदाहृतम् | सार्धत्रिभागं पादोच्चं सपादांशं तु मंचकम् || ८ || अर्धांशं वेदिका मानं गलमानं शिवांशकम् | सार्धत्र्यंशं तु शिखरं स्तूप्युच्चं त्वेकभागया || ९ || एवं हि कल्पितं गेहं शान्तिकं त्विति विद्यते | चतुर्विंशद्विमानोच्चेतलोच्चं तु द्विभागया || १० || वेदांशं चरणायामं पक्षांशं मंच मानकम् | पादोन चतुरंशं तु तलीवोदयमिष्यते || ११ || सार्धांशं प्रस्तरोत्सेधं सार्धत्र्यंशांघ्रिणोदयम् | अध्यर्धांशं तु मंचोच्चं अर्धांशं वेदिकोदयम् || १२ || शिवांशं ग्रीवमानं तु गुणांशं शिखरोदयम् | सपादांशं शिखामानं पौष्टिकं तदुदाहृतम् || १३ || सप्तविंशति भागं तु कृत्वा तु सदनोदयम् | द्विभागं धरातलोत्सेधं युगांशं चरणोदयम् || १४ || मंचमानं द्विभागेन वेदांशं चरणोदयम् | पादोनद्व्यंशमंचाश्च तलीपोच्चं तु तद्द्वयम् || १५ || प्. १०२) सार्धांशं प्रस्तरोत्सेधं एकांशं वेदिकोदयम् | द्विभागं ग्रीवमानं तु वेदभागं तु शीर्षकम् || १६ || शेषं स्तूप्युदयं ख्यातं जयदं तदुदाहृतम् | चत्वारिंशद्द्वयाधिक्यभागं कृत्वा गृहोच्चकम् || १७ || अधिष्ठानं त्रिभागार्धं सप्तांशं चरणोदयम् | तलोच्च सदृशं मंचतलिपं सार्धषट्ककम् || १८ || गुणांशं प्रस्तरोत्सेधं ऊर्ध्वपादं षडंशकम् | सार्धद्व्यंशं तु मंचोच्चं एकांशं वेदिकोदयम् || १९ || गलमानं द्विभागं स्यात् भूतांशं शिखरोदयम् | द्विभागं स्तूपि तुंगं तु प्रोक्तमद्भुतहर्म्यके || २० || प्रासादस्योच्चतुंगं तु षडष्टांशैर्विभाजिते | अधिष्ठानं युगांशं तु वस्वंशं चरणोदयम् || २१ || मंचमानं तु वेदांशं तलिपं सार्धसप्तकम् | सार्धत्रिभागमंचोच्चं सप्तांशं चरणोदयम् || २२ || प्रस्तरोच्चं गुणांशं तु शिवांशं वेदिकोदयम् | गलमानं द्विभागं स्यात् रसांशं शिखरं भवेत् || २३ || द्विभागं तु शिखामानं एवं स्यात्सार्वकामिकम् | अष्टकूटाष्टशालाभं कलापंजरसंयुतम् || २४ || षण्णवत्यल्पनास्याढ्यं जन्मादग्रं युगाश्रकम् | प्. १०३) नानाधिष्ठान संयुक्तं नानापादैरलं कृतम् || २५ || शिखरे भानुनास्याढ्यं महाल्पं चतुरष्टकम् | कूटकोष्ठोभतादीनि नागराद्युचितं भवेत् || २६ || स्वस्तिकं भवनं ख्यातं तदेव शिखरे द्विज ! | चतुर्महानासिकोपेतं अल्पाष्टकविवर्जितम् || २७ || स्वस्तिभद्रमिदं ख्यातं सर्वदेव प्रियावहम् | तदेव वृत्तशिखरं गलं वै वेदिका तथा || २८ || रुद्रकान्तमिदं नाम्ना मम प्रीतिकरं भवेत् | तदेव शीर्षकोणेषु अल्पनासीद्वयं भवेत् || २९ || कल्पितं शिवकान्तं स्यात् शिवप्रियकरं गृहम् | तदेव वेदिकाकण्ठं शीर्षकं च घटं तथा || ३० || वस्वश्रं कल्पितं यत्तद् विष्णुकान्तमिदं परम् | विन्याससूत्रयोरन्तः नवभाग विभाजिते || ३१ || एकांशं कूटविस्तारं द्विभागं कोष्ठदीर्घकम् | कोष्ठं प्रति द्विकोष्ठं स्यात् अर्धांशं पंजरस्ततम् || ३२ || शेषं हारान्तरं ख्यातं कल्पयेत् कल्पवित्तमः | चतुष्कूटाष्टशाला च भानुपंजरसंयुतम् || ३३ || हारान्तरं चतुर्विंशत् आदिभूमेवमाचरेत् | सप्तांशं विभजेद्भागं एकांशं कूटविस्तरम् || ३४ || प्. १०४) कोष्ठायतं द्विभागं स्यात् धाममध्ये प्रकल्पयेत् | अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् || ३५ || चतुष्कूटं चतुश्शाला पंजराष्टक संयुतम् | कल्प्यहारान्तरोपेतं द्वितीयं भूतलं कुरु || ३६ || तदूर्ध्वभूमिविस्तारं त्र्यंशैकं मध्यभद्रकम् | अष्टकूटा च शाला च विंशत्पंजरसंयुतम् || ३७ || शताष्टनासिकोपेतं वस्वश्रं शीर्षकं गलम् | महानास्यष्टकोपेतं शिखरन्तु द्विजोत्तम ! || ३८ || नाम्ना शुद्धविमानं तु मम प्रीतिकरं भवेत् | तदेवाष्टाश्र वेदी च वृत्ताभं शिखरं गलम् || ३९ || विमलाकृतिनाम्ना तु सर्वदेवहितं भवेत् | तदेव शिखरं कण्ठं युगाश्रं ब्रह्मकान्तकम् || ४० || तदेव सायताश्रं तु सपादं सार्ध त्रिभागिकम् | वसुभागं तु विस्तारं आयामं दशधा भवेत् || ४१ || एकांशं कूटविस्तारं शालान्तं द्विगुणायतम् | शेषं हारान्तरं ख्यातं प्रागिवैव प्रकल्पयेत् || ४२ || षडष्टभागविस्तारं आयामं चोर्ध्वभूमिके | एकैकांशेन कूटं स्यात् कोष्ठदीर्घं द्वयांशकम् || ४३ || प्. १०५) अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् | ऊर्ध्वभूविस्तृतं चाग्निभागैकं मध्यभद्रकम् || ४४ || द्व्यश्र वृत्तं च वेदी च कण्ठं च शीर्षकं तथा | चतुष्कूटाष्टशाला च भानुपंजरसंयुतम् || ४५ || हारान्तरं चतुर्विंशत् कल्पयेदादिभूतले | चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् || ४६ || षोडशान्तरसंयुक्तं शतसंख्याल्पनासिका | ललाटनासिका वक्त्रं पार्श्वयोर्भद्रनासिकाः || ४७ || तथैवं नासिका प्रष्ठो शीर्षकं चैव माचरेत् | नानाधिष्ठानसंयुक्तं नानाचांघ्रिसमन्वितम् || ४८ || सर्वालंकारसंयुक्तं हारान्तरमिदं भवेत् | मानसूत्रान्तं नवनवधा तु विभाजिते || ४९ || गुणांशं गर्भगेहं तु शिवांशं कुड्यविस्तृतम् | परितोऽलिन्दमेकांशं हाराव्यासं शिवांशकम् || ५० || एवं हि कल्पितं तेषु कर्णकूटं शिवांशकम् | मध्ये कोष्ठं गुणांशं स्यात् एकांशं पंजरस्तथा || ५१ || हारान्तरं तथार्धांशं कल्प्येवं प्रथमे भुवि | अथवा पंजराणां तु षडंशं वा विधीयते || ५२ || शेषं हारान्तराख्यातं परितः स्यैव माचरेत् | प्. १०६) कोष्ठमध्यत्रिदण्डेन महानासी विनिर्गतम् || ५३ || ऊर्ध्वभूमौ षडंशेंशं कूटकोष्ठाय तद्भवेत् | अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् || ५४ || ऊर्ध्वभूविस्तृतान्तं तु मध्ये दण्डेन निर्गतिः | चतुरश्रमधिष्ठानं वस्वश्रं शीर्षकं गलम् || ५५ || आदौ तले चतुष्कर्णे कूटं वेदाश्रशीर्षकम् | अष्टाश्रशीर्षकं मध्यात् ऊर्ध्वभूमौ प्रकल्पयेत् || ५६ || अष्टकूटाष्टकोष्ठादि कलापंजरसंयुतम् | शताल्पनासिकोपेतं शिखरेऽष्टं महत्तरम् || ५७ || भद्रकोष्ठःमिदं नाम्ना सर्वदेवार्हकं परम् | तदेव कर्णकूटानां शीर्षकं वर्तुलाकृति || ५८ || प्रासादशिखरं कण्ठं वृत्ताकारं प्रकल्पयेत् | शिखरे तु चतुर्दिक्षु भद्रनासी समन्वितम् || ५९ || विदिक्षु ह्यल्पनासाढ्यं वृत्तकूटमिदं परम् | तदेव शिखरं कोणे क्षुद्रनास्यष्टकान्वितम् || ६० || युगाश्रं कर्णकूटानां शीर्षकं वर्तुलाकृतिः | शेषं प्रागिव कर्तव्यं श्रीकण्ठं तदुदाहृतम् || ६१ || तदेवाष्टांशमाधिक्यं आयामं चतुरश्रकम् | शालामध्ये महानासी भद्रं विना प्रकल्पयेत् || ६२ || प्. १०७) शालाभमस्तकं कण्ठं वृत्तायतमथापि वा | स्तूपि त्रयसमायुक्तं एतन्नाम्ना सुमंगलम् || ६८ || मानसूत्रान्तरं धर्मभागं कृत्वा द्विजोत्तम ! | गर्भगेहं तु वेदांशं गृहपिण्ड्यंशमावृतम् || ६४ || परितोऽलिन्दमेकांशं हाराभागेन कल्पयेत् | तेष्वेककूटविस्तारं मध्ये कोष्ठायतं द्वयम् || ६५ || तयोर्मध्यैकभागेन पंजरव्यासमुच्यते | हारान्तरमथांशेन पंजरस्य तु पार्श्वयोः || ६६ || अष्टांशं चोर्ध्वभूमिस्तु कृत्वांशं कूटविस्तृतम् | शाला तद्द्विगुणायामं तयोर्मध्ये तु पंजरम् || ६७ || एकांशेनैव कर्तव्यं शेषं हारान्तरं भवेत् | ऊर्ध्व(भूम)मंचं चतुर्भागं द्विभागं मध्यभद्रकम् || ६८ || दण्डं वाध्यर्धदण्डं वा द्विदण्डं वाथ निर्गमम् | वेदाश्रं च मधिष्ठानं तद्वत्कर्णं च शीर्षकम् || ६९ || अष्टशालाष्टकूटं च पंजरं षोडशान्वितम् | शताल्पनासिकोपेतं वृषस्थलसमन्वितम् || ७० || नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् | उन्नतौ कूटकोष्ठौ द्वौ चान्तरप्रस्तरान्वितौ || ७१ || गान्धारमिति विख्यातं अष्टाश्रं च गलं शिरः | प्. १०८) श्रीविशालमितिख्यातं वर्तुलं वेदिकागलम् || ७२ || शीर्षकं चैव कर्तव्यं शेषं पूर्ववदाचरेत् | श्रीभोगमिति विख्यातं सर्वदेवार्हकं परम् || ७३ || वृत्तायते द्वयाश्र वृताष्टाश्रे च षडश्रके | कूटकोष्ठादि सर्वांगं प्रागिवैव प्रकल्पयेत् || ७४ || वृषस्थलं मण्टपं च त्यजेत्कर्णं च शीर्षकम् | वर्षस्थलविहीनानां कर्णं शीर्षक संयुतम् || ७५ || कूटकोष्ठादि सर्वांगाद्युचितं नागरादिकम् | नानालंकारसंयुक्तं नानाचित्रैर्विचित्रितम् || ७६ || गर्भगेहविशालं च गृहपिण्ड्याग्रमण्टपम् | एकभूमि विधानोक्तं द्वितलं तु विशेषतः || ७७ || त्रितलं ह्येवमाख्यातं चतुर्भूमिमथोच्यते | इत्यंशुमान्काश्यपे त्रितलविधानपटलः (अष्टाविंशः) || २८ || अथ वक्ष्ये विशेषेण चतुर्भूमेस्तु लक्षणम् | विस्तरोत्सेधमानं तु प्रोक्तं प्रासादमानके || १ || रव्यंशं मानसूत्रान्तं कृते गर्भगृहं रसम् | प्. १०९) गृहपिण्ड्यालिंदहारादि प्रत्येकं चैकभागया || २ || विन्याससूत्रयोरन्तर वसुधा विभजेत्समम् | कर्णकूटं ततांशं तु कोष्ठं तद् द्विगुणायतम् || ३ || पंजरव्यासमंशेन शेषं हारान्तरं भवेत् | पुनरप्यूर्ध्व भूमिं च वसुभागविभाजिते || ४ || कर्णकूटं च कोष्ठं च पंजरं पूर्ववद्भवेत् | तदूर्ध्वे अष्टभागे तु शिवांशं कूटविस्तृतम् || ५ || कोष्ठायामाश्वनीभागं अर्धांशं पंजरस्य तु | शेषं हारान्तरं प्रोक्तं हीनाधिक्यं तु नाश्रयेत् || ६ || ऊर्ध्वभूम्यग्निभागे तु व्योमांशं मध्यभद्रकम् | दण्डं वाध्यर्ध दण्डं वा द्विदण्डं वाथ निर्गतम् || ७ || प्रासादोच्चं तु विभजेत् संग्रहं त्रिंशदंशकम् | सार्धाष्टांशं अधिष्ठानं भूतांशं चरणोदयम् || ८ || अधिष्ठानसमं मंचं तलिपं पादोन पंचकम् | सपक्षांशं च मंचोच्चं कल्पयेद्द्विजसत्तम ! || ९ || सार्धवेदांश पादोच्चं पक्षांशं प्रस्तरोदयम् | सपादवेदभागं तु चरणोदयमिष्यते || १० || पादोन(प)क्षांशं चोच्चं शिवांशं वेदिकोदयम् | कर्णोच्चं तु द्विभागं स्यात् सार्धवेदांश शीर्षकम् || ११ || प्. ११०) स्तूप्युच्चं तु द्विभागं स्यात् शान्तिकं भवनं भवेत् | चत्वारिंशद् द्वयाधिक्य भागं कृत्वा गृहोन्नतम् || १२ || गुणांशं तलमानं तु रसांशं चरणोदयम् | प्रस्तरं चाग्निभागेन भूतांशं तलिपायतम् || १३ || पादोनाग्न्यंशमंचं स्यात् भूतांशं चरणोदयम् | सपादद्विभागमंचोच्चं सार्धवेदांघ्रिणोदयम् || १४ || द्विभागं मंचमानं तु शिवांशं वेदिकोदयम् | अध्यर्धांशं गलोत्सेधं युगांशं शिखरोदयम् || १५ || द्विभागं तु शिखामानं पौष्टिकं तदुदाहृतम् | पंचाशद्विभजेद्धामतुंगं स्तूप्यवसानकम् || १६ || सार्धत्रिंशमधिष्ठानं सप्तांशं चरणोदयम् | तदर्धं मंचमानं तु षडंशं चरणोदयम् || १७ || गुणांशं मंचमानं तु ऊर्ध्वपादं तु तद्द्वयम् | त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपंचकम् || १८ || प्रस्तरोच्चं त्रिभागं स्यात् अंशेन वेदिकोदयम् | द्विभागं गलमानं तु शरांशं शिखरोदयम् || १९ || सार्धांशं स्थूपिमानं तु जयदं तदुदाहृतम् | उपानादि स्थूपिपर्यन्तं पंचाशद्विभजेद्बुधः || २० || तलोच्चं सार्धमग्न्यंशं सप्तांशं चरणोदयम् | प्. १११) तलोच्च सदृशं मंचतलीपं सार्धषड्भवेत् || २१ || पादाधिकत्रिभागांशं मंचमानमुदाहृतम् | पादोच्चं रसभागेन गुणांशं प्रस्तरोदयम् || २२ || सार्धपंचांशमंघ्र्युच्चं मंचं सार्ध द्विभागया | एकांशं वेदिकामानं द्विभागं स्याद्गलोदयम् || २३ || पंचांशं शिखरोत्तुंगं सपादं शिखरोदयम् | अद्भुतं सदनं ह्येवं कल्पयेत्कल्पवित्तमः || २४ || आरामोच्चं तु पंचाशत् भागं कृत्वा विशेषतः | सार्धाग्न्यंशमधिष्ठानं धाल्वंशं चरणोदयम् || २५ || प्रस्तरोच्चं त्रिभागेन चरणं सार्धषड्भवेत् | सपादाग्न्यंश मंचं स्यात् तलिपं सार्धषट्ककम् || २६ || त्रिभागं प्रस्तरोत्सेधं पादोच्चं सार्धपंचकम् | पादोनाग्न्यंशमंचोच्चं शिवांशं वेदिकोदयम् || २७ || द्विभागं गलमानं तु पादांशं शिखरोदयम् | व्योमांशं तु शिखामानं विमानं सार्वदेशिकम् || २८ || होमादिस्तूपि वर्गान्तं वेदाश्रं परिकल्पयेत् | भानुकूटं तथा कोष्ठं भानुद्विगुणपंजरम् || २९ || शिखरे तु चतुर्दिक्षु भद्रनासी चतुष्टयम् | पादं प्रत्यल्पनास्याढ्यं शिखरोल्पाष्टनासिकाः || ३० || प्. ११२) कूटकोष्ठादि सर्वांगं नागराद्युचितं कुरु | एकाकारतलस्तंभं सुभद्रमिति विद्यते || ३१ || तदेव शिखरेष्टाल्पनासिकारहितं भवेत् | तद्ब्राह्म्यमिति विख्यातं सर्वदेव प्रियावहम् || ३२ || तदेवं शिखरं कण्ठं वृत्तं श्रीकान्तमुच्यते | वस्वश्रं शीर्षकं कण्ठं श्रीमण्डनमुदाहृतम् || ३३ || तदेव शिखरे चाष्टौ महानासी समन्वितम् | श्रीवन्तमिति ख्यातं शालाभद्रयुतं तु वा || ३४ || विभद्रं वाथ कर्तव्यं सर्वेषां सदनामपि | श्रीकान्तं शिखरेल्पाष्ट नास्याढ्यं श्रीविशालकम् || ३५ || नानांघ्रितलसंयुक्तं तत्तन्नाम्ना प्रकीर्तिताः | विस्ताराध्यर्धमायामं सभाकारं तु शीर्षकम् || ३६ || संपदालयमित्युक्तं सर्वदेवार्हकं परम् | मानसूत्रान्तरं नन्दभागं कृत्वा विशेषतः || ३७ || गर्भगेहं गुणांशं स्याद् भागेन गृहपिण्डिका | अलिन्दमंशेन कर्तव्यं हारभागेन कल्पयेत् || ३८ || ततो विन्याससूत्रान्तं सदनं नवभाजिते | एकांशं कूटविस्तारं गुणांशं कोष्ठदीर्घकम् || ३९ || एकांशं पंजरव्यासं सार्धांशं हारयोन्तरम् | प्. ११३) शालामध्ये महानासी नीव्रं तदर्धभागया || ४० || ऊर्ध्वभूम्यष्टभागे तु कूटमंशेन कल्पयेत् | शाला तद्द्विगुणायामं शिवांशं पंजरं भवेत् || ४१ || शेषं भारान्तरं चोर्ध्वे भूतांशं रसभाजिते | कूटमेकेन कर्तव्यं कोष्ठं तद्द्विगुणायतम् || ४२ || अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् | ऊर्ध्वे भूमिस्तदर्धं तु मध्ये दण्डेन निर्गतिः || ४३ || चतुरष्टाश्र वृत्ताभं कूटानां शीर्षकं क्रमात् | ककरीदण्डवत्कोष्ठं वस्वश्रं हर्म्यशीर्षकम् || ४४ || महानास्यष्टकोपेतं शीर्षकं परिकल्पयेत् | रविकोष्ठं च कूटं च रविद्विगुणपंजरम् || ४५ || प्रागिवोच्चांशमानं तु भद्रकोष्ठमिदं परम् | गेहव्यासं तु धर्मांशं कृत्वा नालीग्रहं चतुः || ४६ || ग्रहपिंड्यंशमानेन अलिन्दं चैकभागया | हारव्यासं शिवांशेन परितः परिकल्पयेत् || ४७ || विन्याससूत्रयोरन्तर्व्यासाद्धर्मद्विभाजिते | कर्णकूटं तदेकांशं कोष्ठायामं तु तद्वयम् || ४८ || अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् | चतुष्कूटाष्टकोष्ठं च पंजरं भानुसंख्यया || ४९ || प्. ११४) हारान्तरं चतुर्विंशत् कल्पयेत्प्रथमे तले | अलिन्दं जलपादाढ्यात् प्रस्तरान्तघनी कृतम् || ५० || ऊर्ध्वं तु वसुभागे तु शिवांशं कूटविस्तृतम् | कोष्ठं तद्द्विगुणायामं पंजरं चांशमानकम् || ५१ || शेषं हारान्तरं ख्यातं चोर्ध्वे वसुभाजिते | कूटं भागेन कर्तव्यं कोष्ठं तद्द्विगुणायतम् || ५२ || शेषं हारान्तरं ख्यातं क्षुद्रपंजरसंयुतम् | ऊर्ध्वभूमं त्रिभागैकं मध्ये दण्डेन निर्गमम् || ५३ || चतुरश्रमधिष्ठानं अष्टाश्रं मस्तकं गलम् | शिखरेऽष्टमहानासी पादं प्रत्यल्पनासिका || ५४ || कर्णकूटं तु भानुः स्यात् कोष्ठं षोडशभिर्युतम् | नतं कूटोन्नतं कोष्ठं अन्तरप्रस्तरान्वितम् || ५५ || क्षुद्रनीडाष्टविंशः स्यात् नानामसूरकांघ्रि च | नानालंकारसंयुक्तं नाना जालक तोरणैः || ५६ || नानाचित्रं विचित्रं तु तुंभभागं तु पूर्ववत् | जयावहमिदं ख्यातं सर्वदेवार्हकं परम् || ५७ || तदेव वर्तुलं कर्णं शीर्षकं सार्वकामिकम् | तदेवान्तरमंचं स्यात् कूटकोष्ठं च पंजरम् || ५८ || कूटानां शीर्षकं स्थूपी कुम्भं कर्णं च वर्तुलम् | प्. ११५) एवं स्यान्मूलभूमं तु वस्वश्रं मध्यमे तले || ५९ || युगाश्रं चोर्ध्वभूमौ तु कर्णकूटं प्रकल्पयेत् | सुखावहमिदं ख्यातं सर्वदेवार्हकं परम् || ६० || तदेव कूटकोष्ठं च अन्तरप्रस्तरं विना | सह्योश्च समसूत्रं तु तदव्ययगृहं भवेत् || ६१ || तदेव शिखरं कर्णं युगाश्रं धातृकान्तकम् | इत्यंशुमान्काश्यपे चतुभूमिविधानपटलः (एकोनत्रिंशः) || २९ || वक्ष्येहं कूटकोष्ठानां पंजराणां च लक्षणम् | द्वितलादिकलान्तानां सममेव प्रकीर्तितम् || १ || तलं प्रत्युदितव्याससमाश्रं कर्णकूटकम् | आयताश्रं तु कोष्ठं स्यात् चतुष्पादैकभित्तितः || २ || अधिष्ठानस्तंभ वर्ग प्रस्तरं कण्ठशीर्षकम् | स्थूपिवर्गसमायुक्तं कूटकोष्ठौ विशेषतः || ३ || एवमादितले कुर्यात् धरातलं विमोर्ध्वतः | कूटशालोच्चा कर्तव्या पंजराश्च तथैव च || ४ || ऊर्ध्वपादोदयं सप्तभागं कुर्याद्विशेषतः | प्. ११६) एकांशं वेदिकोत्सेधं सार्धांशं गलमानकम् || ५ || शीर्षकं तु गुणांशेन शेषं स्थूप्युदयं भवेत् | एवं तु कूटकोष्ठौ द्वौ कल्पयेत्तु तलं प्रति || ६ || अथवा कूटकोष्ठानां उदयं तु वदाम्यहम् | उत्तरास्योर्ध्वसीमान्तं हंसमालोर्ध्वसीमकम् || ७ || कपोतलम्बावसानं वा भागं पूर्वमेव तु | सान्तरप्रस्तरं चेत्तु प्रस्तरस्योर्ध्वसीमकम् || ८ || वैदिकोर्ध्वे समं वाथ सान्तरप्रस्तरान्वितम् | तदुच्चं रुद्रधा भज्य एकांशं वेदिकोदयम् || ९ || गुणांशं चरणोच्चं तु पादोनद्व्यंशमंचकम् | सपादांशं गलोत्सेधं पादोन द्व्यंशशीर्षकम् || १० || स्थूप्युत्सेधं सपादांशं क्रमशः परिकल्पयेत् | एवं हि कूटकोष्ठौ द्वौ कल्पयेत् कल्पवित्तमः || ११ || कूटव्यासत्रिभागैक स्वनासी विस्तृतं भवेत् | तद्व्यासे त्रिचतुष्पंचभागे भागे तु नीव्रकम् || १२१ || कर्णकूटकपोपातात्तुनासिका निर्गमं भवेत् | चतुर्दिक्षु चतुर्नासी कूटानां परिकल्पयेत् || १३ || एकस्थूपी समायुक्तं नीव्रवेशं विमानवत् | वेदाश्रं वसुकोणं वा वृत्ताभं वा गलं शिरः || १४ || प्. ११७) नागराद्युचितं कल्प्य कर्णकूटं विशेषतः | शालानां पार्श्वयोर्विप्र ललाटाख्यानु नासिकाः || १५ || शालायास्तु विशालं तु रत्नतामुखपट्टिका | स्थूप्याग्रसमं प्रोक्तं ललाटनास्याग्रसीमकम् || १६ || शालादीर्घं त्रिभागैकं मुखनासी विशालकम् | कूटानां नासिका नीव्रं महानासी वदाचरेत् || १७ || स्थूपित्रयसमायुक्तं नागरे भवनं द्विज ! | शालानां द्राविडानां तु स्थूपिरश्विनि संख्यया || १८ || शालानां वेसराणां तु स्थूप्येकं वा चतुष्टयम् | गलांशे कूटकोष्ठानां देवताद्यास्तु कल्पयेत् || १९ || एवं हि कूटकोष्ठं स्यात् पंजरास्त्वधुनोच्यते | उपानादुत्तरान्तं तु नवभागविभाजिते || २० || उपपीठमथांशेन पक्षांशं तु धरातलम् | वेदांशं चरणायामं मंचमध्यर्धभागया || २१ || अर्धांशं वेदिकामानं कपोतान्तं गलोदयम् | प्रतिवाजनसीमान्तं पंजरोच्चमुदाहृतम् || २२ || प्रासादस्य च बाह्ये तु यथा शोभांशनिर्गतिः | पंजरं नासिकाकारं कूटकोष्ठाकृतिस्तु वा || २३ || हस्तिपृष्ठविमानस्य शिखराभमथापि वा | प्. ११८) एवं त्वनेकभेदेन पंजराकृतिरुच्यते || २४ || यथेष्टं तत्र कर्तव्यं हर्म्येष्वनेकभूमिषु | एवमादितले कुर्यात् अन्तरप्रस्तरान्वितम् || २५ || मानसूत्रात्तु निष्क्रान्तं युक्तमेवं समाचरेत् | पंजरं नीव्ररहितं प्रस्तरोर्ध्वे विशेषतः || २६ || कर्णकूटसमं सार्धं त्रिपादं वाथ विस्तृतम् | तदव्याससदृशं तुंगं युक्त्या पंजरमाचरेत् || २७ || तलं प्रत्यूर्ध्व पादोच्चं प्रागिवैव नवांशके | गुणांशं घटभि स्यात् छत्रशीर्षकसंयुतम् || २८ || पादायामं चतुर्भागं अध्यर्धांशं तु प्रस्तरम् | अर्धांशं वेदिकामानं कपोतान्तं गलोदयम् || २९ || प्रतिवाजनसीमान्तं पंजरोदयमीरितम् | शेषं प्रागिव कर्तव्यं एवं निष्क्रान्तपंजरम् || ३० || निष्क्रान्तरहितं चैव प्रस्तरोर्ध्वे तु प्रागिवा | पंजरे कूटकोष्ठे च पादे पादान्तरेऽपि वा || ३१ || गोपान धारकान्कल्प्य महाबलपराक्रमान् | हस्तौ पादौ द्वयोपेतं दान्तं कीर्ण जटान्वितम् || ३२ || रौद्रदृष्टि समायुक्तं रक्ताभांजनसंनिभम् | गोपानं यत्ततो धृत्वा हंसौ पादौ तदन्वितौ || ३३ || प्. ११९) एवं वा गजहंसाभं सिंहव्यालाभमेव वा | गोपानं शिरसा बाह्यं स्थापयेत्तु यथेष्टकौ || ३४ || कूटादिलक्षणं प्रोक्तं पंचभूमिविधिं तथा | इत्यंशुमान्काश्यपे कूटकोष्ठादिलक्षणपटलः (त्रिंशः) || ३० || अथ वक्ष्ये विशेषेण पंचभूमेस्तु लक्षणम् | विस्तारोत्सेधमानं तु प्रोक्तं प्रासादमानके || १ || विस्तारं रुद्रधा भज्य गुणांशं गर्भगेहकम् | द्विभागं गृहपिंडी स्यात् आलिन्दं चैकभागया || २ || हारा भागेन कर्तव्या अलीन्द्रं घनभित्ति वा | वर्षिकस्थलसंयुक्तं कल्पयेत्प्रस्तरोपरि || ३ || धरातले पादमंचोर्ध्वे द्वितीये वा त्रिभूमिके | देवतास्थापनं कुर्यात् तावद्देवर्चनी कृतम् || ४ || विन्याससूत्रयोरन्ते रुद्रभागविभाजिते | शिवांशं कर्णकूटं तु मध्ये कोष्ठं गुणांशकम् || ५ || तयोर्मध्यैक भागेन पंजरव्यासमुच्यते | हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः || ६ || प्. १२०) तदूर्ध्वभूव्यसृतन्नन्द भागं कृत्वांश सौष्टिकम् | मध्ये कोष्ठाग्निभागं तु पंजरांशेन मानतः || ७ || हारं तारमथार्धांशं कल्पयेत्तु द्वितीयके | तदूर्ध्वे भुवने चाष्टभागांशं कर्णकूटकम् || ८ || द्विभागं कोष्ठदीर्घं स्यात् भागेन पंजरस्ततः | हारान्तरमथार्धांशं कृत्वा लक्षणसंयुतम् || ९ || ऊर्ध्वभूमौ रसांशे तु कूटव्यासमथांशकम् | शालादीर्घं द्विभागं स्यात् अर्धांशं पंजरस्य तु || १० || शेषं हारान्तरं ख्यातं लम्बपंजरमेव वा | तदूर्ध्वभूमिर्विसृताग्व्यंशं मध्ये दण्डेन निर्गतिः || ११ || गृहोच्चं तु षडष्टांशे पादोनाग्नि धरातलम् | सार्धपंचांशमंघ्र्युच्चं सार्धद्व्यंशं तु मंचकम् || १२ || सपादपंच भागं तु चरणोदयमीरितम् | मंचमानं तु द्व्यर्धांशं पंचांशं चरणायतम् || १३ || पादं द्विभागमंचं स्यात् पादं पादोनपंचकम् | द्विभागं प्रस्तरोत्सेधं सार्धवेदांघ्रितुंगकम् || १४ || पादो द्व्यंशकमंचं तु शिवांशं वेदिकोदयम् | कर्णं पादोनपक्षांशं सार्धवेदं शिरोदयम् || १५ || द्विभागं स्थूपिमानं तु शान्तिकं भवनं भवेत् | प्. १२१) सवेदचत्वारिंशत्तु भागं कृत्वा गृहोदयम् || १६ || गुणांशं तलतुंगं तु भूतांशं चरणायतम् | प्रस्तरं चाग्निभागं तु पादसार्धयुतं भवेत् || १७ || सपादद्विभागमंचं स्यात् ऊर्ध्वपादयुगं भवेत् | सपादद्विभागमंचं स्यात् तलिपं पादाधिकं युगम् || १८ || प्रस्तरोच्चद्विभागेन वेदांशं चरणोदयम् | पक्षांशं मंचमानं स्यात् पादसार्धगुणांशकम् || १९ || अध्यर्धं मंचमानं तु व्योमांशं वेदिकोदयम् | द्विभागं गलमानं तु सार्ध वेदांशशीर्षकम् || २० || अध्यर्धं तु शिखामानं पौष्टिकं भवनान्वितम् | सदनोच्चं तु षट्त्रिंशत् भागं कृत्वा द्विजोत्तम ! || २१ || अधिष्ठानं द्विभागेन वेदांशं चरणायतम् | प्रस्तरोच्च द्विभागेन चतुर्भिः पाददैर्घिकम् || २२ || स त्रिपादशिवांशेन मंचमानं प्रकल्पयेत् | सार्धाग्न्यंशं तु तलिपं तदर्धं मंचमानकम् || २३ || स पादाग्न्यंश पादं स्यात् मंचमध्यर्धभागया | गुणांशं पाददीर्घं तु सपादांशं तु प्रस्तरम् || २४ || एकांशं वेदिकामानं पादोन द्व्यंशकं गलम् | सपादाग्न्यंश शिखरं शेषं स्थूप्युदयं भवेत् || २५ || प्. १२२) जयदं भवनं ह्येवं कल्पयेत्कल्पवित्तमः | विमानोत्सेधं विभजेत् त्रयस्त्रिंशति भागया || २६ || द्विभागं धरणीमानं वेदांशं चरणायतम् | प्रस्तरोच्चं द्विभागेन सार्धवह्न्यंशकांघ्रियम् || २७ || प्रस्तरं पादरहितं द्विभागेन विधीयते | त्रिभागं चरणायामं तदूर्ध्वं मंचमानकम् || २८ || सार्धद्विभागं पादोच्चं सपादांशेन मंचकम् | स्तंभं पादाधिकं द्व्यंशं मंचमानं सपादकम् || २९ || व्योमांशं वेदिकामानं द्वियंशं गलमानकम् | सार्धत्रिपादशिखरं द्विभागं स्थूपि मानकम् || ३० || अद्भुतं सदनं ह्येवं कल्पयेद्देव तार्हकम् | चतुर्विंशति भागं तु कृत्वा तु सदनोदयम् || ३१ || अध्यर्धांशं तलोत्सेधं गुणांशं पादमानकम् | तदर्धं मंचमानं तु पादं पादोनकं गुणम् || ३२ || तस्यार्धं प्रस्तरोत्सेधं द्व्यर्धं पादोदयं भवेत् | प्रस्तरं तु सपादांशं स्तंभं पादाधिकद्वयम् || ३३ || तदर्धं मंचमानं तु सपादद्व्यंशमंघ्रिकम् | एकांशं प्रस्तरोत्सेधं अर्धांशं वेदिकोदयम् || ३४ || त्रिपादं गलमानं तु पादोनद्व्यंशकं शिरः | प्. १२३) अष्टांशरहितं व्योमभागं स्थूप्युदयं भवेत् || ३५ || सार्वकामिकमेवं तु कर्तव्यं सदनं द्विज ! | होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् || ८६ || कलाशाला कला सौष्टि पंजरं चतुरष्टकम् | पादं प्रत्यल्पनास्याढ्यं हारं तन्नासिका द्वयम् || ३७ || भद्रनासी चतुष्कं तु शिखरे तु प्रकल्पयेत् | क्षुद्रनासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् || ३८ || कूटेष्वन्तरमंचाढ्यं प्राजापत्यमुदाहृतम् | तदेव न त कूटं तु कोष्ठोन्नतसमंचकम् || ३९ || स्वायंभुवमिदं गेहं सर्वदेवार्हकं परम् | तदेव वेदिका कण्ठं शीर्षकं वसुकोणकम् || ४० || भद्रनासी चतुष्कं तु शिखरे तु प्रकल्पयेत् | क्षुद्रनासी द्वयं कोणे कल्पितं ब्रह्मकान्तकम् || ४१ || कूटास्वन्तरमंचाढ्यं प्राजापत्यमुदाहृतम् | तदेव नतकूटं तु कोष्ठोन्नतसमंचकम् || ४२ || स्वायंभुवमिदं गेहं सर्वदेवार्हकं परम् | तदेव वेदिकाकण्ठं शीर्षकं वसुकोणकम् || ४३ || शालामध्येंशमानेन दण्डमानेन निर्गतिः | भद्रकान्तमिति ख्यातं कूटकोष्ठौ द्वयौ समौ || ४४ || प्. १२४) समंचं वा विमंचं वा जनार्दनगृहं भवेत् | तदेव कोष्ठमध्ये तु भद्रहीनमथापि वा || ४५ || मध्यभद्रयुतं वापि मण्डलं शीर्षकं गलम् | अति भद्रमिति ख्यातं सर्वदेवार्हकं परम् || ४६ || तदेव कूटकोष्ठं च पंजरं च समंचकम् | सोन्नतं सर्वतोभद्रं मम प्रीतिकरं भवेत् || ४७ || विमानं कूटकोष्ठं च पंजरं समसूत्रकम् | नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् || ४८ || नानालंकारसंयुक्तं युग्मपंजरसंयुतम् | शिखरेष्टाल्पनास्याढ्यं महानासी चतुष्टयम् || ४९ || विभद्रमिति विख्यातं सर्वदेवप्रियावहम् | तदेवाष्टकशालाढ्यं आदिभूमौ द्विभागया || ५० || भानुपंजरसंयुक्तं शेषं प्रागिव कल्पयेत् | प्रागुक्त नाममाख्यातं तास्विष्टं परिकल्पयेत् || ५१ || पंचभूमिः समाख्याता षट्तलं चाधुना शृणु | इत्यंशुमान्काश्यपे पंचतलविधि पटलः (एकत्रिंशः) || ३१ || अथ वक्ष्ये विशेषेण षड्भूमेऽस्तु विधिं परम् | तस्य विस्तारतुंगं तु प्रासादमानवद्भवेत् || १ || विस्तारं रुद्रधा भज्य गुणांशं गर्भगेहकम् | द्विभागं गृहपिंडी स्यात् अलिंदं शशिभागया || २ || हारा शिवांशमानेनवै वर्षस्थलं भवेत् | धरातलो द्वित्रिभूमौ देवता स्थापनं भवेत् || ३ || देवतास्थापनं यत्र तावद्वै सुदृढं घनम् | बाह्ये त्रिपिशिलाकारं भवनाभ्यन्तरं भवेत् || ४ || चतुष्कूटाष्टकोष्ठं च भानुपंजरसंयुतम् | हारान्तरं चतुर्विंशत् कल्पयेदादि भूतले || ५ || पंजरं हर्म्य मध्ये तु कर्णे तु सौष्टिकं भवेत् | पार्श्वयोः कर्णकूटस्य पंजरं परिकल्पयेत् || ६ || कोष्ठपंजरयोर्मध्ये कल्पयेत्तु विशेषतः | तदूर्ध्वे भूदशांशे तु व्योमांशं कर्णकूटकम् || ७ || मध्ये पंजरमेकांशं कर्णकूटमथा कृतिः | द्विभागं कोष्ठदीर्घं स्यात् अर्धांशं पंजरस्य तु || ८ || शेषं हारान्तरं ख्यातं एषां संख्यातिभूषितान् | तस्योर्ध्वे भूविशालं तु नवभागविभाजिते || ९ || कर्णकूटमथांशेन मध्ये शालागुणांशकम् | पंजरव्यासमेकांशं अर्धांशं हारयोत्तरे || १० || प्. १२६) ऊर्ध्व भूर्वसु भागे तु शिवांशं कूटविस्तृतम् | मध्ये कोष्ठं द्विभागेन एकांशं पंजरस्तथा || ११ || हासन्तरमथार्धांशं कल्पयेत्कल्पवित्तमः | तस्योर्ध्वे भूमिविस्तारं षड्भागं विभजेत्समम् || १२ || कूटमेकांशमानेन कोष्ठायामं तु तद्द्वयम् | अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् || १३ || तदूर्ध्वे ऊर्ध्वविस्तारात् अर्धांशं मध्यभद्रकम् | दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं भद्रनीव्रकम् || १४ || तुंगं सर्वत्र पंचाशत् अंशं कृत्वा तु देशिकः | अधिष्ठानोच्छ्रयं चाग्निषड्भागं चरणोदयम् || १५ || पादहीनाग्निभागं तु मंचमानमुदाहृतम् | पादोच्च सार्धपंचांशं मंचं सार्ह्द द्विभागया || १६ || पादाधिकं तु पंचांशं पादायाममिति स्मृतम् | सार्धद्विभागमंचोच्चं पंचांशं चरणोदयम् || १७ || पादाधिकद्विभागं तु प्रस्तरोदयमीरितम् | पादहीनं तु पंचांशं तलिपस्योदयं भवेत् || १८ || द्विभागं प्रस्तरं ख्यातं अर्धाधिकयुगांशकम् | पादायाममिदं ख्यातं पादोन द्व्यंशमंचकम् || १९ || व्योमांशं वेदिकामानं पादोन द्व्यंशकं गलम् | सार्धवेदांशमानं तु शीर्षकं परिकल्पयेत् || २० || प्. १२७) शिखरे तु महानासीचत्वारि परिकल्पयेत् | अम्बुजासनमाख्यातं सर्वदेव प्रियावहम् || २१ || तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् | अशेष सौष्टिकानां तु शीर्षं वै चतुरश्रकम् || २२ || उन्नतावनतो वापि भद्रं वा भद्रकोष्ठकम् | सान्तरप्रस्तरोपेतं हीनं वापि समोन्नतम् || २३ || सुशांकरमिदं ख्यातं तद्वै सौष्टिकशीर्षकम् | वृत्ताकारं प्रकर्तव्यं नाम्ना भद्रवलीनकम् || २४ || तदेव शिखरे चाष्टौ अल्पनासी युगमुद्भवा | शिवभद्रमिदं ख्यातं शिवप्रीति करं परम् || २५ || तदेव द्व्यश्रवृत्ताभं शीर्षकं गलसंयुतम् | मुखे ललाटनासाढ्यं नागेन्द्रमिति संज्ञितम् || २६ || षड्भूम्येवं समाख्यातं सप्तभूममथोपरि | इत्यंशुमान्काश्यपे षड्भूमिविधान पटलः (द्वात्रिंशः) || ३२ || अथ वक्ष्ये विशेषेण सप्तभूमेस्तु लक्षणम् | प्रासादमानविधिना वासोदयं परिकल्पयेत् || १ || प्. १२८) रव्यंशं विभजेत्तारं वेदांशं गर्भगेहकम् | पक्षांशं भित्तिविष्कम्भं एकेनालिन्दमिष्यते || २ || हारान्तरमथांशेन परितः परिकल्पयेत् | विन्याससूत्रयोरन्तर भान्वंशं विभजेत्समम् || ३ || एकांशं कूटविस्तारं कोष्ठं त गुणायतम् | पंजरव्यासमेकांशं शेषं हारान्तरं भवेत् || ४ || चतुष्कूटाष्टशाला च पंजरं भानुसंख्यया | तस्योर्ध्वे भूमिविस्तारं धर्मभागविभाजिते || ५ || कर्णकूटं च कोष्ठं च पूर्ववत्परिकल्पयेत् | पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् || ६ || तस्योर्ध्वभूमिविस्तारं पूर्ववद्धर्मभाजिते | पंजरं कूटकोष्ठं च तद्वदेव विधीयते || ७ || ऊर्ध्वभूमि नवांशे तु मध्ये शालाग्नि भागया | व्योमांशं कर्णकूटं स्यात् एकांशं पंजरस्ततम् || ८ || हारान्तरमथार्धांशं तस्योर्ध्वे वसुभाजिते | मध्ये शाला द्विभागेन शेषं पूर्ववदाचरेत् || ९ || तदूर्ध्वे भूमिविस्तारं रसभागविभाजिते | कूटमेकांशमित्युक्तं शाला तद्विगुणायम् || १० || अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् | ऊर्ध्वभूम्यग्निभागैकं मध्ये दण्डेन निर्गमम् || ११ || प्. १२९) ससप्तषष्टिभागं तु कर्तव्यं सदनोदयम् | सपादाग्निमधिष्ठानं सार्धषट्कांघ्रि तुंगकम् || १२ || तदर्धं मंचमानं तु षड्भागं चरणोदयम् | स त्रिपाद द्विभागं तु मंचमानमुदाहृतम् || १३ || सार्धभूतांशमंघ्र्युच्चं सार्धद्व्यंशं तु प्रस्तरम् | सपादं पंचभागं तु स्तंभमानमुदीरितम् || १४ || प्रस्तारं चार्धपंचांशं भूतांशं चरणोदयम् | सपादद्विभागमंचं स्यात् स त्रिपादयुगांशकम् || १५ || चरणोदयमित्युक्तं प्रस्तरोच्चं द्विभागया | पादोच्चं सार्धवेदांशं पादोन द्व्यंशमंचकम् || १६ || व्योमांशं वेदिकोत्सेधं पादोन द्व्यंशकं गलम् | अर्धाधिक युगांशं तु शीर्षकोदयमिष्यते || १७ || पक्षांशं स्थूपिमानं तु गण्यं सप्ततलं विदुः | पंजरं कूट कोष्ठं च समसूत्रे तु कल्पितम् || १८ || होमादग्रं युगाश्रं तु शिखरे वेदनासिका | शाला षट्त्रिंशतिर्युक्तं भानुद्द्विगुणकूटकम् || १९ || षष्टिपंजरसंयुक्तं पादं प्रत्यल्पनासिका | नानाधिष्ठानसंयुक्तं एकाकारमथापि वा || २० || एकानेकाकृतिर्वांघ्रिसमुज्वलनमुदाहृतम् | तदेवोन्नतकूटाः स्युः सान्तरप्रस्तरान्वितम् || २१ || प्. १३०) श्रीछन्दसमिति ख्यातं सर्वदेवार्हकं परम् | तदेव नतकूटं च कोष्ठोन्नतसमंचकाः || २२ || श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम् | तदेव शीर्षं कर्णं च * * श्रं वेदिकायतम् || २३ || श्रीकान्तमिति विख्यातं कूटकोष्ठसमं तु वा | समं चोन्नतकूटं वा श्रीप्रदं तदुदाहृतम् || २४ || तदेव वृत्तशिखरं स्थूपिश्चैव गलं तथा | रुद्रकान्तमिदं ख्यातं रुद्रप्रीतिकरम् परम् || २५ || तदेव कर्णकूटास्तु वेदाश्राष्टाश्रमंडलम् | क्रमेणादि तलात्कल्प्य वृत्तभद्रमिदं स्मृतम् || २६ || तदेवोन्नत कूटं च नतलाला समन्वितम् | कूटानां मस्तकं वृत्तं सुवृत्तमिति विद्यते || २७ || सोन्नतं कूटकोष्ठं च पंजरान्तरमंचकम् | यथेष्टं शिखराकारं कण्ठः स्थूपी घटस्तथा || २८ || युगाश्र शीर्षकोपेतं कर्णकूटं प्रकल्पयेत् | शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् || २९ || तदेव कूटकोष्ठं च दण्डं वाध्यर्ध दण्डकम् | द्विदण्डं वाथ निष्कान्तं भद्रं वा भद्रपंजरम् || ३० || नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् | नानाचित्रैर्विचित्रं तु शिवसौख्यमुदाहृतम् || ३१ || प्. १३१) तदेव गर्भगेहं वा वृत्तं वाथ युगाश्रकम् | वृत्तमेवं हि बाह्यं तु वृत्ताभं सौष्टिकान्वितम् || ३२ || शेषं पूर्ववदुद्दिष्टं नाम्ना सर्वांगमंगलम् | पंजरं कूटकोष्ठं च अन्तरं प्रस्तरान्वितम् || ३३ || यथेष्टशिखराकारं श्रीप्रतिष्ठितमुच्यते | एवं सप्ततलं ख्यातं वसुभौममथोच्यते || ३४ || इत्यंशुमान्काश्यपे सप्तभूमिविधानपटलः (त्रयस्त्रिंशः) || ३३ || अथ वक्ष्ये विशेषेण वसुभूमिविधिं परम् | प्रासादमानविधिना संग्राह्यं विसृतोदयम् || १ || त्रयोदशविभागं तु कृत्वा प्रासादविस्तृतम् | भूतांशं गर्भगेहं तु द्विभागं गृहपिण्डिका || २ || अलिन्दं चैकभागेन हारा भागेन कल्पयेत् | अथवा नवभागेन गर्भगेहं विधीयते || ३ || भागेन गृहपिण्डी स्यात् अलिन्दं चैकभागया | कुड्यमेकेन कर्तव्यं अलिन्दं तु शिवांशकम् || ४ || शशिभागेन हारा स्यात् कल्प्यैवं द्विजसत्तम ! | विन्याससूत्रयोरन्ते त्रयोदश विभाजिते || ५ || प्. १३२) कूटमेकांशमित्युक्तं कोष्ठदीर्घं द्विभागया | त्रिभागं मध्यकोष्ठं स्यात् शेषं हारान्तरं भवेत् || ६ || तदर्धं पंजरव्यासं भद्रं वाऽभद्र एव वा | भानुकोष्ठं चतुष्कूटं कलापंजरसंयुतम् || ७ || हारान्तरं तु द्वात्रिंशत्कल्पयेदादिभूतले | वर्षस्थलमलीन्दं स्यात् प्रस्तरान्तं घनीकृतम् || ८ || तदूर्ध्वभूमिविस्तारं त्रयोदशविभाजिते | कूटकोष्ठादि सर्वांगं आदिभूमिमिवैव तु || ९ || तस्योर्ध्व भू विशालं तु भानुभागविभाजिते | कर्णकूटं तदेकांशं शालादीर्घं द्विभागया || १० || अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् | पंजरं कूटकोष्ठं च संख्यावादितलोक्तवत् || ११ || तदूर्ध्वभूविशालं च भानुभागविभाजिते | कूटकोष्ठादिसर्वांगं मानसंख्यैव पूर्ववत् || १२ || तदूर्ध्व भूदशांशे तु कूटकोष्ठं च पूर्ववत् | हारान्तरमथार्धांशं लम्बपंजरसंयुतम् || १३ || तदूर्ध्वे भूविशालं तु वसुभागविभाजिते | कर्णकूटं तदेकांशं मध्येशाला द्विभागया || १४ || पंजरव्यासमेकांशं अर्धांशं हारयोन्तरम् | चतुष्कूटं चतुश्शाला वसुपंजरसंयुतम् || १५ || प्. १३३) हारान्तरं कला प्रोक्तं कल्प्येवं षट्तलं भवेत् | तदूर्ध्वे भूविशालं तु षड्भागं विभजेत्समम् || १६ || कूटमेकांशमित्युक्तं मध्ये कोष्ठं द्विभागया | अर्धांशं पंजरव्यासं शेषं हारान्तं भवेत् || १७ || तदूर्ध्वे भूविशालार्धं मध्ये दण्डेन निर्गतिः | कूटात्कोष्ठस्तु नीव्रा वा मध्यशाला तु नीव्रकम् || १८ || कूटकोष्ठविशेषं तु समसूत्रकमेव वा | सप्तसप्त त्रिभागेन कृत्वा गेह समुच्छ्रयम् || १९ || सार्धाग्यंशमधिष्ठानं सप्तांशं चरणोदयम् | प्रस्तरं तु स पादाग्निसार्धषट्कांघ्रि तुंगकम् || २० || मंचमानं गुणांशं तु षड्भागं चरणोदयम् | पादोनाग्न्यंश मंचं स्यात् सार्धभूतांघ्रितुंगकम् || २१ || सार्धद्विभागमंचोच्चं कल्पयेत्तु विशेषतः | स पादं पंचभागं तु चरणोदयमीरितम् || २२ || प्रस्तरं सार्धपक्षांशं भूतांशं चरणोदयम् | स पादद्विभागमंचं स्यात् पादं पादोन पंचकम् || २३ || मंचमानं द्विभागं तु पादं सार्धयुगांशकम् | स त्रिपादांशमंचोच्चं व्योमांशं वेदिकोदयम् || २४ || कण्ठं पादोन पक्षांशं सार्धवेदांश शीर्षकम् | कण्ठमानसमं स्थूपी तुंगमित्येव मुच्यते || २५ || प्. १३४) स्थूप्यन्तं तदुपानादि वेदाश्रं परिकल्पयेत् | सौष्ठ्यग्रं च युगाश्रं स्यात् स्तंभं प्रत्यल्पनासिकाः || २६ || शिखरे तु चतुर्नासी युक्त्यास्ते तु महत्तरः | एकाकारतलं स्तंभं शिवच्छन्दमुदाहृतम् || २७ || तदेव नतशालाः स्युः समंचो सौष्टिकेन ताः | वागीशमिति विख्यातं सर्वदेवार्हकं परम् || २८ || तदेव नतकूटं च कोष्ठोन्नताः समंचकाः | यागवन्तमिति ख्यातं सर्वदेव प्रियावहम् || २९ || चतुरश्राष्टवृत्ताभसौष्टिकोष्ठं पुनः पुनः | विमानशिखरं कण्ठं अष्टाश्रं परिकल्पयेत् || ३० || तदष्टांगमिति ख्यातं मम प्रीतिकरं परम् | तदेव कूटकोष्ठं च समंचं वा विमंचकम् || ३१ || समोन्नतं तथा नीव्रं नानाधिष्ठान कांघ्रियः | नानाचित्रैर्विचित्रं तु पार्वतीमिति विद्यते || ३२ || तदेव शिखरं कण्ठं वृत्ताभं परिकल्पयेत् | नाम्ना कैलासमित्युक्तं मम प्रीतिकरं परम् || ३३ || एवमष्टतलं ख्यातं नवभौममथोपरि | इत्यंशुमान्काश्यपे वसुभूमिविधानपटलः (चतुस्त्रिंशः) || ३४ || अथ वक्ष्ये विशेषेण नवभूमिविधिं परम् | प्रासादमानवत्कार्यं गेहव्यासं तदुन्नतम् || १ || पंचादश भजेत्तारं गुणांशं गर्भगेहकम् | द्विभागा गृहपिण्डी स्यात् अलिन्दं चैक भागया || २ || व्योमांशं कुड्यविस्तारं अलिन्दं तत्समं भवेत् | हाराव्यासं शिवांशेन कल्पयेत्कल्पवित्तमः || ३ || अथवा षोडशांशं तु प्रासादं विभजेत्ततः | युगांशं गर्भगेहं तु द्विभागं ग्रहपिण्डिकाः || ४ || अलिन्दं व्योमभागेन हारा चैव तु तत्समम् | विन्याससूत्ररन्तं वा कलांशं विभजेत्समम् || ५ || एकांशं सौष्टिकव्यासं कोष्ठं तद्द्विगुणायतम् | पंजरव्यासमेकांशं कर्णकूटशिवाकृतिः || ६ || हारान्तरमथांशेन कल्पयेत्कल्पवित्तमः | चतुष्कूटाच्चतुश्शाला कलापंजर संयुतम् || ७ || हारान्तरं च द्वात्रिंशत्कल्पयेदादि भूतले | एवमेव प्रकर्तव्यं द्वितीयं च महीतलम् || ८ || तृतीयभूतलव्यासं मुनिभागविभाजिते | अर्धांशं पंजर व्यासं शेषं पूर्ववदाचरेत् || ९ || तद्वच्चतुस्तलं चैव कल्पयेत्कल्पवित्तमः | पंचभूमिविशालं च भानुभागविभाजिते || १० || १३६) एकांशं कूटविस्तारं शाला तद्द्विगुणायतम् | अर्धांशं पंजरव्यासं स्यादर्धं हारयोन्तरम् || ११ || भानुशाला चतुष्कूटं पंजरं षोडशैव तु | हारान्तरं तु द्वात्रिंशत् कल्पयेत्कल्पवित्तमः || १२ || दशांशं षट्तलव्यासं कृत्वैकांशं तु सौष्टिकम् | कोष्ठं तद्द्विगुणायामं अर्धांशं हारयोन्तरम् || १३ || लम्बपंजरसंयुक्तं हारान्तरं प्रकल्पयेत् | तदूर्ध्वभूविशालं तु रसभाग विभाजिते || १४ || एकांशं कूटविस्तारं कोष्ठदीर्घं तु तद्द्वयम् | पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् || १५ || तदूर्ध्व भूविशालं तु गुणभागविभाजिते | मध्येंशं दण्डमानेन निर्गमं परिकल्पयेत् || १६ || साष्टाशीति द्विभागं तु कृत्वा हर्म्योदयं बुधः | पादोनचतुरंशं तु धरातलमुदाहृतम् || १७ || पादोच्चं सार्धसप्तांशं सार्धाग्न्यंशं तु प्रस्तरम् | सप्तांशं चरणोच्चं तु सपादाग्न्यंश मंचकम् || १८ || सार्धषट्कांघ्रि तुंगं तु गुणांशं मंचमानकम् | षड्भागं पादमानं तु पादोनाग्न्यंशमंचकम् || १९ || पादोच्चं सार्धभूतांशं सार्धपक्षांशमंचकम् | सपादं पंचभागं तु पादस्योत्सेधमुच्यते || २० || प्रस्तरं सार्ध पक्षांशं भूतांशं चरणोदयम् | पादाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् || २१ || पादोनपंचकं पादं प्रस्तरोच्चं द्विभागया | प्. १३७) सार्धवेदांशकं पादं पादोनद्व्यंशमंचकम् || २२ || शिवांशं वेदिकोत्सेधं कर्णं चाध्यर्ध भागया | शीर्षकं सार्धवेदांशं पादोन द्व्यंशकुड्मलम् || २३ || पादं प्रत्यल्पनासाढ्यं शीर्षके वेदनासिका | समंचोन्नतकूटाढ्यं कूटाग्रं चतुरश्रकम् || २४ || होमादि स्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् | अशेषमध्यशालास्तु पार्श्वकोष्ठस्तु निर्गतिः || २५ || दण्डं वाऽध्यर्धदण्डं वा नाम्ना लम्बितभद्रकम् | तदेवोन्नतकोष्ठाः स्युः मंचोन्नतकूटकम् || २६ || ब्रह्मकान्तमिदं नाम्ना सर्वदेव प्रियावहम् | समंचं वा विमंचं वा कूटकोष्ठौ समुन्नतौ || २७ || प्रादेशमिति विख्यातं देवानां तु हितं परम् | तदेव शिखरं कण्ठं वस्वश्रं चाष्टनासिकाः || २८ || युगाश्रं वसुकोष्ठं च वृत्तं सौष्टि पुनः पुनः | सौष्ट्यंशेन युगाश्रं वा श्रीवर्धनमिदं परम् || २९ || समंचौ कूटकोष्ठौ द्वौ विमंचौ वाथ सादृशौ | वृत्तग्रीवाशिरोपेतं चतुर्दिग्भद्रनासिकाः || ३० || विदिक्षु भद्रनासाढ्य युग्मं वाऽयुग्ममेव वा | युग्मपंजरसंयुक्तं सुपद्ममिति विद्यते || ३१ || तदेव प्रतिसौष्ट्यग्रं क्रतुवर्धनमुच्यते | प्. १३८) तदेवगर्भगेहं तु वृत्तं वृत्त गृहं भवेत् || ३२ || एवं नवतलं ख्यातं दशभूमिमथोपरि || ३२/ || इत्यंशुमान्काश्यपे नवभूमिविधानपटलः (पंचत्रिंशः) || ३५ || अथ वक्ष्ये विशेषेण दशभूमेस्तु लक्षणम् | प्राग्वत्प्रासादमानोक्तमार्गेणैवोदयं तथा || १ || कल्पयित्वा तु तत्तारं मुनिभागविभाजिते | वेदांशगर्भगेहं तु गृहपिण्डी त्रिभागया || २ || अलिन्दं चैकभागेन हारातारं शिवांशकम् | विन्याससूत्रयोरन्तर मुनिभागविभाजिते || ३ || तेष्वेकं कूटविस्तारं शालादीर्घं तु तद्द्वयम् | एकांशं पंजरव्यासं पादं हारान्तरं भवेत् || ४ || चतुष्कूटांच्च शाला च पंजरं षोडशान्वितम् | हारान्तरं च द्वात्रिंशत् कल्पयेदादि भूतले || ५ || तदूर्ध्व भूमिविस्तारं त्रयोदशविभाजिते | एकांशकर्णकूटं तु शाला तद्द्विगुणायता || ६ || त्रिपादं पंजरव्यासं पादं हारान्तरं भवेत् | कूटादीनां तु संख्या तु आदिभूमिसमं भवेत् || ७ || प्. १३९) ऊर्ध्वभूविस्तृतं भानु भागं कृत्वानु सौष्टिकम् | द्विगुणं कोष्ठदीर्घं तु अर्धांशं पंजरस्ततम् || ८ || पादं हारान्तरव्यासं तेषां संख्या तु पूर्ववत् | तस्योर्ध्वतलविस्तारं रुद्रभागविभाजिते || ९ || पादं पंजरविस्तारं शेषं पूर्ववदेव हि | ऊर्ध्वभूमि विशालं तु व्योमांशं कूटविस्तृतम् || १० || कोष्ठं तद्द्विगुणं ख्यातं शेषं हारान्तरं समम् | हारान्तर त्रिभागैकं पंजरव्यासमुच्यते || ११ || तस्योर्ध्वभू नवांशे तु शिवांशं सौष्टिकं भवेत् | अध्यर्धांशं तु कोष्ठं स्यात् शेषं हारान्तरं समम् || १२ || हारान्तर त्रिभागैकं पंजरव्यासमुच्यते | प्राग्वत्कूटादिनां संख्या रसभूरेवमेव हि || १३ || अष्टांशं विभजेत्सप्ततलविस्तारमेव हि | कूटमेकांशमानेन मध्ये शाला द्विभागया || १४ || पंजरव्यासमेकांशं हारान्तरं तदर्धकम् | चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् || १५ || हारान्तरं कलासंख्या कल्प्येवं सप्तमं तलम् | सप्तांशं विभजेदष्टभूमेश्चैव तु विस्तरम् || १६ || प्राग्वत्कूटं च कोष्ठं च शेषं हारान्तरं भवेत् | हारान्तराग्नि भागैकं मध्यपंजर विस्तृतम् || १७ || नवभूमि विशालं तु षड्भागं विभजेत्समम् | प्राग्वत्कूटं च कोष्ठं च पंजरं च प्रकल्पयेत् || १८ || तदूर्ध्वभूमिविस्तारं नवांशं तु विभाजिते | मध्ये भद्रं तदेकांशं दण्डमानेन निर्गतिः || १९ || प्रासादस्य चोत्सेधं शतभागविभाजिते | युगांशं तदधिष्ठानं अष्टांशं चरणायतम् || २० || पादोन वेदभागं तु मंचमानमुदाहृतम् | पादोच्चं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम् || २१ || धात्वंशं चरणोच्चं तु स पादाग्न्यंशमंचकम् | सार्धषट्कांघ्रि तुंगं तु प्रस्तरं चाग्नि भागया || २२ || रसांशं पाददीर्घं तु पादोनाग्न्यंशमंचकम् | पादोच्चं सार्धपंचांशं सार्धपंचांशमंचकम् || २३ || पादाधिकं तु पंचांशं पादोत्सेधं तदुच्यते | सार्धपक्षांश मंचोच्चं पंचांशं पाददीर्घकम् || २४ || पादाधिकं तु पक्षांशं मंचमानमुदाहृतम् | स त्रिपादयुगांशं तु पाददीर्घमुदाहृतम् || २५ || प्रस्तरोच्चं द्विभागं तु सार्धवेदांशमंघ्रिकम् | पादोन द्व्यंशमंचं स्यात् शश्यंशं तु वितर्दिकम् || २६ || प्. १४१) कण्ठमध्यर्धभागेन शीर्षकं सार्धवेदकम् | पादहीनद्विभागं तु स्थूप्युत्सेधमुदाहृतम् || २७ || अग्नाकारं युगाश्रं तु शिखरे युग्मनासिका | पादं प्रत्यल्पनास्याढ्यं नानापादं रसातलम् || २८ || अत्यन्ताकारसंयुक्तं सर्वदेवप्रियावहम् | तदेवोन्नतकूटं चेत् इन्द्रकान्तमिति स्मृतम् || २९ || तदेवोन्नत कोष्ठं च नतं वोन्नतसौष्टिकम् | पक्षशाला तु मध्यस्था शाला दण्डेन नीव्रकम् || ३० || अष्टाश्रशिखरं कण्ठं शिखरेष्टौ तु नासिकाः | नानालंकारसंयुक्तं चतुष्कूटमिदं तथा || ३१ || तदेव कूटकोष्ठं च सान्तरप्रस्तरं समम् | कूटकोष्ठादिसंयुक्तं समसूत्रमथोपरि || ३२ || मंत्रपूतमिति ख्यातं विमानं सार्वदेशिकम् | तदेवशिखरं कण्ठं वृत्ताभं परिकल्पयेत् || ३३ || श्रीकान्तमिति विख्यातं सर्वदेवार्हकं गृहम् | तदेव कर्णकूटानां शीर्षकं च गलं तथा || ३४ || वृत्ताकारं प्रकर्तव्यं यत्तदीश्वरकान्तकम् | दशभूम्येवमाख्यातं ततस्त्वेकादशं तलम् || ३५ || इत्यंशुमान्काश्यपे दशभूमिविधानपटलः (षट्त्रिंशः) || ३६ || अथ वक्ष्ये विशेषेण रुद्रभूमिविमानकम् | प्रासादमानविधिना संगृहेत्तु ततोदयम् || १ || तिथ्यंशं विभजेत्तत्तु गुणांशं गर्भगेहकम् | पक्षांशं गृहपिण्डी स्यात् अलिन्दं चैकभागया || २ || एकांशं कुड्य विस्तारं अलिन्दं तु शिवांशकम् | हारान्तरमथांशेन कल्पयेत्तु यथाक्रमम् || ३ || अलिन्दांशमलिन्दं वा घनभित्तिरथापि वा | प्रस्तरान्तं घनं वापि तदूर्ध्वेऽलिन्दमेव वा || ४ || विन्याससूत्रयोरन्तर्व्यासं पक्षांशभाजिते | शिवांशं कर्णकूटं स्यात् पक्षां शालद्विभागया || ५ || मध्यशालाग्निभागं स्यात् अर्धांशं पंजरं भवेत् | हारान्तरं च तत्तुल्यं कल्प्येवं स्यादि भूतले || ६ || तदूर्ध्वेऽपि विशालं तु मन्वंशं तु विभाजिते | शिवांशं कूटविस्तारं कोष्ठदीर्घं तु तद्द्वयम् || ७ || द्व्यन्तरं पंजरव्यासं हारान्तरं तथैव च | भानुकोष्ठं चतुष्कूटं कलापंजर संयुतम् || ८ || हारान्तरं च वेदाष्टौ द्वितीयं चादिभूतलम् | तस्योर्ध्वे भूविशालं तु त्रयोदशविभाजिते || ९ || व्योमांशं कूटविस्तारं कोष्ठदीर्घं द्विभागया | अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् || १० || प्. १४३) कूटादीनां तु संख्या स्युः आदिभूमौ यथा तथा | तदूर्ध्वे भूमि विस्तारं द्वादशांशविभाजिते || ११ || एकांशं कूटविस्तारं कोष्ठं तु द्विगुणायतम् | शेषं हारान्तरं ख्यातं त्रिभागैकांशपंजरम् || १२ || पंजरं कूटकोष्ठं च संख्या वै प्रागिवैव तु | तदूर्ध्वे भूमिविस्तारं रुद्रांशं तु पूर्ववत् || १३ || तदूर्ध्वभूनवांशे तु कूटव्यासं प्रकल्पयेत् | तस्योर्ध्वभूमिविस्तारं दशभागं विभाजिते || १४ || कूटं चैव तु कोष्ठं च संख्यामानं तु पूर्ववत् | तदूर्ध्वभू नवांशे तु कूटव्यासं शिवांशकम् || १५ || अध्यर्धांशं तु कोष्ठायां शेषं हारान्तरं भवेत् | हारान्तरत्रिभागैकं पंजरव्यासमिष्यते || १६ || प्राग्वत्कूटादिसंख्याः स्युः कल्पयेत्कल्पवित्तमः | अष्टांशं विभजेदष्टभूमेश्चैव प्रविस्तृतम् || १७ || कूटविस्तारमेकांशं मध्येशाला द्विभागया | पंजरव्यासमेकांशं हारान्तरं तदर्धकम् || १८ || चतुष्कूटं चतुश्शाला पंजराष्टकसंयुतम् | हारान्तरं कलासंख्या प्रोच्यतेऽष्टसमन्वितम् || १९ || नवभूमिविशालं तु सप्तधा विभजेत्समम् | कूटव्यासमथांशेन कोष्ठदीर्घं द्विभागया || २० || प्. १४४) शेषं हारान्तरं ख्यातं तत्त्रिभागैकपंजरम् | दशभूमिविशालं तु रसभागविभाजिते || २१ || प्राग्वत्कूटं च कोष्ठं च पूर्ववच्च प्रकल्पयेत् | प्रथमादिपंचभूम्यन्तं भद्रपंजरसंयुतम् || २२ || पंचभूम्युपरिष्टात्तु भद्रं वा भद्रपंजरम् | ऊर्ध्वभूमिविशालं तु गुणभागविभाजिते || २३ || मध्ये भद्रं तदेकांशं दण्डमानेन निर्गतिः | प्रासादस्य तु चोत्सेधं शतांशं स त्रयोदश || २४ || कृत्वा सार्ध युगांशं तु धरातलमुदाहृतम् | पादोच्चं सार्धवस्वंशं पंचमानं युगांशकम् || २५ || वस्वंशं चरणायामं पंचं पादोनकं युगम् | चरणं सार्धसप्तांशं प्रस्तरं सार्धवह्निकम् || २६ || सप्तांशं पाददीर्घं तु पादाधिकाग्निमंचकम् | अर्धाधिकषडंशं तु पादोच्चास्तु मंचकम् || २७ || षडंशं पादतुंगं तु पादोनाग्न्यंशमंचकम् | अर्धाधिकं तु भूतांशं पाददीर्घमुदाहृतम् || २८ || अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् | सपादं पंचभागं तु पाददीर्घं प्रशस्यते || २९ || सार्धपक्षांशमंचोच्चं भूतांशं चरणोदयम् | स पादं पक्षभागं तु मंचमानमुदीरितम् || ३० || प्. १४५) पादोन पंचभागं तु चरणोदयमीरितम् | मंचमानद्विभागं तु सार्धवेदांशमंघ्रिकम् || ३१ || स त्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयः | शश्यंशं वेदिकामानं कण्ठोच्चं सार्धभागया || ३२ || अर्धाधिकं तु वेदांशं शिखरोदयमिष्यते | पादोनं तु द्विभागं स्यात्स्थूप्युदयमिष्यते || ३३ || होमादिस्थूपपर्यन्तं युगाश्रं परिकल्पयेत् | शिखरे तु चतुर्दिक्षु महानासी समन्वितम् || ३४ || पादं प्रत्यल्प नास्याढ्यं धातारं कान्तमुच्यते | सौष्टिकं चान्तमंचं तु विजयं तदुदाहृतम् || ३५ || तदेवोन्नतकूटं च कोष्ठोन्नताः समंचकाः | सर्वात्मकमिदं ख्यातं सर्वदेवात्मकं परम् || ३६ || तदेव शिखरं कण्ठं वस्वश्रं वसुनासिकाः | विशालभद्रमाख्यातं सर्वदेवार्हकं परम् || ३७ || तदेव मध्यभद्राढ्यं कूटकोष्ठौ समोन्नतौ | समंचं वा विमंचं वा कूटशाला च पंजरम् || ८८ || गणिका विशालकं प्रोक्तं ब्रह्मविष्णुशिवार्हकम् | तदेव शिखरं कण्ठं वृत्तमष्टाश्रवेदिका || ३९ || इन्द्रकान्तमिति ख्यातं विमानं सार्वदेशिकम् | तदेव कर्णकूटस्तु भद्रयुक्कर्णभद्रकम् || ४० || प्. १४६) तदेव सौष्टिकानां तु शीर्षकं मण्डलाकृतिः | नाम्ना कर्णविशालं तु सर्वदेवप्रियावहम् || ४१ || एवमेकादशं भूमिलक्षणं परिकीर्तितम् | इत्यंशुमान्काश्यपे रुद्रभूमिविधिपटलः (सप्तत्रिंशः) || ३७ || अथ वक्ष्ये विशेषेण भानु भूमि विधिं परम् | तस्य विस्तारतुंगं तु प्रोक्तं प्रासादमानकम् || १ || स सप्तधर्मभागं तु कृत्वा प्रासादविस्तृतम् | भूतांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका || २ || अलिन्दमेकभागेन कुड्यमेकांशमानतः | अलिन्दं तु शिवांशं स्याद्धारा भागेन कल्पयेत् || ३ || अथवा गर्भगेहं तु गुणांशेनैव कारयेत् | गर्भगेहस्य तुल्यं वा गृहपिण्डेस्तु विस्तृतम् || ४ || शेषं प्रागिव कर्तव्यं अलिन्दं कुड्यहारया | विन्यास सूत्रयोरन्तसप्तादशविभाजिते || ५ || गुणांशं मध्यशालास्या कर्णकूटं शिवांशकम् | तयोर्मध्ये तु पक्षांशं शालादीर्घमुदाहृतम् || ६ || कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा | प्. १४७) शिवांशं पंजरव्यासं कर्णकूटमिवाकृतिः || ७ || हारान्तरं तदर्धांशं क्षुद्रपंजरसंयुतम् | एवमादितलं कुर्यात् ऊर्ध्वं रुद्रतलोक्तवत् || ८ || सप्तविंशच्छतं भागं कृत्वा हर्म्यो द्विजोत्तम ! | धरातलोदयभूतांशं नवांशं चरणोदयम् || ९ || सार्धवेदांश मंचोच्चं ऊर्ध्वं भानुतलोक्तवत् | एवं भानुतलं प्रोक्तं त्रयोदशतलं शृणु || १० || इत्यंशुमान्काश्यपे भानुभूमिविधि पटलः (अष्टत्रिंशः) || ३८ || अथ वक्ष्ये विशेषेण त्रयोदशतलं शृणु | तस्य विस्तार तुंगं च प्रासादमानवद्गृहम् || १ || एकोनविंशदंशं तु कर्तव्यं सदनस्ततम् | गुणांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका || २ || अलिन्दं तच्छिवांशं स्याद्धारा भागेन कल्पयेत् | तद्बाह्येऽलिन्दमेकांशं हाराभागेन देशिक ! || ३ || व्योम भागमलिन्दं स्यात् हारव्यासं च तत्समम् | विन्याससूत्रयोरन्तः एकोनविंशदंशकैः || ४ || शिवांशं कर्णकूटं स्यात् मध्ये शालाऽग्निभागया | प्. १४८) पक्षशाला च तत्तुल्यं एकांशं पंजरस्य तु || ५ || हारान्तरं तदर्धांशं क्षुद्रपंजरसंयुतम् | पंजरं कर्णकूटाभं तस्याभं क्षुद्रपंजरम् || ६ || एवमादितलं प्रोक्तं ऊर्ध्वभानुतलोक्तवत् | चत्वारिंशद्द्वयाधिक्य शतांशे सदनोदयम् || ७ || पंचांशं तदधिष्ठानं दशांशं चरणोदयम् | भूतांशं मंचमानं स्यात् शेषं द्वादशभूमिवत् || ८ || त्रयोदशतलं ह्येवं कलाभूमिमथोपरि | इत्यंशुमान्काश्यपे त्रयोदशभूमिविधिपटलः (एकोनचत्वारिंशः) || ३९ || अथ षोडशभूमेस्तु लक्षणं वक्ष्यतेऽधुना | एवं क्रमेण संकल्प्य पंचालीन्दसमन्वितम् || १ || पंचहारसमायुक्तं गृहपिण्डिस्तु बाह्यकम् | गर्भगेहं रसांशं च वेदांशं गृहपिण्डिका || २ || शेषं पूर्ववदुद्दिष्टं अलिन्दादि द्विजोत्तम ! | एकद्वित्रिचतुष्पंच भूमौ वाथ धरातले || ३ || देवतास्थापनं कुर्यात् षोडशस्थलहर्म्यके | देवस्थापनभूम्यन्तं यावत्तावद्घनं कुरु || ४ || प्. १४९) बाह्ये तु चित्रालंकारं घनभूम्यन्तरं कुरु | अलिन्दं लजपादं वा छादितं वा तुलादिभिः || ५ || प्रस्तरान्तं घनं वाथ हारान्तं वाथ तद्घनम् | व्यासे स वेदित्रिंशांशे कर्णकूटं शिवांशकम् || ६ || हर्म्यमध्ये तु वेदांशं शालायाममुदाहृतम् | तयोर्मध्ये द्विभागेन शालादीर्घमुदाहृतम् || ७ || तयोर्मध्ये च शालां तु पक्षांशेनैव कल्पयेत् | तयोर्मध्ये विधांशेन पंजरं कर्णकूटवत् || ८ || हारान्तरं तयोर्मध्ये अर्धांशेनैव कल्पयेत् | एवं हि कल्पयेदादिभूमिशालाष्टविंशतिः || ९ || कर्णकूटं तु वेदाः स्युः द्वात्रिंशत्पंजरं भवेत् | सवेदषष्टि संख्याः स्युः हारान्तरं द्विजोत्तम ! || १० || एवमादितलं ख्यातं द्वितीयं द्वात्रिंशदंशके | द्विभागं मध्यशाला स्यात् शेषं पूर्ववदेव हि || ११ || द्वितीया ह्येवमाख्यातं तृतीयमधुनोच्यते | त्रिंशदंशविभागं तु कृत्वा तृतीयभूतलम् || १२ || कर्णकूटस्थ पार्श्वस्थं पंजरं चार्धभागया | हारान्तरं तदर्धं स्यात् शेषं द्वितीय भूमिवत् || १३ || चतुर्थभू विशालं तु साष्टविंशति भाजिते | कर्णकूटसमं पिण्डीशालायास्तु द्विपार्श्वयोः || १४ || प्. १५०) पंजरव्यासमर्धांशं शेषं प्रागिव कल्पितम् | पंचमे तल विस्तारे षड्विंशत्यंश भाजिते || १५ || मध्यशाला तु वेदांशं व्योमांशं कर्णकूटकम् | तयोर्मध्यस्थशाला च तयोर्मध्ये च कोष्ठकम् || १६ || प्रत्येकं द्विद्विभागेन कल्पयेत्कल्पवित्तमः | तयोर्मध्येऽर्धभागेनपंजरं कर्णकूटवत् || १७ || हारान्तरं तदर्धेन तेषां संख्यादिभूमिवत् | षष्ठं च भूमिविस्तारं चतुर्विंशति भाजिते || १८ || मध्ये कोष्ठद्विभागेन शेषं पूर्ववदेव हि | सप्तमं भूमिविस्तारं द्वाविंशत्यंशकं भजेत् || १९ || शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया | तयोर्मध्ये शिवांशेन क्षुद्रं कोष्ठं प्रकल्पयेत् || २० || तयोर्मध्ये द्विभागेन शालां कुर्याद्विशेषतः | अध्यर्धं पंजरव्यासं तदर्धं हारयोन्तरम् || २१ || पंजरं कूटकोष्ठं च संख्या वै प्रागिवैव तु | अष्टमं भूमि विस्तारं विंशत्यंशविभाजिते || २२ || व्योमांशं कर्णकूटं स्यात् मध्ये कोष्ठद्विभागया | तयोर्मध्ये द्विभागेन कोष्ठायाममुदाहृतम् || २३ || तयोर्मध्ये शिवांशेन क्षुद्रकोष्ठं प्रकल्पयेत् | शेषं प्रागिव कर्तव्यं तेषां संख्या तु पूर्ववत् || २४ || प्. १५१) नवभूमि विशाल्ं तु त्रिष्षडंश विभाजिते | शिवांशं कर्णकूटं स्यात् मध्ये शाला द्विभागया || २५ || तयोर्मध्येऽर्धभागेन पंजरं परिकल्पयेत् | तस्यार्धेनैव तत्पार्श्वेदयो हारान्तरं भवेत् || २६ || तत्पार्श्वयोर्द्विभागं स्यात् कोष्ठं कुर्याद्विशेषतः | कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा || २७ || पंजरं कल्पयेद्धीमान् अर्धांशेनैव सुव्रत ! | हारान्तरं तदर्धांशं कल्पयेत्कल्पवित्तमः || २८ || विंशत्कोष्ठं च तत्कूटं पंजरं भानुभिर्द्वयम् | कल्प्येवं नवमे भूमौ दशभूमेस्तु विस्तरम् || २९ || दशभूमेस्तु विस्तारं षोडशांशविभाजिते | कर्णकूटं शिवांशं स्यात् तत्समं पंजरस्ततम् || ३० || शालायामं द्विभागेन त्वर्धांशं हारयोन्तरम् | भानुशाला चतुष्कूटं कलापंजरसंयुतम् || ३१ || हारान्तरं तु द्वात्रिंशत् कल्पयेद्दशमे तले | एकादशतलव्यासं मनुभाग विभाजिते || ३२ || शिवांशं कर्णकूटं तु मध्ये शाला द्विभागया | तयोर्मध्ये स्थलांशानां गुणांशं परिकल्पयेत् || ३३ || अर्धांशं पंजरव्यासं तस्यार्धं हारयोन्तरम् | चतुष्कूटा तु शाला च पंजरं षोडशान्वितम् || ३४ || प्. १५२) हारान्तरं तु द्वात्रिंशत् कल्प्यं रुद्रतलेऽपि च | भानुभूमिविशालं तु भानुभागविभाजिते || ३५ || पंजरं कूटकोष्ठं च संख्या रुद्रतलोक्तवत् | सर्वेषामपि कोष्ठानां पंचांशं प्रविधीयते || ३६ || त्रयोदशतलव्यासं दशभागविभाजिते | कर्णकूटं शिवांशेन मध्ये शाला द्विभागया || ३७ || तयोमध्यैकभागेन शालाकारं प्रकल्पयेत् | तयोर्मध्ये विभागेन पंजरं कर्णकूटवत् || ३८ || हारान्तरस्य तस्यार्धं संख्या द्वादशभूमिवत् | चतुर्दशतलव्यासं वसुभागविभाजिते || ३९ || कर्णकूटं शिवांशेन मध्ये शाला द्विभागया | अर्धांशं पंजरव्यासं तस्यार्धं हारयोन्तरम् || ४० || चतुष्कूटं चतुश्शाला पंजरं षोडशान्वितम् | हारान्तरं चतुर्विंशत् कल्प्यमेवमनुक्रमात् || ४१ || त्रिपंचभूमिविस्तारं षड्भागं विभजेत्समम् | कर्णकूटं तु व्योमांशं मध्येशाला द्विभागया || ४२ || हारान्तरं तु शश्यंशं युगपंजरसंयुतम् | अशेषोर्ध्वतलं व्यासं वेदभागविभाजिते || ४३ || द्विभागं विस्तृतं दण्डमाननीव्रं तु मध्यमे | कृत्वा प्रासादतुंगं तु द्विभागेन शतद्वयम् || ४४ || प्. १५३) धरातलं तु सप्तांशं चरणोच्चं त्रयोदश | सार्धषट्कं तु मंचोच्चं पादोच्चं भानुसंख्यया || ४५ || प्रस्तरोच्चं तु षड्भागं रुद्रांशं चरणोदयम् | सार्धभूतांशमंचं स्यात् दशांशं चरणोदयम् || ४६ || सार्धवेदांश मंचोच्चं कल्पयेत्कल्पवित्तमः | पादोच्चं सार्धवस्वंशं मंचमानं युगांशकम् || ४७ || वस्वंशं चरणोच्चं तु मंचं पादोनकं युगम् | चरणं सार्धसप्तांशं प्रस्तरं सार्धत्रिभागिकम् || ४८ || सप्तांशं पाददीर्घं वा पादाधिकाग्निमंचकम् | अर्धाधिकषडंशं तु पादोच्चमग्निमंचकम् || ४९ || षडंशं पादमानं तु पादोन त्र्यंशमंचकम् | अर्धाधिकं तु भूतांशं पाददीर्घमुदाहृतम् || ५० || अर्धाधिकद्विभागं तु प्रस्तरस्योदयं भवेत् | सपादं पंचभागं तु पाददीर्घमुदाहृतम् || ५१ || सार्धपक्षांश मंचोच्चं भूतांशं चरणोदयम् | सपादं पक्षभागं तु मंचदीर्घमुदीरितम् || ५२ || पादोन पक्षभागं तु चरणोदयमीरितम् | मंचमानं द्विभागं स्यात् सार्धवेदांशमंघ्रिकम् || ५३ || स त्रिपादशिवांशं तु प्रस्तरस्य समुच्छ्रयम् | शश्यंशं वेदिकामानं कण्ठोच्चं तु द्विभागया || ५४ || प्. १५४) अर्धाधिक युगांशं तु शिखरोदयमीरितम् | सपादांशं शिखामानं कल्पयेत्तु क्रमेण तु || ५५ || होमादिस्थूपि पर्यन्तं युगाश्रं परिकल्पयेत् | शिखरे तु चतुर्दिक्षु महानासी समन्वितम् || ५६ || पादं प्रत्यल्पनास्याढ्यं ब्रह्मकान्तमुदाहृतम् | तदेव सान्तरं मंचं सौष्टिकं नत कोष्ठकम् || ५७ || सारस्वतमिदं ख्यातं शिवप्रियकरं गृहम् | तदेव नतकूटं च कोष्ठोन्नत स मंचकाः || ५८ || प्रादेशमिति विख्यातं सर्वेषामृद्धिकारणम् | तदेव शिखरं कण्ठं वस्वश्रं परिकल्पयेत् || ५९ || शिखरेऽष्टमहानासी युक्तं तच्छ्रीकरं भवेत् | तदेव मध्यभद्राढ्यं कूटकोष्ठसमन्वितम् || ५० || समंचो वा विमंचो वा कूटशाला द्विजोत्तम ! | पार्वतीकमिदं ख्यातं उपप्रतिकरं भवेत् || ५१ || तदेव शिखरं कण्ठं वृत्तं वाष्टाश्रवेदिका | वेदिकोर्ध्वे तयावैव वृत्ताकार समन्वितम् || ५२ || सुशांभवमिदं ख्यातं शंकरस्य प्रियं हितम् | पंजरं कूटकोष्ठं च शिखरं च घटं तथा || ५३ || एवमादीनि सर्वाणि नागराद्युचितं कुरु | अनेनैवाथवा कुर्यात् एकाद्यानेकभूमिकम् || ५४ || प्. १५५) * * थ तलं ह्येष कर्तव्यं तस्यादिमंचकम् | तत्तद्युचितविस्तारं तुंगकुड्यं च गर्भकम् || ५५ || कर्तव्यं विधिनानेन गं च लंकारसंयुतम् | सालिन्दसदनानां तु सोपानारोहणं यथा || ५६ || तत्र तत्रोचितं कुर्यात् शिलाभिर्वेष्टकाद्रुमैः | तस्याग्रं मण्डलं कुर्यात् एकानेकतलं तु वा || ५७ || प्रागुक्त विधिना कुर्यात् सर्वालंकारसंयुतम् | करालमुद्गीगुल्माष कल्कचिक्कणकर्मवान् || ५८ | नानावर्णैर्विचित्रं तु कर्तव्यं विधि चोदितम् | एवं यः कुरुते हर्म्यं अशक्यापेक्षितं तु वा || ५९ || इहैव धनवान् श्रीमान् पुत्रपौत्रकलत्रवान् | दासीदासादिभिश्चान्यै स्वच्छावशमुदा स्वभिः || ६० || सोऽन्ते कुलैकविंशच्च धावयेत्तु मुदानुमम् | इत्यंशुमान्काश्यपे षोडशभूमिविधिपटलः (चत्वारिंशः) || ४० || अथ वक्ष्ये विशेषेण मूध्नेष्टकाविधिं परम् | शिखरस्योदयोर्ध्वे वा महानास्यावसानके || १ || शक्तिध्वजावसाने वा मूध्नेष्टकां तु विन्यसेत् | प्. १५६) तद्धिद्यावसमाप्ते तु तदा मूध्नेष्टकां न्यसेत् || २ || मासपक्षर्क्षवारादौ सुलग्ने च समाचरेत् | शिलाभिस्तु शिलाहर्म्ये त्विष्टकेष्टकया तदा || ३ || दारुभिर्दारुहर्म्ये तु कर्तव्या शुभमिच्छता | मिश्रद्रव्यकृते हर्म्ये यद्द्रव्येण कृतं शिरः || ४ || तद्द्रव्येण प्रकर्तव्या मूर्ध्नेष्टका द्विजोत्तम ! | एकाद्यनेकभूमीनां हर्म्याणां तु विशेषतः || ५ || इष्टकाव्यासमायामं घनं चाद्येष्टकामिव | प्रकुर्यादिष्टकां विप्र ततःस्थापनमारभेत् || ६ || प्रासादस्याग्रतस्त्वीशे सौम्ये वा हर्म्यगोचरे | नवाष्टसप्तषट्पंचहस्तं वा मण्टपं स्ततम् || ७ || तद्विस्तारसमायामं चतुरश्रसमं गुरुः | मण्टपं वा प्रपां वाथ षोडशस्तम्भसंयुतम् || ८ || चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् | तरंघ्रमंघ्रिवेष्टं च वितानध्वजसंयुतम् || ९ || मुक्तास्रग्दर्भमालाभिः अलंकृत्य विशेषतः | मण्टपस्य त्रिभागैक मध्ये कृत्वोपवेदिकाम् || १० || वेदांगुलान्ते तं वेशं उपदे च युगाश्रकम् | शेषं वेदि विशालं तु भानुमात्रसमन्वितम् || ११ || भनुद्वयांगुलं चोच्चं दर्पणोदरसंनिभम् | प्. १५७) महाशास्वग्निकुण्डानि चतुरश्राणि कल्पयेत् || १२ || अथवा वालुकैः स्थूलैः स्थण्डिलं परिकल्पयेत् | गोमयालेपनं कृत्वा शिल्पिनं तु विसर्जयेत् || १३ || ब्राह्मणान्भोजयेत्तत्र ततोच्छिष्टं विसर्जयेत् | पुनश्च गोमयैर्लिप्य पुण्याहं वाचयेत्तदा || १४ || स्थण्डिलं कारयेद्धीमान् अष्टद्रोणैश्च शालिभिः | तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि || १५ || लाजैश्चैव परिस्तीर्य श्वेताब्जं परिकल्पयेत् | नानापुष्पैः कुशैर्दर्भैः परिस्तीर्य विचक्षणः || १६ || मनोन्मनीं कर्णिकायां वामादीश्च दलेष्वपि | गन्धपुष्पादिभिः पूज्य स्वस्वमन्त्रैर्विशेषतः || १७ || लोहजं दारुजं वाथ स्थूपिदण्डं तु कारयेत् | पनसं खदिरं सालं तिंत्रिणीसारमेव वा || १८ || मधूकं स्तवकं चैव षडेते सारदारवः | हेमजं रजतं ताम्रं अयसा मिश्रमेव वा || १९ || ऊर्ध्वभूम्यंघ्रितुंगं तु स्थूपिदण्डायतं भवेत् | मूर्ध्नि शैलोपरिष्टात्तु स्थूप्यन्तं वा तदायतम् || २० || ऊर्ध्वभूम्यंघ्रिविस्तारं स्थूपिदारु विशालकम् | तस्याग्रमंगुलं व्यासं मूलादग्रं क्रमात्कृशम् || २१ || तुंगे गुणांशे त्वेशं तु मूले वेदाश्रमाचरेत् | प्. १५८) वस्वंशं मध्यमे त्वग्रे वृत्ताकारं प्रकल्पयेत् || २२ || चतुरश्रो परिष्टात्तु सर्वं वृत्तमथापि वा | कर्तव्यं तस्य मूले तु शिखिपादं सुयोजयेत् || २३ || दण्डमूलसमं व्यासं त्रिगुणं त्रिगुणायतम् | तद्व्यासार्ध घनोपेतं पूर्वाग्रं चोत्तराग्रकम् || २४ || बध्वान्तर्मध्यमे च्छिद्रे दण्डमूलं सुयोजयेत् | दण्डमूल त्रिभागैकं शिखाव्यासं समाश्रयम् || २५ || शिखिपादघनं तस्य दीर्घायां योजयेद्दृढम् | दण्डमूलाग्रयोः पट्टं योजयेल्लोहजं बुधः || २६ || प्रक्षाल्य पंचगव्येन दण्डं चैवेष्टकामपि | कर्णिकायां न्यसेद्दण्डं शक्रादिषु यथाक्रमम् || २७ || चत्वारस्त्वेष्टकाः स्थाप्य शालिपिष्टमयैर्जलैः | पृथिव्यादीनि बीजानि दण्डान्ते विलिखेद्बुधः || २८ || प्राग्दिशीष्टकमारभ्य दण्डं पुष्पादिभिर्यजेत् | सुवर्णरजतैस्ताम्रैः सूत्रैः कार्पासजैस्तु वा || २९ || कौतुकं बन्धयेद्विद्वान् स्वस्वबीजमुदाहरन् | ब्रह्मविष्णू च रुद्रं च ईशानं च सदाशिवम् || ३० || शक्रेष्टकादि दण्डान्तं अधिदेवान्क्रमाद्यजेत् | नैवेद्यं दापयेत्तेषां ताम्बुलं तु निवेदयेत् || ३१ || प्रत्येकं चैव वस्त्रेण च्छादयेत्कूर्चसंयुतम् | प्. १५९) अभितः कलशानष्टौ स कूर्चान्सापिधानकान् || ३२ || गन्धाम्बुपूरितान्वस्त्रहेमपुष्पसमन्वितान् | स सूत्रान्पल्लवोपेतान् अष्टविद्येश्वराधिपान् || ३३ || स्थाप्य स्वमूलमंत्रेण नैवेद्यान्तं समर्चयेत् | ततो होमं प्रकर्तव्यं अग्न्याधानादिकं कुरु || ३४ || समिदाज्य चरुं लाजान् यवं सव्यादिभिर्बुधः | शतमर्धं तदर्धं वा प्रत्येकं जुहुयात्क्रमात् || ३५ || पंचब्रह्मषडंगैश्च क्षुरिका बीजमुच्चरन् | आज्येन जुहुयाद्धीमान् प्रत्येकं पंचविंशतिः || ३६ || जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् | ब्रह्मादिबीजमन्त्रैस्तु पृथक् स्पृष्ट्वा दशाहुतिः || ३७ || एवं जागरणं रात्रौ प्रभाते विमले शुभे | आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विधानतः || ३८ || नववस्त्रधरोष्णीषो भस्मरुद्राक्षधारकः | सितयज्ञोपवीताढ्यः सितमाल्यानुलेपनः || ३९ || हेमांगुलीयकटक कुण्डलाद्यैरलंकृतः | यज्ञसूत्रेण सहितभूषणैर्भूष्य शिल्पिनम् || ४० || आचार्यो मण्टपं गत्वा दण्डेष्टक घानलान् | गन्धपुष्पादिभिर्यष्ट्वा होमं कृत्वा जयादिभिः || ४१ || स्विष्टमग्नेति मन्त्रेण पूर्णाहुतिं समाचरेत् | प्. १६०) स्थिरराश्युदये विप्रोभयराश्युदयेऽपि वा || ४२ || जीवो वा शुक्रसंयुक्तो तयोर्दृष्टेन वाऽथ वा | आचार्यः शिल्पिभिश्चैव योग्यतोश्मगृहोपरि || ४३ || वीक्ष्य मूध्नेष्टकास्थानं हीनाधिक्यं तु नाश्रिते | मार्जन्या मण्डयित्वा तु पंचगव्यकुशोदकैः || ४४ || प्रोक्षयेच्छिवमन्त्रेण ततः स्थापनमारभेत् | स्थपतेस्तर्जनीवेशमात्रैव शिखरे सुषिम् || ४५ || कर्तव्यं तु ततो विप्र मूध्नेष्टकां निधापयेत् | इष्टकाः स्थूपिकुंभांश्च वह्निधामप्रदक्षिणम् || ४६ || नानालंकारसंयुक्तं कृत्वा हर्म्ये तु रोपयेत् | उत्तराभिमुखो भूत्वा त्वाचार्यो मन्त्रवित्ततः || ४७ || ब्रह्मविष्णू च रुद्रं च ईशानं च सदाशिवम् | विचिन्त्य स्वस्वमंत्रेण चतुरश्रेष्टका न्यसेत् || ४८ || पृथिव्यात्मकमश्मानं सौम्याग्रं शांकरे सुधीः | सुषेस्वांगेयमाश्रित्य प्रागुदग्रंसु सात्मकम् || ४९ || सुषे नैर्-ऋत्यसोमाग्रं * * * * शलात्मकम् | सुषे वायुं समाश्रित्य प्रागुदग्रं मरुतात्मकम् || ५० || एवं क्रमान्न्यसेदश्म सुषिं निश्च्छिद्रमाचरेत् | माणिक्यं मरकतं चैव वैडूर्यं चेन्द्रनीलकम् || ५१ || मौक्तिकं स्फटिकं चैव पद्मरागं प्रवालकम् | प्. १६१) वज्रं मध्यादिषु स्थाप्य शक्तिबीजमनुस्मरन् || ५२ || तदूर्ध्वे स्थापयेत्स्थूपि दण्डमीशानमाश्रितम् | कलशस्थोदकैः प्रोक्ष्य दण्डमश्मानमेव च || ५३ || गर्ते मूर्तिं समभ्यर्च्य गन्धैः पुष्पैश्च धूपकैः | गुलांभसा च सुधया स्थूपिं बध्वा तु निश्चलम् || ५४ || ततो (पंच च) शेषं तु कर्तव्यं स्योदितं यथा | शिखरस्थोपरिष्टात्तु स्थूपिं प्रागुक्तवर्त्मना || ५५ || कसलाद्यैस्ततं कुर्यात् निश्चलं सुदृढं यथा | स्वर्णैश्च रजतैर्वाथ ताम्रैश्च छादयेद्गृहम् || ५६ || कांचनालं कृतं धेनुं आचार्याय प्रदापयेत् | दक्षिणां दापयेत्तस्मै दशनिष्कं हिरण्यकम् || ५७ || यागोपकरणं सर्वं आचार्याय प्रदापयेत् | शिल्पिनं पूजयेत्पश्चात् गोभूमीकांचनादिभिः || ५८ || एवं यः कुरुते मर्त्यः स यात्यभ्युदयं फलम् | इत्यंशुमान्काश्यपे मूध्नेष्टकाविधिपटलः (एकचत्वारिंशः) || ४१ || अथ वक्ष्ये विशेषेण प्राकाराणां तु लक्षणम् | रक्षार्थं शोभनार्थं च शाला यस्योदयस्य तु || १ || प्. १६२) प्रासादस्य विशालार्धं गुणभागविभाजिते | चतुर्भागैकभागं वा अन्तर्मण्डलविस्तृतम् || २ || अन्तर्हारविशालं तु तद्बाह्ये द्विगुणं हि तत् | मध्यहाराविशालं तु बाह्ये तन्मण्डलत्रयम् || ३ || मर्यादेस्तु विशालं तु बाह्ये त्वादि चतुर्गुणम् | महामर्यादि विस्तारमादेः पंचगुणं भवेत् || ४ || प्रासादचरणा विप्राहोमाद्वा प्रथमस्य तु | नीव्रं द्वितीयं प्रथमात् द्वितीयात्तृतीय नीव्रकम् || ५ || तृतीयं चतुर्निष्क्रान्तं तस्मान्नीव्रं तु पंचकम् | प्राकारं प्रति निष्क्रान्तान्युक्तानि कुड्यसीमकम् || ६ || कुड्यमर्धावसानं वा कुड्यबाह्यमथापि वा | अथवा शेषविप्राणां नीव्रहोमाद्विधीयते || ७ || प्रथमं प्रकृतेस्तुल्यं तलं तस्माद्गुणांगुलम् | नतं द्वितीयकं पश्चात् तद्वदेव नतं क्रमात् || ८ || कल्प्यैवं हर्म्यमानेन हस्तमानमथोच्यते | त्रिपंच सप्तहस्तेन प्रथमं त्रिविधं भवेत् || ९ || नवैकादशहस्तं च त्रयोदश द्वितीयकम् | त्रिपंचसप्तदशकं हस्तमेकोन विंशतिः || १० || मध्यहारा त्रिधा प्रोक्ता मर्यादीनि ततः शृणु | एकविंशत्त्रयोविंशत् पंचविंशत्करं भवेत् || ११ || प्. १६३) सप्तविंशन्नवविंशदेकत्रिंशत्करेण तु | महामर्यादि विस्तारं एवं त्रिविधमुच्यते || १२ || एवमाभासहर्म्याणां विकल्पानां च कल्पयेत् | सप्तहस्तं समारभ्य पंचत्रिंशावसानकम् || १३ || प्रत्यकं प्रथमादीनां सालानां त्रित्रिमानकम् | त्रिपंच संख्यया प्रोक्तं हर्म्याणांश्चैव संज्ञकम् || १४ || नवहस्तं समारभ्य सप्तत्रिंशावसानकम् | प्राग्वदेव सालसंख्याः स्युः हर्म्याणां जातिसंज्ञिता || १५ || प्रागुक्तहर्म्यमानैश्च सालां जात्यन्तसंमताम् | पंचप्राकारमेवं हि त्रिप्राकारमथोच्यते || १६ || द्वितीयं तृतीयसालां च चतुर्थां च प्रगृह्यताम् | शेषं वाभ्यन्तरे बाह्ये वर्जितौ तत्त्रिसालकाम् || १७ || अन्यदभ्यन्तरे बाह्ये वर्जितौ तत्त्रिसालकाम् | द्वितीयं वा तृतीयं वा ग्राह्यं शेषास्तु वर्जिताः || १८ || एक सालान्वितं हर्म्यं एवमेव द्विजोत्तम ! | तस्यानुकूलसंयुक्तं द्विसालं संप्रकीर्तितम् || १९ || यत्र यदुचितं सालं हर्म्यौ वृतं तु लक्षयेत् | तस्मान्मुखे मुखे यामं कल्पयेत्कल्पवित्तमः || २० || बीजात्पादं तु वार्धं वा त्रिपादं तत्समं तु वा | द्विगुणं त्रिगुणं वाथ चतुः पंच गुणं तु वा || २१ || प्. १६४) कल्पयेत्तु मुखायामं बीजामूर्ध्वे द्विजोत्तम ! | अन्तर्मण्डलभित्तेस्तु विस्तारं व्योमहस्तकम् || २२ || तस्मात्त्रिमात्रवृद्ध्या वा षण्मात्रं वाथ वर्धयेत् | सार्धद्विहस्त हस्तान्तं महामर्यावसानकम् || २३ || भित्तिव्यासं समाख्यातं उत्सेधं शृणु सुव्रत ! | तद्व्यासत्रिचतुष्पंच गुणं वा सालतुंगकम् || २४ || अथवोत्तरसीमान्तं निद्रान्तं वाजनान्तकम् | प्रस्तरान्तं गलान्तं वा साला तुंग मुदाहृतम् || २५ || ऋजुभित्त्युत्तरोपेतं वाजनं छत्रशीर्षकम् | कल्पयित्वा विधानेन वृषान्संस्थाप्य शीर्षकम् || २६ || अथवा कुड्य बाह्ये तु कूटकोष्ठादि संयुतम् | अथवांघ्रितलोपेतं बाह्येत्वभ्यन्तराजितम् || २७ || कुड्यमूलस्य विस्तारं दशांशौनाग्रविस्तृतम् | मूलादग्रं क्रमात्क्षीणं वस्वंशेंशं द्विजोत्तम || २८ || अथवा हस्तमानेन सालोत्सेधं विधीयते | त्रिपंच सप्तहस्तादि नन्दरुद्रकरादि वा || २९ || द्विद्विहस्त विवृद्ध्या वा प्रत्येकं त्रिभेदकम् | प्रथमादि पंचशालानां उच्चं ह्येकोन भेदकम् || ३० || अथवान्य प्रकारेण सालोत्सेधं विधीयते | द्विद्विहस्त विवृद्ध्या तु प्रत्येकं तु त्रिभेदकम् || ३१ || प्. १६५) प्रथमं कलशान्तं तु द्वितीयं फलकान्तकम् | बोधिकान्तं तृतीयं तु चतुर्थं चोत्तरान्तकम् || ३२ || पंचमं तु कपोतान्तं पंचसालोदयं क्रमात् | एक त्रिपंचसालेषु तासामुक्तोदयं विदुः || ३३ || आवृतं मालिका वा स्यात् सभाकारमथापि वा | मण्टपाकृतिकं वाथ ऋजुकुड्यमथापि वा || ३४ || भूतवेदगुणं पक्ष व्योमभूमिमथापि वा | कुस्यस्योपरि कुड्यं स्यात् पादस्योपरि पादकम् || ३५ || तलं प्रतिप्रस्तरं कुर्यात् पादं प्रत्यल्पनासिका | वक्ष्येऽहं पादमानं च परिमाणं द्विजोत्तम ! || ३६ || मूलहर्म्ये तु होमादि उत्तरान्तं यदुन्नतम् | तन्मानं सप्तधा भज्य पक्षांशं तु धरातलम् || ३७ || पंचांशं पाददीर्घं तु पादं सर्वांगसंयुतम् | धरातलं तदुक्तं वा आर्जवं वा प्रकल्पयेत् || ३८ || मूलहर्म्ये तु होमादि उत्तरान्तं नवांशके | धरातलं द्विभागं स्यात् सप्तांशं चरणोदयम् || ३९ || उत्तरान्तं तु होमादि रुद्रभागं विभाजिते | अधिष्ठानं गुणांशं स्यात् शेषं पादोदयं भवेत् || ४० || मूलप्रासादतुल्यं वा चतु * * धरातलम् | पादस्योत्सेधमानं तु षट्सप्ताष्टौ तु वा भजेत् || ४१ || प्. १६६) एकांशं पादविष्कंभं दारुर्वाश्ममयं तु वा | तत्त्रिभागं द्विभागं वा त्रिपादं वार्धमेव वा || ४२ || कुड्य पादस्य विस्तारं सर्वत्र परिकल्पयेत् | मूलपादविशालं तु धर्मनन्दाष्टभाजिते || ४३ || एकांशरहिताग्रं स्यात् मूलादग्रं क्रमात्कृशम् | अग्रपादविशालं तु दण्डमित्यभिधीयते || ४४ || दण्डं त्रिपादमर्धं वा क्रमाच्छ्रेष्ठान्तराधमम् | उत्तरोत्सेधमाख्यातं विस्तारं मूलपादवत् || ४५ || मध्यपादसमं वाथ अग्रपादसमं तु वा | उत्तरव्यासमाख्यातं श्रेष्ठं मध्याधमं क्रमात् || ४६ || उत्तरोच्च त्रिभागैकं वाजनोत्सेधनीव्रकम् | उत्तरोत्सेध तुल्यं तु तुलानीव्रमुदाहृतम् || ४७ || तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि | वाजने वल्लिकोर्ध्वे वा तुलास्थापनमाचरेत् || ४८ || तुलार्धनीव्रविस्तारं जयंती स्यात्तुलोपरि | जयन्त्यार्ध विशालोच्चं मनुमार्गमुदाहृतम् || ४९ || तुलान्तरं तुलोच्चं तु जयन्त्युच्चं तदन्तरम् | अनुमार्गं तथा कल्प्य दण्डमानेष्टकान्तरम् || ५० || कपोतादीनि सर्वांगं प्रासादोक्तवदाचरेत् | अथवा तुलोपरिष्टात्तु इष्टकास्तरुणा कुरु || ५१ || प्. १६७) जयन्त्योत्सेध वा विप्र इष्टकास्तारुणं कुरु | सुधया गुलतोयैश्च इष्टकास्तरुणं कुरु || ५२ || करालमुद्गी गुल्माष कल्कचिक्कणमाचरेत् | इष्टकाकरणं ह्येतत् शिलाश्चेदुत्तरोपरि || ५३ || शैलकैः फलकाभिस्तु छादयेत्तु विशेषतः | वाजनोर्ध्वे तु वाच्छाद सुधाकर्म समाचरेत् || ५४ || एवमादितलं प्रोक्तं ऊर्ध्वभूमिं वदाम्यहम् | मूलाग्रस्तम्भ तुंगं तु धर्मनन्दाष्टधा भजेत् || ५५ || एकांशं हीनमंघ्र्युच्चं तथैवोर्ध्वो भूमयः | प्रस्तरं च तथा कार्यं एकानेकतलेऽपि वा || ५६ || प्रस्तरोपरि कर्तव्यं भित्तिमेककरोदयम् | छत्राकारं शिरोपेतं सभाकारमथापि वा || ५७ || गोपांतं वाथ वारं वा संकल्प्याभ्यन्तरे द्विज | मृल्लोष्ठैर्लोहलोष्ठैर्वा सारदारुमयैस्तु वा || ५८ || गोपानाच्छादनं कुर्याल्लूपोपरि शिरोन्वितम् | सभाकारमिदं ख्यातं लुपा वार विहीनकम् || ५९ || मण्टपाकृतिरित्युक्तं प्रस्तरोर्ध्वे विशेषतः | बाह्यकुड्यविहीनं तु मण्टपाकारमण्डितम् || ६० || छत्राकारमिदं ख्यातं यथेष्टं तेषु कल्पयेत् | जाति पञ्चतलं ख्यातं छन्दं वेदतलं भवेत् || ६१ || प्. १६८) विकल्पं त्रितलं विद्यात् आभासं चैकभूमिकम् | जात्यादीनां तु हर्म्याणां योग्यं सालातरं कुरु || ६२ || मर्यादिसालं माश्रित्य पाश्वके पचनालयम् | अथवा मध्यहारायां आग्नेययां पचनालयम् || ६३ || नैर्-ऋत्यामायुधस्थानं वायव्यां शयनार्हकम् | शांकरे यागशालास्यात् भ्रंशभागेऽथ वा बुधः || ६४ || आग्नेय याम्ययोर्मध्ये कर्तव्यं मण्डनालयम् | शक्रशंकरयोर्मध्ये मण्डनालयमेव वा || ६५ || वाद्यस्थानं च तत्पार्श्वे भृंगराजपदेऽपि वा | निर्-ऋति वरुणयोर्मध्ये धर्मश्रवणमण्टपम् || ६६ || वरुणवायवोर्मध्ये तु पुस्तकाराधनालयम् | तत्पार्श्वयोः प्रकर्तव्यं मण्डनालयमुत्तमम् || ६७ || पचनालयपार्श्वे वा कर्तव्यं मण्डनालयम् | सोमवायव्ययोर्मध्ये शस्त्राणामालयं कुरु || ६८ || सोमशंकरयोर्मध्ये गौर्यावासं प्रकल्पयेत् | तत्पार्श्वे शयनस्थानं पर्यंकेन समन्वितम् || ६९ || पुष्पकर्तव्यमेवाथ महेशे पुष्पमण्टपम् | ग्रहक्षतपदे कुर्यात् धान्यालयं द्विजोत्तम || ७० || परितो मालिकायां च एवमेवं प्रकल्पयेत् | मालिकाभ्यन्तरे चैशे कूपस्थानमुदाहृतम् || ७१ || प्. १६९) अथवान्यप्रकारेण वक्ष्येऽहं देशनिर्णयम् | शक्रशंकरयोर्मध्ये शालिस्थानमुदाहृतम् || ७२ || शक्रस्यानलयोर्मध्ये धनवा समुदाहृतम् | याम्य पावकयोर्मध्ये पुष्पमण्टपमुच्यते || ७३ || याम्य नैर्-ऋतयोर्मध्ये स्नानाम्बुकोष्ठमुच्यते | निर्-ऋतिवरुणयोर्मध्ये धर्मश्रवणमण्टपम् || ७४ || वरुणवायव्ययोर्मध्ये त्वायुधस्थानमुच्यते | वायव्य सोमयोर्मध्ये शयनस्थानमुच्यते || ७५ || ईशानसोमयोर्मध्ये यागार्थं मण्टपं कुरु | जयन्तेञ्जनशाला स्यात् आग्नेययां पचनालयम् || ७६ || परितो मालिकायां तु सकलस्थानमुच्यते | शांकरे नृत्तमूर्तिं च त्वाग्नेययां वृषवाहनम् || ७७ || उमास्कन्दसहितं विप्र नैर्-ऋत्यां परिकल्पयेत् | कंकालं वायुदिग्भागे भिक्षाटनं जयन्तके || ७८ || सुखासनं तु सत्यांशे वितथे त्रिपुरान्तकम् | सुग्रीवे हरिरर्धं स्याद् गन्धर्वे चन्द्रशेखरम् || ७९ || शेषांशे मदनारिः स्यामुख्ये कालारिमूर्तिनम् | दितयेत्वर्ध नारीशं इन्द्रे कल्याणसुन्दरम् || ८० || क्षेत्रपालस्तु पर्जन्ये याम्ये वै दक्षिणेश्वरम् | वारुण्ये लिंगमुद्भूतं सौम्ये तु गजहारिणम् || ८१ || प्. १७०) इतोर्ध्वमालयं प्रोक्तं अन्तरालेषु कल्पयेत् | मूलहर्म्यं तु संवीक्ष्य सकलस्थापनं कुरु || ८२ || प्राकारेषु चतुर्दिक्षु द्वारशोभादि कल्पयेत् | प्राकारतति मध्ये च दीर्घमध्ये च वेशनम् || ८३ || अथवा मूलहर्म्यस्य मध्ये तद्वेशनांशंकम् | प्रधानद्वारमेकं वा अन्ये वा जालकं द्विज || ८४ || प्राकारमेवमाख्यातं बाह्ये वीधिं विधीयते | एकद्वित्रिचतुष्पंच दण्डं वा विधिविस्तृतम् || ८५ || तद्बाह्ये तद्गृह श्रेणी मानेन विधिना कुरु | शैवानां परिचाराणा प्राच्यामावासमुच्यते || ८६ || प्राच्यां वा याम्यदेशे वा देशिका वा समुच्यते | दैवज्ञाम्बष्ठभिषजां वादकानां च याम्यके || ८७ || निबन्धाभारजीवीनां पश्चिमे वा समुच्यते | सर्वेषामपि भक्तानां वासमुत्तरपार्श्वतः || ८८ || आग्नौ महाव्रतस्थानं याम्ये पाशुपतालयम् | कालामुखं तु नैर्-ऋत्यां बौद्धालयं तु वारुणे || ८९ || वायव्यां तु महस्थानं सौम्ये भूसुरसद्मकम् | ज्ञानाभ्यासालयं कुर्यादैशान्यां तु विशेषतः || ९० || बाह्ये त्विन्द्रस्य दिग्भागे खातयेत्तु जलाशयम् | याम्यपावकयोर्मध्ये जलदानप्रपां कुरु || ९१ || प्. १७१) याम्य नैर्-ऋतयोर्मध्ये गोशालां संप्रकल्पयेत् | वरुणनैर्-ऋतयोर्मध्ये सुतिका वा समुच्यते || ९२ || वरुणानिलयोर्मध्ये रोगार्तानां निवासनम् | सौम्यानिलयोर्मध्ये बालशिक्षार्थमण्टपम् || ९३ || सोमशंकरयोर्मध्ये गायकं मण्टपं भवेत् | तद्बाह्ये परितो विप्र दासीनां गणिकादिनाम् || ९४ || नृत्यगेयाभ्यवासानां क्रयविक्रय जीविनाम् | चक्रिणां पुष्पजीवीनां कुलालानां तथैव च || ९५ || मत्स्य मांसोपजीवीनां तन्तुकारं तु कोष्ठकम् | नापितश्मश्रुकाराणां गोपालानां तु कारुणाम् || ९६ || रक्षकानां गृहश्रेणी चापवत्से तु मेव च | परितः कल्पयेद्धीमान् पूर्वादीनां वसानकम् || ९७ || तद्बाह्ये त्वीशदिग्भागे वायव्यां वा श्मशानकम् | दक्षिणे चोत्तरे बाह्ये चर्मकारादि वासकम् || ९८ || तासां वासात्तु कर्तव्यं रजकानां निवासनम् | तद्बाह्ये क्रोशमात्रे तु चण्डालश्रेणि रुच्यते || ९९ || प्राकारलक्षणं ह्येतत् प्रोच्यते द्विजसत्तम ! | इत्यंशुमान्काश्यपे प्राकारलक्षणविधिपटलः (द्विचत्वारिंशः) || ४२ || शिरस्सन्धानमीशेन मकुटं कवचेन तु | अस्त्रेण हस्तसन्धानं पादौ सद्येन सन्धयेत् || १ || पादाद्यंगानि सर्वाणि आत्मवत्परिकल्पयेत् | आदौ पश्चात्तु संधानं क्रमात्संपूर्णमाचरेत् || २ || उपांगं तु ततः कुर्याद् प्रत्यंगं तु ततः कुरु | अष्टत्रिंशत्कलान्यासं स्थानमंगमुदाहृतम् || ३ || वस्त्रमाभरणं शस्त्रं सूत्रं चोपांगमिष्यते | धर्मतालात्त्रितालान्त श्रेष्ठान्तराधमं त्रिधा || ४ || उत्तमं दशतालाख्यं चतुर्विंशच्छतांगुलम् | मध्यमं दशतालं स्या भनुपंक्त्यांगुलं भवेत् || ५ || कलाधिकशतांगुल्यं अधमम् दशतालकम् | सद्वादशशतं भागं नव तालोत्तमं भवेत् || ६ || अष्टोत्तरशतांशं तु मध्यमं नवतालकम् | कन्यसं नवतालं स्याद् वेदाधिकशतं भवेत् || ७ || तालं प्रत्येवमेवं तु क्रमाद्वेदांगुलं हरेत् | उत्तमं दशतालेन ब्रह्मविष्णुमहेश्वरान् || ८ || मध्यमं दशतालेन उमां सरस्वतीं तथा | उषाभूमी च दुर्गां च लक्ष्मी वै मातरस्तथा || ९ || गुहं शतमखं चैव चण्डेशं क्षेत्रपालकम् | कन्यसं दशतालेन कारयेद्द्विजसत्तम ! || १० || प्. १७३) वसवश्चाष्टमीमूर्तीश्च विद्येशान्लोकपालकान् | अन्ये च देवताश्चैव नवतालोत्तमेन तु || ११ || यक्षाप्सरगणाश्चैव अष्टमूर्ती मरुद्गणाः | पंचतालोत्तमेनैव विघ्नेशं कारयेद्बुधः || १२ || तन्मध्यमाधमेनैव सर्वभूतगणान्कुरु | बालास्तु वेदतालेन त्रितालेनैव किंनरः || १३ || किं पुरुषादयश्चैव त्रितालेनैव कारयेत् | एवं तालक्रमं प्रोक्तं बेराणामनुकूल्यकम् || १४ || अथ वक्ष्ये विशेषेण मण्टपानां तु लक्षणम् | प्रासादे त्वेकभूमौ तु प्रोच्यते मुखमण्टपम् || १५ || जातिश्छन्दविकल्पं च आभासानां तथैव च | प्रासादाभिमुखे चैव दिशासु विदिशासु च || १६ || ग्रामादीनां तु मध्ये वा दिशासु विदिशासु च | उद्याने वा नदी तीरे तटाकर्तार एव वा || १७ || देवार्थं मण्टपं कुर्यात् यथेष्टं मुखसंयुतम् | प्रासादस्याग्रके कुर्यात् मण्टपं चतुरश्रकम् || ११८ || मुखमण्टपमादौ तु प्रतिमा मण्टपं तथा | स्नपनार्थं तृतीयं तु नर्तनान्तु चतुर्थकम् || १९ || तेषु प्रथमं प्राग्वत् द्वितीयादिमिहोच्यते | अन्तर्मण्डलहारादि अन्तर्हारान्त वा कुरु || २० || प्. १७४) मण्टपं तु त्रयं कल्प्य शेषं बाह्ये यथेष्टदिक् | मण्टपान्मण्टपान्तं तु सालाद्वा मण्टपान्तकम् || २१ || अन्तरालमिति ख्यातं आदौ तल्लक्षणं शृणु | एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा || २२ || नवधर्मकरं वापि रुद्रहस्तमथापि वा | अन्तरालविशालं तु रुद्रसंख्याः प्रकीर्तिताः || २३ || यत्र यन्मण्टपं कुर्यात् तस्मिन्भक्त्या विशेषतः | एकद्वित्रिचतुष्पंच भक्त्या वाभ्यन्तरालकम् || २४ || सावकाशान्तरालं वा भित्तिबन्धमथापि वा | भित्तिबन्धान्तरालं चेत् पार्श्वयोर्वेशसंयुतम् || २५ || एकद्वित्रियपादं वा वेशं भक्त्यैकमेव वा | पार्श्वयोर्मध्यमे द्वारं जालकं वा प्रकल्पयेत् || २६ || उत्तरे जलधारां च स्नानार्थं परिकल्पयेत् | अयुग्मकां वा भित्तिर्वाऽभ्यन्तरालं द्विजोत्तम ! || २७ || अधिष्ठानादि सर्वांगं मण्टपस्य समं भवेत् | अथवा वेशहीनं तु मण्टपस्य समम् भवेत् || २८ || अन्तरालं समाख्यातं शृणुमण्टपमानकम् | त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् || २९ || यावदेकोन विंशं तु नवधा मण्टपस्ततम् | आभास सदनानां तु आभासं मण्टपस्त्विमे || ३० || प्. १७५) एकविंशति हस्तादि द्विद्विहस्तविवर्धनात् | सप्तत्रिंशति हस्तान्तं विकल्पं नवधा भवेत् || ३१ || आभासानां तु तद्योग्यं स्वस्वयोग्यमथापि वा | नवत्रिंशत्करारभ्य द्विद्विहस्त विवर्धनात् || ३२ || पंचाधिकं तु पंचाशत् करान्तं छन्दमुच्यते | सप्तपंचाशदारभ्य द्विद्विहस्तविवर्धनात् || ३३ || साग्निसप्तति हस्तान्तं विस्तृतं जातिरुच्यते | तद्विस्तारसमं दीर्घं समश्रं मण्टपं भवेत् || ३४ || अध्यर्ध हस्तमारभ्य षट्षडंगुल वर्धनात् | पंचहस्तावधिर्यावत् भक्तिव्यासं त्रिपंचधा || ३५ || अर्धहस्तं समारभ्य यावत्पंचकरावधि | गुणांगुल विवृद्ध्या तु भक्तिव्यासं प्रकल्पयेत् || ३६ || सार्ध द्विहस्तमारभ्य षट्षडंगुल वर्धनात् | अष्टहस्तावधिर्यावत् त्रयोविंशांघ्रिभेदकम् || ३७ || उपानादुत्तरान्त स्व गुणांगुल विवर्धनात् | स्तम्भानामुदयं ह्येवं स्तम्भव्यासमथोच्यते || ३८ || वस्वंगुलं समारभ्य अर्धांगुलविवर्धनात् | एकोनविंशमात्रान्तं त्रयोविंशांघ्रिविस्तरम् || ३९ || पादोच्चं भानुरुद्रांशे दशनवाष्टांश वा भजेत् | मूलतारं तदेकांशं तत्तदंशो नवाग्रकम् || ४० || प्. १७६) तलीपार्धतलोत्तुंगं सामान्यं सर्वमण्टपम् | तलिपोच्चं तु भूतांशे द्विभागं वा तलोदयम् || ४१ || अंघ्रितुंगाग्निवेदैक भागं वापि मसूरकम् | सोपपीठमधिष्ठानं केवलं वा मसूरकम् || ४२ || धरातल समोच्चं वा द्विगुणं त्रिगुणं तु वा | उपपीठोदयं ख्यातं उपपीठोच्छ्रयं तु वा || ४३ || उपपीठमधिष्ठानं चरणं प्रस्तरं तथा | नीव्रवेशमलंकारं गण्यं प्रागिव विद्यते || ४४ || भक्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम् | कलाल्पनासिकोपेतं मध्ये कूटं तु एव वा || ४५ || मण्डितं वाथ सर्वत्र चतुर्द्वार युतं तु वा | इष्टदिग्द्वारमेवं वा द्वयजालककोष्ठदिक् || ४६ || बाह्ये सोपानसंयुक्तं चित्रं तत्तोरणादिभिः | तोरणादि विहीनं वा कल्प्येवं प्रथमं भवेत् || ४७ || चतुर्भक्त्या विशालं तु इष्टदिग्द्वारसंयुतम् | पूर्वे परे द्विभक्त्यैकं भक्त्या विस्तृत नीव्रकम् || ४८ || मध्यस्थांघ्रिं परित्यज्य ऊर्ध्वे कूटद्विभक्तिकम् | भानुद्विगुणसंख्यांघ्रि युक्तं विंशतिनासिका || ४९ || द्वाराशासु च सोपानं कर्णे लांगल भित्तिकम् | वसुपंजरसंयुक्तं द्वितीयं मण्टपं भवेत् || ५० || प्. १७७) पंचभक्त्या युगाश्रं तु मध्ये कूटं त्रिभागया | मण्टपं परितोंशेन द्वात्रिंशच्चरणान्वितम् || ५१ || भानुद्विगुणनासाढ्यं पंजराष्टकसंयुतम् | इष्टदिग्द्वारसंयुक्तं द्वारान्यत्रैव कुड्यकम् || ५२ || द्वारस्थाने तु सोपानं सर्वालंकारसंयुतम् | कुड्यं कुंभलताद्यैस्तु भूषितं तु तृतीयकम् || ५३ || चतुरश्रं तु षड्भक्त्या मध्ये कूटं द्विभागया | तत्कूटमष्टपादाढ्यं मध्ये रंगसमायुतम् || ५४ || चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा | द्विभक्तिविस्तृतं चैव भक्त्या नीव्रं समायुतम् || ५५ || इष्टदिग्भद्रसंयुक्तं चतुर्दिग्भद्रमेव वा | चत्वारिंशति चाष्टांघ्रि युक्तं वा तत्र योजयेत् || ५६ || चतुर्विंशाल्पनासाढ्यं कुड्यं कुंभलतान्वितम् | तोरणाष्टकसंयुक्तं चतुर्थं मण्टपान्वितम् || ५७ || चतुरश्रं तु सप्तांशं षष्ठ्यंघ्रिकसमायुतम् | नवभागेन तन्मध्ये कूटं वा मण्दितां कणम् || ५८ || द्वात्रिंशदल्पनासाढ्यं चतुर्दिग्भद्रसंयुतम् | त्रिभागैकांशविस्तारं निर्गमं मुखभद्रकम् || ५९ || मध्ये रंगसमोपेतं इष्टदिक्कुड्यसंयुतम् | सर्वालंकारसंयुक्तं पंचमं परिकीर्तितम् || ६० || प्. १७८) युगाश्रमष्टभक्त्या तु अशीति चरणान्वितम् | चतुर्भागेन तन्मध्ये ह्यूर्ध्वकूटं प्रकल्पयेत् || ६१ || चतुर्दिग्द्वारसंयुक्तं मध्येकांशेन कूटकम् | सर्वालंकारसंयुक्तं षष्ठमं मण्टपं भवेत् || ६२ || नवभक्त्या युगाश्रं तु शतं पादसमन्वितम् | गुणांशकांशविंशं तु नीव्रभद्रं चतुश्चकः || ६३ || चतुर्द्वारसमायुक्तं इष्टदिग्द्वारमेव वा | मुखे सोपानमग्न्यंशैः व्यासदीर्घसमन्वितम् || ६४ || मध्यरंगसमायुक्तं षडष्टौ नासिकान्वितम् | सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् || ६५ || चतुरश्रं दशांशं तु भान्वाधिकदशांशकम् | मध्ये चैवाष्टदिशि च नवकूटसमायुतम् || ६६ || कूटं पूरिवृतांशेन अन्तरालं प्रकल्पयेत् | प्राग्वन्मुखेन सोपानं दिशि भद्रसमन्वितम् || ६७ || सर्वालंकारसंयुक्तं अष्टमं मण्टपं भवेत् | रुद्रभक्त्या युगाश्रं तु मध्येऽग्न्यंशेन कूटकम् || ६८ || मुखे सोपानसंयुक्तं इष्टदिग्भद्रसंयुतम् | द्वारान्यत्रैव कुड्यं वा इष्टभागावसानकम् || ६९ || सर्वालंकारसंयुक्तं नवमं मण्टपं भवेत् | द्वादशांशे युगाश्रं तु मध्ये द्व्यंशेन कूटकम् || ७० || प्. १७९) मण्टपस्य तु बाह्ये तु अंशेनालिन्दमिष्यते | चतुर्द्व्यंशेन विस्तारं निष्क्रान्तं स्याच्चतुर्दिशि || ७१ || साष्टषष्टिशतं पादं मध्यरंगे तु कल्पयेत् | सर्वालंकारसंयुक्तं दशमं मण्टपं भवेत् || ७२ || युगाश्रं त्रयोदशांशेन मध्येऽग्न्यंशेन कूटकम् | इष्टदिक्कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् || ७३ || प्राङ्मुखे नन्दभागेन मुखभद्रं प्रकल्पयेत् | सद्वयं नवतीयुक्तं अंघ्रि च समन्वितम् || ७४ || तोरणैर्जालकैश्चान्यैः अलंकारसमन्वितम् | सर्वालंकारसंयुक्तं रुद्रांशं मण्टपं भवेत् || ७५ || मनुभागैर्युगाश्रं तु मध्ये द्व्यंशेन कूटकम् | वेदाधिक्यं तु विंशांशं द्विशतं चरणान्वितम् || ७६ || मण्टपं कुड्यसंयुक्तं चतुर्दिग्भद्रसंयुतम् | नन्दादि भद्रसंयुक्तं इष्टभक्त्या विशेषतः || ७७ || सर्वालंकारसंयुक्तं द्वादशं मण्टपं भवेत् | त्रिपंचभित्तिविस्तारं आयतं चतुरश्रकम् || ७८ || मध्ये कूटं गुणांशेन ऊर्ध्वकूटसमन्वितम् | गुणांशं विस्तृतायामं मुखभद्रसमन्वितम् || ७९ || इष्टदिक्कुड्यसंयुक्तं अन्यत्रांघ्रिसमन्वितम् | तोरणैर्जालकैश्चान्यैः अलंकृत्य समन्वितम् || ८० || प्. १८०) पंचाशद्द्वयवाधिक्यं द्विशतं चरणान्वितम् | सर्वालंकारसंयुक्तं मण्टपं तु त्रयोदश || ८१ || एवं हि मानभेदेन युगाश्रं मण्टपं विदुः | इत ऊर्ध्वं चतुस्त्रिंशत् दशसीमावसानकम् || ८२ || चतुरश्रं मण्टपं कुर्यात् सर्वालंकारसंयुतम् | भित्तिस्तम्भं च परितः कर्तुरिच्छावशान्नयेत् || ८३ || समाश्रमण्टपं कुर्यात् आयताश्रमथोच्यते | विस्तारभित्तितुल्यं वा यातं वा यतभित्ति यः || ८४ || विस्तारं भक्तिमानं तु गुणांगुलविवर्धनात् | सप्तविंशांगुलं यावत् तावत्पादेन वोदितम् || ८५ || वृद्ध्या क्षीणं तु यावाऽथ मण्टपानां करोदितम् | नाश्रये तु करं पूर्य मण्टपं तु समाचरेत् || ८६ || अंशेष्टपादसंख्या तु प्राग्वदायादिमाचरेत् | आयादीष्ट शुभौपेतं मण्टपस्य तदायतम् || ८७ || तस्योचित विभागं तु कृत्वा वा मण्टपं कुरु | भक्तित्रयविशालं तु पंचभक्त्यायतान्वितम् || ८८ || एकपार्श्वे पुरे वाथ द्वारमंशेन कल्पयेत् | पार्श्वे वारयुतं चेत्तु त्रिंशदंघ्रि समन्वितम् || ८९ || तदेव परितोंशेन मण्टपाभ्यन्तरस्य च | लूपारोहणकं कुर्यात् अष्टविंशांघ्रिसंयुतम् || ९० || प्. १८१) पुरे वारयुतं चेत्तु चरणं चाष्टविंशतिः | अथवा वारहीनं तु त्रिरष्टचरणान्वितम् || ९१ || पादं प्रत्यल्पनास्याड्यं वेदिजालकतोरणम् | नानाकुंभलताद्यैस्तु कल्पितं प्रथमं भवेत् || ९२ || चतुर्भक्ति विशालं तु आयामे तु षडंशकम् | मण्टपं परितोंशेन कूटमभ्यन्तरेतरम् || ९३ || द्विभक्ति विस्तृतं चैक भक्त्यायत मुखभद्रकम् | द्वात्रिंशच्चरणोपेतं मण्टपस्य द्वितीयकम् || ९४ || विशाले पंचभक्तिः स्या आयामे सप्तभक्ति यः | त्रिपंचभक्ति विस्तारं दीर्घमध्ये सभा भवेत् || ९५ || मण्टपं परितोंशेन इष्टदिग्भद्रसंयुतम् | चत्वारिंशति पाड्यं वा सर्वालंकारसंयुतम् || ९६ || वेदिकाद्यैः समायुक्तं तृतीयं मण्टपं भवेत् | रसभक्तिविशालं तु वसुभक्त्या यताश्रकम् || ९७ || द्विचतुर्भक्तिविस्तारं दीर्घं मध्ये सभोदयम् | मण्टपं परितोऽक्षांशं इष्टदिङ्मुखभद्रकम् || ९८ || षष्टिसंख्यांघ्रिसंयुक्तं नासिकादि विभूषितम् | नानालंकारसंयुक्तं चतुर्थं मण्टपं भवेत् || ९९ || तारे सप्तविभागे तु नवभक्त्यायतान्वितम् | त्रिभक्तिविस्तृतं पंच भक्त्यायामं सभांकणम् || १०० || प्. १८२) मण्टपं परितोक्षांशं इष्टदिग्भद्रसंयुतम् | त्रिभक्तिविस्तृतं चैक भक्त्यायाममुखभद्रकम् || १०१ || सप्ततिः स्याद्द्वयाधिक्यं पादमित्यभिधीयते | सर्वालंकार संयुक्तं पंचमं मण्टपं भवेत् || १०२ || वसुभक्तिविशालं तु दशभक्त्यायतान्वितम् | द्विचतुर्भागविस्तारं दीर्घमध्ये सभोदयम् || १०३ || परितो मण्टपोऽग्न्यंश मध्यस्तम्भ विवर्जितम् | इष्टदिङ्मुखभद्रांशं चतुर्द्व्यंशे च सुव्रत ! || १०४ || षण्णवत्यंघ्रिसंयुक्तं सर्वालंकारसंयुतम् | षष्ठमं मण्टपं ह्येवं प्रोच्यते तु शिवार्हकम् || १०५ || नवभक्त्या विशालं तु रुद्रभक्त्यायतान्वितम् | एकांशं भक्ति विस्तारं दीर्घमध्ये सभा भवेत् || १०६ || परितो वेदभागं तु मण्टपं परिकल्पयेत् | त्रिचतुर्भागविस्तारं दीर्घं स्यान्मुखमण्टपम् || १०७ || सर्वालंकारसंयुक्तं सप्तमं मण्टपं भवेत् | दशभक्त्याविशालं तु द्विभक्त्याधिकमायतम् || १०८ || द्विचतुर्भागायतं तारं तयोर्मध्ये सभांकणम् | परितो लिन्दमेकांशं मण्टपाद्द्व्यंशबाह्यतः || १०९ || तद्बाह्येऽलिन्दमेकांशं युक्त्यान्तस्तम्भसंयुतम् | इष्टदिग्भद्रसंयुक्तं अष्टमं मण्टपं भवेत् || ११० || प्. १८३) तदेव शिवांशाधिकं विस्तृतायामे त्रिपंचांशेन सभांकणम् | परितोऽलिन्दमेकांशं मण्टपं द्व्यंशबाह्यतः || १११ || तद्बाह्येऽलिन्दमेकांशं नवमं मण्टपं भवेत् | आदित्यांशविशाले तु द्विभागाधिकमायतम् || ११२ || चतुष्षडंशम्ध्ये तु सभायारं कणं तु वा | बाह्यकेऽलिन्दमेकांशं मण्टपे द्व्यंशबाह्यके || ११३ || सान्ततालीन्दमेकांशं दशमं मण्टपं भवेत् | विस्तृते तु जगत्यांशे तद्द्व्यंशाधिकं मायतम् || ११४ || त्रिपंचांशे सभामध्ये तस्मालिन्दांशमावृतम् | मण्टपेऽत्र विमानं तु तद्बाह्येऽलिन्दभागया || ११५ || आलिन्दं तु विना वापि मण्टपं तु युगांशकम् | भद्रमण्टपमाख्यातं इष्टदिग्भद्रसंयुतम् || ११६ || मन्वंशे तु च विस्तारे द्विभागाधिकमायतम् | द्विचतुर्भागधायामं तारमध्ये सभांकणम् || ११७ || तद्बाह्येऽलिन्दमेकांशं मण्टपं चतुरश्रकम् | मण्टपाद्बाह्यतोऽलिन्दं भागमेवं विधीयते || ११८ || चतुर्दशं मण्टपं ख्यातं इष्टदिग्भद्रसंयुतम् | त्रिपंचांशे विशालं तु द्विभागाधिकमायतम् || ११९ || तिथ्यंशमण्टपं मध्ये सभां कणमिति स्मृतम् | अंकणावृतमेकांशं अलिन्दं तु विधीयते || १२० || प्. १८४) तद्बाह्ये चतुरश्रं स्यात् मण्टपं प्रविधीयते | तस्यावृतांशतोऽलिन्दं त्रयोदशं मण्टपं भवेत् || १२१ || षोडशांशे विशालं तु द्विभागाधिकमायतम् | चतुर्विंशांकणोपेतं बाह्येऽलिन्दांश मानतः || १२२ || तद्बाह्ये चतुरंशेन मण्टपं स्याद्विशेषतः | तस्या वृतांशतोऽलिन्दं चतुर्दशं मण्टपं भवेत् || १२३ || जात्यादि आयतं विद्यात् तत्तद्विन्यासमुच्यते | जालकं च कवाटं च ग्राह्यं युक्त्या विशेषतः || १२४ || इष्टदिक्चरणं कुड्यं कल्पयेत्परितो बुधः | एवं हि मनुभेदं च सायतं मण्टपं विदुः || १२५ || त्रिचतुष्पंचषट्सप्तचरणव्यास एव वा | सर्वेषां मण्टपानां तु भित्तिव्यासं तु पंचधा || १२६ || पादायामविशाले न दारुपादेन वाप्ययम् | सर्वेषां मुखभद्राणां अंकणं मण्टपाकृतिः || १२७ || पार्श्वे सोपानसंयुक्तं हस्तिहस्त विभूषितम् | पंचषट्सप्तनन्दाष्ट दण्डं वा तस्य विस्तृतम् || १२८ || स पादं सार्धदण्डं वा हस्ति हस्तोदयं तथा | यष्टिनाभ्युतकल्प्येवं वस्वश्रं गजहस्तकम् || १२९ || तनीव्र किंपुरीरास्यं लम्बाग्रं कुक्कुटाकृतिः | मूलादष्टांशहीनं तद् अग्रव्यासं क्रमात्कृशम् || १३० || प्. १८५) हस्तिहस्तान्तरं विप्र ! युग्मं वा युग्मयष्टयः | दण्डं सपाददण्डं वा सार्ध त्रिपादपादकम् || १३१ || द्विदण्डं वाथ यष्टिश्च विस्तारं स्यात्तदेव हि | तेन द्विगुण नीव्रं तु अधस्तान्मण्टपं भवेत् || १३२ || यथेष्टरुचांगनी भागैकं भागं स्यान्ममलोदयम् | आदौ तस्मिन्स्थले स्थित्वा सव्यपादपुरस्सरम् || १३३ || सोपानारोहणं विद्यात् मर्त्यानां तु विधीयते | मण्टपं ह्येवमाख्यातं गोपुरं शृणु सुव्रत ! || १३४ || इत्यंशुमान्काश्यपे मण्टपलक्षणविधिपटलः (त्रिचत्वारिंशः) || ४३ || अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम् | अन्तर्मण्डल सालादिस्त्वधुना प्रोच्यते क्रमात् || १ || द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके | द्वारगोपुर इत्येते क्रमान्नाम्ना प्रकीर्तिताः || २ || एकद्वित्रितलं वापि द्वारशोभां तु कल्पयेत् | द्विभूमिर्वा त्रिभूमिर्वा चतुर्भूमिरथापि वा || ३ || द्वारशाला तु कर्तव्या साले स्यात्तु द्वितीयकम् | त्रिचतुष्पंचभूमिर्वा द्वारप्रासादमारभेत् || ४ || प्. १८६) चतुष्पंचतलं वाथ षट्तलं वाथ हर्म्यकम् | पंचषट्सप्तभूमिर्वा द्वारगोपुरमिष्यते || ५ || अथवा सर्वसालेषु एकद्वित्रितलं तु वा | सोपपीठमधिष्ठानं विना वादुपपीठकम् || ६ || तयोरुच्चादयास्सर्वे नवपंचावदाम्यहम् | मूलप्रासादविस्तारं सप्ताष्टनवभाजिते || ७ || दशैकादशभागे च एकांशरहितं क्रमात् | शोभादि गोपुरान्तानां विपुलं कीर्तितं क्रमात् || ८ || विकल्पाभासहर्म्याणां गोपुराणां ततिस्त्विमे | मूलालयविशालं तु चतुष्पंचषडंशके || ९ || सप्ताष्टांशेन हीनं तु छन्दशोभादयं भवेत् | मूलगेहत्रिभागैकं भागमर्धांशमेव वा || १० || त्रिद्व्यंशचतुरंशे तु गुणांशं च तथैव च | पंचभागे तु वेदांशं सालेषु प्रथमादिषु || ११ || शोभादि गोपुरान्तानां ततिर्जात्यालयं क्रमात् | कल्प्यैवं हर्म्यमानं स्याद्धस्तमान वशात्ततः || १२ || द्विहस्तादि द्विरष्टान्तं एकहस्तविवर्धनात् | शोभादि गोपुरान्तानां प्रत्येकं त्रित्रिभेदकम् || १३ || विकल्पाभासयोरेवं छन्दहर्म्येऽथ वक्ष्यते | गुणहस्तं समारभ्य सप्तादशकरावधि || १४ || प्. १८७) एकहस्त विवृद्ध्या तु शोभादीनां त्रयं त्रयम् | चतुर्हस्तं समारभ्य यावदष्टदशैः करैः || १५ || शोभादीनां तु विस्तारं जातिहर्म्ये तु विद्यते | प्रत्येकं त्रित्रिधा मानं छन्दं पंचविधं भवेत् || १६ || हस्तमानेन विस्तारं क्षुद्राणां महतीं क्रमात् | स्वस्वोदितः प्रकर्तव्यं विपरीतं विपत्करम् || १७ || अथवा त्रिचतुष्पंच षट्सप्ताष्टनवांशकम् | दशैकादशहस्तं तु अधमादित्रयं त्रयम् || १८ || सर्वसालेषु कर्तव्यं तस्मात्ते सार्वदेशिकम् | अथवान्यप्रकारेण शोभादीनां तु विस्तरम् || १९ || पंचहस्तं समारभ्य द्विद्विहस्तविवर्धनात् | त्रयोदशकरान्तं तु शोभाव्यासं तु पंचधा || २० || त्रिपंचहस्तमारभ्य द्विद्विहस्तविवर्धनात् | त्रयोविंशत्करान्तं तु द्वारशाला तु पंचधा || २१ || पंचविंशत्करारभ्य त्रयोविंशत्करान्तकम् | द्वारप्रासादविस्तारं पंचधा परिकीर्तितम् || २२ || पंचत्रिंशत्करारभ्य चत्वारिंशत्त्रयावधि | पंचधा द्वारहर्म्यस्य विस्तारं परिकीर्तितम् || २३ || स पंच चत्वारिंशत्तु पंचाशत्त्रिकरान्तकम् | द्विद्विहस्तविवृद्ध्या तु पंचधा गोपुरस्ततम् || २४ || प्. १८८) द्वारायतनव्यासास्ते नतस्तदायतं शृणु | स पादं सार्धपादोन द्विगुणं द्विगुणं तु वा || २५ || स त्रिभागैकभागं तु द्विभागस्त्वायतं भवेत् | शोभादि गोपुरान्तानां एवं ह्येवं प्रगृह्यताम् || २६ || तेषु किंचिद्विशेषोऽस्ति तद्विशेषं शृणुष्वपि | हस्तमानेन विस्तारं गृहीते तु विशेषतः || २७ || आयामं पूर्ववत्कल्प्य अनेकेष्विष्टमायतम् | हस्तच्छेदं प्रवृद्ध्या वा हन्या वा पूर्वमाचरेत् || २८ || आयादि शोभनोपेतं हस्तमानेन कल्पितम् | तौ विना हर्म्यमूलस्य वशं संकल्पितस्य तु || २९ || व्यासायामं समाख्यातं तेषां तुंगमथोच्यते | विस्तारं सप्तधा भज्य शोभोच्चं रुद्रभागया || ३० || तारादर्धाधिकं तुंगं द्वारशालोच्छ्रयं भवेत् | सप्ताभागेन रुद्रांशं भान्वंशं वा तृतीयके || ३१ || विस्तारे तु नवांशे तु मन्वंशोच्चं चतुर्थके | विस्तारद्विगुणोत्सेधं महागोपुरमिष्यते || ३२ || होमादि स्थूपि पर्यन्तं प्रोक्तोच्चं तु प्रगृह्यताम् | विस्तारायामयोर्मानं सूत्रं पाद्बाह्यमुच्यते || ३३ || तद्बाह्ये कूटकोष्ठादि नीव्रं प्रासादवद्भवेत् | विस्तारस्य त्रिभागैकं चतुर्भागैकमेव वा || ३४ || प्. १८९) पंचभागे द्विभागं वा सालाद्बाह्ये तु निर्गतिः | सार्धहस्तं समारभ्य षट्षडंगुलवर्धनात् || ३५ || पंचहस्तावधिर्यावत् क्षुद्राणां द्वारविस्तृतम् | अल्पानां च त्रिधा प्रोक्तं द्व्यन्तराणां ततः शृणु || ३६ || त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि | षडंगुलविवृद्ध्या तु द्वारव्यासं प्रकीर्तितम् || ३७ || चतुर्हस्तं समारभ्य यावन्नवकरान्तकम् | रसमत्रविवृद्ध्या तु महते द्वारविस्तृतम् || ३८ || तारे पंचांश सप्तांशं सप्तांशे तु दशायतम् | अध्यर्धं पादहीनं तु द्विगुणं द्विगुणोन्नतम् || ३९ || सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तधा | लिंगस्य मध्यमं द्वारं मध्यमं तु वदाम्यहम् || ४० || शिवाग्निभूतधा कृत्वा नवांगुलं विशेषतः | लिंगमध्यात्तु वामे वा द्वारमध्यं प्रकल्पयेत् || ४१ || शोभादि गोपुरान्तानां द्वारमध्यं क्रमाद्विदुः | तन्मध्याद्गोपुरायामं उभयोः पार्श्वयोस्समम् || ४२ || द्वरयोगं कवाटं च द्वारलक्षणवत् कुरु | गुणभक्तिसमारभ्य यावदेकोन विंशतिः || ४३ || ताअत्पंक्तिस्तु विस्तारे एवमेवं प्रकल्पयेत् | यावद्द्विपंक्तयोर्व्यासे तावदेवायपंक्तयः || ४४ || प्. १९०) विस्तारे पंचभागे तु गुणांशे गर्भगेहकम् | शेषं कुड्यविशालं स्या तारार्धं वाग्रहस्तकम् || ४५ || शेषं भक्ति विशालं स्यादेकभूमौ द्विजोत्तमौ | परितः कुड्यविस्तारं अनेनैव प्रकल्पयेत् || ४६ || एवं एकतलं ख्यातं द्वितलं तु तथोच्यते | विस्तारे पंचभागं स्यात् आयामेऽपि तथैव च || ४७ || द्व्यंशांशं गर्भगेहं तु सार्धांशं कुड्यविस्तृतम् | एकांशं कर्णकूटं स्यात् गुणांशं कोष्ठदीर्घकम् || ४८ || हारान्तरं शिवांशं स्यात् कल्पयेदेवमेव वा | विस्तारं सप्तभागं स्यात् नवभागं तदायतम् || ४९ || युगांशं गर्भगेहं तु सार्धांशं कुड्यविस्तृतम् | कर्णकूटं तु तारेंशं शालादीर्घं गुणांशकम् || ५० || हारान्तरं तदंशेन विस्तारे चैवमेव वा | शालादीर्घं तु पंचांशं आयामं तु प्रकल्पयेत् || ५१ || हारान्तरं च कूटं च एकैकांशेन कल्पयेत् | कूटान्तरसमायामं शेषं हारान्वितं भवेत् || ५२ || हारान्तरार्धमानेन भद्रं वा भद्रपंजरम् | द्वितलं ह्येवमाख्यातं त्रितलं त्वधुनोच्यते || ५३ || नवांशं विभजेद् व्यासं आयामं च तथा भवेत् | गर्भगेहं गुणांशं स्याद् अंशेन गृहपिण्डिका || ५४ || प्. १९१) आलिन्दं चैकभागेन हारव्यासं शिवांशकम् | कर्णकूटं शिवांशेन शालादीर्घं गुणांशकम् || ५५ || एकांशं पंजरव्यासं अर्धांशं हारयोन्तरम् | कल्प्येवमादिभूमं तु द्वितलं पूर्ववद्विदुः || ५६ || अथवान्यप्रकारेण त्रितलं शृणु सुव्रत ! | द्वारशोभं तु विस्तारं रुद्रांशं तु तदायतम् || ५७ || गुणांशं गर्भगेहं तु गृहपिण्ड्यंशमुच्यते | अलिन्दं तत्समं ख्यातं हारं भागेन कल्पयेत् || ५८ || अलिन्दांशं तु कुड्यं वा गर्भगेहान्वितं तु वा | आयामे पंचभागेन कोष्ठदीर्घं प्रकल्पयेत् || ५९ || शेषं पूर्ववदुद्दिष्टं द्वितीयं द्वितलोक्तवत् | त्रितलं ह्येवमाख्यातं चतुर्भूमिमिदं परम् || ६० || विस्तारे तु दशांशे तु तद्वदायामपंक्तयः | गर्भगेहं त्रिभागादि सार्धांशं कुड्यविस्तृतम् || ६१ || अलिन्दं शिवभागेन हारव्यासं तथैव च | पंजरं कर्णकूटं च त्वेकैकांशेन कल्पयेत् || ६२ || कूटतारसमायामं शेषं हारान्तरान्वितम् | शालायामे तु वेदांशं अर्धांशं हारयोन्तरम् || ६३ || आदिभूम्येवमाख्यातं ऊर्ध्वं पूर्ववदाचरेत् | विस्तारे तु दशांशे तु भान्वंशं तु तदायतम् || ६४ || प्. १९२) पूर्वे परे च शालायां पंचभागेन कल्पयेत् | शेषं पूर्ववदुद्दिष्टं चतुभूमिमिदं परम् || ६५ || तारमेकादशांशं तु आयामं च तथैव च | पूर्वे परे च पार्श्वे च शाला पंचांशमायतम् || ६६ || एकांशं पंजरव्यासं कूटव्यासं शिवांशकम् | हारान्तरं तथांशं च कल्प्येवं प्रथमं तलम् || ६७ || तस्योर्ध्वभूमयस्सर्वाः पूर्ववत्परिकल्पयेत् | तारमेकादशांशे तु तद्दीर्घं तु त्रयोदश || ६८ || गुणांशं गर्भगेहं तु द्विभागं भित्तिविस्तृतम् | अलिन्दं चैकभागेन हाराभागेन कल्पयेत् || ६९ || कूटकोष्ठादि सर्वांगं प्रागिवैव प्रकल्पेयत् | पंचभूमेस्समाख्यातं षट्तलं त्वधुना शृणु || ७० || तारे तु द्वादशांशे तु मंचंशे तु तदायतम् | युगांशं गर्भगेहं तु द्विभागं भक्ति विस्तृतम् || ७१ || अलिन्दं भागया कल्प्य हारा भागेन कल्पयेत् | पार्श्वशाला तु वेदांशं षडंशं मुखपृष्ठयोः || ७२ || हारान्तरं शिवांशं स्यात् व्योमं पंजरकूटयोः | शेषं पूर्ववदुद्दिष्टं रसभूम्यैवमेव तु || ७३ || त्रयोदशांशे विष्कंभे आयामे च तथैव हि | भूतांशं गर्भगेहं तु गृहपिण्डी द्विभागया || ७४ || प्. १९३) अलिन्दं तु शिवांशेन खण्डहर्म्यं शिवांशकम् | कोष्ठायामं तु भूतांशं सर्वत्रांशेन पंजरम् || ७५ || कूटमंशेन कर्तव्यं हारान्तरं तथैव हि | अथवा त्रयोदशंतारं आयामं तु त्रिपंचकम् || ७६ || मुखे मुखे महाशाला सप्तांशेन प्रकल्पयेत् | पंचभागेन कर्तव्यं कर्तव्यं पार्श्वदीर्घकम् || ७७ || शेषं पूर्ववदुद्दिष्टं सर्वालंकारसंयुतम् | सप्तभूमिस्समाख्याता तन्महागोपुरं भवेत् || ७८ || सालिन्दं वा विनालिन्दं कल्पयेत्कल्पवित्तमः | विनालिन्दं कृतं चेत्तु कुड्यगर्भगृहं तु वा || ७९ || अलिन्दांशं तु संयोज्य कारयेत्तु द्विजोत्तम ! | आदिभूम्यैवमाख्यातं ऊर्ध्वं षट्तलवद्भवेत् || ८० || सप्तभूमिं समाख्यातं तेषां गण्यमथोच्यते | पादाधिष्ठानयोस्तुंगं मूलप्रासादमूलकम् || ८१ || चतुःपंचषडंशं वा सप्ताष्ट नव एव वा | दशैकादशभागं वा सप्ताष्ट नव एव वा || ८२ || दशैकादशभागं वा कृत्वैकांशोपपीठकम् | शेषं चानलभागं तु कृत्वैकांशं धरातलम् || ८३ || द्विभागं चरणोत्तुंगं कल्पयेत्कल्पवित्तमः | उपपीठविधानोक्त तुंगं चैवोपपीठकम् || ८४ || प्. १९४) अथवा हस्तमानेन द्वारमानं यथोचितम् | तदुच्चं तु चतुष्पंच षट्सप्ताष्टौ तु वा भवेत् || ८५ || नवरुद्रविभागं वा कृत्वैकांशोपपीठकम् | उपपीठोन्नतं ख्यातं शेषं तु गुणभाजिते || ८६ || अधिष्ठानं तदेकांशं द्विभागं चरणायतम् | होमादुत्तरसीमान्तं द्वारमानं विधीयते || ८७ || पादबन्धमधिष्ठानं द्वारशोभादिना कुरु | स्थूप्यन्तमुत्तराद्यं च रसभागं विभाजिते || ८८ || प्रस्तरस्तु सपादांशं शश्यंशं गलमानकम् | पादोन गुणभागं तु शिरश्शेषं शिखोदयम् || ८९ || एवमेकतलं प्रोक्तं द्वितलं शृणु सुव्रत ! | उत्तरादि शिखान्तं च नवभागं विभाजिते || ९० || प्रस्तरोच्चं स पादांशं द्विभागं चरणोदयम् | मंचमानं शिवांशं स्यात् तत्समं कन्धरोदयम् || ९१ || शिखरं सार्धपक्षांशं सपादांशं शिखोदयम् | द्वितलं ह्येवमाख्यातं त्रितलं त्वधुना शृणु || ९२ || उत्तरादि शिखान्तं च द्वादशांशं विभाजिते | सपादं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रिणोदयम् || ९३ || प्रस्तरं शशि भागेन द्विभागं चरणोदयम् | मंचमानं शिवांशं स्याद् अंशं ग्रीवोदयं भवेत् || ९४ || प्. १९५) सपादाक्षांशेन शिखरं एकांशं स्थूपि मानकम् | त्रितलं ह्येवमाख्यातं चतुर्भूमि मथोच्यते || ९५ || उत्तरादि शिखान्तं च द्विनवांशं विभाजिते | पादोन द्व्यंशमंचोच्चं गुणांशं चरणोदयम् || ९६ || तदर्धं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रिणोदयम् | तदर्धं प्रस्तरोत्सेधं द्विभागं चरणोदयम् || ९७ || तदर्धं मंचमानं तु तत्समं गलमुच्यते | गुणांशं शिखरोत्सेधं शिखामानं शिवांशकम् || ९८ || चतुर्हूमिं समाख्यातं पंचभूमि मतः शृणु | शिखान्तमुत्तराद्यं च त्रयोविंशति भाजिते || ९९ || द्विभागं प्रस्तरोत्सेधं सार्धाग्न्यंशांघ्रि तुंगकम् | तदर्धं मंचमानं स्यात् पादायामं गुणांशकम् || १०० || तस्यार्धं प्रस्तरोत्सेधं सार्धद्व्यंशांघ्रि तुंगकम् | तदर्धं मंचमानं तु द्विभागं चरणोदयम् || १०१ || प्रस्तरोच्चं शिवांशेन कन्धरोच्चं तथैव च | सार्धद्व्यंशं शिरोत्तुंगं एकादशं स्थूपि मानकम् || १०२ || पंचभूमिं समाख्यातं षट्तलं चाधुना शृणु | उत्तरादि शिखान्तं च एकोन त्रिंशदंशके || १०३ || द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंसकम् | स त्रिपादशिवांशं तु प्रस्तरोदयमीरितम् || १०४ || प्. १९६) सार्धाग्न्यंशांघ्रि तुंगं तु तदर्धं प्रस्तरोदयम् | सार्धद्व्यंशांघ्रि तुंगं तु तस्यार्धं प्रस्तरोदयम् || १०५ || द्विभागं चरणोत्सेधं तस्यार्धं मंचमानकम् | शिवांशं गलमानं तु सार्धद्व्यंशं शिरोदयम् || १०६ || स पादांशं शिखामानं सप्तभौममथोच्यते | उत्तरादि शिखान्तं च मानं षट्त्रिंशदंशके || १०७ || स पादिभागमंचोच्चं सार्धवेदांशमंघ्रिकम् | द्विभागं प्रस्तरोच्चं तु वेदांशं चरणोदयम् || १०८ || पादोनं द्विभागमंचं स्यात् सार्धाग्न्यंशांघ्रि तुंगकम् | पादोन द्व्यंशमंचोच्चं गुणांशं पादमानकम् || १०९ || सार्धांशं प्रस्तरोत्सेधं सार्धाक्षांशांघ्रि तुंगकम् | तदर्धं मंचमानं तु द्विभागं तलिपायतम् || ११० || प्रस्तरं शशिभागेन शिवांशं गलमानकम् | पादहीनाग्निभागं तु शिरश्शेषं शिखोदयम् || १११ || एवं सप्ततलं ख्यातं अलंकारमथोच्यते | मण्टपसा यथा द्वारशालां कुर्याद् द्विजोत्तम || ११२ || दण्डं वा द्वारशाला स्याद् प्रासादं सदनाकृतिः | मालिकाकृति कर्तव्यं द्वारहर्म्यं द्विजोत्तम ! || ११३ || शालाकारं प्रकर्तव्यं द्वारगोपुरमुच्यते | सर्वे वै गोपुराभं वा कल्पयेत्कल्पवित्तमः || ११४ || प्. १९७) तेष्वादौ द्वारशोभं तु वक्ष्येऽहं द्विजसत्तम ! | एकद्वित्रितलं वापि सर्वालंकारसंयुतम् || ११५ || मुखे मुखे महानासी पार्श्वयोर्वंशनासिका | वस्वकृत्याल्पनासाढ्यं प्रागुक्तविधिना द्विज ! || ११६ || युग्मस्थूपि समायुक्तं लूपारोहशिरस्तु वा | मण्टपाकृतिकं वापि श्रीकान्तं तदुदाहृतम् || ११७ || शालाकारशिरस्तस्मिन् षण्णासीमुखपृष्ठयोः | पाश्वयोर्वंशनासाढ्यं अयुग्मस्थूपसमन्वितम् || ११८ || अन्तः पादोत्तरैर्युक्तं इतिकान्तमिदं परम् | मुखे मुखे च षण्णासी पार्श्वयोर्वंशनासिका || ११९ || सभाकारं शिरस्कन्धं कान्तं विजयमेव हि | एवं त्रिविधनीत्या तु द्वारशोभाः प्रकल्पयेत् || १२० || मुखे मुखे महानासी पार्श्वयोश्च तथैव च | अर्धकोटि चतस्राढ्यं पंजरं च तदाकृतिः || १२१ || शालाकारं शिरोपेतं अयुग्मं स्थूपिसंचितम् | विजयं विशालमेतद्धि विशालायाममुच्यते || १२२ || अर्धकोटिसभ्द्रागं भद्रनासी मुखे मुखे | पार्श्वयोर्वंशनासाढ्यं शिरोभद्रसमन्वितम् || १२३ || पादं प्रत्यल्पनासाढ्यं सर्वावयवसंयुतम् | विप्रतीकान्तलंकारं वक्ष्यते तु विशेषतः || १२४ || प्. १९८) पूर्ववद्भूमिभागं च चतुर्दिग्भद्रसंयुतम् | महानासी चतस्राढ्यं शिरोभद्रसमन्वितम् || १२५ || अन्तः पादोत्तरैर्युक्तं अयुग्मस्थूपिकान्वितम् | त्रिविधा द्वारशालास्याद् द्वारप्रासादमुच्यते || १२६ || अन्तः पादोत्तरैर्युक्तं मन्धराद्यैरलंकृतम् | द्वारोर्ध्वे रंगसंयुक्तं द्वारं तद्भद्रसंयुतम् || १२७ || पूर्वे परे महानासी पार्श्वयोर्वंशनासिका | स्वस्तिका कृतिनासाढ्यं चतुष्पंजरसंयुतम् || १२८ || कूटकोष्ठदिसर्वांगं प्रागुक्त विधिना कुरु | श्रीकेशालंकृतं वक्ष्ये भूमिभागादि पूर्ववत् || १२९ || पूर्वे परे च शालायां सभद्रं भद्रनासिका | नानामसूरकस्तम्भं वेदिजालकतोरणैः || १३० || अन्तः पादोत्तरैर्युक्तं मध्यावरणसंयुतम् | पार्श्वयोर्दण्डवक्त्राढ्यं क्षुद्रनासीविभूषितम् || १३१ || शालाकारं शिरोपेतं जालकादिविभूषितम् | केशविशालालंकारं भूमिभागादि पूर्ववत् || १३२ || पार्श्वयोश्च मुखे पृष्ठे महानासी चतुष्टयम् | अयुग्मस्थूपि संयुक्तं द्वारप्रासादकं त्रयम् || १३३ || वक्ष्येऽहं द्वारहर्म्यस्य लक्षणं द्विजसत्तम ! | प्रागुक्तवत्प्रकर्तव्यं भूमिभागे द्विजोत्तम ! || १३४ || प्. १९९) सभाशिखरसंयुक्तं स्वस्तिकाकृतिनासिकाम् | शिखरं चाष्टनासाढ्यं अयुग्मस्थूपिसंयुतम् || १३५ || स्वस्तिकं चेति विख्यातं दिशा शान्तिकमुच्यते | मुखे मुखे च भद्रांगं शिरश्चायतमण्डनम् || १३६ || चतुर्दिक्षु महानासी विदिक्षु क्षुद्रनासिका | अन्तः पादोत्तरैर्युक्तं अयुग्मस्थूपिकान्वितम् || १३७ || कूटादिभूमिभागं च प्रागिवैव प्रकल्पयेत् | पुरे परे महानासी सतारे द्व्यंशनीव्रकम् || १३८ || शालाकार्या शिरः कार्यं अयुग्मस्थूपिकान्वितम् | शालाक्रान्तं संयुक्तं नानालंकारशोभितम् || १३९ || नानाधिष्ठान चरणैः युक्तं तत्सोपपीठकम् | द्वारहर्म्यं त्रिधा प्रोक्तं शृणु गोपुरलक्षणम् || १४० || चतुर्दिग्भद्रसंयुक्तं अन्तः पादोत्तरैर्युतम् | शालाकारं शिरोयुक्तं भद्रनासी मुखे मुखे || १४१ || पार्श्वयोश्च महानासी पार्श्वयोर्द्विर्द्विनासिकाः | मातृखण्डमिदं ख्यातं श्रीविशालमथ शृणु || १४२ || पूर्ववद्भूमिभागं च मूलकन्तु करीकृतम् | शीर्षं च तसाकारं सभाकारमथापि वा || १४३ || नानामसूरकस्तम्भ वेदिकाभिरलंकृतम् | चतुर्दिशि महानासी विदिक्षु क्षुद्रनासिकाः || १४४ || प्. २००) चतुर्मुखं ततो वक्ष्ये भूमिभागादि पूर्ववत् | दिशिभद्रसमायुक्तं मध्यवारणसंयुतम् || १४५ || नानामसूरकस्तम्भं वेदिकादिरलंकृतम् | सभाकारशिरोवापि शालाकारमथापि वा || १४६ || मुखे मुखे महानासी पाश्वयोर्द्विर्द्विनासिकाः | अन्तः पादोत्तरैर्युक्तं प्रस्तरे तु तलं प्रति || १४७ || अन्तस्सोपानसंयुक्तं त्रिविधं द्वारगोपुरम् | अलीन्दंशं तु कुड्यं वा वर्षस्थलमथापि वा || १४८ || तुलाद्यैः प्रतरावधि अलीन्दांगं यथोचितम् | शालाकारं सभागं वा मालिका कृतिरेव वा || १४९ || द्वयेष्विष्टयकद्वारे कृततत्रैव प्रकल्पयेत् | बाह्ये बाह्येंघ्रियस्थाप्य मध्ये मध्ये युतं तु वा || १५० || गृहपिण्डिं गर्भगेहं च प्रागिवैव प्रकल्पयेत् | अलीन्दं हारयोर्माने विवृत्तांघ्रिकमेव वा || १५१ || प्रस्तरोद्दिष्टभूम्यन्तः सोपानादिसमन्वितम् | कूटकोष्ठाद्यलंकारं ऊर्ध्वस्थवत् प्रकल्पयेत् || १५२ || भूमिभागमलंकारं गलान्तं परिकल्पयेत् | शीर्षदण्डकशालाभं शालाकारं तदुच्यते || १५३ || लुपारो व्योक्तमांगं यत् सभाकारं समुच्यते | प्रस्तरं प्रतिसंछाद्यं मण्ड्यं यश्वीष्टरं विना || १५४ || प्. २०१) मालिका कृतिकं ख्यातं मण्टपे तु परस्परम् | गोपुरं ह्येवमाख्यातं परिवारमथ शृणु || १५५ || इत्यंशुमान्काश्यपे गोपुरलक्षणपटलः (चतुश्चत्वारिंशः) || ४४ || अथ वक्ष्ये विशेषेण परिवारविधिं परम् | अष्टौ वा षोडशं चैव द्वात्रिंशच्च यथाक्रमम् || १ || अन्तर्मण्डलके चैव परिवारं तु कारयेत् | संकल्प्यान्तरहारायां परिवाराष्टकं द्विज ! || २ || कलाख्य परिवारं तु * * * * * * * * | मध्यहारा चतुर्थे तु द्वात्रिंशत्परिवारकम् || ३ || प्राकारे मध्यमे वाथ सालाकुड्याश्रितं तु वा | मुखायामं विना बीजे चतुरश्रे कृते सति || ४ || नवांशं विभजेन्मध्यमध्यांशे मूलहर्म्यकम् | तदावृत्ताष्टभागेषु पूर्वादि क्रमयोगतः || ५ || प्राच्यां वै वृषभं स्थाप्य अनलं चाग्नि गोचरे | अग्निर्दुर्गा तु वा याम्ये अथवा सप्तमातरः || ६ || मातॄणां दक्षिणे वीरभद्रं वामे विनायकम् | एकबेरन्तु वा याम्ये नैर्-ऋत्यां वा विनायकम् || ७ || प्. २०२) कुमारं वारुणे देशे ज्येष्ठां वै वायुगोचरे | सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा || ८ || भास्करीशपदे देशे पीठ वा प्रतिमा तु वा | प्रतिमात्वालयोपेता पीठश्चेदालयं विना || ९ || इन्द्रानलशिवांशस्था पश्चिमाभिमुखास्थिताः | गौर्यास्तु मालिका वाथ विमानं वा प्रकल्पयेत् || १० || अन्येषामपि देवानां मण्टपं वा विमानकम् | मूलहर्म्यात्त्रिपादं वा अर्धं वा पादमेव वा || ११ || गर्भगेह समं वाथ गर्भार्धं वा त्रिपादकम् | त्रिचतुष्पंचहस्तं वा परिवारालयस्ततम् || १२ || आभास सदनास्तेन मार्गेणैव समाचरेत् | शान्तिकादिषु यन्मूलं गेहमेषां तदेव हि || १३ || कारयेत्तु नतिक्रम्य विपरीतं विपत्करम् | त्रिवर्गमण्टपाकारं चतुद्वार समन्वितम् || १४ || प्. २०३) मण्टपं वा प्रकर्तव्यः शेषाणां तु यथोचितम् | परिवारालयं प्रोक्तं प्रतिमालक्षणं शृणु || १५ || परिवारालये द्वारं गर्भमानेन वा पुनः | यदुक्तं सकलानां तु तन्मानं वाथ गृह्यताम् || १६ || सर्वलक्षणसंयुक्तं स्थानकासनकं तु वा | द्वात्रिंशत्परिवारं तु जालजहर्म्ये तु कल्पितम् || १७ || छन्दे तु षोडशाख्यातं शेषं वो स्विष्टकं भवेत् | अथवा सर्वहर्म्येषु सर्वं वा परिकल्पयेत् || १८ || कात्यायन्यंशकादीनि प्रतिमा लक्षणोक्तवत् | आदौ तु परिवाराणां वक्ष्येहं वृषलक्षणम् || १९ || इत्यंशुमान्काश्यपे परिवारलक्षणविधिपटलः (पंचचत्वारिंशः) || ४५ || तुंगे पंचाशदंशे तु एकांशं चांगुलं भवेत् | चत्वारिंशांगुलायामं गलात्पृष्ठावसानकम् || १ || मूर्ध्निस्वगलपर्यन्तं धर्ममात्रमुदाहृतम् | तस्माद्ग्रीवोच्चमष्टांशं उरोऽन्तं षोडशांगुलम् || २ || ऊरुदीर्घं तु तस्माद्वै षण्मात्रं परिकीर्तितम् | जानुमानं द्विमात्रं स्यात् जंघमानं षडंगुलम् || ३ || प्. २०४) खुरमानं द्विमात्रं स्यात्तुंगमेवं प्रकल्पयेत् | शृंगारं तु वस्वंशं शृंगोच्चं चतुरंगुलम् || ४ || शृंगमूलविशालं तु चतुरंगुलमुच्यते | अर्धांगुलं तदग्रं स्यात् अग्रं मूलात्क्रमात्कृशम् || ५ || किंचिद् द्व्यश्रसमायुक्तं शृंगं वाऽभ्यन्तरं बुधैः | ललाट व्यासनन्दांशं मुखव्यासं शरांमुलम् || ६ || घनं च तत्समं ख्यातं नेत्रायामं द्वयांगुलम् | अध्यर्धांगुलमुत्सेधं शफराकृतिवत्कृतम् || ७ || नेत्रमध्यान्मुखायामं वस्वंगुलमुदाहृतम् | तस्माद्वै पृष्ठग्रीवान्तं षण्मात्रं परिकीर्तितम् || ८ || नेत्रात्कण्ठान्तरं तद्वत् पंचांशं कर्णदैर्घ्यकम् | कर्णमूलविशालं तु द्विमात्रमिति विद्यते || ९ || मध्यवासं चतुर्मात्रं अग्रमंगुलविस्तृतम् | घनमर्धांगुलं ख्यातं घ्राणं सार्धांगुलायतम् || १० || व्यासमेकांगुलं ख्यातं गाढं तत्सममुच्यते | अंगुलं नासिकादूर्ध्वं तुंगमित्यभिधीयते || ११ || आस्यं पंचांगुलायामं अधरोच्चं द्विमात्रकम् | त्रिमात्रं चोत्तरोष्ठं च युक्तितः कल्पयेत्क्रमात् || १२ || जिह्वायामविशालोच्चं त्रिद्व्येकांगुलमुच्यते | ग्रीवव्यासं दशांशंस्यातन्मूलं द्वादशांगुलम् || १३ || प्. २०५) पृष्ठग्रीवस्य मूलस्य व्यासमष्टांगुलं भवेत् | पृष्ठग्रीवाग्रविस्तारं षडंगुलमुदाहृतम् || १४ || ककुदुच्चं चतुर्मात्रं तस्य व्यासं षडंगुलम् | ग्रीवस्याग्रघनं चापि अध्यर्धांगुलमुच्यते || १५ || ककुदस्तु शरिरोच्चं द्विर्नवांगुलमुच्यते | शरीरमध्यमे व्यासं चतुर्दशांगुलं भवेत् || १६ || अपरव्यासभान्वंशं युक्तियुक्त्या समाचरेत् | पूर्वपादोरुमूलस्य व्यासं पंचांगुलं भवेत् || १७ || तदूर्वाग्रं चतुर्मात्रं जानुमूलं च तत्समम् | जंघाग्रं गुणमात्रं स्यात् सार्धाग्न्यंशं खुरस्ततम् || १८ || अपरे चोरुमूलस्य व्यासं वै दशमात्रकम् | शेषं पूर्वोरुवत्कार्यं पुच्छं जंघाग्रसीमकम् || १९ || * * * * * * * * * लम्बयेत्तु विशेषतः | पुच्छाग्रं केशसहितं व्यासं वेदांगुलं भवेत् || २० || मूलाग्रे त्वर्धमात्रं स्यात् केशदीर्घं युगांगुलम् | बीजायामविशालं तु चतुरग्न्यंगुलं भवेत् || २१ || द्विमात्रं घनमित्युक्तं मुष्कायामं युगांगुलम् | उदरात्प्यंगुलं शेषघनमित्यभिधीयते || २२ || स्थितं वा शयनं वापि पद्मे वा भद्रपीठके | सुधया इष्टिकागर्भं शिलालोहजमेव वा || २३ || प्. २०६) घनं वाप्यघनं वापि लोहजं वृषभं कुरु | किंचिन्यूनाधिके विप्र मानोन्मान प्रमाणके || २४ || तथा कर्तुं न कर्तव्यं तस्मात्तल्लक्षणान्वितम् | कर्तव्यं विपरीतं चेत् विपरीतफलप्रदम् || २५ || वृषलक्षणमाख्यातं शृणुष्वानललक्षणम् | इत्यंशुमान्काश्यपे वृषलक्षणपटलः (षट्चत्वारिंशः) || ४६ || उत्तमं दशतालेन कुर्याद्वैत्वनलेश्वरम् | द्विवक्त्रं चैकहृदयं द्विनासी च षडक्षकम् || १ || त्रिमेखलं त्रिपादं च सप्तजिह्वाभिरावृतम् | सव्यवक्त्रे चतुर्जिह्वा वामवक्त्रे त्रिजिह्वया || २ || मेषारूढं चतुःशृंगं जटामकुटसंयुतम् | दक्षिणे तु चतुर्हस्तं वामपार्श्वे त्रिहस्तकम् || ३ || शक्तिरग्निस्तथा स्रुक्च स्रुवं वै दक्षिणे करे | तोमरव्यजनं वामे घृतपात्रं विशेषतः || ४ || वपुः स्वर्णनिभं ख्यातं नेत्रं पिंगलसंनिभम् | प्रभामण्डलसंयुक्तं पद्मपीठोपरिस्थितम् || ५ || दुकूलवसनोपेतं कल्पयेत्त्वनलेश्वरम् | ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा || ६ || प्. २०७) वाराही चैव माहेन्द्री चामुण्डा सप्तमातरः | दक्षिणे वीरभद्रं तु पश्चिमे तु विनायकम् || ७ || चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् | सर्वाभरणसंयुक्तं श्वेतवर्णं वृषध्वजम् || ८ || शूलं चाभयंहस्तं च दक्षिणे तु करद्वयम् | गदावरदहस्तं च वामपार्श्वे करद्वयम् || ९ || श्वेतपद्मासनासीनं वटवृक्षसमाश्रितम् | चतुर्बाहुसमायुक्तं हेमवर्णसमायुतम् || १० || दक्षिणेऽभयशूलं च वरदं चाक्षमालिकाम् | रक्तपद्मासनासीनं हंसवाहनकेतुकम् || ११ || जटामकुटसंयुक्तं पीताम्बरधराब्जकम् | ब्राह्मणीरूपमाख्यातं ब्रह्मवृक्षसमाश्रितम् || १२ || चतुर्भुजा त्रिणेत्रा च अतिरक्तसमप्रभा | शूलाभयकरास्सव्ये वामे वरदहस्तका || १३ || कमण्डलु जपमाला जटामकुटमण्डिताः | ईश्वरेणोपमाह्येषां ईश्वरीति प्रकीर्तिता || १४ || चतुर्भुजा त्रिणेत्रा च रक्तवर्णनिभान्विता | सर्वाभरणसंयुक्ता वालिकामण्डमाकुटी || १५ || शक्तिकुक्कुटहस्ता च वरदाभयपाणिका | मयूरवाहिनी चैवोदुम्बरं वृक्षमेव वा || १६ || प्. २०८) शंखचक्रधरा देवी वरदाभयपाणिनी | सुस्तना चारुवदना श्यामांगा चसुलोचना || १७ || पीताम्बरधरा देवी करीटमकुटान्विता | राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी || १८ || वैष्णवीं कारयेदेवं विष्णुभूषणभूषिताम् | वाराहीं चतुर्भुजां शान्तां सर्वाभरणभूषिताम् || १९ || करजद्रुमसंयुक्तां अभिषेकं तु कल्पयेत् | पीताम्बरधरां वापि सर्वाभरणभूषिताम् || २० || किरीटमकुटोपेतां विद्रुमस्य प्रभान्विताम् | अंकुशं चाभयं सव्ये वामे वरदशक्तिकाम् || २१ || कल्पद्रुमं समाश्रित्य गजध्वजसुवाहिनीम् | चतुर्भुजां त्रिणेत्रां च रक्तवर्णोर्ध्वकेशिकाम् || २२ || शिरोमालोपवीतां च पद्मपीठोपरि स्थिताम् | व्याघ्रचर्माम्बरधरां नागेन्द्रस्कन्ध सुस्तनाम् || २३ || दंष्ट्राकरालवदनां वटवृक्षसमाश्रिताम् | चामुण्डीलक्षणं ह्येवं एकबेरं च तद्भवेत् || २४ || वामपादशयाः सर्वाः दक्षिणांघ्रिपलम्बिताः | एवं वै सप्तमातॄनां कारयेद्द्विजसत्तम ! || २५ || इत्यंशुमान्काश्यपे मातृकालक्षणपटलः (सप्तचत्वारिंशः) || ४७ || अथ वक्ष्ये विशेषेण विघ्नराजस्य लक्षणम् | पादादुष्णीषपर्यन्तं चतुष्षष्ट्यंशभाजितम् || १ || मूर्ध्ना मस्तकनिम्नान्तं अंगुलद्वयमुच्यते | तस्माद्वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् || २ || नेत्रसूत्राच्च हन्वन्तं भागमष्टांगुलं भवेत् | तस्माच्च कर्णमानं स्यात् द्वयंगुलमुदाहृतम् || ३ || मेढ्रादुदरनिष्क्रान्तं वसुमात्रमिति स्मृतम् | ऊरुः षडंशमानः स्यात् जानुदीर्घं गुणांगुलम् || ४ || जंघा चोरुसमं दीर्घं गुणं पादतलोन्नतम् | सप्तांगुलसमायामं अंगुष्ठादि वसानकम् || ५ || स पादांगुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका | तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु यवोनकम् || ६ || त्रयोदशांगुलं बाहु प्रकोष्ठायां नवांगुलम् | चतुर्मात्रं तलायामं अग्न्यंशं मध्यमांगुलम् || ७ || तर्जन्या नामिका द्वौ च एकविंशद्यवं पदम् | कनिष्ठांगुष्ठयोश्चैव दीर्घं सप्तदशा यवम् || ८ || द्वादशाष्टौ नवाष्टौ च सप्तसंख्या यवं क्रमात् | अंगुष्ठादि कनिष्ठान्तं व्यासमित्यभिधीयते || ९ || तद्व्यासं स त्रिपादं स्याद् नखव्यासमुदाहृतम् | नखव्यासं त्रिपादं स्याद् नखदीर्घाय वृत्तवत् || १० || प्. २१०) वेदं करतलव्यासं मणिबन्धं त्रयर्धकम् | प्रकोष्ठान्तं युगांगुल्यं बाहुव्यासं षडर्धकम् || ११ || बाहुमूलं तु वस्वंशं मस्तकोष्टांशकं ततम् | सप्तांगुलं नतं निम्नो मुखमध्ये दशांगुलम् || १२ || हस्तमूले षडंगुल्यं नाभ्यन्तं तस्य दीर्घकम् | तदंगुलाग्रविस्तारं सार्धमात्रं द्विजोत्तम ! || १३ || क्रमेण कृशतां हस्तमध्ये तु सुषिरद्वयम् | वामदन्तायतद्भवेत् वेदमात्रमित्यभिधीयते || १४ || दक्षिणे दन्तमूलस्य द्व्ययोच्चं समतलं भवेत् | अधरस्य तु निष्क्रान्ताल्लम्बनं द्व्यंगुलं भवेत् || १५ || नेत्रायामविशालं च षड्यवं परिकीर्तितम् | कर्णभूतांगुल व्यासं उत्सेधं चैव तत्समम् || १६ || अर्धांगुलं घनं चैव कर्णमूलं द्वियं गुलम् | यद्वद्गजाननं तद्वत् कर्तव्यं तु मुखं द्विज || १७ || बाहुपर्यन्तविस्तारं द्वात्रिंशदंगुलं भवेत् | एकोनविंशदंगुल्यं कक्षान्तरमुदाहृतम् || ११८ || स्तनान्तरं दशांगुल्यं हिक्कायस्तनद्वदेव हि | स्तनाक्षं स यवव्यासं द्व्यंगुलं स्तनमण्डलम् || १९ || स्तनतारविशालं तु त्रिःपंचांगुलमुच्यते | द्वाविंशदंगुलं ख्यातं मध्योदरविशालकम् || २० || नाभिनिम्नविशालं तु अध्यर्धांगुलमुच्यते | लिंगायामं गुणांगुल्यं तस्यार्धं तस्य विस्तृतम् || २१ || मुष्लायामं विशालं तु गुणांगुलमुदाहृतम् | ऊरुमूलं द्वादशांगुल्यं ऊरुमध्यं षडर्धकम् || २२ || जानुभागं ततांगुल्यं जंघातारं समांगुलम् | नलकातारयुगांशं स्या पंचांशं पादविस्तृतम् || २३ || द्वादशाष्टौ षडर्धं च षट्पंचकयवं क्रमात् | अंगुष्ठादिकनिष्ठान्तं पादांगुलि विशालकम् || २४ || तत्त्रिपादनखव्यासं तदर्धायतमण्डनम् | स्थानकं त्वासनं वापि पद्मपीठे विशेषतः || २५ || स्वदन्तं दक्षिणे हस्ते वामहस्ते कपित्थकम् | मोदकं गजहस्ते तु अंकुशं दक्षिणे करे || २६ || वामहस्ते तु पाशं वा नागं वा अक्षमालिकाम् | त्रिणेत्रं हेमसंकाशं दुकूलवसनच्छदम् || २७ || आभंगं समभंगं वा स्थानके तु प्रकल्पयेत् | आसने त्वासनं चेतु वामपादं तु शाययेत् || २८ || वामेतरोरुमूर्ध्वस्थ पादेनोकुटिकासनम् | ईषद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः || २९ || व्यालयज्ञोपवीतं तु किरीटमकुटान्वितम् | सर्वाभरणसंयुक्तं महाकायं महोदरम् || ३० || प्. २१२) एवं विनायक ख्यातं शृणु षण्मुखलक्षणम् | इत्यंशुमान्काश्यपे विनायकलक्षणपटलः (अष्टचत्वारिंशः) || ४८ || उत्तमं पंचतालेन स्कन्दं कुर्यात्सलक्षणम् | मानोन्मानादयस्सर्वे प्रागुक्तं सर्वलक्षणम् || १ || द्विहस्तं वा चतुर्हस्तं षड्भुजं भानुबाहुकम् | शक्तिं बाणं च खड्गं च चक्रं पाशं प्रसारितम् || २ || सर्वे वामे तु पिंछं च खेटकं कुक्कुटं तथा | धनुर्दण्डं हलं चैव भानुहस्तान्विते धृतम् || ३ || षड्भूजेत्वभयं खड्गं शक्तिं दक्षिणपार्श्वके | खेटकं चाक्षमालां च कुक्कुटं वामहस्तके || ४ || चतुर्भुजेऽभयं शक्तिं दक्षिणे तु करद्वयम् | कुक्कुटं चाक्षमालां च वामहस्तधृतो गुहः || ५ || द्विभुजे कुक्कुटं वामे शक्तिं दक्षिणहस्तके | अत्रानुक्तं तु यत्सर्वं उमास्कन्दसहितोक्तवत् || ६ || स्कन्द लक्षणमाख्यातं ज्येष्ठाविधिमतः परम् | इत्यंशुमान्काश्यपे स्कन्दलक्षणपटलः (एकोनपंचाशः) || ४९ || द्विभुजांजनसंकाशां लम्बोष्ठांगनासिकाम् | लम्बमानस्तनोकुक्षी नीलं वा रक्त वाससम् || १ || उत्पलं दक्षिणे हस्ते पीठे वामकरं न्यसेत् | भद्रपीठस्थितासीनां द्विपादं चैव लम्बितम् || २ || सर्वाभरणसंपन्नां वासिकाबद्धमाकुटीम् | काकध्वजसमायुक्तां अलकातिलकान्विताम् || ३ || तस्या दक्षिणपार्श्वे तु वृषो वै वृषभाननः | द्विभुजो दक्षिणे हस्ते दण्डं वामे तु सूचिधृक् || ४ || लम्बयेद्दक्षिणं पादं वाममुत्कुटिकासनम् | श्वेतवर्णं महाकायं सर्वाभरणभूषितम् || ५ || वृषं वै दक्षिणे त्वेवं वामे मण तथोच्यते | सुस्तना यौवनांगा च सर्वाभरणभूषिता || ६ || कृष्णाजिननिभा रक्तवस्त्रेणैव विभूषिता | द्विनेत्रा करण्डमकुटा वामपादं प्रलम्बितम् || ७ || सव्ये तत्कुटिकासीना हस्ते उत्पलधारिणी | एवं ज्येष्ठा समाख्याता दुर्गालक्षणमुच्यते || ८ || चतुर्भुजा द्विनेत्रा च सस्यश्यामनिभा वरा | सौम्या पीताम्बरोपेता पीनोरुजघनस्तनी || ९ || करण्डमकुटोपेता सर्वाभरणभूषिता | अभयं दक्षिणं हस्तं खड्गं वै वामहस्तकम् || १० || प्. २१४) पर हस्ते तु सव्ये तु चक्रं वामे तु शंखभृत् | समपात्स्थानकं कुर्यात् पद्मपीठोपरि स्थिता || ११ || नागेन्द्रेण स्तनौ बध्वा रक्तकंचुकधारिणी | एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते || १२ || विष्णुं किरीटमकुटं कटिसूत्रादि भूषितम् | पीताम्बरधरं सौम्यं चतुर्भुजसमन्वितम् || १३ || अभयं दक्षिणे हस्ते कटकं वामहस्तके | परहस्ते तु वामे तु शंखं चक्रं तु दक्षिणे || १४ || पद्मपीठोपरिष्टात्तु सस्यश्यामनिभाकृतिम् | आसीनं वा स्थितं वापि सव्यासव्ये श्रियावनी || १५ || संयुक्ता केवलं वाथ कर्तव्यं विष्णुमूर्तिनः | एकवक्त्रं द्विहस्तं च जातिलिंगसमप्रभम् || १६ || ईषद्विजृम्भपद्मौ द्वौ स्कन्धेनैव करोद्धृतौ | करण्डमकुटोपेतं स्वमण्डलमकुटो परे || १७ || छन्नवीरसमायुक्तं उपवीतयुतं तु वा | रक्तरंजकबद्धाभं सर्वाभरणभूषितम् || १८ || समपात्स्थानकं कुर्यात् पद्मपीठोपरि स्थितम् | सौम्यनेत्रद्वयोपेतं सौरमेवं प्रकल्पयेत् || १९ || श्यामवर्णं द्विहस्तं च रक्ताम्बरधरं शुभम् | किरीटमकुटोपेतं सर्वाभरणभूषितम् || २० || प्. २१५) शक्तिं दक्षिणहस्ते तु वामहस्तेंकुशं धृतम् | विशालोदरं तथाग्रीवं * शची समन्वितम् || २१ || द्विनेत्रं सौम्यवदनं सिंहासनोपरि स्थितम् | आसीनं वा प्रकर्तव्यं गजारूढमथापि वा || २२ || इन्द्रमेवं समाख्यातं अश्विनी तु तथोच्यते | एकसिंहासनासीनावश्विन्यौ विश्वरूपिणौ || २३ || दाडिमी पुष्पसंकाशौ उभयोः सोपवीतिनौ | फुल्लरक्तोत्मलाक्षौ च पीतासृग्वस्त्रधारिणौ || २४ || नासत्यौ नाकमरुतौ चूडामुकुट धारिणौ | करद्वयसमायुक्तौ स्त्रीभूषण विभूषितौ || २५ || अभयं दक्षिणे हस्ते पुस्तकं वामहस्तके | लम्बितौ दक्षिणौ पादौ वामे वैकुटिकासनौ || २६ || देवानां भिषजोपेतौ यत्किंचित्सापिधायकौ | तयोः पार्श्वद्वये विप्र दक्षिणादक्षिणे क्रमात् || २७ || मृतसंजीविनी चैव संस्थितौ चामरा धरौ | परिविशालकरणी वश्विन्यौ पीतपिंगलौ || २८ || वामे सधन्वन्तरिश्चैव मत्रयं च तथैव च | पीतरक्तनिभोपेतौ * * * कृष्णवाससौ || २९ || खड्गखेटकहस्तौ द्वौ सर्वाभरणभूषितौ | अश्विन्येवं समाख्यातौ पितृरुपमथोच्यते || ३० || प्. २१६) पितरस्सुभगा वृद्धकेशबन्धसमन्विताः | पीतवर्णांग केशास्ते वासीकाबद्धमस्तकाः || ३१ || यज्ञसूत्रसमायुक्ताः द्विभुजाः श्वेतवाससः | नागाभरणसंयुक्ताः भस्मोद्धूलितविग्रहाः || ३२ || सितदन्तसमायुक्ताः सौम्यदृग्वदनान्विताः | फलका भद्रपीठे वा पितरस्तु महासनाः || ३३ || वामजानूपरिन्यस्त वामहस्तसमन्विताः | सूचिर्दक्षिणहस्तास्तु पितरस्त्रय उच्यते || ३४ || पितरस्तु समाख्याता शृणु वैवस्वतं ततः | द्विभुजं कृष्णवर्णं तु खड्गखेटकधारिणम् || ३५ || करालदंष्ट्रवदनं रक्तमाल्यानुलेपनम् | रक्तवस्त्रधरं चोग्रं किरीटमकुटान्वितम् || ३६ || दीप्ताग्नि सदृशाक्षं च महामहिषवाहनम् | यमवत्तस्य पार्श्वस्थौ तमिवश्मश्रुवक्त्रकौ || ३७ || चित्रगुप्त कली चैव द्वारपार्श्वे तु संस्थितौ | कृष्ण श्याम निभो पेतौ रक्तवस्त्रधरावुभौ || ३८ || पीठपार्श्वस्थितौ मृत्युसहितावुग्रतेजसौ | नीललोहितसंकाशौ द्वौ चामरधृतिस्त्रियौ || ३९ || पुरतः संस्थितौ विप्र ! धर्माधर्मसमाह्वयौ | यमः सिंहासनासीनो महिषोपरि रोहितः || ४० || प्. २१७) यमलक्षणमाख्यातं रोहिणी लक्षणं तथा | करण्डमकुटा रक्ता द्विभुजा च सुशोभना || ४१ || सर्वाभरणसंयुक्ता नागहस्ता सिताम्बरा | आसीनो वा स्थितो वापि सप्तसंख्या च रोहिणी || ४२ || रोहिण्या लक्षणं ख्यातं निर्-ऋतेर्लक्षणं तथा | निर्-ऋतिं रक्तवर्णं तु द्विभुजं च महातनुम् || ४३ || खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् | पीतवस्त्रधरं रौद्रं करालवसुदंष्ट्रकम् || ४४ || सर्वाभरणसंयुक्तं शवारूढं जगत्पतिम् | रक्तकेशसमायुक्तं स्थितं वासीनमेव वा || ४५ || निर्-ऋतेश्चैवमाख्यातं ततश्चाप्सरसो विदुः | अतिकान्ता युवा रक्ता केशभारालकान्विता || ४६ || नानाभरणसंयुक्ता नानापुष्पैरलंकृता | दुकूलवसनास्सर्वा पीनोरूजघनस्थलाः || ४७ || मध्यै क्षौमादिसंयुक्ताः किंचित्प्रहसिताननाः | गन्धाद्यैरनुलिप्तांगा भद्रपीठोपरि स्थिताः || ४८ || समभंगसमायुक्ताः सप्तसंख्याप्सराः स्मृताः | अप्सरास्त्वेवमाख्याता वरुणस्त्वथ वक्ष्यते || ४९ || वरुणं शुक्लवर्णं तु द्विभुजं पाशहस्तकम् | सर्वाभरणसंयुक्तं करण्डमकुटान्वितम् || ५० || प्. २१८) पीतवस्त्रधरं जातं महाबलपराक्रमम् | यज्ञसूत्रेणसंयुक्तं मकरस्थानकान्वितम् || ५१ || ऋषयः पीतवर्णास्तु नानावर्णाम्बरान्विताः | वृद्धाश्च द्विभुजाः शान्ताः जटाचूडसमन्विताः || ५२ || चिबुकाहृदयान्ताश्च उपवीतसमायुताः | भस्मना च त्रिपुण्ट्रास्ते स्थानकास्त्वासनास्तु वा || ५३ || दण्डं दक्षिणहस्ते तु छत्रं वामकरे धृताः | दण्डं विनाथवा (हस्ते) सव्ये वै ज्ञानमुद्रिकाः || ५४ || वामजानूपरिन्यस्त वामहस्त समन्विताः | अत्र्यगस्त्थौ वसिष्ठश्च गौतमांगिरसौ तथा || ५५ || विश्वामित्रो भरद्वाजः ऋषयः सप्तकीर्तिताः | द्विभुजस्तु महावीर्यः ताम्राक्षो धूम्रसंनिभः || ५६ || ध्वजं वै दक्षिणे हस्ते वामहस्तेन दण्डधृक् | कुंचितांघ्रियुतो वायुः शाललम्बरभूषितः || ५७ || नानाभरणसंयुक्तः केशास्य सुविकीर्णकः | सिंहासनोपरिष्टात्तु शीघ्रयात्रो सुखस्थितः || ५८ || वायुरेवं समाख्यातो रुद्रलक्षणमुच्यते | चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः || ५९ || शुक्लवस्त्रधरास्सर्वे शुक्लवर्णाः प्रकीर्तिताः | समपादाः स्थानकाश्च सर्वे पद्मोपरि स्थिताः || ६० || प्. २१९) सर्वाभरणसंयुक्ताः सर्वपुष्पैरलंकृताः | अभयं परशुं सव्ये वरदं कृष्णवामके || ६१ || महादेवः शिवो रुद्रः शंकरो नीललोहितः | ईशानो विजयो भीमो देवदेवो भवोद्भवः || ६२ || कपालीशस्त्विमे विप्र रुद्रा एकादशस्मृताः | सोमस्सिंहासनासीनः कुन्दशंखनिभान्वितः || ६३ || प्रभामण्डलसंयुक्तो द्विभुजस्सौम्यवक्त्रकः | आसीनो वा स्थितो वापि कुमुदाभ्यां ज्वलत्करः || ६४ || हेमयज्ञोपवीतांगः सर्वाभरणभूषितः | शुक्लवस्त्रधरश्शान्तः सर्वपुष्पैरलंकृतः || ६५ || त्रिविधः क्षेत्रपालस्तु सात्विको राजतामसः | श्वेतं रक्तं तथा कृष्णं साल्विकादि गुणं भवेत् || ६६ || द्विभुजं चतुर्भुजं शान्तं राजसं षड्भुजान्वितम् | तामसंचाष्टदोर्दण्डं इत्येवं सात्विकादिकम् || ६७ || स्थानकं पद्मपीठे तु भद्रपीठे तु वा विदुः | शूलं दक्षिणहस्ते तु कपालं त्वितरे धृतम् || ६८ || द्विभुजं ह्येवमाख्यातं चतुर्भुजमथोच्यते | परहस्ते तु सव्ये खट्वांगं जंगमन्यके || ६९ || अथवा पूर्वहस्ते तु अभयं वरदान्वितम् | पूर्ववत्परहस्तौ द्वौ घण्टा वामहस्तके || ७० || प्. २२०) सात्विकं त्वेवमाख्यातं राजसं तु ततः शृणु | शूलं खड्गं च घण्टां च दक्षिणे तु करत्रये || ७१ || खेटकं च कपालं च नागपाशं च वामके | तामसं तु धनुर्बाणं दक्षिणेऽदक्षिणे धृतम् || ७२ || शेषं राजसवत्ख्यातं रक्तकेशोर्ध्वमण्डलम् | उग्रदृष्टि समायुक्तं नानानागविभूषितम् || ७३ || त्रिणेत्रं नग्नकं चैव क्षेत्रपालं प्रकल्पयेत् | ईशो वै द्विभुजः शान्तः सर्वाभरणभूषितः || ७४ || जटामकुटसंयुक्तं शुक्लवर्णद्युतिस्सदा | शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः || ७५ || शूलं दक्षिणहस्ते तु कपालं वामहस्तके | ईशमेवं समाख्यातं ततो वै भास्करं क्रमात् || ७६ || द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः | रक्तमण्डलसंसक्ताः करण्डमकुटान्विताः || ४७ || रक्तपद्मधरास्सर्वे सर्वाभरणभूषिताः | छन्नवीरसमायुक्ता भास्करा द्वादशैव तु || ७८ || वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः | लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः || ७९ || आदित्यश्च महासूर्यस्त्वंशुमाली दिवाकरः | एते वै द्वादशादित्या उत्तरादि क्रमात् स्थिताः || ८० || प्. २२१) एवं षोडशमाख्यातं द्वात्रिंशदथ वक्ष्यते | अनन्तं चतुर्भुजं सौम्यं सर्वाभरणभूषितम् || ८१ || जपापुष्पनिभाकारं करण्डमकुटान्वितम् | सितवस्त्रधरं शान्तं त्रिणेत्रं पद्मसंस्थितम् || ८२ || अभयं वरदोपेतं टंकशूलधरं शुचिम् | आचार्यं चतुर्भुजं शान्तं सर्वाभरणभूषितम् || ८३ || हिरण्यसदृशप्रख्यं दुकूलवसनान्वितम् | अभयं वरदोपेतं खड्गखेटकधारिणम् || ८४ || सुस्थितः पद्मपीठे तु कुर्यादेवं प्रकल्पयेत् | अभयश्चतुर्भुजश्शान्तो जटामकुटमण्डितः || ८५ || अतिरक्तसमप्रख्यः सर्वाभरणभूषितः | अभयं वरदोपेतः शूलपाशधरो भवेत् || ८६ || मोटी हस्तद्वयोपेता सौम्याननद्विनेत्रका | अत्यन्त सुन्दरा शान्ता सर्वाभरणभूषिता || ८७ || नानागन्धानुलिप्तांगा नानापुष्पोपशोभिता | करण्डमकुटोपेता पद्मपीठोपरि स्थिता || ८८ || किंचिद्विशाअलकुक्षी च पीनोरुजघनस्तनी | दुकूलपट्टदेवांगैः नानावस्त्रधरा वरा || ८९ || सस्य श्यामनिभाकारा रक्तोत्पलधृतः करा | आजानुलम्ब्य वामे तु हस्ता च समभंगिका || ९० || प्. २२२) सूक्ष्मा नीलनिभाशान्ता हेमवस्त्रधरा वरा | चतुर्भुजा त्रिणेत्रा च सर्वाभरणभूषिता || ९१ || अभया वरदोपेता टंकशूलधरा तथा | गौरीलक्षणमाख्यातं यथा सकललक्षणम् || ९२ || तथैव कारयेद्धीमान् स्थापयेत्केवलात्मिकाम् | शिवश्चतुर्भुजः शान्तः सर्वाभरणभूषितः || ९३ || जटामकुटसंयुक्तः शंखकुन्देन्दुसंनिभः | अभयं वरदोपेतः खड्गखेटकधारणः || ९४ || पद्मपीठपरिष्टात्तु स्थानकासन एव हि | चतुर्वक्त्रश्चतुर्बाहुः हरितालसमप्रभः || ९५ || जटामकुटसंयुक्तः पिंगाक्षस्सर्वभूषणः | कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः || ९६ || शुक्लवस्त्रधरः शान्तः कटिसूत्रस्समेखलः | शुक्लमाल्यानुलेपश्च कर्णकुण्डलमण्डितः || ९७ || दक्षिणे चाक्षमालां च कूर्चं चैव तु धारयेत् | कमण्डलं कुशं वामे दक्षिणे स्रुक्स्रुवौ धरः || ९८ || आज्यस्थालीं कुशं चैव वामहस्ते तु धारयेत् | अभयं वरदौ पूर्वे हस्तौ वा द्विजसत्तम ! || ९९ || आसने तु भवांघ्रिश्च शाययेत्तु परस्परम् | मेढ्रमूलोपरिष्टात्तु वामहस्तोर्ध्ववक्त्रकम् || १०० || प्. २२३) सव्यहस्तं च तस्योर्ध्वे तद्वनास्वात्र्यद्य अच्युतम् | दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम् || १०१ || सरस्वती दक्षिणे भागे सावित्री वामपाश्वके | आसीनो वा स्थितो वापि पद्मपीठोपरि स्थितः || १०२ || शिवोत्तमं श्वेतवर्णं तु चतुर्दोर्भिस्समन्वितम् | सर्वाभरणसंयुक्तं शुक्लवस्त्रोपवीतकम् || १०३ || नेत्रद्वयसमायुक्तं करण्डमकुटान्वितम् | अभयवरदोपेतं शूलपाशधृतं शुचिम् || १०४ || पद्मपीठोपरिष्टात्तु स्थानकं समपादकम् | भृगुः शुक्लनिभश्शान्तः शुक्लवस्त्रधरस्ततः || १०५ || करण्डमकुटोपेतो हस्तद्वयसमन्वितः | अभयवरदोपेतः सर्वाभरणभूषितः || १०६ || स्थानकं वासनं वापि पद्मपीठोपरि स्थितः | पूर्वमेवोदितस्त्वीशः तथात्रैव तु कल्पयेत् || १०७ || अगस्त्यं कौशिकं कृत्वा स्थापयेत्स्थापकोत्तमः | एकवक्त्रं चतुर्बाहुं नेत्रत्रयसमन्वितम् || १०८ || क्षौमवस्त्रधरं शान्तं बन्धूककुसुमप्रभम् | जटामकुटसंयुक्तं सर्वाभरणभूषितम् || १०९ || अभयवरदोपेतं टंकशूलधरं शुचिम् | विद्येशं पूर्ववत्कृत्वा स्थापयेद्देशिकोत्तमः || ११० || प्. २२४) सरस्वतीं चतुर्बाहुं श्वेतपद्मासनासिकाम् | जटामकुटसंयुक्तां शुक्लवर्णां सिताम्बराम् || १११ || यज्ञोपवीतसंयुक्तां रत्नकुण्डलमण्डिताम् | सर्वाभरणसंयुक्ता मुक्ताहारा सुलोचना || ११२ || व्याख्यानं चाक्षमाला च दक्षिणे तु करद्वये | पुस्तकं कुण्डिकां वामे त्रिणेत्रा चारुरूपिणी || ११३ || भृग्वादि प्रमुखैः सर्वमुनिभिः सेविता परा | एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता || ११४ || लक्ष्मीः पद्मासनासीना द्विभुजा कांचनप्रभा | हेमरत्नोज्वलन्नक्र कुण्डलाभ्यां सुमण्डिता || ११५ || सुयौवना सुरम्यांगा कुंचितभ्रूसविभ्रमा | रक्ताक्षी पीतगन्धा च कंचुकाच्छादनस्तनी || ११६ || शिरसो मण्डलं शंखचक्रसीमान्तपंकजम् | अम्बुजं दक्षिणे हस्ते वामे श्रीफलमुच्यते || ११७ || मध्ये विपुलसुश्रोणी शोभनाम्बर वेष्टिता | मेखला कटिसूत्रा च सर्वाभरणभूषिता || ११८ || एकाक्षसदृशास्त्वेक नेत्रं कुर्याद्विशेषतः | पशुपतिवत्कृत्वाथ स्थापयेद्देशिकोत्तमः || ११९ || धरो ध्रुवश्च सोमश्च स्त्वापस्त्वनल एव च | अनिलः प्रत्युषश्चैव प्रभावश्च तथैव च || १२० || प्. २२५) वसवो ह्यष्टकाः सर्वे रक्तवर्णा द्विनेत्रकाः | पीताम्बर धराः सर्वे आसीनास्त्वास्थितास्तु वा || १२१ || खड्गखेटकहस्ताश्च सर्वाभरणभूषिताः | करण्डमकुटोपेता रौद्रास्सर्वे प्रकीर्तिताः || १२२ || पशुपतिमिव कार्यो महादेवो द्विजोत्तम ! | एकरुद्रमिव कार्यो त्रिमूर्तिर्द्विजसत्तम ! || १२३ || धनदः सर्वयक्षेन्द्रः सर्वाभरणभूषितः | तप्तकांचनसंकाशो हस्तद्वयसमन्वितः || १२४ || वरदाभय हस्तश्च गदा वा वामहस्तके | पद्मपीठो परिष्टात्तु द्विनेत्रो मेषवाहनः || १२५ || रक्ताम्बरधरौ सौम्यो शंखपद्मनिधी उभौ | भूताकारौ महाबलौ शंखपद्मनिधी ततः || १२६ || आसीनौ पद्मपीठे तु पद्महस्तौ द्विजोत्तम ! | करण्डमकुटोपेतौ सितवासोत्तरीयकौ || १२७ || दक्षिणेऽदक्षिणे शंखनिधिपद्मनिधी क्रमात् | धनदस्य तु वामे तु देवीं कुर्यात्सलक्षणाम् || १२८ || धनदं ह्येवमाख्यातं प्राग्वद्रुद्रं च कल्पयेत् | कालाग्निरुद्रमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना || १२९ || चतुर्भुजं त्रिणेत्रं च ज्वालाकेशोपशोभितम् | खड्गखेटकसंयुक्तं शरचापधृतं परम् || १३० || प्. २२६) रक्तवस्त्रधरं रौद्रं सर्वाभरणभूषितम् | रक्तोर्ध्वकेशसंयुक्तं सिंहासनोपरिस्थितम् || १३१ || चतुर्भुजं त्रिणेत्रं च नीलोत्पलसमप्रभम् | करण्डमकुटोपेतं सर्वाभरणभूषितम् || १८२ || अभयवरदोपेतं टंकशूलधृतं परम् | रक्तवस्त्रसमायुक्तं पद्मपीठोपरिस्थितम् || १३३ || श्रीकण्ठं ह्येवमाख्यातं नागदेवमथोच्यते | त्रिणेत्रं चतुर्भुजं सौम्यं रक्ताभं सितवाससम् || १३४ || अभयवरदोपेतं परहस्ते तु नागधृत् | करण्डमकुटोपेतं नागं पंचफणान्वितम् || १३५ || सर्वाभरणसंयुक्तं पद्मपीठोपरि स्थितम् | भीमं चतुर्भुजं रौद्रं सर्वाभरणभूषितम् || १३६ || जटामकुटसंयुक्तं मतिरक्तसमप्रभम् | अभयं वरदं चैव शूलं पाशं च धारयेत् || १३७ || सितवस्त्रसितं चैव रौद्रदृष्टिं सदंष्ट्रकम् | सस्यांकुरनिभाभूमिः नीलालकसमन्विता || १३८ || करण्डमकुटोपेता सर्वाभरणभूषिता | पीतवस्त्रधरा चैव प्रसन्नवदनान्विता || १३९ || पद्मं वाप्युत्पलं वाथ उभयोर्हस्तयोर्धृता | पद्मपीठोपरिष्टात्तु आसीना वा स्थितापि वा || १४० || प्. २२७) शिखण्डिनः स्वभावस्तु चतुर्भुजसमन्वितः | करण्डमकुटोपेतः सर्वाभरणभूषितः || १४१ || रक्तवस्त्रधरश्शान्तः अभयवरदान्वितः | खड्गखेटकसंयुक्तः पद्मपीठोपरिस्थितः || १४२ || मरुद्गणा धूम्रवर्णाः द्विभुजाः स्वतिसुन्दराः | केशभारसमायुक्ताः सर्वाभरणभूषिताः || १४३ || रक्तवस्त्रधरास्सर्वे अभयवरदान्विताः | खड्गखेटकसंयुक्ताः पीनोरुजघनस्थलाः || १४४ || पद्मपीठोपरिष्टात्तु अष्टौ देवा मरुद्गणाः | उग्रश्चतुर्भुजो रौद्रः रक्तवर्णसमन्वितः || १४५ || करण्डमकुटोपेतः सर्वाभरणभूषितः | अभयवरदोपेतं टंकशूलसमन्वितम् || १४६ || स्थानकं पद्मपीठे तु शुक्लवस्त्रधरश्शुचिः | शनैश्चरं कृष्णवर्णं द्विभुजं सितवस्त्रकम् || १४७ || करण्डमकुटोपेतं सर्वाभरणभूषितम् | दण्डं दक्षिणहस्ते तु वरदं वाममुच्यते || १४८ || स्थानकं पद्मपीठे तु त्वासनं वा विशेषतः | ईषत्पंगुमिव स्थाने ईषद्धृस्वतनुः स्मृतः || १४९ || प्रतिमां ह्येवमाख्यातं पीठं चेल्लक्षणं शृणु | भानुद्वयांगुलं तारं उत्सेधं भानुमात्रकम् || १५० || प्. २२८) मेखलात्रयसंयुक्तं वेदमात्रविशालकम् | गुणांगुलं तदुत्सेधं पद्मोच्चं तु गुणांगुलम् || १५१ || षडंशं पद्मविस्तारं शेषोर्ध्वकम्पनीव्रकम् | शिलाभिर्वेष्टकाभिर्वा सुधया वा प्रकल्पयेत् || १५२ || परिवारासमं ह्येवं महापीठविधिं शृणु | प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते || १५३ || मूलहर्म्यं समारभ्य षडष्टौ दण्डमानतः | दशद्वादशदण्डो वा मनुदण्डावसानकम् || १५४ || षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् | अथवान्यप्रकारेण पीठस्थानं विधीयते || १५५ || त्रिसाले तु चतुष्पंच साले वै यिव मध्यमे | महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते || १५६ || मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् | त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् || १५७ || शुद्धद्वारस्य विस्तारमधमं पीठमुच्यते | द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते || १५८ || अथवा व्योमहस्तं तु अधमं पीठविस्तृतम् | द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते || १५९ || तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति | उपानोच्चं द्विभागं स्याद् षडंशं जगती भवेत् || १६० || प्. २२९) कुमुदोच्चं तु भूतांशं कम्पमेकांशमुच्यते | वेदांशं कर्णमानं तु ऊर्ध्वकम्पं शिवांशकम् || १६१ || महापट्टीगुणांशं वा द्विभागं वा विशेषतः | वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् || १६२ || अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! | पद्मोच्चं पंचभागं तु महापट्टी द्विभागया || १६३ || उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि | अथ पीठोदयं विप्र धरातलं यथा कुरु || १६४ || तदूर्ध्वे पद्ममानं तु पीठोच्चं न्यंशमुच्यते | अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् || १६५ || पद्मतारे युगांशं वा भूतांशं कर्णिका भवेत् | पीठाकारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा || १६६ || कलाश्रं वाथ कर्तव्यं तद्द्वयं मण्डलाम्बुजम् | लोहजं शैलजं वाथ इष्टकामयमेव वा || १६७ || सुधया वेष्टकागर्भं नानाचित्रैविचित्रितम् | भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् || १६८ || नानावर्णैर्विचित्रं वा भूषयेद्धेमराजतैः | पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा || १६९ || अंशमस्योपपीठोच्चं उपपीठोक्तवत्कुरु | तदूर्ध्वे तु महापीठं उक्तव्यासोदयान्वितम् || १७० || प्. २३०) उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! | आमोदं प्राग्दले विप्र प्रमोदं यमदिग्दले || १७१ || प्रमुखं वारुणे चैव दुर्मुखं सौम्यदिग्दले | तामसं चाग्निदिग्भागे राजसं नैर्-ऋते दले || १७२ || सात्विकं वायुदिग्भागे विघ्नकर्तारमीशके | विघ्नकर्तारमित्युक्तं तद्विघ्नं तदुदाहृतम् || १७३ || भूम्यन्तरिक्षस्वर्गे च सर्वभूतगुणात्मकम् | तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! || १७४ || तासामार्तिनिवृत्त्यर्थं नित्यं वल्यन्तमर्चयेत् | तासामार्तिहरायाथ नित्योत्सवप्रदक्षिणम् || १७५ || भूमिप्रदक्षिणं कृत्वा द्वितीयं त्वन्तरिक्षकम् | स्वर्गप्रदक्षिणं पश्चात् कृतं तद्वासिनां हि तत् || १७६ || जगदार्तिविनाशार्थं कल्प्येवं साधकोत्तमः | पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् || १४७ || वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् | वारुणे तु महापीठं शेषं पूर्ववदाचरेत् || १७८ || परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् || १७८ || इत्यंशुमान्काश्यपे परिवारविधिः पटलः (पंचाशः) || ५० || अथ वक्ष्ये विशेषेण शिवलिंगस्य लक्षणम् | संहारे विषया भूतालयं गच्छन्त्यशेषतः || १ || यथा सृष्टिस्तथा तस्मिन् सृष्टिर्वा लिंगमुच्यते | संहारे निष्कलं शान्तं पण्यमानमुदीरितम् || २ || मुक्तित्वं सर्वजन्तूनां स्वात्मनः परमं विना | सर्वत्र व्यापिनं गुह्यं सर्वलोकैकनायकम् || ३ || तस्माद्वै सृष्टिकाले तु शान्तितत्वं समुद्भवेत् | तच्छान्तेः शक्तिसंभूतं तस्मान्नादस्य संभवम् || ४ || तस्माद्बिन्दुस्समुत्पन्नं नादं सादाख्यमुच्यते | बिन्दोर्मनोन्मनी ख्याता तस्यामीश्वरसंभवः || ५ || ईश्वरात्तु महेशस्य सृष्टिस्तस्मात्तु वैष्णवम् | तस्मात्प्रजेशस्संभूतः प्रजेशात्तु विशेषतः || ६ || त्रीणि चैव तु त्रिंशच्च त्रिशत त्रिसहस्रकम् | देवता ऋषयश्चैव दानवाप्सरयोनयः || ७ || संभवास्तुदिता विप्र तेष्वादौ त्रीणि निष्कलम् | बिन्द्वन्तं सकलं ख्यातं मिश्रं नादान्यबिन्दुकम् || ८ || नादं लिंगाकृतिर्ज्ञेया बिन्दुः पीठांगमुच्यते | लिंगं शिवमयं ख्यातं पीठं तस्यात्मिकायतम् || ९ || तस्माच्छिवात्मिकाश्चैव शिवात्मी चानलोष्णवत् | जगदार्तिविनाशार्थं सर्वप्राणि हितावहम् || १० || प्. २३२) देवादीनां हितार्थाय ध्यानपूजा निमित्तकम् | लिंगयोनि प्रकारेण सादाख्यं तत्वमुद्भवम् || ११ || सर्वेषामुदयार्थं तत् प्रोच्यते लिंगलक्षणम् | तल्लिंगं त्रिविधं प्रोक्तं चलं चैवाचलं तथा || १२ || चलाचलमिति ख्यातं क्रमेणैव विशेषतः | रत्नजं लोहजं वाथ लिंगं कृत्वा सयोनिकम् || १३ || लिंगद्रव्येतरं वाथ योनिं कृत्वा लक्षणम् | शिरसोद्वर्तनोपेतं लक्षणोद्धारवर्जितम् || १४ || वृत्ताकारमशेषं तु कृते लिंगोदयार्थकम् | उदयेनलैकभागं वा वेदांशैकमथापि वा || १५ || पीठं प्रवेशयेच्छेषं दृश्यमानसमन्वितम् | गमागमाक्षमं चैष्टदंशे न्यस्त्वोद्धृतक्षयम् || १६ || यत्तल्लिंगं चलं ख्यातं अचलस्य त्रिभागिकम् | शैलजं बाणजलिंगं वा गर्भगेहे तु विष्ठरे || १७ || स्थापयेच्चलवत्पीठे चैवं दृश्यं चलाचलम् | अमजं सूत्रसंयुक्तं बाणलिंगं तु तद्विना || १८ || तेष्वादौ चललिंगं तु लक्षणं वक्ष्यतेऽधुना | सुमासतिथिनक्षत्रे लग्ने वारे शिलां ग्रहेत् || १९ || आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमारभेत् | दिव्यन्तरिक्षभौमादिनिमित्तान्युपलक्षयेत् || २० || प्. २३३) वायसे दक्षिणे वामाद् आगतश्च तथैव च | एवं वै दक्षिणे वामे हस्तिमांसेन संयुतम् || २१ || कन्यागोदर्शनं चैव गायस्त्वा वाहनं तथा | दध्ना च पूर्णकुंभं च क्षीरकुंभ तथैव च || २२ || पुष्पं पुष्पधृतो विप्र सुता भर्तृवती स्त्रियः | अन्नं च मांसहारं च शिवभक्तिपरायणः || २३ || ज्वालानलं च दीपं च जलैः पूर्णघटं वृषम् | वराहं च गजं चैव वेश्या चात्यन्तसुन्दरी || २४ || शुभान्येतानि दिव्यानि अशुभं विपरीतकम् | उल्कापातं दिशादाहं न्वहाकथ (?) प्रवर्तनम् || २५ || अशुभान्यन्तरिस्थं भौमांद्या शोभनोच्यते | मुक्तकेशशिराश्चैव विकीर्णाकेशसंयुताः || २६ || तैलाभ्यंगं च नग्नं च काषाय वसनान्वितम् | दर्शनेन च मृद्भाण्डैः तैलपात्रं तथैव च || २७ || छिन्ननासिकमर्त्याश्च हीनांगास्त्वधिकांगकाः | अभावपुत्रनारी च विधवा च तथैव च || २८ || तथैव बहुभक्षश्च भौमान्येतानि वर्जयेत् | शुभं चेद्गमनं कुर्यात् अशुभेषु निवर्तयेत् || २९ || शुभेषु गच्छेदाचार्यः शिल्पिना गमनं चरेत् | पर्वते सागरे तीर्थे क्षेत्रे चैव वने तथा || ३० || प्. २३४) क्षीरवृक्षसमीपे च देवहर्म्यसमीपके | नदी तटाकतीरे वा शिलां संगृह्य देशिकः || ३१ || अन्य स्थानेन गृह्यात्तां गृहीते कर्तृनाशनम् | श्वेतारक्ता च पीता च कृष्णा चैव चतुर्विधा || ३२ || गोक्षीरशंखकुन्देन्दु मुक्ता स्फटिकसंनिभा | मल्लिकाकुसुमाभा च श्वेतायां सप्तधा स्मृताः || ३३ || जपालिंशुकपुष्पाभा इन्द्रगोपसमप्रभा | दाडिमी पुष्पसंकाशा बन्धूककुसुमप्रभा || ३४ || जातिलिंगसमाकारा शशरत्नसमप्रभा | रक्ता सप्तविधा ख्याता एवमेव द्विजोत्तम ! || ३५ || सुवर्णसदृशाकारा सर्षपपुष्पसंनिभा | आसनापुष्पसंकाशा हरिद्रस्य च चूर्णवत् || ३६ || कूष्माण्डकुसुमप्रख्या हेरण्डकुसुमप्रभा | आरग्वधस्य पुष्पाभा पीतशैलाद्विसप्तधा || ३७ || महिषाक्षांजनाभासा नीलोत्पलसमप्रभा | भृंगमायूरकर्णाभा महिषस्य च नासिवत् || ३८ || राजावर्त निभाकारा कृष्णमुद्गसमप्रभा | ह्रस्वमुद्गसमाकारा कृष्णशैला दश स्मृता || ८९ || श्वेता रक्ता च पीता च कृष्णा विप्रादिषु क्रमात् | सर्वकामार्थ मोक्षं च दद्यात्सततमेव च || ४० || प्. २३५) परेषां वा परे श्रेष्ठं परेषां परमं विना | प्रतिलोमानुलोमाभ्यां बीजयोग्यं तु गृह्यताम् || ४१ || आचार्यः शिल्पिभिश्चैव सितवस्त्रधरावुभौ | शुक्लमाल्यानु लिप्तांगौ पंचांगभूषणान्वितौ || ४२ || कुठारादीनि संग्राह्य शिलां गच्छेत्समाहितौ | यस्मिन्देशे शिलांशं तु तां कृत्वा तु प्रदक्षिणम् || ४३ || दोषादोषां शिलां दृष्ट्वा परिच्छेद्य विशेषतः | वातातपाग्नि दग्धां च संकीर्णं क्षीरवारिणा || ४४ || दुर्देशस्थां तटस्थां च कर्मान्ते तु सुयोजिताम् | शर्कराढ्यां तथैवान्यैः झर्झरां रुक्षसंनिभाम् || ४५ || रेखाबिन्दुकलंकादि संयुक्तां परिवर्जयेत् | सूत्रपातवदाकारा वीररश्मि समायुता || ४६ || वर्षपातवदाकारा रेखा वै त्रिविधा स्मृता | जम्बूफलसमाकारा स्तनाक्षसदृशोपमा || ४७ || अन्यद्वावृत्तसाकारा त्रिविधो बिन्दुरेव हि | कृष्णलोहनिभाकारा कृष्णभृंगस्य संनिभा || ४८ || शिखिपिंछनिभाकारा कलंका च चतुर्विधा | खर्जूर पत्र साकारा दूर्वास्तंभ निभा तथा || ४९ || वेण्वंकुरवदाकारा लूतपादवदाय च | इक्षोरग्रसमाकारा हरीका पंचधा स्मृता || ५० || प्. २३६) शंखाभं हेमसदृशं कांसलोहसमप्रभम् | दरिरूपं त्रिधा ख्यातं सर्वदोषभयावहम् || ५१ || कृष्णाश्वनि सिता रेखा सर्वसंपत्समृद्धिदा | कृष्णे कृष्णा तु नाशाय श्वेते कृष्णा तथैव च || ५२ || तस्मात्सर्वप्रयत्नेन इतरा परिगृह्यताम् | हरिका कृष्णशैले तु सितवर्णं विशेषतः || ५३ || खर्जूरपत्रसदृशा दूर्वास्तम्बाकृतिः शुभा | अन्या कृत्याशुभा ख्याता गोधान्यधननाशनम् || ५४ || कलंकं रोगदं ज्ञेयं त्रासं राष्ट्र विनाशनम् | बिन्दुः पुत्रविनाशं स्यात् दरी सर्वविनाशनम् || ५५ || एवं परीक्ष्य बहुधा कारयेल्लक्षणान्विताम् | बाला युवतिर्वृद्धा च पुंस्त्रीनपुंसकं तथा || ५६ || सुरैराकृतिभेदैश्च परिच्छेदविधिं शृणु | घनकम्बुध्वनी ह्रस्वा शिला बाला इति स्मृता || ५७ || घण्टाध्वनिसमा दीर्घा यौवना सा प्रकीर्तिता | विवृतध्वनिसंयुक्ता या सा वृद्धा प्रकीर्तिता || ५८ || घण्टाध्वनि समादान्ता दीर्घा सा पुंशिला युवा | तालध्वनिसमाकारा दीर्घा या सा शिला स्त्रियः || ५९ || अस्निग्धा वाथ रुक्षा वा स्वरहीना नपुंसका | सुरैरेव समाख्यातां आकृत्या भेदमुच्यते || ६० || प्. २३७) चतुरश्रा च वस्वश्रा स्त्रीशिलेति प्रकीर्तिता | आयताश्रा च वृत्ता च दशद्वादशकोणका || ६१ || पुंलिंगा सा शिला ख्याता सुवृत्ता सा नपुंसका | दशाश्रां द्वादशाश्रां च बालां वृद्धां च वर्जयेत् || ६२ || पुंशिला गृहितं लिंगं स्त्रीशिलाभिस्तु पिण्डिका | नपुंसकशिलायां तु पादाधारशिलायद् || ६३ || कर्तव्यं विपरीतं यत् तदा कर्तुर्विनाशनम् | प्रागग्रां वोदगग्रां वा शिलां संग्राह्य शिल्पिकः || ६४ || प्रागग्रे पश्चिमे मूलेप्युदगग्रे च दक्षिणे | अधोभागे मुखं ख्यातं ऊर्ध्वगता भवेत् || ६५ || एवं परीक्ष्यसंग्राह्या गव्यैः क्षाल्यो हृदा बुधः | सद्यमंत्रेण संस्नाप्य गन्धपुष्पादिभिर्यजेत् || ६६ || तस्यास्तु शांकरे देशे शान्तिहोमं च कारयेत् | अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् || ६७ || समिधं हृदयेनैव मूलेनाज्यं तु होमयेत् | चरुहोममघोरेण पुरुषेणैव तण्डुलम् || ६८ || तिलमीशानमन्त्रेण सर्षपं कवचेन तु | शतमर्धं तदर्धं वा प्रत्येकं तु शताहुतिः || ६९ || स्विष्टमग्नेतिमंत्रेण पूर्णाहुतिमथाचरेत् | ततो वह्निं समुद्वास्य पूजोद्वासादिकं न्यसेत् || ७० || शिलां छेद्य हृदा विद्वान् शस्त्रमंत्रेण पूजयेत् | कवचं तु समुच्चार्य शिलाच्छेदनमाचरेत् || ७१ || तदूर्ध्वं शिल्पिकार्यं तु स्थपत्यादि समाचरेत् | गर्भगेहप्रमाणं च द्वारमानं तथैव च || ७२ || स्तम्भं च तालमानं च हस्तमानांगुलं तथा | लिंगमानोद्धृतं सप्त तेषां प्रत्येकनैकधा || ७३ || गर्भगेहं तु पंचांशं गुणांशं श्रेष्ठमुच्यते | श्रेष्ठोत्तमादिनवधा प्रोच्यते द्विजसत्तम ! || ७४ || प्रासादे त्वादिभूमौ तु स्तम्भदीर्घसमं हि तत् | तदुत्तममितिख्यातं तस्यार्धं मध्यमं भवेत् || ७५ || तयोर्मध्येष्टभागे तु नन्दभेदं द्विजोत्तम ! | स्तम्भयामततैवे तु नवभागं विभाजिते || ७६ || नवधा लिंगमानं तु स्तम्भमानं द्विजोत्तम ! | अधिष्ठानोदये विप्र स्तम्भमानवदाचरेत् || ७७ || एकहस्तं समारभ्य साष्टांशं च विवर्धनात् | नवहस्तविधिर्यावत् संख्या षष्टि स पंचकम् || ७८ || पंचहस्तविमानादि हर्म्यं हस्तावसान्वितम् | पंचहस्तादधो हर्म्यं लिंगं स्तम्भवशं विना || ७९ || हस्तादि गुणहस्तान्तं विकल्पाभास हर्म्ययोः | त्रिहस्तं षट्करान्तं तु लिंगं छन्द विमानके || ८० || प्. २३९) षट्करादि नवान्तं तु लिंगं जाति ग्रहोचितम् | एवं हस्तं समाख्यातं तालमानमथोच्यते || ८१ || तालादि नवतालान्तं एकतालविवर्धनात् | सा लिंगो नवसंख्या स्युः कल्प्यजातिरथो भवेत् || ८२ || त्रयोदशांगुलमारभ्य यावन्नन्दशतांगुलम् | तदेकानैकभागं च लिंगमानांगुलेन तु || ८३ || त्रिभागसहितं लिंगं हस्तक्षीणं न कारयेत् | हस्तमानात्क्षयं लिंगं वृत्ताकारं विशेषतः || ८४ || वेदानलोदयोवांशं विष्ठरे योजयेद्बुधः | शेषं तु दृश्यमानं स्यात् विकल्पाभास हर्म्यके || ८५ || विष्ठरे वेशलिंगं तु विकल्पो परिगृहे विना | एकांगुलं समारभ्य यावद्रुद्रांगुलावधि || ८६ || लोहजं रत्नजं वत्यूर्ध्वे शैलजमुच्यते | त्रयोदशांगुलाधस्तात् शैलजं तु न कारयेत् || ८७ || एवं त्वनेकभेदेन प्रोच्यते लिंगमानकम् | नागरं द्राविडं लिंगं वेसरं च वदाम्यहम् || ८८ || लिंगोदये तु वेदांशं एकांशं कन्यसं ततो | तुंगे त्र्यंशं शिवांशं तु विस्तारं श्रेष्ठमुच्यते || ८९ || तयोर्मध्येऽष्ट भागे तु नवधा तारमुच्यते | अधोदये कलांशे तु पंचांशं शान्तिकं भवेत् || ९० || प्. २४०) वेदांशं पौष्टिकं ख्यातं गुणांशं जयदं भवेत् | आभिचारं द्विभागं स्याद् व्यासमेवं चतुर्विधम् || ९१ || एवं त्रयोदशव्यासं नागरे तु विधीयते | लिंगोच्चे द्विन्नवांशे तु रसभूतयुगांशके || ९२ || गुणांशे शान्तिकादि स्याद्राविडे तु चतुर्विधम् | वेसरं च चतुर्भेदं हर्म्यलिंगस्य पिण्डिका || ९३ || वेसरे लिंग तुंगे तु विंशत्यंशं विभाजिते | अष्टांशं सप्तषट्पंच भागैर्व्यासं प्रकल्पितम् || ९४ || शान्तिकं पौष्टिकं चैव जयदात् भुदकं भवेत् | वेसरं च चतुर्भेदं हर्म्यं लिंगस्य पिण्डिका || ९५ || पादाधारशिलाश्चैव एकजाति स्वयं करम् | यत्रैव कल्पितं लिंगं वर्धहेतु मुदाहृतम् || ९६ || अन्योन्यसंकरश्चेत्तु राज्ञो मुख भयावहम् | तस्मात् सर्वप्रयत्नेन संकरं न समाचरेत् || ९७ || लिंगानां नागराद्येवं ख्यातमायादि तच्छृणु | लिंगस्योत्सेधमानं तु मानांगुलेन भाजयेत् || ९८ || मात्राच्छेदं प्रवृद्ध्या वा हान्या वा परिपूरयेत् | श्रेष्ठान्तराधमर्मार्वामात्रपूर्णं परिग्रहेत् || ९९ || उत्सेधमात्रमष्टाभिर्वृद्धितं ऋक्षसंख्यया | हृत्वा ते दिनसंख्या तु अश्विन्यादि द्विजोत्तम ! || १०० || नवभिर्गुणिने सप्ता हृत्वात्वर्कादि वारके | प्. २४१) अनले गुणिते चाष्ट हृते योनिमुदाहृतम् || १०१ || अष्टाभिर्वृद्धिते भानु हृते त्वायमुदाहृतम् | नवभिर्गुणिते नाडि हृते शेषं व्ययं भवेत् || १०२ || युगवृद्ध्या हृते त्वंशं नवमं तस्करादिभिः | आयाधिक्यं व्ययं हीनं संपदामास्पदं सदा || १०३ || ध्वजं सिंअहवृषे हस्ती शुभयोनिमुदाहृतम् | सितसौम्यशशी जीवो सप्तवारे शुभाशुभम् || १०४ || नृपकर्तुश्च जन्मर्क्षात् लिंग-ऋक्षावसानकम् | जन्मत्रयं च वेदाष्टा ऋतु नन्दाभ्यवर्जितम् || १०५ || शुभावहदिनान्येते शेषकास्त्वशुभावहाः | भानुवारादि संयुक्तं विशाखादिश्चतुश्चतुः || १०६ || रिपुत्वामरणं नाशं अपमृत्युर्यथा क्रमम् | शेषं योगं परिग्राह्य शुभमानं तु संगृहेत् || १०७ || समलिंगं वर्धमानं शैवाधिक्यं च स्वस्तिकम् | सर्वतो भद्रलिंगं च सार्वदेशिकमेव च || १०८ || धारालिंगं मुखं लिंगं लिंगमष्टविधं भवेत् | समलिंगं तु विप्राणां नृपाणां वर्धमानकम् || १०९ || शैवाधिक्यं तु वैश्यानां शूद्राणां स्वस्तिकं भवेत् | सर्वेषामितरं लिंगं सर्वकामफलप्रदम् || ११० || एवमेव महादेवो लिंगं भेदं नृणां हितम् | प्. २४२) इष्टायामविशाले तु चतुर श्रीकरं पुरा || १११ || पश्चाद् भागत्रयं कल्प्य अनेन विधिना बुधः | चतुरश्रमधोभागं ब्रह्मभागमथोच्यते || ११२ || मध्ये तु वसुकोणं स्यात् विष्ण्वंशं तत्प्रकीर्तितम् | ऊर्ध्वभागे तु वृत्तस्य तच्छिवांशेति विद्यते || ११३ || अंशं प्रत्यविधानेन त्वशेषं तु शिवात्मकम् | वृक्षस्य मूलमध्याग्रं शाखापुष्पसमन्वितम् || ११४ || शब्दः स्पर्शश्च रूपं च रसगन्धौ तथैव च | चर्म चा रुद्रमेकस्य एकैकांशः प्रकीर्तितः || ११५ || तथाप्यंशभेदयुक्तस्य प्रमाणभेदं न विद्यते | तथैव शिवलिंगस्य भागं प्रत्यविभिभेदिना || ११६ || लिंगतारं युगाश्रं तु कृत्वा कर्णार्धकं क्रमात् | कोणात्कोणं तु संकल्प्य तेन मानेन देशिकः || ११७ || तद्बाह्ये च्छेदयेद्विद्वान् अष्टाश्रं तद्भवेदिह | अथवा लिंगतारं तु सप्तभागं विभाजिते || ११८ || गुणांशं मध्यपट्टं स्याद् छेदयेत्तु बहिर्बुधः | अथवा वसुभागे तु मध्यपट्टं रसांशकम् || ११९ || छेदयेत्तु विशेषं तु वस्वश्रत्रिविधा वहि | अष्टाश्रं पट्टविस्तारे चतुरश्रीकृते सति || १२० || तत्कोणार्धं तु वस्वश्रं कोणात्कोणं तु लांछयेत् | प्. २४३) तद्बाह्यं तु परिच्छेद्य कलाश्रं तद्भवेदिह || १२१ || कलाश्राश्रे तु संछेद्य वृत्ताकारं तु तद्भवेत् | अष्टाश्रादीनि विन्यासं चतुरश्रं तु लभ्यते || १२२ || लिंगायामे त्रिभागे तु एकांशं चतुरश्रकम् | मध्ये वोमं तु वस्वश्रं अग्रे वृत्तं शिवांशकम् || १२३ || समलिंगमिति ख्यातं विप्रादीनां तु वृद्धिदम् | भानुद्व्यंशे ततायामे सप्तांशं चतुरश्रकम् || १२४ || अष्टांशेनाष्टकोणं तु नवांशं वृत्तमुच्यते | षट्सप्तवसुभागं वा पंच षट्सप्त एव वा || १२५ || चतुष्पंचषडंशं वा वर्धमानं चतुर्विधम् | लिंगायामे दशांशे तु गुणांशं चतुरश्रकम् || १२६ || वस्वश्रं चैव तत्तुल्यं युगांशं स्याच्छिवांशकम् | शिवाधिकमिति ख्यातं अथवान्यप्रकारतः || १२७ || वेदवेदशरं वापि पंच पंच षडंशकम् | षट्षट्सप्तांशकैर्वापि शैवाधिक्यं चतुर्विधम् || १२८ || लिंगायामे नवांशे तु चतुरश्रं द्विभागया | वस्वश्रं तु गुणांशेन वेदाश्रं वृत्तमुच्यते || १२९ || स्वस्तिकं ह्येवमाख्यातं सर्वतो भद्रमुच्यते | मूलादग्रं सुवृत्तं तु लिंगोत्तुंगं त्रिभागिके || १३० || तलवेशं तदेकांशं व्योमांशं योनिबन्धनम् | प्. २४४) पूजाभागं तदेकांशं सर्वतो भद्रमेव हि || १३१ || सार्वदेशिकलिंगे तु वृत्ताकारमशेषकम् | भूतवेदगुणांशं वा लिंगोच्चे तु विभाजिते || १३२ || पीठे तु वेशमेकांशं शेषं पूजांशमुच्यते | सार्वदेशिकलिंगं तु एवमेव प्रकल्पयेत् || १३३ || समलिंगोच्छ्रयं नन्दभागं कृत्वा विशेषतः | षडंशैर्वर्तुलैर्नाहं सप्तांशैर्मध्यनाहकम् || १३४ || वसुभागमधोनाहं यत्तत्त्रैराशिकं भवेत् | सर्वजात्यार्हकं चैव त्रैराशिकमिदं परम् || १३५ || मूलादग्रं युगाश्रं तु धारालिंगं तु तच्च वै | समत्वमूलवेदाश्रं शेषं वस्वश्रमेव वा || १३६ || चतुरश्रं अधोभागं अष्टाश्रं मध्यमं भवेत् | पूजाभागं कलाश्रं तु धारालिंगं त्रिधाभवेत् || १३७ || तदाश्रमूर्ध्निपर्यन्तं यवार्धं वा यवान्नतम् | समलिंगस्य धारस्य सर्वप्राणि हितावहम् || १३८ || धारालिंगं समाख्यातं मुखलिंगमथोच्यते | पूजाभागं त्रिधाकृत्वा ऊर्ध्वभागे मुखं भवेत् || १३९ || पंचमूर्ध्नि चतुर्वक्त्रं ग्रीवा चैकसमायुतम् | कर्णाष्टौ द्वादशाक्षं च सर्वलक्षणसंयुतम् || १४० || लिंगाकारमधस्तस्य तस्याधः पिण्डिकान्वितम् | प्. २४५) अत ऊर्ध्वस्य भागं तु चतुर्विंशच्छतांशकैः || १४१ || त्रयवाधिकचन्द्रांशं उष्णीषोच्चमुदाहृतम् | केशान्तं निम्नभागं स्यात् मुक्तादामलकाकृतिः || १४२ || केशान्ताद्दक्ष सूत्रान्तं युगांशं त्रयबाधिकम् | नेत्रसूत्रात्पुटान्तं च पुटान्ताद् हनुमानकम् || १४३ || प्रत्येकं त्र्ययबाधिक्यं युगांशं परिकीर्तितम् | हन्वादिगलमानं तु चतुर्यवमुदाहृतम् || १४४ || यवैकोनयुगांशं तु कर्णोच्चमिति विद्यते | शेषं लिंगाकृतिख्यातं कल्पयेल्लक्षणान्वितम् || १४५ || चतुर्वक्त्रं चैकवक्त्रं वा चतुर्बाहु द्विबाहुकः | स्तनसूत्रोपरीबिम्बं लक्षणेन समन्वितम् || १४६ || हिक्कासूत्रोपरिष्टाद्वा शेषं लिंगाकृतिर्भवेत् | मुखलिंगमिदं ख्यातं नृपाणामभिवृद्धये || १४७ || विष्कम्भमष्टधा कृत्वा मूले मध्ये तदग्रके | भागहीनं तु संकल्प्य स्थूलमूलमुदाहृतम् || १४८ || ह्रासयेच्छिवभागादि शिरःस्थूलं तदुच्यते | एवमार्षकमाख्यातं ऋषिभिः पूजितं वरम् || १४९ || गुणाश्रं पंचकोणं च षट्सप्तद्वादशाश्रकम् | दशनवाश्रकं चैव अग्रे तारमनोपमम् || १५० || फलका दर्पणाकारं एकरेखमरेखकम् | प्. २४६) शिरसोद्वर्तनं हीनमानोन्मानेनन्वितम् || १५१ || दिव्यं स्वायंभुवं चेति ख्यातं देवैः सुपूजितम् | बाणेन पूजितं भोगे बाणलिंगमुदाहृतम् || १५२ || स्थूलं सूक्ष्मं शिरोमूलं क्रमेण परिपठ्यते | उन्नतं तु मुखं ख्यातं स्पर्शने त्वतिशीतलम् || १५३ || बाणलिंगमिदं ख्यातं मधुवर्णसमानवत् | विष्ठरे तु प्रवेशांशं सार्वदेशिकलिंगवत् || १५४ || लोहजं रजतं चैव सार्वदेशिकवत्कुरु | लिंगभेदं समाख्यातं शिरसोद्वर्तनं शृणु || १५५ || लिंगमूर्तादि केशान्तं शिरसोद्वर्तनं भवेत् | तस्माल्लिंगोदये चोर्ध्वे शिरसोद्वर्तनं द्विज ! || १५६ || छत्राकारं भवेत्पूर्वं कुक्कुटाण्डं द्वितीयकम् | तृतीयं त्रिपुषाकारं अर्धचन्द्रं चतुर्थकम् || १५७ || यस्य लिंगस्य विष्कंभं अष्टधा भाजयेद्बुधः | ऊर्ध्वादर्धांशमालम्ब्य प्रथमं छत्रशीर्षकम् || १५८ || द्वात्रिंश द्विभजेत्तारं ऊर्ध्वभूतांशं लम्बितम् | छत्राभं तु द्वितीयं स्यात् सप्तांशं तु तृतीयकम् || १५९ || चतुर्थं तु नवांशं तु छत्राभं तु चतुर्विधम् | द्विजानां च नृपाणां च छत्राभं सर्वकामदम् || १६० || सर्वेषामपि लिंगानां प्रशस्तं छत्रशीर्षकम् | प्. २४७) व्यासे द्वात्रिंशदंशे तु मनुपक्षकलांशकैः || १६१ || सप्तादशांशकं चैव कुक्कुटाण्डं चतुर्विधम् | वर्धमाने तु लिंगे तु प्रशस्तं क्षत्रियार्हकम् || १६२ || द्वाविंशांशे शिरस्तारे धर्मरुद्रांशकैस्तथा | भानुत्रयोदशांशैस्तु त्रिपुषाभं चतुर्विधम् || १६३ || शिवाधिके प्रशस्तं वा वैश्यार्हं सर्वकामदम् | त्रिंशत्यंशे विशालेऽस्मिन्द्वाविंशत्येक विंशतिः || १६४ || विंशदेकोनविंशांशं अर्धचन्द्रं चतुर्विधम् | स्वस्तिकाख्येषु लिंगेषु कर्तव्यं शूद्रवृद्धिदम् || १६५ || सार्वदेशिकलिंगानां अन्येषां च विशेषतः | छत्रादिशीर्षकाकारो कर्तृजातिवशान्नयेत् || १६६ || दैविकार्षकलिंगानां अष्टांशं शीर्षकं भवेत् | शिरसोद्वर्तनोत्सेधं गुण एकविभाजिते || १६७ || युंज्यादंशं तु लिंगोच्चात् शिरसो वर्तनान्वितम् | उष्णीषमनमाख्यातं शिरोमानं तदुच्यते || १६८ || मूर्ध्नि मध्यात्तदंशांतं परितोद्वर्तयेत्क्रमात् | यावल्लम्बांशसीमान्तं मूर्ध्नि मध्यात् नतम् || १६९ || छत्रशीर्षकलिंगानां मूर्ध्नि मध्यात् नतं यवम् | वक्त्रत्रयसमायुक्तं कर्तव्यं छत्रशीर्षकम् || १७० || शीर्षकाच्छीर्षकात्सर्वं एवं क्रमेणोच्यते | प्. २४८) शीर्षके लिंगतारोच्चं उक्तादन्यं न कारयेत् || १७१ || उक्तादन्यं कृतं चेत्तु राजराष्ट्रभयावहम् | तस्मात् सर्वप्रयत्नेन उक्तमार्गेण कारयेत् | लिंगलक्षणमाख्यातं पिण्डिकालक्षणं शृणु || १७२ || इत्यंशुमान्काश्यपे लिंगलक्षणपटलः (एकपंचाशः) || ५१ || अथातो नागरादीनां लिंगानां पीठलक्षणम् | आदौ तु वक्ष्यते विप्र सकलानां ततो विदुः || १ || शैलजे तु शिलापीठं सुधयेष्टकयापि वा | दारुजे दारुजं वाथ इष्टकामयमेव वा || २ || रत्नलोहादि लिंगानां स्वयोनिं लोहजं तु वा | लिंगोत्सेधसमं पीठ विस्तारं चोत्तमं भवेत् || ३ || पूजांशोच्च समं पीठं तारं कन्यसमुच्यते | तयोर्मध्येऽष्टभागे तु उत्तमादि त्रयं त्रयम् || ४ || पीठव्यासं त्रिधाभज्य द्विभागं चोत्तमोन्नतम् | व्यासार्धमधमोत्तुंगं तयोर्मध्येष्टभाजिते || ५ || नवधापीठतुंगं तु उत्तमादि त्रयं त्रयम् | क्रमेण कथिता विप्र नागरा ह्येव मुच्यते || ६ || प्. २४९) लिंगस्योच्च समं व्यासं श्रेष्ठं तन्नवभाजिते | सप्तांशं कन्यसं व्यासं तयोर्मध्येऽष्टभाजिते || ७ || नवधा विस्तृतं ख्यातं ब्रह्मविष्ण्वंशयोरपि | उदयं वसुधा भज्य द्विभागं वानलांशके || ८ || एकांशं वा विशेषेण स्थलांशे तु निवेशयेत् | शेषं पीठोदयं ख्यातं एवं द्राविडमाचरेत् || ९ || पूजांशपरिणाहेन समं श्रेष्ठविशालकम् | परिणाहे कलांशे तु भान्वंशमधमंततीः || १० || तयोर्मध्येष्टभागे तु नवधा पीठविस्तृतम् | विष्णुभागसमोच्चं तु पीठं कन्यसमुच्यते || ११ || सपादं श्रेष्ठमाख्यातं तयोर्मध्येऽष्टभाजिते | नवधा पिण्डिकोत्तुंगं वेसरे ह्येवमाचरेत् || १२ || अथवा लिंगविष्कंभं त्रिगुणं पीठविस्तृतम् | अथवा लिंगविष्कंभं चतुरश्रीकृते सती || १३ || तत्कर्णद्विगुणं वाथ सार्धद्विगुणमेव वा | त्रिगुणं वा विशालं तु पीठानां तु विशेषतः || १४ || गर्भगेह त्रिभागैकं चतुर्भागैकमेव वा | पीठव्यासं समाख्यातं विष्णुभागसमोन्नतम् || १५ || सामान्यं नागरादीनां लिंगानां पिण्डिका इमाः | उपानबाह्यविस्तारं सर्वेषां तु विशेषतः || १६ || प्. २५०) तदष्टा नवदशांशेन हीनमग्रविशालकम् | विष्णुभागसमोत्तुंगं सपादं सार्धमेव वा || १७ || सामान्यपिण्डिकानां तु नागरादि समुन्नतम् | लिंगानां सकलानां च सामान्यं पीठलक्षणम् || १८ || सकलोदये नवांशे तु व्योमांशं कन्यसोदयम् | गुणांशं श्रेष्ठमानं तु तयोर्मध्येऽष्टभाजिते || १९ || नवधा पीठतुंगं तु तस्य विस्तारमुच्यते | पीठतुंगसमव्यासं अधमं पीठमुच्यते || २० || द्विगुणांशोत्तमव्यासं तयोर्मध्येऽष्टभाजिते | नवधा विस्तृतं ख्यातं सकलानां विशेषतः || २१ || पिण्डिका गोमुखोपेता लिंगानां तु विधीयते | गोमुखारहितं पीठं सकलानां विशेषतः || २२ || समाश्रं समवृत्तं वा लिंगानां तु विधीयते | सायताश्राय वृत्तं वा प्रतिमानासनं तु वा || २३ || पद्मपीठं भद्रपीठं वेदिका परिमण्डलम् | पीठं चतुर्विधं ख्यातं अलंकारं द्विजोत्तम ! || २४ || कलांशं विभजेत्तुंगं उपानोच्चं द्विभागया | भूतांशोच्चमधः पद्मं कण्ठं पादुकसादृशम् || २५ || ऊर्ध्वपद्मं तु वेदांशं द्विभागं पट्टिकोदयम् | शिवांशं घृतवार्युच्चं षोडशं दलसंयुतम् || २६ || प्. २५१) क्षुद्रं दलं तयोर्मध्येऽप्यष्टौ वाथ महादलम् | अर्धांगुलं दलाग्रोच्चं मानांगुलेन सुव्रत ! || २७ || लिंगभेदांगुलार्धं वा दलाग्रस्य समुच्छ्रयम् | पीठतार त्रिभागैकं गोमुखादीर्घमुच्यते || २८ || तद्दीर्घसदृशं तस्य मूलव्यासमुदाहृतम् | मूलतारत्रिभागैकं तस्याग्रं विस्तृतं भवेत् || २९ || मूलादग्रं क्रमात्क्षीणं तद्घनं व्याससादृशम् | त्रिपादं वार्धवा नीव्र त्रिभागैकांशमेव वा || ३० || व्यासत्रिभागभागं तु जलमार्गविशालकम् | पट्टिकोर्ध्वसमं निम्नं तस्यादीषं ततं तु वा || ३१ || उपानाद्यंगवेशं च नीव्रं सौन्दर्यमाचरेत् | अधिष्ठानांगवद्वेश नीव्रं वा परिकल्पयेत् || ३२ || पद्मपीठं समाख्यातं भद्रपीठमथोच्यते | कृत्वा तु षोडशोत्सेधं भागेनोपानमुच्यते || ३३ || जगत्युच्चं तु वेदांशं गुणांशं कुमुदोदयम् | शिवांशं पट्टिकामानं कण्ठमानं गुणांशकम् || ३४ || तदूर्ध्वकंपमेकांशं द्विभागा पट्टिका भवेत् | शश्यंशं घृतवारि स्यात् एतत्तु भद्रमुच्यते || ३५ || पीठोच्चे तु कलांशे तु द्विभागं पादुकोदयम् | गुणांशं जगती मानं कुमुदोच्चं तु तत्समम् || ३६ || प्. २५२) व्योमांशं कंपमानं तु कण्ठमानं द्विभागया | तस्योर्ध्वकंपमेकांशं गुणांशा पट्टिका भवेत् || ३७ || एकांशं घृतवारि स्याद् एतद्भद्रकमुच्यते | भद्रमेव तथा ख्यातं वेदिपीठमथोपरि || ३८ || त्रयोदशांशे पीठोच्चं द्विभागं पादुकोदयम् | तदूर्ध्वपद्मतत्तुल्यं कंपमंशेन कारयेत् || ३९ || द्विभागं कण्ठमानं तु ऊर्ध्वकंपं शिवांशकम् | तदूर्ध्वे पद्ममक्षांशं पट्टिका चैव तत्समम् || ४० || घृतवार्युदयं व्योमभागेन परिकल्पयेत् | अथवोदयं तु वस्वंशे उपानोच्चं शिवांशकम् || ४१ || एकांशं घृतवारि स्यात् शेषं वेदीयुगाश्रकम् | वेदिका पीठमाख्यातं तदेवाक्षांशपट्टिका || ४२ || कर्तव्यं च त्रिधैकं हि वेदिका पीठमुच्यते | पद्मं वा भद्रपीठं वा वृत्तं तत्परिमण्डलम् || ४३ || अधिष्ठानांगवद्वाथ पीठांगं परिकल्पयेत् | उपपीठांगवद्वाथ तत्तन्नाम्ना प्रकीर्तिताः || ४४ || जयदं चतुरश्रं स्यात् योन्याकारं प्रकल्पयेत् | शान्तिः स्याद्धनुषाकारं गुणाश्रं रिपुनाशनम् || ४५ || वर्धनाहे तु वृत्तं स्यात् पंचाश्रं पुष्टिदं भवेत् | रोगनाशकरं चाष्टकोणमेवं क्रमाद्विदुः || ४६ || प्. २५३) एष्वाकारेषु पीठांगान् प्रागुक्त विधिना कुरु | द्रव्योत्कृष्टैर्नवा वाथ जीर्णोद्धारे द्विजोत्तम ! || ४७ || पूर्वाकृतिर्यथा कार्यं तथा कुर्यात्पुनः पुनः | पश्चादन्या कृतिर्विप्र गुणं वा गदायतम् || ४८ || आर्जवं मुखभद्रं वा भद्रं चेत्समभद्रवत् | लिंगानां सायतं पीठं न कुर्यात्तु कदाचन || ४९ || समाश्रं समवृत्तं वा सायताश्रं तथान्यकम् | सर्वं च सकलानां तु कर्तव्यं संपदां पदम् || ५० || पिण्डिका लक्षणं प्रोक्तं पादशैलादिकं शृणु | इत्यंशुमान्काश्यपे पिण्डिका लक्षण पटलः (द्विपंचाशः) || ५२ || अथ वक्ष्ये विशेषेण पादशैलादिलक्षणम् | लिंगतारत्रयं व्यासं तत्त्रिपादसमुन्नतम् || १ || श्रेष्ठमध्यकनिष्ठोच्चं तयोर्मध्येऽष्टभाजिते | व्यासं तु नवभागं तु तत्त्रिपादोक्तमुन्नतम् || २ || तदर्धमधमोत्तुंगं तयोर्मध्येऽष्टभाजिते | तुंगं तु नवधा प्रोक्तं पादाश्म नागरे विदुः || ३ || गर्भगेहविशालाक्षं श्रेष्ठं व्यासमुदाहृतम् | तदर्धं कन्यसं प्रोक्तं तयोर्मध्येष्टभाजिते || ४ || प्. २५४) नवधा च शिलाव्यासं तत्त्रिपादोत्तमोदयम् | तदर्धमधमं ख्यातं तयोर्मध्येऽष्टभाजिते || ५ || नवधा तस्य तुंगं तु द्राविडं ह्येवमुच्यते | नालीगृहत्रिभागैक भागमुत्तमविस्तृतम् || ६ || तदर्धमधमं ख्यातं तयोर्मध्येऽष्टभाजिते | व्यासं तु नवधा तुंगं तत्त्रिभागोत्तमोन्नतम् || ७ || तदर्धमधमं तुंगं तयोर्मध्येऽष्टभाजिते | तुंगं तु नवधा प्रोक्तं पादाश्म वेशरान्वितम् || ८ || लिंगव्यासार्धमाधिक्यं व्यासं तद्वसुभाजिते | एकांशमवटे निम्नं लिंगमूलवदाकृतिः || ९ || रत्निमानामप्राण नवकोष्ठं बिले कुरु | अन्यत्र समतां कुर्यात् आधाराख्य शिला स्मृता || १० || तदश्मपीठसीमान्तं नन्द्यावर्तशिलादयः | लिंगात्पीठावसानं वा एकद्वित्र्यंगुलाधिकम् || ११ || नन्द्यावर्तशिलाव्यासं नागरे तु विधीयते | पीठव्यसाद्यवैकं वा द्राविडाक्षान्तिकादिकम् || १२ || लिंगव्यासनवांशे तु पीठादेकैकवर्धनात् | नन्द्यावर्तशिलाव्यासं नवधा वेसरं हि तत् || १३ || लिंगस्य परितः कल्प्यं चत्वारं चतुरश्रकम् | चतुरश्रोचितायामे तेषां दीर्घमुदाहृतम् || १४ || प्. २५५) उत्तराग्रं तु प्राग्भागे प्रागग्रं दक्षिणे न्यसेत् | पश्चिमे चोत्तराग्रं तु प्रागग्रं चोत्तरे न्यसेत् || १५ || शांकरे प्रथमस्याग्रं अनलाग्रं द्वितीयके | तृतीयमूलं निर्-ऋतौ वायुमूलं चतुर्थकम् || १६ || नन्द्यावर्तशिलास्त्वेवं योज्यकल्कगुलोदकैः | ऊर्ध्वेष्टबन्धनं लिप्य स्थापयेत्पिण्डिकां बुधैः || १७ || सुधा वा वज्रबन्धं वा लिप्य पीठं प्रयोजयेत् | एकाश्मं चोत्तमं पीठं द्वाभ्यां वै मध्यविष्ठरम् || १८ || त्रिचतुष्पंचभिर्वाथ कन्यसं पीठमुच्यते | पीठानां तु गलादूर्ध्वं अश्वत्वेकेन कारयेत् || १९ || बहुवस्तु गलाधस्तात् पीठंधरं गले कुरु | गलाधस्ताद् दृषद्वौ चेद् पूर्व वै चापरे न्यसेत् || २० || त्रयश्चोत्तरतस्त्वेकं वामे वामे परद्वयम् | चत्वारं चेच्चतुष्कोणे चतुरश्रं प्रकल्पयेत् || २१ || द्विपराश्रं तु कर्तव्या पिण्डिका लक्षणान्विता | अथवा चाष्टबन्धैर्वा निश्छिद्रं सुदृढं कुरु || २२ || इष्टका चेत्तु बहुभिः कर्तव्या सुधयान्विता | लोहजं रत्नजं चैव दारुजं चैवमेव तु || २३ || सर्वेषां बंधनं चाष्ट बन्धमिव्यभिधीयते | विष्णुभागार्धसीम्ना च पिण्डिकोर्ध्वं समुन्नयेत् || २४ || प्. २५६) नतोन्नतं न कर्तव्यं कर्तव्ये कर्तृनाशनम् | नपुंसकशिलाभिस्तु पीठाधस्ताच्छिलां नयेत् || २५ || एवं ब्रह्मशिलादीनि प्रोक्तं तदविशेषतः | इत्यंशुमान्काश्यपे पादशिलादिलक्षणपटलः (त्रिपंचाशः) || ५३ || अथ वक्ष्ये विशेषेण लक्षणोद्धारलक्षणम् | लिंगस्य मुखनिर्माणं लक्षणोद्धारमिष्यते || १ || प्रासादस्याग्रतो वापि शांकरे दक्षिणेऽपि वा | नवाष्टसप्तहस्तं वा मण्टपं चतुरश्रकम् || २ || षोडशस्तंभसंयुक्तं सर्वालंकारसंयुतम् | मण्टपस्य त्रिभागैकं तन्मध्ये वेदिकां कुरु || ३ || हस्तमात्रसमुत्सेधां दर्पणोदरसंनिभाम् | गोमयालेपनं कृत्वा पिष्टचूर्णैरलं कृताम् || ४ || नानातोरणसंयुक्तां नानापुष्पैरलंकृताम् | शालिभिस्थण्डिलं कृत्वा वेदिकायां विशेषतः || ५ || तण्डुलैश्च तिलैर्दर्भैः लाजपुष्पैरलं कृताम् | अधमत्रयलिंगानां एवं मण्टपमाचरेत् || ६ || शेषाणां लिंगदीर्घस्य वेदिकाविस्तृतं भवेत् | तेनैव त्रिगुणैर्व्यासं मण्टपस्य विशालकम् || ७ || प्. २५७) अन्यत्सर्वमलंकारं प्रागिवैव समाचरेत् | वेद्यूर्ध्वे शाययेल्लिंगं प्राक्शिरश्चोर्ध्ववक्त्रकम् || ८ || परितोऽष्ट घटान्न्यस्त्वा सकूर्चान्सापिधानकान् | ससूत्रान्नववस्त्राढ्यान् गन्धतोयेन पूरितान् || ९ || वासोपिधानान्हेमाढ्यान् लोकपालांश्च देशिकः | गन्धैः पुष्पैश्च धूपैश्च अर्चयेत्तु स्वनामतः || १० || लिंगमूलस्य वामे तु पिण्डिकां च निधापयेत् | रक्तेन शालिना वेष्ट्य लिंगपीठौ समर्चयेत् || ११ || वेदिकायास्ततस्त्वैन्द्रे कुण्डं वा स्थण्डिलं गुरुः | अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् || १२ || ब्रह्मवृक्षसमिद्भिस्तु होमं कृत्वा तु सद्यतः | आ वो राजेति मंत्रेण इदं विष्ण्विति मंत्रतः || १३ || ब्रह्मजज्ञानमंत्रेण पूजाहोमं समाचरेत् | चरुं हुत्वात्वघोरेण प्रत्येकाष्टशताहुतिः || १४ || रात्रौ प्रतिसरं बध्वा लिंगपीठौ द्विजोत्तम ! | स्वर्णरजतकार्पास सूत्रैर्वा हृदयेन तु || १५ || प्राग्वदग्निं समभ्यर्च्य स्विष्टं पूर्णाहुतिं चरेत् | एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके || १६ || देशिकश्च शुचिर्भूत्वा सकलीकृत विग्रहः | सितवस्त्रोत्तरीयाढ्यः सितमाल्यानुलेपनः || १७ || प्. २५८) सितयज्ञोपवीताढ्यः शिवद्विजकुलोद्भवः | स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रपवित्रधृत् || १८ || प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् | पायसं घृतसंयुक्तं शिरः स्थाने बलिं हरेत् || १९ || रक्तशालिं परित्यज्य गन्धाद्यैरर्चयेद्धृदा | रत्नेन तं लिखेल्लिंगं मध्ये सूत्रं तु पातयेत् || २० || मुखभागे तु मध्ये तु नालं कुर्यात्सलक्षणम् | लिंगमानेन मतिमान् सूत्रविस्तारमुच्यते || २१ || रुद्रभागोदयं ग्राह्य शिरसो वर्तनान्वितम् | वेदविंशच्छतांशं च कृत्वैकांशांगुलं स्तृतम् || २२ || तदंशं वसुधा भज्यं तदेकयव मुच्यते | उत्तमोत्तमलिंगानां सूत्रं पंचयवंतती || २३ || शेषाणामपि लिंगानां वर्धयेन्न तु ह्रासयेत् | अधमत्रयलिंगानां सूत्रतारं यवं भवेत् || २४ || सूत्रविस्तारमेवं स्याद् खातं चैव तु तत्समम् | लक्षणं शिरसि व्याधिः ललाटे मरणं भवेत् || २५ || नेत्रसूत्रे त्वपस्मारं आस्ये चान्नविनाशनम् | चिबुके बन्धुनाशं स्यात् कर्णे स्कन्धविनाशनम् || २६ || स्तनदेशे सुतं हन्ति तस्मादेशाद्विवर्जयेत् | शिरसा सहरुद्रांशं गुणभागविभाजिते || २७ || प्. २५९) एकांशमूर्ध्वके * * स्थानादूर्ध्वतदंशके | तदधस्थांशके विप्र लक्षणोद्धारमाचरेत् || २८ || पद्मस्य मुकुलाकारं यथायुक्ति यथाकृतिः | द्विजानामभिवृद्ध्यर्थं नृपाणां च जयावहम् || २९ || खड्गौ प्रत्यान्विताकारं कुञ्जराक्षमिवाकृतिः | शंखं चांकुशयोर्भेदान्नृपाणामभिवृद्धये || ३० || कराञ्जलि समाकारं गोकर्णाकृति वर्तुलम् | वैश्यानां तत्त्रिकोणं च शूलवृत्तायतं तथा || ३१ || शूद्रस्य वृद्धिकरं त्रीणि वैश्यानां तस्य लक्षणम् | लक्षणोद्धारणोक्तांशं रुद्रभागविभाजिते || ३२ || मुकुलोदयमेकांशं तद्व्यासं चापि तत्समम् | तन्मूलनालदीर्घं तु नवभागमुदाहृतम् || ३३ || तन्नालमेकसूत्रं वा सूत्रद्वित्रियुतं तु वा | सूत्रद्वित्रियुतं चेत्तु सूत्रान्तरं यवत्रयम् || ३४ || यवद्वयान्तरं वाथ नालतारं द्विजोत्तम ! | नालमूले च तस्याग्रे सीमासूत्रं समालिखेत् || ३५ || तन्नालं चैकसूत्रं चेत् लिंगमध्ये विशेषतः | सूत्रोक्त व्यासखातं च नालयामे तु कल्पयेत् || ३६ || नालाधस्तात्तु व्योमांशं त्यज्य विष्णुशिरोपरि | मणिरेखां ततः कुर्यान्मुकुलादास्फिगन्तकम् || ३७ || मणिरेखयोन्तरं पद्ममूले पद्मसमं तु वा | पद्मतार त्रिधैकं वा वेदांशेऽग्न्यंशमेव वा || ३८ || पंचांशे तु युगांशे वा पद्मतारार्धमेव वा | मुकुलमूलेन्तरं ह्येवं नालमूलेन्तरं शृणु || ३९ || नालायामसमं वार्धं त्रिपादं वा युगांशके | त्रिभागं पंचभागे तु वेदभागमथोपरि || ४० || नालमूले समे वेशमणिरेखाद्वयोन्तरम् | मूलादग्रं क्रमात्क्षीणं मणिरेखां ततः कुरु || ४१ || नालमूले समे तिर्यक् द्वा पृष्ठे तु सबन्धयेत् | मणिरेखाव्यासखातं लिंगस्योचितसूत्रवत् || ४२ || मणिरेखालम्बनालदीर्घ तुंगसमेव वा | तस्मात्तन्मूलपर्यन्तं वसुभागविभाजिते || ४३ || मणिरेखालम्बनं विप्र नवधा परिकीर्तितम् | सर्वेषु लक्षणोद्धारेष्वेवं वै मणिरेखके || ४४ || प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु | लक्षणोद्धारणांशं तु दशभागविभाजिते || ४५ || मुकुलोदयमेकांशं वस्वंशं नालदीर्घकम् | नालाधस्तात्तु व्योमांशं नीत्वा शेषं तु पूर्ववत् || ४६ || द्वितीयं लक्षणं ख्यातं तृतीयं लक्षणं शृणु | लक्षणोद्धारभागं तु धर्मभागविभाजिते || ४७ || प्. २६१) एकांशं मुकुलोत्तुंगं नवांशं नालदीर्घकम् | शेषं पूर्ववदुद्दिष्टं चतुर्थं लक्षणं शृणु || ४८ || लक्षणांशं तु नवधा भज्यैकांशं तु कुड्मलम् | सप्तांशं नालदीर्घं तु शेषं पूर्ववदेव हि || ४९ || चतुर्थं लक्षणं प्रोक्तं पंचमं लक्षणं शृणु | लक्षणांशं वसुधा भज्य व्योमांशं मुकुलोदयम् || ५० || षडंशं नालदीर्घं तु नालाधस्ताच्छिवांशकम् | तदेव सप्तभागं तु नालदीर्घमुदाहृतम् || ५१ || शेषं प्रागिव कर्तव्यं * * * * * * * * | * * * * * * * * सप्तमं लक्षणं शृणु || ५२ || लक्षणांशे तु सप्तांशे शश्यंशं मुकुलोदयम् | भूतांशं नालदीर्घं तु शेषं पूर्ववदेव हि || ५३ || षडंशं नालदीर्घं तु शेषं प्रागिव संख्यया | एवमष्टविधं ख्यातं नालायामं द्विजोत्तम ! || ५४ || अग्राकारेब्जमुकुलात् भानुसंख्यात्सुसुव्रतम् | यथेष्टनालकर्तव्यं वसुसंख्यासु मे द्विज || ५५ || अग्राकारे दृढसूत्रं प्रकर्तव्यं लिंगेषूक्त प्रमाणतः | स्थापयेत्तु ततो लिंगं प्रागुदग्रंदुरष्टके || ५६ || लक्षयेत्पिण्डिकावक्त्रं लिंगसौम्ये निधापयेत् | स्थापितैः कलशैः स्नाप्य लिंगपीठौ हृदा गुरुः || ५७ || प्. २६२) गव्यैर्गन्धोदकैः स्नाप्य गन्धपुष्पादिभिर्यजेत् | लम्बकूर्चसमायुक्तं सर्वालंकारशोभितम् || ५८ || रथे वा शिबिकायां वा ग्रामं कृत्वा प्रदक्षिणम् | आचार्यं शिल्पिनं पूज्य वस्त्र हेमांगुलीयकैः || ५९ || ततो जलाशयं प्राप्य जलाधीवासनं कुरु | लक्षणोद्धारमाख्यातं प्रतिमालक्षणं शृणु || ६० || इत्यंशुमान्काश्यपे लक्षणोद्धारविधिपटलः (चतुः पंचाशः) || ५४ || प्रतिमालक्षणं वक्ष्ये शृणुत्वैकाग्रमानसः | अचलं च चलं चैव चलाचलमिति त्रिधा || १ || मृण्मयं शर्करां चैव सौधजं च चलं स्मृतम् | शैलजं दारुजं चैव धातुजं रत्नजं तथा || २ || चलाचलमिति ख्यातं चलमेवं तु लोहजम् | अर्धचित्रं च चित्रं च चित्राभासमिति त्रिधा || ३ || अर्धांगदर्शनं बिम्बं अर्धचित्रमिति स्मृतम् | सर्वावयव दृष्टं यत् तच्चित्रं हि विधीयते || ४ || निम्नोन्नतविहीनेन पटभित्त्यादिकल्पना | अर्धचित्रं तु सुधया चान्यैश्चित्रवदर्धकम् || ५ || प्. २६३) आभासं धातुभिः कुर्यात् चित्रकर्मविधानतः | चित्रं चित्रार्धमाभासं फलं श्रेष्ठान्तराधमम् || ६ || इष्टकायाः पटं श्रेष्ठं पटादाभासकं वरम् | आभासादर्ध चित्रं तु तस्माद्वै मृण्मयं वरम् || ७ || मृण्मयाद्दारुजं श्रेष्ठं दारुजाच्छैलजं वरम् | शैलजाल्लोहजं श्रेष्ठं कर्तॄणां च फलं तथा || ८ || लोहजेषूत्तमं स्वर्णं मध्यमं रजतं भवेत् | ताम्रजं कन्यसं ख्यातं तेषु तेषु फलं तथा || ९ || बिम्बमानं च द्रव्यं च श्रेष्ठान्तराधमं भवेत् | सर्वद्रव्येषु दैवत्यं सममेवेति विद्यते || १० || समं चेद्दिव्यदेवेशं फलं श्रेष्ठादयं कथम् | ऊषरे सुन्धभूमौ च मार्दवे च महीतले || ११ || पृथगेकजातिवृक्षं तु स्थापने तु विशेषतः | फलस्थलानुसारेण यथालाभं तथा भजेत् || १२ || स्थलभेदेन वृक्षस्यं भेदमात्रं न विद्यते | तथा द्रव्यफलं तुल्यं द्रव्यभेदे फलप्रदम् || १३ || तस्मात्तेषु यथा लाभं द्रव्येण सकलं कुरु | यो नरः कृतवान्भूमौ पुत्रमित्रकलत्र युक् || १४ || यथेष्टविषयोपेतः शक्रादि विषयं सुखम् | न नश्यते ततो विप्र ! सालोद्यादि पदाश्रितम् || १५ || प्. २६४) मनसा कर्मणा वाचा यो नरः सहकारिणा | असौ वित्तानुसारेण कर्तृलब्धफलानुभाक् || १६ || तस्मादन्येन कर्तव्यं स कर्तुं शिवात्मकम् | सुखासनं तु प्रथमं उमा स्कन्दं द्वितीयकम् || १७ || तृतीयं चन्द्रमौलिं च चतुर्थं वृषवाहनम् | पंचमं नृत्तमूर्तिं च गंगाधरमतः परम् || १८ || सप्तमं त्रिपुरारिं च वैवाह्यं त्वष्ठमं तथा | नवमं चार्धनारिं च दशमं गजहारिणम् || १९ || ततो पाशुपतं विद्यात् कंकालं द्वादशं स्मृतम् | त्रयोदशं हरेरर्धं भिक्षाटनं चतुर्दश || २० || चण्डेश्वर प्रसादं तु पंचादशमुदाहृतम् | षोडशं दक्षिणामूर्तिं ततः कालारिमुच्यते || २१ || ततो वै लिंगमुद्भूतं मूर्तिरष्टादशा भवेत् | सर्वासां प्रतिमानां तु मानमादौ वदाम्यहम् || २२ || सर्वेषामपि लिंगानां शिरोमानं विनोदयम् | गृहीतं विद्यमानेषु अन्येषु शिरसा सह || २३ || स्थूलदेशे परीणाहं विस्तारं चैव तत्रैव | पूजांश द्विगुणं ग्राह्य द्वात्रिंशद्विभजेत्समम् || २४ || तेषु वै सप्तविंशांशं पंचविंशांशमेव वा | त्रिभागाधिकविंशच्च एकविंशतिरेव वा || २५ || प्. २६५) एकोन विंशदंशं वा षोडशं वा त्रयोदश | रुद्रांशं नन्दभागं वा सप्तांशं पंच एव वा || २६ || अथवा रुद्रभागोच्चं नवभागविभाजिते | तेष्वेकांशं समारभ्य एकैकांश विवर्धनात् || २७ || यावद्वै सप्तविंशांशं तावद्वै सप्तविंशतिः | रुद्रांशोच्चे तु बिम्बोच्चं साष्टत्रिंशति भेदकम् || २८ || तथैव लिंगतारे च लिंगनाहे च कल्पयेत् | लिंगे बिम्बोच्च भेदं तु मन्वाधिकशतं भवेत् || २९ || गर्भगेहं तदाद्यं तु भागे नन्दविधोन्नतम् | अथवा गर्भगेहं तु त्रिन्नवांशविभाजिते || ३० || सप्तविंशतिमानं स्युरेकादेकांशवर्धनात् | अथवा गर्भगेहं तु द्विनवांशं विभाजिते || ३१ || एकांशदेकवृद्ध्या तु बिम्बमष्टादशान्वितम् | शुद्धद्वारस्य चोत्सेधं चतुर्भागविभाजिते || ३२ || पंचांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् | अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानकम् || ३३ || अधमोत्तमयोर्मध्ये वसुभागविभाजिते | नवधा स गलोत्तुंगं द्वारमाने विधीयते || ३४ || अथवा द्वारतुंगं तु सप्तविंशति भाजिते | एकैकांशविहीनेन बिम्बोच्चं सप्तविंशतिः || ३५ || प्. २६६) एवं हि द्वारमानेन षट्त्रिंशत्कौतुकोदयम् | तथाधिष्ठानमाने च स्तम्भमानविभाजिते || ३६ || सद्मबाह्यस्य विस्तारे हस्ते चैव प्रकल्पयेत् | एकादिनवहस्तान्तं नवधा हस्तमानकम् || ३७ || तलादि नवतालान्तं तथा नवविधं भवेत् | कर्तुश्च हृदयान्तं वा स्तनान्तं बाहुसीमकम् || ३८ || हन्वन्तं चास्य सीमान्तं नेत्र सूत्रावसानकम् | कर्तुश्चोदयतुल्यं वा यजमानवशादिमे || ३९ || अथवा कर्तृतुंगं तु नवभागविभाजिते | एकैकांशविहीनेन नवधा सकलोदयम् || ४० || चतुर्विंशच्छतं भागं पूजांशं तु विभाजिते | एकांशमंगुलं ख्यातं मूललिंगांगुलान्वितम् || ४१ || मानांगुलं पुराप्रोक्तं नव प्रासादमानके | कर्तुर्दक्षिणहस्ते तु मध्यमांगुलिमध्यमे || ४२ || पर्वदीर्घं तु तारं वा मात्रांगुलविधिः स्मृतः | सप्तांगुलं समारभ्य द्विद्व्यंगुलविवर्धनात् || ४३ || त्रयोविंशतिकं यावत् शतान्तत्रिभिरंगुलैः | बिम्बमानं तु कर्तव्यं मानौ द्वाभ्यां परार्थकम् || ४४ || गृहे त्वात्मार्थ बिम्बानां मानं मात्रांगुलेन तु | कर्तव्यमन्यथा चेत्तु कर्तव्ये कर्तृनाशनम् || ४५ || प्. २६७) अंगुलैनिर्मितं बिम्बं सर्वजात्यर्हकं शुभम् | अंगुलें गुलसंख्याभिशायादीषच्छुभेक्षणम् || ४६ || त्रिष्वंगुलि प्रमाणेषु जात्यंशं च न रोपयेत् | अंगुलादन्यद्यन्मानं वेदाशीति विभज्य च || ४७ || एकांशं रोपयेत्तस्मात् जात्यंशं तद्द्विजादिभम् | द्विभागाधिकषष्ट्यंशं भज्यैकांशसमन्वितम् || ४८ || नृपजात्यंशकं ह्येवं नृपाणामृद्धिकारणम् | चतुर्विंशति भागं तु कृत्वैकांशसमन्वितम् || ४९ || वैश्यजात्यंशकं ख्यातं वैश्यानामभिवृद्धिदम् | षोडशांशेंशमारोप्य शूद्र-ऋद्धिकरं भवेत् || ५० || एवं जात्यंशसंयुक्तं अंशमष्टगुणीकृतम् | सप्तविंशतिभिर्ह्रासे शेषमश्वादिमं भवेत् || ५१ || तद्दिनं जाति ऋक्षं स्यान्नृपवास्तुदिनान्वितम् | सुशोभनेन युक्तं चेत् कर्तृवास्तु नृपादिनाम् || ५२ || त्रिंशाद्या शतभागान्तं बिम्बोच्चं तु विभाजिते | शश्यंशं रोपयेद्यावत् शुभायादीनि संभवम् || ५३ || तन्मानं कौतुकोच्चं स्यात्पादादुष्णीषकावधि | आयांशकमिदं ख्यातं चैकांशायादिकल्पयेत् || ५४ || अष्टाभिर्वर्धयेद्यंशं भानुभिर्ह्रासयेद्द्विज ! | शेषमायमिति ख्यातं अंशमष्टगुणीकृतम् || ५५ || प्. २६८) सप्तविंशतिभिर्ह्रासे शेषमश्वादिभं भवेत् | नवभिर्गुणिते त्वंशं नाडिभिर्ह्रासयेत्ततः || ५६ || सेषं व्ययमिति ख्यातं अंशं वै त्वनलेन तु | वर्धयेद्वसुभिर्ह्रासे शेषं ध्वजादयो भवेत् || ५७ || नवभिर्वर्धयेत्त्वंशं