#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00272 Uniform title: acintyaviśvasādākhyam Manuscript : IFP/EFEO transcript T0007A and T0007B Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 8, 2012 Revision 1: April 13, 2012 Added pages 1271 to 1316 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### चिन्त्यम् अचिन्त्यविश्वसादाख्यः वन्दे वेतण्ड तुण्डं तं चण्डिकासङ्गमण्डलम् | शुण्डादण्डेन वन्यानां प्रखण्डयति मण्डनम् || १ || प्रणम्य देवदेवेशं सर्वज्ञं तु सदाशिवम् | महेशः परिपप्रच्छ प्रणामाद्युपचारकृत || २ || आदौ महेश्वरात्पृच्छन् श्रीण्ठो गिरिजापतिः | ब्रह्मेशस्सत्य देवेशो रुद्रकारणकारणः || ३ || प्रणम्य चरणौ तस्य रत्नगर्भं तथा ब्रवीत् | कामिकं योगजं चिन्त्यं कारणं चाजितं तथा || ४ || दीप्तं सूक्ष्मं सहस्रं च अंशुमान्सुप्रभेदकम् | विजयं चैव निश्वासं स्वायंभुवमथानलम् || ५ || प्. २) वीरं च रौरवं चैव मकुटं विमलं तथा | चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा || ६ || सिद्धं सन्तान शर्वोक्तं पारमेश्वरमेव च | किरणे वातुल चैव * * * * * * * * ? || ७ || पूर्वोक्तदिति ख्यात मसंख्यमुपभेदकम् | स विस्तरत्वात् संमार्ज्यै तज्जातस्य * *? मभो || ८ || * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * || ९ ||? * * * * * * * * * * * * * * * * |? * * * * * * * * * * * * * * * * || १० ||? प्. ३) प्रकाशितं मयानन्दिंस्तव स्नेहाद्विशेषतः | अचिन्त्यं विश्वसादाख्यं ग्रन्थमष्टसहस्रकम् || ११ || ज्ञानयुक्तं क्रियाचर्या-संयुक्तं चोत्तरोत्तरम् | निष्क्रियं निर्मलं यच्च हेतु दृष्टान्त वर्जितम् || १२ || तदेतद्बुद्ध्यतां नन्दिन् सम्यक्सन्मार्गमुत्तमम् | सम्यग्दर्शन सन्मार्ग ज्ञानपर्याय वाचकम् || १३ || श्रीनन्दिकेश्वर उवाच | सहमार्गो भवेत्कस्मात्पुत्रमार्गः कथं विभो | दासमार्गो भवेत्केन कथ्यतां भगवन्मम || १४ || ईश्वर उवाच | सहमार्गं प्रवक्ष्यामि पंचविंशार्ण गोचरम् | रूपध्यान विनिर्मुक्तमरूपध्यानसंयुतम् || १५ || अनेकोपाय संयुक्तमनेकापाय वर्जितम् | मायाविवर्जितं यच्च सहमार्गमिति स्मृतम् || १६ || स्वरूपं सहमार्गं च योगपर्याय वाचकम् | पुत्रमार्ग स्वभावोऽयं गुरुरेव हि दैवतम् || १७ || चिन्तयेत्स्वगुरुं भक्त्या भक्त्या ज्ञानप्रदं शुभम् | सर्वागमोदितं ज्ञानं सर्वैश्वर्यं तथैव च || १८ || कैवल्य पदसंप्राप्तिस्सर्वा गुर्वाज्ञया भवेत् | पुत्रमार्ग इति प्रोक्तो दासमार्गस्तथोच्यते || १९ || मुण्डी जटी शिखी वापि वश्यसाधन संयुतः | कौपिनमम्बरं ज्ञेयं कथं प्रावरणं तथा || २० || प्. ५) भिक्षान्नं देहपोषार्थं प्रासादकरणं तथा | मठादीनि विधेयानि नैष्ठिका वासकारणात् || २१ || प्रपादिकरणं चैव शिवशास्त्रार्जनं तथा | तटाकं कूपयन्त्रं च स्थापयेद प्रयत्नतः || २२ || उद्यानकरणं चैव पुष्प ग्रहणबन्धनम् | स्नपनार्थं जलन्देयं देयं देहादिमार्जनम् || २३ || प्रोक्षणं लेपनं चैव त्यादि दासमार्गकम् | सन्मार्गं सहमार्गं च पुत्रमार्गमनन्तरम् || २४ || दासमार्गं च भगवन् किं विशिष्टं वद प्रभो | ईश्वरः | सन्मार्गं तत्वरत्नं हि सर्वतत्वैक नायकम् || २५ || प्. ६) दासत्व पुत्रमार्गाभ्यां पुत्रमार्गो विशिष्यते | तथापि पुत्रमार्गं तु गुरुदेव प्रधानतः || २६ || तस्माच्छ्रेष्टस्तु विज्ञेयः पुत्रमार्गः स्वभावतः | एतच्चतुष्टये मार्गे सेव्यस्तन्मोक्षकांक्षिणम् || २७ || यद्यप्येकेन वै न्यूनं मोक्षसोपानभञ्जकम् | ऐश्वर्यादिफलं लब्ध्वा पुनर्जन्म प्रपद्यते || २८ || ततश्च ज्ञानयोगं च क्रियाचर्या चतुष्टयात् | लब्ध्वा गत्वा प्रकाशित्वा मोक्षात्मी व्रजति क्रमात् || २९ || संपर्केण शिवो ज्ञेयः प्रणयस्तदनन्तरम् | शिवस्य प्रीतिदं पौत्रं दासमार्गमनुग्रहम् || ३० || प्. ७) तस्मात्सर्व प्रयत्नेन चतुष्पादमिदं भवेत् | अनुष्ठेयं सदानन्दिन् भोगमोक्षस्य कारणात् || ३१ || मदीयकरसस्थं हि हस्तकं नन्दिकेश्वर ! | त्वया मया विशेषत्वाद् दत्तमेतदभीष्टदम् || ३२ || इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये क्रियापादे तन्त्रावतारः प्रथमः पटलः || प्. ८) ईश्वरः || आचार्य लक्षणं वक्ष्ये शृणुत्वं नन्दिकेश्वरः | ज्ञानयोगक्रियाचर्याः सम्यगाचर्यते यतः || १ || तस्मादाचार्य इत्युक्तः सर्वभूतहिताय वै | आचार्यौ द्वौ समाख्यातौ विरक्तः प्रथमो भवेत् || २ || भौतिकश्च द्वितीयः स्यात् प्रथमस्तु विशेषतः | आजन्मब्रह्मचारी च यतिश्च तदनन्तरम् || ३ || एवं च यत्तु प्रथमे द्वितीयेऽपि द्वितीयकम् | गृहस्थो वानप्रस्थश्च चतुष्टयमुदीरितम् || ४ || जन्म वै द्विविधं प्रोक्तं दीक्षा प्रसवसंज्ञिकौ | नैष्ठिको नैष्ठिकश्चैव गृहस्थान्दीक्षयेत्क्रमात् || ५ || प्. ९) भौतिकस्तु गृहस्थाच्च नान्यद्दीक्षा समाचरेत् | भौतिको लिंगं युक्तस्तु तस्य जातिर्न विद्यते || ६ || भार्या सहितवृत्तित्वात् तल्लिङ्गत्वात्तथैव च | चिन्तासन्तति संशून्या लोकाचार विमोहितम् || ७ || जातिभेदवशादेव दीक्षयेन्नन्दिकेश्वर ! | एतेषां देशिकानां तु लक्षणं शृणु सुव्रत ! || ८ || अहिंसा सत्यवादी च विश्वजीवदया परः | क्षमावान्शान्तचित्तश्च निग्रहानुग्रहे महान् || ९ || समाचारयुतो दक्षो जपध्यानपरायणः | विज्ञानदीक्षा संयुक्तो गुरुभक्तिविशारदः || १० || प्. १०) ज्ञानयोगक्रियाचर्या चतुष्पादान्तशास्त्रवित् | डम्भ मायाविनिर्मुक्तः क्षुद्रकर्मविवर्जितः || ११ || शिष्याणां गुण दोषज्ञो विज्ञानी च जितेन्द्रियः | रागद्वेष विनिर्मुक्तः कृपागुणसमन्वितः || १२ || समयानां तु सर्वेषां ज्ञानसारपरिग्रही | अधिष्ठाने त्रियोपेतो गमनत्रय पारगः || १३ || आज्ञात्रय समायुक्तः नादत्रयसमन्वितः | शिवानुभूति संयुक्तः संशयच्छिद संशयः || १४ || वश्याकर्षण विद्वेष स्तम्भोच्चाटनमन्त्रवित् | ज्ञय कुष्ठादिरोगैश्च वीतः परमसुन्दरः || १५ || प्. ११) निर्मदो निरहंकारो नृंशस्यो निर्विकल्पकः | तमोविहीनः शास्त्रज्ञः परमार्थविचिन्तकः || १६ || एतल्लक्षणसंयुक्तोऽप्याचार्यवर उच्यते | भौतिकोऽपि विशेषेण धर्मपत्नीसमन्वितः || १७ || पूर्वोक्त लक्षणोपेतो भौतिकाचार्य उच्यते || इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये क्रियापादे आचार्य लक्षणो द्वितीयः पटलः || श्रीनन्दिकेश्वरः | भगवन्देवदेवेश ! कर्मानाचार्यलक्षणम् | वदस्वलोकरक्षार्थं अस्माकं च विशेषतः || १ || ईश्वर उवाच | विज्ञानदीक्षारहितो गुरुभक्तिविवर्जितः | गुर्वाज्ञालङ्घनश्चापि गुरुदोष विचारकः || २ || गुरुद्रव्याभिलाषी च सर्वद्रव्याभिलाषकः | गुरुशुश्रूषणाहीनो गुरुनिन्दासमन्वितः || ३ || गुरोरनिष्टकारी च ज्येष्ठभात्रवमानकृत् | क्रोधलोभजलोन्मेष पैशुन्यो डम्भवेषकः || ४ || अनृतो लुब्धकस्तेयो वक्रो मूर्खोपपादकः | चपलः करको दुष्टः क्षुद्रकर्मपरिग्रही || ५ || प्. १३) अहंकारी कृतघ्नश्च समयाचारदूषकः | ज्ञानयोग विनिर्मुक्तः क्षयकुष्ठादि रोगवान् || ६ || धूर्तको विषया सक्तो दुश्शीलः कैतवस्तथा | ज्ञोरज्ञातिश्च दुर्मानी भक्षको दुर्मुखस्तथा || ७ || एवमादिगुणैर्युक्तो न पूज्यो हि महीतले | अस्यैवाचार्य नामत्वमभिषेकं न कारयेत् || ८ || प्रमादादभिषेकं तु कृतं चेद्दोषभाग्भवेत् | इत्यनाचार्य लक्षणं नाम तृतीयः पटलः || अथ वक्ष्ये विशेषेण शिष्याणां लक्षणं शृणु | अहिंसा सत्य संयुक्तः क्रोधलोभविवर्जितः || १ || सहिष्णुरूर्जितमतिः सर्वक्लेश विवर्जितः | आसनं दन्तकाष्ठं च पादप्रक्षालनं तथा || २ || प्रसारणं च पादानां भस्मस्नानमतः परम् | तलस्य मर्दनं चैव संग्रामं च विवादनम् || ३ || महासंश्रयणं चापि न कुर्याद्गुरु संनिधौ | अतिहासमवष्टम्भं लीलामंगप्रसारणम् || ४ || कटिप्रदेशे हस्तं यो न कुर्याद्गुरुसंनिधौ | व्याख्यातं च प्रतिष्ठां च मण्डलं शिष्यसंग्रहे || ५ || प्. १५) गूर्वाज्ञा प्रकर्तव्य मेकग्रासं पथो यदि | करस्फोटं च नृत्तं च गाथागानं च सुप्तकम् || ६ || गण्डकेशविशीर्णत्वं वर्जनं गुरुसंनिधौ | धामच्छायां गुरुच्छायां तथैवान्तेन वेदयेत् || ७ || वाचामधुरया चैव गुरवे संनिवेशयेत् | गुरोर्गुरौ तु दष्टे तु प्राचार्यान्वन्दयेत्तथा || ८ || दीक्षामुख्येन वा प्रीत्या शुश्रुषा गौरवेण च | सतां चैव प्रयच्छेच्च ज्येष्ठत्व गुरुकल्पनात् || ९ || तत्र ज्येष्ठस्तु संपूज्यो गुरुवन्नन्दिकेश्वर ! | रात्रौ जले भये मार्गे प्रत्यादेश परो व्रजेत् || १० || प्. १०) सदाचार्थो गुणग्राह्यो न दोषश्च परिग्रहः | गुणग्रामे भवेत्सिद्धि न सिद्धिर्दोषसंग्रहे || ११ || सर्वेषामेव शिष्याणामधिकं स्याद्गुणं शृणु | भक्तिविश्वा समद्रोहं गुर्वाज्ञालङ्घनस्थितिः || १२ || श्रद्धा शान्तिः क्षमासत्यं तथा शौचं ततः श्रुतम् | कृतज्ञता द्वादशकं यस्य शिष्यस्य विद्यते || १३ || स शिष्याणां प्रधानश्च नास्त्येते ते प्रधानकाः | भक्ति युक्तश्च शिष्यश्च न शिक्षयति चेद्गुरुः || १४ || शिष्यज्ञानकृतं पापं गुरोर्भवति निश्चयः | तस्मात्सर्वप्रयत्नेन गुणान्सर्वान्परीक्षयेत् || १५ || प्. १७) अल्पदोषगुणाधिक्ये समये चैव दीक्षयेत् | अब्दशुश्रूषणान्ते तु गुणागुणनिरूपणात् || १६ || गुणाधिक्येऽपि सच्छिष्यो दीक्षासंस्कारकादिभिः | कुर्यादाचार्यकस्तस्य विज्ञानावधिकं क्रमात् || १७ || दीक्षामात्रेण शिष्योऽपि सर्वदोषविवर्जितः | पश्चाद्दोषं समुत्पन्नं मनोवाक्काय कर्मभिः || १८ || व्यसनादिभिरस्येवं तत्सर्वं गुरवे पुनः | विज्ञाप्य सर्वदोषं च वन्दयेद्देशिकोत्तमम् || १९ || प्रायश्चित्तविधानं च गुरुः पश्चादुदीरयेत् | असंनिधौ गुरोरेवं कर्तव्यं ज्येष्ठसन्निधौ || २० || प्रायश्चित्ताद्भवेच्छुद्धः शुद्धत्वान्मोक्षमाप्नुयात् || इति चिन्त्योपभेदे अचिन्त्यविश्वसादाख्ये शिष्य लक्षणः चतुर्थः पटलः || प्. १९) मन्त्रोद्धारादिकं गुह्यं वक्ष्येहं रत्नगर्भकम् | तत्वार्थमननाद्यादि जगत्त्राणास्त्रमुच्यते || १ || सादाख्य विश्वेमन्त्रार्थः शिवचित्तसमाधिकः | वाच्य वाचकता हीनं मनोवाक्काय गोचरम् || २ || अप्रमेयमसादृश्यमप्रपञ्च मलक्षणम् | निष्कलं परमं तत्वमनन्तमचलं ध्रुवम् || ३ || अरूपमविकारं च मनोमयमनामयम् | अनाधारं स्वसंवेद्यमधिष्ठानं परात्परम् || ४ || अचिन्त्यमव्ययं सूक्ष्मं हेतुदृष्टान्तवर्जितम् | शिवतत्वमिदं प्रोक्तं तत्वानां (स्थित्यमपत्ति) || ५ || प्. २०) * * * * * * * * * रुणां ज्ञानिनां तथा | * * * शानिमित्ताया स्वेच्छया गृह्यते तनुम् || ६ || स्थित्युत्पत्ति निमित्ताया सा तनुर्द्विविधा भवेत् | मध्यमैकं समस्तैकमित्येवं द्विविधं मतम् || ७ || सौवीर्यान्नास्ति तत्कार्ये मांसास्थि रुधिराणि च | इन्द्रायुध समाकारं परांशक्त्यैकमूर्तिमात् || ८ || यत्नसंमोदये मध्ये वासिनं शक्तिसंयुतम् | स्वांगुष्ठब्रह्मणा तुल्यं तदूर्ध्वं शिवरक्षकम् || ९ || तद्रूपं च सदा भाव्यं यदा चार्यस्वरूपिणम् | सिद्ध्यर्थं साधकानां तु सूक्ष्मरूपमिदं परम् || १० || प्. २१) त्रिणेत्रं चतुर्भुजं रौद्रं नीलोत्पलदलप्रभम् | ऊर्ध्वकेशं च पिंगाक्षं विश्वरक्षाकरं परम् || ११ || वस्त्रं नवरसोपेतं ईषद्दंष्ट्रा समायुतम् | गुरुरूपमिदं ज्ञेयं शैवानां शिवरूपकम् || १२ || सिध्यर्थं साधकानां तु सूक्ष्मरूपमिदं परम् | गुरुदेहमिदं प्रोक्तं सृष्टिदेहमिहोच्यते || १३ || चतुर्वर्णयुतं देवं जटामकुटमण्डितम् | तनुरेका चतुर्वक्त्रं नेत्रैर्द्वादशिर्युतम् || १४ || चतुरास्यं चतुर्नासि चतुःश्रोत्रं चतुर्दलम् | भुजाष्टक समोपेतं वरणाष्टकसंयुतम् || १५ || प्. २२) रक्तं कृष्णं तथा श्वेतं श्यामं पूर्वादिवर्णकम् | टंकशूलयुतं पूर्वं खड्गं नागं तु दक्षिणे || १६ || पाशांकुशयुतं सौम्यं पश्चिमं वरदाभयम् | दिगम्बरं समं देवं चतुर्वक्त्रसमायुतम् || १७ || सर्वाभरणसंयुक्तं दिव्यमालाविभूषितम् | दिव्यगन्धानुलिप्तांगमासनं सर्वतो मुखम् || १८ || सन्मार्गं शैवमित्युक्तं शिवमुखं भवेत् | सन्ध्याख्यं दक्षिणं प्रोक्तं पिनाकं पश्चिमं भवेत् || १९ || उत्तरं वैष्णवं प्रोक्तं इच्छाज्ञानक्रियादिभिः | इच्छाज्ञानक्रियाशक्ति सन्मेसादाख्य संभवेत् || २० || प्. २३) एकैकं पंचधा ज्ञेयं इशानादीनि पूर्वके | * * * * * * * * * * शं चामरान्वितम् || २१ || पञ्चवक्त्रयुतं प्रोक्तं इच्छाज्ञान क्रियादिभिः | इच्छाज्ञानक्रिया शक्तिः समे सादाख्य संभवेत् || २२ || एकैकं पंचधा ज्ञेयमीशानादीनि पूर्वके | * * * * * * * र जटामकुटमण्डितम् || २३ || पंचवक्त्रयुतं प्रोक्तमिच्छाज्ञानक्रियादिभिः | इच्छाज्ञानक्रियाशक्तिः समे सादाख्य संभवम् || २४ || * * * * * * न्तेषु प्रतिवक्त्रं त्रिलोचनम् | सर्वाभरण संयुक्तं सर्वमालासमन्वितम् || २५ || प्. २४) शूलं खट्वां तथा वज्रं खड्गं चाभय दक्षिणे | पाशांकुशं च नागं च खट्वां वरदं वामके || २६ || दिव्याम्बरधरं देवं दीर्घबाहुं नखोज्वलम् | दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाविभूषितम् || २७ || मध्यमं तत्वसिद्धान्तं सन्मार्गैकप्रदायकम् | अर्घ्यमन्त्रं प्रवक्ष्यामि विविधेन द्विजोत्तम ! || २८ || नादं नादादिमं नादं शान्तामकुटसंयुतम् | भयमध्या पर हयमध्याक्षरान्वितम् || २९ || वारुणं वह्निसंयुक्तं मरुत् षष्ठस्वरान्वितम् | नवात्मकमिदं मन्त्रं सर्वभूतेष्ववस्थितम् || ३० || प्. २५) हसक्ष्मालच्युसन्तमौ कारणसायु समन्वितम् | आदौ प्रणव संपन्नं बिन्दुनादविभूषितम् || ३१ || व्यक्ताव्यक्तमयं मन्त्रं सादाख्यं मन्त्रकायकम् | अर्चने जपकाले तु शिवाय सह योजयेत् || ३२ || * * * * * * रक्ष्ये द्विभुजं च त्रिलोचनम् | कृष्णास्यं चोर्ध्वकेशं च शेषं पूर्ववदाचरेत् || ३३ || मनोन्मन्याकृतिं वक्ष्ये चतुर्बाहु समन्विताम् | त्रिणेत्रारुण संकाशां धिक्ष्यं * * * * * * || ३४ || सर्वाभरणसंयुक्ता कौलकंचुक भूषिता | पद्मोत्पलधरा देवी वरदाभयपाणिनी || ३५ || प्. २६) सदाशिवस्य वामांगे ध्यातव्या साधकोत्तमैः | पूर्ववत् * * * * * * या नलसमन्वितम् || ३६ || बिन्दुनाद समायुक्तं विरक्तेर्मन्त्रमुत्तमम् | शिवमुद्दिश्यरागादि वर्जनं तु विरागिता || ३७ || तस्मात्सदा नमस्कार्या तत्वज्ञानसमन्वितः | * * * शकलायुक्तं यत्रोतान्तस्त्रणीयते (?) || ३८ || नादबिन्दुसमाक्रान्तं विष्णुबीजं परम् विदुः | शिवानन्द स्वरूपत्वाद विष्णुर्वन्द्यः सदा बुधैः || ३९ || विष्णुना भिन्नरूपातो विष्णोश्शक्तिरखण्डता | सृष्टिस्थित्यन्तमोक्षाय वेदागम विवृद्धये || ४० || प्. २७) सर्वशास्त्रावताराय भक्त्युत्पत्तिकराय च | प्राणिनामुपकाराय सादाख्यं तथ्यमुत्तमम् || ४१ || एकवक्त्रोऽनेकवक्त्रो द्विभुजोऽनेकबाहुकः | नानारूपधरो देवो नानावर्ण समन्वितः || ४२ || नानाशास्त्रार्थ संपन्नो नानालीलापरो हरः | न यानन्तं समासीनं नृत्तको पंचसौम्यकम् || ४३ || अनेकाकार संयुक्तो देवदेवोऽहिभूषणः | जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः || ४४ || वृषध्वजो वृषारूढो भवानी सहितो विभुः | सूर्याचन्द्रमसौ नेत्रे वह्निनेत्रं तु पावकम् || ४५ || प्. २८) क्षिदृग्भूतो महादेवी काञ्चन स्त्रिदशेश्वरः | नादं कालसमोपेतं वह्निमारुतसंयुतम् || ४६ || षष्ठस्वरसमायुक्तं बिन्दुनादसमन्वितम् | एकं महेशमन्त्रं तु सर्वसिद्धिकरं परम् || ४७ || महेश्वरस्य वामाङ्क विद्यां गौरीं शृणु द्विज ! | भवानी श्यामवर्णाभाप्येक वक्त्रा द्विबाहुका || ४८ || पीनस्तना सुवदना पीनोरुजघना परा | सर्वलक्षणसंपन्ना सर्वाभरणभूषिता || ४९ || तनुमध्या निम्ननाभि बिम्बोष्ठी चारुलोचना | पंचब्रह्म षडंगानि शृणु नन्दिरतन्द्रितः || ५० || प्. २९) सान्तं तु प्रथमं सद्यस्तृतीयं वामदेवकम् | अघोरं पंचमं बीजं पुरुषं रुद्रसंख्यकम् || ५१ || त्रयोदशं भवेदीशं पंचब्रह्ममिहोच्यते | सब्रह्मसंहितः शास्त्रैः संहिता मन्त्रकं भवेत् || ५२ || बिन्दुनादयुतास्सर्वे स्वस्वनाम चतुर्थकाः | नमस्कारान्त मात्रास्ते तत्तद्ध्यानमतः परम् || ५३ || श्वेतं हैमं तथा नालं लम्बमं स्फटिक प्रभम् | सद्यादीनां च वर्णानां त्रिणेत्राश्च चतुर्भुजाः || ५४ || शूलटंकधराश्चैवमभयं वरदान्विताः | अघोरं रौद्रमित्युक्तं शेषाः सौम्या इति स्मृताः || ५५ || प्. ३०) द्वितीयं हृदयं विद्याच्चतुर्थन्तु शिरो भवेत् | शिखा षष्ठाक्षरं विद्या द्वादशं कवचं भवेत् || ५६ || नेत्रं चतुर्दशं चैवमस्त्रं षोडशमुच्यते | सविसर्गो भवेदस्त्रं सानुस्वारो हृदादयः || ५७ || नमः स्वाहा वषड्वौषड् हुंफडन्ताश्च जातयः | हृदाद्यस्त्रान्तकैर्युक्ता मन्त्रास्युस्ते प्रकीर्तिताः || ५८ || श्वेतं पीतं तथा रक्तं कृष्णं चाञ्जनसन्निभम् | षडङ्गानां च वर्णाःस्युः त्रिणेत्राश्च चतुर्भुजाः || ५९ || अभयं वरदोपेताः टंकशूलसमन्विताः | रक्तं शूलं तथा श्वेतं हेम कृष्णं च कुङ्कुमम् || ६० || प्. ३१) अरुणं चाञ्जन प्रख्यं क्रमाद्विध्येशवर्णकम् | क्षेत्रेशं चैव यक्षेशान् द्वारेशान्परिवर्जयेत् || ६१ || अन्यांश्च सर्वदेवानामासनावरण स्थितान् | आदौ प्रणवसंस्थानं हृदये तदनन्तरम् || ६२ || स्वनामाद्यक्षरैर्बीजं नमस्कारं तथान्तिकम् | स्वाहान्तं सर्वमन्त्रेषु होमकाले विशेषतः || ६३ || सर्वभूते बलिं मन्त्रं शृणुष्वैकाग्रमानसः | आकारं च मुखं सर्वं वर्णानां च ततः परम् || ६४ || ओं आ अ हुं फट्स्वाहान्तं मन्त्रमेतदुदीरयेत् | प्रणवादि प्रयोक्तव्यमसुगैतिकमन्त्रकम् || ६५ || प्. ३२) सर्वत्र च हृदयाय स्वाहान्तं प्रणवादिकम् | अग्रमन्त्रमिति प्रोक्तं मन्त्रं पाशुपतं शृणु || ६६ || विद्युत्प्रभं परशुमान विलम्बिदंष्ट्रं पाशं त्रिशूलमपि वामकरेऽक्षसूत्रम् | सर्वे भवे वरदहस्तयुतं त्रिणेत्रं देवस्य पाशुपतरूपमिदं प्रशस्तम् || ६७ || एवं ध्यात्वा तु मनसा पूजयेत्तु विवक्षणः | अस्य मन्त्रं प्रवक्ष्यामि शृणु त्वं नन्दिकेश्वर || ६८ || षष्ठं च स्याद्द्वितीयं तु चतुर्थाभेन संयुतम् | द्वितीयाद्यपरोपेतं पंचवामाक्षरान्वितम् || ६९ || शिखामन्त्रेण संयुक्तमेतत्पाशुपतास्त्रकम् | हुं फट्कलः | कलान्ते नैव चान्तेन चतुर्थस्वरसंयुतम् || ७० || प्. ३३) क्षुरिकाकलवदेवस्य शुद्धस्फटिक संनिभम् | दीक्षाकाले विशेषेण पाशच्छेदेन मन्त्रकम् || ७१ || अघोराख्यस्य मन्त्रस्य सूक्ष्मरूपं शृणु द्विज | नादं यान्तसमायुक्तमादौ प्रणव संयुतम् || ७२ || विसर्गान्तं प्रयोक्तव्यमेतद्द्रूपं शृणु द्विज | विद्युज्ज्वालानलाभं भुजगपरिकरं तीक्ष्ण दंष्ट्रं त्रिणेत्रं शूलं पाशं च घण्टा मलमसि च महाखेटकं प्रज्वलन्तम् | सर्वे सर्वेऽपि यं कामांकुशमभीतिं दक्षिणे घोरवक्त्रे पार्श्वे घोरास्त्रमेवं नियमित मनसा भावयेत्सर्वशान्तिम् || ७३ || परचक्र प्रशमने महाव्याधिप्रकोपमे || ७४ || भूमिकम्पे दिशादाहे ध्वंहाहे चण्डमारुते | एवमेवादिकालेषु अघोरस्य मुखाग्रतः || ७५ || प्. ३४) अष्टोत्तरशतं कृत्वा जपेत्सर्वं प्रशाम्यति | व्योमव्यापि महामन्त्रं प्रवक्ष्यामि तवाधुना || ७६ || आदौ तु प्रणवं विद्याद् द्वितीयं तु द्वितीयकम् | तृतीयं त्रिस्वरं प्रोक्तं चतुर्थं षट्स्वरं भवेत् || ७७ || पञ्चमं यश्चतुर्थं स्यान्मन्त्रमोंकारसंयुतम् | अष्टमान्तमिति ख्यातं सप्तमं तु ततः परम् || ७८ || ला क्रमान्त समायुक्तं अकारस्वरसंयुतम् | अष्टमं तान्त संयुक्तं तृतीय स्वरभूषितम् || ७९ || नवमं यान्तमेकारं संयुक्तं प्रणवं दश | अस्य रूपं प्रवक्ष्यामि समासाच्छृणु सत्तम || ८० || प्. ३५) त्रिमुखं सप्तपिंछाक्षं क्वचिद्रक्तं क्वचित्सितम् | अनुपाद्यमिदं रूपं व्योमाख्यं व्योमरूपिणम् || ८१ || ग्रहणे विषुवे चैव व्यतीपाते त्वनेकधा | राजाभिषेक समये युद्धारम्भे स्वजन्मनि || ८२ || उत्सवान्ते च तीर्थान्ते ज्वरमार्यादि पीडिते | क्षीरस्नानं मधुस्नानं महास्नानं प्रशस्यते || ८३ || मन्त्रेणानेन नन्दीशं कारयेदमरेश्वरम् | दुरिता नाशमायान्ति प्रार्थितं फलमाप्नुयात् || ८४ || सद्यांगानि प्रवक्ष्यामि षडङ्गानि यथाक्रमम् | प्रशान्तं हेति हृदयं प्रणवात्मन्नमः शिरः || ८५ || प्. ३६) शिवाय जं शिखा ज्ञेया साकारन्तु पुरूस्वतम् | फट्कारस्तु स्त्रचास्त्र मों दुसो नेत्रमिष्यते || ८६ || हृदादिनेत्र पर्यन्तमामौ सर्वं प्रयोजयेत् | यात्रशं हृ च यादीनां विद्यारागं च तादृशम् || ८७ || भॄ इं ज्ञ ड ज्ञां महामन्त्रं बीजमुख्या त्रिरेव हि | अंकुरार्पण काले तु शम्भोरासनकल्पने || ८८ || एकांश्च त्रीणि मन्त्रांश्च तत्काले योजयेद्बुधः | आद्यन्तं बिन्दुसंयुक्तं ब्रह्मबीजमिति स्मृतम् || ८९ || वायव्यं प्रथमं बीजं कामराजं द्वितीयकम् | सौकारं स्यात्तृतीयं तु प्रत्येकं बिन्दुसंयुतम् || ९० || प्. ३७) प्रणवादि विसर्गान्तं सारस्वतमिति स्मृतम् | नेत्रत्रयं स्फटिक घण्टिक साक्षसूत्रं व्याख्यान पुस्तकविलासितदोश्चतुष्कम् || ९१ || चैतां सितांशुकधरां सितपुष्पग्रन्थां स्तोत्रम्बुजासनरतां प्रणमामिवाणीम् || यान्तं यान्त समायुक्तं मायाबीज समन्वितम् || ९२ || बिन्दुनाद समायुक्तं श्रीबीजं सर्वसिद्धिदम् | दुर्गाबीजं तथा तं तु पंचमस्वरसंयुतम् || ९३ || बिन्दुनादसमायुक्तं सर्वाभीष्टप्रदं भवेत् | एकानना त्रिणेत्रा च डाडिमाभा चतुर्भुजा || ९४ || पाशाङ्कुशधरा देवी वरदाभय पाणिका | पद्मासन स्थिता सौम्या सर्वाभरणभूषिता || ९५ || प्. ३८) प्रसन्नवदना रक्त वस्त्रेणैव तु वेष्टिता | रुद्रशक्तिरियं विद्या सान्निध्या सर्वसिद्धिदा || ९६ || एतन्मन्त्रस्तु ह्रीं श्रीं क्लीं प्राकारममृतं भवेत् | यतश्चन्द्रमिति ख्यातं ह्रां ह्रीं स सूर्य गुण्यते || ९७ || गकारं तु गणेशस्य विश्वविघ्ननिवारणम् | वक्रतुण्डाय विद्महे हस्तिवक्त्राय धीमहि || ९८ || तन्नो दन्तिः प्रचोदयात् | सर्वान्तं क्षेत्रपालस्य चतुर्दश समन्वितम् | बिन्दुनाद समायुक्तं भयं सर्वं सुवर्जितम् || ९९ || अजपा वक्ष्यते नन्दिन् सर्वभूतहिताय वै | सर्वप्राणिषु सर्वासां सर्वज्ञानमयी शुभा || १०० || प्. ३९) वाच्यवाचक रहिता शिवभक्ति समन्विता | व्योमाक्षरं च प्रथमं बिन्दुसन्धियुतं भृगुः || १०१ || अजपेति विजानीहि मन्त्राणां गुरुरूपिणी | निष्कलं परमं तत्वं सर्वतत्वबहिष्कृतम् || १०२ || अनादिनिधनं शून्यमनौपम्यमकारणम् | न शक्यं तन्तनादान्तं नलायाति तमेव च || १०३ || न भावं भावनातीतान्नैवाभावं न चोभयम् | नास्तीत्यभावमापन्नं परनिर्वाणमात्मगम् || १०४ || निरामयं निरस्तांगं व्यापकं सर्वतो मुखम् | असासन्तमनीशञ्च सर्वकारण कारणम् || १०५ || प्. ४०) निर्मलं निष्प्रभं चैव निष्क्रियं निरपेक्षकम् | सदाशिवं शिवं शक्तिमीशं रुद्रं जनार्दनम् || १०६ || ब्रह्माणमिन्द्रमग्निं च सोमं सूर्यं तथैव च | सर्वदेवमयं चैव स्वग्वीं? दैवतं यजेत् || १०७ || मन्त्रश्रवणमात्रेण गुरुं दैवत चिन्तया | मन्त्रसिद्धिमवाप्नोति भक्तिविश्वास संयुतः || १०८ || प्रातः काले समुत्थाय गुरुरूपं विचिन्तयेत् | सहस्रं गुरुपूजान्तन्नियोगादमितः परम् || १०९ || षट्शतं तु गणेशाय षट्सहस्रं प्रजापतेः | विष्णोर्वै षट्सहस्रं तु षट्सहस्तं पिनाकिनः || ११० || सादाख्याय सहस्रं स्यादात्मने सहस्रं यथा सह | एति मन्त्रजपादेव सकृत्सन्ततकं जपेत् || १११ || ज्ञानयोगजपादीनि गुरोर्वक्त्रात्प्रसिध्यति | एवं विभक्तिमात्रेण दिवारात्रं जपं कृतम् || ११२ || वने वनतरोरग्निर्देहं मूलादि रक्षति | ते नैवानन्तरूपेण नाग्निमूलादि रक्षति || ११३ || मलं समूलञ्चरूपं दहत्यात्मानलो मनुः | महानदीं हि वा ज्ञासुरतैवान्ययथा भवेत् || ११४ || तथा तरन्ति पाशाब्धिं तान्यथैवात्ममन्त्रिणः | ब्रह्मचारी गृही वानप्रस्थो वा अथवा युतः || ११५ || प्. ४२) परमाक्षरचिन्तं हि विरक्तो विषयी परः | ब्रह्महत्याश्च मेधाद्यैः पापपुण्यैर्न लिप्यते || ११६ || ध्यायन्नासाग्र दृष्ट्या तु परमाक्षररूपकम् | ध्याता गच्छन्त्स्वयं तिष्ठन् आसीनः स्वपनेऽपि सन् || ११७ || भुञ्जानश्च पिबन्खादन् क्रीडंश्च सार्वकालिकम् | क्रुद्धो वा अथवा शान्तो यत्र तत्र स्थितोऽपि वा || ११८ || शुचिर्वाप्यशुचिर्वापि सर्वावस्थासु योगवित् | ज्ञानं तत्कुरुते वाच्यं नान्यथा शास्त्र कोटिभिः || ११९ || तत इतो यतोत्यन्तं क्वापि लीनमवस्थितम् | गुरौ सन्तोषिते सर्वं तुष्यतीह चराचरम् || १२० || प्. ४३) विमानिनं विमाने तु ततः सन्तोषयेद्गुरुः | गुरुर्माता पिता चैव भ्राता बन्धुजनश्चसः || १२१ || गुरुणापि समो बन्धुर्नास्ति नास्ति ह्यसंशयः | लब्ध्वा तु गुरुकारुण्यं शिवाज्ञा संप्रचोदितम् || १२२ || अनायासेन मुक्तिश्च शृणु सद्यैक जन्मनि | तस्माज्जनानां रुद्राक्ष कारणं शिवभक्तिमाम् || १२३ || एतन्मात्रेण मुक्तिः स्यात्पुनर्जन्म न विद्यते | इत्यचिन्त्य विश्वसादाख्ये पंचमः पटलः || अथ वक्ष्ये विशेषेण करणानां तु लक्षणम् | अरणेर्लक्षणं चापि सृक्सृवौ च * * * * || १ || समिधां लक्षणं चैव परिधीनामनन्तरम् | प्रोक्षणीपात्र चिह्नं च घृतपात्रस्य लक्षणम् || २ || चरुस्थाल्याश्च तच्चिह्नं आहुतीनां प्रमाणकम् | स्नानोदञ्च तथाधारं पुष्पपात्रस्य लक्षणम् || ३ || पाद्यार्घ्याचम पात्राणां धूपपात्रस्य लक्षणम् | धूपघण्टा दीपपात्र लक्षणं दर्पणस्य तु || ४ || नीराजनस्य शंखस्य छत्रचामरयोरपि | चल प्रसादचिह्नं च वर्धनीशिवकुम्भयोः || ५ || प्. ४५) सामान्य घटचिह्नं च कलशानां च लक्षणम् | पुण्डरीकाक्षचिह्नं च दण्डलक्षणमेव च || ६ || भक्तिकोशस्य चिह्नं च यज्ञसूत्रस्य लक्षणम् | पवित्र लक्षणम् तद्वदुष्णीषोत्तर्य लक्षणम् || ७ || रुद्राक्ष लक्षणं चापि जपमालादिलक्षणम् | कौपीनलक्षणं चैव लम्बकूर्चस्य लक्षणम् || ८ || लक्षणं जलभाण्डस्य महाघण्टासु लक्षणम् | स्थालिका लक्षणं चैव त्रिपादीलक्षणं तथा || ९ || दर्वीसु लक्षणं चैव दीपमालासुलक्षणम् | अष्टमङ्गलचिह्नमाभरणानां च लक्षणम् || १० || प्. ४६) सुवर्ण पुष्पपट्टानां गोलकानां च लक्षणम् | लक्षणं योगपट्टस्य चासमानां च लक्षणम् || ११ || नारा च लक्षणं चैव सम्यक् पुस्तकलक्षणम् | मानाङ्गुलादिभेदं च तत्तद्भेदं शृणु क्रमात् || १२ || देशिकस्य करे दक्षे मध्याङ्गुल्यास्तु मध्यमम् | पर्वायामं तु यत्तुल्यं मात्राङ्गुलमिहोच्यते || १३ || समिद्दर्भे तु संगृह्य पिप्पिलं वारुणं तु वा | षोडशाङ्गुलमायामं तत्तारं वसुमात्रकम् || १४ || तदर्धं तद्घनं प्रोक्तं स्थापयेद्धरणीतले | गुणवेदाङ्गुलायामं तन्नाहं भूतमात्रकम् || १५ || प्. ४७) मथनं खदिरेणैव सर्वत्रैव सुवृत्तकम् | रंज्वाङ्गुलसमायामं तस्यार्धं तस्य चापलम् || १६ || तदर्धं तद्घनं विद्यात् पार्श्वयोरुभयोरपि | मुष्टिरष्टाङ्गुलेनैव तन्नाहं चणमात्रकम् || १७ || मन्थनोपरि संस्थाप्य भ्राम्या गोपालरज्जुना | अरणीलक्षणं प्रोक्तं स्रुग्लक्षणमिदं शृणु || १८ || हैमेन राजते नैव ताम्रेण तरुणापि वा | खदिरेण करञ्जेन चतुर्भूरुहजेन वा || १९ || वैकङ्कतेन कर्तव्यं सर्वलक्षणसंयुतम् | सार्चिष्मन्मरुदङ्गुलैः परिणता सृक्तेन नेत्राङ्गुलं कुम्भं सार्कमरुत्पथाङ्गुलि कृतो गर्भस्ततो गण्डिका | वेदांशास्त्वथ वैदिका द्विगुणिता कर्णोम्बरां शस्ततो वक्त्रं स्यात्खुरि सम्मितं न दधरे तारस्त्रिभागैः कृतः || २० || तारादैर्घ्य समं मुखे युगकृतं कर्णे ततो वेदिका तारेण द्विगुणाग्रमण्डितबिला घातान्तदर्धेन च | आद्या तत्र तु गण्डिका युगकृतं चार्धार्धहीने परे दण्डस्यार्द्रसभागनाह सहिते कुम्भश्च निर्नाहकम् || २१ || परितो बल बाह्ये तु पंक्तिकार्धाङ्गुलेन तु | बाह्ये वयव निम्नं तु यवार्धं बाह्य पट्टिका || २२ || बिलादूर्ध्व मुखात्खात्वा कनिष्ठाङ्गुलमानतः | एवं स्रुग्लक्षणं प्रोक्तं स्रुवो लक्षणकं शृणु || २३ || द्वादशांगुल मायामं कनिष्ठांगुलिनाहकम् | स चर्मनिर्व्रणं स्निग्धं कृमिकोटर वर्जितम् || २४ || प्. ४९) समिधां लक्षणं प्रोक्तं परिधीनामतः परम् | यैस्समिद्भिर्हुतं प्रोक्तं तैरेव परिधिर्भवेत् || २५ || हस्तमात्रसमायामं मध्यमांगुलिनाहकम् | परिधीनां तथां प्रोक्तं प्रोक्षणीलक्षणं शृणु || २६ || आदित्याङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् | ओष्ठमेकांगुलं प्रोक्तं पूर्णचन्द्रवदाकृतिः || २७ || प्रोक्षणी पात्रसदृशं धृतपात्रस्य लक्षणम् | चरुस्थालीसमाङ्गुल्यमोष्ठमेकाङ्गुलं भवेत् || २८ || कर्णं तु द्व्यङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् | चरुस्थाल्यास्तु चिह्नं स्यान्मृदा ताम्रेण वा भवेत् || २९ || होमद्रव्यं सभागं तु शृणुत्वं नन्दिकेश्वर ! | शताहुत्या घृतं प्रस्थं क्षौद्रेण द्विगुणं भवेत् || ३० || प्. ५०) ऐक्षुरस होमे तु त्रिगुणं मक्षिवद्भवेत् | तिलसर्षपमुद्गांश्च यवमाष कुलुत्थकाः || ३१ || सक्थवो ब्रीहयश्चापि युष्ट्यर्धं तु तदर्धकम् | क्रमादुत्तममध्यस्था अधमं च भवेत्ततः || ३२ || आन्नमूलमपूपं च शमी बिल्वस्सदूर्वया | नेत्र वृक्षपलाशं वा मनुद्वययुतं तु वा || ३३ || त्रिगुणं चोत्तमं विद्यान् मध्यमं कन्यसं तथा | अधम मेवेति प्रोक्तं स्नान जलं तथा || ३४ || कलुषं हृदि संसुस्थं स्नानदोषसुसंयुतम् | पल्वलो दं च शैलोदं मार्गस्थमशुचि स्थितम् || ३५ || प्. ५१) द्विवर्णं क्षीरसंयुक्तं वर्जयित्वा विशेषतः | नद्यां वापि तटाके वा प्लवे खाते ह्रदेऽपि वा || ३६ || निर्झराणां च कूपस्य सुस्वादु सलिलं भवेत् | अष्टद्रोणैरथाद्भिस्तु स्नानमुत्तममुच्यते || ३७ || तदर्धं मध्यमं प्रोक्तं तस्यार्धं तु कनीयसम् | स्नानतोयमिदं प्रोक्तं तद्भाजनमथो शृणु || ३८ || सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं तु वा | संगृह्य लक्षणोपेतं कृतं तु चतुरश्रकम् || ३९ || सभक्त युतद्रोणेन वसुयुक्तेन पूरितम् | स्नानपात्रमिदं प्रोक्तं पुष्पपात्रविधिः परम् || ४० || प्. ५२) हस्तमात्र प्रविस्तारमुत्सेधं द्वादशाङ्गुलम् | वेत्रेणैव तु कर्तव्यं स्वर्णाद्यैरुत्तमं भवेत् || ४१ || पाद्यार्घ्यादि सुपात्राणां लक्षणं शृणु साम्प्रतम् | पंचाङ्गुलं तदुच्छ्रायं विस्तारं च तथैव च || ४२ || ओष्ठमेकाङ्गुलं प्रोक्तं घनमर्धार्धकं भवेत् | पाद्यार्घ्या चमनानां च पात्रं हैमादिरुच्यते || ४३ || शंखं तार समं प्रोक्तं गन्धपात्रं शशिप्रभम् | धूपपात्रादिपात्रं स्याच्चापातित तन्मुखम् || ४४ || पिधानं मुकुलाकारमनेकसुषिरान्वितम् | धूपपात्रमिदं प्रोक्तं धूपघण्टा ततः परम् || ४५ || प्. ५३) चतुरंगुल मुच्छ्रायं विस्तारं द्विगुणं भवेत् | घण्टार्धं शिखरं प्रोक्तं गलमर्धाङ्गुलान्वितम् || ४६ || जिह्वायामाङ्गुलाङ्गुल्यं मूर्ध्निनालं तथैव च | तस्योर्ध्वमंगुलं पीठं तदूर्ध्वं वृषशूलभाक् || ४७ || धूपघण्टाविधिः प्रोक्तो महाघण्टा तु वृद्धितः | नवाधिका भवेदेव दीपाधारमनन्तरम् || ४८ || द्वादशाङ्गुलमारभ्य निवृत्त्यांगुलमध्यमम् | पंचवेदाङ्गुलान्तं तु नवमानमुदीरयेत् || ४९ || पादतारं त्रिभागैकं वक्त्रतारं तथैव च | तन्मध्ये मुकुलं कुर्यान्नाना दण्डिकयान्वितः || ५० || प्. ५४) शेषं युक्त्या प्रकर्तव्यं हैमेन रजतेन वा | ताम्रेण पैत्तलेनाऽथ चायसेनापि वा भवेत् || ५१ || दीपाधारमिति प्रोक्तं हविः पात्रमतः शृणु | यावत्तण्डुल संपत्तिस्तावत्त्रिगुणमुच्यते || ५२ || चरुस्थाल्या यथा रूपं हविः पात्रं विधीयते | तदर्धमुपदंशाय पात्रमित्यभिधीयते || ५३ || ताम्रेण पार्थिवेनापि त्रिलोहैर्वाथ संभवैः | अस्य तारं समं तारं विधानवलयान्वितम् || ५४ || हविः पात्रं समाख्यातं स्थलिकालक्षणं तथा | स्मृत्यंगुलं तु विस्तारं विस्तारार्धेन वर्धयेत् || ५५ || प्. ५५) ओष्ठमेकाङ्गुलं प्रोक्तं स्वर्णतारादिभिर्भवेत् | तदर्धं मध्यमं ज्ञेयं तदर्धं कन्यसंभवेत् || ५६ || स्थलिका लक्षणं प्रोक्तं त्रिपादीलक्षणं ततः | विद्यात्त्रीण्यङ्गुलोत्सेधं तस्यार्धं द्वक्त्रनाहकम् || ५७ || अङ्घ्रीनाहं युगाङ्गुल्यं त्यङ्गुलमेव वा | शरावाकृति मूले तु परमत्य विधीयते || ५८ || मध्यमं वसुमात्रं तु स्वरमात्रं तु कन्यसम् | जाम्बूनदमयं वाथ तारं वा ताम्रमेव वा || ५९ || पैत्तलं चारकूटं वा कृत्वाद्यैव त्रिपादिकम् | भास्कराङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् || ६० || प्. ५६) तेषु मध्याङ्गुलं प्रोक्तं शुद्धकांस्येन कारयेत् | बलिपात्रं समाख्यातं दर्वी लक्षणमुच्यते || ६१ || देवदेवाङ्गुलायामं विस्तारं तुङ्गुलम् | तदर्धं पादविस्तारं तस्यार्धं मध्यवाहलम् || ६२ || शुद्धकांस्येन कर्तव्यं भुजङ्गस्य फणोपमम् | दर्वीलक्षणमेवं स्यादुस्णीषस्य विधिं शृणु || ६३ || उत्तमं वसुहस्तं स्यात्सप्तहस्तं तु मध्यमम् | षड्ढस्तमधमं प्रोक्तं भूतभागैरपि स्मृतम् || ६४ || सुसितं सूक्ष्मबलवच्चन्द्रस्य सदृशं भवेत् | दुकूलपट्टदेवाङ्गैः कार्पासेनैव वा कुरु || ६५ || प्. ५७) उष्णीषलक्षणं ह्येबमुत्तरीयस्य लक्षणम् | षट्करायामसंयुक्तं कारयेन्नन्दिकेश्वर || ६६ || व्याघ्राजिनं प्रथमं स्याद्द्वितीयं कृष्णाजिनं भवेत् | तृतीयं तन्तुना कुर्यात् त्रिविधं योगपट्टिका || ६७ || आदित्याङ्गुलविस्तारमुत्सेधं चतुरङ्गुलम् | अधस्तादवकं कुर्यान् मुष्टि कुर्यात्तु पंचके || ६८ || कूर्मासनमिदं प्रोक्तं जपमालाविधिस्तदा | ईशाक्षहेमरूप्यैश्च सम्यङ्मुक्तिमवाप्नुयात् || ६९ || प्रवालैर्धनसंपत्ति पद्माक्षैर्दुरितक्षयम् | कुशग्रन्थिमयैः पाप नाशाय च भवेत्पुनः || ७० || प्. ५८) पुत्रदीपैश्च पुत्रःस्याच्छंखैश्चैव यशो भवेत् | मौक्तिकैः श्रियमाप्नोति सौभाग्यं स्फटिकैर्भवेत् || ७१ || सर्वैश्च मुक्तिमाप्नोति रुद्राक्षैरुत्तमोत्तमम् | आनीयनयनानन्द जलाद्रुद्राक्ष संभवः || ७२ || एकवक्त्रं शिवस्साक्षाद् द्विवक्त्रं शक्तिरुच्यते | त्रिवक्त्रं तु त्रिमूर्तिः स्याच्चतुर्वक्त्रमजो भवेत् || ७३ || वरदाख्यं पंचवक्त्रं तत् षड्वक्त्रं गुहरूपकम् | मातरस्सप्तवक्त्रं तु विद्येशाश्चाष्टवक्त्रकम् || ७४ || गङ्गादि नवतीर्थं स्यान् नववक्त्रं प्रकीर्तितम् | नववक्त्रैक वक्त्रान्तं फलं शतगुणोत्तरम् || ७५ || प्. ५९) अंगुली जपविख्यातैश्चैकाङ्गुलि समं भवेत् | रेखयाष्टगुणं विद्यात् पुत्रदीपैःशतं भवेत् || ७६ || शंखजैर्मणिभिश्चैव प्रवालैश्च सहस्रकम् | स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते || ७७ || पद्माक्षैर्दशलक्षं तु सौवर्णैर्भूतिरुच्यते | कुशग्रन्थ्याश्च रुद्राक्षैरनन्तगुणितं भवेत् || ७८ || पंचाधिकेन विंशत्या मोक्षसिद्धिमवाप्नुयात् | अष्टाविंशज्जपाच्चैव सिद्धिश्च धनधान्यदा || ७९ || पक्षसंख्यापि तन्त्रं स्याद्धेशं मरणं भवेत् | धनप्रदं कीर्तिकरं त्रिंशतिर्जयवर्धनम् || ८० || प्. ६०) भक्त्या तु सर्वं संज्यप्य मक्षयं फलदं भवेत् | जपमालाविधिश्चैवं जपस्थानस्य लक्षणम् || ८१ || शुद्धे मनोरमे देशे स्वगृहे वा भवेत् पुनः | गवां गोष्ठे शतगुणं नद्यां शतसहस्रकम् || ८२ || ईशस्य सन्निधाने तु अनन्तं जपमुच्यते | समुद्रतीरे देव्यग्रे गिरौ देवालयेषु च || ८३ || पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् | ज्येष्ठाङ्गुलं मोक्षदं स्यात्तर्जन्या शत्रुनाशनम् || ८४ || मध्यमाद्भोगमोक्ष च श्रीकरं वै त्वनामिका | कनिष्ठाकर्षणं स्तम्भ मङ्गुल्यादिजपक्रमः || ८५ || शिवकुम्भविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर | विंशत्यङ्गुलविस्तारं जठरं समुदाहृतम् || ८६ || विद्रुतस्त्रिगुणं तेन नाहमित्यभिधीयते | कण्ठेऽप्यर्धाङ्गुलोत्सेधं विस्तारं कौशिकाङ्गुलम् || ८७ || ओष्ठमेकाङ्गुलं प्रोक्तं निर्गमं च त्रयाङ्गुलम् | शिवकुम्भमिति प्रोक्तमेव मन्यांश्च कुम्भकान् || ८८ || तदर्धं वर्धनीनां तु कलशानां तदर्धकम् | कुण्डिका कलशस्याङ्गं शेषं युक्त्या तु कारयेत् || ८९ || घटास्तालादि संप्रोक्तं लम्बकूर्चं ततः शृणु | षड्विंशद्दर्भ संयुक्तं षड्विंशाङ्गुलमानयुक् || ९० || प्. ६२) लम्बकूर्चमिति प्रोक्तं पवित्रस्य तु लक्षणम् | रव्यङ्गुलसमोपेतं सद्दभीयुगलेन च || ९१ || सग्रन्थिकं च तत्कुर्यादुमाया तन्नियोजयेत् | दर्पणस्यापि चिह्नं तु द्वादशाङ्गुलविस्तृतिः || ९२ || तदर्धं पाददैर्घ्यं तु शुद्धकांस्येन कल्पयेत् | एवं तु दर्पणं प्रोक्तं दीपमालाविधिं शृणु || ९३ || आयसेनैव कर्तव्यमथवा पादपेन वा | द्वारे च द्वारवत्कुर्यात् प्रभाकारं च पृष्ठके || ९४ || दीपमालाविधिं हैममष्टाङ्गुलमिहोच्यते | याज्ञिकीवृक्षमादाय कारयेल्लक्षणान्वितम् || ९५ || प्. ६३) श्रीदेवी पार्श्वयोर्युग्मे दर्पणं पूर्णकुम्भकम् | वृषं च मकरं चैव स्वस्तिकं मत्स्ययुग्मकम् || ९६ || तालवृन्त समायुक्तं मङ्गलं प्रोच्यते शृणु | चिह्नं चैव शृणु लक्षणान्वितं भूतकरादय तत्र मयार्धम् | शूलकाराय ततगुणयुक्त पिप्पलहस्तवटं च खदिरं तोरण विस्तारमुच्छ्राय मुक्तम् || ९७ || प्रमाणं तोरणस्योक्तं स्वर्ण पुष्पविधिं शृणु | कन्यसं चैकमात्रं तु मध्यं मध्याङ्गुलं भवेत् || ९८ || उत्तमं गुणमात्रं तु विस्तारार्धेन वर्धयेत् | नलिन्याकारवत्पुष्पं कर्णिकारवदाकृतिः || ९९ || तन्मध्ये पत्रसंयुक्तं केवलं वापि कारयेत् | सुवर्ण पुष्पमेवं स्याद्धेमपट्टविधिं शृणु || १०० || प्. ६४) लिंगनाहसमं दीर्घं चतुर्भागैक विस्तृतम् | पट्टलक्षणमत्रोक्तं गोलका लक्षणं शृणु || १०१ || लिंगोदयसवं तुङ्गं अङ्गुलद्वयमालिकम् | तन्नाहसदृशं नाहं अधिकं सोममात्रकम् || १०२ || शुद्धहेम्ना तु कर्तव्यं रजतेनापि कारयेत् | दण्डलक्षणकं वक्ष्ये कल्माषेण समन्वितम् || १०३ || मंजु स्निग्धमवक्रं च निर्व्रणं सुषिरं भवेत् | कल्माषेण विहीनं वा तस्य लक्षणमुच्यते || १०४ || दण्डे षडंगुलाधिक्ये ग्रन्थिकर्माभिधीयते | उभयोग्रन्थितोर्मध्यं पर्व इत्यभिधीयते || १०५ || प्. ६५) एकपर्वा तु या यष्टिः पजृकाद्या सुखावहा | द्विपर्वा राक्षसी ज्ञेया मांसशोणितभोजिनी || १०६ || त्रिपर्वा पद्मिनी नाम पद्मिनीव सुखप्रदा | कामिनी रसपर्वा तु सर्वसिद्धिविवर्धिनी || १०७ || मुनिपर्वा विपन्नार्थं नाशकारणदा भवेत् | मूर्तिपर्वा शिवानाम अत ऊर्ध्वं न कारयेत् || १०८ || पादांगुलमधोभागे पुत्रनाशाय कल्प्यते | तत्तत्सिध्यंगुलेनैव त्रिभिरस्तु न सिद्धिदम् || १०९ || वेदांगुलेन संसिद्धिः पंचमं मृत्युदं भवेत् | रसांगुलं धान्य सिद्धिः तन्नाशं सप्तमं भवेत् || ११० || प्. ६६) अष्टांगुलमिदं प्रोक्तं तत ऊर्ध्वं न कारयेत् | मूलात्तु द्विगुणं पुच्छमेवं दण्डस्य लक्षणम् || १११ || मूर्धान्तं देशिकस्योक्तं नादान्तं साधकस्य तु | भ्रुवोऽन्तरं तु पुत्रस्य नासान्तं समयिनां सदा || ११२ || नैष्ठिकानां गृहस्थानां हस्तं व्योमेन कारयेत् | सर्वदा धारणीयं तु वैणवं दण्डमुत्तमम् || ११३ || भस्माधारपटैर्वापि कार्पासैस्तारवैरपि | दुकूलपट्टसंकल्पं प्रस्थभस्म समन्वितम् || ११४ || तदर्धार्धयुतं वापि कर्तव्यं नन्दिकेश्वर ! | वृत्तमूलं दृढं श्लक्ष्णं सुसूत्रं दण्डसंस्थितम् || ११५ || प्. ६७) अथवा वेणुमध्यस्थं कक्षालम्बित विग्रहे | अन्तरीये पटे वापि धारयेत्स शिवस्सदा || ११६ || तक्ष्या तु कारयेन्नित्यं सर्वपाप प्रणुत्तये | कौपीन लक्षणं वापि हस्तं वा विद्धि हस्तकम् || ११७ || आयाममेवं विस्तारं दशांगुलमथाष्टकम् | कौपीनमेवमुक्तं तु कार्पासाद्यादिना भवेत् || ११८ || पंचाशत्सूत्रसंयुक्तं मेखलं त्र्यंश लम्बितम् | पुस्तकस्य विधिं वक्ष्ये नन्दीश शृणु तं पुनः || ११९ || मानाङ्गुलमथारभ्य अङ्गुलाङ्गुलवर्धनात् | वेदभूताङ्गुलान्तं तु नवमानमुदीरयेत् || १२० || प्. ६८) स्वप्रमाणेन कर्तव्यं जालपत्रादिना भवेत् | ताम्रेण वाथ कर्तव्यं सुषिरद्वय संयुतम् || १२१ || पात्रमानं चतुष्कृत्वा तत्पुनस्त्रिविधं भवेत् | चतुस्त्रिभागयोर्मध्यं मध्यं च सुषिरं भवेत् || १२२ || आयामं पञ्चधा कृत्वा तन्मध्ये सुषिरं भवेत् | त्रिभागैकेन भागेन कर्तव्यं युक्तिपूर्वकम् || १२३ || यवोदरप्रमाणेन रज्जुं कुर्यात्तु भक्तितः | पत्रवद्दारुयुगलं वर्णविस्तारशोभितम् || १२४ || एवं पुस्तकचिह्नं स्यान्नाराचस्य तु लक्षणम् | षोडशाङ्गुलविस्तारं पीलिकाकृतमध्यगम् || १२५ || प्. ६९) एवं हि प्रीति नालस्य लक्षणं चोभयं भवेत् | तीक्ष्णेनैव च कर्तव्यं सुदृढं दोषवर्जितम् || १२६ || संखेल्ययोऽस्तु नारा चं समतार समन्वितम् | चलप्रासादकं वक्ष्ये प्रासादकरणं ततः || १२७ || प्रासादकथनं चाप्तं हैमं वा रौप्यकन्तु वा | ताम्रेण दारवेणापि शरावेणापि वा भवेत् || १२८ || नेत्रेणैवापि सूत्रेण क्रमादेवं तु कारयेत् | घृतवारे बहिश्चैव मानाङ्गुलविजृम्भणात् || १२९ || समन्ताद्वृत्तसंयुक्तं चतुरश्रमथापि वा | लिंगपीठात्ततोच्छ्रायं द्विगुणं गर्भगेहतः || १३० || प्. ७०) सुदृढं भित्तिकं कुर्यात्सर्वशोभा समन्वितम् | आयामोत्सेधकं वापि वर्धयेदङ्गुलेन वै || १३१ || लिंगपीठसमं तत्तु कारयेल्लक्षणान्वितम् | अत ऊर्ध्वं न कर्तव्यमुपानाद्यं ततः शृणु || १३२ || तदुच्चमष्टधा कृत्वा वैकांशेन धरातलम् | धरातलमधिष्ठानं वसुधारमसूरकम् || १३२ || एतानि वेद नामानि पर्याय वचनानि च | पादार्धवन्न सूत्रस्य द्विगुणं चेति कीर्तितम् || १३४ || प्रस्तारं चरणार्धं तु तत्समं गलमुच्यते | शिखरं चरणायामं तस्योत्सेधं तदर्धकम् || १३५ || प्. ७१) यदाधिष्ठानमानं तु द्वादशाङ्गेन वापयेत् | जन्ममेकेन कर्तव्यं द्वाभ्यां वै जगती भवेत् || १३६ || तथैव कुमुदोत्सेधं कम्पमेकं न कारयेत् | पक्षांशं गलमित्युक्तं ऊर्ध्वपत्रमथांशकम् || १३७ || महापट्टी द्विभागेन वेत्रवंशेन कारयेत् | अधिष्ठानं समाख्यातं पादगर्भमतः परम् || १३८ || पादायामं चतुर्भागं वेदीमेकेन कारयेत् | एकात्रिपदिभिर्वापि भूतपंक्तिरथापि वा || १३९ || केवलस्तम्भमात्रं तु ताटिकादि विहीनकम् | वस्वश्रं वा षडश्रं वा समानाकृतिरुच्यते || १४० || प्. ७२) ऊर्ध्वद्वारं प्रकर्तव्यमुत्तरान्तं प्रशस्यते | प्रोक्षयेत्पंचगव्येन हृदयान्यस्य च क्रमात् || १४१ || चल प्रासादमेवं तु छत्रलक्षणकं भवेत् | तालमानस्य हस्तस्य द्विविधं छत्रमुच्यते || १४२ || पूर्णचन्द्र समाकारं मुकुलेन समन्वितम् | सनालदण्ड संयुक्तं मुक्तादामविराजितम् || १४३ || अग्रं विचित्रवर्णाढ्यं श्वेतच्छत्रमिदं परम् | चामरं मणिषण्डेन भूषितं सितवालजम् || १४४ || हस्तदीर्घं च तन्नालं तालद्वय समन्वितम् | आलाम्ये तु तदर्धं वा तदर्धं वा तु कारयेत् || १४५ || प्. ७३) अनुक्तं मूलभेदाद्यैर्गृह्यैस्सर्वत्र सर्वदा || १४५ १/२ || इत्यचिन्त्य विश्वसादाख्ये करणाधिकारः षष्ठः पटलः || अथ वक्ष्ये विशेषेण चांकुरार्पणमुत्तमम् | सर्वमङ्गलकार्यादौ वीजावापं च कारयेत् || १ || न वाहे वाथ सप्ताहे पंचाहे त्रियहेऽपि वा | सद्योङ्कुरं वा कुर्वीत विधिवन्नन्दिकेश्वर || २ || बीजानामधिपश्चन्द्रो रात्रौ सस्यानि वापयेत् | दिनेऽपि च न कर्तव्यं कृतं चेत्कर्तृनाशनम् || ३ || प्. ७४) हैमे वाप्यथवा तारे ताम्रे मृण्मयकेऽपि वा | पालिका नवविस्तारं परमं रन्ध्रमातृकम् || ४ || धर्माङ्गुलं तु मध्यं स्याच्छ्रेष्ठं रुद्राङ्गुलं भवेत् | विस्तारसममुत्सेधं तदर्धं पादविस्तरम् || ५ || तदर्धं नालविस्तारं सर्वत्रैव सुवृत्तकम् | पादपट्टं समाख्यातं प्रस्तरं चाधुनोच्यते || ६ || तदुत्तरं समारभ्य चैकांशेनोत्तमं भवेत् | ऊर्ध्व पद्ममथांशेन कपोतोच्चं गुणांशकम् || ७ || नेत्रमेकेन कर्तव्यं मनुनापि विहीनकम् | एवं प्रस्तरमाख्यातं ग्रीवं सुदर्तिकं भवेत् || ८ || महानास्यादिनाभिं च दिशामुर्त्यादि वर्जिता | सतारं कारयेद्धीमान् घण्टायाश्चाकृतिर्यथा || ९ || स्थूप्युत्सेधं द्विधाभज्य चैकेनाथ सरोरुहम् | एकेन मुकुलोत्सेधं सुवृत्तं चतुरश्रकम् || १० || नालतार त्रिभागैक पत्रिकायुगमुच्यते | वक्त्रताररसांशैकमोष्टमित्यभिधीयते || ११ || प्रोक्षयेत्पुरुषेणैव ब्रह्मा तस्याधिदैवतम् | शुद्धदेशे मनोरम्ये चैशान्यां दिशि संस्थितम् || १२ || बहिः कुर्याच्च कुर्याच्च स्थण्डिलात्सरलं तथा | दर्भैः पुष्पैरलं कृत्य पालितारवकेऽपि वा || १३ || प्. ७६) पालिका नव सताभिः पंचभिर्वाथ कल्पयेत् | स्थण्डिलोपरि संस्थाप्य गन्धपुष्पादिनार्चयेत् || १४ || दर्भाग्रैश्च कुशैर्वापि निश्छिद्रं सुषिरं तथा | कषैर्वालुकाभिश्च मृद्भिस्ताः पूरयेत्क्रमात् || १५ || हृदये नैव मन्त्रेण पालिकास्तु प्रपूरयेत् | एतैस्तिलैर्मुद्गमाषैः शिम्बसर्षप वेणुजैः || १६ || ब्रीहिभिश्च कुलुत्थैश्च नवबीजैर्जलैस्तथा | क्षीरैश्च धेनुजैरेभिः कवचेन च वापयेत् || १७ || तन्मध्ये चन्द्रकुम्भं च साध्यतोयैश्च सेचयेत् | तत्कुम्भं चन्द्रमभ्यर्च्य गन्धपुष्पादिना तथा || १८ || प्. ७७) दीक्षा प्रतिष्ठाकालेषु शुभेष्वन्येषु चेच्छिवम् | अङ्कुरार्पणकं चैव कार्यादौ नन्दिकेश्वर ! || १९ || अंकुरार्पणविधिस्सप्तमः पटलः || देव देव ! महादेव ! लोकानुग्रहकारक ! | दीक्षासंकल्पमस्माकं महेश वक्तुमर्हसि || १ || ईश्वर उवाच | नन्दीश शृणु तत्सर्वं समाहितमनाः परम् | आदौ क्रियावतीं दीक्षां वक्ष्ये सदधिकारिणीम् || २ || दीयते ज्ञानसद्भावं क्षीयते च मलत्रयम् | तथा दीक्षा समाख्याता इच्छाज्ञान प्रदायिका || ३ || प्. ७८) गुरुणां चैव सर्वेषां मुख्या सन्मार्गदायिका | धर्मार्थकाममोक्षाणां कारणं सद्गुरुः स्मृतः || ४ || विनश्यत्यन्धकारेण यथा सूर्यस्य सन्निधौ | गुरोर्निरीक्षणादेव सर्वपापात्प्रमुच्यते || ५ || गुरुस्पृशति हस्तेन यं यः पश्यति चक्षुषा | शिवं भवति तत्सर्वं शिवदेव प्रसादतः || ६ || न लिप्यते मलेनैव पद्मपत्रमिवाम्भसा | तस्माद्गुरुः शिवः प्रोक्तो गुरुश्शक्तिर्मनोन्मनी || ७ || दीक्षाशत सहस्रं तु पापानां कृतवानपि | शिवज्ञानमलब्धञ्चेद् ज्ञान यात्रां समाश्रयेत् || ८ || प्. ७९) ज्ञानहीनं गुरुं प्राप्य कुतो मुक्तिरवाप्यते | भिन्ननावाश्रितस्सधौ यथा पारं न गच्छति || ९ || तस्मात् सर्वप्रयत्नेन संश्रयेद् ज्ञानपारगम् | मधुलुब्धो यथा भृंगः पुष्पात्पुष्पं वनान्तरे || १० || ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् | तं लब्ध्वा विसृजेच्छिष्योप्यधः पतन निश्चयम् || ११ || चतुर्विधा क्रियादीक्षा स बीजा बीजवर्जिता | अधिकारेण संयुक्ताप्यन्या निरधिकारिणी || १२ || स बीजा समयाचार संयुक्तानां नृणां भवेत् | विधिहीना त्व पंकादि स्त्रीबालेषु विधीयते || १८ || प्. ८०) साधकाचार्य योग्या या साधिकारा तु सा भवेत् | नित्ये नैमित्तिके काम्ये योग्यतास्ति विशेषतः || १४ || नित्यमात्राधिकारं वा निर्बीजान्येति चेतसा | एवं चतुर्विधाप्येषा क्रियादीक्षा मयोदिता || १५ || अथ भक्ति समायुक्तं शिवानुध्यान कांक्षिणीम् | परीक्ष्य चामलं शिष्यं विलोक्य कृपया गुरुः || १६ || दीक्षा कार्यं प्रकूर्वीत कृतनित्यक्रियो गुरुः | अनुग्राह्यास्त्रयश्शास्त्रे विज्ञान प्रलया कलौ || १७ || तृतीयस्सकलश्चैवमाद्यो विमलमातृकः | मलकर्मसमायुक्तः प्रलया कल एव च || १८ || प्. ८१) सकलश्च निवृत्त्यादि कलावृद्धिं ततस्ततः | तेषां क्रियावती दीक्षा द्विविधा नन्दिकेश्वर || १९ || साधारा च निराधारा साधारा सकलस्य तु | निराधाराह्यथान्येषामेवं दीक्षा मयोदिता || २० || आचार्य निरपेक्षेण तीव्रशक्त्या तु शम्भुना | या क्रिया क्रियते सा तु निराधारेति कीर्तिता || २१ || गुरुमूर्तिं समास्थाय मन्दतीव्रादि भेदया | भक्त्या शंभुश्च कुरुते या दीक्षा सा साविकरण || २२ || महेन्द्रे च महामेरौ मलये पारियात्रिके | विन्ध्ये च मन्दरेचैव श्रीगिरौ हिमपर्वते || २३ || प्. ८२) गंगातीरे च कालिन्दी नर्मदातुंग भद्रके | सरस्वत्यां पयस्विन्यां कावेरी कन्यका तटे || २४ || वाराणस्यादि पुण्येषु क्षेत्रदेशेषु वा तथा | समुद्रगाया नद्या वा तीरे शुद्धे महाह्रदे || २५ || पुष्पोद्यानेऽथवा नित्यं क्षीर वृक्षसमीपके | पासादे च मठे चैव श्रोत्रियस्य गृहे सदा || २६ || शुद्धदेशे मनोरम्ये मृजाधिकतले समे | मण्डपं कारयित्वा तु विरक्तस्तंभसंयुतम् || २७ || षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा | वेदीं कुर्याद्विशेषेण दर्पणोदरसन्निभाम् || २८ || प्. ८३) अथवा संकटस्थाने योग्यरूपेण कल्पयेत् | हस्तमात्रं तदुत्सेधं रत्निमात्रमथापि वा || २९ || तालमात्रेण वा कुर्यादुपवेदी समन्वितम् | चतुरंगुलमुत्सेधं विस्तारं द्व्यंगुलं भवेत् || ३० || त्र्यंगुलं वा द्व्यंगुलं वाप्युत्सेधं संप्रकीर्तितम् | अथ हस्तद्विहस्तं वा वेदीं कुर्याद्विचक्षणः || ३१ || अग्निकुण्डं तु कर्तव्यं चतुरश्रं तु पूर्वकैः | मेखलायोनि संयुक्तं नाभियुक्तं मनोहरम् || ३२ || सर्वलक्षणसंयुक्तं वृत्तकुण्डमथापि वा | गोमयालेपनं कुर्याद्दर्भमालाभिरावृतम् || ३३ || वितानध्वज संयुक्तं मुक्तादामैरलंकृतम् | पुष्पमालासमाकीर्णं तरंगेण निवेष्टयेत् || ३४ || स्तंभानि वेष्टयेत्तत्र मण्डलं वर्धयेत् क्रमात् | श्वेतरक्तं तथा श्यामं पीतं कृष्णं च वर्णकम् || ३५ || भक्त्या तु श्रद्धयाह्येवं मुक्ताद्यैः पंचरत्नकैः | स्फटिकैर्जाति लिंगोत्थैर्हरिदारैस्सजामिकैः || ३६ || अञ्जनैश्चूर्णनिकरैः पंचभिर्वा विधानवित् | श्वेतं स्याच्छालिपिष्टेन रक्तमिष्टिकया तथा || ३७ || श्यामाकञ्चं शाकचूर्णं पीतं हारिद्रमेव वा | तुषांगारभवं कृष्णं पञ्चचूर्णेन वा पुनः || ३८ || प्. ८५) श्वेतं तु तण्डुलं प्रोक्तं धातुना रञ्जितं ततः | रक्तवर्णमिदं ज्ञेयं मुनिपत्रस्य सारयुक् || ३९ || श्यामं तदेव मुद्गैर्वा राजमाषैस्तु कृष्णकम् | एवं भूतैर्यथा लब्धैर्देशिकेन्द्र पुरस्सरैः || ४० || शालिपिष्टार्द्रकार्पास सूत्रेण च पदं न्यसेत् | पूर्वादि पश्चिमान्तं तु त्रयस्त्रिंशन्न्यसेत् क्रमात् || ४१ || दक्षिणोत्तरसूत्रं तु त्रयस्त्रिंशद्भवेत् पुनः | पुनर्विंशति संयुक्त सहस्र पदपंक्तिकम् || ४२ || षट्त्रिंशत्तु पदं तत्र मध्ये पद्मं प्रकल्पयेत् | अष्टपत्रसमायुक्तं कर्णिकाकेसरोज्वलम् || ४३ || प्. ८६) तत्त्रिभागैक भागं तु कर्णिकाकेसराणि वै | कर्णिका पीतवर्णेन रक्तवर्णेन केसरान् || ४४ || मूले च तत्तदग्रे च श्वेतवर्णेन लेखयेत् | कर्णिकाबीजसंयुक्तं श्वेतरक्तसमन्वितम् || ४५ || दलाष्टकं तथा चक्रं रेखाश्वेतेन लेखयेत् | कृष्णेन तदनुज्ञेयं वृत्तं श्वेतमिति स्मृतम् || ४६ || पूर्व कुंकुम लिंगन्तु दक्षिणे कृष्णलिंगकम् | उत्तरे हेमलिङ्गन्तु श्वेतलिंगन्तु पश्चिमे || ४७ || आग्नेय दिशि तद्वर्णं लतयालंकृतं भवेत् | नैर्-ऋत्यां श्यामवर्णाभां वायव्यां कृष्णवर्णिकाम् || ४८ || प्. ८७) ऐशान्यां व्रततिं शुक्लां पद्माग्रान्तां प्रकल्पयेत् | अवशिष्टं यदैकत्राप्युप लिंगांश्च स्वस्तिकान् || ४९ || शेषाण्यन्यानि सर्वाणि युक्त्या वर्णानि कल्पयेत् | तदा लिंगोद्भवं हेतन् मण्डलं परिकीर्तितम् || ५० || देशिकस्तारसंयुक्तः करार्ध्याम्बु समन्वितः | द्वाराधिपार्चनं कृत्वा देहलीविघ्नमुत्सरेत् || ५१ || तत्रास्त्रं विन्यसेदुच्चं स्वासने संस्थितो गुरुः | भूतशुद्धिं पुरा कृत्वा चान्तरंगे यजेत्पुनः || ५२ || सिद्धार्थ तण्डुलतिलं सुमं दूर्वा कुशोदकम् | क्षीरनीरं यवं चैव विशेषाच्च विधीयते || ५३ || प्. ८८) तदर्घ्य वारिभिश्शुद्धिर्द्रव्याणां च विधीयते | तिलकं स्वासनं चैवमात्मनश्च विशुद्धये || ५४ || पूर्ववत्पूजितं मन्त्रं संशुद्धिः पञ्चगव्यकैः | विकीर्य द्रव्यमेवं हि लाजचन्दन भस्मभिः || ५५ || शुद्धाश्च कुशदूर्वैर्वा केवलं शुद्धलाजयुक् | अस्त्रजप्ताभिसंयुक्ता नस्त्रांबु प्रोक्षितांस्तथा || ५६ || वर्णाभान्वर्णितांश्चैव नाना प्रहरणोपमान् | प्रत्यूहध्वंसकानेतान् कृत्वा वा नन्दिकेश्वर || ५७ || षट्त्रिंशद्दर्भमन्त्रेण कृतां हालेन मानिताम् | शिवहेत्या सप्तजप्तां वेणुवाथासि रूपिणीम् || ५८ || प्. ८९) मनसाध्या देवेशं सृष्ट्या ध्यानं यथेप्सितम् | शिवं च निष्कलं न्यस्य शिवोहमिति भावयेत् || ५९ || श्वेतोष्णीषं न्यसेन्मूर्ध्नि मूलमन्त्राभिमन्त्रितम् | उत्तरीयं तु गायत्र्या सद्योजातेन वाससम् || ६० || कर्पूरक्षोद संयुक्तैश्चन्दनैः कुंकुमैस्तथा | भस्मना गन्धयुक्तेन स्वात्मानं भूषणैस्तथा || ६१ || परिकुर्याद्विशेषेण देशिकोत्यन्तनिर्मलैः | क्षौमैश्च वस्त्रैश्शुद्धैश्च विविधाभरणादिभिः || ६२ || कुर्याद्दक्षिण हस्तेन स्वैर्गन्धैर्मण्डलं कुरु | तस्मिन्नीशं समभ्यर्च्य शिवहस्तं प्रकल्पयेत् || ६३ || प्. ९०) शिवमन्त्रेण तं न्यस्त्वा तेजिष्ठो निजमस्तके | ईशादभिन्नमात्मानं कर्तारं भावयेत्तदा || ६४ || साक्षिभूतो निरीक्षेत कर्माण्यपि च मण्डले | कुंभे मखं पालयति वह्न्याधिकरणं तथा || ६५ || पाशौघमोचनं कुर्याच्छिष्ये तत्र विशेषतः | स्वस्मिन्नति गृहीतेति पञ्चाधारे महेश्वरः || ६६ || अहं स सोऽहमेवेति कुर्याद्भावं स्थिरं तथा | नैर्-ऋत्यामु शिष्ट्या स्थित्वा ज्ञानकृपाण युक् || ६७ || यज्ञधाम्नोक्षयेदर्घ्यं वारिभिः पञ्चगव्यकैः | चतुष्पथान्त संस्कारैरीक्षणाद्यैस्सुसंयुतः || ६८ || प्. ९१) शुद्धिं कुर्याद्विशेषेण देशिकोऽपीश विग्रहः | तत्र विक्षिप्त विकिरात् कुशकूर्चान्समूहयेत् || ६९ || ऐशे हरति वर्धन्या स्वासनाय च तान्क्षिपेत् | मण्डलस्येश दिग्भागे स्थण्डिलं चतुरश्रकम् || ७० || द्रोणैरपि तदर्धैर्वा तदर्धैर्ब्रीहिभिस्तु वा | ब्रीह्यर्धं तण्डुलं प्रोक्तं तण्डुलार्धं तिलं स्मृतम् || ७१ || एककुंभस्य मानं तदन्यकुंभं विवृद्धये | सर्वलक्षणसंयुक्तं सर्वदोषविवर्जितम् || ७२ || हैमं रजतकुंभं वा ताम्रं मृण्मयमेव वा | शिवकुंभं कुंभमेवमन्यत्कलशमेव वा || ७३ || प्. ९२) त्रिसूक्ति युक्ति सूत्रेण द्विजदृष्टिपदा वृतम् | चतुर्हस्तं त्रिहस्तं वा द्विहस्तं चैकहस्तकम् || ७४ || कृत्वा स्थण्डिलमेव तु मध्ये पालिं प्रकल्पयेत् | दलाष्टकसमोपेतं कर्णिकाकेसरोज्वलम् || ७५ || चतुष्पदसमायुक्तं बाह्येका वरणान्वितम् | पूर्वोत्तरात्रिदर्भैश्च पूर्वादिक्रमशो न्यसेत् || ७६ || सहदेव्यैकपत्रन्तु भद्रं वैकंकतं तथा | विष्णुक्रान्तिश्च पञ्चैते पञ्चौषधमिति स्मृतम् || ७७ || सुशालिकोद्रवैश्चैव यवनीवार वेणुकम् | एते पञ्चयवाः प्रोक्ताः कुंभेष्वेतान्समर्पयेत् || ७८ || प्. ९३) पर्वते च तटाके वा समुद्रे वृषशृंगके | क्षेत्रे पञ्च मृदोग्राह्याः क्रमेणैव तु निक्षिपेत् || ७९ || मुक्ता माणिक्य वैडूर्य पुष्य वज्र प्रवालकान् | इन्द्रनीलं च गोमेदं तथा मरकतं त्विति || ८० || नवरत्नमिदं प्रोक्तं शिवकुंभादिषु न्यसेत् | हेमकुंभं च निक्षिप्य नववस्त्रैश्च वेष्टयेत् || ८१ || कूर्चं सर्वेषु निक्षिप्य चूतपत्रं मुखे क्षिपेत् | मातुलुंग फलैश्चैव पूर्वस्यां शोभनास्तथा || ८२ || नैर्-ऋत्यां वसुदेवांश्च लक्ष्मीं द्वारे प्रपूजयेत् | वारुण्यां संमुखी रक्तैः पूरयन्ती मखालयम् || ८३ || प्. ९४) अर्चयेन्मण्डपाकारान् हृदा ध्यात्वा समाहितः | मण्डपस्योत्तरे भागे पूजयेच्छिवमव्ययम् || ८४ || अथ स्नातं विशुद्धं च शुद्धवस्त्रैश्च संयुतम् | निराहारं च श्रद्धालुं शिष्यमग्रे निधाप्य च || ८५ || अक्रोधं भक्तिविश्वासं गुर्वाज्ञापालनं तथा | गुरुद्रोह शिवद्रोह समयद्रोहवर्तिनम् || ८६ || अदीक्षितमबन्धुत्वात् कृतघ्नमविवेकिनम् | गुरुदोषावलोकं च स्वदोषानवलोकिनम् || ८७ || अष्टौतांश्च न कुर्वीत त्यज्याश्च शपथं भवेत् | शिष्यमेवं विधं वापि शासयित्वा तु देशिकः || ८८ || प्. ९५) प्रोक्षयेच्छंखतीर्थेन दिव्यदष्ट्यावलोकयेत् | वज्रासनो परिन्यस्य सर्वालंकार संयुतम् || ८९ || पाशस्तोहं प्रकर्तव्यं जीवान्तं वह्नि संयुतम् | पिंगलादि समायुक्तं बिन्दुनाद समन्वितम् || ९० || कूटाक्षरद्वितीयं तु मायानलसमन्वितम् | ह्रीं ह्रीं ह्रीं अग्निमण्डलमध्ये तु रश्मिज्वालासमाकुलम् || ९१ || कालवेष्टकतद्भावं गुह्यद्वारे सुयोजितम् | चक्षुर्भूतस्सदामन्त्रं पाशस्तोभो विधीयते || ९२ || क्षुरिकास्त्रं समुच्चार्य पाशच्छेदन्तु कारयेत् | सदाचार्यः प्रसन्नात्मा त्वेकचित्तस्समाहितः || ९३ || प्. ९६) अस्त्रमंत्रं समुच्चार्य प्रोक्षयेच्छिष्य विग्रहे | तस्माद्दक्षिणहस्ते तु रक्षासूत्रं प्रकल्पयेत् || ९४ || उत्तराभिमुखं कृत्वा नैष्ठिकं कूटिकासनम् | भौतिकं पूर्वदिग्वक्त्रं पश्चिमास्यमथापि वा || ९५ || तण्डुलैस्तत्करं कुर्यात् रक्षासूत्रं तु भस्मना | अभिमन्त्र्य गुरुं पूज्य सव्यांगुष्ठ विवर्जितम् || ९६ || तत्तन्तु त्रिगुणीकृत्य शिष्यहस्तं च बन्धयेत् | कवचे नैव तद्ग्रन्थिं भस्मना रक्षणं भवेत् || ९७ || ब्रह्मादिकारणान्पूज्य हृदयेनैव तत्र वै | नैष्ठिके त्वीशमन्त्रेण भौतिके पुरुषादिभिः || ९८ || प्. ९७) विप्रादीनां च कर्तव्यमुपवीतं यथाक्रमम् | मण्डल न्यासपूजां च ततः कुर्यात्तु देशिकः || ९९ || उत्तराभिमुखो भूत्वा पद्ममध्ये शिवं यजेत् | ईशानं तत्र विन्यस्य पूर्वे तत्पुरुषं यजेत् || १०० || अघोरं दक्षिणे भागे वामदेवं तु चोत्तरे | सद्यं पश्चिमदिग्भागे पञ्चब्रह्म न्यसेत्क्रमात् || १०१ || हृदये विन्यसेद्वह्निं दले नैर्-ऋत्यके शिरः | वायव्यां च शिखा प्रोक्ताप्यैशान्यां कवचं यथा || १०२ || कर्णिकायां पुरोभागे नेत्रन्यासो विशेषतः | अनन्ताद्यष्टविद्येशा नष्टाशासु यजेत्क्रमात् || १०३ || प्. ९८) धर्मज्ञानं च वैराग्यं ऐश्वर्यं च तथैव च | अंगविद्येश्वराणां च मध्ये वह्न्यदिकोणके || १०४ || विन्यस्यैवं प्रसन्नात्मा पश्चात्कुंभार्चनं भवेत् | वर्धनीमीशदिक् संस्थां सिंहस्थां खड्गरूपिणीम् || १०५ || अस्त्रेण तां यजेत्पश्चात् प्रणवाद्यासनस्थिताम् | वाहनायुधदीप्तांश्च दिक्षु शक्रादिषु स्थितान् || १०६ || विष्ण्वन्तान्दश संपूज्य नमस्कारैः स्वनामभिः | तां वर्धनीं समादाय कुंभाग्रानुगमोन्मुखीम् || १०७ || अविच्छिन्नाम्बुधारां च भ्रामयेच्च प्रदक्षिणीम् | मखमण्डपरक्षार्थं मूलमन्त्रं समुच्चरन् || १०८ || प्. ९९) शिवाज्ञां लोकपालेभ्यः श्रावयेद्देशिकोत्तमः | धृत्वा कुंभे यजेदेतान् पूजार्थं नन्दिकेश्वर || १०९ || पश्चात्स्थिरासनं कुंभे पूजयेत्स्वांगमीश्वरम् | शौण्ड्यं विन्यस्य चाध्वानं वर्धन्यां चास्त्रमर्चयेत् || ११० || ओं अस्त्रासनाय हुं फण्णमः | ओं अस्त्र मूर्तये हुं फण्णमः | ओं क्लीं श्लीं पाशुपतास्त्राय हुंफण्णमः | ओं शिरसे हुं फण्णमः | ओं शिखायै हुं फण्णमः | ओं श्रूं कवचाय हुं फण्णमः | ओं नेत्रत्रयायै हुं फण्णमः | ओं हुं अस्त्राय हुं फण्णमः | प्. १००) सहस्रादित्यसंकाशं युगान्ताभ्र समस्वनम् | चतुर्भुजं चतुर्वक्त्रं प्रतिवक्त्रं त्रिलोचनम् || १११ || नागयज्ञोपवीतं च प्रदीप्तवदनं सदा | शक्तिमुद्गरशूलाग्नि हस्तं चन्द्रार्धशेखरम् || ११२ || योनिलिंगसमायामं प्रकुर्याद्योनिमुद्रया | अंगुष्ठेन स्पृशेत्कुंभं हृदा मुष्ट्या तु वर्धनीम् || ११३ || भोगमोक्षाय मुष्ट्यातां संस्पृशेन्नन्दिकेश्वर | ज्वलज्ज्वालानलप्रख्यं क्षमूर्ध्व सुसंयुतम् || ११४ || ज्ञानासिं नैर्-ऋते पूज्य कुंभोपरि शिवं यजेत् | ईशानं शिवकुंभं च पुरुषं पूर्वकुंभके || ११५ || प्. १०१) अघोरं दक्षिणे कुंभे वामदेवं तु चोत्तरे | सद्यं पश्चिमकुंभं तु पूजयेन्नन्दिकेश्वर || ११६ || तद्बहिश्चाष्टकुंभेषु पूजयेन्नर्मदां पुनः | दक्षिणे कन्यकां पूज्य वारुण्यां च समुद्रिकाम् || ११७ || गंगामुत्तरकुंभे च यमुनां वह्निकुंभके | सरस्वतीं च नैर्-ऋत्यां काबेरीं वायुकुंभके || ११८ || ऐशान्यां तुंगभद्रां च पूजयेच्च यथा क्रमम् | आवाहन विसर्गान्तं ओं हां युक्तं स्वनामभिः || ११९ || नमस्कारान्तमन्त्रैश्च पूजयेत्तीर्थमातृकाः | ओं यथा कृतं यत्नेन भगवन्मुखमन्दिरम् || १२० || प्. १०२) वणीयं वं जगन्नाथा सर्वाध्वरधुरन्तथा | ओंकारस्थं चतुर्बाहुं विघ्नेशं नैर्-ऋते यजेत् || १२१ || वायव्ये षण्मुखं पूज्य यथार्हं देशिकः क्रमात् | चन्दनेषु समायुक्तं वारिभिः कृतमण्डले || १२२ || स्थण्डिलाद्बहिरेवं तु संपूज्य विधिनाततः | स्थण्डिलात्सपतिर्मध्ये स विस्तारं च पूजयेत् || १२३ || तत्रानुज्ञां समादाय गच्छेत्सार्पेण देशिकः | मन्त्राणां तृप्तये चैव कुण्डपार्श्वं वजेद्गुरुः || १२४ || विक्तासनमासीनो श्रुतगन्धार्कवारि च | सर्वं वामे च विन्यस्य समिद्दर्भतिलादिकम् || १२५ || प्. १०३) कुण्डाग्नि स्रुक्स्रुवाज्यं च संस्कारं पूर्ववद्भवेत् | अग्न्यूर्ध्वमुखमध्ये च शिवं संपूज्यदेशिकः || १२६ || स्वमूर्तौ मण्डले चैव शिवकुंभेग्निशिष्ययोः | सृष्टिक्रमेण विन्यस्य शोध्याऽध्वानं यथाविधि || १२७ || मुखनामाग्निजिह्वानां ज्वालानां लक्षणं शृणु | कुण्डमानं मुखं ज्ञात्वा हृदयेनाहुतिर्भवेत् || १२८ || शिष्य संस्कारहीनं च नित्यहोमं च पश्चिमे | उत्तरे पुष्टि सौभाग्य वश्याकर्षण शान्तिके || १२९ || पाशानां तु विशुद्धौ हि होमकर्मविधीयते | अस्त्राञ्जनपदालेपा गुलिकास्त्वभिलाषणे || १३० || प्. १०४) छात्रसंजननार्थं च पूर्ववक्त्रे यजेद्गुरुः | स्तंभनोच्चाटनं चैव मारणं दक्षिणे भवेत् || १३१ || प्रायश्चित्ताहुतिस्तत्र मुक्तये चोर्ध्व वक्त्रके | हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा || १३२ || अतिरक्ता बहुरूपा सप्तजिह्वाः प्रकीर्तिताः | ऐशेन्द्र वह्नि नैर्-ऋत्या वारुणीदिक्पतिक्रमात् || १३३ || हिरण्याद्याश्चतस्रस्तु षट्स्थिता रक्तगर्भकाः | बहुरूपा मध्यतः स्थित्वा दक्षिणोत्तरगामिनी || १३४ || हिरण्या द्रुतहेमाभा कनका वज्ररूपिणी | रक्तारुणसमाभासा कृष्णा नीलमणिद्युतिः || १३५ || प्. १०५) सुप्रभा मौक्तिक ज्योति रतिरक्ता परागवत् | बहुरूपा शरच्चन्द्र चन्द्रकान्तसमप्रभा || १३६ || प्रत्येकं काम्यभेदेन जिह्वाभेदो विधीयते | हिरण्याकर्षणे वश्ये स्तंभने कनका भवेत् || १३७ || शत्रु विद्वेष मोहे च रक्ता कृष्णा तु मारणे | सुप्रभा शान्ति पुण्यादौ सुरक्तोच्चाटने भवेत् || १३८ || एकैकवक्त्रे रूपा तु सर्वाभीष्टप्रदायिनी | अभीष्टवक्त्रे जिह्वानां होरे चेयं विधीयते || १३९ || विरेफावात्तिमौ मासौ रेफा षष्ठस्वरस्थितौ | इन्दुबिन्दु शिखायुक्तौ जिह्वा बीजान्यनुक्रमात् || १४० || प्. १०६) शान्तिके पौष्टिके होमं मधुक्षीरैक्षवादिभिः | कीलालसन्तु पुण्याहमाभिचारे विशेषतः || १४१ || कन्दकैर्लवणैस्तक्र राजिका परतैलकैः | कारस्कारादनुजृंभिः समिद्भिः कथमन्त्रकैः || १४२ || कर्पूरजलेय विद्याधरफलाप्तये | अन्यथान जुहुयात्साधकोत्तमः || १४३ || यक्षिणीसिद्धिकामस्तु कदम्बकलिकां हुनेत् | चक्रवर्तित्वलाभाय पद्मैर्मुक्तादि संपदे || १४४ || आरोग्यकामी दूर्वाभिः सर्वप्राणिवशीकृते | प्रियंहुरं वा पुष्पाणि समाहितमना हुनेत् || १४५ || प्. १०७) छिन्नोद्भवैस्समधुरैर्जुहुयात्सद्य एव हि | आम्रपल्लवहोमेन विषमज्वरशान्तिदम् || १४६ || तद्घृतेन सहार्वेण प्लुतं मृत्युञ्जयं भवेत् | अस्य मन्त्रः | अमुकस्य ज्वरं नाशयज्ञं सौ वषट् पलाशकुसुमैश्चैव कवित्वं जनयेत्क्षणात् || १४७ || अस्य मन्त्रः | वद वद वाग्वादिनीं स्वाहा | प्रचेतसं जलेभ्यर्च्य वृष्टिकामो विशेषतः || १४८ || तिलानरुणमन्त्रेण वामदेवेन होमयेत् | जगत्समस्तं मेघौघैः इव संप्लावयेत्सदा || १४९ || भेदयेत्तिलहोमेन क्षणात्पाशुपताणुना | प्. १०८) अस्य मन्त्रः | ओं श्लीं श्लीं शुं हुं फट् स्फोटय स्फोटय हुंफट् || सप्तबाधाञ्चशान्त्यर्थं रुद्रशान्तिं तिलादिभिः || १५० || होमं सर्वं विशेषेण साधकाय निवेदयेत् | पूर्वोक्तविधिना चैव प्रकृतं वक्ष्यते क्रमात् || १५१ || मूलेनाष्टशतं हुत्वा दशांशैश्चाभिमन्त्रकैः | प्लुतमूलं समुच्चार्य दद्यात्पूर्णाहुतिं क्रमात् || १५२ || इति शिष्यं प्रवेशाय प्रत्येकं तु शतं हुनेत् | अथवा सर्वसंपत्यै जुहुयाद्देशकालयोः || १५३ || शुभाय दुर्निमित्तानां सुनिमित्तस्य सिद्धये | मूलमन्त्रेण जुहुयात् प्रत्येकं तु शतद्वयम् || १५४ || प्. १०९) शिवाद्यस्त्रान्तमन्त्राणां स्वाहान्तं तर्पणं सकृत् | शिखासं पुटितैर्मन्त्रै हुंफडन्तैश्च दीपनम् || १५५ || ओं ह्रीं शिवाय स्वाहा इति तर्पणे ओं ह्रीं हौं शिवाय वौषडित्यादि दीपनम् | स्थालीं शिवांभसा शुद्धां कवचेनाव गुण्डिताम् || श्रीकण्ठाद्यैः समालब्धां बध्नीयात्कुण्डमण्डले || १५६ || कवचास्त्रजप्त सन्दर्भं प्रत्येकन्तु शतद्वयम् | वारिणा मण्डलं कृत्वा धर्मज्ञानादिरासनम् || १५७ || आवाह्य मूर्तिं मूर्तीशं ध्यातं पुष्पैः शिवं यजेत् | एवं स्थाल्यांगुलैः पुष्पैः पूजयेद्देशिकोत्तमः || १५८ || निरीक्षणादिशुद्धायां चुल्ल्यां कुण्डस्य लक्षणम् | हुंकारबीज युक्तायाः पश्चिमस्यां विशेषतः || १५९ || प्. ११०) धर्माय धर्मरूपायामस्त्रं तस्यां तु विन्यसेत् | तत्र स्थालीं समारोप्य शुद्धां क्षुरिक वारिणा || १६० || वि ******** त्रासाश्च तु सिद्धये | अस्त्राभिजप्तां हां कृत्वा गव्यप्रासादमन्त्रितम् || १६१ || आमतण्डुलक्षीराज्यं शतं जप्त्वा तु विन्यसेत् | प्रसृतेः पंचसंयुक्तं शिष्यं प्रति गुरूत्तमः || १६२ || त्रयाधिकानां शिष्याणां प्रसृतिं वर्धयेत्क्रमात् | प्रधानं चाग्निमन्त्रेण पिधानं कवचेन तु || १६३ || मूलेन पूर्वमुख्यांश्च चरूंश्चारु पचेद्गुरुः | शिवपादकदीपिन्या सुच्छिन्ने चुल्लिमध्यतः || १६४ || आज्येन स्रुवमापूर्य स्वाहान्तं स्वाहृतां मनुम् | जप्त्वा हुत्वा ततः तप्त्वा न्तकारणो गुरुः || १६५ || प्. १११) चुल्यधो मण्डले दर्भे अस्त्रजप्ते विशेषतः | स्थालीं संस्थाप्य तारेण पिधायास्यं समन्ततः || १६६ || उल्लेखनं ततः कुर्याल्लेपनं हृदयाणुना | शीताभिघारणं प्राप्य शीतलो भवति क्रमात् || १६७ || सकृत्सकृद्वौषडन्त सहितं मन्त्रपूर्वकम् | होमं कुर्यात्सुदीप्ताग्नौ हविषा नन्दिकेश्वर || १६८ || संपाताज्यस्य संसिद्धे धर्माद्यासन कल्पिते | स्रुवं निधाय पाश्चात्ये कुण्डमण्डलतो गुरुः || १६९ || स्रुवेणाज्याहुतिं कृत्वा संहितामन्त्र संयुतम् | विधूयात्स्रुवमेवं च पुनस्संहितया हुनेत् || १७० || प्. ११२) वषडन्तं चरुं कृत्वा सकृदालभ्य देशिकः | धेनुमुद्रामृतीभूतं शान्त्यर्थं स्थण्डिलं नयेत् || १७१ || आज्यं त्रिभागां कुर्याच्च देवाग्निश्छानकारणम् | दिक्पालेभ्यश्चरुं कुर्यात्समिदाज्यत्रयं ततः || १७२ || हृदा दुग्धं नमोन्तेन ते नैवाचमनीयकम् | अस्त्रमष्टोत्तरशतं हुत्वा पूर्णाहुतिं हुनेत् || १७३ || कुण्डतः पूर्वभागे वा शिवकुंभस्य पूर्वकम् | मातृनुद्भगणादीनां स्वनामान्तहृदा ततः || १७४ || अन्तर्बलिविधानं च सिध्यान्नन्दिकेश्वर | ईशमध्याप्यलब्धाक्षो भावयेदेकभावनः || १७५ || प्. ११३) सर्वाध्वो परिनिस्तीर्ण सर्वज्ञाति गुणैर्युतः | अस्मदध्वर सिद्ध्यर्थं अधिष्ठाता महाध्वरे || १७६ || शिवोहं भावयेदस्मान् निष्क्रामेद्यागमण्डपात् | शुक्लमस्त्रोपहारं च समसृस्त्राणु मण्डले || १७७ || प्राणवासनके सृक्स्यात्पूर्वाग्रयुतदर्भके | भुक्त्यै प्रागाननं कृत्वा मुक्त्यै चोत्तरवक्त्रकम् || १७८ || पञ्चगव्यं कुशोदं च प्राशयेत्तत्र वै गुरुः | पश्चादाचमनं कुर्यान् मन्त्रकर्मविधि