सप्तभिर्ह्रासवारकम् | वर्धयेद्वेदसंख्या तु ह्रासयेन्नवसंख्यया || ५८ || शेषमंशकमित्युक्तं एवमायादिषड्भवेत् | आयाधिक्यं व्ययं क्षीणं पुष्कलायं सुशोभनम् || ५९ || ध्वजधूमश्च सिंहश्च श्वावृषोखरहस्तिकाकयः | योनयश्चाष्ट ते तेषु तेषु केतुहरी वृषम् || ६० || गजश्च शुभदा ज्ञेया गर्हिताः शेषयोनयः | विपत्तिः प्रत्यरं चैव वर्ज्यं वैनाशिकं तथा || ६१ || षष्ठाष्ट द्वादशं लग्नं वर्ज्यं शेषाः शुभावहाः | कर्तुश्च ग्रामनक्षत्रात् नृपवास्तुदिनं तथा || ६२ || गणयेद्बिम्ब-ऋक्षान्तं शोभनं तु परिग्रहेत् | वारं सूर्यादि संख्या तु भौमवारं विवर्जयेत् || ६३ || सूर्यारवारसौरिश्च मध्यमं च इति स्मृतम् | भानु वारादि संयुक्तं विशाखादि चतुश्चतुः || ६४ || योगं तु मरणं नाशं अमृतं च यथा क्रमम् | तस्करं भुक्तिशक्तिश्च धन्यं राजं च षण्डकम् || ६५ || प्. २६९) अभयं रथनं प्रेष्य नवांशकमुदाहृतम् | तेषु तस्कर षण्डं च ऋणं चैव तु वर्जयेत् || ६६ || गणेषु सुरमानुष्यं योगमात्र विवर्जयेत् | एवं परीक्ष्य शोभाढ्यं आयामं तु सुयोजयेत् || ६७ || चातुर्वर्णाभिवृध्यर्थं जात्यंशकं प्रयोजयेत् | तस्मादुभयभागोऽपि प्रशस्ता वेशकाण्डपा || ६८ || इत्यंशुमान्काश्यपे प्रतिमालक्षणपटलः (पंचपंचाशः) || ५५ || उत्तमं दशतालादि लक्षणं वक्ष्यतेऽधुना | मृण्मयं चेत्तु बिम्बं वै शूलस्थापनमाचरेत् || १ || शैलजा प्रतिमा चेत्तु शिलाग्रहणं लिंगवत् | लोहजं सकलं चेत्तु मधूच्छिष्ठेन निर्मितम् || २ || स्थण्डिलं शालिभिः कुर्यादालयाग्रे तु मण्टपे | कुशाशयं तु संकल्प्य दर्भैः पुष्पैः परिस्तरेत् || ३ || तदूर्ध्वे फलकं न्यस्त्वा दारुजं प्राग्दिशाग्रकम् | आचार्यः शिल्पकर्ता च शुद्धमानं परिग्रहेत् || ४ || तन्मान सेवितांगानि त्वथ नैव तु कारयेत् | प्राक्शिरश्चोर्ध्व वक्त्रं तु फलकायां निधापयेत् || ५ || प्. २७०) गन्धैः पुष्पैश्च धूपैश्च दीपैश्चाभ्यर्च्य देशिकः | तस्य दक्षिण पार्श्वे तु शिवाग्निं तु प्रकल्पयेत् || ६ || समिदाज्यैश्च चरुभिः हृदाचाष्टशताहुतिः | द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः || ७ || ध्यात्वा बिम्बा कृति त्वग्नि मध्ये मूलमुदाहरेत् | आत्मना निजतद्रूपं हृदयं मन्त्रमुच्चरन् || ८ || * * * * * * * * न दर्शयेदंगात् क्रमात् | अंगुष्ठाग्रं तु पार्ष्ण्यन्ततलं सप्तदशांगुलम् || ९ || हिक्कासूत्रादधो बाहुदीर्घं ऋक्षांगुलं भवेत् | कोर्परोच्चं द्विमात्रं स्यात् एकविंशत्प्रकोष्ठकम् || १० || सार्धत्रयोदशं तस्मात् मध्यांगुलाग्र सीमयुक् | ततो वै मुखविस्तारं सार्धभान्वंगुलं भवेत् || ११ || मुखान्तस्य तु विस्तारं सार्धत्रयोदशांगुलम् | ग्रिवाग्रं सार्धनन्दांशं ग्रीवामूलं दशांगुलम् || १२ || हिक्काधो बाहुसीमान्त चत्वारिंशच्छिवाधिकम् | सार्धद्वाविंशदंशं तु कक्षयोरन्तरस्ततम् || १३ || नवांशं चतुर्यवोपेतं बाहुमूलविशालकम् | एकविंशति भागं स्यात् स्तनदेशे तु विस्तरम् || १४ || हृदयावधिविस्तारं एकोनविंशदंशुलम् | कलांशं चतुर्यवोपेतं मध्यव्यासमुदाहृतम् || १५ || प्. २७१) एकोन विंशदंशं तु श्रोणी तारमुदाहृतम् | कटिरग्रविशालं तु त्रिनवांगुलमुच्यते || १६ || तदधः कटिपार्श्वान्तं विस्तारार्धांश विंशतिः | पादोनमनुभागं तु ऊरुमूलविशालकम् || १७ || सपाद * * भागं तु ऊरुमध्यविशालकम् | पादोन धर्मभागं तु जातु व्यासमुदाहृतम् || १८ || स पादवसुभागं तु जंघामूलविशालकम् | पादोन सप्तभागं तु जंघामध्यविशालकम् || १९ || तयोर्मध्य ततं विप्रवस्सभागमुदाहृतम् | पादोन पक्षभागं तु नलकाविस्तृतं भवेत् || २० || त्रियवाधिकपंचांशं गुल्फव्यासमुदाहृते | अक्षादातवतुंगं तु सार्धवेदांगुलं भवेत् || २१ || पार्ष्णितारं चितत्तुल्यं पार्ष्ण्योरुच्चं तदेव हि | तलमध्यं षडंशं स्यात् यवद्वयसमायुतम् || २२ || दलाग्रविस्तृतं सप्तभागमित्यभिधीयते | द्वियवाधिकवेदांशं पादांगुष्ठायतं भवेत् || २३ || यवोपेतद्वयांशं तु तस्य विस्तारमुच्यते | तारार्धघनविस्तारं पादोनायतवर्तुलम् || २४ || त्रयवोपेत वेदांशं तर्जन्यायाममुच्यते | पादोन वेदभागं तु मध्यांगुलायतं भवेत् || २५ || प्. २७२) यवोपेताग्निभागं तु अनामिकायाममिष्यते | सार्धपक्षांशमानं तु कनिष्ठांगुलि दीर्घकम् || २६ || प्रादेशिन्यादिक्रमात्तारं नवसप्तार्थ सप्तषट् | यवमानं स्वतारार्धं नखं पूर्वोक्तवद्विदुः || २७ || तत्तदंगुलि विस्तारं वेदांशं विभजेद्बुधः | त्रिभागमंगुलाग्रोच्चं शेषं स्यात्तु नखोदयम् || २८ || त्रियवाधिकवस्वंशं बाहुमध्यविशालकम् | स पादसप्तभागं तु कोर्परव्यासमुच्यते || २९ || पादोन रसभागं तु प्रोकोष्ठं मध्यविस्तृतम् | पादोन चतुरंशं तु मणिबन्ध विशालकम् || ३० || सप्तांशं तु तलायामं सार्धषण्मध्यमांगुलम् | स पादभूतभागस्यानामिकायामयुच्यते || ३१ || यवाधिकं तु पंचांशं तर्जन्यायाममुच्यते | स पादवेदभागं तु दीर्घांगुष्ठ कनिष्ठयोः || ३२ || अंगुष्ठमूलविस्तारं रुद्रायवमुदाहृतम् | तर्जन्याष्ट यवा ख्यातं नवयवाख्यमध्यमम् || ३३ || अनामिकाष्टयवा ख्याता कनिष्ठा सप्तसंख्यया | अंगुष्ठाद्यंगुलान्तं तु मूलविस्तारमेव हि || ३४ || तन्मूलं तु कलेशांशं हीनमग्रविशालकम् | अग्रतारं रसांशे तु पंचांशं नखविस्तृतम् || ३५ || प्. २७३) पार्श्वयोर्मांसलं शेषं वृत्तायतनखाकृतिः | स पादनखतारं तु नखयाममुदाहृतम् || ३६ || नखायामद्वयं चाग्रपर्वदीर्घं प्रशस्यते | अंगुष्ठं मूलपर्वस्य दीर्घं सप्तदशायवम् || ३७ || तर्जनीमूलपर्वं तु अनामिकोच्चद्वयांगुलम् | मध्यमामूलपर्वस्य दीर्घमष्टादशा यवाः || ३८ || कनिष्ठमूलपर्वस्य त्रयोदशयवाः स्मृताः | मूलाग्रपर्वयोर्मध्य दीर्घमध्यस्थ पर्वसु || ३९ || अंगुष्ठं तु द्विपर्वस्या शेषा त्रिपर्वसंयुतः | सार्धभूतांगुलं विप्रतलाग्रं विप्रलंभवेत् || ४० || रसांशमध्यविस्तारं हस्तस्यैव तलस्य तु | तलमूलविशालं तु सार्धषड्भागमुच्यते || ४१ || अंगुष्ठमूलमारभ्य तर्जनीमूलमन्तकम् | अंगुष्ठमूलमारभ्य मणिबन्धावसानकम् || ४२ || दीर्घं वेदांगुलं प्रोक्तं तदर्धांशं घनं भवेत् | पार्ष्णिहस्तवनाग्न्यंशं अग्रमंगुष्ठवत्क्षयम् || ४३ || अंगुल्यानामधस्तात्तु सार्धांशं मांसलं ततम् | द्विभागं पार्ष्णिहस्तस्य शुकोदरविशालकम् || ४४ || शेषमध्यतलं निम्नं भूतवेदाग्नि वा * *? | सूक्ष्मरेखां लिखेत्तस्मिन्शंखं वा चक्रशूलकम् || ४५ || प्. २७४) पद्माभं वा तलं रेखां * * * * प्रकल्पयेत् | यवाकैकर्तुनिम्नं स्यात् रेखानां तु द्विजोत्तम ! || ४६ || वृत्ता पेक्षितांगेषु व्यासं पंचविभाजिते | एकांशं तु परिग्राह्य विस्तारं द्विगुणायतम् || ४७ || यत्ततोहमिदं ख्यातं नाहं तेनैव कल्पितम् | कर्णोर्ध्वे शिरसा नाहं सास्त्रिंशांगुलं भवेत् || ४८ || कर्णोर्ध्वे त्वपरे भागे द्वादशं चांगुलं भवेत् | कर्णोर्ध्वे पूर्वभागं तु द्वाविंशांगुलकं भवेत् || ४९ || कर्णयोः पृष्ठनाहं तु भान्वंगुलमुदाहृतम् | तयोर्मध्यस्थ भागं तु कर्णयोरन्तरस्थितिः || ५० || शिरसो मध्यमान्मूर्ध्नि मण्डलं चतुरंगुलम् | गुडाग्रकेशान्तं सार्धनवांगुलमुदाहृतम् || ५१ || तदेव मण्डलात्कण्ठकेशान्तं च नवांगुलम् | मण्डलात्पृष्ठकेशान्तं सार्धधर्मांगुलं भवेत् || ५२ || ललाटे तिर्यजानां तु नवांगुल मुदाहृतम् | केशान्ता दक्षिसूत्रं स्यात् द्वयोर्मध्ये भ्रुवः स्थितिः || ५३ || भ्रुवाग्रौ तून्नतौ चैव चापाकारं यथा कुरु | द्व्यन्तरं तु भ्रुवोर्विप्र सार्धवेदयवं भवेत् || ५४ || पंचांगुलं भ्रुवायामं मध्यतारं यवद्वयम् | बालचन्द्राग्रवत्क्षीणं भ्रुवाग्रौ तस्य मध्यमम् || ५५ || प्. २७५) कनीनिकायामविस्तारं यवमानमुदाहृतम् | कृष्णमण्डलविस्तारं चोत्सेधं षड्यवं भवेत् || ५६ || सितान्तं तत्समं व्यासं कृष्णमण्डलपार्श्वयोः | शबराकृतिकं वापि धनुराकृतिरेव वा || ५७ || अर्धचन्द्राकृतिर्वाथ नेत्राकारं प्रकल्पयेत् | तदाकारानुकूलोच्चं सितमण्डलयोर्द्विज ! || ५८ || नेत्रान्तेऽर्धयवं रक्तं मण्डलं तु सितांशकम् | * * * कृष्ण मध्ये तु जोतिर्मण्डलकं यवम् || ५९ || तदष्टांशैकभागं तु तन्मध्ये दृष्टिमण्डलम् | तत्सार्धयवमानं तु ऊर्ध्ववर्मततं भवेत् || ६० || अधोवर्म च तत्तुल्यं दीर्घमष्टादशा यवम् | नेत्रयोरन्तरं विप्र ! स पादद्व्यंगुलं भवेत् || ६१ || अधोवर्मस्थितिर्विप्र ! नेत्रस्य तु विधीयते | कर्तुर्नाशमथोदृष्टिः ऊर्ध्वदृष्टिर्विपत्करम् || ६२ || बन्धुनाशो भवेत्पार्श्व दृष्टिश्चेद् ग्रामवासिनाम् | तस्मात्सर्व प्रयत्नेन सममेव निरीक्षणम् || ६३ || नेत्रमेवं समाख्यातं नासिका लक्षणं पुनः | नासिकापुट बाह्ये तु तारमष्टा दशायवम् || ६४ || तदर्धमग्रविस्तारं तस्यार्धं मूलविस्तृतम् | गोजिमूलात्तु नास्यग्रं तुंगं तद्द्व्यंगुलं भवेत् || ६५ || प्. २७६) पुटयोर्मध्यभित्तिस्तु पुष्करं चेति विद्यते | अध्यर्धयवमालम्ब्य नासाग्रं पुटसूत्रतः || ६६ || सार्धवेदयवं गोजिदीर्घं तस्यार्धविस्तृतम् | उत्तरोष्ठस्योर्ध्वनिम्न गोजिनाम्ना प्रशंसितम् || ६७ || यवमानं ततं गोजि कृत्वैव नासिकां द्विज ! | स पाद चतुरंशं तु आस्यादीर्घं तिर्यग्विदुः || ६८ || उत्तरोष्ठायतं चास्यादीर्घं तुलमुदाहृतम् | उत्तरोष्ठस्य मध्ये तु तारं सार्धत्रयं यवम् || ६९ || आवृष्ठ्या कृतशांतारं आस्य सीमावसानकम् | यवमानघनं पली उत्तरोष्ठस्य चोपरि || ७० || त्रिवक्रे चोत्तरा पाली ततोष्ठ सदृशायताः | अष्टादशयवा प्रोक्ता अधरोष्ठस्य दीर्घकम् || ७१ || यवाधिकांगुलं तस्य विस्तारं द्विजसत्तम ! | अधरं पालिका सार्ध यवमानमथोच्यते || ७२ || चिबुकादधरोच्चं तु सार्धषड्यवमुच्यते | किंचित्प्रहसिताकारं आस्य युक्तानुकारयेत् || ७३ || अधराच्चिबुकालम्बं सार्धपक्षांगुलं भवेत् | चिबुकात्तु हनोर्वंशं सार्धाष्टयवमुच्यते || ७४ || सार्धद्व्यंगुलकां तस्य तारमायतवृत्तवत् | हनोः सन्ध्यैकर्णबन्धान्तं त्वन्तरं द्वादशांगुलम् || ७५ || प्. २७७) हरोर्बाह्यं समारभ्य पादोन युगमात्रकम् | कर्णवेशमिति ख्यातं ततः कर्णं वदामिते || ७६ || नेत्रान्तात्कर्णबाह्यान्तं द्व्यन्तरं सप्तमात्रकम् | कर्णस्य तु विशालं तु अष्टादश यवाः स्मृताः || ७७ || अक्षिसूत्रोर्ध्वतः कर्णतुंगं चाष्टादशं यवम् | तदर्धं चोर्ध्वबन्धा तु शेषं वृत्तममूर्ध्वतः || ७८ || नेत्रसूत्रादधः कर्णबन्धं सप्तदशा यवा | सार्धवेदांगुलं तस्मात् तस्य नालं प्रलम्बयेत् || ७९ || पूर्वाल ततं व्योमभागं सार्धांशका परम् | नालयोर्व्यासमाख्यातं घनमर्धांगुलं तयोः || ८० || नालान्तरं त्रिपादं च वेदांशं व्रततायतम् | कर्णतुंगमशेषं तु यवैकोन नवांगुलम् || ८१ || पिप्पली घनमर्धांशं दिगुणं हिततायतम् | उत्सेधं सार्धमात्रं स्यात् मूलादग्रं क्षयानुगम् || ८२ || द्विभागं पिबुषी दीर्घं द्वियवार्धांश विस्तृतम् | अक्षसूत्रादयः कर्णद्वारमर्धांगुलं भवेत् || ८३ || कर्णद्वारंतती निम्नं सममेव हि वर्तुलम् | कर्णपालीघनं सार्धयवनीवं चतुर्यवम् || ८४ || पृष्ठकर्णस्य विस्तारं अध्यर्धांगुलमुदाहृतम् | केशान्तात् पृष्ठकर्णं तु द्व्यन्तं द्व्यर्धमात्रकम् || ८५ || प्. २७८) पृष्ठकेशावसाने तु कृकार्धांशकं नतम् | तस्याधः पृष्ठदीर्घोच्चं युगांशं त्रियवाधिकम् || ८६ || कृकाटिकादयः पृष्ठग्रिवाग्रं तु नवांगुलम् | पृष्ठग्रीवस्य मूलस्य तारं सार्धदशांगुलम् || ८७ || मूलादग्रं क्रमात्क्षीणं ग्रीवं वृत्तांगमुच्यते | हिक्कासूत्रोपरि स्कन्धसंधीतुंगं युगांगुलम् || ८८ || कर्णबन्धादयस्सार्ध षण्मात्रं स्कन्धसीमकम् | सप्तांगुलघनं स्कन्धं हिक्कावधि क्रमात्क्षयम् || ८९ || पृष्ठग्रीवादधस्तात्तु ककुन्मानं दशांगुलम् | तस्मादा कटिसंधान्त वशमृक्षांशमायतम् || ९० || तद्वशं नत विस्तारं सार्धषोडशकं यवम् | वंशमानादधस्तात्तु वंशमूलं गुणांगुलम् || ९१ || अपरे तुंगमेवं स्यात् तस्मिन्व्यासं वदामि ते | सार्ध ऋक्षांगुलं प्रोक्तं कक्षयोरन्तरं द्विज ! || ९२ || कक्षाधोहंसफलकातुंगं सप्तांगुलं भवेत् | कक्षोर्ध्वे बाहुसीमान्तं सप्तांगुलमुदाहृतम् || ९३ || सार्धषोडशमात्रं तु मध्यव्यासमुदाहृतम् | नाभिसूत्रे तु विस्तारं सार्धविंशांगुलं भवेत् || ९४ || कटिसन्धौ तु विस्तारं त्रिषडंशमुदाहृतम् | पादोन धर्मभागं तु स्फिक् पिण्डं प्रतिविस्तृतम् || ९५ || प्. २७९) सुत्तौ तौ समाख्यातौ तयोर्मध्ये चतुर्यवम् | अपरे तारमेवोक्तं पार्श्वव्यासमथोच्यते || ९६ || कक्षस्याग्रविशालं तु सप्तमात्रमुदाहृतम् | स पादषोडशमात्रं स्यात् स्तन सूत्रे तु विस्तृतम् || ९७ || स वेदद्वादशांशं तु मध्यपार्श्वघनं भवेत् | श्रोणी मध्यघनं पार्श्वे सप्तदशांगुलं भवेत् || ९८ || ततः श्रोण्युदयं विप्र ! सप्तमात्रमुदाहृतम् | नाभिसूत्रादधश्चोर्ध्वे चतुर्थं त्र्यंगुलं हि तत् || ९९ || श्रोण्यधस्तात् कटेरुच्चं सार्धभूतांगुलं भवेत् | तत्कटेस्तु घनं धीमान् सार्धभान्वंगुलं भवेत् || १०० || स्फिक् पिण्डं चोरुमूलात्तु नीव्रं सार्धयुगांगुलम् | तत्पिण्डालम्बनं चार्ध सूत्रान्दाधोगांगुलम् || १०१ || श्रोण्यधस्तात्कटे रुच्चं सार्धसूत्रादधोयुगांगुलम् | कक्षाग्रधरनिम्नं तु सार्धद्व्यंगुलकं भवेत् || १०२ || ग्रीवा सुवृत्ति नाहं तु रेखा द्वौ परिवेष्टितम् | कर्णमूलेन तत्तारं तुंगं चैव चतुर्यवम् || १०३ || हिक्काया स्वाक्षमात्रं तु जर्तृसूत्रमुदाहृतम् | हिक्कामध्यात्तु कक्षान्तं भान्वंशात्पादहीनकम् || १०४ || हिक्कादास्तनसूत्रान्तं स्तनान्तरसमं भवेत् | हृदायस्तनयोर्मध्ये निम्नमध्यर्धमात्रकम् || १०५ || प्. २८०) तिलं वै कर्णमध्ये तु यवत्रयप्रमाणकम् | तस्यार्धं वा समावृत्तं कल्पयेत्तु त्रिपुण्ड्यवत् || १०६ || कर्णमूले नतं हिक्कासूत्राधस्तात्प्रकल्पयेत् | हिक्कासूत्रोपरिष्ठात्तु नीलकर्णं प्रकल्पयेत् || १०७ || हृदयास्तन पीठोच्चं द्व्यंगुलं समुदाहृतम् | सप्तादशयवा ख्यातं स्तनमण्डलविस्तृतम् || १०८ || तन्मध्ये चूचुकोच्चं तु व्यासं चैव यवद्वयम् | नाभेस्तु नतविस्तारं व्योमांशं द्वियवाधिकम् || १०९ || तन्नाभिदक्षिणावर्तं मूलतारं यवद्वयम् | तन्नाभ्यवटमध्यस्थं नाभिसूत्रं द्विजोत्तम ! || ११० || नाभेरथ पादेन श्रोण्युच्चं पंचमात्रकम् | तदधस्तात्कटिश्रोणी सार्धत्र्यंगुलकं भवेत् || १११ || तस्मादामेढ्रमूलान्तं मेढ्रपीठं युगांगुलम् | स पादपंचमात्रं तु लिंगदीर्घमुदाहृतम् || ११२ || लिंगमूलविशालं तु सप्तादशयवा तता | लिंगायामत्रिभागैकमग्र मण्ड्या यवं भवेत् || ११३ || तदग्रग्रन्थि(गण्डि ?)मूलं तु यवमानं बृहत्तरम् | रक्तोत्पलमुकुलाभं अग्रमण्ड्याग्रमुच्यते || ११४ || मुष्कायामविशालं तु सार्धवेदांगुलं भवेत् | घनं सार्धगुणांशं तु तन्मूलोर्ध्वोऽग्रबन्धनम् || ११५ || प्. २८१) मेढ्रपीठसमूलस्य व्यासं सप्तार्धमात्रकम् | मेढ्रपीठस्य मूलान्तं ऊरुमूलस्य मांसलम् || ११६ || जानुमण्डलविस्तारं स पादं चतुरंगुलम् | सार्धत्र्यंगुलकं प्रोक्तं जानुमण्डलनीव्रकम् || ११७ || सार्धद्व्यंगुलकं प्रोक्तं पृष्ठजान्वोन्नतं भवेत् | मध्ये तु पाश्वयोः शेषं यथा सौन्दर्यमाचरेत् || ११८ || इत्यंशुमान्काश्यपे उत्तमदशतालविधिपटलः (षट्पंचाशः) || ५६ || मध्यमं दशतालेन स्त्रीमानमथ वक्ष्यते | उमासरस्वतीदुर्गा उषा भूषिश्च मातरः || १ || लक्ष्मीं ज्येष्ठां च अनेन विधिना कुरु | ईशो ब्रह्मा तथा विष्णुशक्तिरित्यभिधीयते || २ || तेषामनुगुणं मानं तत्तच्छक्तेस्तु मानकम् | शंभोर्नासाग्रसीमान्तं शक्त्युच्चं ह्युत्तमोत्तमम् || ३ || शंभोर्वास्तनसीमान्तं अधमाधममुच्यते | तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् || ४ || शंभोर्हिक्कान्तमुत्कृष्टं स्तनान्तमधमाधमम् | तयोर्मध्येऽष्टभागे तु नवधा शक्तिमानकम् || ५ || प्. २८२) एवमष्टादशोत्सेधं पादादुष्णीषसीमकम् | तस्माज्जात्यंशमायांशं योजयेत्क्रममिच्छताम् || ६ || त्रिभंगासनमूर्तीनां अन्याभिधानमूर्तिनाम् | देव्युच्चं समपादस्य स्थानकं स्यैव युक्तितः || ७ || दुर्गा ज्येष्ठा च लक्ष्मी च मातरश्च विशेषतः | मानकल्पे तु लिंगानां मानैः संकल्प्य देशिकः || ८ || मूललिंगस्य गौरी तु लिंगमानेन कल्पयेत् | स विंशतिशतं भागं स्त्रीमाने तु विभाजिते || ९ || एकांशमंगुलं ख्यातं तदष्टांशं यवं भवेत् | तदंगुलैर्यवैश्चैव चांगमानं प्रमीयते || १० || उमादीनां तु देवीनां * * मेवांगुलं यवम् | उष्णीषोदयमेकांशं केशान्तं तु गुणांगुलम् || ११ || केशान्तादक्षिसूत्रान्तं स त्रिपाद युगांशकम् | अक्षिसूत्रात्पुटान्तं तु सार्धवेदांगुलं भवेत् || १२ || नासापुटात्तु हन्वन्तं स त्रिपादगुणांगुलम् | तस्याधः कण्ठमानं तु चतुर्भागमुदाहृतम् || १३ || हिक्काच्च हृदयान्तं च हृदयान्नाभि सीमकम् | नाभ्याश्च योनिपर्यन्तं समं त्रयोदशांगुलम् || १४ || ऊरुदीर्घं तु षड्विंशत् जानुमानं युगांगुलम् | ऊरुदीर्घ समं जंघा दीर्घं पादतलं युगम् || १५ || प्. २८३) कलांशं पादतलायामं पार्ष्ण्या गुष्ठाग्रसीमकम् | तर्जन्यांगुष्ठयोर्दीर्घं चतुर्भागमुदाहृतम् || १६ || सार्धत्रिभागमं मध्यं त्रिभागं तु दनामिकम् | सार्धद्विभागमानं तु कनिष्ठांगुलिदीर्घकम् || १७ || द्विरष्टौ सार्धसप्तांशं पातालरसभिर्यवैः | अंगुष्ठादि कनिष्ठान्तं चरणांगुलि विस्तृतम् || १८ || त्रिद्व्यंशं तु नखव्यासं पादोनायत वर्तुलम् | अंगुलीनां मुखोच्चं तु नखव्याससमं भवेत् || १९ || पादं तलाग्रविस्तारं षण्मात्रमिति विद्यते | मध्ये पंचांगुलं पार्ष्णिः विस्तारं चतुरंगुलम् || २० || अक्षिगुल्फान्तविस्तारं पंचभागं विधीयते | नलकाततियेदांशं जंघामध्यं रसांगुलम् || २१ || जानुव्यासं तु सप्तांशं भान्वंशं ह्यूरुमूलकम् | भानुद्विगुणभागं तु विस्तारं कटिसंधयोः || २२ || योनिपीठविशालं तु सप्तांगुलमुदाहृतम् | योनितारं चतुर्भागं अधोगाश्वत्थपत्रवत् || २३ || विस्तारसदृशोत्सेधं योनिं कुर्यात्समांसलम् | श्रोणि स्थाने तु विस्तारं स यवं विंशदंगुलम् || २४ || नाभेश्च निम्नविस्तारं षड्यवं परिकीर्तितम् | मध्यमस्य विशालं तु रुद्रांगुलमुदाहृतम् || २५ || प्. २८४) स्तनाधस्तात्तु विस्तारं सार्धत्रयोदशांगुलम् | स्तनतारं नवांशं स्यात् गुणांशं स्तन चूचुकम् || २६ || स्तनोच्चं सार्धवेदांशं अक्षं मध्यांगुलोन्नतम् | स्तनाक्षं च स्तनं चैव वृत्तं कृत्वाति सुन्दरम् || २७ || स्तनान्तरं यवाष्टांशं छन्नवीरं तु तत्र वै | कक्षयोरन्तरं विप्र सप्तादशांगुलं स्मृतम् || २८ || बाहुपर्यन्तविस्तारं एकत्रिंशांगुलं भवेत् | हिक्कासूत्रादधो बाहुदीर्घं षड्विंशदंगुलम् || २९ || कोर्परोच्चं द्विभागं स्यात् प्रकोष्ठं द्विनवांगुलम् | मणिबन्धात्तलायामं सप्तांगुलमुदाहृतम् || ३० || तस्मान्मध्यांगुलं षड्भिः पंचांशे तर्जनी भवेत् | अनामिका तर्जनीतुल्यं भागांगुष्ठकनिष्ठयोः || ३१ || अंगुलीनां तु दैर्घ्यं वा हस्तयोरुभयोरपि | नवसप्ताष्टसप्तं तु यवांगुष्ठादि विस्तृतम् || ३२ || तत्षडंशे चतुर्भागं नखतारमिहोच्यते | यवद्वयाधिकं तारात् नखायामं तु तीक्षणवत् || ३३ || हस्तस्य तलविस्तारं पंचांगुलं विधीयते | मणिबन्धविशालाग्नि भूतांशं कोर्परस्य तु || ३४ || षडंशं बाहुमध्ये तु सप्तांशं बाहुमूलके | तस्मात्तन्मणिबन्धान्तं तरुणं वेणुवत्कृशम् || ३५ || प्. २८५) हस्तविस्तारमेवं स्यात् सप्तांशं ग्रीवविस्तृतम् | अग्रे मूले तु विस्तारं षडंशं स्याद्यवाधिकम् || ३६ || रुद्रांशं मुखविस्तारं कुक्कुटाण्डसमाकृतिः | भ्रूकेशान्तयोर्मध्यं सार्धद्व्यंगुलकं भवेत् || ३७ || भ्रूमध्यान्ते तु तत्रान्तं स पादद्व्यंगुलं भवेत् | पुटदास्यावसाअं तु स यवैकांगुलं भवेत् || ३८ || तदर्धं गोजिदीर्घं तु तस्यार्धं तस्य विस्तृतम् | अधरं स यवांगुल्यं शेषं हन्वन्तमानकम् || ३९ || कर्णवेशं तु चिबुकात् सार्धत्र्यंगुलकं भवेत् | द्विभागं कर्णविस्तारं स पादं चतुरंशकम् || ४० || कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् | द्विभागं कर्णविस्तारं स पादं चतुरंशकम् || ४१ || कर्णदीर्घमिति ख्यातं तस्मान्नालं प्रलम्बयेत् | नालालम्बं तु पंचांशं कर्णबन्धनसंयुतम् || ४२ || हस्तिहस्तोपमं पादं हस्तं गोपुच्छवत्कृतम् | शेषमुत्तमतालोक्तमार्गेणैव समाचरेत् || ४३ || स्त्रीणां सामान्यमेतद्धि विशेषमधुना शृणु | गौरी वै द्विभुजा शान्ता प्रसन्नवदनाम्बुजा || ४४ || करण्डमुकुटा वाथ करीटमुकुटान्विता | मकुटं केशबन्धं वा तेषु तत्सुन्दरं कुरु || ४५ || प्. २८६) केशान्तान्मकुटोत्तुंगं अष्टादशांगुलाधमम् | एकविंशांगुलं मध्यं श्रेष्ठं भानुद्वयांगुलम् || ४६ || शिरोनाहाद्यवाधिक्यं मकुटं मूलविशालकम् | मूलं सप्ताष्टधा भज्य भागोनाग्रविशालकम् || ४७ || किरीटमकुटे चैव केशबन्धमथाचरेत् | मूलादग्रं क्रमात्क्षीणं करण्डमकुटस्य तु || ४८ || पद्मस्य मुकुलाकारं मकुटाग्रं प्रकल्पयेत् | त्रिपंचसप्तनन्दैर्वा करण्डैस्तु विराजितम् || ४९ || चतुष्पूरिमसंयुक्तं नानापुष्पोभशोभितम् | ललाटपट्टसंयुक्तं मुक्तादामलकाकृतिः || ५० || कर्णे कुण्डलसंयुक्तं चतुर्मात्रोन्नतायतौ | मकरं कुण्डलं वाथ वृत्तकुण्डलमेव वा || ५१ || कटकैः कटिसूत्रैश्च हारोपग्रीवसंयुतम् | बाहुपूरिमसंयुक्तं छन्नवीरसमन्वितम् || ५२ || यज्ञोपवीतयुक्तं वा केयूराढ्य सुशोभिता | दुकूलवसना देवी श्यामवर्णांगसुन्दरी || ५३ || दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् | आभंगे तु गुणांशं तु वेदांशं समभंगके || ५४ || नतमानमिति ख्यातं सूत्रं वक्ष्ये यथाक्रमम् | ललाटमध्याद्वामे तु नेत्रान्ते च पुटान्तके || ५५ || प्. २८७) हनोर्वामे समालंब्य * नयोरन्तरे तथा | नाभेर्दक्षिणपार्श्वे तु वामोरुर्दक्षिणं स्पृशेत् || ५६ || अवामचरणे पार्ष्णि वामपार्श्वे तु लम्बयेत् | पादांगुष्ठद्वयोश्चैव द्वन्तरं षोडशांगुलम् || ५७ || तत्त्रिभागैकभागं तु पार्ष्ण्यन्तरमुदाहृतम् | एवमाभंगमाख्यातं समभंगमथ शृणु || ५८ || ललाटमध्यान्नासाग्रात् पादपार्ष्ण्योश्च मध्यमे | प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु वदाम्यहम् || ५९ || सूत्रास्तनयोर्मध्ये वामे स्यात्तु गुणांगुलम् | तत्सूत्राद्दक्षिणे नाभे नीव्रकं द्व्यंगुलं भवेत् || ६० || तत्सूत्राद्दक्षिणे योनिमूलमध्यं युगांगुलम् | तत्सूत्राद्वामतो जानु नीव्रं गुणांगुलं भवेत् || ६१ || पादांगुष्ठद्वयोश्चैव द्वन्तरं द्विनवांगुलम् | तत्त्रिभागैकभागं तु पाष्ण्यौ द्वन्तरमिष्यते || ६२ || उत्पलोद्धृतहस्तोर्ध्व स्तनक्षस्य समं भवेत् | नाभेस्तु मणिबन्धान्तं सार्धत्रयोदशांगुलम् || ६३ || पार्श्वमध्यमबाह्योश्च द्वन्तरं सप्तमात्रकम् | कटिसंधैस्तु वेदां(शं) लम्बहस्तस्य कोर्परम् || ६४ || ऊर्वोस्तु मणिबन्धान्तं द्वन्तरं मनुमात्रकम् | ऊर्वाग्रात्तत्कराग्रान्तं दशांगुलमुदाहृतम् || ६५ || एवं संकल्पयेद्गौरीमिदमन्यच्च वक्ष्यते | सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् || ६६ || ललाटमध्यनासाग्रात् पादयोः पार्ष्णिमध्यमे | प्रसार्य ब्रह्मसूत्रं तु द्वन्तरं तु प्रमीयते || ६७ || तत्सूत्रात्स्तनयोर्मध्ये दक्षिणे तु गुणांगुलम् | तत्सूत्राद्वामतो नाभि नीव्रं द्व्यंगुलकं भवेत् || ६८ || तत्सूत्राद्वामतो योनिमुलमध्यं गुणांगुलम् | तत्सूत्राद्दक्षिणे जानु नीव्रं गुणांगुलं भवेत् || ६९ || शेषं पूर्ववदुद्दिष्टं गौरीलक्षणमेव हि | सरस्वत्यादि शक्तीनां प्रागेव प्रोच्यतेऽथवा || ७० || इत्यंशुमान्काश्यपे मध्यमदशतालस्त्रीमानपटलः (सप्तपंचाशः) || ५७ || कन्यसं दशतालं तु शृणु वक्ष्ये द्विजोत्तम | चन्द्रादित्याश्विनी चैव ऋषयश्च ग्रहस्तथा || १ || आचार्यः शतमखश्चैव चण्डेशः क्षेत्रपालकम् | कन्यसं दशतालेन कारयेत्तु विचक्षणः || २ || उष्णीषमंगुलं प्रोक्तं केशमानं युगांगुलम् | केशान्ताद्धनु पर्यन्तं सार्धभान्वंगुलं भवेत् || ३ || प्. २८९) युगांगुलमिति प्रोक्तं कर्णमानं द्विजोत्तम ! | हिक्कादिस्तनसूत्रान्तं सार्धभान्वंगुलं भवेत् || ४ || स्तनाधोनाभिपर्यन्तं तत्समं चेति कीर्तितम् | वामेस्तु मेढ्रमूलान्तं सार्धद्वादशमात्रकम् || ५ || तन्मेढ्रमूलादूर्वाग्रं पंचविंशतिमात्रकम् | वेदांगुलं तु जानु स्यात् जंघासमोरुसादृशम् || ६ || वेदांशं चरणोत्सेधं तुंगमेवं विधीयते | उष्णीषात्पृष्ठकेशान्तं सार्धभान्वंगुलं भवेत् || ७ || उष्णीषात्पार्श्वकेशान्तं अष्टांगुलमिति स्मृतम् | उष्णीषात्पूर्वकेशान्तं पंचांगुलमुदाहृतम् || ८ || केशान्ताद्धनु पर्यन्तं मानं तु गुणभाजिते | केशान्तादक्षिसूत्रान्तं व्योमांशमिति विद्यते || ९ || अक्षिसूत्रात्पुटान्तं च पुटान्ताद्धन्वन्तकं तथा | यवोपेतद्विमात्रं तु नेत्रयोरन्तरं द्विज ! || १० || तत्समं नयनायामं भूतमात्रं भ्रुवायतम् | भ्रूमध्यादूर्ध्वकेशान्तं सप्तादश यवस्तथा || ११ || यवं भ्रूमध्यमव्यासं अनुपूर्वात्कृशाग्रके | षडंशं नेत्र विस्तारं ऊर्ध्ववर्म यवार्धकम् || १२ || अधोवर्म च तत्तुल्यं करवीरं यवं भवेत् | नेत्रायामं त्रिधा कृत्वा एकांशं कृष्णमण्डलम् || १३ || प्. २९०) कृष्णमण्डल मध्ये तु ज्योतिर्मण्डलकं यवम् | यूकमानेन दृष्टिः स्यात् ज्योतिर्मण्डलमध्यमे || १४ || अधोवर्मस्थितं नेत्रसूत्रे कुर्याद्विशेषतः | तस्य केशान्तयोर्मध्ये भ्रूस्थितिर्वार्धचन्द्रवत् || १५ || कर्णस्थानं च तन्मानं उत्तमं दशतालवत् | घ्राणमूलस्य विस्तारं यवमत्रमुदाहृतम् || १६ || नासिकाग्रविशालं तु व्योमांगुलमुदाहृतम् | अधरोष्ठस्य चायामं पक्षांगुलमुदाहृतम् || १७ || तदर्धं तस्य विस्तारं चिबुकं तु यवद्वयम् | विस्तारं तत्समं विद्यात् निम्नमर्धयवं भवेत् || १८ || तस्मादधरनिष्ठान्तं स यवं व्योममात्रकम् | ग्रीवामूलविशालं तु वस्वंगुलमुदाहृतम् || १९ || ग्रीवाग्रस्य तु विस्तारं सार्धसप्तांगुलं भवेत् | वक्षःस्थलस्य विस्तारं सप्तत्रिंशतिमात्रकम् || २० || पंचविंशति मात्रं तु बाहुदीर्घमुदाहृतम् | तस्मादधर निष्ठान्तं स यवं व्योममात्रकम् || २१ || ग्रीवामूलविशालं तु वस्वंगुलमुदाहृतम् | आयामं तु प्रकोष्ठस्य एकोन विंशदंगुलम् || २२ || तस्मात्तन्मध्यमाग्रान्तं सार्धद्वादशमात्रकम् | तदर्धं तु तलायामं शेषं मध्यांगुलं पदम् || २३ || प्. २९१) अंगुष्ठस्य तु दीर्घं तु अष्टादशयवं स्मृतम् | सार्धवेदांगुलं प्रोक्तं अनामिकायास्तु दैर्घ्यकम् || २४ || तथैव तर्जनीदीर्घं कनिष्ठस्य युगांशकम् | धर्माब्धिवसु षड्भूत यवांगुष्ठादि विस्तृतम् || २५ || तन्मूलेऽष्टांशहीनं तु शेषमग्रविशालकम् | अग्रव्यासे तु भूतांशं वेदांशं न विस्तृतम् || २६ || विस्तारात्पादमाधिक्यं नखायाममुदाहृतम् | अंगुष्ठं तु द्विपर्व स्यात् अन्यांगुल्यः स्त्रिपर्वकाः || २७ || तलमध्ये त्रिरेखाभिः शूलाभं वाब्जपत्रवत् | तलमूलप्रदेशस्य घनं कोलकमध्यमे || २८ || अष्टांशं हीनमात्रं तु घनमित्यभिधीयते | तलायामसमं चैव तलस्यैव तु विस्तृतम् || २९ || मणिबन्धस्य विस्तारं त्रिमात्रं द्वियवाधिकम् | प्रकोष्ठमूलविस्तारं सार्धभूतांशमुच्यते || ३० || बाह्वग्रस्य तु विस्तारं सार्धषण्मात्रमुच्यते | बाहुमध्यविशालं तु सप्तांगुलमुदाहृतम् || ३१ || बाहुमूलस्य विस्तारं वस्वंगुलमुदाहृतम् | हिक्कासूत्रात्तु कक्षान्तं अष्टमात्रमुदाहृतम् || ३२ || द्वाविंशदंगुलं प्रोक्तं कक्षान्तरमुदाहृतम् | हृदयावधिविस्तारं अष्टादशांगुलं भवेत् || ३३ || प्. २९२) उदरस्य विशालं तु सप्तदशांगुलं भवेत् | श्रोणी प्रदेशविस्तारं अष्टादशांगुलं भवेत् || ३४ || षड्यवं नाभिविस्तारं नाभिनिम्नं द्वयं भवेत् | स्तनमण्डलविस्तारं अर्धांगुलमुदाहृतम् || ३५ || चूचुकं द्वियवं प्रोक्तं उत्सेधं तत्समं भवेत् | उभयोस्तनयोरन्तः सार्धद्वादशमात्रकम् || ३६ || मुष्कायामं तु वेदांशं विस्तारं चैव तत्समम् | लिंगं पंचांगुलं दैर्घ्यं उत्पलं मुकुलोपमम् || ३७ || कटिप्रदेश विस्तारं षड्यवाष्टदशांगुलम् | ऊरुमूलविशालं तु सार्धद्वादशमात्रकम् || ३८ || जानुमध्यविशालं तु सार्धवस्वंगुलं भवेत् | जंघामूलविशालं तु सार्धषण्मात्रमुच्यते || ३९ || नलकायास्तु विस्तारं सार्धवेदांगुलं भवेत् | अंघ्रितलाग्रविस्तारं कौशिकांगुलमुच्यते || ४० || तलमध्यविशालं तु भूतांगुलमुदाहृतम् | पादांगुष्ठसमायामं चतुर्मात्रमुदाहृतम् || ४१ || तस्याग्राद्गुल्फमध्यान्तं सार्धद्वादशमात्रकम् | अनामिकाया दीर्घं तु त्रयस्त्रिंशद्यवं भवेत् || ४२ || मध्यांगुल्यं च तत्तुल्यं वेदांशं तदनामिका | कनिष्ठिकाया दीर्घं तु सार्धवह्न्यंगुलं भवेत् || ४३ || प्. २९३) सप्ताष्टनवधर्मं तु त्रयोदशयवं क्रमात् | कनिष्ठाद्यंगुलीनां तु विस्तारं प्रविधीयते || ४४ || अग्रमूलसमं प्रोक्तं विस्तारं तत्त्रिभाजिते | द्विभागं नखविस्तारं तत्तुल्यायतवर्तुलम् || ४५ || तलाग्रांगुष्ठमूले तु सार्धवह्न्यंगुलं भवेत् | कनिष्ठिकाया मूले तु घनं तत्त्रियवं भवेत् || ४६ || अक्षात्पार्ष्ण्यन्तरं भागं पार्ष्ण्युत्सेधं च तत्समम् | पृष्ठमण्डलविस्तारं पादोन नवमात्रकम् || ४७ || वक्षस्थले परे व्यासं पंचविंशति मात्रकम् | कक्षयोरन्तरं पृष्ठे चतुर्विंशति मात्रकम् || ४८ || अत्रानुक्तं तु यत्सर्वं उत्तमं दशतालवत् | एवं लक्षणमाख्यातं तेषामाकृतिपूर्ववत् || ४९ || इत्यंशुमान्काश्यपे अधमदशतालविधिपटलः (अष्टपंचाशः) || ५८ || नवतालोत्तमं वक्ष्ये शृणुत्वेकाग्रमानसः | वसवश्चाष्टमूर्तिश्च विद्येशा लोकपालकाः || १ || अन्याश्च देवताश्चैव नवतालोत्तमेन तु | सद्वादशशतांशं तु बेरमानविभाजिते || २ || प्. २९४) उष्णीषमेकभागेन केशान्तं तु गुणांगुलम् | केशान्तादक्षि सूत्रान्तं वेदमात्रं विधीयते || ३ || तस्मान्नेत्रात्पुटान्तं च वेदमात्रमुदीरितम् | पुटाद्याद्धनुपर्यन्तं वेदांशं प्रविधीयते || ४ || कर्णमानं तु वेदांशं भान्वंशं हृदयावधि | हृदयान्नाभिसीमान्तं तावद्वादश मात्रकम् || ५ || नाभ्यादि मेढ्रमूलान्तं भानुमात्रं विधीयते | ऊरुदीर्घं चतुर्विंशत् दशजानु युगांशकम् || ६ || जंघादीर्घोरु तुल्यं स्याद्वेदांशं चरणोदयम् | हिक्काधो बाहुदीर्घं तु चतुर्विंशति भागया || ७ || द्विर्नवांशं तु कोष्ठं स्याद्रुद्रांशं तु तलायतम् | तन्मध्यांगुलमायामं षडंगुलमुदाहृतम् || ८ || कन्यसं दशतालोक्तमार्गे शेषं समाचरेत् | तस्माद्येव यवार्धं हि अंगं प्रत्येनमाचरेत् || ९ || मानमेवं समाख्यातं लक्षणं कथितं पुरा | इत्यंशुमान्काश्यपे उत्तमनवतालविधिपटलः (एकोनषष्ठितमः) || ५९ || प्. २९५) मध्यमं नवतालं तु वक्ष्ये संक्षेपतः क्रमात् | यक्षाप्सरोगणाश्चैव अस्त्रमूर्तिमरुद्गणाः || १ || मध्यमं नवतालेन कर्तव्यं द्विजसत्तम ! | अष्टोत्तरशतांगुल्यं पतिमोच्चं विभाजिते || २ || उष्णीषं व्योमभागेन केशं पादोनकं त्रिकम् | केशान्तान्नेत्रसूत्रान्तं युगांशं तद्यवोनकम् || ३ || पुटान्तं चैव तत्तुल्यं हन्वन्तं तथा भवेत् | पादोन चतुरंशं तु ग्रीवमानमुदाहृतम् || ४ || भान्वंशानि यवोनं तु हिक्काद् हृदयावधि | वाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा || ५ || पादाधिकगुणोपेतं विंशांशं चोरुदीर्घकम् | जानुग्रीवसमं तुंगं जंघा चोरुसमं भवेत् || ६ || जानु तुल्यं तलोत्सेधं बाहुचोरुसमं भवेत् | सप्तदशांगुलं प्रोक्तं प्रकोष्ठस्य तु दैर्घ्यकम् || ७ || षडंशाग्नियवोनं तु तलायामं करस्य तु | तत्समं मध्यमायामं शेषं युक्त्या समाचरेत् || ८ || इत्यंशुमान्काश्यपे मध्यमनवतालविधिपटलः (षष्ठितमः) || ६० || अधमं नवतालस्य लक्षणं वक्ष्यतेऽधुना | विद्याधरगणाश्चैव त्वसुराश्च तथैव च || १ || पितरस्सिद्धगन्धर्वा नवतालाधमेन तु | स वेदशतभागं तु कौतुकोच्चं विभाजिते || २ || उष्णीषोच्चं त्रिपादं स्यात्केशं सार्धत्रिभागया | .* * * * * * * * * * हृदयान्तकम् || ३ || तस्मान्नाभ्यन्तकं तद्वत् मेढ्रमूलान्तकं तथा | ऊरुदीर्घं त्रयोविंशत् यवोनं तु विधीयते || ४ || ग्रीवं पादतलं जानुतुल्यं जंघोरुसादृशम् | बाहुचोरुसमं दीर्घं प्रकोष्ठं षोडशांगुलम् || ५ || तलदीर्घं तु भूतांशं तत्समं मध्यमांगुलम् | शेषं युक्त्या तु कर्तव्यं सर्वांगं तु विधीयते || ६ || इत्यंशुमान्काश्यपे अधमनवतालविधिपटलः (एकषष्टितमः) || ६१ || अथ वक्ष्ये विशेषेण अष्टतालविधिं परम् | शतांशमध्यबिम्बोच्चं कृत्वोष्णीषं शिवांशकम् || १ || सार्धद्वांशं तु केशान्तं केशान्ताद्धनुसीमकम् | पादोनरुद्रभागं स्यात् तत्त्रिभागं विभाजिते || २ || प्. २९७) शिवांशं व्यक्षिसूत्रान्तं पुटान्तं चैव तत्समम् | पुटान्ताद्धन्वन्तकं शेषं सार्धाग्न्यंशं गलोदयम् || ३ || हिक्कादि हृदयान्तं तु रुद्रांशं तु द्व्यवोनकम् | नाभ्यन्तं चैव तत्तुल्यं मेढ्रमूलान्तकं तथा || ४ || सार्धत्रिसत्पभागं च ऊरुदीर्घमुदाहृतम् | जानुकर्णसमं तुंगं जंघाचोरुसमा भवेत् || ५ || जानुकूलतलोत्सेधं बाहुचोरुसमायतम् | प्रकोष्ठं तु कलांशं स्यात् सार्धभूतांगुलं तलम् || ६ || तत्समं मध्यमांगुल्यं शेषं प्रागिव चोदितम् | त्रिपंचमात्रमित्युक्तं पादस्य तु तलायतम् || ७ || अत्रानुक्तं तु यत्सर्वं कन्यसं दशतालवत् | इत्यंशुमान्काश्यपे अष्टतालविधिपटलः (द्वाषष्ठितमः) || ६२ || अथ वक्ष्ये विशेषेण सप्ततालविधिं परम् | पिशाचप्रतिमोत्सेधं अष्टाशीत्यंशकं भवेत् || १ || उष्णीषमर्धभागेन केशान्तं शशिभागया | सार्धद्व्यंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् || २ || चिबुकान्तं च तत्तुल्यं वेदांशं तु गलोदयम् | स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् || ३ || प्. २९८) तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम् | जानुमानं द्विभागेन जंघा चोरुसमा भवेत् || ४ || चरणोच्चं द्विभागेन मन्वंशं तु तलायतम् | ऊरुदीर्घसमं बाहुप्रकोष्ठदीर्घं त्रिपंचकम् || ५ || तलायामं तु वेदांशं भूतांशं तस्य विस्तृतम् | तलायामसदृशं मध्यमांगुलि दीर्घकम् || ६ || शेषं प्रागुदितोक्तेन व्यासं कुर्याद्धीकृतम् | सप्ततालं समाख्यातं शेषं प्रागपरोदितम् || ७ || इत्यंशुमान्काश्यपे सप्ततालविधिपटलः (त्रिषष्ठितमः) || ६३ || अथ वक्ष्ये विशेषेण सुखासनविधिं परम् | आर्जवं राजसं भावं भद्रपीठे सुखासनम् || १ || वामांघ्रिं शाययेत्पीठे दक्षिणांघ्रिं तु लम्बयेत् | ऊर्ध्वकायोपरिष्टात्तु सार्धवेदांगुलाधिकम् || २ || स्फिक्पिण्डमानमेतद्धि आसनोर्ध्वे विशेषतः | आसनात्पूर्वकेशान्तं जान्वोर्ध्वे बाह्यावसानकम् || ३ || जान्वोस्तु पूर्वकेशान्तं जानुबाह्वाग्र बाह्यकम् | परहस्तद्वयोर्मध्ये बाह्यमभ्यन्तरं भवेत् || ४ || प्. २९९) आसने नवसूत्रोऽस्ति पूर्वसूत्राधुना शृणु | मौलिमध्ये तु नासाग्रे स्तनान्ते नाभिमध्यमे || ५ || वामांघ्रिगुल्फमध्ये तु ब्रह्मसूत्रं प्रलम्बयेत् | सूत्राद्दक्षिणजान्वन्तं एकत्रिंशांगुलं भवेत् || ६ || अथवा त्रिंशदंगुल्यं एकोनत्रिंशमेव वा | सूत्रातदंघ्रिनलकात् अन्तरं द्वादशांगुलम् || १ || त्रयोदशांगुलं वापि मन्वंगुलमथापि वा | पीठात्तदंघ्रिपार्ष्ण्योस्तु नीव्रं द्वित्र्यंगुलं तु वा || ८ || तत्सूत्रादभये हस्ते मध्यरेखावसानकम् | चतुर्दशांगुलं प्रोक्तं त्वन्तरं तु द्विजोत्तम ! || ९ || अभये मध्यमांगुल्याग्रान्तं चिबुकोर्ध्व समं भवेत् | तत्सूत्रात्कटके हस्ते मणिबन्धस्य मध्यमात् || १० || पंचादशांगुलं प्रोक्तं त्वन्तरं तु द्विजोत्तम ! | ऊरोस्तु मणि बन्धान्तं एकद्वित्र्यंगुलं तु वा || ११ || कटकं सिंहकर्णं वा तद्धस्तं प्रविधीयते | तर्जन्यादि कनिष्ठान्तं तत्तन्मूलान्तवर्जि(क्रि?)ता || १२ || ईषद्वक्र तदंगुष्ठं एवं स्यात्कटकाकृतिः | मध्यान्मध्यतलान्तं तु अर्धमर्धान्तनामिका || १३ || वक्रो शेषांगुला प्राग्वत् सिंहकर्णमिदं परम् | हिक्कासूत्रसमं कुर्यात् कर्तर्याग्रे करौ परौ || १४ || प्. ३००) वक्रे वाऽनामिकांगुष्ठौ तलमर्धावसानकौ | किंचिद्वक्रं कनिष्ठं तु शेषो द्वौ तदृजु क्रिया || १५ || कर्तर्या कृतिरेवं स्यात् लक्षणं चाति सुन्दरम् | कोर्परं श्रोणि पार्श्वात्तु पंचषट्सप्तमात्रकम् || १६ || कुक्षिमध्ये च नासाग्रे पूर्वसूत्रं तु संस्पृशेत् | मेढ्रमूलात्तु वामांघ्रि गुल्फमध्यं रसांगुलम् || १७ || अथवा सप्तमात्रं तु पंचमात्रमथापि वा | नाभिमध्यात्तु वामांघ्रिनलका मध्यं चतुर्दश || १८ || त्रयोदशांगुलं वाथ भान्वंगुलमथापि वा | मौल्यग्रं मध्यमात्सूत्रात् द्वन्तरं मनु मात्रकम् || १९ || सार्ध त्रयोदशान्तं वा त्रयोदशांगुलमेव वा | ऋज्वागतं सुखासीनं प्रवालसदृशं प्रभुम् || २० || त्रिणेत्रं प्रसन्न वदनं संपन्नं राजसं गुणम् | व्याघ्राजिनाम्बरधरं दुकूलवसनान्वितम् || २१ || कर्तरी परहस्तौ द्वौ बाह्येवाभ्यन्तराननम् | दक्षिणे परशुं वामे कृष्णं न्यस्य करद्वये || २२ || अभयं दक्षिणे वामे कटकं सिंहकर्णवत् | वामकर्णे विशेषेण शंखपत्रं निधापयेत् || २३ || त्रिचतुः पंचमात्रं वा षट्सप्तमण्डलस्तती | कर्णनालघनं ह्येवं त्रिगुणं पत्रविस्तृतम् || २४ || प्. ३०१) यवं पत्रघनं प्रोक्तं श्वेताभं चातिमार्दवम् | दक्षिणे मकराख्यं तु कुण्डलं सिंहमेव वा || २५ || कुण्डल व्यास तुंगं तु त्रिचतुः पंचमात्रकम् | युक्तं वै कुण्डलं कृत्वा कर्णे स्कन्धोपरिन्यसेत् || २६ || अथवा कर्णयोर्विप्र ! वृत्तकुण्डलकं न्यसेत् | वृत्तकुण्डलविस्तारं अष्टादशयवं भवेत् || २७ || वेदांगुलं तु तत्तुंगं कुम्भाब्जमुकुलोत्पलम् | अन्यं वा सुन्दरोपेतं कल्पयेद्वृत्तकुण्डलम् || २८ || जटामकुटसंयुक्तं युग्मसंख्या जटान्वितम् | मकुटस्योदयं विप्र ! चतुर्विंशांगुलं भवेत् || २९ || त्रिस्सप्तांगुलतुंगं वा द्विर्नवांगुलमेव वा | केशान्तान्मकुटोच्चं तु ललाटपट्टसंयुतम् || ३० || मुखान्त सदृशं विप्र मकुटं मूलविशालकम् | तत्सप्ताष्ट नवांशैकं हीनमग्रविशालकम् || ३१ || चतुष्पूरिमसंयुक्तं कृत्तिमाननसंयुतम् | कटिसूत्रं त्रिसंख्याभिः सूत्रं प्रतियवं घनम् || ३२ || कटिसन्धोपरिष्टात्तु कटिसूत्रं प्रबन्धयेत् | पंचषट्सप्तमात्रं वा कृत्तिमाननविस्तृतम् || ३३ || तद्विस्तारसमं तुंगं मेढ्रस्योपरि कल्पयेत् | कटिसूत्रादूरुमानं मध्यत्रिंशावसानकम् || ३४ || प्. ३०२) मुक्तादामोरुदामस्याभ्यन्तरे रत्नसंयुतम् | कटिसूत्रं समाख्यातं कटकं वलयं शृणु || ३५ || कटके वलयोपेतं प्रकोष्ठं द्विजसत्तम ! | कनिष्ठांगुलिपरीणाहं वलयं त्वार्दवा हि तत् || ३६ || अथवा वलयस्यैव घनं द्वित्रियवं तु वा | रचितं रत्नकाण्डैस्तु प्रकोष्ठे तु निधापयेत् || ३७ || मार्दवं रत्नबन्धं वा कृत्वा तु वलयं द्विज ! | केयूरं कोर्परे न्यस्त्वा वलयस्य घनान्वितम् || ३८ || एकाकारं तु केयूरं अष्टमात्राब्जसंयुतम् | नानारत्नसमायुक्तं शैवालाभमथापि वा || ३९ || पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम ! | पत्रपूरिमनालं तु केयूरसदृशं घनम् || ४० || तत्पुरीमदतोत्तालं बाह्यं त्रिद्व्यावृतं तु वा | त्रिचतुष्पंचमात्रं वा पत्रपूरिमविस्तृतम् || ४१ || तद्व्यासाध्यर्धतुंगं वा पादोन द्विगुणं तु वा | द्विगुणं वापि तत्तुंगं तद्बाहुवलयं भवेत् || ४२ || मध्यांगुलं विना शेषास्त्वंगुला मुद्रिकान्विताः | मुद्रिका मूलपर्वस्थ वृत्तं यवघनान्वितम् || ४३ || उदरबन्धविशालं तु एकद्वित्र्यंगुलं तु वा | यवं द्वियवं वाथ उदरबन्धघनं भवेत् || ४४ || प्. ३०३) नानालंकारसंयुक्तं नानारत्नैर्विचित्रितम् | नाभेरूर्ध्वगुणांशं तु त्यक्तोदरं तु बन्धयेत् || ४५ || पादयोर्मध्यमादन्या स्वंगुलामुद्रिकान्विताः | यवद्वयेन सर्वे * व्यंगुलानां तु मध्यका || ४६ || पादौ जालकसंयुक्तौ गुल्फाधस्ताद् द्विजोत्तम ! | जालकाबन्धसूत्रं तु यवद्वयघनान्वितम् || ४७ || तत्सूत्राज्जालकालंबं त्रिपंचयवमात्रकम् | त्रियवं जालकान्नालं शेषं वै जालकोदयम् || ४८ || तदुन्नत समं व्यासं यवमानं तु तद्घनम् | शेषं तद्घ्रासगाढं वा गाढहीनं घनं तु वा || ४९ || गाढयुक्तं तु वृत्तं स्यात् दन्तपाषाणसंयुतम् | घनपाषाणरहितं तुंगार्धं नीव्रमुच्यते || ५० || परशोर्हरिणीदीर्घं भान्वंगुलमुदाहृतम् | परशुं हरिणीं चैव युक्त्या सौन्दर्यमाचरेत् || ५१ || यज्ञोपवीतसंयुक्तं यवाष्टांशघनान्वितम् | उपवीतं त्रित्रिसूत्रं उदरसूत्रसमन्वितम् || ५२ || एवमेवोरुसूत्रं स्यात् उपवीतघनं समम् | वामस्कन्धोपरिन्यस्त्वा नाभ्यधस्तांगुलान्तरम् || ५३ || यज्ञोपवीतदीर्घं स्यात् नाभेर्दक्षिणपार्श्वकम् | अपरे वंशमाश्रित्य यज्ञसूत्रं निधापयेत् || ५४ || उरःसूत्रं समालम्ब्यं स्तनादष्टांगुलान्तरम् | यज्ञोपवीतमेवं स्यात् छन्नवीरमथ शृणु || ५५ || यज्ञोपवीतवत्प्राग्वत् स्कन्धयोरुभयोरपि | पार्श्वयोश्चैव श्रोण्यूर्ध्वे न्यस्त्वा स्तनान्तरैकवत् || ५६ || ग्रीवे हारविजानीयात् हिक्काधस्तात् षडंगुलम् | लम्ब्य वेदांगुलं तारं यवत्रय घनान्वितम् || ५७ || नानारत्नैर्हिरण्यैश्च हारं कृत्वातिसुन्दरम् | हिक्कासूत्रोपरिष्टात्तु उपग्रीवं तु बन्धयेत् || ५८ || रुद्राक्षं वाथ रत्नं वा हेमवृत्तमणिं तु वा | उपग्रीवमिदं ख्यातं हृन्मालात्वधुनोच्यते || ५९ || कर्णादुदरबन्धान्तं अक्षमालां तु बन्धयेत् | एतद्धृदयमाला स्यात् स्कन्धमाला तथोच्यते || ६० || स्कन्धे तु स्कन्धमालास्यान्नानापुष्पैर्विराजितम् | सर्वांगसुन्दरं देवं शेषं युक्त्या समाचरेत् || ६१ || एवं सुखासनं प्रोक्तं उमास्कन्दसहितं तथा || इत्यंशुमान्काश्यपे सुखासनमूर्तिलक्षणपटलः (चतुष्षटितमः) || ६४ || अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं द्विज ! | सुखासनं यथा प्रोक्तं तथा देवो विधीयते || १ || प्. ३०५) देवस्य वामपार्श्वे तु पार्वती तत्सुखासने | शाययेद्दक्षिणं पादं वामपादं प्रलम्बयेत् || २ || आसनस्योपरिष्टात्तु स्फिग्मानं चतुरंगुलम् | ऊर्ध्वकायसमायुक्तं आसनोपरिकल्पयेत् || ३ || किंचिद्देवाश्रितं वक्त्रं लम्बितं भंगसंयुतम् | वरदं वामहस्तं तु उत्पलं दक्षिणे करे || ४ || किंचिद्वक्रांगुलाः सर्वे वामहस्ततलोर्ध्वगम् | वरदं चाति विख्यातं पुष्पधृत्सिंहकर्णवत् || ५ || सस्यश्यामनिभा देवी सर्वाभरणभूषिता | रक्ताम्बरधरा देवी छन्नवीरसमन्विता || ६ || अथवान्यप्रकारेण देवीभंगं वदामि ते | वामोरु बाह्यपीठात्तु वामहस्ते तले न्यसेत् || ७ || प्राग्वदुत्पलसंयुक्तं दक्षिणं हस्तमुच्यते | पीठात्तु दक्षिणं जानुं किंचिदुद्धृतसंयुतम् || ८ || त्रिचतुःपंचमात्रं वा पीठाज्जान्वन्तरं भवेत् | षट्सप्ताष्टांगुलं वाथ पीठाज्जान्वन्तरं भवेत् || ९ || एवं द्विविधरीत्या तु देवीभंगं विधीयते | स्त्रीमानस्योक्तमार्गेण देवीमानं तु गृह्यताम् || १० || स्थानकानां तु देवीनां देवीं च स्थानकं भवेत् | आसने चासनं ख्यातं विपरीतं विपत्करम् || ११ || प्. ३०६) देवी लक्षणमेवोक्तं स्कन्दलक्षणमुच्यते | देवी देवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिनम् || १२ || देव्या हिक्कावसानान्तं स्कन्दमानं तदुत्तमम् | स्तनाक्षान्तं कनिष्ठ स्यात्तयोर्मध्येऽष्टभाजिते || १३ || नवधा स्कन्दमानं तु उत्तमादित्रयं त्रयम् | जात्यंशकयुतं वापि हीनं वापि प्रकल्पयेत् || १४ || वेदषड्धर्मभागं तु तन्मानं तु विभाजिते | एकांशमंगुलं ख्यातं तदष्टांशं यवं भवेत् || १५ || एकांगुलं शिरोमानं केशान्तं चैव तत्समम् | द्विभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् || १६ || गुणांशं हनुसीमान्तं ग्रीवोच्चं तु गुणांगुलम् | हिक्कासूत्रात्स्तनान्तं तु नवभागमुदाहृतम् || १७ || स्तनान्तान्नाभिसीमान्तं वस्वंगुलमुदाहृतम् | वामेस्तु मेढ्रमूलान्तं सप्तभागमिति स्मृतम् || १८ || भान्वंशमूरुदीर्घं स्यात् जानुदीर्घं द्वियंगुलम् | जंघादीर्घोरुतत्तुल्यं मध्यं पादतलान्वितम् || १९ || दशांघ्रेस्तु तलायामं बाहुदीर्घं चतुर्दश | कोष्ठायामं दशांशं तु तलं वेदांगुलायतम् || २० || युगांशं मध्यमायां सार्धहीन मनामिका | तत्समं तर्जनी दीर्घं कनिष्ठोच्चं गुणांगुलम् || २१ || प्. ३०७) अंगुष्ठायाममग्न्यंशं युगांशं तलविस्तृतम् | प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरंगुलम् || २२ || भूतांशं बाहुमूलं तु विस्तारं द्विजसत्तम ! | सार्धाष्टांशं मुख व्यासं सप्तांशं कर्णविस्तृतम् || २८ || कक्षयोरन्तरव्यासं त्रयोदशांगुलं भवेत् | भान्वंशं हृदयविस्तारं रुद्रांशं मध्यविस्तृतम् || २४ || श्रोणिस्थाने तु भान्वंशं कटिस्थाने त्रयोदश | उरुमूलविशालं तु वस्वंगुलमुदाहृतम् || २५ || षडंशं जानुविस्तारं जंघामूलं युगांगुलम् | गुणांशं नलकातारं षडंशं तलविस्तृतम् || २६ || पार्ष्णिव्यासं युगांशं स्याच्छेषं युक्त्या तु कल्पयेत् | केशान्ते वासिकोपेतं करण्डमकुटान्वितम् || २७ || उभयोर्हस्तयोः पुष्पं वामं वरदमेव वा | कटकं वाथ तद्धस्ते सिंहकर्णमथापि वा || २८ || दक्षिणं पुष्पहस्तं वा कपित्थाम्रफलं तु वा | कटिसूत्रयुतं नग्नं छन्नवीरसमन्वितम् || २९ || मुद्रिका चोपग्रीवादिबालभूषणभूषितम् | आसीनो वा स्थितो वाथ नृत्तं वा स्कन्दमाचरेत् || ३० || आसीने चरणौ द्वौ तु विष्टरोपरि शाययेत् | स्थिते पादतलौ द्वौ तु समभंगमिव स्थितौ || ३१ || प्. ३०८) चरणौ कुंचितौ द्वौ तु किंचिद्गमनमेव वा | नृत्तं चेत्सुस्थितं सव्यपादं वक्रसमन्वितम् || ३२ || उद्धृत्य चान्यपादं तु पीठात्सप्तांगुलावधि | षण्मात्रमथवा पंचमात्रान्तं वा समुद्धरेत् || ३३ || फलेन वरदं वामहस्त न्यस्तं तु सूपितम् | अथवा वामहस्तं तु फलं न्यस्त्वा प्रसारयेत् || ३४ || हिक्कासूत्रसमोद्धृत्य मणिबन्धोर्ध्वसीमकम् | द्वन्तरं लम्बसूत्रं च नृत्तमूर्तिवदाचरेत् || ३५ || उमास्कन्दसहितं प्रोक्तं शृणुष्वेन्दुधरं हरम् | इत्यंशुमान्काश्यपे उमास्कन्दसहितलक्षणपटलः (पंचषष्टितमः) || ६५ || अथ वक्ष्ये विशेषेण चन्द्रशेखरलक्षणम् | केवलं गौरीसहितं आलिंगं त्रिविधं भवेत् || १ || केवलं गौरीसहितं सहजं गौरिसंयुतम् | आलिंगमेकहस्तेन देवो देवी परस्परम् || २ || उमालिंगमिदं ख्यातं एवं त्रिविधमुच्यते | केवलं समपादं तु स्थानकं सहितं तु वा || ३ || समभंगं वातिभंगं वा लिंगं चन्द्रशेखरम् | केवलं मुक्तिदं ख्यातं सहजं ह्युभयप्रदम् || ४ || प्. ३०९) सा लिंगमिन्दुधृन्मूर्तिं सर्वकामफलप्रदम् | तेष्वादौ समपादं तु स्थानकं शृणु सुव्रत ! || ५ || बिम्बमानोदयाः सर्वे प्रागेव परिकल्पयेत् | लम्बमानोपमानं च त्वधुना वक्ष्यते क्रमात् || ६ || प्रलम्बफलकायामं चत्वारिंशच्छिवार्धकम् | अष्टादशांगुलं तारं सार्धं वा द्व्यंगुलं घनम् || ७ || चतुष्पादसमायुक्तं पादोच्चं प्रतिमोन्नतम् | ऋक्षांगुलसमायुक्तं स्थापयेत्समभूतले || ८ || सीमासूत्रं विनिश्चित्य प्रलम्बफलकोपरि | पूर्वे परे च पार्श्वे च मानसूत्रं प्रसारयेत् || ९ || तदन्ते सुषिरं कल्प्य सूत्राण्यालम्बयेत्ततः | सूत्रस्यानुगुणं बिम्बं कारयेद् द्विजसत्तम ! || १० || पूर्वे च पार्श्वयोः पृष्ठे कायमध्ये च लम्बयेत् | एतानि पंचसूत्राणि ब्रह्मसूत्रमुदाहृतम् || ११ || कक्षान्तरे मुखान्ते च द्वौ सूत्रे च प्रलम्बयेत् | एवं हि नवसूत्राढ्यं स्थानकं चासमन्तथा || १२ || मकुटस्य तु मध्ये च ललाटस्य तु मध्यमात् | नासाग्र मध्यमे चैव हनोर्मध्ये