क्रमात् || १७९ || स्नानमेवं प्रकुर्वीत शिवदृष्ट्या वलोकयेत् | उत्थाप्यासनतश्शिष्यं मुक्तिकामं विशेषतः || १८० || प्. ११४) पादादारभ्य मूर्धान्तं दिव्यदृष्ट्या विलोकयेत् | मूर्धादि पादपर्यन्तं मुक्तिकांक्षी निरीक्षयेत् || १८१ || शिवतैजसमाहात्म्यं चिन्तयन्नन्दिकेश्वर | नेत्राणां संप्रदानेन प्रसन्नो देशिकोत्तमः || १८२ || अस्त्रतो परिसंप्रोक्ष्य मन्त्रस्नानं च सिद्धये | अन्तरायविनाशार्थं भस्मस्नानं विधीयते || १८३ || पाशौघच्छेदनं कुर्याद् ज्ञानखड्गेन देशिकः | मूर्धादि पादपर्यन्तं पार्श्वद्वयमथ स्पृशेत् || १८४ || पाशांकुरविनाशार्थं भूत्या स्नानं विशेषतः | सृष्टिसंहारयुक्त्या तु स्नापयेदस्त्र भस्मना || १८५ || प्. ११५) अस्त्रांबुना पुनः प्रोक्ष्य सकलीकरणायतम् | ऊर्ध्वं नाभेः कुशाग्रेण शोधयेदस्त्रमुच्चरन् || १८६ || त्रिधा लाभे ततन्मूलैः पापनाशाय नाभ्यधः | पाशद्वैविध्यनाशाय लभेदस्त्रेण सद्गुरुः || १८७ || शिष्यदेहे शिवान्तांगं शासनं च निवेदयेत् | पुष्पैः शिष्यं समाराध्य नेत्रं नेत्रेण वा हृदा || १८८ || दशासहितु वस्त्रेण शुक्लेनावेष्टयेन्मुखम् | शिष्यांजलिपुटे पुष्पं निक्षिप्य श्वेतवर्णकम् || १८९ || अरुणं भक्तिकामः स्यात्तथैवाञ्जलिके क्षिपेत् | वत्करद्वयमादाय देशिकाग्रे व्रजेत्क्रमात् || १९० || प्. ११६) शिवस्य दक्षिणे भागे प्रदक्षिणममुं नयेत् | प्रणवासनके न्यस्त्वा वर्णाध्वानं निवेशयेत् || १९१ || शिष्यस्य हृदयांभोजे मूर्तिपादाब्जलक्षणम् | आत्मानं विन्यसेत्पश्चाच्छिष्यदेहं विशोधयेत् || १९२ || संहारमेवोच्चैरेवं ततः शुद्धचरित्रके | न्यासं कृत्वा शिवं ध्यात्वा पुनश्चैनं प्रपूजयेत् || १९३ || प्राचीनमुखशिष्यस्य शिवमन्त्रेण मस्तके | रुद्रे च पद त्वर्थं शिवहस्तं च दापयेत् || १९४ || मण्डले क्षेपयेत्पुष्पं पश्चादन्धमधित्यजेत् | तत्पादस्थानमालोक्य दद्याच्छिष्यस्य नाम च || १९५ || प्. ११७) देवान्तं सर्वजातीनां नामधेय विधिर्भवेत् | ब्रह्मक्षत्रियजातीनां शिवान्तं नामधेयकम् || १९६ || गणान्तं वा भवे देवमन्येषां पितृवद्भवेत् | नैष्ठिकस्य विशेषेण जातिभेदं न चिन्तयेत् || १९७ || अकारश्च इकारश्च उकारश्च तथैव च | एकारश्च तथोकारः पंचस्वरमिदं भवेत् || १९८ || आयुरारोग्यलक्ष्मीं च क्षयं मरणमेव च | यथासंख्यं भवेत्सिद्धिस्तस्मान्नैवविचारयेत् || १९९ || शिष्यपूर्वाभिधानस्य नामाद्यक्षरनिश्चयम् | ज्ञात्वायुरादित्रितये तेषामेकन्तु दापयेत् || २०० || प्. ११८) क्षयमारणकारिण्यौ द्वौचापि परिवर्जयेत् | दद्यान्नाम च शिष्याणां स्वेच्छया वा गुरूत्तमः || २०१ || भक्तानां च गणानां च नामधेयमथापि वा | अंगना च विशेषेण शक्तिनाम च दापयेत् || २०२ || स्थण्डीलीकरणं कृत्य शक्तिरूपि च वर्धनीम् | वह्नीशञ्च गुरुञ्चैव प्रणतिं कारयेद्गुरुः || २०३ || उत्तराभिमुखं शिष्यं स्वस्य दक्षिण पार्श्वगम् | आसनोपरि संस्थाप्य शिष्यदक्षिणकर्णके || २०४ || मूलमन्त्रमुपादित्य वामकर्णे सदाशिवम् | महेशं विमुखं चैवं सर्वपापविनाशनम् || २०५ || प्. ११९) सुषुम्ना मध्यमं मूलमिडायान्तु सदाशिवम् | पिंगलायां महेशं च शिष्यदेहे विभावयेत् || २०६ || तन्मूलं गुरुजंघायां निधाय विधिना ततः | शिष्यस्य हृदयं गत्वा मूलमन्त्रेण रेचयेत् || २०७ || पूरकेण समागत्य स्वकीयं हृदयाणुणा | पुनः शिवाग्निनापत्यन्नाडी सन्धानमुच्यते || २०८ || सान्निध्यार्थं हृदा हुत्वा त्रितये नन्दिकेश्वर | मूलेन च शतं हुत्वा शिवहस्तं स्थिरं भवेत् || २०९ || शिष्यपाणिद्वये पुष्पैः शुभैरापूर्यदेशिकः | उत्तरे पूजिते लिंगं विलोक्य कुसुमानि वै || २१० || प्. १२०) निक्षिप्य पादमूले च दण्डवत्प्रणमेद्भुवि | शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् || २११ || विनीतं शिष्यमाचार्यः करुणादवलोकयेत् | मदीयाज्ञा प्रसादेन कर्तव्यं त्रितयं तु तत् || २१२ || दानधर्म तपश्चर्याः कुरुष्वेति वदेद्गुरुः | मठं वृक्षं च गोत्रं च गोचरं च तथैव च || २१३ || सन्तानं पंचकं चैवमेवं शिष्याय सद्गुरुः | मठमामर्दकं वृक्षं वटं गोत्रं तथैव च || २१४ || शुद्धं तत्वं समाख्यातं गोचरं शिष्यमुच्यते | सन्तानं नन्दिकेशाख्यं श्रावयेच्छिष्यकान्प्रति || २१५ || प्. १२१) प्रोक्षयेत्कुंभतोयादीन् तत्तन्मन्त्रेण देशिकः | इति चिन्त्य विश्वसादाख्ये क्रियासमयदीक्षाविधिर्नाम अष्टमः पटलः || श्रीनन्दिकेश्वरः | सन्ध्योपास्तिं च देवेश प्रणतार्तिविनाशन | कृपया मां समालोक्य वदस्व वदतांवर || १ || ईश्वर उवाच | ब्राह्मे मुहूर्ते उत्थाय वक्ता चोदङ्मुखस्थितः | गुरुं पादाम्बुजद्वन्द्वं संचिन्त्य गुरुमण्डले || २ || प्. १२२) मूलमन्त्रं च जिह्वाग्रे नमस्कृत्य प्रसन्नधीः | निष्कंपदीपवद्ध्यात्वा शिवं हृदय पंकजे || ३ || कर्तव्यं शुभकार्याणि चिन्तयित्वा समाहितः | उत्थाय च बहिर्गत्वा दण्डपाणिकमण्डलुः || ४ || योग्यदेशे समागत्य शिष्यैर्दण्डकमण्डलू | विधायावश्यकं कार्यं योग्यं देशाधिकं क्रमात् || ५ || देवालयसमीपे तु गोष्ठे रूपे चतुष्पथे | भस्मस्थाने सुरोद्यादे चैत्यवृक्षसमीपके || ६ || जलावासे द्विजावासे मारिवासे श्मशानके | अन्यजातिसमीपे तु सेतौ वल्मीककेऽपि वा || ७ || प्. १२३) आवास पार्श्वेऽपि कृष्णक्षेत्रे विशेषतः | नन्दीगोमयपाषाण मूत्रास्थियुत भूतले || ८ || पर्वते च न कर्तव्यं मलमूत्र विसर्जनम् | स्कन्धे वा कर्णमूले वा यज्ञसूत्रं च विन्यसेत् || ९ || वेष्टयित्वा शिरस्तत्र ऋजुकायो न वापयेत् | भूतले तृणमाधाय अर्धाद्वाथ विलोकयेत् || १० || रविं दक्षिणतः कृत्वा विण्मूत्रौ तौ विसर्जयेत् | नासाग्र दृष्टिसंयुक्तो दिशश्चानवलोकयन् || ११ || निष्ठीवनं द्विजातीनां तं देशं न विधीयते | अस्नागोमयपाषाण दारुभिर्गतमार्जनम् || १२ || प्. १२४) न कर्तव्यं न कर्तव्यं तत्रैव तृणलोष्ठकैः | मेढ्रं वामेन संगृह्य शुद्धमृत्स्नां च दक्षिणे || १३ || ग्राममध्ये तरोर्मूले सेतौ वल्मीकसंभवाः | वर्जयित्वा मृदस्सर्वाः तिसॄः कामी विशेषतः || १४ || तोयतीरं समागत्य सम्यक् शौचं समाचरेत् | सकृद्धात्री फलसमां मृदं मध्यजलैस्ततः || १५ || लिंगस्यैकां गुदे पञ्च वामहस्ते दशावृतिः | हस्तद्वये सप्तवृत्तिं जलैर्मृज्यादुभौ भुजौ || १६ || यावद्भावस्य संशुद्धिः तावच्छोचं समाचरेत् | न विनाभाव संशुद्धिः सम्यक् शुद्धिरितीरिता || १७ || प्. १२५) प्रविश्य कूलदेशं तु पादौ हस्तौ विशोधयेत् | एकं यामं समायोज्य क्षालयेच्छुद्धवारिणा || १८ || दक्षिणांघ्रिं स्थले क्षिप्य वामपादं जले न्यसेत् | पाणिं गोकर्णवत्कृत्वा माषमग्नं जलं पिबेत् || १९ || द्वितीयं च तृतीयं च पिबेदम्बु यथाविधि | दन्तानां शोधनं पश्चान्मनुष्याणां विशेषतः || २० || समच्छेदं दृढं शुद्धं सान्द्रसत्वगपर्वकम् | कनिष्ठानाहसंयुक्तं दन्तकाष्ठस्य लक्षणम् || २१ || अष्टांगुलं नैष्ठिकानां भौतिकानां दशांगुलम् | शिरीषचिरिबिल्वोत्थ करञ्ज खदिरार्जुनैः || २२ || प्. १२६) नैष्ठिकानामिति प्रोक्तं भौतिकानां विधीयते | आम्रापामार्गखदिर प्लक्षचम्पक संभवैः || २३ || जम्बूकपित्थमेदैश्च माधवैर्व्रणरोपणैः | वालिकेरोत्थजाशोकैः पावनैः पत्रकैरपि || २४ || वारिभी रवि संख्यातैर्गण्डूषैरास्य शोधनम् | एरण्डशिग्रुवानीरवेलु पैशाचभक्षणैः || २५ || छात्री नेत्रयवक्षीरी निम्बकाशांगुलीयकैः | लूशांगुलितपोलोहैर्न कुर्याद्दन्तधावनम् || २६ || प्रतिपत्पर्वषष्ठीषु नवमीदशमीष्वपि | मुमुक्षोश्च विशेषेण नित्यं वैदन्तधावनम् || २७ || प्. १२७) जलस्नानं प्रकर्तव्यं सर्वपापहरं शुभम् | बहिरन्तर्विशुद्ध्यर्थं शिवेज्यायोगकारणम् || २८ || सर्वाचारप्रधानत्वं सर्वदुःस्वप्ननाशनम् | आलस्यादौ हरिद्रानां शूद्राणां च क्षयंकरम् || २९ || ऊर्जाबलप्रदं चैव दीपनं पुष्टिवर्धनम् | श्रीकरं दीर्घमायुष्यं सर्ववश्यप्रदं तथा || ३० || नद्यां तटाके वाप्यां वा कूपे वापि चतुर्विधम् | कूपस्नानं न कर्तव्यं यदि नद्याद्यसंभवे || ३१ || कूपाद्दशगुणं वाप्यां वाप्या दशगुणं तटम् | तटाद्दशगुणं नद्यां अनन्तफलमुच्यते || ३२ || प्. १२८) तटाकतीर्थसदृशं मध्यमं कन्यसं पुनः | कुण्डोदं च निपातं च वापिस्नानसमं भवेत् || ३३ || अल्पं वा बहुलं वापि शिवालयसमीपगम् | सर्वतीर्थानि तत्स्थानि शिवं गंगाविधानतः || ३४ || अष्टांगुलादधः खात्वा मृदं मन्त्रेण तां पुनः | हृदयेनैव संगृह्य पुनस्तेनैव चित्रकम् || ३५ || निधाय पश्चान्मृत्स्नापि ततस्तीरं समाविशेत् | शिरोमन्त्रेण तां मृत्स्नां निधायास्त्रेण शोधयेत् || ३६ || शिखामुद्धृत्य शिखया कवचेन त्रिधा भवेत् | प्रक्षाल्य नाभिपादान्तमेकान्तं शिखया पुनः || ३७ || प्. १२९) मध्यांशमस्त्र संदीप्तामादाय पदमस्तकम् | सर्वांगं च त्रिरालभ्य निरुद्ध्याक्षाणि सर्वशः || ३८ || हस्ताभ्यां जलनिर्मग्नः प्राणानायम्य संयतः | आसीत हृदि कालाग्नि सममस्त्रं करं तदा || ३९ || जलस्नानमिदं प्रोक्तं शुद्धस्नानं ततः परम् | जाह्नव्यादि महातीर्थेष्वाकृष्यांकुशमुद्रया || ४० || आवाह्य हृदये नैव मन्त्रेण स्नानमुद्रया | हृदमुत्तरतस्तीर्थं आदायान्यानि वारिणी || ४१ || वामहस्ततले कृत्वा भागत्रयमुदङ्मुखः | एकं दक्षिणभागस्थ मंगमस्त्राभिमंत्रितम् || ४२ || प्. १३०) अस्त्रेण सप्तधा पूर्वं शिवेन दश सौम्यगम् | एवं भागत्रयं कुर्यादस्त्रजप्तं तदाहरेत् || ४३ || हुंफडन्तास्त्र मन्त्रेण दशदिक्षु क्षिपेत्क्रमात् | उत्तरस्थं समादाय शिवं जप्तभुजं क्रमात् || ४४ || जलमध्ये क्षिपेत्तन्तु शिवतीर्थमिदं भवेत् | अंगजप्तेन सर्वांगं लेपयेदंगविद्यया || ४५ || शीर्षादिपादपर्यन्तं प्रथमं दक्षिणं क्षिपेत् | चत्वारिं हृदयादीनि जलमध्ये जपेत्क्रमात् || ४६ || पिधाय नेत्राद्यक्षाणि पाणिभ्यां प्राणमारुतम् | शिवतीर्थजले मग्नः शिवं वा हृदि संस्मरन् || ४७ || प्. १३१) चन्द्रार्करूपहस्ताभ्यां सेचयेत्कुंभमुद्रया | वौषडन्त षडंगेन जुहुयाच्च मुहुर्मुहुः || ४८ || साधकस्साधकैर्मन्त्रैर्जपाद्दशांश संख्यया | केऽभिषिञ्चेत्क्रमान्नित्यं अमृताम्बु विभावयेत् || ४९ || आत्मसंरक्षणार्थाय सर्वविघ्नोपशान्तये | अस्त्राभिमन्त्रितं तोयमभितः परिषेचयेत् || ५० || अथवा मठदेशेऽपि कूपादुद्धृतवारिभिः | कुंभे स्नानं प्रकुर्वीत पूर्वोक्तविधिमन्त्रकैः || ५१ || मृत्कुंभात्ताम्रकुंभे तु स्नानं शतगुणं भवेत् | ताम्राच्छतगुणं रौप्यं रजताद्धैमकं शतम् || ५२ || प्. १३२) नैष्ठिके वापि साग्नौ वा गृहे वापि समं भवेत् | चक्रवर्त्युपचारेण सुगन्धामलकादिना || ५३ || येन केन प्रकारेण नित्यस्नानं न वर्जयेत् | नैष्ठिकस्यापि काषायमुत्तमं श्वेतमेव वा || ५४ || हस्तं वापि द्विहस्तं वा कौपीनायामकं भवेत् | द्वादशांगुलविस्तारं दशांगुलमथापि वा || ५५ || एतद्वशित्वा वेष्टिं च वेष्टयित्वा विशेषतः | आचम्य विधिवच्छुद्धः तत्वत्रय समन्वितः || ५६ || काककंककपोतैश्च कुक्कुटातावटिट्टिभैः | नरैरेतादृशैश्चैव खरोष्ट्रग्रामसूकरैः || ५७ || प्. १३३) मृगधूर्तश्वभिश्चैव तदुद्भूतांगवैरिभिः | गुरुद्रव्यापहर्ता च तत्तद्द्रव्यविनाशिभिः || ५८ || महापातकिभिश्चैव कृतघ्नैश्चान्यलिंगिभिः | अदीक्षिताश्च सर्वेऽपि तैस्संस्पृष्टैर्विशेषतः || ५९ || जलस्नानं प्रकुर्वीत पवने पवने तथा | मन्त्रविच्छुक्लसंपर्को नाभेरूर्ध्वं करौ विना || ६० || एवमुक्तं जलस्नानं भस्मस्नानमतः परम् | विजयं श्रीकरं पुण्यं सर्वपापविनाशनम् || ६१ || अस्माकं च प्रियं देव्या विघ्नेशगुहयोरपि | देवानां च विशेषेण दैत्यानां च विशेषतः || ६२ || प्. १३४) जलस्नानात्परं भस्म पाशपंचकनाशनम् | भस्मसंस्पर्शनार्थाय जलस्नानं पुरोदितम् || ६३ || आर्द्रजं तु वधं सिद्धं भस्मस्नान विवृद्धये | भस्मस्नान विहीनं चेज्जन्तुहन्तृत्वमावहेत् || ६४ || भस्मस्नानवियुक्तो हि भक्तो नत्यत्यते क्वचित् | तस्मात्सर्व प्रयत्नेन भस्मना स्नानमिष्यते || ६५ || त्रिपुण्ट्रं भस्मनास्नानं नैष्ठिकस्य विशेषतः | भौतिकस्य विशेषेण त्रिपुण्ट्रं विधिनार्द्रतः || ६६ || चतुर्विधं तु तद्भस्म कल्पं प्रथममुच्यते | अनुकल्पं द्वितीयं च तृतियमुपकल्पकम् || ६७ || प्. १३५) अकल्पं तु चतुर्थं स्यात्पूर्व पूर्वं तथोत्तमम् | वर्ज्या वृद्धा व्याधिताश्च दुर्लक्षणयुतास्तथा || ६८ || तणकेन विहीना च बाला मौख्यवतीं विना | सुलक्षणां च कपिलां रक्तां शुक्लां सितोत्तराम् || ६९ || एतासां गोमयं पद्मपत्रेह्यम्भोद्भवे तथा | पालाशपत्रके वापि हस्ताभ्यां व्योम्नि धारयेत् || ७० || गोष्ठे वा गोमयं ग्राह्यं सद्योमन्त्रेण धारयेत् | उपर्यधस्तथा कुर्याद् विसृजेन्मध्यमं पुनः || ७१ || गोलकाकारकं कुर्याद् वामदेवादि मन्त्रवित् | अघोरेण च संशोष्य शुद्धदेशे दहेत्पुनः || ७२ || प्. १३६) पुरुषेण विशेषेण नवभाण्डे विनिक्षिपेत् | कर्पूरोशीर ह्रीबेरकेतकैश्चम्पकैस्तथा || ७३ || दमने देशमन्त्रेण जपेत्तस्माद्विशेषतः | अनुकल्पं ततश्चैव शृणुत्वं नन्दिकेश्वर || ७४ || वने शुष्कं शकृद्गृह्य कल्पवत्पूर्ववद्भवेत् | कुर्यात्पूर्वोक्तविधिना भवेद्भस्मोपकल्पकम् || ७५ || चूर्णं कृत्वा तु संगृह्य गोमूत्रैः पिण्डवत्कुरु | दग्धं पूर्वोक्त विधिना भवेद्भस्मोपकल्पकम् || ७६ || पूर्वोक्तविधि मुत्सृज्य केवलं भस्मसाधनम् | संस्कारे पिण्डवत्कुर्यादकल्पमभिधीयते || ७७ || प्. १३७) अन्यैरापादितं भस्म अकल्पमिति पूज्यते | चातुर्विध्यमिदं प्रोक्तं सर्वपापनिकृन्तनम् || ७८ || कल्पभस्म च संगृह्य दिग्बन्धं कारयेत्ततः | शेषेण ब्रह्ममन्त्रेण मूर्धाद्यंगानि धूलयेत् || ७९ || कल्पस्नानमिदं प्रोक्तं शिवस्नानमतः परम् | पञ्चब्रह्मषडंगाद्यैर्निवृत्त्याद्यभिमन्त्रितम् || ८० || ईशानमूर्ध्नि विन्यस्य मुखे तत्पुरुषे न्यसेत् | अघोरं तु गलं नाभिजान्त्वन्तं वामदेवकम् || ८१ || सद्योजातं तु पादान्तं भस्मोद्धूलविधिक्रमः | सद्योजातेन बाहूद्वौ मूलमन्त्रेण वक्त्रकम् || ८२ || प्. १३८) शंखतोयेन मूलेन भस्म व्यामिश्रणं भवेत् | त्रिपुण्ट्रं कारयेत्पश्चाद्ब्रह्मविष्णुशिवात्मकम् || ८३ || द्वात्रिंशत्स्थानके वापि षोडशस्थानकेऽपि वा | अष्टस्थाने तथा चैव पञ्चस्थानेऽपि योजयेत् || ८४ || उत्तमांगे ललाटे च करयोर्नेत्रयोस्तथा | नासावक्त्र गलेष्वेवमंसद्वयमतः परम् || ८५ || कोर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः | नाभौ गुह्यद्वयोश्चैवमूर्वोः स्फिग् द्वीद्विजानुनी || ८६ || जंघाद्वये वा पादौ द्वौ द्वात्रिंशत्स्थानमुत्तमम् | अमृत्यष्टौ च विद्येशान्दिक्पालान्वसुभिस्सह || ८७ || प्. १३९) धरो ध्रुवश्च सोमश्च आपश्चैवानि लोऽनलः | प्रत्यूषश्च प्रभासश्च इत्यष्ट वसवः स्मृताः || ८८ || एतेषां वाममन्त्रेण त्रिपुण्ट्रं स्थापयेद्बुधः | विदध्यात् षोडशस्थाने त्रिपुण्ट्रं तु समाहितः || ८९ || शीर्षे कर्णे ललाटे च कण्ठे चांसद्वयोरपि | कोर्परे मणिबन्धे च हृदये नाभिपार्श्वके || ९० || पृष्ठे चैवं प्रतिष्ठानं जपेत्तत्राधि दैवतान् | शिवशक्तिं च सादाख्यमीशं विद्याख्यमेव च || ९१ || वामादि नवशक्तिश्च अश्विनौ षोडश स्मृताः | बाहुद्वये च हृदये नाभ्यामूर्वोर्युगे तथा || ९२ || प्. १४०) जानुद्वये पदोश्चैव पृष्ठभागं तु षोडश | तेषु स्थानेष्वधिपकान्यथायोगं शृणुष्व तान् || ९३ || शिवः स्कन्दश्च चन्द्रार्कौ विघ्नेशो विष्णुरेव च | श्रीश्चैव हृदये देशे तथा नाभौ प्रजापतिः || ९४ || नागाश्च नागकन्याश्च उभयो ऋषिकन्यकाः | पादयोश्च समुद्राश्च तीर्थाः पृष्ठेऽपि चास्त्रकः || ९५ || एवं वा षोडश ध्यायेदष्टस्थानानि चोच्यते | शिरःस्थानं ललाटं च कर्णद्वयमतः परम् || ९६ || अंसद्वयं च हृदयं नाभिरित्यष्टमं भवेत् | ब्रह्मा च ऋषयस्सप्त देवताश्च प्रकीर्तिताः || ९७ || प्. १४१) अथवा मस्तकं बाहू हृदयं नाभिरेव च | पञ्च स्थानान्यमून्याहुः पंचमूर्तिश्च देवताः || ९८ || गुरुदेवाग्निविद्यानां सन्निधौ वाज्यदर्शने | महापातकयुक्तानां कृतघ्नस्यापि दर्शने || ९९ || अशुद्धभूतके मार्गे धूलनं न विधीयते | तस्माद्विशुद्धदेशेऽपि चासने संस्थितः शुचिः || १०० || उत्तराभिमुखो भूत्वा मौनी ध्यात्वा शिवं गुरुम् | परमाणुसमं भस्म भूमौ न पतितं भवेत् || १०१ || तद्वत्संग्राह्य यत्नेन त्रिपुण्ट्रोद्धूलनं भवेत् | सर्वपाप विनिर्मुक्तः सर्वशुद्धि समन्वितः || १०२ || प्. १४२) तस्य दर्शनमात्रेण सर्वपापात्प्रमुच्यते | बहुनात्र किमुक्तेन देशिकेक्षणसन्निधौ || १०३ || अनायासेन पापानि मनोवाक्कायजान्यपि | त्रिपुण्ट्रधारणेनैव प्रणश्यत्यखिलान्यपि || १०४ || भूतिधारणहीनस्य तत्तज्ज्ञानेन तत्परः | न च योगसमाधिश्च न चेज्या दानमेव च || १०५ || तस्मात्सर्व प्रयत्नेन भस्मना स्नानमुत्तमम् | भस्मसंस्पृष्टहस्तेन वारिणा प्रोक्षणं परम् || १०६ || द्विजात्यदीक्षितस्पर्शे भस्मस्नानं विधीयते | पश्चात्कौपीनमुत्सृज्य तालमुद्रासमन्वितः || १०७ || प्. १४३) अन्यकौपीनमाच्छाद्य विक्ताचमनं भवेत् | अथ माहेन्द्रकं स्नानं सूर्यांशुसचिवैस्सह || १०८ || ऊर्ध्वबाहुः शिवं ध्यायपरस्सप्त पदागतिः | ईशमन्त्रं जपन्गच्छेद् गुरुभक्ति विशारदः || १०९ || वायव्यं स्नानमेवाहं गोरवुरोद्भूतरेणुभिः | पुरुषं कवचं वापि जपन्सप्तपदावधि || ११० || जलैस्सद्यादिभिर्मन्त्रैः मन्त्रस्नानं भवेत्पुनः | मूलमन्त्रेण मनसा प्राणायामसमन्वितः || १११ || मानसं स्नानमेवं हि सर्वत्र विहितं हि तत् | अथाचमनविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर || ११२ || प्. १४४) पादप्रक्षालनं कृत्वा हस्तं संशोद्ध्य वारिणा | कुक्कुटासन संयुक्तं पाणिं गोकर्णवद्भवेत् || ११३ || जान्वन्तस्थित हस्तश्च फेनबुद्बुदवर्जिता | संगृह्यमाषमग्नाम्बु सव्यपाणिपुटेन च || ११४ || संवीक्ष्यां गुष्ठमूलस्थं ब्राह्मतीर्थेन वारिणा | मन्त्रशुद्धिं पुरा कृत्वा चात्मविद्याशिवात्मिका || ११५ || तारं प्रथममुच्चार्या हामात्मस्थं त्वया स्वधा | एतत्प्रथमपानेन संशुद्धिर्नन्दिकेश्वर ! || ११६ || एकत्रिंशत्तत्वशुद्धिः पृथ्व्या मायान्तु संयुता | पूर्वं प्रणवमुच्चार्य ह्रीं त्वया तत्वया स्वधा || ११७ || प्. १४५) एवं द्वितीयपानेन यतत्व विशोधनम् | शुद्धविद्येशसादाख्यस्त्रितत्वमिति कीर्तितम् || ११८ || ओंकारान्तं तदुच्चार्य ह्रीं शिवाय स्वधात्मनः | पुनस्तृतीयपानेन शक्तितत्वस्य शोधनम् || ११९ || पंचत्रिंशत्तत्वशुद्धिरेवमाचमनेन हि | अधरोष्ठौ द्विः प्रमृज्यं नमोऽन्तं हृदयोपरि || १२० || दक्षिणांगुष्ठमूलेन ततो ज्येष्ठ कनिष्ठिकाः | विहाय मध्य संस्थापस्तिसृभिः संस्पृशेच्चतौ || १२१ || अंगुष्ठतर्जन्याक्रम्य प्राणसंस्पर्शनं क्रमात् | त्रिवारं वारिपानेन त्रितत्वस्य प्रियं भवेत् || १२२ || प्. १४६) तथैव शिवभक्तानां प्रियमाम्नायकेष्वपि | अथर्वसामयजुषामधरोष्ठ प्रमार्जनात् || १२३ || ऋग्वेदस्य विशेषेण शिवभक्तस्य तत्प्रियम् | मध्यमांगुलत्रयेणापि चोर्ध्वाधो मार्जनं भवेत् || १२४ || गणेश्वराणां प्रीतिश्च मूलमन्त्रेण मन्त्रिणाम् | मूलमन्त्रं जलेनैव पादमूर्धावपि स्पृशेत् || १२५ || दक्षिणां च गणानां च प्रियं भवति सर्वदा | अंगुष्ठानामिकाग्रेण नेत्रद्वन्द्वं तथैव च || १२६ || तारयुक्तानि बीजेन सूर्याचन्द्रमसोः प्रियम् | तर्जन्यंगुष्ठकेनैव पृथ्वीबीजं ध्रुवं तथा || १२७ || प्. १४७) संयोज्यानामिकात्सृष्टिमसौ प्रीतिरनुत्तमा | व्योमबीजं ध्रुवं चैव कनिष्ठांगुलिसंयुतम् || १२८ || जेलेन कर्णयोः स्पर्शं दिशां प्रीतिर्भवेत्तदा | तारवद्भवसंयुक्ता चतुरंगुल मूर्तिभिः || १२९ || नाभिसंस्पर्शपंचैव विष्णोः प्रीतिकरं भवेत् | दक्षहस्ततलेनैव हृन्मन्त्रं तु समुच्चरन् || १३० || हृदि संस्पर्शनादेव वह्निरह्नाय मोदते | शिवमन्त्रं समुच्चार्य पंचांगुलमुखेन च || १३१ || शिखासंस्पर्शनादेव शिवप्रीतिस्तदा भवेत् | क्षुते निष्ठीवने कालेप्याचामन्तु तदा भवेत् || १३२ || प्. १४८) अथवा दक्षिणं श्रोत्रं संस्पृशेद्दक्षपाणिना | द्विराचामेद् विशुध्यर्थं भावशुद्धिसमन्वितः || १३३ || ततश्च सकलीकृत्य प्राणायामत्रयं भवेत् | तथैव संहत्य मन्त्रान् मनसा त्रि प्रवर्तयेत् || १३४ || पुनराचम्य विधिना विधाय श्रोत्रवन्दनम् | एकचित्तः प्रसन्नात्मा करांगन्यासमाचरेत् || १३५ || ओं ह्रीं अस्त्राय फट् | एवं मन्त्रं समुच्चार्य वामपाणिं च शोधयेत् | करेण दक्षिणेनैव दक्षिणं वामपाणिना || १३४ || एकवारं तमुच्चार्य शोधनं नन्दिकेश्वर | ओं हां हौं शिवाय नमः | अस्त्र तेजोन्वितौ हस्तौ मणिबन्धावनुस्मरन् || १३७ || प्. १४९) पाणिभ्यां संपुटं कृत्वा चांगुष्ठद्वयमध्यमे | ध्यायेदमृतरूपेण शक्तिमण्डलमुत्तमम् || १३८ || ओं हौं शक्तयेवषड् संप्लावं तत्करद्वयम् | वकारं तत्पुटेभाव्यं तन्मध्येऽपि शिवासनम् || १३९ || ओं हां शिवासनाय नमः | मूर्तिं सूक्ष्मे तु संचिन्त्य पश्चान्मन्त्रं समुच्चरेत् | ओं हां विद्यादेहायनमः | एवं सदाशिवं रूपं विन्यसेन्नन्दिकेश्वर || १४० || ओं हां हौं शिवाय नमः | एवं सदाशिवं देवं चिन्तयेद्व्यापकं तदा | सकलीकरणं पश्चात् कनिष्ठांगुष्ठकान्तगम् || १४१ || प्. १५०) ओं हां हृदयाय नमः | इति कनिष्ठिकायाम् | ओं हां शिरसे स्वाहा | इत्यनामिकायाम् || ओं ह्रीं शिखाय वौषण्णमः | इति मध्यांगुलौ | ओं हौं कवचाय हुं फण्णमः | इति तर्जन्याम् || ओं हां अस्त्राय फट् | इत्यंगुष्ठे | पश्चात्तु परमीकायं कारयेन्मूलमन्त्रतः | अवगुण्ठ्य तनुरुहौ पुनर्नाभौ शिवासनम् || १४२ || ओं हां शिवासनाय नम इति विश्वे व्यवस्थितः | सदाशिवस्य संप्राप्तिर्नाभेरा ब्रह्मरन्धकम् || १४३ || ओं हां हौं सदाशिवाय नमः | * * * द्वादशोच्चारादासनादि चतुष्टयम् | प्. १५१) हृदये हृदयं पश्चात् शिरः शिरसि विन्यसेत् || १४४ || शिखायां तु शिखां न्यस्य तनुत्रं तनुमध्यमे | नेत्रेषु नेत्रं विन्यस्य हस्तयोर्हस्तमेव च || १४५ || चोटिकामुद्रया तेन दशदिग्बन्धनं कुरु | मूलेन परमीकृत्वा महामुद्रा ततः क्रमात् || १४६ || हस्तद्वयेन पादाभ्यां मस्तकान्त डां स्पृशेत् | शा वौषडन्तेन मन्त्रेणैव तु कारयेत् || १४७ || निरीक्षणादिभिः शोध्य जलमंकुशमुद्रया | ललाटे तीर्थमाकर्षेद् ओं हां हृदयाय वौषट् || १४८ || तत्पुरुषमुच्चार्य नमोन्तं भवमुद्रया | निक्षिपेज्जलमध्ये तु मूलमन्त्रषडंगकैः || १४९ || प्. १५२) अभिमन्त्र्य तनुत्रेण चावकर्णौ तु कारयेत् | अमृतीकरणं कुर्याद् विघ्नौघानां निवारणम् || १५० || ओं ह्रौं ह्रां ह्रीं ह्रूं हॄं ह्रैंश्च प्राणायामत्रयं भवेत् | पुनराचमनं कुर्याद् यथोक्तं तद्विधानतः || १५१ || दीक्षा विहीन जनता दीक्षादोषस्य नाशने | अरुणोदयमारभ्य नाडीपंचकसंयुतम् || १५२ || तदा * * * * * * * * * धेनुमुद्रया | ओं हौं शिखाय वौषट् | ओं हां हृदयाय नमः || वौषट् ओं शिरसे वौषट् | ओं हृं शिखायै वषट् || ओं हौं कवचाय हुम् | वौषट् | ओं हः अस्त्राय फट् | शिरोभिषेचनं कुर्यान्मन्त्रैस्तैः कुंभमुद्रया | प्. १५३) ओं हैं कवचाय नमः | सुधामय जलेनैव देहसंवेष्टनं कुर्यात् || १५३ || प्रातस्सन्ध्येति तत्काले ब्राह्मीं हृदयपंकजे | रक्तमाल्याम्बरधरां रक्तगन्धानुलेपनाम् || १५४ || जटामकुटसंयुक्तां चतुर्वक्त्रां चतुर्भुजाम् | हंसपंकजमध्यस्थां अष्टद्रव्यावलोकिनीम् || १५५ || यज्ञोपवीतिनीं बालां पद्ममालाविराजिताम् | सृगक्षमालां सव्यक्तां बाहुभ्यां दधतीं पराम् || १५६ || दण्डं कमण्डलुं द्वाभ्यां वामाभ्यां च तथैव च | त्रिपुण्ट्रावलिसंदीप्तां सर्वाभरणभूषिताम् || १५७ || प्. १५४) शतयोजनकोटीभिर्विस्तृते रक्तमण्डले | तन्मध्ये सुस्थिरां देवीं सर्वकर्मणि साक्षिणीम् || १५८ || मध्याह्ने वैष्णवीं ध्यायेच्छुक्लां शुक्लां शुकोज्वलाम् | वैनतेयाब्जमध्यस्थां एकवक्त्रां सुयौवनाम् || १५९ || वनमालोपवीतां च संहतस्तनसंयुताम् | बिम्बोष्ठीं चारुवदनां नेत्रयुग्मां स कुण्डलाम् || १६० || शंखं वामे च चक्रं च दक्षिणे दधतीं करे | गदाभयं च दधतीं त्रिपुण्ट्रांकितमस्तकाम् || १६१ || सर्वालंकारसंयुक्तां साक्षिणीं सर्वकर्मणाम् | द्विशतकोटियोजनविस्तीर्णे श्वेतमण्डले || १६२ || प्. १५५) तत्र मध्य स्थितां देवीं सारां संस्थितिकारिणीम् | सायाह्ने शिवसिद्धा ये रौद्रीं नीलोत्पल प्रभाम् || १६३ || गंगेन्दु मण्डितजटामीषद्गलित यौवनाम् | वृषपंकजमध्यस्थां एकवक्त्रां त्रिलोचनाम् || १६४ || कृष्णाजिनोपवीतं च सर्वाभरणभूषिताम् | सर्वलक्षणसंयुक्तां संहारक्रमकारिणीम् || १६५ || भस्मत्रिपुण्ट्रसंयुक्तां त्रिशूलाक्षां च दक्षिणे | वामे शक्त्याभयं देवीं सर्वकर्मसु साक्षिणीम् || १६६ || अर्धास्तमितत्रिशतकोटियोजन विस्तृते | बिन्दुमण्डलमध्यस्थां भावयेन्नन्दिकेश्वर || १६७ || प्. १५६) तासां प्रभाभिर्गगनं भासितं भावयेत्तदा | उत्तमा परमा सन्ध्या मध्यरात्रे विशेषतः || १६८ || शिवशक्ति स्वरूपेण चैकत्वे चैकतां गता | बिसतन्तुनिभां सूक्ष्मां रक्तां शुक्लां सितेतराम् || १६९ || चतुर्थी निष्कलानित्या कृष्णा सा च विभाव्यते | शिवबोधापराया तु सा सन्ध्या परमा भवेत् || १७० || अंगुष्ठमूले ब्राह्मं च कनिष्ठाधः प्रजापते | पैत्रं तु तर्जनीमूले कराग्रे देवतीर्थकम् || १७१ || दक्षहस्ततले चाह्नं देवं वा वामहस्तके | सर्वपर्व स्वंगुलीनामार्षतीर्थं विशेषतः || १७२ || प्. १५७) मणिबन्धप्रवेशे तु भूततीर्थमथाष्टकम् | ब्राह्मतीर्थादधस्तीर्थं दिशानां नन्दिकेश्वर || १७३ || पश्चाच्छिवात्मकैर्मन्त्रैस्तत्तोयेन प्रकारयेत् | त्रिवारं हृदयं जप्त्वा रुद्धाधस्थकरद्वये || १७४ || कुशा दक्षिणहस्तेन सन्दर्भं वामपाणिना | षडंगेनाभि मन्त्र्यैतत् कवचेनाव गुण्ठितम् || १७५ || शस्त्रेण रक्षां कृत्वा वै वेणुमुद्रामृती कृतिम् | जलं प्रक्षिप्य तदधो गलितेन च वारिणा || १७६ || वौषडन्तं षडंगेन मार्जनं मूर्ध्नि चाचरेत् | सव्यहस्ततिले नीत्वा शेषितं वारि तत्पुनः || १७७ || प्. १५८) करांगन्यासकं कृत्वा रविमण्डलमध्यमे | शिवायार्घ्यं ततः कृत्वा गायत्रीं मनसा जपेत् || १७८ || उक्षितः पूर्वसन्ध्यायां मध्याह्ने चोदितो भवेत् | सायमुत्थाप्य दत्वार्ध्यमुपविश्य त्रिलोचनाम् || १७९ || पद्मोपरिस्थितां शुक्लां सौम्यदेहां शुचिस्मिताम् | एकवक्त्रां प्रसन्नाक्षीं पंकजासन संस्थिताम् || १८० || जटामकुटसंयुक्तामर्धेन्दुकृत शेखराम् | त्रिपुण्ट्रावलिभिर्दीप्तां शुक्लयज्ञोपवीतिनीम् || १८१ || चतुर्भुजां चतुर्वक्त्रां साक्षसूत्रधरां पराम् | पद्माभयान्वितां देवीं चतुर्वेदफलान्विताम् || १८२ || प्. १५९) गायत्रीं मनसा ध्यायेत् सर्वपाप विकृन्तनीम् | ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि || तन्नः शिवः प्रचोदयात् त्रिसन्ध्यं शिवगायत्रीं जपेद्भक्ति समन्वितः || १८३ || ओं हां शिवायार्घ्यं स्वाहा | एवं मन्त्रं जपित्वार्ध्यं दत्वा सद्यो विसर्जनम् | त्रिः प्रदक्षिणमावर्त्त्य मूलमन्त्रं जपेद्बुधः || १८४ || मन्त्राणां दीपनार्थाय कुर्यात्तर्पणमप्यथ | ओं हौं शिवाय स्वाहा | ओं हृदयाय स्वाहा | ओं हां शिरसे स्वाहा | ओं हूं शिखायै स्वाहा | ओं हैं कवचाय स्वाहा | ओं हौं नेत्रत्रयाय स्वाहा | प्. १६०) ओं हां विष्णवे स्वाहा ओं हां रुद्राय स्वाहा | ओं हां सदाशिवाय स्वाहा ओं हां वाग्वादिनी स्वाहा | ओं हां सरस्वत्त्यै स्वाहा | साध्यानां मन्त्रदेवानां तर्पयेन्नन्दिकेश्वर || १८५ || एतैर्मन्त्रैश्च दिक्पालानिन्द्राद्यैः स्वस्वनामभिः | ओं हां ऐन्द्र्यै स्वाहा | ओं हां आग्नेययै स्वाहा | ओं हां दक्षिणायै स्वाहा | ओं हां नैर्-ऋत्यै स्वाहा | ओं हां वारुण्यै स्वाहा | ओं हां वायव्यै स्वाहा | ओं हां उत्तरायै स्वाहा | ओं हां ऐशान्यै स्वाहा | ओं हां अन्तरिक्षाय स्वाहा | एवं दशदिशां तृप्तिं कारयेद्दक्षिणाय च || १८६ || प्. १६१) ओं हां आदित्येभ्यः स्वाहा | ओं हां वसुभ्यः स्वाहा | ओं हां रुद्रेभ्यः स्वाहा | ओं हां विश्वेभ्यः स्वाहा | ओं हां साध्येभ्यः स्वाहा | ओं हां मरुद्भ्यः स्वाहा | ओं हां भृशभ्यः स्वाहा | ओं हां अंगिरोभ्यः स्वाहा | आदित्याद्यं गिरोऽन्तं तु तर्पयेद्देवतीर्थकैः | तत्र कण्ठोपवीती च ऋषीणां तर्पणं क्रमात् || १८७ || कुशमध्येन तत्सर्वमंगुली सर्वसन्धिभिः | ओं हां अत्रये नमः | ओं हां वसिष्ठाय नमः | ओं हां पुलस्त्याय नमः | ओं हां क्रतवे नमः | ओं हां भारद्वाजाय नमः | ओं हां विश्वामित्राय नमः | ओं हां प्रचेतसे नमः | ओं हां सनातनाय नमः | प्. १६२) अत्र्यादि प्रचेतान्तमृषयो देववंशजाः || १८८ || कनिष्ठामूलदेशाभ्यां मानुषाणां च तर्पणम् | ओं हां सनकाय वषट् | ओं हां सनन्दनाय वषट् | ओं हां सनातनाय वषट् | ओं हां सनत्कुमाराय वषट् | ओं हां कपिलाय वषट् | ओं हां ऋभवे वषट् | ऋभ्वन्तसनकादीनां सप्तानां मुनिनां क्रमात् || १८९ || सिद्धांश्च तण्डुलैः सार्धं पूर्ववत्तर्पणं भवेत् | ओं हां शिखायै वषट् | ओं हां रुद्राय वषट् | शिवादिचण्डपर्यन्तं दशचण्डांश्च तर्पयेत् || १९० || हस्तमाल्येन भूतानां तण्डुलैस्सह तर्पयेत् | ओं हां आकाशभूतेभ्यो वौषट् | प्. १६३) आकाशादिपृथिव्यन्तं भूतेभ्यस्तर्पणं कुरु || १९१ || कृत्वा यज्ञोपवीतं तु दक्षिण स्कन्धसंयुतम् | कुशाग्रं तत्तिलैः सार्धं तर्जनीमूल तर्पणम् || १९२ || ओं हां कव्यवाहनाय स्वधा | ओं हां अनलाय स्वधा ओं हां सोमाय स्वधा | ओं हां यमाय स्वधा | ओं हां अर्यम्णे स्वधा | ओं हां अग्निष्वात्ताय स्वधा | ओं हां आज्यपाय स्वधा | ओं हां सोमपाय स्वधा | पितॄणां कव्यवाहादि सोमपान्तं प्रवर्तयेत् || ओं हां पितृभ्यः स्वधा | ओं हां पितामहेभ्यः स्वधा | ओं हां प्रपितामहेभ्यः स्वधा | ओं हां मातुः पितामहेभ्यः स्वधा | ओं हां मातुः प्रपितामहेभ्यः स्वधा | प्. १६४) ओं हां सर्वेभ्यः पितामहेभ्यः स्वधा | ओं हां सर्वेभ्यो ज्ञातिभ्यः स्वधा | ओं हां सर्वेभ्य आचार्येभ्यः स्वधा | पित्राद्याचार्यपर्यन्तं मनुष्याणां पितॄंस्तदा || १९३ || मातॄणां च ग्रहाणां च राक्षसानां तथैव च | स्वधान्तं तर्पणं कुर्याद् यथा विधिस्तथैव च || १९४ || ओं हां सर्वेभ्यो मातृभ्यः स्वधा | ओं हां सर्वेभ्यो ग्रहेभ्यः स्वधा | ओं हां सर्वेभ्यो राक्षसेभ्यः स्वधा | ओं हां हुं अस्त्राय फडिति जलतीरे विनिक्षिपेत् | ओं हां हृदयाय नम इति | प्. १६५) हंसारयमुद्राया तीर्थानि सर्वांश्च हृदि संहरेत् | यत्र कारे समो वामो मन्त्रमन्यामनन्तरम् || १९५ || करन्यासं पुरा कृत्वा देहन्यासमनन्तरम् | बालबालिश वृद्धस्त्रीरोगिणां भोगि भूभुजाम् || १९६ || गुरुवक्त्रेण संकोच्य तर्पणादींश्च कारयेत् || १९६ १/२ || इत्यचिन्त्य विश्वसादाख्ये संध्योपासनविधिर्दशमः पटलः || प्. १६६) शृणु वक्ष्ये विशेषेण सूर्यार्घ्यं चापि पूजनम् | आचम्य विधिवत्सव्यी करांगन्यासमारभेत् || १ || हृदयादस्त्रपर्यन्तं देहन्यासमतः परम् | सूर्यात्मानं स्वयं ध्यात्वा साधयेदर्घ्यभाजनम् || २ || आसने प्राङ्मुखो भूत्वा मण्डलं वृत्तमाचरेत् | स्वहस्तं वापि तत्कृत्वा आचामं शुद्धभूतले || ३ || गोमयेन जलेनापि लेपयेद्रविमण्डलम् | अस्त्रेण प्रोक्षयेत्तत्र रक्तचन्दनवारिभिः || ४ || ताम्रपात्रे जले पूर्य रक्तचन्दनतण्डुलैः | रक्तपुष्पैः कुशैर्दर्भैः तिलसर्षपतण्डुलैः || ५ || प्. १६७) ललाटकोष्ठबिन्दुं च निक्षिपेदमृताकृतिम् | अंगैरादित्यमभ्यर्च्य कवचेनावगुण्ठनम् || ६ || अस्त्रेण रक्षणं कृत्वा जानुभ्यामवनीं गतः | आसक्तं प्रोद्धरेत्तत्र द्रव्यमण्डल दृष्टियुक् || ७ || भक्तार्ध्यं च रवेर्दद्यान् मूलमन्त्रेण साधकः | ओं आं ह्रीं ह्रूं सं सूर्याय नमः | ओं हं खं खषोल्काय मूर्तये नमः | मूर्तिमूर्तीश्वरं जप्त्वा दापयेदर्ध्यवारिचेत् || ८ || देवपूजां समारभ्य गन्धपुष्पादिभिस्सह | शिखोर्ध्वे पूजयेत्सम्यक् गुरुमण्डलमादृतः || ९ || प्. १६८) हृदये भास्करं ध्यात्वा सांगावरणभासुरम् | वहिः कल्पित बिम्बे च भानुं सोमे प्रपूजयेत् || १० || दण्डिनं पिंगलं चैव द्वारपालं समर्चयेत् | ओं हं दण्डिने नमः || ओं अं पिंगलाय नमः | ओं अं गणपतये नमः | ओं अं गुरुभ्यो नमः || ओं ईशान्यां तु गणेशानं आग्नेययां गुरुमावहेत् || ११ || प्रभूतासनं तु जप्त्वैवं श्वेतपीठस्य मध्यमे | ओं हां प्रभूतासनाय नमः || आग्नेययां दिशि पर्यन्तं कोणेषु च यथा क्रमम् || १२ || विमलासनमाराध्य परमाख्यं सुखं ततः | * * रक्तं च हेमं च हरिताभं यथाक्रमम् || १३ || प्. १६९) ओं हां अं विमलाय नमः | ओं अं आराध्याय नमः | ओं अं परमसुखाय नमः | तेषामुपरि संकल्प्य श्वेतं भासुरकर्णिकम् | ओं अं पद्माया * * || दीत्तां सूक्ष्मां रुचं भद्रां विभूतिं विमलां तथा || १४ || अमोघा विद्युता चैव तन्मध्ये सार्वतो मुखम् | पूर्वादीशान्त मध्ये च नवशक्तीर्यजेत्क्रमात् || १५ || ओं रां दीप्तायै नमः || ओं रीं सूक्ष्मायै नमः | ओं रं रुचायै नमः || ओं रूं भद्रायै नमः || ओं रैं विभूत्यै नमः | ओं रैं विमलायै नमः || प्. १७०) ओं रौं अमलायै नमः || ओं रौं विद्युतायै नमः | ओं रीं सर्वतो मुख्यै नमः | सर्वतोमुखि सर्वस्था लोकयेयुः समन्ततः | उपर्यर्कासनं ज्ञात्वा तस्यास्त्रं मंत्रमर्चयेत् || १६ || ओं अं अर्कासनाय नमः || श्वेत पंकजसंरूढं मायापुष्पनिभं शुभम् | ज्वलरक्तातितेजस्य मण्डलान्तर्व्यवस्थितम् || १७ || अनेकदीपसंकाशं मणिमौलिविराजितम् | रक्तांशुकपरीधानं रक्तचन्दनचर्चितः || १८ || वाहुमूलगतश्वेत पुण्डरीककरद्वयम् | हारकेयूरकटकं मुद्रायुक्तांगुलं शुभम् || १९ || प्. १७१) एकाननं विशालाक्षं द्विभुजं भास्करं विभुम् | सहस्ररश्मिसंयुक्तं चिन्तयेन्मूर्तिरूपिणम् || २० || ओं अं खषोल्काय सूर्याय मूर्तये नमः || कराभ्यामञ्जलिं पूर्य ललाटाकृष्टवन्धुना | व्यापकं मूलमन्त्रेण कुर्यादारोपणं तदा || २१ || ओं हां ह्रीं हौं सौं सूर्याय नमः || आहानं स् अन्निधानं निरोधाना व गुण्ठनम् | स्थापनं चैव मूर्तीनां मुद्रया भावयेत्तदा || २२ || प्रीत्यर्थं ग्रहराजाय बिन्दुमुद्रां प्रदर्शयेत् | मुदिता तृमुद्रैते अत्र वै विहिता हि सा || २४ || प्. १७२) एकत्वस्याप्यसं चिन्त्यं सकलीकरणं पुनः | खषोल्किना तदाकुर्यात्तदा चाचमनीयकम् || २५ || शिरोर्घ्यं गन्धपुष्पं च धूपं दीपं चरुं तदा | पिनाकं पत्रमुद्रां च दर्शयेत्साधकोत्तमः || २६ || अंगानि सौम्यरूपाणि द्विभुजान्युज्वलानि च | वरदाम्बुज हस्तानि डाडिमी सन्निभानि च || २७ || भास्करस्यांगरूपाणि भावयेन्नन्दिकेश्वर ! | ज्वलत्पावकसंकेशं द्विनेत्रं चोग्रविह्वलम् || २८ || दंष्ट्रा करालवदनं विघ्नौघोत्तर्जनोत्तमम् | भास्करस्य स्वरूपं च चिन्तयेद्भक्ति संयुतः || २९ || प्. १७३) ओं सं हृदयाय नमः || ओं अं अर्काय शिरसे नमः || अग्नीशदलयोरन्ते सम्यगभ्यर्च्य साधकः | नै-ऋत्यां वायुदिग्भागे शिखां वर्म च पूजयेत् || ३० || ओं रं भूर्भुवःस्वरोम् || ज्वालिनी शिखायै नमः | भुं कवचाय नमः || ओं हां नेत्राभ्यां नमः || * * * * * * * * तन्मध्ये तु यजेत्क्रमात् ओं अस्त्राय नमो भद्राक्ष्युत्तरतो यजेत् || हृदादीनां च कर्णांश्च धेनुमुद्रां प्रदर्शयेत् || ३१ || अस्त्रस्य त्रासनीमुद्रान्देवीभ्यां योनिमुद्रया | उषां देवीं दक्षभागे प्रत्युषां वामपार्श्वके || ३२ || प्. १७४) द्विभुजां च द्विनेत्रां च सरोजवदनान्विताम् | सर्वाभरण संयुक्तां सर्वलक्षण संयुताम् || ३३ || उभयोस्तु * * * त्वा पूजयेत्साधकोत्तमः | ओं ह्रीं उषादेव्यै नमः || ओं ह्रीं प्रत्युषायै नमः || ३४ || सोमपूर्वदले चेषा संसोमाय नमोऽन्तकम् | बुधं दक्षिणदिक्पात्रे बुधायाथ नमोऽन्तकम् || ३५ || पश्चिमेपि दलाग्रे तु बृं बृहस्पतये नमः | पुष्टि वर्धनकरी | दिनेशोर्घ्य पूजातस्मादिनादिषु मदीय समर्चनेऽपि | सूर्यार्चनं च करणाय * * * * मध्ये सदे || इत्यचिन्त्य विश्वसादाख्ये सूर्यपूजाविधि दशमः पटलः || प्. १७५) अथ क्रमेण संस्कारदीक्षालक्षणकं शृणु | मण्डपं मण्डलं कुण्डं स्थण्डिलं लिंगपूजनम् || १ || यथा समयदीक्षा च कलशेत्वभिषेचनम् | अष्टविद्येश्वरान्बाह्ये शेषं पूर्ववदाचरेत् || २ || पूर्व शिष्योक्त संवादं श्रद्धापूर्वं कृतं यदि | अक्रोध भक्तिविश्वासं शर्वाज्ञा पालनं सदा || ३ || चतुष्टयसमायुक्तं सर्वक्लेशविवर्जितम् | गुरुद्रोह शिवद्रोह समयद्रोह कर्मकृत् || ४ || अदीक्षितस्य बन्धुत्व कृतघ्नत्वा विवेकिता | गुरुदोषावलोकं च स्वदोषा न वलोकनम् || ५ || प्. १७६) एतैरष्टगुणैर्हीनः शिष्यः संस्कारमर्हति | विपरीतगुणं शिष्यं दीक्षयेत्समये पुनः || ६ || पश्चात्संस्कार दीक्षायामन्तेवासि भविष्यति | मण्डलाद्यग्निपूजान्तं कृत्वा वै देशिकोत्तमः || ७ || शौचस्नानादि संयुक्तं शिष्यं सव्ये निवेदयेत् | अग्निमध्ये महेशस्य हृदयाम्बुजमध्यमे || ८ || आवाहयेच्च संश्लिष्टौ शिवौ च हृदया सुधा | संतर्प्य पूजां कुर्यात् तयोः संनिधिकारणम् || ९ || हृदये नैव मन्त्रेण हुनेदाहुति पंचकम् | शिष्यस्य हृदयं पश्चात् पुष्पेणास्त्रेण ताडयेत् || १० || प्. १७७) ज्वालान्तराकृतिर्ज्योतिश्चैतन्यं तस्य भावयेत् | तत्र प्रविश्य हुंकारयुक्तये चक्रयो गता || ११ || संहारमुद्रया कृष्य पूरकेण हृदि न्यसेत् | ओं हां हं हां आत्मने नमः | शिवं प्राप्तोऽपि चैतन्यं शिष्यस्य वदनान्तरम् || १२ || तद्दोषगुणमभ्यर्च्य सर्वमग्नौ तु दृश्यते | निर्धूमे ज्वलिते वह्नौ होमः सर्वार्थसिद्धिदः || १३ || अदीप्ते धूमसंयुक्ते होमात्विष्टं न सिध्यति | प्रदक्षिण शिखः स्निग्धः सुगन्धस्तेजसा युतः || १४ || मृदंगघोष सदृशो मेघनाद समन्वितः | प्. १७८) उद्दीप्तः सुसमायुक्तः श्वेतो रक्तः शुभप्रदः || १५ || अर्चिस्सवयः शिखीयुक्तः स्फुलिंगभस्मसंयुतः | मीनं च शिशुनिर्घोषः कौशिकस्वरसन्निभः || १६ || एवमादिस्वरैर्युक्तो होतुः कालं स्वमावहेत् | शिष्यस्य पापचिह्नानि पावकेन विलोकयेत् || १७ || ब्रह्महा पितृहा चैव सुरापो गुरुतल्पगः | कृतघ्नो देव निन्दश्च ज्ञानिनिन्दस्तथैव च || १८ || ज्ञानचोरश्च भूहताश्च संपर्की गुरुनिन्दकः | महापातकिनामेषां विष्ठागन्धिर्भवेत्तदा || १९ || भ्रूणहर्तानि कुष्ठोऽग्निर्भ्रमति स्त्रीवधे पुनः | प्. १७९) वालस्य वर्धके वह्नि स्फुटम स्फुटयेत्क्षणात् || २० || कम्पते होमचारेऽपि निस्तेजा गर्भघातजे | पावकस्य गुणैः शिष्य कल्मषं ज्ञापयेद्भृशम् || २१ || पापभक्षणहोमेन दहेदन्तेन चात्मना | ओं खड्गहस्त ! पापकलुष बृहन्मयूख फट् फट् पापभक्षणाय स्वाहा || इति पापभक्षणमन्त्रः || द्विर्जप्त्वा पापनाशाय तथा रुद्रांशं भावयेत् || २२ || द्विजभोजनसंशुद्धौ गर्भाधानाय पुंकृतौ | सीमन्तोन्नयने चैव जातकर्मणि नाम च || २३ || होमयेन्मूलमन्त्रेण पंचब्रह्म शतं शतम् | निष्क्रामणे तथान्नस्य प्राशने चौलकर्मणि || २४ || प्. १८०) उपनीतौ व्रतादेशे गोदाने स्नानकर्मणि | विवाहे वनवासत्वे यतित्वे नन्दिकेश्वर ! || २५ || पञ्चांशं मूलमन्त्रेण प्रत्येकं होममाचरेत् | चतुराश्रमनिष्ठेषु तत्तदाश्रमका विधि || २६ || संस्कारं च ततः कुर्यात्तत ऊर्ध्वं न कारयेत् | गृहस्थारण्यवासित्वं यतित्वं च विशेषतः || २७ || पूर्ववन्मूलमन्त्रेण जुहुयाद्देशिकोत्तमः | शिथिलीभूतबन्धस्य शक्तादुर्कर्षणं तु यत् || २८ || आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते | स्वातन्त्र्यादि गुणं व्यक्तिस्तथा पुंसवनं भवेत् || २९ || प्. १८१) मायात्मनो विरेकेन ज्ञानं सीमन्तवर्धनम् | शिवादिसदसद्वस्तु स्वीकारो जननं भवेत् || ३० || बोधनं यच्छिवत्वेन शिवत्वार्हत्वमाप्नुयात् | शिवत्वस्य प्रवेशो हि निष्क्रामणमितीर्यते || ३१ || परमानन्दमित्वमन्न प्राशनमुच्यते | शिव प्रसादोत्कर्षन्तु यत्तच्चूडात्मना भवेत् || ३२ || निर्वाण ज्ञानसूत्रेण सम्बद्धमुप जीवकम् | इन्द्रियाणां च संरोधो व्रतादेश इति स्मृतः || ३३ || पुनर्जन्म परित्यागो गोदानमिति कीर्तितम् | सर्वेषु निरपेक्षित्व सद्भावः स्नानमुच्यते || ३४ || प्. १८२) अनन्तशक्ति संयुक्तिर्विवाह इति कीर्तितम् | अनन्तशक्ति विश्लेषो वानप्रस्थत्वमिष्यते || ३५ || केवलं शिवसद्भावो यतित्वमिति निदिर्शिते | शिखाबाह्योपवीतादि संत्यजेद्यदि तं प्रति || ३६ || तत्सर्वासु च दीक्षासु निर्वाणादिषु वाचरेत् | चत्वारिंशत्तु संस्काराः सारभूताः प्रकीर्तिताः || ३७ || ततस्तारक संकाशं समाना संहरेत्तदा | संहारमुद्रयादाय गुरोर्हृदयपंकजे || ३८ || स्थापयित्वा यथायोगं मूलमन्त्रेण कुम्भयेत् | शिवयोस्समरसीभावं मूलमन्त्रेण कारयेत् || ३९ || प्. १८३) ब्रह्मादि कारणत्यागात् क्रमाद्रेचकयोगतः | आत्मानं शिवसद्भावं नीत्वा सद्भावयोगतः || ४० || उद्भवेन तदादाय हृत्संपुटितकेन च | मन्त्रेण रेचकेनैव शिष्यस्य हृदयाम्बुजे || ४१ || समाहितमना भूत्वा क्षिपेत्तत्कर्णिकोपरि | शिवमग्निं च संपूज्य पूजयित्वार्भकेण च || ४२ || प्रणीय प्रणतिं चैव कारयित्वा तथैव च | शिष्यस्य समयात्सर्वात् श्रावयेद्गुरुसत्तमः || ४३ || न निन्देत्कारणं देवं ज्ञाननिन्दां तथैव च | साधकं ज्ञानवृद्धं च ज्येष्ठं भक्तिसमन्वितम् || ४४ || प्. १८४) आचार्यस्य तु ज्येष्ठस्य लिंगच्छायां न लंघयेत् | निर्माल्यन्तु न भुञ्जीत शिवभक्तान्न निन्दयेत् || ४५ || न लंघयेन्न दद्यात्तु दीक्षितस्य विशेषतः | शिवाग्नि गुरुपूजा वै कर्तव्या जीविकार्थिभिः || ४६ || श्रद्धाथ भक्तिविश्वासगुर्वाज्ञा पालनं तथा | नियमेन च कर्तव्यं चतुष्टयमपि क्रमात् || ४७ || गुरुद्रोह शिवद्रोह समयद्रोहमेव च | अदीक्षितस्य बन्धुत्वं कृतघ्नत्वाविवेकताम् || ४८ || गुरुदोषावलोकश्च स्वदोषानवलोकनम् | एतेषां सप्तविंशानां श्रावकाणां विशेषतः || ४९ || प्. १८५) एकोनविंशत्कर्तव्यं कर्तव्यमिति चाष्टकम् | पूर्ववत्पञ्चगव्यं च चरुसंभोजनं भवेत् || ५० || शिवभक्तप्रधानादि कर्तव्यमत ऊर्ध्वके | व्रतांगपोषास्सर्वेऽपि योग्यमेव तदादिकम् || ५१ || भक्तदण्डं च कौपीनं तथैव च कमण्डलुम् | पञ्चब्रह्मतदंगैश्च परिजप्य यथोदितम् || ५२ || निधायपात्रे स्वाहान्तं संहितामन्त्रसंहितम् | लब्ध्वा शिवाज्ञां योग्याय व्रतानेतान्वदेद्गुरुः || ५३ || प्रणम्य दण्डवद्भूमौ भक्तियुक्तो दृढव्रतः | समादाय हृदादेवं धरेच्छिष्योपसंयुतः || ५४ || प्. १८६) संस्कारदीक्षा समयाद्विशिष्टा विशेषतोऽप्यागम होमयोग्यः | शिष्योदयेत्सन्तत बुद्धियुक्तो लिंगार्चनं चापि तथैव कुर्यात् || ५५ || इत्यचिन्त्य विश्वसादाख्ये कर्मदीक्षाविधिरेकादशः पटलः || वक्ष्ये नित्यार्चनं पुण्यं शिवदं पापनाशनम् | योगदं ज्ञानदं चैव मोक्षदं भक्तिवर्धनम् || १ || शिवपूजासमं पुण्यं न भूतं न भविष्यति | आत्मार्थं च परार्थं च द्विविधं शिवपूजनम् || २ || प्. १८७) तत्फलं स्वार्थमापेक्ष्य आत्मार्थं प्रतिपद्यते | पूजाफलं तु सामान्ये सर्वभूताय निर्दिशेत् || ३ || तत्परार्थं समाख्यातं सर्वेषामात्मनः फलम् | सर्वतत्वादिकं ज्ञेयं सर्वकारणकारणम् || ४ || शिवरूपं परं ज्योतिर्लिंगमित्यभिधीयते | तत्प्रभा शक्तिरित्युक्ता पीठिका सैव नाद्यथा || ५ || सर्वस्योत्पत्ति लक्ष्यत्वात्प्रथमं लिंगमुच्यते | लीयते निखिलं तस्मिन् लयत्वाल्लिंगमुच्यते || ६ || शिवशक्त्यात्मकं सर्वं चराचरमिदं भवेत् | तृप्तिर्भवति शाखानां वृक्षमूले जलार्पणात् || ७ || प्. १८८) तस्माल्लिंगार्चनात्तृप्ता गीर्वाणाः सर्वदेहिनः | आत्मार्थं चरलिंगं च तद्विशेषाच्छृणुष्वथ || ८ || शैलजं लोहजं चैव रत्नजं च त्रिधा भवेत् | शैलजं चैकभेदं स्याद् भोगमोक्ष फलप्रदम् || ९ || रत्नजं चाष्टभेदं स्याल्लोहजं च तथैव च | माणिक्यं च प्रबालं च वैडूर्यं स्फाटिकं तथा || १० || वज्रं मरकतं नीलं पुष्परागं च रत्नजम् | माणिक्यं श्रीप्रदं ज्ञेयं प्रवालं वश्यदं भवेत् || ११ || वैडूर्यं पुत्रसंसिद्ध्यै स्फाटिकं सर्वसिद्धिदम् | शत्रुक्षयकरं वज्रं मरकतं पुष्टिवर्धनम् || १२ || प्. १८९) धनधान्यप्रदं नीलं पुष्परागं तु भोगदम् | एवं रत्नजमाख्यातं लोहजं पुनरुच्यते || १३ || सौवर्णं राजतं ताम्रं कांस्यं चैवारकूटकम् | आयसं सीसकं चैव त्रपुकं चैव लोहजम् || १४ || सौवर्णं श्रीप्रदं ज्ञेयं राजतं राजसिद्धिदम् | ताम्रं पुत्रप्रदं चैव विषमं कांस्यमेव च || १५ || उच्चाटनं चारकूटं जयकारणमायसम् | सीसकं रोगहरणं त्रिपु चायुष्यवर्धनम् || १६ || एवं लोहजमाख्यातं शैलजं पुनरुच्यते | नर्मदाद्यादितीर्थेषु संगमेषु समुत्थितम् || १७ || प्. १९०) यल्लिंगं तत्तु बाणाख्यं तल्लिंगं नैष्ठिकार्चनम् | सल्लिंगं पिण्डिकायुक्तं भुक्तिमुक्ति फलप्रदम् || १८ || तस्मात्तु भौतिकश्चैव नैष्ठिकश्च तथैव च | शौचमाचमनं स्नानं पूर्वोक्तविधिना सह || १९ || पादप्रक्षालनं कृत्वा पूजास्थानं समाविशेत् | उत्तराभिमुखो भूत्वा रुचिरासनमास्थितः || २० || परात्मार्थमथवा स्वात्मार्थं च विशेषतः | करांगन्यासकं कृत्वा पूजाद्रव्याणि कल्पयेत् || २१ || प्रणवार्घ्यं च संकल्प्य द्वारपूजां च कल्पयेत् | श्रीकरं ज्ञानदं चैव पूर्वद्वारस्य पूजनम् || २२ || प्. १९१) विजयं कीर्तिसौभाग्यं दक्षिणं बलदं तथा | पश्चिमद्वारपूजायं वैराग्यं प्राभवन्तथा || २३ || भक्तेर्मोक्षस्य सामान्यं सर्वद्वारेषु पूजनम् | उदग्द्वारं न कर्तव्यं पूर्वद्वारमथोच्यते || २४ || ओंकारं दशकृत्वा तु जप्त्वा चार्घ्यं प्रकल्पयेत् | अस्त्रमन्त्रेण संप्रोक्ष्य पूजयेद् द्वारपालकान् || २५ || द्वाराग्रे वृषभं पूज्य || ओं हां वृषभाय नमः | ओं हां अस्त्राय नमः || ऊर्ध्वोदम्बरके याम्ये गणेशं पूजयेत्तदा | रक्तवर्णं चतुर्बाहुं टंकांकुशसमन्वितम् || २६ || प्. १९२) अक्षमालां स्वदन्तं च बीजपूरं च पुष्करे | ओं हां गणपतये नमः || द्वारस्योर्ध्वोत्तरे भागे पूजयेच्च सरस्वतीम् || २७ || इन्दु कुन्दसितां देवीं चतुर्हस्तां सुभूषिताम् | ओं हां सरस्वत्यै नमः | तयोर्मध्ये महालक्ष्मीं स्वर्णवर्णां विभूषिताम् || २८ || गजहस्तस्थ शृंगार सुधाधाराभिषेचिताम् | चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् || २९ || ओं हां महालक्ष्म्यै नमः || रक्तं त्रिनेत्रं जटिलं चतुर्बाहुं महोदरम् | मुद्गरं तर्जनीं चैव शूलमक्षस्रजं तथा || ३० || प्. १९३) दधानं नन्दिनं चैव ओं हां नन्दिने नमः | शुद्धस्फटिकसंकाशां द्विनेत्रां द्विभुजां शिवाम् || ३१ || सर्वाभरणसंयुक्तां सर्वगन्धसमन्विताम् | मकरासनमारूढां सुधाकलशमुत्पलम् || ३२ || दधानां जलरूपार्थं ओं हां गंगायै नमः | गंगां च नन्दिनं चैव शाखादक्षिणके यजेत् || ३३ || नीलजीमूतसंकाशं चतुर्बाहुं त्रिनेत्रकम् | मुद्गरं च त्रिशूलं च शून्यमुद्रां कपालकम् || ३४ || व्यालयज्ञोपवीतं च भिन्नपाद युगं स्मरेत् | ओं हां महाकालाय नम इति मन्त्रमुच्चरेत् || ३५ || प्. १९४) यमुनां श्यामवर्णां च द्विभुजां च त्रिणेत्रकाम् | नीलोत्पलसुधापूर्णकलशेन समन्विताम् || ३६ || कूर्मवाहां प्रसन्नाक्षीं पुण्यराशिं शिवप्रियाम् | शाखाया उत्तरे भागे ओं हां यमुनायै नमः || ३७ || आवाहनादि दीपान्तं प्रत्येकं पूजयेत्क्रमात् | अंगुष्ठानामिकाभ्यां ओं हां हौं शिवाय नमोन्तम् || ३८ || नेत्रत्रये विन्यस्य निरस्येद्दिव्य विघ्नकान् | सन्त्यज्य दिव्यविघ्नांश्च पुनर्नाराच मुद्रया || ३९ || तर्जन्यंगुष्ठ पुष्णेत्य ओं हः अस्त्राय फट् | इत्यन्तरिक्ष विघ्नानां निरासन्नन्दिकेश्वर ! || ४० || प्. १९५) सव्यपार्ष्णित्रिघातेन भूमिष्ठान्विघ्ननाशनम् | हुंफडन्तास्त्रमन्त्रेण विघ्ननिस्सरणं भवेत् || ४१ || परार्थदेहली शाखा दक्षिणाशाग्रतो भवेत् | दक्षिणेनैव पादेन प्रविशेन्मन्दिरं पुनः || ४२ || ओं हामस्त्रायफडिति विन्यस्यास्यमू दुब्मरे | चतुर्वक्त्रं चतुर्बाहुं प्रदीप्ताग्निसमप्रभम् || ४३ || दक्षवामकरैश्शक्ति शूलाभयवरान्वितम् | जटामकुटसंयुक्तं मूर्धेन्दुकृतशेखरम् || ४४ || ओं हां वास्त्वधिपतये ब्रह्मणे नम इत्यपि | देहलीमध्यमे चैव वास्तुदेवस्य पूजनम् || ४५ || प्. १९६) द्वारस्याभ्यन्तरे युष्मत् पूजां कुर्वन्तु दक्षिणे | रक्तवर्णं चतुर्बाहुं त्रिणेत्रं चन्द्रशेखरम् || ४६ || जटामकुट संयुक्तं नमो मुद्रासमन्वितम् | परशुं च मृगं चैव धारिणं गणनायकम् || ४७ || वेत्रं स्वबाहुमूलेन्यत् क्षुरिकां च नितम्बके | सर्वाभरण संयुक्तं भस्मोद्धूलितविग्रहम् || ४८ || रुद्राक्षेणोपवीतं च शुक्लयज्ञोपवीतिनम् | रुद्राक्षालम्बमालां च हस्तमालां तथैव च || ४९ || ओं ह्रीं श्रीं च स मुच्चार्य नन्दिकेश्वराय नमः | एवं च नन्दिनं पूज्य यशो देवीं च वामके || ५० || प्. १९७) श्यामवर्णां प्रसन्नाक्षीं द्विभुजां गणनायकीम् | सर्वभूषण संयुक्तां सर्वलक्षणसुन्दरीम् || ५१ || उत्पलं दक्षहस्तेन दधानां पूजयेत्ततः | ओं हां ह्रीं च समुच्चार्य यशोदेव्यै नमश्च हि || ५२ || एवं तां पूज्य भक्त्या च भोगमोक्षसुसिद्धये | ऐशान्ये स्वगुरौ भक्त्या चासनं पूजयेत्ततः || ५३ || ओं हां गुं गुर्वासनाय नमश्चैव तु कल्पयेत् | पञ्चशुद्धिक्रमेणैव पूजयेच्छिवमव्ययम् || ५४ || आत्मशुद्धिं पुराकृत्वा स्थानशुद्धिमनन्तरम् | द्रव्यशुद्धिस्तृतीयास्याच्चतुर्थं मन्त्रशुद्धिका || ५५ || प्. १९८) पञ्चमं लिंगशुद्धिःस्या देवं शुद्धिः क्रमोदिता | त्रिवारं मूलमन्त्रेण जप्त्वा संहारमुद्रया || ५६ || मूर्धादिपादपर्यन्तं कराभ्यां संस्पृशेत्तदा | ओं हिं सद्योजात मूर्तये नम इत्यपि || ५७ || ओं हिं वामदेवाय गुह्याय नम इत्यपि | ओं हुं पूर्वमुच्चार्य अघोरं हृदयाय च || ५८ || नमस्कारन्नमः पश्चाद् ओं हेन्तत्पुरुषन्तथा | वक्त्राय नम इत्यन्ते ओं होमीशानमूर्तये || ५९ || नमस्कारं कनिष्ठाद्यमंगुष्ठान्तं न्यसेत्क्रमात् | ओं सद्योजात पादमूर्तये नमः || ओं हिं वामदेवाय नमः | प्. १९९) ओं हुं अघोरहृदयाय नमः || ओं हें तत्पुरुषाय नमः | ओं होमीशानमूर्तये नमः | षडंगं तु ततः कुर्यादों हां हृदयाय नमः || ६० || ओं हीं हं शिरसे स्वाहा | ओं हों शिखायै च ततः परम् | वषडन्तं समुच्चार्य ततो ओं हैं कवचाय हुम् || ६१ || ओं हौं नेत्रत्रयाय वौषट् ओं हः अस्त्राय फट् | अंगुलीषु सपर्या सु तदग्रेषु च विन्यसेत् || ६२ || कवचेन कराभ्यां च वेष्टयेत्तु विशेषतः | मूलमन्त्रं समुच्चार्य मूर्धाद्यर्घ्याद्यसंयुतम् || ६३ || महामुद्रां प्रदृश्येत चिन्तयेद्गुरु मण्डलम् | प्. २००) शिखाग्रे द्वादशांगुल्ये सहस्रदलसंयुतम् || ६४ || कोट्यादित्यप्रतीकाशं चन्द्रकोटि सुशीतलम् | चिच्छक्तिमात्रं रूपं च तारकर्णिकयोज्वलम् || ६५ || अष्टत्रिंशत्कलारूपं केसरोज्वलमुत्तमम् | पंचाक्षर स बीजाढ्यं यस्य मुखेतत्पुरुषं न्यसेत् || ६६ || अघोरं हृदये चैव वामं गुह्ये प्रकल्पयेत् | सद्योजातं न्यसेत्पादौ मकुटादि क्रमोन्यसेत् || ६७ || हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् | शिखां शिखायां विन्यस्य कवचं स्तन मध्यतः || ६८ || प्. २०१) नेत्रं नेत्रप्रदेशे वै दिक्ष्वस्त्रं विन्यसेत्क्रमात् | ओंकारं मूर्ध्नि विन्यस्य आकारं हृदि विन्यसेत् || ६९ || सूंकारं कण्ठदेशे तु विन्यसेन्नन्दिकेश्वर ! | अकारादिक्षकारान्तं श्रीकण्ठं विन्यसेत्क्रमात् || ७० || श्रीकण्ठान्तं ततः सूक्ष्मः त्रिमूर्तिरमरेश्वरः | अधिशोभारभूतिश्चातिथीशः स्थाणुको हरः || ७१ || झषेशो भौतिकस्सद्योजातश्चानुग्रहेश्वरः | अक्रूरश्च महासेनः स्वराणां मूर्तयो भवेत् || ७२ || क्रोधेशश्च ततश्चण्डः पञ्चान्तकशिवोत्तमः | एकरुद्रस्तथा कूर्म एकद्रुच्चतुराननः || ७३ || प्. २०२) अजेशस्सर्व पेरीशो लांगली दारुकस्तथा | अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ || ७४ || अत्रिर्मीनश्च मेषश्च लोहिताश्च शिखी तथा | चलरण्डो द्विरण्डश्च समहाकालतानिनौ || ७५ || भुजङ्गेशोणिनाकीश खट्भीति च बकः पुनः | श्वेतेभ्र कूलकूली च शिवस्संवर्तकः स्मृतः || ७६ || पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् | लोहालोहावर्तुला तु दीर्घकोणा तथैव च || ७७ || सुदीर्घमुखी गौरी च नवमी दीर्घजिह्विका | कुण्डोदर्यूर्ध्वकेशिन्यौ मुखी विकृतपूर्विका || ७८ || प्. २०३) सज्वालिकीश्रिया विद्या मुख्याः स्युः स्वरशक्तयः | महाकाली सरस्वत्यौ सर्वसिद्धियुतौ तथा || ७९ || गौरीत्र्यैलोक्यविद्या च तथा मन्त्रात्मशक्तिके | भूतं माता विद्यते था लम्बोदरी नागर्ययौ || ८० || खेचरी मञ्जरी चैव विरूपी विरिणी तथा | कोदरी पूतना भद्रा कालीयोगिन्य एव च || ८१ || शंखिनी गर्जनी कालरात्रि कुब्जिन्य एव च | कपर्दिनी तथा भद्राजया च सुमुखेश्वरी || ८२ || रेवती मायवी चैव वारुणी वायवी तथा | रक्षोवधारिणीचान्या तथैव स गया च या || ८३ || प्. २०४) लक्ष्मीश्च व्यापिनी मार्ये माख्या ताण्डवशक्तयः | एताभिः शक्तिभिः सार्धं विन्यसेदक्षरान्क्रमात् || ८४ || अकारं मूर्ध्नि विन्यस्य आकारं मुखवृत्तके | इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके || ८५ || उकारं दक्षिणे कर्णे ऊकारं वामकर्णके | ऋकारं दक्षिणे नासि ॠकारं वामनासिके || ८६ || ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके | एकारं तु तथोर्ध्वोष्ठे ऐकारमधरे ततः || ८७ || ओकारमूर्ध्वदन्तोष्ठे औकारमथदन्तके | अंकारं तालुमूले च अःकारं तालुमध्यतः || ८८ || प्. २०५) एवं विधिक्रमेणैव विन्यसेत्षोडश स्वरान् | कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके || ८९ || टवर्गं दक्षिणे पार्श्वे तवर्गं वामपार्श्वके | पवर्गं पृष्ठदेशे तु हकारं नाभ्यधःस्थितः || ९० || नाभौ मकारं न्यस्योर्ध्वे यकारायादि सप्तकान् | त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्ला * * * * || ९१ || एकारं हृदये न्यस्य लकारं गुददेशतः | क्षकारं गुह्यके न्यस्य न्यासमन्त्र समन्वितः || ९२ || ओं अं श्रीकण्ठाय पूर्णोदर्यै नमः | ओं आं अनन्ताय बिन्दुजायै नमः || प्. २०६) ओं जं सूक्ष्माय शाल्यै नमः || ओं रं त्रिमूर्तये लोलाक्ष्यै नमः || ओं उं अमरेश्वराय वर्तुलायै नमः || ओं ऊं अघीशाय दीर्घकोणायै नमः || ओं रं स्थाणवे दीर्घजिह्विकायै नमः || ओं ऌं हाराय कुण्डोदर्यै नमः || ओं ऋं भारभूतये दीर्घमुख्यै नमः || ओं ॠं अधीशाय गोमुख्यै नमः || ओं एं न्यण्डुशाय ऊर्ध्वकेश्यै नमः || ओं ऐं भौतिकाय विकृतमुख्यै नमः || प्. २०७) ओं ओं सद्योजाताय ज्वालामुख्यै नमः || ओं औं अनुग्रहेशाय उल्कामुख्यै नमः || ओं अं अक्रूराय श्रीमुख्यै नमः || ओं हः महासेनाय विद्यामुख्यै नमः || ओं क्रोधीशाय महाकाल्यै नमः || ओं खं चण्डीशाय सरस्वत्यै नमः || ओं गं पञ्चान्ताय सर्वसिद्धिकार्यै नमः || ओं घं शिवोत्तमाय त्रैलोक्य विद्यायै नमः || ओं ङं एकरुद्राय मन्त्रशक्त्यै नमः || ओं चं कूर्माय शक्त्यै नमः || प्. २०८) उम् एकनेत्राय भूतमात्रे नमः || जम् चतुराननाय लम्बोदर्यै नमः || झम् अजेशाय द्राविण्यै नमः || ञम् सर्वाय नगर्यै नमः || टम् सोमेश्वराय खेचर्यै नमः || ठम् लांगलिने मञ्जर्यै नमः || डम् दारुकाय रूपिण्यै नमः || ढम् अर्धनारीश्वराय वीरिण्यै नमः || णम् उमाकान्ताय काकोदर्यै नमः || तम् आषाढाय पूतन्यै नमः || थम् दण्डिने भद्रकाल्यै नमः || प्. २०९) दम् अत्रये योगिन्यै नमः || धम् मीनाय शंखिन्यै नमः || नम् मेषाय गर्भिण्यै नमः || पम् लोहिताय कालरात्र्यै नमः || फम् शिखिने कुब्जिन्यै नमः || बम् चिकरण्डाय कपर्दिन्यै नमः || भम् द्विरण्डाय वज्रायै नमः || मम् महाकालाय जयायै नमः || यम् त्वगात्मने बलिसंमुखेश्वर्यै नमः || रम् असृगात्मने भुजंगेशाय रेवत्यै नमः || लम् मांसात्मने पिनाकिने माधव्यै नमः || प्. २१०) वम् मेदसात्मने खड्गिने वारुण्यै नमः || शम् शुक्लात्मने बकेश वायव्यै नमः || षम् मज्जात्मने श्वेताय रक्षोवधारिण्यै नमः || सम् शुक्लात्मने भ्रुकुटीशाय सहजायै नमः || ओं ह्रौ हम् प्राणात्मने बकुलिने लक्ष्म्यै नमः || लम् शक्त्यात्मने शिवाय व्यापिन्यै नमः || क्षम् आत्मने संवर्तकाय मायायै नमः || ओं ह्रौं ह्रीं पृथगुच्चार्य ईशानाय मूर्ध्ने नमः || तत्पुरुषाय वक्त्राय अघोराय हृदयाय वा || ९३ || वामदेवन्तु गुह्याय सद्योजातं तु मूर्तये | तारं बीजं च शक्तिं च मन्त्राद्यैकं तमोन्तिकम् || ९४ || प्. २११) ओं ह्रौं ह्रीं ईशानाय मूर्ध्ने नमः || ओं ह्रौ ह्रीं अघोराय हृदयाय नमः || ओं ह्रौं ह्रीं वामदेवाय गुह्याय नमः || ओं ह्रौं ह्रीं सद्योजाताय मूर्तये नमः || हृदयानि षडंगानि विन्यसेन्नन्दिकेश्वर | शान्त्यतीतानि मूर्धादि चरणानि न्यसेत्क्रमात् || ९५ || अष्टत्रिंशत्कलान्यासं विन्यसेन्नन्दिकेश्वर ! | ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः || ९६ || अघोरस्य कलाश्चाष्टौ वामदेव त्रयोदश | अष्टौ सद्यकला ज्ञेया मकुटादि क्रमान्न्यसेत् || ९७ || ईशानश्चेश्वरो ब्रह्म शिवश्चेति सदाशिवः | तत्पुरुषो महादेवो तन्नो रुद्रः प्रचोदयात् || ९८ || प्. २१२) अघोरश्चाथघोरश्च ततो घोरस्तथैव च | ततो घोरतरेभ्यश्च सर्वतः शर्व इत्यपि || ९९ || सर्वेभ्यश्च नमस्तेस्तु रुद्रश्चाष्ट कलाः स्मृताः | वामो ज्येष्ठश्च रुद्रश्च कलविकरणस्तथा || १०० || बलविकरणो बलप्रमथनस्सर्वभूतदमनस्तथा | मनश्च उन्मनश्चैव वामदेवकलाः स्मृताः || १०१ || सद्योजातश्च सद्यश्च भवश्चोद्भव एव च | तथानादिभवश्चैव भवस्कभवदुद्भवः || १०२ || अष्टत्रिंशत्कलाः प्रोक्ताः कलाशक्तिरथोच्यते | शशिनीइ चांगगा चेषा मरीच ज्वालिनी तथा || १०३ || प्. २१३) एताः पञ्चकलाः पञ्चपञ्चमूलोपरि न्यसेत् | निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || १०४ || एवं चतुष्कला शक्तिरीरिताचोर्ध्ववक्त्रके | तमो दोहाक्षया निद्रा धृतिः क्षान्तिः स्मृतिः क्षमा || १०५ || अघोरे चाष्टशक्तिश्च वामदेवे तथोच्यते | रजपक्षापतिः पाल्या कामांस्यंधमनी क्रिया || १०६ || तृष्णा मोहक्षुधा चिन्ता मोहिनी भ्रमणी तथा | वामदेवकलाशक्तिस्त्रयोदश समीरिताः || १०७ || सिद्धिर्द्युतिश्च लक्ष्मी वा मेधा कान्तिःस्वधा प्रजा | सद्यश्चाष्टकलाशक्तिरीरिता नन्दिकेश्वर || १०८ || प्. २१४) ईशानस्य कलाः पञ्च ऊर्ध्वमूर्धादि पञ्चके | ऊर्ध्ववक्त्रे शक्त्यतीतां पूर्वादि पुरुषोद्भवः || १०९ || एवं चतुर्षु वक्त्रेषु विन्यसेच्छक्तिसंयुताः | अघोरहृदये कर्णे सव्ये वामकरे तथा || ११० || नाभौ च जठरे पृष्ठे वाक्षस्यापि तथैव च | वामदेवं च गुह्ये च तथैव वृषणद्वये || १११ || ऊरुद्वये च जान्वोश्च जंघायुग्मे तथैव च | स्फिक्त्वज्ये च कटीदेशे पार्श्वयोर्विन्यसेत्क्रमात् || ११२ || सद्योजातः पदद्वन्द्वे पाणिद्वन्द्वे तथैव च | नासिकायां शिरोदेशे बाहुयुग्मे च विन्यसेत् || ११३ || प्. २१५) ओमीशानस्सर्वविद्यानां शशिन्यै नमः इत्यूर्ध्वशिरसि || ओमीश्वरस्सर्वभूतानां गदायै नमः इति पूर्वशिरसि || ओं ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा इष्टदायै नमः इति दक्षिण शिरसि || ओं शिवो मे अस्तु मरीच्यै नम इत्युत्तर शिरसि || सदाशिवों ज्वालिन्यै नम इति पश्चिम शिरसि || ओं शान्त्यतीताय नम इत्यूर्ध्ववक्त्राय नमः || ओं तत्पुरुषाय विद्महे शान्त्यै नम इति पूर्ववक्त्रे || ओं महादेवाय धीमहि विद्यायै नम इति दक्षिणवक्त्रे || तन्नो रुद्रः प्रतिष्ठायै नमः | इत्युत्तरवक्त्रे || प्रचोदयान्निवृत्त्यै नम इति पश्चिमवक्त्रे || प्. २१६) अघोरेभ्यस्तमां लयै नमः | इति हृदि || अथ घोरेभ्यो मोहायै नमः | कण्ठे || अघोरायै नमः दक्षिणांसे | अघोरतरेभ्यो निद्रायै नमः | वामहंसे || सर्वतस्सर्वधृत्यै नमः नाभौ || सर्वेभ्यः क्षान्त्यै नमः जठरे || नमस्ते अस्तु रुद्रस्य समृतौ नमः पृष्ठे || रूपेभ्यः क्षयायै नमः उरसि || एवमष्टाघोरकलाः || वामदेवायै नमः कलायै नमः गुह्ये || च ज्येष्ठाय नमो यक्षाय नमो लिंगे || रुद्राय नमो रत्यै नमो दक्षिणोरौ || कालाय नमः पाल्यायै नमो नमः | वामोरौ || कल विकरणाय विकरणायै नमः || प्. २१७) संयमिन्यै नमः वामजानुनी || बलक्रियायै नमः दक्षिणजंघायाम् || विकरणाय नमः स्त्रणायै कामायै नमः वामजंघायाम् || बलमोहनायै नमः दक्षिणस्फिचि || प्रमथनायै नमः क्षुधायै नमः वामस्फिचि || सर्वभूतदमनाय नमः दक्षिणजानुनि || चितायै नमः कट्याम् || मोहिन्यै नमः दक्षिणपार्श्वे उन्मत्तायै नमः भ्रामिण्यै नमः वामपार्श्वे || वामदेवकलास्त्रयोदश || सद्योजातः प्रपद्यामि सिद्ध्यै नमः दक्षिणपादे || सद्योजाताय नमः ऋद्ध्यै नमः वामपादे || प्. २१८) भवेद्युतये नमः दक्षिणपाणौ || अभवे अलक्ष्म्यै नमः वामपाणौ || अनादिभवे नमः मेधायै नमः नासिकायाम् || भजस्व मां कान्त्यै नमः ललाटे || भवस्वधायै नमः दक्षिणबाहौ || उद्भवाय प्रजायै नमः वामबाहौ || इति सद्योजातकलाः अष्टौ || पञ्चब्रह्मषडंगैश्च कलान्यासं समाचरेत् | केवलं बीजमन्त्रैश्च देववक्त्रादिरंगकैः || ११४ || नेत्रेषु देवस्योरसि मूलेन व्यापकं न्यसेत् | इति न्यासविधिः || अन्तर्यागं ततः कुर्याद् ध्यानपूजापुरस्सरम् || ११५ || प्. २१९) भावनाद्यैश्च पुष्पाद्यैर्हृदम्भोजे शिवं यजेत् | तन्नाभिकन्दात्संभूतं दलाष्टक समन्वितम् || ११६ || कर्णिकाकेसरैर्युक्तं सुषुम्नापार्श्व संस्थितम् | आधारशक्तिमारभ्य क्षित्यन्तं चासनं भवेत् || ११७ || शिवासनं च मूर्तिं च विन्यसेन्नन्दिकेश्वर | आवाहनादिबल्यन्तं मन्त्राणां तर्पणं तथा || ११८ || भावद्रव्यैरहंसाद्यैर्गन्धगत्या सुपूजयेत् | सदाशिवस्वरूपे तु भक्तियुक्तो विशेषतः || ११९ || पिंगलानाडिद्वारेण नाभिकुण्डे स्वकोदितम् | शिवाग्निं पूजयेत्तत्र बलिं याजनवत्क्रमात् || १२० || प्. २२०) इडया पूरकाकृष्य सुधया च शिवाणुभिः | द्वादशान्तामृतेनैव कर्तव्यं नन्दिकेश्वर || १२१ || शरदिन्दु प्रतीकाशं बिन्दुरूपं महेश्वरम् | ललाटदेशमध्यस्थं विमलं चिन्तयेत्सदा || १२२ || आत्मशुद्धिक्रमश्चोक्तः स्थानशुद्धिं शृणुष्वह | प्रोक्षयेदस्त्रमन्त्रेण सामान्यार्घ्यजलेन च || १२३ || मूलं नेत्रत्रयं न्यस्य दिव्यदृष्ट्या वलोकयेत् | पात्रशुद्धिस्ततस्तत्र तत्तद्द्रव्यं च शोधयेत् || १२४ || सौवर्णं रजतं ताम्रं केवलाक्षरशंखकम् | पलाशपद्मपत्रोत्थं दारवं मृत्तिकामयम् || १२५ || प्. २२१) अन्यद्वा यन्त्रिकादिस्थं परमुक्तं शिवार्चने | प्रक्षाल्यास्त्राम्बुना पश्चाच्चर्मणाधोमुखं कुरु || १२६ || विजृम्भणं च नेत्रं च हृदयेन तु शोधयेत् | बिन्दुप्रसृतपीयूषरूपतोयेन पूरयेत् || १२७ || उशीरं चन्दनं पाद्ये पश्चादाचमनीयकम् | एलालवंगतक्कोलजातिकर्पूरसंयुतम् || १२८ || पूगरेणुकसप्तैते वेद्यमाचमनीयकम् | धूपक्षीरकुशाग्राणि पुष्पदूर्वाक्षतानि च || १२९ || तिलसिद्धार्थकं चैव मध्यमष्टांगमुत्तमम् | शुद्धगन्धेन तोयेन हृदयेन च पूरयेत् || १३० || प्. २२२) सामान्यार्घ्यं यथा युक्तं स्नापनं गन्धवारिणा | चन्दनागरुकर्पूरकोष्ठकुंकुम पत्रकम् || १३१ || उशीरं च जलं चैवमष्टगन्धं शिवार्चने | षडंगेन हृदा पूर्य पूरयित्वाऽभिमन्त्रयेत् || १३२ || रक्षां विधायशस्त्रेण वर्मणाचावगुण्ठयेत् | पुष्पं च निक्षिपेत्पात्रे शोधयेद्धेनुमुद्रया || १३३ || श्वेतार्कतुलसीं चैव निगुण्डी भद्रकासुमम् | दूर्वाम्रबिल्व जम्बूकमुनिपत्रकपित्थजम् || १३४ || मातुलुंगं च वकुलं कर्णिकारामहीवतीम् | सप्तच्छदं प्रियंगुं च लवंगं नागकेसरम् || १३५ || प्. २२३) अंकोलं भुजपत्रं च कदम्बं बकपुष्पकम् | किरञ्चारण्डकं गुञ्जा दीर्घवृत्तं च चम्पकम् || १३६ || पुन्नागो देवदारुश्च बिल्वो धूर्धूर एव च | तमालश्चाग्निमन्थश्च पाटलो वरुका तथा || १३७ || ब्रह्मकी च परिक्रूर सभातेमाकुली तथा | भृंगराजश्च क्रीणीहिदानवं सुमुखी तथा || १३८ || सुगन्धि मुण्डिसूर्या च पादपर्णी तथैव च | देवताली च मल्ली च कंकिरातं तथैव च || १३९ || या साचिकरवीरं च नन्द्यावर्तं तथैव च | ह्रीबेरं ग्रन्थिपर्णी च महापद्मं तथैव च || १४० || प्. २२४) पद्मं च मालती चैव कल्हारं द्रोणपुष्पकम् | व्याघ्रात पुष्पमेतेषां सुपत्रैः पुष्पकैरपि || १४१ || नन्द्यावर्त्त्योदये चैव मध्याह्ने करवीरकम् | सायं च मल्लिका प्रोक्ता निशीथेऽपि च मालती || १४२ || यत्कालोचित पुष्पाणि तत्काले तैश्च पूजयेत् | मुकुलं पतितं शीर्णमाघ्रातं जन्तु दूषितम् || १४३ || अंगसंस्पृष्टकं वापि पर्यूषितं न पूजयेत् | सर्वेषां पद्मपुष्पाणां नीलोत्पलमिदं परम् || १४४ || सहस्रनीलोत्पलतो भक्तिरत्यन्तमुत्तमा | भक्तिः श्रद्धाभियुक्ता चेत्तस्मादभ्यधिकं फलम् || १४५ || प्. २२५) भक्तिश्रद्धासुविश्वासैरेतैर्युक्तस्समो भवेत् | एकचित्तस्सुसंयुक्तो निन्दितैश्चापि पूजयेत् || १४६ || सद्यः पूजनमेवं हि भवेत्तत्त्रितयं परम् | पुष्पाभावेऽपि पत्रं स्यात्पत्राभावे फलं भवेत् || १४७ || फलाभावे तण्डुलाद्यै स्त्रितयैरपि पूजयेत् | पूजोपकारपुष्पादि निषिञ्चेदर्घ्यवारिणा || १४८ || अस्त्रदृष्टेन जप्तेन दिव्यदृष्ट्या वलोकयेत् | द्रव्यशुद्धिरियं प्रोक्ता मन्त्रशुद्धिरथोच्यते || १४९ || प्रणवं पूर्वमुच्चार्य बिन्दुनादं ततः परम् | सर्वमन्त्रं च तन्मध्ये नमस्कारान्तमुच्चरेत् || १५० || प्. २२६) तदन्ते च कलायुक्ता मन्त्रशुद्धिरितीरिता | दिवा पूजां च गृह्णाति सूर्यस्सोमस्तथा निशि || १५१ || सन्ध्यायाः पूजनं चादौ गृह्णाति च पुनः पुनः | चन्द्रार्कनाशनं लब्ध्वा गुरुवक्त्रेण पूजयेत् || १५२ || आत्मानं चैव पुष्पेण पूजयेदर्घ्यवारिणा | पञ्चगव्यं च संकल्प्य स्नपनार्थं विशेषतः || १५३ || लिंगस्य पूर्वभागे वा ईशाने वापि कल्पयेत् | गोमयेनोपलिप्याथ मण्डलं चतुरश्रकम् || १५४ || द्विहस्तं हस्तमात्रं वा स्थण्डिलं दर्भसंयुतम् | पञ्चकोष्ठं प्रकल्प्येत मध्ये शिवपदं यजेत् || १५५ || प्. २२७) पूर्व सदाशिवं पूज्य विद्यातत्वं च दक्षिणे | उत्तरे पुरुषं तत्वं पश्चिमे कालतत्वकम् || १५६ || एवं क्रमेण संपूज्य तेषु पात्राणि विन्यसेत् | ओं हां शिवतत्वाय नमः || ओं हां सदाशिवतत्वाय नमः || ओं हां विद्यातत्वाय नमः || ओं हां कालतत्वाय नमः || सुप्रतिष्ठं च शान्तं च तेजोरूपं यथा तथा || १५९ || रक्षोदयामृतं रूपं पञ्चैतानि प्रपूजयेत् | मध्येक्षीर कुडुम्बं पूर्व प्रस्थास्य दध्युतः || १५८ || घृतं दक्षिणके चैककुडुम्बेन समन्वितम् | उत्तरे प्रस्थगोमूत्रं गोमयं गोकुलाहृतम् || १५९ || प्. २२८) पश्चिमे जलसंयुक्तं पञ्चपादं भवेत्तदा | कुशोदकं चैशदेशे पूरयेच्छुद्धवारिणा || १६० || षट्त्रिंशद्दर्भ संयुक्तमथवा पञ्चविंशतिः | द्वादशं पञ्चकं वापि त्रिभिर्वा संप्रकल्पयेत् || १६१ || कूर्चं प्रदक्षिणं तत्र भस्ममात्रं च दीर्घकम् | ग्रन्थेरुपरि चाग्राणि चतुरंगुलमेव च || १६२ || कालमात्रेण वा कूर्चं कुशाय च कुशोदकम् | ईशानं क्षीरपात्रे तु वारमात्रं जपेत्क्रमात् || १६३ || द्विवारं पुरुषं पूर्वं पूजयेन्नन्दिकेश्वर | त्रिवारं घोरमन्त्रेण घृतपात्रं तु दक्षिणे || १६४ || प्. २२९) उत्तरे वामदेवेन