तथैव च || १३ || हिक्काद्धृन्मध्यमाच्चैव नाभेश्चैव तु मध्यमात् | लिंगमध्योरुमध्यात्तु पादयोश्च तलान्तरे || १४ || प्. ३१०) लम्ब्यैवं पूर्वसूत्रं स्यात् अपरस्तमथोच्यते | मकुटस्य मध्यमाच्चकृकटीकायां तु मध्यमात् || १५ || ककुन्मध्याद्वंशमध्या स्फिक्पिण्डयोन्तरे तथा | ऊरुजान्वोश्च जंघान्तं पार्ष्णिद्वयोन्तरे तथा || १६ || एवमालम्बयेत्सूत्रं अपराश्रितमेव हि | पार्श्वयोः कर्णपाल्यन्तात् ग्रीवामध्यात्तथैव च || १७ || वाह्वोस्तु मध्यमालंब्य गुल्फमध्ये तु लम्बयेत् | देहमध्यगते नैव पंचसूत्रं प्रलम्बयेत् || १८ || श्रोत्राभ्यन्तरगं सूत्रं स्तनचूचुकमध्यगम् | पादमध्यप्रदेशिन्यां मध्यमे तु प्रलम्बयेत् || १९ || ऊरुजान्वोश्च जंघान्ते पार्ष्णिद्वयान्तरे तथा | अक्षमध्ये कटी पार्श्वे मध्ये चैव तु लम्बयेत् || २० || पूर्वसूत्रात्तु मौल्याग्रमध्यं द्वादशमात्रकम् | अपरसूत्रात्तु मौल्यग्रं मध्यं षण्मात्रमुच्यते || २१ || पूर्वसूत्राल्ललाटान्तं अन्तरं तु द्विमात्रकम् | अपरसूत्राच्छिरः पृष्ठं पादोनं तु युगांगुलम् || २२ || पूर्वसूत्रात्तु हन्वन्तं स यव द्व्यंशमुच्यते | कृकाटिकापरसूत्रं तु यवोनाग्न्यंगुलान्तरम् || २३ || पूर्वसूत्रात्तु हिक्कान्तं त्वभ्यन्तररसांगुलम् | ककुथोपरसूत्रा तु षोडशं तु यवान्तरम् || २४ || प्. ३११) उरसः पूर्वसूत्रात्तु द्व्यन्तरं तु द्विमात्रकम् | ककुन्मध्यात्परसूत्राद्यन्तरं मनुयवार्धकम् || २५ || मध्योदरं स्पृशेत् पूर्वसूत्रं वै तत्समे परे | वंशनिम्नापरं सूत्रं पादोन द्व्यंशकान्तरम् || २६ || प्राक्सूत्रान्नाभिमध्यात्तु त्वन्तरं सार्धमात्रकम् | नाभिसूत्रसमे पृष्ठे सार्धपक्षांगुलं भवेत् || २७ || प्राक् सूत्रान्मेढ्रमूलान्तं गुणांगुलमुदाहृतम् | तत्समे त्वपरे सूत्रात् अन्तरं सार्धमात्रकम् || २८ || ऊरु मध्ये तु पुरतो जानुमध्ये तथैव च | जंघामध्ये च नलका मध्ये चैव पुरोगतम् || २९ || तिर्यक् सूत्रं तु संकल्प्य त्वन्तरं तु प्रमीयते | तत्तत्स्थाने परे चैव तिर्यक् सूत्रं प्रकल्पयेत् || ३० || ऊरुमध्यगसूत्रात्तु पूर्वसूत्रद्वयांगुलम् | तत्रैवापरसूत्रान्तं यवोन चतुरंगुलम् || ३१ || जानुमध्यगसूत्रात्तु पूर्वसूत्राद्रसांगुलम् | तत्रैव परसूत्रान्तात् पादो न पंचमात्रकम् || ३२ || जंघामध्यं तु प्राक् सूत्राद्वस्वंगुलमुदाहृतम् | तत्रैवापरसूत्रान्तं षड्विंशति यवं भवेत् || ३३ || प्राक्सूत्रान्नलकामध्यं सार्धवस्वंगुलं भवेत् | नलकापरसूत्रान्तं पादोन पंचमात्रकम् || ३४ || प्. ३१२) द्व्यर्धमंगुष्ठयोरग्रं पूर्वसूत्राद्विशेषतः | तत्सूत्रात्पार्ष्णिपर्यन्तं सार्धमन्वंशमिष्यते || ३५ || प्राक्सूत्रात्कायमध्यस्थ सूत्रं स्याद्द्विनवांगुलम् | तत्कायमध्यसूत्रात्तु शिरः पृष्ठं युगार्धकम् || ३६ || तत्कायमध्यसूत्रात्तु ककुत्पंचांगुलार्धकम् | उरोमध्यप्रदेशे तु पृष्ठे सार्ध षडंगुलम् || ३७ || सूत्रान्मध्योदरः पृष्ठे सार्धवेदांगुलं भवेत् | नाभिप्रदेशे पृष्ठे तु सार्धभूतांगुलं भवेत् || ३८ || कटि नीव्रं षडर्धं स्यात्सार्धाष्टांश स्फिगग्रकम् | ऊरुमध्यापरं वेदजानु पृष्ठं तथैव च || ३९ || जंघामध्ये गुणांशं तु नलका द्व्यंगुलं भवेत् | पार्श्वसूत्रौ च मध्यस्थं समसूत्रे तु संस्थिताः || ४० || पार्श्वसूत्रात्पुरो बाहु पर्यन्तं चतुरंगुलम् | तत्सूत्रादपरे बाहु पर्यन्तं वसुमात्रकम् || ४१ || पूर्वापरकरौ मध्यौ कोर्परान्तं तु लग्नकौ | तत्करे बाह्यविस्तृतौ चतुरंगुलमिष्यते || ४२ || कर्तरी परहस्ताग्रौ हिक्कासूत्रसमाभवेत् | मध्यांगुलाग्रमुभयोस्तनसूत्रसमं भवेत् || ४३ || अभयं दक्षिणं हस्तं वरदं वाममुच्यते | प्राक्सूत्रादभये हस्ते मध्यं पंचदशांगुलम् || ४४ || प्. ३१३) वरदं वामहस्तं तु अधोमुखं तु प्रकल्पयेत् | तलमूलं कटिं स्पृष्ट्वा मेढ्रान्तं तु च तत्करे || ४५ || मध्यांगुल्यग्रमालम्ब्य ऊरोर्नीव्रं युगांगुलम् | ऊर्ध्ववक्त्रं तु वरदात् पृष्ठनाभिसमेढ्रकम् || ४६ || वरदं हस्ततले मध्यात् सर्वसूत्रात्कलांगुलम् | कर्तरी मणिबन्धास्तु बाहु बाह्यमुखं भवेत् || ४७ || अथवा रुद्रभागं तु दशांगुलमथापि वा | कोर्परात् पूर्वसूत्रान्तं रससप्तदशांगुलम् || ४८ || अष्टादशांगुलं वाथ एकोन विंशदेव वा | ऊरुमूलाद् द्वयोरन्तः एकांगुलमुदाहृतम् || ४९ || ऊरोर्मध्यान्तरं विंशत् यवमानमुदाहृतम् | जान्वन्तरं चतुर्मात्रं जंघयोः पंचमात्रकम् || ५० || नलकान्तरं रसांशं तु भूतांशं गुल्फयोन्तरम् | पार्ष्ण्यन्तरं चतुर्मात्रं रसांशं पादतलान्तरम् || ५१ || पदांगुष्ठाग्रयोरन्तः व्यान्तरं वसुमात्रकम् | आर्जवं राजसंभावं कल्प्येवं द्विजसत्तम ! || ५२ || कर्तरी परहस्तौ द्वौ जटामकुटसंयुतम् | * * * * * * * * दक्षिणेऽर्धेन्दुशेखरे || ५३ || वामेन्दु शेखरं वाथ प्रवालसदृशं प्रभुम् | त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् || ५४ || प्. ३१४) पीताम्बरधरं देवं वस्त्राग्रौ नलकान्तकौ | उभयोः पार्श्वयोरेवं अम्बरं ऊरुमध्यगम् || ५५ || केवलं ह्येवमाख्यातं वामे गौरी समन्वितम् | तद्गौरी सहितं ख्यातं भिन्नपीठैक एव वा || ५६ || तदेव भंग संयुक्ते देवी देवौ परस्परम् | देवो वरदहस्तेन देवीं बाह्य पराश्रिताम् || ५७ || स्तननाभ्यन्तरं वामपार्श्वमालिंगतं कुरु | पार्श्वसूत्रात्परे वामबाहुमालिंगनं तु वा || ५८ || देवी दक्षिणहस्तेन शम्भोर्दक्षिण पार्श्वतः | कटिसूत्रोपरि स्पृष्ट्वा पुष्पं वामकरोद्धृतम् || ५९ || अथवा प्राग्वद्देवेशो देव्यास्तु दक्षिणे करे | रक्तोत्पलं परिग्राह्य वामहस्तं प्रलम्बितम् || ६० || एवमालिंगमूर्तिस्तु त्रिधा मार्गेण कल्पयेत् | सर्वाभरणसंयुक्तं प्रभामण्डलसंयुतम् || ६१ || चन्द्रशेखरमाख्यातं वृषारूढमतः शृणु | इत्यंशुमान्काश्यपे चन्द्रशेखरमूर्तिलक्षणपटलः (षष्षष्टितमः) || ६६ || वृषवाहनमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना | आभंगं समभंगं वा कल्पयेत्कल्पवित्तमः || १ || दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् | उष्णीषमध्यमाद्वामे ललाटाद्वामके तथा || २ || वामनेत्रावसाने च वामनासापुटान्तके | दक्षिणे स्तनपीठस्य वामे नाभेश्च मध्यमे || ३ || वामोरुमध्यमे पार्ष्ण्योः मध्ये सूत्रं प्रलम्बयेत् | एवं तु समभंगं स्यात् न त मानं युगांगुलम् || ४ || मुखे पूर्ववदुद्दिष्टे दक्षिणे तु स्तनौ तथा | नाभेर्वामे गुणांशे तु वामोरोर्मध्यमे तथा || ५ || सु स्थितांघ्रौ तु गुल्फस्य ब्रह्मसूत्रं प्रलम्बयेत् | अति भंगमिदं ख्यातं न तं पंचांगुलं भवेत् || ६ || वृषस्य मस्तकोर्ध्वे तु न्यसेद्वै वामकोर्परम् | हिक्कासूत्रादधो विप्र ! कला वा द्विनवांगुलम् || ७ || वामकोर्परलम्बं स्यात् तस्मादासनसीमकम् | वृषभस्योदयं ख्यातं वृषं लक्षणवत्कृतम् || ८ || वृषमूर्ध्नि तु हस्तेस्तु मध्यांगुलाग्रसीमकम् | नाभिसूत्रसमं कुर्यादंगुलं वा नतोन्नतम् || ९ || तदहस्ततलं मध्यात् पूर्वसूत्रं यमद्वयम् | अधोमुखं प्रकर्तव्यं तद्धस्तं तु प्रसारयेत् || १० || प्. ३१६) दक्षिणे पूर्वहस्ते तु पार्ष्णिनाभेरधो बुधः | पक्षषोडशमात्रं वा नतं तत्सिंहकर्णवत् || ११ || वक्रदण्डायुधं तस्मिन् कल्पयेत्तु चलाचलम् | स्थितांघ्रिजानूर्ध्व सीमान्तं हिक्कासूत्रान्तमुन्नतम् || १२ || कनिष्ठांगुलि परीणाहं अग्रे वक्रान्वितं भवेत् | लोहजं दारुजं वाथ वक्रदण्डं तु कारयेत् || १३ || तद्धस्त मणिबन्धात्तु ऊरुमूलान्तदन्तरम् | पंचषट्सप्तमात्रं वा वसुनन्दांगुलं तु वा || १४ || परहस्त द्वयोश्चैव टंकं कृष्णमृगं धरेत् | टंकं दक्षिणहस्ते तु वामहस्ते मृगं भवेत् || १५ || परहस्तद्वयोरग्रं हिक्कासूत्रसमं भवेत् | एकद्वित्रिचतुष्पंचमात्रं वाथ नतं तु वा || १६ || जटामकुटयुक्तं वा जटाभारं तु लालितम् | जटाबन्धधरो वापि कर्तुरिच्छावशान्नयेत् || १७ || सर्वाभरणसंयुक्तं रक्ताभं रक्तवासभृत् | वामपार्श्वे ह्युमादेवी दक्षिणे वा विशेषतः || १८ || सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् | उत्पलं दक्षिणं हस्तं वामहस्ते प्रसारितम् || १९ || स्त्रीमानोक्तविधानेन उमादेवीं तु कारयेत् | वृषवाहनमाख्यातं नृत्तमूर्तिरथोच्यते || २० || इत्यंशुमान्काश्यपे वृषभवाहनमूर्तिलक्षणपटलः (सप्तषष्टितमः) || ६७ || अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम् | रुरुन्धवधनार्थं तु तद्भूता चर्ममुण्डनी || १ || रुरुंधवधनं कृत्वा तस्मास्वत्पंक्तिता मता | तदाहिंसोत्सुका देवा तदासुखनिवृत्तये || २ || तदा नृत्तं करिष्यामि सर्वलोकहिताय वै | देवानामार्तिनाशाय राजराष्ट्र विवृद्धये || ३ || नृत्तमष्टशतं भेदं तेषादौ नवमुच्यते | प्रागुक्तविधिना ग्राह्य बिम्बमानं द्विजोत्तम ! || ४ || उत्तमं दशतालेन सर्वांगं परिकल्पयेत् | भानुरुद्रदशांशेन तुंगं नृत्तानतं भवेत् || ५ || उष्णीषमध्यमात्सव्ये ललाटान्मध्य दक्षिणे | नीत्वा शिवांगुलं सव्ये नेत्रान्ते च पुटान्तके || ६ || हनोः सव्ये तु हिक्कायां मध्ये नाभेश्च मध्यमे | वामोर्वाभ्यन्तरे चैव स्थितां प्रौ (?) गुल्फमध्यमे || ७ || प्रभामण्डलमध्यात्तु पूर्वसूत्रं प्रलम्बयेत् | ललाटात्सूत्रनीव्रं तु युगांशं वार्धहीनकम् || ८ || प्. ३१८) गुल्फात्सूत्रान्तरं चैव तद्वदेव विधीयते | हिक्कामध्यात्तु सूत्रान्तं सार्धसप्ताष्टवांगुलम् || ९ || मकुटो वक पक्षाग्रात् सार्धाष्टांशं तथैव च | ऊर्ध्वकुक्षी स्पृशेत्पूर्वसूत्रमेवं प्रकल्पयेत् || १० || तत्सूत्राद् डोलबाह्वग्रं अर्धाधिक कलांगुलम् | तस्मादपरबाह्वग्रं युगांगुलमुदाहृतम् || ११ || तस्मादग्नि कराग्रान्तं साष्टत्रिंशांगुलं तु वा | चत्वारिंशतिमात्रं वा तस्मादौ गुणमात्रकम् || १२ || हिक्कासूत्रसमोद्धृत्य तद्धस्त मध्यमाग्रकम् | तद्धस्ततलमध्ये वा मध्यांगुल्याग्र पर्वके || १३ || मध्ये पर्वेऽथवा धृत्वा त्वनलं पात्रसंयुतम् | पात्रं विनाथवा वह्निं पंचांशं विस्तृतान्वितम् || १४ || तुंगं सप्तांगुलं वाष्टनवमात्रमथापि वा | त्रिपंच सप्तजिह्वायां कल्पयेत्तु यथोचितम् || १५ || अष्टाविंशति मात्रं वा त्रिंशदंगुलमेव वा | चत्वारिंशति मात्रं वा वामे संख्याः क्रमान्नयेत् || १६ || तद्धस्ते मणिबन्धोर्ध्वे हिक्कासूत्रसमं भवेत् | डमरुके मध्यपीठस्य सूचिकर्णान्तमुद्धृतम् || १७ || तर्जन्यग्रं तु सुचिः स्यात् तर्जनी ऋजुता भवेत् | अथवा चर्मसूत्रं तु पीड्यमध्यांगुलोपरि || १८ || प्. ३१९) अनामिकोपरिष्टात्तु डमरुकं परिकल्पयेत् | डमरुकदीर्घविस्तारं वसुपंचांगुलं तथा || १९ || मध्यं गुणांगुलं व्यासं पद्माकारं प्रकल्पयेत् | वलयद्वयसंयुक्तं वर्मसूत्रेण बन्धितम् || २० || यद्द्रव्येण कृतं बिम्बं तद्द्रव्येण समाचरेत् | सूच्यग्रात्कर्णसीमान्तं चत्वारिंशति मात्रकम् || २१ || स पंच चत्वारिंशच्च अष्टाविंशत्त्रयस्तथा | पार्श्वसूत्रसमं सूचिं चाग्निस्ते मध्यमांगुलम् || २२ || दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् | प्राक्सूत्रादभये हस्ते मध्यं भानुद्वयांगुलम् || २३ || तन्मध्यमांगुलाग्रं तु हिक्कासूत्रसमोद्धृतम् | सूत्रान्तात्कोर्परं नीव्रं चत्वारिंशति मात्रकम् || २४ || अभये प्रकोष्ठमध्ये तु भुजंगवलयं न्यसेत् | प्रकोष्ठमध्यनाहस्य पादं तस्य तु देशिकः || २५ || तदेतदुपरि ख्यातं फणं पंचांगुलं भवेत् | सप्तांगुलविशालं तु घनमेकांगुलं भवेत् || २६ || पुरस्थितान्मोक्ष्यं तु जीह्वा नीव्रसमन्वितम् | भुजंगवलयं ह्येवं कल्पयेत्कल्पवित्तमः || २७ || सूत्रात्कक्षान्तरं सव्यपार्श्वे द्वादशमात्रकम् | सूत्रान्मध्योदरं वामे नवांगुलमुदाहृतम् || २८ || प्. ३२०) वामे स्फिक् पिण्डनीव्रं तु सूत्रादष्टादशांगुलम् | सूत्रात्कुंचितजान्वोऽस्तु त्वन्तरं तु दशांगुलम् || २९ || नवांगुलं चाष्टमात्रं च जानुनीव्रं यथाक्रमम् | भानुरुद्रदशांगुल्यं नतमानेन कल्पयेत् || ३० || स्थितांघ्रि जान्वोर्वामांघ्री जानुनीव्रं प्रकल्पयेत् | कलांगुलं त्रिपंचमनुमात्रं वा जंघोस्तुद्वन्तरं त्रिधा || ३१ || स्थितांघ्रि नलका मध्याद्वामपार्ष्ण्यन्तरं बुधः | स वेद चत्वारिंशांशत्यंगुलं तु विधीयते || ३२ || स सप्त षट्चत्वारिंशदंगुलं वाथ तद्भवेत् | स्थित जान्वोद्धृतं पार्ष्ण्योः चतुर्विंशति मात्रकम् || ३३ || त्रयस्त्रिंशति मात्रं वा जान्वोः पार्ष्ण्यन्तरं द्विधा | उद्धृतांघ्रितलान्तं च स्थितजानूर्ध्व तत्समम् || ३४ || उद्धृतांघ्रेस्तु जानूर्ध्वं नाभिसूत्रसमं भवेत् | कोर्पराड्डोलहस्तस्य नाभि सूत्राद्दशांगुलम् || ८५ || एकादशांगुलं वाथ कल्पयेत्कोर्परान्तकम् | तद्धस्तो मणिबन्धाच्च वामजान्वोऽस्तु व्यन्तरम् || ३६ || दशांगुलं वाथ कर्तव्यं नवांगुलमथापि वा | डोलहस्ते तु मध्यस्थादंगुलाग्रं विशेषतः || ३७ || वामपादे तु जंघान्तं अन्तरं धर्ममात्रकम् | नवांगुलान्तरं वापि रुद्रांगुलमथापि वा || ३८ || प्. ३२१) डोलहस्तो भयान्तं तु द्व्यन्तरं तु दशांगुलम् | अन्यान्युक्तानि नीव्राणि यथा सौन्दर्यमाचरेत् || ३९ || केशान्ताद्बकपक्षस्य तुंगमष्टादशांगुलम् | सप्तादशांगुलं वाथ षोडशांगुलमेव वा || ४० || तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि | सुविकीर्ण जटाभारं पंचसप्त च नन्दकम् || ४१ || रुद्रसंख्याथवा विप्र उभयोः पार्श्वयोस्तथा | द्वात्रिंशांगुलमारभ्य सैकषष्ठ्यंगुलान्तकम् || ४२ || अंगुलांगुल वृद्ध्या तु जटादीर्घमुदाहृतम् | अधो जटादीर्घमेवं हि तस्मादूर्ध्वोर्ध्वमूर्धनि || ४३ || कनिष्ठांगुलि परीणाहं जटानाहमुदाहृतम् | जटान्तरं पुष्पमालाभिः अलंकृत्य विशेषतः || ४४ || नागं चैवार्क पुष्पं च धुर्धूरकुसुमं तथा | हसितं शीर्षकं चैव करोटी रत्नबन्धनम् || ४५ || भूषयित्वा तु मरुदे दक्षिणेऽर्धेन्दुशेखरम् | सिन्दूरालं कृतस्कन्दं अक्षमाल्यैरलंकृतम् || ४६ || भस्मोद्धूलित दिव्यांगं किंचित्प्रहसिताननाम् | यज्ञोपवीतसंयुक्तं उरुसूत्रसमन्वितम् || ४७ || देवांगे वोदरे मध्ये बाह्या वामेऽर्धनिर्गती | प्रभामण्डलमाश्रित्योदरबन्धाग्रकं द्विज ! || ४८ || प्. ३२२) व्याघ्रचर्माम्बरोपेतं ऊरुत्र्यंशावसानकम् | डोलबाहूर्ध्वतो बध्वा व्याघ्रचर्म द्विजोत्तम ! || ४९ || लम्बनं बाहुमूलं तु भानु वा मनुमात्रकम् | तदर्धं वा त्रिपादं वा विस्तारं तद्विजोत्तम ! || ५० || पादौ नूपुरसंयुक्तौ सर्वाभरणभूषितम् | हस्तपादांगुलीः सर्वाः रत्नहेमांगुलीयकाः || ५१ || मध्यमांगुलि वर्ज्या तु शेषा वै मुद्रिकाकान्विता | दक्षिणं कुंचितं पादं अपरोपरि स्थितम् || ५२ || तिर्यक् पादतलं न्यस्त्वा नृत्तं कुर्यान्महेश्वरम् | वामपादतलोद्धृत्य तिर्यग्दोर्दक्षिणानुगम् || ५३ || डोलहस्तमथार्त्य अपस्मारमथोच्यते | त्रिचतुष्पंच वक्त्रं वा अपस्मारस्य दैर्घ्यकम् || ५४ || अष्टाचत्वारिंशांशं वा अपस्मारोदयं कुरु | उष्णीषमेकभागेन केशान्तं च तथा भवेत् || ५५ || वस्वंगुलं मुखायामं गलमर्धांगुलं भवेत् | अध्यर्धांगुलमायामं कर्णव्यासं तु शेषतः || ५६ || हिक्कादि हृदयान्तं तु रसांगुलमुदाहृतम् | हृदादि नाभि पर्यन्तं तत्समं परिकीर्तितम् || ५७ || नाभ्यादि मेढ्रमूलान्तं मानं षण्मात्रमुच्यते | ऊरुदीर्घं तु सप्तांशं जानुदीर्घं द्वयांगुलम् || ५८ || प्. ३२३) जंघा दीर्घोरुतुल्यं स्यात् द्वयांशं चरणोदयम् | मन्वंशं तु करं हिक्का मध्यांगुलाग्रसीमकम् || ५९ || शेषं युक्त्या तु कर्तव्यं शयेत्तु तदधोमुखम् | शंभोः सव्ये शिरः स्थाप्य वामे पादौ विकीर्णितौ || ६० || अपस्मारोदरोच्चं तु धर्मनन्दाष्टमात्रकाः | तन्मुखं तु समुद्धृत्य व्याललीलामुदान्वितम् || ६१ || व्यालं वै वामहस्ते तु दक्षिणं तस्य मुद्रिकाम् | सस्य श्याम निभाकारं अपस्मारं द्विजोत्तम ! || ६२ || कलांशं पद्मपीठोच्चं विस्तारं तच्चतुर्गुणम् | स पादं सार्धपादोन द्विगुणं वा तदायतम् || ६३ || ऊर्ध्वपद्ममधः पद्मपिण्डिका लक्षणोक्तवत् | प्रभामण्डलसंयुक्तं अनेन विधिना कृतम् || ६४ || गुणांगुलं समारभ्य यावच्छतांगुलावधि | तावदेकांगुलार्द्ध्या तु साष्ठनदिथोदयम् || ६५ || एकांगुलं समारभ्य एकांगुलविवर्धनात् | प्राग्वत् संख्याघनं ख्यातं दण्डस्य प्रथमस्य तु || ६६ || तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्वक्रमशः कृशम् | एकद्वित्रिचतुष्पंच षट्सप्ताष्टनवं दश || ६७ || पुनः पुनस्तथा संख्या उपर्युपरि कल्पयेत् | कर्तरीश्चावशात्तेषु दण्डसंख्या तु तत्कुरु || ६८ || प्. ३२४) नानादललताभिश्च नानापुष्पोपशोभितम् | तस्योपरिष्टादनलं हस्ते त्वग्निरिवाकृतिः || ६९ || कर्तव्यं परितो विप्र ! तत्समं व्यन्तरानतम् | भानुमण्डलबद्धीमान् प्रभामण्डलवर्तिनम् || ७० || तस्य वामेऽप्युमादेवीं प्रागुक्त विधिना कुरु | एतत्स्यात्प्रथमं नृत्तं सर्वलोकहितावहम् || ७१ || तदेव दक्षिणे पार्श्वे जटाग्रे जाह्नवी भवेत् | शंभोर्देहांगुलेनैव षोडशांगुलमुन्नतम् || ७२ || स्त्रीमानोक्तांगसंपन्ना हृदयांजलि संयुता | एवं जाह्नवीसंयुक्तं नृत्तं चैव द्वितीयकम् || ७३ || तदेव वामपादं तु अपस्मारोपरि स्थितम् | उद्धृतं दक्षिणं पादं वामहस्तं प्रसारितम् || ७४ || ललाटमध्याद्वामे तु वामनासापुटान्तकम् | लम्बयेद् ब्रह्मसूत्रं तु स्थितं पादस्य गुल्फके || ७५ || शेषं प्रागिवकर्तव्यं नृत्तं चैव तृतीयकम् | सुविकीर्ण जटाभारं जटामकुटसंयुतम् || ७६ || जटामण्डलसंयुक्तं शेषं प्रथमनृत्तवत् | चतुर्थं नृत्तमेतद्धि सर्वप्राणि हितावहम् || ७७ || उष्णीषोर्ध्वेऽर्कमात्रान्तं सव्यपादं समुद्धरेत् | स्ववक्रं वामपादं तु अपस्मारोपरि स्थितम् || ७८ || प्. ३२५) भुजाष्टकसमायुक्तं एतत्पंचकमुच्यते | अभयं शूलपाशं च डमरुं दक्षिणे करे || ७९ || कपालमग्नि पात्रं च घण्टां हस्तिकरोपमम् | गजहस्तोपमं हस्तं प्रसार्यं दक्षिणानुगम् || ८० || यद्वत्प्रथमनृत्तस्य पूर्वसूत्रं प्रसारयेत् | चिह्नं पंचमनृत्तस्य एवमेवेति विद्यते || ८१ || दोर्भिः षोडशभिर्युक्तं वामे गौरी समन्वितम् | स्कन्दधृत् * * * * * वामहस्ते धृतांजलिः || ८२ || तदंजलि करो मध्यं न्वन्त हिक्कावसानकम् | स्कन्दो भयकराभ्यां तु हनुस्तनं धृगादरात् || ८३ || एवं गौरीं समीक्ष्येशमित्यादिस्ते द्विहस्तया | अभयं डमरुकं चैव वज्रं शूलं तथैव च || ८४ || पाशं दक्षिणां तथा दण्डं नागं वै दक्षिणे तथा | सव्यानुगकरण्डैर्वा वेतालं वामानुभंगजापमम् || ८५ || अनलं मीयरं चैव वलयं केतुरेव च | घण्टां चैव कपालं च वामपार्श्वेऽष्टहस्तके || ८६ || पादेन पंचमं नृत्तस्य यत्तत्तद्वद् विधीयते | षष्ठमेवं समाख्यातं सप्तमं शृणु सुव्रत ! || ८७ || त्रिणेत्रं चाष्टहस्तं च सुविकीर्ण जटायुतम् | कुंचितं वामपादं तु अपस्मारोपरि स्थितम् || ८८ || प्. ३२६) वामभागे शिरस्तस्य सुविकीर्णांघ्रि दक्षिणे | उद्धृतं दक्षिणं पादं अंगुष्ठ जंघाग्रसीमकम् || ८९ || पूर्वसूत्रात्तदंगं तु नीव्रं भान्वंगुलं भवेत् | अभयं शूलपाशं च डमरुं दक्षिणे करे || ९० || कपालं चाग्निपात्रं च तथा विस्मयहस्तकम् | गजहस्तोपमं वामे चतुर्थो ह्येवमेव हि || ९१ || गजहस्तोपमं हस्तं सव्यासव्यानुगं तु वा | ललाटस्य तु मध्यात्तु वामे तु स्तनमध्यमे || ९२ || वामांघ्रि नलका मध्ये लम्बयेद् ब्रह्मसूत्रकम् | तत्सूत्राद्वामजान्वोऽस्तु नीव्रं नवांगुलं भवेत् || ९३ || नतमानं दशांशं स्यात् वामे गौरी समायुतम् | सप्तमं नृत्तमाख्यातं जगदार्तिविनाशनम् || ९४ || तदेव षड्भुजोपेतं अभयं डमरुं तथा | शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा || ९५ || गजहस्तोपमं वामे सूत्रं प्रागुक्तदष्टकम् | पंचमस्य च नृत्तस्य षष्टमं शृणु सुव्रत ! || ९६ || नेत्रद्वयोऽपि विख्यातो शेषास्तु त्रीणि नेत्रकम् | चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् || ९७ || अभयं डमरुं सव्ये वामेऽग्निगजहस्तवत् | अपस्मारं विना पीठे वामांघ्रिः कुंचितं स्थितम् || ९८ || प्. ३२७) तत्तत्पुरः स्थितं पीठे सव्यपादकनिष्ठिकाम् | तत्पादं कुंचितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् || ९९ || नवमं नृत्तमाख्यातं गंगाधरमतः परम् | इत्यंशुमान्काश्यपे नृत्तमूर्तिलक्षणपटलः (अष्टषष्टितमः) || ६८ || गंगाधरमहं वक्ष्ये संक्षेपाच्छृणु सुव्रत ! | सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् || १ || ललाटमध्यमात्सव्ये नीत्वा नवयवान्तकम् | दक्षिणेऽप्यक्षिसीमान्ते सव्यनासापुटान्तके || २ || हिक्कामध्ये समालंब्य नाभेस्सव्ये द्वयांगुलम् | दक्षिणे मेढ्रमूलस्य मध्यमाद् द्व्यंगुलान्तके || ३ || पार्ष्ण्योश्च मध्यमे चैव ब्रह्मसूत्रं प्रलम्बयेत् | युगांशं नतमानं तु पादांगुष्ठ द्वयोन्नतम् || ४ || अष्टादशांगुलं प्रोक्तं त्र्यंशं पार्ष्णिद्वयोत्तरम् | विश्लीषं स्याज्जटाबन्धं वामेत्वीषन्नताननम् || ५ || दक्षिणे पूर्वहस्तं तु वरदेव्याननाश्रितम् | वामे तु पूर्वहस्तेन देवीमालिंगनं कुरु || ६ || दक्षिणे परहस्तं तु जटाजाह्नविसंयुतम् | उष्णीषान्तं समुद्धृत्य वामे कृष्णमृगं धृतम् || ७ || प्. ३२८) देवस्य वामपार्श्वे तु गौरीर हिताननम् | सुस्थितं वामपादं तु कुंचितं दक्षिणे भवेत् || ८ || आभंगेन नतं सूत्रं कल्पयेत्कल्पवित्तमः | प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृत् || ९ || अथवा दक्षिणं हस्तं प्रकोष्ठं तिर्यग गतम् | श्रोण्यधस्तात्तलम्बं स्याद्वस्त्रद्धृतमिवाकृतिः || १० || सर्वालंकारसंयुक्तं सर्वाभरणभूषितम् | गम्भीरं दक्षिणे पार्श्वे ऋषिभिः प्रार्थितेश्वरः || ११ || गंगाधरहरं देवं ततो वै त्रिपुरान्तकम् | इत्यंशुमान्काश्यपे गंगाधरमूर्तिलक्षणपटलः (एकोनसप्ततितमः) || ६९ || त्रिपुरान्तकमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना | त्रिचतुष्पंचमात्रं स्यात् नतमानं यथाक्रमम् || १ || आभंगं समभंगं चाप्यति भंगमिति त्रिधा | प्रतिमोच्चं नतं तुंगं भंगमानं हि कल्पयेत् || २ || पादांगुष्ठ द्वयोश्चैव त्वन्तरं षोडशांगुलम् | आभंगं तद्विजानीयात् अष्टादशांगुलं समम् || ३ || विंशत्यंगुलमाख्यातं अतिभंगमिति त्रिधा | तत्त्रिभागैकभागं तु पार्ष्ण्योश्च त्वन्तरं भवेत् || ४ || प्. ३२९) उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके | हनोर्वामे समालंब्य दक्षिणस्तन वामके || ५ || नाभेर्दक्षिणपार्श्वे तु वामोरुः सव्यपार्श्वके | दक्षिणांघ्रौ तु पार्ष्ण्योस्तु वामपार्श्वे तु लम्बयेत् || ६ || आभंगसूत्रमाख्यातं समभंगमथ शृणु | ललाटं मध्यनासाग्रं पादयोः पार्ष्णिमध्यमे || ७ || लम्बयेत्पूर्वसूत्रं तु अन्तरं तु वदाम्यहम् | तत्सूत्राद्वामपार्श्वे तु हिक्कामध्यं शिवांगुलम् || ८ || अर्धांगुलं तु तत्सूत्रात् वामे हृदयमध्यमम् | तत्सूत्राद्दक्षिणे नाभिमध्यमं तु द्वियंगुलम् || ९ || तत्सूत्राद्दक्षिणे चैवमग्रं चैव युगांगुलम् | तत्सूत्राद्वामगोजानोरन्तरं द्वादशं यवम् || १० || समभंगमिति ख्यातं अतिभंगमथ शृणु | उष्णीषाद्वामपार्श्वे तु नेत्रान्ते तत्पुटान्तके || ११ || दक्षिणस्तन मध्ये तु तत्सूत्रं तु गुणांगुलम् | नाभिमध्यात्तु वामे तु सूत्रनीव्रं द्वयंगुलम् || १२ || तत्सूत्राद्वामजान्वन्तं मध्यमं त्रिविधीयते | वामांघ्रिपार्ष्णिसव्ये तु पार्श्वसूत्रं प्रलम्बयेत् || १३ || स्पर्शनं वेशनं नीव्रं समपादस्थानकोक्त च | एवं त्रिभंगसूत्रेषु संमिश्रं तु न कारयेत् || १४ || प्. ३३०) उत्तमं त्वतिभंगं स्यात् मध्यमं समभंगकम् | आभंगमधमं ख्यातं त्रिपुरान्तकमूर्तिनः || १५ || दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् | दक्षिणे पूर्वहस्तोर्ध्वं नाभिसूत्रावसानकम् || १६ || सिंहकर्णं तु तद्धस्तं पाणिमध्यं तु पीडितम् | बाणायामं सप्तविंशत्यंगुलं तु विधीयते || १७ || कनिष्ठांगुलि परीणाहं देवेशस्य करे तु तत् | आस्यं पंचांगुलं व्यासं मात्रोच्चं व्याससादृशम् || १८ || आस्यतुंगसमं पुच्छं अग्न्यंगुलं तदायतम् | वामहस्ते धनुर्धृत्वा कक्षान्तं तत्करोर्ध्वकम् || १९ || एकद्वित्र्यंगुलं वापि तस्य नेत्रोद्धृतं तु वा | विंशदंगुलतुंगं त्रिः पंचसप्तनवांगुलम् || २० || हीनं वाप्यधिकं वापि नवधा धनुषायुधम् | पूर्णमुष्टिस्तु नाहं स्यान्मध्यादग्रं क्रमात्कृशम् || २१ || अग्रमध्यांगुलं व्यासं वृत्तं वर्णैर्विचित्रितम् | बाणनाहं त्रिभागैकं रज्जुनाहं तु तन्तुना || २२ || धनोर्दार्घैकभागे तु सप्तांशं रज्जुदैर्घ्यकम् | तद्दीर्घस्यानुकूल्यं तु धनोर्वक्रमुदाहृतम् || २३ || त्रिवक्रसहितं वाथ बालचन्द्राभमेव च | धनुषाकृतिरेव स्यात् लोहजं दारुजं तथा || २४ || प्. ३३१) कर्तरी परहस्तौ द्वौ टंककृष्णमृगान्वितौ | टंकं दक्षिण हस्ते तु वामहस्ते मृगं धृतम् || २५ || जटामकुटसंयुक्तं सर्वाभरणभूषितम् | प्रवालसदृशप्रख्यं वामे गौरीसमन्वितम् || २६ || त्रिपुरान्तकमूर्तेस्तु प्रथमं लक्षणं त्विदम् | तदेव वामपादं तु अपस्मारोपरिस्थितम् || २७ || शेषं प्रागिव कर्तव्यं द्वितीयं लक्षणं भवेत् | सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् || २८ || शेषं प्रागिव कर्तव्यं सूत्रं चितिरपार्श्वकम् | तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षणं शृणु || २९ || तदेव वामपादं तु अपस्मारोपरिस्थितम् | प्रागिवैव विशेषं तु चतुर्थं लक्षणं तु वा || ३० || कटके बाणधरे हस्ते मध्यरेखा कलांगुलम् | तिथ्यंशं मनुमात्रं वा त्रयोदशांगुलमेव वा || ३१ || भानुरुद्रांगुलं वाथ अन्तरं षड्विधं भवेत् | तत्करे कोर्परं नीव्रं श्रोणिपार्श्वे तथा भवेत् || ८२ || कक्षाद्धनुर्धरे हस्ते मणिबन्धान्तरं तथा | तत्करे कोर्परोद्धृत्यं हृदयान्तमुदाहृतम् || ३३ || एकद्वित्रिचतुष्पंचमात्रं तस्मात्तदन्तु वा | सर्वेषामपि सामान्यप्यन्तरं कथितं मया || ३४ || प्. ३३२) तदेव पूर्वहस्तौ द्वौ कटको हृदि सीमके | वामदक्षिणहस्तं च क्रमादूर्ध्वमधोमुखम् || ३५ || बाणमूलधृतं सव्यं वामबाणासनोद्धृतम् | परहस्ते दक्षिणे टंकं धनुश्चैव तु वामके || ३६ || तद्धस्ते तु मृगं वाथ वामे गौरीसमन्वितम् | अपस्मारं विना पादं नतं सूत्रं च प्रागिव || ३७ || एवं चतुर्भुजोपेतं मूर्तं पंचविधं भवेत् | अतिभंगसमोपेतं अष्टहस्तसमन्वितम् || ३८ || बाणं च परशुं खड्गं अभयं दक्षिणे करे | धनुर्विस्मयहस्तं च खेटकं कटकं तथा || ३९ || वामहस्ते समाख्यातं पूर्वसूत्रात् करान्तकम् | यथा शोभनतुंगं वा कल्पयेद्गौरिसंयुतम् || ४० || षष्ठमेवं समाख्यातं सप्तमं दशदोर्युतम् | बाणं चक्रं तथा शूलं टंकं वज्रं च दक्षिणे || ४ || धनुश्शंखं तथा सूचिविस्मयं खेटकं तथा | वामे पंचकरे ख्यातं अतिभंगमथोपरि || ४२ || तदेव दक्षिणं जानुं रथस्याधो निधापयेत् | तत्पूर्वे वामपादं तु तलं न्यस्त्वा रंथोपरि || ४३ || रथं तु मुकुलोपेतं मुकुलं रज्जुना वृतम् | मुकुलाभ्यन्तरे ब्रह्मा चतुर्वक्त्रश्चतुर्भुजः || ४४ || प्. ३३३) तस्य दक्षिण हस्तौ द्वौ वेणुदण्डकमण्डलुम् | कुण्डिकं पद्मपाशं च वामहस्तद्वये धृतम् || ४५ || रथस्य मुकुला धस्ताद् वृषभं श्वेतवर्णकम् | रथं त्वापन्नमार्गेण कल्पयेत्कल्पवित्तमः || ४६ || त्रिपुरान्तकमाख्यातं अष्टभेदं द्विजोत्तम ! | प्रवालसदृशं वर्णं सत्वराजसमाश्रितम् || ४७ || सर्वाभरणसंयुक्तं एकवक्त्रं त्रिणेत्रकम् | तस्य वामेऽप्युमा देवीं प्रागुक्तविधिना कुरु || ४८ || इत्यंशुमान्काश्यपे त्रिपुरान्तकमूर्तिलक्षणपटलः (सप्ततितमः) || ७० || अथ कल्याण मूर्तेस्तु लक्षणं वक्ष्यतेऽधुना | ललाटमध्यमाद्वामे वामनेत्रावसानके || १ || वामनासापुटान्ते च हिक्कामध्ये तु लम्बयेत् | दक्षिणे नाभि मध्यात्तु देववह्न्यंगुलं तु वा || २ || नीत्वा हिक्कांघ्रिगुल्फस्य मध्ये सूत्रं प्रलम्बयेत् | अन्तरं मानसूत्रं च समभंगं यथा तथा || ३ || सुस्थितं वामपादं तु दक्षिणं कुंचितं भवेत् | दक्षिणे पूर्वहस्तं तु गौरीदक्षिणहस्तधृत् || ४ || प्. ३३४) वरदं वामहस्तं तु परहस्तं द्वये ततः | दक्षिणे परशुं वामे परे कृष्णमृगं धृतम् || ५ || जटामकुटसंयुक्तं सर्वाभरणभूषितम् | देवं प्रवालवर्णाभं देवेशस्य विशेषतः || ६ || सस्य श्याम निभा देवीं प्राग्वन्मानादिसंयुता | उत्पलं वामहस्ते तु धृता दक्षिणहस्तकम् || ७ || शंभोर्हस्तेन संग्राह्य जलालम्बननाश्रितम् | पार्वत्यानुगता श्रीभूमिः सर्वाभरणभूषिता || ८ || हस्ताभ्यां संस्पृशेदेतौ गौर्यास्तु कटिं द्विज ! | देवाग्रे कारयेत्कुण्डे होमकर्म प्रजापतिः || ९ || शंभोर्वै स्तनसीमान्तं ब्रह्मणस्योदयं बुधः | चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् || १० || कुण्डिकां चाक्षमालां च वामेऽवामेधरो परे | स्रुक्स्रुवौ पूर्वहस्ते तु धृतो वामेतरे क्रमात् || ११ || उत्तराभिमुखासीनं पद्मपीठे प्रजापतिः | प्रागग्रौ देवि देवेशौ देवी देवस्य दक्षिणे || १२ || दक्षिणाभिमुखो विष्णुर्होमस्योत्तरदिक् स्थितः | शंभोर्नास्यग्रसीमान्तं श्रेष्ठं हीनं स्तनान्तकम् || १३ || तयोर्मध्येऽष्टभागेन नवधा केशवोदयम् | श्यामवर्णं समाभंगं शंखचक्रं परे करे || १४ || प्. ३३५) हिरण्यकरकेणाषः पूर्वहस्तदयोरपि | संग्राह्य वरदे हस्ते दद्यादुदकपूर्वकम् || १५ || अनादि गोत्रसंभूतं तं शिवं परमेश्वरम् | आदिगोत्रामिमां गौरीं तथैवाहं ददाम्यहम् || १६ || इत्युक्त्वा वरदे हस्ते भक्त्या दद्योदकं हरिः | अष्टलोकेश विद्येशाः सिद्धयक्षगणादयः || १७ || ऋषयश्चैव गन्धर्वा मातरश्चान्य देवताः | तत्तच्छक्तिसमोपेता हृदयांजलिसंयुताः || १८ || संभ्रान्तमनसोपेताः संवीक्ष्य परितः स्थिताः | एवं कल्याणमूर्तेस्तु अर्धनारीश्वरं तथा || १९ || इत्यंशुमान्काश्यपे कल्याणसुन्दरमूर्तिलक्षणपटलः (एकसप्ततितमः) || ७१ || अथार्धनारीमूर्तेस्तु वक्ष्येऽहं शृणु सुव्रत ! | चतुर्भुजं च द्विभुजं द्विविधं परिकीर्तितम् || १ || समभंगस्थानकस्योक्तमार्गेणैव नतायतः | सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् || २ || वामेऽर्धपार्वती युक्तं दक्षिणेऽर्धं महेश्वरम् | अभयं परशुं सव्ये हस्ते तत्तु शिवांशकम् || ३ || प्. ३३६) वृषभमूर्ध्नि विन्यस्त कोर्परं वामहस्तके | तदन्यवामहस्ते तु कटकं पुष्पसंयुतम् || ४ || द्विभुजे वरदं सव्ये वामहस्ते तु पुष्पधृत् | शिवस्या भरणं सव्ये वामे स्त्रीभूषणान्वितम् || ५ || पुंस्तनं दक्षिणे पार्श्वे वामे स्त्रियः पयोधरम् | अथवा कुंचितं सव्यं पादं वामं तु सुस्थितम् || ६ || सव्यं शूलधरं हस्तं वामं पुष्पधरं भवेत् | वरदं दक्षिणं हस्तं अन्योक्षशिरकोर्परम् || ७ || कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम् | दक्षिणे रौद्रदृष्टिः स्याद्वामपार्श्वे तु शीतलम् || ८ || दुकूलं चोरुमध्यान्तं सव्यं गुल्फान्तमन्यकम् | एवं समासतः प्रोक्तं अर्धनारीश्वरं हरम् || ९ || इत्यंशुमान्काश्यपे अर्धनारीश्वरमूर्तिलक्षणपटलः (द्वासप्ततितमः) || ७२ || अथ वक्ष्ये विशेषेण गजारेर्मूर्तिलक्षणम् | ललाटमध्यनासाग्रात् वा वेतुस्तनमध्यमात् || १ || वामस्फिक् पिण्डमध्यात्तु पूर्वसूत्रं प्रसारयेत् | तत्सूत्राद्दक्षिणे वामपादपार्ष्ण्यन्तरं द्विज ! || २ || साष्टत्रिंशतिमात्रं वा षट्त्रिंशत्यंगुलं तु वा | तत्सूत्रादमतः सव्यपादांगुष्ठान्तरं द्विज || ३ || एकविंशति मात्रं वा एकोनविंशदेव वा | सर्वाभरणसंयुक्तं चतुर्दोरष्ट एव वा || ४ || चतुर्भुजं चेत्पाशं च गजचर्म च दक्षिणे | गजशृंगं च चर्मं च वामपार्श्वे करद्वये || ५ || चतुर्दोरेवमाख्यातं अष्टहस्तमथोच्यते | शूलं डमरुकं पाशं गजचर्म च दक्षिणे || ६ || गजशृंगं कपालं च गजचर्म च विस्मयम् | वामपार्श्वे तु चत्वारो हस्ता एवं प्रकीर्तितम् || ७ || शंभोर्वामांघ्र्यधस्तात्तु गजस्यैव तु मस्तकम् | मकुटस्योपरिष्टात्तु गजपुच्छं प्रकल्पयेत् || ८ || पार्श्वयोर्गजपादास्तु यथा युक्त्या तु कारयेत् | प्रभामण्डलवच्छेषं गजचर्म प्रकल्पयेत् || ९ || व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् | सर्वालंकारसंयुक्तं अतिरत्नसमप्रभम् || १० || एवं तु गजहामूर्तिः प्रथमं तु विधीयते | शूलं खड्गं तथा चर्म गजशृंगं च दक्षिणे || ११ || कपालं खेटकं घण्टां गजचर्म च वामके | ललाटमध्यनासाग्रदक्षिणस्तनमध्यमात् || १२ || सव्यस्फिक् पिण्डमध्यात्तु लम्बयेद् ब्रह्मसूत्रकम् | सुस्थितं वामपादं तु गजमूर्ध्नस्तु देशिक ! || १३ || प्. ३३८) उद्धृतं दक्षिणं पादं तिर्यगुत् टितं भवेत् | तदंघ्रिपार्ष्ण्यात् स्फिक् पिण्डात्वन्तरं चतुरंगुलम् || १४ || तज्जानुर्वामक्षस्य सीमासूत्रं समं नयेत् | एवं द्विविधमाख्यातं गजहारिं च चोच्यते || १५ || स्कन्दोद्धृतह्युमादेवी शंभोर्वामे भयान्विता | एवं हि कल्पितं बिम्बं राजराष्ट्रविवृद्धिदम् || १६ || इत्यंशुमान्काश्यपे गजहारिमूर्तिलक्षणपटलः (त्रिसप्ततितमः) || ७३ || अथ वक्ष्ये पाशुपत मूर्तेर्लक्षणमुच्यते | समपादं स्थानकं च चन्द्रशेखरमूर्तिवत् || १ || त्रिणेत्रं चतुर्भुजं सौम्यं ऊर्ध्वकेशं महातनुम् | अभयं शूलहस्तं च दक्षिणे तु करद्वयम् || २ || वरदं चाक्षमालां च वामपार्श्वकरद्वयम् | प्रवालसदृशप्रख्यं सौम्यनेत्राति शीतलम् || ३ || सर्वाभरणसंयुक्तं किंचित्प्रहसिताननम् | नित्योत्सवायबिम्बं तत् स्थानकं वासनं तु वा || ४ || तदेवाग्नि समकर्णं रक्ताक्षं कुटिलभ्रुवम् | तीक्ष्णदंष्ट्रास्य संयुक्तं व्यालयज्ञोपवीतकम् || ५ || प्. ३३९) ज्वालामाला शिखाकारं अतिरक्त निवासधृत् | शूलं ह्यधोमुखं धृत्वा कपालं वरदे धृतम् || ६ || अथवाभयं विना शूलमूलं भृत्त्वा तु तत्करे | शूलाग्रं वरदेनैव संग्राह्य त्र्यजथो धृतम् || ७ || दक्षिणे तु परे हस्ते टंकं खड्गं तु वामके | रौद्रं पाशुपतं ह्येतत् बिम्बे लिंगे तु पूजितम् || ८ || ध्यानपूजानिमित्ताय तन्मूर्तिं च वदाम्यहम् | एतां मूर्तिं सकृद् ध्यायेत् सर्वशत्रुविनाशनम् || ९ || एतां तु रौद्र मूर्तिं तु प्रतिमां तु न कारयेत् | इत्यंशुमान्काश्यपे पाशुपतमूर्तिलक्षणपटलः (चतुस्सप्ततितमः) || ७४ || अथ कंकालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना | पादौ तु पादुकोपेतौ वामपादं तु सुस्थितम् || १ || प्रेक्ष्यधा सव्यपादं तु त्वीषच्चैव समुद्धृतम् | शुद्ध श्वेतानिभं वर्णं च सर्वाभरणभूषितम् || २ || रत्नकंचुकबद्धांग जटामकुटमण्डितम् | धूर्धूरपुष्पं नागं च वामे सव्येन्दुशेखरम् || ३ || हसितं वक्त्रं संधार्य सुगेयगणसेवितम् | किंचित्प्रकाशितान्तस्थ दर्शनं सुविलासितम् || ४ || प्. ३४०) गेयशृंगारसंयुक्तं आस्यमेवं प्रकीर्तितम् | कर्णौ कुण्डलसंयुक्तौ वामे शाखादलं तु वा || ५ || पूर्वहस्तद्वयोर्वामे ढक्का सव्ये प्रहारकम् | दक्षिणं हरिणी वक्त्रे व्याहितं सिंहकर्णवत् || ६ || वामहस्ते तु पिंछं च कंकालास्थीं च धारयेत् | ततस्थ्या कृति निर्माणद्विपादद्विकरान्वितम् || ७ || कृष्णश्यामनिभाकारं अपाने दण्डवेशनम् | दण्डं कंकालपादौ द्वौ रज्जुना बन्धयेद्बुधः || ८ || केतुकिंकिणि नेत्राढ्य निष्कान्तं रुचिरं तु वा | एतत्कंकाल नाम्ना तु वामस्कन्धोपरि न्यसेत् || ९ || अनेकभूतैर्जायाभिः सेवितं त्वादरान्वितैः | बलिपात्रधरं भूतं वामाग्रे गमनान्वितम् || १० || दर्व्यात्वनन्तु तत्पात्रे निधाय कृतिजायया | किंचित्प्रकाशितं योनि संयुक्ता नग्नवाससः || ११ || संभ्रान्तमनसोपेताः जायास्सर्वास्त्वनेकशः | ललाटवामपार्श्वे तु नेत्रान्ते तत्पुटान्तके || १२ || हन्वन्तस्य तु वामे तु हिक्कामध्ये हृदिस्तथा | नाभेस्सव्ये युगांगुल्ये वामपादस्य गुल्फके || १३ || मध्ये तु लम्बयेद् ब्रह्मसूत्रं हीनाधिकं विना | आभंगस्योक्त मार्गेण नतमानं प्रकल्पयेत् || १४ || प्. ३४१) व्याघ्रचर्माम्बरोपेतं दूकूलवसनान्वितम् | दक्षिणे कटिपार्श्वे तु क्षुरिकाश्चैव बन्धयेत् || १५ || क्षुरिकां हेमसंकाशां उपबन्धसमन्विताम् | उभयोः पार्श्वयोर्हस्ते नानानागविभूषितम् || १६ || ऋषिभिर्देवगन्धर्व सिद्धविद्याधरादिभिः | हृदयांजलि संयुक्ते संभ्रान्तमनसान्वितैः || १७ || संमानितं सदानन्दं सेवितं तैः सुपूजितम् | वीथिं संमार्जयेद्वायुः पर्जन्यो जलसेचनम् || १८ || पुष्पवृष्टिं कृता देवाः शंख * * * * * * | * * * * * * * * ऋषयः स्तोत्र पाठकाः || १९ || ऋग्यजुस्सामाथर्वैश्च स्तुत्यं कुर्यात्पुरे पुरे | चर्मबन्धं च कंसं च कदम्बं सुषिरमेव वा || २० || शंखध्वनिसमायुक्तं पंचशब्द महारथैः | तुम्बुरु नारदाः सर्वैश्च गेयकर्म सलक्षणम् || २१ || छत्रं धृत्वा रविच्चित्रं चामरा दिव्ययोषितः | सर्वलोकोपकारार्थं इन्द्रस्य भवनादिषु || २२ || रक्षां करोम्यहं विप्र कंकालस्य तु मोक्षदम् | काश्यपोवाच || त्वया वै धारितस्यास्य कंकालस्योद्भवं कथम् || २३ || इदानीं पुरतो विप्र मृत्युते तु जनार्दनः | तद्देहं भुवनादित्वं भये यस्तु स्वशक्तयः || २४ || प्. ३४२) कम्पितात्तु समस्ताण्डात् तदा स्वण्डाधिवासिनः | प्रार्थये युस्तु मां भक्त्या तेषां भयनिवृत्तये || २५ || अण्डानां सुस्थितार्थं तु सर्वे लोकोपकारकम् | कंकालं मोचनार्थं तु तद्धृतैव महद्विज ! || २६ || भिक्षान्ते मोचयेदेतत् कंकालं माधवे भवेत् | एवं कंकालमाख्यातं हर्यर्धं च ततः शृणु || २७ || इत्यंशुमान्काश्यपे कंकालमूर्तिलक्षणपटलः (पंचसप्ततितमः) || ७५ || अथ वक्ष्ये विशेषेण हर्यर्धं तु हरं परम् | आर्जवं सुस्थितं देवं स्थानकं समपादकम् || १ || दक्षिणे त्वभयं वामे कटकं ह्यूरुमाश्रितम् | परशुं दक्षिणे हस्ते वामे शंखायुधं परम् || २ || सव्ये वामे च मुकुटे जटाकीटं प्रकल्पयेत् | प्रवालश्यामवर्णं च तद्योग्याभरणान्वितम् || ३ || दक्षिणं तूग्रदृष्टिं स्यात् वामे दृष्ट्याति शीतलम् | किंचित्प्रकाशितं चोर्ध्वदृष्ट्या चैव ललाटके || ४ || सर्वाभरणसंयुक्तं उचिताम्बरभूषितम् | शिरश्चक्रसमायुक्तं तस्यलक्षणमुच्यते || ५ || प्. ३४३) रुद्रांगुल विशालं तु तद्भान्वंशेन तद्घनम् | सुवृत्तं चक्रवद्विप्र ! पद्माकृतिरथापि वा || ६ || शिरश्चक्रविशालं तु सप्तभागैकभागिकम् | शिरश्चक्रस्य नालस्य विस्तारं द्विजसत्तम || ७ || चक्रतार त्रिभागैकं चक्रादाशिरसोत्तमम् | अग्रे ललाटपट्टस्य शिरश्चक्रस्य नालकम् || ८ || गुणांगुले कृकाट्योर्ध्वे चक्रनालस्थितिर्भवेत् | चक्राद्गुणांगुलं लम्ब्य पुष्पमाला तु मध्यमात् || ९ || सर्वेषामपि देवानां देवीनां ह्येवमाचरेत् | इत्यंशुमान्काश्यपे हर्यर्धमूर्तिलक्षणपटलः (षट्सप्ततितमः) || ७६ || अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम् | पादौ पादुकसंयुक्तौ वामपादं तु सुस्थितम् || १ || ईषदुद्धृत्य सव्यं तु भगवान्गमनोत्सुकः | ललाटमध्यमात्सव्ये यवाष्टौ वा नवान्तरे || २ || नासाग्रादधरे वामे हिक्कामध्यात्तु वामके | हृन्मध्ये नाभिसव्ये तु षोडशं तु यवान्तरे || ३ || स्थितांघ्रिगुल्फमध्ये तु पूर्वसूत्रं प्रलम्बयेत् | आभंगवत्ततः ख्यातं समभंगमथापि वा || ४ || प्. ३४४) पादौ पादुकसंयुक्तौ पादुकारहितं तु वा | सुविकीर्णजटाभारं जटामण्डलमेव वा || ५ || विवृतबन्धजटावाथ नग्नरूपं नताननम् | ललाटपट्टसंयुक्तं ककोटिट्यन्दुशेखरम् || ६ || सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् | शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् || ७ || दक्षिणे पूर्वहस्तं तु मृगास्यास्यष्टिकं भवेत् | वामे तु पूर्वहस्तं तु वरदं स्यात्कपालधृत् || ८ || दक्षिणे परहस्ते तु डमरुं च धरेद्द्विज ! | वामे तु शिखिपिंछं तु कर्तव्यं शीतलं धृतम् || ९ || सितवस्त्रोत्तरीयं तु नागेन कटिवेष्टितम् | श्वेतयज्ञोपवीतं तु नीलकण्ठं त्रिपुण्ट्रवत् || १० || पद्मपीठोपरिष्टात्तु शेषं कंकालमूर्तिवत् | काश्यप उवाच || त्वमेव वक्तुं तस्यैव हेतुं मे वक्तु मर्हसि || ११ || ईश्वर उवाच || देवासुर महायुद्धे ब्रह्मणस्तु शिरस्तु भृत् | तद्दावानाम पार्श्वं स्यादनवेषं वदेत्सदा || १२ || तेना सुरास्ते विजिता देवा स्वपवाश्रिताः | देवतास्तु हितास्सर्वे प्रार्थयेयुस्तु मां द्विज || १३ || प्. ३४५) देवानां विजयार्थं तु सर्वलोकोपकारकम् | दानवानां विनाशार्थं ब्रह्ममूर्तिं हनाम्यहम् || १४ || तत्कपालास्समस्ताण्डा दवहेतयस्तु कंपिताः | तद्ब्रह्माण्डाधिपाः सर्वे महाभयसमन्विताः || १५ || प्रविशेयुस्तु महादेवा वदेयुस्वण्डकात्वनम् | अन्यानां सुप्रतिष्ठार्थं देवानामभयार्थकम् || १६ || सर्वलोकोपकारार्थं सर्वप्राणिहितावहम् | तत्कपालस्यमोक्षार्थं भिक्षाकारोऽस्म्यहं द्विज || १७ || एवं कृते तु भिक्षान्ते कपालं मोक्षमादिशेत् | इत्यंशुमान्काश्यपे भिक्षाटनमूर्तिलक्षणपटलः (सप्तसप्ततितमः) || ७७ || अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं भवेत् | उमा सहितवत्सर्वं वामे किंचिन्नताननम् || १ || दक्षिणे त्वभयं वर्ज्यं तद्धस्तं वरदं भवेत् | वामे तु कटकं वर्ज्यं न्यस्त्वा चण्डेशमूर्धनि || २ || हृदयांजलिसंयुक्तो चण्डेशो भक्तिसंयुतः | आसीनोऽथसुखासीनश्चण्डेशः स्वर्णसंनिभः || ३ || देवी देवेशयोर्मध्ये स्कन्दमूर्तिं विना द्विज | चण्डेशानुग्रहं ख्यातं दक्षिणामूर्ति तत्परम् || ४ || इत्यंशुमानकाश्यपे चण्डेशानुग्रहमूर्तिलक्षणपटलः (अष्टसप्ततितमः) || ७८ || अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम् | लम्बितं दक्षिणं पादं वामांघ्रेर्नलकाग्रकम् || १ || सव्योर्वग्रे निधातव्यं वामपादं तु शाययेत् | ललाटदक्षिणे सव्ये नेत्रान्ते तत्पुटान्तके || २ || हिक्कामध्यस्य वामे तु हृदयं मध्यवामके | यवत्रयान्तरं नीत्वा लम्ब्य वामे तु मध्यमे || ३ || मेढ्रमूलस्य मध्यात्तु पूर्वसूत्रं प्रलम्बयेत् | नत मध्यर्धमात्रं स्यात् चतुर्भुजसमन्वितम् || ४ || दक्षिणे पूर्वहस्तं तु ज्ञानमुद्रां तु कारयेत् | दक्षिणे परहस्तं तु अक्षमालासमन्वितम् || ५ || वरदं वामहस्तं स्यात् दण्डहस्तमथापि वा | वामजानूपरिष्टात्तु वरदे तलपृष्ठकम् || ६ || वामजानूपरिष्टात्तु दण्डं चेत्कोर्परं न्यसेत् | वामे त्वपरहस्ते तु वह्निं वा व्यालमेव वा || ७ || अत्यर्जुवक्त्रं सर्वांगं मार्दवं स्फटिकावटम् | सुकीर्णमूर्धांगं वापि जटामण्डलमेव वा || ८ || वामे धूर्धूरनागं च दक्षिणेऽर्धेन्दुशेखरम् | हसितं वक्त्रसंयुक्तं सर्वाभरणभूषितम् || ९ || सितवस्त्रोत्तरीयं च सितयज्ञोपवीतकम् | त्रिणेत्रं शंखपत्रं तु वामे सर्वं तु कुण्डलम् || १० || प्. ३४७) कर्णौ द्वौ शंख पत्रं वा कुण्डलं वाथ मण्डितम् | रुद्राक्षैः कण्ठमाला च भस्मना च विभूषितम् || ११ || व्याघ्रचर्माम्बरोपेतं सर्वक्लेश विवर्ज्तम् | नारदो जमदग्निश्च वसिष्ठो भृगु दक्षिणे || १२ || भारद्वाजः शोनकश्च अगस्त्यो वामपार्श्वके | नान्दिना किंनराद्यैश्च वटवृक्षसमुद्गृहम् || १३ || अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् | सूत्रात्पादजंघापार्ष्ण्यन्तं त्रिवेदमनुमात्रकम् || १४ || सूत्रात्तत्पादजान्वोस्तु अन्तरं मनुमात्रकम् | श्यामवर्णमपस्मारं नागलीलासमन्वितम् || १५ || धर्मव्याख्यानमूर्त्येवं कल्पयेत्कल्पवित्तमः | तदेव वामपादेन कुटीकासनसंयुतम् || १६ || पूर्वहस्तद्वये वीणाधृतो वै तु द्विजोत्तम ! | शेषं प्रागिव कर्तव्यं एतद्वीणाकरं भवेत् || १७ || तदेव वीणाहीनं तु ज्ञानमुद्राभयान्वितम् | वामं प्रसारितं हस्तं वामजानुर्ध्वकोपरि || १८ || दक्षिणे ह्यपरे चाक्षमाला वामेब्जवोत्पलम् | शुद्धश्वेतनिभं वर्णं शेषं पूर्ववदाचरेत् || १९ || ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् | अन्योन्यांघ्रितलं विप्र ! स्फिक् पिण्डाधः प्रकल्पयेत् || २० || प्. ३४८) ज्ञानमुद्राहृदस्थाने भ्यन्तरमुखं करम् | वरदं वामहस्तं तु मेढ्रपीठोपरिन्यसेत् || २१ || अपरे दक्षिणे वाब्जमालाक्षं वामहस्तके | नासाग्रं तु समीश्चक्ष्याक्षवार्जवं सूत्रदेहके || २२ | अपरे तु जटालं स्यात् ऋषिभिस्सेवितं वरम् | योगमूर्तिरिति ख्यातं सर्वपापहरं परम् || २३ || एवं चानेकभेदेन दक्षिणामूर्तिरुच्यते | इत्यंशुमान्काश्यपे दक्षिणामूर्तिलक्षणपटलः (एकोनाशीतितमः) || ७९ || अथ वक्ष्ये विशेषेण कालदाहस्य लक्षणम् | वसुनन्ददशांशं वा नतमानं द्विजोत्तम || १ || रुद्रभान्वंगुलं वाथ नतमानमथोच्यते | ललाटदक्षिणे सव्यनेत्रमध्ये तथैव च || २ || हिक्कामध्यर्धवामे तु वामस्तनाक्ष दक्षिणे | नाभिमध्यात्तु वामे तु सूत्रान्तरं यवाष्टकम् || ३ || मेढ्रमूलस्य मध्यात्तु वामे षडंगुलं नयेत् | स्थितोंघ्रिगुल्फ मध्ये तु पूर्वसूत्रं प्रसारयेत् || ४ || देवस्य दक्षिणं पादं पद्मपीठोपरि स्थितम् | प्रथमं नृत्तमूर्तेस्तु दक्षिणस्थितपादवत् || ५ || प्. ३४९) वामपादं तदुद्धृत्य कुंचितं तलमुद्धृतम् | अंगुष्ठमुद्धृतांघ्रेस्तु कालस्य हृदये न्यसेत् || ६ || स दंष्ट्रास्यं त्रिणेत्रं च जटामकुटमण्डितम् | चतुर्हस्तसमायुक्तं अष्टहस्तमथापि वा || ७ || दक्षिणे पूर्वहस्तं च शूलं कर्णान्तमुद्धृतम् | दक्षिणे परहस्तं तु परशुं वामदं तु वा || ८ || वामे पूर्वकरं नाभिसीमान्तं सूच्यधोमुखम् | सूच्यग्रात्पूर्वसूत्रान्तं कलामन्वंगुलं तु वा || ९ || कर्णे शूलधरे हस्ते मणिबन्धान्तरं तु वा | वामे त्वपरहस्तं तु विस्मयं परिकल्पयेत् || १० || हिक्कासूत्रसमं टंकं करं तद् द्व्यन्तरं मुखम् | उष्णीषान्तं समुद्धृत्य विस्मयेऽनामिकाग्रकम् || ११ || कर्णान्तं मणिबन्धान्तं शूलहस्तसमान्तरम् | चतुर्हस्तं समाख्यातं अष्टहस्तमतः शृणु || १२ || शूलं च परशुं वज्रं खड्गं दक्षिणहस्तके | विस्मयं खेटकं पाशं सूचिहस्तं च वामके || १३ || विद्रुमस्य निभाकारं सर्वाभरणभूषितम् | कालहामूर्तिराख्याता अधस्थात्कालमुच्यते || १४ || महाभयसमायुक्तं स पाशं हृदयेंजलिम् | विकीर्णपादौ मां दृष्ट्वा शाययेदूर्ध्ववक्त्रकम् || १५ || प्. ३५०) कालहामूर्तिराख्याता लिंगोद्भवमतः परम् | इत्यंशुमान्काश्यपे कालहारिमूर्तिलक्षणपटलः (सप्ततितमः) || ८० || व्यत्यस्त पादताण्डेश्वराय नमः || अथ वक्ष्ये विशेषेण लिंगोद्भवमतः परम् | लिंगाकारस्य मध्ये तु चन्द्रशेखरमूर्तिवत् || १ || नलका पादतलं विप्र ! लिंगारूढसमन्वितम् | ब्रह्मा तु हंसरूपेण ऊर्ध्वगं वामपार्श्वके || २ || विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतम् | विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः || ३ || हृदयांजलि संयुक्तौ स्थितौ लिंगं समीक्षितौ | रक्तश्यामहिरण्याभं ईशविष्णुपितामहान् || ४ || एवं लिंगोद्भवं ख्यातं वृक्षसंग्रहणं तथा | इत्यंशुमान्काश्यपे लिंगोद्भवमूर्तिलक्षणपटलः (एकाशीतितमः) || ८१ || अथ वक्ष्ये विशेषेण वृक्षसंग्रहणं परम् | देवानां चैव देवीनां शूलार्थं वृक्षमुच्यते || ६ || प्. ३५१) स्त्रीपुंनपुंसकं चेति वृक्षभेदं त्रिधा भवेत् | स्निग्धे वास्निग्धा भूमौ वा आर्जवं सुदृढं घनम् || २ || अल्प स्कन्धसमायुक्तं फलं पंचदलं दृढम् | शीतलोष्णं च संमिश्रं अल्पस्नेहरसान्वितम् || ३ || यत्तत्पुंलिंगमाख्यातं देवानां तदिहोच्यते | स्निग्धे वा स्निग्धभूमो च आर्जवं चातिमार्दवम् || ४ || मूलादग्रं क्रमात्क्षीणं पुष्पं चैव फलं दलम् | अतिमार्दवसंयुक्तं अतिशीतलसंयुतम् || ५ || अतिस्नेहसमायुक्तं रसं चैव तथा भवेत् | एतत् स्त्री वृक्षमाख्यातं देवीनां शूलयोग्यकम् || ६ || क्षीणमूलसमायुक्तं पत्रं पुष्पं फलं तथा | अतिदुर्बलसंयुक्तं यत्तद् षण्डमुदाहृतम् || ७ || चन्दनं चंपकं चैव रक्तचन्दनमेव च | सालं च खादिरं चैव सोमशीर्षकतिन्दुकम् || ८ || अर्जुनं शिंशुपं चैव राजादन मधूककम् | आम्रकं कुसुमं चैव सप्तपर्णं च धन्वनम् || ९ || शूलयोग्याद्रुमाः ख्यातास्तेषां तत्सुदृढं गृहेत् | जीर्णा वक्रान्तराश्रुत्यां शिरः शून्याति शालिकाः || १० || स्वयं पतित वृक्षाश्च स्वयमेव तु शोषिताः | वक्रकोटरसंयुक्ता व्यालपक्षिसमाश्रिताः || ११ || प्. ३५२) वाताशनि पदाभिन्ना वल्लीजातिभिरावृताः | गुल्मवल्मीकमाश्रित्य चण्डाला वा समाश्रिताः || १२ || देवालय सभा चैत्यश्वशानपथिजाद्रुमाः | नृपमन्दिरं संश्रित्य कर्मकारालयाश्रिताः || १३ || रुद्रमन्दिरसंश्रित्य चर्मकारालयाश्रिताः | अन्धा (क्र?)चैव तु वृक्षाश्च अन्यकर्मसु योजिताः || १४ || वर्जयेत्तु प्रयत्नेन गृहीते कर्तृनाशनम् | तस्मात्सर्वप्रयत्नेन दोषाढ्यं परिवर्जयेत् || १५ || प्रशस्त ऋक्षवारेषु शस्तवृक्षं तु संगृहेत् | आचार्यः शिल्पकश्चात्र वृक्षस्थाने तु संगृहेत् || १६ || निरीक्ष्य बहुवृक्षाश्च उक्तवृक्षं परिग्रहेत् | वृक्षाधस्ताद्गुणादीनि व्यपोह्यावपनं गुरुः || १७ || एतन्मंत्रं समुच्चार्य अष्टदिक्षु बलिं क्षिपेत् | एतद्वृक्षाश्रिता देवा दानवाश्च पिशाचकाः || १८ || नागागरुडगन्धर्वाः सिद्धविद्याधराश्च ये | यूयं बिम्बार्थ वृक्षात्तु गच्छेयुस्ते यथा सुखम् || १९ || इत्युक्त्वा तु बलिं दद्यात् दध्याज्यान्नं सपुष्पकम् | रक्तचन्दनसंयुक्तं गन्धतोयसमन्वितम् || २० || वृक्षस्येशानदिग्भागे ततो होमं समाचरेत् | स्थण्डिलं सिकतैः कुर्याद्धस्तमात्रप्रमाणतः || २१ || प्. ३५३) अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् | समिदाज्यैश्चरुभिश्च होमं कृत्वा तु देशिकः || २२ || समिधो हृदयेनैव मूलेनाज्यं तु होमयेत् | अघोरेण चरुं हुत्वा प्रत्येकाष्टशताहुतिः || २३ || जयादिरभ्यतानैश्च राष्ट्रभृच्चैव होमयेत् | ततश्चाग्निं समुद्वास्य वृक्षं प्रोक्ष्य शिवाम्भसा || २४ || शिवात्मकेति मन्त्रं तु जप्य वृक्षं स्पृशेद्बुधः | वृक्षस्य पूर्वभागे तु मुखं पृष्ठं तु पश्चिमम् || २५ || दक्षिणं सव्यपार्श्वं स्याद्वामपार्श्वं तथोत्तरम् | ध्यात्वैवं लक्षयित्वा तु पश्चाच्छेदनमारभेत् || २६ || अस्त्रमंत्रं जपेद्वृक्षमूलं त्रिश्छेद्यलक्षयेत् | क्षीरं तोयं घृतं श्रेष्ठं सृक् स्रु(?)वे वन्यशोभनम् || २७ || असृक्स्रावेऽस्त्रमंत्रेण शान्ति होमं समाचरेत् | वृक्षमूलमशेषं तु स्थपतिश्छेदयेत्क्रमात् || २८ || पूर्वे वा चोत्तरे देशे वृक्षस्य पतनं शुभम् | अन्यत्र पतितं वृक्षं वर्जयेत्तु प्रयत्नतः || २९ || स्कन्धच्छेदं ततः कुर्यात् आर्जवं तं तरुं कुरु | गव्यैर्गन्धोदकैः स्नाप्य गन्धमाल्यैरलंकृतम् || ३० || नववस्त्रेण संछाद्य दर्भैर्वा सूक्ष्मरज्जुना | स्यन्दने शिबिकायां वा रोप्य स्कन्धेन वा बुधः || ३१ || धृत्वा शनैश्शनैर्गत्वा कर्ममण्टपमाचरेत् | मण्टपं मार्जनं कृत्वा गोमयालेपनं कुरु || ३२ || पिष्टचूर्णैरलं कृत्य तन्मध्ये स्थूल वालुकैः | स्थण्डिलं कारयेद्विद्वान् शूलदीर्घसमायुतम् || ३३ || तस्यार्धं विस्तरोपेतं चतुरंगुलमुन्नतम् | प्रागग्रं शाययेत्तस्मिन् शूलवृक्षमधोमुखम् || ३४ || आशुष्कं रक्षयेद्विद्वान् मासं पक्षमथापि वा | पश्चाच्छूलं तु कर्तव्यं त्वरितं तु न कारयेत् || ३५ || इत्यंशुमान्काश्यपे वृक्षसंग्रहणपटलः (द्व्यशीतितमः) || ८२ || अथ वक्ष्ये विशेषेण शूललक्षणमुत्तमम् | ऊर्ध्वकायसमं वं?श दण्डदीर्घमुदाहृतम् || १ || मध्योदरविशालस्य चतुर्भागैकविस्तृतम् | मूलेष्टांश विहीनं तु तस्याग्रं अ ततं भवेत् || २ || नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम् | तदूर्धं वृत्तमाख्यातं शेषं वर्तुलमेव वा || ३ || द्वात्रिंशदंगुलायामं वक्षोदण्डायतं भवेत् | विस्तारं सार्धषण्मात्रं सार्धसप्तांगुलं तु वा || ४ || प्. ३५५) विस्तारार्धघनं ख्यातं वक्षो दण्डं तदुच्यते | अग्रं युगांगुल व्यासं मध्यादग्रं क्रमात्कृशम् || ५ || वक्षोदण्डस्य मध्ये तु छिद्रं सार्धगुणांगुलम् | हिक्कासूत्रादधस्तात्तु यावत्स्याद्द्व्यंगुलावधि || ६ || वक्षोदण्डोर्ध्वसाम्यं स्याद् द्व्यंशं दण्डे तु योजयेत् | षोडशांगुलमायामं कटिदण्डस्य देशिक || ७ || वस्वंगुलं तु तत्तारं घनं वेदांगुलं भवेत् | मध्ये युगांगुलं छिद्रं नाभेः पंचांगुलादधः || ८ || कटिदण्डोर्ध्व मध्ये स्याद्वंशदण्डे तु योजयेत् | वक्षोदण्डाग्रयोर्विप्र ! कटिदण्डाग्रयोरपि || ९ || अथ वक्त्र शिखां कुर्यात् अनेन विधिना बुधः | एकद्वित्रिचतुष्पंच षट्सप्ताष्टकरं तु वा || १० || बिम्बोचितकरं यत्तत् संख्या वक्रशिखान्विताः | द्व्यंगुलं च शिखायामं हस्तसंख्यापि तन्ततः || ११ || वक्षोदण्डविशालं तु हस्तसंख्यात्तु भाजिते | शिखाव्यासं तदेकांशं मूलेग्रे तु कृशं क्रमात् || १२ || कटिदण्डाग्रयोर्वक्रशिखायामं गुणांगुलम् | सार्धांगुलं तु तत्तारं सुवृत्तं तद्घनं समम् || १३ || स्थानकं सकलं चेत्तु ऊरुदीघोपरि द्विजः ! | अष्टांगुलं समारोप्य ऊरुशूलायतं भवेत् || १४ || प्. ३५६) आसने सकलं चोरुदीर्घादूर्ध्वं न रोपयेत् | ऊरुमूले सुषिं कृत्वा कटिदण्डाग्रयोर्बुधः || १० || शिखायामं समायोज्य यावद्बलधयं यथा | जानुमानं द्विधा कृत्वा ऊरुजंघाद्वयोरपि || १६ || आरोपयेच्छिखामानं तस्मादारोपयेद्बुधः | गुणांगुलं शिखामानं जंघादीर्घोभयैर्युतम् || १७ || मध्यच्छिद्रसमायुक्तं ऊर्वग्रं द्विशिखान्वितम् | जंघामूलं त्रिभागैकं शिखा व्यासमुदाहृतम् || १८ || जानुसंधिं विना वाथ स्थानके सकलं कुरु | संधि हीनांघ्रिशूलं तु एवमेवं विधीयते || १९ || जंघादीर्घोपरिष्टात्तु तालमानं तु रोपयेत् | ऊरुमध्यत्रिभागैकं ऊरुदण्डस्य विस्तृतम् || २० || तस्याग्रं तु त्रिपादं स्याज्जंघामूलं तु तत्समम् | जंघामूलत्रिभागैकं हीनं जंघाग्रविस्तृतम् || २१ || त्रिधापादतलायामं कृत्वा भागद्वयान्वितम् | स?लाग्रविस्तृतं तद्द्वित्रिद्व्यंश विस्तृतान्वितम् || २२ || एतत्पादतलं शूलं स्यात्समध्यायता परे | कर्तव्यं सुषिरं तस्मिन् जंघाग्रादधिकायतम् || २३ || योज्य स्निग्ध दृढं कृत्वा बाहुमूलमथोच्यते | बाहुमूलविशालं तु गुणांगुलमुदाहृतम् || २४ || प्. ३५७) अग्रं तु द्व्यंगुलं व्यासं प्रकोष्ठाग्र विशालकम् | बाहुप्रकोष्ठयोश्चैव कोर्परं जानुवद्भवेत् || २५ || द्व्यंगुलं तु शिखामानं योजयेत् तु दृढं यथा | पर्श्वयोर्वंशदण्डस्य पार्श्वदण्डे तु योजयेत् || २६ || कक्षान्तरं तु तद्दीर्घं तद्व्यासं तु गुणांगुलम् | वंशदण्डसमं नीव्रं ऊर्ध्वाधस्ताच्छिखान्वितम् || २७ || अग्रौ तु वक्षो दण्डे तु मूलौ तु कटिदण्डके | योजयेत्सुदृढं छिद्रे गुणांशं व्यन्तरान्वितम् || २८ || अग्रौ मूलौ निरुद्धं स्यात् पार्श्ववंशद्वयोरपि | हस्तपादतलं श्रोत्रं ताम्रपत्रेण योजयेत् || २९ || आर्जवे वक्रबिम्बे च शूलं चैव तथा कुरु | देवानां शूलमेवं स्यात् देवीनामथ वक्ष्यते || ३० || मध्योदरं त्रिधा भज्य एकांशं वंशविस्तृतम् | अष्टांश हीनमग्रस्य विशालं तत्सुवृत्तकम् || ३१ || बाहुपर्यन्त विस्ताराद्बाहुतत्यर्धवर्जितम् | वक्षोदण्डायतं शेषं तस्यान्तं विसृतं भवेत् || ३२ || युगांशं पृष्ठमानं तु शेषं गर्ते तु वेशनम् | जंघा दण्डात्तु षण्मात्रं रोपयेत्स्थानके बुधः || ३३ || गर्भगर्त प्रवेशार्धं तलाधस्तात्तु तद्भवेत् | शूलमेवं समाख्यातं उपधाशूलमुच्यते || ३४ || प्. ३५८) भित्तिमध्यं समारभ्य वक्षो दण्डपुरान्तकम् | उपशूलायतं प्रोक्तं अष्टांगुलततं भवेत् || ३५ || वेदांगुलं तु तन्नीव्रं शूलयोग्यद्रुमैर्बुधः | शूलव्याससमं मध्यं छिद्रं तद्विशिखान्वितम् || ३६ || भित्तिमध्यात्तु शूलस्य मूलं बध्वा दृढं बुधैः | वक्षोदण्डकटीदण्डं धृत्वा वंशाख्यशूलकम् || ३७ || छिद्रे दृढतरं चाग्निं तत्पूर्वे कीलबन्धनम् | उपथाशूलशिखान्तं च वक्षोदण्डपुरं समम् || ३८ || उपथाशूलशिखायां तु वंशाग्रे सुषिरं कुरु | लोहजं दारुजं वाथ कीलं संयोजयेद्दृढम् || ३९ || बिम्बास्तच्छूलमाख्यातं तस्मादुक्तवदाचरेत् | शूललक्षणमाख्यातं शूलस्थापनमुच्यते || ४० || इत्यंशुमान्काश्यपे शूललक्षणपटलः (त्र्यशीतितमः) || ८३ || अथ वक्ष्ये विशेषेण शूलस्थापनमुत्तमम् | कर्षणोदितमासे च ऋक्षवारमुहूर्तके || १ || निश्चित्य स्थापनं तस्य पूर्वे कृत्वांकुरार्पणम् | प्रासादस्याग्रतो वैशे मण्टपं च चतुरश्रकम् || २ || प्. ३५९) पंचहस्तकरं वापि नवहस्तमथापि वा | पंक्तित्रयसमायुक्तं षोडशांघ्रिसमन्वितम् || ३ || दलमष्टांगुलोत्सेधं पंक्तिव्यासांघ्रितुंगकम् | यथा लाभं परीणाहं निर्व्रणं दारुणा दृढम् || ४ || बिले वंशानुवंशाढ्यं नालिकेरदलादिभिः | छादयेत्तु वितानेन मुक्तास्रग्दर्भमालिकाम् || ५ || तरंग वेष्टनोपेतं द्वारतोरणसंयुतम् | चतुर्द्वारसमायुक्तं स्तम्भवेष्टनसंयुतम् || ६ || चतुर्द्वारं विनान्यत्र निश्छिद्रं जालकं तु वा | मण्टपस्य त्रिभागैकं मध्ये वेदी विशालकम् || ७ || तत्त्रिभागैकभागं तु वेदिकोदयमिष्यते | गुणांगुलं विशालोच्चात्तस्याधश्चोपवेदिकाम् || ८ || दर्पणोदरसंकाशां कृत्वा रक्तमृदा कृताम् | कृत्वान्यत्राग्नि कुण्डानि त्वनेन विधिना कुरु || ९ || चतुरश्रं धनुर्वृत्तं पद्मं पूर्वादि दिक्षु च | शक्रशांकरयोर्मध्ये वृत्तकुण्डं प्रकल्पयेत् || १० || कुण्डमेवं समाख्यातं केवलानां विशेषतः | गौरी सहितबिम्बं चेत् कोणेष्वश्वत्थ पत्रवत् || ११ || कुण्डानि कल्पयेच्छेषं प्रागिवैव प्रकल्पयेत् | कुण्डं लक्षणवत्कृत्वा सर्वकुण्डानि देशिकः || १२ || प्. ३६०) गोमयालेपनं कृत्वा पिष्टचूर्णैरलंकृतम् | ब्राह्मणान्भोजयेत्तस्मिन् पुण्याहं वाचयेत्ततः || १३ || महेन्द्रे तु पदे वास्तु होमं कृत्वा विधानतः | वेदिकाभ्यग्निकुण्डानि पर्यग्निकरणं कुरु || १४ || तद्दिनाद्दिवसात्पूर्वे रात्रौ पूर्वायामधिवासयेत् | स्थण्डिलं वेदिकायां तु चाष्टद्रोणैश्च शालिभिः || १५ || कर्तव्यं नलिनं तत्र साष्टपत्रं सकर्णिकम् | तण्डुलैस्तिलदर्भैश्च लाजैः पुष्पैरलंकृतम् || १६ || शपंच हितेनैव वस्त्रेणैव तु कल्पयेत् | धूपदीपसमायुक्तं पुष्पैरर्घैरथार्चयेत् || १७ || मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत् | तन्मध्ये दारुपीठं तु न्यस्त्वा तस्योपरि न्यसेत् || १८ || प्राङ्मुखं स्थापयेच्छूलं गव्येनैवाभिचेषयेत् | शुचिवोहव्यमन्त्रेण कृत्वा गन्धोदकैर्हृदा || १९ || स्थापयेद्देव देवीं च गन्धपुष्पादिभिर्यजेत् | कौतुकं बन्धयेद्देवं तयोर्दक्षिणहस्तके || २० || पुष्पैः कार्पाससूत्रैर्वा कवचेनैव बन्धयेत् | लम्बकूर्चसमायुक्तं नववस्त्रेण वेष्टयेत् || २२ || नृत्तगीतसमायुक्तं वेदध्वनिसमायुतम् | शयने शाययेच्छूलं प्राक्शिरश्चोर्ध्ववक्त्रकम् || २२ || तस्य वामे ह्युमादेवी शूलं दक्षिणतस्तथा | प्. ३६१) तयोः शिरोन्तिके देशे स्थापयेत्तद्घटद्वयम् || २३ || ससूत्रं सापिधानं च वरकूर्च सुवेष्टितम् | द्रोणगन्धाम्बु संपूर्णं शिवकुंभं तदुच्यते || २४ || तस्यार्धतोयसंपूर्णं प्राग्वत्सूत्रादिभिर्युतम् | गौरीशूलसमायुक्ते गौरीकुंभमिदं वरम् || २५ || मुलमन्त्रं शिवे कुम्भे न्यस्त्वा गन्धादिभिर्यजेत् | गौरीकुंभं तथाऽभ्यर्च्य स्वस्वमन्त्रैर्विशेषतः || २६ || परितोऽष्टघटं न्यस्त्वा सूत्रवस्त्रादिसंयुतान् | विद्येशमूलमन्त्रैश्च स्थाप्य गन्धादिभिर्यजेत् || २७ || वास्तुहोमाग्निना कुण्डे त्वग्निं संकल्प्य देशिकः | अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् || २८ || अश्वत्थं पूर्वकुण्डे तु वह्निमाग्नेय गोचरे | याम्ये तु सौन्दरं ख्यातं खादिरं नैर्-ऋतौ द्विजः || २९ || बिल्वं पश्चिमदिग्भागे मायूरं वायुगोचरे | वटं वै सौम्यकुण्डे तु त्वर्कं वै त्वीशगोचरे || ३० || प्रधाने ब्रह्म वृक्षस्य समिद्गौरी समन्वितम् | विना कोणेषु कुण्डानि विना गौरीं द्विजोत्तम ! || ३१ || समिधो हृदयेनैव पुरुषेण घृताहुतिः | अघोरेण चरुं हुत्वा लाजं वामेन होमयेत् || ३२ || सक्तुमीशानमन्त्रेण तिलं वै शिरसा हुनेत् | प्. ३६२) सर्षपं कवचेनैव शिखया मुद्गमेव च || ३३ || गुलमस्त्रेण प्रत्येकं अष्टोत्तरशतं हुनेत् | द्रव्यान्ते व्याहृतिं हुत्वा देवी देवेशयोस्समम् || ३४ || जयादिरभ्यातानैश्च राष्ट्रभृद्भिश्च होमयेत् | दिशास्वध्ययनं वेदान् स्तोत्रं वै विदिशासु च || ३५ || उच्चार्याध्ययनं तत्र ह्युपांशुर्होममाचरेत् | देवीदेवेशयोर्मूल मन्त्रमष्टशताहुतिः || ३६ || घृतेनैव तु हुत्वाऽठ शूलं स्पृष्ट्वा परस्परम् | नृत्तगीतैश्च वाद्यैश्च रात्रिशेषं व्यपोह्य च || ३७ || प्रभाते विमले धीमान् आचार्यो मूर्तिपैस्सह | जलस्नानं च कर्तव्यं भस्मस्नानमनन्तरम् || ३८ || शुक्लवस्त्रोत्तरीयं च शुक्लयज्ञोपवीतधृत् | शुक्लमाल्यानुलेपाद्यैः भूष्यपंचांगभूषणैः || ३९ || पवित्रपाणिनोपेतः सकलीकृतविग्रहः | आचार्यः सुप्रसन्नात्मा शिवद्विजकुलोद्भवः || ४० || प्रविश्य मण्टपं पश्चात् शूलकुंभं हुताशनम् | गन्धादिभिस्समभ्यर्च्य पूजनं च विशेषतः || ४१ || जयादिरभ्यातानैश्च राष्ट्रभृच्चापि होमयेत् | स्विष्टमग्नेति मन्त्रेण पूर्णाहुतिमथाचरेत् || ४२ || प्रविश्यगर्भगेहं तु एकाशीति पदं कुरु | प्. ३६३) मण्डूकाख्यपदे वाथ सप्तसप्तांशमेव वा || ४३ || गर्भगेहं तु कर्तव्यं ज्ञात्वा ब्रह्मादयं पदम् | स्थानकं देविकांशे तु आसनं मानुषे पदे || ४४ || गर्भगेहपरे भागे स्थापयेद्देशिकोत्तमः | आसनं भद्रपीठे तु स्थानकं वेदिकोपरि || ४५ || प्रागुक्त विधिना पीठव्यासायामोदया कृतिः | कर्तव्यं सुन्दरं तस्मिन् आधाराख्य शिलां न्यसेत् || ४६ || पीठव्यास त्रिपादं तु आधाराख्यशिलां न्यसेत् | समाश्रं सायतं वापि तदर्धं तद्घनं भवेत् || ४७ || स्थानकं सकलं चेत्तु पादाधस्ताद्द्विजोत्तम ! | आधाराख्यशिलायां तु रत्नगर्तं प्रकल्पयेत् || ४८ || निम्नं षडंगुलं ख्यातं गर्तव्यासं गुणांगुलम् | मूले तु नवरत्नं वा हेमं वा तत्र निक्षिपेत् || ४९ || शूलपादतलाधस्तात् स षण्मात्रायतान्वितम् | प्रागेव कल्पयेद्धीमान् स्थापनार्थं बलान्वितम् || ५० || आसने तु चतुर्मात्रं वंशदण्डे निधाय च | मुहूर्ते समनुप्राप्ते गुरवे संनिवेदयेत् || ५१ || आचार्यस्तु समुद्धृत्य बाह्यधाम प्रदक्षिणम् | सर्वातोद्यसमायुक्तं सर्ववाद्यसमन्वितम् || ५२ || प्रविशेद्गर्भगेहं तु मूलमन्त्रमुदाहरन् | प्. ३६४) स्थापयेदवटे शूलतलाधस्ताद्दृढं यथा || ५३ || अष्टबन्धदृढं कृत्वा सुधया वा विशेषतः | तस्य वामे तु संस्थाप्य गौरीशूलं विशेषतः || ५४ || आधाराख्य शिलायां तु गर्भभाजनमावटम् | पंचषट्सप्तमात्रं वा गर्तव्यासं तथा नवम् || ५५ || गर्भन्यासं तु तत्रैव गर्भभाजनसंयुतम् | प्रागुक्त विधिना स्थाप्य गन्धपुष्पादिभिर्यजेत् || ५६ || स्थापयेत्पूर्ववच्छूलं मूलं वै गर्भभाजनम् | यत्र शेषं तु यत्कर्मशिल्पिभिस्तु विशेषतः || ५७ || कर्तव्यं लक्षणोपेतं स्थपतिः शिल्पिरुच्यते | स्थपतिश्चित्रकर्मज्ञो योज्यश्चान्यैर्न कारयेत् || ५८ || कृतं चेदन्यथा विप्र ! कर्ता चान्यो भविष्यति | आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः || ५९ || दक्षिणां दापयेत्तत्र पंचनिष्कहिरण्यकम् | शूलस्थापनमाख्यातं रज्जुबन्धमथ शृणु || ६० || इत्यंशुमान्काश्यपे शूलस्थापनविधिपटलः (चतुरशीतितमः) || ८४ || अथ वक्ष्ये विशेषेण रज्जुबन्धं शृणु द्विज ! | सर्वासु शूलसंध्यासु ताम्रपत्रैस्तु वेष्टयेत् || १ || शूलेऽष्टबन्धमालिप्य रज्जुबन्धं ततो विदुः | श्रीवेष्टकं कुन्दुरुष्कं गुग्गुलं च गुलं तथा || २ || सर्जरसं गैरिकं च घृततैलेऽष्टबन्धनम् | श्रीवेष्टनं चतुर्भागं कुन्दुरुष्कं गुणांशकम् || ३ || गुग्गुलं पंचभागं स्याद् एकांशं गुलमुच्यते | सर्जरसं तु वस्वंशं गैरिकं तु गुणांशकम् || ४ || षडैते सूक्ष्मचूर्णं तु कृत्वाज्यं तैलमिश्रितम् | मृत्पात्रे तं विनिक्षिप्य पाचेत्क्षौद्राकृतिर्यदा || ५ || तदा तु शूलमालिप्य रज्जुबन्धं ततः कुरु | रज्जुबन्धं तु नाभेस्तु मध्यस्योदूर्ध्वगं त्रिधा || ६ || सुषुम्ना मध्यमेऽप्याथ पिंगला तस्य दक्षिणा | इडा वै तस्य वामस्था प्रधाना नाडयस्त्विमे || ७ || द्व्यंगुलं परिणाहं तु युतास्ते वै त्रि कीर्तिताः | तेषां नाडी त्रयाणां तु योगं भ्रूमध्यमे भवेत् || ८ || तदधो विवृता स्विष्टद्व्यंश दण्डे पुराश्रिताः | भ्रूमध्यान्मूर्ध्निपर्यन्तं त्रिनाडी चैकवद्भवेत् || ९ || तन्मूर्धोपरिनाडिस्तु सप्तशाखानु भेदिनः | गान्धारी हस्ति जिह्वा च पूषा चैव यशस्विनी || १० || प्. ३६६) अलंबुषा कुहूचैव शंखिनी तेऽभिधानकाः | गान्धारी सव्यनेत्रान्तं हस्तिजिह्वेतराक्षिकाः || ११ || पुषाद्दक्षिणकर्णान्तं वामकर्णे यशस्विनी | अलम्बुषा मेढ्रमूलान्ता वक्रदन्ता कुहूर्भवेत् || १२ || नाभिमध्यावसानं तु शंखिनीलम्बनं भवेत् | तेष्वादौ च चतुर्नाडी यवत्रयघनान्विता || १३ || शेषानाडी त्रयाणां तु चतुर्यवघनं भवेत् | दक्षिणावर्तिताः सर्वे द्विवत्यैने प्रकीर्तिताः || १४ || सुषुम्नादीनि संख्यान्तं दशनाडीति विद्यते | प्रधाननाडी त्रयाणां तु मूलमेढ्रावसानकम् || १५ || तेषां नाडिभिन्नास्तु नाडयोऽष्टादश स्मृताः | विमला शोषिणी पृथ्वी महसी तेजसी तथा || १६ || वायवी गगनी चैव मर्दनी रोदनी तथा | रसवादी मृदंगी च संगिनी * * * * * || १७ || * * दौरसनाड्यस्तु सव्यपादाग्रमूलकम् | ऊरुमूलैवमावृत्य परितो नलकान्तकम् || १८ || लम्बितास्ते समाख्यातास्ता वै पिंगलगा * * | शब्दांगादीनि षट्संख्या इडामूले समुद्भवाः || १९ || एषा वै रसनाडी च वामपादौ तु सव्यवत् | नलकाग्रैकमावृत्य षण्मा * ग्रेक वर्तिताः || २० || प्. ३६७) सुषुम्नामूलगाः शेषा वंशपार्श्वे गरोहिताः | वक्षोदण्डोपरिष्टात्तु तिर्यग्बाहुगास्त्विमाः || २१ || गगनी मर्दनी चैव रोदनी दक्षिणे करे | रसवादी मृदंगी च संगिनी वामबाहुके || २२ || बाहुमूलैकमावृत्य त्रिष्वग्रं चैकवद्भवेत् | तदस्याग्रादष्टशाखा स्युः दक्षिणेऽदक्षिणे तथा || २३ || बाहुमूलाग्रचान्तं तु नाडयोऽष्टौ प्रसारिताः | तेषामग्रैकवद्विप्र ! मणिबन्धैकमावृतम् || २४ || एकं वाऽनेकहस्तं वा हस्तं प्रत्येकमाचरेत् | एवं हि प्रतिमानां तु मुख्यनाड्यष्टविंशतिः || २५ || प्रधाननाडयस्त्वेवं कल्पयेत्कल्पवित्तमः | तेषां भिन्नास्तथा विप्र चतुष्षष्टिश्च नाडयः || २६ || तस्मादनेकधा नाडी सर्वांगं तु समावृताः | द्विसप्तति सहस्राणि नाडयः परिकीर्तिताः || २७ || स्वावृतं शूलजीर्णकाश्वत्थ पत्रवत् | नालिकेरफलत्वग्म्यन्नत्यल्प सलिलान्वितम् || २८ || चर्मसारं गृहीत्वा तु सारमन्यं व्यपोह्य च | नाडयस्तेऽपि संकल्प्य पश्चादावृतनाडिकाः || २९ || षड्यवं तु परीणाहं रज्जुमापादयेद्दृढम् | पश्चान्निरन्ध्रं रज्जुभ्यां बन्धयेद्दक्षिणा वृतम् || ३० || प्. ३६८) हृत्पद्ममष्टपत्रं तु रज्जुना कारयेद्बुधः | तस्यनालं तु नाभ्यन्तं सुषुम्ना सहबन्धितम् || ३१ || जीवस्थानं तु तत्पद्मं इत्युक्तं हि मया तव | मूलमंत्रमनुस्मृत्य रज्जुबन्धमिदं कुरु || ३२ || रज्जुबन्धमिदं ख्यातं मृत्संस्कारमतः परम् | इत्यंशुमान्काश्यपे रज्जुबन्धविधानपटलः (पंचाशीतितमः) || ८५ || मृत्संस्कारमहं वक्ष्ये संक्षेपाच्छृणु सुव्रत ! | जांगलं चानुरूपं च समंशं मृत्त्रिधा भवेत् || १ || अशक्त्या खननेत्यन्तं सुदृढं जांगजं भवेत् | तनुबालुकसंयुक्तं क्लेशात्खननमक्षमम् || २ || गर्ते मनोरमांगस्तु दृष्टं यत्सानुरूपकम् | तयोर्मिश्रमिवाकारं मिश्रभूस्तमुदाहृतम् || ३ || तेष्वशोष्यमलोपेते शुद्धभूमौ मनोरमे | नदीदीर्घतटाके वा श्वेता सृक् पीतकृष्ण वा || ४ || पंकं संग्राह्य पात्रेषु स्रावयेन्नव वाससा | पात्रे संशोषयेत्पंकं यावदालद्रवान्वितम् || ५ || तावद्रक्ष्य चतुःक्षीरवृक्षमोद्भववद्गलैः | खादिनार्जुनतोयैश्च पात्रे पाकं तु मर्दयेत् || ६ || प्. ३६९) पिण्डक्षमं तु यावत् तावच्छोष्य ततो विदा | त्रिफलोषिताम्भसा चैव शोषयेच्च पुनः पुनः || ७ || इष्टद्रवसमायुक्तं पिण्डं कृत्वा तु तं मृदा | पिण्डे हस्ते ततो रेखा दृशेत्पिण्डं ततः कुरु || ८ || यवताराष्टके नैव कल्प्यं मानांगुलेन तु | रुद्रांगुलपरीणाहं प्रशस्तमृदुदाहृतम् || ९ || सिकतं च शिखा चूर्णि * * * * * * * * | सादृशं चोत्कृतैकांशं योजयेत्तु मृदा सह || १० || त्रिफलाम्भसोभिर्दिशाभ्योष्ट सप्तमेव गोधुमापि च | मृदेषांशं समायोज्य नालिकेरफलोदकैः || ११ || पात्रे तु मर्दयेत्सम्यक् दशाहाति क्रमे ततः | श्रीवेष्टं गुग्गुलं चैव कुन्दुरुष्कं तथैव च || १२ || तथा सर्जरसं चूर्णं मृत्कलांशे शिवांशकम् | पात्रे मृत्तिं समायोज्य दधिचामर्दयेत्सुधीः || १३ || शुण्ठी च पिप्पली चैव मरीचि रजनी तथा | समचूर्णं तु कर्तव्यं मृद्दशांशेन संयुतम् || १४ || मधुक्षीरघृतेनैव मृदं पात्रे तु मर्दयेत् | कपित्थ बिल्वनिर्यास चूर्णौ द्वौ समतां कुरु || १५ || मृदः पंचदशांशेन चूर्णतैलसमायुतम् | मर्दयेत्तु क्रमात्सम्यक् कुष्ठं च हरितालकम् || १६ || प्. ३७०) चन्दनागरुकर्पूर रोचनादि च तत्समम् | संग्राह्य चूर्णं कर्तव्यं मृद्दशांससमन्वितम् || १७ || अतसी स्नेहसंयुक्तं मर्दयेद्देशिकोत्तमः | स्वर्णं रजतचूर्णं च वल्मीक कुलिरावटे || १८ || दीर्घिके नदि सस्यादि सागरे च हलस्थले | गजदन्ते वृषशृंगे मृदं चैव विशेषतः || १९ || यथा लाभं तु संग्राह्य नानागन्धसमन्वितम् | कपित्थनिर्यासतोयैः मधु वा मर्दयेद्बुधः || २० || पंचरात्रिमतिक्रम्य नालिकेरफले ततः | त्वक्सारं तु परिग्राह्य एकं सार्धद्वयांगुलम् || २१ || सारद्वयंगुलं वाथ मानेन च्छेदयेद्बुधः | मृच्चतुर्थ्या समायुक्तं मध्यलेपनमारभेत् || २२ || तदूर्ध्वे तु मृदं लिप्य ततो वैरज्जुवेष्टनम् | तद्रज्जु व्यन्तरं विप्र एकद्वित्र्यंगुलं तु वा || २३ || ततोऽपि मृत्समालिप्य यावदा शोषणं द्विज ! | तावन्निरीक्ष्य कर्तव्यं मृल्लेपं तु शनैः शनैः || २४ || शूलबाह्यगत व्यासचतुर्भागविभाजिते | एकांशावधिकं लिप्य अनुरूपमुदाहृतम् || २५ || द्व्यंशावसानमिश्रं स्याज्जांगलं त्वनलं विधि | तत्तद्देशमृदेनैव तत्र वेद्यांशमालिपेत् || २६ || शेषं कल्के समापूर्य वेदांशेशसवत्कलम् | शेषं कार्पास तैलेन युक्तं कल्कं तु लेपयेत् || २७ || मृत्संस्कारमिदं ख्यातं कल्कसंस्कारमुच्यते | इत्यंशुमान्काश्यपे मृत्संस्कारविधिपटलः (षष्ट्यशीतितमः) || ८६ || अथ कल्कविधानं तु वक्ष्ये संक्षेपतः क्रमात् | नद्यां वापि तटाके वा दीर्घिकायामथापि वा || १ || सस्य क्षेत्रे तथा विप्र त्रिरुषारजले शुभे | सुदृशाग्राणि तुल्यागा स्थूल वालुकसाश्रिताः || २ || संग्राह्य शर्करां ह्येषां पेष्य प्रक्षालनं कुरु | शर्करां शोषणं कृत्वा सूक्ष्म चूर्णं तु तत्कुरु || ३ || त्रिफलोदकेन संमृज्य पिण्डं कृत्वा तु शोषयेत् | कपित्थनिर्यासस्यैव जलं त्रिविधमुच्यते || ४ || पंचांशं चैव निर्यासात् सार्धं वा पंच षड्गुणम् | सृतस्वच्छजलं चैव सैकं चेति क्रमोदिताः || ५ || स्वच्छसेकजलैः पिण्डं पेषयेन्नवनीतवत् | पश्चात्कार्पासतूलैश्च मिश्रं कृत्वा सुषेषयेत् || ६ || कल्कभिन्नं तु यत्तत्तु कदली दण्डतन्तुवत् | एतत्कल्कं समालिप्य प्रथमं कल्कमेव हि || ७ || प्. ३७२) निर्यासात् त्रिगुणं सार्धत्रिगुणं वा चतुर्गुणम् | मरीचित्रिफलं ह्येवं त्रिविधं परिपठ्यते || ८ || तेष्वं चौतु जलाभ्यां तु मर्दयेत्तु पुनः पुनः | क्रमेण लेपयेत्कल्कं द्वियवं त्रियवं घनम् || ९ || शनैः शनैः क्रमाल्लिप्य भिन्नच्छिद्रं विवर्जितम् | द्विमासं सार्धमासं वा मासं वा शोषयेत्ततः || ११ || कूर्चं न्यस्त्वा ततो विप्र षेषन्या पेषयेत्क्रमात् | ततः स्वच्छजलैः कल्कं प्रमाणान्तन्तु पूरयेत् || ११ || बहुकृत्वा प्रमाणं तु शोध्यमानं समानयेत् | अंगोपांगं च प्रत्यंगान् कल्पयेल्लक्षणान्वितम् || १२ || हस्तपादोदरादीनि अंगमित्यभिधीयते | उपांगं भूषणं ख्यातं प्रत्यंगं चिह्नवाहनम् || १३ || कपित्थस्यैव निर्यासात्तत्सार्धत्रिगुणांभसा | पाटाश्चादन्तु कर्तव्यं कल्कमालेपयेत्ततः || १४ || तत्कल्कं तु यवाष्टांशं दशाहं दपरस्ततः | निर्यासतोयं कूर्चेन सेचषेष्या तु षेषयेत् || १५ || मण्डनानि तदूर्ध्वस्तं मण्डयेल्लक्षणान्वितम् | पश्चाद्वै चिक्कणं लिप्य श्वेतवर्णं ततो लिपेत् || १६ || इत्येवं कल्कसंस्कारं लक्षणं सकलस्य तु | इत्यंशुमान्काश्यपे कल्कसंस्कारलक्षणपटलः (सप्ताशीतितमः) || ८७ || अथ वक्ष्ये विशेषेण वर्णसंस्कारलक्षणम् | शिवात्परं च सद्भावं अव्यक्ताच्छान्तिसंभवम् || १ || शान्तेः शक्तिसमुत्पन्नं तस्मान्नादं स बिन्दुकम् | तस्माद् व्योम समुत्पन्नं तस्मादनिलसंभवम् || २ || अनिलादग्नि संभूतं तस्माद्वैजलसंभवम् | तस्माद्वै भुवनं जातं भुवने वर्णसंभवम् || ३ || श्वेतं रक्तं तथा पीतं कृष्णं चैव चतुर्विधम् | जले तु श्वेतसंभावं अग्नौ रक्तनिभोद्भवम् || ४ || भुवने पीतसंभूतं त्वनिले कृष्णसंभवम् | विष्णुर्महेश्वरो धाता रुद्रो वर्णाधिपाः क्रमात् || ५ || विप्रक्षत्रियविट्च्छूद्रा सितवर्णादयो भवेत् | श्वेतं रक्तं च पीतं च कृष्णं विप्र चतुर्विधम् || ६ || श्वेतं चैव तु शुक्लं च धवलं चावदातकम् | मुक्ताभं चेन्दुवर्णाभं श्वेतवर्णमिति स्मृतम् || ७ || शंखवर्णसमं शुक्लवर्णमित्युदितो मया | राजताभं च गोक्षीरसदृशं धवलं भवेत् || ८ || तारका सदृशं विप्र अवदातमुदाहृतम् | अरुणं रक्त शोणं च पाटलं च चतुर्विधम् || ९ || अरुणं शशरक्ताभं जपापुष्पाभरक्तकम् | शोणं किंशुकपुष्पाभं लाक्षासारं तु पाटलम् || १० || प्. ३७४) स्वर्णपिंगलपीतं च हरितालं चतुर्विधम् | स्वर्णवर्णसमं स्वर्णं पिंगं रजनिसारवत् || ११ || हरितालं तु पीतं स्यात् हरितं मार्जालनेत्रवत् | नीलं श्यामं च कालं च कृष्णं चैव चतुर्विधम् || १२ || मेघवर्णसमं नीलं श्यामं वै वनवायसम् | शिखिकण्ठसमं कालं कृष्णं स्याद्गृहपक्षवत् || १३ || एवं षोडशभेदं तु वर्णमेवं स्वतन्त्रकम् | घरणीजन्द्रच्छेदं रक्तं हंसांघ्री संभवम् || १४ || अथवा जातिलिंगं तु रक्ताभं द्विविधं स्मृतम् | गोदावर्यास्तु संभूतं हरितालमुदाहृतम् || १५ || अतसी पुष्पसंकाशं राजावर्ताश्ममुच्यते | श्यामपाषाण सारं तु श्याममित्यभिधीयते || १६ || दीपोद्भूतं च चूर्णं तु कृष्णवर्णमुदाहृतम् | एवमादि कलावर्णं तस्मात्तस्मिन्ननेकधा || १७ || मृच्छेदं लाक्षासारं च दीपोद्भवरजस्तथा | पद्मं चाविरि नीलान्यद् धातुरित्यभिधीयते || १८ || एवं स्वतन्त्र प्रधानास्तु वर्णबिम्बार्हकं क्रमात् | इत्यंशुमान्काश्यपे वर्णसंभवपटलः (अष्टाशीतितमः) || ८८ || सुवर्णार्हकवर्णं च वक्ष्येऽहं द्विजसत्तम ! | पीताश्म तु च पीता स्यात्तदश्म चूर्णवत्कृतम् || १ || नालिकेरोदकैर्मिश्रं दध्यारक्तनिभं भवेत् | तत्सुधा कर्म रक्तं स्यात् शंखदण्डं सितं भवेत् || २ || राजावर्तं च श्यामं च पाषाणौ द्वौ च पूजितौ | इतराभासशक्ताः स्युः सुधाकर्मसु सुव्रतः || ३ || अथ सुकरवर्णं तु वक्ष्येऽहं द्विजसत्तम ! | सितरक्तसमं मिश्रं गौरवं च मुदाहृतम् || ४ || सितपीतं समं मिश्रं यत्तत्कर्बुरकं भवेत् | सित कृष्णसमं मिश्रं धूम्रवर्ण मुदाहृतम् || ५ || श्वेतं कृष्णं च पीतं च समभागं तु मिश्रकम् | सारशविरिदं ख्यातं वर्णकर्मसुचोदितम् || ६ || श्वेतं रक्तं च संमिश्रं कर्बूरकमुदाहृतम् | रक्तं पीतं समं मिश्रं बकुलस्य फलाकृतिः || ७ || ज्वलनच्छविराख्यातं अग्निवर्णमिदं परम् | पीतस्य द्विगुणं रक्तं मिश्रितं चातिरक्तकम् || ८ || उदयार्कसमं चैतद् वर्णमित्यभिधीयते | रक्तस्य द्विगुणं पीतमिश्रितं गुलवर्णकम् || ९ || पीतस्य तु तदर्धं तु मिश्रितं कपिलं भवेत् | पीतं वेदांशरक्ताढ्यं शफरस्य निभं भवेत् || १० || प्. ३७६) कृष्णस्य द्विगुणं रक्तं मिश्रितं तु कषा?यकम् | श्वेतस्य द्विगुणं पीतं मिश्रितं पिंगलं भवेत् || ११ || श्वेतस्य त्रिगुणं पीतं मिश्रं कल्हारसादृशम् | कृष्णस्य द्विगुणं पीतं मिश्रितं चबुसंनिभम् || १२ || तदेव तु नृणां वर्णं स्यात् कृष्णं पीतसमं तु वा | हरितालं श्यामसमं मिश्रं शुकपक्षसमं भवेत् || १३ || तदेवारितालमाधिक्यं धान्यांकुरमुदाहृतम् | श्यामं स्याद्धरितालाढ्यं कुंकुष्ठारीतालार्धकम् || १४ || मिश्रितं सस्यश्यामं स्यात् कृष्णं लाक्षासमन्वितम् | जम्बूफलसमन्वे तु वर्णमित्युच्यते मया || १५ || जातिलिंगसमं लाक्षासारलोहितमुच्यते | कृष्णनीलसमं मिश्रं केशवर्णमुदाहृतम् || १६ || सस्यश्यामं च रक्तं च संमिश्रमष्टवर्णकम् | कृष्णं रक्तसमं मिश्रं मधुवर्णमुदाहृतम् || १७ || तदेवरक्तमाधिक्यं मानुषं वर्णमुच्यते | मानुषारक्तमाधिक्यं वर्णरूक्षहरीतकी || १८ || तस्माच्छयामनिभोपेत नात्रवर्णमुदाहृतम् | तेषु यद्द्रव्यमल्पेन बाहुमानसमन्वितम् || १९ || बहुसारेति तत्ख्यातं बहुद्रव्याल्पमानितम् | अल्पसारमिति ख्यातं सारेल्पकल्पितं विदुः || २० || वर्णानामानुकूल्यं तु सारमेवं समाश्रितम् | प्. ३७७) इत्यंशुमान्काश्यपे संकरवर्णपटलः (एकोननवतितमः) || ८९ || अथ वक्ष्ये विशेषेण वर्णलेपनमुत्तमम् | शैलदा षष्टिकागर्भं त्रिधा वै वर्णलेपनम् || १ || शैलजे वर्णपक्ष्या वै अंगोपांगं शिलामयम् | उपरिष्टात् पटाच्छाद्य तस्योर्ध्वे शर्करं लिपेत् || २ || तदूर्ध्वे चिक्कणं लिप्य श्वेतवर्णादयस्ततः | बिम्बोचितनिभं लिप्य प्रतिष्ठां सम्यगाचरेत् || ३ || अथवा शैलजे बिम्बे पटाच्छाद्यं विनोर्ध्वतः | शर्करां यवमानं तु लिप्य चिक्कणलेपनम् || ४ || श्वेतं च बिम्बवर्णं च क्रमेणैवोचितं लिपेत् | शिलागर्भमिति ख्यातं वर्णभिन्नस्तमेव वा || ५ || शूलस्थापनकर्मादिदारुगर्भं तु पूर्ववत् | चित्रं वाप्यर्धचित्रं वा पक्वेष्टका सुधान्वितम् || ६ || अंगं संपूर्णकं कृत्वा पटमाच्छादयेत्ततः | शर्करादीनि सर्वाणि शैलजे तु यथा तथा || ७ || कर्तव्यमिष्टका गर्भदारुमिश्रितमेव वा | एवं त्रिविधरीत्या तु वर्णगर्भमुदाहृतम् || ८ || प्. ३७८) आदौ श्वेतनिभं लिप्य बहुस्वच्छसैर्जलैः | जलैः क्रमेण वर्णं तु त्रिभिः कृत्वा तु लेपयेत् || ९ || तदूर्ध्वं पाण्डुवर्णं तु लेपयेद्द्विजसत्तम ! | सितबिम्बनिभं चैवं सुमिश्रं च तु पाण्डुवत् || १० || सितवर्णेन बिम्बानां पाण्डुवर्णान्विता भवेत् | रक्ताभीति निभस्यातां पाण्डुवर्णं प्रकल्पयेत् || ११ || बन्धं स्वच्छं च मध्यं च उदरं च त्रिधा भवेत् | कपित्थस्यैव निर्यासैः त्रिबन्धं तु प्रकल्पयेत् || १२ || स्वच्छं तैलोपमं ख्यातं मध्यमं मधुसादृशम् | तरणादधिसादृश्यं स्निग्धं तं मन्तुरं भवेत् || १३ || मेदुरेण भवेच्छ्लिष्टकल्कसंधानमाचरेत् | कल्कमर्दनकार्यं तु कारयेन्मध्य वारिणा || १४ || कल्कस्वच्छजलेनैव पेषणं तु समाचरेत् | सुधाकर्म जलोपेतं गोमहीषं च चर्मयोः || १५ || पाच्यसारं तु बन्धं स्याज्जलपातांसुकं भवेत् | जलपातं विना यत्र * * कपित्थकं द्विज ! || १६ || स निर्यासजलं बन्धमुक्तमन्यन्नकारयेत् | कल्कं षोडशधा भज्य षट्पंच चतुरं तु वा || १७ || कपित्थ निर्यासै * * स्वच्छेनैव जलेन तु | स कृच्चिक्कणमालेपं कारयेद्द्विजसत्तम ! || १८ || प्. ३७९) चिक्कणं कल्कसारं स्यात् तद्विधं चिक्कणं भवेत् | जलपाते सुधा धारा पाते शर्करार्द्रवत् || १९ || चिक्कणं द्विविधं ह्येवं कल्पयेत्तु यथोचितम् | चिक्कणार्हकबन्धं तु दशभागविभाजिते || २० || एकांशरहितं बन्धं सतलेपनयोग्यकम् | चिक्कणे बन्धकूलं वा सितलेपन कर्मणि || २१ || सितबन्धसमं वाथ * * * तद्विहीनकम् | पाण्डुवर्णस्य बन्धं स्यात् त्रिःकृत्वा पाण्डुलेपनम् || २२ || षड्वर्णं तु ततो लिप्य क्रमेणैव तु देशिकः | बिम्बस्वभाववर्णं तु षट्कृत्वा तु समालिपेत् || २३ || पाण्डुबन्धं तु विंशांशे त्वंशहीनं तु यज्जलम् | षड्वर्गेष्वादि वर्णस्य बन्धमित्युमदायताः || २४ || तदादि वर्णबन्धं तु विंशांशेन विहीनकम् | द्वितीयवर्णबन्धं स्यात् तद्वद्बन्धनकं तथा || २५ || षण्णामपि बन्धानां बन्धमेवं क्रमशोन्नतम् | प्रथमाद्युचितैर्बन्धैः षड्वर्णं च लिपेत्क्रमात् || २६ || पत्रहीनं च बिन्दुं च सूपमुद्वर्तनं तथा | प्रवर्तं च षडैतानि वर्णं लेपनकं विदुः || २७ || दीर्घं पत्रमिति ख्यातं रहितं वै तिर्यग्गतम् | सर्षपास्तरणं यद्वत् तद्वद्बिन्दुमुदाहृतम् || २८ || प्. ३८०) सूक्ष्मबिन्दुस्तु धूपं स्याद् तस्माद्वै सूक्ष्मबिन्दु वा | तदुर्वक्त्र नमाख्यातं ततोच्चं तद्विभाजितम् || २९ || सूक्ष्मचूर्णसमायुक्तं वर्णलेपं प्रवर्तकम् | षड्वर्णक्रममेवं हि लेपयेत्तु परस्परम् || ३० || इत्यंशुमान्काश्यपे वर्णलेपनक्रमपटलः (नवतितमः) || ९० || अथ वक्ष्ये विशेषेण भक्तानां लक्षणं परम् | सर्वेषामथ भक्तानां पदं वै तु चतुर्विधम् || १ || सालोक्यं चैव सामीप्यं सायुज्यं च तथैव च | सारूप्यपद विप्राश्च चतुर्भेदमुदाहृतम् || २ || पुरुषो वा स्त्रियो वाथ तेषु यत्पदमाश्रितम् | तत्तत्पादानुकूल्यं तु प्रतिमां कारयेद्बुधः || ३ | स्वजाति चिह्नसंयुक्तं सालोक्यपदमाश्रितम् | तथा सामीप्य देवानां ममचिह्नाकृतिस्तु वा || ४ || मम चिह्नाकृतिर्युक्ताः शेषा वै त्रिपदाश्रिताः | बाला च यौवना वृद्धा त्रिधावस्थाः प्रकीर्तिताः || ५ || वत्सरत्रयमारभ्य यावदं तु कलाब्दकम् | तेष्वान्तवयसो पेता भक्ता बाला इति स्मृताः || ६ || प्. ३८१) तस्मात् सप्तति वर्षान्तं वयसा यौवनान्विताः | तदूर्ध्व वयसोपेता वृद्धा इति बिदुर्बुधाः || ७ || बालस्तु पंचतालेन शेषावयसुमेन वै | स्थानकं चासनं चैव याननृत्तं तथैव च || ८ || चतुर्भेदेन कर्तव्या मद्भक्ता मानुषा बुधः | आभंगसमभंगं वा ह्यतिभंगमिति त्रिधा || ९ || सव्यं वा सव्यपादं वा कुंचितं चितरास्थितम् | द्वौ द्वौ स्वजातिच्छिह्नं तद् हृदाञ्जलि करोऽथवा || १० || टकं दक्षिणहस्ते भृत् वरदं वामहस्तके | हस्तं रूक्षसमायुक्तं स्थानकं ह्येवमाचरेत् || ११ || पद्मेव भद्रपीठे वा वामपादं तु शाययेत् | लंबन्तु दक्षिणं पादं हस्तं पूर्ववदेव हि || १२ || आसनं ह्येवमाख्यातं योजयेत्कुटिलासनम् | टंकं दक्षिणहस्ते तु पाशं वामकरे धृतम् || १३ || युक्त्यान्यं वा धृतं विप्र यानमूर्तिं प्रकल्पयेत् | नृत्तं त्रिविधमुद्दिष्टं सात्विकं राजसं युताम् || १४ || तामसं चेति विख्यातं क्रमाद्बाह्यन्तरान्तगम् | वयसोपेतभक्तानां योग्यमित्युदितं मया || १५ || तेषादौ सात्विकं नृत्तं वक्ष्येहं शृणु सुव्रत ! | भक्तानामुदयं चापि मानं कल्पोक्तवद्भवेत् || १६ || प्. ३८२) षट्सप्तांगुलं वाथ नतमानं विधीयते | स वक्रं वामपादं तु पद्मपीठोपरिन्यसेत् || १७ || उद्धृतं दक्षिणं पादं पीठाद्वै वेदमात्रकम् | पंचषट्सप्तमात्रं वा पीठादुद्धृतमानकम् || १८ || तत्समं ब्रह्मसूत्रं तु तदंघ्र्यंगुष्ठनीव्रकम् | * * * * द्विहस्तं स्यात् सूचि हिक्कान्तमुच्यते || १९ || तद्धस्तमणिबन्धात्तु त्रयोदशांगुलमन्तरम् | तद्धस्ते कोर्परं नीव्रं पृष्ठसूत्राद्यमं विदुः || २० || * * * दण्डहस्तं स्यात् हिक्कासूत्रान्तमुद्धृतम् | मणिबन्धाध्वसीमा स्याल्लम्ब * * प्रलम्बयेत् || २१ || ललाटमध्यान्नासाग्रात् हिक्कामध्यान्तमेव हि | स्थितांघ्रिनलकामध्ये ब्रह्मसूत्रं प्रलम्बयेत् || २२ || तत्सूत्राद्वामतो नाभिमध्यं सार्धांगुलं भवेत् | तत्सूत्राद्दक्षिणे सव्य हस्त * * * मात्रकम् || २३ || सूत्रात्स्थितांघ्रिजान्वन्तं रससप्ताष्टमात्र वा | ललाटाद्गुल्फान्तसूत्रान्तं अक्षांगुलं भवेत् || २४ || नासा ओष्ठर मध्यं च ब्रह्मसूत्रं तु संस्पृशेत् | अथो कुक्षिस्पृशेत्सूत्रं नासाग्रे चैव संस्पृशेत् || २५ || अथवा दक्षिणं पादं पीठस्थिता * * * * | उद्धृतं वामपादं तु शेषं तदनुकूलितम् || २६ || प्. ३८३) सर्वाभरणसंयुक्तं बालं चेन्नग्नमेव वा | सवस्त्रं वाथ कौपीनं कल्पयेत्कल्पवित्तमः || २७ || यौवनाश्च प्रवृद्धाश्च नानावस्त्रेण वेष्टितम् | सात्विकं नृत्तमाख्यातं राजसं शृणु सुव्रत ! || २८ || सूचिं वाऽप्यथ दण्डस्ते वक्रदण्डं तु वांजलि | दशनन्दाष्टमात्रं वा पीठात्पादोद्धृतं भवेत् || २९ || शेषं प्रागिव कर्तव्यं एवं राजसमेव हि | दण्डहस्तं विना वामहस्तं वा मकुटीं स्पृशेत् || ३० || दण्डं दक्षिणहस्ते तु धृत्वा त्वीषन्नताननम् | एकं वा द्वित्रिमात्रं वा पीठादुद्धृतपादकम् || ३१ || भस्मोद्धूलितसर्वांगं अक्षमाल्यैरलंकृतम् | तामसं ह्येवमाख्यातं एवं स्याद्भक्तलक्षणम् || ३२ || प्रणवादिनमोन्तं च स्वनामपदमध्यकम् | भक्तानां मन्त्रमाख्यातं तेनैवार्चनमाचरेत् || ३३ || इत्यंशुमान्काश्यपे भक्तलक्षणपटलः (एकनवतितमः) || ९१ || अथ वक्ष्ये विशेषेण चण्डेशस्य तु लक्षणम् | रुद्रस्यैव तु ऋक्षांशं चण्डेशमभिधीयते || १ || प्. ३८४) गणेशावरणे त्वीशे पूजितस्तु तथा भवेत् | शूलं च परशुं खड्गं वज्रमंकुशमेव च || २ || क्षुरिका चाभयं दण्डं दक्षिणेऽष्टायुधं भवेत् | खेटकं भिन्दिपालं च पाशं घण्टां तथैव च || ३ || वरदं व्याघ्रहस्तं च सूचिं नागं च वामके | जटामकुटसंयुक्तं रौद्रदृष्टिसमन्वितम् || ४ || त्रेतायामष्टहस्तं तु अतिरक्तसमप्रभम् | विक्रान्तचण्डनाम्ना तु सुविकीर्णजटान्वितम् || ५ || वाहनं तु हयं विद्यात् किंचित् प्रहसिताननम् | अभयं शूलपरशुं खड्गं वै दक्षिणे करे || ६ || वरदं खेटकं पाशं घण्टां वामकरोद्धृतम् | द्वापरे तु चतुर्दोर्भिः हेमाभं सिंहवाहनम् || ७ || जटामण्डलसंयुक्तं सितयज्ञोपवीतकम् | * * * * * दंष्ट्रं * * रौद्रवदनान्वितम् || ८ || टंकं शूलं च दक्षिणे * * * * * * * * | पाशांकुशं च वामे तु भद्रपीठोपरिस्थितम् || ९ || द्विभुजं चण्डेशनाम्ना तु प्रोच्यते द्वापरे युगे | कलौ तु द्विभुजं शान्तं जटामकुटमण्डितम् || १० || जटामण्डलयुक्तं वा केशबन्धमथापि वा | कृष्णाभं वाथ रक्ताभं सौम्यनेत्राननान्वितम् || ११ || प्. ३८५) आभंगं समभंगं वा समपात्स्थानकं तु वा | भंगं चेद्दक्षिणं पादं कुंचितं त्वितरं स्थितम् || १२ || अथवा दक्षिणं पादं स्थितमन्यत्तु कुंचितम् | वीरचण्डेशनाम्ना तु स्थानकं त्वासनं तु वा || १३ || आसीनं चेत्तु वामांघ्रिशाययेदन्यलम्बितम् | दक्षिणं शयितं पादं वामलम्बिमथापि वा || १४ || टंकं दक्षिणहस्ते तु वरदं वामहस्तके | हृदयांजलिहस्तौ वा टकमभ्यन्तरोचितम् || १५ || टंकहीनं तु वा पुष्पं मालयांजलिना धृतम् | ईषद्दक्षिणपार्श्वे तु लम्बिताननमेव वा || १६ || वाहनं वृषभं ख्यातं श्वेतवस्त्रधरं परम् | एवं चतुर्विधं चादिचण्डेशमभिधीयते || १७ || परिवारे तु बिम्बानां उक्तमानं विधीयते | कन्यसं दशतालेन सर्वांगं परिकल्पयेत् || १८ || चण्डेशलक्षणं प्रोक्तं भूमानमधुनोच्यते | इत्यंशुमान्काश्यपे चण्डेश लक्षणपटलः (द्वनवतितमः) || ९२ || अथ वक्ष्ये विशेषेण भूमानं शृणु सुव्रत ! | समाश्रमायताश्रं च विषमाग्रं तथैव च || १ || प्. ३८६) योन्याकारार्धचन्द्रं च त्रिकोणं वृत्तमेव च | पंचाश्रं च षडश्रं च सप्ताश्रं चाष्टकोणकम् || २ || रुद्रधा कथितं रूपं क्रममानं वदाम्यहम् | पूर्वात्पश्चादुदीच्यन्तं मानयेत्सकलस्थलम् || ३ || भुजं हस्तं करं चैव पार्श्वं पर्यायवाचकाः | भुजेनैव तु जंघोर्ध्वौ घनं वा पादमुच्यते || ४ || समाश्रमेवमाख्यातं आयताश्रं तथैव च | विषमाश्रे विशेषोऽस्ति तं विशेषं शृणुष्वथ || ५ || पूर्वपश्चिमहस्तौ द्वौ संयोज्यार्धं भुजा भवेत् | तदल्प्य द्विगुणं कृत्य तन्मानं तु महाभुजाः || ६ || अर्धचन्द्रं समाख्यातं त्रिकोणमधुना शृणु | त्रिभुजेष्वेव हस्तं तु मानदण्डेन मानयेत् || ७ || तदर्धं चाल्पहस्तं स्यात् तत्पार्श्वमुत्तमोत्तमम् | यवादग्रावसानं तु मानयेत्तन्महाभुजाः || ८ || त्रिकोणमेवमाख्यातं वृत्ताकारमथ शृणु | कलांशं विभजेन्नाहं पंचांशं तस्य विस्तृतम् || ९ || तत्तारं तु त्रिपंचांशं कृत्वा त्यागद्वयं त्यजेत् | शेषं द्वयोदशांशं तु वृत्तस्य तु भुजा भवेत् || १० || तदेवाल्पभुजा ख्यातं महाहस्तं च तद्भवेत् | वृत्तमेवं समाख्यातं पंचाश्रमधुनोच्यते || ११ || प्. ३८७) पंचषट्सप्तकोणानां सममेतदुदाहृतम् | क्षेममध्यममारभ्य यावत्पार्श्वस्य मध्यम् || १२ || तन्मानेन हृते वृत्तं वृत्तं च मानयेद्बुधः | वृत्तबाह्यगतां चैषां मानयेत्तु त्रिकोणवत् || १३ || पंचाश्रमेवमाख्यातं अष्टाश्रमधुनोच्यते | भुजान्तेषु महाशासु प्रागग्रं चोदगग्रकम् || १४ || द्वौ द्वौ सूत्रं न्यसेद्धीमान्वेदाश्रं पंचसंख्यका | त्रिकोणं च चतुष्कोणं चत्वारस्तं प्रसंभवा || १५ || तद्वेदाश्रं त्रिकोणं च पूर्ववन्मानयेद्बुधः | वस्वश्रमेवमाख्यातं शेषं युक्त्या समाचरेत् || १६ || युगाश्रं पंचदण्डेन काकं नीतिरि विद्यते | पंचमाषं तु पादं स्यात् चतुष्पादं तु पाटिका || १७ || क्रोशं पंचदशं दण्डं अर्धकर्णं तु तद्द्वयम् | त्रितयं कर्णमित्युक्तं चतुष्कोणं तु योजयेत् || १८ || एवं भूमानमाख्यातं ग्रामादिरथ वक्ष्यते || इत्यंशुमान्काश्यपे भूमानविधिपटलः (त्रिनवतितमः) || ९३ || अथ वक्ष्ये विशेषेण ग्रामादीनां च लक्षणम् | त्रिपंचदण्डमारभ्य द्विद्विदण्डविवर्धनात् || १ || प्. ३८८) एकोनविंशदण्डानां चत्वारिंशत् त्रयाधिकम् | भेदं ग्रामादि विस्तारमत्याभा समुदाहृतम् || २ || सैकं तु शतदण्डादि दशदण्डविवर्धनात् | यावदष्टसहस्रान्तं जात्येकं त्रिंशतिर्भवेत् || ३ || माषा वि * * समान्य मायामं पंचधा भवेत् | आयादि संपदार्थं तु दण्डच्छेदं विनायतम् || ४ || हीनं वात्वधिकं वापि ओजसं स्यात्परिग्रहेत् | भानुद्विगुणमाधिक्यं त्रिशतं भूसुरद्विज ! || ५ || षोडशद्विशतं चैव पंचाशतमतः परम् | विप्रैरधिष्ठितं वास्तु त्रिधाभा समुदाहृतम् || ६ || चतुर्विंशत्सहस्रं च विकल्पं त्रिविधं भवेत् | सप्तषट्पंचसाहस्रं छन्दोभेदं त्रिधा भवेत् || ७ || भानुसंख्या सहस्रं च दशसाहस्रमेव वा | तथैवाष्टसहस्रं च जातिभेदं त्रिधा भवेत् || ८ || अन्याभात्याशक्तान्तामेकादि नवसीमकम् | अत्यन्ताभास भेदं च नवधा द्विजसत्तम ! || ९ || ह्यासायामं भुजाभ्यं च वदौघं च विदुर्बुधाः | अष्टाभिर्वर्धयेद्धीमान् गुणव्रासं वसुभिर्हरेत् || १० || शेषं ध्वजादि योनिं स्यात् परितापवटं तथा | त्रिंशार्धववशेषं तु नन्दादि निधयोद्भवेत् || ११ || विदेव वर्गभिर्ग्रासे शेषं भानु दिवाकरम् | आयाधिक्यं व्ययं क्षीणं संपदामास्पदं पदम् || १२ || योनि धूमं च धानं च खरकाकं तथैव च | प्. २८९) व्याधिरोगभयक्लेशं वर्धयेयुः परस्परम् || १३ || ध्वजसिंह वृषं चैव गजं चैव सुखावहम् | वारेषु सितशशी वृद्धिः गुरुवारे च ऋद्धिदम् || १४ || वर्जिताश्चान्य वारादि गृहितेव विदास्पदम् | भद्रा चैव जया पूर्णा तिथयस्तु शुभावहाः || १५ || नन्दायां यत्तु रिक्तायां श्रिश्रिकाममशोभनम् | कर्तृजन्मादिनाध्वास्तु * * स्तुदिनसीमकम् || १६ || गणयेज्जन्मनक्षत्रं वेदं चैव ऋतुस्तथा | वसुनन्ददिनं श्रेष्ठं जन्मादि च पुनः पुनः || १७ || पूजितास्त्वितरा वर्ज्यावैनाशिकं विवर्जयेत् | विषाय द्वादशं लग्नं मत्यावसुर वर्जयेत् || १८ || तिथिवारादीनि योज्य अयोग्यं परिवर्जितम् | भुक्तजन्मदिनद्वास्तु नाम ऋक्षविरोधिकम् || १९ || एवं परीक्ष्य बहुधा विन्यासं च ततः शृणु | मेषे च मिथुने कर्किसिंहतौलिकवृश्चिके || २० || कुंभे च मकरे भानुगते पक्षार्क्ष शोभने | ग्रामाद्यारम्भणं श्रेष्ठं गृहारम्भं च शोभनम् || २१ || धनुर्मीनेऽथवा चैव कन्यायां भानुसंगते | ग्रामारम्भं न कर्तव्यं विपरीतं न कारयेत् || २२ || कथमे तत्र वासीनां व्याधि शोकमुदाहृतम् | प्. ३९०) विप्रैरधिष्ठितं यत्तन् मलक्ष्म्या विद्यते द्विज ! || २३ || नृपवासं पुरा ख्यातं वैश्यानां नागरं भवेत् | ग्रामाः स्यदन्यवासं तु कुटिका चेति कीर्तितम् || २४ || खेटकं चेति विख्यातं विटपं चेति कीर्तितम् | समस्तजाति संयुक्तं क्रयविक्रयकैर्युतम् || २५ || द्वीपान्तरागत द्रव्य क्षौमरत्नधनादिभिः | सागराणां तु पार्श्वे तु सागरानुगतायतम् || २६ || तत्तद्वर्तनमाख्यातं शेषं युक्त्याभिधानतः | जले पर्ववधंकस्तिवने वा गिरिसंगरे || २७ || देवैर्भूतपिशाचैर्वा मर्त्यानां दुष्प्रयोजनम् | समस्तजाति संयुक्तं सर्वद्रव्यसमन्वितम् || २८ || राजवेश्मसमायुक्तं वर्तदुर्गमिति स्मृतम् | प्रागुक्त विधिना विप्र दिक्परिच्छेदनं कुरु || २९ || भूमिं समतलं कृत्वा पदविन्यासमाचरेत् | सकलं पादमेवं स्यात् पेचकं तु चतुष्पदम् || ३० || नवांशं पीठमाख्यातं महापिठं कलांशकम् | पंचविंशत्युपपीठं स्यात् षड्विंशत्युपपीठकम् || ३१ || स्थण्डिलं सप्तसप्तांशं अष्टांशं मण्डुकं भवेत् | षण्णवत्याधिकं चैव शतभद्र महासनम् || ३२ || पंचविंशद्द्विशतं पद्मगर्भमुदाहृतम् | प्. ३९१) रसाधिकं च पंचांशं * शत त्रियुतं भवेत् || ३३ || द्विशतासनवासीतिवृतभोगमुदाहृतम् | त्रितं च षट्चतुर्युक्तं कर्णौषकमुदाहृतम् || ३४ || * * * * * * * * विशालं चादि विद्यते | सुसंहितपदं चैव चत्वारिंशच्चतुष्पदम् || ३५ || सवेदाशीतिकं चातुशतीकप्रतिकान्तकम् | सनन्दपंचवेदांशं पंचादशविशालकम् || ३६ || षट्सप्तति पंच शतं विप्रगर्भमिति स्मृतम् | विन्यषड्द्विशतं पंच * * कोष्ठसमन्वितम् || ३७ || षट्सप्तति षट्पीतं च यत्तत् स्याद् विप्रभोगकम् | नवविंशतिकं सप्तशतं विप्रतिकान्तकम् || ३८ || विशालाक्षपदं वेदाशीति सप्तशतांशकम् | सैकाष्टपंचयुतं चाष्टशतं तु विप्राणाम् || ३९ || विश्वेशसारमित्युक्तं एतन्नवशतांशकम् | सैकाष्टकाधिकं दशशतमीश्वरस्य कारकम् || ४० || चतुर्विंशति संयुक्तं सहस्रचित्तकान्तकम् | विन्यासार्धं तु ग्रामाणां पदं च त्रिंशतं भवेत् || ४१ || तेष्वादौ पंचभेदं तु अत्याभासमभं भवेत् | तदन्ते तत्समाभासं सविकल्पात्तदान्तकम् || ४२ || पंचसंख्या विकल्पान्ते छन्दानां भागमिष्यते | प्. ३९२) शेषजाति विभागं स्यात् विन्यासार्धक्रमं भवेत् || ४३ | कर्तुरिच्छानुसारान्तं सर्ववास्तुषु वास्तु च | युगांशे सूत्रमध्ये तु ओजांशे पदमध्यमे || ४४ || समस्तविविधं कुर्यात् इतरच्च न कारयेत् | एकद्वित्रिचतुष्पंचदण्डं वा वीथिविस्तृतम् || ४५ || वास्तुमध्यगता वीथीप्राङ्मुखो वाप्युदङ्मुखः | ब्रह्मवीथिरिति ख्याता नाभिवीथीति चोच्यते || ४६ || बाह्ये परिवृतं यत्तद्वीथि मंगलमुच्यते | तदेव जघनं वीथि रथवीथिरिहोच्यते || ४७ || द्वारायतन संयुक्ता राजवीथिरुदाहृता | तिर्यग्द्वारसमायुक्ता या सा नारा च संज्ञिता || ४८ || उत्तराभिमुखी मार्गा क्षुद्रार्गलेति संज्ञिता | वीथीनाराचकादीनां पथनाम्ना प्रशंसिता || ४९ || ग्रामादिषु विशेषेण पदनाम्नान्तरेषु च | जने वीथेर्वष्ठा च गृहकर्मसुखावहम् || ५० || सूत्रसंधि चतुष्काद्यैः भयास्तेष्टं न भाव्यते | तस्माद्यथेष्टशैलेषु दिष्टमाने गृहं कुरु || ५१ || मानसूत्रस्य बाह्ये तु सूत्रादीनां तु बाधक | प्रथमध्यपथाग्रे च कर्मबाह्ये गृहोन्नतम् || ५२ || दण्डकं स्वस्तिकं चैव प्रस्तारं च प्रकीर्तितम् | नन्द्यावर्तपरागं च पद्मकं श्री प्रतिष्ठितम् || ५२ || प्. ३९३) वास्तु भेदोष्टधा