चतुर्वारं भवेत्ततः | सद्यः पश्चिमभागे च विन्यसेत्पञ्चवारकम् || १६५ || कुशोदकं षढृदयमन्त्रेणैव तु मन्त्रयेत् | मध्य पात्रे तु दध्यादीन्मूलमन्त्रेण योजयेत् || १६६ || पञ्चगव्यमिदं प्रोक्तं पञ्चामृतमथोच्यते | पञ्चगव्यं च पुरतः पूर्ववत्स्थण्डिलं भवेत् || १६७ || क्षीरं मध्ये दधि पूर्वे दक्षिणे घृतमेव च | उत्तरे मधु संयोज्य शर्करा पश्चिमे भवेत् || १६८ || अध्योदक प्रदानं च मन्त्रन्यासादि पूर्ववत् | पञ्चामृतमिदं प्रोक्तं शिवस्य स्नपनं भवेत् || १६९ || प्. २३०) पावके नैर्-ऋते वापि सुखासनः शिवं यजेत् | संमुखीकृत्य देवेशं पूजने चोपचारकम् || १७० || पूजासंभारमखिलं हृदयेनाभिमन्त्रितम् | कवचे नावगुण्ठ्यैव धेनुमुद्रां प्रदर्शयेत् || १७१ || कुसुमं चासने दत्वा तस्मिन्नीराजनं | * * * पे च यागे च भोजने पूजने तथा || १७२ || याने चोद्धूलने चैव सन्ध्यावन्दनकेऽपि च | आवश्य बन्धनैर्वस्त्रैः सदावाचंयमो भवेत् || १७३ || आत्मार्थं च विशेषेण प्रस्थारादींश्च कारयेत् | तारयित्वा महाघण्टान्निरासायश्च लक्षणम् || १७४ || प्. २३१) पूर्वकालेन सहितां पूजां चैव विशेषतः | गायत्र्या लिंगमभ्यर्च्य पञ्चब्रह्मभिरर्चयेत् || १७५ || तेन सद्यादिनाबाह्य निर्माल्यं लिंगतः क्षिपेत् | कनिष्ठानामिकाभ्यां तु पुष्पं संगृह्य संयुतः || १७६ || निर्माल्यक्षेपणे काले पुष्पं तन्मूर्ध्नि विन्यसेत् | कदाचित्पुष्पशून्यं तु न कुर्याल्लिंगमूर्धनि || १७७ || ऐशं चण्डाय निर्माल्यं हृदयेन निवेदयेत् | अस्त्रेण पिण्डितालिंगं प्रक्षाल्य च मुहुर्मुहुः || १७८ || योगिनस्तु विशेषेण नवधारं विचिन्तयेत् | सकलीकरणं पश्चात् कनिष्ठाद्यं गुलान्तकम् || १७९ || प्. २३२) हृदादिमन्त्रविन्यासकरणं भजते सुधीः | कूर्ममुद्रां परित्यज्य महामुद्रां प्रकल्पयेत् || १८० || मूलेन व्यापकं कुर्यात् करयोरुभयोरपि | कोटिकोटि शिवस्यास्त्रं रक्षार्थं विघ्नवारणम् || १८१ || क्षिपेदाशासु काष्ठासु तालत्रय पुरस्सरम् | प्राकारं कवचेनैव परिघावेष्टितं बहिः || १८२ || ऊर्ध्वाधश्शक्तिजालेन सर्वत्रैव तु भावयेत् | दर्शयेत्तु महामुद्रां मस्तकाच्चरणावधि || १८३ || प्राणायामत्रयं कृत्वा प्रणवेन समन्वितम् | वामेन षोडशं मात्रां अकारेण तु पूरयेत् || १८४ || प्. २३३) उकारेण चतुष्षष्टिमात्रकं कुम्भयेत्ततः | द्वात्रिंशन्मात्रयारेच्यं मकारेण विशेषतः || १८५ || कनिष्ठांगुष्ठपूर्वं तु संहारं सद्यपूर्वकम् | नेत्रहस्ततले न्यस्य तर्जन्या चास्त्रकं भवेत् || १८६ || पादादिमूर्धपर्यन्तं यदिना न्यास उच्यते | अंगुष्ठादि कनिष्ठान्तमैशान्यादिश्च सृष्टिकम् || १८७ || मध्यमानामिके चैव कनिष्ठा जैर्पिका तथा | न तु त्रयं शिखां चैव शिरोहृदयादिना क्रमात् || १८८ || निवृत्त्यादिकलाः पञ्च क्रमेणैव तु विन्यसेत् | ईशानं मूर्ध्नि विन्यस्य * * * * * * * * || १८९ || प्. २३४) एवं पद्मं सुसंचिन्त्य तस्मिन्संपूजयेत् क्रमात् | परात्परतरं पश्चात् परात्परमनन्तरम् || १९० || एवं प्रकारं स्वगुरुं चिन्तयेत्पद्ममध्यमे | ज्ञानयोग विहीनश्चेद् दीपाकारं विचिन्तयेत् || १९१ || हृत्पद्मकर्णिका मध्ये सूर्यसोमाग्निशक्तिवत् | एवं बिम्बचतुष्काणां ऊर्ध्वे संहार मुद्रया || १९२ || (देह * * * * * * * * * * * * * * ओं हां हं हां समुच्चार्य चात्मने नम इत्यपि | ओं हां हं हां आत्मने नमः || तस्योपरि च शक्तिं च व * * * * * * * * * * * * * त्मानं पाणि कश्छपमुद्रया || १९३ || प्. २३५) अथापि द्वादशान्तेन विधायान्यत्र शोधयेत् | पृथिव्यादीनि भूतानि म * * * * * * * * * * * * * * * कलिनं वज्रलांछितम् || १९३ || लकार बीजसंयुक्तमिन्द्रबीजस्य दैवतम् | हृद्वं सद्यमन्त्रस्य निवृत्तिकलया * * * || * * * * * * * * * * * तथैव च || १९४ || ब्रह्मास्यान्मण्डलेशः स्यात्यादजान्वन्तरं स्मरन् | ओंकारं पूर्वमुच्चार्य * * * * * * * * || हांकारं पञ्च * * * * * श्श्छेदकं भवेत् || १९५ || ओं ह्लां ह्लां ह्लां ह्लां ह्लां हुं फट् || एवं भूमण्डलं चिन्त्य वारुणं मण्डलं तथा || १९६ || प्. २३६) * * * * * * * * * * * * * * सितम् | द्रवरूपं वकाराढ्यं वारुणं बीजदैवतम् | पद्मद्वितीयसंयुक्तं शिरोधाम समन्वितम् || १९७ || मण्डलाधि पतिर्विष्णुः प्रतिष्ठा कलयान्वितः | आप्यमेवं सुसंचिन्त्य प्रणवं पूर्वमुच्चरन् || १९८ || ह्रींकार * * * * * * * * * * * * * दर्शं च रूपं च गुणत्रयसमन्वितम् | रुद्राधिदैवतं बिम्बं चिन्तयेन्नन्दिकेश्वर || १९९ || गलाद्भूदेशपर्यन्तं बिन्दुषट्के | युंकार संयुतम् || बीजाधि दैवतं वायुः शान्त्या च कलयान्वितम् || २०० || कवचं पुरुष संयुक्तं शब्दस्व | प्. २३७) महेशस्तत्र कीर्तितः | औंकारमादौ संजप्य हैं हुं फट् कककास्तथा || २०१ || ओं ह्यैं ह्यैं हुं फट् कृतं | ए * * * * * * परम् | भ्रूदेशाद्ब्रह्मरन्ध्रान्तं शुद्धस्फटिकसन्निभम् || २०२ || संवृत्तलाञ्छनं बिन्दुबीजं हुंकारमेव च | शब्द जम देवस्सदाशिव इतीरितः || २०३ || अस्त्रं चैशानमन्त्रं च ओं जं हुं फट् ततः पुनः | एतेषां * * * * * * * * * * * स्तधा | सदाशिवोपरिगतो बिन्दुनाथस्ततोपरि || २०४ || नादो परिस्थिता शक्तिश्शक्तिमध्ये परः शिवः | शिवो ब्रह्म परन्धाम परमात्मा सनातनः || २०५ || प्. २३८) तत्वं सूक्ष्मं परेशानं शक्तिस्थान निरञ्जनम् | अव्यक्तं व्यक्ताव्यक्तं वाच्यावाच्यमनौपमम् || २०६ || तस्माद्योगेन मनसा निध्यायेदीश्वरः परः | गुरुप्रसादमार्गेण सर्वं सिध्यति सर्वदा || २०७ || तस्मात्सर्वार्थ सिद्ध्यर्थं गुरुवन्दनमुत्तमम् | अथ मारुतरन्ध्रेण पृथिवीं शोषयेत्ततः || २०८ || पृथिवीमन्त्रकेणैव गुणवर्णादिकं पुनः | ब्रह्मणे निखिलं दद्याद्विष्णवे वारिमण्डलम् || २०९ || वह्निना शोध्य तद्बिम्बं वह्ने बिम्बगुणादिकम् | रुद्राय दद्यात्तत्सर्वं वह्निं तोयेन शोधयेत् || २१० || प्. २३९) वायुं बिम्बगुणादींस्तु चेश्वराय निवेदयेत् | पृथिव्यां वायुं संशोध्य व्योमशब्दगुणादिकम् || २११ || सदाशिवाय तद्दद्याद् दिव्यभावेन शोधयेत् | अथवा स्वशरीरं च वटवृक्षादिकं स्मरन् || २१२ || ऊर्ध्वमूलमधश्शाखं शोषणादि च पूर्ववत् | पादांगुष्ठद्वयोर्मध्ये विचिन्त्यसुषिरं तनौ || २१३ || व्यापिनं चिन्तयेच्छक्तिं सुषिरान्तर्बहिः क्रमात् | ह्यैंकारशान्तियुक्तेन कुम्भकेनाथ शोधयेत् || २१४ || ह्यैः ह्यैः शान्तिकलायैव हुंफड्मन्त्रं भवेत्ततः | ह्रांकारेणाग्निबीजेन सुषिरं चिन्तयेत्पुनः || २१५ || प्. २४०) विद्यया कलया युक्तं ज्वलत्कालानलोपमम् | ओं ह्रूं ह्रूं ह्रूं विद्याकलायै नमः | हुं फट् ततश्च काख्येन तत्सर्वं हृदि भावयेत् || २१६ || वायुनापि प्रतिध्यायेत्तत्सर्वं क्षीरसागरे | रेचकाख्येन कर्तव्यं नभोरूपमतीतया || २१७ || ओं हां शान्त्यतीतकलायै नमः | हुं फट् कृतः | एकोच्चारेण कर्तव्यं नभोरूपं तु धारणात् || २१८ || शुद्धस्फटिकसंकाशं चिन्तयेन्नन्दिकेश्वर | शिरोह्यनन्त पद्माद्यैः सौरीं धारां विचिन्तयेत् || २१९ || तस्मिन्मन्त्रं समुच्चार्य ओं हौं च शक्तये वौषट् | ब्रह्मरन्ध्र शान्त्यतीतकलावधिः || २२० || प्. २४१) एकोच्चारेण कर्तव्यं ततः शान्तिकलावधि | सामान्यार्घ्य जलेनैव स्नापयेल्लिंग शुद्धये || २२१ || लिंगशुद्धिः क्रमादुक्ता पञ्चशुद्धिरिहोच्यते | इत्थमात्माश्रयं द्रव्यं मन्त्रलिंगं विशुद्धिषु || २२२ || कृतासु पूजनं कार्यं देवस्य वचनं यथा ताम्रपीठे च नैर्-ऋत्यां पूजयेत्तु गजाननम् || २२३ || ऐशान्यां गुरुपंक्तिं च पूजयेन्नन्दिकेश्वर | आवाहनादिकं सर्वं स्वस्वमन्त्रेण कारयेत् || २२४ || दक्षिणे दक्षिणामूर्तिमुत्तरे तु नटेश्वरम् | ब्राह्मे विरिञ्च वारुण्यां आग्नेययां महिषान्तकीम् || २२५ || प्. २४२) वायव्यां दिशि गांगेयं पूजयेच्च समाहितः | प्रणवं पूर्वमुच्चार्य ह्रीं गणपतये नमः || २२६ || समस्तमन्त्र संसृष्टिस्थिति संहृतिकारणम् | समस्ताधारमाधेयं गुरुमन्त्रं महाद्भुतम् || २२७ || हुंकारबीजसंयुक्तं आं हां गुं गुरुभ्यो नमः | ओं हां हीं समुच्चार्य दक्षिणामूर्तये नमः || २२८ || ओं हां महेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् || ओं हां महेश्वराय नमः | ओं हां ब्रह्मेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् || २२९ || ओं हां ह्रीं ब्रह्मेश्वराय नमः | ओं हां हुंकारमुच्चार्य दुर्गायै च नमोन्तकम् | ओं हां हुं दुर्गायै नमः | प्. २४३) ओं हां स्कन्दाय संभाष्य नमस्कारान्तमीरितम् || २३० || ओं हां स्कन्दाय नमः || इति षमणीये पूजार्णवे शिवकाण्डे अन्तर्यागादि विधिरेकोन त्रिंशत् पटलः || आसनं च विशेषेण पूजयेन्नन्दिकेश्वर | पूर्वं कूर्मशिवं ध्यात्वा मूलप्रकृति विग्रहम् || १ || अणोरप्यणुरूपं च महतोऽपि महीयसम् | सोमसूर्याग्नि तेजोऽयं यद्यत्तत्तन्मयो विभुः || २ || सितरक्तादिभिर्वर्णैः न ध्यातव्यं कदाचन | न व्यवस्था विशेषेण न भूतेषु गुणेषु च || ३ || प्. २४४) अन्तर्बहिश्च तत्सर्वं व्याप्य सर्वत्र संस्थितम् | स्वसंवेद्यस्वरूपां तां दर्शनीयां गुरोर्मुखात् || ४ || पुंनपुंसकयोस्तुल्या विनीत्मा विशिष्यते | प्रधान कूर्ममित्युक्तं शक्तिः पर्यायवाचकम् || ५ || तां शिलां वृत्तरूपां च सुगन्धाद्यैः समर्चयेत् | प्रथमं तारमुच्चार्य हां कूर्माय नमोऽन्तकम् || ६ || ओं हां कूर्माय नमः || कूर्मासनो परिस्थितां शक्तिमाधाररूपिणीम् | कूर्मकुन्दप्ररोहाभां नादरूपोज्वलाकृतिम् || ७ || ओं हां आदौ वदेत्पश्चादाधारशक्तये नमः | शरदिन्दु प्रतीकाशं मृणालसदृश प्रभम् || ८ || प्. २४५) एवं ब्रह्मशिलारूपमनन्ताख्यासनान्वितम् | ओं हां स्कन्दाय च प्रोक्तो नमस्कारमतः परम् || ९ || ओं हां स्कन्दाय नमः || ओं हां नालाय नमः | ओं हां मुकुलाय नमः || नालं च मुकुलं चैव नाममन्त्रेण पूजयेत् | बिम्बप्रवालवर्णाभमंकुरं रजत प्रभम् || १० || वैडूर्य सदृशं नालं कन्दाख्यं रक्तपिंगलम् | शंखवर्णा दलाग्राश्च रक्ताश्चोपदलाः स्मृताः || ११ || किंचिल्लोहित पीतानि मध्ये स्युः केसराणि तु | तन्मध्ये कलयेद्धीमान्कर्णिकां कनकप्रभाम् || १२ || प्. २४६) नवबीजानि तन्मध्ये हेमाभानि प्रकल्पयेत् | अनन्ताख्यासनं वक्ष्ये समाहितमनाः शृणु || १३ || धर्मयुक्तो वृषाकारो ज्ञानस्सिंहस्वरूपकः | वैराग्यं पीतभूतं स्यादारोग्यं श्वेतकुञ्जरः || १४ || अनन्तासनपादानि पार्श्वयष्टिमथो शृणु | अधर्माज्ञानावैराग्यमनैश्वर्यं च कल्पयेत् || १५ || राजावर्तनिभास्सर्वे प्रागादिषु च कल्पयेत् | प्रथमं नागराजानमनन्तं वासुकिं तथा || १६ || तक्षकं चाथ कार्कोटं पद्माख्यं च ततः परम् | महापद्मं शंखपालं गुलिकं नवमं स्मृतम् || १७ || प्. २४७) विद्येश्वराणामष्टानां प्रत्येकं रूपमास्थिताः | फणपञ्च त्रयं चैकं पुच्छादारभ्य नागवत् || १८ || पुरुषाकार संयुक्तमुदरे परिशोभितः | सुमुखं कुण्डलोपेतं सर्वाभरणभूषितम् || १९ || फणतत्परभागेऽपि द्विबाहुं क्षौमवस्त्रकम् | वरदाभयदं हस्तं सुवृत्तिं तद्वरं ततः || २० || गुलिकाद्यानन्तादीन् परितो दिक्षु कल्पयेत् | एकैकफणसंयुक्तं कृताञ्जलिपुटान्वितम् || २१ || प्रधानमीक्ष्य सर्वे ते नागाधिपमनूपमम् | ओं हां पूर्वं समुच्चार्य नाममन्त्रेण पूजयेत् || २२ || प्. २४८) ओं हां नागराजाय नमः || ओं हां अनन्ताय नमः | इत्यादि || फुल्लाष्टदलकं कृत्वा देवानन्तपंकजम् | नागाधिप शिरोदेशे कल्पयेन्नन्दिकेश्वर || २३ || अनन्तासनमित्युक्तं योगासनमतः परम् | अव्यक्तो नियतिःकालः कला चेति चतुष्टयम् || २४ || महादिक्षु न्यसेद्वृत्तं मध्यपादस्तु केशवः | अव्यक्तः सर्वनैजाभो यतिः कालाञ्जनद्युतिः || २५ || कालो डाडिमपुष्पाभः कला भिन्नाञ्जनप्रभा | ओं हां चैवं समुच्चार्य स्वस्वनाम्नैव पूजयेत् || २६ || मध्ये तु केशवं पूज्य नीलजीमूतसन्निभम् | चतुर्बाहुं त्रिणेत्रं च शंखचक्राभयान्वितम् || २७ || प्. २४९) वरदं दक्षहस्तेन सर्वाभरणभूषितम् | ऊर्ध्वाधोमुखपद्मं च कल्पयेत्तस्य मूर्धनि || २८ || ओं हां पूर्वं समुच्चार्य अधश्छदहृदयाय नमः | ऊर्ध्वेऽप्येवं समुच्चार्य नमोऽन्तं योगपीठके || २९ || ओं हां ऊर्ध्वश्छतीनाय नमः | ओं हां योगपीठाय नमः | योगासनमिदं प्रोक्तमष्टकोणयुतं परम् || ३० || सिंहासनमथो वक्ष्ये शृणुत्वं नन्दिकेश्वर ! | ऊर्ध्वच्छदं तु संपूज्य दशबीजं न्यसेत्क्रमात् || ३१ || ओंकारं प्रथमं बीजं आकारं च द्वितीयकम् | ईकारं च तृतीयं स्यादूकारं च चतुर्थकम् || ३२ || प्. २५०) व्योकारं पञ्चमं प्रोक्तं व्यांकारं षष्ठमेव च | व्यापिं च सप्तमं प्रोक्तं अक्षरद्वय संयुतम् || ३३ || नैकारमष्टमं प्रोक्तं होकारं प्रतिबीजकम् | दशबीजमिदं प्रोक्तं पूर्वादीशान्तकं न्यसेत् || ३४ || ओं हां ओं नमः || ओं हां आं नमः || ओं हां ईं नमः || ओं हां ऊं नमः || ओं हां व्यों नमः || ओं हां व्यां नमः || ओं हां व्यापिन्नमः || ओं हां नें नमः || ओं हां ओं नमः | कृतत्रेतादिरूपेण सिंहरूपेण पादकान् | कोटिकोटिकसंघैश्च प्रत्येकं परिवारितम् || ३५ || प्. २५१) कन्दकाश्मीरमुक्ताभ भृंगाभास्वरवर्णकैः | दंष्ट्राकरालवदनैः त्रिणेत्रैर्भीमरूपिभिः || ३६ || कृतयुगादिनाम्ना तु नमोऽन्तं पूजयेत्क्रमात् | ओं हां कृतयुगाय नमः इत्यादि | चतुरश्रं च सिंहाख्यं पद्मासनमतः परम् || ३७ || पूर्वं नालोत्थितं पद्ममष्टपत्रं स केसरम् | श्वेतं प्राप्तस्सुवर्णाभं चतुष्षष्टिककेसरम् || ३८ || पञ्चाशद्बीज संयुक्तं नवशक्ति समन्वितम् | वामा ज्येष्ठा च रौद्री च काली कलविकरिणी तथा || ३९ || तथा बलविकरिणी चेति बलप्रमथिनी तथा | सर्वभूतदमनी चैव मनोन्मन्यन्तशक्तयः || ४० || प्. २५२) कोट्यादित्य समास्सर्वाः जटाखण्डेन्दु ताडिताः | चतुर्भुजास्त्रिणेत्राश्च घृतचामरहस्तकाः || ४१ || वरदाभय हस्ताश्च शिवासक्त कराम्बुजाः | पूर्वादीशान पत्रान्तं केसराग्रेषु विन्यसेत् || ४२ || शंखकुन्देन्दुधवलां कर्णिकायां मनोन्मनीम् | ओं हां पूर्वं समुच्चार्य नमोऽन्तं स्वस्वनामभिः || ४३ || ओं हां वामायै नमः | ओं हां ज्येष्ठायै नमः | ओं हां रौद्र्यै नमः | ओं हां काल्यै नमः || ओं हां कलविकरिण्यै नमः | ओं हां बलविकरिण्यै नमः | ओं हां बल प्रमथिन्यै नमः | ओं हां सर्वभूतदमन्यै नमः | ओं हां मनोन्मन्यै नमः | इति कर्णिकायाम् | प्. २५३) मण्डलत्रयमप्यासामूर्ध्वोर्ध्वे कल्पयेत्क्रमात् | कोट्यादित्यप्रतीकाशं शिवसूर्यस्य मण्डलम् || ४४ || आदित्यं चैव ब्रह्माणमात्म तत्वस्वरूपिणम् | पञ्चवक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् || ४५ || तप्तकार्तस्वराभासं सर्वाभरणभूषितम् | नमो रुद्रान्वितं देवं सृष्टिकारणकारणम् || ४६ || ओं हां पूर्वं समुच्चार्य सूर्यमण्डलाय नमः | मण्डलान्तं पुनश्चोक्त्वा त्वधिपतये ब्रह्मणे नमः || ४७ || सूर्यमण्डलाय नमः | ओं हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः | एवं क्रमेण विष्णुं च सोममण्डलनायकम् | प्. २५४) तथैव वह्निबीजं च रुद्रं तत्रैव मन्त्रयुक् || ४८ || ब्रह्माणं चोर्ध्वमौलौ च चन्द्रबिम्बं सुभावयेत् | कोटिचन्द्रद्युतीयुक्तं कोटिचन्द्रसुशीतलम् || ४९ || ओं हां सूर्यमण्डलाय नमः | तन्मध्ये चादिविष्णुं च नीलजीमूत सन्निभम् | भस्मोद्धूलितसर्वांगं सर्वाभरणभूषितम् || ५० || एकवक्त्रं द्विनेत्रं च कर्णकुण्डलभूषितम् | चतुर्भुजं शंखचक्रं नमस्कार समन्वितम् || ५१ || पीताम्बरधरं विष्णुं स्थितिकारणकारणम् | किरीट मकुटोपेतं विद्यातत्व स्वरूपिणम् || ५२ || प्. २५७) ओं हां सोममण्डलाधिपतये विष्णवे नमः | आग्नेय लन्तस्य विष्णोर्मूर्ध्नि सुविन्यसेत् || ५३ || अनन्ताग्निसमप्रख्यं शैवाग्निं तत्र कल्पयेत् | ओं हां अग्निमण्डलाय नमः | रुद्रं माणिक्यवर्णाभं एकास्यं च त्रिलोचनम् || ५४ || चतुर्भुजं जटाजूड्मिन्दुरेखा प्रसूनकम् | भस्मोद्धूलित सर्वांगं त्रिपुण्ट्रेण विराजितम् || ५५ || उमारुद्रान्वितं देवं लयकारणकारणम् | ओं हां वह्निमण्डलाधिपतये रुद्राय नमः | तत्वत्रयाधि पाश्चैव सर्वविद्यासमन्विताः || ५६ || प्. २५८) सर्वाभरणसंयुक्ताः प्रत्येकं भारयेत्क्रमात् | विमलासनमेवोक्तं बिम्बत्रयसमन्वितम् || ५७ || चिच्छक्तिमण्डलं पश्चात्सर्वतेजोमयं परम् | दलैः सहस्रैः संकीर्णं इन्दुगोक्षीरसन्निभम् || ५८ || गौरीगायत्रिसंयुक्तमिच्छा ज्ञानक्रियात्मकम् | क्षित्यादिशुद्धविद्यान्तं तत्वव्यापकमानसम् || ५९ || ओं हां शक्तिमण्डलाय शिवासनाय नमः | ओं हां इच्छाशक्तये नमः | ओं हां क्रियाश्क्तये नमः | ओं हां ज्ञानशक्तये नमः | ओं हां अम्बिकाय विद्महे महातपाय धीमहि | तन्नो गौरी प्रचोदयात् || प्. २५९) उत्तरादि चतुर्दिक्षु गौरी गायत्रिमन्त्रयुक् | आत्मत्रयं च संपूज्य प्रणवाकार मध्यमे || ६० || प्रसाद बीजतन्मध्ये शिवासनमिदं परम् | तन्मध्ये देवदेवेशं परमेशं तु भावयेत् || ६१ || सदाशिव स्वरूपेण शुद्धस्फटिक सन्निभम् | पञ्चवक्त्रयुतं तेषु प्रतिवक्त्रं त्रिलोचनम् || ६२ || जटामकुटसंयुक्तं दशदोर्भिस्समन्वितम् | शूलं परशुखड्गं च वज्राभये च दक्षिणे || ६३ || पाशनागांकुशं चैव घण्टां वह्निं च वामके | सर्वावयसंपूर्णं दिव्याम्बरधरं शुभम् || ६४ || प्. २६०) दिव्यगन्धानुलिप्तांगं दिव्यपुष्पैरलंकृतम् | सर्वाभरणसंयुक्तमर्धेन्दुकृतशेखरम् || ६५ || द्वात्रिंशल्लक्षणोपेतं युवानं पुष्करस्रजम् | प्रसन्नवदनोपेतं प्रशान्तं सर्वकारणम् || ६६ || बद्धपद्मासनासीमं देवदेवं विचिन्तयेत् | एवं सदाशिवं न्यस्य मूर्तिशक्त्यान्तगोचरम् || ६७ || ओं हां हं समुच्चार्य शिवमूर्तिं नमोन्तकम् | ओं हां हं शिवमूर्तये नमः | अनेनैव तु मन्त्रेण चिदानन्दमयं प्रभुम् || ६८ || सन्मार्गनिष्कलं चैव विचिन्त्य परमेश्वरम् | ब्रह्मादिकारणं त्यक्त्वा मन्त्रं नीत्वा शिवास्पदम् || ६९ || प्. २६१) पञ्चब्रह्म षडंगानां बीजमूलं महोदयम् | तद्बिन्दुनादसंयुक्तं शिवं परमकारणम् || ७० || ललाटे मध्ये तन्ध्यात्वा स्फुरत्तारापतीं प्रभाम् | कुसुमाञ्जलिकं भाव्यं लक्षमूर्तौ प्रवेशयेत् || ७१ || मूलमन्त्रं समुच्चार्य मुद्रया चार्चयेत्तदा | अथवा सूक्ष्ममूर्तीशं भूततत्वं सबिन्दुकम् || ७२ || शैवीं शक्तिमिति ध्यात्वा पूजयेल्लिंगं वेष्टयेत् | ओं हां औं विद्यादेहाय नमोन्तमन्त्रमुच्चारयेत् || ७३ || ओं हां हौं विद्यादेहाय नमः | सदाशिवस्य शक्त्या च व्यापिकां ब्रह्मरन्ध्रकाम् | सदासां मुख्यमूर्तिं तां लिंगदैर्घ्यं च पूजयेत् || ७४ || प्. २६२) ईशाना शान्त्यतीतान्तं पुरुषं शान्तिवक्त्रकम् | अघोरविद्याहृदयं वामप्रेक्षणगुह्यकम् || ७५ || सद्योनिवृत्ति जान्वंघ्रिभुवनानां तनूरुहम् | ब्रह्मान्तं दुर्धरं देवं परमांस विराजितम् || ७६ || तत्वास्थिमज्जशुक्लादि सहितं धातुरूपकम् | दृक्क्रियेच्छात्रिपञ्चाक्ष ज्ञानचन्द्रकलोत्थितम् || ७७ || शुद्धस्फटिकसंकाशमूर्ध्ववक्त्रं विशेषतः | पुरुषं कुंकुमाकारमघोरं भृंगभास्वरम् || ७८ || जपाकुसुमसंकाशं वामदेवं प्रकीर्तितम् | शंखकुन्देन्दुगोक्षीरसदृशं सव्यवक्त्रकम् || ७९ || प्. २६३) एवं ध्यानसमायुक्तं पूजयेन्नन्दिकेश्वर | आवाहन क्रमादीनां स्वरूपं कथ्यते शृणु || ८० || व्याप्तस्यातिविनीतस्य सादरं संमुखीक्रिया | आवाहनमितिप्रोक्तं मूर्त्त्यवच्छेदनेन तु || ८१ || हृत्कण्ठतालुभ्रूमध्य ब्रह्मरन्ध्रान्तमेव च | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ८२ || कारणानां च पञ्चानां त्यागं कृत्वा समाहितः | द्वादशान्तोन्मनीशक्ति व्यापिनं परमेश्वरम् || ८३ || ज्योतिर्मन्त्रमयं बुध्वा ललाटाकृष्टबिन्दुकः | पुष्पयुक्तकरद्वन्द्वे हृन्मन्त्रे विन्यसेत्क्रमात् || ८४ || प्. २६४) हृदारभ्य ललाटान्तं मूर्ध्नि चावाहनं हितम् | बद्धाञ्जलिं च हस्ताभ्यां कनिष्ठामूलपर्वणोः || ८५ || सन्ताग्रांगुष्ठयुग्योसौ मुद्राचावाहनी भवेत् | आवाहनमिदं प्रोक्तं स्थापनं तदनन्तरम् || ८६ || ओं हां हौं शिवायनमः | भक्त्या निवेशनं तत्र मूर्तौ क्वचिदपि स्थिरः | अविच्छिन्नोपनीतं तु * * * * * कीर्तितः || ८७ || तथैवाधोमुखीं चैव स्थापनीबद्धमुष्टिकम् | परमेशतन् ध्यायेत् स्वस्वकार प्रदर्शनम् || ८८ || सन्निधीकरणं चोक्त्वा मूर्त्यवच्छेदबुद्धये | संसक्ता सुश्रितांगुष्ठौ मुद्रा स्यात्संनिधापिनी || ८९ || प्. २६५) आकर्मणः समाप्तौ तु सन्निधेयो परिक्षये | निरोधस्सतु विज्ञेयः तद्वत्स्यापि वरस्य तु || ९० || गूढांगुष्ठौ तथा युक्तौ भवेत्तत्वनिरोधनी | निष्ठुरेति च सा प्रोक्ता कामिकादि शिवागमे || ९१ || बोधानन्द स्वरूपस्य सर्वानन्दमयस्य च | अयोग्येष्वप्रकाशायेस्तं भवेदावकुण्ठनम् || ९२ || शिरस्यधोमुखी कृत्वा तन्नौ पुष्पांजलिं करौ | तत आपादसंस्पर्शान् मुद्रा स्यादवकुण्ठनी || ९३ || मुद्रया यत्कृतं कर्म तदक्षय फलं भवेत् | लिंगमुद्रां नमो मुद्रां दर्शयेन्नन्दिकेश्वर || ९४ || प्. २६६) उच्छ्रितां गुष्ठमध्ये तु लिंगमुष्टिरिहोच्यते | पाणिभ्यामञ्जलिं कृत्वा हृदये तु निवेशनम् || ९५ || नमोमुद्रेति सा प्रोक्ता योनिमुद्रां प्रदर्शयेत् | अनामिके तु संवेष्ट्य तर्जनीभ्यां तु मध्यमे || ९६ || प्रासार्यान्योन्य संयुक्ते ज्येष्ठात्वे मध्यमान्तरे | कृत्वा तु योनिमुद्रेयं लिंगपीठे प्रदर्शयेत् || ९७ || सकलीकरणं कुर्यात् षड्भिर्मन्त्रैरथैकदा | अजिनामंग संयुक्तिरमृतीकरणं परम् || ९८ || हस्तौ तु संपुटं कुर्याद् अन्योन्याग्रथितांगुलिम् | तर्जनीभ्यां मध्यमे तु कनिष्ठाभ्यामनामिके || ९९ || प्. २६७) बध्वा तु धेनुमुद्रेयममृतीकरणं तथा | अथोक्त्वा तु प्रयुक्तेन गोस्तनाकारवद्भवेत् || १०० || सूर्यस्य रश्मिभिःकल्यो प्रधृष्यश्च प्रदीपितैः | निजांगैर्देवदेवोऽपि ध्यातव्यो नन्दिकेश्वर || १०१ || चिच्छक्तिं हृदये न्यस्य विद्याद्यैश्वर्यमष्टधा | शिवत्वं नान्यधीनं यत् सा शिखोपरि संस्थिता || १०२ || अभेद्यं देवदेवस्य तेजोवर्जं निगद्यते | सर्वकालेऽपि सर्वत्र सदावस्था सु सन्ततम् || १०३ || आत्मनश्चा विशेषस्य सनिवारकदृक् च यत् | नेत्रं तदिति विज्ञेयं देवेशस्य शिवस्य तु || १०४ || प्. २६८) अत्यसह्यप्रतापाग्नि विघ्नौघविनिवारकम् | देवेशस्यास्त्रमित्युक्तं अभेद्यं देवदानवैः || १०५ || हृदयाद्यंगमन्त्राणां न्यासमुद्राः शृणुष्वथ | ज्येष्ठाग्रं च तु विन्यस्य मध्यमानामिकान्तरे || १०६ || मुष्टिबद्धेतराभ्यस्तु हृदये विनिवेशयेत् | हृदयाख्या भवेन्मुद्रा संसक्तांगुष्ठमुष्टिकम् || १०७ || हस्तं शिरसि विन्यस्य शिरोमुद्रेयमीरिता | उच्छ्रितांगुष्ठकं मुष्टिं शिरः पृष्ठे निवेशयेत् || १०८ || शिखामुद्रा भवेदेषा शिखरासन्निवेशिता | बद्धमुष्टिकरौ कृत्वा सारितांगुष्ठतर्जनी || १०९ || प्. २६९) तदूर्ध्वं शिरसो नीत्वा पार्श्वाभ्यां हृदये न्यसेत् | भवत्कवच मुद्रेयं सर्वरक्षाकरी मता || ११० || कनिष्ठांगुष्ठकौ बध्वा किंचिदाकुञ्च्य तर्जनीम् | अनामिकां च नेत्राख्या मध्यमांगुलि सारणा || १११ || तर्जन्यंगुष्ठकाभ्यां तु पार्श्वयोर्विसृजेद्बहिः | छोटिकामस्त्रमुद्रेयं सर्वोपद्रवहारिणी || ११२ || देवस्य पुरतो मूर्ध्नि हस्ताभ्यां मुकुलं भवेत् | तन्मुद्रां विसृजेत्पश्चादापादतललम्बिताम् || ११३ || पुनः पूर्ववदाकुर्यान् महामुद्रा च सा स्मृता | प्रभाकरवती कृत्य प्ररोच्य शिवमव्ययम् || ११४ || प्. २७०) प्रसन्नस्य पदाम्भोजे पाद्यं दद्याद्धृदा सदा | ओं हां ओं पाद्यं शिवाय नमः | वक्त्रेष्वाचमनं दद्यात् स्वधान्ते प्राङ्मुखादिषु || ११५ || तथा च पुनरों हां हौं शिवाय मनसः स्वधा | ईशानादि सद्योजातान्तं शिवस्यार्घ्यं प्रदर्शयेत् || ११६ || ओं हां हौं शिवायार्घ्यं स्वाहान्तं दापयेत्क्रमात् | गन्धं च पुष्पं धूपं च दीपं दूर्वाक्षतान्वितः || ११७ || वौषडन्तेन मन्त्रेण द्रव्यनाम्ना च पूजयेत् | गन्धं ललाटे पुष्पं च मूर्ध्नि धूपं तथैव च || ११८ || अगरुं चैकभागं स्यान् निर्यासं द्विगुणं भवेत् | चन्दनं द्विगुणं प्रोक्तमीषत्कर्पूरसंयुतम् || ११९ || प्. २७१) मधुना प्लावितं ह्येतत् शीतारन्नाम धूपयेत् | नेत्रे प्रदेशे दीपं च पार्श्वे पृष्ठे निवेदयेत् || १२० || ओं हां हौं शिवाय गन्धं वौषडित्यादि | पञ्चगव्याभिषेकं च मूलमन्त्रेण कारयेत् || १२१ || पञ्चामृतैश्च स्नपनं स्थाप्यमन्त्रैः पुनः क्रमात् | मध्ये मध्ये च धूपं च दीपं चैव प्रदापयेत् || १२२ || जलप्रदानं पुष्पं च तदेवार्घ्यं निवेदयेत् | सुगन्धिशालिपिष्टेन पीठं देवं विघृष्य च || १२३ || उद्वर्त्योद्वर्त्यबिल्वादि पत्रैरपि विशेषतः | नमोन्तं कवचेनैव निर्मार्जनमथो भवेत् || १२४ || प्. २७२) ओं हैं कवचाय नमः | ओं हां शिवायोत्तिष्ठेति स्नपनं याचयेच्छिवम् | उत्तिष्ठमानं संभाव्य ओं हां हौं शिवाय नमः || १२५ || ईषदुष्णजले नैव स्नानं कुर्यादनन्तरम् | महास्नानं ततः कार्यं गन्धैरामलकादिभिः || १२६ || सुगन्धवारिभिः पश्चाद् गण्डूकाणां क्रमेण तु | शतं साष्टोत्तरं देयमभिषेकं समाचरेत् || १२७ || आत्मार्थं स्नानकं दद्याद्वामहस्तजलेऽपि वा | पुष्पं यत्पूर्वं विन्यस्तं तदर्घ्येण विसर्जयेत् || १२८ || गण्डूकां मूलमन्त्रेण निपतेदाढकां पुनः | जलं देयं लिंगमूर्ध्नि शेषं वेद्यां विनिक्षिपेत् || १२९ || प्. २७३) विशेषदिवसे काले यावत्कल्पितकं जलम् | तावत्स्नानं प्रकर्तव्यमभिषेकं क्रियाय च || १३० || अलाभे पञ्चगव्यादि स्नापयेच्छुद्धवारिणा | संमार्ज्य सूक्ष्मशुद्धेन वस्त्रेण तदनन्तरम् || १३१ || कुंकुमागरुकर्पूरचन्दनैः श्लक्ष्णपिष्टकैः | हिमाम्बुमिश्रितैर्गन्धैः लेपयेद्देव विग्रहे || १३२ || मूलमन्त्रेण कर्तव्यं पुष्पं शिरसि निक्षिपेत् | निबन्धयेदधोमुद्रां नोपरि भ्रामयेत्करम् || १३३ || सर्वदापुष्पमारोप्यमशून्यं लिंगमस्तके | वस्त्रमाभरणं पुष्पं धूपदीपौ ददेद्बुधः || १३४ || प्. २७४) मूलमन्त्रेण तत्सर्वं कुर्यादस्त्रं विशेषतः | शिरसा पुष्पमभ्यर्च्य घण्टामन्त्रेण ताडयेत् || १३५ || स्वधान्तं हृदयेनैव कुर्यादाचमनीयकम् | ईशानं कर्णिकामध्ये पूर्वे तत्पुरुषं यजेत् || १३६ || अघोरं दक्षिणे पूज्य वामदेवं तु चोत्तरे | सद्यं पश्चिमदेशे तु पूजयेद्ब्रह्मपञ्चकम् || १३७ || आरात्रिकं समुत्तीर्य रक्षौघविनिवारकम् | भस्म दर्पणं छत्रं च चामरं तालवृन्तकम् || १३८ || एतैस्सन्तोष्य देवेशं कुशदूर्वांकुरैस्सह | लक्ष्मीपुष्पैर्विशेषेण मौलौ वारोपयेत्तदा || १३९ || प्. २७५) रजन्यां तु विशेषेण कुर्यादारात्रिकं क्रमैः | नीराजनं प्रकुर्वीत नवपात्रमथापि वा || १४० || पञ्चपात्रं समादाय दीपाधार समायुतम् | एकपिष्टेन संतप्तान् दीपान्प्रज्वाल्य सर्वशः || १४१ || यन्त्रिकोपरि संवेश्य दिव्यदृष्ट्या निरीक्षणम् | अस्त्रेण प्रोक्षणं प्रोक्तमभ्युक्षणमथो हृदा || १४२ || ताडनं च तथैवास्त्रमेवं संस्कारकं कुरु | नाभिस्थेनाग्निना चैव पूरकेणाग्निना सह || १४३ || संयोज्य रेचकेनैव नीत्वा सद्यादिमन्त्रयेत् | वह्निबिम्बे बहिःक्षिप्य क्षिपेदारात्रिकेऽथवा || १४४ || प्. २७६) पाद्याचमनकार्यार्थं अर्घ्यबिन्दुं त्रिवारकम् | प्रतिदीपं तथा दत्वा दीपमुद्रां प्रदर्शयेत् || १४५ || तां सर्वांगुलिभिर्बद्धादन्तराले न्यसेत्क्रमात् | वामांगुष्ठं निरोधाय दर्शयन्नवदीपकैः || १४६ || गन्धपुष्पादिना पूज्य त्रिवारं हृदयाणुना | उच्चनीचक्रमेणैव देवमस्तकसन्निधौ || १४७ || भ्रामयेन्नेत्रमन्त्रेण भक्तियुङ् नन्दिकेश्वर | सुगन्धिसितसूनानि प्रोक्षयेदस्त्रवारिणा || १४८ || अभिमन्त्र्य षडंगेन भस्मनाऽस्त्रेण मार्जयेत् | निक्षिप्य दीपे तत्रास्मै शेषभस्म च संग्रहे || १४९ || प्. २७७) हृदयेनैव मन्त्रेण ललाटेषु न्यसेत्क्रमात् | हृदये बाहुदेशेषु चैशाने कोणके भवेत् || १५० || गन्धयोरेव तद्दद्यात् पृथग्देवी व्यवस्थिता | नीराजनादि तत्सर्वं पूर्ववत्कारयेत्क्रमात् || १५१ || विनायकस्कन्दयोश्च नीराजनविधिस्तदा | पात्राणि तानि सर्वाणि बहिःपीठे विनिक्षिपेत् || १५२ || ततः प्रणम्य देवाज्ञां लब्ध्वा गौरीं प्रपूजयेत् | अग्नीशाया तु वायूनां दिक्षु चत्वार्यनुक्रमात् || १५३ || हृन्मन्त्रमिन्दुसंकाशं शिरः काञ्चनसन्निभम् | शिखा जपाभा नन्दीश तनुत्राणं च भृंगवत् || १५४ || प्. २७८) सर्वतेजोमयं नेत्रं कर्णिकायां प्रपूजयेत् | अंभोजासनसंयुक्ताज्जटामकुटधारिणः || १५५ || चतुर्भुजां स्त्रिणेत्रांश्च सर्वाभरणभूषितान् | शक्तिशूलाभयवरान् शिवस्याभिमुखस्थितान् || १५६ || चतुर्वक्त्रं निजैर्मन्त्रैरुच्चरेन्नन्दिकेश्वर | तत्कालदंष्ट्रमत्युग्रमस्त्रं चाशनि सन्निभम् || १५७ || पूर्वादिषु चतुर्दिक्षु पूजयेद्विघ्नवारकम् | स्वस्वमन्त्रेण संपूज्य पाद्यादीन् हृदयाणुना || १५८ || धूपदीपं च नैवेद्यं तोयमाचमनीयकम् | करोचर्तनताम्बूलं मुखवासं च दर्पणम् || १५९ || प्. २७९) दद्यात्स परिवाराय शिवमन्त्रेण देशिकः | नैवेद्यं दापयेत्तस्माद् देवदेवस्य पूर्वके || १६० || अच्छिन्नैर्धवलैः शालीतण्डुलैः क्षालयेच्छुभैः | सुपक्वं च सुगन्धं च कल्पयेद्विधिना सह || १६१ || सुवर्णादिषु पात्रेषु यन्त्रिकासु विनिक्षिपेत् | आज्यान्नेषु घृतान्नेषु निक्षिपेत्तदनन्तरम् || १६२ || सूपापूपोपदंशाद्यैः फलैर्नानाविधैरपि | पक्वैरपक्वैस्तद्भूरि परितः परिमण्डयेत् || १६३ || चक्रार दलसोपान पङ्क्त्याद्याकृति संयुतः | पात्रकैः क्षीरदध्याज्य सुपक्वान्नेन संयुते || १६४ || प्. २८०) सितां फलादि मुद्गादीन् कल्पयेद्विभवानुगम् | अन्नैर्नानाविधैः शुद्धैः घृतदध्यादिसंयुतैः || १६५ || नैवेद्यमीदृशं प्रोक्तमभावे भावना भवेत् | तत्प्रियं च प्रकर्तव्यं सुस्वच्छं तु विशेषतः || १६६ || अस्त्रमन्त्रेण संशोध्य रेचयेद्धेनुमुद्रया | कवचीकरणं कुर्याद् हृन्मन्त्रेण निवेदयेत् || १६७ || मध्यमानामिकांगुष्ठ गतपुष्पेण दापयेत् | अस्त्रेण मनुना घण्टां ताडयेच्च क्षणात्तदा || १६८ || अंगानां परिवाराणां नैवेद्यं च प्रदापयेत् | पानीयं च प्रदातव्यं स्थल्या मज्जकमिन्दुवत् || १६९ || प्. २८१) ईषच्चन्दनसंयुक्त नवमृद्घटसंयुतम् | सुस्वादुशीतलं तोयं पानीयं परिकल्पयेत् || १७० || हृदयेन तु मन्त्रेण चषकेन प्रदापयेत् | शिवादि परिवाराणां बलिं तत्र प्रदापयेत् || १७१ || निवेद्यान्तं प्रदातव्यं देवायाचमनं तदा | हस्तोद्वर्तनकार्यार्थं पटीरं दापयेत्पुनः || १७२ || निर्माल्यं चण्डदेवाय निवेद्यं च समाहितः | अस्त्रेण प्रोक्षयेत्पश्चात् ताम्बूलादीन्प्रदापयेत् || १७३ || शुभ्रं ताम्बूलपत्रं च पूगोत्तमफलानि च | तैलकर्पूरसंयुक्तं ताम्बूलमिति कीर्तितम् || १७४ || प्. २८२) जातीलवंगतक्कोलमुखवासं प्रदापयेत् | तेजिष्ठं दर्पणं पश्चान् मूलमन्त्रेण दापयेत् || १७५ || पवित्रमक्षतोपेतं दूर्वायुक्तं विशेषतः | तत्वत्रयेण संजप्य मूलमन्त्रेण दापयेत् || १७६ || मोक्षार्थी शिवतत्वानि भोगार्थी तद्विपर्ययात् | प्रत्यहं वाङ्मनः कायव्यापारजनितातलम् || १७७ || पूर्वं पवनधात्वर्थे पालनं च युतेऽपि च | शुद्धिरक्षां च कुरुते पवित्रमिति कीर्तितम् || १७८ || विष्णुब्रह्मेन्द्रदेवाद्यैस्तैस्तैर्नानाविधैरपि | संतुष्टं परमेशानं ताडयेन्नन्दिकेश्वर || १७९ || प्. २८३) मूलमन्त्रं जपेत्पश्चादक्षमालासमन्वितम् | वामहस्ते च कुसुमं निक्षिपेद्दक्षपाणिना || १८० || दक्षहस्तं परेन्यस्य जपं कुर्याद्विशेषतः | मानसोपरि शिष्याणां प्रथमं चोत्तमोत्तमम् || १८१ || उपांशु मध्यमं प्रोक्तमधमं भाष्यते वचः | तस्माद्भाष्यं समुत्सृज्य मनसोपांशु वा जपेत् || १८२ || मूलस्याष्टशतं जप्त्वा न द्रुतं न विलम्बितम् | मन्त्रितं हृदयेनैव कवचेन तु वेष्टितम् || १८३ || अस्त्रेण रक्षितं चैव मुद्रयोद्भवसंज्ञया | शिवांगानां जपं चापि दशांगं दापयेत्तदा || १८४ || प्. २८४) गुह्याति गुह्य गोप्यस्त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे येन तत्प्रसादात्त्वयि स्थिते || १८५ || एतन्मन्त्रं जपित्वा तु भोगदेवस्य दक्षिणे | वामहस्ते प्रदातव्यं मूलमन्त्रार्घ्यवारिणा || १८६ || अर्घ्यं दक्षिणभागे तु चाग्निकार्याय यत्कृतम् | पश्चादागत्य तद्दत्वा विज्ञाप्य तदनन्तरम् || १८७ || देवस्य पुरतस्सव्ये गोमयेनोपलेपितम् | बहिस्सुतण्डुले कार्ये दूर्वापुष्पं च संयुतम् || १८८ || प्रातर्मध्याह्नकालेऽपि सायमक्षतकं भवेत् | ताम्रपात्रे कृताधारे लिंगं विन्यस्य देशिकः || १८९ || प्. २८५) तारपूर्वं नमोन्तं वै चासनं परिकल्पयेत् | पाशुपतास्त्रमूर्तये नम इत्यासनमूर्तिको भवेत् || १९० || ओं ग्लां पशुहुंफडिति पाशुपतास्त्राय नमः | ओं श्रीं पशुं हुंफट् पाशुपतास्त्राय नमः || १९१ || हृदयाद्यंगमस्त्रेण न्यासं कृत्वा समाहितः | ओं भों हृदयाय हुंफट् ओं श्रीं शिरसे हुंफडन्तकम् || १९२ || ओं श्रीं शिखायै हुंफट् ओं हुं कवचाय हुंफडन्तकम् | ओं हुं नेत्राभ्यां हुंफडिति ओं हं फडन्ताय हुंफडन्तकम् || १९३ || षडंगमेवमुच्चार्य प्रत्येकं चार्चयेत्क्रमात् | अन्नलिंगार्चमथैकं वा पञ्चकं दशकं तु वा || १९४ || प्. २८६) विन्यसेत्तत्र पात्रेषु पूजयेन्नन्दिकेश्वर ! | पात्रास्सोपादुकाद्वन्द्वं वज्राद्यायुध संयुतम् || १९५ || प्रणवेन वृषं पूज्य सवितानं ससात्विकम् | सर्वालंकार संयुक्तं गीतनृत्तकवाद्यकैः || १९६ || प्रदक्षिण क्रमेणैव नित्योत्सवालिं क्षिपेत् | अन्तः प्रविश्य प्रासादं संयोज्यैतान्समाहितः || १९७ || अन्नलिंगादि कान्सर्वान् सर्वान्हृत्य तदन्तरम् | शुद्धेन ताण्डवेनैव भगवन्तं प्रतोषयेत् || १९८ || तत्रदेवाग्रतो देशे नाट्यमण्डपके पुनः | गोमयेनोपलिप्तेन प्रणवासनके पुनः || १९९ || प्. २८७) प्रणवेन तु मन्त्रेण मूर्तिं ध्यात्वा समाहितः | नन्दिदेवं समावाह्य संपूज्य तदनन्तरम् || २०० || स्वनाम्नैव तु संपूज्य शुद्धताण्डवकं भवेत् | रूपयौवन संपन्नां सुस्नातां सर्वभूषणाम् || २०१ || तां रुद्रकन्यामाहूय संप्रोक्ष्यास्त्रेण वारिणा | भस्म प्रधानमाल्यं च दत्वा ताण्डवमुत्तमम् || २०२ || भरतोक्तेन मार्गेण कारयेच्छुद्धताण्डवम् | ब्रह्माणं केशवं चैव रुद्रमीश्वरमेव च || २०३ || प्रातर्मध्याह्न सायेऽपि मध्यरात्रौ विशेषतः | लालकारण देवानां पूजनं स्वस्वनामभिः || २०४ || इति चिन्त्यविश्वसादाख्ये पूजार्णवे शिवकाण्डे त्रिंशत्पटलः || प्. २८८) अग्निकार्यविधिं वक्ष्ये कुण्डलक्षणपूर्वकम् | कुण्डं वा स्थण्डिलं वापि वह्नेरायतनं द्विधा || १ || चतुरश्रं च योनिं च अर्धचन्द्रं त्रिकोणकम् | वृत्तं षडश्रकं चैव पद्ममष्टाश्रकं भवेत् || २ || पूर्वादीशान पर्यन्तं कुण्डानां लक्षणं भवेत् | कुण्डानामष्टकानां च लक्षणं चाधुनोच्यते || ३ || प्राक्सूत्रे तु न्यसेत्पूर्वं अन्यद्दक्षिणतोत्तरम् | कुर्यात्पश्चिम पूर्वं तु यावत्कुण्डस्य विस्तरम् || ४ || रुद्र सूत्रेण काष्ठासु चतुरश्रावधिं कुरु | कुण्डानामपि सर्वेषामुत्पत्तिश्चतुरश्रके || ५ || प्. २८९) चतुरश्राद्बहिस्सोमे पंचांशं तु च विन्यसेत् | दक्षिणोत्तरसूत्रेण चतुष्पादयुतं भवेत् || ६ || आग्नेयादीशपर्यन्तं चतुष्पदमिति स्मृतम् | आग्नेयादीशपर्यन्तं सूत्रान्तं विन्यसेत्तदा || ७ || ऐन्द्रसूत्राग्निमारभ्य यमसूत्रान्तकं नयेत् | अर्धचन्द्राकृतिप्रख्यं नैर्-ऋतेऽप्येवमेव हि || ८ || वारुण्यां तन्नयित्वासौ सोमे विन्यस्यभागयुक् | तदग्रादैन्द्रसूत्रान्तं त्रिकोणाकृतिवन्नयेत् || ९ || बाह्यमध्यमरेखाणां मार्जनाद्योतिरुत्तमः | भक्तिभागकृते क्षेत्रे त्यजेद्भागकृतं बुधः || १० || प्. २९०) तेन मानेन तन्मध्याद् भ्रामयेदर्धचन्द्रकम् | क्षेत्रं तु पञ्चधा कृत्वा पार्श्वयोरुभयोरपि || ११ || एकैकांशं न्यसेत्तत्र मानसूत्रस्य बाह्यतः | मत्स्यद्वयं ततः कृत्वा राक्षसे मारुतेऽथवा || १२ || योज्यं तु त्रिभुजानेन त्रिकोणं भवति स्फुटम् | कुण्डार्धं तु परिग्राह्यं क्षेत्रार्धं तु विनिक्षिपेत् || १३ || अधिकं तु द्विधा कृत्वा चैकांशं बाह्यतस्त्यजेत् | वर्तयेत्तेन मानेन वर्तुलं कुण्डमुत्तमम् || १४ || क्षेत्रं तु षोडशं कृत्वा बहिरंशद्वयं न्यसेत् | क्षेत्रं च व्यासमानेन पार्श्वे मध्यद्वयं द्वयम् || १५ || प्. २९१) सूत्रषट्कस्य पादेन षष्ठमंशं तदुत्तमम् | दशांशं क्षेत्रबाह्यं तु चैकांशं विन्यसेद्बहिः || १६ || तेन मानेन संभ्राम दक्षिणां भ्रामणं भवेत् | मध्यमे कर्णिकां कुर्याद् वृत्तं कुण्डवदाचरेत् || १७ || चतुर्विंशांशकं क्षेत्रं बाह्यैकांशं तु विन्यसेत् | तेनांशेन च कुर्वीत चतुरश्रं समन्ततः || १८ || तद्बाह्ये चतुरश्रस्य कोणार्धेन तु लांछयेत् | कोणे कोणे च संग्राह्य संग्राह्यं च विशेषतः || १९ || वांछनात्सूत्र पादस्य गजमानमनुत्तमम् | कुण्डस्य यादृशं रूपं मेखलायाश्च तादृशम् || २० || प्. २९२) त्रिमेखला समायुक्तं श्रुत्याग्नि सनिमानकम् | हेतु भूतगणोच्छ्राय मध्यायं परिकल्पयेत् || २१ || व्यासेन सदृशं खातं निम्नोन्नत विवर्जितम् | अश्वत्थ पत्रवद्योनिं मेखलोपरि विन्यसेत् || २२ || भूतांगुलं तु विस्तारमायामं सप्तमांगुलम् | व्योमांगुलं तदुत्सेधं योनिलक्षणमुत्तमम् || २३ || एकांगुलं तदुत्सेधं भूतांगुलं तु विस्तरम् | पद्माकार समाकारं कुर्यात्कुण्डस्य मध्यमे || २४ || पद्ममात्रं न कर्तव्यमोष्ठमेकांगुलं भवेत् | बहिरेकांगुलं कण्ठे द्व्यंगुलं तु तथा भवेत् || २५ || प्. २९३) सुधापक्वेष्टकाभिर्वा मृदा चैव तु कारयेत् | चतुर्णामक्षदं प्रोक्तं विश्वभोग विवर्धनम् || २६ || आरोग्यं पूरितं चैव शक्षदाहमिदं भवेत् | श्रीकरं पद्मकुण्डं तु पुष्टिदं जयवर्धनम् || २७ || अष्ठ्यश्र कुण्डं शत्रूणां ऋणदं भयदं तथा | शतार्धहोमे मुष्टिः स्यात् चन्नवार * * * म् || २८ || सहस्रहोमे हस्तं स्याद्द्विहस्तं चायुते हितम् | लक्षहोमे चतुर्हस्तं द्व्ययुते षट्करं भवेत् || २९ || गुणांगुलं समुत्सेधं निम्मोन्नत विवर्जितम् | द्व्यंगुलैकांगुलं वापि संक्षिप्तैस्तण्डुलैर्भवेत् || ३० || प्. २९४) रेखात्रयं तु पूर्वाग्रे उत्तरार्धं तथैव च | ब्रह्मा वैवस्वतः सोमो रुद्रश्शक्रश्च केशवः || ३१ || तत्पूर्वाग्रोत्तराग्राणां अधिदेवाः प्रकीर्तिताः | कुण्डबाह्यार्चने कालेऽप्यर्घ्यपात्रे ददेन्मुनिः || ३२ || होमद्रव्यस्य शेषाणि शिवदृष्ट्या विलोकयेत् | तस्य नाभिः पुरस्कुर्यादुपविश्योत्तराननः || ३३ || कुण्ड संस्कार हीनश्चेदग्निपत्तिर्न विद्यते | निरीक्षणं प्रोक्षणं च खननं सेचनं तथा || ३४ || कुट्टनं मार्जनं चैव निर्माणं लेपनं तथा | गोषण्डं शोधनं चैव पूर्वमेव कृतं यदि || ३५ || प्. २९५) पुनरन्निरीक्षणं चैव प्रोक्षणं ताडनं कुशैः | अस्त्रमन्त्रेण कर्तव्यं वर्मणाभ्युक्षणं क्रमात् || ३६ || खड्गेन खातमुद्धारं पूरणं समतापि च | सेकितं कवचे नैव कुट्टनं तु शराणुना || ३७ || मार्जनं लेपनं चैव हृन्मन्त्रेण समर्चयेत् | कवचेनाक्षपादं च मध्ये पीडं हृदा भवेत् || ३८ || तन्मध्ये सुस्थितां देवीं नीलोत्पलदलप्रभाम् | ऋतुस्नातां विशालाक्षीं गन्धमाल्यानुलेपनाम् || ३९ || सर्वलक्षण संपूर्णां वयः षोडशकाश्रिताम् | वागीश्वरीं महादेवीं एवं ध्यात्वा विचक्षणः || ४० || प्. २९६) पञ्चवक्त्रयुतं देवं सादाख्यं विश्वरूपिणम् | तद्वद्वागीश्वरं देवं विन्यस्य हृदयाणुना || ४१ || पूजयेद्गन्धपुष्पाद्यैः स्वस्वनाम्नैव देशिकः | सूर्यकान्तोद्भवं वह्नि मरण्युद्भवमेव वा || ४२ || क्षेत्रे वा श्रोत्रियागारे सुपथेन समानयेत् | मृत्पात्रे ताम्रपात्रे वा निक्षिप्य हृदयेन तु || ४३ || होतुरग्ने तु विन्यस्य पूजयेत्तु विशेषतः | क्रव्यांशं पूर्ववत्सृज्य वीक्षणाद्या विशोधयेत् || ४४ || औदार्यं बैन्दवं भौमं समीकृत्वानलत्रयम् | विन्यस्य वह्निचैतन्यं प्रदीपकलिकोपमम् || ४५ || प्. २९७) ओं ह्रीं वह्निचैतन्याय नमोऽन्तं मन्त्रमुच्चरन् | पिम्गलानाडिमार्गेण बहिर्निस्सार्य रेचकात् || ४६ || ज्वलितोग्नौ विनिक्षिप्य संहिता मन्त्रितं पुनः | सद्यादीशानपर्यन्तं नमोन्तं पूजयेत्क्रमात् || ४७ || धेनुमुद्रामृतीकृत्य रक्षणं चास्त्रकेन च | तनुत्राणावकुण्ठेन हस्तेनोद्धृत्य देशिकः || ४८ || त्रिः परिभ्राम्य कुण्डोर्ध्वे शिवबीजमिति स्मरन् | भूमिष्ठजानुको भूत्वा वागीशीगर्भगोचरे || ४९ || वागीश्वरेण देवेन क्षिप्यमाणं विभावयेत् | उभयत्र तु संमेलं हृदयासंमुखं क्षिपेत् || ५० || प्. २९८) ततोत्थितं च गर्भाग्नौ नाभिदेशे समूहनम् | अन्यवस्त्रं परीधाय शौचमाचमनं हृदा || ५१ || वागीश्वरीपाणिपद्मे गर्भाग्नेः पालनाय च | दर्भसूत्रेण बध्नीयाद्रक्षार्थं नन्दिकेश्वर || ५२ || गर्भाधानाय सद्येन पूजयेत्पावकं पुनः | आहुतित्रितयं कुर्याद् हृन्मन्त्रेण समाहितः || ५३ || तृतीये मासि पुंसवनं पुष्येण श्रवणेन च | वामदेवेन होतव्यं शिरसाम्बुकणान्वितम् || ५४ || अघोरेणैव सीमन्तं षष्ठे मासि तथैव च | जुहुयादाहुती स्त्रिस्त्रिः शिखाया शिखयेव तु || ५५ || प्. २९९) वक्त्रांगनिर्णयं कार्यं वक्त्रोन्मीलन निष्कृतिम् | वर्मणा पुरुषेणैव जातकर्मयुतक्रिया || ५६ || वह्निमुज्वाल्य गर्भाद्यैः स्नानं गर्भमलापहम् | स्वर्णादिभूषणं देव्या हृन्मन्त्रेण प्रदापयेत् || ५७ || सूतकाग्नौ च शुध्यर्थं प्रोक्षयेदस्त्रवारिणा | अस्त्रेण कुण्डमाताड्य वह्निस्सेकं तु वर्मणा || ५८ || पूर्वोत्तराग्रमार्गेण मेखलाः कुशला न्यसेत् | अस्त्रेणास्तीर्य तस्योर्ध्वे स्थापयेत् परिधीन्हृदा || ५९ || वक्त्र लालापनोदाय समिधः पञ्च होमयेत् | आद्यन्ते घृतसंसिक्तां खड्गेनैव विशेषतः || ६० || प्. ३००) चतुर्मुखं शंकरं च शार्ङ्गिणं तदनन्तरम् | प्राच्याद्युत्तरपर्यन्तं हृदा विष्टरकान्यजेत् || ६१ || शक्रादिलोकपालांश्च वह्नेरभिमुखस्थितान् | पीठस्थं हृदयेनैव पूजयेन्नन्दिकेश्वर || ६२ || वसासंघं निवार्याशु बालकं रक्षयिष्यति | शिवस्याज्ञामिमां तेषां श्रावयेद्दिक्पतीन्प्रति || ६३ || सलक्षणौ सृक्सृवौ च गृहीत्वोर्ध्वमुखौ तथा | अधोमुखौ तान्संताड्य क्रमान्मूलाग्रमध्यमे || ६४ || मूलं मूलेन संस्पृश्य मग्रमग्रेण संस्पृशेत् | मध्यं मध्येन संमार्ज्य दर्भैः स्त्रिभिरनुक्रमात् || ६५ || प्. ३०१) आत्मनो दक्षिणे भागे स्थाप्यौ पुष्पादि पूजितौ | दर्भौ परिनिधायैतौ दर्भसंस्पृष्टदेशके || ६६ || आत्मविद्यां शिवं यष्ट्वा नमोऽन्तं पूजयेत्क्रमात् | सृचि शक्तिं स्रुवे शंभुं पूजयेन्नन्दिकेश्वर || ६७ || दर्वीं च सर्पिरादाय शोधितं वीक्षणादिभिः | अस्त्रेण तापयित्वाग्नौ स्वधामिति विचिन्तयेत् || ६८ || कुण्डस्यो परिसंभ्राम्य स्थापयेद्बह्निकोणके | ततो विष्णुमयं धृत्वा घृतमीशादि विन्यसेत् || ६९ || आज्रमुद्धृत्य दर्भाग्रे स्वग्रहान्तं शिरोणुना | मुकुन्दाय हुनेद्बिन्दुं कुण्डनाभौ निवेशयेत् || ७० || प्. ३०२) रुद्ररूपमिति ध्यात्वा भावयेद्भक्तिसंयुतः | प्रादेशमात्रदर्भाभ्यां अंगुष्ठानामिकाग्रकैः || ७१ || अस्त्रेणाभिमुखं वह्नेर्घृतमुत्प्लवनं भवेत् | हृदात्मसंमुखं कुर्यात् तस्मात्संप्लवनं भवेत् || ७२ || नमोऽन्तास्त्रेण दर्भेण क्षेपाद्भस्मनि शुद्धये | क्षिप्त्वा चान्योन्यदर्भेण नीराजनविधिर्भवेत् || ७३ || दग्धमन्त्रेण दर्भान्तमग्नौ क्षिप्त्वा समाहितः | निधायाग्नौ कृतं दग्धं कुशान्प्रादेशसंमितान् || ७४ || भावयेत्पक्षयुग्मं च घृतेध्मादित्रयं क्रमात् | भागत्रयात्स्रुवेणैव घृतमादाय होमयेत् || ७५ || प्. ३०३) स्वेत्यग्नौ तद्भागे शेषमाज्यं क्रमात्क्षिपेत् | ओं हामग्नीषोमाभ्यां स्वाहान्तं मन्त्रमुच्चरेत् || ७६ || ओं हां अग्नये स्वाहा | ओं हां अग्नीषोमाभ्यां स्वाहा | ओं हां अग्नये स्विष्टकृते स्वाहा || ७७ || नयनोन्मीलनार्थाय वह्नेर्नेत्रत्रयोन्मुखः | आज्यपूर्णस्रुवेणैव चतुर्थीमाहुतिं यजेत् || ७८ || ओं हां अग्नये स्विष्टकृते स्वाहा | षडंगेनाभिमन्त्र्यैव रोधयेद्धेनुमुद्रया || ७९ || कवचेनावकुण्ठ्याज्यं रक्षयेद्धेतिना पुनः | घृतबीजहृदाक्षेपे भवेदन्याज्यशोधनम् || ८० || प्. ३०४) आज्याभिघारसन्तानमास्यैककरणीरिता | सद्योवाममघोरं च पुरुषं चेशमेव च || ८१ || प्रणवाग्निजयाद्यन्तं स्वस्वमन्त्रेण होमयेत् | एकैकयाज्यहोमेन वाभिघारमिदं भवेत् || ८२ || वक्त्रसंधानकं चैव मन्त्रं मन्त्रेण योगतः | क्रमादीशानपर्यन्तं पञ्चब्रह्मभिरन्वितम् || ८३ || ओं हां सद्योजाताय स्वाहा ओं हां वामदेवाय स्वाहा | ओं हां अघोराय स्वाहा ओं हां तत्पुरुषाय स्वाहा || ८४ || ओं हां ईशानाय स्वाहा ओं सद्योजात वामदेवाभ्यां स्वाहा | ओं वामदेवाघोराभ्यां स्वाहा ओं हां अघोरतत्पुरुषाभ्यां स्वाहा || ८५ || प्. ३०५) ओं हां पुरुषेशानाभ्यां स्वाहा | पावकाद्वायुपर्यन्तं हृदयानां समर्पणम् | नैर्-ऋत्यादीशाकाष्ठान्तं अविच्छिन्नाज्यधारया || ८६ || स्रुवेण कुर्यादाज्यान्तमेकदान्नन्दिकेश्वर | ओं हां सद्योवामाघोर तत्पुरुषेशानेभ्यः स्वाहेति || ८७ || स्वेष्टवदनेषु वक्त्रं मैकमन्यकम् | अन्यथा कुण्डमानेन वक्त्रमिष्टं स्मरंस्तदा || ८८ || इतराणामन्यवक्त्राणामेकं भावमिदं भवेत् | संपूर्णेशानवह्नौ च हेतिना चाहुतित्रयम् || ८९ || प्रकुर्याच्छिवगावस्थः कुर्यान्नाम विचक्षणः | एकं नाम ददेत्पश्चात् शिवाग्निं स्वं हुताशने || ९० || प्. ३०६) वैदिकं मिश्रकं चैव मिश्रवैदिकं तथा | त्रिविधं वह्निरूपं तु स्वरूपं नन्दिकेश्वर || ९१ || एकास्यं च द्विवक्त्रं च नानाद्वितयसंयुतः | षण्णेत्रो मेखलायुक्तः पादत्रय समन्वितः || ९२ || चतुशृंगसमायुक्तो द्विशिरा जटिलो मतः | उपवीती च मौनी च सप्तहस्तसमन्वितः || ९३ || सप्तजिह्वासमायुक्तो वृषवाहनसंयुतः | हिरण्या कनका रक्ता कृष्णाजिह्वाश्च दक्षिणे || ९४ || संप्रभावाति रक्ता च बहुरूपानुवामके | एवं जिह्वा समुद्दिष्टा वैदिके मेषवाहनः || ९५ || प्. ३०७) शैवाग्नेर्वर्णनं पश्चाच्छृणु नन्दीश तत्वतः | पञ्चवक्त्रयुतं रक्तं सप्तजिह्वा विराजितम् || ९६ || दशहस्तं त्रिणेत्रं च सर्वाभरणभूषितम् | रक्तवर्णपरीधानं पंकजो परिसंस्थितम् || ९७ || बद्धपद्मासनासीनं दशायुध समन्वितम् | कनका बहुरूपा च अतिरक्ता ततः परम् || ९८ || सुप्रभा चैवं कृष्णा च रक्ता चान्या हिरण्मयी | ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादिषु स्थिताः || ९९ || शैवाग्नेर्ध्यानमुद्दिष्टं त्रिविधोग्निः प्रकीर्तितः | नेत्र श्रोत्रादिकं ज्ञात्वा वह्नेर्होममथाचरेत् || १०० || प्. ३०८) श्रोत्रे होमाद्व्याधिरेव नेत्रे नेत्रस्य रोगता | नासिकायां मनोदुःखं केशे दारिद्र्य संभवम् || १०१ || इष्टन्नसिद्धिदं गात्रे तस्माज्जिह्वासु होमयेत् | बन्धनं श्रोत्र देशे स्यान् नासारूपस्वरूपकम् || १०२ || इति प्रज्वलनं नेत्रं भस्म चाग्निशिरो मतम् | यत्र चोज्वलिता वह्निजिह्वा तत्रैव होमयेत् || १०३ || कुण्डमध्यगतं वक्त्रं तस्य मध्ये तु जिह्विका | त्रिभिः परिधिभिश्चोर्ध्वं समिद्वा संयुतस्तु यः || १०४ || वैदिकाग्निस्समुद्दिष्टो मिश्राग्निस्तूभयात्मकः | त्रिचतुः परिधिश्चैव शास्त्रेऽस्मिन्संप्रकीर्तितः || १०५ || प्. ३०९) संपूज्य पितरौ वह्नेर्हृदयेन समन्वितः | वागीश्वरीं च वागीशं विसृजेत्तदनन्तरम् || १०६ || वौषडन्तेन मन्त्रेण मध्यात्पूर्णाहुतिस्तथा | अग्नेः प्रियार्थमग्रं वा स्वाहान्त तिलकेन च || १०७ || पञ्चाहुतीः क्रमाद्दत्वा चाग्नेयपदमध्यमे | ओं हां हूं अग्नये स्वाहा | ओं अग्नयेह्नमैश्वरं तेजः || १०८ || पावनं परमं यतः || तस्मात्त्वदीयहृत्पद्मे संस्थाप्य तं विधाम्यहम् | एवं शिवाज्ञां संप्रार्थ्य सांगोपांगयुतं शिवम् || १०९ || आसनं चात्महृदये पूजयेत्पूर्ववन्मुनिः | ततोऽग्निहृदयाम्भोजे चावाहन पुनः शिरः || ११० || प्. ३१०) आवाहनादि सर्वं च पूजयेच्छिवमव्ययम् | यागाग्निं शिवयोः कुर्यान्नाडीसन्धानमात्मना || १११ || जुहुयान्मूल मन्त्रेण शक्त्यंशैश्च दशांशकम् | आज्यक्षीरमधूनां च कर्षके होम उच्यते || ११२ || दधि भुक्ति प्रदं प्रोक्तं प्रसृतिः पायसे पुनः | पथ्यं मात्रं च भक्ष्याणां लाजानां मुष्टि मात्रकम् || ११३ || फलानां स्वप्रमाणेन मूलानां चांगुलत्रयम् | पत्रं पुष्पं स्वमानेन कनिष्ठांगुलिसंमिताः || ११४ || समिधस्सत्वचश्चैव वल्कवोष्ट दशांगुलः | चन्दनं कुंकुमं चैव कर्पूरं यक्षकर्दमम् || ११५ || प्. ३११) कस्तूरीकाणां सर्वेषां कलानां मानदं हुनेत् | निदानामष्टमं भागे गुग्गुलुश्चा दास्थित् || ११६ || होमद्रव्यप्रमाणं हि कथितं नन्दिकेश्वर | पञ्चभिर्ब्रह्मबीजैस्तु होमयेत्तु पदे स्थितः || ११७ || साधकस्साध्यमन्त्रेण जुहुयाद्भक्तिसंयुतः | पूर्णाहुतिं ततः कुर्यात् स्रुवा पूर्णं घृतं भवेत् || ११८ || स्रुवेण सव्यहस्तेन निधायाधामुखं शनैः | पुष्पं सृगग्रमारोप्य पश्चाद्वामेन पाणिना || ११९ || पुनस्सव्येन तौ धृत्वा कम्बुसन्निधिमुद्रया | सावधानोर्ध्वकायश्च समांघ्रिस्संमुखस्थितः || १२० || प्. ३१२) निधाय नाभौ तन्मूलं निश्वासोच्छ्वासवर्जितम् | स्रुगग्रे दृष्टिमाधाय ब्रह्मविष्ण्वादिकारणात् || १२१ || सुषुम्नानाडिमार्गेण विसृज्य च समाहितः | तयोर्नीलं समुन्नीय सव्यहस्तसमीपके || १२२ || निधायातन्द्रितो भूत्वा मूलमन्त्रं समुच्चरेत् | वौषडन्तं सनातीं च सजपन्नन्दिकेश्वर || १२३ || पावके जुहुयादग्निं यवमात्रैकसाधनः | आचामं तु पटीरं स्यात्ताम्बूलादींश्च दापयेत् || १२४ || घृतादिद्रव्यालाभे तु तिलं वा तण्डुलं तथा | अनेन वा यथा लाभं शक्त्या हुत्वा दिने दिने || १२५ || प्. ३१३) न सभूतिं समादाय नमस्कुर्याच्च भक्तितः | पश्चादग्निं समभ्यर्च्य पीडितास्त्रेण शंकरान् | १२६ || संहारिण्या तदाहृत्य सर्वमन्त्रान्यसदैवतान् | सादरं तत्क्षमस्वेति चोक्तभावसमन्वितः || १२७ || ब्रह्मादींस्ताननन्तांस्तान् इन्द्राग्नि दिक्पतींस्तदा | पूरकेण हृदम्भोजे श्रद्धया हृदयाणुना || १२८ || धूपयेद्देवदेवेश मसमान्सप परम् | प्रागग्रं सर्वमादाय कुर्यात्कुण्डल युग्मकम् || १२९ || कुण्डं प्रवह्निकरणे बहिरन्तर्बलिं क्षिपेत् | दर्भानास्तीर्य प्रागग्रान् पूर्वरात्रौ बलिं क्षिपेत् || १३० || प्. ३१४) याम्ये मातृबलिं दद्याद् गणेभ्यः पश्चिमे भवेत् | यक्षाणामुत्तरे भागे ग्रहानामैशदेशके || १३१ || असुराणां तथाग्नेर्ययां नैर्-ऋते राक्षसाय च | नागानां वायुदिग्भागे नक्षत्राणां च मध्यमे || १३२ || ईशाने वापि मध्ये तु राशीनां च बलिं क्षिपेत् | आग्नेययां प्रणवस्यापि नैर्-ऋते विश्वदेवताः || १३३ || वायव्ये क्षेत्रपालाय नाममन्त्रैः क्षिपेद्बलिम् | ओं हां रुद्रेभ्यः स्वाहा | ओं हां मातृभ्यः स्वाहा || १३४ || ओं हां गणेभ्यः स्वाहा | ओं हां यक्षेभ्यः स्वाहा | हृदेभ्यः स्वाहा | ओं हां असुरभ्यः स्वाहा || १३५ || प्. ३१५) ओं हां राक्षसेभ्यः स्वाहा | ओं हां नागेभ्यः स्वाहा | ओं हां नक्षत्रेभ्यः स्वाहा | ओं हां राशिभ्यः स्वाहा || १३६ || ओं हां विश्वेभ्यः स्वाहा | ओं हां क्षेत्रपालाय स्वाहा | * * * * * * * * दत्वाबलिरथोच्यते || १३७ || इन्द्रादीशानपर्यन्तं स्वस्वनाम्ना च पूजयेत् | ब्रह्मणे चोर्ध्वमुद्दिश्य पूजयेदन्तरीयके || १३८ || रसाभागमथोद्दिश्य नैर्-ऋते विष्णुमर्चयेत् | मध्यमुद्दिश्य मध्ये तु क्षेत्रपालबलिं क्षिपेत् || १३९ || वायसादिबलिं वापि दिग्विदिक्षु बलिं क्षिपेत् | ओं हां इन्द्राय स्वाहा | ओं हा मग्नये स्वाहा || १४० || प्. ३१६) ओं हां यमाय स्वाहा | ओं हां निर्-ऋतये स्वाहा | ये रुद्रा रुद्रकर्माणो रुद्रस्थान निवासिनः || १४१ || सौम्याश्चैव केचिच्च सौम्यस्थाननिवासिनः | मातरो रुद्ररूपाश्च गणानामधिपार्श्वयोः || १४२ || विघ्नभूतास्तथाचान्ये दिग्विदिक्षु समाश्रिताः | सर्वे सुप्रीतमनसः प्रतिगृहन्त्विमं बलिम् || १४३ || सिद्धिं जुषन्तु मे नित्यं भयेभ्यः पातु मां सदा | एवं बलिप्रदानं च कृत्वा भक्तो नतो भवेत् || १४४ || पूजितं च शिवं भक्त्या प्रणम्याभ्यर्थ्य भक्तितः | भगवन्मम पूजां च होमादिसकल क्रियाम् || १४५ || प्. ३१७) आत्मानं च गृहाणेति मूलमन्त्रेण होमयेत् | अष्टदिक्षु तथा पश्चात् संपूज्य शिवमव्ययम् || १४६ || न्यूनं वाप्यधिकं वापि यन्मया मोहतः कृतम् | सर्वं तदस्तु संपूर्णं त्वत्प्रसादान्मम प्रभो || १४७ || पूर्ववत्प्रोक्तमार्गेण संप्रार्थ्य तदनन्तरम् | यस्य पूजां ततः कुर्यात् पूजान्ते नन्दिकेश्वर || १४८ || इत्यचिन्त्य विश्वसादाख्ये अग्निकार्य विधिश्चतुर्दशः पटलः || प्. ३१८) देवभागे च चण्डाय पूजां तामासमाश्रयेत् | विन्यस्य चास्त्रमन्त्रेण तद्देशस्थान्तरायकम् || १ || निरस्य सकलीकुर्याच् चण्डेशस्यान्तरीयकम् | निरस्य सकली कुर्यान् निर्माल्यं गांगमूलकैः || २ || प्रथमद्वयमुच्चार्य पाशुपतास्त्राय फडिति | अस्त्रेण हस्तौ संशोध्य न्यासार्चन मतः परम् || ३ || ओं प्रथमप्रथमपाशुपतास्त्राय हुंफट् सनाय नमः | अमुं मूर्तीश्वरश्चैव स्वस्वनाम्ना तु पूजयेत् || ४ || ओं चण्डमूर्तये नमः | ध्वनि चण्डेश्वरायेति हुंफट् स्वाहेति मन्त्रतः | आवाहयेत्तदा चण्डं महापातकनाशनम् || ५ || प्. ३१९) ओं ध्वनि चण्डेश्वराय हुंफट् स्वाहा | ओंकारं पूर्वमुच्चार्य षडंगानां च सर्वशः || ६ || सर्वयोगाधिकृतये हृदयाय नमः | ओं परमेश्वरायेति शिरसे नम इत्यपि || ७ || प्रथमं ज्योतिरूपाय शिखायै नम इत्यपि | गोप्त्रे कवचायेति नमस्कारमतः परम् || ८ || चण्डनेत्राय वौषड् वर्धनी पूर्वमन्त्रकम् | ओं सर्वयोगाधिकृताति हृदयाय नमः || ९ || ओं परमेश्वराय पदाय शिरसे नमः | जोतीरूपाय शिखायै वौषट् | ओं गोप्त्रे कवचाय नमः || १० || प्. ३२०) ओं चण्डनेत्राय वौषण्णमः | ओं प्रथम पाशुपतास्त्राय फट् एवं करांग(क) न्यासं कृत्वा पूर्वं षडंगकम् || ११ || हृदयादिक्रमेणैव विन्यसेन्नन्दिकेश्वर | कं स्वराग्निसंभूतां मूर्तिन्निराजनप्रभाम् || १२ || चतुर्वक्त्रेण संयुक्तां नेत्रद्वादशसंयुताम् | ज्वलज्जटामर्धचन्द्रां केयूरकटकोज्वलाम् || १३ || शूलं कमण्डलुं वामे दक्षे टंकाक्षमालिनी | फणिकंकणसंयुक्तां व्यालयज्ञोपवीतिनीम् || १४ || दंष्ट्राकरालवदनां अतिरक्तां विभावयेत् | श्वेतपद्मासनासीनां भक्तानां भयभञ्जिनीम् || १५ || प्. ३२१) ध्यात्वा तन्मूलमन्त्रेण यथाशक्ति जपं जपेत् | अंगानां तु दशां चैव जपित्वा नन्दिकेश्वर || १६ || परमीकृत्य मूलेन चाशुदीक्षापयेत्क्रमात् | गोभूहिरण्यवस्त्राणि मणिभेदादि भूषणम् || १७ || विहाय शेषं निर्माल्यं चण्डेशाय निवेदयेत् | ध्वनिपूर्वेण मन्त्रेण स्वाहान्तेन विशेषतः || १८ || लेह्यशोष्यान्नपानादि ताम्बूलं स्रग्विलेपनम् | निर्माल्य भोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया || १९ || क्रियाकाण्डं मयाचण्ड सर्वमेव त्वदाज्ञया | न्यूनाधिकं कृतं मोहात् परिपूर्णं तदस्तु मे || २० || प्. ३२२) एवं विज्ञाप्य चण्डेशं अर्घ्यं दत्वा समन्त्रकम् | उद्वास्य मूर्तिं मन्त्रेण संहारिण्या च पुष्पयुक् || २१ || मूलेन पूरकेणैव मन्त्रानात्मनि पूजयेत् | चण्डाय ततनिर्माल्ये बाधकाद्यथ संचयम् || २२ || संपत्प्रवालं निर्माल्यमस्पृश्यं सर्वदा गणैः | चण्डध्यानसमायुक्तं तन्निर्माल्यं क्षणात्त्यजेत् || २३ || प्रक्षाल्य पादौ हस्तौ च गोमयालेपनं ततः | निर्माल्यापनयस्थानं प्रोक्षयेदस्त्रवारिणा || २४ || तस्मात्प्रदेशादुत्थाय क्षालयेत्पादमस्तकम् | आचम्य विधिना सम्यक् सम्यग्भस्मानि संस्पृशेत् || २५ || प्. ३२३) मन्त्रांग न्यासकं कृत्वा शिवभागं प्रभावयेत् | समाधि योगमारभ्य कुर्यादुक्तक्रमेण च || २६ || इत्यचिन्त्यविश्वसादाख्ये चण्डपूजाविधिः पञ्चदशः पटलः || अर्धनारीश्वरस्यैव साधनं वक्ष्यतेऽधुना | असंज्ञकात्परात्तत्वात् परं सूक्ष्ममनन्तकम् || १ || बिन्दुनादस्वरूपं च ज्योतिर्लिंग स्वरूपकम् | शिवशक्तिमयं तेजो यत्तत्वं सृष्टिकारणम् || २ || अर्धनारीश्वरं रूपमास्थितं नन्दिकेश्वर | शिवशक्त्यैक्यरूपे तु वार्धनारीश्वरं मतम् || ३ || प्. ३२४) पुंसयोः प्रथमं रूपं शुद्धये जगदीश्वर | सदाशिवस्वरूपाभूदीशोप्यैशी मनोन्मनी || ४ || लिंगार्चनं पुरा प्रोक्तमिदानीं चार्धनारिकम् | शिवरूपं तथा रौद्रं आज्ञासिद्धिप्रदं शुभम् || ५ || सम्यग्रूपं सदानारीत्युभयं मोक्षदं भवेत् | आज्ञाकार्यकृतं रौद्रं शक्त्यर्थं शमनाय च || ६ || तस्माद्द्वौ रौद्रसौम्यौ हि चार्धनारीश्वरं परम् | गुरुं खं शि हेतुर्वा भयं द्रावयति प्रभुः || ७ || रुद्र इत्युच्यते यस्माच्छिवः परमकारणः | मृद्वासने सुखासीनोऽप्येकचित्तः प्रसन्नधीः || ८ || प्. ३२५) गुरुपूजां प्रकुर्वीत चार्धनारीश्वरं यजेत् | सव्यं श्वेतं तथा श्यामं वामं रूपमिदं भवेत् || ९ || पद्मासनस्थितौ ज्ञेयावर्धाधिक्य द्विनेत्रकौ | ललाटनयनं देवे चार्धेक्षणमनूपमम् || १० || दशहस्तसमोपेतं मकुटद्वयसन्निभम् | देवस्य भागे षण्मुद्रां पञ्चमुद्रां तु वामके || ११ || पञ्चमुद्रासमायुक्तं शिरोमालासमायुतम् | कपालिकर्णे पिंछञ्च पलं चैवापसव्यके || १२ || खट्वांगं च त्रिशूलं च चास्थिमालाधरोहरः | निवेद्यहस्तमेकं तु सर्वाधारे सुधारयेत् || १३ || प्. ३२६) द्वौ हस्तौ गजचर्मापि धारयेदूर्ध्वबाहुके | एवं ध्यात्वा विशेषेण पूजयेद्गन्धपुष्पकैः || १४ || लिंगे वा स्थण्डिले वापि वर्धयित्वा पटेऽपि वा | चित्रे वा स्वगिरा वापि भावयेत्पूजयेत्क्रमात् || १५ || ओं ऐं ग्लौं ह्रें ह्रीं ह्रें ह्रौं ह्लौं अघोरेभ्यः ह्रौं ह्लौं प्रों ह्रीं श्रीं ग्लें क्ष्मां (६६) एतन्मन्त्रं जपित्वा तु शिवाज्ञां लभते सदा || १६ || पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् | दीपं नैवेद्यकं चैव मूलमन्त्रेण पूजयेत् || १७ || होमं च तर्पणं चैवाप्यभिषेकं तथैव च | त्रिपंचाशन्तु बीजानां मालया मन्त्रितं भवेत् || १८ || प्. ३२७) सप्तभिः पूर्वबीजैश्च पञ्चब्रह्मषडंगकम् | ओं हें हौं क्षौं श्रीं ह्रीं ह्रौं ईशानाय नमः || १९ || एवं च पञ्चब्रह्म स्यात् षडंगं तु ततः परम् | ओं ऐं ह्लौं प्रं प्रीं प्रें ह्रें ह्रौं हृदयाय नम इत्यादि || २० || षडंगविधिरेवं स्यादर्चा पूजा च पूर्ववत् | पूजान्ते तु पुनर्न्यासं साधको वर्धयेत्क्रमात् || २१ || सदा मन्त्रं सदाध्यानं कल्पयित्वात्वकल्पितम् | कल्पमाकर्षणं चैव पुरक्षोभं प्रतिश्रयः || २२ || अतीतानागतं चैव वर्तमानं तथैव च | भूमित्यागं तथावेशं प्रभुत्वं बुद्धिवर्धनम् || २३ || प्. ३२८) मायालीनान्नरेन्द्रांश्च देवान्गरुडकिन्नरान् | दानवानसुरान्यक्षान् किंकरांश्च विधीयते || २४ || सर्वज्ञानं च लभते विश्वामरजयं भवेत् | सर्वदा समरूपा च देवी देवेन वक्ष्यते || २५ || वश्यमाकर्षणं रक्षां द्विभुजं वरदाभयम् | पुण्यादिशान्त्यौ च स्वर्णवर्णं चतुर्भुजम् || २६ || फलं त्रिशूलाभयदं वरदं च तथैव च | स्तंभने मोहने चैव हरिद्रासन्निभं प्रभुम् || २७ || चतुर्भुजमुदारांगं मूत्रापूर्वत्र चोदितम् | कृष्णमुच्चाटने प्रोक्तं दीर्घबाहुं भयानकम् || २८ || प्. ३२९) शूलं कपालटंकं च खट्वांगमेव च | खेटं खड्गं च पाशं च दधानं भावयेत्तदा || २९ || वारुणे धूम्रवर्णाभं भस्मैः षोडशभिर्युतम् | पाशांकुशाभयदं च कपालं चोर्ध्वबाहुके || ३० || शेषद्वादशशूलं च महाघोरभयान्वितः | ज्ञानेन श्वेतवर्णाभं प्रसन्नवदनं प्रभुम् || ३१ || अक्षमालाभयं चैवमभयं वरदं तथा | चतुर्भुजैर्दधानं तं ध्येयं वै उमासरवम् || ३२ || अतीतानागते कार्ये योगध्यानसमायुतः | इन्द्रियाणां चले काले सर्वं दृश्यं च यद्भवेत् || ३३ || प्. ३३०) स्वप्ने च दृश्यते सर्वं तत्कार्यं च विमर्शयेत् | कुक्कुटासन संस्थोपि लोकयेत्तु शनैः शनैः || ३४ || हस्तांगुल क्रमेणैव विनम्य च विनम्य च | वारणायोगसंयुक्तोऽप्याकाशगमनं भवेत् || ३५ || अनुक्तः सर्वकार्यं तु विज्ञाप्य गुरवे यदा | आज्ञां कब्ध्वोक्तमार्गेण पूजयेन्नन्दिकेश्वर || ३६ || पुण्यक्षेत्रे सुखासीनो मन्त्रमेतत्सुधारयेत् | आशु तेन जपात्सिद्धिर्जपान्तं होमतर्पणम् || ३७ || अभिषेकं दशांशं तु षडंगं तु दशांशकम् | भक्तिविश्वास अद्रोह श्रद्धाशान्ति समन्वितम् || ३८ || प्. ३३१) गुर्वाज्ञा पालनं सत्यज्ञान क्लेशसमानसः | हविष्य भोजनं चैव दशकं साधकश्चरेत् || ३९ || प्रोक्त संपूर्णता विद्या सार्धविद्यामथोच्यते | मानुषं त्र्यम्बकायाथ उमायै तदन्तरम् || ४० || क्षरमेवेदमित्युक्तं द्वादशाक्षरमेव हि | ओं तु षट्त्र्यम्बकायाथ उमायै तदनन्तरम् || ४१ || क्षरमेवेदमित्युक्तं द्वादशाक्षरमेव हि | ओं मानुषं त्र्यम्बकाय उमायै क्षमिति || ४२ || एतन्मन्त्रं जपित्वा तु लक्षमात्रेण साधकः | पूर्वोक्तानि च कार्याणि सर्वमेतेन कारयेत् || ४३ || प्. ३३२) वल्मीकारूढमंकोलं शस्त्राशनिनिबाधितम् | सोमवारे च तन्मूले रक्षामन्त्रेण बन्धयेत् || ४४ || सूत्रेण तिष्ठतिष्ठेति महाबलाय महापुनः | वीर्याय शिवायेति नमस्कारान्तमन्त्रकम् || ४५ || ओं तिष्ठ तिष्ठ महाबलाय महावीर्याय शिवाय नमः | एतन्मन्त्रं जपित्वा तु पश्चादंगारवारके || ४६ || उत्तराभिमुखश्चैव जटामादाय साधकः | हरिद्रारोचनायुक्तं पेषणं पेषयेत् क्रमात् || ४७ || नक्तगलिकतोयेन शुद्धकीकृत्य बुद्धिमान् | वर्षा न्यातपे देशे शुद्धभाण्डे विनिक्षिपेत् || ४८ || प्. ३३३) मूलमन्त्र सहस्रेण संजप्य कुसुमादिभिः | महापातकसंयुक्तान् शिवद्रोहयुतान्परान् || ४९ || गुरुद्रोहांश्च राष्ट्राणां ग्रामद्रोहांश्च साधकैः | गुरुमूर्ध्नि नमस्कुर्यात् तत्प्रसादं च सर्वदा || ५० || आलिप्य हन्ति तान्भस्म जपध्यानसमायुतः | लाभं चालाभकं चैव सुखदुःखं महाद्भयम् || ५१ || सेनान्तगं पुरक्षोभवह्न्यादि सकलानपि | यदेतेषामेकतमः संसिद्धिर्नास्तिनास्ति च || ५२ || तालत्रयं च कृत्वा तु जलंमध्ये निमज्जयेत् | अन्यतीरेण वासांसि विसृज्यान्येन वेष्टयेत् || ५३ || प्. ३३४) नालोकयेत्पृष्ठपार्श्वं अन्यतीर्थं समाश्रयेत् | वक्रवत्युपचारेण सुगन्धामलकादिना || ५४ || शिवशक्तिमथाप्याप्त्वा सुधामन्त्राभिषेचनम् | भैरव इत्युक्तकलाषोडशकलान्वितः || ५५ || मन्त्रं जप्त्वा सुधाकुम्भैरभिषेकं च कारयेत् | स्वक्रियावाससादींश्च यायाद्भावसमन्वितः || ५६ || दुर्निमित्तावलोकेऽपि पुनःस्नानजपादिकम् | शिवोहं भावयित्वातु घृतक्षीराभिषेचनम् || ५७ || भुक्त्वा तु भोजने लोकमक्षिकाद्यादिकुत्सिते | तुषा च दर्शने चैवमपक्वं जातिपक्षकम् || ५८ || प्. ३३५) अन्नक्षत्रिधापरिस्पन्ददीपनाशादिदुर्गुणे | दृष्टश्चेदुत्थितो भूत्वा समाचम्य प्रसन्नधीः || ५९ || अमृताक्षरमन्त्रं च जपेच्छक्त्या समाहिताः | दुर्निमित्त विहीनश्चेत् समं हुत्वा समाचरेत् || ६० || मन्त्रन्यासादिकं कृत्वा चामृताक्षरकं जपेत् | शुद्धदेशे शयानस्य स्वप्ने सर्व प्रकाश्यते || ६१ || स्वप्नं सकलमावेद्य गुरवे कार्यमाचरेत् | तदाज्ञा सर्वकार्याणां सफलांशं प्रकल्प्यते || ६२ || तत्वचिन्तामणि ख्यातोप्येकाक्षरमनेकयुक् | रेफञ्च दक्षबाहुं च श्वेतं च तदनन्तरम् || ६३ || प्. ३३६) महाकालं च वह्निं च मारुतं च मरुस्सरम् | अं ईशान्त क्रमाज्ज्योत्स्ना पिण्डमेकाक्षरं परम् || ६४ || भुक्तिदं मुक्तिदं चैव देवदेव प्रियावहम् | क्षौं ऊं रेफेण हृदयं विद्या अकारौ शिरो भवेत् || ६५ || षकारेण शिखाकार्या मकारेणत्वनुक्रमाः | नेत्रं तु वह्निना चैव यकारेणास्त्रकं भवेत् || ६६ || व्यालं च चन्द्रचूडं च जटाचूडधरं हरम् | अर्धद्विनेत्रयुक्तं च स्त्रीविलासपरं प्रभुम् || ६७ || सोत्पलामालती मालाविलसत्कुन्तलां शिवाम् | एकनेत्रां प्रशान्तान्तां पतिप्रेमप्रवर्धनीम् || ६८ || प्. ३३७) कर्णपूरयुतं सच्यं ताटकं वामकर्णके | कालकण्ठं सुनाशं च दंपत्योस्ससमद्भुतम् || ६९ || हेमरत्नादिकं वामे सव्ये कूर्माभिसंयुतम् | भाविभावयुतं वामे सोत्पलं पाणिपल्लवे || ७० || कपालशूलसंयुक्तं द्विहस्तं फणिकंकणम् | दक्षिणं बाहुयुगलं रत्नहेमादिभूषणैः || ७१ || वाममेकभुजं पीनस्तनमेकं मनोहरम् | व्यालोपवीतहारं च दक्षिणं भस्मलेपितम् || ७२ || मुक्ताहारलसद्वीरं कुंकुमचन्दनैः | कर्पूरागरुकस्तूरीलेपितं वामपार्श्वकम् || ७३ || प्. ३३८) व्याघातमालभागं च कह्लारकृतमालकम् | व्याघ्रचर्मोपरिलसद्वासुकीमेखलांचितम् || ७४ || दक्षिणं देवदेवस्य विचित्रक्षौमवस्त्रयुक् | रत्नकांचीकलापाढ्यं जगद्धातुं च वामकम् || ७५ || नूपुरं वीरबलयं महापद्मविराजितम् | दक्षिणं चादिदेवस्य मणिमंजीरसंयुतम् || ७६ || लाक्षया रंजितं वामं ह्रस्वकिंकिणिकांचितम् | देवासुरनुतं वेदैराक्रन्दितमहर्निशम् || ७७ || अर्धनारीश्वरं देवं भोगमोक्षफलप्रदम् | एवं ध्यात्वा जपेल्लक्षं गुरौ भक्तिसमन्वितः || ७८ || प्. ३३९) दशांशं तर्पणं कुर्यादभिषेकं तथैव च | अयुतं च हुनेत्पश्चात् तिलतण्डुलकैरपि || ७९ || मधुक्षीरघृतासक्तैः गुरौ भक्तिसमन्वितः | अनन्तादि षडुत्थं यद् आसनं परिकल्पयेत् || ८० || तस्योपरि समावाह्य गन्धपुष्पादिमार्चयेत् | आवाहनादि सद्यान्तं पूर्ववन्नन्दिकेश्वर ! || ८१ || अंगैगद्यावृतिः पूज्या चाष्टाक्षरमतः परम् | अष्टमूर्तिस्वनाम्ना च भक्त्या पुष्पैः प्रपूजयेत् || ८२ || रं सूर्यात्मने नमः | कञ्जालात्मने नमः | रं वाप्यात्मने नमः | यं आकाशात्मने नमः || ८३ || प्. ३४०) अं आत्मने नमः | उं सोमात्मने नमः | द्वितीयावरणं प्रोक्तं वृषं पूर्वे च दिग्दले || ८४ || दुर्गाग्नेयदिग्भागे संपूज्यं नन्दिकेश्वर | नन्दिनं दक्षिणे पूज्य गणेशं नैर्-ऋते तथा || ८५ || पश्चिमे त्वां विशेषेण वायत्ये तु गुहो भवेत् | उत्तरे चास्य देवस्या दैशान्ये क्षेत्रपालकः || ८६ || स्वस्वनामनमोऽन्तैश्च स्वबीजैः पूजयेत्क्रमात् | इन्द्रादि लोकपालानां पंचमावरणे यजेत् || ८७ || छिन्नोद्भवलवोद्भूतैः जात्यंगुलसमन्वितैः | दुग्धसिद्धैः समिद्धेग्नौ षट्सहस्रद्वयं हुनेत् || ८८ || प्. ३४१) यावत्संख्येन जुहुयात् तावत्संख्यैस्सुधाघटैः | आम्लादितोऽग्निना नित्यं प्रीयेतां परमेश्वरौ || ८९ || एवं साध्ये कृते पश्चाद् आचार्याय वदेत्पुनः | गुरूणां साध्यकालेन क्रियते वाभिषेचनम् || ९० || पश्चादभीष्टं कार्यं तु सर्वं कर्तुं क्षमः क्षणात् | आयुरारोग्यमैश्वर्यं वाक्सिद्धिं जयदं तथा || ९१ || वश्यमाकर्षणं स्तंभं मोहमुच्चाटनं तथा | मारणं चैन्द्रकानां च परमन्त्रापहारिणम् || ९२ || पराभिचारशान्तिं च सर्वग्रहनिवारणम् | कथं शक्तिर्भवेत्तस्य गुरुभक्तस्य निश्चयम् || ९३ || प्. ३४२) हकारं च सकारं च रेफस्थाने नियोजयेत् | नवाक्षरयुतं पिण्डं दानादौ साधको जपेत् || ९४ || अयुतेन जपेनैव स्तोभो वैशादिकं भवेत् | सकार पूर्वयुक्तं चेच्छान्ति पौष्टिकवर्धनम् || ९५ || षोडशस्वरमध्यस्थं सुसितं नवपिण्डकम् | चन्द्रबिम्बमिदं ध्यात्वा गुरुमण्डलकोपरि || ९६ || तत्सूत्रोदकधाराभिः गुरुं तमभिषेचयेत् | तत्पदाब्जसुधाधारापूजितां स्वां तनुं स्मरेत् || ९७ || अपमृत्युविषं हन्ति शिरोरोगज्वरादिकम् | ग्रहग्रस्तस्य शिरसि वह्निमण्डलसंपुटे || ९८ || प्. ३४३) मध्ये मनुस्वरं चैव प्रतिलोमे रसस्वरम् | कोणरेफादिषट्कं च पूर्वकोणादि भावयेत् || ९९ || साध्यनाम च तन्मध्ये निवेश्य ज्वलदग्निवत् | रेफादिवामश्रुत्यन्तं कालानलसमं स्मरेत् || १०० || अशनिध्वनिसंकाशं मूर्ध्नि दग्धं क्षणात्स्मरेत् | वश्याकर्षणयोरक्तं स्तम्भसंक्षोभणादिषु || १०१ || अकारादि सुवर्णान्तं चिन्तयेन्नन्दिकेश्वरः | धूम्राभं मर्दनोच्चाटे स्तंभ राष्ट्रकरस्य च || १०२ || चा बीणादिवत्सूत्रं स्तंभने पीतवर्णकम् | भूबीजादि तथा प्रोक्तं अनादिमुक्तिकांक्षिणाम् || १०३ || प्. ३४४) नयने श्रवणे चैव वहने कुक्षिके तथा | मर्मस्थाने च शिरसि वायुमण्डलमध्यगम् || १०४ || कृष्णाभं सस्मरेत्तत्र शिवादित्रयनन्दिके | भुक्तांगं ध्यानमात्रेण तत्तदंगं विनश्यति || १०५ || अनेन साधितः पश्चात् वापी पश्चात्प्रमुच्यते | कण्ठनाले च वा श्रोघं भूमण्डलगतं स्मरेत् || १०६ || पिण्डधारायुतं श्वेतं नेत्रं ध्यातं रुचापहम् | एतद्ध्यानं च नेत्रादि सर्वांगेषु च संस्मरेत् || १०७ || तत्तद् व्याध्यादिशमनमन्योन्यप्रीतिवर्धनम् | वश्याकर्षणकार्येण गुणाहीनो गुणी भवेत् || १०८ || प्. ३४५) तस्माद्वाकर्षणं कार्यं कुण्डार्चं तु पथा?गुरुः | साध्यस्य हृदयाम्भोजे मध्ये तद् रुबन्धनम् || १०९ || कृत्वा पञ्चाक्षरेणैव तन्मूर्ध्निरेफमुस्वलम् | ध्यात्वा तस्योर्ध्वके चैव चन्द्रबिम्बं सुधामयम् || ११० || विधाय वायुबीजेन दिव्य?भाव समन्वितम् | आकर्षात्सोऽपि सा चैव सर्वमागच्छति ध्रुवम् || १११ || सर्वे ते तस्य कार्याणि सर्वाण्यपि च कुर्वते | पिण्डस्य मान्तरेफस्य मध्ये साधकनामयुक् || ११२ || साधकाख्यां पूर्वभागे संलिखेन्नन्दिकेश्वर | अग्निबिम्बं ततः कृत्वा तद्बहिः कोणषट्ककम् || ११३ || प्. ३४६) तत्कोणस्यैव रेफं च प्रज्वलत्पावकप्रभम् | प्रतिलोमस्वरेणैव क्रमेणैव प्रवेष्टयेत् || ११४ || पुष्पादिभिस्समभ्यर्च्य प्राणानां च प्रतिष्ठितम् | कृत्वा संग्रहमौ पि निखन्यात्कर्षणं परम् || ११५ || शालिपिष्टमधुक्षीरं घृतसंमिश्रपुत्तलम् | त्रिधा विभज्य जुहुयात् सत्कर्मत्व प्रसिद्धये || ११६ || त्रिधा नेत्रविशेषेण कर्तव्यं वश्यकांक्षिणाम् | पिण्डाक्षरमकारः स्यान् मध्ये नामकम् || ११७ || विलिप्योर्ध्वगरेफे च व्याधिनाम विशेषतः | ठकारेणावृतं पश्चात् तद्बहिर्भूपुरं भवेत् || ११८ || प्. ३४७) तत्कोणे च ठकारं च नागवल्लीदलै लिखेत् | पुण्यं जपश्शन्ति पश्चात् तस्य रोगो विनश्यति || ११९ || पूर्वरेफककाराभ्यां साध्यकर्णं प्रबन्धयेत् | षकारेण वकारेण वक्षोरुहयुगं पुनः || १२० || वामदक्षिणपार्श्वाभ्यां संवेष्ट्य तदनन्तरम् | रेफेण वायुबीजेन बहुदेयं सयुग्मकम् || १२१ || ओंकारांगस्वरेणैव मुखं नाभिं च बन्धयेत् | बिन्दुपक्षस्थले न्यस्त्वा दीर्घचन्द्राकृतिर्भवः || १२२ || अन्योन्यमकरं बध्वा विहरेत्कन्तुकोपमम् | वशिस्तोभूमिदं चैव स्तोहकं विषभूतले || १२३ || प्. ३४८) त्रिकोणसंपुटसर्वान्तः पिण्डाक्षरमशेकम् | बिन्दुजीवरसेनैव विलिखेत्साधकोत्तमः || १२४ || अग्निं तत्र प्रतिष्ठाप्य संपूज्य विधिना पुनः | सलोहमंगुलीकं च ताम्रपात्रे निधाय च || १२५ || आज्येन हुत्वा संपातं निक्षिपेदंगुलीयके | त्रिकोण संपुटस्यान्तः पिण्डाक्षरमशेषकम् || १२६ || बन्धुतीव्ररसेनैव विलिखेद् कोत्तमः | अग्निं तत्र प्रतिष्ठाप्य संपूज्य विधिना पुनः || १२७ || त्रैलोहमंगुलीयं च ताम्रपात्रे निधाय च | आज्येन हुत्वा संपातं निक्षिपेदंगुलीयते || १२८ || प्. ३४९) शतवृद्धा च संपाद्य विदध्यादंगुलीयके | साध्यस्यांगुलिं निक्षिप्य अभीष्ठफलसिद्धिदम् || १२९ || वज्राभिषेकमात्रं तु तन्मन्त्रैर्नन्दिकेश्वर | लिखित्वाष्टदलं पद्मं कर्णिकायां षडश्रकम् || १३० || मध्ये त्रिकोणं तन्मध्ये पिण्डान्तं मध्यसाध्यकम् | षट्कोणे च षडंगं च पूर्वादिदलके पुनः || १३१ || रेफादिवर्णमारभ्य लिखेद्बीजाष्टकं क्रमात् | सानुस्वरान्लिखित्वा तु बाह्ये वृत्तत्रयं भवेत् || १३२ || बिन्दुनादसमायुक्तं स्वरषोडशकं न्यसेत् | तद्बहिः कादिमान्तं च पञ्चविंशतिभिर्युतम् || १३३ || प्. ३५०) तद्बहिर्वृत्तके वापि हकारान्ताष्टकं लिखेत् | तद्बाह्ये भूपुरं लिख्य तत्कोणेषुहकारकम् || १३४ || तन्मध्ये पूर्णकुम्भं च निधायावाह्य दैवतम् | अष्टगन्धादिभिः पूज्य सर्वपुष्पैश्च भक्तियुक् || १३५ || अभिषेकं ततः कुर्यात् सर्वरक्षाकरी परा | इकारान्तं लिखेत्पिण्डं षोडशस्वरवेष्टितम् || १३६ || तन्मध्ये साध्यनामाभिर्वह्निगेहद्वयावृतम् | नकारे रेफमालिख्य ज्वलत्पावकसप्रभम् || १३७ || तद्बहिर्भानुबीजं च कादिजान्ताक्षरीं न्यसेत् | तन्मध्ये तद्बहिर्भूयो भूमण्डलयुगं न्यसेत् || १३८ || प्. ३५१) संवर्तकं च तत्कोणेष्यालिख्य नन्दिकेश्वर | एतच्चक्रं समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् || १३९ || ग्रहक्ष्वेलभयादीनां नाशनं यन्त्रधारणम् | काश्वान्यबिम्बयुग्मस्य मध्ये चिन्तामणिं लिखेत् || १४० || साध्याख्यां चैव तन्मध्ये कोणेष्वग्न्यादिषट्ककम् | कोणे पार्श्वेषु वैकारमुकारं च क्रमाल्लिखेत् || १४१ || तद्बहिर्भानुबिम्बं च तन्मध्ये प्रणवं लिखेत् | तद्बाह्ये भूपुरद्वन्द्वं संलिख्य विधिवत्पुनः || १४२ || लाक्षागोरोचनाभ्यां च तत्पात्रे विलिखेत्क्रमात् | संपूज्याभ्यर्च्य पुष्पाद्यैः धारयेद्यन्त्रमुत्तरम् || १४३ || प्. ३५२) आयुष्करं पुष्टिकरं लक्ष्मीवर्धनमेव च | अपवादादि दोषघ्नं वश्यके?त्सौम्यवर्धनम् || १४४ || चोरव्यालमहागे?ग भूतापस्मारहारकम् | रक्षामध्यगतं ह्येतत् सर्वरक्षाकरं परम् || १४५ || वह्निमण्डलयुग्मस्य मध्ये मध्याक्षरं लिखेत् | मूलमन्त्रं च संलिख्य बाह्ये * लोपमुज्वलम् || १४६ || अग्निज्वालावृतं चैव विषवृक्षैः समन्ततः | साग्रशाखावृतश्चैव जप्त्वा सं * * * * * || १४७ || * * * * * पूज्य स्थापयेद्यतित सत्तम | व्याघ्रचोरवराहाश्च शत्रुवर्गवराहकाः || १४८ || प्. ३५३) न व्रजन्ति समीपेऽपि लोकरक्षाकरं परम् | एवं प्रथमसद्यादि स * * * * * * * || १४९ || * * * * * * तस्मिन् देहान्ते मुक्तिमाप्नुयात् | इत्यचिन्त्यविश्वसादाख्ये अर्धनारीश्वर पूजाविधिः पञ्चदशः पटलः || लोकसंरक्षणार्थाय * * * शंसनाय च | देवानां प्रार्थनासिध्यै गजास्यासुररूपिणः || १ || नाशाय विघ्नराजस्य चोत्पत्त्यै शंकरस्वयम् | गजरूपं समास्थाय देव्या सह || २ || * * * * * * जान्तां शृणुत्वं नन्दिकेश्वर | अष्टारं पद्ममालिख्य पूर्वाद्यष्टदले पुनः || ३ || प्. ३५४) दलमूले सुरद्वन्द्वयुक्तं षोडशकं न्यसेत् | पूर्वस्य दलमध्येऽपि कवर्गं पञ्चकं न्यसेत् || ४ || आग्नेयेऽपि चवर्गं स्याद्याम्ये चैव ठवर्गकम् | राक्षसे च तवर्गं स्यात्पवर्गं पश्चिमे न्यसेत् || ५ || ओं श्रीं ग्लीं शिरसे स्वाहा | ओं ह्रीं ह्रूं शिखायै वषट् | ओं क्लीं गैं कवचाय हुम् | ओं ग्लौं गों नेत्रत्रयाय वौषट् || ६ || ओं गं गः अस्त्राय फट् | उक्तं षडंगं परिकीर्तितम् | षडश्रं कर्णिकामध्ये तन्मध्ये च त्रिकोणकम् || ७ || योनिरूपमिदं ध्यात्वा दलेषु नवशक्तयः | तीव्रा च ज्वालिनी कन्दा * * * * * * * * || ८ || प्. ३५५) * * * * वती सन्ध्या नवमी विघ्ननाशिनी | सर्वशक्तिपदं चोक्ता कमलासनसन्नुतिः || ९ || पूर्वादीशानपर्यन्तं दलेषु क्रमशो न्यसेत् | अष्टशक्तिं च विन्यस्य नवमी काम्यदायिनी || १० || सकल संपत्तियुते कमलासन मध्यमे | देवमावाह्य सर्वश्री वचनं विघ्ननाशनम् || ११ || ऐंक्षवं चादिमध्ये तु रत्नद्वीपं विचिन्तयेत् | मन्दारपारिजातादि कल्पवृक्षैः समाहितः || १२ || सर्वर्तुफलसंयुक्तैः अभीष्ठफलदायिभिः | ज्योत्स्नाबालातपैर्युक्तं चतुर्दिक्षु सुशीतलम् || १३ || प्. ३५६) मलयानिलपोतेन नृद्वच्छीकरहारिणा | खरिनादिना सेवितं सर्वदा वज्रप्रवालमणिपल्लवैः || १४ || सर्वगन्धसमोपेतैः पुष्पैः फलसमन्वितैः | कोटिकोटिमहाशाखा रंगदा चैव मिक्षुचापमनन्तरम् || १५ || तथा त्रिशूलं चक्रं च सर्वभागगताः क्रमात् | वामे पद्मं च पाशं च रक्तोत्पलमनूपमम् || १६ || मञ्जीरं * * * * * * * * * न्द्र निर्मलम् | सरत्नं हेम कुंभं च पूरितं वसुभिर्वृतम् || १७ || पुष्करेण दधानं तं कुंकुमाभमनूपमम् | किरीटमकुटोपेतं नेत्रत्रयविराजितम् || १८ || प्. ३५७) शूर्प * * * * * * * * * * * * वृतान् | क्षेपयन्तं मदोन्मत्तं सर्वाभरणभूषितम् | तस्य वामोरुसंलीनां जगत्कारणकारणाम् || १९ || सुवर्णवर्णां सुश्रोणीं सर्वलक्षण संयुताम् | अर्धचन्द्रसमाकारललाटां चन्द्रमण्डिताम् || २० || त्रिणेत्रां चतुर्भुजां देवीं सर्वाभरणबूषिताम् | सव्यहस्तेन देवेशं श्लिष्यन्तीं प्रेमनिर्भराम् || २१ || वामहस्तेन पाशं च दधानां मदविह्वलाम् | देवं च वामहस्तेन निबिडस्तनमध्यमम् || २२ || श्लिष्यन्तं सर्वदा सम्यगानन्दामृतनिर्भरम् | रत्नौघं पुष्कराग्रेण साधिका च मुहुर्मुहुः || २३ || प्. ३५८) वर्षन्तं देवदेवेशं चिन्तयेत्साधकोत्तमः | आवाहनादिभिस्सर्वैः संपूज्य परमेष्टिनम् || २४ || तद्वद्देवीं समभ्यर्च्य भक्तियुक्तो दृढव्रतः | त्रिकोणबाह्यषट्कोण स्यान्तराग्रे च देवयोः || २५ || बिल्वमूले च विष्णुं च श्रियं सर्वांगसुन्दरीम् | चतुर्भुजं विशालाक्षं शंखचक्रगदाम्बुजम् || २६ || दधानं तस्य वामे च लीनां पद्मकरद्वयम् | * * * * * * * * * * लेष्ठां पार्वतीं तथा || २७ || परश्वथं च शूलं च वरदं चाभयं तथा | दधानं भावयित्वा मां पाशांकुशसमुज्वलाम् || २८ || प्. ३५९) पूर्वे पिप्पलवृक्षस्य मूले कामं रतिं तथा | इक्षुचापं च पुष्पेषुं अभयं वरदं तथा || २९ || तस्य देवीं कराभ्यां तु रक्तोत्पलयुतां स्मरेत् | उत्तरे भूमिदेवीं च वराहं विष्णुविग्रहम् || ३० || गदाचक्राभयवरान् दधानं च चतुर्भुजैः | तस्य देवीं शुक्रं चैव कण्ठिशंकलमोद्भवम् || ३१ || दधानां वर्णान्तां सर्वाभरणसंयुताम् | प्रियंगुमूले सन्दीप्तां भावयेन्नन्दिकेश्वर || ३२ || प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु | सट्कोणमध्ये षड्विघ्नान् सर्वाभीष्ट प्रदायकान् || ३३ || प्. ३६०) आमोदमग्रभागे च प्रमोदं सुमुखास्वतम् | गणपं रत्नसंकाशं गजवक्त्रसमन्वितम् || ३४ || मौक्तिकाभं शंखनिधिं पद्माख्यं मणी सन्निभम् | द्वितीयावरणं प्रोक्तं तृतीयं चांगसंयुतम् || ३५ || चतुर्भिश्च त्रिभिश्चैव पंचमं लोकपालकैः | स्वस्वनाम्ना च गन्धाद्यैः पूजयेन्नन्दिकेश्वर || ३६ || चत्वारिंशत्सहस्रं च चतुर्लक्षमतः परम् | चतुस्सहस्र संयुक्तं जपसंख्या क्रमोदिता || ३७ || वा * * * * * णां च चत्वारिंशत्प्रतर्पयेत् | जपान्ते जुहुयादष्टद्रव्यैस्तत्तु दशांशतः || ३८ || प्. ३६१) पृथुकं मोदकैश्चैव लाजैश्चेक्षुस्तिलं तथा | सक्तवो नालिकेरश्च कदली फलमष्टकम् || ३९ || एतैर्द्रव्यैश्च जुहुयाद् अन्वहं भक्तिसंयुतः | गुरुणाचाभिषिक्तश्च कलशैश्च चतुर्विधैः || २० || चतुर्दलयुते पद्मे तन्मूलेन कृते तथा | क्षीरपादपबिल्वं च वटं पिप्पलमेव च || ४१ || फलिनीं च समादाय तेषां चाक्षय वारिभिः | पूजयेत्कलशान्सम्यक् गणेशान्षट् समर्चयेत् || ४२ || विन्यस्यामृतबीजं तु चत्वारिंशच्छतं जपेत् | अभिषिंचेद्गुरुः शिष्यं अनुग्रहपुरस्सरम् || ४३ || प्. ३६२) हेमपुष्.पैः समभ्यर्च्य हेमयज्ञोपवीतकैः | हेमांगुलीयकैश्चैव चित्रवस्त्रैश्च व्रीहिभिः || ४४ || शिष्योऽपि दक्षिणां दद्याद्गुरुभक्तिसमन्वितः | विभवस्यानुसारेण देशिकाय निवेदयेत् || ४५ || पश्चात्सर्वाणि कार्याणि साधकोपि समाचरेत् | अष्टद्रव्यैश्च हुत्वा तु तत्तद्द्रव्यसमाप्तये || ४६ || काञ्चनाप्त्यैव मधुना जुहुयादयुतद्वयम् | गोक्षीरेण ज्ञानसिध्यै लक्ष्म्यै गोसर्पिषा तथा || ४७ || कीर्त्यै शर्करया लाजैः सर्वसिध्यै दधिं हुनेत् | अन्नेनान्नसमृद्धिः स्यात्तिलैर्ग्रन्थसमृद्धये || ४८ || प्. ३६३) तण्डुलैस्सहितैरेव कुसुम्भैर्वाससैस्तथा | अभीष्टक्षेत्रमृत्स्नां च संगृह्य क्षीरमिश्रितम् || ४९ || जुहुयात्क्षेत्रसिध्यै च राज्यसिध्यै विशेषतः | प्रतिपक्षक्षत्रियस्य नगरोत्सवमृत्स्नुभिः || ५० || अष्टद्रव्यादिभिस्सार्धं क्षीरैस्सहैव होमयेत् | राज्याप्तिर्नचिरादेव सिध्यत्येव न संशयः || ५१ || कन्यार्थी शालिजैः पुष्पैः पु द्योतिभिरन्वहम् | जुहुयात्पतिकामी च छिन्नोद्भवसमिद्वरैः || ५२ || आक्तैः स्त्रिमधुरैश्चैव वरं सा लभते क्षणात् | राज्यानां वृद्धये पद्मैः त क् फलैरपि || ५३ || प्. ३६४) मन्त्रिणां कैरवैरेवमश्वत्थादिभिरग्रजान् | समिद्वरैश्च जुहुयाल् लवणैरश्वायवैतसः || ५४ || दृष्टयेप्यन्त्यजातीनां पारिभद्रस्य पुष्पकैः | मधुरत्रयसंयुक्तैः जुहुयान्नन्दिकेश्वर || ५५ || पाटलैः पुत्र संसिध्यै राज्यस्य शत्रुशान्तये | दूर्वाकाण्डस्य होमेन दीर्घायुश्च भवेत्सदा || ५६ || अपामार्गसमिद्धोमाद् विस्मृत्यादिविनाशनम् | छिन्नोद्भवैस्समिद्भिश्च पञ्चमृतसमन्वितैः || ५७ || कालकूटादिगरलनाशनं सर्वसिद्धिदम् | चतुर्थितं जपेन्नित्यं गुरौ भक्तिसमन्वितः || ५८ || प्. ३६५) देहान्ते मुक्तिमाप्नोति स तत्रैव न संशयः || ५८ १/२ || इत्यचिन्त्य विश्वसादाख्ये महागणपतिपूजाविधिः षोडशः पटलः || क्षिप्रप्रसादविघ्नेश मन्त्रपूजाविधिं शृणु | भोगमोक्षप्रदं चैव सर्वविघ्ननिवारणम् || १ || पञ्चार्धकं चार्धचन्द्रं संपर्त्तः क्रमतः परम् | सूक्ष्मयुक्तं तथानास्त्रमग्निबीजसमन्वितम् || २ || लोहितो वह्नियुक्तश्च भृगुः पाशसमन्वितः | अत्रदीर्घ समायुक्तः शिखा वायुर्नमोन्तकः || ३ || मूलबीजस्य दीर्घाद्यैः जातियुक्तैः षडंगकम् | तीव्रादिनवशक्तिस्थदेवं पद्मे सुपूजयेत् || ४ || प्. ३६६) पूर्ववद्गन्धपुष्पाद्यैः विघ्नं सम्यक् प्रपूजयेत् | रक्तांगं रागसंयुक्तं रक्तमाला विभूषितम् || ५ || पाशांकुशं सदन्तं च कल्पद्रुमलतायुतम् | त्रिणेत्रं पुष्करस्याग्रे बीजापूरसमन्वितम् || ६ || बद्धपद्मासनोपेतं बालार्कसमतेजसम् | यज्ञोपवीतसंयुक्तं ब्रह्मचारिस्वरूपिणम् || ७ || तद्बहिर्दलमूले तु पूजयेदष्टमूलकान् | विघ्नं विनायकं चैव वीरं शुरमनन्तरम् || ८ || वरदं गजवक्त्रं च तथैव ह्येकदन्तकम् | लम्बोदरमिति प्रोक्तं स्वस्वनाम्ना च बीजयुक् || ९ || प्. ३६७) गं विघ्नाय नमः | गं विनायकाय नमः | गं वीराय नमः | ओं गं शूराय नमः || १० || गं वरदाय नमः | गं गजवक्त्राय नमः | गं एकदन्ताय नमः | गं लम्बोदराय नमः || ११ || प्रथमावरणं चैतेन्मातृभिश्च ततोंगकैः | चतुर्थं लोकपालैश्च क्रमाद्देवं प्रपूजयेत् || १२ || घृतेन पायसेनैव शर्कराभिश्च होमयेत् | इन्दिराले च यशसे सर्वसिध्यै विशेषतः || १३ || केवलेन घृतेनैव जगत्सद्यो वशं नयेत् | सत्वचं नालिकेरं च कोष्ठयुक्तं क्रमाद्धूनेत् || १४ || प्. ३६८) एकमेकं हुनेन्नित्यं चत्वारिंशद्दिनं तथा | वांछितार्थं समभ्यैति चाष्टद्रव्यैश्च होमयेत् || १५ || अष्टद्रव्यस्य होमेन सर्वसिद्धिश्च जायते | दिनान्ते तर्पणं कुर्याद् भौतिको नैष्ठिकस्तथा || १६ || गृहयात्रा भौतिकस्य कैवल्यं नैष्ठिकस्य तु | चत्वारिंशद्दिनात्सिद्धिः मन्त्रस्य तु विशेषतः || १७ || मण्डलात्सवितुश्चैव सोपानं राजतं भवेत् | तन्मार्गेणागतस्तोये तस्यैसाकांक्षितं लभेत् || १८ || मस्तके तर्पणं विघ्नः प्रीणाति च मुहुर्मुहुः | पूजाहोमं च कार्यं च महागणपतेरिव || १९ || प्. ३६९) सर्वागमोचितं देवं सर्वविघ्नविनाशनम् | तमेव पश्चाद्वक्ष्यामि शृणुत्वं नन्दिकेश्वर || २० || पूर्वोक्तस्नानसंयुक्तः पूर्वोक्तगुणवांच्छुचिः | स्वकीयाचारसंयुक्तः व्रतापी लोभवर्जितः || २१ || वाङ्मौनेन समायुक्तः साधयेद्विघ्नराजकान् | उत्तमं तारमुच्चार्य पञ्चान्तकमतःपरम् || २२ || बिन्दुयुक्तं गणैर्युक्तं पतये नम इत्यपि | ओं गं गणपतये नमः | तर्पणे च हुते चैव स्वाहान्तं मन्त्रमुच्चरेत् || २३ || दीर्घयुक्तस्वबीजैश्च पूर्ववच्च षडंगकम् | ओं हां हृदयाय नमः ओं हीं शिरसे स्वाहा || २४ || प्. ३७०) ओं हूं शिखायै वषट् | ओं हैं कवचाय हुम् | ओं हौं नेत्रत्रयाय वौषट् | ओं हः अस्त्राय फट् || २५ || एवं षडंगं संपूज्य करांगन्यासमाचरेत् | ऐक्षवाम्भोधिमध्ये तु द्वीपे कनकरत्नके || २६ || कल्पद्रुमसमोपेतं दिव्यपुष्पलतान्वितम् | दिव्यद्रुमलतोपेतं दिव्यमाराधसेवितम् || २७ || हंसकोकिलभृंगाद्यैः शुककेकी समावृतम् | सर्वर्तुफलसंयुक्तं पनसैश्चन्दनैरपि || २८ || चूतजम्बूकपित्थश्रीरम्भा डाडिमपूगयुक् | नालिकेरैश्च विविधैरिक्षुभिर्मातुलंगकैः || २९ || प्. ३७१) दिव्यैरन्यैश्च तरुभिः पूर्वपुण्यनिषेविते | तन्मध्ये पारिजातं च नानारत्नसमन्वितम् || ३० || अनेकशाखासंयुक्तं फलपुष्पसमन्वितम् | निश्छिद्रपल्लवैर्युक्तं चन्द्रकान्तसुशीतलम् || ३१ || बालार्क रश्मिभिर्युक्तं सर्वशोभासमन्वितम् | तस्य मध्येऽप्यनन्तादि शिवाद्यास्नापनं स्मरेत् || ३२ || तन्मध्ये मातृकापद्मं पूजयेत्पूर्ववत्क्रमात् | अनेकशाखासंयुक्तं फलपुष्पसमन्वितम् || ३३ || तीव्रादिनवशक्तीश्च पूजयेन्नन्दिकेश्वर | तन्मध्ये च त्रिकोणे च तस्य मध्ये च भावयेत् || ३४ || प्. ३७२) गजः क्रीडं शिरः पद्मे पूजयेद्विघ्ननायकम् | आवाहनादि नैवेद्यं पूजयेत्पूर्ववत्क्रमात् || ३५ || मोदकं नालिकेरं च काजसक्तुतिलाश्च ये | इक्षुं च पृथुकं चैव रम्भाफलयुतं क्रमात् || ३६ || द्रव्यैरष्टभिरेतैस्तु हुत्वा प्रतिपदादिभिः | चतुर्थ्यारभ्य वा सम्यक् शुभवारे शुभे दिने || ३७ || पूजयेद्विघ्नराजं तं तदग्रेण गणाधिपम् | नैर्-ऋत्यां तु गणेशं च वायव्यां गणनायकम् || ३८ || तद्बाह्यदलमूले च षडंगं पूजयेत्क्रमात् | दलाष्टकस्य मध्ये तु वक्रतुण्डैकवक्त्रकौ || ३९ || प्. ३७३) महोदरं गजास्यं च लम्बोदरमनन्तरम् | विकटं विघ्नराजं च धूम्रवर्णं च पूजयेत् || ४० || मातॄश्च पूजयेत्पश्चाच्चतुर्थावरणे क्रमात् | तद्बहिर्लोकपालांश्च दलान्ते स्वस्वनामभिः || ४१ || प्रणवादिनमोऽन्तैश्च पूजयेद्भक्तिसंयुतः | सप्तप्रतियुतं दिव्यं प्रथमं रत्ननिर्मितम् || ४२ || द्वितीयं हेमवर्णं स्यात् तृतीयं राजतं भवेत् | चतुर्थं सालताम्रेण पंचमं स्फटिकं भवेत् || ४३ || षष्ठं सीसमयं प्रोक्तं प्राकारमायसं बहिः | एवं तु सप्तभिस्सालैः वेष्टितं चिन्तयेद्बहिः || ४४ || प्. ३७४) माणिक्य व प्रद्वारे च शंखपद्मनिधीयतः | शंखं शंखेन्दुवर्णाभं पद्मयुक्तनिभं भवेत् || ४५ || महोदरौ ह्रस्वबाहू शंखपद्मभृतावुभौ | गणपद्वादशानां च तथांगानां स्वरूपकम् || ४६ || रक्तवर्णा गजमुखाः पाशांकुशनमोयुताः | एवं संचिन्त्य संपूज्य जपसंख्यादि वक्ष्यते || ४७ || चत्वारिंशत्सहस्रं च चतुर्लक्षजपं भवेत् | दशांशं तर्पणं चैवमभिषेकाहुतिक्रिया || ४८ || घृतैस्समिद्भिरन्नैश्च अष्टद्रव्यैर्विशेषतः | प्राणप्रतिष्ठामन्त्रेण जप्त्वा मूलं ततः क्रमात् || ४९ || प्. ३७५) अष्टोत्तरशतं जप्त्वा तूष्णीमेतत्प्रभक्षयेत् | साध्यदिश्यमनोभूत्वा सप्तरात्राद्वशीकृतम् || ५० || मधुरत्रयसंयुक्तं गडूची वह्निहोमतः | सर्वोपद्रवनाशश्च ज्वरनाशश्च जायते || ५१ || तिलतण्डुलकैर्लक्ष्मीवर्धनं वश्यकृद्भवेत् | कन्यार्थीलाजकैश्चैव मयूरत्रयकेक्षुभिः || ५२ || सप्तरात्रं च जुहुयाद् वरार्थी चैवमेव हि | नालिकेरैश्च जुहुयाच्चतुर्थीं प्रति साधकः || ५३ || राजश्रीस्तस्य वैभूयादन्वहं वर्धते क्रमात् | घृतसंसिक्तहविषा सर्वकार्यं च साधयेत् || ५४ || प्. ३७६) दधिसंमिश्रलवणैरर्धरात्रे हुतक्रिया | आकर्षणादिभिश्चैव संवादस्य फलं तथा || ५५ || मयूरत्रयसंयुक्तैः पलाशकुसुमैस्तथा | होमात्कवित्वसंसिद्धिर्बृहस्पतिसमो भवेत् || ५६ || बिल्वैः संसिक्तजैश्चैव स्वर्णपुष्पसमुद्भवैः | उत्पलैर्बन्धुजीवैश्च नन्द्यावर्तैश्च चम्पकैः || ५७ || पाटलैर्नागपुष्पैश्च पुन्नागैर्मधुरत्रयैः | होमेनेन्द्रसमः श्रीमान् गुरुभक्तिविशारदः || ५८ || शर्करा लाजहोमेन तेजस्वी चार्कसन्निभः | आत्मान मनुसंचिन्त्य सम्यग्घुत्वा विचक्षणः || ५९ || प्. ३७७) साम्यस्य हृदयाम्भोन्नं जीवयुक्तं प्रबन्धयेत् | पातिघ्नबध्वा तत्सर्वं कण्ठं तत्पुष्करेण तु || ६० || घृणिश्च शिरसि न्यस्य गणपैः पृष्ठपार्श्वयोः | तलप्रहारैरभितः प्रेर्यमाणं विभावयेत् || ६१ || सप्तरात्र प्रयोगेण सर्वाघघर्षणं भवेत् | स्वबीजयुक्तभूबीजं अनुस्वरयुतं तथा || ६२ || चन्द्रं चण्डसमोपेतं ग्लौकारं स्तम्भनं भवेत् | हरिद्रया शरावास्यं मध्ये साध्यस्य नाम च || ६३ || ग्लौकारं मध्यसंवीतं संलेख्य तदनन्तरम् | प्राणप्रतिष्ठां कृत्वा तु वक्ष्यमाणक्रमेण तु || ६४ || प्. ३७८) अमुष्य प्राण इहप्राण अमुष्य जीव इह स्थितः | अमुष्य सर्वेन्द्रियाणि वाङ्मनः कायकर्म च || ६५ || प्राणाश्च इह आयान्तु स्वाहान्तं मन्त्रकं भवेत् | गुरुः शिष्यं शक्रमतः कुर्यात्प्राणप्रतिष्ठिकाम् || ६६ || अनेनैव क्रमेणैव साध्यप्राणान्प्रतिष्ठिपेत् | पीतपुष्पैः समभ्यर्यच मूलमन्त्रेण संजपन् || ६७ || सहस्रकं जपं कृत्वा शरावेणान्य संपुटम् | चतुष्पदे तु निखनेन मध्यरात्रौ विशेषतः || ६८ || साध्यं चाधो मुखं ध्यात्वा चात्मानं विघ्ननायकम् | सृक् गजस्तम्भनं चैव गमनं क्रोधमेव च || ६९ || प्. ३७९) उत्साहस्तम्भनं चैव धर्महानिं च वर्जयेत् | साध्यसाधकयोर्नाम लिखेद्योषारचेन च || ७० || इष्टकायुगले चैव पूर्ववन्मन्त्रसंपुटम् | त्रिसहस्रं जपित्वा तु निखनेत्सैन्यमार्गके || ७१ || सेनास्तम्भं भवेदेवमष्टद्रव्यैश्च पूजयेत् | एभिर्द्रव्यं तु बालेभ्यो दद्यान्नित्यं तु भक्तियुक् || ७२ || शत्रुनाम लिखेद्बिम्बे तत्पत्राणां रसेन च | नवसाहस्रजापेन साधितं रिपुमार्गके || ७३ || निखनेत्स्तंभास्था नं पूर्ववद्विघ्नपूजने | पापिष्ठं धर्मरोधिं च पिशुनं भंजनं तथा || ७४ || प्. ३८०) देवद्रव्यापहारिं च गुरुद्रव्यापहारकम् | उच्चाटयेत्स्वदेशात्तु तदुपायमिहोच्यते || ७५ || श्मशानांगारमाहृत्य तपोनिधनवृक्षके | विचूर्ण्य तदक्षकं च मन्त्र संपुटमालिखेत् || ७६ || गजासिहसृकं चैव वैरिगेहे विनिक्षिपेत् | तच्चूर्णमात्रसंपर्काद् देशाद्देशान्तरं व्रजेत् || ७७ || श्मशानास्थि समादाय इष्टार्थांगुलसंमितम् | सहस्रजप्तमेतेन शत्रुद्वेषे निखानयेत् || ७८ || उच्चाटनं भवेदेतत् पापकर्मरतस्य हि | निम्बकाकालयं गृह्य दग्ध्वा चांगारवारके || ७९ || प्. ३८१) श्मशानचित्या तद्दग्ध्वा तद्देशोद्भूतवह्निना | तन्मध्ये शत्रुसंज्ञां च मन्त्रसंपुटके लिखेत् || ८० || त्रिसहस्रं जपित्वा तु तन्मूर्ध्नि च विनिक्षिपेत् | देशाद्देशान्तरं भूत्वा दुःखीभवति निश्चयम् || ८१ || पापस्मृतियुतं क्रूरं अशिक्षितमनर्थकम् | होमयेदुक्तमार्गेण शृणुत्वं यत्तदुच्यते || ८२ || तन्नाममक्षरं मध्ये लिखित्वा कर्मसंपटम् | तालपत्रे च पुत्तल्यां निधाय तदनन्तरम् || ८३ || मधूच्छिष्टेन तत्सर्वं पिण्डं कृत्वार्धरात्रके | तीक्ष्णं च तैलेनाज्येन श्मशाने शुष्कदूर्धरे || ८४ || प्. ३८२) समिद्भिर्दाहयेत्तत्तत् सप्तरात्र प्रयोगतः | मोहनं च भवेत्तस्य विस्मृतिश्च विशेषतः || ८५ || धर्मस्य कृतमेतच्च प्रायश्चित्तं च कारयेत् | भूर्जपत्रे लिखेत्साध्य वि * * तमनुक्रमात् || ८६ || कुलालहस्तमृत्स्नां च संगृह्याकृतिवद्भवेत् | तस्योदरे विनिक्षिप्य भृंगीस्नेहेन लेपयेत् || ८७ || आलोढ्य तज्जलेनैव लिपेद्वश्यमनुत्तमम् | अथाञ्जलिकरीं चैन्द्रवल्लीलक्ष्मीं च भद्रिकाम् || ८८ || विष्णुक्रान्तिं च वाराहिं भृंगीपूर्वां च देविकाम् | सहां चैव समुद्धृत्य प्रत्येकं तु शतं जपेत् || ८९ || प्. ३८३) अष्टोत्तरं जपित्वा तु धारयेत्सर्ववश्यकम् | प्रत्येकमुक्तं तत्रापि सर्वसंयोजनं शृणु || ९० || दशांशमञ्जलिः प्रोक्ता रविसंख्येन्द्रिका लता | लक्ष्मीर्वसुसमांशास्या द्रुमांगं सर्वभद्रिका || ९१ || विष्णुक्रान्तिं मनोसंख्या मुसली षोडशांशकम् | मयूरद्व्यंशकं प्रोक्तं वश्ये दूर्वा विशेषतः || ९२ || देवी तु गुणसंख्या स्यादेकांशं तु सदा भवेत् | अष्टोत्तरशतं जप्त्वा प्रत्येकं तदनन्तरम् || ९३ || संयोज्य पिष्ट्वा सकलं शुष्यैः पूर्णयुते दधि | गुलिकीकृत्य संजप्य सहस्रं भक्ति संयुतम् || ९४ || प्. ३८४) गणनाथं च संपूज्य तिलकालेपनं भवेत् | भस्म संयुक्तमेतत्तु सर्ववश्यकरं परम् || ९५ || सर्वपापक्षयं चैव धनधान्यविवर्धनम् | महागणपपूजायां यत्प्रोक्तं तद्धि युज्यते || ९६ || उक्त साधनतः पश्चाच्चतुरावृत्तिसाधनात् | प्रत्यक्षी भवति क्षिप्रं गणनाथो विशेषतः || ९७ || इत्यचिन्त्य विश्वसादाख्ये क्षिप्रगणाधिपपूजाविधिः सप्तदशः पटलः || मायानां तु च सर्वेषां ज्ञानरूपां परां शिवाम् | वागीश्वरीं महादेवीं शृणुत्वं नन्दिकेश्वर || १ || प्. ३८५) प्रथमं कलशं प्रोक्तं अत्र तदनन्तरम् | तावेव वर्णौ दीर्घं च वारि पञ्चान्तकं पुनः || २ || स्वरहीनश्च दीर्घेण युक्तं तोयमतः परम् | यान्तौ सूक्ष्मेण संयुक्तौ स्वाहान्तं तु दशाक्षरी || ३ || जातियुक्तं षडंगं च वक्ष्यामि तदनन्तरम् | आद्यन्तस्वरषट्कस्य मध्यमं यच्चतुष्टयम् || ४ || एतन्नपुंसकं त्यक्त्वा सेवितं त्वादशं भवेत् | कवर्गं च चवर्गं च टवर्गं च तवर्गकम् || ५ || पवर्गं च यकारादि क्षकारान्तं भवेत्क्रमात् | एवमादि षडंगं च हृदयादि षडंगकम् || ६ || प्. ३८६) स्वरद्वन्द्वं यथा संख्यं कादियान्तेन संपुटम् | अकारं प्रथमं विद्यात् कवर्गं च स बिन्दुकम् || ७ || अंकारं च नमोऽन्तं च हृदयं च भवेदिदम् | एवमादि कवर्गादि स्वरसंपुटितं भवेत् || ८ || अं कं खं गं घं ङं आं हृदयाय नमः | इं चं छं जं ह्यं ञं ईं रं शिरसे स्वाहा || ९ || उं टं ठं डं ढं णं ऊं शिखायै वषट् | एं तं थं दं धं नं ऐं कवचाय हुम् || १० || ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् | अं यं रं लं वं शं षं सं हं लं क्षं अः अस्त्राय फट् || ११ || प्. ३८७) एवमुक्तं षडंगं च मूलमन्त्रार्णकं न्यसेत् | द्वादशान्ते वकारः स्यात् श्रोत्रयोर्देवकं न्यसेत् || १२ || नेत्रे दशाक्षरद्वन्द्वं नासे वादिद्वयं तथा | निकारं चास्य मध्ये तु विन्यसेन्नन्दिकेश्वर || १३ || लिंगे गदें च स्वाहाश्च व्यावीकरं समाचरेत् | पूर्वोक्तं च गुणैर्युक्तः साधकोत्साह संयुतः || १४ || शौचमाचमनं स्नानं सन्ध्यावन्दन संयुतम् | नित्यानुष्ठानकं कृत्वा गुरुभक्ति समन्वितः || १५ || स्थानशुद्धिं च देहं च पात्रशुद्धि मनन्तरम् | द्रव्यशुद्धिं च मन्त्राणां तथा कृत्वा च भावयुक् || १६ || प्. ३८८) पुण्डरीकैश्च सुश्वेतैः नन्द्यावर्तैश्च जातिभिः | सुगन्धैश्चैव पुष्पैश्च चन्दनैरिन्दुभिस्तथा || १७ || कालेयकैः पुरैश्चैव कुंकुमैः कपिमांसकैः | रोचना रसंयुक्तैः सुगन्धैः शीतलैर्जलैः || १८ || पाद्यमाचमनं चार्घ्यं धूपदीपं तथैव च | नैवेद्यमपि ताम्बूलं मुखवासं च कल्पयेत् || १९ || अनन्तादि समारभ्य मातृकाम्बुजकान्तगम् | पञ्चासनमिदं ध्यात्वा कर्णिकायां विशेषतः || २० || विद्येश्वरीं च तन्मध्ये तदूर्ध्वे श्वेतपंकजम् | केसरे कामराजं च वाग्भवं तस्य मध्यमे || २१ || प्. ३८९) तन्मध्ये चापि वागीशीं अर्थपञ्चकवासिनीम् | शुद्धस्फटिकसंकाशां सुखासीनां शुचिस्मिताम् || २२ || जटामकुटशोभाढ्यामर्धेन्दुकृतशेखराम् | चतुर्भुजां त्रिणेत्रां च सर्वलक्षणसंयुताम् || २३ || पुस्तकं वामहस्तेन लेखनीं दक्षिणेन च | शुद्धस्फटिकमालां च वामहस्तेन घण्टिकाम् || २४ || पेशलां ह्लादवदनां शुककेकी सुभाषिणीम् | चारुकुण्डलकेयूरमुक्ताभरणभूषिताम् || २५ || चन्द्रामृतरसस्नातां सन्ततं भक्तवत्सलाम् | सर्वगन्ध सुसंलिप्तवृत्तपीनोन्नतस्तनीम् || २६ || प्. ३९०) श्वेतमाला समायुक्तां श्वेतवस्त्रोपशोभिताम् | कठिनस्तनयुग्मां च विशालजघनां शिवाम् || २७ || एवं ध्यात्वा जगद्धात्रीं दीक्षितानां तु मातरम् | आवाहाद्भविष्यन्तं पूजयेच्छिववत्क्रमात् || २८ || तर्पयेच्च जगत्सर्वं तत्तद्योगेन मन्त्रिताम् | विद्येश्वर्याश्च पुरतो दलमध्येषु चाष्टसु || २९ || योगां सत्यां च विमलां पूर्णां चैव तथैव च | स्मृतिं च मेधां प्रज्ञां च पूर्ववन्नन्दिकेश्वर || ३० || तद्बहिश्च षडंगं च हृदयं पावके दले | वायव्ये तु शिखां यजेत् * * * * * * * * || ३१ || प्. ३९१) ईशाने कवचं चैव पूर्वे नेत्रं क्षिपेत्पुनः | सव्ये तु दलमध्ये तु पूजयेन्मन्त्र राजकम् || ३२ || सौम्याश्च श्वेतवर्णाश्च देव्यः पद्मदृशस्तथा | नमोरुद्रान्विताश्चैता इति शक्वरि संख्यकाः || ३३ || दलाग्रे मातरश्चैव तद्बाह्ये लोकपालकाः | स्वस्वनाम्ना च संपूज्य स्वस्वरूपं विभावयेत् || ३४ || दशलक्षं जपित्वा तु दशांशं तर्पणं भवेत् | अभिषेकं हुतं चैव भक्तियुक्तः समाचरेत् || ३५ || श्वेतपद्मैः पयोऽभ्यक्तैर्जुहुयादयुतावधि | मधुरत्रय संसिक्तैः श्वेतैश्शुभैश्शीतलैरपि || ३६ || प्. ३९२) पलाशैश्च गडूच्यावा समिद्भिर्घृतमिश्रितैः | प्रातः स्नात्वा समाचम्य न्यासादिसहितः क्रमात् || ३७ || शुद्धपात्रे शुद्धजलं दिव्यदृष्ट्या विलोक्य च | मूलमन्त्र सहस्रं च जपित्वा तज्जलं पिबेत् || ३८ || संवत्सरेण कविता गद्यपद्यक्रमान्विता | हृदयावधिके तोये स्थित्वा भास्करबिम्बके || ३९ || वागीश्वरीं च तन्मध्ये ध्यात्वा भास्करमण्डले | सहस्र त्रितयं जप्त्वा मण्डलावधि नित्यशः || ४० || जात्यलंकार संयुक्ता प्रभूतकविता भवेत् | त्रिस्वादु मधुबिल्वोत्थैः सुपत्रैश्चा युतं हुनेत् || ४१ || प्. ३९३) लक्ष्मीकवित्वसौभाग्यं लोकवश्यं च जायते | कृताञ्जलि समिद्धोमां मधुरत्रयसंयुताम् || ४२ || महती कविताशक्तिरूचिता तस्य जायते | ब्रह्मीरसेन पयसा घृतयुक्तं सुपाचयेत् || ४३ || सहस्रत्रितयं जप्त्वा नित्यं प्रातस्तुलेपयेत् | कर्षकत्रयमात्रेण कविता मण्डलाद्भवेत् || ४४ || विश्वौषधं च सुश्वेषां जननीद्वयसंयुतम् | सैन्धवं चाजमोदं च वाचश्चैता च पिप्पलीः || ४६ || यष्टिं च जीरकं चैव चूर्णयित्वा समांशकम् | ब्राह्मीरसेन बहुशो भावयित्वा विचक्षणः || ४७ || प्. ३९४) घृतेन शीधुनामिश्र्य त्रिसहस्रं जपेत्क्रमात् | अर्धमास प्रयोगेन भक्षयेदर्धमात्रकम् || ४७ || एषां जपेन मूकस्य कवित्वं भवति ध्रुवम् | तस्मात्कवित्व संसिद्धिरविवारं तु साधके || ४८ || पञ्चाशदौषधीक्वाथं कलशे संमिलिता भवेत् | सहस्रं तु दिनादौ तु जप्त्वा नित्यं तु मासकम् || ४९ || तज्जलेनाभिषेकं च मेधालक्ष्मीयशः क्रमात् | कवित्वं च यशोवश्यं द्रविणत्वं च सिध्यति || ५० || तज्जलेनाभिषिक्तास्त्री वन्ध्या सत्पुत्रकं लभेत् | अकारादिक्षकारान्तं पञ्चाशदपि चौषधीः || ५१ || प्. ३९५) श्रीगन्धं च तथारक्तमागरुं चन्द्रमेव च | उशीरं कुष्ठकं चैव परिकुंकुममेव च || ५२ || तक्कोलजाती मांसी च मुरं चोरं तथैव च | गन्धं च रोचनां चैव पत्रं तदनु पिप्पलीम् || ५३ || बिल्वं गुहं रक्ततृणं लवंगं कुंभिवर्धनीम् | उदुम्बरं कामरीकां वारामज्जं तथैव च || ५४ || श्वेतशंखप्रसूनं च मयूरशिखयान्वितम् | लाक्षाग्निमन्धसिंहीं च कुशदर्भं तथैव च || ५५ || कृष्णशंखप्रसूनं च वटं बन्धूकमेव च | बृहतीं पाटलीं चित्रां तुलसीं किणिकं तथा || ५६ || प्. ३९६) चत्वारिंशदिमाः प्रोक्ता दशपुष्पमनन्तरम् | इन्द्रवल्लीं च भृंगीं च विष्णुक्रान्तिं च सूकरीम् || ५७ || कृताञ्जलिं च दूर्वां च श्रीदेवीं च सभां पुनः | लक्ष्मीं चैव सदाभद्रां शुभवारे शुभे दिने || ५८ || समादायाथ पञ्चाशदौषधीः पापनाशिनीः | एताभिर्गुलिकां कुर्याद् भस्मस्थां च विशेषतः || ५९ || भूतप्रेतपिशाचाश्च चोरव्याघ्रादयस्तथा | सुजप्ता मूलमन्त्रेण धारिता सर्वसिद्धिदा || ६० || ज्योतिष्मत्याश्च तैलं च मूलमन्त्रेण साधितम् | क्रमशः प्राशयेन्नित्यं षण्मासाद्वाक्पतिर्भवेत् || ६१ || प्. ३९७) अशुद्धः शैवजातोसौ तपसा विजितेन्द्रियः | नित्यस्नानरतो भक्तः परदूषणवर्जितः || ६२ || पूर्वप्रोक्तगुणोपेतो दयालुः साधकोत्तमः | अनधीतानि शास्त्राणि वक्तुं शक्तिश्च तस्य वै || ६३ || चतुर्गुणं तु भजतां वागीशीं वरदोज्वलाम् | पश्चात्सन्निधिमागत्य वांच्छितार्थं ददेद्ध्रुवम् || ६४ || नित्यमष्टोत्तरं जप्त्वा कैवल्यं पदमाप्नुयात् || ६४ १/२ || इत्यचिन्त्य विश्वसादाख्ये वागीश्वरीवागीश्वरीपूजाविधिः अष्टादशः पटलः || प्. ३९८) नन्दिकेश्वरः || देवदेव महादेव अनाथ परमेश्वर | त्वदीयां मूर्तिमेनां च पूजां कर्तुं प्रसीदमे || १ || नराणामपि भक्तानां पूजामार्गं वदप्रभो | ईश्वर उवाच | भक्तिज्ञानैक निरतं रत्नगर्भं शृणुष्व तत् || २ || अत्रिः क्षणा कालकण्ठा कायुग्रयेक्षरोः | तुध्यामध्यगता सभ्यं वटमूलनिवासिने || ३ || ध्यानैकमात्रनिरत नमो रुद्राय शम्भवे | तारशक्तिनिरूच्चोऽयं मन्त्रः षट्त्रिंशदक्षरः || ४ || षडंगं तारशक्त्यादि हृदाद्यंगैर्मतः क्रमात् | षड्भिर्द्वाभ्यां तथाष्टाष्ट पञ्चत्रीणि तथा क्रमात् || ५ || प्. ३९९) मूलमन्त्रस्य वर्णैश्च षडंगमभिधीयते | एवं षडंगं विन्यस्य ज्येष्ठाद्यंगुलिषु न्यसेत् || ६ || कर्णे चैव स्तनद्वन्द्वे द्वयं हृन्नाभिके द्वयम् | कट्योद्वयं च गुह्यैकं पादयोश्च चतुश्चतुः || ७ || शेषद्वयेन सर्वांगव्यापकं विन्यसेत्क्रमात् | अकारादिक्षकारान्तमातृकान्यासमाचरेत् || ८ || शब्दोपदेशमूलं यत् भूतं प्यार्णकं न्यसेत् | वर्णं च चत्वारिंशं तु नववर्गविराजितम् || ९ || स्वरवर्गद्वयं प्रोक्तं आद्यं पञ्च चतुःपरम् | सप्तव्यञ्जन वर्गं स्यात् सप्तषट्पञ्च वर्णकम् || १० || प्. ४००) त्रिवर्गदीप्तमन्यं स्यात् तेषामुत्पत्तिरुच्यते | कर्णतालोष्ठकरजेष्वेकमात्र प्रवृत्तितः || ११ || अ इ उ सवर्णा स्युराद्यवर्गः स्वयं भवेत् | अस्तिकारेण संयोगादेकारः स्यात्परेण तु || १२ || ए ऐ कारेण वर्गो यदि मान्तेन तत्पुनः | कण्ठेर्धमात्रकां मौषविवृतात्प्राणघोषवान् || १३ || अपरो जायते वर्णो हकारो व्यञ्जनोत्तमः | ताली च षट्कतो यस्स्यात्केवोमन्तोषयोश्चयः || १४ || दन्ते ल इति वर्गो यत् द्वितीयं परमेव तत् | स्पर्श बाह्यत्वसामान्यस्वरगम्भीरलाघवैः || १५ || प्. ४०१) कण्ठतालुक दन्तोष्ठष्वासन्वर्गास्तु पञ्च वै | प्रसिद्धायां लिपौकस्यां वर्गा ये पञ्च संमताः || १६ || अन्त्या द्विद्विचतुस्त्रिर्वास्तेष्वमी कीर्तिताः क्रमात् | तालु मूर्ध्नि च दे युष्ठक् संयुक्तं विवृतो हवैः || १७ || शषसैर्नववर्गाच्च इति वृतलिपिक्रमः | मूलाधारात्परा वाणी सूत्रमात्रा समन्विता || १८ || तदूर्ध्वे नाभिदेशेऽपि पश्यन्ती चार्धमात्रिका | हृदयादुद्गता सैव त्रिपान्मध्यमसंज्ञिता || १९ || एकमात्रान्विता सैव वैखरी संशदाक्षरा | वक्त्रेपि वाष्टस्थानेषु संपर्काश्च दहृष्टयः || २० || प्. ४०२) उत्पत्तौ वैखरी पश्चान् मध्यमा श्रुतिसंगमे | पश्यन्ती चार्धसंपर्के परात्वनुभवानुगा || २१ || उत्पत्तिर्लयमित्युक्तं तत्रैवोत्पत्तिरुच्यते | खेगक्षाभूमयावर्णा वर्णाः संभवतः क्रमात् || २२ || इति भूतयमायस्मात् तेनभूतलिपिर्भवेत् | आकाशादि पृथिव्यन्तं ये वर्णाः समुदायजाः || २३ || सर्वे लिपिं च संगृह्यमाद्यन्तं शिवशक्तिमान् | * * * * इलामेन गुलिकक्ष्मादिखात्मवत् || २४ || संहारक्रमणंचेदं प्रोक्तं शक्तिशिवात्मकम् | लिपिरप्येव वेह क्रमात्क्रमगता भवेत् || २५ || प्. ४०३) क्रमे तु खादिवृद्ध्यान्ता व्युत्क्रमेष्वादिखान्तजा | विसर्गान्ता इमे प्रोक्ता व्युत्क्रमे बिन्दुमस्तकाः || २६ || विसर्गः शक्तिबीजं स्याद्बिन्दुः शिवमयः स्मृतः | भवस्वरा नवाधारे हादिपर्नमुखे तथा || २७ || हकारं मूर्ध्नि विन्यस्य यकारं तु ललाटके | रेफं दक्षशिरोभागे वकारं वामके तथा || २८ || लकारं पश्चिमे भागे गंकराग्रे पकारकम् | ककारं बाहुमूले च खकारं कोर्परान्तकः || २९ || सकारमंगुलीनां च मूले गं मणिबन्धने | वामहस्ते च वर्गं स्याट्टवर्गं दक्षपादके || ३० || प्. ४०४) तवर्गं वामपादे च वामपार्श्वे पकारकम् | फकारं नाभिदेशे च वकारं पृष्ठपार्श्वके || ३१ || सकारं गुह्यदेशे च षकारं वह्निमध्यमे | सकारं हृदि विन्यस्य एवं भूतलिपिक्रमः || ३२ || सर्वपापहरं दिव्यं सर्वज्ञानविवर्धनम् | एवं क्रमेण विन्यस्य पूजयेन्नन्दिकेश्वर || ३३ || शुद्धाचारः शुचिःस्नातः शुद्धशैवो जितेन्द्रियः | भस्मस्नानयुतो दक्षो रुद्राक्षेणोपवीतकः || ३४ || स्नानशुद्धियुतः पश्चाद् आसनोपरि संस्थितः | प्राणायामत्रयं कृत्वा भूतशुद्धिं ततः क्रमात् || ३५ || प्. ४०५) अन्तर्यागं ततः कृत्वा करन्यासमतः परम् | श्रीकण्ठादि च विन्यस्य मातृकान्यासकं पुनः || ३६ || श्रीनन्दिकेश्वर उवाच | असादृश्य जगन्नाथ मोक्षकारणनायक | पाशनिर्वाणदीक्षां च वदभक्तानुकम्पया || ३७ || ईश्वर उवाच | प्रथमं मण्डपं कुर्यादलं कारैरलंकृतम् | सप्ताहे पंचरात्रे वा त्रिदिने सद्य एव वा || ३८ || दीक्षापूर्वं तु कर्तव्यं युगपत्यं कुरार्पणम् | गोमयालेपनं कृत्वा कुण्डवेद्यादि सर्वशः || ३९ || लिंगार्चनं स्थण्डिलं च पूर्ववन्नन्दिकेश्वर | पूर्वोक्तलक्षणैरेवं मण्डलस्यापि वेदिका || ४० || प्. ४०६) द्रव्यं च देवतान्यासं पूर्ववत्सम्यगाचरेत् | त्रयस्त्रिंशच्च सूत्रेण पूर्वोत्तरसमं न्यसेत् || ४१ || मध्ये पद्मं चतुष्षष्टि पदयुक्तं सुशोभनम् | अष्टपत्रसमायुक्तं रेखाग्रं तेन लेखयेत् || ४२ || कृष्णेनाभ्यरं ज्ञेयं वृत्तं श्वेतमिति स्मृतम् | तद्बहिस्समवृत्तं तु तद्बहिः श्वेतमुच्यते || ४३ || सर्ववर्णान्समास्तीर्य शेषं युक्त्या प्रकल्पयेत् | तद्बाह्ये चतुरश्रं तु कल्पयेत्कल्पवित्तमः || ४४ || ईशानं कर्णिकामध्ये पुरुषं पूर्ववत्क्रमात् | अघोरं दक्षिणे वक्त्रे वामदेवं तु चोत्तरे || ४५ || प्. ४०७) सद्यं पश्चिमवक्त्रे तु पूजयेद्ब्रह्मपञ्चकम् | आग्नेययां हृदयं पूज्य ऐशान्यां तु शिरो यजेत् || ४६ || नैर्-ऋत्यां तु शिखां पूज्य वायव्यां कवचं यजेत् | नेत्रं तु पुरतो न्यस्य केसरे तु विशेषतः || ४७ || अस्त्रमीशानके न्यस्य शेषं पूर्ववदाचरेत् | संस्कारदीक्षाशिष्याणां वर्जितं चाष्टकं तथा || ४८ || एकोनविंशत्कर्तव्यमित्युक्तं सद्गुणाधिकम् | कर्ता ब्राह्मसंयुक्तो द्विजात्याद्यभिमानकैः || ४९ || विहीनो रुद्रपुत्रत्व भावयुक्तोभियोग्यकः | एतैर्गुणैर्विहीनश्चेन् निर्वाणस्याप्य योग्यकः || ५० || प्. ४०८) पुनः संस्कारदीक्षां च कृत्वा निर्वाणमाचरेत् | शिवाग्निं पूर्ववत्पूज्य दीक्षाकार्यं समारभेत् || ५१ || दीक्षा तु पाशच्छेदं हि तत्कार्यं क्रूरकं भवेत् | क्रूरकार्येषु सर्वेषु मन्त्राणां दीपनं मुखे || ५२ || पौष्टिके वश्यके शान्तौ वषट्कारान्तमन्त्रकैः | वौषड्वषड्समोपेतैः सुधाबीजोपरिस्थितैः || ५३ || मन्त्रैश्च होमं कर्तव्यं कुर्यात्सर्वत्र नादिके | हुंकारमूलमन्त्रस्य शिखामन्त्रमुदीरितम् || ५४ || वह्निरेव शिखा प्रोक्ता अत्र ग्रन्थभृल्लालितम् | मातृकायामपि च नास्ति तदुपरि लिख्यते || ५५ || प्. ४०९) * * * * * * * * तामनादिक्रतेरपि | एकैकधा तदाहृत्य प्रत्येकं तत्क्रमेण वा || ५६ || प्रथमं तारमुच्चार्य शिखां च तदनन्तरम् | मूलमन्त्रं च तत्पश्चात् पुनश्च शिखयान्वितम् || ५७ || हुंफडन्तं समुच्चार्य मूलमन्त्रस्य दीपनम् | ओं हं फट् पूर्वमुच्चार्य हुंकारं तदनन्तरम् || ५८ || हृदयं च मनश्चैव शिखाहृदयदीपनम् | ओं हूं हां हुं फट् शिखायामपि हुंकारं शिखाबीजमनन्तरम् || ५९ || अनन्तरं तदेव स्यात् पूर्ववच्चान्तकं भवेत् | ओं इं हुं फट् | नेत्रदीपनमेवं हि हौं संपुटितं तथा || ६० || ओं हुं हौं हुं हुं फट् | अस्त्रदीपनमन्त्रं तु संस्कारं मध्यसंपुटम् | पूर्ववच्छिखया चैव मन्त्राणां दीपनं भवेत् || ६१ || ओं हुं हः हुं फट् | एवं दीपनसंयुक्तं मूलांगैर्दीपितं शिशुम् | ससव्यभागदेशस्थं शिष्यं संपूज्य देशिकः || ६२ || कन्याविनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् | अस्त्रेण प्रोक्षितं वर्म कुण्डान्तं मूलमन्त्रकम् || ६३ || सुषुम्नाभावितं सूत्रं शुद्धमूलेन योजयेत् | शिष्यं तं शिखयाबध्न्यात्पादांगुष्ठावलम्बकम् || ६४ || पादांगुष्ठाच्छिवाग्रे तु बन्धयेन्मुक्तिकांक्षिणाम् | नरस्य सव्यभागे तु नार्याच्चाप्यपसव्यके || ६५ || प्. ४११) शक्तिमन्त्रेण शक्तिं च पूजितां तस्य मूलतः | संहारिणां भरणाय सूत्रं ते नैव विन्यसेत् || ६६ || सुषुम्ना मूलमन्त्रेण गृहीत्वा बाह्यसूत्रके | न्यस्त्वा ध्यात्वा हृदाभ्यर्च्य कवचेनावकुण्ठयेत् || ६७ || सन्निधानं भवेदेतद् हृदयस्य विशेषतः | नार्याश्चाप्येवमेवं हि कुर्यात्सर्वत्र युक्तितः || ६८ || तत्त्वध्वा च पदाध्वा च वर्णाध्वा मन्त्र एव च | भुवनाध्वा कलाध्वा च षडध्वानः क्रमान्न्यसेत् || ६९ || तारं हृदयमाद्येषु चतुर्थ्यन्तं नमोऽन्तकम् | ओं हां तन्त्राध्वने नमः ओं हां पदाध्वने नमः || ७० || प्. ४१२) ओं हां वर्णाध्वने नमः | ओं हां मन्त्राध्वने नमः | ओं हां भुवनात्मने नमः | ओं हां कलाध्वने नमः || ७१ || सूत्रे षड्विधमध्वानं विन्यस्य शिवभावयुक् | अपः प्राप्तं तलेनैव प्रोक्षयेच्छिष्कं प्रति || ७२ || तेन मन्त्रेण पुष्पेण शिष्यस्य हृदि ताडयेत् | हुंकारं रेचकेनैव शिष्यस्य हृदि विन्यसेत् || ७३ || अजपामध्य जीवस्य वियोगं हेतिना कुरु | हुं फट् | ओं हां स्वाहेति मन्त्रेण परिच्छिद्यात्तथा पुनः || ७४ || एवं शक्त्या तु चैतन्यमविस्पष्टं तु भावयेत् | नाडीभूते च सूत्रे वै संहारिण्या च योजयेत् || ७५ || प्. ४१३) ओं जं आत्मने नमः | इत्युच्चार्य च सूत्रे तु व्यापकं वात्मनो भवेत् | कवचेनाव कुण्ठ्यैव हृदयेन इति त्रयम् || ७६ || आत्मसन्निधिकार्याय कुर्यात्तन्नन्दिकेश्वर | विद्यादेहं तु विन्यस्य शान्त्यतीतस्य दर्शनम् || ७७ || * * * * * लायां च तत्वास्यमितरं तथा | मन्त्रभूतमिव ध्यात्वा नाडीसूत्रे तु भावयेत् || ७८ || ओं हां शान्त्यतीतकलापाशाय नमः | अनेनैव तु मन्त्रेण दर्शनाय जपेत्क्रमात् || ७९ || तथैवमस्त्रमप्येवं पदं वर्णाच्च षोडश | एतस्यां भुवनान्यष्टौ बीजं नाडी च तद्वयम् || ८० || प्. ४१४) विषयं च गुणं चैवं कारणं च सदाशिवम् | हृतायां शान्त्यतीतायां अन्तर्भाव्यं प्रताडयेत् || ८१ || ओं हौं शान्त्यतीतकलापाशाय हुं फट् | गृहीत्वा संहारिण्या च निदात्यात्मत्र मस्तके || ८२ || आहुति त्रितयं दद्यात् पुरस्सन्निधि हेतवे | द्वे तत्वेवाक्षरे द्वे च बीजनाडीखगद्वयम् || ८३ || गुणौ मन्त्रौ तथाब्जस्थ मेवं कारणमीश्वरम् | पदानि द्वादशं प्रोक्तं भुवनं दशसप्त च || ८४ || विषयं च तथाप्येकं शान्तेरत्यन्तमुत्तमम् | कृष्णायां मध्यतः स्मृत्वा ताडयित्वा च पूर्ववत् || ८५ || प्. ४१५) संहारिण्या समायोज्य मुखीसूत्रे नियोजयेत् | ओं हैं हैं इति बीजेन सान्निध्यायाहुतित्रयम् || ८६ || तत्वानि सप्तविद्यायाः पदमप्येकविंशतिः | षड्वर्णमन्त्रमेकं च पञ्चविंशतिमेककम् || ८७ || त्रयोगुणाश्च विषयमेकं तत्र तु कारणम् | जिह्वायामतिरक्तायामन्तर्भाव्योत्क्रमात्पुनः || ८८ || बीजे नाडिखगद्वन्द्वे पूर्ववन्नन्दिकेश्वरः | आदाय ताड्य संशोध्य हृत्सूत्रे स्थाणुना यजेत् || ८९ || ह्रूं ह्रूं मन्त्रं समुच्चार्य सन्निधानाहुतित्रयम् | चतुर्विंशति तत्वानि पञ्चविंशति वर्णयुक् || ९० || प्. ४१६) बीजनाडीखगद्वन्द्वं पादद्व्यधिकत्रिंशकम् | लोकानां च चतुर्णां च षष्टिर्गुण चतुष्टयम् || ९१ || त्रीणि मन्त्राणि विषयमेकं कारणमच्युतम् | प्रतिष्ठामध्यमं ध्यात्वा शुक्लाशान्तानमादिकम् || ९२ || कुर्यादानाभिसूत्रस्थं सन्निधानाहुतिं यजेत् | ह्रीं लोकमष्टोत्तरशतं एकविंशत्पदानि वै || ९३ || बीजनाडीसमीराणां द्वयमिन्द्रिययोरपि | वर्णमेवं च तत्वं च विषयं चैव मेव हि || ९४ || मन्त्रं चतुष्टयं प्रोक्तं निवृत्तौ च तथैव च | जिह्वाया पीतवर्णाया मध्ये संभाव्य ताडयेत् || ९५ || प्. ४१७) गृहीत्वा पादभागान्तं सूत्रे संयोज्य पूजयेत् | तन्त्रसन्निधिकार्याय जुहुयादाहुति त्रयम् || ९६ || इत्यादाय कलासूत्रे योजयेच्छिष्य विग्रहान् | दीक्षायां तु सबीजायां समयाचारपाशतः || ९७ || देहारम्भकधर्माच्च मन्त्रसिद्धिफलादपि | वांछितार्थाय धर्माच्च व्यतिरिक्तं तु बन्धनम् || ९८ || कलानां मध्यगं सूत्रं क्ष्मंचैतन्यमरोधकम् | अनैनैव क्रमेणैव कुर्यात्तर्पणदीपनम् || ९९ || स्वस्वमन्त्रेण तुष्ट्यर्थं आहुति त्रितयं भवेत् | दीपने तु हुनेत्तद्वत् हुंफडन्तं शराणुना || १०० || प्. ४१८) ओं शान्त्यतीतकलापाय स्वाहा | इति तत्तत्- तर्पणे पाशाय हुंफट् | इति त्रयाहुतिः || १०१ || व्याप्ति बोधाय सूत्रं तत् कला स्थानेषु पञ्चसु | संमृज्य कुंकुमाज्येन तत्र सांगं शिवं यजेत् || १०२ || कलामन्त्रैर्हुंफडन्तैर्भित्वा पाशाननुक्रमात् | प्रविश्यान्ते नमस्कारं ग्रहाणां बन्धनं भव || १०३ || ओं हुं हां हौं हां हुं शान्त्यतीत कलाग्राहामि | बध्नामि इत्यादि मन्त्रैश्च कलाग्रहण बन्धनम् || १०४ || पाशादिनापकोशो ग्रहणं बन्धनं तथा | सर्वव्यापाररोधं च पुष्पं प्रति विभावयेत् || १०५ || प्. ४१९) तत्सूत्रमुपदिश्याय शिष्यांसे च निवेशयेत् | द्विसृक्त्वाद्य च नाशाय मूलेन च शतं हुनेत् || १०६ || पुरुषस्य शरावान्तं सूर्यास्त्र परितो भवेत् | हृदास्त्रं संपुटेनैव निधाय तदनन्तरम् || १०७ || प्रणवार्घ्यं गृहीत्वा तु देशिको यागमन्दिरात् | बहिर्गत्वा ततः कुर्यान् मण्डल त्रितयं क्रमात् || १०८ || नैष्ठिकान्भौतिकांश्चैव सौम्यास्यानैन्द्रवक्त्रकान् | क्रमेण वश्यान्शिष्यांश्च प्राशयेच्चुलुकत्रयम् || १०९ || पञ्चगव्येन पूर्वं स्यात् पाणिना कुशया सह | मध्ये मध्ये चाचमनं विदध्यान्नन्दिकेश्वर || ११० || प्. ४२०) द्वितीये चरुकं प्रोक्तं ग्रासत्रयसमन्वितम् | अष्टग्रासमितिर्वापि दर्शनस्पर्शवर्जितम् || १११ || पलाशपत्रैर्मुक्त्यर्थं ऐहिक्यार्थप्लवे तले | हृदा तु सकलग्रासं भाजयेद्देशिकोत्तमः || ११२ || पश्चादाचमनं कार्यं शुद्धैरेव जलैः पुनः | दन्तकाष्ठं हृदा दत्वा चक्षुषा शोधितं तदा || ११३ || जलेन शोधयेत्पश्चाद् धौतमूर्ध्वमुखं क्षिपेत् | विदन्धामं विना सर्वं शोधनं पातमुत्तमम् || ११४ || अशोभननिवृत्त्यर्थं हेतिना जुहुयाच्छतम् | नान्याथादोषमोक्षाय शतमष्टोत्तरं हुनेत् || ११५ || प्. ४२१) मूलमन्त्रेण कर्तव्यं प्रीत्यर्थं नन्दिकेश्वर | समर्प्य स्थण्डिलेशाय सर्वकर्माणि भक्तियुक् || ११६ || तस्य पूजासमाप्तिश्च चण्डेशस्यापि पूजनम् | निर्माल्यशोधनं कृत्वा गोमयेनोपलेपयेत् || ११७ || मूलेन भूमिं संशोध्य चरुशेषं तु होमयेत् | लोकपालांश्च कलशान् पूजयित्वा निरुध्य च || ११८ || बाह्यरक्षाभवेद्यन्तु विसृजेद्गणपालकान् | संक्षेपेण क्रमेणैव लोकपालबलिं क्षिपेत् || ११९ || आग्नेये वारुणे वापि स्नात्वाया गालयं विशेत् | नैष्ठिकान्भस्मशययायां हृदादक्षिणशीर्षकान् || १२० || प्. ४२२) भौतिकान्दर्भशययायां पूर्वमौल्यस्त्ररक्षितान् | शिखाबद्धशिखान्सर्वान् हेतिना रक्षितान्पुनः || १२१ || स्वप्नाधिपन्निमन्त्रं च गुरुस्तत्रोपदेशयेत् | ओं हिलि हिलि शूलपाणये स्वाहा तं चापि पश्चिमाम् || १२२ || ओं हिलि हिलि पाणये स्वाहा | ओं नमः शिवः | शम्भो त्रिणेत्राय पिंगलाय महात्मने || १२३ || वामाय शम्भवे विश्व स्वप्नाधिपतये नमः | ओं हिलि हिलि निगिने शूलपाणये नमः || १२४ || एवं मन्त्रं च शिष्याणामुपदिश्याथ शाययेत् | बहिर्निर्गत्य संप्राश्य पञ्चगव्यं चरुं गुरुः || १२५ || प्. ४२३) यथा दृष्टं तु स्वप्नं हि पृच्छेच्छिष्यांस्तथा गुरुः | रमं ध्वजं छत्रं च गजं वृषभमुत्तमम् || १२६ || क्षीरं मांसं मधुं चैव मधुमद्यजलं तथा | गणाद्यारोहणं चापि शुक्लमाल्यानुलेपनम् || १२७ || दीपमुज्वलमग्निं च ब्रह्माणं वेदपारगम् | सुमालां च वधूं वापि वेश्यां सर्वांगलक्षणम् || १२८ || पित्रोश्च दर्शनं वापि गुरोर्दर्शनमुत्तमम् | रत्नहेमांगुलीयादिभूषणं स्वप्नमुत्तमम् || १२९ || अर्कादिबिम्बतपनं पतनं चान्धकूपके | तैलाभ्यंगं मषीलेपं अंगच्छेदं तथैव च || १३० || प्. ४२४) विधवादर्शनं चापि नववस्त्रावकुण्ठनम् | मृद्भाण्डनवकं चापि पोत्रिकामहिषादिभिः || १३१ || मर्दनं चापि कृष्णं च निशीये पूषदर्शनम् | भुजंगदर्शनं चापि बाधकाश्चैवमादि च || १३२ || काककंकखरादीनां दर्शनं चा शुभावहम् | प्रायश्चित्तं तु कर्तव्यं तत्तद्दृष्ट्यानुरूपतः || १३३ || नित्यं नैमित्तिकं कृत्वा प्रविशेद्यागमण्टपम् | आचम्य विधिवच्छुद्धः सोष्णीषो भूषणान्वितः || १३४ || देशिकः शोध्यमध्वानं पूर्वोक्तं चात्मनि न्यसेत् | भास्वरं शिवहस्तं च भावयेन्नन्दिकेश्वर || १३५ || प्. ४२५) कुंभे शिवं च संभाव्य सर्वाभरण संयुतम् | इन्द्रादीनपि दिक्पालान्पूजयित्वा समाहितः || १३६ || स्थण्डिले मण्डले वापि पूजयेच्छिवमव्ययम् | पावकं पूजयेत्पश्चाद् दर्पणं पूर्वकावधि || १३७ || दुःस्वप्नशान्तये पश्चान् मूलमन्त्रांशकं हुनेत् | हुंकारं संपुटेनैव हुत्वा मन्त्रस्य दीपनम् || १३८ || कुम्भमण्डलयोर्मध्ये चान्तर्बलिर्विधीयते | शिष्याणां च प्रवेशाय कब्ध्वाज्ञां च बहिर्भवेत् || १३९ || पूर्ववन्मण्डलारे * * * * समयन्तदा | संपातहोमं तन्नाडीरूपमर्हकरांगकम् || १४० || प्. ४२६) मूलेन सन्निधार्थाय जुहुयादाहुतित्रयम् | स्थण्डिले तु समभ्यर्च्य पाशविश्लेषकं गुरुम् || १४१ || अष्टोत्तरशतं ज्ञेयं भुवनान्यव सप्तवै | कपालो जलदेहश्च वज्रदेहः प्रमर्दनः || १४२ || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः | अग्नीरुद्रो हुताशश्च पिंगलः खादको हरिः || १४३ || ज्वलनो दहनो बभ्रुर्भस्मान्तश्च क्षयान्तकः | कालमृत्युहरो धाता विधाता कर्तृसंज्ञकः || १४४ || कालो धर्मोप्यधर्मश्च संयोक्ता च वियोजकः | नैर्-ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः || १४५ || प्. ४२७) ऊर्ध्वशेफो विरूपाक्षो त्रलोहितदंष्ट्रवान् | महाबलो महाबाहुर्दशैते वन्द्यराक्षसाः || १४६ || वलश्चातिबलश्चैव पाशहस्तो महाबलः | श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तकः || १४७ || बद्धवास्यश्च भीमश्च दशैते श नेरिताः | शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः || १४८ || पञ्चान्त्रिकः पञ्चशिखः कपर्दी मेघवाहनः | निशीशो रूपवान्धन्यः सौम्यदेहो जटाधरः || १४९ || लक्ष्मीधरो हरः कामी प्रसन्नश्च प्रकाशितः | विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः || १५० || प्. ४२८) मातृवृत्तश्च पिंगाक्षो भूतबालो बलिप्रियः | सर्वविद्याविधाता च सुखदुःखकरौ दश || १५१ || अन्नबालकधीमान्यः पाताला तथा | वृक्षो वृषधरो धीरो ग्रस्नश्च सर्वतोमुखः || १५२ || लोहितश्च फणीन्द्रश्च दश रुद्रसमाश्रिताः | गुरुविभुर्गणाध्यक्षः स्त्रिदशवन्दितः || १५३ || संवाहश्च विवाहश्च नागो लिप्सुर्विचक्षणः | वीरभद्रोऽथ कालाग्निरुद्रो हाटक एव च || १५४ || कूष्माण्डकश्च साम्यश्च ब्रह्मा विष्णुश्च सीतमः | रुद्रश्चाहुरिमे रुद्राः कटाहाभ्यन्तरे स्थिताः || १५५ || प्. ४२९) एतान्येवादिनामानि भुवनानामिदं परम् | अष्टाविंशत्पदानां तु विप्रतो तिष्ठति क्रमात् || १५६ || भवो भवोद्भवो हंसः सर्वभूत सुखप्रदः | सर्वसान्निध्यकर ब्रह्मविष्णुरुद्रार्चित अशुभा || १५७ || पूर्वस्थित साक्षि साक्षि कुरु कुरु पतंग पतंग | ज्ञानज्ञान शब्दशब्द सूक्ष्म सूक्ष्म शिवश्शर्व || १५८ || ओं नमः शिव ओं नमः शिवाय नमो नमः | एवमेकोन विंशतिः पदमन्त्रमतः परम् || १५९ || सद्यो हृदयस्थ नेत्राणि चत्वारि क्रमतो भवेत् | हकारश्च सकारश्च वर्णद्वयमुदीरितम् || १६० || प्. ४३०) इडा च पिंगला चैव नाडीद्वयमुदीरितम् | वायुद्वयं च संप्रोक्तं प्राणापानक्रमादुभौ || १६१ || इन्द्रियद्वयमेवापि घ्राणं पश्चादुपस्थकम् | विष्टयं भय तु इत्युक्तो गुणपञ्चकमुच्यते || १६२ || शब्दः स्पर्शश्च रूपं च रसो गन्ध इति क्रमात् | मण्डलं पार्थिवं पीतं चतुरश्र मतः परम् || १६३ || इन्द्रेण चिह्नितं चैव विस्तृतं शतकोटियुक् | कलायां च निवृत्तिः स्याद्योनयोपि चतुर्दश || १६४ || तिर्ये च पंचमानुष्यमेकं देवत्वमष्टधा | पशवश्च मृगाश्चापि सर्वभंगाः सरीसृपाः || १६५ || प्. ४३१) स्थावरं चेति पञ्चैताः सूर्यभूताश्च योनयः | मानुष्यमेकमन्यत्तु देवयोनिगतं शृणु || १६६ || पैशाचा राक्षसा यक्षा गन्धर्वाश्चैन्द्र संज्ञिकम् | प्रादेशं ब्राह्म्यमित्येव देवताष्टकयोनयः || १६७ || पार्थिवं तत्वमष्टानां अयेकारास्पदं भवेत् | प्रकृताश्चालयं तेषां भोगे बुद्धौ च कारणम् || १६८ || ब्रह्माप्यवस्थाजाग्रं तु निवृत्तिर्व्यापकं स्मरेत् | ओं हां हां हां समुच्चार्य निवर्त्तेश्च कलाः पुनः || १६९ || पाशाय हुंफडन्तं च नमोन्तं मन्त्रमुच्चरेत् | ओं हां स्वाहां निवृत्तिकलापाशाय हुं फट् || १७० || प्. ४३२) एवं कृत्वा ततः पाशं कुण्डमध्ये विनिक्षिपेत् | ओं हां ह्लां निवृत्तिकलापाशाय नमः || १७१ || अनेनैव तु मन्त्रेण रेचयोद्भवमुद्रया | कुण्डमध्ये तु संस्थाप्य चार्घ्यं दत्वा नमोऽन्तयुक् || १७२ || ओं हां ह्लां निवृत्तिकलापाशाय नमः | अनेनैव तु मन्त्रेण स्वाहान्तेनाहुतित्रयम् || १७३ || ओं हां निवृत्तिकलापाशाय स्वाहा | सान्निध्यं तर्पणं चैव पुनरेव त्रिभिस्तथा || १७४ || ब्रह्माणं च निवर्तौ तु समावाह्याथ पूजयेत् | ओं हां ह्लां निवृत्तिकलापाशाय नमः || १७५ || प्. ४३३) ब्राह्मणे नैव मन्त्रेण चासनं तर्पणं भवेत् | स्वाहान्तेन पुनस्तेन मन्त्रेणोच्चारणं भवेत् || १७६ || ओं हां ब्रह्मणे स्वाहा ब्रह्मन् तवाधिका | ओं ब्रह्मन् तवाधिकारेण स मुमुक्षुं दीक्षयाम्यहम् || १७७ || भाव्यं त्वयानुकूल्येन विधिं विज्ञापयेदिति | आवाहयेत्ततो देवीं रक्तां वागीश्वरीं तदा || १७८ || इच्छाज्ञानक्रियारूपां षड्विधाध्वैककारिणी | पूजयेत्तर्पयेद्देवीं भक्तिभावसमन्वितः || १७९ || तथा वागीश्वरं देवं योनिं संक्षोभदक्षकम् | ओं हां हं हां हुंफडन्तेन चात्मने नम इत्यपि || १८० || प्. ४३४) शिष्यस्य हृदयं ताड्य पुष्पेण च विशेषतः | स्फुरत्स्फुलिंगसंकाशं तस्य चैतन्यविग्रहम् || १८१ || हृदि कृत्वा निवृत्तिस्थं पाशं छिन्दतत्तु ज्येष्ठया | ओं हां हां हः हुंफडन्तं च ओं स्वाहित्यनेन च || १८२ || पूरणेनांकुशेनैव मुद्रयाकर्ष्य भावयुक् | आत्ममन्त्रेण संगृह्य योजयेदात्मनि स्फुटम् || १८३ || ओं हां हं हां आत्मने नमः | वागीश्वरस्य संयोगं वागीश्वर्याश्च भावयेत् || १८४ || चैतन्यं केवलेनैव कुर्याद्भावसमन्वितम् | ब्रह्मादिकारणत्यागं क्रमान्नीत्वा शिवास्पदम् || १८५ || प्. ४३५) गर्भाधानार्थमादाय युगपत्सर्वयोनिषु | सर्वयोनिस्वरूपाया वागीश्वर्या वरांगके || १८६ || वागीशी गर्भनाले तु पूर्वं तद्धातुमेलितम् | पश्चाद्वागीश्वरीगर्भे वामयाद्भवसंज्ञया || १८७ || मुद्रयानयाक्षिप्तं भावयेन्नन्दिकेश्वर | ओं हां हं हां आत्मने नमः इति पूजयेद्भावसंयुतः || १८८ || अनेनैव तु मन्त्रेण तर्पणं पञ्चधा भवेत् | सर्वयोनिषु शुध्यर्थं हृदयेन तु होमयेत् || १८९ || गर्भरक्षादिभिर्यान्तं तत्र पुंसवनं तथा | देहिमेञ्जन कुर्वीत शिरसा युगपत्तदा || १९० || प्. ४३६) शिखामन्त्रेण कर्तव्यमधिकारं विशेषतः | वर्मणा सर्वभागं च मन्त्रेण विषयात्मनोः || १९१ || अभेदं मोहरूपं च लयं तत्र विभावयेत् | मूलेन गर्भाधानादिकार्येण पञ्च पञ्चाहुतीर्हुनेत् || १९२ || अर्धपञ्चकनासाय हृदयेन शतं हुनेत् | पाशविश्लेषणे चैव मलशक्तितिरस्कृतौ || १९३ || स्वाहान्तेनास्त्रमन्त्रेण पञ्चपञ्चाहुतीर्हुनेत् | मलाद्यन्तःस्थपाशस्य सप्तधास्त्रेण जप्तधा || १९४ || कर्तव्याच्छेदनं कुर्यात् कलाशास्त्रेण तद्यथा | ओं हुं निवृत्तिकलापाशाय हुं फट् ना पुनः || १९५ || प्. ४३७) छित्वा विमलवत्सूत्रं वर्तुलीकृत्य सद्गुरुः | आज्यपूर्णसृवस्याग्ने निधायाग्नौ तु होमयेत् || १९६ || भस्मीकृत्य कलास्त्रेण दद्यात्पञ्चाहुतिं क्रमात् | पाशांकुशनिवृत्त्यर्थं ओं अं अस्त्राय फडिति || १९७ || ओं अं अस्त्राय फट् | अस्त्रेण चा हुतिं दद्यात् प्रायश्चित्ताय वै भवेत् | तत्र ब्रह्माणमावाह्य पूजयेत्तर्पयेत्तथा || १९८ || ओं हां पूर्वं समुच्चार्य शब्दब्रह्म तथैव च | शुकं ब्रह्मन्गृहाणेति जुहुयादाहुति त्रयम् || १९९ || ओं हां शब्दस्पर्शौ शुक्लब्रह्मन्गृहाण स्वाहा | मन्त्रेणानेन सन्तर्प्य प्रार्थयेत्तु विशेषतः || २०० || प्. ४३८) दण्डिनः शेषपाशस्य ब्राह्मणस्य पशोर्मया | सन्धानं पुनरास्थेयं शिवाज्ञा साधयेदिति || २०१ || विसृज्य तत्र ब्रह्माणं नाड्यादक्षिणया शनैः | कुम्भकेनात्ममन्त्रेण संहारिण्या च मुद्रया || २०२ || आत्मानं च विशेषेण राहुमुक्तैकदेशवत् | पञ्चांगबिन्दुबिम्बैश्च भावयेन्नन्दिकेश्वर || २०३ || गृहीत्वा योजयेत्सूत्रे रेचकेनोद्भवाय भम् | अर्घ्यपात्रजलं ध्यात्वा सुधामयमनौपमम् || २०४ || बिन्दुभिस्सम्यगभ्यर्च्य शिष्यस्य शिरसि क्षिपेत् | पितरौ तौ विसृज्याथ वौषडन्त शराणुना || २०५ || प्. ४३९) विधेस्संपूरणाख्याय पूर्णाहुतिमथाचरेत् | निवृत्तिशोधनं ह्येतत् प्रतिष्ठामारभेत्क्रमात् || २०६ || तत्वद्वयस्य सन्धानं शुद्धाशुद्धिर्यवैर्भवेत् | ह्रस्वदीर्घ प्रयोगेण चान्नान्नादान्त संहिताम् || २०७ || ओं हां ह्लां ह्रीं | अप्तेजो वायुराकाशमात्रेन्द्रियबुद्धयः | गुणत्रयमहंकारं चतुर्विंशति निति || २०८ || प्रतिष्ठायां निवेशं हि तत्वान्येतानि भावयेत् | खादिरान्ताक्षराण्येव पञ्चविंशतिरेव च || २०९ || षट्पञ्चाशच्च लोकानां तत्संख्याभिश्च रुद्रकान् | अमरेशं प्रभावं च नैमिशं पुष्करं तथा || २१० || प्. ४४०) आषाढश्च तथा दण्डी भारभूतिरथाष्टमः | लकुलीशो हरिश्चन्द्रः श्रीशैलो दशमो भवेत् || २११ || अल्पीयोऽमृतकेशश्च महाकालाय मध्यमः | केदारो भैरवश्चेति द्वितीया * * * रितम् || २१२ || ततो गया कुरुक्षेत्रं नाखलं नखलं तथा | विमलं चाट्टहासं च महेन्द्रो भीमसंज्ञकः || २१३ || वैस्त्रापदं रुद्रकोटिरविमुक्तो महालयः | गोकर्णी भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च || २१४ || अर्थ * * * सर्वज्ञो भासुरस्तदनन्तरम् | सुबाहुर्मन्त्ररूपी च विशालो जटिलस्तथा || २१५ || प्. ४४१) रौद्रश्च पिंगलाक्षश्च कालदंष्ट्री भवेत्ततः | बिन्दुरश्चैव घोरश्च प्राजापत्यो हुताशनः || २१६ || कामरूपी तथा कालकण्ठोऽप्यथ भयानकः | पतंगः पिंगलश्चैव हरो विधात्र संज्ञकः || २१७ || शंकुकर्णो भवानीशः श्रीकण्ठश्चन्द्रमौलिना | सहेतो भवनिर्वृत्तौ समाबाह्याथ पूजयेत् || २१८ || ओं हां ब्रह्मणे नम इति पर्यन्ताः क्रमात्प्रोक्ताः पदांच्छृणु | व्यापि व्यापिन् रूपारूपप्रथमप्रथमतेजस्तेजः || २१९ || ज्योतिर्ज्योतिरूप अनग्नि अधूम अभस्म अनादे | ना ना ना ना धू धू धू धू ओं भूः ओं भुवः ओं सुवः || २२० || प्. ४४२) अनिधन निधनोद्भव शिव परमात्मल्परेमेश्वर | महादेव सद्भावेश्वर | महातेजो योगाधिपते || २२१ || मुञ्च मुञ्च प्रथम प्रथम शर्वशर्वेति द्वात्रिंशत्पदानि | बीजं च रेच यो मन्त्रो वामदेव शिव शिखानाडी || २२२ || सुषुम्नानालिरी * * * * दानासमाधिकौ | रसनावायुसंयुक्तमिन्द्रियं च तदा भवेत् || २२३ || रसस्तु विषयो रूपः स्पर्शश्शब्दरसा गुणाः | अब्जोपेतार्धचन्द्रं च मण्डलं वारुणं तथा || २२४ || स्वप्नावस्था प्रतिष्ठायां कारणं विष्णुरुच्यते | भुवनामा जगत्सर्वं भुवानान्तर्गतं स्मरेत् || २२५ || प्. ४४३) प्रविश्येन स्वमन्त्रेण सूत्रे देहे वियोजयेत् | ओं ह्रां ह्रीं ह्रां समुच्चार्य प्रतिष्ठां च कथां तथा || २२६ || पाशाय हुंफडन्तं च मन्त्रमेतदुदीरितम् | ओं ह्रां ह्रीं ह्रां प्रतिष्ठाकलापाशाय हुंफट् || २२७ || स्वाहान्तेनाप्यनेनैव पूरणेनांकुशाख्यया | मुद्रया चैवमाकर्षेद् हुंफडन्तं स बीजयुक् || २२८ || ओं ह्रूं ह्रां प्रतिष्ठाकलापाशाय हुंफट् | * * * मुद्रया गृह्य कुम्भकेन हृदान्यधः || २२९ || ताभ्यां तत्सूत्रमादाय पूर्ववन्नन्दिकेश्वर | ओं ह्रां ह्रीं प्रतिष्ठा कलापाशाय नमः || २३० || प्. ४४४) अनेनैव तु मन्त्रेण गृहीत्वा भावमुद्रया | रेचकेण विशेषेण कुंभे चैव विधापयेत् || २३१ || ओं ह्रां ह्रीं प्रतिष्ठा कलापाशाय नमः | अनेनैव तु मन्त्रेण चापयित्वा विभावयेत् || २३२ || आहुतित्रितयेनैव स्वाहान्तेनैव भावयेत् | सन्निधानाहुतिं चैव पूर्ववत्कुर्याद्गुरुः || २३३ || हृदयानि नमोन्तेन विष्णवे मध्यमे भवेत् | ओं ह्रां विष्णवे नमः | अनेनैव तु मन्त्रेण विष्णुमावाह्य पूज्य च || २३४ || ओं विष्णो तवाधिकारेस्मिन्मुमुक्षुं दीक्षयाम्यहम् | भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति || २३५ || प्. ४४५) वागीश्वरीं च वागीशमावाह्याभ्यर्च्य पूजयेत् | पुष्पेण दक्षहस्तेन शिष्यवक्षसि ताडयेत् || २३६ || ओं हां हं समुच्चार्य व्योमषोडशसंयुतम् | हुंफडन्तं समुच्चार्य प्रविशेन्मन्त्रपूर्वकम् || २३७ || ओं हां हं हां हः हुं फट् | एते नैव तु मन्त्रेण वात्मानं विभजेद्गुरुः | पाशयुक्तं तु शस्त्रेण ज्येष्ठयांकुशमुद्रया || २३८ || तारादि हुंफडन्तेन मन्त्रेणैव विशेषतः | ओं हां हं हां हः हुं फट् | पूर्वोक्तेन तु मन्त्रेण स्वाहान्त स्फुटितेन च || २३९ || आकृष्यात्मनि संयोज्य नमो नानात्मनेति च | ओं हां हं हां आत्मने नमः | पित्रोः संयोगमुद्धार्य मुद्रयोद्भवयानया || २४० || प्. ४४६) इडया तदने नैव देवीगर्भे नियोजयेत् | गात्रोत्पत्तौ तथा पंचशिरसा जन्मने तथा || २४१ || अधिकाराय योगाय शिखाया कवचाणुना | संसारपाशशस्त्रेण स्रोतश्शिष्यैः शिवाणुना || २४२ || हुद्वा तत्र शुचौ गर्भाधानादि पूर्ववत् | पाशविश्लेषणं चापि शिरसा तदनन्तरम् || २४३ || निष्कृत्यै शतकृत्वस्तु होमयेन्नन्दिकेश्वर | शस्त्रेण पञ्चधा कृत्वा मलशक्तितिरोहके || २४४ || पाशविश्लेषणो पञ्च जुहुयाच्च विशेषतः | सप्तास्त्रजप्तं कर्तव्यं छिन्द्यादस्त्रेण तत्तदा || २४५ || प्. ४४७) कलाबीजसमायुक्तमुच्चार्य प्रणवादिकम् | प्रतिष्ठां च कलापाशाय हः पुनः || २४६ || हुंफडन्तेन मन्त्रेण विदध्याद्भावसंयुतः | ओं हां प्रतिष्ठाकलाय पाशाय हः हुंफट् || २४७ || विमृज्य वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् | आज्यं तु पूर्ववद्दत्वा कलास्त्रेण हुतं भवेत् || २४८ || पाशांकुशनिवृत्त्यर्थं पञ्चास्त्रेण हुनेत्तदा | अष्टाहुतिं च जुहुयात् प्रायश्चित्तनिवृत्तये || २४९ || ओं हः अस्त्राय हुं फट् | विष्णुमावाह्य संपूज्य तर्पणं च हृदा भवेत् | अधिकारादिकं सर्वं सर्ववन्नन्दिकेश्वर || २५० || प्. ४४८) ओं हां विष्णो रसं चैव शुक्लं च तदनन्तरम् | गृहाणस्वाहान्तमुच्चार्य मन्त्रमेवं भवेत्तदा || २५१ || ओं हां विष्णोरसंख्या गृहाण स्वाहा | निश्शेषपाशदग्धस्य पशोस्तस्य हरे त्वया || २५२ || न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति | ततो विसृज्य विष्णुं च रौद्रात्मानं विशोधयेत् || २५३ || राहुणामुक्तचन्द्रस्य बिम्बार्धसदृशं तदा | संहारमुद्रयात्मस्थं विधायोद्भवमुद्रया || २५४ || संयोज्य सूत्रे विन्यस्य तोयबिन्दुं यदा पुरा | वह्ने विसृज्य पितरौ पूजयेत्कुसुमादिभिः || २५५ || प्. ४४९) पूर्णाहुतिं च जुहुयात् प्रतिष्ठा शोधनाय च | विद्यासन्धानकार्यार्थं पूर्वोक्तकलया सह || २५६ || तत्वपर्णादिकं सर्वं पूर्ववन्नन्दिकेश्वर | ओं ह्रां ह्रीं ह्रूं हां च सन्धाने रागं चा शुद्धविद्यया || २५७ || नियतिश्च कला चैव कीलो माया तथैव च | शुद्धविद्या च तत्वानां सप्तकं च क्रमाद्भवेत् || २५८ || रलपाश्शषसा वर्णाः षड्विद्यायां समीरिताः | एकविंशत्पदं प्रोक्तं ताराद्यं नन्दिकेश्वर || २५९ || ओं नमश्शिवाय शर्वप्रभवे शिवाय ईशान- मूर्धाय तत्पुरुषाय वक्त्राय अघोर हृदयाय || २६० || प्. ४५०) वामदेव गुह्याय सद्योजातमूर्तये नमोनमः | गुह्यातिगुह्य गोप्त्रे अनिधनाय सर्वयोगाद्य || २६१ || सर्वज्ञ सर्वविद्याधिपाय ज्योतीरूपाय परमेश्वर | परमेश्वर अचेतनाचेतन व्योमाव्योम | रुद्राणां || २६२ || भुवनानां च * * * स्वरूपमथ कथ्यते | पूर्वन्तु वामदेवः स्यात् तत्तत्सर्वभवोद्भवः || २६३ || वज्रदेहः प्रभुर्धाता क्रमविक्रमसुप्रभः | अर्धः प्रशान्तनामा च परमाक्षरसंज्ञिकः || २६४ || दिवं च सुदिवे बभ्रुरक्षयश्शंभुरेव च | अदृष्टरूपधारानौ तथा रूपविवर्धनः || २६५ || प्. ४५१) नमो नमो महावीर्यः चित्रांगस्तदनन्तरम् | कल्याण इति विज्ञेयाः पञ्चविंशति संख्यया || २६६ || मन्त्रो घोराहरौ नाड्यन्न च द्वे तत्र ते तथा | पूजा च हस्तिर्जिह्वा च व्याननागौ मरुद्द्वयम् || २६७ || रूपं विषयमेवं च पादनेत्रमथेन्द्रियम् | शब्दः स्पर्शश्च रूपञ्च त्रय एव गुणाः स्मृताः || २६८ || अवस्था वा सुषुप्तिः स्याद्रुद्रो देवश्च कारणम् | भावयेद्भुवनादिं च विद्यामूर्धगते तदा || २६९ || ताडनं चेदनं तत्र प्रवेशं च नियोजनम् | विद्यया हृत्प्रदेशे तु ग्रहाणां कर्षणं भवेत् || २७० || प्. ४५२) आरोह्यात्मनि संगृह्य कलाकुण्डे नियोजयेत् | कारणं रुद्रमावाह्य शिष्यं विज्ञाप्य भक्तियुक् || २७१ || कुर्यादावपनं पित्रोः शिष्यवक्षसि ताडयेत् | चैतन्यं पूर्ववत्तत्र मन्त्रेण च वियोजयेत् || २७२ || पूर्वोक्तविधिनाकृष्य चादा यात्मनि योजयेत् | इडया योजयेद्भर्गे संग्राह्य द्वादशांशतः || २७३ || देहोत्पत्तिं ततः कुर्याज्जनाधि कृतिरेव च | भोगं विरामं स्त्रोतश्च तत्वानां च विशोधनम् || २७४ || मलकर्मादि मोक्षाय निष्कृत्यै च विधानवित् | पूजयेत्तर्पयेच्चैव शताहुत्या च तत्र वै || २७५ || प्. ४५३) पाशविश्लेषणं चापि हेतिना नन्दिकेश्वर | मूलशक्ति तिरोधाने च्छेदने मर्दने तथा || २७६ || वर्तुलीकरणं चैव दाहे चांगुलिनाशने | प्रायश्चित्तनिषेधार्थं रुद्रस्यावाहनं तथा || २७७ || पूजनं चापि तत्सर्वं विदध्यात्पूर्ववत्तदा | रूपं ग्रन्थिं च गुल्फं च रुद्राय विनिवेशयेत् || २७८ || ओं हां रूपं गन्धौ शुक्लौ रुद्र गृहाण स्वाहा | शैवीमाज्ञां च संश्राव्य रुद्रं विसृज्य कारणम् || २७९ || रुद्रं तथाधिकारेऽस्मिन्मुमुक्षुं दीक्षयाम्यहम् | भाव्यं त्वयानुकूल्येन भक्त्या विज्ञापनं भवेत् || २८० || प्. ४५४) बन्धाय न पुनःस्थेयं शिवाज्ञां भावयेदिति | आत्मन्यात्मानमाधाय पाशस्तत्र नियोजयेत् || २८१ || अर्धेन्दुं शिरसि न्यस्य पितरौ विसृजेत्तदा | पूर्णाहुतिं च कृत्वा तु विधानेन विशेषतः || २८२ || ताडनादिं च विधिना सर्वं कुर्याच्च सद्बुधः | विद्यास्वबीजमेत्वं हि रेफेण तु विशेषतः || २८३ || ओं हां हूं हां विद्याकलापाशाय हुंफट् | अनेनैव तु मन्त्रेण विद्यावाच विशोधनम् || २८४ || शान्त्यां विद्यां च संयोज्य विधिस्संवर्धया भवेत् | एतद्वयं च शान्तौ च विलीनं भावयेत्क्रमात् || २८५ || प्. ४५५) ईश्वरं चैव साधाख्यं उभयं तत्र भावयेत् | पक्षवर्णौ च संप्रोक्तौ भुवनाधिपरुद्रगाः || २८६ || स्वनाम्नैव च विख्याताः पूर्व संख्या समन्विताः | प्रभवक्षमयक्षुद्रा विमलश्शिव इत्यपि || २८७ || घनो निरञ्जनश्चैव ओंकारस्सुशिवस्तथा | दीप्ता च कारणं चैव त्रिदशेश्वर इत्यपि || २८८ || त्रिदशः कालनामा च सूक्ष्मश्चाम्बुज इश्वरः | रुद्राश्चाष्टादशत्वेते शान्त्याश्च भुवनाधिपः || २८९ || भुवनानां च पतयः क्रमादेते समीरिताः | पदानां च विशेषेण प्रणवाद्यं भवेत्तदा || २९० || प्. ४५६) ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने | शिवाय अनन्ताय अनाथाय अनाश्रिताय || २९१ || ध्रुवाय शाश्वताय योगपीठ संस्थिताय | नित्ययोगिने ध्यानाहाराय * * * * * * || २९२ || एवमुक्तं तथा व्याप्तिः प्रणवाद्यं भवेत्तदा | पुरुषे कवचौ मन्त्रौ बीजे बिन्दुयकारकौ || २९३ || नाडीद्वयमलं पूष्या यशस्विन्यप्यनन्तरम् | मारुतौ कूर्मकृकरौ त्वरागः स्यात्तथेन्द्रियः || २९४ || विषयस्पर्श एवं स्याद्गुणस्पर्शनिवारणौ | ईश्वरस्तु करं प्रोक्तमधस्तात्तु तुरीयकम् || २९५ || प्. ४५७) शान्तिमध्यगतं ध्यात्वा सर्वं च भुवनादिकम् | पूर्ववत्ताडनं भेदं प्रवेशमपि योजनम् || २९६ || आकर्षणं ग्रहणं च शान्तेर्वदनसूत्रतः | स्वस्मिन्संरोप्य संगृह्य कलां कुण्डे नियोजयेत् || २९७ || ईशं तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम् | अनुकूलेन भवता भाव्यं विज्ञापनादिकम् || २९८ || पित्रेणावाहनं चैव शिष्यस्य ताडनादिकम् | आत्मानं विधिना सम्यक् स्वस्मिन्नेव नियोजयेत् || २९९ || हृदयेनाहुतिं पञ्च शरीरेणोत्पत्तये भवेत् | शिरसा पञ्चजनार्थं अधिकारो शिखा भवेत् || ३०० || प्. ४५८) भोगं च कवचेनैव संहारं हेतिना भवेत् | मूलेन स्रोतसां सिध्यै सिध्यै तत्वहृदा भवेत् || ३०१ || गर्भाधानादिकं सर्वं पूर्ववन्नन्दिकेश्वर | पाशविश्लेषणं चापि तनुत्रेण तदा भवेत् || ३०२ || निष्कृत्यैव शतं हुत्वा मलशक्तिनिरोहणे | हेतिना पञ्चजुहुयादेवं पाशवियोजने || ३०३ || अस्त्रं तु सर्वथा जप्त्वा कर्तर्यस्त्रेणच्छेदयेत् | बीजेन संपुटं कुर्यात् तथा शान्तिकलान्तरे || ३०४ || पाशाय हुं हुं हुं फडन्तं क्रमान्मन्त्रमुदीरितम् | हौं हौं शान्तिकलापाशाय हुं फट् || ३०५ || प्. ४५९) समस्तं वर्तुलीकृत्य पाशानस्त्रेण पूर्ववत् | आज्यपूर्णसृवे स्थाप्य कलास्त्रेण हुतं भवेत् || ३०६ || पाशांकुशनिवृत्त्यर्थं हेतिना पञ्चधा हुनेत् | अष्टाहुतीश्च जुहुयात् प्रायश्चित्तनिवृत्तये || ३०७ || ओं हः अस्त्राय फट् | ईश्वरं हृदये वाह्य पूजनं तर्पणं भवेत् | तस्मै शुक्लं च विधिना कुर्वीत तदनन्तरम् || ३०८ || ओं हां ईश्वरं बुध्य हुंकारौ शुक्लं गृहाण स्वाहा | दग्ध निश्शेषपाशस्य शिशोरस्येश्वर त्वया || ३०९ || नयनार्थं तु कर्तव्यं शिवाज्ञां श्रावयेदिति | ईश्वरं तत्र विसृजेद् रुद्रात्मानं नियोजयेत् || ३१० || प्. ४६०) राहुणाग्रस्तपञ्चाशच्चन्द्रबिम्बसमं तदा | शिष्यामात्मनि संभाव्यं विधिना योजयेत्तदा || ३११ || शिष्यं संयोजयेद्भावो योजयेद्भवमुद्रया | मूलेन कुर्याच्छिष्यस्य शिरस्यमृतबिन्दुकम् || ३१२ || वह्नेर्विसृज्य पितरौ कुसुमादिसुपूजितौ | पूर्णाहुतिं च विधिना जुहुयान्नन्दिकेश्वर || ३१३ || शान्त्यामपि विध * * * * नादि च पूर्ववत् | बीजमेव विशेषः स्यात् कलानां शुचिहेतवे || ३१४ || शान्त्यायाश्शान्त्यतीतायां सन्धानां तु विशुद्धये | पूर्ववत्तत्र कुर्वीत तत्र वर्णादिकं क्रमात् || ३१५ || प्. ४६१) ओं हां हौं समुच्चार्य सन्धाने तु भवेदिदम् | उक्तौ शक्तिशिवे तत्वे भुवनाष्टकमीरितम् || ३१६ || दीपिको रौचिकश्चैव मोचकश्चौर्ध्वगामिकम् | व्योमरूपमनाद्यं च तथानाश्रितमष्टमम् || ३१७ || निवृत्तिश्च प्रतिष्ठा च विद्या * * * * हृधि | इलिका रोधिका सप्त सहपञ्चदश स्मृताः || ३१८ || तारं पदं तथैशानौ मन्त्रो वर्णास्तु षोडश | अकारादि विसर्गान्ता बीजनादहकारकौ || ३१९ || नाड्यन्तं कूहुः शंखिनी चया तदनन्तरम् | देवदत्तं तथा चैव नाञ्जयमष्टधः परम् || ३२० || प्. ४६२) इन्द्रिये स्पर्शने श्रोत्रे विषयैरेव इत्यपि | गुणश्च शब्दोतीतः स्यात् तुरीयादितकं भवेत् || ३२१ || सदाशिवः कारणं स्याद् इति तत्वादिपञ्चकम् | शान्त्यतीतकलासंस्थं ध्यात्वा तत्ताडनादिकम् || ३२२ || हुंफडन्तेन संताड्य कलापाशं विभिद्य च | नमोन्तं हुंफडन्तेन प्रविश्यात्र नियोजयेत् || ३२३ || शिखाहृत्संपुटं कृत्वा स्वाहान्तांकुशमुद्रया | आकृष्य पूरकेणैव चैतन्यं विभजेत्ततः || ३२४ || अस्त्रेण पाशयुक्तं तद् भक्त्या विज्ञापयेदिति | पूजामावाहनं पित्रोस्तर्पणं सन्निधिं तदा || ३२५ || हृत्संपुटात्मबीजेन शिशुवक्षसि ताडयेत् | ओं हां हं हां हुंफट् | अनेनैव तु मन्त्रेण चैतन्यं विभजेत्ततः || ३२६ || अस्त्रेण पाशयुक्तं तज्ज्येष्ठया सृणिमुद्रया | ओं हां हं हां हुं फट् | हृत्संपुटात्मबीजेन स्वाहामाकृष्य भावयुक् || ३२७ || आदाय तन्नमोन्तेन स्वात्मन्येव नियोजयेत् | ओं हां हं हां हः आत्मने नमः | पित्रोस्संयोगमुद्भाव्यं भवेदुद्भवमुद्रया || ३२८ || इडया रेचकेनैव देविगर्भे नियोजयेत् | पूर्वोक्तविधिना सर्वं गर्भाधानादिकं भवेत् || ३२९ || पाशविश्लेषणार्थाय मुलेन तदनन्तरम् | निष्कृत्यै च शतं होमं विदध्यान्नन्दिकेश्वर || ३३० || प्. ४६४) मलशक्ति तिरोधाने पाशविश्लेषणे तथा | पञ्चपञ्चाहुतीर्दद्यान् मन्त्रेण च यथा पुरा || ३३१ || सप्तधा जप्त शास्त्रेण पाशं छिन्द्यादनन्तरम् | ओं हां शान्त्यतीतकलापाशाय हुंफट् || ३३२ || विमृश्य वर्तुलीकृत्य पाशामस्त्रेण पूर्ववत् | पूज्य पूर्णे सृ ध्यात्वा कलास्त्रेण च होमयेत् || ३३३ || पाशांकुशनिषेधार्थं जुहुयात्पञ्चवाहुतीः | अष्टाहुतीश्च जुहुयात् प्रायश्चित्त निवृत्तये || ३३४ || हृदयास्य सदादेवं पूर्ववत्तर्पणं भवेत् | अधिकारं च कुर्याच्च पूर्वोक्तविधिना पुनः || ३३५ || प्. ४६५) ओं हां सदाशिव नमो बिन्दुशुक्लगृहाण स्वाहा | निश्शेषदग्धपाशस्य शिवोनस्य सदाशिवम् || ३३६ || बन्धाय नत्वया स्थेयं शिवाज्ञां श्रावयेदिति | पूर्णाहुतिं च विसृजेन् मूलेन च सदाशिवम् || ३३७ || ततोऽथ हुत्वा चात्मानं शरच्चन्द्रमिवोत्थितम् | संयोज्य रौद्र्यसंहारमुद्रया गुरुमात्मनि || ३३८ || विदध्याच्छिवदेहस्थं उद्धत्योद्भवमुद्रया | प्रथारित शिरोग्रीवो नादोच्चार समन्वितः || ३३९ || आप्यायनादि दद्यात्तु शिरसाध्याम्बु बिन्दुकम् | भक्त्या संपूज्य पितरौ विसृजेत्तदनन्तरम् || ३४० || प्. ४६६) खण्डितौ शिष्यदीक्षायां यन्मया पितरौ युवाम् | कारुण्यात्तत्क्षमित्वा मे व्रजमं स्थानमात्मनः || ३४१ || शिखामन्त्रितकर्तर्यरोधमन्त्रस्वरूपिणीम् | शिवास्त्रेण शिखां छिद्याच्छिष्यस्य चतुरंगुलम् || ३४२ || ओं हुं शिखायै हुं फट्. | सृक्सृवक्षालनं शिष्य स्नानमाचमनं गुरुः || ३४३ || कुर्यात्तत्र विशेषेण भावभक्ति समन्वितः | अस्त्रेण ताडनं कृत्वा चैतन्यं च नियोजयेत् || ३४४ || विशिष्याकृष्य संगृह्य पूर्ववद्द्वादशान्ततः | स्वकीयहृदयाम्भोजे योजयेन्नन्दिकेश्वर || ३४५ || प्. ४६७) विशिष्य हृदयाम्भोजे योजयेन्नन्दिकेश्वर | सृवं घृतेन संपूर्य दशोस्याच्च सृवं क्रमात् || ३४६ || कृत्वा नित्योक्तमार्गेण कम्बुसन्निभमुद्रया | प्रसारितशिरोग्रीवो नादोच्चारसमन्वितम् || ३४७ || ध्यानदृष्टिः शिरश्शान्तः पुराभावयुतः पुनः | मण्डलात्कलशादग्नेः शिरस्स्वस्मादनाकुलम् || ३४८ || षड्विधयानमानीय स्रुगत्र प्राणनाडिका | चन्दार्कनाशनं ज्ञात्वा विषुवे च भवेत्तदा || ३४९ || सप्तभेदयुतं ध्यात्वा क्रमान्नादमुदीरयेत् | प्राणस्य रोधः प्रथमं तत्स्वरूपावलोकनम् || ३५० || प्. ४६८) अनाहतक्रमोच्चारि विशिष्टं मन्त्रसंज्ञकम् | ब्रह्मनाड्यन्तरालस्थनादं तत्तु तुरीयकम् || ३५१ || कारणानां च सन्त्यागात्सप्तमं विषुवं भवेत् | तस्मिंच्छान्तिं च गच्छेत्तु लयमिच्छति तत्क्षणात् || ३५२ || सुषुम्नाकुलमासाद्य नादेप्यूर्ध्वगतिं व्रजेत् | तद्गतिश्शक्तिविषयमुपदेशेन लभ्यते || ३५३ || सर्वप्राणस्य शक्त्यन्तमासनं मानवर्जितम् | तत्कालविषुवं षष्ठं तथा तीतं च सप्तमम् || ३५४ || विषुवं तत्वसंज्ञायां तस्मिन्तस्यां वियोजयेत् | पूरकं कुम्भकं ध्यात्वा ह्यादाय मुखमादरात् || ३५५ || प्. ४६९) उद्धरेत् क्रमशो मूलं शिक्ष्यादाशु मनोलयम् | मनोलयात्तथा मुक्तिरिति शास्त्रस्य निश्चयः || ३५६ || षडध्वजीवबोधेऽस्मिन्हकारे विद्युदुज्वले | नाभेर्वितस्तिं संयाप्य हकारं परितः स्थितम् || ३५७ || ततोपरि मकारं तु हृदयं चतुरंगुलम् | ततोऽष्टांगुलकर्णान्तमुकारं विष्णुमुच्यते || ३५८ || चतुरंगुलजिह्वान्तमुकारं रुद्रदैवतम् | सादाख्यं ब्रह्मरन्ध्रान्तं नादरूपं विभावयेत् || ३५९ || तद्ब्रह्मरन्ध्रमध्यस्थां शक्तिं च विसृजेत्क्रमात् | दिव्यं पिपीलिका स्पर्शं तस्मिन्संभवति क्षणात् || ३६० || प्. ४७०) अनुभूय च तत्सर्वं द्वादशान्तं ततः क्षणात् | निर्गुणं निर्मले शुद्धे वाच्यवाचक वर्जिते || ३६१ || नित्यानन्दमये सूक्ष्मे भावाभाव विवर्जिते | कैवल्ये चिद्घने शान्ते शिवे तु परिभावयेत् || ३६२ || शिष्यात्मानं च तत्रैव लीयमानं विभावयेत् | आज्यधारां च जुहुयाज्ज्वालान्तेऽपि परे शिवे || ३६३ || सायुज्यस्य स्थिरत्वाय मूलेन जुहुयात्तदा | वौषडन्तं समुच्चार्य पूर्णां च विधिना हुनेत् || ३६४ || हौं वौषट् | गुणपादनमेतस्य तारयुक्तं हृदाणुना | आत्मवत्सर्वज्ञो भव इति स्वाहान्तं मन्त्रकं भवेत् || ३६५ || प्. ४७१) ओं हां आत्मस्सर्वज्ञो भव स्वाहा | ओं हौं आत्मन् अलुप्तशक्तिभव स्वाहा || ३६६ || ओं हः आत्मन् अनन्तशक्तिभव स्वाहा | इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात् || ३६७ || विधानभावेनोपेतः शिष्यदेहे च योजयेत् | तीव्रशक्तिनिपातस्य जनितश्रमशान्तये || ३६८ || अर्घ्यामृतोदबिन्दुभिः शिष्यमूर्धनि सेचयेत् | शिवकुम्भादिकान्सर्वान्वदयेच्च क्रमाद्गुरुः || ३६९ || इश्वर प्रदक्षिणे भागे मण्डले तन्निवेश्य च | उत्तरास्यं च तन्मूर्ध्नि दक्षिणे तु विभावयेत् || ३७० || प्. ४७२) त्वया चानुगृहीतोयं मूर्तिमास्थाय चात्मकम् | देवे वह्नौ गुरुस्स स्याद् भक्तिनाथस्य वर्धया || ३७१ || देवमेवं च विज्ञाप्य प्रणम्य च गुरुः स्वयम् | श्रेयसाबाह्विनि ब्रूयादाशिष्य शिवमादरात् || ३७२ || कृष्ण पुष्पं च देवाय दद्याद्भक्तिसमन्वितः | ईशीकुम्भादिकलशजलैस्तमभिषेचयेत् || ३७३ || मण्डलादिषु पूजां च तस्मिन्नेवोपसंहरेत् | सर्वदीक्षा च ज्ञानं च शर्वानुग्रहतो भवेत् || ३७४ || तस्मात्सर्वप्रयत्नेन गुरुशुश्रूषणं परम् | नैरन्तर्येण भक्त्या च शुश्रूषा च भवेत्पुनः || ३७५ || प्. ४७३) गुर्वनुग्रहणं पश्चात् शुश्रूषा च भवेत्परम् | निर्वाण दीपितः शिष्यो गुरु संसृष्टि योग्यकः || ३७६ || परार्थलिंगपूजायामधिकारोऽस्य विद्यते | शावसूतिकजं चैवमाशौचं च न विद्यते || ३७७ || भौतिकस्य विशेषेण स्नानमात्रेण शुद्धिदम् | इत्यचिन्त्य विश्वसादाख्ये कर्मनिर्वाणदीक्षाविधिर्द्वात्रिंशत्पटलः || प्रायश्चित्तविधाने तु पुनर्दीक्षा विधीयते | तेन कारणतश्चापि पूर्वोक्तगुणवर्जितः || १ || पुनस्तद्गुण सिध्यर्थं त्रितत्वस्यादरार्चनम् | एवमादिषु सिध्यर्थं त्रितत्वक्रमदीक्षयेत् || २ || प्. ४७४) त्रितत्व कर्मदीक्षां च शृणुत्वं नन्दिकेश्वर | लिंगार्चनादिकं सर्वं पूर्ववत्कुरुयान्मुखम् || ३ || मण्डले कुम्भके चैव स्वस्मिन्नग्नौ च शिष्यके | सर्वत्रापि शिवं यष्ट्वा पूर्वोक्तविधिना तदा || ४ || आद्यविद्याक्रियान्तं तु विन्यासादिक्रमान्न्यसेत् | अग्नेर्मुखस्य होमं च मन्त्राणां दीपनं पुनः || ५ || पूर्ववत्कर्म कुर्वीत पश्चात्सूत्रावलम्बनम् | शिष्यस्य मूर्ध्नि शक्तिं च संपूज्यादाय मुद्रया || ६ || हौं शक्तये नम इति तत्सूत्रे योजयेत्क्रमात् | कवचेन्मवकुण्ठ्यैव तर्पणादि च पूर्ववत् || ७ || प्. ४७५) षडंगन्यासकं कुर्यात् पूर्ववन्नन्दिकेश्वर | सामान्यार्घ्य जलेनैव प्रोक्षयेच्छिष्यमस्तके || ८ || शिष्यस्य हृदये ताड्य पुष्पेण विधिना तदा | संप्रविश्याथ मन्त्रेण पाशविश्लेषणं भवेत् || ९ || विधिनाकर्षणं कुर्यात् शक्तिं सूत्रेण योजयेत् | ओं हां पूर्वं समुच्चार्य हं हां आत्मने नमः || १० || पश्चात्तु मूर्तिविन्यासमावाह्यादिक्रमाद्यजेत् | मन्त्राणां तर्पणं कृत्वा शिवतत्वं विलोकयेत् || ११ || ओं हां शिवतत्वाय नमः | हंफडन्तेन सन्ताड्य शिखा संपुटितेन च | नमोन्तेन च मन्त्रेण शिरस्सूत्रे तु विन्यसेत् || १२ || प्. ४७६) ओं हां आत्मने हुं फण्णमः | संपूज्य शिवतत्वं तु वर्मणा चावकुण्ठयेत् | मन्त्राणां तर्पणं कृत्वा शिवतत्वं विलोकयेत् || १३ || ओं हां शिवतत्वाय नमः हुंफडन्तेन संताड्य शिखा संपुटितेन च | नमोन्तेन च मन्त्रेण शिरः सूत्रे तु विन्यसेत् || १४ || ओं हुं आत्मने हुंफण्णमः | संपूज्य शिवतत्वं तु वर्मणा चावकुण्ठयेत् | तर्पणं पूजनं चापि पूर्ववद्विधिना भवेत् || १५ || विद्या तत्वं च मध्ये तु सूत्रयेत्पूजयेद्गुरुः | प्. ४७७) ओं ह्रीं विद्यातत्वाय नमः | पुष्पताडनपूजादि पूर्ववत्कुर्यात्ततः || १६ || विलोकयेदात्मतत्वं ओं हां आत्मतत्वयुक् | नमोन्तं मन्त्रमुच्चार्य पूर्ववत्पूजयेद्गुरुः || १७ || ओं हां आत्मतत्वाय नमः | ताडनादि क्रमात्सर्वं पूर्वोक्तविधिना चरेत् | मन्त्राणां तृप्तये चैव जुहुयादाहुतित्रयम् || १८ || शिवतत्वादिकान्पाशान् हुंफडन्तांश्च दीपयेत् | अनाहताज्ञयोर्मध्ये सूत्रं काश्मीरवारिणा || १९ || रञ्जयेद्दीपनं पश्चान् मन्त्राणां च क्रमं भवेत् | प्. ४७८) शिवतत्वाय हुंफड् दीपनं भवेत् || २० || ओं हुं हुं शिवतत्वाय हुं फट् || तत्सूत्रे तु शिवं पूज्य पाशच्छेदमनन्तरम् | हृत्संपुटितबीजेन तेषां ग्रहणबन्धनम् || २१ || सव्यस्कन्धे तु शिष्यस्य सूत्रं तद्विनिवेशयेत् | षडंगेन हुनेत्पश्चात् पूर्णां मूलेन कारयेत् || २२ || संपातं सत्कृतं सूत्रं मन्त्रैस्सत्पात्र संपुटम् | शिवकुम्भसमीपे च रक्षार्थं विनिवेष्टयेत् || २३ || पूर्ववत्पञ्चमे सादि चरुभागं तथैव च | बलिं च दन्तकाष्ठं च पूर्ववत्स्थापयेन्निशि || २४ || प्. ४७९) आचार्यश्चरुकं प्राश्य पूर्ववच्च समर्पणम् | अधिवासनमित्याहुर्दीक्षाकर्माप्यनुस्मरेत् || २५ || स्वापंच कृत्वा ब्राह्मे तु सस्याति द्वयकं चरेत् | शिष्यं प्रवेश्य कुण्डस्य पार्श्वे चैव क्रमात्तदा || २६ || नाडीसन्धानकं कृत्वा पुनस्सन्तानसूत्रकम् | शिखायां मस्तकालम्बि बध्नीयाच्छिष्यके तदा || २७ || आसनोपरि संवेश्य चात्मतत्वं विलोकयेत् | षडध्व परिवृत्तं च व्यापकेनावलोकयेत् || २८ || ताडनं पूर्ववत्कुर्याद् व्याप्य शिष्य हृदान्तकम् | गृहीत्वा शिष्यचैतन्यं वह्निमध्ये विनिक्षिपेत् || २९ || प्. ४८०) पूजान्तं तर्पणं सर्वं शिवमन्त्रेण पूर्ववत् | पश्चाद् ब्रह्माणमावाह्य पूजयेच्छ्रावयेदिति || ३० || शिष्य वक्षसि पुष्पेण ताडयित्वा तु पूर्ववत् | तदात्मनि प्रवेशं च कुर्यात्सन्मार्गवायुकः || ३१ || पुनः स्वात्मनि शिष्यस्य चैतन्यं योजयेत्क्रमात् | गुरुमण्डलपर्यन्तमादायोद्भवमुद्रया || ३२ || वागीशीगर्भनाडौ तु योजयेन्नन्दिकेश्वर | पूजनं तर्पणं कृत्वा संस्कारविधिपूर्वकम् || ३३ || उत्पत्तिभोगनाशाय स्रोतसां शुद्धये तथा | मंत्रमायादि निष्कृत्यै शिवं सांगं च पूजयेत् || ३४ || प्. ४८१) मलकर्म तिरोधानपाशविच्छेदनाय च | अस्त्रेण होमयेत्पश्चात् ततः सप्तास्त्र जप्तया || ३५ || कर्तव्यायशतत्वं च हेतिनाच्छेदयेत्ततः | विमृश्य वर्तुलीकृत्य सृगग्रे धारयेत्क्रमात् || ३६ || ओं हां आत्मतत्वाय हुंफट्. | अनेन होमयेत्पश्चात्पाशांकुश निवृत्तये | शतमष्टोत्तरं हुत्वा प्रायश्चित्तमनन्तरम् || ३७ || पश्चाच्छुष्कं क्रमाद्दद्याद् ब्रह्मणे च विशेषतः | ओं हां ब्रह्मन् गन्धरस रूपस्पर्श शब्दत्वात् || ३८ || शुक्लं ब्रह्माणं स्वाहेति विज्ञाप्य विसृजेत्क्रमात् | प्. ४८२) पूर्ववच्छिष्य चैतन्यं स्वस्मिन्नादाय देशिकः || ३९ || मुखसूत्रे च तत्पश्चाद् योजयेन्नन्दिकेश्वर | सुयोभूमार्घ्यवारीणि शिष्य मूर्ध्नि च निक्षिपेत् || ४० || आत्मतत्वस्य शुद्ध्यर्थं पूर्णाहुतिमथाचरेत् | शुद्धेन वात्मतत्वेन विद्यातत्वं च बन्धयेत् || ४१ || ओं हां आत्मतत्वं च विद्यातत्वमतः परम् | चतुर्थ्यान्त चि तत्वं च नमोन्तं मन्त्रमुच्चरेत् || ४२ || ओं हां आत्मतत्व विद्यातत्वाभ्यां नमः | शुद्धानामप्यशुद्धानां ह्रस्वदीर्घप्रयोगतः || एवं मन्त्रं समुच्चार्यं विद्यातत्वं विमर्शयेत् || ४३ || प्. ४८३) शिशोर्लध्वाटवर्गान्तं विद्यातत्वं विभावयेत् | षडंगं व्यापकं चैव कृत्वा पुष्पादि ताडनम् || ४४ || पूर्ववद्विष्णुमावाह्य संपूज्य विधिना ततः | वक्त्रसूत्रं च संताड्य शिष्यचैतन्य संग्रहम् || ४५ || पूर्ववत्कारयित्वा तु प्रवेशादिति देशिकः | योजयेत् स्वात्मनियुतं द्वादशान्तगतं नयेत् || ४६ || तस्मात्प्रदेशादानीय वागीश गर्भके न्यसेत् | उत्पत्तिभोग संहारनाथाय जुहुयात्तदा || ४७ || शिवेनाष्टोत्तरशतं वह्नौ हुत्वा तु पूर्ववत् | मूलशक्तितिरोधानं हेतिना पूर्ववद्भवेत् || ४८ || प्. ४८४) अस्त्रेण सप्तधा जप्त्वा कर्तव्याच्छेदयेत्तदा | विमृज्य वर्तुलीकृत्य जुहुयात्पूर्ववद्गुरुः || ४९ || प्रायश्चित्तं तु कर्तव्यमस्त्रेण विधिना भवेत् | ओं हां विष्णोर्हि संभाव्य बुद्ध्यहंकाररूपकम् || ५० || शुक्लं गृहाण स्वाहेति विष्णोस्तर्पणकं भवेत् | ओं हां विष्णो बुद्ध्यहंकाररूपं शुक्लं गृहाण स्वाहा || ५१ || प्रतिबन्धाय विज्ञाप्य विष्णोर्विसर्जनं भवेत् | आदायादाय चैतन्यं स्वात्मन्येव विशेषतः || ५२ || शिरः सूत्रे तु मध्ये लेपे योजयेन्नन्दिकेश्वर | अर्घ्यामृताम्बुबिन्दूनि शिष्य मूर्ध्नि विनिक्षिपेत् || ५३ || प्. ४८५) पुष्पेण ताडनं कुर्यात् तत्रावाह्य च सादरम् | वह्नौ निक्षिप्य संपूज्य तर्पयेच्च यथाक्रमम् || ५४ || शिवं ध्यात्वाहनं पश्चात् पूजनं तर्पणं चरेत् | तत्पादे दीक्षयाम्येनं रुद्रं तं परिभाष्य च || ५५ || यदात्वनुगृहीतव्यं रुद्रं विज्ञापयेदिति | शिष्यचैतन्यमादाय प्रविश्यान्तस्ततो गुरुः || ५६ || स्वात्मन्येव स्थितं कृत्वा गुरुमण्डलगं यजेत् | उद्भवेन तमादाय वागीशीगर्भनालके || ५७ || नियोजयेत्क्रमाद्भूयो जनित स्याहुतित्रयम् | मूलं न कुर्यादंगैच्च हेतिना होममारभेत् || ५८ || प्. ४८६) तिरोधानाय पाशानां शोधनाय विशेषतः | पाशानां छेदनाद्दाह प्रायश्चित्तं च पूर्ववत् || ५९ || रुद्रस्य पूजनं कृत्वा तस्य शुक्लसमर्पणम् | ओं हां रुद्र मनो बिन्दुस्वरूपं शुक्लकं तथा || ६० || गृहाण स्वाहायान्तं तु मन्त्रमेतदुदीरितम् | तिरोधानाय पाशानां शोधनाय विशेषतः || ६१ || पाशानां छेदनं दाहं प्रायश्चित्तं च पूर्ववत् | रुद्रस्य पूजनं कृत्वा तस्य शुक्लसमर्पणम् || ६२ || ओं हां रुद्र मनोबिन्दुस्वरूपं शुक्लकं तथा | गृहाण स्वाहायान्तं तु मन्त्रमेतदुदीरितम् || ६३ || ओं हां रुद्र मनोबिन्दुशुक्लगृहाण स्वाहा | प्. ४८७) संपूज्य विधिना चेशं विसृजेत्तदनन्तरम् | ब्रह्मन्शिष्यस्य चैतन्यं निवेश्य क्षणमादरात् || ६४ || रेचकेनाति संशुद्धं शिरस्सूत्रे कृतन्नयेत् | अमृतोपमस्य बिन्दूनि शिष्यमूर्धनि निक्षिपेत् || ६५ || शिवतत्वस्य शुद्ध्यर्थं पूर्णाहुतिमथाचरेत् | ओं हुं शिखायै हुंफडितिमन्त्रेण नेत्रजप्तधा || ६६ || कर्तर्या हेतिना चैवच्छेदयेत्पूर्ववच्छिखाम् | गोमयान्तं निवेश्यैनां आज्यपूर्णं सृचि स्थितम् || ६७ || तच्छिखां च विधानेन होमयेत्क्षालयेत्सृचम् | देशिकोपि ततः स्नायाद् भस्मना भावसंयुतः || ६८ || प्. ४८८) वारिभिः स्नापयेच्छिष्यं क्रमादुक्तविधानतः | तस्मिन्योजन विस्तीर्णं चैतन्यं च शिशोः पुनः || ६९ || योजयित्वा विधानेन सृक्सृवौ मूर्ध्नि विग्रहम् | ब्रह्मादिकारणानां च त्यागमन्त्रैस्समुच्चरन् || ७० || शिवोहमित्यहंकारी बोधरूपं परे शिवे | आज्यधारां च विसृजेच्छिष्यात्मानं नियोजयेत् || ७१ || भक्तिः शान्तिश्च विश्वासो गुर्वाज्ञा पालनं तथा | चलस्मथ समायुक्तः सर्वक्लेशविवर्जितः || ७२ || गुरुद्रोह शिवद्रोह समयद्रोह एव च | अदीक्षितस्य बन्धुत्वं कृतघ्नत्वाविवेकता || ७३ || प्. ४८९) परदोषावलोकश्च सदादोषावलोकनम् | एतैरष्टगुणैर्हीनो गुर्वाज्ञापालनादिकः || ७४ || पूर्वोक्तैश्च गुणैस्सर्वैः प्रपञ्चाचारवर्जितः | आगमोक्तगुणैर्युक्तो गुरुध्यानपरायणः || ७५ || एवमादीनि तस्योक्त्वा बहिस्तमभिषेचयेत् | एवं त्रितत्वपक्षान्ते प्रोक्तं तत्सर्वमाचरेत् || ७६ || इत्यचिन्त्य विश्वसादाख्ये त्रितत्वकर्मविधिस्त्रयोविंशतिः पटलः || मन्त्रस्य साधनं वक्ष्ये सर्वसिद्धिकरं परम् | चक्रं मन्त्रं ततो ध्यानं वक्ष्येऽहं नन्दिकेश्वर || १ || प्. ४९०) प्रक्षाल्य पाणिपादौ च विध्युक्ताचमनं चरेत् | रुचिरासनमादाय शोधयेदस्त्र मन्त्रतः || २ || करन्यासं प्रकुर्वीत पूजयेन्न्यासदेवताम् | शिरोर्ध्वं पूजयेत्पद्मं पूजयेद्गुरुमण्डलम् || ३ || ततो गुरुप्रधानेन त्रितत्वं ध्याययेत्तदा | एतन्मन्त्रं प्रवक्ष्यामि सर्वमन्त्रैकनायकम् || ४ || नादं कालसमोपेतं प्रणवेनैव संयुतम् | गुणार्णवे शिवश्रीश्रीशिवाय च नमोन्तकम् || ५ || जपेन्मन्त्रमिति ख्यातं कल्पयेच्चक्रकं पुनः | साधकस्याग्रके पृष्ठे कल्पयेत्प्रणवद्वयम् || ६ || प्. ४९१) तस्य बाह्ये तु परितो गणनागे प्रकल्पयेत् | तद्बाह्ये वृत्तमालिख्य प्रतिदिक्छूलकं न्यसेत् || ७ || तद्बहिश्चतुरग्रेषु चतुष्कोणेषु लेखयेत् | स्तम्भिनी मोहिनी चैव जम्भिनी हंसिनी तथा || ८ || शक्तीनां चैव चत्वारि मातृकाक्रमतो भवेत् | स्तम्भिने स्तम्भिनी स्वाहा मोहिने मोहिनी स्वाहा || ९ || हस्तिने हस्तिनी स्वाहा | मन्त्राण्येतानि चोच्चार्य चतुर्दिक्षु प्रपूजयेत् || १० || खड्गखेटधरास्सर्वे भीमरूपा महाबलाः | प्रदक्षिण क्रमेणैव ध्यानं कृत्वा विशेषतः || ११ || प्. ४९२) एतच्चक्रस्य मध्ये तु ध्यायेत्तत्र त्रिमूर्तिकाः | मूलाधारे तथा रुद्रं ब्रह्माणं हृदयेपि च || १२ || भ्रूमध्ये विष्णुमेवात्र त्रिषु स्थानेषु कल्पयेत् | पावकेन निभं रुद्रमेकास्यं त्र्यक्षरं विभुम् || १३ || चतुर्भुजसमायुक्तं वरदाभयसंयुतम् | परश्वधं मृगं चैव दधानं सर्वभूषितम् || १४ || जटामकुटसंयुक्तमाधिनं शक्तिसंयुतम् | ब्रह्माणं हृदये ध्यायेत् कनकाभं चतुर्भुजम् || १५ || चतुरानन संयुक्तं प्रतिवक्त्रं त्रिलोचनम् | अक्षमालां कुण्डिकां च दधानं च द्विहस्तकम् || १६ || प्. ४९३) सावित्र्या च सरस्वत्या उत्तरे दक्षिणेपि च | आसीनं शक्तिसंयुक्तं पूजयेद्विधिना सह || १७ || भ्रूमध्ये स्थापयेद्विष्णुं श्यामवर्णं त्रिणेत्रकम् | चतुर्बाहु समायुक्तं शंखचक्र समन्वितम् || १८ || वरदाभयसंयुक्तं सर्वाभरणभूषितम् | किरीटमकुटोपेतं पीताम्बरधरं हरिम् || १९ || एवं ध्यात्वा विशेषेण भक्त्य सह सुसंस्थितम् | कर्णिकोर्ध्वे त्रिकोणे तु कल्पयेत्कल्पवित्तमः || २० || एवं ध्यात्वा सदायोगी पूजयेद्विधिना सह | पूजान्ते तु यथा न्यायं भावयेज्ज्योतिरुत्तमम् || २१ || प्. ४९४) मूलाधारात्समारभ्य शिवान्तं तु विचिन्तयेत् | शिवस्थाने स्थितं कृत्वा चिन्तयेदमृतं बुधः || २२ || विष्णुस्थाने व्रजेत्पश्चात् ब्रह्मस्थाने व्रजेत्ततः | रुद्रस्थाने विशेद्योगी भावयेत्तु विशेषतः || २३ || पूजयेद्गन्धपुष्पाद्यैः त्रितत्वं तु समाहितः | भक्ष्यभोज्यादि तत्सर्वं रुद्रस्थाने विशेषतः || २४ || सदिध्यानं सदामन्त्रं गुरुभक्तिं च कारयेत् | आज्ञासिद्धिमवाप्नोति पाशांकुश निवारणात् || २५ || कारणानां त्रयाणां च ध्यानाज्जन्मनिवारणात् | तस्मात्सर्व प्रयत्नेन त्रितत्वं भावयेत्सदा || २६ || योगज्ञानं समासाद्य क्रमान्मोक्षाय वैभवेत् || २६ १/२ || इत्यचिन्त्यविश्वसादाख्ये (त्रितत्व भावना) चतुर्विंशतिः पटलः || प्. ४९५) समयादिति तत्वानां प्रोक्ता दीक्षा विशेषतः | साधारण गुणानां च शिष्याणां च विधीयते || १ || अतीवगुणसंपन्नौ पतिशिष्यौ विशेषतः | एकतत्वं क्रियादीक्षा तस्य वै पाशमोचनम् || २ || यदि वा सर्वदीक्षाश्च कारयेन्नन्दिकेश्वर | प्रायश्चित्तार्थकत्वेऽपि देशिकस्यार्चया परा || ३ || मण्डपं मण्डलं कुम्भं लिंगार्चन मतस्तदा | अग्निकार्यं च चार्घ्यं च मन्त्राणां दीपनादिकम् || ४ || पूर्ववत्कर्म कुर्वीत देशिको भावसंयुतः | पूर्ववत्सूत्रबन्धं च कुर्याच्छिष्यस्य मूर्धनि || ५ || प्. ४९६) कालाग्न्यादिशिवान्तं तु कल्पयेत्तत्वकं क्रमात् | रक्तौ संसूतसूतां वा शिवतत्वाग्रकं न्यसेत् || ६ || आवाहनादिकं सर्वं पूर्ववन्नन्दिकेश्वर | गर्भाधानादिकं कृत्वा शिवमग्नौ तु पूजयेत् || ७ || शिवमन्त्रेण कर्तव्यं सर्वशुक्ल निवेदनम् | मूलेन पूर्णां जुहुयात् तत्र प्रातोपगर्भितम् || ८ || पाशनिर्वाणमेवं हि शिवसायुज्य सिद्धये | शतमूलेन जुहुयात् स्थिरत्वात्पाशनाशने || ९ || मण्डलस्यावलोकं च नामाचारादि पूर्ववत् | शरीरमर्थं प्राणश्च सद्गुरुभ्यो निवेदयेत् || १० || प्. ४९७) येन केन प्रकारेण गुरु संतोषणं परम् | एवमादि क्रियादीक्षासंपन्नो गुणसत्तमः || ११ || स एव योगदीक्षायामधिकारी च नान्यथा || ११ १/२ || इत्यचिन्त्य विश्वसादाख्ये (योगदीक्षाधिकारः) पञ्चविंशतिः पटलः || योगदीक्षां प्रवक्ष्यामि शृणुत्वन्नन्दिकेश्वर | युजियोग इति धात्वर्थे यज्जीवश्शिवयोरपि || १ || संश्लेषो योग इत्युक्तः सहमार्ग इति स्फुटम् | असद्भाव क्षयत्वं च ज्ञानसद्भावभावकम् || २ || शिवतत्वेति संयोगो योगदीक्षेति कथ्यते | मण्डलं मण्डपं कुण्डं कुंभं देवार्चनादिकम् || ३ || प्. ४९८) पूर्वोक्तगुणसंयुक्तं यमैर्नियमिभिर्गतम् | अत्यन्त इव संप्राप्तवाञ्चायुक्त मलोलुपम् || ४ || एवं विधगुणैर्युक्तं दीक्षयेच्छिष्यमुत्तमम् | मन्त्रदीपात्ततृप्तादि पूर्ववन्नन्दिकेश्वर || ५ || अग्निकार्यं तु तत्सर्वं पूर्वोक्तविधिना चरेत् | वागीश्वरीं च वागीशं पूर्ववत्पूजयेद्गुरुः || ६ || शिष्य वक्षसि पुष्पेण भेदनादि च पूर्ववत् | गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् || ७ || ततः शिष्यस्य देहेऽपि दशनाडीश्च चिन्तयेत् | इडा च पिंगला चैव सुषुम्ना च तथा भवेत् || ८ || प्. ४९९) गन्धारी सप्तजिह्वा च पूषा चैव यशस्विनी | अलम्बुषा कुहूश्चैव शंखिनी दशमी स्मृता || ९ || प्राणादिवायवश्चैव चतुर्दश समन्विताः | प्राणश्च प्रथमो वायुरपानो व्यान एव च || १० || उदानश्च समानश्च नागः कुर्मञ्च सप्तमः | कृकरो देवदत्तश्च धनञ्जय इतीरितः || ११ || वैवन्तो मुख्यकश्चैव अन्तर्यामि प्रपञ्चकम् | एवं चतुर्दश प्रोक्ताः प्राणाद्या वायवस्त्वमी || १२ || तासु नाडिषु सर्वासु वायवो.पि चरन्ति च | स्वस्वस्थाने तु नाडीनां वायूनां स्थापनं भवेत् || १३ || प्. ५००) प्रणवेन च शक्त्या च शतबीजजपादिभिः | स्थापयेत्पूजयेद् ध्यात्वा शिवरूपं च भावयेत् || १४ || नाडीनां च त्रयो मुख्याः सुषुम्नेडा च पिंगला | तासामपि सुषुम्नायां मुख्यत्वं च प्रकीर्तितम् || १५ || तन्मध्ये ब्रह्मनाडीति शिवशक्त्यालयं परम् | मूलाधारं समारभ्य ब्रह्मरन्ध्रावसानकम् || १६ || अस्य स्थितश्च विज्ञेयो नवधारोपलक्षिताः | गुदं मेढ्रान्तरं चैव लीनमूलमनन्तरम् || १७ || ततश्च हृदयं पश्चात् कर्णमूलमनन्तरम् | तालुमूलं च कोदण्डद्वयोर्मध्यमनन्तरम् || १८ || प्. ५०१) ललाटं ब्रह्मरन्ध्रं च नवाधारा इतीरिताः | मूलाधारं चतुष्पत्रं तदूर्ध्वं षड्दलं भवेत् || १९ || अष्टपत्रं ततस्तस्मादनाहतमितीरितम् | कण्ठं च द्वादशं प्रोक्तं षोडशं तालुमूलकम् || २० || तद्वल्ललाट भ्रूमध्यं शिवस्थानमनन्तरम् | षष्ट्युत्तरत्रिशतकं वर्णभेदात्क्रमात्स्मरेत् || २१ || हेमाभं स्फटिकाभं च वह्निरूपमनन्तरम् | तरुणादित्यसंकाशं भास्वरद्युतिसन्निभम् || २२ || सर्वतेजोमयं पश्चान् मनोवाचामगोचरम् | एषु स्थानेषु ब्रह्माद्यान् कारणांश्च प्रकल्पयेत् || २३ || प्. ५०२) ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | क्रियाशक्ति ज्ञानशक्तिरिच्छाशक्तिः शिव परम् || २४ || वह्निसूर्येन्दुबिम्बानां स्थानं तत्रैव भावयेत् | वह्निमण्डलकं नाभौ हृदये सूर्यमण्डलम् || २५ || कोदण्डद्वयमध्ये च चन्द्रमण्डलमीरितम् | क्रियाशक्तौ च बिन्दुश्च ज्ञानशक्तौ तु नादकम् || २६ || इच्छाशक्तौ कलाप्रोक्ता तत्रैव परमामृतम् | तदूर्ध्वं तु शिवस्थाने चानन्दामृतमुत्तमम् || २७ || एवं ध्यात्वा तु तन्मध्ये मन्त्राणां नवकं स्मरेत् | अर्ध्यतोयेन संप्रोक्ष्य शिष्यदेहे तु देशिकः || २८ || प्. ५०३) कुण्डस्थ वह्नि ज्वलनं वायुना च यथा भवेत् | तद्वदाधारदेशस्थं तत्तन्मन्त्रमुदीरयेत् || २९ || मूलाधारे च तारं च मरालं शक्तिशंभुयुक् | नवदर्भाग्रकोणैव नववारं जपेत्क्रमात् || ३० || बिन्दुनादकलायुक्तं ब्रह्मरन्ध्रावसानकम् | बिसतन्तुनिभज्योतिरुच्चरेद्देशिकोत्तमः || ३१ || ज्वलद्दीपशिखाकारं मन्त्ररूपं विभावयेत् | अन्योन्यं विद्युदुद्योतं सूत्रसूत्रोपरि स्थितम् || ३२ || मूलाधारमिदं चोद्यत् स्वाधिष्ठानमनन्तरम् | शिवतन्त्रं समुच्चार्य देवदेवं तु पूजयेत् || ३३ || प्. ५०४) कर्णमूले क्रियाशक्तिं भृगुं च मनुयुक्स्वरः | चन्द्रखण्डद्वयं चैव मन्त्रोच्चारणदीपनम् || ३४ || भौतिकं बिन्दुसंयुक्तं क्रोशं पार्थिवेन तु | महामायां च संयोज्य बीजद्वयमुदीरितम् || ३५ || इन्द्राग्निसूर्यसंकाशं भावयेद्देशिकोत्तमः | तस्मादारभ्यकोदण्डयुग्ममध्यं तु भावयेत् || ३६ || सूर्यं चाग्निसमप्रख्यं ज्ञानबिम्बे तु भावयेत् | ज्ञानबिम्बाच्च तस्मात्तु चन्द्रपिण्डामतः परम् || ३७ || पूर्वं वह्निं च सूर्येन्दू भावयेज्ज्योतिरुत्तमम् | शिवबीजं शिवस्थाने भावयेन्नन्दिकेश्वर || ३८ || प्. ५०५) एवं ध्यात्वा च संपूज्य स्वस्मिन्पूज्य च शिष्यके | पूजयित्वा विधानेन सूत्रविन्यासमाचरेत् || ३९ || शिखादीपं च सूत्राणां परिमाणं च भावयेत् | चुबुकान्तं हृदान्तं च नाभ्यन्तं विष्णुदेशकम् || ४० || मूलाधारगतं चैव पञ्चसूत्राणि विन्यसेत् | एवं पञ्चविधं सूत्रं शिष्यस्य शिखयान्वितम् || ४१ || श्रोत्रत्वक्चक्षुर्जिह्वा च घ्राणं चैव तु पञ्चकम् | वाक्पाणिपादौ पायुश्च वरांगमिति पञ्चकम् || ४२ || शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चकम् | वचनादानगमनं विसर्गानन्दपञ्चकम् || ४३ || प्. ५०६) तत्वानां विंशतिं चैव मुखसूत्रे तु विन्यसेत् | हृत्सूत्रे तु मनोबुद्धिरहंकारत्रयं न्यसेत् || ४४ || चित्तं च रागो मायां च कलान्तन्नाभिसूत्रके | विद्यां च नियतिं कालं सदधिष्टान सूत्रके || ४५ || शुद्धमाया शुद्धकला द्वादशं भावयेत्क्रमात् | प्रोक्षणं ताडनं चैव हेतिना च विशेषतः || ४६ || संप्रविश्य च हुंकार युक्तरेचकयोगतः | अजपां तस्य चैतन्यविश्लेषं पूर्ववद्भवेत् || ४७ || संहारमुद्रया सूत्रे मुखे चैव नियोजयेत् | ओं हां हं हां स्वात्मने नमः || ४८ || प्. ५०७) व्यापकं रक्षणं चैव सन्निधानाहुतिं तथा | निवृत्यालोकनं चैव पूजनं पूर्ववच्चरेत् || ४९ || एवमन्येषु सूत्रेषु नाडीभूमेषु योजयेत् | शिष्यचैतन्यमाकृष्य स्वात्मन्येव नियोजयेत् || ५० || पूर्ववत्पिड संयोगं भावयेन्नन्दिकेश्वर | गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् || ५१ || ततो विसृज्य वागीशीं वागीशं च तथैव च | विमलासनमावाह्य पूजयित्वा विधानतः || ५२ || तस्मै शुक्लाय वैदद्यात् श्रोत्राद्यानन्दनावधि | तारं च शक्तिमुपगं ब्रह्मानन्दैकमुच्चरेत् || ५३ || प्. ५०८) ततस्तत्वं च सोहं च शिरसा च भजेत्क्रमात् | ओं ह्रीं हंसः ब्रह्मणे श्रोत्रं सोहं स्वाहा || ५४ || ओं ह्रीं हंसः ब्रह्मणे जिह्वा सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे घ्राणं सोहं स्वाहा || ५५ || ओं ह्रीं हंसः ब्रह्मणे वाचि सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे पाणिं सोहं स्वाहा || ५६ || ओं ह्रीं हंसः ब्रह्मणे पादं सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे पायुं सोहं स्वाहा || ५७ || ओं ह्रीं हंसः ब्रह्मणे उपस्थं सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे शब्दं सोहं स्वाहा || ५८ || प्. ५०९) ओं ह्रीं हंसः ब्रह्मणे स्पर्शं सोऽहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे रूपं सोहं स्वाहा || ५९ || ओं ह्रीं हंसः ब्रह्मणे रसं सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे गन्धं सोहं स्वाहा || ६० || ओं ह्रीं हंसः ब्रह्मणे वचनं सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे आदानं सोहं स्वाहा || ६१ || ओं ह्रीं हंसः ब्रह्मणे गमनं सोहं स्वाहा | ओं ह्रीं हंसः ब्रह्मणे विसर्गं सोहं स्वाहा || ६२ || ओं ह्रीं हंसः ब्रह्मणे आनन्दं सोहं स्वाहा | एतैर्विंशतिभिर्मन्त्रैर्ब्रह्मशुक्लं निवेदनम् || ६३ || प्. ५१०) निश्शेषदग्धपाशस्य ब्राह्मणस्य शिशोःस्वाहा | बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति || ६४ || मुखसूत्रं समादाय वर्तुलीकृत्य पूर्ववत् | आज्यपूर्णस्रवे दत्वा चास्त्रमन्त्रेण होमयेत् || ६५ || कुम्भस्थ सव्यनाड्या च ब्रह्माणं विसृजेत्तदा | मूलाधारे च संस्थाप्य पूजयेन्नन्दिकेश्वर || ६६ || विष्णो तवाधिकारेण मुमुक्षुं दीक्षयाम्यहम् | भाव्यं त्वयानुकूल्येन विष्णुं विज्ञापयेदिति || ६७ || विष्णुशुक्लं ततः कुर्यान् मनोबुद्धिरहंकृतम् | पूज्य मन्त्रं च तारं च द्विरुच्चार्याथ होमयेत् || ६८ || प्. ५११) ओं ह्रीं हंसः विष्णवे मनः सोहं स्वाहा | ओं ह्रीं हंसः विष्णवे बुद्धिस्सोहं स्वाहा || ६९ || ओं ह्रीं हंसः विष्णवे अहंकारं सोहं स्वाहा | एवं शिष्यं च दद्यात्तु गोविन्दं विसृजेत्तदा || ७० || अधिष्ठाने तमावाह्य स्थापयेद्विसृजेत्क्रमात् | हृदन्तसूत्रमानीय वर्तुलीकृत्य पूर्ववत् || ७१ || घृतपूर्णसृवे दत्वा हेतिमन्त्रेण होमयेत् | कलंकपञ्चकद्व्यंशमुक्तचन्द्रनिभं शुभम् || ७२ || भावयेत्स्वप्यतोप्येनं सुषुप्तौ तु नियोजयेत् | नाभिसूत्रेण चैतन्यमर्घ्यतोयेन पूजयेत् || ७३ || प्. ५१२) ताडनादिक्रमं सर्वं संस्कारान्तं तु पूर्ववत् | रुद्रमावाह्य संपूज्य स्थिरत्वादिसमन्वितम् || ७४ || निश्शेषदग्धपाशस्य रुद्रस्य च शोस्त्वया | बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति || ७५ || रुद्राय पूर्ववच्छल्कं भक्तियुक्तौ प्रतापयेत् | चित्तं च रागं मायां च कलां तत्रैव दापयेत् || ७६ || ओं ह्रीं हंसः रुद्राय चित्तं सोहं स्वाहा | ओं ह्रीं हंसः रुद्राय रागं सोहं स्वाहा || ७७ || ओं ह्रीं हंसः रुद्राय मायां सोहं स्वाहा | ओं ह्रीं हंसः रुद्राय कालं सोऽहं स्वाहा || ७८ || प्. ५१३) एभिर्मन्त्रैश्च शुक्लं च दापयेद्भक्तिसंयुतः | मणिपूरकदेशे तु रुद्रं तं स्थापयेत्क्रमात् || ७९ || कलंकं त्र्यंशहीनं च चन्द्रबिम्बसमप्रभम् | सुषुप्तावणुमावाह्य पूजयेद्धृदयाणुना || ८० || निश्शेषदग्धपाशस्य पशोरस्य शिशोस्त्वया | बन्धाय न पुनःस्थेयं शिवाज्ञां श्रावयेदिति || ८१ || ईश्वराय पुनः शुक्लं दापयेन्नन्दिकेश्वर | विद्यां च नियतिं कालं पूर्ववन्मन्त्रसंपुटम् || ८२ || ओं ह्रीं हंसः ईश्वराय विद्यां सोहं स्वाहा | ओं ह्रीं हंसः ईश्वराय नियतिं सोहं स्वाहा || ८३ || प्. ५१४) ओं ह्रीं हंसः ईश्वराय कालं सोहं स्वाहा | एतैश्शुक्लप्रदानं च कुर्याद्भक्तिसमन्वितः || ८४ || तस्मादीश्वरमावाह्य स्थापयेद्धृदयाम्बुजे | पूजयित्वा विधानेन भक्तियुक्तो जितेन्द्रियः || ८५ || अधिष्ठानगतं सूत्रमादायोद्धृत्य पूर्ववत् | आज्यपूर्णसृगग्ने तु निधायास्त्रेण होमयेत् || ८६ || पाशांकुशनिवृत्त्यादिपूर्णाहुति विधिं चरेत् | कलंकं चतुरश्रं व हीनं चन्द्रमसाकृतिम् || ८७ || तुरीयं नदिते येता पर ** त्मरूपकम् | ताडनादि विधानं च संस्कारान्तं च पूर्ववत् || ८८ || प्. ५१५) सदाशिवं तमावाह्य पूजयेद्भक्तिपूर्वकम् | शुद्धमायां शुद्धकलां शुक्लं दद्यात्समाहितः || ८९ || मूलमन्त्रेण संयोज्य पूर्व मन्त्रैश्च होमयेत् | ओं ह्रीं हंसः हौं सदाशिवाय शुद्धमायां सोहं स्वाहा || ९० || ओं ह्रीं हंसः हौं सदाशिवाय शुद्धकलां सोहं स्वाहा | एवं शुक्लप्रदानं च कर्तव्यं नन्दिकेश्वर || ९१ || निश्शेषदग्धपाशस्य देवस्य च शिशोस्त्वया | बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति || ९२ || विशुद्धदेहे चाबाह्य सादाख्यं तत्वमुत्तमम् | स्थापनं पूजनं चैव कारयेद्भक्तिसंयुतः || ९३ || प्. ५१६) आधाय सूत्रमादाय वर्तुलीकृत्य पूर्ववत् | सृगग्रे घृतपूर्णे तु जुहुयाद्धृदयाणुना || ९४ || कलंकैरखिलैर्मुक्तं शरद्राजसमप्रभम् | शुद्धतेजोघनमयं चैतन्यं भावयेत्पुनः || ९५ || हंसमन्त्रात्समादाय प्रणवेन तु योजयेत् | प्रणवाच्छक्तिबीजे तु तस्मान्मूले तु योजयेत् || ९६ || ओं हंसः ओं ह्रीं हैन्याय हौम् | एतन्मन्त्रं समुच्चार्य मूलाधारे नियोजयेत् || ९७ || चिद्घने निर्मले शान्ते नित्ये सर्वविवर्जिते | शुद्धमात्मानमप्यस्मिन् योजयेच्छिव भावयेत् || ९८ || प्. ५१७) मूलाधारं समारभ्य द्वादशान्तान्तकं स्मरेत् | नवात्मरूपकं मन्त्रमुच्चरेन्नादसंयुतम् || ९९ || नादं भृगुसमोपेतं संवर्तकमनन्तरम् | कालयुक्त महेन्द्रं च वारुणं वह्निसंयुतम् || १०० || मरुत् षष्ठस्वरोपेतं बिन्दुनादविभूषितम् | एतं नवाक्षरं पिण्डं हलमात्राभियोजयेत् || १०१ || अनेनैव तु मन्त्रेण दर्भाग्रेण सुसंस्पृशेत् | मूलाधारं समारभ्य द्वादशान्तविधिं स्मरेत् || १०२ || वत्सरूपं तं शिष्यं शिष्यंदेहं विभावयेत् | गन्धपुष्पादिभिः पूज्य प्राणादींश्च हि कारयेत् || १०३ || प्. ५१८) अभिषेकं बहिः कृत्वा शिवोऽहं भावयेद्गुरुः | पुनर्गन्धादिभिः पूज्य शेषं पूर्ववदाचरेत् || १०४ || योगपट्टं पुनर्दद्यात् कवचेन विधानवित् | ज्ञानेन योगदीक्षायामधिवासो न विद्यते || १०५ || तस्माद्योगं च विसृजेद् गुरुपादं समर्चयेत् | हेमपुष्पोपहारैश्च हेमयज्ञोपवीतकैः || १०६ || मकुटैर्मुद्रिकाभिश्च सर्वाभरणकैरपि | विचित्ररत्ननिचयैर्भूमिगोरत्नभक्तिभिः || १०७ || षष्ठादिभिर्न वासैश्च गुरवे भक्तितो ददेत् | योगदीक्षासमायुक्तः शिवः साक्षान्महीतले || १०८ || इत्यचिन्त्यविश्वसादाख्ये (योगदीक्षा) षड्विंशतिः पटलः || प्. ५१९) योगिनामुपकारार्थं नाडीचक्रमिहोच्यत् | नाभेरधस्तात्कन्दस्य तिर्यगूर्ध्वागताननाः || १ || षण्णवत्यंगुलायाम स्वदेहं सर्वदेहिनाम् | देव * * * * * * * * * * * * चरेत् | स एव शिवयोगी स्यात् त्रिदशैरभिवन्दितः || २ || देहस्थवह्निना चैव योगाभ्यासगतेन च | योगी तु योगाभ्यासेन निर्णयेल्लोक संचयम् || ३ || गुदमेढ्रान्तरं चैव कालाग्नेर्मण्डलं भवेत् | त्रिकोणमुज्वलाकारंमनुजानां विशेषतः || ४ || पशूनां चतुरश्रं स्यात् पक्षिणां वृत्तमेव हि | तिरश्चां दीर्घरूपं स्याद् हृदये च चतुष्पदम् || ५ || प्. ५२०) तिरश्चामण्डजानां च कन्दमध्ये प्रतिष्ठितम् | कन्दान्नवांगुलस्थाने मनुष्याणां च नामतः || ६ || तत्रैव नाड्यो वै सर्वाः प्रधानं च चतुर्दश | नाभिदेशे पतन्तीव द्वादशार समन्विते || ७ || चक्रेस्मिन्भ्रमते जीवो मलमायादिभिर्वृतः | ऊर्ध्वाधो भजते जीवो जाग्रादिकरणैस्सह || ८ || लूतिकावलये लूता यथा भ्रमति नित्यशः | जीवादयश्च प्राणश्च चरत्यन्वहमूर्जितः || ९ || प्राणारूढो भवेदात्माप्यधः कुण्डलिनी भवेत् | कन्दमध्ये स्थिता चैव सुषुम्ना नाडिरुत्तमा || १० || प्. ५२१) वीणादण्डधनुर्दण्डमौर्वी च ब्रह्मरन्ध्रगा | ब्रह्मनाडी च तन्मध्ये सुषुम्ना चित्ररूपिणी || ११ || अव्यक्ता सव्या विज्ञेया तस्य वामे सव्यके | सितरक्तासितास्त्रेधा सुषुम्ना वर्णिता भवेत् || १२ || इडा च शंखकुन्दाभा पिंगलातपरूपिणी | परितो नाभिचक्रस्य प्राणवायुसमन्विता || १३ || इन्दोश्चारमिडायां तु पिंगलायां तु भास्करः | तामसश्चन्द्र एवोक्तः सूर्यो राजस उच्यते || १४ || मध्ये च सात्विकानाडी गुणत्रयसमन्विता | सरस्वती शुक्लवर्णा च सिताम्बुरुहसन्निभा || १५ || प्. ५२२) * * * * * * * * हस्तिजिह्वा च मौक्तिका | यशस्विनी हिमेन्द्वाभा चित्रा विश्वोदरा शुभा || १६ || कुहू * * * ञ्जनाभा च * * * * शंखिनी | पयस्विनी पयोवर्णालंबुषा पीतवर्णिका || १७ || मयूरकण्ठ सदृशागान्धारी वर्णतो भवेत् | इडामृतं विषः पिंगा बाह्या रात्रिनिभा भवेत् || १८ || सरस्वती कुहूश्चैव सुषुम्नापार्श्वतः स्थिते | इडायाः पूर्वपृष्ठे च गान्धारी हस्तिपिंगले || १९ || पिंगला पूर्वपृष्ठे च स्थिता पूषा यशस्विनी | पयस्विन्याश्च पार्श्वाभ्यां पूषा तद्वत्सरस्वती || २० || प्. ५२३) चिन्याः? पार्श्वयोश्चैव गान्धारी च पयस्विनी | अलम्बुषा तु नन्दीश कण्ठमध्यादधः स्थिता || २१ || सुषुम्ना पूर्वभागे तु पिंगलां च कुहूस्तथा | अधश्चोर्ध्वे च विज्ञेया वारणा * * मिलिनी || २२ || यात्यस्य पादांगुष्ठान्तं स्थिरा चैव यशस्विनी | सव्यनासान्तगा तत्र पिंगलाचोर्ध्वगामिनी || २३ || पिंगला पृष्ठसंलीना पूषा दक्षिण नेत्रगा | पयस्विनी तथा नन्दिन् सव्यकर्णान्तगा भवेत् || २४ || जिह्वाग्रान्तं सरस्वत्याः स्थितिरत्र प्रकीर्तिताः | शंखिनी चोर्ध्वगा भूत्वा कण्ठान्तत्वाथ गोचरा || २५ || प्. ५२४) इडायाः पृष्ठतः स्थित्वा गान्धारी वामनेत्रगा | इडा च सव्यनासान्तं सव्यभागे च संस्थिता || २६ || पादांगुष्ठान्तगा चैव हस्तिजिह्वा च वामके | कुक्षौ विघ्नोदय नाम मूर्तिपूर्तिविधायिनी || २७ || अलम्बुषा वायुमूलादधोभागे व्यवस्थिता | एतासामेव नाडीनां द्विसप्तति सहस्रकम् || २८ || नाडीजालमभूत्तत्र जीर्णावश्वत्थ पत्रवत् | चतुर्दश सु नाडीषु वायवोऽपि चतुर्दश || २९ || प्राणापानसमानाश्च उदानो व्यान एव च | नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः || ३० || प्. ५२५) मुख्या वैरागकश्चैवमन्तर्यामी प्रपञ्चकम् | एवं चतुर्दश प्रोक्ताः प्राणाद्या वायवस्त्वमी || ३१ || तस्मान्नाडीषु सर्वत्र विचरन्त्येव वायवः | एतेषु पञ्च मुख्यासो स प्राणापानयोस्तयोः || ३२ || प्राणश्च मुख्यस्सर्वेषां वायूनां प्राणिनामयम् | आस्य नाडिकयोर्मूले निश्वासोच्छ्वासवृत्तिकः || ३३ || प्रयाणं कुरुते प्राणो हृन्मध्ये नाभिमध्यमे | तस्मात्प्राणस्य मुख्यत्वं अपानस्यापि वर्तनम् || ३४ || अन्नपानादिकं सर्वमधो नयति देहिनाम् | शकृन्मूत्रेन्द्रियाणां च निस्सारस्तेन वै भवेत् || ३५ || प्. ५२६) अंगानां च विनामं च व्यानश्च कुरुते भृशम् | उदानो मुखनेत्रे तु कम्पयत्यधरोष्ठकम् || ३६ || गात्रमर्माणि सर्वत्र तोदं च कुरुते भृशम् | समानः सर्वगात्रेषु संख्यायैव व्यवस्थितः || ३७ || पीतं भुक्तं सर्वरसं व्यापयन्नग्निना सह | द्विसप्तति सहस्राणां नाडीनां मध्यमे चरेत् || ३८ || स्वयं नयति गात्रेषु समानस्य गतिस्तथा | नागस्योद्गारकं कृत्यं कूर्मोन्मीलनिमीलनम् || ३९ || कृकरं क्षुतकं चैव देवदत्तो विजृम्भणे | धनंजयो घोषयुतः प्राणहीनं न मुञ्चति || ४० || प्. ५२७) मुख्योऽपि मनसा युक्तो वैरम्भो बुद्धिसंयुतः | अन्तर्याम्यप्यहंकारी प्रपञ्चश्चित्त संयुतः || ४१ || राजावर्तनिभः प्राणो वह्निवज्ज्वलते सदा | जठरस्थं जलं चान्नं विभजेदग्निना सह || ४२ || वह्नौ जलं पुरः स्थाप्य चान्नादिन जलोपरि | इन्द्रगोपकसंकाशं तदधोऽपान एव च || ४३ || ज्वलनं दीप्य तत्रैव वायुनापानगः शनैः | अत्युष्णजलसंयुक्तमन्नं व्यंजन संयुतम् || ४४ || मलाशयस्य तिर्योऽथ द्रव पक्वं करोत्तदा | स्वेदमूत्रं बहिर्गच्छेत् रसं वीर्य क्रमाद्भवेत् || ४५ || प्. ५२८) रसाच्छ्रोणितमुत्पन्नं रुधिरान्मांस संभवः | मांसान्मेदोपसंक्रान्तं मेदसो स्नायुरस्थिके || ४६ || अस्थिनापि च मज्जास्यान्मज्जा सामोजसा सह | शकृज्जातं क्रमादेवं सप्तधा धातुरुच्यते || ४७ || विद्युदग्निसमप्रख्ये व्यानेऽप्युदानदारकम् | उदानं पद्मकिञ्जल्कसन्निभाग्नि समप्रभम् || ४८ || गोक्षीरधवलाकारः समानः प्रोक्षणे रतः | कुसुम्भपुष्पसदृशो हिक्काभीति प्रवर्तकः || ४९ || पीतवर्णः स कूर्मः स्याज्जाड्य रोमाञ्च कम्पकृत् | कृकरः कृष्णवर्णः स्याद् भ्रूविक्षेपं च कारयेत् || ५० || प्. ५२९) अग्निवर्णो देवदत्तः तन्द्रीकुम्भादि कर्मकृत् | श्वेतो धनंजयः प्रोक्तो देहधारणके रतः || ५१ || एवं भोजश्च संकल्प संविभागो भवेत्तदा | सूतादिदोष निर्मुक्तोऽप्यन्नदोष विवर्जितः || ५२ || सर्वानुग्रह सिद्ध्यर्थं शिवप्राप्तिः क्रमाद्भवेत् | यमस्तु दशधा प्रोक्तो नियमः प्रोच्यते तथा || ५३ || शौचं तपश्च संतुष्टिः स्वाध्यायेश्वरपूजनम् | सिद्धान्तश्रवणं भव्यं ह्री ता च जपं हुतम् || ५४ || वारुणाग्नेयतीर्थानां कायशुद्धिर्भवेद्ध्रुवा | अकृत्वावर्जनादेव कर्मशुद्धिरथोच्यते || ५५ || प्. ५३०) सत्येन वाचा शुद्धिः स्याद्दीक्षायास्सर्वशुद्धये | शौचं तु षड्विधं प्रोक्तं तपश्चान्द्रायणादिकम् || ५६ || तपस्संतापनं त्वर्थे चेन्द्रियाणां च शोधनम् | कृच्छ्रादिभिः कायदोषः कारणानां च शोषणम् || ५७ || अकृत्य भोगसंशोषो मदमात्सर्यवर्जनम् | तपोरूपमिदं प्रोक्तं योगसाधनमुत्तमम् || ५८ || अल्पलाभेन तृप्तः स्यात्संतोषः पूर्ववद्भवेत् | सर्वदा दुःखमाप्नोति सर्वेणः परिपूरणः || ५९ || शैवागमस्याध्ययनं तदभिन्न पुराणकम् | आत्मानुष्ठान योग्येषु प्रदेशेष्ववलोकनम् || ६० || प्. ५३१) नित्यमभ्यसनं चैव स्वाध्यायमिति कीर्तितम् | अनेनैव तु मूर्तिः स्यात् प्रसिद्धं नन्दिकेश्वर || ६१ || लिंगार्चनादि तत्सर्वं पूजनं पूर्वमीरितम् | स्वगुरोर्भक्ति संयुक्तो देशकालानुरोधनात् || ६२ || अविरोधजनैस्सर्धमयोग्यैरास्तिक्य संयुतः | सिद्धान्तश्रवणं चैव सिद्धान्तश्रवणं भवेत् || ६३ || गुरुस्वातन्त्र्य संयुक्तः स्वस्वातन्त्र्यविवर्जितः | कुलालहस्तमृत्स्नेव गुर्वाज्ञा पालनामतः || ६४ || भव्यमेतत्स्वरूपं हि शापानुग्रहहेतुकम् | आगमोक्तं विधानं तु कुत्सितं कर्म यद्भवेत् || ६५ || प्. ५३२) तस्मिन्भवति या लक्ष्मी ह्रीस्तु शैवेयमीरिता | दीक्षोत्तरे च गुरुणा चोपदिष्टैश्च मन्त्रकैः || ६६ || भक्तिविश्वाससंमोहं गुर्वाज्ञापालनादिकम् | कुर्वन्तं कृपया युक्तं शिष्यमात्रादिसंयुतैः || ६७ || मात्रान्यूनाधिकं कृत्वा क्लीलसूत्रादिवर्जितैः | चन्द्रार्कनाशनं कृत्वा भाष्योपांशकमानसैः || ६८ || भाष्यात्परमुपांशु स्याद् उपांशोर्मानसं परम् | एवं गुरुमुखाल्लब्ध्वा जपं कुर्वीत तज्जपः || ६९ || अग्निकार्यं हुतं प्रोक्तं पूर्वमेवं हुतक्रिया | नियमो दशधा प्रोक्तो यमाद्याभिश्च विंशतिः || ७० || प्. ५३३) एतैर्विंशतिभिर्हीने योगो पापं प्रदापयेत् | मोहाद्दानं प्रकुर्याच्चेच्छिष्येण वृजिनं व्रजेत् || ७१ || तस्मात्सर्व प्रयत्नेन योग्याय च ददेद्गुरुः | पद्मं च स्वस्तिकं चैव गोमुखं विशदं तथा || ७२ || सूक्ष्मश्च ह्येकपादं च कुक्कुटं वीरमेव च | पद्मासनं च खं पुष्टं कूर्मं विमलमेव च || ७३ || दण्डं चण्डं च गोकर्णं सिद्धासनमतः परम् | वृत्तिं च कटिकं चैव गजास्यं च मयूरकम् || ७४ || आसनं विंशतिः प्रोक्तं प्रत्येकं च शृणु क्रमात् | उर्ध्वोपरि तु नन्दीश कृत्वा पादतले शुभे || ७५ || प्. ५३४) पद्मासनं भवेदेतत् सर्वेषां पूजितं परम् | जानूर्वोरन्तराले तु कृत्वा पादतले शुभे || ७६ || पूर्ववदृजुकायः स्यात् स्वस्तिकं सर्वशोभनम् | सव्ये दक्षिणगुल्फात्तु पृष्ठपार्श्वे च योजयेत् || ७७ || दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं तथा | शिरोपरि च पादाभ्यां कर्णपार्श्वे च योजयेत् || ७८ || हस्ताभ्यां भूमिसंस्थानं अतज्जुघादोर्भुजान्तरे | विंशदन्तमिति प्रोक्तं सूची च तदनन्तरम् || ७९ || हस्ताभ्यां भूतलेन स्याद् दक्षिणं चोपरिस्थितम् | शरीरांघ्रीद्वयं चापि वक्त्रायोर्ध्वशरी भवेत् || ८० || प्. ५३५) सूचीवत्स्थितिरत्युग्रं सूचीति खलु विश्रुतम् | आकाशगमनार्थाय शनैः कुक्कुटवद्भवेत् || ८१ || एकपादं तु भूमौ तु चान्यपादं कटौ न्यसेत् | तस्य पादतले न्यस्त्वा वामपाणिं च दक्षिणम् || ८२ || ऊर्ध्वं कृत्वांगुलीभिस्तु छादनं चैकपादकम् | अत्युग्रतपसां साध्यमेतदासनमुत्तमम् || ८३ || पद्मवच्चासनं कृत्वा हस्ताभ्यामूरुमध्यमे | कोर्परावधि चाकृष्यादंगं तत्कुक्कुटं भवेत् || ८४ || एकांघ्रिमूरौ विन्यस्यादन्यांघ्रिं च भुवः स्थले | जानुकोर्परसंयोगाद् वीरासनमितीरितम् || ८५ || प्. ५३६) व्याख्यानाय भवेदेतत् सर्वशास्त्रार्थ बोधकृत् | सवनीपार्श्वयोरेव वृषणस्याथ गुल्फगौ || ८६ || निक्षिप्य पादपार्श्वौ च पाणिभ्यां दृढबन्धनम् | भद्रासनं भवेदेतत् सर्वव्याधिविषापहम् || ८७ || संयोज्यांघ्रितलद्वेद्वे पुनरन्तर्विसर्पणम् | पृष्ठपार्श्वे करद्वन्द्वं अंघ्रिव्यग्रोप संस्थितम् || ८८ || पृष्ठे मुखं नखं पृष्टं वायुरोधप्रधानकम् | पद्मवच्चरणं कृत्वा पाणिभ्यामूरुमध्यमे || ८८ || निक्षिप्य ताभ्यामाबध्यात् कन्धरे पूर्ववद्भवेत् | प्राणारोधनकं चैव कायाग्नेरति दीपनम् || ९० || प्. ५३७) नमस्काराञ्जलिं कृत्वा गर्भस्थ शिशुवत्क्रमात् | अपामाकर्षणे शस्तं मूलाग्नेर्दीपनं भवेत् || ९१ || पिण्डासनमिदं प्रोक्तं गोकर्णं तदनन्तरम् | पार्श्वयोः पादयुगलं निक्षिप्य जानुनी उभे || ९२ || भूतले स्थाप्य हस्ताभ्यां संयोगे दक्षिणं परम् | ऊर्ध्वकायः स्थितः सम्यक् गोकर्णं वायुबन्धनम् || ९३ || जान्वोर्निक्षिप्य हस्तौ तु वांगुलीश्च प्रसार्य च | व्यात्तास्यः क्रूरमीक्षेत नासाग्रव्यग्रलोचनः || ९४ || तापवातादिशमनं दावानलनिरोधनम् | पादद्वयं च संयोज्य तस्मिन्पृष्ठे निधाय च || ९५ || प्. ५३८) ऋजुकायस्समासीनः पाणिभ्यां पादके न्यसेत् | अपानाकर्षणं कुर्यात् कायाग्नेर्वर्धनं परम् || ९६ || एकांगमेव हस्तं च विनस्य पृथिवीतले | वक्षोरुहं च हस्तेन प्रसार्य तदनन्तरम् || ९७ || गृहीत्वाचार्यहस्तं च जान्वंघ्रिं च प्रसारयेत् | पादांगुष्ठावलोकं च गजावनमितीरितम् || ९८ || पृष्ठपार्श्वे च शमनं वायूनां च भवेत्तदा | आयुष्यवर्धनं ख्यातमतिसारनिरोधनम् || ९९ || अवष्टभ्य भुवं सम्यक् तलाभ्यां तु करद्वयोः | हस्तयोः कोर्परद्वन्द्वं अन्यदेशे निधाय च || १०० || प्. ५३९) समुन्नतशिरः पादौ दण्डवद्व्योम्नि संस्थितः | मयूरासनमेतत्तु सर्वपाप प्रणाशनम् || १०१ || सर्वरोगाश्च नश्यन्ति विषाणविषयाण्यपि | अंगानां च क्रमान्याहुः सदाशुगमनं भवेत् || १०२ || आसनं विंशतिः प्रोक्तं श्रेष्ठं स्थितसुखासनम् | प्राणायाममथो वक्ष्ये नाडिशुद्ध्यादि पूर्वकम् || १०३ || सर्वपापहरं श्रेष्ठं सर्वव्याधिनि वारणम् | शिवप्रकाशं सततं क्रमात्कैवल्यकारणम् || १०४ || अनेन कालव्यायामं यत्नसाध्यं च वारुणम् | गंगादितीर्थगं सर्वं प्राणायामेन सिध्यति || १०५ || प्. ५४०) तद्विना चान्यगमनं भाग्यहीनाय संभवेत् | तस्मात्सर्वप्रयत्नेन प्राणायामं चरेद्गुरुः || १०६ || निश्शब्दे निर्जने चैव जलधेरन्यदेशके | शीतातप विनिर्मुक्ते महापातकवर्जिते || १०७ || मत्कुणस्त्रीपिपील्यादिमशकादि विवर्जिते | कृतघ्नाः क्रोधिनश्चैव गुर्वाज्ञा लंघिनस्तदा || १०८ || अन्त्यजानां च निलये योगाभ्यासं न कारयेत् | शौचमाचमनं कृत्वा प्रातरुत्थाय संयतः || १०९ || वारुणाग्नेय वायव्यं माहेन्द्रं मानसं तथा | प्रत्येकं विविधं स्नानं योगिनां च विशेषतः || ११० || प्. ५४१) मन्त्रस्नानमथैकं तु सर्वपापनिकृन्तनम् | पूर्वमेवं प्रकारं तु प्रोक्तमन्यत्तदुच्यते || १११ || गुरुपादजलेनैव तत्स्नानं वारुणं भवेत् | आग्नेयं भस्मनारक्षः वायव्यं प्राणायामकम् || ११२ || माहेन्द्रममृतं स्नानं मानसं योगदर्शनम् | चेलाजिनकुशैश्चैव मृदासन कृतं भवेत् || ११३ || शिरोर्ध्वे गुरुपद्मं च पूजयेन्नन्दिकेश्वर | तत्कर्णिकायामाग्नेय दले विघ्नेश्वरं यजेत् || ११४ || पूर्वाननोदगास्यो वा चक्षुर्देहासनस्थितः | समग्रीवशिरःकायो दन्तैर्दन्तान्न संस्पृशेत् || ११५ || प्. ५४२) नासाग्रगतदृष्टिश्च तत्रस्थं शशिमण्डलम् | बिन्दुमध्यगतं चैव निष्यन्दत्सुधयान्वितम् || ११६ || विलोकयेत्तदत्रैव नेत्राभ्यां सुसमाहितः | अग्निबीजं तु संस्मृत्य सव्यनासापुटान्तरे || ११७ || पुरयेद्वायुना सम्यक् पादांगुष्ठ शिरोदिकम् | वामनासापुटेनैव पूरयेत्पूर्ववद्बुधः || ११८ || रेचयेत्सव्यकेनैवमभ्यसेदेवमेव तु | पञ्चषट्सप्तसंख्याकैः कनिष्ठं मध्यमोत्तमम् || ११९ || अर्धं चापि तदर्धं वा नित्यमेवं समभ्यसेत् | प्राणायामः समभत् नाडीशोधन मुच्यते || १२० || प्. ५४३) त्रिसन्ध्यमेव जठराद् ऊर्ध्वमग्नेश्च वर्धनम् | शरीर संयुतं चैव नादाभिव्यक्ति जिह्वकम् || १२१ || सासमर्तस्य संसिद्धिर्वत्सार तु चतुष्टयात् | यावदेतानि चिह्नानि संपश्येत्तावदाचरेत् || १२२ || नाडीशुद्धिरियं प्रोक्ता प्राणायाममनन्तरम् | प्रासादेन तु मन्त्रेण प्रणवेन तथैव च || १२३ || प्राणायामावरूढं च हृदये जप्यनेक्षरम् | न तत्र लक्षणं विद्यात् सदा सर्वेषु वर्तते || १२४ || पूर्वं षोडशमात्रं तु पूरयेदुदयं बुधः | चतुष्षष्टिमात्रकं कुम्भं पूर्णकुम्भं तथा भवेत् || १२५ || प्. ५४४) रेचयेदूर्ध्ववायुः च द्वात्रिंशन्मात्रया ततः | षोडशप्राणायामं तु नित्यमेव तु चाभ्यसेत् || १२६ || उत्तमं मध्यमं चैव मधमं च तथैव च | अधमं द्वादशोद्घातं चतुर्विंशतिमध्यमम् || १२७ || षट्त्रिंशदुत्तमं प्राहुः शीक्षायामस्य लक्षणम् | धारणा द्वादशायामं ध्यानं द्वादशधारणम् || १२८ || ध्यानं द्वादशकं यावत् समाधिरभिधीयते | रेचकं सर्वथा त्यज्य पूरकं कुम्भके न्यसेत् || १२९ || रेच्यारेच्यामशक्तश्चेत् प्राणायामं चरेत्क्रमात् | कम्पनं चैव भ्रमणं भ्रमणं चाप्लुतिं तथा || १३० || प्. ५४५) कायस्थितिमवाप्नोति प्राणस्थितिमवाप्नुयात् | चित्तस्थितिमवाप्नोति चित्तशुद्धिमवाप्नुयात् || १३१ || ततः संपीडितं वायुं नासाग्रेण विरेचयेत् | उत्कृष्योत्कृष्य योगेन श्रान्तः श्रान्तः पुनः पुनः || १३२ || त्रिरुद्घातप्रयोगेन नश्यन्तिगुदकीलकाः | स्थूलस्थं वा त्रिदेशं वा कृत्वा योगी समाहितः || १३३ || निम्नप्रदेशशिरसा निर्हरेद्गुदकीलकान् | लिंगोत्थान्कलशान्घोरान्सर्वदेह गतांस्तथा || १३४ || सर्वांगधारणायोगाद् अपकर्षापयोगवित् | योगनिद्रां समाश्रित्य दृष्टादृष्टं लिपौ स्वपेत् || १३५ || प्. ५४६) यद्यत्पश्यति युक्तात्मा तत्सर्वं तस्य जायते | स्वप्नेऽपि योगयुक्तस्य योगनिद्राप्रभावतः || १३६ || अभ्यर्थितोस्यकेनापि स्वयं वा सन्ध्ययान्वितः | विधानमेतत्कुर्वीत सत्यमेतन्मयोदितम् || १३७ || मनोविषय संबद्धं तत्तत्सम्यक्समाचरेत् | नित्यं षोडश सन्ध्यायां मासमात्रं समभ्यसेत् || १३८ || क * भ्रूणहनात् पापात्प्रमुच्येत न संशयः | जन्मान्तरकृतं पापं षण्मासाच्च पुनाति सः || १३९ || संवत्सरसमभ्यासात् शिवज्ञानं करे स्थितम् | योगाभ्यासाच्च सततं प्राणानां संयमो भवेत् || १४० || प्. ५४७) तेन मानसनाशः स्यान् मुक्तिस्तस्य करे स्थिता | अन्तराकर्षणं वायोः बाह्ये तत्पूर्वकं भवेत् || १४१ || रेचकं तद्भवेन्नन्दिन् क्रमादेवं भवेद्धि वै | स्वेदः कम्पश्च पुलक आनन्दानामनन्तरम् || १४२ || उत्तानमुत्तमं तस्मादुत्तमं भवति ध्रुवम् | लयात्प्राणस्य मेधापि सुखी च भवति क्षणात् || १४३ || प्राणान्नाशात्समुत्तिष्ठेदासनेन सहैव तु | निश्वोच्छ्वासरूपस्य हंसरूपस्य मध्यतः || १४४ || मध्यबीजस्यनयनाच्छिवानन्दमयं भवेत् | प्राणस्य लयनादेव कुम्भके न भवेत्पुनः || १४५ || प्. ५४८) वायोरापूरणं चैव रेचकं च तथैव च | उभौ विसृज्य योगे तु वायोर्धारणमुत्तमम् || १४६ || प्राणायामश्च * * * * * * * * * * * सर्वं विरेच्य चापूर्य पश्चात्कुंभकसंयुतः || १४७ || सहितं वा केवलं वापि कुम्भकं नित्यमभ्यसेत् | यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् || १४८ || अभ्यासात्कुम्भके सिद्धे रेचपूरकवर्जिते | न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते || १४९ || मनोजवत्वसंसिद्धिर्नालं लीलशिरोरुहः | न जरा पित्रिषा तस्य वैजयन्ती न दृश्यते || १५० || प्. ५४९) नादस्योत्पत्तिजनकं कुंभकेन समन्वितः | प्राणसं * * * * एष प्राणजयोपायः सर्वमृत्युनिवारकः || १५१ || उदरं वायुनापूर्य नासाग्रे नाभिमध्यमे | पाद्यंगुष्ठद्वयोर्वापि प्राणवायोश्च धारणा || १५२ || अशेषव्याधिनिर्मुक्तो जीवेन्निर्मलमानसः | पवनस्य जयोपायो नासाग्रालोकनं भवेत् || १५३ || नाभिमध्यस्थितो वायुर्नासाग्रे नाभिमध्यमे | नाभिमध्यस्थितो वायुर्व्याधिनाशाय वै भवेत् || १५४ || अंगुष्ठयोश्च धारणाद्देहलाघवमुत्तमम् | द्विजचञ्चपुटेनैव वायुनालम्बितः शनैः || १५५ || प्. ५५०) श्रमदाहादयो न स्युः तस्य कायः स्थिरो भवेत् | अगस्त्योदय काले तु राजदन्तद्वयान्तरात् || १५६ || वायोः पानं च कुरुते ऋतुद्वन्द्वाच्च वाक्पतिः | ऋतुद्वयेन रोगाश्च नाशं यान्ति न संशयः || १५७ || आनीय जिह्वया मूले वायुं तन्मूलरोधनात् | अमृतं यः पिबेद्योगी सर्वसिद्धिं च गच्छति || १५३ || चैतन्यमिद्धयानीय कोदण्डद्वयमध्यमे | तस्मिन्नमृतपानेन सर्वव्याधिहरं परम् || १५९ || नाडीद्वयेन वा कृष्य ! वायुं नाभौ च जाठरे | पार्श्वे च घटिकामात्रधारणान्मासमात्रकम् || १६० || प्. ५५१) दृढगात्रो विशुद्धात्मा व्याधिभिः सोऽपि मुच्यते | एकमासं त्रिसन्ध्यायां मारुतं जिह्वया पिबेत् || १६१ || सुधामयं यस्तु देवं नाभौ तत्पार्श्वयोरपि | गुल्माष्ठीलप्लहाद्यादि गात्रवि * र्शनानि च || १६२ || जठरान्तस्थरोगा ये ते सर्वे यान्ति नाशनम् | विषज्वरोपमृत्युश्च ते सर्वे यान्ति नाशनम् || १६३ || करालश्चालिसंकाशो नेत्रं च गरुडोपमम् | अभ्यासादेव तत्सर्वं वायोर्विजयमेव हि || १६४ || स्वस्तिकासनमारूढः समाहितमनास्तथा | इन्द्रियाणि वशीकृत्य विषयेभ्यो निवर्त्य च || १६५ || प्. ५५२) उद्ग्रीव प्राणायामं च गुदमुत्कृष्य सन्ततम् | सर्वं सकृत्समुत्सृज्य शनैः कम्पुलि मार्गकम् || १६६ || संकोचयति तद्वक्तुः पूर्ववत्प्रणवेन तु | कारणाग्निकराभ्यां च बन्धयेदंगुलीयकैः || १६७ || प्रच्छाद्य धारयेद्यावद् दानस्य चोदयावधि | मूर्ध्नि चैव विशेषेण प्राणसंयमनं परम् || १६८ || सुषुम्नायां ब्रह्मरन्ध्रे प्राणवायोर्गतिर्भवेत् | तेन नादोद्भवश्चैव शुद्धस्फटिकनिर्मलः || १६९ || वीणादण्डवदामूर्ध्नो नादस्य द्युति विद्यते | आदौ शंखध्वनिर्मध्ये मेघध्वनिनिरन्तरम् || १७० || प्. ५५३) व्योमरन्ध्रगतः पश्चाद् निर्जराणां वरो भवेत् | सोमरन्ध्रगते वायौ नित्यचैतन्यके स्थिते || १७१ || सततानन्दसंयुक्तः तेन वायुर्जितो भवेत् | प्राणायामरतः शुद्धो रेचपूरकवर्जितः || १७२ || वामगुल्फेन संपीड्य सवनी च सिरामयः | वृषणस्य द्वयोरेव सर्वोपरि च दक्षिणम् || १७३ || जंघोर्वोरन्तरे नन्दिन् दूतनिच्छिद्रकं भवेत् | * * * * रनुग्रीवः शिरः कर्णस्समोदरः || १७४ || नेत्राभ्यां सव्यगुल्फं च निरक्षोपरि संस्थितम् | मन्त्राभि प्रणवेनैव नादं पूर्णं समुच्चरेत् || १७५ || प्. ५५४) हस्तदीपिलया तुल्योप्यासनेऽयं विशेषतः | वपुषो लाघवं चैव जठराग्नि विवर्धनम् || १७६ || दृष्टचिह्नस्ततो भूत्वा सुषुम्ना नाडिमध्यमे | रोधयेन्मारुतं पश्चान् मनोलयमुपैति वै || १७७ || नाडीप्रसृतिमध्ये च मिताशनमतस्तदा | अनेनैव तु मध्यस्था वायुधारणतः क्रमात् || १७८ || कुण्डलिन्याः प्रतप्तिःस्यात्पवनाद्युक्तवह्निना | स्वस्थानात्पतितो भूत्वा प्रसार्य फणभृत्तनुम् || १७९ || प्रबोधं याति सहसा नाभिमूले तु चक्रिणी | ब्रह्मरन्ध्रे सुषुम्नायाः प्राणायामश्च गच्छति || १८० || प्. ५५५) तदन्तरासं मनसा तारमुच्चार्य धारयेत् | हृत्प्रदेशे पुनः कर्णे भ्रमे वायौ च धारयेत् || १८१ || क्रमात्तस्मात्समानीय प्राणाग्निंमनसा सह | सहसैव समुच्चार्य धारयेन्नन्दिकेश्वर || १८२ || तत्रव्योति मरुत्पूर्णे सर्वांगे च समन्वितः | आत्मभाविततात्तत्र गगने सूर्यबिम्बवत् || १८३ || उत्क्रान्त्युत्कृतबुद्धिश्च सम्यग्योगं समभ्यसेत् | प्रासादेन च दीर्घेण नासाग्रे तं समुच्चरेत् || १८४ || विभित्य मनसा मूर्ध्नि ब्रह्मरन्ध्रेण योगवित् | समुच्चरेत्प्रणवांश्च महाप्राणश्च मध्यमे || १८५ || प्. ५५६) गात्रातीते जगत्प्राणे नित्यानन्दमये शिवे | स्वात्मानं योजयेत्तत्र पुनर्जन्म न विद्यते || १८६ || प्राणायामं च योगच्छेत् काले काले विशेषतः | सर्वपापात्प्रशमने प्राणायाम समो नहि || १८७ || आहुतिर्याततस्सेयं प्रत्याहारमुदीरयेत् | शब्दादिविषयादिभ्यो बलादाहरणं भवेत् || १८८ || स एव प्रत्याहृतस्तेभ्यस्तदानीं स विमुच्यते | योग्यं पश्यति यत्सर्वं तत्सर्वं चात्मनि क्रमात् || १८९ || प्रत्याहारः पुनश्चैव नित्यकर्मक्रियाश्च वै | स्वस्मिन्नेव च यः पश्येत्तदनुष्ठानकं भवेत् || १९० || प्. ५५७) बहिर्विना च मनसा प्रत्याहारं च सो भवेत् | योगेषु च चतुष्केषु शिवयोगं प्रधानकम् || १९१ || कर्माष्टादशकेष्वेव स्थानात्स्थानाच्च संहृतिः | प्रत्याहारस्ततस्तेषां एवं प्रोक्तं चतुर्विधम् || १९२ || अष्टादशानां मर्माणां स्थानं च क्रमतः शृणु | प्रसार्य चरणांगुष्ठौ द्वितीया गुल्फकौ भवेत् || १९३ || जंघामध्ये तृतीयं स्याच्चतुर्थं चिन्त्यमूलकम् पञ्चमञ्जानुयुगलं ऊर्वोर्द्वन्द्वमतः परम् || १९४ || सप्तमं च मयोर्मूलं अष्टमं पादमूलकम् | मूलाधारं तु नवमं अधिष्ठानं ततः परम् || १९५ || प्. ५५८) एकादशं तु * * * * * * यं द्वादशं भवेत् | त्रयोदश विशुद्धिः स्यात् तालुमूलं चतुर्दश || १९६ || नयने षोडशं चाल्लि * * * * * मध्यमे | ललाटं सप्तदशकं मूर्धाचाष्टादश स्मृतः || १९७ || मर्मस्वष्टादशस्वेषु स्थानानि च क्रमाच्छृणु | सार्धांगुलं चतुष्कं च अंगुष्ठद्वयमानकम् || १९८ || तथैव गुल्फमानं स्याज्जंघामध्यं दशांगुलम् | जंघामस्यस्थितेर्मूलं रुद्रांगुलमिति स्मृतम् || १९९ || अंगुलीद्वयसंयुक्तः तस्माज्जान्वोश्च मानकम् | * * नवांगुलं चोरू तदूर्ध्वं सप्तमंगुलम् || २०० || प्. ५५९) ऊरुमध्यात्ततो नन्दिन् गुरुमूलं नवांगुलम् | सार्धद्व्यंगुलकं प्रोक्तं मूलाधारं हि मध्यमम् || २०१ || तदूर्ध्वं मेढ्रदेशं तु सार्धद्व्यंगुल संयुतम् | मेढ्रान्नाभिं विजानीयात् पुनस्सार्धदशांगुलम् || २०२ || चतुर्दशांगुलं नाभेर्हृन्मध्यौ नन्दिकेश्वर | षष्ठांगुलं तु तन्मध्यात् कण्ठकूपान्तमानकम् || २०३ || कण्ठादुपरि जिह्वायां मूलं तु चतुरंगुलम् | नासामूलं तु जिह्वायां मूलात्तु चतुरंगुलम् || २०४ || नेत्रस्थानं तु तन्मूलादर्धांगुलमितं भवेत् | कोदण्डद्वयमध्यं तु अर्कांगुलमिति क्रमात् || २०५ || प्. ५६०) गुणांगुलं तदूर्ध्वं स्याल्ललाटं नन्दिकेश्वर | ललाटाद्ब्रह्मरन्ध्रं तु गुणांगुलमितीरितम् || २०६ || एषु स्थानेषु मनसा वायुसंसृतिमभ्यसेत् | स्थानात्स्थानात्समाहृत्य प्रत्याहं समभ्यसेत् || २०७ || नाशं गच्छन्ति रोगाश्च योगं गच्छन्ति योगिनः | प्रत्याहारं पुनर्वक्ष्ये शृणु त्वन्नन्दिकेश्वर || २०८ || अंगुष्ठान्मूर्धपर्यन्तं वायुना पूर्णकुम्भवत् | मारुतं धारयन्नासा प्राणायामप्रवेदनात् || २०९ || व्योमरन्ध्रात्समाकृष्य ललाटान्तमधो नयेत् | ललाटाच्च भ्रुवोर्मध्ये रोधयेन्नन्दिकेश्वर || २१० || प्. ५६१) एवमादि दशस्थाने स्थाने स्थानेऽपि रोधयेत् | अंगुष्ठावधिकश्चैव पादयोस्तन्निरोधयेत् || २११ || स्थानात्स्थानात्समाकृष्य धारयेत्सु समाहितः | एवं तु प्रत्याहारं च कुर्वतोऽस्य मनीषिणः || २१२ || आचन्द्रतारकं दाहेत् जीवेत्पाशांकुशं हृतम् | नाडीभ्यां वायुमापूर्य कुण्डलिन्यास्तु पार्श्वयोः || २१३ || युगपद्धारयेद्यागी संसारात्तु प्रमुच्यते | हृदये चैव मापूर्य धारयेन्नन्दिकेश्वर || २१४ || परमानन्दसद्भावं तस्य वै हि प्रकाशयेत् | किं पुनस्तस्य रोगस्य नाशं गच्छति तत्क्षणात् || २१५ || प्. ५६२) नासाभ्यां वायुमारोप्य पूरयित्वोदर स्थितम् | भ्रुवोः कोदण्डमध्यात्तु स्तनद्वन्द्वादनन्तरम् || २१६ || आरोप्य धारयेद्योगी क्रमाद्याति परांगतिम् | भ्रूमध्यान्तं समारोप्य चात्मनः प्राणमारुतम् || २१७ || सुषुम्नारन्ध्रगं यावन् मनोलयमुपैति वै | तावदेवं प्रकुर्वीत विधिनान्नन्दिकेश्वर || २१८ || ज्ञानदेशेन संयोगं तस्य धारणमुच्यते | पञ्चप्रकारमेवं तु तदिदानीं शृणुष्वथ || २१९ || यमादिगुण युक्तस्य स्वस्मिंश्च मनसः स्थितिः | धारणेति तथा प्रोक्ता नाभिदेशे समाश्रिता || २२० || प्. ५६३) हृदयाकाशमध्ये तु बहिराकाशधारिणम् | अथवा पृथिवी तत्वं पादादाजानु संस्थितम् || २२१ || जान्वादि पायुपर्यन्तं जलतत्वं व्यवस्थितम् | पायुस्थानं समारभ्य हृदन्तं वह्निसंयुतम् || २२२ || अनाहतात्समारभ्य कोदण्डद्वयमध्यगम् | वायुतत्वमिति प्रोक्तं तस्मादूर्ध्वान्तमम्बरम् || २२३ || कारणानां च पापानां कलानां पञ्चकं तथा | अध्वनां च विशेषेण भूतशुद्धिः क्रमाद्भवेत् || २२४ || पादादिमूर्धपर्यन्तं ब्रह्मनाडीं सुसंस्मरेत् | पीतंश्वेतं तथा रक्तं वज्रसंनिभमेव च || २२५ || प्. ५६४) शुद्धस्फटिकसंकाशं पञ्चस्थाने पृथक् पृथक् | तेजोघनं बोधरूपं कारणानां च पञ्चकम् || २२६ || एवं ध्यात्वा क्रमाद्योगी स्थाने स्थाने तु संहरेत् | ब्रह्मस्थाने तु घटिकापञ्चकं धारयेत्क्रमात् || २२७ || तत्तेजस्संचयं गृह्य विष्णुस्थाने च संहरेत् | विष्णुस्थाने च घटिका पंचकं पंचकं पृथक् || २२८ || सदाशिवान्तमाहृत्य ज्ञानस्थाने च योजयेत् | अन्यदेशे च कर्तव्यं तदास्यादन्यथा यदा || २२९ || पुत्र स्नेहि स्रवेत्क्षीरं दुःखान्ते श्रुनिपातनम् | कामार्थचेन्द्रिय ग्रामद्रावं ज्ञान सुखं भवेत् || २३० || प्. ५६५) तस्मात्सर्व प्रयत्नेन नार्ध्वं न तु भावयेत् | ध्यैचिन्तायाश्च धात्वर्थेनिश्चल ज्ञानमुच्यते || २३१ || लक्ष्ये तु मान्सं क्षिप्तं सहमार्गे विशेषतः | शब्दः स्पर्शश्च रूपं च रसोगन्धःषडिन्द्रियम् || २३२ || स्वस्थाने निलयं पश्येत्समानं धनमोचनम् | मृतं चामरदेहत्वं गुरुतेजस्सतारकम् || २३३ || मासैस्सर्वप्रयत्नेन षड्भिर्द्वन्द्वविवर्जितः | पश्चादानन्दसंप्राप्तिर्वेदशास्त्राणि विन्दति || २३४ || इत्यचिन्त्यविश्वसादाख्ये अष्टांगयोग विधिरष्टाविंशतिः पटलः || प्. ५६६) वक्ष्ये रसायनं दिव्यं इह तन्त्रे सुभाषितम् | योगिनामुपकारार्थं ज्ञानिनां तु विशेषतः || १ || रसो वै स इति ह्युक्तः तस्माच्छिव इतीरितः | अष्टमूर्तेर्महेशस्य वीर्यं रसमुदीरितम् || २ || एतद्वीर्यमयो नित्यं सेवते भक्तिसंयुतः | शिववद्वीर्यवान् पूज्यः शिवलोकादि संस्थितैः || ३ || दर्शनं रसराजस्य सप्तजन्मसु तत्फलम् | सप्तजन्मकृतं पापं दर्शनान्नश्यति ध्रुवम् || ४ || स्पर्शनान्नाशयेन्नन्दिन् गोहत्यां नात्र संशयः | ब्रह्महत्यादिभिः पापाः स्त्रीवधा बालघातकाः || ५ || प्. ५६७) रसभस्मनिषेवात्तु मुच्यते नात्र संशयः | रोगी तु रोगी न ज्ञानी कालपादेन भाखिलम् || ६ || स्वदेशकालयोरेव संज्ञा इष्टफलप्रदाः | अन्यदेशेन्य काले तु त एवानिष्टहेतवः || ७ || वैनाशिके वधर्क्षे तु सार्धचन्द्राष्ट-ऋक्षके | वधर्क्षे तस्य जन्मर्क्षे विपदादौ विशेषतः || ८ || तस्यैवाष्टमराशौ तु मरणादि क्रियामिताः | यमाश्लेषाग्निरूपाणि श्रविष्ठा वारुणो मघाः || ९ || ज्येष्ठा च त्रीणि पूर्वाणि वर्जयेत्पुष्टिकर्मणि | सौरिवारोऽथ वर्ज्यः स्यात् तथाह्यंगारवारकम् || १० || प्. ५६८) दुष्टकर्मप्रशस्तं स्याद् वैरिणो मोहनादिके | शिवादित्रयनिन्दायाः दुष्टानां साधनं परम् || ११ || अनेनैव विधानेन च स्याच्छर्द्धिर्भवेत्तदा | शुभकर्माणि सर्वाणि कर्तुरिष्टदिने नयेत् || १२ || स्वर्णस्तेयेन चैतस्य शिवाय द्विगुणं ददेत् | अघोर नवलक्षे