ज्ञेयः प्रत्येकं स्थाप्य नैकधा | दण्डाकारैकवीथी स्यात् प्राङ्मुखं वाप्युदङ्मुखम् || ५४ || पक्षद्वयसमायुक्ता पक्षवंशं च दण्डवत् | मुखे मुखे विनिष्ठान्तं यत्तद्दण्डकमुच्यते || ५५ || प्राङ्मुखात्वेक वीथी स्यान् मध्ये त्वेक मुदङ्मुखम् | कर्करी दण्डकं ह्येवं चतुर्दिग्वेश्मनिर्गमम् || ५६ || तदेव परितो वीथी बाह्ये पक्षयमन्वितम् | पर्जन्यांशे च पूषांशे दौवारिके तथैव च || ५७ || नागांशे चैव निस्त्रान्तं वेश्मनार्धपथं भवेत् | जनवीध्यावसानं तु तर्हिवीथी द्विजोत्तम ! || ५८ || वीथ्यन्तरेषु जालं स्याद्वग्रहं वायुगोचरः | श्रीकरं दण्डकं ह्येतत् सर्वेषां दण्डसंपदम् || ५९ || तदेव नाभिवीथी द्वौ विना स्वस्तिकमुच्यते | प्रागग्रं गुणवीथी स्यादुदगग्रं तथैव च || ६० || चतुष्पंचरसं चाथ सप्ताष्ट नवकं तु वा | कल्पितं प्रस्तरं ख्यातं सर्वभेदा द्विजोत्तम ! || ६१ || वीथिनांशेन नीव्रं च श्रीकरं दण्डकं भवेत् | प्रागग्रं वेदवीथी स्यात् उदगग्रं तथैव च || ६२ || पंचषट्सप्तचाष्टौ च नवधर्मशिवैरपि | त्रयोदशपदं वाथ प्रकीर्णं नवधा भवेत् || ६३ || प्. ३९४) महेन्द्रो ग्रहक्षतश्चैव पुष्पदन्तेन देव वा | भल्लाटस्यांगके चैव प्रवेशं परिकल्पयेत् || ६४ || प्राङ्मुखं वह्निवीथी स्यादुदगग्रं त्रयोदश | मनु वा षट्कला वा यत् सप्तादश पदं तु वा || ६५ || नन्द्यावर्तमिदं पंच भेदमत्र विधीयते | महेन्द्रादिष्वंशकेषु प्रवेशं तु प्रकीर्णवत् || ६६ || प्राङ्मुखं रथवीथीस्यादुदग्वक्त्रं तु षोडश | एक वीथ्या त्रयोविंशत् दन्तं परागमष्टधा || ६७ || परा प्रागिव कर्तव्यं उपद्वाराण्यथोच्यते | पर्जन्यांशेन्तरिक्षांशे पुष्य * * * * शके || ६८ || दौवारिके च पापांशे * * * चोदिकांशके | उपद्वाराष्टको पेतं परागं चेदि विद्यते || ६९ || प्राङ्मुखं सप्तवीथी स्यादुदगग्रैक विंशतिः | अष्टाविंशतिकं यावत् तावदेकविवर्धनात् || ७० || एवमष्टविधं ज्ञातं श्रीप्रतिष्ठितलक्षणम् | एतद्वाराष्टकोपेता उपद्वाराष्टकान्विता || ७१ || अथवा वेद वेशं वा उपवेशं तु पूर्ववत् | दण्डकाद्यष्टवस्त्राणां भेदं वै हिनका तथा || ७२ || ग्रामादीनां च विस्तारं भानुधर्माष्टसप्तधा | भूतवेदांशकं कृत्वा नगसप्तदशांशकम् || ७३ || प्. ३९५) भूतवेदाग्निभागं तु क्रमाद्भागविधिं शृणु | मानसूत्राद्बहिर्विप्र ! स्यान्तरं षड्विधं भवेत् || ७४ || एक द्वित्रिचतुष्पंचहस्तं वापि प्रविस्तरात् | त्रिपंच सप्तहस्तं वा नवरुद्रकरं तु वा || ७५ || त्रयोदशकरं वाथ व प्रतुंगमुदाहृतम् | त्रिचतुःपंचषट्सप्त वस्वग्रं वा विशेषतः || ७६ || व प्रमूलं ततः कृत्वा एकांशेनाग्रविस्तृतम् | शिलाभिरिष्टकाभिर्वा मुद्रा वा परिकल्पयेत् || ७७ || चित्रभं बुद्बुदाभं वा कृकलासवदाकृतिः | उपचस्यापरद्वार वप्रशीर्षकमाचरेत् || ७८ || करालमुद्गगुल्माषा कल्कचिक्कण कर्मवान् | लक्षं समालिपेदूर्ध्वे इष्टकामस्तयोरपि || ७९ || मृण्मयैर्दारुभिः पात्रैः छादयेत्तु तृणादिभिः | तद्बाह्याभ्यन्तरे चैव खल्लुरीवेष्टमानतः || ८० || वासार्थं सत्पदादीनां रक्षणं तु विशेषतः | तद्बाह्ये इष्टकानेन प्रचारभूम्या वृतं भवेत् || ८१ || बाह्ये भीष्टमानेन परिखां परिकल्पयेत् | वप्रस्याभ्यन्तरे विप्र ! देवतास्थापनं भवेत् || ८२ || शिवहर्म्यं च मातॄणां सदं बाह्ये तु वा भवेत् | परिखायास्तु साह्ये च त्वसंकल्प्य द्विजोत्तम || ८३ || प्. ३९६) आदित्यांशे तु भानुः स्यात् आग्नेययां कालिकोष्ठकम् | भूतांगे विष्णुगेहं स्यात् सुग्रीवे सुगतालयम् || ८४ || जिनालयं पदोंकाराजांशे वा पयक्षे विनायकम् | मन्दुरालयं तु वायव्ये सुख्ये कन्यायनिग्रहम् || ८५ || मन्त्राणामालयं सौम्ये वायव्यां शांकरेऽपि वा | एवमेषु शिवहर्म्यं स्यात् सौनाशान्तरेऽपि वा || ८६ || पर्जन्यांशे जयन्ते वा महेन्द्रा देवतां हिके | वारुणांशे तु वा विप्र ! कर्तव्यं शिवमन्दिरम् || ८७ || शिवालयान्मातृकोष्ठं च कर्तव्यं तु बहिर्मुखम् | अभ्यन्तरमुखो विष्णुः विवस्वान्पश्चिमाननम् || ८८ || शेषाः पूर्वमुखाः सर्वे कारयेद्विधिपूर्वकम् | सूत्रे संधौ चतुष्के च शूलशैवाष्टकेऽपि वा || ८९ || षट्के चैव तु वीथ्यग्रे देवालयं न कारयेत् | वापीकूपतटाकादि सर्वत्र परिकल्पयेत् || ९० || ब्रह्मणोंशे सभास्थानं वारुणे हरिमन्दिरम् | बाह्ये शक्रे कुलालानां नापितानां तु शांकरे || ९१ || दक्षिणे रोमदण्डीनां करुणं चैव तत्र वै | मत्स्योपजीवनानां तु पश्चिमे वास उच्यते || ९२ || शांकरे च क्रयाणां त्वाभरणं तत्समीपके | वप्र बाह्ये त्वबाह्ये वा कर्मकारादयोनिले || ९३ || प्. ३९७) तद्बाह्ये त्वल्प्रदूरे तु रजकानां गृहं भवेत् | महेन्द्रादग्निभागं स्यात् भक्ष्यं भोज्यं च विक्रयम् || ९४ || वस्त्राणां विक्रयं चैव तण्डुलं धान्यकादिकम् | उत्तरे लवणं चैव तैलं चन्दनपुष्पकम् || ९५ || तद्बाह्ये क्रोशमात्रेण चण्डालावासमुच्यते | शांकरे परिबाह्ये तु शतदण्डे श्मशानकम् || ९६ || वायव्यां वा श्मशानं च प्रण्यमाने विशेषतः | अपणं मानसूत्रं तु बाह्ये सालान्तरं भवेत् || ९७ || हेमरत्नादयश्चैव सर्वत्रैवाह्यकं भवेत् | ग्रामादि लक्षणं प्रोक्तं गृहविन्यासकं शृणु || ९८ || इत्यंशुमान्काश्यपे ग्रामादिलक्षणपटलः (चतुर्नवतितमः) || ९४ || अथ बेरं ताम्रजं शैलं दारवं वा विधीयते | दारवान्मृण्मयं श्रेष्ठं मृण्मयाच्छैलमुत्तमम् || १ || शैलजात्ताम्रजं मुख्यं भवति ध्रुवार्च्चाचेत् | ताम्रजं शिलैर्वा कुर्यात् बेरायामं तदर्धायाममुत्तमम् || २ || गुणांशान्मध्यमं द्व्यंशं मध्यमात्तच्छरांशकम् | * * * * * * * * गुणांशमधमं तथा || ३ || तद्धामविसृतार्धं द्विधा कृत्वा तस्या परार्धं षड्विंशतिभागं कृत्वा तत् पूर्वार्धमंशेन सहैकैकसमयोजयेत् | सप्तविंशति तदुत्सेधं भवति | गर्भागारस्य चतुर्चतुर्भागं त्रिभागं द्विभागं शरांशाद् गुणांशगर्भार्धं वा | तस्यापरार्धमपूर्ववत् कुर्यात् | पादोत्सेधं द्वारोत्सेधं वा | तत्पादहीनमर्धं वा * * वांशो हीनमष्टमांशोनं वा अधिष्ठानस्य पादमर्धं त्रिपादसमं पादाधिकपादो द्विगुणं वा | तन्मानेन गुणांश हस्तमानांगुलेन पंचविंशत्यंगुलाद्यैक चत्वारिंशदंगुलान्तं द्व्यंगुलबृद्ध्यांगुलि भेदं न तथा भवति | यन्मान समन्ताष्टांशं कृत्वा एकद्वित्रि चतुरंशाधिन्नेत्रांस्य बाहुस्तनान्तमित्येतद् नवधा भवति | एतेष्विष्टमानं विनिश्चित्य प्. ३९९) पदादुष्णीषान्तं ध्रुवभेतकारयेत् | तच्चित्रं चित्रार्घं चित्राभासमिति त्रिविधं भवति | उत्तमं चित्रं मध्यमचित्रमाभासमयं षण्मानैः सहिअं चित्रनाहार्धसंदर्शनमर्धचित्रं नाहोन्नतिभ्यां हीनं अयत्नदाभासा सा सर्वत्रलोहजं मृण्मयं चित्रमेवार्ध चित्रमेवार्धचित्रं न कारयेत् | कुर्याच्चेदाभिचारिकं भवति | लोहजं दारवं चित्रं अर्धं वा कारयेत् | आभासं पटकुट्यादि लेख्यं बेरे चित्रर्चनमैहिकामुष्मिकप्रदं अर्धविचित्रार्चनं वा केवलामुष्मिकफलप्रदं आभासेऽर्चनमैहिक फलप्रदं तथाभासं द्विविधं भवति | अचलमित्यचलभित्तौ लिखितं च | लंपटे लिखितं तस्मादचलमेव कारयेत् | दाभासं भित्तौ समुल्लिखितस्तन्नक्षिमोचनं ध्रुवबेरशुद्धिं च कृत्वा | देवीमानं | देव्या बाहुस्तनान्तं वा कण्ठान्तं वा देव्योर्मननम् | मन्योर्विंशशेषिकयोरन्येषां परिवाराणां च तत्तत्समम् | पादहीनं मध्यपादं वा तत्तदालयवशाद्वा कारयेत् | ब्रह्माणं शंकरं च ध्रुवबेरसमं नवांशोनमष्टांशोनं वा कारयेत् | येन द्रव्येण देवः कृतः तेन द्रव्येण देव्यादिपरिवान्तं तत्तदालयक्रमेण कारयेत् | इति श्री वैखानसे मरीचि प्रोक्त बेरोन्नतकल्पविधि पटलः || अथ वक्ष्ये विशेषेण प्रतिमानां तु लक्षणम् | प्रकारं पापनाशं स्यात् तिकारं शान्तिकं विदुः || १ || मकारं पुत्रवृद्धिं स्यात् नकारं पुण्यदं भवेत् | मूलबेरस्य मानं तु आलयांशेन कारयेत् || २ || आलयांशविभागेन ज. * न्मांशकेन च | द्व्यंशेनैव कर्तव्यं प्रतिमानां तु कारयेत् || ३ || मूलबेरस्य सार्धं वात्त्रिभागं वा द्विभागकम् | अर्धांशेनोत्तमं विद्यात् तृतीयांशंतु मध्यमम् || ४ || तुरीयांशं च भागेन त्वधमं च प्रकीर्तितम् | उत्तमं मध्यमं वाप्य धमं वाथ कन्यसम् || ५ || बेरमानं च कर्तव्यं प्रतिमानां तु लक्षणम् | युक्तायुक्तं विचार्याथ प्रतिमानां च कारयेत् || ६ || बेरमानविधिः प्. ४०१) शिलाग्रहणविधिः अन्तर्गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिताः | लक्षितेषां लेपयेत् * * * * * * * * * | ब्रह्माणं वज्रपाणिं च शूलपाणिं च वैष्णवम् || १ || अजक्षीरेण संयोज्य उपलं लेपयेत्तदा | लेपिते यत्क्लिन्नं स्यात् एकरात्रोषिते तथा || २ || स गर्भान्तर्विजानीयात् सितागोसासुवृश्चिकम् | श * * * कृष्णजीर्णे तु * * * * * * | कासीसं पीतलोध्रं च गोक्षीरेण तु षेषयेत् || ३ || लेपिते तु शिलां तेन रुधिराभा यदा भवेत् | दिवसैस्सक्थुभिश्चैव एकरात्रोषितं तथा || ४ || तद्दशस्तत्रिविज्ञेया कूर्मेवाथ न संशयः | पृथ्वीत्रशूलिनी ब्राह्मं महीं क्षीरं च षेषितम् || ५ || लेपिते तु शिलान्तेन रुधिराभयदा भवेत् | कृष्णमनो भवेत्तत्र कृकलासमथापि वा || ६ || मत्तकं करवीरं च कुष्ठमंजिफलत्रयम् | एतानि श्लिष्णयित्वा तु स्त्रीस्तन्येनैव पोषयेत् || ७ || अश्मानं शक्तमत्रयदि स्यात् | कालकूटविषं तत्र न तु हस्तेन संस्पृशेत् || ८ || ग्रहाणां लक्षणं ह्येवं शिलाग्रहणमारभेत् | शिला स्थापयित्वा तु भुवं पश्चात् समीपतः || ९ || प्. ४०२) ततो गुरुः || पंचगव्येन संप्रोक्ष्य पवमानमुदीरयन् | गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च || १० || सद्यादि वामभिर्दत्वा शिलायां संप्रपूजयेत् | ततोऽस्य पूर्वभागे तु होमकर्म समारभेत् || ११ || पंचांशं लिंगविष्कंभं चतुरश्री कृते तु तत् | तत्कर्णद्विगुणांशं वा द्विगुणं वार्धमेव वा || १ || पीठव्यासमिति ख्यातं तेन तत्त्रिचतुर्गुणम् | गर्भगेहस्य विस्तारं कुड्यं गर्भसमं तु वा || २ || त्रिभागं वाग्निभागेशं गर्भगेहार्धमेव वा | अग्निव्यासमिति ख्यातं प्राग्वत् * * तु शक्तिकात् || ३ || रुद्रांशं नाहसदृशं पीठतारमुदाहृतम् | तेन द्वित्रिचतुर्गुण्यं गर्भगेहस्य विस्तरम् || ४ || नालीगृहं तु संकुंड्य तारं त्रिपादमेव वा | पूर्ववद्भित्तिकाख्यातं नाहं रुद्रांशकस्य तु || ५ || चतुरश्रीकृते कर्णं पीठव्यासमुदाहृतम् | तेनैव द्विगुणांशं वा त्रिगुणं वा चतुर्गुणम् || ६ || प्. ४०३) गर्भगेहविशालं स्यात् तस्यार्धं कुड्यविस्तृतम् | पंचभागैकभागं वा अग्न्यंशेंशमथापि वा || ७ || चतुर्भागैकभागं वा तुंगं प्रागिव कल्पयेत् | पूजांशोच्चे युगाश्रं तु द्विगुणे वा युगाश्रके || ८ || कर्णं पीठविशालं स्यात्तेन द्वित्रिचतुर्गुणम् | पंचांगुणं तु वा गर्भगेह व्यासमुदाहृतम् || ९ || त्रिचतुष्पंच षड्भागेकांशं कुड्यविशालकम् | शान्तिकाभ्युदयं ख्यातं पूर्ववद्द्विजसत्तम ! || १० || रुद्रांशतारद्विगुणं चतुरश्री कृते सति | कर्णपीठततं ख्यातं तद्द्वयं गर्भविस्तृतम् || ११ || त्रयं वा विसृतं तस्य चतुर्गुणमथापि वा | त्रिचतुष्पंच भागेंशं कुड्यस्य व्यासमुच्यते || १२ || पूजांशस्य परीणाहे द्विरष्टांशं विभाजिते | मंचांशं चतुरश्राभे कर्णपीठ विशालकम् || १३ || तेनैव द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् | नालिगेहं विशालं स्यात् तदर्धं कुड्यविस्तृतम् || १४ || चतुर्भागैकभागं वा वस्वंशेंशमथापि वा | अग्निभागैकभागं वा गर्भकुड्यं तु पूर्ववत् || १५ || लिंगविष्कम्भकर्णं तु चतुरश्री कृते बुधः | तत्कर्णं तु दशांशेन पिण्डिका व्यासमुच्यते || १६ || प्. ४०४) तेन द्वित्रिगुणं वापि चतुष्पंचगुणं तु वा | नालीगृहविशालं स्यात् तस्यार्धं भित्ति विस्तृतम् || १७ || त्रिचतुष्पंच षट्सप्तभागैकांशं तु भावयेत् | कुट्टिमस्य विशालं तु तुंगं पूर्ववदेव हि || १८ || लिंगविष्कम्भत्रिगुणं पीठ व्यासमुदाहृतम् | तेन द्वित्रिगुणं वापि नालीगेहविशालकम् || १९ || तदर्धं त्रिचतुर्भागं भागं वा कुड्यविस्तृतम् | शान्तिकाभ्युदयं प्राग्वत् कर्तव्यं हि विशेषतः || २० || विष्कंभे चतुरश्रे तु कर्णमध्यर्धमेव वा | द्विगुणं द्विगुणार्धं वा त्रिगुणं पिण्डिका ततः || २१ || तेन द्वित्रिचतुष्पंच गुणं वा गर्भगेहकम् | पीठव्याससमं सार्धद्विगुणं द्विगुणार्धकम् || २० || कुड्यव्यासमिति ख्यातं तुंगं पूर्वतदेव हि | पूजांशस्यैव द्विगुणं पीठ व्यासमुदाहृतम् || २३ || तेन द्वित्रिचतुष्पंच गुणं वा नालिगेहकम् | तदर्धं त्रिपादमग्न्यंशं भित्तिव्यासमुदाहृतम् || २४ || शान्तिकाभ्युदयं प्राग्वत् कल्पयेद्देशिकोत्तमः | हीने हीनप्रमाणेषु द्वन्तरेष्टविभाजिते || २५ || प्रत्येकं नवधा पीठ व्यासन्नालीगृहं तथा | कुड्यव्यासं च हर्म्यैश्च कर्तव्यं नवधा द्विज ! || २६ || प्. ४०५) एकानेकतलं वापि कूटकोष्ठादिसंयुतम् | साधारं वा निराधारं प्रागुक्त विधिना कुरु || २७ || एवं स्वायंभुवानां च लिंगानां बाणसंज्ञताः | रत्नलोहजलिंगानां पीठनालीगृहायतम् || २८ || कारयेत्तु विशेषेण सर्वलोकहिताय वै | स्थूलमूलं शिरः स्थूलं मध्यस्थूलं तु आर्षकम् || २९ || स्थूलदेशे * * नाहं विष्कंभं चैव संगृहेत् | पाषाणं च शिरोमानं विना तुंगं तु संगृहेत् || ३० || पौरुषाद्यन्यलिंगानां नाहं त्रिस्सप्तधा भजे | तेष्वेकांशकलांशेंशं लिंगमध्यात्तु दक्षिणे || ३१ || व्यपोह्य निर्मितं सूत्रं गर्भगेहस्य मध्यमम् | प्रासादमध्यसूत्रं च द्वारमध्यं तदेव हि || ३२ || नेमयुक्त्यात्र्यक्लत् सूत्रं कल्प्य प्रासादमाचरेत् | येन लिंगेन यन्मानं निर्मितं सदनस्य तु || ३३ || युग्मं वा युग्महस्तं तु हस्तच्छेदं प्रपूरयेत् | यवादि रसमात्रान्तं हीनं वाप्यधिकं तु वा || ३४ | गर्भगेहविशालं स्यात् समाश्रमायताश्रकम् | स पादं सार्धपादोनद्विगुणं त्रिगुणं तु वा || ३५ || गर्भगेहायतं ख्यातं कुड्यं तदर्धविस्तृतम् | त्रिपादं वा त्रिभागैकं शेषं पूर्ववदेव हि || ३६ || प्. ४०६) नागरे शान्तमूर्तीनां राजसानां तु द्राविडे | वेसरे नृत्तमूर्तीनां रौद्राणां यानमूर्तिनाम् || ३७ || क्रमेण सदनं ख्यातं तत्तद्युक्त्या तु कल्पयेत् | विपरीतं न कर्तव्यं सर्वोदय फलार्थिभिः || ३८ || इत्यंशुमान्काश्यपे लिंगप्रासादपटलः (पंचनवतितमः) || ९५ || अथ वक्ष्ये विशेषेणं जीर्णोद्धारविधिं परम् | जीर्णदेहं त्यजेद्देही तदन्यं परिपठ्यते || १ || तदा तज्जीर्णदेहं तु असुरादि गुणाश्रिताः | तस्माच्छीघ्रं प्रयत्नेन जीर्णोद्धारं समाचरेत् || २ || लिंग वा प्रतिमाहर्म्यं मण्टपं गोपुरं तु वा | प्रकारं परिवारं वा जीर्णास्ते तु स लक्षणम् || ३ || तेन द्रव्येण चोत्कृष्टैः पूर्ववत्परिकल्पयेत् | पंजरं कूटकोष्ठं वा महानास्यल्पमेव वा || ४ || धरातलांघ्रिवस्तूपी वेदीजालकतोरणम् | यदंगं तेषु विच्छिन्नं तदंगं प्राग्वदाचरेत् || ५ || उपानादौ च सदने भिन्ने छिन्ने तु पातके | तांस्त्यक्त्वाद्येष्टकादीनि प्रथमारंभवत्कुरु || ६ || प्. ४०७) मानादिष्वधिकं हीनं कर्तव्यं तत्सलक्षणैः | मोहाद्धीने तु वाधिक्ये कर्तुर्वित्तायुषक्षयम् || ७ || राष्ट्रक्षोभं सदाप्येते नृपतेर्मृत्युमाचरेत् | तस्मात्सर्वप्रयतेन सदनं प्राग्वदाचरेत् || ८ || जीर्णावस्थौ तु मानं तद् अनुक्तमार्गेण चाश्रितौ | पुनश्शास्त्रोक्तमार्गेणाधिक मानादिभिर्युतम् || ९ || कर्तव्यं विजयायुष्यं नृपतेर्नित्यमावहेत् | पूर्वमानादिषु क्षीणं पुनः कर्म न कारयेत् || १० || अति मोहेन कुर्वीत सर्वदोषास्पदं भवेत् | परिवारालयं पीठं प्राकारं गोपुरं तथा || ११ || प्रतिमामण्टपादीनि मण्टपाश्च सभास्तथा | पुरा सुमाननीयापि पुनः कर्माधिकं शुभम् || १२ || सोक्तस्थाने गते वापि पुनर्बाह्यगतं शुभम् | प्राग्वच्च सुदृढं कृत्वा संप्रोक्षणमथाचरेत् || १३ || लोहजानां तु बिम्बानां अंगहीनं तु संभवे | तदंगं पूर्ववत्कृत्वा स्थापनं सम्यगाचरेत् || १४ || हिक्कादूर्ध्वे तु विच्छिन्ने त्यक्त्वान्यं परिपठ्यते | नलकादिषु विच्छिन्ने पादयोर्हस्तयोऽस्तु वा || १५ || तेनैव जीर्णलोहेन पूर्ववद्बिम्बमाचरेत् | अब्दत्रयं तु तल्लोहं खात्वा भूमौ विशेषतः || १६ || प्. ४०८) पश्चादग्नौ द्रुतं कृत्वा पुनर्बिम्बं समाचरेत् | मृण्मये वर्णहीने तु पुनः कृत्वा तु पूर्ववत् || १७ || कल्करज्जु मृदो वापि भिन्नच्छिन्नादि संभवेत् | तत्तदंगं पुनः कार्यं शूलं चैव तथैव हि || १८ || दारुशूलेष्टका वापि शूलदोषविहीनकम् | तदेव संगृहेद्धीमान् दोषाढ्यं परिवर्जयेत् || १९ || लिंगे पीठेश्रहीने तु सूत्रहीने तु वा लिखेत् | व्यपोह्य लिंगपीठं च स्थापयेत् पूर्ववद्बुधः || २० || जीर्णलिंगं च पीठं च बिम्बं वै सागरे न्यसेत् | आर्षे च पौरुषे वापि पूर्वमेवा कृतालये || २१ || पश्चात्कृतं शिवं हर्म्यं पूर्वद्रव्यैर्नवाधिकम् | कल्पयेत्पंचसालानां बाह्ये बाह्यन्तरेऽपि वा || २२ || मूलवस्तु समं चैवाधिकालयं विशेषतः | महामर्यादि सालस्या भ्यन्तरे तु न कारयेत् || २३ || क्षीणालयं प्रकर्तव्यं बाह्ये त्रित्रिगुणानु वा | महामर्यादि बाह्ये तु गत्वालयं प्रकल्पयेत् || २४ || उत्तमान्तरमाख्यातं एवमेवं प्रकल्पितम् | मर्यादेर्महाशायां बाह्ये वा प्राग्वदन्तरम् || २५ || नीत्वा तु नाशनं कर्तृप्रजानाशं महाव्याधिं विशेषतः | कलहंसस्य नाशं च सिध्यते नात्र संशयः || २६ || प्. ४०९) परितः शेष देवानां भागेषु शिवमन्दिरम् | कर्तव्यं विजयायुष्यं पुत्रपौत्रादिवर्धनम् || २७ || यत्रैव कल्पितं हर्म्यं पूर्वे परिपश्चिमाननम् | मूलवस्तु समीक्ष्यैवं कल्पयेत्कल्पवित्तमः || २८ || मध्योत्तमान्तरे विप्र ! परिवारसमन्वितम् | परिवारविहीनं तु कल्पितं कन्यसान्तरम् || २९ || एवमेवान्य देवानां आलये विप्र कल्पयेत् | मूलगेहेर्चितं देवं चान्यं वा तत्र पूजयेत् || ३० || पौषाच्चदार्षकं श्रेष्ठं आर्षाद्वैगाणवं वरम् | गाणवाद्देविकं श्रेष्ठं तस्मात्स्वायंभुवं वरम् || ३१ || क्षेत्रहर्म्यं समाख्यातं कोटिवृद्ध्युत्तरं फलम् | फलार्थिभिः कल्पितं तदनुकर्म द्विजोत्तम ! || ३२ || इत्यंशुमान्काश्यपे जीर्णोद्धारपटलः (षण्णवतितमः) || ९६ || बाह्य लक्षणमुद्दिष्टं शृणुष्वाभ्यन्तरं तु यत् | चतुरश्रां शिलां सम्यक् छेदयेत् तु विचक्षणः || १ || तक्षकच्छेदके चैव शूलं यत्र प्रदृश्यते | स गर्भान्तं विजानीयाद्यत्नेन तु परीक्ष्यते || २ || प्. ४१०) मंजिष्ठवर्णे मण्डूकं कर्कटं हरितालके | पीतकोयासिता सर्पं खद्योतमधुवर्णकैः || ३ || कपिले मूषिकं विद्यात् स्फटिकाभे जपं स्मृतम् | रक्तमण्डलिकं तत्र चित्रवर्णेन वृश्चिका || ४ || शफरं कृष्णचित्रे तु किंशुकाभेन्द्रगोपकम् | एते .... शंकोत्सेधे षण्णवत्यष्टभागं एकैकांशं द्व्यंगुलं तस्य धीमान् | युक्त्या युक्त्या शंकुतुंगस्य मानं छायाश्चायाद् दक्षिणे दक्षिणे च || ५ || अर्थलाभगृहच्छेदं गृहिणी मरणं तथा | क्लेशोऽर्थ लाभो मरणं सुखमैश्वर्यमेव च || ६ || क्रमाच्चक्रादिकं विद्यान्मध्ये कूपं विनाशयेत् | मध्यकोणं तथा रज्जु द्वारपार्श्वे तु वर्जयेत् || ७ || क्षेत्रारामगृणाणां तु कूपन्यासविधिक्रमम् | देवालये च चाग्नेययां विशेषेण विधीयते || ८ || कर्तुराश्यानुकूलं वा वास्तु क्षेत्रे विधीयते | अधोमुखं निरीक्ष्याणि पूजितानि विशेषतः || ९ || तिर्यङ्मुखानि मध्यानि वर्जयेदूर्ध्ववक्त्रकम् | पक्षच्छिद्राणि रिक्तां च वर्जयेत् कृष्ण ऋक्षकम् || १० || प्. ४११) व्यतीपातं च परिघं वैधृतिं परिवर्जयेत् | गुरुशुक्रज्ञवारेषु सोमवारेषु खानयेत् || ११ || दशाहे कूपसूतिः स्यात् पश्चात् पुण्याहमाचरेत् | एवमेव विधानेन कूपन्यासविधिक्रमम् || १२ || अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः | अभया वरदोपेताः टंकशूलसमन्विताः || १३ || रक्तं श्वेतं तथा नीलं पीतं कृष्णं च कुंकुमम् | अरुणाभांजनप्रख्यं क्रमाद्वर्ण प्रमाणकम् || १४ || अनन्तादि शिखण्ड्यन्तं प्राग्दलादिषु पूजयेत् | आयुधानां मुखं दीर्घं कारयेत् तु विचक्षणः || १५ || एकादि चेष्टपर्यन्तं नाहमानं विधीयते | पूर्णमुष्टिस्तु नाहं स्यात् कारयेत् तु विचक्षणः || १६ || सहजं चलनं चैव आयुधानां विधीयते || महाशिवाराधनं वक्ष्ये शृणुत्वं शरवणोद्भव ! | लिंगे बेरे तथा चान्ये पीठे वा पूजयेच्छिवम् || १ || निष्कलं निष्कलं ज्ञेयं सकलं सकलाकृतिम् | तयोस्तु पीठमाख्यातं कल्पयेत् कल्पवित्तमः || २ || प्. ४१२) पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा | द्वारं कुर्याद्विशेषेण पश्चिमं मुक्तिदं गुह || ३ || उत्तरं शान्तिदं ज्ञेयं विजयं दक्षिणामुखम् | * * * * * * * * पूर्वादि परिकल्पितम् || ४ || देविकं मानवं तद्वान्नरैर्दक्षिणोत्तरम् | स्वायंभूर्देविकं बाणं सर्वदेवदिगाश्रयम् || ५ || लिंगं प्रधानमेवं हि रन्ध्रं कुर्यात्तु षण्मुख ! | बेरं चैव तथै * हं देविके चार्षकेऽपि वा || ६ || शैलजे लोहजे वाथ सौधजेनैव कारयेत् | सौधजेनैव सिध्यर्थं शैलजं मुक्तिदं परम् || ७ || लोहजं सुखदं ज्ञेयं शैलं चैव चलाचलम् | स्थानकं चासनं यानं नृत्तरूपं तथैव च || ८ || स्थानकं सर्व सिध्यर्थं आसनं सौख्यदं स्मृतम् | स्थानकं चासनाख्यं च तामसं शयनं गुह ! || ९ || धर्मकामार्थमोक्षार्थं नृत्तरूपं सुखावहम् | लिंगे चैव विशेषेण स्थानकासनकं शृणु || १० || वर्धमानं स्थितं लिंगं आसीनं तु शिवाधिकम् | या कर्म शिवं ज्ञेयं एवं तद्भेदमुच्यते || ११ || हर्म्यमानेन लिंगं वा बेरं वापि प्रकल्पयेत् | लिंगबेरवशाद्धाम कारयेद्वा विजायते || १२ || प्. ४१३) कल्पनाद्रूपमेवोक्तं ध्यानरूपमथ शृणु | त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा || १३ || एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं वेदवक्त्रकम् | पंचवक्त्रयुतो वापि शतसाहस्रमेव वा || १४ || द्विशतादि सहस्रान्तं एवमेवं विधीयते | एकपादं द्विपादं वा त्रिपादं सहस्रमेव वा || १५ || श्वेतवर्णं च रक्तं च श्यामवर्णं तथैव च | नीलवर्णं च कृष्णं च वर्णमेवं विधीयते || १६ || जटाजूटोर्ध्वकेशं वा जटापिंगसमोऽपि वा | नागखड्गायुधो वापि शूलपाशायुधोऽपि वा || १७ || टंकशूलायुधो वापि सर्वायुधकरोऽपि वा | निरायुधकरो वापि एवमेवं तु कारयेत् || १८ || सर्वायुध धृतो वापि निरायुध करोऽपि वा | जटाग्रे जाह्नवीं चैव त्रिधारूपं तु मेव वा || १९ || पूर्णचन्द्रधरो वापि भूषयेन्मकुटोपरि | हर्यर्धं गिरिजार्धं वा कल्पयेत्तु महाशिवम् || २० || हर्यर्धं दक्षिणे भागे वामभागेऽर्धनारिणम् | वामे तु गिरिजार्धं स्याद् दक्षिणे रुद्ररूपकम् || २१ || विपरीतनृपां सर्वधर्मकामार्थमोक्षदम् | विष्णुं प्रजापतिं चैव धनदो विजयोऽपि वा || २२ || प्. ४१४) गौरी स्कन्दो वृषो वापि सव्यवामे सहासने | प्राग्वच्च स्थापयेद्वापि कारयेद्द्विविधा मतः || २३ || लिंगं वा सकलं वापि केवलं कारयेत्पुनः | तयोर्योगप्रतिष्ठां चेत् सकलं भित्तिमाश्रितम् || २४ || बाणं वा मानुषं लिंगं स्थापयेद्धाममध्यमे | चललिंगं तु वा वत्स ! पूजयेच्छिवसंनिधौ || २५ || बाणं रत्नजलिंगं वा स्फटिकं चलमेव च | पट्टिकान्तं गलान्तं वा होमान्तं कुमुदान्तकम् || २६ || तत्सीमे जलनिस्रा वा नालं तत्रैव विन्यसेत् | पूर्वे वा चोत्तरे वापि नालस्थानं वदाम्यहम् || २७ || प्रतिबन्धं पद्मबन्धं पादबन्धमथापि वा | अधिष्ठानं तथा शक्तिमार्गेणैव तु कारयेत् || २८ || जातिच्छन्दविकल्पाद्यैः एकमेकेन कारयेत् | नागरं द्राविडं वापि वेसरं चतुरायतम् || २९ || वृत्तं वृत्तायतं चैव सभाकृतिरथापि वा | विस्तारद्विगुणोत्तुंगं अल्प्य हर्म्येति चोच्यते || ३० || एकनासियुतो वापि देवनासियुतोऽपि वा | नासिकारहितो वापि वाहनं रहितोऽपि वा || ३१ || सिंहारूढं वृषारूढं भूतारूढमथापि वा | दिङ्मूर्तिरहितं वापि एभिमूर्तिरथापि वा || ३२ || देवाश्च दानवाश्चैव यक्षराप्स ऋषिस्तथा | नानानासिसमायुक्तं नानायोनिसमाकुलम् || ३३ || एवमेवक्रमं धाम कल्पयेत् तु षडानन ! | बेरस्योच्छ्रार्धमानाश्च मानेनैवासनं गुरुः || ३४ || पूजापीठं तु कर्तव्यं सप्तमात्रप्रमाणतः | मेखलत्रयसंयुक्तं दलाष्टकसमन्वितम् || ३५ || अर्चापीठमिति ख्यातं कल्पयेदेवमेव तु | अर्चारूपमिदं प्रोक्तं पूजाभागन्न विद्यते || ३६ || आवाहनोद्वहं नोक्तं पूजाभेदं न विद्यते | आवहनोद्वहं नोक्तं पूजयेत्प्रति संधिषु || ३७ || प्रतिदिनं प्रतिपक्षं प्रतिमासं प्रतिवत्सरम् | युगे युगेषु पे वत्स पूजां कुर्याद्विशेषतः || ३८ || वैदिकैस्तांत्रिकैर्मन्त्रैः एतत् तन्त्रोक्तमार्गतः | पूजयेद्देव देवेशं अन्यतन्त्रैर्नकारयेत् || ३९ || रथाकारं लिखेच्चक्रं नवावयवसंयुतम् | रथांगानां चतुष्कं च द्वयं तत्रैव कीलकम् || १ || अग्रे द्वयं तथा पीठे स्वामिनक्षत्रमादिनः | रथांगं च त्रयं पूर्वं कीलके भत्रयं तथा || २ || प्. ४१६) रज्जु द्वयं रथांगानां द्वयं कीलकमेव च | पश्चाद्रथांगं पीठं च क्रमादक्षाणि विन्यसेत् || ३ || स्थानेष्वेतेषु ऋक्षाणां विन्यसेच्च त्रयं त्रयम् | त्वक् स्थाने शास्तु मन्दारा स्थिता तत्र विनाशदा || ४ || रथांगेर्कधरासूनुशनिराह्वादयः स्थिताः | तदिग्भागरथांगे तु भिन्नं भवति भूतले || ५ || रव्यादयः कीलके च द्विग्रहो वा त्रयोऽपि वा | रविलुप्तकरा नीचाः तस्य भंगं विनिर्दिशेत् || ६ || रज्जौ रज्जु विनाशं च पीठे देवस्य नाशनम् | क्षीणे नीचारिमूढस्थाः चन्द्रयोगे ध्रुवं फलम् || ७ || शुक्रः पणफरे ज्ञो वा आपोक्लीवगतोऽपि वा | रथचक्रं विजानीयाद् दारुभिन्दन्न संशयः || ८ || केन्द्रे पणफरे चक्रे मन्दारफणवीक्षिते | रथचक्रं नरं हन्ति रज्जुभीन्नं न संशयः || ९ || उत्सवे चरलग्ने च स्थापने च स्थिरे तथा | रथारोहे ध्वजारोहे चरे चोभय राशिषु || १० || नेष्टं चतुष्टये वक्रं भयभे तद्वर्गोऽपि विलग्नकः | करोति वसुधा नाशं तद्द्वारेऽपि शुयासतः || ११ || चरामुख्यास्तत्र व्ययकटकतौलि तु धनुर्मीने | चावस्थितः सकल पापाः शुभकराः || १२ || प्. ४१७) शशिन्यापोक्लीबे गुरुभृगुज केन्द्रेऽपि च तथा | रथानां यात्रा स्युः शुचिनि निधने पंचम पदे || १२ || यात्रालग्ने नैधने नाम पुंत्रिकोणे मातेद्युने | चन्द्रसूर्यारसौराद्य पश्चाच्छक्र भिद्यते राहुदण्डताकेतुः कर्ता पुत्र भार्यार्थ हानिम् || १३ || त्रिषडायगतैः पापैः कण्टकाद्यैः शुभयुतैः | रथमायाति तच्छीघ्रं शरत्काले च भानुवत् || १४ || लग्नेशे बलवर्जिते निधनगे क्रूरेक्षिते संयुते | रज्जुर्मृतिलग्नगे दिनपतौ भौ पेतन्ति ध्वजाः | मन्दे विप्रतिचक्रकीलसहितः राहौ * * संयुते | चिद्यः स्याच्छदिलग्नगे रथपतिभूमौ निवेशस्तथा || १५ || रथप्रयाणलग्नेशे चक्रेशे क्रूरसंयुते | चक्रं निपतितं भूमौ कीलेन सह भिद्यते || १६ || त्रिकोणे सबले जीवे केन्द्रे च बलसंयुते | रथमायाति तच्छीघ्रं शरत्काले च भानुवत् || १७ || रथप्रयाणकेन्द्रेषु रविराह्वारभानुजाः | निघ्नन्ति रज्जुकीलाद्यैः तच्चक्रं च पतेद्भुवि || १८ || यात्रोदये यदा भानुः अस्तगे तत्सुतो यदि | विनाशयति तच्छीघ्रं चक्रं कीलेन रज्जुभिः || १९ || प्. ४१८) निमज्जति रथं चक्रं न भूमेर्मन्दिरो यथा | आदित्ये सबले केन्द्रे न गच्छति * कं पतिः || २० || सबले केन्द्रगे सौम्ये त्रिकोणो वाथ नायके | त्रिषडायगताः पापाः रथं सम्यक् प्रवर्तते || २१ || त्रिकोणे कण्टके पापे रथयात्रोदये सति | कर्ता मरणमायाति स राष्ट्रं नाशयत्यसौ || २२ || * * * * * * * * * * नाथे सभूमि मे | विनाशती च तच्चक्रं सरथं रज्जुना सह || २३ || रथयात्रा चरेष्विष्टा द्विस्वभावेषु मध्यमा | केन्द्र त्रिकोणगे पापे शुभषष्ठान्त्यगो यदि || २४ || पापेक्षिते शुभैर्मुक्ते रथयानं चिराद्भवेत् | केन्द्र त्रिकोणगे मन्दे द्वादशाष्टमगो यदि || २५ || दिनत्रयेणरित्यादि रथभंगं च निर्दिशेत् | केन्द्रे चन्द्रे गुरौ कोणे भृणु सौम्य निरीक्षिते || २६ || चरलग्ने यदा यानं घटिकानां त्रयोदश | द्वादशे नवमे पापे पापलग्ने शुभेक्षिते || २७ || द्वितीये केन्द्रगे सौम्ये रथयानं दिनार्धतः | पीठे राहुसमायुक्ते रथांगे शनिसंगते || २८ || प्. ४१९) कीलके पापसंयुक्ते रथभंगोऽत्र विद्यते | पीठे दिनमणौ भौमे रथांगे पापसंयुते || २९ || रज्जौ च कीलके सौम्ये रथयानं चिरेण तु | अचिराद्रथयानं स्यात् पीठे दे * न्दु पूजिते || ३० || रथांगे शशिविच्छक्रा रज्जौ सूर्ये शुभेक्षिते || बलि पीठं प्रवक्ष्यामि बाह्ये पीठ चतुष्टयम् | प्राच्यां वै स्थापिते पीठे श्रीकरं चेति कीर्तितम् || १ || दक्षिणे स्थापिते पीठे श्रीविशालमिति स्मृतम् | पश्चिमे स्थापिते पीठे श्रीभद्रमिति कीर्तितम् || २ || उत्तरे स्थापितं पीठं श्रीनिवासमिति स्मृतम् | प्राच्यां श्रीकरस्य प्रतिष्ठायां ब्राह्मणानां तु वृद्धये || ३ || श्रीविशालप्रतिष्ठायां क्षत्रियाणां च वृद्धये | श्रीभद्रस्य प्रतिष्ठायां वैश्यानां च विवृद्धये || ४ || श्रीनिवासप्रतिष्ठायां शूद्राणां चाभिवृद्धये | एवमेव प्रकारेण चतुर्द्वारे विशेषतः || ५ || श्रीश्च सरस्वती चैव ब्राह्मी सावित्रि एव च | पीठस्याधिपतीनां तु पूर्वादीनां यथाक्रमम् || ६ || सुप्रभेदे -------- बलि पीठलक्षणम् || ४२०) गर्भगेहस्य पंचांशे चतुष्कं चोत्तमोन्नतम् | त्रिभागं मध्यमं प्रोक्तं द्विभागमधमं स्मृतम् || ७ || द्वारोत्सेधसमं श्रेष्ठं तत्त्रिभागं तु मध्यमम् | द्वारार्धमधमं विद्यात् उत्सेध समविस्तृतम् || ८ || उत्सेधं सुविभज्याथ भागमेकोनविंशति | भागेनोपानकोच्चं तु चतुर्भिर्जगती भवेत् || ९ || कुमुदं तु त्रिभागे तु तदूर्ध्वैकेन पट्टिका | कर्णं कुर्यात्त्रिभागैः एकेनैवोर्ध्व पट्टिका || १० || महापट्टिका द्व्यंशेन दलोत्सेधं त्रिदलाष्टकम् | कर्णिका चैकभागेन प्रोक्तमुत्सेधमुत्तमम् || ११ || प्रवेशनिर्गमं वक्ष्ये विस्तारोत्सेधकांशकम् | समस्तांशमुपानन्तु मन्वंशं जगती तथा || १२ || भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिका तथा | अष्टांशं कण्ठविस्तारं दशांशं चोर्ध्वपट्टिका || १३ || द्वादशांशं महापट्टी दशांशमष्टदलविस्तरम् | * * * * * * * * त्रयंशेन तु कर्णिका || १४ || चतुरश्रं यथा पीठं कुर्यात्पद्मदलं विना | स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः || १५ || प्रतिष्ठाविधिमार्गेण कारयेद्देशिकोत्तमः | प्. ४२१) कारणे परिवारबलिः || मूलधाम्नश्च द्वारोच्चं उत्तमं पीठविस्तृतम् | त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् || १ || शुद्धद्वारस्य विस्तारं अधमं पीठमुच्यते | द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते || २ || अथवा व्योमहस्तेन अधमं पीठविस्तृतम् | द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते || ३ || तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति | उपानोच्चं द्विभागं स्यात् षडंशं जगती भवेत् || ४ || कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते | वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् || ५ || महापट्टीद्वयांशं तु द्विभागं वा विशेषतः | वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् || ६ || अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! | पद्मोच्चं पंचभागं तु महापट्टी द्विभागतः || ७ || उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि | क्षुद्रपीठलक्षणम् || अन्तर्मण्डलमध्ये तु भित्याश्रयमथापि वा || ८ || बलिपीठं प्रकर्तव्यं कौशिकांगुलसंयुतम् | अधमं द्विगुणं मध्यं त्रिगुणं चोत्तमोन्नतम् || ९ || प्. ४२२) वेदाश्रं वाथ वृत्तं वा सर्वपीठं प्रकल्पयेत् | विस्तारसमतुंगं स्यात् त्रिपादं चार्धमेव वा || १० || त्रिमेखलं तु कुर्वीत द्विमेखलमथापि वा | एकमेखलया युक्तं ऊर्ध्वे पद्मसमन्वितम् || ११ || पद्मपीठं तु कुर्वीत पद्माकारं स कर्णिकम् | मातॄणां नवपीठं स्यात् ज्येष्ठायां पीठकत्रयम् || १२ || अन्येषामेकमेवं स्यात् चण्डेशस्य तथैव हि | अन्तर्मण्डलदेशे तु इन्द्रादि बलिपीठकम् || १३ || स्थापयेत् तु क्रमेणैव मण्डपोपान बाह्यतः | अन्तर्मण्डलतारस्य सदृशं द्विगुणं तु वा || १४ || अन्तस्तारस्य बाह्ये तु कल्पयेत्कल्पवित्तमः | तस्यास्तु मध्यमे भागे परिवाराष्ट विन्यसेत् || १५ || वृषादि चण्डपर्यन्तं स्थापयेदष्टदिक्षु च | यस्य विस्तारपचत आयामं च विधीयते || १६ || चतुर्भागाधिकं पंचभागं वाधिकमेव वा | त्रिभागेनाधिकं चैव द्विद्धं पंचार्धमाधिकम् || १७ || मेव वा द्विगुणं तद्द्विगुणं पादाधिकं तु वा | द्विगुणार्धं तु आयामं गोपुरेषु विधीयते || १८ || प्रासादस्य विस्तारं यत्तद्दण्डमिहोच्यते | मूलहर्म्यं समारभ्य षडष्टदण्डमानतः || १९ || प्. ४२३) दशद्वादशदण्डो वा मनुदण्डावसानकम् | षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् || २० || अथवान्यप्रकारेण पीठस्थानं विधीयते | तृतीय साले चतुष्पंचसाले चैव तु मध्यमे || २१ || महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते | मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् || २२ || त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् | शुद्धद्वारस्य विस्तारं अधमं पीठविस्तृतम् || २३ || द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते | तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति || २४ || उपानोच्चं द्विभागं स्यात् षडंशं जगतिर्भवेत् | कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते || २५ || वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् | महापट्टी गुणांशं तु द्विभागं वा विशेषतः || २६ || वेदांशं पद्मतुंगं तु महापट्टी द्विभागया | उपानोच्चं शिवांशेन द्विभागं कर्णिकोदयम् || २७ || अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! | पद्मोच्चं पंचभागं तु महापट्टी द्विभागया || २८ || उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि | अथवा पीठोदयं विप्र धरातलं यथा कुरु || २९ || प्. ४२४) तदूर्ध्व पद्ममानं तु पीठोच्चे न्यंशमुच्यते | अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् || ३० || पद्मतारे युगांशं वा भूतांशं कर्णिकायतम् | पीठागारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा || ३१ || कलाश्रं वाथ कर्तव्यं तद्द्व्यया मण्डलाम्बुजम् | लोहजं शैलजं वाथ इष्टकामयमेव वा || ३२ || सुधया वेष्टकागर्भं नानाचित्रैर्विचित्रितम् | भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् || ३३ || नानावर्णैर्विचित्रं यत् भूषयेद्धेमराजतैः | पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा || ३४ || अंशमस्योपपीठोच्चं उपपीठोक्तवत् कुरु | तदूर्ध्वे तु महापीठं उक्तवस्योदयान्वितम् || ३५ || उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! | आमोदं प्राग्दले चैव प्रमोदो याम्यदिग्दले || ३६ || प्रमुखः पश्चिमे चैव उत्तरे विमुखस्तथा | अविघ्नस्त्वीशदिग्भागे विघ्नकर्तारमानले || ३७ || सात्विकं नैर्-ऋते भागे राजसं वायुकोणके | तामसं कर्णिकामध्ये नीलरुद्रस्वरूपकम् || ३८ || भूम्यन्तरिक्ष स्वर्गं च सर्वभूतगुणात्मकम् | तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! || ३९ || प्. ४२५) पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् | वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् || ४० || वारुणे तु महापीठं शेषं पूर्ववदाचरेत् | परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् || ४१ || क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् | चम्पका देवदारुश्च स्तवका जाति बिल्वकम् || ४२ || अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् | प्रासादस्य समं वापि प्रासादग्रीवमेव वा || ४३ || वृषस्थल समं वापि गोपुरोत्सेधमेव वा | द्वितल त्रितलान्तं वा दण्डस्योत्सेधमुच्यते || ४४ || पूगनालिकतालं च चम्पकं बिल्वचन्दनम् | अश्वत्थं खादिरं चैव न्यग्रोर्धसार तिंत्रिणी || ४५ || पलाशं नृपसारं च बिल्वसारं तथैव च | मधूकसारवृक्षं च ध्वजदण्डमिहोच्यते || ४६ || वृषस्थलावसानान्तं ग्रीवान्तं गोपुरान्तकम् | दण्डमानमिति प्रोक्तं ध्वजदण्डमिहोच्यते || ४७ || बलिपीठं तु तन्मानं उच्छ्रयं कर्णिकासमम् | गेहगोपुरयोर्मध्ये बलिपीठं तु विन्यसेत् || ४८ || प्. ४२६) वाहनं बलिपीठं तु ध्वजपीठं तु विन्यसेत् | महत्यल्पं च द्विविधं ध्वजमुत्तुंगमिष्यते || ४९ || क्षुद्रं प्रासादमुत्सेधं ध्वजदण्डमिति स्मृतम् | स्तूप्यन्तं शिखरान्तं च नासिकान्तं गलान्तकम् || ५० || प्रस्तरान्तसमुत्सेधं उपदण्डं द्विहस्तकम् | हस्तार्धपादहीनं तु एकहस्तावसानकम् || ५१ || एवं दीर्घविधि प्रोक्तं अयदूर्ध्वं तु पद्मकम् | मूलप्रासादविस्तारं तत्समं वा त्रिपादकम् || ५२ || ध्वजदण्डोच्छ्रयं प्रोक्तं मानमार्गमितीष्यते | गोपुरात्पूर्वा परान्तं तु प्रासादसममेव वा || ५३ || पैशाच पीठं न्यस्ताध धामार्ध त्रिपदांशकम् | हस्त त्रिपंचसप्ताभि नवहस्तान्तमेव वा || ५४ || उच्छ्रयेति दशा सप्त पद्मत्रयंशं तु गजासरा | एकांशं पद्मतुंगं तु कम्पमंशांशमम्बुजम् || ५५ || कुमुदं त्रिभागमेवं तु ऊर्ध्वपद्मं शिवांशकम् | मधोकंपपद्मांशं प्रोक्तं वेदांशं कण्ठमुच्यते || ५६ || कम्पभागेन कर्तव्यं पद्मांशं पट्टिका गुणम् | एकपत्रपद्ममधा कम्पमंशं मथकर्णिका || ५७ || पंचमधोर्ध्वपद्मं तु गुणभागं विधीयते | चक्रं वापि त्रिशूलं वा प्रासाद स्यार्धमेव वा || ५८ || प्. ४२७) पादोनाष्टांशभागेन आयुधस्य समुच्छ्रयम् | एकादि नवहस्तान्तं माननिर्णयमिष्यते || ५९ || एवं तु परिवाराणि प्रोक्तानि शास्त्रपारग | नन्दाष्टपंक्त्याष्ट नव विंशदष्टा- कुम्भे च मूर्ध्नि गलप्रस्तरान्तम् | पादोन पादादि अधस्तूपिकान्तं नारायण्यमेकभूमं प्रधानम् || ६० || यानकं स्थानकं शयनमासनं च चतुर्विधम् | आर्षकं स्थानकं चैव स्वायंभुवमथासनम् || ६१ || मानुषं राक्षसं बाणं गाणवं शयनं भवेत् | देविकं यानकं प्रोक्तं एवं लक्षणमुच्यते || ६२ || चतुरश्रं स्थानकं प्रोक्तं आसनं तु सुवृत्तकम् | यानकं त्वश्रमेवोक्तं अष्टाश्रं शयनं भवेत् || ६३ || पीठाकृतितताश्चैव एवं लक्षणमुच्यते | वृत्तपीठस्थिता गौरी भद्रपीठं तु चासनम् || ६४ || शयनं पद्मपीठा च बलिपीठाधिपीशक्तिमिहोच्यते | आमोदश्च प्रमोदश्च प्रमुखो विमुखस्तथा || ६५ || अविघ्नो विघ्नकर्तारो बलिपीठाधिदेवताः | विस्तारस्तम्भतो बाह्ये जन्मात् स्तूप्यन्तमुन्नतम् || ६६ || प्. ४२८) अथवा शिखरान्तं स्यात् विमानानां समुन्नतम् | बलिदेवताः || दैविकं तु भवादीनां इन्द्रादीनां तु मानुषम् || ६७ || भूतादीनां स्वयं भूतं आर्षकं परिवारकम् | वसूनां बाणलिंगे तु विद्येशानां तु दैविकम् || ६८ || यक्षादि राक्षसा लिंगं बलिदेवाः प्रकीर्तिताः | भवश्शर्वस्तथेशानः पशुपतिर्नीललोहितः || ६९ || उग्रो भीमो महा देवो इत्यष्टौ मूर्तयस्तथा | पीतं च कुंकुमं कृष्णं अरुणं भिन्नांजनप्रभम् || ७० || नीलं श्वेतं तथा रक्तं अष्टमूर्तेश्च वर्णकम् | अभयवरदाः सर्वे पाशांकुश चतुर्भुजाः || ७१ || त्रिणेत्रास्त्वेकवक्त्राश्च द्विपादाश्चैव नूपुराः | जटामकुटसंयुक्ता मूर्तिरूपाः प्रकीर्तिताः || ७२ || सालास्सालान्तरे मध्ये ध्वजस्थानं विधीयते | अथवा दण्डमानेन मूलं प्रासादमारभेत् || ७३ || द्वित्रिदण्डविवृद्ध्या तु पंचसप्तनवान्तकम् | रुद्रत्रयोदशान्तं वा दशपंचसुसप्तकम् || ७४ || एकोनविंशतिश्चैव दण्डमानं प्रकीर्तितम् | पंचभागद्विभागं तु सप्तभागे त्रिभागिकम् || ७५ || प्. ४२९) नवभागे चतुर्भागं प्राकाराणां विधीयते | पूर्वं शून्यविशालं चेत् यथाशोभं यथा रुचि || ७६ || एवं तु बहुधा प्रोक्तं कल्पयेत् तु यथारुचि | अन्तर्मण्डल सालादिमध्यगोपुरमध्यतः || ७७ || नवपंचैकदण्डोऽपि वसुदिक्षु चतसृषु | प्रधान स्वग्रदेशस्था ध्वजं तत्संख्यया मताः || ७८ || || शुभमस्तु || पीठरन्ध्रे भगाकारं योनिमध्ये सलक्षणम् | ऊर्ध्वाग्रं तत्प्रकर्तव्यं अथवा रन्ध्रमुच्यते || ७९ || भगाकारं कृताख्याता योनि मध्ये क्रमोध्वयुक् | बाणरत्नादिकं चैव देवी पीठस्य लक्षणम् || ८० || रन्ध्रमध्ये भगाकारं ऊर्ध्वाग्रं लक्ष्मपीठकम् | रन्ध्रस्यैव द्विभागेन तन्मूले भ्रमरे लिखेत् || ८१ || पीठोदयकलांशं तु एकांशं रत्नमेव च | दशांशं सिकतैर्युक्तं पंचांशं बन्धयेत् क्रमात् || ८२ || पूजांश षोडशांशैकं उत्सेधं तु विधीयते | तन्मानं पदविस्तारं अष्टबन्धं तथोच्यते || ८३ || भिन्ने घटे यथाकाशे तथाकाशे प्रलीयते | जीर्णबेरं तु न त्याज्यं पूजितं निष्फलं भवेत् || ८४ || प्. ४३०) न दर्शनं न सेवा च नार्चनं नाभिवन्दितम् | मोहेन पूजनं कुर्यात् तत्कर्ता मरणं व्रजेत् || ८५ || देवे जीर्णे पुनः सृष्टे देव्या प्राच्या पति स्थितः | ताभिरेव पुनर्देव्या योज्यानन्य सृजेत् पुनः || ८६ || नोद्वाहं च न कर्तव्यं सन्तदेवासु पूजयेत् | लिंगे जीर्णे पुनः सृष्टे योगे प्राच्या पतिस्थितः || ८७ || भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः | नोद्वाहं च कर्तव्यं सन्तदेवासु पूजने || ८८ || लिंगस्य जीर्णिते सत्ति लिंगमात्रं परित्यजेत् | पीठस्य जीर्णिते सत्ति पीठमात्रं परित्यजेत् || ८९ || लिंगपिण्डिसमं जीर्णं लिंगपीठं परित्यजेत् | भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः || ९० || लिंगं चतुर्विधं ज्ञात्वा स्थावरं शास्त्रचोदितम् | दैविकं चार्षकं चैव गाणवं मानुषं तथा || ९१ || चतुर्विधेषु भेदेषु दैविकं लक्षणं शृणु | दैविकलिंगम् || दीर्घाकारं भवेल्लिंगं निम्नोन्नतसमन्वितम् || ९२ || रेखाकोटर संयुक्तं मुखे तारायतोन्नतम् | पार्वताग्राकृतिं लिंगं वह्वग्रं त्वग्रतः शिखा || ९३ || प्. ४३१) कराभ्यां संपुटाकारं ब्रह्मसूत्रविवर्जितम् | इत्येतैर्लक्षणैर्युक्तं लिंगं दैविकमुच्यते || ९४ || आर्षलिंगम् || मूलस्थूलं भवेल्लिंगं अग्रमूलं तथैव च | मध्यस्थूलं तु लिंगानां नालिकेरफलाकृति || ९५ || कदलीफलाकृति श्रीबिल्वस्यैव फलाकृतिः | लिंगमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् || ९६ || गाणवलिंगम् || कूष्माण्डस्य फलाकारं मातुलुंगफलाकृति | उर्वारुकफलाकारं कपित्थस्य फलाकृति || ९७ || तालफलवदाकारं गाणवं लिंगमुच्यते | मानुष लिंगम् || द्वारं वा गर्भमानं वा हस्तमानमथापि वा || ९८ || शिल्पशास्त्रोक्तमानं वा छत्राकारशिरोन्नतम् | एकवर्णं सुसंस्निग्धं ब्रह्मसूत्रसमन्वितम् || ९९ || इत्येतैर्लक्षणैर्युक्तं लिंगं मानुषमुच्यते | अथ वक्ष्ये विशेषेण शिवरात्रिं सुपूजयेत् || १०० || कृतत्रेतायुगे चैव द्वापरे च कलौ युगे | युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् || १०१ || प्. ४३२) त्रेतायां विघ्नराजेन द्वापरे चाच्युतो यजेत् | ब्रह्मेन्द्र ऋषिभिश्चैव कलौ संपूजितो हरः || १०२ || माघकृष्णचतुर्दश्यां फाल्गुने च द्वितीयके | चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपंचमी || १०३ || ज्येष्ठे शुक्लतृतीये च आषाढे चाष्टमी यजेत् | द्वादश्यां श्रावणे चैव पूर्वाषाढे तु पंचमी || १०४ || तुलायां सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिकाम् | द्वादश्याभार्द्रमासे तु पुष्यमासे तु सप्तमी || १०५ || एवं संवत्सरे पूज्यशिवरात्र्युपवासके | माघमासे चतुर्दश्यां तत्फलं शिवरात्रिकम् || १०६ || एकमासे द्विपक्षे तु रात्राधिक्य तिथिर्वरम् | शिवं संपूज्य तद्रात्रौ तत्फलं लभते नरः || १०७ || पक्षाक्षं सममेवं स्यात् पूर्वरात्रौ शिवं यजेत् | तस्मात् सर्वप्रयत्नेन सर्वरात्रौ विशेषतः || १०८ || रात्रावधिकपक्षे तु शिवपूजा विधीयते | तद्रात्रौ शिवरात्रिः स्याद्देवसान्निध्यमेव च || १०९ || शर्वरी पक्षहीनं तु सा दोषाबहुलास्तथा | तस्मात् सर्वप्रयत्नेन सर्वमासं क्रमेण तु || ११० || नित्यसिध्यवसने तु शिवरात्रिं समाचरेत् | यामं प्रतिविशेषेण शिवपूजां विशेषतः || ११ || प्. ४३३) न वाहे चैव सप्ताहे पंचाहे वांकुरार्पणम् | अंकुराण्यर्पयेत् पश्चात् पूर्वोक्त विधिना सह || ११२ || तद्दिनस्य तु पूर्वे तु मण्डपं शोधयेत्ततः | पंचगव्येन संपूज्य कौतुकं बन्धयेत् ततः || ११३ || बिल्वपत्रं तु संपूज्य सर्वगन्धसमन्वितम् | वस्त्रेण वेष्टयेद्धीमान् बिलपत्राधिवासनम् || ११४ || प्रभाते विमले धीमान् देशिकः स्नानमाचरेत् | पूर्वाह्ने तर्पणं चैव मध्याह्ने तु प्रदक्षिणम् || ११५ || सायाह्ने पूजनं कृत्वाप्येवमेवं व्रतं चरेत् | ब्रह्मक्षत्त्रिय विट्छूद्रा उपवाससमन्विताः || ११६ || द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि | सर्वासां चैव नारीणां उपवासं तथैव च || ११७ || न निद्रानं प्रयत्नेन सर्वकार्याणि साधयेत् | यत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च || ११८ || आयुष्यकं च सिद्धिं च सर्वमोक्षं तथैव च | अमंगल्योपवासी च पुनर्जन्म सुमंगली || ११९ || अपत्नीकोपवासी च पुनः पत्नी समन्वितः | इष्टकाम्यफलं काम्यं शिवरात्र्युपवासके || १२० || निद्रायां तु फलं हीनं निद्राहीनं तु तत्फलम् | तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् || १२१ || प्. ४३४) ऋग्यजुस्सामवेदानां चतुर्भिः प्रतियामके | ब्राह्मणैर्मुनिभिस्सार्धं देशिकस्संप्रपूजयेत् || १२ || विघ्नेशं पूजयेत् पूर्वं सौरपूजामतः परम् | शालिभिः स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः || १२|| पूर्वे तु पंचगव्यं स्यात् पंचामृतं द्वितीयके | तृतीये स्नानमाप्यं तु इक्षुसारं चतुर्थके || १२४ || यामं प्रतिविशेषेण पूजयेद्देशिकोत्तमः | पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं भवेत् || १२५ || द्वितीये स्नपनं प्रोक्तं पंचाशत्कलशं भवेत् | तृतीये स्नपनं चैव पंचविंशति संख्यया || १२६ || चतुर्थे स्नपनं चैव नवकुम्भेन पूजयेत् | यामं प्रति विशेषेण स्नपनं कारयेद्बुधः || १२७ || पूर्वयामे तु संस्थाप्य बिल्वपत्रैस्समर्चयेत् | द्वितीये पद्मपुष्पैश्च तृतीये जातिपुष्पकैः || १२८ || नन्द्यावर्तैश्च संपूज्य चतुर्यामं तु पूजयेत् | चतुस्संध्यार्चनं कुर्यात् बिल्वपत्रैस्समन्वितम् || १२९ || मुद्गान्नं प्रथमे चैव द्वितीये पायसान्नकम् | तृतीये कृसरान्नं स्यात् शुद्धान्नं स्याच्चतुर्थके || १३० || यामं प्रतिविशेषेण क्षेत्रपालं समर्चयेत् | यामं प्रतिविशेषेण बलिहोमं समाचरेत् || १३१ || प्. ४३५) देशिकं पूजयेत्तत्र वस्त्र हेमांगुलीयकैः | एवं संपूज्य विधिवत् शिवलोके महीयते | --------------------------------- सूर्येन्दु वह्निमय भास्वर दीप्य पीठां स्वेच्छा गृहीत सृणिपाशशरेक्षु चापाम् | बालेन्दु मौलिमलकाभरणां त्रिणेत्रां नित्यं नमामि मनसा महनीयकीर्तितम् || १३३ || पृथ्वी गृहं सुरदलाम्बुजमष्टपत्रं लोकाश्रकं द्विदशकोणमथाष्टकोणम् | अन्तस्त्रिकोणमदि मध्यममादि पीठं तत्सर्वमम्ब तव रूपमनुस्मरामि || १३४ || बालार्क मण्डलाभासं चतुर्बाहुं त्रिलोचनाम् | पाशांकुशधनुर्बाणान् धारयन्तीं शिवांभजे || (शुभमस्तु) ########### END OF FILE #######