तु जपेच्छुद्धिमवाप्नुयात् || १३ || अर्चितः शिवशृंगं तु नाभिनन्दन्ति ये नराः | दृष्ट्वापि न नमेच्चैव नस्तुवन्त्यप्रमादतः || १९ || उपचारं न कुर्वन्ति शिवाग्नि गुरु संनिधौ | शिवभक्ति प्रिये सक्ताः तेपि चान्त्यन्त पापिनः || २० || प्. ५६९) शिवनिन्दासमाप्येते प्रायश्चित्तं तु तद्भवेत् | शिवज्ञानं संपूज्य येऽधीयन्ते लिखन्ति च || २१ || गुरुशिष्यक्रमादीन्यः शृण्वन्नपि पठन्नपि | लोहेन विक्रयं वापि चान्यज्ञानरतोऽपि वा || २२ || अयोग्य देशके स्थाप्य सामर्थ्योऽप्यनधीयते | शिवज्ञानकथापेक्षं कृत्वाचान्यत्प्रजल्पनम् || २३ || अर्चित्वापि च कुत्सीत स्थानजल्पन एव हि | ज्ञाननिद्रासमं सर्वं तद्वच्छुद्धिर्विधीयते || २४ || अकृत्वा गुरुपूजां च शिवज्ञानमधीयते | शुश्रूषां चापि भक्तिं च विश्वासं डम्भवर्जनम् || २५ || प्. ५७०) बन्धुं प्रियजनं चैव देशान्तरगतं तथा | शत्रुभिः परिभूतं च त्यजेल्लोभादुपेक्षकः || २६ || तद्धर्मपत्नीं पुत्रं च मित्रं चैवावमानतः | ज्येष्ठाव मानकं चापि स्वसान्तानिकदूषणम् || २७ || स्वसान्तानिक भिन्नत्वं शब्दार्थान्योन्य निन्दनम् | गुरुनिन्दासमं सर्वं प्रोक्तं वै नन्दिकेश्वर || २८ || नैष्ठिकं पितृमात्रादीन् सकृच्चाप्यर्थदानकम् | एतं सुदिक्षु कुर्याद् अचिन्त्यग्रन्थसंख्यया || २९ || * * * * * * * * * * णवान्भवेत्तदा | अल्पबुद्धिश्च मेधावी चाल्पवीर्यो महाबलः || ३० || प्. ५७१) रसो रसायने चैव यस्य बुद्धिर्महीयते | तस्य वै सकलप्राप्तिर्भवेदिति न संशयः || ३१ || नष्टबुद्धिरसानां च रसज्ञानं तु दुर्लभम् | तेन जानन्ति ये मूढाः सत्यं प्रत्यक्षशंकनम् || ३२ || तेन पूजितमात्र्ण लिंगार्चनसमं भवेत् | सर्वव्याधिक्षयं गच्छेदुच्छ्रिते भक्तितो रसे || ३३ || अथवा भस्मसंयुक्तं सदा भक्षेत्तु चेन्नरः | त्रैलोक्यं भुञ्जते सोऽपि भवत्तस्याजरामरम् || ३४ || फलमेतेन विधिना भक्षिते सृतभस्मके | इदृशं प्रस्तुतं तस्य जायते साधकस्य तु || ३५ || प्. ५७२) वातपित्तकफादीनां नाशनं नात्र संशयः | गुल्मव्याधिरुजं हन्ति ग्रहभूतविमर्दनम् || ३६ || बाधिर्यं च तथास्रावं दन्तशूलरुजापहम् | तिमिरं पटलं काचं महाघोरं भगन्दरम् || ३७ || चतुरशीति शूलानि शिरस्यष्टादशानि तु | ज्वरमष्टोत्तरशतं लूताश्चाष्टादशस्तथा || ३८ || रक्तपित्तामहाघोरा नाशं यान्ति न संशयः | अपस्मार ग्रहा ये च ये ग्रहापक्षराक्षसाः || ३९ || अष्टाशीतिसहस्रौ तु ग्राहितुर्यस्य जन्तवः | भस्मस्त्रतस्य भक्षात्तु निवर्तन्त इति ग्रहाः || ४० || प्. ५७३) फलेनैकेन स्त्रस्य भस्मना योगिनां भवेत् | अजीर्णं साप्यसंस्कारसाधकं भक्षयेन्नरः || ४१ || ब्रह्महा स दुराचारी महाद्रोह्यात्मघातकः | कल्पकोटिसहस्राणि कल्पकोटिशतैरपि || ४२ || पीतं तद्रौरवे घोरे घोरेऽपि च सुदुस्वरे | स्वमांसं भक्षितं तेन क्षुधया च प्रपीडितः || ४३ || तस्मात्सर्वप्रयत्नेन बालसूतं न भक्षयेत् | सबीजं बीजहीनं तु द्विविधं पारदं भवेत् || ४४ || संस्कारहीनं निर्बीजं स * * * न संयुतम् | सबीजस्मृतभक्षं तु हेमरत्नसुतीक्ष्णयुक् || ४५ || प्. ५७४) भर्ताकर्ता स्वयं साक्षात् शापानुग्रहदायकः | त्रिफलं भक्षितं येन कामरूपी भवेन्नरः || ४६ || तस्यांगप्रभवः स्वेदोऽह्यष्टलोहांश्च वेधयेत् | तत्सर्वं काञ्चनं दिव्यं भक्षयेद्विमलं ततः || ४७ || कामरूपत्वमाप्नोति गजादीनां च जातिभाक् | यं यं कामयते भावः हेमभस्मनि भक्षिते || ४८ || एको दोषोऽहि सूक्ष्मोस्ति भक्षिते बालसूतके | त्रिसप्ताहे तु संप्राप्ते ताम्राक्षो जायते भृशम् || ४९ || कामिनीयाः सहस्रं तु क्षोभयेद्दिवसान्तरे | नारीसंगे तु नन्दीश शरीरो क्रमणे रसः || ५० || प्. ५७५) तस्मात्सर्वप्रयत्नेन स्त्रीसेवां तु न कारयेत् | रसभस्म सदा सम्यग् उपर्युपरि भक्षयेत् || ५१ || महासिद्धिं च लभते नात्र कार्या विचारणा | भौतिकः पापनाशार्थं स्वल्पं स्वल्पं च भक्षयेत् || ५२ || नैष्ठिकस्य वि * * ण चोक्तमार्गस्य सेवनम् | अणिमाद्यष्ट संसिद्धिं क्रमादेति न संशयः || ५३ || नैष्ठिकोपि विशेषेण धारणायोगसिद्धिभाक् | मुत्कालं तु विशेषेण पारदं भक्षयेद्गुरुम् || ५४ || तस्मात्सर्वं लघुः कार्यं भक्षणं तु रसायनम् | आलोको रात्रिभाग स्फुट रविकिरणस्यादिवाकालभावाः संध्यालोकोपलब्ध प्रकृतिभिरसस्तुत्यज्यते स्माभिरेतत् || ५५ || इत्यचिन्त्य विश्वसादाख्ये रसायनविधि रेकोन त्रिंशत्पटलः || प्. ५७६) अथ वक्ष्ये विशेषेण षडाधारस्य लक्षणम् | आधेयी षड्विधं प्रोक्तं आधाराधेय लक्षणम् || १ || आधारं गुदमित्याहुः स्वाधिष्ठानं तु गुह्यकम् | मणिपूरं तु नाभौ तु हृदयं तदनाहतम् || २ || विशुद्धिः कण्ठदेशे तु आज्ञा भ्रूमध्य एव च | पद्माधारमिति प्रोक्तं आधेयं तु षडक्षरम् || ३ || मूलाधारमजग्रन्थि संज्ञदेशं स्मरेन्मलम् | * * णं काञ्चनप्रख्यं चतुष्पत्राभमुज्वलम् || ४ || गुदमेढ्रान्तरालस्थं चिन्तयेद्योगवित्तमः | चतुर्दशैव सान्तानि अक्षराणि विचिन्तयेत् || ५ || प्. ५७७) हंसं तारं च शक्तिं च शंखध्वनिनिभं परम् | भृंगनादं ततः पश्चात् पराशक्तिस्वरूपकम् || ६ || आधारपद्ममित्युक्तं इति गुह्यं शिवालयम् | व्योमाक्षरं तु तद्बीजं तेजसा भास्करप्रभम् || ७ || स्वाधिष्ठानं तदूर्ध्वे तु षट्पत्र कमलोज्वलम् | बलतेजोधरैर्युक्तं स्वच्छवारि समप्रभम् || ८ || उद्वभ्र इव वर्णेन बिन्दुनादविभूषितम् | ढफान्तं दशवर्णौघैः तरुणादित्य सप्रभैः || ९ || मणिपूराख्यकमलं दशपत्रं प्रभोज्वलम् | क्रोधीशबीजसंयुक्तं भावयेन्नन्दिकेश्वर || १० || प्. ५७८) तदूर्ध्वे तु द्विषट्पत्रं मध्यमध्ये विभावयेत् | कठान्तद्वादशार्णौघैः सहस्रकिरणप्रभैः || ११ || अनाहताख्यमाधारं नादस्तेनाभिरिष्यते | इन्द्रबीज स संयुक्तं तद्बीजं रोचनप्रभम् || १२ || षोडशस्वर संयुक्तं विशुद्धाख्यावसंगमम् | शुद्धस्फटिकसंकाशं ठकाराक्षरबीजयुक् || १३ || आज्ञाख्ये च भ्रुवोर्मध्ये दलयुग्मं सरोरुहम् | अक्षपाणियुतं चैव रेफेण तु समुज्वलम् || १४ || बिन्दुनादकलायुक्तं शक्तियुक्तं च भावयेत् | षडध्वसन्धिसंयुक्तं सर्वबोधप्रवर्तकम् || १५ || प्. ५७९) ज्ञानामृतरसोपेतं मोक्षसाधनमुत्तमम् | षडाधारमिति प्रोक्तं गुरुवक्त्रेण लभ्यते || १६ || इत्यचिन्त्यविश्वसादाख्ये षडाधारविधिः त्रिंशत्पटलः || नवाधार विधिं वक्ष्ये शृणुत्वन्नन्दिकेश्वर | आधारं प्रथमं प्रोक्तं स्वाधिष्ठानं द्वितीयकम् || १ || तृतीयं मणिपूरं तु चतुर्थं हृदयं भवेत् | पञ्चमं तु विशुध्याख्यं कण्ठमूले तु भावयेत् || २ || क्रिया पद्मं तालुमूले दिव्याग्रतयुतः परम् | आत्मको दण्डयन्मध्यं सप्तमं ज्ञान बिम्बकम् || ३ || प्. ५८०) ललाटं चाष्टमं प्रोक्तं चन्द्रबिम्बैश्च यान्वितम् | तदूर्ध्वं ब्रह्मरन्ध्रं स्यान्नवमं नन्दिकेश्वर || ४ || मूलाधारं समारभ्य विशुध्यन्तं तु पूर्ववत् | क्रियाज्ञानाख्यकाचैवमिच्छाशक्तिस्त्रिमण्डलम् || ५ || प्रत्येकं षोडशदलं प्रत्येकं षोडशस्वरम् | बिन्दुनादकलायुक्तं परानन्दामृतं चयम् || ६ || तदूर्ध्वे तु शिरःस्थानं सर्वतेजोमयं परम् | षष्ट्युत्तरत्रिशतकं पत्रस्यापि दलं भवेत् || ७ || अधोमुकुलिताकारं लम्बमानचतुष्कलम् | पराशक्ति महापद्मं त्रिदशैरपि दुर्लभम् || ८ || प्. ५८१) एवं ध्यात्वा पदं योगी क्रमान्मोक्षं च गच्छति | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ९ || एवं ज्ञात्वा सदा योगी स एव शिवविग्रहः | आधारस्य प्रधानान्तं कुण्डलीं च शृणुश्वथ || १० || सर्वशक्तिमयश्चैवमादिमध्यान्त सुस्थिता | नीवारशूकवर्तिन्यस्युप्ता चेद्भुजगाकृतिः || ११ || चैतन्य योजनीतत्वे परात्परतरे शिवे | आधाराणामशेषाणां भेदिनी बोधिनी परा || १२ || निष्यन्दामृतधारे व स्वाभिशक्तिस्वरूपिणी | मण्डलत्रयसंभेदी तारवत्तु त्रिवर्तुला || १३ || प्. ५८२) एवं ध्यात्वा सदा योगी नवाधाराणि तत्परः | पश्चात्सा कुण्डली देवी पीयूष वर्षकी शिवम् || १४ || आप्याययन्ती सर्वत्र सिद्धिमुक्तिप्रदायिनी | मूलकुण्डलिनी देवी दृष्ट्वा मन्त्राणि बीजकाः || १५ || सुरमुच्चारसंयुक्ता तत्तद्रूपस्मृतिं पिबेत् | एवं च कुण्डली प्रोक्तं प्यतिगह्वा महोदया || १६ || इत्यचिन्त्यविश्वसादाख्ये नवाधारकुण्डलिनी विधिरेकत्रिंशत्पटलः || नन्दिकेश्वर उवाच | अक्षराणां च सर्वेषां उत्पत्तिं प्रथमं विभो | अक्षरादखिलं जातं क्षराणाभाववर्जनात् || १ || प्. ५८३) अत एवाक्षराणां तु प्रत्याहारक्रमेण तु | अकारादि क्षकारान्तं मातृकाक्षरतो भवेत् || २ || सादाख्यस्य हृदम्भोजपरमाकाशमध्यतः | परनादात्समुद्भूतः तुटिकालो निनादते || ३ || तुटिभिर्दशभिर्युक्तो नादाद्बिन्दु परो भवेत् | तत्कालेन तु संयुक्तो बिन्दुश्च परबिन्दुतः || ४ || बिन्दोर्बीजसमुत्पत्तिः तत्रापि च विशेषतः | बीजस्य बालभावे तु परावाणी विभृम्भिता || ५ || सा वै द्विगुणिताकारा चेषद्यौवनमागता | पश्यन्त्यभिख्या त्रिगुणिता यौवनं मध्यमा भवेत् || ६ || प्. ५८४) वैखरीरूपमापन्ना चैकमात्रा समन्विता | तदक्षरमिदं नाम कलादीर्घाददीर्घताः || ७ || त्रिमूर्तिप्लुतमित्युक्तं द्विमूर्ताद्दीर्घमुच्यते | इच्छाज्ञानक्रियाभेदैः स बिन्दुस्त्रिविधो भवेत् || ८ || क्रियाबिन्दोस्समुद्भूता अकारोश्चोत्तरोत्तमः | ज्ञानबिन्दोस्समुद्भूतमाकारं स्थितिरूपकम् || ९ || इच्छाबिन्दुसमुद्भूतमाकारं मोक्षसाधनम् | अकारोकार संयोगाद् ओंकारस्वर्णमुत्तमम् || १० || मकारेण च संयुक्तं तारमेवं समुत्थितम् | अक्षरत्रय संयुक्तं शब्द ब्रह्मरवो भवेत् || ११ || प्रथमं वर्णमध्ये तु मथनादुद्भवं तथा | एकत्र मथनादेव यथा पीयूष संभवम् || १२ || रवश्चैव ध्वनिश्चैव अनुस्वार विसर्गकौ | पञ्चवर्णाः प्रशस्यन्ते अकारान्तभवात्क्रमात् || १३ || ओंकारादि त्रिवर्णं तु उकाराक्षरसंभवम् | कादिभान्ताक्षराण्येवं मकाराज्जनितानि वै || १४ || यकारादि चतुर्वणा रवतश्च समुद्भवाः | ध्वनितश्च समुत्पन्ना तथैवं शादिभान्तकम् || १५ || ललयोर्निर्विशेषत्वादक्षयोस्संगमादपि | ललद्वयस्य चोत्पत्तिः पूर्वमेव समीरिता || १६ || प्. ५८६) देवदेवस्य संव्याप्त्या वर्णानां व्याप्तिरीरिता | प्रणवाकारतस्सर्व वर्णोत्पत्तिरपीष्यते || १७ || त्रितत्वं च त्रिलोकं च त्रिपुण्ट्रं प्रणवात्मकम् | अकारादिक्षकारान्तं वर्णानां पृथगेव तु || १८ || वाहनासनरूपादिका च वैशेषिकीमता | स्वच्छवर्णारुणश्वेतपीतवर्णास्तु भूतशः || १९ || ह्रस्वदीर्घाः कवचपयष्टाश्चाद्यापि विग्रहाः | केत्वन्ता वर्णकस्तुल्यं * * * * प्रवालकाः || २० || वैडूर्य पुष्य वज्रेन्द्र नीलगोमेदगारुडैः | लक्षयोजनविस्तीर्णचतुर्मास्योष्टदृग्भुजः || २१ || प्. ५८७) जटामकुटसंयुक्ता वासाश्चन्दनसौरभाः | ऊर्जिताभाणकृष्टो गम्भीरो वलयायुधः || २२ || वृत्तासनोपल वर्णो ह्यकारः कूर्मवाहनः | चक्रासनश्चक्रनिभो मुक्ताभूषश्च टंकधृक् || २३ || द्विमुखो लक्षविस्तीर्णो आकारो जजवाहनः | चतुरश्च त्रिणयनः क्षत्रियश्च नपुंसकः || २४ || एतद्विस्तरमायामो वज्रीवैडूर्यभूषणः | * * कवो मदकन इकारः कूर्मवाहनः || २५ || पद्मासन्ने मन्दगतिर्मधुरः पद्मयुग्यधृक् | दिवाकल्पस्सगन्धःस्यादिकारो हंसवाहनः || २६ || प्. ५८८) क्लस्त्रासनं च द्विभुजं शूलहस्तं खरस्वरम् | काषायगन्धमाकृष्य भूषित तविग्रहम् || २७ || त्र्यश्र्यासनं मानभंगाकल्पं बद्धमृगत्वचम् | चतुरश्रासनं स्वादु कपिलापाशवज्रधृक् || २८ || सुवर्णाभरणं जाठिमल्पकामोररुद्वयम् | चतुर्भुजस्त्रिणेत्रश्च मुक्ताहारोपवीतकम् || २९ || प्रसन्नदृष्टिस्सुभगो जटामकुटहृत्प्रियः | खड्गचक्रधरः स्वादु मयू * * र्णकः || ३० || दशयोजन ऊकारश्चक्रवाकाख्यवाहनः | त्र्यरासनो निवर्णश्च द्विभुजः शूलवज्रभृत् || ३१ || प्. ५८९) रज्वरस्वर एकारः स्वादुर्गरु * * * * | तप्तकाञ्चनसंकाशः गन्धस्त्रिवृका || ३२ || सर्वव्यापी सर्वशक्तिः सर्वेज्यं पद्मसंभवः | सर्वानुकुम्भकस्सर्व देवतानां च शास्त्रकृत् || ३३ || निर्विकर्ता समूर्तीनां सुधी दुर्लक्षणः | सर्वतोमुखवद्वाहुरोंकारो वृषवाहनः || ३४ || वृत्तासनं पीतवाणीश्चतुर्बाहुश्शतोर्जिताः | वज्रपाशधरः स्वादुकाषायं पुष्पसौरभम् || ३५ || भवनं स्वेदं मलश्शूलगदाधृग्घोरदुस्तरः | पाशहा शोभनाका * * * * करवाहनः || ३६ || प्. ५९०) पीतस्रग्गन्धमाल्यानुलेपः स्थिरगतिस्सुदृक् | जटामकुटधृच्छूली मुसली कुलिशायुधः || ३७ || दिव्याकल्पश्चक्रवर्ती पुमान्क्षत्रियपुंगवः | सहस्रविस्तरो लक्षारामषट्कोण * * कः || ३८ || भजवाहनस्तम्भन * * * * ण पुष्पयुक् | इन्द्राधिदैवतं प्रोक्तं ककारो सक्षरोत्तमः || ३९ || त्रिंशत्कोटीन्मतो व्यालब्राह्मणोन्यधिदैवतः | शक्तितोमरसंपन्नः शुभमाल्यानुलेपनः || ४० || सुवर्णश्च खकारः खगमस्तभस्मृतः | पुमार्णः शलुधूवागः श्वेतवस्त्रः प्रसन्नधीः || ४१ || प्. ५९१) मुक्ताभरणभूषश्च द्विभुजः फलपद्मयुक् | पद्मासनगतः साधुहंसवाहः प्रसन्नधीः || ४२ || माल्यादशायामो नकारो यक्षदैवतः | व्यास वतदास्तमशक्तिमान् झर्झरस्वरः || ४३ || कठोरगन्धः क्षारश्च रौद्रदृस्टिर्नपुंसकः | उष्ट्रोष्टाष्टकह्मथपीठो विद्वान्धूम्रो महाबलः || ४४ || * * * श्चहलादाख्यं मोहकृद्वोधमैश्वरः | शूर्पासाः काकवाहो दुर्गन्धस्वरसंश्रयः || ४५ || यामो नपुंसकश्शक्ति भिण्डिपालपरश्वथान् | विभृन्नयस्सहस्रांशु हुतभृत् भुर्क च || ४६ || प्. ५९२) * * * नो हंसवाहः श्वेताभरणसंयुतः | जटामकुटस्रक्च्छंखपद्मधारी चतुर्भुजः || ४७ || याम्यस्सुरगतीस्त्रीलिंगोस्त्री लिंगोऽपि प्रियाकृतिः | सहस्रकोटी विस्तीर्णः चकारो रत्नभूषणः || ४८ || नृप्लाहे सनोर्काहो महागन्धस्वरो द्विजः | शक्तिवज्रधरो मुक्ताकल्पो वरुणदैवतः || ४९ || पुष्पादौमृतगन्धाश्च साहस्रो वारुणो जटी | मकुटी च जकारः स्याधुकारश्च तथापि च || ५० || काकवाहः कृष्णवर्णो दुष्टकर्मा नपुंसकः | टंकधृङ्निष्ठुरो घोरस्वयोजनसमीरितः || ५१ || प्. ५९३) सर्वरौद्राच्छिवहरः अर्यम्णः शीघ्रहस्तु नः | सनोमृतरसः कालो * * * * द्विभुजः पुमान् || ५२ || मदनो वर्णश्च वज्रधृग्वज्रवर्णधृक् | व्यालोपवीतीचन्द्रा दैवकाष्ठुः प्रकीर्तितः || ५३ || गजवाहो धनुष्पीठः शंखचक्र निभोमृतम् | वज्रपद्मायुधो जम्बूद्वीपमानस्सुरक्षितः || ५४ || संक * * * * स्वादुगन्धः कोवेरष्ठे षितः | कौस्तुभागं पुमान्मेषवाहः सुस्वादुमन्धवान् || ५५ || विद्याधरप्रियो रौद्रः कालाग्नि समशक्तिकः | वश्याक्षकृत्स्वादुगन्ध * * * * क संज्ञकः || ५६ || प्. ५९४) भिण्डिपालतनुर्वज्री भी * डिपरमायुधः | सहस्रयोजनायामः सत्यवासोऽधिदैवतः || ५७ || जटामकुटधारी च खेटकारोपितद्विधः | सहस्रयोजनायामः तदर्धार्धायुतः पुमान् || ५८ || टंकाक्षयुक् चतुर्बाहुः कोट्यागो वृकवाहनः | * * * पद्मपीठश्च मधुरः किन्नरार्चितः || ५४ || दिव्याकल्पस्सुगन्धार्थर्णकारश्चैव दैवतः | क्रूरः कटुकमृत्स्वादुरसषण्मुख एव वा || ६० || टंकांकुशधनुर्दण्ड पाशशूलमुसुण्डिभृत् | तोमरी * * * * * याम्यस्सानुग्रहश्चतः || ६१ || प्. ५९५) धूर्धूरप्रीति * ग्नेयतादृशो यस्समस्तदः | नपुंसकः कृष्णवर्णः ऊर्ध्वहृत्क्रूरवाहनः || ६२ || क्रूरध्वनिश्च * र्गन्धस्सर्व यज्ञोपवीतवान् | * * * * गदाग्निमुसली शूलधन्वेयमौ वरः || ६३ || पुमान्कपोतवाहश्च नासनोमुखतश्च सः | चतुर्विंशति विस्तीर्णो रौद्री घटिमुसुण्डिभृत् || ६४ || * * * गंगा ताटंक * * चक्रायुधो हि धृक् | सितपवरेण रौद्रा धूर्धूरार्थी च नैर्-ऋतः || ६५ || शतायवोर्ध्वविष्कम्भो द्विभुजश्च नपुंसकः | काकवाहस्वरः कृष्णवस्त्रश्चित्रास्य उत्कचः || ६६ || प्. ५९६) व्याघ्रचर्मोत्तरीयश्च हलधृग्रौद्रकर्मकृत् | मधुगुग्गुलुतैलाख्य नरो गी कठोरकः || ६७ || दुष्टवेष्ट्यो मकारस्तु संप्रोक्तो यम दैवतम् | दशपु * * माज्योता मधुज्ञानासरोजधृक् || ६८ || सर्वायुधश्चतुर्बाहुः चा घ्रोगरुडवाहनः | षट्कोट्यायामकोशेन विस्मृतेन च भूषणः || ६९ || सर्पोप वीती दैवादिपूजितो व्यापकश्च यः | पुमान्विद्युत्प्रभस्सिद्धो गारुडः कमलासनः || ७० || दशोदशोष्ट दोषांकी स्वादुरैश्चानकच्छपः | दशकोटीपरीणाहः पुमानुग्रप्रभोष्टदोः || ७१ || प्. ५९७) मुक्तोपवीती कौबेरी शंखचक्रगदाधरः | गणेशान् जासनः पुष्पगन्धः प्रोक्तो वकारकः || ७२ || कटकन्निप्रयोलक्ष विस्तीर्णा विष्ठुरत्वरः | उमा भेदयो धूम ऊर्ध्ववक्त्रो नपुंसकः || ७३ || भकारो रौद्रदैवत्यो नैर्-ऋत्याद्यधिदैवतः | दयात्मकः प्रभोनन्द पुमानम्बुजासनः || ७४ || अनन्तस्यं करुन्नस्तु सर्वकल्पोति दैवतः | व्यालभूम्यासुरश्रीघ्रमद्यकश्शोककद्विजः || ७५ || वृत्तादि चाघ्नेण वाहोप्यय नपुंसकः | दूर्वावर्णो धकारस्तु संप्रोक्ते यमदैवतम् || ७६ || प्. ५९८) द्वादशादित्यभाव्यश्च कोटिमानो नपुंसकः | त्रिकोणगश्च आग्नेये रेफो महिषवाहनः || ७७ || स्त्रीपीतस्तम्भने शक्ते गदाहस्तश्च पार्थिवः | * * * * * * ऐन्द्रो रुकारः परिकीर्तितः || ७८ || साश्वेत बिन्दुकारक्तस्त्रीलिंगो मत्स्यवाहनः | वाकारो वरुणो वश्य तुष्टि स्थिवर्णकारकः || ७९ || दशबाहुस्सुदीर्घश्च पञ्चसाहसापि स्मृतः | स्त्रीलिंगो मधुरोरर्कश्च वाहश्चतुर्भुजः || ८० || * * * * * * चरक्त चन्दणपरः प्रियः | रक्ताम्बरधर * * * * * * वनः प्रियः || ८१ || प्. ५९९) रक्ताम्बरपद्मपीठ शंखचक्रश्च धृक्कटाः | मुख्य कल्पो वश्यकृष्ट शान्त्या दृष्टिं प्रसा * * || ८२ || * * * * * * * च प्रोक्तश्चन्द्राधिदैवतः | पुमान्मयूरग्रीवाभ शत्रुहापाशवज्रधृक् || ८३ || लक्षायतः कष्कभः कूर्मवाहासनस्वभूः | इषकस्तम्भकूर्चाभा गन्धकाः || ८४ || पुमान्शोणोष्ट बाहुश्च ततः शंखगदायुधः | लक्षायतोस्तु विस्तीर्णो वैडूर्यभूषणः || ८६ || कौबेरी मधुरश्चैव जटामकुटधृक् च सः | श्वेतश्वेतांकुशस्वापि सर्वव्यापी नपुंसकः || ८६ || प्. ६००) सर्वायुधः सर्वकर्ता सौम्यगन्धश्च मन्दकाः | स श्रीदैवत्य स्त्रीकालज्ञोभिज्ञश्शकारस्सर्वतः || ८७ || पुल्लिंगः पीतवर्णश्च मानप्रविस्तरः | चतुरश्रासनः सर्वाकल्पस्रग् गजवाहनः || ८८ || द्विषर्दो वज्रशंखारि गदापाश मुसुण्डिभृत् | लस्त्याद्गरुडगन्धर्वा परिपट्या धरार्चितः || ८९ || कूदाक्षरः क्षकारश्च मन्त्रबीजं नपुंसकः | पर्णीगन्धरसाकार * * वाहसहेतिभिः || ९० || पतंगजाति स्वभावश्च यं पृथक् पदशादितः | सयोगभेदादेतेऽपि संप्राप्तवाहांगिनः || ९१ || प्. ६०१) देवतारूपवैषम्य मायास्ता मन्द्रतायेयाः | सष उल्लंघ्य संयोगा मधनो द्विपस्तां यथा || ९२ || रजनरक्ष सक्ष्वारसंयोगाद्रक्ततापि च | वैषमानिहतान्ये च यथा शक्ति विशेषतः || ९३ || एक एव तु मन्त्राणां कलादिगुणभेदतः | संपदो विपदश्चैव कुर्यात्स्वल्य परस्य वा || ९४ || सृष्टौ स्थितौ स चण्डं हारे ज्ञाने मोक्षे च हेतवः | स्वराः षोडश सौम्याः स्युर्विशेषेण षडक्षरम् || ९५ || हास्वश्च सूर्यरूपं हि तादिहान्नाक्षराणि वै | क्षकारश्च वकारश्च ठकारं च चतुर्थ्यकम् || ९६ || अणोरणुतरान्धूलाद्वन्धूलाद्वाप्त चराचर | अणोरणुतरान्धूव सूर्याशोश्च न विद्यते || ९७ || दीर्घाक्षराणि तस्यैव सूर्या प्. ६०२) उंगुदं चरदीन् वन्याक्षरमथोच्यते | ऋ ॠ ऌ ॡ च * र्णाश्च मादिलाक्षान्तराणि वै || ९८ || मनक्षराणि वह्नेश्च वतारश्चन्द्रबीजकम् | हकारं व्यवर्णं स्यात् सोमसूर्याग्निरूपकम् || ९९ || पृथिव्यादिकलानां तु मूलाधारादि वक्ष्यते | सृष्टिरूढि स्मृतिर्मेधा कान्तिलक्ष्मीस्तथा स्वधा || १०० || धृति ऋद्धिरितिप्रोक्तः कलाभूमि समुद्भवाः | स्थिरा व्यपालिनीशान्तिरैश्वरी ममका रतिः || १०१ || प्रीतिश्च मानसी कृष्ण दीर्घारश्च कलादशः | तामसी मोहनी मध्या चन्द्राक्षरक्रोधिनी भयात् || १०२ || प्. ६०३) * * * * * * * * * लास्तक्षसमुद्गताः | पीताश्वेतारुणा कृष्णाश्चतस्रो वायुसंभवाः || १०३ || इन्द्रिकादि विक्रमाया मोहिनी रेचिका परे | मृतज्ञाना व व्यापिनीस्त्यपिनि व्योमरूपा सद्यानन्दा षोडशा नराः || १०४ || तपनी तापनी धूम्रा मरीची जडिनी रुचि | सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा || १०५ || कभाद्यावस्त्रधासोरा षटान्ता द्वादशेरिता | मृतामरनदा पूषा पुष्टिदा चरति स्मृतिः || १०६ || शशिनी चन्द्रिका कान्तिर्ज्योत्स्नाग्निः प्रीतिशारदा | पूर्णा पूर्णामृताकामदाश्विन्यसस्वरां कलाः || १०७ || प्. ६०४) सजीवनि स्वधापापहर्षिणी क्लेदिनी सुधाः | अजरी ह्यमरी घोरा गम्भीरा वर्षणी तथा || १०८|| आह्लादिनी तथानन्दा क्लिन्ना सौभाग्यवर्धनी | सुभगा व सुरूपी च कला शक्तिश्च षोडशा || १०९ || आनन्दिनी महानन्दि प्रीतिर्दिव्या च कामिनी | कीर्तिर्लक्ष्मीस्सृतिश्चैव तथैव जनरञ्जिनी || ११० || मेधा कामास्थिरा सृष्टिः सुभगा पालिनी परा | कलाः षोडश विख्याताः परमानन्ददायिना || १११ || इत्यचिन्त्यविश्वसादाख्ये अक्षरोदयविधिर्द्वात्रिंशत्पटलः || प्. ६०५) समाधिर्वक्ष्यते सूक्ष्मे सर्वद्वन्द्व विवर्जितः | ज्ञानमेव समाधिः स्यात् तद्विशुद्धस्तथोच्यते || १ || जाग्रत्स्वप्नसुषुप्तान्ते तत्सम्बन्धमनित्यताम् | एतत्तुरीयानीतं तु आत्मनो नित्यमेव तु || २ || जाग्रादि द्विविधं ज्ञेयं भवमोक्षगतं तु यः | समार्गमध्यमं ज्ञेयं भवमार्गमथोच्यते || ३ || तत्तत्कर्मानुसारेण जरा साधोमुखं भवेत् | मुखे जाग्रमिति ज्ञेयं तस्मात्स्वप्नकृतान्तुकम् || ४ || हृदयादि समारभ्य नाभ्यन्तं तु सुषुप्तमम् | तस्मादधस्तुरीयं तु तस्यातीयं तु लिंगकम् || ५ || प्. ६०६) जाग्रादिस्थानमेवं हि प्रवर्तक मिहोच्यते | जाग्रत्काले त्वचो व्यप्ति स्वप्ने वक्त्रं तथैव च || ६ || सुषुप्ते मांसदाव्याप्तिस्तुर्ये मेदसि स्थितः | तदन्तस्तु तदातीत जीवव्याप्त प्रकीर्तिताः || ७ || श्रोत्रत्वक्चक्षुर्जिह्वा च प्राणानाञ्चैव पञ्चकम् | शब्दस्पर्शं च रूपं च रसो गन्धश्च पञ्चमम् || ८ || वाक्पादपाणिपायूपस्थं चैव तु पञ्चमम् | वचनादानगमन विसर्गानन्द पञ्चकम् || ९ || प्राणस्वपानो व्यानश्च उदानश्च समानकः | नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः || १० || प्. ६०७) मनोबुद्धिरहंकारः श्चित्तं क्षेत्रज्ञ एव च | रागमायाकलाविद्या नियतिः काल एव च || ११ || शब्दादित्वच दीर्घश्च घ्राणादींश्च मनादिकम् | रा * * कामत्पर्यन्तं एकत्रिंशच्च स्वप्नके || १२ || संज्ञतैस्तैरेव * * * प्रतिसञ्च स्वप्नकम् | जाग्रे विषयभुक्तिश्च स्वप्नो न स्त्यागतिस्तकम् || १३ || अयसाग्नि समायोगाद्वायोग्निश्चवदायसम् | तद्वश्चैतन्यये यागः करणादिनाम् || १४ || प्राणादि चैव चित्तं च वागादीश्च तथैव च | अष्टादश सुषुप्तौ तु वर्तते नन्दिकेश्वर || १५ || प्. ६०८) आत्मा प्राणा च विद्या च तुरीयमिति कीर्तितम् | चैतन्यमात्रमेकन्तु * * * तं महोदयम् || १६ || किं तु गुह्यतमं वक्ष्ये शृणुत्वं नन्दिकेश्वर | आत्मनोऽपि यवान्भोक्तुं प्रकृतिर्ह्यतिवर्धनम् || १७ || प्रकृतानि यद्रानि स्यात् सावस्था साग्र उच्यते | विनाकरण देहानां व्यापरैरात्मनः कृतिः || १८ || वृत्तिर्मानसस्वप्नो वस्थाभावेषु केवलम् | स्वस्थं विषयसंगोश्च खेदलीन्नेयमात्मनि || १९ || मनः कृतिश्च निश्चेष्टा सुषुप्तन्नन्दिकेश्वर | नमो व्यापारहीने तु चित्ताविद्यागमागति || २० || प्. ६०९) * र्यन्तश्च परावस्था तुर्यातीतो हि निर्जन | अष्टादशमदृश्यानामष्टयोदृष्टि दृश्ययोः || २१ || स्वयं वेद्योपरं ज्योति ज्ञानरूपो महत्प्रभुः | स्थूलं सूक्ष्मं च सुसूक्ष्मं च अतिवृत्तिं तथान्तिकम् || २२ || स्थूलं जागृ संज्ञेयं सूक्ष्मं स्वप्न मिहोच्यते | सुषुप्तिस्तु सुसूक्ष्मं स्यादिति सूक्ष्मं तुरीयकम् || २३ || ततोधिकं तुर्यातीतं एवं पञ्चविधं स्मृतम् | स्वप्नश्चैव सुषुप्तिश्च * * * तदधिं च वै || २४ || जाग्रस्थानं प्रदृश्येत योगमह्यस्तमक्रमात् | जाग्रेदश्य प्रवृत्तिं च प्रत्याहारेण शाम्यति || २५ || प्. ६१०) धारणाय जयेत्स्वप्न रन्ध्रनेनै सुषुप्तिकम् | समाधिना तुर्यतीतं तुरीयं तु शिवेन तु || २६ || जाग्रादिपञ्चावस्थायां अतीते ज्ञानरूपकम् | सद्गुरोरुपदेशेन प्रकाशो न न संशयः || २७ || एवं ज्ञात्वा विशेषेण समाधिं कारयेद्बुधः | रूपशून्यमितिज्ञेयं समाधिरभिधीयते || २८ || चित्तशुद्धिस्थितं कृत्वा शिवलक्षणमेव हि | आनन्दं शिवयोगं तु शिवयोगं सदाभ्यसेत् || २९ || नानन्दं शिवयोगं तु तच्च देहे व्यवस्थितम् | आनन्दं जिह्वते जन्तोस्तस्मादानन्दमिच्छते || ३० || प्. ६११) स्वरूपं हरितं शून्यं भासविभासितम् | ज्ञानादिरहितं बुद्धिश्चित्ताहंकारनाशनम् || ३१ || तमसा मनसा ध्यात्वा ताशयन्नाशभावनम् | पापनाशः परामुक्तिर्यत्तत्संसारनाशनम् || ३२ || चिन्तया रहितं यच्च आत्मनो मुक्तिरेव हि | आनन्दान्तर्गता मुक्तिः तस्यैव तु न संशयः || ३३ || नन्दनन्दक इत्युक्ते त्रैलोक्यज्ञानरूपकम् | योगं वक्ष्येह्यरूपं च योगरूपमरूपकम् || ३४ || * * कुरूपनाशान्तरूपं योगविनाशनम् | सा दर्शनं स्वशेल्लिंगं स्पर्शलक्षणमारभेत् || ३५ || इत्यचिन्त्यविश्वसादाख्ये (समाधि विधिः) त्रयस्त्रिंशत्पटलः || प्. ६१२) अथ वक्ष्ये विशेषेण समाधि राजमुत्तमम् | सन्ध्याकालेऽथवा काले सन्ध्यावन्दन पूर्वकम् || १ || लिंगार्चने तु काले चेल्लिंगार्चनमथाचरेत् | पश्चाद्योगं समभ्यस्य ते काले योगमेव तु || २|| त्यागिनस्सर्वकालः स्याच्चन्द्रस्यार्कस्य नाशनम् | गुरोस्समीपदेशे तु च सद्योगि समीपतः || ३ || सद्गुणोपेत शिष्येण सहितो वा चरेत्सदा | सान्तानिकेन सहितो लिंगार्चनयुतेन च || ४ || समाधिस्थो यदा योगी विधिनाद्यधिकं यदि | सहायो लिंगपूजां च कुर्यादस्यापि योगिनः || ५ || प्. ६१३) शौचमाचमनं चैव प्रथमं तु द्वितीयकम् | आसनं तु तृतीयं तु चोत्तराभिमुखस्थितिः || ६ || चतुर्थं भस्मना स्नानं पञ्चमं रसभस्मकम् | षष्ठं रुद्राक्षमालाभिरुपवीतादि भूषणम् || ७ || सप्तमं तु गुरुध्यानं अष्टमं नाडिशोधनम् | नवमं दाहनं चैव दशमं प्लावनं तथा || ८ || एकादशं प्राणायामं सन्यासं द्वादशं पुनः | मन्त्रन्यासन्तु नन्दीश षडंगन्यास पूर्वकम् || ९ || त्रयोदशं नाडिसंस्था सुषुम्ना च चतुर्दश | मूलाधारः पञ्चदश षोडशं ब्रह्मनाडि वै || १० || प्. ६१४) * * वे अधिष्ठानं अष्टादशं मणिपूर्वकम् | एकोनविंशद्धृदयं विशुद्धिर्विंशतिर्भवेत् || ११ || एकत्रिंशच्च वा भूमि ज्ञानदेशमतः परम् | त्रयो बिम्बं चतुर्विंशं * * * * शिवं भवेत् || १२ || स्थाणुलिंगं पञ्चदशं समाधिस्तदनन्तरम् | आनन्दं सप्तविंशत्या तद्भेदं च पुनः शृणु || १३ || पूर्वोक्तं च विना तु स्युः रत्नगर्भं शृणुष्वथ | शिवाख्यं गुरुरूपं तु भावयेत्तु प्रयत्नतः || १४ || रूपं च रूपवर्णं च अनन्तं कुरुते व हि | प्रभया वहते यस्तु सर्वदोष निबर्हणम् || १५ || प्. ६१५) मन्त्र ध्यानं प्रकुर्वीत सदाशिव वपुः स्वयम् | यद्यच्छिवमयं रूपं शिष्यो ध्यायन्समाहितः || १६ || तत्तद्वरतरं ज्ञेयं शिवाख्यां गुरुरूपकम् | एवं ध्यात्वा समायोगी निश्चलेन समाहितः || १७ || निवृत्तिं च प्रतिष्ठां च विद्यां शान्तिं तथैव च | शान्त्यतीतां क्रियाशक्तिं ज्ञानशक्तिं तथैव च || १८ || इच्छाशक्तिं पराशक्तिं नवाया क्षेम भावयेत् | आद्यं तत्वं च पूर्वोक्तं पश्चादेताश्च भावयेत् || १९ || सृष्ट्यादि दशकला भूमौ स्थिरादिर्दश वारुणाः | तामसी मोहनीत्यादिदशवह्निकलाः स्मृताः || २० || प्. ६१६) हृदि पादादिकाश्चैव भवोधाधोश्चतुष्टयम् | रौरवाश्च द्वादशानु तापन्यादि कथाः स्मरेत् || २१ || शुद्धिकाद्या व्योमकला शुद्धदेशे विभावयेत् | तत्र नामादिनवकं ध्यायेद्वै नन्दिकेश्वर || २२ || बिन्दुस्थानेन जीवन्याद्याश्च षोडश भावयेत् | अजास्थानेन वायुक्ते कलाषोडशकं स्मरेत् || २३ || आनन्दमोहानन्दिन्यात्यादिस्संभावयेत्क्रमात् | चन्द्रस्थाने मृतानादपूषाद्याश्चाथ षोडश || २४ || प्रीत्यादिनवकं तस्य तस्य मध्ये तु भावयेत् | मूलाधारे च सन्ताद्यास्तदूर्ध्वे बालषट्ककम् || २५ || प्. ६१७) सफपं दक्षरं चैव कालान्तं द्वादशं भवेत् | अकारादि क्षकारान्तं कान्तादेशे च पूर्ववत् || २६ || भक्षवर्णद्वयं चापि तालुमूले विभावयेत् | स्वरास्तत्रैव भ्रूमध्ये चन्द्रबिम्बे तु षोडशम् || २७ || वाङ्मनोतीतमत्रैव ब्रह्मरन्ध्रं च भावयेत् | मूलाधारे गुहं प्रोक्तमाधेयं परमं विदुः || २८ || हंसमन्त्रसमायुक्तं शक्तिबीजसमन्वितम् | प्रासादं च तदूर्ध्वे तु संचिन्त्य तदनन्तरम् || २९ || अधिष्ठाने च प्रणवं नाभौ चिन्तामणिर्भवेत् | मृत्युंजयं च हृदये शिवयन्त्रं विशुद्धिके || ३० || प्. ६१८) त्रिब्रह्मरूपं कालादिषु स्थानेषु च भावयेत् | शिवबीजं तदूर्ध्वे तु शक्तिबीजं तु भावयेत् || ३१ || शिवेन शक्ति * * * न शक्तिरहितश्शिवः | स्थानं प्रति च यत्प्रोक्तं तेजोरूपं च भावयेत् || ३२ || सकली कृत्य वा ध्यायेत् शिवयोगी सनिर्मलः | साधेयमेवं प्रोक्तं स्यात् ज्ञानदेशं तथोच्यते || ३३ || ज्ञानदेशं न जानन्ति त्रिदशैरपि दुर्लभम् | नेत्र मध्ये ततश्चित्तं स्वकीये सन्निवेशयेत् || ३४ || सन्निवेश्य ततस्तिष्ठेत् एकचित्तः प्रसन्नधीः | ज्योतिराकाशमेवं तु यावदास्ते प्रयत्नतः || ३५ || प्. ६१९) तावन्निर्गत्य भूतात्मा देहादूर्ध्वं व्यवस्थितः | पश्यते च जगत्कृत्स्नं स्वकायस्योपरिस्थितम् || ३६ || सप्त लोकांश्च तत्रैव पश्यते योगचक्षुषा | ज्ञानदेशस्य चार्द्रं तु स्थाणुलिंगं प्रकीर्तितम् || ३७ || मूलाधारं समारभ्य ब्रह्मरन्ध्राव सानकम् | समस्ततेजसां तेजः प्रदाने च प्रवीणकम् || ३८ || षट्त्रिंशत्तत्वविज्ञानं तत्वानामादिक स्वयम् | * * प्रमेय सादृश्यं परन्धाम महोदयम् || ३९ || शान्तं त्वनामयं चैव यदि वा जीवरूपकम् | चिद्घनं सर्वगं सूक्ष्मं आनन्दमचलं ध्रुवम् || ४० || प्. ६२०) विश्वाक्षं सर्वतो वक्त्रं सर्वाक्षं सर्वबाहुकम् | सर्व * * * * * दयम् | सर्वजनं सर्वकार्यं परं परतरं शिवम् || ४१ || बिसतन्तुनिभं ज्योतिर्भावयेद्योगमुत्तमम् | कुण्डली जगदाधार पृथुनामस्वरूपिणी || ४२ || ज्योतीरूपा नोदनादशक्तियुताः प * * * | * * त्रट्यक्षरेणैव ब्रह्मरन्ध्रान्तमुच्यते || ४३ || नीवारशूकवत्तन्वी पिंगरूपा तथैव च | तत्तदाधारपद्मानि निर्भिद्य ब्रह्मरन्ध्रगाः || ४४ || लम्बावजा मुकुलां चैवमुद्बोध्या मृतधारया | कर्षन्तीं च शिवं तत्र पूजय * * * * लीः || ४५ || प्. ६२१) क्रमादूर्ध्वादधश्चैव प्लावयन्ती च भावयेत् | तुर्यात पद्मं चैतन्यं तत्रैवं भोजयेत्क्रमात् || ४६ || एवं त्यक्त्वा समाध्यन्तं नदा तुत्रैव चिन्तयेत् | समाधिर्वक्ष्यते सूक्ष्ममाधाराधेय व || ४७ || कालान्तरगते रश्मौ धोणियो दृश्यते रजः | तत्परं परमाणूनां परिमाणं प्रचक्षते || ४८ || रूपाणां चैव सर्वेषां परिमाणसमूहकम् | एकैकं तु श्छय पोहे तु श्चस्मञ्चिन्तयेत्तदा || ४९ || शिव * * * * * * ज्ञानस्थानं लयं नयेत् | निरालम्बो मतस्तस्मिन् शैवं तेजश्च दृश्यते || ५० || प्. ६२२) शिवबिम्बस्य तन्मध्ये मूलोन्मीलित लोचनः | क्रमेणैकाग्र एवातः शैव ज्योतिश्च दृश्यते || ५१ || अनाहते ततधृ * संस्थितं युगपद्मनः | आद्यन्तशून्यातीतं तत् शिवतेजः प्रकाशते || ५२ || प्रसाद पञ्चनादेन प्लुतमुच्चारयेत्क्रमात् | ध्यातव्यं तु पराशक्त्या शान्त्यतीता प्रकाशते || ५३ || चक्रद्विषट्कैः सावर्तौ भेदिष्वेवं सुमत्सनैः | स्थूल * * * शामुक्तेष्वन्नतस्या महोदयः || ५४ || चापलादिध्वनैर्हृद्यैः क्रमाद्दीर्घैर्निवेशितम् | अन्यने विषयं चैतत् तल्लये लीयते शिवे || ५५ || प्. ६२३) द्वादशान्ते च हृदये संघट्टात्प्राणवायुना | ब * द्योर्भाविते योगे सर्वानन्दत्वमश्नुते || ५६ || आधारे वापि शक्तौ वा प्रमिषत्वान्मनोलये | शक्त्या विषस्य कम्पादिक्षेप शान्तौ परस्थितिः || ५७ || आशिरः प्राणमापूर्य ब्रह्माध्याह्यवसानिके | सवि * * * दा योगाद्वारशान्नि शिवो भवेत् || ५८ || सूक्ष्मं क्रमोक्रमं शक्तिं आमूल ज्योतिरूपिणम् | ब्रह्मरन्ध्रा प्रशान्त्यन्तं ध्यायीत स्याच्छिवोदयः || ५९ || विकुण्डलानष्टयक्रान् आरुच्योद्बोधनाम्बुजम् | शक्तिं कोश्यत्रयं भित्वा खे परः स्यात्तदूर्ध्वतः || ६० || प्. ६२४) महाच्छ्रुतिमते व्योम्नि चन्द्रार्कादेन्नरेम्बुदे | संवर्त्य चक्षुरेकाग्रो योगी पश्येत्स्वयं नभः || ६१ || शिवैक्याव्यावनौषद्ध्या गाढो बद्धो मनोरसः | प्राणः कुम्भादिभिः क्षिप्तः कुर्यात्तच्छिव काञ्चनम् || ६२ || अन्तर्धानं समादाय विचरेद्भुविशिष्यते | आनन्दे च भवेद्योगी सर्वदा नन्दिकेश्वर || ६३ || अणिमाद्यष्टसिद्धिश्च सिध्यत्येव न संशयः | आकाशगमनादीनि सर्वज्ञानसमृद्धयः || ६४ || भवन्ति सर्वभुवनं करामलकवच्चरेत् | योगदृष्ट्या तु सकलं पश्यते तु चराचरम् || ६५ || प्. ६२५) योगिनां दृष्टिजानन्दः विसमो भवति ध्रुवम् | आनन्दलक्षणं वक्ष्ये शृणुत्वं नन्दिकेश्वर || ६६ || आनन्दं द्विविधं प्रोक्तं अपरं परमित्यपि | अपरं त्रिविधं प्रोक्तं मोहजीवितसंज्ञकम् || ६७ || लोकं च विभवे देवमोहानन्दमथोच्यते | ताराणां पुत्रपौत्रादि लब्धिकानन्दमोहिजा || ६८ || भक्ष्यभोज्यादिजनितं जीवितानन्दसंज्ञकम् | स तु कीर्त्त्यादिसंज्ञान्तं लौकिकानन्दमुच्यते || ६९ || सकलामपि सर्वेषां मोहानन्दस्थितं परम् | एतत्कारणरूपं तु प्रियांगं लक्षणान्वितम् || ७० || प्. ६२६) उत्तमं षोडशांगं स्यात् चतुर्विंशति मध्यमम् | त्रिंशत् मधमं ज्ञेयं शक्तिलक्षणमुच्यते || ७१ || सर्वावयवसंपूर्णं सर्वलक्षण संयुतम् | सर्वशोभनसंयुक्ता क्षणवेधकरापका || ७२ || मोहानन्दस्य मूलं च जीविताद्याश्च लब्धवान् | अपरानन्द संप्राप्तिः सिद्धिरस्यैव चोच्यते || ७३ || शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | एकैकः पञ्चधा ज्ञेयं शब्दपञ्चकमुच्यते || ७४ || प्रियाणां गुप्तवचनं संयोगशरणं भवेत् | गन्धर्वोद्वाहतन्त्रस्य श्रवणं च तदुद्भवम् || ७५ || प्. ६२७) मितं च रागजनकं स्वात्मस्तुतिरसो भवेत् | शब्दपञ्चकमेवं हि स्पर्शपञ्चकमुच्यते || ७६ || प्रियासंस्पर्शनं चैव पुत्रस्पर्शं तथैव च | सुहृदालिंगनं चैव गन्धवाहसुमर्शनम् || ७७ || यथेष्टकालं शीतोष्ण स्पर्शं चैव तु पञ्चमम् | प्रियादर्शनमेवं तु प्रियां वीक्ष्य दिगम्बराम् || ७८ || नृत्तादिदर्शनं चैव सु हिरण्यादि दर्शनम् | विचित्र दर्शनं चैव स्पर्शपञ्चकमीरितम् || ७९ || भक्षणं भोज्य लेह्यं च पेयं शोष्यं च पञ्चधा | रसपञ्चकमेवं स्यात् तत्तत्काले समुद्भवम् || ८० || प्. ६२८) मदगन्धं चोत्तमं च चन्दनादि सुगन्धकम् | पुष्पगन्धसुधाघ्राणं घ्राणपञ्चकमुच्यते || ८१ || रागं वर्धति मूर्खाणां रागं मुञ्चति पण्डिताः | सदुपाय समोपेतः क्रीडन्सर्पेण दृश्यते || ८२ || ज्ञानयोग समोपेतः क्रीडन्सर्पेण दृश्यते | ज्ञानयोग समायुक्तं तत्वमिन्द्रिय पञ्चमाः || ८३ || पञ्चविंशतिमानन्दं अपरानन्दजं भवेत् | एवं बुद्ध्या स्वनन्दीशपरानन्दमथोच्यते || ८४ || त्रिविधं तत्परानन्दं गौरवं ज्ञानयोगजम् | एतत्त्रयं परानन्दं मोक्षकारणकं भवेत् || ८५ || प्. ६२९) आगमश्रवणांगानां गुरोःस्तुतिपरं तथा | गुरोः प्रियवचःश्रावमुपदेशशतं तथा || ८६ || एवं पञ्चक संयुक्तं श्रवणानन्दजं भवेत् | लिंगस्पर्शनकं चैव भूत्यादि स्पर्शनं तथा || ८७ || गुरुपादाम्बुजं स्पृष्ट्वा गुरोः संस्पर्शनं तथा | ज्ञानदेशस्य संस्पृष्टं स्पर्शपञ्चकमीरितम् || ८८ || दर्शनं शिवलिंगस्य शिवयज्ञादि दर्शनम् | योगदृष्ट्यादिलोकं च रूपपञ्चक संभवम् || ८९ || गुरुप्रसाद भक्ष्यादि गुरुपादाम्बुजं जलम् | योगामृतरसास्वादं त्रिविधं रसमुच्यते || ९० || प्. ६३०) योगात्समुत्थितं गन्धं दिव्यगन्धमनूपमम् | ब्रह्मेन्द्रादि सुराणां च सर्वेषां जन्मकोटिभिः || ९१ || अलब्धं मोक्षदं दिव्यं बोधानन्दमवाच्यकम् | कदा किंचिन्न कस्यापि दत्तवानादिश स्थितम् || ९२ || तत्स्मृत्या जननिव्यालि परमानन्दजं परम् | एवं परात्परं ज्ञेयं वर्जनादि च भोजनम् || ९३ || एतानि स्थूलसूक्ष्माणि सूक्ष्माणि च भवन्ति वै | परात्परतरं गुह्यं ग्राह्यग्राहकवर्जितम् || ९४ || रागारागविनिर्मुक्तं द्वैताद्वैत विवर्जितम् | चिन्त्याचिन्त्य विनिर्मुक्तं वाच्यवाचक वर्जितम् || ९५ | प्. ६३१) एवमानन्द संप्राप्तौ मुक्तिरेव न संशयः | गुरुवक्त्रेण तत्सिद्धिरानन्दस्तु न संशयः || ९६ || आनन्दं भावयेद्योगी सर्वक्लेशनिबर्हणम् | इत्यचिन्त्यविश्वसादाख्ये समाधिराजश्चतुस्त्रिंशत्पटलः || योगानां परमं ह्येतत् निराधारं शृणुष्व तत् | दशका च सभायादि पूजनं पूर्ववद्भवेत् || १ || सन्ध्यायास्तु विशेषोस्ति परा सन्ध्या सदोदिता | प्रातस्सन्ध्या पिंगमायं सुषुम्ना मध्यमो भवेत् || २ || शुद्धापां पश्चिमां सन्ध्यां मध्यरात्रे सुषुम्नया | द्वादशात्म समप्रख्या बिसतन्तुमया शिवा || ३ || प्. ६३२) आकारेणात्म तत्वेन भावयेत्पिंगलार्मताम् | सुषुम्नायां तु तत्कोटि सदृशीं भावयेच्छिवाम् || ४ || उकारेण च विद्यां तां रसमे ध्यानगोचराम् | सायाह्ने चक्षुषायां च तिलानलसमप्रभाम् || ५ || विसतन्तु निभां ज्योतिश्चन्द्रकोटिसु शीतलाम् | मकारेण शिवाख्येन परा शक्त्या विभावयेत् || ६ || मध्यरात्रे सुषुम्नायां स्वरासन्ध्यां प्रभावयेत् | सर्वतेजोमयीं देवीं चन्द्रार्कद्वय नाशिनीम् || ७ || बिन्दुमध्यगतां देवीं परां सन्ध्यामुपासयेत् | अकारं मूलधारं स्यादुकारान्तोपरि न्यसेत् || ८ || प्. ६३३) तस्योपरि * * * * मकारोपरि बिन्दवम् | बिन्दोरुपरिनादः स्यान्नादस्योपरि शक्रिडै || ९ || एवं तु परिगं शक्त्या सन्ध्योपास्या तु योगिनः | विंशतिं च विसृज्याथ आनन्दांश्च विमर्शयेत् || १० || मनोबुद्धिरहंकारः विसृजेत्तत्र देशिके | रागमायाकलाश्चापि विसृजेच्च तुरीयके || ११ || विद्यादि शुद्धकालान्तं विसृजेत्तुर्यान्तगम् | * * * * परं तत्वमानसानां लयं भवेत् || १२ || मनसो लयतश्चैव परां मुक्तिं समश्नुते | केवलात्म स्वरूपं स ज्ञानरूपे तु भावयेत् || १३ || प्. ६३४) ज्ञानातीतं परं तत्वं सर्वगं सर्वतोमुखम् | भावं शिवं च संभाष्य स्वस्ति चैवं विभावयेत् || १४ || न शिवेन विना शक्तिः न शक्तिरहितः शिवः | एवं ध्यात्वा महायोगी त्वखण्डित महोदयः || १५ || ध्याता ध्येयं च सलिलं शिवः स्यात्परमं पदम् | सर्वोपरागनिर्मुक्तं तत्तु तिष्ठति केवलम् || १६ || निर्मलाकाररूपं यत् तद्वद्भाति परा शिवः | सर्वमायाति विज्ञानं तत्तुरीयाय कल्पते || १७ || अहमेवेति यज्ज्ञानं शुद्धतत्वादिनीतिकम् | निर्मले स्वच्छमादर्शे मनोराज्यं पुराकृतिम् || १८ || प्. ६३५) खोन्मुखोनोमिषद्यश्च ध्यायन्वश्यो भवेत्तदा | घटानां द्वीपरहितं विज्ञानान्तं तु सर्वगम् || १९ || नैतत्वगरन्तःस्थायी नानु पश्यन्सुखी भवेत् | तासामिदं च तद्रूपं पश्यन्विश्वमयो भवेत् || २० || ग्राहकोहनिदं राभ्यमिति वित्तिश्शिशोरपि | ऐक्यं मयादमं पश्यन् योगी पूर्णत्वमश्नुते || २१ || अहंतयेदं विमृशन् प्रस्फुरद्वा च मण्डलम् | स्वशरीरमिवैकाग्रं सर्वात्माध्यायते शिवः || २२ || आकाशं च पदाद्देहं बहिरन्तश्च चिन्मयम् | जगद्वा युगपद्योगी विमृशंस्तत्क्षणाच्छिवम् || २३ || प्. ६३६) भेदयन्त्रमिदं मध्ये विधायान्तर्बहिर्महः | चिद्रूपं सर्वतोधिक्यं भावयेद्भेदमद्युति || २४ || हरितेन्तर्बहिर्वेदश्चिदब्दात्पुश्चलन्नपि | मनोन्मीलात्वहं चेति विमृशन्त्याप्य तिष्ठति || २५ || यस्या आस्येन्द्रियद्वार जाता व्यक्तिस्तु चिन्मयी | सुहित्तिलीनां तु विश्वं विमृशं स्याच्छिवो भवेत् || २६ || सामान्याद्वा विशेषाणां नापैति हरिताविधि | तनौ च तस्य भिद्येत इति ध्यात्वा तु योलयः || २७ || व्यापिन्या नाग्रके नित्ये शून्ये चावधिवर्जिते | अधश्चक्रे बहिश्चेति परस्समधिरोहति || २८ || प्. ६३७) रूपस्य संस्थितो योगी योगोपरि विलोकयेत् | निरालम्बमनाः शीघ्रं चिच्छक्त्या च शिवो भवेत् || २९ || निरुपाधिनि चिद्रूपे विश्रान्ते सर्वदृक्क्रिये | योगहीना हत द्रष्टुं किं वा कर्तुं निराकृतिः || ३० || निराधारममुं योगमभ्यस्य शिवमाप्नुयात् | अनेन सदृशो योगो नास्त्येवं नन्दिकेश्वर || ३१ || इति अचिन्त्य विश्वसादाख्ये निराधारयोगविधिः पंचत्रिंशत्पटलः || ज्ञानदीक्षां प्रवक्ष्यामि सत्वमुक्तिं सहेतुकीम् | यत्तत्वं तुच्छिवं व्याप्तिबोधकं मोहवर्जितम् || १ || प्. ६३८) पूर्वदिक्षा समोपेतं शिष्याणामुत्तमं तथा | शरीरभेदमात्रं यत् प्राणभेदो न किंचन || २ || एवं गुरुः स्वभक्त्या च ज्ञानदीक्षां च कारयेत् | आणवं शक्तिसंभूतं शाम्भवं त्रिविधं भवेत् || ३ || शक्तिं शाम्भवदीक्षा च क्रियते तत्त्वया मया | अन्यैराणव दीक्षा तु मन्दतीव्रादिभेदतः || ४ || मण्डपं मण्डलादिं च पूर्ववन्नन्दिकेश्वर | विचित्रं मण्डपं कृत्वा चोक्तद्रव्यैर्विशेषतः || ५ || अधिवासनवर्ज्यं वै मध्यरात्रे विशेषतः | सुगन्धमक्षतं पुष्पं धूपदीपं चरुं तथा || ६ || प्. ६३९) सर्वद्रव्यसमायुक्तं असंखं च समन्वितः | द्रव्यशुद्धिं ततः कृत्वा पूर्वोक्तेन विधानतः || ७ || मण्डलं पूरयेच्छित्वा मध्यरात्रेर्विशेषतः | सुगन्धपुष्पैर्धूपैश्च शिष्यमाभरणादिभिः || ८ || शिवचित्तं यदालब्धं कालाध्वान्तं तथैव च | भूतविद्या प्रवेष्टव्या ताररत्नेन देशिकः || ९ || शिवशक्ति सदा योगात् स्थाप्यं पञ्चामृतं तदा | शिवमन्त्रेण शक्त्या च जपेत्सन्मार्गनायकः || १० || यावज्ज्ञानमिदं बुध्वा स्थिरत्वं तावदन्तकम् | जपित्वा परमानन्दं गुरुज्ञानरसं परम् || ११ || प्. ६४०) भावनात्तत्र यद्भूतं शिष्यवक्त्रे निधापयेत् | कारितं चैव तत्रैव सरसं शिष्यगोचरम् || १२ || प्रासादं शिवमन्त्रं स्यात् वागीशक्तिं च मन्त्रकम् | पूर्वमेव तु संसाध्यमाभ्यां मन्त्रेण कारयेत् || १३ || सुसंवेद्याद्भवेज्ज्ञानं सदेरदमुखद्वितिः | योगामृतरसान्मुक्तो मण्डलं मुद्रयान्वितम् || १४ || नृत्तगीतं च वाद्यं च स्वेच्छा क्रीडा प्रवर्तते | सदानन्दो भवेद्देहे क्षुधानिद्रा तथा नहि || १५ || नृत्तं हसितं ज्ञानं च धावनं स्वेच्छया चरेत् | सप्तसोपानसंपन्नं सोपानगुणसंपदम् || १६ || प्. ६४१) प्रथमं त्रिगुणं प्रोक्तं द्वितीयं मर्थपञ्चकम् | पञ्चाभिज्ञास्तृतीयं तु चतुर्थं सिद्धिरष्टकम् || १७ || द्वीपञ्च प्रत्ययं पञ्च षष्ठं दशफलं भवेत् | आनन्दं सप्तमं ज्ञेयं सिध्यमन्त्यवचिन्तया || १८ || आणवं कम्पनादि स्याच्छक्तिस्तु कथिता द्वयम् | क्लेशादि वर्जितं चित्तं शाम्भवं त्रिगुणं मतम् || १९ || मरीचिधूमकेदोरु प्रतीपगमं च तथा | स्वयमेवेदमादध्यात् सर्वं प्रदेशो दीपपञ्चकम् || २० || वार्धी च पर्ययो ज्ञानस्मृतिः पूर्वोषितस्य च | दिव्य चक्षुश्च श्रोत्रं च पञ्चाभिज्ञानवन्ति च || २१ || प्. ६४२) स्वस्योपष्टं च सिद्धिश्च ज्ञानरूपेण सिध्यति | निर्बीजकरणान्येव विषात्प्रहरणं तथा || २२ || वह्नेरुज्वलनं चैव नाड्या वायोर्जयं तथा | यद्बिन्दुनादममलदेहसंगमनं तथा || २३ || धूमज्योतिर्दर्शनं च स्वच्छन्दं मृत्युकार्यकम् | दशप्रत्ययमेवं हि अष्टादशबलं शृणु || २४ || आधयश्च परिष्कारो मुक्तिप्रणतिरुच्चयः | उत्पत्तिश्च बलं तापधर्मचित्तं तपः फलम् || २५ || तत्पदं च महत्तादि साध्यं सम्यक् क्रमेण वै | लभते ज्ञानबन्धादि ते निर्देशगुणं विदुः || २६ || प्. ६४३) सहजं वाङ्मनोतीतं अखण्डित महोदयम् | सर्वसिद्धिमयं सर्वत्रैलोक्यैक्य सुनायकम् || २७ || योगसिद्धिश्च शिष्यस्य तीव्रात्तीव्रतरं भवेत् | नियतिश्चापदन्धे च कलागुणवती तथा || २८ || विद्याधारस्य वेधेन नाशमार * * * णः | शान्तोपायमिदं प्रोक्तं शाम्भवं तत्र विद्यते || २९ || सादाख्यद्वापदन्धे च वैशमौञ्जी विराजते | शुद्धविद्याधराद्वेधः शाम्भवो वायमीरितम् || ३० || शिष्यस्य यादृशी भक्तिस्तादृशी प्रतिपादिता | एतैरेतद्विजानीयात् प्रत्ययैरावणादिकाम् || ३१ || प्. ६४४) ज्ञात्वा विलोक्य कृपया शिव हस्तं च दापयेत् | प्रणामं कारयेत्पश्चात् तस्य नाम च दापयेत् || ३२ || पात्र दण्डासनादींश्च पूर्ववद् व्यापयेद्गुरुः | अग्निकार्य कृतं वापि नाग्निकार्यकृतं भवेत् || ३३ || शरीरमर्थं प्राणं च गुरवे सन्निवेदयेत् | शरीरप्राणकं चैव गुर्वनुज्ञापुरस्सरम् || ३४ || तदाज्ञेया चानुभवं सततं भक्ति संयुतः | वित्तं तु सकलं तस्मै गुरवे तु समर्पयेत् || ३५ || स्वस्वातन्त्र्यं च सर्वं च विसृज्य मनसा तदा | वाचा च कर्मणा चैव गुर्वर्थं तु चरेद्बुधः || ३६ || प्. ६४५) अभिषेकं ततः कृत्वा पूर्ववन्नन्दिकेश्वर | पृथिव्या गुणगन्धादि शुद्धवस्त्रादिनापि च || ३७ || अलं कुर्यात्पुनश्शिष्यं प्रतिमां कालयेद्गुरुः | यागात्तदैवतं चैव विसृजेन्नन्दिकेश्वर || ३८ || इत्यचिन्त्य विश्वसादाख्ये ज्ञानदीक्षाविधिः षट्त्रिंशत्पटलः || तत्वानां निर्णयं वक्ष्ये शृणुत्वं नन्दिकेश्वर | रससंज्ञस्य तत्वस्य संज्ञायुक्तं वदाम्यहम् || १ || शुद्धत्वाच्छिव संज्ञा च परत्वात्परमुच्यते | चिद्घनो ज्ञानपूर्णत्वात् एको सादृश्य पूर्णतः || २ || प्. ६४६) * * च्च सर्वगत्वाच्च प्रभुरित्यस्य संज्ञकम् | सुखानन्द स्वरूपत्वात् चित्संज्ञा तस्य वैरिणः || ३ || चराचरस्य जगतः सोत्पत्तौ कारणं परम् | तस्माज्जगदेकबीजं तु संज्ञितं नन्दिकेश्वर || ४ || चेतना चेतनानां तु स्वस्वकर्मानुसारतः | सुखदुःखाद्यहंभावं कर्मपाकं विधाय च || ५ || सर्वस्यानुग्रहत्वाच्च सर्वानुग्रहसंज्ञकम् | निरज्ञानत्वात्कैवल्यात् निर्वाणस्य प्रदायकम् || ६ || ज्ञानक्रिया स्वभावं तु ज्ञानेच्छाशक्ति संश्रयात् | संसाराम्भोधिमग्नानामुत्तारात्पालनात्पतिः || ७ || प्. ६४७) निवृत्त्यादि कलाभिस्तु शिवं मन्त्रतनुर्भवेत् | सृष्टिपालन संज्ञा च तिरोधानमनुग्रहम् || ८ || प्रपञ्चस्य स्वभावत्वात् पञ्चकृत्संज्ञकं भवेत् | एवमाद्यां प्रसंख्यायां कलास्ताः संप्रकीर्तिताः || ९ || चिदचिदनुग्रहार्थाय चावोम्नोक्षस्तु शक्ति वै | अस्यैव चाविभागा च ज्वालेन च हविर्भुजा || १० || इतरेतराश्रयं चैव शिवशक्त्योरभिन्नता | स्वेच्छाविग्रहिणां वेत्तौ चिदचिद्रक्षणाव हि || ११ || परबिन्दुः पराशक्तिः मयामाया च कुण्डली | यूपव्योम तथैवेच्छा तस्य पर्याय वाचकाः || १२ || प्. ६४८) इच्छाज्ञान क्रिया चैव शिवे स्थित्वा सदैव वै | शिवस्वेच्छानुरूपार्थं ज्ञानेच्छा शक्तिमादिमान् || १३ || स्वस्वं कार्यात्प्रकुर्वन्ति सदानुग्रह कारणात् | ज्ञानशक्तिः क्रियाशक्तिः समस्तं यद्विजृम्भितम् || १४ || सदाशिवाख्यं तत्वं तु सकलं निष्कलं भवेत् | क्रियाशक्त्युल्बणत्वं च ज्ञानशक्त्यापकर्षणः || १५ || तत्र तत्प्रसरन्नत्तुं ईश्वराख्यमिदं भवेत् | क्रियाशक्त्यापकर्षं च ज्ञानशक्त्युल्बणं तथा || १६ || विद्यातत्वस्य चोत्पत्तिः ज्ञानगर्भाभवत्तदा | बिन्दोः कलाश्च संजातं सर्वतत्वस्य धारकम् || १७ || प्. ६४९) नद्योद्बिन्दुश्च संजातौ एतौ सादाख्यमाश्रितौ | शुद्धानां पञ्चतत्वानां कलासम्बन्धवर्जनात् || १८ || उत्कर्षापकर्षणन्नास्ति शिवतत्वाच्च निश्चयम् | वस्तुतश्शिवतत्वस्य तत्वमन्त्रोदितं परम् || १९ || अनन्तचित्तशक्तित्वं शिवस्यैव स्वाभावजम् | ज्वाल एव हुताशस्य ज्योत्स्ना चैव हिमत्विषः || २० || भवेयं भवेश्शक्त्या शिवस्याह्यस्यते वपुः | जन्तोर्जन्मस्य मोक्षाय शिवश्शक्ति समन्वितः || २१ || अनादिमल सिद्धानां वस्तूनां मोक्षकारणम् | जडवर्गस्याप्येवमेव सर्वानुग्राहकं भवेत् || २२ || प्. ६५०) शिवस्समानरूपं शिवविग्रहमेव हि | सकले निष्कले चैव सर्वत्रैव समानता || २३ || सायुज्यमिति तत्प्रोक्तं सारूप्यं मुक्तितुल्यता | सारूप्यं मूर्तिसारूप्यं स्वेच्छाविग्रहधारणात् || २४ || शिवलोकादि संप्राप्तिः सालोक्यं मुक्तिनामतः | एतच्चतुष्टयं शक्तिसायुज्यं चोत्तमं भवेत् || २५ || नोचेच्छिष्य परप्राप्ति हेतुकस्य विशेषतः | मलवासनया तस्य विद्येश्वरपदस्थितिः || २६ || वासना परिपाकेन दीक्षया परमाप्नुयात् | कर्मणोनादिभूतत्वात् भोक्तव्यं मोक्षकारणात् || २७ || प्. ६५१) भुक्त्यर्थं करणं देवं भुवनं चापि सर्वशः | तच्छम्भुः कृतवान्भुक्त्यै करणं चापि शक्तितः || २८ || अनादिशक्तिसहिता माया सूक्ष्मा च व्यापिनी | अनादिनिधनाप्येका चैवो पादान कारणम् || २९ || सर्वेषां जन्मजननीं मोहसंजननीदृशम् | स्वकीयशक्तिभिश्शम्भुर्मायां विक्षोभ्य कर्मतः || ३० || पुरुषं प्रतिभोग्यार्थं शरीरादीन्द्रियाणि च | दद्याच्छिवोऽपि शक्त्या च करणेन विशेषतः || ३१ || अनन्तशक्तिरूपायां माया तत्काल संभवा | भूतं भवद्भविष्यच्च त्रिधारूपो भवेत्पुनः || ३२ || प्. ६५२) मलानां परिपक्वानां कालश्चितस्य संभवः | पुनश्च मायानियतिं जनयामास दैवताः || ३३ || नियमं रूपमास्थाय खिलन्निखिलन्न देवयेत् | सैव माया पुनश्चैव कलामजनयत्क्रमात् || ३४ || अन्नास्त्रमाणवं चैव स्थूलमेकत्र भिद्य च | ज्ञानशक्तौ प्रतिष्ठाप्य व्यञ्जयेत्कर्तृशक्तिकाम् || ३५ || कमाबन्धन धात्वर्थस्तनुबन्धाय चात्मनाम् | कालनत्वमिदं प्रोक्तं मण्डूनां भोगकारणात् || ३६ || प्रच्छाद्य च ज्ञानशक्तिं कर्तृशक्ति प्रकाशनम् | अशुद्धाख्याल्पका चैव परेतान्नन्दिकेश्वर || ३७ || प्. ६५३) सैषा कला च कालेन नियत्या सहिता पुनः | मायान्नियति पर्यन्तं स्वस्व व्यापारकर्मणा || ३८ || संभूय कार्यं कुर्वन्ति त्रयस्सृष्ट्यादिकोविदौ | कलया पुरुषाणां तु संभूता कर्तृशक्तिका || ३९ || शब्दादिविषयांश्चैव करणं च तथा भवेत् | सुखदुःख मोहरूपेण गुणत्रय समन्विता || ४० || सा विद्या चात्मनो भोग्या बुद्धिसंज्ञा भवेत्तदा | शब्दादि विषयं चापि यदा ग्रहणबुद्धि वै || ४१ || सैषाभिकारणाख्या स्याद्विद्यातत्वं द्विधा भवेत् | क्षीरस्य खल संयोगादधीनां च तथा भवेत् || ४२ || प्. ६५४) क्षीरं मथित्वात्तु नामद्वित्वं यदा भवेत् | तत्वविद्यैव बुद्धिः स्यात्करणं च तथैव च || ४३ || विष्यन्नेव पुनस्सृष्टौ वियन्ने तत्र वै शिवः | प्रलयान्ते तु यद्वस्तु सर्वज्ञादि गुणैर्युतम् || ४४ || सर्वं मयाधि निर्मुक्तं तत्तत्वमिति कीर्तितम् | तत्रात्मनामलं चैव बन्धजन्मत्वकारणम् || ४५ || मलानां वासनं चैव नाशान्मोक्षो न संशयः | मलानां नाशनं चैव दीक्षायाश्च भवेद्ध्रुवम् || ४६ || चत्वारिंशत्तु संस्कारो विप्राद्यैरप्यनुष्ठितः | ततस्त्वंगगर्भाधानमनन्तरम् || ४७ || प्. ६५५) पुंसवनं च सीमन्तं विष्णो बलिमनन्तरम् | जातकर्म तथा नामकरणं निष्क्रमं तथा || ४८ || अन्नप्राशनकं चैव प्रियासंगमनं तथा | वैश्वदेवं तथोत्सर्गं पञ्चत्वेकत्व संस्कृतिः || ४९ || पारायणं च गोदानं स्नानमाचारकं तथा | अष्टादश शरीरस्य संस्कारोयमुदीरितः || ५० || देवयज्ञं च पित्र्यं च भूतयज्ञं तथैव च | मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञाः प्रकीर्तिताः || ५१ || स्थालीपाकं चाग्रयणं श्रौतं स्मार्तं च पैतृकम् | पैत्रमासयुजश्चैताः सप्तैते पाकयज्ञकाः || ५२ || प्. ६५६) अग्नियाधेय * * * * पौर्णमासी तथैव च | आग्रयणेष्टिकं चैव चातुर्मास्यादनन्तरम् || ५३ || निरूढपशुबन्धं च सौत्रामणिरथा मम् | हविर्यज्ञाश्च सप्तैते सोमसंस्थस्तथोच्यते || ५४ || अग्निष्टोमे अग्निष्टोम उक्थ्यः षोडशकस्तथा | वाजपेयोतिरात्राणि अप्तोर्यामश्च सप्तमम् || ५५ || चत्वारिंशत्तु संस्था वै वैदिकक्रम सुप्रियाः | कृतवतोप्युक्तमार्गेण दीक्षया मोक्ष एव हि || ५६ || नास्ति दीक्षा समं तीर्थं नास्ति दीक्षासमं तपः | नास्ति दीक्षा समं नीलं नास्ति दीक्षासमं धनम् || ५७ || प्. ६५७) नास्ति दीक्षा समोधर्मो नास्ति दीक्षा समोगुणः | नास्ति दीक्षासमं ज्ञानं नास्ति दीक्षा समा स्मृतिः || ५८ || नास्ति दीक्षासमं श्रेयो नास्ति दीक्षासमं कुलम् | वासनानाशनं चापि दीक्षाज्ञानक्रियास्तथा || ५९ || चर्याचर्यापि चत्वारि दीक्षा संवर्धनाद्ध्रुवम् | वासनापरिपक्वं च वन्ध्यं कुर्याच्च वारुणम् || ६० || धर्माधर्मात्मिका बुद्धिः कर्मजां वासनामपि | शिवलिंगार्चनादेव नाशनाय न संशयः || ६१ || वासना चरणोद्भूतं पञ्चवायोर्मतस्तथा | हर्षश्चैव विनाशश्च शेषं चैव मनोलयान् || ६२ || प्. ६५८) * * * * * * * * नित्यस्य च समाधिनः | ज्ञाने च तालं संयुक्तं मायिकेपि चतुस्तथा || ६३ || नाशमेति क्रमाद्वक्ष्ये शृणुत्वं नन्दिकेश्वर | शिवा भूतश्रवणाच्छिवज्ञानं प्रतिष्ठितम् || ६४ || नित्यानुभवतश्चैव दर्शनाच्छ्रवणादपि | जनिता विस्मृतिश्चापि क्षयमेति न संशयः || ६५ || सृष्टिकालस्य देव्याश्च कन्दर्पस्य स्वभावतः | स्थिरत्वात्पुरुणवर्याणां कुलयोषित्समाश्रयात् || ६६ || जातिमत्रावती विप्रः चण्डालकुलस्थितिः | दीक्षाजातिश्शिवाजातिः तुल्यजातिर्न विद्यते || ६७ || प्. ६५९) सृष्टिक्रमादेव दीक्षा दीक्षया रहितः पिता | जगन्माता शिवा प्रोक्ता सर्वेषामात्मनां तथा || ६८ || * * चिन्ताकुलज्ञानां नाशमेति शृणु क्रमात् | कालदैर्घ्यादस्ययस्य पितृमातृ पितामहाः || ६९ || पुत्रमित्र कलत्राणि भातृमातुलसोदराः | पश्चात्तृतीयस्तुरीयः तेषां चापि सहस्रशः || ७० || स्वयं पित्रादिका भूतास्तस्मात्तत्तत्क्रमो न हि | सर्वाण्यपि च जन्तूनि एक एवादितं तथा || ७१ || कर्मणां साहचर्येण ऋणात्पित्रादि सर्वशः | तस्माद्रुचिरचिन्तादि नास्ति विज्ञानसाधने || ७२ || प्. ६६०) निवृत्त्यावनि पर्यन्तं प्रातस्तत्राधिवासना | शरीरं तेजसा ह्यन्ते तथैवं नन्दिकेश्वर || ७३ || सप्तषड्वासनाकार्यं मनोवाक्काय कर्मसु | व्याप्य वृत्तिं करोत्येव तत्ववृत्तिं तदन्यथा || ७४ || नयधा च विशन्नेव शिवज्ञानं विशेषतः | नैवास्ति किंचित्कर्तव्यं वासनायुक्त कर्मसु || ७५ || वासनाराग संप्राप्ति रस्ति चेन्न स तत्ववित् | देशिकस्तत्व विज्ञानं ज्ञात्वा तत्वप्रकाशकम् || ७६ || स एव तत्वज्ञानस्य मूर्तितो मुक्तसुस्रवः | इत्यचिन्त्यविश्वसादाख्ये तत्वनिर्णयः सप्तत्रिंशत्पटलः || प्. ६६१) वक्ष्यामि शृणुनन्दीश षडध्वविधिमुत्तमम् | तत्वाध्वा भुवनाध्वा च मन्त्राध्वा च तृतीयकम् || १ || क्रियाध्वा समयाध्वा च कलाध्वा षष्ठकं भवेत् | षडध्वभिश्च सर्वत्र व्याप्तमेव चराचरम् || २ || उक्त्वाध्वनः प्रसिध्यर्थं भुवनं तु कृतं मया | कालाग्नेःशतरुद्रान्तं ब्रह्माण्डमिति विश्रुतम् || ३ || रजो विलोम्यते सर्वज्वालास्पष्टार्करोचिषाम् | स्थाने विभागरहितः परमाणुरिहोदितः || ४ || तदष्टाष्टगुणस्थाने तृतीये स्यात्कचग्रहम् | लीक्षायुगो यवोऽप्येवं यवाष्टकमथांगुलम् || ५ || प्. ६६२) द्वादशांगुल संयुक्तं तालं तालान्तरं ततम् | तालद्वयी करं प्रोक्तं तद्द्वयं च धनुर्भवेत् || ६ || द्विधनुर्दण्ड इत्युक्तः क्रोशस्तद्द्विसहस्रकः | क्रोशत्रयं च गव्यूतिर्योजनं तद्द्वयं भवेत् || ७ || एकं दश शतं चैव सहस्रमयुतं तथा | नियुतं प्रयुतं कापे बृन्दं चैव तथार्बुदम् || ८ || तस्मादनन्तरं स्थानं न्यर्बुदं त्वभिधीयते | पद्मं चैव महापद्मं शंखं च तदनन्तरम् || ९ || महाशंखं च वृत्तं च महावृत्तमनन्तरम् | समुद्रं च महत्पूर्वं समुद्राख्यमनन्तरम् || १० || प्. ६६३) निखर्वं च गुरुश्चैव महावायुरनन्तरम् | आकाशश्च महाकाशमेवं परिमितं भवेत् || ११ || स्थानात्स्थानं दशगुणं परिमाणं विशेषतः | ब्रह्माण्डस्य कपालं तु योजनैर्न्यर्बुदैर्मतम् || १२ || तदूर्ध्वे हेमकालाग्नेस्तावदेव ह * * * | संसार चण्डते कालकोटितेजास्तथा विधैः || १३ || रुद्रैः परिवृतोनेकैः प्रोक्तः कालाग्निरुद्रकः | सर्वाध्वान तानः यस्मिन्तेजसि वर्तते || १४ || भयमुत्पद्यते शक्त्या संहृत्या चोदितं प्रभोः | तस्य स्वभावतो ज्वालाः प्रवृत्ता दशकोटयः || १५ || प्. ६६४) योजनानां सहस्रेण धूमसंख्यैस्सुदारुणम् | कालाग्निभुवनं ह्येतत् कोटिषोडशयोजनम् || १६ || ततः पुटास्त्रय स्त्रिंशत् दशलक्षो न कोटयः | कालाग्निभुवनं ह्येतत् तस्योर्ध्वं नरकाणि वै || १७ || तस्यान्तराणि द्वात्रिंशल्लक्षकाणि दुरात्मनाम् | यातना * * * * यस्थानानि कल्पितानि हि पापिनाम् || १८ || तेषां नामानि वक्ष्येहं शृणुत्वं नन्दिकेश्वर | रौरवं च तमश्चैव शीतमुष्णं च भावकम् || १९ || सन्तापजाम्बुजाकालं सूत्रमष्टममुच्यते | प्रसिद्ध नरकाण्येते तेषामधिपतीन् शृणु || २० || प्. ६६५) सूत्राख्यं कालखण्डाख्यं क्ष्माधारामम्बरीषकम् | तप्तांगार महीनाह संतापाश्चेति कीर्तिताः || २१ || भवन्त्यष्टौ भवत्साममहाशब्दपदानुगाः | लाक्षा प्रलेपंमासादन्नरुद्धासनयोच्चसाः || २२ || पर्वतद्वयशल्मलीतोत्प्रति दीपक्षुत्पिपासकाम् | क्रियमाणानि यं चैव राजानः परिकीर्तितः || २३ || लाभस्तम्भोथ विण्मूत्रस्तथा वैतरणी नदी | तामिस्राश्चायतामिस्राः कुम्भीपाकश्च रौरवः || २४ || महापाशानु वा वीचि * * राजराजेश्वरि | एषा पुटानां नरकैः सार्धयोजनसंख्यया || २५ || प्. ६६६) भवन्ति कोटयः * * द्वे तत्कोटिमथैव च | ततः कूर्माण्ड भूमिः स्यात् दिदिनावन खण्डिका || २६ || अयोगविततद्येन पूर्वेणार्थेन काञ्चना | योप्य बध्यात्पटस्तस्माद्धृदयं चार्धमायसम् || २७ || सहस्र योजनाक्रान्तो निरयाणां पतिस्तथा | कूष्माण्ड इति विख्यातो युगान्ताग्नि समप्रभः || २८ || वृत्ताक्षः क्रुद्धवदनो भूरिदंष्ट्रस्सुदारुणः | परश्वथधरश्चैव तथा भूतैश्च सेवितः || २९ || ततो नन्दिन् प्रवक्ष्यामि पातालानां तु सप्तकम् | कुलानां चैव सप्तानां पातालान्तमुदीरितम् || ३० || प्. ६६७) नागाश्च राक्षसाश्चैव देवताप्सरसस्तथा | महातल निषण्णाश्च क्रीडन्ते निर्भरं मुदा || ३१ || नवलक्षाणि चोत्सेधं अन्तरं लक्षमुच्यते | लक्षाणि सप्ततिश्चैव पातालानां प्रमाणतः || ३२ || दैत्यश्शं कुशिशुः पूर्वे प्रह्लादः शिशुपालकः | कर्कान्तुको हिरण्याक्षो बृहद्गर्भो बलिस्तथा || ३३ || काद्रवेयाः कुटिलको वासुकिर्ब * * स्तथा | कार्कोटकोऽथ वालांगो * * * दुर्दशस्तथा || ३४ || विकृतो लोहिताक्षश्च यमाख्यो विकटाननः | करालो भीमनिर्हापि पिंगलश्चेति राक्षसाः || ३५ || प्. ६६८) तेषामुपरि निश्शेषः पातालाधिपतिस्तथा | ततस्सौवर्णपातालं दशलक्षप्रमाणतः || ३६ || तस्मिन्नुपरिदेवेशो हाटकाख्यो महेश्वरः | नानाविकार संयुक्तं पुरं कोटि समावृतम् || ३७ || तत्सर्वं हाटकं यस्मात् तस्माद्वै हाटकेश्वरः | तस्योर्ध्वे नवलक्षाणि चान्तश्चेति कीर्तितम् || ३८ || भुवनं दशलक्षाणां उच्छ्रायं तु विधीयते | ततः कोटिशतं पृथ्वी नानाजन समाश्रयाः || ३९ || शैलद्वीपसरिद्वारिनिधिमण्डल मण्डिता | जम्बूशाककुशक्रौञ्च शार्ङ्गगोमेदश्च पुष्कराः || ४० || प्. ६६९) लक्षाणि द्विगुणा द्वीपाः क्षीराद्याब्धि हरावृताः | क्षारक्षीरोदधिस्सर्पिरिक्षुकं च मधूदकाः || ४१ || स्वादूदकस्त्विति ख्याताः समुद्रास्सप्त कीर्तिताः | क्षीरोदस्तु द्विलक्षः स्याद् अन्यो द्विगुणतोऽधिकम् || ४२ || कर्मस्वर्णमयी भूमिः लोकालोकश्च पर्वतः | ततः परस्ताद्गर्भोदः कटाहश्चेति भूतलम् || ४३ || चित्रशैलसरिद्वीपकाननोदध्यलंकृतम् | पृथ्वी भागवता ज्ञेया सर्वदा नन्दिकेश्वर || ४४ || भूमेर्नाभिर्जम्बु संज्ञं तद्वृत्तं लक्षयोजनम् | क्षीराब्धिना परिवृत्तं परिवृत्तेन तावता || ४५ || प्. ६७०) तस्य मध्ये स्थितश्शैलो राजराजो हिरण्मयः | तिरस्कृतां शुमज्ज्योतिः मेरुस्सुरसमाश्रितः || ४६ || सषोडश सहस्राणि क्षितोविष्टो महीतलात् | नाद्रुनामानतो लक्षं मूले च षोडश स्मृतः || ४७ || त्रिषु पादोन्तरेष्वस्य चतुर्बद्धेषु पर्वतम् | नेमयः कटकाकारा निर्गता दीप्तिमत्तराः || ४८ || एकादश सहस्राद्या अनुसाहस्रकाः पराः | नैमितस्तत्र कोपान्ते लोकपाल समाश्रयाः || ४९ || इन्द्रस्य चक्रपाटाख्यं रत्नसर्वप्रभोज्वलम् | सिद्धगन्धर्वमरुतां तदधस्सर्वसंस्थितः || ५० || प्. ६७१) तस्यामष्टसु शृंगेषु पर्यष्टौ संव्यवस्थिताः | प्राच्यादिष्विन्द्रमुख्यानां नाम तद्भरगर्भकम् || ५१ || अनेकरत्नप्रभवं विराजितनभोऽन्तराः | सिद्धसाध्यगरुद्युक्ता रुग्मभूरमरावती || ५२ || रक्तपीतमणिप्राय हेमप्रकारगोपुरा | तेजोवती यदाग्नेय नगरी ज्योतिषावृता || ५३ || लोहप्राकारसंयुक्ता मृत्योस्संयमिनी पुरी | कालपाशपितृव्याधि प्रेतभूतगणैर्वृता || ५४ || नैर्-ऋत्यां नगरी कृष्णा दैत्यैः क्रूरैश्च संवृता | इन्द्रनीलमहानील नीलरत्नप्रभान्विता || ५५ || प्. ६७२) प्रतीच्यां वरुणस्यापि नगरी शुद्धवत्यपि | शुद्धस्फटिकसंकॢप्त तोरणध्वजसंवृतैः || ५६ || शुद्धमेघोपमैर्मत्स्यैः मकरैकज्वलोग्रकैः | गद्धबाहस्य नगरी साक्षाद्गन्धवती पुरा || ५७ || धौतश्वेतध्वजैर्युक्त बलेवाहुत संस्थितः | नगरी सा प्रभाजालैः दीप्यन्ती परितः क्रमात् || ५८ || सोमस्य नगरी साक्षान्मुक्तास्फटिक निर्मिता | महोदयाख्यायक्षैश्च गन्धर्वैश्च विशेषतः || ५९ || खड्गवृक्षोश्च * * * * * * * * * * * | देवसंघैःस्तुता भाति पुरैश्चैव गिरिप्रभैः || ६० || प्. ६७३) ऐशान्यां नगरीसाक्षा यशोवत्यम्यभिवृता | अनेकरुद्र संयुक्ता नानारत्नैर्विराजिता || ६१ || सर्वर्तुकुसुमैर्युक्ता दिव्यदेवैनिषेविता | नानापक्षि समाकीर्णा नानाद्रुम विभूषिता || ६२ || ब्रह्मणा निर्मिता लोकपालचक्रानुवर्तिनाम् | भूतये स्वर्ग इत्येता गदिता स्वर्गशीलकैः || ६३ || ब्रह्मणो नगरी साक्षान्मनोवत्यभिधान्विता | चतुर्दश सहस्रैश्च योजनानां प्रविस्तृता || ६४ || मध्ये च लोकपालानां मेरुमध्ये सुरैर्वृता | याचकारारुणो नुन्नैर्गगनं हासयन्ति या || ६५ || प्. ६७४) सावित्र्य स्पर्धमानेन स्वर्गकामादिवर्तिनी | तस्यामुपासते देवा मुनयश्च महोदयाः || ६६ || महायोगीश्वरी स्कन्धैः योगाद्वेतैश्च वासवैः | मेरोः पञ्चमदिग्भागे वैकुण्ठशिखरं भवेत् || ६७ || सर्वालंकारसंयुक्तं ऋद्धिसिद्धि निषेवितम् | चतुर्दशसहस्राणि विस्तारोत्सेधमेव तु || ६८ || सर्वरत्नमयाभासं प्रत्यर्क प्राकारतोरणा | तत्रैव वसतो विष्णुः सर्वदेवगणैर्युतः || ६९ || भूलोकरक्षणार्थाय वसन्निति दिनात्मनः | ये सृष्टि स्थिति संहारान् कुर्वन्ति क्रमशस्तथा || ७० || प्. ६७५) तदीशभागे तस्याद्रेः शृंगमादित्य सन्निभम् | यक्त ज्योतिष्कमित्याहुः तथा पशुपतेः प्रियः || ७१ || तस्य सा तुष्करं हेमरत्नचित्रेषु संस्थिताः | स्कन्दनन्दिमहाकाल गणेशादि महेश्वराः || ७२ || मूर्ध्नि देवादिदेवस्य स्थानं त्रिपुरविद्विषः | एवं लक्षण संयुक्तो राजते पर्वतेश्वरः || ७३ || कैलास इति विख्यातो नात्मा वै नन्दिकेश्वर | आर्द्रायुतगणैर्युक्तं ब्रह्माद्यैश्च सुरोत्तमैः || ७४ || इति मेरोरधोस्यान्ये दिक्षु ये पर्वताः स्थिताः | तत्संशिष्टनवद्वीपं वर्षाण्यस्मिन् शृणुष्वथ || ७५ || प्. ६७६) निषधो हेमकूटश्च हिमवानचलोत्तमः | मेरोर्दक्षिणतो नीलः श्वेत भृंगी तु याम्यतः || ७६ || सहस्रद्वय विष्कम्भा दशोंत्सेधमवान्तराः | प्रागायतास्सपर्वाणः सागराः शतकोटयः || ७७ || तदर्धेनाथ विष्कम्भो माल्यवान्गन्धमादनः | याम्योत्तरौ प्राक् प्रतिच्यैर्मेरुतस्तावदञ्चरौ || ७८ || पश्चान्माल्यादतः प्राच्यां वर्षं भद्रजनाकुलम् | सुक्तो न पकेजामालं प्रतीच्यां गन्धमादनात् || ७९ || निषधाज्वानि वर्णं तु याम्यतो हेमकूटतः | नाम्ना किं पुरुषाख्यातं हारक्तं हिमवद्गिरे || ८० || प्. ६७७) संज्ञमुद * * * ताद् हिरण्यश्वेत पर्वतात् | यदुत्तरं शृंगयदः कुरुवर्षं तदुच्यते || ८१ || ब्रह्माणं दुर्निमित्ताश्च मेरोः स्थित्यर्थकांक्षिणा | विष्कम्भाकारवत्तत्र पर्वतास्सुदृढास्त्वमी || ८२ || लक्षार्धोन्नत यस्सप्तास्तेषां पूर्वेण मन्दरः | वेदो हरिद्रा चूर्णाभो याम्यतो गन्धमादनः || ८३ || नीलोगिरि प्रतीच्यां वै सुपार्श्वं सौम्यतोरुणः | सहस्रयोजनोच्छ्रायास्तेषु कल्पद्रुमाः स्थिताः || ८४ || कम्बजमब्जोश्वत्थाश्च व्यग्रोधश्चोत्तरान्तिकाः | जम्बूफलरसोद्भूता मेरुपर्यन्त निम्नगाः || ८५ || प्. ६७८) विशेषमूलमेवास्य कनकीकृत्यतां महीम् | तां पीत्वा पक्षिणः सर्वा मृगाश्शाखामृगादयः || ८६ || बभूवुः काञ्चना ये च सत्वास्तस्यां कृतघ्नवाक् | द्वीपके तु भूज्जाम्बू * * * * * * * * * || ८७ || प्रभावती यथा ख्यातं जम्बूद्वीपमिदं ततः | प्राच्यां विष्कम्भशैलस्य मूले चैत्ररथं वनम् || ८८ || सरोऽरुणोदकं नाम तत्र गोमाब्जमण्डितम् | याम्यां निम्नगे गन्धर्व * * * * * * * * || ८९ || नन्दनं तद्वनं तत्र सरो मानस संज्ञकम् | वैभ्राजं च पुले मूले सितोदश्च समावृतः || ९० || प्. ६७९) देवस्यैव निषेव्येत कमलैरंशुमत्प्रभैः | सौपार्श्वे धृतिमान् * * * * * * * हृदयाः || ९१ || सौगन्धिकाम्बुज चिन्नस्सेव्यते पितृभिस्सदा | त्रयोदश सहस्राणां जम्बूफलरसाशिनः || ९२ || मेरोर्लोको पलब्धोर्द्धा जनास्सत्वशिखावृताः | * * * * * * * * * * तिः पिबसारभुक् || ९३ || तेजस्सत्वजनो दिव्यदेहबन्धसुखी बली | चन्द्रबिम्बद्युतिर्नीलाजासनो भद्रवाजिनी || ९४ || दशवर्ष सहस्राणि जन्मन्यायूंषि यज्वनः | त्रिंशाब्दश्च सहस्रायुः कामवृक्ष फलाशिनः || ९५ || प्. ६८०) युग्म प्र * * पुरु * * ज्ञां पुष्पद्युतिर्जनाः | भूतवे सहस्रोर्ध्वावेकदिक् सन्धिलक्षणौ || ९६ || * * * वेशयो सिद्धा चामरैर्मुनिसेवितम् | चन्द्रभद्राकराधिपौ चन्द्ररक्तांबुरुगजनौ ऐलावृतः || ९७ || त * * * * * रायुः फलमूलं च भोजनम् | अन्तर्भावं कुरुष्वेव सान्निध्यात्कतमस्तदा || ९८ || मध्यानि च सहस्राणि द्वादशानि हिरण्मयी | जनस्यैन्द्रद्विषो नित्यं अश्वतो लांकुलं फलम् || ९९ || तिनीलरजसस्यामा * के * * स्तशः स्थितः | जनस्याब्दसहस्राणि न्यग्रोधफलमश्नुतः || १०० || प्. ६८१) रजतद्युति निष्पादश्ववदायुर्गिरौ जनः | रौक्मं किं पुरुषे प्लक्ष भोजनाब्दायुत स्थितिः || १०१ || इति किं पुरुषादीनि वर्षाण्येतानि तानि वै | नवेष्ववस्था भेदोऽस्ति विवर्षेषु कृतादिषु || १०२ || नवसाहस्रविस्तारं समुद्रान्तायतं तथा | नानाजन पदाकीर्णं जरारोगभयान्वितम् || १०३ || ईषत्सुखं महादुःखं जनाः कृष्यन्नभोजनाः | तेषां शतायुः कॢप्तिश्च चतुर्युगवशात्पुनः || १०४ || गुणमेवं विना * * शुभाशुभ फलार्जनम् | भूरादीनां समस्तानां फलभूः कर्मभूर्यतः || १०५ || प्. ६८२) कर्मभूरिति विख्याता स्वर्गभूमिस्तथोपरि | भूमिभुक्तिफलं प्राप्य शिवं संप्राप्य यत्नतः || १०६ || तत्र भारतवर्षं च नवभागं प्रकल्पितम् | इन्द्रद्वीपादयस्तत्र शृणुत्वं नन्दिकेश्वर || १०७ || इन्द्रद्वीपकशेरुश्च ताम्रपर्णो गभस्तिमान् | नागद्वीपाश्च साभ्यश्च गान्धर्वो वारुणस्तथा || १०८ || कुमारिकाख्यो नवमो नानाद्रुमलतानुगाः | नानाजाति समाकीर्णा भक्ताख्ये प्रतिकीर्तिताः || १०९ || चातुर्वर्ण्य समायुक्तं चतुराश्रम संकुलम् | नदानां च नदीनां च ज्ञेयाः पञ्चशतानि तु || ११० || प्. ६८३) कोटितीर्थ समायुक्ताः महापुण्योदयाः शुभाः | हिमवदुत्तरे भागे कैलासशिखरं महत् || १११ || रौप्याद्रौ तु शिवो देव्या ऋषि सिद्धैस्सुसेवितः | सर्वालंकार संयुक्तः दिव्यवृक्षैरलंकृतः || ११२ || देवसाध्यमहर्नित्यं सान्निध्यमपि पर्वते | अष्टषष्टि महाक्षेत्रं वारणास्यादि पावनम् || ११३ || अंगद्वीपादि षड्द्वीपाः सागरे लक्ष्यवस्थिताः | महेन्द्रो मलयस्सह्यः शक्तिमानृक्षपर्वतः || ११४ || विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः | द्वीपालं कारसंयुक्ताः चामीकरनिभाः शुभाः || ११५ || प्. ६८४) नानाविचित्रसंयुक्ता रमन्ते राक्षसेश्वरैः | जम्बूद्वीपं समाख्यातं लवणोदध्युतं शृणु || ११६ || लक्षाद्यं च सुविमलं विमलोदधिरास्पदम् | भूधरा द्वादशाश्चैवं प्रसिद्धं लवणोदधौ || ११७ || वृषभश्चैव * * * दुन्दुभिश्चैव पर्वतः | चक्रश्चैव तु मैनाको बलाकं दक्षिणस्तथा || ११८ || निम्नतापि तयोर्मध्ये चाब्धितो बडवामुखम् | वराहस्सोमकेतुश्च नन्दनं पश्चिमे दिशि || ११९ || कंसचन्द्रस्ततो द्रोणश्चोत्तरे संव्यवस्थिताः | लवणोदधिरित्युक्तः शाकद्वीपं ततः शृणु || १२० || प्. ६८५) शाकद्वीपे ह्यधश्शेषो वपुष्मान्कुशद्वीपकौ | ज्योतिष्मान्क्रौञ्चद्वीपेतुशा मल्युचिमांस्तथा || १२१ || गोमेदेन समाप्रोक्ता पञ्चद्वीपाधिपाः स्मृताः | सप्त सप्त प्रजाजाता सप्तसप्तविभागशः || १२२ || पर्वतादि समुद्रान्तं सप्तभागः प्रकीर्तितः | द्वीपे तु पुष्कराख्ये तु वसानस्तु महाबलः || १२३ || द्वौ पुत्रौ तौ समाख्यातौ द्वीपौ तौ तत्र कीर्तितौ | पर्वतं वलयाकारं मानसोत्तरनामतः || १२४ || कृतादि युगवत्कालं शाकद्वीपादिवासिनाम् | सिन्दूरकान्तिमेर्वादि विस्तारं पञ्चकोदधि || १२५ || प्. ६८६) सप्तलक्षादयस्संख्याः समासात्कीर्तितानि वै | ततो हेम महाभूमिः विस्तारं दशकोटयः || १२६ || देवानां क्रीडनार्थाय प्रोच्यते तत्समन्ततः | लोकालोकस्समाख्यातः पर्वतो वृत्तरूपवान् || १२७ || सहस्रयोजनारम्भः चोच्छ्रायं लक्षयोजनम् | लोकपालाः स्थितास्तत्र सिद्धदेव समावृताः || १२८ || दुर्लभश्च सतैस्सूर्यस्त्वन्धकारस्ततः परम् | लोकालोकं समावृत्य गर्भोदधि समुद्रराट् || १२९ || गर्भोदधिं समावृत्य पार्थिवावरणं स्मृतम् | पार्थिवं तु समावृत्य तदाहं कोटिविस्तृतम् || १३० || प्. ६८७) कटराहान्महामेरुः पञ्चाशत्कोटिकः स्मृतः | दशदिक्षु समं ज्ञेयं प्रमाणं दशकोटयः || १३१ || भूलोकस्तु समाख्यातो भुवर्लोकमथ शृणु | लक्षयोजनमानेन सूर्यलोकं विधीयते || १३२ || विश्वे द्वौ वसवश्चाष्टौ रुद्रैकादशकं तथा | द्वादशादित्यंशुमाहुस्त्रयस्त्रिंशच्च देवताः || १३३ || तेपि तत्र वसन्त्येव नित्यमीश्वर सेवनात् | मेरुं प्रदक्षिणेनैव भुवर्लोकमिति स्मृतम् || १३४ || ततश्चोपरि लक्ष्ये तु चन्द्रलोकं विधीयते | चन्द्रार्धलक्षमात्रेण स्थितं नक्षत्रमण्डलम् || १३५ || प्. ६८८) लक्षद्वये बुधं विद्याद् द्विलक्षे भार्गवः स्मृतः | लक्षद्वये तु चांगारो द्विलक्षे तु बृहस्पतिः || १३६ || सौरिर्लक्षद्वये प्रोक्त उदयो लक्षयोजने | अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः || १३७ || भृग्वंगिरो मरीचिश्च ऋषयस्सप्त कीर्तिताः | उपरिष्टाद्ध्रुवः प्रोक्तश्चैक लक्षस्य योजनात् || १३८ || ग्रहाणामुपरिष्टात्तु ध्रुवान्तं सर्वमेव हि | दश पञ्चैव लक्षाणि भूपृष्ठात्तु ध्रुवान्तकम् || १३९ || ततोपरि महर्लोको द्विकोटिर्योजनं मतम् | पञ्चाशीत्यर्धलक्षाणि जनलोकः प्रकीर्तितः || १४० || प्. ६८९) अष्टकोटिस्तपोलोकः उपर्युपरि संस्थितः | द्वादशैव तथा कोटिः पञ्चाशत्कोटयः स्मृताः || १४१ || शतयोजन कोट्या वै प्रोक्तं ब्रह्माण्डधारिका | कपालीशाह्वयो बुद्धो वज्रदेहः प्रमर्दनः || १४२ || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपाः | इन्द्रस्य बलमाक्रम्य प्रभुशक्ति समन्विताः || १४३ || विचरन्ति महारुद्रा वह्निराज्ञासुपूजिताः | निर्-ऋत्यां माणवां क्रोधहत्रस्तमविलोहिता || १४४ || ऊर्ध्वलिंगो विरूपाक्षो दंष्ट्री नामफलोदयः | महाबलो महाबाहुर्धूमकेतुस्सुदंष्ट्रवान् || १४५ || प्. ६९०) निर्-ऋतेर्बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महारुद्रा राक्षसेशेन पूजिताः || १४६ || बलोप्यतिबलश्चैव पाशहस्तो महाबलः | श्वेतोथ जयभद्रश्च दीर्घबाहुर्जलान्तकः || १४७ || मेघनादस्सुनादश्च दशैते पश्चिमाश्रिताः | वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः || १४८ || विचरन्ति महादेवा वारुणेन तु पूजिताः | शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः || १४९ || पञ्चान्तकः पञ्चशिखःकपर्दी मेघवाहनः | पावनं बलमाक्रम्य प्रभुशक्तिसमन्विताः || १५० || प्. ६९१) विचरन्ति महादेवा वायुराजेन पूजिताः | विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः || १५१ || सुरेश्वरश्च सर्वेशो भूतपालो बलिप्रियः | सुखदो दुष्कृतश्चैव दशैते तु समासतः || १५२ || ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा ईशानेन सुपूजिताः || १५३ || विषो वृषधरोरन्तकोसेशस्वखिमाशनः | भूतरो कुम्भरश्चैव फणीन्द्रो वज्रदंष्ट्रकः || १५४ || अधोभागेऽपि विष्णोश्च बलमाक्रम्य सुस्थिताः | विचरन्ति महादेवा ईशानेन सुपूजिताः || १५५ || प्. ६९२) शम्भुर्विभुर्गुणाध्यक्षः त्र्यक्षस्त्रिदशकादितः | संवाहश्च विवाहश्च नभोलिप्सुर्विचक्षणः || १५६ || वीरभद्रादयो देवा दशनन्दिन्प्रकीर्तिताः | ऊर्ध्वेपि ब्रह्मणोप्याथ आक्रम्य प्रभुशक्तिभिः || १५७ || विचरन्ति महादेवा ब्रह्मणा च सुपूजिताः | उक्तं च पृथ्वीतत्वज्ञमाप्यते त्वमथ शृणु || १५८ || ब्रह्माण्डोपरि तोयाख्यं तत्वं दशगुणावृतम् | विपदं रुद्रकोटीरविमुक्तं च महाबलम् || १५९ || गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुरुद्रकम् | पवित्राष्टकमेवं हि व्योमावरणमाश्रितम् || १६० || प्. ६९३) तन्मध्ये चाष्टहंकार प्रकृतिं दशगुणेन तु | छगलण्डद्विरण्डं च मोकोटं मुण्डकेश्वरम् || १६१ || कालाञ्चनं शंकुकण्ठं स्थूलशं च स्थलेशतम् | स्थानाष्टकमिदं विद्यात् पूर्वाद्यैशानमन्तकम् || १६२ || श्वेतं गुह्याष्टकं प्रोक्तं रक्तं गुह्यतमं भवेत् | गुह्याद्गुह्याष्टकं कृष्णं पवित्रं चापि धूम्रकम् || १६३ || शुद्धस्फटिकसंकाशं स्थानमष्टकमीरितम् | एवं पञ्चाष्टकं प्रोक्तं कल्पनाभिमस्तु पार्थिवै || १६४ || स्वयमेव यदन्येषु वादिष्वेव च पञ्चसु | प्लक्षाकारं तु भुवनं भुवनेशैर्नियामितम् || १६५ || प्. ६९४) एवं श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तितम् | अत ऊर्ध्वं भवेद्बुद्धिर्भवेद्दशगुणावृता || १६६ || पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च | सौम्यं प्राजेश्वरं ब्राह्म्यं देवयोन्यष्टकं स्मृतम् || १६ || एतत्पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् | स्थानान्युक्तानि सर्वाणि सर्वैश्वर्ययुतानि च || १६८ || गुणावरणमूर्ध्वे तु बुद्धेर्दश गुणाः स्मृताः | अकृतं च कृतं चैव भैरवं ब्राह्ममेव च || १६९ || वैष्णवं त्वथ कौमारं औमं श्रीकण्ठमेव च | प्रोक्तं याम्यष्टकं ह्येवं गुणावरणमाश्रितम् || १७० || प्. ६९५) योगेश्वरेषु यो भक्तो योगं युज्यति तत्परः | तेषां स्थानानि दिव्यानि क्रमाद्गच्छन्ति योगिनः || १७१ || अस्यारिपतमूर्ध्वे तु स्थितं दशगुणावृतम् | गोकर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणु रुद्रकम् || १७२ || पवित्राष्टकमेवं हि व्योमावरणमाश्रितम् | क्रोधेशश्चण्ड संवर्तो ज्योतिः पिंगलसूरगः || १७३ || पञ्चान्तकैकवीरश्च शिवेन सहितेश्वराः | महादेवाष्टकं ह्येवं अव्यक्तावरणास्थिताः || १७४ || अव्यक्तं प्रकृतिश्चैव प्रधानं च इहोच्यते | रुद्रः पिंगो गणेशानो भुवनेशपुरस्सराः || १७५ || प्. ६९६) अंगुष्ठमात्रास्ते देवास्संगुष्ठाच्छिवसंज्ञकाः | कामक्रोधविनिर्मुक्ताः परमेश्वरभावकाः || १७६ || तत्रैव पुरुषा ज्ञेया रागाख्यावरणाश्रिताः | षट्कौशिकानि भूतानां विषयाणीन्द्रियाणि वै || १७७ || मनोबुद्धिरहंकारः त्रिगुणाश्च विशेषतः | एतैर्युक्तैस्तु पुरुषो रागतत्वे व्यवस्थितः || १७८ || विद्यातत्वं तदूर्ध्वं च रागाच्छतगुणं भवेत् | वामदेवोऽथ भीमश्च उग्रश्चैव भवस्तथा || १७९ || शर्वेशानौ च वीरश्च ईश्वरश्च प्रचण्डधृक् | ईश्वरो वाप्युमाभर्ता गिरिशोऽनन्त एव च || १८० || प्. ६९७) * * न्येकशिवश्चैव विद्यावरणमाश्रिताः | कलातत्वं भवेदूर्ध्वं विद्यायां तत्ततोधिकम् || १८१ || वामो ज्येष्ठश्च रौद्रश्च कालश्चैव कलस्तथा | कलविकरणो बलविकरणो बलप्रमथन एव च || १८२ || सर्वभूतदमनश्च मनोन्मनस एव च | दशरुद्राः स्थिता ह्येते विग्रहेशान च स्मृताः || १८३ || अत ऊर्ध्वं नियत्याख्यं कलाशतगुणाधिकम् | उच्छुष्णांश्चम्बरश्चण्डो मातंगो घोररूपकाः || १८४ || यामोद्यषण्डभाचर्याः येत्याव * * * * ताः | निवृत्त्या शतगुणं कालं कालतत्वे व्यवस्थिताः || १८५ || प्. ६९८) हालाहलश्च क्रोडश्च वाडवाख्यास्तृतीयकाः | स्थूलरुद्रो पटरुद्रो रुद्रो गुर्वलयस्तथा || १८६ || एते षट् कालतत्वे तु संस्थिता बाहुला मताः | कालोर्ध्वशतगुणं चैव मायातत्वमिहोच्यते || १८७ || संपुट द्वितयामासरुद्राश्चैकादश स्थिताः | अधश्च संपुटा विद्या द्रवोर्ध्वं संपुटा पुरा || १८८ || अहरीशस्तथाध्यक्षः तथा हरिप्रभुः स्मृतः | दशोशानस्तथा चैव प्रबलो गोपतिस्तथा || १८९ || अथो मायापुटस्थां तु षडृवास्ते प्रकीर्तिताः | क्षेमीशो ब्रह्मधामीश विद्येशास्तु तथैव च || १९० || प्. ६९९) विश्वेश्वरश्शिवश्चैव अनन्तस्तु षडेव हि | ऊर्ध्वमायापुटस्थास्तु रुद्रास्ते विप्रकीर्तिताः || १९१ || तेषां मध्ये च भगवान् अनन्तेशो जगत्पतिः | भावयित्वाद्यचोत्पत्तिं कुरुते स्वेच्छया प्रभुः || १९२ || मायाद्यवनिपर्यन्तं ये रुद्रास्संस्थिताः क्रमात् | भुज्यन्ते तत्र तत्रैव भोगाः प्रमुदितात्मना || १९३ || तस्याननं समाश्रित्य शिवतत्वं समाश्रयेत् | मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं शृणु || १९४ || मायोर्ध्वं तु भवेदात्मा स्थितः शतगुणेन तु | तदात्माविधयश्शुद्धा संज्ञाः क्रत्वादिभिर्गणैः || १९५ || प्. ७००) जगद्बीजमिदं ज्ञेयं शिवव्यक्तिकराय च | अर्थपञ्चकनिर्मुक्तः पुरुषो स्यात्मकस्तथा || १९६ || शिवप्रकाशनिर्मुक्तमात्मतत्व मुदीरितम् | मायाद्यवनिपर्यन्तं जीवभूतश्शिवेच्छया || १९७ || आदितत्वमिदं प्रोक्तं विद्यातत्वमथ शृणु | आत्मतत्वात्तु साहस्रं विद्यातत्वं प्रकीर्तितम् || १९८ || ऐश्वरं तत्वमूर्ध्वं तु सर्वतत्वोपरि स्थितम् | न शिवेन विना शक्तिः न शक्तिरहितश्शिवः || १९९ || पृथ्वी जलं च वह्निश्च वायुराकाशमेव च | अहंकारस्तथा बुद्धिर्गणमव्यक्तमेव च || २०० || प्. ७०१) रागतत्वं ततस्तस्मिन् दशपञ्चेन्द्रियाणि च | विद्याकला च नियतिः कालतत्वमनन्तरम् || २०१ || मायातत्वमतश्चोर्ध्वं कालतत्वमनन्तरम् | शुद्धविद्या तदूर्ध्वे तु ऐशं तत्तत्वमिश्रितम् || २०२ || सादाख्यं बिन्दुनादश्च शक्तितत्वमतः परम् | शिवतत्वं परं प्रोक्तं षट्त्रिंशत्तत्वमुत्तमम् || २०३ || षट्त्रिंशानि च तत्वानि शिवतत्वोद्भवानि तु | एतान्युक्तानि तत्वानि पञ्चतत्वे स्थितानि तु || २०४ || ब्रह्माण्डं पृथिवि ज्ञेयं प्रकृत्यान्तं जलं स्थितम् | तेजो विद्यान्तमेवं हि वायुरीश्वरतत्वयुक् || २०५ || प्. ७०२) व्योमशक्त्यन्तमेषां वै व्योमतत्वञ्च संस्थितिः | निवृत्तिः पृथिवीज्ञेया प्रतिष्ठा च जलं भवेत् || २०६ || विद्यातेजश्च निर्दिष्टः समायुक्तस्तथैव च | अतीता शान्तिर्व्योमेति कलाः पञ्च प्रतिष्ठिताः || २०७ || इच्छाशक्ति समुद्भूताः सर्वभूतस्य धारकाः | पृथिव्याद्यात्मतत्वान्तं आत्मतत्वमुदीरितम् || २०८ || विद्यातत्वादि शक्त्यन्तं विद्यातत्वमुदीरितम् | तस्योर्ध्वं शिवतत्वं तु तत्वत्रयमुदीरितम् || २०९ || पृथिव्यादीनि मायान्तं मायातत्वमुदीरितम् | आत्मैव चात्मतत्वं स्यात् सर्वतत्व प्रभुस्ततः || २१० || प्. ७०३) विद्यादि शिवतत्वान्तं शिवतत्वं परात्परम् | प्रकृतिः पुरुषश्चैव ईश्वरश्च त्रिधा भवेत् || २११ || माया प्रकृतिरित्युक्ता आत्मानं पुरुषं त्विति | विद्यातत्वादितत्सर्वमैश्वरं तत्वमुत्तमम् || २१२ || तेषु रुद्रैश्च मध्यादेस्तत्वार्धेति प्रकीर्तितम् | कलापञ्चक संयुक्तिरध्वनां पञ्चके तव || २१३ || कलाध्वेति समुद्दिष्टमध्वनां त्रयमीरितम् | एतस्मिन्नेव भूतानां वर्णा लवरदा स्मृताः || २१४ || लकारः पृथिवी ज्ञेयः वकरोजल मुच्यते | रेफो हि वह्निसंयुक्तो यकारो वायुरेव च || २१५ || प्. ७०४) हकरो व्योमवर्णः स्यात् एवं पञ्चाक्षरं भवेत् | वर्णानां कलया सार्धं वर्णाध्वा ध्यानतो भवेत् || २१६ || वर्णात्पदाध्वकोत्पत्तिः पदाध्वानं शृणु क्रमात् | भावोद्भावोद्भवश्शर्वस्सर्वभूतसुखप्रदः || २१७ || सर्वसाध्यैककरणं ब्रह्मविष्णुरुद्रार्चितः | अस्तुतत्पूर्व स्थितः | साक्षिसाक्षि | ऋतु ऋतु || २१८ || पतंग पतंग | पिम्.ग पिंग | ज्ञान ज्ञान | शब्द सब्द | सूक्ष्म सूक्ष्म | शिव शिव | ओं नमः | शिवाय नमोनमः || २१९ || निवृत्तेश्च वदत्वेवमष्टाविंशतिना वदेत् | व्यापिन् व्यापिन् | अरूपारूप | प्रथम प्रथम || २२० || प्. ७०५) तेजस्तेज | ज्योतिर्ज्योति | रूप | अथं | अस्मभवं अनादे | ना ना ना ना | धू धू | ओं भूः ओं भुवः || २२१ || अनिधन अनिधन | निधनोद्भव | शिव शिव | परमात्मन् महेश्वर महेश्वर | महादेव महेश्वर || २२२ || महातेज | योगाधि पतये मुञ्च मुञ्च | प्रथम प्रथम | शिवश्शर्वेति | | २२३ || द्वात्रिंशत्पद संयुक्तां प्रतिष्ठा च विशेषतः | ओं नमश्शिवाय सर्वप्रभवे ईशानमूर्धाय || २२४ || तत्पुरुषवक्त्राय अघोरहृदयाय वामदेव | गुह्याय सद्योजातमूर्तये ओं नमोनमः || २२५ || प्. ७०६) गुह्याति गुह्यगोप्त्रे अनिधन एकविंशतिः | विद्यायाः पदान्युक्तानि * * * * * * तत्र वै || २२६ || ओं व्योमव्यापिने व्योमरूपाय सर्वव्यापिने | ओं शिवाय अनन्ताय अनाथाय | अनाश्रिताय || २२७ || शालाथा च योगपीठसंस्थिताय नित्ययोगिने श्यानाहाराय || २२८ || एवं द्वादशकं प्रोक्तं शान्त्ययोग विशेषतः | ओमित्येक पदं नित्यं शान्त्यतीत कलापदम् || २२९ || चतुर्णवति संयुक्तं पदाध्वा रत्नगर्भकम् | वक्ष्यते तत्र तत्राध्वा ईशानादि शिवान्तकम् || २३० || प्. ७०७) ईशानः पुरुषश्चैव अघोरो वामदेवयुक् | सद्यमित्येव मुक्तं स्यात्पद्मब्रह्मपरं मतम् || २३१ || शान्त्यतीतादि पृथ्व्यन्तं एकैकं मन्त्रमुच्चरेत् | हृदयं च शिरश्चैव शिखा कवचमेव च || २३२ || नेत्रत्रयं च तत्रैव षडध्वा च भवेत्तदा | नेत्रं विदान्निवृत्त्यादि शान्त्यतीतशिवान्तकम् || २३३ || मूलमन्त्रं शिवं प्रोक्तं मन्त्राध्वा संयुतं परम् | कलानां वक्ष्यते तत्र निवृत्त्याद्याश्च पञ्च च || २३४ || निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च | एताः पञ्च कलाः प्रोक्ताः पञ्चब्रह्मकलाः पुनः || २३५ || प्. ७०८) * * * चांगदा ज्येष्ठा मरीचिर्ज्वालिनी तथा | ईशानस्य कलाः पञ्च प्रोक्तास्तत्पुत्रवा पुनः || २३६ || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | पुरुषस्य कलाश्चापि चतस्त्र इति कीर्तितः || २३७ || तमो मोहाक्षया निष्ठा मृत्युर्मायामया तथा | जरा चैवाष्टमी विद्या अघोरस्येतिताः स्मृताः || २३८ || लाक्षा ज्येष्ठा च रक्षा च रुद्रका च कपालिनी | कलकामविकरणा स्वयमी तु परिक्रिया || २३९ || विकरणा च कार्या च भ्रामणी मोहिनी तथा | वामदेवकलाश्चापि त्रयोदशकमीरितम् || २४० || प्. ७०९) वृद्धि-ऋद्धिर्द्युतिर्लक्ष्मीः मेधा कान्तिः स्वरा धृतिः | सद्योजात कलाश्चाष्टौ अष्टत्रिंशदुदीरिताः || २४१ || कलाध्वा चैव मुक्तस्तु चैवं षडध्व निर्णयम् | षडध्वभिश्च मार्गेऽस्मिन्विशत्येव शिवं परम् || २४२ || एवं षडध्व विज्ञप्तिर्यस्य सा पाशहा भवेत् | इत्यचिन्त्य विश्वसादाख्ये (षडध्वनिर्णयः) अष्टत्रिंशत्पटलः || अतः परं प्रवक्ष्यामि दीक्षां विज्ञान संयुतम् | विशेषज्ञान पूर्वत्वात् विचित्रत्वाद्विजृम्भणात् || १ || विज्ञान दीक्षा सा प्रोक्ता दीक्षाणामुत्तमोत्तमा | मन्त्रहीन क्रियाहीन ध्यानहीनादिदीक्षिते || २ || प्. ७१०) परिपूर्णत्व सिद्धत्वात् दीक्षाणां तु पवित्रिणी | दीक्षाय तच्छिवत्वं हि क्षीयते सर्वसंशयः || ३ || एवं विशिष्ट रूपत्वात् विज्ञानाख्येति कीर्तितः | अत्यन्त भक्तिसंयुक्तं गुरुदर्शनमात्रतः || ४ || रोमाञ्चित शरीरं च आनन्दाश्रुविलोचनम् | सर्वदा श्रवणोत्कण्ठं सर्वदा श्रवणोन्मुखम् || ५ || सर्वदा गुरुशुश्रूषा वाञ्च्छायुक्तमलोलुपम् | आज्ञापालन संयुक्तं सुखं वा दुःखमेव वा || ६ || अस्वातन्त्र्यं च तद्देहे कौलालिक मृदादिवत् | समुद्रपतने चैव जाह्नव्यां पतनेऽपि वा || ७ || प्. ७११) व्याघ्रसर्पादिपतनेऽप्याज्ञा चेदविचारणः | सर्वस्वं जलधौ क्षिप्तं इति चेत्तेन भावितम् || ८ || तत्कार्ये तु प्रवीणत्वं कर्तव्यानितरां सदा | भूमौ निक्षिप्य वित्तादी ननु वा ज्ञानमार्गणम् || ९ || मातरं पितरं पुत्रं भ्रातॄन्जायामशेषतः | विसर्जने चेत्तच्चित्तं तद्विसर्जनवल्लभम् || १० || विवर्जितानां सर्वेषां स्वीकारं गुरुणोदितम् | तत्राविचार्य दीक्षान्तं एवमादिषु सर्वदा || ११ || पूर्वोक्तदीक्षासंयुक्तं शिष्यं विज्ञानदीक्षया | दीक्षयेत्कृपया पूर्णो गुरुस्सन्मार्गनायकः || १२ || प्. ७१२) मनोव्यापारमात्रेण दीक्षया विद्यते क्रमात् | सा दीक्षा ज्ञानदीक्षा तु विज्ञानाख्या च वै भवेत् || १३ || मनोरम्ये शुभे देशे मनोरम्ये तु कालके | मनोरम्याखवस्थासु उभयोस्सुखसाम्ययोः || १४ || तदानीमेव सा दीक्षा सर्वसंसारनाशिनी | पञ्चाधार स्थितश्चापि गुरुदेहे व्यवस्थितः || १५ || गुर्वध्वमण्डले चैव गुरुमण्डलमुत्तमम् | सर्वसाक्षिमयं तत्तु शिवं परमकारणम् || १६ || पश्चाद्गुरुप्रसादेन मन्त्रन्यासादि पूर्ववत् | गुरोः पाणितले चैव स्थितं सकलतीर्थकम् || १७ || प्. ७१३) अंगुष्ठमूले ब्राह्म्यं हि कराग्रे देवमन्त्रयोः | देवर्षिभिस्तु संसेव्यं अंगुलीपर्वसन्धिजम् || १८ || मनुष्याणामृषीणां च कनिष्ठामूलतीर्थकम् | हस्तमूले तु भूतानां तीर्थमित्यभिधीयते || १९ || तर्जन्यंगुष्ठयोर्मध्ये पितृतीर्थं व्यवस्थितम् | सप्ततीर्थं च तद्धस्ते विद्यमानं विभावयेत् || २० || बिन्दुरूपाणि तीर्थानि भावयित्वा विचक्षणः | तस्य दक्षिण हस्तेन शिवमन्त्रेण व्यापितम् || २१ || वामं तु शक्तिमन्त्रेण व्यापितं भावयेद्गुरुः | गन्धैः पुष्पैश्च धूपैश्च दीपैश्शिष्यं च कारयेत् || २२ || प्. ७१४) सुखासने समावेश्य तद्दृष्टिगतमानसः | एवं विधो भवेच्छिष्यो भवेद्गुरुरनन्तरम् || २३ || मूलाधाराग्नि कुण्डोत्थं शिवाग्निं भावयेत्तदा | आज्ञाध्वाने च सर्पींषि चन्द्रमण्डलगां सुधाम् || २४ || शिवमण्डलके चैव स्रुवाग्निं स्थाप्य देशिकः | मनस्स्रुक् बुद्धिस्रुवं च समिधश्च कलास्तथा || २५ || मूलकुण्डलिना बाहुलतामुद्यम्य चोर्ध्वतः | इडां च पिंगलां चापि सोमसूर्यं च भावयेत् || २६ || नादस्वरूपदर्भेण चाज्यशुद्धिं विधाय च | पूर्वमेवाग्नि सिद्धत्वाद् विना चाग्निमुखं तथा || २७ || प्. ७१५) तारशक्यं जपित्वान्ते शिवं चाप्यन्यसंपुटम् | पुष्पान्तं मन्त्रमेवं स्यात् ज्ञानाहुतीरनुत्तमाः || २८ || ओं हं सं सें सूर्यस्सोहमीशान तत्पुरुषाभ्यां | सो हं हौं स्वाहा | ओं ह्रीं हंसः ओं || २९ || पिंगलानाडिमार्गेण मूलाधारे च होमयेत् | ओं ह्रीं हंसः ओं हां ईश्वरमयस्सोहं हौं स्वाहा || ३० || इडया च हुनेत्पश्चान् मूलाधारे च होमयेत् | ओं ह्रीं हंसः सूर्यसोमाग्निस्सोहं हौं स्वाहा || ३१ || ओं ह्रीं हंसः हुं अघोरस्सोहं हुं स्वाहा | ओं ह्रीं हंसः तत्पुरुषाभ्यां सोहं स्वाहा || ३२ || प्. ७१६) ओं ह्रीं हंसः हिं वामदेवस्सोहं हौं स्वाहा | ओं ह्रीं हंसः अघोरवामदेवाभ्यां सौं हौं स्वाहा || ३३ || ओं ह्रीं हंसः सं सद्योजाताय सोहं सौं स्वाहा | ओं ह्रीं हंसः शान्तिकलायै सोहं हौं स्वाहा || ३४ || ओं ह्री. हंसः | सद्योजातवामदेवाघोर तत्पुरुषेशानेभ्यः स्वाहा || ३५ || एवं विधैश्च मन्त्रैस्तु एकीकृत्य तु होमयेत् | ओं ह्रीं हंसस्सोहं हौं स्वाहा || ३६ || अनेनैव तु मन्त्रेण तृप्त्यन्तं होममाचरेत् | दशांशमंगमन्त्रेण होमयेन्नन्दिकेश्वर || ३७ || प्. ७१७) ओं ह्रीं हंसः निवृत्तिकलायै सोहं हैं स्वाहा | ओं हौं सोहं हैं स्वाहा | प्रतिष्ठा कलायै सोहं हौं स्वाहा || ३८ || ओं ह्रीं हंसः विद्याकलायै सोहं हौं स्वाहा | ओं ह्रीं हंसः शान्तिकलायै सोहं हौं स्वाहा || ३९ || ओं ह्रीं हंसः शान्त्यतीतकलायै सोहं हौं स्वाहा | वागीश्वर्यास्तु बीजैश्च होमयेन्नन्दिकेश्वर || ४० || प्रासादेन तु मन्त्रेण पूर्णाहुतिमथाचरेत् | शिष्यचैतन्यमाकृष्य मूलाधारे च योजयेत् || ४१ || तस्मात्प्रदेशादाकृष्य ब्रह्मणार्घ्यं तरेत्पुनः | गुरुमण्डलमध्ये च सदानन्दा मृतोज्वले || ४२ || प्. ७१८) शिष्यात्मानं च संयोज्य क्रमात्सन्मार्गदायकः | शिवरूपमिदं ध्यात्वा पुनर्मूले च योजयेत् || ४३ || तलादि सर्वलोकान्तं शिवनामानि होमयेत् | मायादिभूमिपर्यन्तं एकत्रिंशच्च तत्वकम् || ४४ || अकारादि क्षकारान्तं अक्षराणां च होमकम् | विलोमेन च तत्सर्वं प्रत्येकं होममाचरेत् || ४५ || भवादि प्रणवान्तं च चतुष्षण्णवतीपदम् | ओं ह्रीं हंसः भवस्सोहं हौं स्वाहा || ४६ || ओं ह्रीं हंसः भवोद्भवस्सोहं हौं स्वाहा | इत्येवमादिहोमं च मनसा जुहुयाद्गुरुः || ४७ || प्. ७१९) निवृत्त्यादिकलाश्चैव होमयेन्नन्दिकेश्वर | पूर्णाहुतीश्शिवेनैव होमयेच्छिवभाविताः || ४८ || नेत्रत्रयं गुरुस्साक्षात् कृपानन्दोज्वलाकृतिः | शिवशक्त्यात्मकं बुध्वा शिष्यदेहं निरीक्षयेत् || ४९ || सन्ततं शिवयागार्थं अजपामन्त्रसंज्ञितम् | चन्द्रार्कनाशनं चापि सततं योगवर्धनम् || ५० || जाग्रतः स्वपतो विद्धि तिष्ठतश्च गमागमे | सन्ततं शिवयागं च नित्यं तिष्ठति तिष्ठति || ५१ || शिष्य चैतन्यमादाय गुरुमण्डलमध्यमे | संयोज्य तत्र संलीनं शिवं शिष्यं च भावयेत् || ५२ || प्. ७२०) शिष्यदेहे च संयोज्य शिवमूर्तिं च भावयेत् | संहारक्रममारभ्य षडध्वानो विशेषतः || ५३ || सर्वं शिवेति लीनं च कुर्यात्सन्मार्गनायकः | वाच्यवाचकशून्यं तु मनोवाचामगोचरम् || ५४ || अप्रमेयमसादिभ्यमप्रपञ्चमलक्षणम् | आद्यन्त शून्यं कैवल्यमसंज्ञमनन्तकम् || ५५ || परात्परं मृत्युमानं द्वैताद्वैत विवर्जितम् | एवं ध्यात्वा महाज्ञानी शिष्यमालिंग्य निर्भरम् || ५६ || तन्मूर्ध्न्याधाय यत्काले अखण्डितवपुः स्मरेत् | आनन्दस्तस्य तत्रैव जायते च न संशयः || ५७ || प्. ७२१) कम्पः स्वेदश्च पुलकः सर्वज्ञानस्य चोदयः | संपद्यते च तत्रैव शिवरूपी विशिष्यकः || ५८ || पुष्पमाल्यं च तत्रैव स्वमूर्ध्न्याधाय निक्षिपेत् | हस्ताभ्यामभिषेकं च कुर्यात्सन्मार्गदायकः || ५९ || विज्ञान दीक्षा हीनश्चेत् कुतो मोक्षः कुतः शिवः | इत्यचिन्त्यविश्वसादाख्ये विज्ञान दीक्षाविधिरेकोन चत्वारिंशत्पटलः || समयानात्म तत्वं च शृणुत्वं नन्दिकेश्वर | शिवं परात्परं सूक्ष्ममप्रमेयमनुत्तमम् || १ || प्. ७२२) आदावभूद् द्विधाज्ञानं अधिकार विभेदतः | परात्परेण भेदेन पापेनाश्वत्थदर्शकम् || २ || शिवप्रकाशकं ज्ञानं शिवज्ञानं परं स्मृतम् | चैद्यं त्वपर विज्ञानं पशुपाशार्थ दर्शकम् || ३ || नन्दिकेश्वरः | बौद्धादिसमयाः केते तत्तद्भेदः कथं भवेत् | तत्तत्तत्वं कथं ब्रूहि तदसंकरसंकरम् || ४ || मिथ्योत्पत्तिकथां कस्मात्कथ्यतां भगवन्मम | ईश्वरः | बौद्धं च आर्हतं चैव पाञ्चरात्रं च शैवकम् || ५ || समयं चतुर्विधं स्यात्तु तत्तद्भेदस्तु वक्ष्यते | शापकं च महायानं ततः प्रत्येकनायकम् || ६ || प्. ७२३) विभज्य वैभाषिकत्वं तदन्तं बन्धभेदकम् | लोकायतं तु तत्रैव महायानानुगामि च || ७ || महायाने पूर्वपक्षं लोकायतमतो भवेत् | प्रत्येकनायके तत्र सौत्रीतिकपदाभ्रताः || ८ || योगाचारस्ततस्तस्मात् तन्त्रं च मच्युतो भवेत् | वैभाषिकस्थितिर्द्वेधा प्रत्येकं श्रवकं तथा || ९ || महायानं च तत्रैव द्विविधं परमं स्मृतम् | परमेतानशश्चेति सुमन्त्ररथ एव च || १० || परतोनयस्तत्वं * सौत्रान्तिक उदाहृतः | द्विधा मन्त्रस्थयोगाच्चरदिरे * * * व च || ११ || प्. ७२४) द्विविधस्तद्योगा च साननाश्च निराकृतिः | एवं माध्यमिका प्रोक्ता मा * षमाद्वयस्ततः || १२ || सर्वे धर्मप्रतिष्ठां हि वादिनस्ते प्रकीर्तिताः | बौद्धभेदस्थितं ज्ञेयं महाभेदमथोच्यते || १३ || लश्रावनो निष्कलंक अकलंक स्त्रिधा भवेत् | त्रिभिस्त्रिभिः प्रकर्तव्यमाश्रमं च चतुर्विधम् || १४ || गृहस्थो भिक्षुकश्चैव ब्रह्मचारी तथैव च | वानप्रस्थश्च इत्येते आश्रमाश्च उदाहृताः || १५ || वैष्णवं त्रिविधं प्रोक्तं तस्य भेदमथोच्यते | पञ्चरात्रं भागवतं तथा वैखानसंमतम् || १६ || प्. ७२५) इत्येवं त्रिविधं प्रोक्तं मीमांसा न्यायमेव च | वैशेषिकश्च सांख्यश्च आत्म वा इति क्रमात् || १७ || वैदिकानां च तद्भेदः प्रोक्तो वामाख्यमुच्यते | वामं तु त्रिविधं प्रोक्तमनादिः पूर्वपश्चिमम् || १८ || चतुर्विधं दक्षिणं स्यान्महाव्रतमतः परम् | कालामुखं च कापालं तद्वत्पाशुपतं भवेत् || १९ || शैवश्चतुर्विधः प्रोक्तः सिद्धान्तं द्विविधं भवेत् | कर्मान्तमेवं ज्ञानान्तं ज्ञानमूर्ध्वं परं स्मृतम् || २० || चर्या चैव क्रियायोगः कर्मणां साधनं भवेत् | चर्याक्रिया योगयुक्तं ज्ञानं चैव भवेत्तदा || २१ || प्. ७२६) शक्तिश्शिवश्च सादाख्यं मन्त्रः प्राधान्यकात्मकः | समाप्तकलुषत्वं च मुक्तिस्तत्रैव चोच्यते || २२ || कर्मावरणमेवं स्यात् तस्योर्ध्वे तु निरावृतम् | बिन्दुर्नादश्च शक्तिश्च परश्चैव परात्परम् || २३ || ब्रह्मप्राप्त्यवधिश्चैव आत्मानन्दसुखं भवेत् | निरावरणमेवं तु शैवभेदस्तथोत्तरः || २४ || एतेषामेकहोमत्वान् न दोषाय तु संकरः | एवंभूत विशेषोऽस्ति तद्विशेषं शृणुष्व तत् || २५ || शिव सामान्यता रूपं शिवविग्रहमेव हि | विरागमार्हतं चैव अव्यक्ताद्विस्मृतं परम् || २६ || प्. ७२७) ऐश्वर्यानन्दसंप्राप्तिः पंचरात्रादिभेदकम् | शैवं परात्परं ज्ञेयं सर्वतत्वैकनायकम् || २७ || सर्वमन्त्रमयं ज्ञेयं सर्वदेवमयं भवेत् | जन्मान्तरतपोभिश्च सन्मार्गज्ञान संभवम् || २८ || न लंघयेत्तु गुर्वाज्ञां मनोवाक्कायकर्मभिः | लंघने नरकं चैव ज्ञानचोरस्तथैव च || २९ || तस्मात्सर्व प्रयत्नेन गुर्वाज्ञां न च लंघयेत् | गुर्वाराधननिष्ठस्य कर्तृज्ञानं स्फुटं भवेत् || ३० || सप्तत्वात्संभवत्वाच्च तत्वमित्यभिधीयते | देहयुक्तस्य तत्सिद्धिर्देहान्तेपि च तस्य वै || ३१ || प्. ७२८) देहयुक्तो लभेज्ज्ञानं सिद्धिर्देह विवर्जिता | नानाविधैरुपायैश्च वासनानां च वर्धनम् || ३२ || अवश्यकरणीयं च स शिवो नन्दिकेश्वर | शैव सिद्धान्तयुक्तस्य संज्ञां वक्ष्ये शृणुष्व तत् || ३३ || मठं वृक्षश्च गोत्रं च गोचरं च तथैव च | पूजनापञ्चकं वापि कर्मावरण युक्तके || ३४ || मुखन्देवं मठश्चापि दर्शनं वासनं तथा | पञ्चतत्वं गुहां वापि वृक्षं च वनमेव च || ३५ || गोत्रगोचरसन्तानद्वादशज्ञानकं भवेत् | ज्ञानाचरणकं त्वैवं नास्य नाम पृथक् पृथक् || ३६ || प्. ७२९) मुखमीशानकं चापि दैवं शिवमिहोदितम् | मठं ब्रह्म च विख्यातं सन्मार्गं दर्शनं भवेत् || ३७ || ज्ञानादित्रयमित्याहुरावासापर्वतं तथा | मनोभंगाख्यमतुलं सिद्धिमन्त्रं गुहां तथा || ३८ || जगद्धक्षोवनं भूतं श्रोत्रं शुद्धसुगत्वमे | गोचरं शिवमन्त्रं तु सन्तानं तन्मयं भवेत् || ३९ || एवमादींश्च संज्ञात्वा सत्पुत्राय परं पराम् | बोधयेत्सर्वविज्ञानमनेनैव विचारणात् || ४० || इत्यचिन्त्यविश्वसादाख्ये समयलक्षणविधिश्चत्वारिंशत्पटलः || प्. ७३०) अथ वक्ष्ये विशेषेण रत्नगर्भाभिरक्षितुम् | विप्रादिषु चतुर्ष्वेवमभिषेकं तु षट्सु च || १ || एतेषां दशजातीनां आचार्यत्वं विधीयते | लोकानुष्ठान संवादो जातिभेदश्च निर्णयेत् || २ || जात्याचारेण चान्येषां पावनासन गौरवात् | दशदीक्षान्न जातीनामभिषेकं न कारयेत् || ३ || यदि नाम न वैक्ष्यैव शिवाग्नि विधिरीरितः | तस्माद्यतेश्च कर्तव्यं शैवमार्गे विशेषतः || ४ || आचार्याणां च मध्ये वै यतीनां किंचि दन्तरम् | परहंसयतीनां च तपस्सन्यासिनां च यत् || ५ || प्. ७३१) अनयोरग्निकार्येषु योगत्वन्न विधीयते | होमं विना तयोरेवमभिषेकं विधीयते || ६ || पूर्वोक्तगुण संयुक्तं पूर्वदीक्षा समन्वितम् | श्रुतज्ञानोप संयुक्तमाचार्यगुण संयुतम् || ७ || तमुद्दिश्याभिषेकं च विदध्याद्देशिकोत्तमः | सर्वे संपूर्णवत्पूज्या मण्डपादिश्च पूर्ववत् || ८ || स्थण्डिलोपरिकुम्भाश्च अधमे शिवकुम्भकम् | वर्धनीं तस्य वामेन विन्यसेच्छक्ति संयुतः || ९ || विद्येशानष्टकुम्भेषु तस्य बाह्ये तु विन्यसेत् | पञ्चाशदौषधैर्वापि दशपुष्पै * * न वा || १० || प्. ७३२) सहदेव्येक पत्रं तु भद्रं वैकंकतं तथा | विष्णुक्रान्तिश्च पञ्चैते पञ्चौषधमथापि वा || ११ || चन्दनागरुकर्पूरं ह्रीबेरं मासिरेव च | कुंकुमोशीरकन्दं च चतुर्जाति समन्वितम् || १२ || पञ्चरत्नौषधैर्युक्ता शालितण्डुलकैर्युता | शुद्धतोयेन संपूर्णान् चूतपल्लवशोभितान् || १३ || तेषु क्षारोदधिक्षीरदध्योदघृतसागराः | इक्षु साराम्बु शुद्धाम्बुगर्भोत्पन्नान्समुद्रकान् || १४ || क्रमेण बाह्ये संपूज्य चाष्टविद्येश्वरानपि | पूर्वे शिखण्डिनं चैव श्रीकण्ठोपि च कोणके || १५ || प्. ७३३) त्रिमूर्तिर्दक्षिणे भागे चैकरुद्रं तु दक्षिणे | वारुण्यामेकनेत्रं च सूक्ष्मदंष्ट्रः कृतो भवेत् || १६ || अनन्तरूपमैशान्ये मध्याद्यन्ते च विन्यसेत् | मध्ये शिवसमुद्रं च वर्धन्यां शक्तिसागरम् || १७ || निवृत्त्यादिकलाभिस्तु कुम्भैः पञ्चभिरेव च | शिववत्पूजयेत्सर्वं मूलमन्त्राष्टवाचकैः || १८ || अथ वाप्येक कुम्भेन तादृशेनाभिषेचनम् | पञ्चकुम्भेषु विद्येशान् द्वौ द्वौ कुंभे तु विन्यसेत् || १९ || समुद्राणां द्वयं चापि तद्वदेव तु विन्यसेत् | मध्ये च शिवकुम्भं च शिवाम्भोधिं तथैव च || २० || प्. ७३४) तत्पार्श्वे वर्धनीं चापि शक्त्यम्भोधि समन्वितम् | मण्डपोत्तरभागे च स्नानमण्डपमुत्तमम् || २१ || अष्टांगुलोत्थितां वेदीं द्वौ द्वौ हस्तौ च पार्श्वके | श्रीपर्णाद्यासने तत्र विन्यस्यार्चितमानसम् || २२ || शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् | कुलालोदनमृद्भस्मदूर्वागोमयगोलकैः || २३ || सिद्धार्थघृततोयैश्च कुर्यान्निर्मथनं ततः | क्षीरोदानुक्रमेणैव हृदि विद्येशमन्त्रकैः || २४ || शिष्यं तु धारकैर्मन्त्रैः कवचैरभिषेचयेत् | शुद्धवस्त्रेण संवेष्ट्य निवेश्य शिवदक्षिणे || २५ || प्. ७३५) पूर्वोक्ते चासने शिष्यं पुनः पूर्ववदाचरेत् | उष्णीषं मकुटं छत्रं पाण्डरं चामराणि वै || २६ || नैष्ठिकाचार्यवर्याय ददेत्तत्र तु भेदिके | रथाश्वगजपत्रादि करणीं कर्तरीं घटीम् || २७ || उभयोर्योग्यकं चैवमन्यत्तस्मात्तु दापयेत् | अक्षमालाकुशौ चापि स्रुक्स्रुवौ पुस्तकादि च || २८ || सन्मार्गपारगस्सोहमभिषेकोदये शिवे | तृप्तये मन्त्रजालस्य जुहुयात्पञ्च चाहुतीः || २९ || पूर्णाहुतिं तथा दद्यात् स्थापयेन्निजदक्षिणे | श्रोतव्यं च शिवज्ञानं श्रावयेच्च तदर्थितम् || ३० || प्. ७३६) पूर्वोक्तगुण संपन्ने दीक्षां शिष्ये समापयेत् | स्वल्पं जपं चाग्निकार्यं स्वल्पमग्नौ च होमयेत् || ३१ || स्वल्प ध्यानं स्वल्पमन्त्रं जपं तत्र गुरौ भवेत् | आगमानां चाध्ययनं सर्वत्रैव पुलो भवेत् || ३२ || इत्यचिन्त्यविश्वसादाख्ये रत्नगर्भविधिरेक चत्वारिंशत्पटलः || अभिषेकं साधकानां वक्ष्येऽहं नन्दिकेश्वर | पूर्ववन्मण्डपादींश्च पूजनं चाग्निकार्यकम् || १ || निवृत्त्यादिकलानां च त्रयं विद्यान्तमेव च | शान्तं समन्तमानीय शोधयेन्नन्दिकेश्वर || २ || प्. ७३७) ततः सदाशिवं ध्यात्वा मूलमन्त्रेण पूर्णया | शतं संयोज्य कुर्वीत गुणं तादृशमष्टधा || ३ || अणिमा लघिमा चेति प्राप्तिः प्राकाम्यमेव च | महिमा चेशितत्वं च वशित्वं चेच्छया यथा || ४ || कामानां च वशित्वाद्धी चाष्टैश्वर्यं त्विमानि हि | ओं हां अणिमाशक्ते भवतु स्वाहा || ५ || ओं हां आत्मन् प्राप्तिस्ते भवतु स्वाहा | एवमादि चतुर्थ्यन्तं स्वाहा युक्तेन मेलयेत् || ६ || पूर्ववद्योजनां कृत्वा स्वाहा युक्तेन होमयेत् | पूर्ववद्योजनां कृत्वा पञ्चभिः कलशैस्सह || ७ || प्. ७३८) कुतषञ्चस्सह ध्यात्वा मन्त्रमन्त्रसमन्वितैः | मूलमन्त्रेण होतव्यमष्टोत्तरशतं क्रमात् || ८ || तदन्ते शान्तिकुम्भेन पञ्चमेनाभिषेचयेत् | पूर्वादिदिक् समुद्राणां कलशैरभिषेचयेत् || ९ || उदङ्मुखासनस्थाय रेचकोद्भव मुद्रया | पीयूषवर्षबुध्या तु साधकं चाभिषेचयेत् || १० || साध्यमन्त्रशताहुत्या तैस्सप्तभिरभिषेचनम् | शम्भोर्दक्षिणभागेऽपि निवेश्य सकलीं प्रियाम् || ११ || पूर्ववत्तस्य वै कुर्याद् उष्णीषं कर्तरीमपि | अधिकारं च तत्रैव दापयेन्नन्दिकेश्वर || १२ || प्. ७३९) सतारं साध्यमन्त्रं च समुच्चार्याथ देशिकः | रेचकेन यथा दद्यात् पुष्पादि युतमञ्जलौ || १३ || महाप्रसाद इत्युक्तां शरदिन्दुसमुज्वलाम् | हृत्पद्मे पुरकोणैव साधके सन्निवेशयेत् || १४ || साध्यमन्त्राणि संहृत्य पावके भावसंयुतः | दक्षिणे मण्डलादीनां मातृकाम्बुजमर्चयेत् || १५ || तन्मध्ये साध्यमन्त्राणि पूजयेन्नन्दिकेश्वर | गुरोराज्ञां समासाद्य प्राणायामं क्रमात्पुनः || १६ || सुलग्ने शोभने काले मन्त्रसंरोधनं भवेत् | योगीत्यणिमादिसिध्यर्थं घृतस्य पयसोऽथवा || १७ || प्. ७४०) सद्गुरुश्चैव साहस्रं शतं वा होममारभेत् | त्रिणयनागमार्थ्यादि पारंपर्यक्रमानुगमम् || १८ || सद्गुरोरुपदेशेन सर्वं सिध्यति तत्क्षणात् | इत्यचिन्त्य विश्वसादाख्ये साधकाभिषेक विधिस्त्रिचत्वारिंशत्पटलः || अथ वक्ष्ये विशेषेण चास्त्रेणैवा भिषेचनम् | भूभुजानान्नराणां च वन्ध्यादीनां च योषिताम् || १ || महा ना यन्त्रितानां सद्यः शान्तिप्रदं शुभम् | सौभाग्यलक्ष्मीविजय काम्यधर्मादि सिद्धिदम् || २ || ओं श्रीं पूर्वमुच्चार्य फं ग्रन्थिं हुं फण्णमः | ओं हृदयाय हुं फण्णमः | ओं श्रीं श्लीं शिरसे हंफण्णमः || ३ || प्. ७४१) ओं श्रीं कवचाय हुंफण्णमः ओं हुं नेत्रेभ्यो हुं फण्णमः | मन्त्रं सकृत्समुच्चार्य शरीरे विन्यसेद्गुरुः || ४ || ओं अंगादिविन्यसेत् पंच ओंकारादिनमोन्तकम् | पद्ममष्टदलैर्युक्तं कृत्वा चास्त्रं समुच्चरेत् || ५ || चतुरश्रे मण्डले वा पद्ममण्डलितेऽपि वा | तारासनस्थदेवेशं दशबाहुसमन्वितम् || ६ || पञ्चवक्त्रयुतं चैव दशश्रोत्र समन्वितम् | अर्घ्यं प्रति त्रिणयनं जटामकुट संयुतम् || ७ || दंष्ट्राकरालमत्युग्रं महानादं महाबलम् | जिह्वाभिर्लेलिहानं तं सूर्यकोट्ययुतप्रभम् || ८ || प्. ७४२) एवं पाशुपतं चास्त्रं विघ्नसंघातनाशनम् | अणिमामध्यमासीनं पूजयेत्परमेश्वरम् || ९ || लक्षमन्त्रस्य जपतः संसिद्धिर्भवति ध्रुवम् | अथवा जपमात्रेण सिद्धं कार्यं ततः शृणु || १० || मारणादिषु कार्येषु बिन्दुनादविहीनकम् | भुक्तिमुक्त्योश्च संसिद्धिर्बिन्दुनाद समन्वितम् || ११ || प्रणवं वह्निपित्रेऽपि श्रीकारं चैवकेदले | पकारं नै-ऋते भागे श्रीकारं वायुगोचरे || १२ || देवनेत्रेषु हुंकारं फट्कारं सोमदिग्दले | एवं विन्यस्य संपूज्य विधिना होममादिशेत् || १३ || प्. ७४३) वह्नौ तु संस्कृते तत्र नवात्मा भुक्तिभिस्ततः | मधुत्रयैर्होमकार्यं मन्त्रराजाय वै भवेत् || १४ || अष्टाधिकशतं तत्र होमं कुर्यात्प्रयत्नतः | तथाविधिं विधानेन पुर्वं कलशपूरणम् || १५ || प्रणवासनं च संपूज्य पूर्ववन्नन्दिकेश्वर | अष्टोर्ध्वशतमन्त्रेण पूजयेदस्त्रराजकम् || १६ || पूर्ववत्कलशेनैव स्नापयेच्छिष्यमूर्धनि | वेदघोषैश्च वादित्रैः स्तोत्रैर्मंगलवाचकैः || १७ || बहुशिष्यादि वस्त्रादीन् हेमरत्नादिभूषणम् | देशिकाय पुरस्कृत्य दद्यात्प्रीत्यर्थ सिद्धये || १८ || प्. ७४४) एवं अस्त्राभिषेकश्च महापापौघनाशनः || १८ १/२ || इत्यचिन्त्यविश्वसादाख्ये अस्त्राभिषेकविधिः चतुश्चत्वारिंशत्पटलः || अमृताभिषेकं वक्ष्यामि शृणुत्वं नन्दिकेश्वर | अघोरं प्रीतिदं कुर्वत्सर्वरोगनिवारणम् || १ || अपमृत्युजयं चैव मजरामरसिद्धिदम् | अमृतौघमयं चक्रं सर्वसान्द्रसुखावहम् || २ || अनेनाभिषेक संयुक्ते देशिकश्चन्द्रशेखरः | चक्रमन्त्रं ततो ध्यानं साधनं चाभिषेचनम् || ३ || विनियोगं यथा सर्वं तत्तद्भेदं वदाम्यहम् | अष्टपत्रं लिखेच्चक्रं भूपत्रादिकके तथा || ४ || प्. ७४५) चन्दनागरुकर्पूररोचना कुंकुमं तथा | हिमाम्बुभिश्च संयुक्तं रसद्रव्यैश्च लेखयेत् || ५ || हेमकूर्चं च कर्तव्यममृतेनापि वर्त्मना | तद्वृते चाम्बुजद्वन्द्वं कमलाकर्णिकायुतम् || ६ || अमृतौघं महामन्त्रं अनेकाक्षर संयुतम् | एकोद्धारयुतं चैव चिन्तामणिरिवापरम् || ७ || तस्योपरि ठकारं च बिन्दुयुक्तमनन्तरम् | सकारं च जकारं च तस्यान्ते रेफ संयुतम् || ८ || शिवमन्त्रं च बिन्दुं च नादं चापि तथैव च | * तुरीयाणि मध्येऽपि शक्तिबीज समन्वितम् || ९ || प्. ७४६) एतत् पिण्डं महामन्त्रं कर्णिका मध्यमो भवेत् | चन्द्ररूपं चलं चापि चतुरानन संयुतम् || १० || अजेशमग्नि संयुक्तं तन्मध्ये शक्तिसंयुतम् | सदाशिवस्य बीजं तु लिकुचेन तु संयुतम् || ११ || अष्टबीजयुतं पिण्डं बिन्दुनाद समन्वितम् | ह्रीं फं हौं || दलबाह्ये विशेषेण कलाः षोडश विन्यसेत् || १२ || द्वितीयं पद्मदलं केचित् तृतीयं दलकं प्रति | चत्रतीयस्तृतीये च चतुर्थीदल पंक्तिके || १३ || मान्तं च पञ्चमे वृत्ते वारुणं बीजमालिखेत् | षष्ठे तु दान्तं विन्यस्य सप्तमे शिवबीजकम् || १४ || प्. ७४७) कलास्स बिन्दुकं न्यस्य तद्बहिष्ठाक्षराण्यपि | षोडशस्वरयुक्तानि विन्यसेत्क्रमशस्सुधीः || १५ || * * * वृतामहं चन्द्रं दिव्यमेतदुदाहृतम् | अन्यं तु मध्यमं चक्रं शृणुत्वं नन्दिकेश्वर || १६ || सप्तवृत्तं लिखेच्चक्रं षोडशार समन्वितम् | पूर्ववत्पिण्डिकामध्ये पिण्डरूपं महामनुम् || १७ || बहिष्षोडशपात्रेषु चतुरीयां तु विन्यसेत् | जकारं च ततो बाह्ये तद्बहिर्वारुणं न्यसेत् || १८ || सकारं तद्बहिर्वृत्ते सोमबीजं च तद्बहिः | सध्मराणि स विज्ञानि न्यसेच्छक्तानि पूर्वकम् || १९ || प्. ७४८) देवस्य चोत्तरे भागे मण्डलं कारयेद्बुधः | गोमयालेपनं कृत्वा दर्पणोदरसन्निभे || २० || सुगन्धचन्दनाम्भोभिः प्रोक्षयेन्मण्डपादिकम् | सितक्षौमयुतश्शुद्धो भस्मोद्धूलितविग्रहः || २१ || दिव्यगन्धानुलिप्तांगः सितपुष्पैरलंकृतः | निस्तुलैर्मौक्तिकैर्युक्तः शुक्लयज्ञोपवीतवान् || २२ || पूर्ववद्वेदि मध्ये तु श्वेतपिष्टैस्तु संयुतैः | कर्पूरैस्तु हिमाम्भोभिः लिखेत्पूर्वोक्त चक्रतः || २३ || आसनं कूर्चकं कृत्वा न्यस्त्वा न्यासत्रयं क्रमात् | आत्मानं शिवं च नाहं भावयित्वा विचक्षणः || २४ || प्. ७४९) स्वकीय गुरुभक्तिं तु वैतद्बिम्बमयं शुभम् | तस्योर्ध्वे तु गुरुं ध्यात्वा तद्गात्रामृत वारिभिः || २५ || सिच्यमानं स्वमात्मानं भावयेन्नन्दिकेश्वर | ससारूप्ययुतं मन्त्रं जपं कुर्यात्समाहितः || २६ || एतदष्टांशंसलिलैः तर्पयेद्गन्ध संयुतैः | श्वेतैर्नीलैः श्वेतपुष्पैः श्वेततण्डुलकैरपि || २७ || सर्पिषा पायसेनापि जाति पुष्पैश्च पूजयेत् | शिवं चन्द्रावतं सं तं निवेद्यं पायसं परम् || २८ || एवं स्वाध्यकृतं मन्त्रं सर्वसिद्धिकरं परम् | आयुष्कामस्तुलायां च विधा स्कन्दादि पूजयेत् || २९ || प्. ७५०) अपामार्गैश्च पूर्वाभिः सर्पिषा पायसेन च | संहृत्य जुहुयादग्नौ अपमृत्युविनाशनम् || ३० || पालाशसमिधैश्चापि मधुरत्रय संयुतैः | वारत्रयं च जुहुयात् सहस्रं च दिने दिने || ३१ || प्रथमं मासमेवं तु पश्चान्मासं प्रति प्रति | दिनत्रयं च कर्तव्यं पौर्णादिकमतो भवेत् || ३२ || शतायुश्च भवेद्देही देहान्ते च शिवं व्रजेत् | एकविंशद्दिनैश्चापि गडूच्या सिततण्डुलैः || ३३ || श्वेतैस्तिलैश्च जुहुयात् आरोग्ये पूर्व संख्यया | वृष्टिकामोऽपि पूर्वायां प्रातः स्नात्वा समाहितः || ३४ || प्. ७५१) गुरोः पादारविन्दं च नमस्कृत्वाभ्यनुज्ञतः | परं विघ्नेश्वरादींश्च पूर्ववत्पूजयेत्पुनः || ३५ || लोकानां रक्षणार्थाय वृष्टिं संसाधयाम्यहम् | इति संकल्प्य मनसा शिवभक्तांश्च भोजयेत् || ३६ || पूर्ववन्मण्डलादीनां अलंकारं मनोहरम् | तन्मध्ये वेदिकां कुर्याद् हस्तमात्रेण साधकः || ३७ || उच्छ्रायमपि तन्मानं तन्मध्ये शालितण्डुलैः | चतुर्द्रोणै स्थितं पद्मं साष्टपत्रं सपर्णकम् || ३८ || स्थापयेद्द्रोणतोयेन पूर्वकुम्भे सतोयकम् | सपल्लवापिधानं तु दुकूलद्वय संयुतम् || ३९ || प्. ७५२) सुगन्धि द्रव्य संयुक्तं रजतं मूलसंयुतम् | मुक्तादाप परिक्षिप्तं क्षिप्तं पुष्पोपशोभितम् || ४० || तन्मध्ये शिवचन्द्रं च पूजयेत्पिण्डमन्त्रतः | श्वेतैस्सुगन्धैः पुष्पैश्च पूजयेत्तदनन्तरम् || ४१ || नैवेद्यं पायसेनैव कुर्यात्तन्नन्दिकेश्वर | वह्निं चन्द्रमसं ध्यात्वा वेतसोर्थैस्समिद्वरैः || ४२ || मधुरत्रय संयुक्तैः सहस्रं जुहुयात्क्रमात् | सप्तविंशद्दिनान्तेपि महावृष्टिर्भविष्यति || ४३ || अन्यत्तद्वृष्टि संबाधे लवणैस्तन्निवारणम् | वश्यकार्ये तु मधुना सर्पिषा जाति पुष्पकैः || ४४ || प्. ७५३) पायसैस्साध्यदिग्भूत्वा पौर्णमास्यां च शुभ्रके | मूलमन्त्रं समुच्चार्य साध्यनाममतः परम् || ४५ || वशमानय इत्यन्तं वह्निजाया समन्वितः | सहस्रं जुहुयान्मन्त्रं शतमष्टोत्तरं तु वा || ४६ || एकविंशद्दिनान्मध्ये मनसान्ये नियोज्यतः | छित्वा दक्षिणपादादि वामपादावसानकम् || ४७ || जुहुयान्मूलमन्त्रेण मधुना सर्पिषा ततः | एकविंशद्दिनं चापि कृत्वा पूर्णादिकं चरेत् || ४८ || मध्ये रात्रे तु कर्तव्यं तस्याकर्षणकं ध्रुवम् | सिक्थेन वापि साध्यस्य स्वरूपाकर्षणं हुनेत् || ४९ || प्. ७५४) मधूच्छिष्टेन वा कुर्याद् दीपेन परितापनम् | आकर्षणमिदं प्रोक्तं कौलालिक्य मृदापि वा || ५० || पूर्ववज्जुहुयाद्विद्वान् आकर्षणमिदं परम् | ज्वरदाहादिशान्त्यै च पूर्ववच्चक्रमाद्भवेत् || ५१ || लिखेयं च निवेद्यं च शिवं चन्द्राय दापयेत् | पूर्वादिभससर्पिश्च क्षीरपायस संयुतैः || ५२ || आहुतीभिश्च जुहुयात् प्रत्येकं च सहस्रकम् | एकं सप्तदिनादेव ज्वरदाहादिशान्तिके || ५३ || श्रीचक्रं पूर्ववत्पूज्यं बिल्वपंचांगकैरपि | सप्तवारं सहस्रं च जुहुयान्महतीं श्रियम् || ५४ || प्. ७५५) लभेच्च शिवचन्द्रं च पूजयेन्नन्दिकेश्वर | महागणपति प्रोक्तास्तीहनं चापि कारयेत् || ५५ || पूर्ववच्छिव चन्द्रं च कुर्यात्प्राज्ञस्तदग्रके | सर्पिषा पायसेनैव त्रिसहस्रं च होमयेत् || ५६ || इष्टं विज्ञाप्य देवाय विघ्नं दुर्गां च पूजयेत् | तत्रैव भवने कूपं जलमब्धिसुधोपमम् || ५७ || विषण्णं च समाहूय मन्त्रध्यान परायणम् | स्वकीयामृत संस्थानं मर्दनं विषनाशनम् || ५८ || अंगुष्ठा पादतल संधिषु जानुगुह्ये नाभीषु वक्षसि कुचे गलनासिकेषु | नेत्रश्रुति भ्रुकुटिगण्डशिखाशिरस्सु || ५९ || प्. ७५६) पुंसां वामेतरेणैव कलया परिवर्तते | विषादं विषदष्टं च पूर्वमुक्तं च चक्रमम् || ६० || शिरोर्ध्वे तस्य संस्मृत्य सुधाधाराभिषेचनम् | निष्कैर्द्वादशकैर्वापि तदर्धैश्च तदर्धकैः || ६१ || तदर्धैरर्धतो वापि पद्मं कृत्वाऽथ देशिकः | मण्डपस्थ जलं सर्वं पूर्ववन्नन्दिकेश्वर ! || ६२ || स्थण्डिलं कारयेद्धीमांश्चतुर्हस्तसमन्वितम् | पूर्वोक्तं च क्रमाल्लिख्य पूजयेद्भक्तिसंयुतः || ६३ || तन्मध्ये चामृतं कुम्भं तन्मध्ये पद्ममेव च | चतुष्कोणे शुभैस्तोयैस्सुगन्धैः पूरयेद्घटम् || ६४ || प्. ७५७) नवरत्नसमोपेतं चूतपल्लव संयुतम् | ब्रह्माण्डरूपमेतत्तु बुध्वा तन्मध्यगं जलम् || ६५ || सुधारूपमिति ध्यात्वा तन्मध्ये शिवचन्द्रकम् | समभ्यर्च्य सितैः पुष्पैः होमकर्मादिशक्तिभिः || ६६ || सितैर्होमद्वयेनापि वेष्टयेत्तन्मनोहरम् | वेदघोष समायुक्तं स्तोत्रघोष समन्वितम् || ६७ || सर्वमंगलशब्दैश्च शिष्यं तमभिषेचयेत् | गुरुभक्तिसमायुक्तः पूजयेच्छिववत्क्रमात् || ६८ || हेमरत्नादिकं चापि विभवानुक्रमेण तु | दद्याद्भक्त्या च गुरवे नमस्कुर्याच्च दण्डवत् || ६९ || प्. ७५८) पश्चात्तु शिवभक्तांश्च पूजयेत्पूर्ववत्क्रमात् || ६९ १/२ || इत्यचिन्त्य विश्वसादाख्ये अमृताभिषेकविधिः पंचचत्वारिंशत्पटलः || अथ वक्ष्ये विशेषेण भोजनानां नवं शुभम् | तत्संततोपवासश्च भैक्षं तद्वदयाचितम् || १ || नक्तमित्येव नक्तं वै भोजनानां चतुर्विधम् | प्रथमं भुजक्ते काके त्वन्नपानादिसेवनम् || २ || अन्यकाले चान्न पानं खादेनापि विसर्जनम् | एतल्लक्षण संयुक्तमुपवासस्सतां मतम् || ३ || माधूकरी च भिक्षा तु चैकान्त परिवर्जनम् | अयाचितं तुश्चथा मानादरेण समर्पणम् || ४ || प्. ७५९) अन्नादिभूमिपर्यन्तं या भिक्षा स्यादयाचिता | अन्यत्वयाचनं कृत्वा स्वकीय द्रव्यभोजनम् || ५ || न्यायेनोपार्जितं चापि तत्रायाचितकन्द्वयम् | त्रिसंध्यावन्दनं चापि शिवलिंगार्चनादिकम् || ६ || अग्निकार्यं च कृत्वा तु पश्चाद्विविधभोजनम् | तत्तद्भोजनमित्युक्तं सर्वपाप प्रणाशनम् || ७ || दिवा न भोजनं रात्रौ भोजनं नक्तमुच्यते | स दोपवासाच्छ्रेष्ठं हि भिक्षां तन्नन्दिकेश्वर || ८ || भैक्षादयाचितं श्रेष्ठं अयाचितान्नक्तमुत्तमम् | पूर्वाह्ने देवताभुक्तिः मध्याह्ने भूरिभोजनम् || ९ || प्. ७६०) अपराह्ने पैतृकं स्यात् सन्ध्यायां गुह्यकादिभिः | सर्ववेलामतिक्रम्य नक्तभोजनकं भवेत् || १० || तस्मात्सर्वानयं भोज्यभोजनात्स मुनीश्वरः | भिक्षाविधिं विसृज्याथ भोजनत्रितयं शृणु || ११ || गोमयाद्यादि संशुद्धे विविक्ते भोजनालये | विशुद्धपाकमानीयमंशकादि विवर्जिते || १२ || वौषडन्तयुतं तत्र मृत्युञ्जयमथो वदेत् | सप्तवारं च दर्भैश्च प्रोक्षयेज्जल बिन्दुभिः || १३ || पालाग्रं सर्वमुद्धृत्य शिवादित्रयकारणात् | चुल्लीहोमाय शेषार्धं कल्पयेद्विधिना सह || १४ || प्. ७६१) शुक्लशुद्धं च कृत्वा तु वर्धनीं पूर्वयोगतः | नात्यग्निना चैकमत्यं रेचकेनापि वायुना || १५ || समादायाग्निबीजं तु कादिस्थानगति क्रमात् | शिवानि स्वमिति प्रोक्त्वा चुल्लिकाग्नौ तु होमयेत् || १६ || ओं हां अग्नये नम इति मन्त्रमेवं समुच्चरेत् | ओं हां सूर्याय नमः | इति ओं हां | ओं हां || १७ || विश्वेभ्यो देवेभ्यो नमः | इति ओं हां अग्नये | स्विष्टकृतये नमः * * * * * * * * * || १८ || अग्न्यादि सूर्यपर्यन्तं पूजयित्वोन्नयेत्क्रमात् | स्वाहान्तमाहुतीर्हुत्वा क्षमयित्वा विसर्जयेत् || १९ || प्. ७६२) तत्र ओं धर्माय नमः | चलादि दक्षिणाबाहौ | ओं धर्माय नमः | इति वामबाहौ | ओं सर- || २० || स्वपरिवर्तना | काञ्जिनादिसन्धाय यात्रेषु जं- जलाय श्रुताय वरुणाय नमः | ओमिति || २१ || जलपात्रेषु | ओं हां विश्वराजाय नमः | इति | ग्रहप्रमदेवचोदिते नमः | ओं संमार्जनम् | || २२ || कामाय कुसुमायुधाय नमः | ल्य शिरसि | ओं | स्कन्दाय ग्रहाधिपतये नमः | इति मध्यस्तंभाधस्तात् || २३ || एवं वास्तुबलिं दत्वा प्रादप्रक्षालनं भवेत् | भौतिको नैष्ठिकश्चापि तद्योगेन बलिं क्षिपेत् || २४ || प्. ७६३) समं सम्यक्च्छुचिर्भूत्वा ततो ध्यानं समाविशेत् | तत्रैव सर्वदेवानां एकानां च बलिं क्षिपेत् || २५ || ओं हां गृहोपकरणाय देविकायै वाहनायै नमः | एवं वा तत्र कर्तव्यं देशिकस्य विशेषतः || २६ || शिवभक्ति समायुक्तैः सदाचार युतैश्शुभैः | शुद्धशैवैश्च सन्मार्गतपोनिष्ठैस्सुदारुणैः || २७ || परस्पर समाकीर्णैः अभ्यग्रैश्च सवर्णकैः | एकपंक्त्या तु भुञ्जीत मौनीचान्तर्मनाश्शुचिः || २८ || हैमराजतताम्रे च लोहपात्रे सु शोधिते | गुरुस्स साधकश्चैव पुत्राश्च समयीक्रमात् || २९ || प्. ७६४) सरोजपत्र पालाशं कदलीपनसं तथा | आम्रपत्रं नालिकेरं मधूकं च तथैव च || ३० || अन्यच्च पावनं पत्रमनिन्दितममन्त्रकम् | कांस्ये तु भस्मना शुद्धे सप्तधा पत्रकेऽथवा || ३१ || बाहुरूपाभिजप्ते च पात्रशुद्धिर्भवेत्तदा | पादादिसज्जभल्लात प्लक्षाश्वत्थार्क संभवैः || ३२ || एरण्डालाबुजैः पत्रैः अर्कपत्रैश्च शोभनैः | दुर्गन्धयुक्तैरन्यैश्च निषिद्धैर्भोजनं तु वा || ३३ || भौतिकस्य विशेषेण पालाशं पद्मिनीदलम् | अयोग्यं भोजनं तत्र भुक्तिश्चेद्दोष एव च || ३४ || प्. ७६५) नैष्ठिकस्यापि तत्पात्रे भोजनं पापनाशनम् | स्नानं तु भस्मना चैव रेखाया रक्षणं भवेत् || ३५ || जानुमुच्चकरो भूत्वा मौनी वीरासनस्थितः | वामहस्तेन संस्पृष्ट्वा पात्रमन्येन वा स्पृशेत् || ३६ || पूर्णाभि मन्त्रितं पूतं श्रद्धया जठराग्निके | अस्त्रमन्त्रेण संदीप्ते जुहुयात्सघृतास्पदम् || ३७ || आपोशनं पुनः कृत्वा प्रणवप्राण संयुतः | स्वाहान्तैराहुतीः पञ्च जुहुयान्नन्दिकेश्वर || ३८ || नागः कूर्मोथ कृकरो देवदत्त धनञ्जयौ | उपप्राणाय स्वाहा * * * * * * * * * || ३९ || प्. ७६६) ओं प्राणाय स्वाहेति प्राणाहुतीर्दत्वा विधिना | भुक्त्वा ओं अमृतापिधानमसि | मन्त्रेण प्रक्षा- || ४० || लितहस्तेन चुलुकं गृह्याचामेदिति भागैकस्तु | ग्रहेनैव तु पूरयेत् || ४१ || पानीयेनैकभागं तु पूरयेन्नन्दिकेश्वर | प्राणसंचारणार्थं तु एकभागं तु पूरयेत् || ४२ || शिग्रुं पलाण्डुं लशुनं क्रमुकं मधुमांसकम् | कूजनं हस्तदत्तं च लवणं परिवर्जयेत् || ४३ || भोजनानां तु म * * * तं लवणवर्जितम् | उदुम्बरमलाबुं तु शार्गाष्ठं च कुमारिकाम् || ४४ || प्. ७६७) सौवीरं पर्युषितं च पर्युषितोपदंशकम् | वृन्ताकं काकुजं चैव छत्राकं बिम्बकं तथा || ४५ || वशञ्चिकाद्रं मरीषं प्ररोहाणि च सर्वशः | वर्जनीयं विशेषेण भोजनेऽप्युपदंशकः || ४६ || मूर्धाभिधानं नोत्कुट्य रकुद्भाभक्षणं तथा | न जृम्भणं च कर्तव्यं भोजने जल्पनं तथा || ४७ || प्रक्षालितकरेणापि नान्यस्वोर्ध्वजलं पिबेत् | नव * * * वक्त्रेण नवपिण्डेन चेतसा || ४८ || पिपीलिकामक्षिकादिनखकेशादिदूषितम् | दुष्टान्त मन्त्रकिंचिच्च त्यक्त्या च क्षालयेत्करम् || ४९ || प्. ७६८) भस्म स्पृष्टिं च कुर्याच्च शुद्धये नन्दिकेश्वर | भुंजीत शेषं भुक्त्यन्ते वारिणा चामृतात्मने || ५० || पिधानमसिचेत्युक्त्वा प्रक्षाल्य करयोर्द्वयम् | पादस्य दक्षिणांगुष्ठं सिञ्चेदंगुष्ठवारिणा || ५१ || मुक्तियुक्तेन तेनैव भोजनेनाटनेऽपि वा | भोजयीत यथा लाभं * * * णातिथीनपि || ५२ || दक्षिणांगुष्ठ पादे वै परात्परतरो भुवः | आत्मा तिष्ठति तत्तत्र त्वभिषिञ्चाभिज्येष्ठया || ५३ || पूर्ववत्सकलीकृत्य भुक्ति दोषस्य शान्तये | बध्नीयान्नासिकान्तं च मुद्रघातिभिधाम् || ५४ || प्. ७६९) भिक्षाविधिर्विशेषेण माधूकरमनुत्तमम् | ब्रह्महत्यादिपापानां नाशनं तपसोच्छ्रयम् || ५५ || नापितान्कारुमारभ्य तदधोजातिगेहके | पतितानां गृहे वापि गुरुद्रोहि गृहेऽपि वा || ५६ || शिवनिन्दागृहे वापि ज्ञाननिन्दा गृहेऽपि वा | मद्यपानि गृहे वापि भिक्षां नैवात्र कारयेत् || ५७ || शेषिकानां गृहे वापि न प्राप्यं च चरेद्बुधः | यथा मध्वाददानोऽपि पुष्पं भृंगो न बाधते || ५८ || तद्वद्भिक्षां क्षमी भूत्वा चाददीत गृहाधिपात् | माधूकरीं चरेद्भिक्षामेकान्नं परिवर्जयेत् || ५९ || प्. ७७०) अज्ञानिनां गृहे वापि शुद्धा माधूकरी तथा | एकान्नं न तु भुञ्जीत बृहस्पति कुलादपि || ६० || प्रार्थनाद्युपरोधाद्वा भिक्षाकार्यं च दोषकृत् | पालाशकदलीचाम्र पनसादलकेऽपि वा || ६१ || भोजनार्थं तु यत्पत्रं तत्सर्वं पात्रमेव च | अलाभेऽलाबुपत्रं वा भिक्षापात्रं तथैव च || ६२ || मुमुक्षोस्तुबुरुं श्रेष्ठं बहुरूपाभिमन्त्रितम् | धौतपाद * * * * * * * णावकुण्ठनम् || ६३ || विशुद्धं भस्मना स्नानं त्रिपुण्ट्रेण विराजितम् | मुमुक्षोर्यदि भिक्षाशा बभुक्षुः शुक्लवस्त्रकम् || ६४ || प्. ७७१) कौपीन मुत्तरीयं च परिवृत्य समाचरेत् | शिवं गुह्यं च भक्त्या च ध्यायेन्मौनी दृढव्रतः || ६५ || आज्ञां तत्र समादाय दण्डमस्त्राभिमन्त्रितम् | आतपत्रकरो यायाद् भिक्षार्थं च गृहान्प्रति || ६६ || मार्गमध्ये च निष्ठी च तन्मार्गे च समर्पणम् | कुत्सनं चत्यजेत् * * * * चार्वादि संकुलम् || ६७ || भिक्षां देहीति संकल्प्य पादांगुष्ठाग्रनेत्रकः | तावत्कालं प्रतीक्षेत यावद्गोवत्सयोर्गतिः || ६८ || प्रसवं च समाप्नोति तत्रान्यत्र व्रजेन्मुनिः | गच्छन्पुनर्निवृत्तो न समाहूतो न तत्र वै || ६९ || प्. ७७२) यजमानादिभिर्नीतां आददीत पुनर्मुनिः | न करेण न निर्वाचा न कांस्येनाददीतताम् || ७० || मलयस्त्री च वृषणी गर्भिणी रोगिणी तथा | क्लेशिनी रोदिनीत्यादि हस्तेन तु परीलिहेत् || ७१ || भिक्षिकापात्र पूर्णान्तं अवातृप्तिश्च मन्त्रके | जगतां शोभनं ध्यात्वा स्वाश्रमं च व्रजेत्तथा || ७२ || भिक्षापात्रं शुचिस्थाने स्थापयित्वाथ भिक्षुकः | पादप्रक्षालनं कृत्वा चोद्धूत्य सकलां तनुम् || ७३ || आचम्य विधिवत्पाद्यैः प्रपूज्यास्त्रेण पूजयेत् | चन्द्रामृतेन संप्रोक्ष्य मुद्रया धेनु मुद्रया || ७४ || प्. ७७३) त्रिभागं कुर्यात्पश्चाद्वै देवायगुरवे तथा | तृतीयं भागमादाय स्वात्मनो भोजनाय वै || ७५ || पूर्ववद्भोजनं कुर्यात् स्वाध्यायश्च ततो भवेत् | सायन्तनीं च संध्यां तु पूर्ववद्वन्दयेत्क्रमात् || ७६ || विशुद्धभूतले देशे तृणच्छन्ने मृगत्वचि | शार्दूल चर्म * * र्ते धापरिस्तरकं भवेत् || ७७ || मन्त्रन्यस्ततनुर्भूत्वा शयित्वा योगनिद्रया | अजपां शिव संयुक्तां चन्द्रार्कौ नाश संयुतौ || ७८ || कृत्वा स्वपेत्सदा योगी निद्राकालेऽपि पूजनम् | तुरीयं वापि सा सन्ध्या ज्ञानिनां च विशेषतः || ७९ || प्. ७७४) पूर्व पश्चिमयोर्मध्ये रात्रौ तु दशनाडिकाः | स्वापकालमिदं प्रोक्तं पश्चात्पूर्ववदाचरेत् || ८० || इत्यचिन्त्य विश्वसादाख्ये (भोजनविधिः) सप्त चत्वारिंशत्पटलः || अथ वक्ष्ये विशेषेण भक्तानां पूजनं तथा | मोक्षार्थिनां मोक्षदं च धनार्थिनां धनप्रदम् || १ || जयार्थिनां जयकरं पुत्रेप्सूनां च पुत्रदम् | रोगिणां रोगनाशं च भक्तिहीनस्य भक्तिदम् || २ || अज्ञाने ज्ञानदं चैव सर्वशक्तिकरं परम् | स्थावरं जंगमं चैव द्विविधं शिवपूजनम् || ३ || प्. ७७५) लिंगादिपूजनं तत्र परिवारं नन्दिकेश्वर | * * * * * तत्र जंगमनायनमापरम् || ४ || पूजाकालेऽपि सान्निध्यं स्थावरे शिव तेजसि | जंगमे सर्वकालं च सान्निध्यं कुरुते शिवः || ५ || जंगमस्याव मानेन स्थावरं निष्फलं भवेत् | दीक्षायोग्यस्तु जातीनां दीक्षितस्य विशेषतः || ६ || जातिभेदविशेषोऽस्ति दीक्षितानां तु सर्वदा | वागीश्वरीगर्भदेहं गत्वा तु शिवपुत्रकः || ७ || तस्यापत्यत्व सिद्धत्वाच्छैव इत्यभिधीयते | मलत्रयस्य नाशत्वाद् विज्ञान कलनादपि || ८ || प्. ७७६) श्रेष्ठत्वं विद्यते तस्य भवेदेको विशेषतः | यस्य चित्तं शिवे लीनं तस्य जात्यादिकं स्मरन् || ९ || शिवलिंगे शिलाबुद्धिं कुर्वाणस्स हि पातकी | ज्ञान वैराग्य भक्तिश्च दीक्षितस्य च चिह्नकम् || १० || नामभेदादयोप्यत्र पूर्वजातिवशात्पुरा | प्रोक्तं तत्रापि यत्कार्यं शृणुत्वं नन्दिकेश्वर || ११ || राजतं ताम्रकं चापि सीसमायसकं तथा | वेधको घुटिकाद्याभिः संजाताश्चानुयेत्तदा || १२ || पूर्वरूपं च संज्ञानं चिह्नत्वं नामभेदकम् | हेमत्वसिद्धौ सर्वं च विमानत्वं प्रपद्यते || १३ || प्. ७७७) तस्माद्विप्रादिशूद्रान्तं दीक्षितानां न जातिकम् | भक्तानां पात्रमुख्यत्वं शृणुत्वं नन्दिकेश्वर || १४ || अनुपनीतः प्रथमो द्वितीयोऽप्युपनीतकः | वेदाध्यायी तृतीयः स्यादग्निहोत्री चतुर्थकः || १५ || यज्ञाद्यैश्चैव तत्रैव पञ्चमश्च प्रकीर्तितः | सत्रयाजी तु षष्ठः स्याद् वेदान्ती सप्तमः स्मृतः || १६ || उत्तरोत्तरतश्चैते श्रेष्ठा गुणसहस्रकाः | मुख्य वेदान्त विदुषो कोटिश्रेष्ठश्च मत्प्रियः || १७ || भक्त्या सदृशको नास्ति पुष्पजातिषु तद्दले | सर्वथा दीक्षितानां तु सदृशो नास्ति लौकिके || १८ || प्. ७७८) यथा शिवस्तथा भक्तो यथा भक्तस्तथा शिवः | तस्मात्सर्वप्रयत्नेन दीक्षितानां च भोजनम् || १९ || भोगमोक्ष प्रमाणत्वात् कारणं च मम प्रियम् | शुद्धदेशे मनोरम्ये सालंकारयुते परे || २० || मोक्षार्थिनामन्नित्यं पञ्चविंशति संमितान् | शुद्धशैवान्समानीय गुरुवद्भक्तिसंयुतः || २१ || आसनं पाद्यमाचामं स्नानवस्त्रादि दानकम् | अन्नपानादिकं सर्वं शुद्धमानीय यत्नतः || २२ || परस्परमसंकीर्णं भोजयेद्विधिवत्क्रमात् | दिने दिने वा मासेवा वत्सरे वापि भोजयेत् || २३ || प्. ७७९) वित्तानुसारतश्चापि पूजयेन्नन्दिकेश्वर | मुक्तिः प्रसाद संज्ञात्वात्तत्रैव तु न संशयः || २४ || त्रिंशद्भक्तजनस्यापि पूजयेद्भक्तिमान्यदा | करोति श्रीर्महत्येव नात्र कार्या विचारणा || २५ || इष्टकामस्य संसिद्धौ सप्तविंशद्दिनं भवेत् | अष्टाविंशच्च पुष्ट्यर्थं भक्तानां पूजनं परम् || २६ || विजये चापि त्रिंशच्च शत्रुनाशे च षोडश | अष्टोत्तरशतं चापि सर्वशान्तिकरं भवेत् || २७ || भूतव्याध्यादिसकलं भक्तपूजा विधानतः | शान्तिं गच्छति तद्गेहं वक्ष्येहन्नन्दिकेश्वर || २८ || प्. ७८०) पूर्व जन्मनि तत्रैव ब्रह्महा मद्यमांस भुक् | सौख्यमस्माकमखिलं परेषामन्यसाधकम् || २९ || परदोष प्रकाशेन परश्रीः क्षीयतोऽपि च | गुरुमाहेश्वराणां च स्वर्णदानं विधीयते || ३० || स पादैकाधिकं तद्वद् ज्ञानतोऽपि गतो भवेत् | श्रीरुद्रैः पावमानीभिः नित्यं लिंगं प्रपूजयेत् || ३१ || गुरुचित्तं सर्वसन्तापि चोष्णत्वरयुतो भवेत् | चन्दनोशीरकर्पूरशीतलैरम्बुभिश्शिवम् || ३२ || देवीं चापि सुसंस्थाप्य पूजयेच विशेषतः | शान्तिहोमं तु कर्तव्यं अष्टाविंशति भोजनम् || ३३ || प्. ७८१) शिवभक्तांश्च संपूज्य गुरुपूजां च कारयेत् | दिवसे नैव शान्तिः स्याद् भक्तिश्रद्धा समन्वितः || ३४ || यो मोहाच्च गुरूंश्चैव परहृद्रोगकृन्नरः | तस्य शीतज्वरं चैव कुष्ठं चैव भयंकरम् || ३५ || महोदरं वा गुल्मं च अतिसारांघ्रिरोगकाः | रोगभेदाच्च सञ्जाता व्याधयस्तत्र शान्तये || ३६ || अभिषेकं पुरा कृत्वा शान्तिहोमं समाचरेत् | अष्टाविंशतिभक्तानां भोजनं सांगकं भवेत् || ३७ || कुष्ठे तु राजतं दानं रत्नदानं भगन्दरे | उपानं वाहनं चापि पादरोगे च दापयेत् || ३८ || प्. ७८२) पादस्य वसुदानं च विशेषेण प्रशस्यते | विस्रब्धस्य विषाधानमभक्ष्यस्य व भक्षणम् || ३४ || अपथ्य भोजनाच्चैव देवद्रव्यापहारतः | फ्लन्दिलम्बश्रयञ्चेयः क्षुद्बाधां चापि जायते || ३५ || बह्वाशनोऽप्यभक्षाणां भक्षणाच्चापि जायते | अष्टोत्तरं च पंचाशत् भक्तानां भोजनं भवेत् || ३६ || शिवपूजा शान्तिहोमो गुरुपूजा तथैव च | स्वर्णस्य निष्कसप्तेन दानाद्गच्छन्ति शान्तिकम् || ३७ || ज्ञानहीनस्य चक्षूंषि प्राणिनामुद्धरेन्नरः | परदारांश्च रागाच्च निरीक्षेत च शोधनात् || ३८ || प्. ७८३) कूटसाक्षी गुरुद्रोही नेत्ररोगी च जायते | महाभिषेक पूजां च शिवलिंगं विधाय च || ३९ || शान्तिहोमं समारभ्य नेत्रमन्त्रेण होमयेत् | उपदानं च देवाय भक्तिश्रद्धा समन्वितः || ४० || अष्टपञ्चाशद्भक्तानां भोजनं तु विधीयते | यथाशक्ति स्वर्गदातं पायसान्नं च दापयेत् || ४१ || नेत्ररोगादयश्चापि नेत्रं गच्छन्ति निश्चयः | अन्नापहारिणो नित्यं जीर्णत्वं प्रतिपद्यते || ४२ || महाभिषेकमीशस्य कृत्वा वै शान्तिहोमकम् | अष्टाविंशतिभक्तानां भोजनाच्छान्तिमृच्छति || ४३ || प्. ७८४) परदाराभिगमनात् तिर्यग्योनिषु मैथुनात् | कन्या संयोगश्चापि विधवायास्तथैव च || ४४ || गुरुतल्पगतिं स्मृत्वा प्रमेहाद्यैस्तथैव च | तिर्याज्ञर्यादिभिश्चैव शर्करा मधुभोगकैः || ४५ || एवमादिभी रोगैश्च बाधा चैव भवेत्तदा | महाभिषेकमीशस्य भक्त्या कुर्यात्समाहितः || ४६ || अघोरास्त्रेण मन्त्रेण होमं कुर्याद्विचक्षणः | त्रिंशद्भक्तांश्च संपूज्य होमयेन्नन्दिकेश्वर || ४७ || रसभस्म तु संसेव्यं पाशशान्त्यै दिने दिने | मोहाद्भ्रात्रीं च जननीमभिगच्छेन्नराधमः || ४८ || प्. ७८५) मधुमेहमनः पीडास्यान्नात्र कार्या विचारणा | शिवपूजा च कार्या तु अघोरास्त्रेण होमयेत् || ४९ || अघोररूपतो जप्त्वा पश्चाद्भक्तांश्च भोजयेत् | द्वादशाथ शतं तत्र भक्तानां भोजनं भवेत् || ५० || गुरुपूजा च कर्तव्या शान्तिमायुः प्रयच्छति | विमुखस्य गुरोराज्ञामन्यायेनान्य जिह्मकम् || ५१ || छेदनं पुरुषोक्तिं वाप्यसत्यस्य च सादिकम् | करोति तस्य रोगाश्च मुखे भवति च ध्रुवम् || ५२ || तस्य शान्त्यै शिवं पूज्य चिन्तामणिविचित्रकैः | होमेन शान्तिमागच्छेत् भक्तानां भोजनेन च || ५३ || प्. ७८६) चतुरशीति भक्तानां भोजनाच्छान्तिरुच्यते | गुरुदोषश्रवादेव शुभबोधशिरस्तथा || ५४ || अशुभत्वस्य बोधत्वादश्रोतव्यस्य सात्विकः | कर्णकुन्तनयुक्तश्चेद् व्याधिर्वायुश्च जायते || ५५ || तस्य शान्तिश्च लिंगे च पूजाभक्तिश्च सर्वदा | स्तोत्रैश्च विविधैर्देवं अघोरास्त्रेण होमयेत् || ५६ || अष्टाविंशतिभक्तानां भोजनाच्छान्तिरिष्यते | वस्त्रदानं च तेषां वै धान्यपुस्तकदानकम् || ५७ || गुरुदेवादिकानां तु चालेपहरणादपि | कम्बलाद्यपहारात्तु कर्मादेश्च विशेषतः || ५८ || प्. ७८७) कुरंगकोलकान्तीनां तुरगाणां च रक्षिणाम् | हिंसने कुष्ठरोगश्च जायते नात्रसंशयः || ५९ || तस्य शान्तिस्तु संपूज्य शिवं परमकारणम् | आढकेन घृतेनैव पञ्चगव्यादिभिस्तथा || ६० || अभिषेकं च कर्तव्यमघोरास्त्रेण होमयेत् | अष्टाविंशति भक्तानां भोजनं च दिने दिने || ६१ || रसभस्म च संसेव्यं रोगशान्त्यै विशेषतः | गुरुतेजो विनाशित्वं परं शुभविनाशनम् || ६२ || प्राणिहिंसादिशीलं च परेष्टस्य विघातता | क्रोधाल्लोभात्तथामोहात् रोगाणां च चिकित्सिता || ६३ || प्. ७८८) परदुःखे दयालुत्वं मध्येध्यादि दुर्लक्षणात् | श्वेकुष्ठादिभिर्बाधा जायते तत्र निष्कृतिः || ६४ || शिवपूजां विधानेन कृत्वा होमं समाचरेत् | गायत्र्या घोरास्त्र मन्त्रेण च हुनेत्तदा || ६५ || षडशीतेश्च भक्तानां भोजनं च विधीयते | श्वेतकुष्ठादिभिर्बाधा शान्तिमायाति निश्चयः || ६६ || षडशीतिश्च भक्तानां भोजनं च * * * * | देननिन्दादयालुश्च पुरपुत्रादिसंपदम् || ६७ || ईष्यालुत्वं च तत्रैव परपूजावलोकनम् | परस्परायादन्यस्य रहस्याद्याय नास्ति तत् || ६८ || प्. ७८९) इत्येवमादि दोषात्तु वो * * * श्च जायते | संपूज्य परमेशानं वागीशीपूजनं तथा || ६९ || दक्षिणामूर्तिमन्त्रेण वागीशीमन्त्रहोमतः | अष्टोत्तर सहस्राभ्यां होमं कुर्यात्तु शान्तये || ७० || षडशीतिश्च भक्तानां भोजनं च दिने दिने | यावत्प्रबोधमायाति तावद्भोजन संभवेत् || ७१ || होमादि गुरवे दद्यान् मधुना चाभिषेचनम् | शिवस्य तेन तत्सर्वं शान्तिमायाति निश्चयः || ७२ || देवद्रव्यापहारी च गुरुद्रव्यविनाशकः | अतीतभयमेते * * * * वथ कर्मणः || ७३ || प्. ७९०) तत्प्रधानविहीनश्च याति वृद्ध्या विसर्जयेत् | भस्म संस्पर्शहीनस्य दानविघ्नं करोति यः || ७४ || दारिद्र्यादि महाबाधा जायते नात्र संशयः | शिवपूजारतस्यापि शिवभक्तस्य पूजनम् || ७५ || विनायकस्य पूजा च तन्मन्त्रं चात्र होमकम् | त्रिंशद्भक्तान्नदानानुभोजनाच्छान्तिरेव च || ७६ || तस्मादितरदेवानां साम्यबुद्धि समन्वितः | गुरुं च मां च मान्यत्वं बुद्धिशून्यश्च पार्वति || ७७ || लक्षणादिदोषे बुद्धियुक्तोऽपस्मारिको भवेत् | दारिद्र्यभोजनं चैव पूजां चैव विशेषतः || ७८ || प्. ७९१) गुरुहोमान्त कृत्वाधी चात्रहोमं समाचरेत् | अघोरास्त्रेण मन्त्रेण शतमष्टोत्तरं हुनेत् || ७९ || हेमरत्नादिकं सर्वं गुरवे च प्रदापयेत् | शीतज्वरं कुक्षिरोगं स्फोटकं पादहस्तयोः || ८० || तस्य शान्त्यै शिवं पूज्यमघोरेण सहस्रकः | होमेन शान्तिमायान्ति भक्तानां भोजनादपि || ८१ || त्रिंशच्च गुरुपूजा च शान्तये च विशेषतः | आगमादींस्तथाशास्त्रा न शुचिस्संस्पृशेत्तु यः || ८२ || मोहादुमूखलादींश्च न्यस्तांघ्रिश्चापतिष्ठते | महान्तिह्वाख्यके नाम ग्राहाति प्रबलो ग्रहः || ८३ || प्. ७९२) तस्यांघ्रिकार्यकर्ता तं प्रतिमाबोध शान्तये | दीर्घनिश्वासनं चापि कम्पं पुलकमेव च || ८४ || गमने चाप्यशक्तित्वं तस्य वै भवति ध्रुवम् | पूर्ववल्लिंगपूजा च तस्याघोरेण होमयेत् || ८५ || भक्तानां भोजनं चापि अष्टाविंशति तं सवेत् | रसभस्म तु संसेव्यं शान्तिमाशु प्रयच्छति || ८६ || वल्मीकभित्तिच्छिद्रपृष्ठं खात्वा सर्पादि बाध्यते | तं वासवग्रहो मानं ग्राहात्यस्य महाज्वरः || ८७ || आक्रोशो भ्रान्तिरुन्मादकुक्षिरोगश्च वै भवेत् | पूर्ववत्पूजयित्वा तु तस्याघोरेण होमयेत् || ८८ || प्. ७९३) अष्टोत्तरशतं हुत्वा त्रिंशद्भक्तांश्च होमयेत् | गुरुपूजां प्रकुर्वीत वस्त्रहेमादिभिस्तथा || ८९ || मातापित्रोर्गुरोश्चापि बान्धवे दोषवाचकम् | साहसानां प्रयोगेण लम्बनगृहवैशनम् || ९० || तस्य चिह्नं ज्वरः कासो सश्वस्सर्वांगयातकम् | कन्धूरेन्नपानादौ वैरस्यं गतिविभ्रमम् || ९१ || तस्य रोगस्य शान्त्यर्थं शिवपूजा विधीयते | अघोरास्त्रेण मन्त्रेण अष्टोत्तरशतं हुनेत् || ९२ || भोजयेच्छिवभक्तांश्च त्रिंशत्तत्रापि शान्तये | गुरुनिन्दारतस्याऽपि शिवनिन्दारतस्य च || ९३ || प्. ७९४) ज्ञाननिन्दारतस्यापि बहुशो यस्य कस्यचित् | दीर्घकालं तु वातेन पित्तेन च तथैव च || ९४ || रोगेण दीर्घकालं तु बाधा तस्यैव जायते | पूर्ववच्छिवमभ्यर्च्य अघोरास्त्रेण होमयेत् || ९५ || अष्टसाहस्र संख्येन शिवभक्तांश्च पूजयेत् | त्रिंशदादिषु तच्छान्त्यैवासनं नन्दिकेश्वर || ९६ || तेन ते शान्तिमायान्ति गुरुपूजादि पूर्ववत् | एतेषां शान्तिपातेन भेदेन सकलामयम् || ९७ || उत्क्रान्तौ त्रिविधेनैव प्राप्तिरस्ति न दोषदृक् | सर्वेषामन्यकाले तु शिवादित्रयनिन्दनात् || ९८ || प्. ७९५) संभवन्त्येव दोषाणि तस्माद्दोषाणि निस्त्यजेत् | शिवादित्रय कार्यार्थं अशनं कृत्वा तु शोचति || ९९ || पुनरादातुमिच्छा वै सत्यसान्तग्रहग्रहि | शोफरोगश्च तिमिरं कुष्ठरोगं तथैव च || १०० || स्तनन्धयस्य क्षीरस्य पानतोऽपि च जायते | शिवलिंगं च संपूज्य शान्तिहोमं समाचरेत् || १०१ || अष्टाविंशतिभक्तानां भोजनाच्छान्ति माप्नुयात् | देवतानां गुरूणां च ब्राह्मणानां तपस्विनाम् || १०२ || व्यसनानां च काले च संप्राप्य स्वयमेव च | शान्तिकाले च दत्तं चेद् कर्णग्रहनिपीडना || १०३ || प्. ७९६) तस्य हिक्का च बहुधा बधिरत्वं च विद्यते | तस्य शान्त्यै शिवं पूज्य नीरोगश्शान्ति पूर्ववत् || १०४ || शिवभक्तांश्च संपूज्य त्रिंशत्स्यात्तस्य शान्तये | * * * स्वामिनां ज्येष्ठं मित्रं तस्योपकार्यकम् || १०५ || गर्भयोत्तु विशेषात्तु धनग्रहा हि तद * | पुरीष मूत्रयोर्बन्धं छर्दिश्च भवति ध्रुवम् || १०६ || तस्य शान्त्ये शिवं पूज्य शान्तिहोमं समाचरेत् | त्रिंशद्भक्तजनानां तु भोजनाच्छान्तिरेव हि || १०७ || ग्रहणी काकशिशोर्भागोपद्रवश्च जायते | परदाराभिगमने क्लंबाशोऽपि च जायते || १०८ || प्. ७९७) तस्य शान्त्यै शिवं पूज्य अघोरास्त्रेण होमयेत् | रसभस्म च संसेव्यं सर्वपापविशुद्धये || १०९ || जन्मर्क्षे वा शुभे काले पुण्यर्क्षे च विशेषतः | शिवभक्तांश्च त्रिंशच्च भोजयेच्छान्तये तदा || ११० || व्याधिभेदान्गुरुर्बुध्वा तस्य शान्तिं च कारयेत् | दरिद्रश्चेन्मन्त्रजपं कुर्यात्पापविशुद्धये || १११ || शिवलिंगार्चनं चापि भक्तानां वन्दनादपि | रसभस्म विशेषेण व्याधिर्नाशमुपैति वै || ११२ || धनवांश्चेन्निरीक्षेत व्याधेश्च गुरुलाघवम् | यावच्च्युतिस्तावदेव शान्तिकर्म समाचरेत् || ११३ || प्. ७९८) अर्थलाभेन कर्तव्यमात्मार्थं सर्वमेव हि | सर्वसंसाधकांशे च मानुषान्नन्दिकेश्वर || ११४ || तस्मात्सर्व प्रयत्नेन शान्तिकर्म समाचरेत् | लिंगार्चनं तु भक्तानां पूजनाच्छान्तिकर्मणा || ११५ || ऐहिके शान्तिमाप्नोति पश्चाद्रुद्रत्वमाप्नुयात् | पयः पानेन पित्तं च क्षुद्बाधा च निवर्तते || ११६ || तद्वच्छान्ति गतिश्चापि भक्तानां भोजनाद्भवेत् || ११६ १/२ || इत्यचिन्त्य विश्वसादाख्ये भक्तपूजनविधिः षट्चत्वारिंशत्पटलः || प्. ७९९) अभीष्ट सिद्धये चापि कर्तव्यं नन्दिकेश्वर | पयो दध्याज्यमधुभिरैक्षवैर्मधुपञ्चभिः || १ || पञ्चगव्यादिभिश्चैव वक्षसैः फलकारकैः | देवदेवं च संस्थाप्य सवेदिश्च विशेषतः || २ || पिष्टैरामलकाद्यैश्च विरुद्धैश्च शनैश्शनैः | सुगन्ध तोयैः संस्नाप्य शुद्धवस्त्रेण मार्जयेत् || ३ || चन्दनागरु कर्पूरैरष्टगन्धैर्विलेप्य च | वस्त्राद्यैर्भूषणैस्सर्वैर्भूषयेच्छिवमव्ययम् || ४ || गन्धपुष्पैः स्रगाद्यैश्च पूजयेन्नन्दिकेश्वर | इन्द्रवर्ति समायुक्ता दीपमालार्तिकं ददेत् || ५ || प्. ८००) पञ्चवर्णं हविर्वापि पायसं शुद्धमेव वा | नानोपदंश संयुक्तं नानाफल समन्वितम् || ६ || ताम्बूलं मुखवासञ्च तदन्ते दापयेत्तदा | एलालवंगतक्कोलजाति कर्पूर वर्णयुक् || ७ || मद्विषत्खण्ड संयुक्तं मुखवासमिदं भवेत् | प्रणम्याध्येष्य लब्धज्ञैर्होमार्थं कुण्डमाश्रयेत् || ८ || समिदाज्येन चरुणा तिलेनापि समन्वितम् | शतमष्टोत्तरं हुत्वा पूर्णमन्त्रं समापयेत् || ९ || * * * तस्मात्स्थादाय यजमानाय दापयेत् | वांछतो कर्मदेवाय संप्रार्थ्य प्रणमेत्पुनः || १० || प्. ८०१) वारमेकं समारभ्य सप्ताहान्तं समाचरेत् | द्विगुणं त्रिगुणं चापि चतुष्पञ्चगुणं तु वा || ११ || षट्सप्तगुण संख्यातं कर्मसिध्यन्तमेव वा | विशेषपूजा चैवोक्ता पूर्वोक्तवि * * इति || १२ || नैमित्तिकं च कर्तव्यं नित्यान्तेऽप्य विरोधतः | वर्तमाने तु नित्ये तु यदा नैमित्तिकं भवेत् || १३ || समाप्य कलिते काले नित्यं नैमित्तिकं चरेत् | सन्ध्या परार्धकाले चेत् पूर्वार्धो विद्यते यदि || १४ || कार्यं नैमित्तिकं कालेप्यविचार्य विशेषतः | अल्पकालेन संध्यं वै अपरार्धे समाचरेत् || १५ || प्. ८०२) तन्त्र न व्याप्यनुष्ठानं उभयत्र समाचरेत् | पायसं वाथ नैवेद्यं पर्य * * * मेव वा || १६ || विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् | नैमित्तिकमहच्चेद्धि समारभ्य स्वकालके || १७ || एकाद्यावरणान्ते तु सन्ध्या शेषं समाप्य च | वैदैश्च कलशे देवं सितेदवधिते क्रमात् || १८ || नैमित्तिकद्वयं प्राप्तौ महदादौ समाचरेत् | लघुं ते सदृशं तच्चेत् कामाचारो विधीयते || १९ || कालोऽपि द्विविधः प्रोक्तो नैमित्तिक विधौ | * * नल्प विभागेन स्वल्पासुदयनाधिकः || २० || प्. ८०३) ग्रहणादिर्महाकालः स्वल्प कालोग्रसू भवेत् | आदित्ये गृह्यमाने तु मुच्यमाने निशाकरे || २१ || भविष्यत्यथ दष्टे चेद् * * त्तनेरेकालके | विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् || २२ || सिह्मेऽपि वृश्चिके कुम्भे वृषे चादौ समाचरेत् | अर्धमेकद्वयं चापि यामं वा घटिकामपि || २३ || आदाव * * * हीयत् स्नापनादिषु कर्मसु | आचार्यं पूजयेत्पश्चाद् वस्त्रहेमांगुलीयकैः || २४ || यागोपयुक्त द्रव्यं तु हेमवस्त्रादिकं तथा | आचार्याय च तद्दद्यात् नान्यभोगाय कल्पयेत् || २५ || प्. ८०४) यागावशिष्टं यद्द्रव्यं भूषणं मण्डपस्य च | वस्त्रं स्थण्डिकं कुम्भं * * * चैकलदायिकम् || २६ || तोरणं सृक् सृवाष्टौ च मंगलं नवरत्नकम् | तद्धोमचरुनैवेद्य शेषं यन्मण्डपस्य च || २७ || शयनं धूपं दीपश्च यदन्यत्स्नपयुक्तकम् | आचार्याय च तद्देयं सन्मार्गकुलनायकम् || २८ || निष्कादि दशनिष्कादि देशिके दक्षिणा मता | निष्काष्टक हान्यस्यमष्टमार्धं तदर्धकम् || २९ || नवधा दक्षिणा क्षुद्रक्रमे स्याद्ध्यानवित्तमे | नित्ये तु कल्पयेद्भक्तिं तमनस्कोषणी तथा || ३० || प्. ८०५) निकामि शुक्रवारे च द्वादशी श्रवणान्विते | आयुष्यकरमस्ते तु रविवारे द्वितीयके || ३१ || गुरुवारे च पुष्यार्थी पञ्चमं मृगशीर्षके | सप्तम्यां च कर्तव्यं विधिना नन्दिकेश्वर || ३२ || व्याधिनाशाय कर्तव्यं भौमवारे रवावपि | जन्मत्रयविपदृक्षे प्रत्यरे षट्तथापि वा || ३३ || वैनाशिके चाष्टमे च पूजयेद्विधिना गुरुम् | शत्रुनाशाय तदृक्षे षोडशी गुणवर्धनम् || ३४ || एवं विशेषपूजा वै कर्तव्या नन्दिकेश्वर | इत्यचिन्त्यविश्वसादाख्ये विशेषपूजाविधिरेकोन चत्वारिंशः पटलः || प्. ८०६) अथ वक्ष्ये विशेषेण शिवरात्रि व्रतं पुनः | शिवानन्दं च तत्सर्वं व्रतानामुत्तमोत्तमम् || १ || ईप्सितानां च संसिद्ध्यै देव्या पूर्वमनुष्ठितम् | न बाधा यमराजस्य किंकरैरपि वर्धते || २ || एतद्व्रतानुचारी तु नरकं च न पश्यति | माघमासे चतुर्दश्यां कृष्णपक्षे विशेषतः || ३ || तद्रात्रिश्शिवरात्रिस्तु सर्वपुण्य शुभावहा | पूर्वेऽह्नि कृतसुस्नातः कृतकृत्य विधिश्शुचिः || ४ || पश्चाच्च तस्य रात्रौ तु शिवलिंगं च पूजयेत् | शिवानन्तं च संजप्य कर्तव्यं नन्दिकेश्वर || ५ || प्. ८०७) कृत्वा तु पञ्चशुद्धिं वै विधिना साधकोत्तमः | खण्डूं शमासनं तत्र संनिधीकृत्य संयुतः || ६ || पाद्याचार्घ्यादिना पूज्य सन्निधीकृत्य तं शिवम् | गन्ध ले तु चा सव्यं पिष्टेनोद्वर्तयेत्पुनः || ७ || पञ्चामृतैः पञ्चगव्यैः तत्तदुक्त्याभिषेचयत् | पवित्रैः पञ्चभिः कुर्यापञ्चांगैस्तु क्रमेण तु || ८ || पिष्टेन देवदेवेशं उद्वर्त्य च पुनः पुनः | पूर्णेन चापि पिष्टेन रजसा स्थूपितेन च || ९ || वस्त्रेण शोधितेनैव साधयेदुदकेन च | नालिकेरोदकेनैव तत्पश्चादभिषेचयेत् || १० || प्. ८०८) शुद्धवस्त्रेण संमार्ज्य लिंगं वै पीठिकान्वितम् | शुद्धेन वाससा चापि संमार्ज्याथ विधानवित् || ११ || यामः प्रति पृथग्द्रव्यैः गन्धाद्यैश्च शिवं यजेत् | चन्दनागरुकर्पूर कुंकुमाद्यैश्च भक्तितः || १२ || बिल्वैश्च जातिभिश्चैव मल्लिकोत्पलपंकजैः | दूर्वाक्षत तिलैर्वापि संयुक्त्या सम्यगर्चयेत् || १३ || गद्गुलुं गुरुनिर्यासं सज्जसारञ्च धूपयेत् | स घृतेनेन्द्र संयुक्तं वर्तिनाज्यकसंयुता || १४ || दीपमारात्रिकं विद्याद्विधिना नन्दिकेश्वर | पूर्वे तु पायसं यामे द्वितीये कृसरं भवेत् || १५ || प्. ८०९) शुद्धान्नं च तृतीये तु चतुर्थे शुद्धमन्नकम् | अशेषैर्व्यञ्जनैर्युक्तं महाहविर्निवेद्य च || १६ || घृतं च शर्करा चैव घृतसाराभिमिश्रितम् | ताम्बूल मुखवासानि दापयेन्नन्दिकेश्वर || १७ || आरात्रिकं प्रदीपं च धूपयुक्तं च दापयेत् | शिवाग्नौ होमः कर्तव्यः कुण्डे वा स्थण्डिलेपि वा || १८ || शिवाग्नेर्हृदि संकल्प्य चासनं विधिना गुरुः | संपूज्य तत्र देवाय जुहुयाज्ज्वलितानले || १९ || समिदाज्यादिभिर्लाजतिलैर्मूलांगब्रह्मभिः | शिवाद्दशांशतोन्येषां मन्त्राणामाहुतिर्भवेत् || २० || प्. ८१०) दशादि दशवृद्ध्या तु यावत्पंचाशदाहुतिः | पूर्णां कृत्वा शिवेनैव निश्छिद्र परिपूरणा || २१ || द्वन्दयित्वा तु तद्भस्म देवेशमभिवन्द्य च | पूजयेत्पुनरेवेशं यामः प्रति पुनः पुनः || २२ || देवं पूर्ववदभ्यर्च्य गुरुपूजां ततो नयेत् | दक्षिणां च ततो दद्याद्वित्तशाठ्यं विवर्जयेत् || २३ || लिंगिनश्शिवभक्तांश्च ब्राह्मणा न तिथीनपि | पूजयेद्भक्तितः शक्त्या पूजां सम्यक् समाप्य च || २४ || विष्णुब्रह्मसमं देवं शिवं परमकारणम् | संस्मृत्याथ भवेत्पूर्णः देवीं चापि रमां समाम् || २५ || प्. ८११) सरस्वत्या रमां चापि संस्मृतापि च यद्भवेत् | तत्पापमखिलं चापि शिवज्ञान प्रदायकम् || २६ || शिवं चैव गुरुं चैव केवलं मनुजस्त्वसौ | एवं स्मृत्वा तु यत्मापं कृतं तदखिलं पुनः || २७ || शिवमायाति तद्रात्रिः पापमात्रं न संशयः | शिवरात्रिसमं पुण्यं न भूतं न भविष्यति || २८ || सर्वपापहरं नित्यं व्रतानामुत्तमोत्तमम् | इत्यचिन्त्य विश्वसादाख्ये शिवरात्रिपूजाविधिः पञ्चाशत्पटलः || प्. ८१२) माघमासे तु माघर्क्षे कुर्याद्वै घृतकम्बलम् | कपिलाज्यं नवप्रस्थं कृमिकीटादिवर्जितम् || १ || नीतं नूतनं संशुद्धं सुगन्धं दीपयेद्गुरुः | अस्त्रेण निक्षिपेत्तोयं वारुणं बीजमुच्चरन् || २ || तदाज्यं पिण्डवत्कृत्वा शिवेन तदनन्तरम् | पञ्चामृतैः पञ्चगव्यैः विशेषस्नपनं भवेत् || ३ || अष्टागन्धेन तोयेन विदध्याच्छिवमव्ययम् | कृत्वा विशेषपूजां च स्थापयेच्छिवमव्ययम् || ४ || गन्धधूपादिभिश्चैव हृन्मन्त्रं सम्यगुच्चरेत् | घृते संपातहोमं च पवित्रारोपवर्त्मना || ५ || प्. ८१३) कृत्वा संस्थापयेत् कुम्भं स्थण्डिले सापिधानकम् | कवचेनावकुण्ठ्याथ प्रातर्मध्याह्नमेव च || ६ || संपूज्य पूर्ववद्देवं स्नपनादि समन्वितम् | विशेषेणार्चयित्वा तु सर्वालंकार संयुतम् || ७ || धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् | लिंगं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् || ८ || गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् | दद्याद्देवं बहिश्शम्भोः ताम्बूलेन समन्वितम् || ९ || सन्ध्यान्ते वा परेद्युर्वा कम्बलाद्यं विसृज्य च | पूर्ववत्पूजयेद् देवं गुरुं संपूजयेत्तदा || १० || प्. ८१४) दक्षिणां दापयेत्तस्य यथा विभव विस्तरम् | अयुगं चरमं पूर्वे कर्तव्यं वा नवाचरेत् || ११ || घृतकम्बलदानेन सर्वसिद्धिं समाप्नुयात् | इत्यचिन्त्य विश्वसादाख्ये घृतकम्बलविधिः एकपंचाशत्पटलः || अथ वक्ष्ये विशेषेण पुण्यनिर्णयमुत्तमम् | सर्वलोकहितं पुण्यं सर्वसिद्धिप्रदायकम् || १ || शिखरभूरतो दृष्ट्वा नमस्कुर्याच्छिवालयम् | जन्मान्तरकृतं पापं तत्क्षणाद्गलति ध्रुवम् || २ || प्. ८१९) दूराध्वानपदा शान्तं प्रादक्षिण्यं शिवालयम् | तत्क्लेशं तु शिवोप्याथ भवेत्पापौघनाशनम् || ३ || गुरुदेशालयात्तत्तु द्विगुणं फलमृच्छति | तस्माद्द्विगुणमुत्कर्षं गुरुदर्शनतो भवेत् || ४ || नमस्कारात्तु द्विगुणं स्तोत्रेणापि शतं भवेत् | आदरेण तु शुश्रूषा मोक्षाय भवति ध्रुवम् || ५ || अथवा भोगकामी चेत्सांगोपाङ्गं समाचरेत् | देवस्य चोत्सवे काले यः कुर्यात्तु परिश्रमः || ६ || पदे पदेऽश्वमेधस्य फलं तद्वद्गुरावपि | ध्वजारोहणकाले तु यथा कुर्वन्प्रदक्षिणम् || ७ || प्. ८२०) इहैव धनवांच्छ्रीमान् पुत्रपौत्रविवृद्धिमान् | ध्वजारोहणकाले तु वृषभस्य निवेद्यकम् || ८ || तद्भुक्त्वा च त्रिधा वन्ध्या लभेत्पुत्रं न संशयः | केवलं देवायतने प्रादक्षिण्य प्रवर्तनम् || ९ || सप्तजन्मकृतात्पापात् दिने नैव तु मुच्यते | नित्योत्सवस्य काले यः प्रदक्षिणमथाचरेत् || १० || रुद्रत्वं समवाप्नोति नात्र कार्या विचारणा | नमस्कारं यथा कृत्वा तथा लोके सुपूजितः || ११ || एकाङ्गं च द्वयाङ्गं च त्रयाङ्गं पञ्चमाङ्गकम् | अष्टमाङ्गं क्रमेणैव तत्तत्फलमवाप्नुयात् || १२ || प्. ८२१) शिरसा तु नमस्कारमेकांगन्त्विति कीर्तितम् | शिरसा दक्षहस्तेन द्वयांगं च भवेदिदम् || १३ || करद्वयेन शिरसा त्रयांगमिति कीर्तितम् | शिरसा पाणिपादैस्तु पञ्चांगं दण्डवद्भवेत् || १४ || शिरसा चिबुकेनैव श्रवणद्वयजानुके | करद्वयेन संयुक्तमष्टांगमिति कीर्तितम् || १५ || एवं विधैर्नमस्कारैः पञ्चभिर्नन्दिकेश्वर | सालोक्यं चैव सामीप्यं सारूप्यं सदृशं तथा || १६ || नमस्काराद्यर्चनाद्यैरेतेषां प्राप्तियोग्यता | स्थित्वा देवालयस्याग्रे प्रदक्षिणत्रयं स्वयम् || १७ || प्. ८२२) कृत्वा सामीप्यमायाति नित्यमेव न संशयः | यत्र ज्ञानक्रियायोगी दिनार्घं दिवसं तथा || १८ || दिवसाद्यं दिनं चापि दिनद्वयमथापि वा | तत्तीर्थं तपसो यज्ञन्तन्मन्त्रं च पवित्रकम् || १९ || बुद्धिपूर्वं वसेत्सापि घटिकार्धं समाहितः | यत्र यत्क्रियते पापं नाशमायाति निश्चयः || २० || जलं शुद्धमशुद्धं वा शिवधामसमीपगम् | दिव्यगंगेति तां विद्यात् तत्र स्नायात्तु यो नरः || २१ || सप्तजन्मकृतं पापं अनेनैव विनश्यति | देशिकांघ्रिज तोयेन प्रोक्षयेन्नन्दिकेश्वर || २२ || प्. ८२३) तस्य पापादिकर्माणि तत्क्षणान्नश्यति ध्रुवम् | आचार्योच्छिष्टकं यस्तु गुरोरादेशताच्छ्रुतः || २३ || तस्य शे साम्यत्वमाप्नोत्येव न संशयः | महापातक शान्तिस्तु नात्र कार्या विचारणा || २४ || सद्गुरोरंघ्रिसं स्पर्शात् सर्वपापैर्विमुच्यते | हेमादि स्वर्णदानं तु धेनूनां कोटिदानकम् || २५ || कन्याकोटिशतं दानं तत्तुल्यं लिंगदर्शनात् | लिंगसंस्पर्शनाद्भक्त्या सर्वपापैः प्रमुच्यते || २६ || स्पर्शवेदि स्पर्शनाल्लोहः स्वर्णत्वं नयते क्षणात् | तद्वत्स्पर्शनतोन्मुक्तो नात्र कार्या विचारणा || २७ || प्. ८२४) गन्धपुष्पजलोद्भूतं नानापुष्पं च यो ददेत् | शिवभक्त्या च यत्सोपि शिवलोके महीयते || २८ || तद्देशे दृश्यते पुष्पं देवतोद्दिश्य निश्चयम् | यत्कृतं शिवं संस्मृत्य मोक्षद्वारा च वै भवेत् || २९ || उद्यानं देवदेवस्य यः कुर्याद्भक्ति पूर्वकम् | इहैव धनवांच्छ्रीमान् सोऽन्ते रुद्रपदं लभेत् || ३० || प्रातः काले गवार्थं तु मुष्टिमात्रं ददेत् तृणम् | मुक्तिमाप्नोति दारिद्र्याच्छिवलोके महीयते || ३१ || वेदशास्त्रार्थविप्राणां कोटिदानेन यत्फलम् | भिक्षामात्र प्रदानेन तत्तुल्यं शिवयोगिने || ३२ || प्. ८२५) अयुतं यो गवां दद्याच्छोत्रिये वेदपारगे | गोसंज्ञातीर्थके क्षीरस्नापनेन तु तत्समम् || ३३ || लिंगं तु पञ्चगव्यैस्तु विधिना स्नापयेत्तु यः | काञ्चनेन विमानेन रुद्रलोके महीयते || ३४ || कपिलायास्तु गव्येन घृतवारियुतेन च | यथा शक्त्यभिषेकं तु कृत वांच्छंकरस्य वै || ३५ || स रुद्रपदमाप्नोति नात्र कार्या विचारणा | विध्युक्तस्नपनं कुर्याद् यो नरो भक्तिसंयुतः || ३६ || नानाभोगांश्च भुञ्जीत शिवलोके महीयते | नद्यन्तस्थं जलं शीतं गन्धपुष्पविमिश्रितम् || ३७ || प्. ८२६) सेचनाद्देवदत्तस्य तद्रुद्रूपदमाप्नुयात् | पूर्वपक्षं तु यद्द्रव्यं भोज्यं दद्याच्छिवाय वै || ३८ || फलपुष्पादयश्चापि धनधान्यादिवर्धनम् | लिंगे वा वृतमाया वा मण्डले भित्तिचित्रके || ३९ || पदे वा फलकायां वा क्षणिके मानसेऽपि वा | विधिनाप्तजयेल्लिंगं काले काले च तत् प्रियम् || ४० || मनसो मण्डलं श्रेष्ठं मण्डलाल्लक्षणिश्चिरम् | क्षणिकात्फलका श्रेष्ठा फलकायाः पटस्तथा || ४१ || पटामाभासमुत्कृष्ठं आभासाद्बिम्बमुत्तमम् | तद्बिम्बाल्लिंगमुत्कृष्टं स्फटिकं बाणजं वरम् || ४२ || प्. ८२७) सर्वपापहरं पुण्यं सर्वतीर्थफलं भवेत् | सर्वदानफलं चैव सर्वयज्ञफलं भवेत् || ४३ || ब्रह्महा भ्रूणहा वापि स्नेहहा गुरुतल्पगः | बन्धुहा बीरहा वापि मातृहा पितृहापि वा || ४४ || गोघ्नोऽपि वा कृतघ्नो वा पुत्र भ्रातृघ्न एव वा | मित्रहा वा महापापयुक्तो वा परदारिकः || ४५ || ज्ञानयोगी शिवं पूज्य सर्वपापैः प्रमुच्यते | हविर्दत्वा तु विधिना सकृत्काले शिवालये || ४६ || अल्पे महति वा तुल्यं फलमाढ्य दरिद्रयोः | इहैव धनवांच्छ्रीमान् सोऽन्ते मोक्षमवाप्नुयात् || ४७ || प्. ८२८) यतीनां ब्रह्मचारीणां गृहस्थानां सुतामपि | ज्ञानयोगक्रियाध्यानाद्दानं दारिद्र्य नाशनम् || ४८ || पुत्रपौत्रादयश्चापि वर्धन्ते धनधान्यकम् | शंखचामरवाद्यानि दर्पणच्छत्रवाससाम् || ४९ || हेमताम्रादि पात्राणां दानाद्दारिद्र्यनाशनम् | पश्चाद्रुद्रत्वमाप्नोति नात्र कार्या विचारणा || ५० || धूपघण्टां महाघण्टां देवाय विनिवेदयेत् | यशः श्रीः ख्यात्यदारिद्र्यं सिध्यत्येव न संशयः || ५१ || आसनं शयनं वापि हयं वा शिबिकादिकम् | यो दद्याद्देवदेवाय तत्सामीप्यमवाप्नुयात् || ५२ || प्. ८२९) प्रासादं मण्डपं वापि प्राकारं गोपुरं तु वा | देवाय कृतवान्सद्यः सारूप्यपदमाप्नुयात् || ५३ || राज्ञाद्याभरणादीन् दीपगन्धादिदानगः | कीर्तिमान्पुष्टिमान्लोके चान्ते देवं समाप्नुयात् || ५४ || गोचर्ममात्रकां भूमिं शिवाय विनिवेदयेत् | सर्वदानफलं तत्तु सर्वपापप्रणाशनम् || ५५ || जलसंयुक्तकेदारं सस्यार्थं दापयेद्बुधः | शिवाय वृक्षदानेन सर्वभोगप्रवर्धनम् || ५६ || यो नरः शिवयज्ञं तु कुरुते विधिपूजनम् | त्रिसप्तकुलमुद्धृत्य शिवलोके महीयते || ५७ || प्. ८३०) ज्ञानयोगेन देवेशं ज्ञात्वागुरुमुखेन वै | भक्त्या च लभते देवं पुनर्जन्म न यच्छति || ५८ || वापीकूपतटाकाद्यैर्देवमुद्दिश्य यत्नतः | कुर्वन्बहुधनाढ्यस्तु तदन्ते शिवमाप्नुयात् || ५९ || यश्शयनं च विधिना भक्तिपूर्वं समर्चयेत् | सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् || ६० || शिवादित्रयकार्याय सम्यक् प्राणान्परित्यजेत् | तस्यैव फलसंपत्तिं वर्णितुं नैव शक्यते || ६१ || स्वभावश्च विकी चैव कृत्रिमा च त्रिधा भवेत् | स्वाभाविकी तु या भक्तिः इहा मुत्र सुखप्रदा || ६२ || प्. ८३१) कृत्रिमा वै कृता चेत्तु सा परत्र सुखप्रदा | लिंगाद्धस्तशतं सार्धं शिवक्षेत्रमिति स्मृतम् || ६३ || तच्छिव क्षेत्रसामीप्ये मरणं विद्यते द्यया | स याति शिवसामीप्यं नात्र कार्या विचारणा || ६४ || अन्येषु बहुशास्त्रेषु स्वर्गमात्रफलं भवेत् | शिवं शास्त्रं विशेषेण भोगमोक्षौ क्लमाल्लभम् || ६५ || मातेन जन्मना सिद्धिं सन्मार्गं चिन्त्यरत्नके | तस्मात्सर्वप्रयत्नेन चिन्त्यसादाख्यमभ्यसेत् || ६६ || गुर्वाज्ञया च कर्तव्यं सर्वदानजपादिकम् | इत्यचिन्त्य विश्वसादाख्ये (पुण्यविधिः) द्विपंचाशत्पटलः || प्. ८३२) अतीतानि मठान्यानि देवतायतनानि च | लिंगादि पुष्करण्यादि स्थापितान्यपि केनचित् || १ || पूर्व प्रतिष्ठिकास्तस्य सहसा गुणितं भगम् | जीर्णोद्धारे शतगुणं पापनाशात्समं भवेत् || २ || लिंगान्यपि च यावन्ति पूजितान्यपि नित्यशः | स्थापिता पूजिता भक्त्या यावत्तेजो महीतलम् || ३ || तावत्संख्यासमं पुण्यं प्रासादं मठं कल्यते | वस्त्रं वा वृषभं वापि तुरगं वा वृषाह्वयम् || ४ || तैरंकित शरीरो यो नरमेधफलं भवेत् | कः पुमान तिथित्वेन लब्ध्वा नैष्ठिकमुत्सृजेत् || ५ || प्. ८३३) चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् | आचार्येण तु भुक्तेन भोजिता कोटिरुच्यते || ६ || साधके पूजिते तत्र लक्षं पुण्यफलं भवेत् | पुत्रो वाप्ययुतं पुण्यं समयस्ते समग्रहम् || ७ || शतं माहेश्वरो भोक्ता सघृतं सोपदंशकम् | चारन्तण्डुलीपुष्पं च दीपं वस्त्रफलादिकम् || ८ || शिवाय गुरवे शैवं दद्यात् तत्तत्फलं शृणु | रोमतण्डुलपुष्पाणि दीपतन्तु फलानि वै || ९ || यावत्तद्द्रव्यसंख्यानि परिसंख्यानि यावति | तावद्युग सहस्राणि शिवलोके महीयते || १० || प्. ८३४) शिवमुद्दिश्य चोद्यानं यः कुर्याद्भक्तिसंयुतः | पत्रं पुष्पं फलं यावत् तदुद्यानं भवेत्तदा || ११ || तावत्संख्येन संख्यातं शिवलोकयुतं भवेत् | शिवभक्तो जटी भूयाज्जटां प्रति दिने दिने || १२ || अश्वमेधफलं पुण्यं प्राप्यते च न संशयः | मुण्डी वापि शिखीवापि शिवायेति भवेद्यदि || १३ || नरमेधहनं पुण्यं दिनं प्रति दिनं प्रति | शिवभक्तस्य पूजायै योलिंगं दापयेद्यदि || १४ || तिलसंख्यानि यावन्ति लिंगवेदी प्रमाणके | तावत्कल्पायुतं दिव्यं शिवलोके महीयते || १५ || प्. ८३५) सूक्ष्मजन्तून्प्रतिहरन् शिवाय गुरवे तथा | संमार्जनं चैकदिनं चान्द्रायणफलं भवेत् || १६ || नैरन्तर्येण यः कुर्यात् पक्षं संमार्जनं तथा | शतकोटियुगं दिव्यं रुद्रलोके महीयते || १७ || नानादिकालिके प्राप्ते नीराजन समर्पणात् | कोट्यादित्य समो भूत्वा शिवलोके वसेत्सदा || १८ || दध्ना लिंगं सकृत्स्नाप्य विष्णुलोके महीयते | कल्पकोटि सहस्रोपदुर्जनं वाससञ्चयम् || १९ || घृतस्नानादि तत्सर्वं नाशमायाति तत्क्षणात् | लिंगस्नानेन मधुना सर्वपापं व्यपोहति || २० || प्. ८३६) अग्निना पूजितो भूत्वा वह्निलोके महीयते | एवमिक्षु रसेनैववीरो धरापतिर्भवेत् || २१ || अभ्यंगैस्तिलतैलेन वायुलोके महीयते | यो लिंगं फलसारेण स्नापयेत् पापनाशनम् || २२ || देहान्ते पितृणां यानं गच्छत्येव न संशयः | सितेन भस्मना लिंगं स्नापनं शिववत्सदा || २३ || शिवलोकादि लोकेषु पूज्य एव न संशयः | शिवाय गुरवे चैव तुटिमात्र प्रमाणकम् || २४ || हैममैन्द्रपदं रत्नं ब्रह्मवल्लोकमाप्नुयात् | देवदारुं न मेरुं च सज्जश्रीवासकुन्दरम् || २५ || प्. ८३७) श्रीफलाद्यघृतं मिश्रं धूपाल्लक्ष्मीपतिर्भवेत् | वित्सहस्रगुणाधिक्यं धूपयेद्गन्धसंयुतः || २६ || अयुतं गुद्गुलं प्रोक्तं तत्साहस्रं घृतान्वितम् | द्विगुणं महिषाक्षाभं शिवतुल्यफलप्रदम् || २७ || कृष्णागरूद्भवो धूपः सर्वपापविनाशनः | सुगन्धि चन्दनालेपं सकृत्कृत्वा तु लिंगकम् || २८ || वर्षकोटियुतं दिव्यं रुद्रलोके महीयते | चन्दनागरुतः श्रेष्ठं ततः श्रेष्ठं कमुष्णकम् || २९ || ततोऽधिकं कुंकुमं स्यादन्योन्यं चाष्टमाधिकम् | अन्याश्चतुर्गुणं श्रेष्ठं धूपं गुल्गुलुमिश्रितम् || ३० || प्. ८३८) तदर्धं पनसादीनां फलानां सरसामपि | ताम्बूलं तैलकर्पूर विफलासंयुतं भवेत् || ३१ || शिवाय गुरवे चैव दानमत्यन्तमुत्तमम् | इहैव धनवांच्छ्रीमान् परत्र च परां गतिम् || ३२ || मामृतां हैरिमररवतिमिलापटहादिकम् | शंखतालककांस्यादिकाहलं वेणुनन्दनम् || ३३ || शिवाय विनियोगेन शिवलोके विमानके | शिवतुल्यबलोपेतो वसेत्कल्पायुतं सुखी || ३४ || मुक्तादामत्रिशोभाढ्यं प्रासादेऽपि मठेऽपि वा | यः कुर्यात्सर्वलोकेषु शिववन्मोदते चिरम् || ३५ || प्. ८३९) स्तोत्रं गीतं च देवाय भक्त्या परमया युतः | तच्छ्रोतारश्च वृक्षाश्च कृमिकीटादयस्तथा || ३६ || शिवसालोक्यमाप्नोति किं पुनः स्तोत्रगेयवान् | नृत्तं शिवाय यः कश्चित्कुरुते तत्फलं शृणु || ३७ || सूर्याय पूजयेद्यस्तु सेव्यमानोप्सरोगणैः | नृत्तगीतादि संयुक्तः शिवलोके महीयते || ३८ || कामादकामतो वापि भ्रूणहत्यादि पातकम् | तत्सर्वं शास्त्रदानेन नाथमायाद्यनिश्चयम् || ३९ || महापद्मविमानेन शिवलोके महीयते | ज्ञानयोगक्रियाचर्याः सर्वे भक्तिप्रधानकाः || ४० || प्. ८४०) तस्माद्भक्तिप्रधानं तु शृणुत्वं नन्दिकेश्वर | मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् || ४१ || अभ्यर्चनं स्वयं भक्त्या ममार्थे च * * * * | मत्क्थाश्रवणे भक्तिः स्वरनेत्रांगविक्रिया || ४२ || ममानुस्मरणं नित्यं य मानोपजीवति | भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते || ४३ || स विप्रेन्द्रो यतिः श्रीमान् वाक्पतिस्स च पण्डितः | न मे प्रियश्चतुर्वेदीमद्भक्तः श्वपचोऽपि यः || ४४ || तस्यैते यत्नतो ग्राह्यं स च पूज्यो यथाह्यहम् | आयान्तं शिवभक्तं वै दृष्ट्वा दद्याद्विमानकम् || ४५ || प्. ८४१) तमहा सर्वदा नन्दिन् युष्मद्दर्शनवत्प्रियः | शिव * * * * * * दासनं श्रद्धयान्वितः || ४६ || विंशद्वर्षसहस्राणि चन्द्रलोके महीयते | गंगास्नानसमं पुण्यं दृष्टमात्रे न संशयः || ४७ || जलेन शिवभक्ताय पादप्रक्षालनं भवेत् | यशोवतीं समाश्रित्य मोदते युगपञ्चकम् || ४८ || घृतेनाभ्यज्य चोद्वर्त्य विष्णुलोके महीयते | शिवभक्ताय यो दद्यान् मुखवासं च भक्तितः || ४९ || वर्षकोटि सहस्राणि कौबेरं पुरमाप्नुयात् | सम्यगाचमनं कृत्वा पश्चादर्घ्य प्रदानकम् || ५० || प्. ८४२) शिवभक्ताय यो दद्यात् शिवलोके महीयते | शिवभक्तस्य दीपस्य प्रदानं ज्ञानमुत्तमम् || ५१ || संवीज्य तालवृन्तेन शिवभक्तं नरं हि यः | वायुना पूज्यमानोऽसौ वायुलोकं स गच्छति || ५२ || युगकोटि सहस्राणि रुद्रलोके महीयते | ऊर्णं प्रावरणं दद्यात् शिवभक्ताय शक्तिमान् || ५३ || निष्करोमवशादेव स्वर्णदानफलं भवेत् | तत्तद्व्याघ्रादि चर्माणि तत्वादिफलमाप्नुयात् || ५४ || शिवभक्ताय यो दद्याद् भोजनं तत्फलं शृणु | कल्पकोटि सहस्राणि रुद्रलोके महीयते || ५५ || प्. ८४३) * * * * * * * * कल्पकोटि शतानि च | शिवलोकादि लोकेषु शिववन्मोदते चिरम् || ५६ || क्रमादाक्रम्य लोकेऽस्मि राजा भवति धार्मिकः | अथवा ज्ञानयोगादीन् लब्ध्वा मोक्षमवाप्नुयात् || ५७ || पितॄनुद्दिश्य यो भक्तः शिवभक्तांश्च भोजयेत् | समस्ताः पितरस्तेऽपि शिवलोके महीयते || ५८ || पाटल्युत्पलगन्धादि शीतलस्त्वे रियः * * | शिवभक्तस्य दानेन वारुणं लोकमाप्नुयात् || ५९ || शिवभक्ताय यो दद्यात् कमण्डल्वादिकं शुभम् | वर्षकोटियुतं दिव्यं विष्णुना पूजितो भवेत् || ६० || प्. ८४४) विश्वभेषजवर्गादि शिवभक्ताय दानतः | कल्पकोटिसहस्राणि भवेत्सूर्येण पूजितः || ६१ || निक्षेपरक्षणं कृत्वा शिवभक्ताय यो नरः | शिवलोकं समाश्रित्य न पुनर्गच्छतीह सः || ६२ || रोगार्तशिवभक्ताय भैषज्यानि प्रयच्छति | युगकोटिशतं दिव्यं शिवलोके महीयते || ६३ || तस्माद्धारं च भक्ताय यो दद्याद्भस्म संयुतम् | सर्वतीर्थफलं लब्ध्वा शिवलोके महीयते || ६४ || योगपट्टं च यो दद्याच्छिवभक्ताय यो नरः | वस्त्रयुग्म सहस्रस्य दत्तस्य फलमाप्नुयात् || ६५ || प्. ८४५) शिवज्ञानाभियुक्ताय शिवज्ञानस्य पुस्तकम् | यो दद्यात्सकलं दत्तं शिववन्मोदते चिरम् || ६६ || शिवशास्त्रस्याध्ययितुं फलं पुस्तकदानतः | कोटिकोटियुतं पुण्यं प्राप्नोत्येव न संशयः || ६७ || शिवज्ञानार्थं निर्णीतुं फलं वाचामगोचरम् | रुद्राक्ष मालादानेन शिवभक्ताय यो नरः || ६८ || स रुद्रपदमाप्नोति रुद्रलोके महीयते | शिवभक्ताय यो दद्याच्छत्र दण्डसमन्वितम् || ६९ || शतयोजन विस्तीर्नां पृथ्वीं भुंक्ते स पत्निकः | उपानह् शिवभक्ताय दानं कुर्यात्तु यो नरः || ७० || प्. ८४६) रथादिवाहनं लब्ध्वा शिवलोके महीयते | उपदेशं विना यस्माच्छिव धर्मं न चारयेत् || ७१ || उपदेष्टानुमन्ता च कर्मकारव्रताय च | कृतानुपावृतं चैव पञ्च तुल्यफलाः स्मृताः || ७२ || एतेषामपि सर्वेषां रक्तियुक्तोत्तमोत्तमः | आलयादीनि सर्वाणि रक्षक्षेर्ण विहीयते || ७३ || माशमायाति सर्वंस्तु तस्माद्रक्षक उत्तमः | रक्षको हि जगत्कर्ता रक्षको हि जगद्गुरुः || ७४ || रक्षको हि पिता माता रक्षकस्सर्वदा सुहृत् | समयी दासमार्गश्च शिवभक्तिपरायणः || ७५ || प्. ८४७) एतानि समयस्थस्य पर्यायवचनानि वै | शिवार्चकः पुत्रमार्गी पुत्रसंस्कारदीक्षितः || ७६ || सहमार्गश्च योगी च साधको योगदीक्षकः | साधकैरभिषिक्त इति तस्य पर्यायवाचकम् || ७७ || ज्ञानविज्ञानदीक्षां वा नानारोप्यभिषिक्तकः | सन्मार्गीत्येव नामानि देशिकस्यैव तत्वतः || ७८ || भक्तो दीक्षाकरश्चापि समयी च विशिष्यते | समये युक्त संस्कारं सहसा साधकोत्तमः || ७९ || स एव योगयुक्तश्चेत् सहसा गुणमुत्तमः | स एव च शिरो भूत्वा सहसा च विशिष्यते || ८० || प्. ८४८) पञ्चविंशत् सहस्रं तु शिवज्ञानं हि लोहितः | आचार्यः प्रथमः प्रोक्तः पञ्चाशन्तु सहस्रकी || ८१ || मध्यमाचार्य इत्युक्तो लक्षाध्यायी तदुत्तमः | आगमानां च सर्वेषां सारात्साराख्यतन्त्रकम् || ८२ || तस्मादध्ययनादस्य सर्वांगकविदां वरः | केवलं भक्तिमार्गे च दानं प्रोक्तमिहागमे || ८३ || समयादिदेशिकान्तं तु वैशिष्यादिकवत्फलम् | दानधर्मादि पूजासु वै वैशिष्यमिष्यते || ८४ || कृपया पाणिना दानं शिवभक्त समं भवेत् | इत्यचिन्त्य विश्वसादाख्ये पुण्य निर्णयविधिर्द्विपञ्चाशत्पटलः || प्. ८४९) अतः परं व्रतं वक्ष्ये दीक्षितानां हिताय वै | वैदिकं शैवमित्येवं व्रतं हि द्विविधं भवेत् || १ || त्रैवर्णिकानां कर्तव्यमुपनीतादि वैदिकम् | शिवदीक्षा प्रदानं तु शैवमत्यन्तमुत्तमम् || २ || वाग्देवी योनिजातत्वाच्छिव पुत्रत्वकारणात् | विप्रादि दशवर्णानां योगित्वमुपजायते || ३ || ब्रह्मचारी गृही चैव वानप्रस्थोऽथ भिक्षुकः | चतुराश्रममेवं स्याद् गोचराणां तु पञ्चकम् || ४ || द्विविधं ब्रह्मचर्यं हि नैष्ठिकं भौतिकं तथा | आजन्म ब्रह्मचर्यं तु यावदामरणान्तिकम् || ५ || प्. ८५०) जटी मुण्डी शिखीवाथ कौपीनी तु समेखलः | यज्ञोपवीती दण्डी च भस्मोद्धूलित विग्रहः || ६ || त्रिपुण्ट्रांकित देही च रुद्राक्षैश्च विभूषितः | त्रिकालमेककालं वा स्नानयुक्तो जितेन्द्रियः || ७ || सत्यवादीप्यधश्शायी क्षमायुक्तो दृढव्रतः | गुरुशुश्रूषणायुक्तो गुर्वाज्ञा पालने रतः || ८ || भिक्षाशी देहरक्षार्थमेककालं गुरोर्गृहे | ताम्बूलमञ्जनं चैव हरिद्रां लवणं तथा || ९ || पादुकां मकुटं वापि गन्धमाल्यादिवर्णनम् | गुरोः स्थाने वसेन्नित्यमन्यगेहे न च स्वपेत् || १० || प्. ८५१) स्वस्वातन्त्र्यादिकं हित्वा गुरुस्वातन्त्र्यसंयुतः | पुण्यक्षेत्रं च तीर्थं च दानं कर्मादिकं तथा || ११ || सर्वं च गुरुकारुण्यं दर्शनं च पुनः पुनः | गुर्वाज्ञया विहीनं तु तपोदानादि निष्फलम् || १२ || नैष्ठिकं ब्रह्मचर्यं तु गृहस्थानां विधिं शृणु | कालं संकल्प्य विधिना पूर्ववद्ब्रह्मचर्यकम् || १३ || अन्ते व्रतेश्वरं यागं कृत्वोद्वाहं ततश्चरेत् | गृहस्थाचरणं कुर्याद् द्विविधं ब्रह्मचर्यकम् || १४ || गृहस्थानां व्रतं वक्ष्ये शृणुत्वं नन्दिकेश्वर | विवाहं विधिना कृत्वा गृहिण्या सह वे युक् || १५ || प्. ८५२) गुरुदेवाग्निपूजां तु नित्यं भक्ति समन्वितः | अतिथ्याभ्यागतानां तु यथाशक्तिं च पूजयेत् || १६ || गृहधर्ममशेषं च प्रासादं मठकल्पनम् | सन्तानवृद्धिस्सर्वं च रक्षसां च विशेषतः || १७ || अध्यायाध्यापनं चैव यजनं याजनं तथा | दानं प्रतिग्रहश्चैवं षट्कर्म ह्यागमोदितम् || १८ || सदाचार्याभिषेकेण युक्तश्चेद्याजनं भवेत् | गृहस्थस्य तु कर्तव्यं नैष्ठिकानां तु नैष्ठिकः || १९ || शिखी वा बद्धकेशो वा बाह्य यज्ञोपवीतवान् | आतुरेण युते वापि दीक्षितस्य विशेषतः || २० || प्. ८५३) रुद्राक्षहेमरत्नादि स्फटिकैरजतादिभिः | अलंकृतांग यष्टिः स्याद्गन्धैर्माल्यादिभिस्तथा || २१ || स्त्वदाने संगतिर्नित्यं मृत्युकाले विशेषतः | आर्थवान् षोडशादीनं सन्तानार्थाय मैथुनम् || २२ || गृहस्थाश्रम एवं स्यात्कर्तव्यं नन्दिकेश्वर | वानप्रस्थाश्रमस्थानां आचारं शृणु सांप्रतम् || २३ || सभार्यो भार्याहीनो वा द्विविधं शिवभाषणे | वने संवासिनो नित्यं शाकमूलफलाशिनः || २४ || गृहस्थानां सपत्नीको अन्वा चैव तदेव हि | व्रतं भार्यावियुक्तानां ऽऽ सृणुत्वं नन्दिकेश्वर || २५ || प्. ८५४) कुडुम्बं पुत्रपौत्रादीन् दारान्वै मातुलां स्तथा | भ्रातॄन्सखींश्च जनकं जननीं च तथैव च || २६ || वेदं वेदांगकाश्चापि यज्ञसूत्रं शिखां तथा | अग्निष्टोमादिकान्यज्ञान्त्रेतां चैव तथैव च || २७ || कामंक्रोधं च लोभं च मोहं मदविवादनम् | डम्भगन्धोक्तिकं चैवमीषणात्रयमेव च || २८ || सप्तपातालकप्राप्ति सप्तलोकाश्रयं तथा | अणिमाद्यष्टकं सर्वं वर्जयेन्नन्दिकेश्वर || २९ || शिवोहंभावसंयुक्तो बाह्याभ्यन्तरशौचयुक् | त्रिकालस्नानसंयुक्तोप्येककालेन वा युतः || ३० || प्. ८५५) भस्मोद्धूलित सर्वांगो धौतकाषाय संयुतः | कौपीनदण्डसंयुक्तो लिंगार्चनपरायणः || ३१ || शिवयोगेन संतुष्टो शिवध्यानपरायणः | शिवानुभूति संयुक्तः सर्वक्लेश विवर्जितः || ३२ || प्रियाप्रियसमश्चैव समलोष्ठाश्मकाञ्चनः | सर्वात्ममैत्रभावश्च सदा सन्तुष्टि संयुतः || ३३ || स्त्रियं कुणपवत्पश्यंश्छिवभाव समन्वितः | अभेद्यो मत्तवान्नित्यं शिवभाव्यश्च भेदिकम् || ३४ || स शोको न्यस्य दुःखानि चाविश्वस्वस्य दुःखयुक् | चेष्टते तत्वदेवाय परदुःखेन दुःखितः || ३५ || प्. ८५६) बालोन्मत्तपिशाचानामेवं गुणसमन्वितः | मूलमन्त्रं जपेन्नित्यं शिवध्यानपरायणः || ३६ || जपोपरति संयुक्तो ध्यानमेव समाचरेत् | ध्यानोपरति संयुक्तो पश्चान्मूलं जपेत्सदा || ३७ || औषधादन्नपानादीन् क्षुद्वाधा शान्तये चरेत् | भिक्षार्थं ग्राम संवेशं वृक्षमूले मठेऽपि वा || ३८ || अन्येन कल्पिते चैव वासं कुर्यान्मठादिषु | सन्ध्या वन्दकश्चापि यतीनां ज्ञान सन्ध्यया || ३९ || यतयस्त्रिविधा ज्ञेयास्तपस्वि विदुषस्तथा | विद्वानिति त्रिधा प्रोक्तास्तेषां भेदं शृणु क्रमात् || ४० || प्. ८५७) तपोनिष्ठस्तपस्वीति तस्य युक्तिस्सु संवृतः | नाध्येतव्यं न सांकल्पं न श्रोतव्यं कथञ्चन || ४१ || शिष्याणां संग्रहं चैव नैव विद्या प्रकाशनम् | न वदेत्संस्कृतां भाषां न दण्डी चक्रमण्डलः || ४२ || लिंगं क्षणिकमभ्यर्च्य भक्तिमात्रेण संशयः | प्रियाप्रियं च संकल्प्य समलोष्ठाश्मकाञ्चनः || ४३ || एकाकी वृक्षमूले वा वने वा जनवर्जिते | जनाद्भीति समायुक्तो वसेद्बाहूपधानकः || ४४ || वसनं येन केनापि तथैवाशनपानकम् | पाणिपात्रे वरेत्पार्श्वे याचितं तेन जीवितम् || ४५ || प्. ८५८) इत्यतस्तु तपस्वी स्यात् साधको यदि नाम वाक् | विदुषोर्यद्यतेश्चापि वर्तनं नन्दिकेश्वर || ४६ || अध्यापनं चाध्ययनं श्रवणं चिन्तनं तथा | एवं चतुष्टयं तस्य विदुषश्च विशेषतः || ४७ || विद्वद्यतेर्विशेषोऽस्ति व्याख्यानं चिन्तनं भवेत् | सदाचार्याभिषेकेण युक्तो विद्वत्समाख्यकः || ४८ || यतिना स्त्रिविधं त्वं हि शैवानां चतुराश्रमाः | चतुराश्रमिणां मध्ये वैशेषिक व्रतं शृणु || ४९ || शिवश्शिखा तथा ज्योतिः सावित्री व्योमगोचरा | तथा संख्येन संख्यास्युर्व्र?क्तिश्चापि शृणु क्रमात् || ५० || प्. ८५९) गोचराणां तु पञ्चानां प्रजावन्द्यादिकं भवेत् | समये मो * * * * स्वाध्यायस्सत्यवादिता || ५१ || ब्रह्मचारी चरेदेवं प्राजापत्यव्रतं शुभम् | शान्तिकं पौष्टिकं चैव सुदुषानां सदा तथा || ५२ || अभिस्सर्वत्र संसारान् महीपालाख्य तं व्रतम् | निपति * न्कणान्भूमौ भक्षणार्थमुपेतवत् || ५३ || कपोत वृत्तिवित्तास्तुते वै कापोतिकाः स्मृताः | अभ्यासात्सततं ग्रन्थमाममादि महायशान् || ५४ || देवताभ्यस्य जन्त्यर्थांस्ते वै तद्ग्रन्थकावृता | नदीतीरेऽपि वेलायां कुटीं कृत्वा निवासनम् || ५५ || प्. ८६०) ब्रह्मचारिव्रतं ह्येतत् कुटिकं प्रकीर्तितम् | एते पञ्च व्रताः प्रोक्ताः प्रेतवेताल * * * || ५६ || तीर्थे जरांके वापि वने वा भार्यया वृतः | तपोत्साहसमायुक्तो वेताल प्रतिमानयुक् || ५७ || गत्यर्थमर्कपत्राशी पत्राहुति समन्वितः | वानप्रस्थाश्रमी भूमौ * * * * * * * * || ५८ || * * का च रक्षा ये च ज्ञानयोगादि संयुताः | स्वयमुत्पन्न * * श्च हंसकास्ते अमी मताः || ५९ || धृतराष्ट्रव्रतं पश्चाद् ब्रह्मचर्येण संयुतः | योगाचार * * * * करणेन्द्रिय निर्जितः || ६० || प्. ८६१) देशाद्देशान्तरं कृत्वा धृतराष्ट्रव्रती भवेत् | शिवज्ञानगतः पश्चाद् गूढाचारश्च संवृतः || ६१ || शिवैकगति निष्पापन्तदेकव्रतगो भवेत् | गोपाला * * * पश्चाद् गोनिवासे निवासनः || ६२ || पञ्चगव्यं पिबेन्नित्यं जपध्यानपरायणः | वायव्यतीर्थं संयुक्तः पञ्चेन्द्रिय विनिर्मितः || ६३ || गोपालव्रतिगो भूयात् त्रीणि मात्रधनादपि | नित्यं चान्द्रायणे नैव सर्वपापं विनश्यति || ६४ || * * * * वदं चैव ब्रह्मचर्य विवर्धनम् | कुटिकानां व्रतं ह्येतद् ज्ञानयोग प्रकाशनम् || ६५ || प्. ८६२) धमविद्या च सहितो मठवासी जितेन्द्रियः | भिक्षान्नभोजनं नित्यं मठकाख्यव्रतं भवेत् || ६६ || * * * * व्रतं पश्चाद् घुटिकानां तु भोजनात् | देहं च तेन संरक्ष्य घुटिकाख्यो व्रती भवेत् || ६७ || दण्डव्रतं च तद्ग्राह्यं दण्डासन समन्वितः | शिवध्यान समायुक्तो दण्डतण्डं च संग्रहम् || ६८ || ब्रह्माद्यतव्रतं पश्चाद् ब्रह्मचर्यं च * * * | * * * * * * वासी नित्यं त्रिषवणिस्तथा || ६९ || कुटिचारव्रतं पश्चात् स्वदारास्थितमासनः | सद्योचित्तधनैर्युक्तः कुटिचाराद्विशेषतः || ७० || प्. ८६४) कुन्दीचाराख्यकं ह्येतद् गृहस्थानामिदं भवेत् | * * * * तथा श्राव्यं शुद्ध्यते याश्रये तथा || ७१ || तत्र देशे वने वापि जपध्यानपरायणः | हंसव्रतानि साव्युक्तास्तस्मात्परम हंसकम् || ७२ || ग्रामैकरात्र मात्रेण पृथ्वीं च सकलामतान् | यतीनां परहंसानां * * * * * हेतुकम् || ७३ || प्रोक्तं वैशेषिकं नन्दिन् दीक्षितस्तु समाचरेत् | यावज्जीवं व्रती भूत्वा कालसंकल्पसंयुतः || ७४ || समाप्ते कल्पिते काले यते सद्यव्रते वरम् | तद्व्रतेश्वरयागं तु शृणुत्वं नन्दिकेश्वर || ७५ || प्. ८६५) यागस्थानमलंकृत्य पुष्पमालोपशोभितम् | गोमयालेपनं कृत्वा मण्डलं चतुरश्रकम् || ७६ || भूतपद्मं लिखेत्सम्यक् श्वेताब्जं मध्यगं भवेत् | ऐन्द्रांशं वै पद्मकं स्याद्दक्षिणं चाञ्जनात्मकम् || ७७ || श्वेतं च पश्चिमे भागे * * * * * * * * थोत्तरे | ईशानादि क्रमेणैव मध्य पद्मादिपञ्चके || ७८ || पञ्चब्रह्मस्वरूपेण पूजयेद्देशिकोत्तमः | तत्तन्मन्त्रं शतं जप्त्वा भक्तियुक्तो व्रतेश्वरम् || ७९ || विज्ञाप्य व्रतमीशाय व्रतपूर्णत्व हेतवे | पञ्चभिः कलशैश्चैव पञ्चब्रह्मादि साधितैः || ८० || प्. ८६६) तैरेव स्नापयेच्छिष्यं व्रतमित्येव देशिकः | व्रतेश्वरं नमस्कृत्वाच्छ्रुत्यातं श्रावयेद्व्रतम् || ८१ || तदभावे जपेल्लिंगं तदभावे विशेषतः | मञ्जनं मृद्भवं चैव गोमयोद्भूतलिंगकम् || ८२ || पिष्टजं सैकतोद्भूतं नदीतीरादिकोद्भवम् | संपूज्य भक्तिसंयुक्तो व्रतस्तुत्यन्तकारणात् || ८३ || व्योमव्यापि शिवेनैव जलेनैवं विनिक्षिपेत् | कपनं पर्चयित्वा तु अन्यत्सर्वं समं भवेत् || ८४ || अथ वक्ष्ये विशेषेण वनानां व्रतमुत्तमम् | विशेषः कथ्यते यन्त्रि शृणुत्वं नन्दिकेश्वर || ८५ || प्. ८६७) ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः | चतुराश्रमवृत्तिस्तु पूर्वमेवोदितं क्रमात् || ८६ || सन्यासाश्रममत्यन्तं मुक्तिदं दीक्षितं भवेत् | तस्मात्तद्व्रतमुक्तिस्तु नास्ति कैवल्य कारणम् || ८७ || ब्रह्मचार्यादि युक्तश्चेद् गृहस्थाश्रममाश्रयेत् | वानप्रस्थाश्रमं वापि गृहस्थानां ततोऽधिकम् || ८८ || वानप्रस्थाश्रम स्थानां सन्यासी तु विशिष्यते | एतेषामपि विन्यासं योग्यं मुख्यं विधीयते || ८९ || ब्रह्मचर्यव्रतस्थानां मुक्तिरत्राभिधीयते | पूर्वोक्त पञ्चपद्मेषु सद्योजातादि पूजयेत् || ९० || प्. ८६८) तत्र संयमकौपीनं दण्डभस्मजटाः पुनः | व्रतांगपञ्चकं ह्येतत् प्रत्येकं तु शतं हुनेत् || ९१ || पञ्चब्रह्मषडंगैश्च होमयेद्देशिकोत्तमः | उपोषितशिरोरंगामुपनीयांगकानि वै || ९२ || सद्योजातादिभिर्मन्त्रैश्चन्दनाद्याय दापयेत् | संमर्द्य विधिना चैव जलचाहेत्प्रवाहयेत् || ९३ || आहतं वस्त्रयुग्मं तु दद्याच्छिष्याय देशिकः | अन्यकामानुरूपं च कुलीनां परिणेष्यभिः || ९४ || एवमुक्त्वा कृतं शिष्यं गार्हस्थ्ये च नियोजयेत् | वानप्रस्थो गृहस्थो वा ब्रह्मचर्ययुतोऽपि वा || ९५ || प्. ८६९) सन्यास व्रतसिध्यर्थं पूर्वाश्रम विमुक्तये | संश्रयेद्यति वृत्तं तु तं वक्ष्ये नन्दिकेश्वर || ९६ || पूर्वोक्त पञ्चपद्मेषु पूजां कृत्वा विधानतः | पादादि मूर्धपर्यन्तं दिव्यदृष्ट्या निरीक्षयेत् || ९७ || शिष्यं विमुक्ति सिध्यर्थं संहारन्यास पूर्वकम् | जटिनं शिखिनं चैव मुण्डिनं वा विधाय तम् || ९८ || उपवीतं त्यजेद्भूमौ जले सन्यस्तमन्त्रतः | मातरं पितरं पुत्रं कलत्रमुपवीतकम् || ९९ || शिवं विहाय सत्यं च सन्यस्तमिह तन्मया | एतन्मन्त्रं पठेत्पञ्चवारं सद्गुरुसन्निधौ || १०० || प्. ८७०) सद्यमन्त्रेण कौपीनं काषायवसनं तथा | वैणवं दण्डमस्त्रेण भूतिकोशं शिवेन च || १०१ || भिक्षापात्रं च शिरसा कवचेनावगुण्ठनम् | एतैर्मन्त्रैश्च संसाध्य शिष्याय प्रददेद्गुरुः || १०२ || बाणलिंगं शिवज्ञानपुस्तकं च प्रदापयेत् | यावत्कालाच्छिव ज्ञानं द्रढीभवति तत्र वै || १०३ || यावत्कालं च कर्तव्यं श्रवणादि विशेषतः | एवं वदेत्तु तं शिष्यं देशिकः कृपया युतः || १०४ || शैवानां कृतमुक्तिस्तु संक्षेपात्कथितः क्रमात् | बोध्याथ वान्यलिंगस्थास्तत्तत्समयकल्पितान् || १०५ || प्. ८७१) व्रतमुक्तिविशेषांश्च शैवप्राप्तिं शृणु क्रमात् | शोध्योदयश्च नीबद्धिस्तत्वैकगुरुमौलिषु || १०६ || वेदान्ते चात्मतत्वे च आनन्दं भगवन्मुखात् | मायातत्वे पाशुपते विद्यातत्वे महाव्रताः || १०७ || सौगताद्यन्यतीर्थानां बौद्धानां मुक्तिकाविधिः | पञ्चरात्रं त्रिरात्रं वा सोपवासपरायणाः || १०८ || प्रायश्चित्तविधि तं मण्डपाद्बहिरेव च | शिवं संपूज्य विधिना भक्ति युक्तस्सदा गुरुः || १०९ || अमीषां व्रतचिह्नं तु देशिकोत्प्यनयत्पुनः | बुद्धितत्वादि वृक्ष्यन्तं होमयेत्तत्पृथक् पृथक् || ११० || प्. ८७२) स्वस्वनाम्ना च मन्त्रेण हुत्वा सन्मार्गनायकः | बाह्यस्थितानामेतेषां नाडीयोजन संयुता || १११ || विधाय विधिनासम्यग्विशेषं कर्षणं तथा | स्वात्मन्येव स्थितं कृत्वा मूलेन स्वाहया हुनेत् || ११२ || तत्तत्पुण्यफलत्वं हि हेतवेऽग्नौ च होमयेत् | अस्त्रेणाष्ट सहस्राणि लिंगिनं लिंगिनं प्रति || ११३ || मूलेन प्रतितत्वानां विमुक्त्यै पञ्चपञ्चकम् | उद्धृत्य बुद्धितत्वानि वृत्तान्तं तं नियोजयेत् || ११४ || योगस्थित्यैश्च पूर्वान्तं शिवाग्नौ योजयेत्पुनः | अष्टोत्तरशतं हुत्वा मूलमन्त्रेण देशिकः || ११५ || प्. ८७३) वृत्तांगानि जलं क्षिप्त्वा तथा पाशुपतेन च | अथवा रागकार्योस्तु घृतमेकं क्रमं शृणु || ११६ || पूर्ववद्बाह्य यजनं कृत्वा सन्मार्गनायकः | दलाष्टकसमोपेतं पद्मं संलिख्य देशिकः || ११७ || क्षोंकारं कर्णिकामध्ये शिवमन्त्रैश्च दिग्दलैः | कवर्गं पूर्वोत्तरे चैव च वर्गं वायुदिग्दले || ११८ || तवर्गं पश्चिमे चैव नैर्-ऋते तु टवर्गकम् | चवर्गं दक्षिणेनैव कवर्गं वह्निदिग्दले || ११९ || अवर्गं पूर्वदिग्भागे योजयेद्देशिकोत्तमः | पञ्चब्रह्मषडंगैश्च स्वरैः षोडशकैरपि || १२० || प्. ८७४) क्षोंकारं च शिवं पूज्य तत्तद्वह्नौ तु होमयेत् | वर्णवर्गाष्टकानां तु तर्पणाय यजेत्पुनः || १२१ || अग्नये चाञ्जलिं कृत्वा शिष्य चैतन्य योजनम् | सन्मार्गनायकः कुर्यात् पूर्ववन्नन्दिकेश्वर || १२२ || पूर्णाहुतिं ततः कृत्वा षडंगेन शतं हुनेत् | अग्नेराकृष्य * * * * * * * क्रमाद्गुरुः || १२३ || जलप्रवाहे निक्षिप्य जलांगानि च सर्वशः | पश्चादस्त्रयुतं दत्वा दीक्षाकर्म समाचरेत् || १२४ || यतीनामाश्रमे चैनं भाव्यास्थो वा नियोजयेत् | तत्तदीक्षानुसारेण दीक्षयेत्तं विशेषतः || १२५ || स्थण्डिले साग्रमन्त्रादीन्विसृज्यास्त्रेण शोधयेत् | इत्यचिन्त्यविश्वसादाख्ये वृत्तिसिध्यादिविधिः षट्पञ्चाशत्पटलः || प्. ८७५) अतः परं प्रवक्ष्यामि वास्तुहोमविधिं परम् | स्थण्डिलं विधिना कृत्वा चतुष्षष्टि पदान्वितम् || १ || पूर्वादिककाल मध्ये जलभाण्डं तु विन्यसेत् | मध्ये चतुष्पदेनापि ब्रह्माणं तु समर्चयेत् || २ || अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् | समिदाज्येन चरुणा वास्तुदेवान्स्वमन्त्रकैः || ३ || होमयेत्तु पृथङ्मन्त्री चत्वारिंशन्नवाथकम् | शंकरश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः || ४ || मार्ताण्डस्सत्यको भ्रंशोप्यन्तरिक्षस्तथैव च | वह्निः पूषा च वितथो ग्रहक्षतयमौ तथा || ५ || प्. ८७६) गन्धर्वो भृंगराजस्तु ऋतगो निर्-ऋतिस्तथा | दौवारिकश्च सावः पुष्पदन्तस्तथैव च || ६ || अरुणश्चासुरश्चैव रुद्रो रुद्रजयस्तथा | मरीचिस्सविता त्वै मित्रश्चैव धराधरः || ७ || च करी च विदारी च पूतना पापराक्षसी | स्कन्दश्चैवार्यमा चैव जंभगः फलपिंछकः || ८ || मध्ये पूर्वं तु देवानां वास्तुहोमं स्वनामभिः | पर्यग्निकरणं कृत्वा षट्सदर्भैः समाहितः || ९ || प्रोक्षयेत्सर्वतीर्थेषु सर्वदोषप्रशान्तये | वास्तुहोमं च कर्तव्यं प्रतिष्ठादौ विशेषतः || १० || इत्य चिन्त्यविश्वसादाख्ये वास्तुहोमविधि पटलः || प्. ८७७) अथ वक्ष्ये विशेषेण प्रतिष्ठालक्षणं परम् | शिवमन्त्रैर्यथा योगं पीठशक्तिं शिवं तथा || १ || पिंगं शिव इति ख्यातस्तद्योगं भोगमोक्षदम् | तद्योगं च प्रतिष्ठाद्याः पञ्चभेदा मयोदिताः || २ || वैर्णारिश्चाग्निसंयोगः प्रतिष्ठेत्यादितोदिताः | विष्ठरे च यथायोगं निर्नेशास्थापनं भवेत् || ३ || लिंगद्विभेद भेदस्य स्थितिस्थापनमेव हि | उत्तापनास्यलिंगस्य प्रोद्धारगमनोद्यताः || ४ || लिंगमारोप्य यस्यां वै संस्कारः क्रियते यदा | आस्थापनाख्य चैवं तु पञ्चधा तु शिवं श्रिता || ५ || प्. ८७८) विष्ण्वादीनां प्रतिष्ठानां आस्थायोत्थाप्यभेदतः | पञ्चधा तत्र विहिता यथा योगं क्रमाद्भवेत् || ६ || प्रासादादीनि कर्माणि भूपरीक्षा भवेत्तदा | शुक्ला रक्ता च पीता च कृष्णाप्येवं चतुर्विधा || ७ || आज्यगन्धा * * * * * * रक्तसुगन्धिनी | सुधागन्धा यथा संख्या ब्राह्मणाद्या वसुन्धरा || ८ || ईशपूर्णतरं किंचित् स्तवयुक्तं प्रशस्यते | उक्तवर्णमृदोऽलाभे वर्णावाधारमुच्यते || ९ || हस्तमात्रे तु कले तु मृदमादाय तां पुनः | अपदन्त मृदा चैव पूरयेदधिका भवेत् || १० || प्. ८७९) अघोरास्त्रेण मन्त्रेण सहस्रं विधिना तदा | भूमिं भुवि स्थलीं कृत्वा शोधयेत्कुंकुमैस्तथा || ११ || रेवाहोमाक्षताद्यैश्च कुर्यात्सर्वं क्रमात्तदा | पूर्वकुम्भे तथैशानं * * मध्ये शिवं यजेत् || १२ || अभ्यर्च्य वास्तुतोयेन कुण्डलादींश्च योजयेत् | रक्षो ग्रहाद्बहिः पूज्या * * * विधिना क्षिपेत् || १३ || संहृत्य पूज्यं कुम्भे तु सुलग्ने वह्निकोष्ठके | क्षौद्रसिक्तेनखर्दाल मुखेन * * * नयेत् || १४ || मृत्क्षेपं राक्षसे भागे वा वटे कुम्भतोयकम् | सुस्नाप्य तां भुवः पश्चात्कुद्दालाद्यं प्रपूजयेत् || १५ || प्. ८८०) वस्त्रयुग्मेन संवेष्ट्य द्विजसन्ध्येन्य कुम्भकम् | विधाय पञ्चघोषानि स्वस्तिवाचनकैरपि || १६ || विप्राशीर्भिर्विशेषेण पूर्वसीमान्तराश्चसि | पुरस्यथाक्त तत्रैव क्षणं स्थित्वा प्रसन्नधीः || १७ || परिभ्रमेत्तु परितः सीमान्तांकं विधाय च | ईशानं तन्तुकु * * * द्रुकुम्भ परिभ्रमात् || १८ || अर्घ्यदानादिदं प्रोक्तं वामेक्तं नन्दिकेश्वर | एवं कृते तु भूमेऽस्तु परिग्रहमुदीरितम् || १९ || कर्मरान्तजरान्तन्तु शल्यशेषनिवृत्तये | खनित्वाऽप्यथ राज्ञात्वा श * * न्विधिनोद्धरेत् || २० || प्. ८८१) महीचक्राख्यचक्रेण शल्यं ज्ञात्वा विशेषतः | गुरूबलिवयत्रस्थस्तत्र वै होमशल्यकम् || २१ || शुक्रे गुरौप्यसीवक्त्रे कृतां सीसादि चन्द्रकैः | मन्दश्चेदायसं शल्यं * * * * * वेत्तदा || २२ || कंसादि शल्यमार्के तु ज्ञात्वा शल्यं समुद्धरेत् | तत्काल प्रश्रजानां तु अक्षराणि भवन्ति हि || २३ || अकारश्च इकारश्च उकारस्तदनन्तरम् | एकारश्च तथोकारं पञ्चाकारमिदं भवेत् || २४ || एतेषु गुणयोगेन ग्रहपंचकमेव हि | पृथ्वीजलं वह्निर्मरुत् व्योम चैव यथाक्रमम् || २५ || प्. ८८२) अकारादिषु वर्णेषु संयोज्यनन्दिकेश्वर | सूरे च गुरुकाव्ये च भूसुते बुध एव च || २६ || शशीशनिरिति ह्येवमक्षराणां क्रमं भवेत् | एवं विनीत्वा तैरेवं शल्यादिकमुदाहरेत् || २७ || ध्वजश्च धूमसिंहौ च वृषारासर एव च | द्विपञ्च वायसीश्चापि पूर्वादिषु यथा क्रमम् || २८ || शल्यप्रमाणकं सर्वं कर्तुरंगविचेष्टया | तत्पार्श्वस्थानशल्यानां ज्ञानन्तच्छल्यचक्रतः || २९ || ग्रहाणां फलमालोक्य वदेच्छल्यमशेषकम् | शल्यमुक्तं तु स्थानेपि शीघ्रमन्दत्वकारणात् || ३० || प्. ८८३) प्रोक्ष्याशीर्भिः करापूपैः अष्टांगुलमृतं ददौ | आपूर्य पादोनखातत्वं जरैर्मुद्गारकाहतैः || ३१ || तां भुवास्व * * * त्य सुप्लवां कारयेत्तदा | वक्ष्यमाणं मण्डपंच यावत्सामान्यकाख्यकः || ३२ || संपूज्य तोरणेशा च प्रत्यग्द्वारेण संविशेत् | शिलाशुद्ध्यादिकं कुर्यात्कुण्डमण्डलशुद्धिदम् || ३३ || कुम्भं च वर्धनीयुक्तं लोकपालशिवार्चनम् | गर्भाधानादिकं सर्वं वह्नेश्चापि तु पूर्ववत् || ३४ || कर्ता तु पूजितो यायाच्छिला स्नानाय मण्डपम् | शिलाप्रासादलिंगस्य पादार्धादि संज्ञकाः || ३५ || प्. ८८४) उच्छ्रिताष्टांगुलाः शस्ताः चतुरश्रकरायताः | पाषाणानां शिलां कुर्यात्तदर्धश्चेष्टकाथ वा || ३६ || प्रासादस्य शिलाशैलैरिष्टकामजपूरितैः | अंगिनासनवज्राद्यैः पञ्च वा पञ्चकांकितैः || ३७ || नन्दा भद्रा जयारिक्ता पूर्णा वै पञ्चमी शिला | आसांवतो महापद्मः शंखो मकरकस्तथा || ३८ || समुद्रश्चेति पञ्चमी निधिकुम्भाः क्रमाद्भवेत् | नन्दा भद्रा जया पूर्णा अजिता चापराजिता || ३९ || विजयामंगलाख्या च धरिणी नामवी शिला | सुभद्रश्च विभद्रश्च सुन्दरं पुष्पनन्दनः || ४० || प्. ८८५) जयोऽथ विजयश्चैव कुम्भकर्णस्तथोत्तरः | निधिक्रमा अमी प्रोक्ता नवानां तु यथाक्रमम् || ४१ || प्रवणं चासनं दत्वा त्वस्त्रेणाविश्य ताडयेत् | कवचे नाद्य सर्वासां अवकुण्ठनमुच्यते || ४२ || मृद्गोमय गोमूत्रैः क्षालयेद्गन्धवारिणा | हुंफडन्तेन चास्त्रेण मलस्नानं विधीयते || ४३ || पंचगव्येन पंचामृतेन विधिना स्नानमाचरेत् | पश्चात्तु गन्धतोयेन स्वनामांकित गन्धतः || ४४ || फलरत्नसुवर्णानां शृंगं च सलिलैः पुनः | लेपयेच्चन्दनेनैव अस्त्रेणच्छादयेच्छिलाः || ४५ || प्. ८८६) विमुक्तमासनं तत्र भवेद्यागप्रदक्षिणम् | हृदयेन तु शययायां कुशतल्पे निवेशयेत् || ४६ || तत्वान्विन्यस्य संपूज्य पृथिव्यां तत्वसंचयम् | त्रिखण्डव्यापकं तत्र पद्मविद्याशिवान्तकम् || ४७ || क्रमाद्विन्यस्य विधिना न्यासोऽयन्नन्दिकेश्वर | बुद्ध्यादि चित्तपर्यन्तं चित्तं तन्मन्त्रकां विधौ || ४८ || तन्मात्राद्या धरान्तं च शिवविद्यात्मना स्थितिः | स्वमन्त्रेण च तत्वानि तत्वेशांश्च हृदार्चयेत् || ४९ || पुष्पमालादि युक्तेषु स्थानेषु च यथा क्रमम् | तन्मात्राणि यथा संख्यं शृणुत्वं नन्दिकेश्वर || ५० || प्. ८८७) ओं हं शिवतत्वाय च नमोऽन्तं मन्त्रकं भवेत् | ओं हां शिवतत्वाधिपतये रुद्राय नम इत्यपि || ५१ || ओं ह्रीं विद्या तत्वाय नमोन्तं तदनन्तरम् | ओं ह्रीं विद्या तत्वाधिपतये विष्णवे नम इत्यपि || ५२ || ओं हां आत्मतत्वाय नमोन्तमुच्चरेत् | ओं हां आत्मतत्वाधिपतये ब्रह्मणे नम इत्यपि || ५३ || एवं क्रमाच्च विन्यासं कुर्यात्तत्र च वै गुरुः | पृथ्व्यग्नि यजमानार्क जलवायविन्दुखानि वै || ५४ || तत्र प्रविन्यसेदष्टौ मूर्तिः प्रतिशिलां शिलाम् | शर्वं पशुपतिं चोग्रं रुद्रं भवं महेश्वरम् || ५५ || प्. ८८८) महादेवं च भीमं च मूर्तीशांश्च तथैव च | ओं हां रथाधिपतये शर्वाय नमः * * * || ५६ || इत्येवं स्वस्वना वाचाधिपतयेन समन्वितः | लोकपाला * * * न्त स्वस्वमन्त्रैर्यथाक्रमम् || ५७ || विन्यस्य पूजयेत्कुम्भांस्तन्मन्त्रैश्च निजार्णकैः | इन्द्रादिलोकपालानां बीजान्यपि यथा क्रमम् || ५८ || धृं रूं श्रूं स्रूं क्षूमिति नमः * * * * * * * | नमश्शिवप्रतिष्ठासु चोत्तरं तत्क्रमेत्पुनः || ५९ || पञ्चानां तु विशेषेण प्रतितत्वं च विन्यसेत् | तन्मूर्ति सूक्ष्माः पञ्चैव धराद्यांश्चापि पूजयेत् || ६० || प्. ८८९) ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एते वै पञ्चमूर्त्यंशान्यस्तव्यास्तासु पूर्ववत् || ६१ || ओं पृथ्वीमूत्यधिपतये नमः | एवं मन्त्रं समुच्चार्य संपूज्य कलशानपि || ६२ || स्वनामभिश्च पञ्चैव पूजयेत् स्वस्वनामभिः | विधानेन निरुन्धीत न्यासो मध्यशिलाः क्रमात् || ६३ || प्रकारं हेतिना कुर्यात् भूतिदर्भैस्तिलैस्ततः | आधारशक्ति कुंभे च संपूज्यन्तर्पयेत्पुनः || ६४ || तत्वतत्वाधिपान्मूर्तिमूर्तीशांश्च घृतादिभिः | अजांशशुद्धे मूलांग प्र * * * क्रमाद्धुनेत् || ६५ || प्. ८९०) इन्द्रादि पूर्णाहुत्यन्तं शिष्यं शान्तिजलैः शिलाः | कुशैश्च पूजयेत् पश्चात् प्रतितत्वं क्रमाद्गुरुः || ६६ || कृत्वा सान्निध्यसन्धानं शुद्धिं कृत्वा पुनर्न्यसेत् | एवं भागत्रये कर्म गत्वा गत्वा समाचरेत् || ६७ || ब्रह्मांशादित्रयं चापि कुशमूलादिभिः स्पृशेत् | तत्वादीनां तु संन्यासं ह्रस्वदीर्घप्रयोगतः || ६८ || ओं आत्मतत्व विद्यातत्वाभ्यां नमः | ओं क्षॄं सं ऊं शिवतत्व विद्यातत्वाभ्यां नमः || ६९ || आज्येन मधुना पूर्णान् ताम्रान्कुंभान्प्रपूरयेत् | पञ्चगव्यादिभिस्सिक्तान् लोकपालाधिदैवतान् || ७० || प्. ८९१) स्वस्वमन्त्रैश्च संपूज्य सन्निधौ होममाचरेत् | शिलानामपि सर्वासां संस्मरेदधिदेवताः || ७१ || विद्यारूपकृतस्नाता स्वर्णवर्णाश्रमाननाम् | सर्वाभरणसंयुक्ताः शिलानामधिदेवताः || ७२ || न्यूनाति षोडशान्त्यर्थं वास्तुभूमेऽस्तु शुद्धये | हेतिना पूर्णहोमान्तमाहुतीनां शतं शतम् || ७३ || पश्चात् प्रसादन्तास्तुभ्यं वर्तयेद्वास्तुमण्डलम् | चतुष्षष्टिपदे क्षेत्रे पदार्थैस्तु समे कृते || ७४ || कोष्ठेषु विन्यसेद्वंशादुष्टुरज्जोऽपि गोणकाः | द्विपदाष्षष्टि पादास्तौ तत्तद्यार्ह्यर्चयेत्तदा || ७५ || प्. ८९२) अंकुचितं कचं वास्तु मुक्तानां मण्डलाकृतिः | स्मरेद्गुहादि पूजासुनिश्शेषध्व नाशनम् || ७६ || जानुकोर्परतासक्ते * * ति शिवाकृतिवह्निके | ऐशाने च शिरोदेशे राक्षसे पदयोर्युतम् || ७७ || हृदये चाञ्चलिं कृत्वा सत्वाख्योऽपि महासुर | शुक्रं क्रोधात्सुसंपन्नं स्वयं सिंह्मन्तुमक्षमः || ७८ || तेनासुरेण लोकायां उपनीतमनेकशः | तस्मादस्त्रं स्थिता देवाः पूजिताश्च शुभा अमी || ७९ || अष्टकोणाधिपा * * कोणाष्टे षष्टसुस्थितः | याम्याद्यादिस्तु मध्योत्या दिक्षु चैन्द्रादिषु क्रमात् || ८० || प्. ८९३) मध्ये चतुष्पदे ब्रह्मामध्ये तु पदिकाः स्मृताः | समस्तनाडि संपातो महाधर्माम्बुजं हलम् || ८१ || त्रिशूलं स्वस्तिको वज्रं महास्वस्तिकसंपुटौ | त्रिकटोकर्मनिर्बन्धं स्तुविशुद्धपदं तथा || ८२ || इति द्वादशमर्माणि वास्तोरित्यादिना न्यसेत् | ईशाय तण्डुलं सर्पिः पर्जन्याय च वारियुक् || ८३ || पताकमंकुशं चैव जयन्ताददते * * | * * * ज महेन्द्रायरवौ धूम्रं विनायकैः || ८४ || सत्याय घृत गोधूमं माषं भक्तं मृगाय च | अन्तरिक्षाय मांसान्नं कूर्चेष्वष्टसु पूर्वतः || ८५ || प्. ८९४) क्षीराज्यं मधुसंपूर्णं स्रुवञ्च शशिनो भवेत् | पूर्णे जालं हेम * नि वितथाय निवेदयेत् || ८६ || क्षेत्रं गृहक्षते दद्यादमरेज्यो फलोदनम् | गन्धं गन्धर्वराजाय जिह्वां भ्रंशाय पक्षिणा || ८७ || * * मृगाया च वाणार्याम्यमित्यस्य देवताः | पित्र्यं नीलोदनं क्षीरं वृक्षजं दन्तधावनम् || ८८ || * * * काय मुद्गान्नं सुग्रीवायाप्यधूमकम् | दर्भाश्च पुष्पदन्ताय रुधिरं च प्रचेतसे || ८९ || असुरायाब्जसंमिश्रां सुरां चापि निवेदयेत् | योषेरप्याज्यमन्नं स्याद्यागाय घृतमण्डकाः || ९० || प्. ८९५) लाजा * श्विममाजायां देवाष्टकमितीरितम् | पीतध्वजममूतोव रागाय नागकेसरम् || ९१ || मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतम् | सोमाय पायसं साज्यं शाल्यंगं मुद्गवे दिशेत् || ९२ || सपीमदितलेदित्यै पुरीमृत्य * * ष्टकम् | ब्रह्माणं च पुरोभागे मोदकाक्षिपयेत्फलम् || ९३ || मरीचये विशेषेण षट्पदस्थाय तत्र वै | वह्न्यन्धकोणकोष्ठेपि सवित्रे रत्नपुष्पकम् || ९४ || तदधः कोणकोष्ठेऽपि सवित्र * * * ष्पकम् | तदधः कोणकोष्ठेऽपि सावित्राश्च कुशोदकम् || ९५ || प्. ८९६) षट्पदस्थिति युक्ताय विश्वते रक्तचन्दनम् | रक्षोधः कोणकोष्ठेपि चैन्द्रायान्नं हरिद्रया || ९६ || इन्द्रजयाय मिश्रान्नं इन्द्राधस्तात्तु दापयेत् | वारुणा * पदाहीनमित्रेश गुलमोदनम् || ९७ || रुद्राश्च घृतसिद्धान्नं वायुकोणे धरापदम् | तदधो रुद्रदासाय मांसमार्द्रमथोत्तरे || ९८ || धरायने षट्पदस्थे माषनैवेद्यकं ददेत् | आपाय शिव कर्णाय तद्वंशायै * * त्तले || ९९ || क्रमाद्दद्यादाधिकारीं पूजयित्वा विधानतः | चतुष्पादविनष्टाय ब्रह्मणे मध्यदेशिकः || १०० || प्. ८९७) एवं गव्याक्षतोपेतं चरुं साज्यं निवेदयेत् | ईशादि वायुपर्यन्तं कोणेश्वपि यथाक्रमम् || १०१ || वास्तु बाह्ये च रक्षाद्याश्चतसॄः पूजयेद्यथा | घृतं मांसं च रक्तैस्तु दधि पद्मं विधानके || १०२ || पतनाये फलं पद्मं रत्नं च विनिवेदयेत् | अस्थिनीपापराक्षस्योः रक्त रक्तफलानि च || १०३ || ततो माषोदनं प्राच्या स्कन्दाय विधिवद्ददेत् | अर्यम्णो दक्षिणेशाय अपूपान्कृसरैर्युतान् || १०४ || वामृणामामिषं रक्तं अन्तकाय च दापयेत् | प्रतीच्यां बलिपिंछाय रक्तान्नं कुसुमानि च || १०५ || प्. ८९८) पूजयेंगदितान्यत्र कुशमध्यक्षितैस्तिलैः | कुड्यादिष्वपि वर्तेत वास्त्वेकाशीतिकोष्ठके || १०६ || त्रिपद्या रज्जुपं कुर्याषट्पदाश्वपुरोक्तवान् | ईशान्या पादिकातस्मिन्नापाद्याश्चर्चकोष्ठकाः || १०७ || मरीचाद्याः षट्पदस्थाः ब्रह्मा नवपदे भवेत् | ईशानादिषु रक्ताद्याः पूर्ववत्पूजयेद्बहिः || १०८ || प्रत्येकं देवतानां वै आहुतित्रितयं भवेत् | भूतक्रूरबलिं दत्वा सुलग्ने द्यासमारभेत् || १०९ || न्यसेच्छक्तिं मध्यशुभे कुम्भस्नानन्तरन्त्रिकम् | पृथ्वीबीजेन मूलेन ह्रीं मे च धरणी शिलाम् || ११० || प्. ८९९) अष्टकुम्भान्समुद्रादिदिक्षु चैन्द्रादिषु क्रमात् | लोकपालाणुभिर्न्यस्य स्वभेषु न्यस्तशक्तिषु || १११ || नादद्याश्च शिलाश्चापि क्रमात्तेषु निवेशयेत् | शम्बरैर्मुक्तिनाथानां यथा दिक्षु च मध्यतः || ११२ || अष्टौ धर्माधिकाश्चापि कोणकोणविभागशः | पूर्वासु चाजितद्वाश्च कर्यादिष्वथवा न्यसेत् || ११३ || ब्रह्माणं चोपरिन्यस्य व्यापकं च महेश्वर | अध्वानं चिन्तयेत्पश्चाद्योग प्रासादमव्ययम् || ११४ || बलिं दत्वा च वेदास्त्रं विघ्नदोषस्य शान्तये | शिलापञ्चक पक्षेऽपि मौनमुद्दिश्यते यथा || ११५ || प्. ९००) न्यस्य मध्ये पूर्वशिलां समुद्रकुशलोद्धृतः | पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात् || ११६ || मध्यहीना चतस्रोऽपि मात्रसद्भावसंमिताः | ऊर्णां तत्वं महाविद्ये सर्वसन्दोहलक्षणम् || ११७ || सर्वं संपूर्णमेवात्र कुरुष्वांगिरस्सुते | ओं नन्दिनन्दिनि पुंसित्वान्मन्त्राश्च स्थापयाम्यहम् || ११८ || प्रासादे तिष्ठ सुहृदा यावच्चन्द्रार्कतारकम् | आयुष्कामंश्रियं दद्याद् देहवासिषु देहिनाम् || ११९ || अस्मिन् रक्षा सदा कार्या प्रासादे यत्ततस्सदा | ओं भद्रे * * * * * लोकानां कुरुकाश्यपि || १२० || प्. ९०१) आयुर्दा कामदा देवी सुप्रसादा सदा भवेत् | ओं बीजेऽत्र सदा देवि तिष्ठत्वं स्थापिता मया || १२१ || नित्यं जयाय भूत्यै च स्वामिनो भव भागवित् | ओं रिक्ते रिक्ता दोषघ्ने सिद्धिमुक्तिप्रदे शिवे || १२२ || सर्वदा सर्वदेशस्थे तिष्ठास्मिन्नीशरूपिणी | व्योम चायतनं ध्यात्वा तत्र तत्वत्रयं न्यसेत् || १२३ || प्रायश्चित्तं ततो भूत्वा विधिना चोत्सृजेन्मखम् | शिलान्यास्य विधिस्त्वेवं प्रोक्तस्वत्रं समासतः || १२४ || क्रमेणैवोक्तमार्गेण विदध्यान्नन्दिकेश्वर | अथ वक्ष्ये विशेषेण लिंगस्थापनकर्मणि || १२५ || प्. ९०२) मण्डपाद्यं तु सर्वं च प्रतिष्ठोपकरणं तथा | तत्सदा क्रियते मुक्त्यै मुक्त्यै देव दिने भवेत् || १२६ || चैत्र वर्जं च मासादौ प्रतिष्ठामासपञ्चके | करणादि क्रिये चैव जीवशुक्रोदये तथा || १२७ || सितपक्षे विशेषेण कृष्णाद्यं पञ्चकं शुभम् | रिक्तां च नवमीं षष्ठीं वर्जयित्वा चतुर्दशीम् || १२८ || तिथयश्शोभनाश्शेषाः पापवारविवर्जिताः | आर्द्राशतभिषक् चैव धनिष्ठा चोत्तरत्रयम् || १२९ || अनूराधा रोहिणी च पुष्या हस्तोत्तराषाढमेव च | पूर्वाषाढाश्च भान्याहुर्द्विजस्य च विशेषतः || १३० || प्. ९०३) चित्रा पुनर्वसुश्चापि धनिष्ठा श्रवणान्विता | क्षत्रियस्य प्रतिष्ठायां विहितानि च तानि वै || १३१ || शूद्रस्यापि विशेषेण ज्येष्ठा स्वाती च फल्गुनी | मखा चापि विशेषेण विहितस्तारकाक्रमः || १३२ || त्यक्त्वा प्रासादतः पञ्चगुणभूमिं च संमिताम् | हस्तं द्वादश सोपानात् कुर्यान्मण्डलमग्रतः || १३३ || वेदशास्त्रं चतुर्द्वारं स्थानार्धं तु तदर्धतः | वेदास्य * * * न्द्रं स्याद्रौद्र्यां प्राच्युत्तरेपि वा || १३४ || आद्यलिंगत्रयाणां च विदध्यान्मण्डपत्रयम् | हास्तिकं लिंग * * * मष्टहस्तं तु मण्डपम् || १३५ || प्. ९०४) द्वितीयं लिंगमानस्य प्रत्येकं हस्तवृद्धितः | चतुर्थं लिंगमानस्य द्वौ द्वौ हस्तेन वर्धनम् || १३६ || एवं नवकरे लिंगे हस्तद्वाविंशतिर्भवेत् | दशहस्तार्कहस्ते वा हास्तिके लिंगमानके || १३७ || अन्यमण्डपकोष्ठादि द्विहस्तोऽन्तर वृद्धिदम् | वृद्धिपादादिलिंगेषु कुर्यान् मानानुसारतः || १३८ || बाणे च रत्नसंभूते लोहलिंगे तथैव च | मण्डपं करमायामं विदध्यान्नन्दिकेश्वर || १३९ || एतेषां मण्डपं चापि प्रासादसदृशं भवेत् | प्रथमं घनमं स्याध्या द्वितीयं घोषसंज्ञितम् || १४० || प्. ९०५) विराजं च तृतीयं स्यात् काञ्चनं च चतुर्थकम् | रामकार्यस्ततो नन्दिन् मण्डपाः पञ्चतो भवेत् || १४१ || षष्ठं तु कामराजाख्यं सुखवेशोऽथ सप्तमम् | अष्टमं घर्घराख्यासौ ददक्षोन च मण्डपः || १४२ || स्थूणाः कोणं चतस्रः स्युर्द्वेद्वे द्वारे तु हास्तिके | विस्तीर्णे तु यथाशोभं भावयन्यन्यका अपि || १४३ || मध्ये वेदी चतुर्हस्ता कोणे च स्तम्भसंयुतम् | वेदीनां मुनिभिश्चापि साष्टांगुरुरुदीरिता || १४४ || समुच्छ्रयेद् द्व्यंगुलं चेद् विस्तारस्तु करं परम् | आसां क्रमेण यावन्तो वर्धन्ते रविसंख्यया || १४५ || प्. ९०६) शान्तिके वर्धयेत्पादं विस्तारादुच्छ्रयादपि | एकाशीतिपदानां तु मध्येऽपि नवके तथा || १४६ || कुर्याद् विशेषेण तस्य बाह्येऽपि संत्यजेत् | पादादिकं चिकं दद्यात् तत्पार्श्वे कुण्डमुच्यते || १४७ || नव कुण्डानि वा कुर्यात् पञ्च कुण्डानि तत्र वा | अष्टद्विश्वष्ट कुण्डानि नवमं प्रागुदग्भवेत् || १४८ || चतुर्दिक्षु च कुण्डं वै शेपोवन्नस्तथोच्यते | अथवाप्येक कुण्डं तु रौद्र्यां प्राच्यामथापि वा || १४९ || पाश्चात्ये वा वरोः पश्चाद् वेदाश्रं वृत्तमेव वा | लिंगे तु हास्तिके कुण्डं हास्तिके च भवेत् तदा || १५० || प्. ९०७) शेषाणामपि लिंगानां कुण्डं च द्वादशांगुलम् | नवहस्ते लिंगके तु त्र्यंशोतीत करद्वयम् || १५१ || सुलिंगान्बाणरत्नादीन् विदध्यान्मण्टपोचितान् | मुष्टिमात्रे तु कुण्डे तु रत्निमात्रे तथैव च || १५२ || शतार्कं होमसंख्या वै शकश्च रत्निको भवेत् | हस्तकुम्भे सहस्रं स्याद्द्विहस्तं चायुतं भवेत् || १५३ || वेदहस्तं तु लक्षं स्याद् द्विलक्षे षट्करं मतम् | अष्ठहस्ते त्रिलक्षं स्यात् तत ऊर्ध्वं न कारयेत् || १५४ || कुण्डानां लक्षणं चापि पूर्वमेव मयोदितम् | प्राच्यां प्लक्षं तु याम्ये तु उदुम्बरमुदीरितम् || १५५ || प्. ९०८) औदुम्बरं प्रतीच्यां वै पदं वारुणमुत्तरे | शान्तिनाम च पूर्वे तु दक्षिणे भूति संज्ञकम् || १५६ || वारुण्यां बलसंज्ञं स्यादारोग्यं चोत्तरं भवेत् | चतुर्णामपि रक्षाणामलाभेऽप्येवमेव वा || १५७ || दिक्षु सर्वासु संस्थाप्य तेषामुच्छ्रायकं शृणु | पञ्चषट्सप्तहस्तानि तोरणानि कनीयसाम् || १५८ || चतुर्णां लिंगमारभ्यत्रीणि लिंगानि मध्यमम् | चतुरंगुलद्वयं वृद्ध्या वर्धयेन्नन्दिकेश्वर ! || १५९ || अंगुल्यष्टकया वृद्ध्या नवहस्तान्तलिंगके | यवन्तवक्षरे लिंगं तदष्टार्धकरं भवेत् || १६० || प्. ९०९) कनीयसां तोरणानां च वास्तोर्हस्त प्रमाणतः | मध्यमानां त्रयाणां च चतुरंगुलवृद्धितः || १६१ || उत्तमानां त्रयाणां तु परं सार्धकरो भवेत् | अंगुलद्वयवृद्ध्या वै मध्यमार्धादि षट्करम् || १६२ || अथवा पञ्चमांशेन सर्वेषां खातनं भवेत् | उच्छ्रायाद्यन्त विस्तारः उच्छ्रायसदृशं तु वा || १६३ || धारिताश्चापि तत्तुल्याद्बाहुल्यं तु षडंगुलम् | पञ्चहस्तं ह्यशेषाणां शेषाणामंगुलं प्रति || १६४ || वर्धयेच्च क्रमादेवं शल्यमष्टांगुलं भवेत् | * * * * * अन्येषां वृद्धिरंगुलमंगुलम् || १६५ || प्. ९१०) क्रमेण मासां पिण्डं च विदध्यात्तत्समं तथा | पञ्चमांशेन चोच्छ्रायशूलं पक्षांश निर्मितम् || १६६ || तस्योच्छ्रायत्रिभागेन शूलपादाय विस्तृतिः | द्व्यंगुष्ठं प्रथमेऽप्यंशे चान्येषामंगुलोत्तरम् || १६७ || पद्मं वा स्वस्तिकं वापि लंकः वामहस्तके न्यसेत् | द्वारं प्रति विशेषेण रम्भास्तम्भं च पल्लवैः || १६८ || अश्वत्थपत्रैर्दर्भाभिः अलंकुर्यात्सुशोभनम् | पूर्वद्वारे तु साम्बा स्याद् भुक्तिमुक्तिप्रदायकम् || १६९ || देवीं देवं च चान्यानि विदध्यान्नन्दिकेश्वर | यजमानेच्छया वापि दक्षिणं पश्चिमं तथा || १७० || प्. ९११) इन्द्रचापनिभा रक्ता कृष्णा धूम्रा शशिप्रभा | किराभा स्वर्णवर्णा च पताका स्फटिकोपमा || १७१ || ऐन्द्रादितो विधातव्या रक्तचन्द्रब्रह्मपदम् | नैर्-ऋत्यां नीलवर्णाभा माध्ये चित्राथ वासिता || १७२ || पञ्चहस्तांशजास्तत्तत् कुर्याद्विकरविस्तृताः | सप्तहस्ताः पताकास्तु विंशत्यंगुलविस्तृताः || १७३ || ध्वजदण्डप्रवेशास्तु करायामस्तु पञ्च वै | भास्तिकं चापि विख्याता स * * * * * * * || १७४ || दशहस्ता पताकानां पञ्चमांशनिवेशकाः | सप्तभिर्दशभिः कुर्याद् विंशत्यावा कपै जान् || १७५ || प्. ९१२) अधमं मध्यमं श्रेष्ठं हस्तद्वितयविस्तृताः | अष्टहस्ताथवा ज्येष्ठा द्विकरा विस्तरेण वै || १७६ || क्रमाच्चेष्टास्व * * * * * दृष्टं मयानघ | पीठं तु ब्रह्मणो भागाद् द्विगुणं क्षीरवृक्षजम् || १७७ || चतुष्पादं पंकजांकं उच्छ्राये षोडशांगुलम् | अथ चोक्तसमुच्छ्रायं विस्तारे द्विगुणं ततः || १७८ || विस्तार द्विगुणायामं भद्रपीठं कनीयसाम् | चतुरंगुल वृद्ध्या वै * * * * * * * * त् || १७९ || अथवा च परेषां तु नवानां विष्ठरं क्रमात् | त्रीणि तत्रापि दृश्यन्ते पीठेष्वेवं तु लक्षणम् || १८० || प्. ९१३) अव्यक्तात्क्षत्रियद्वारात् सिन्धुतीराद्धलात्कुशात् | वल्मीकात्करणादन्तात् गोशृंगात्पद्मषण्डतः || १८१ || वराहाद्गोष्ठमध्यात्तु शृंगाटक समुद्भवात् | प्रशस्ता द्वादश ह्येता ग्राह्या मृत्स्ना विशेषतः || १८२ || अथवाष्टौ च वैकुण्ठे पिनाकी च तथैव च | अश्वत्थ जम्बून्यग्रोध चूतोदुम्बरकोद्भवैः || १८३ || त्वगभिक्षायमेवं वै पञ्चकं नन्दिकेश्वर | पुष्पा * * * * * * फलानि च विशेषतः || १८४ || तीर्थाम्बूनि सुगन्धीनि महौषधिजलं तथा | सस्यं च सर्वपुष्पं च फलं च स्वर्णरत्नकम् || १८५ || प्. ९१४) ग्रोभाग्र वारिसानमया प्रभेदेत्पंचगव्यकम् | पञ्चामृतं तथा पिष्टं वज्रादिद्रव्यकं तथा || १८६ || * * मे र्चनाय स्नाय सहसा सुषिरं घटम् | मंगलार्थं च कर्पूरं रोचनागरुचन्दनम् || १८७ || शतमौषधिमूलानां विजया लक्षणा बला | गलूच्याहि बलापामा सहदेवी शतावरी || १८८ || वृद्धिस्सुवर्चला वृद्धिः स्नानायोक्ताः पृथक् पृथक् | * * * * * * क्षायै भस्मस्नाने तु केवलम् || १८९ || गोधूमयवशालीनां बिल्वानां चूर्णमित्यपि | आलेपनार्थमिन्द्रेण चन्दनं स्नानकुम्भकम् || १९० || प्. ९१५) बन्धूकोश्चोत्तरा चापि वितानद्वयमण्टपम् | चन्द्रोदयं विचित्रैश्च वक्त्रैरपि च कारयेत् || १९१ || सोपधानं सुखश्चांगं कुपिकायुग्मसंयुताम् | धौतपुच्छद्वयपदं शयनीयद्वयं भवेत् || १९२ || मध्वाज्य पूर्ण पात्राणि होमसूदितशालकाः | त्रिद्वैकमाषिकाद्याश्च क्रमाज्ज्येष्ठादिषु त्रिषु || १९३ || वर्धनी पूर्ण कुम्भं च लोकपालघटानपि | स्वप्नार्थमेक कुम्भं च शान्त्यर्थं कुण्डसंख्यया || १९४ || दिक्पालकुम्भकाश्चापि तद्धर्मस्तु विशेषतः | प्रशान्तादि घटाश्चापि वास्तुलक्ष्मी घटेशके || १९५ || प्. ९१६) कलशानपि सर्वांश्च विद्या न परसंयुताम् | वस्त्रसाद्भूषिताश्चापि हिरण्य नवरत्नकाः || १९६ || गन्धवारि सुपर्णाश्च पूर्णपात्रफलान्विताः | प्रवाण मुखयुक्ताश्च शोभनास्यास्सलक्षणाः || १९७ || सर्वकुम्भा विधातव्या सवस्त्रा कुम्भतोरणाः | स्तम्भान्वासोभिराच्छाद्य गौरसर्षपविष्किरान् || १९८ || लाजांश्च सहदेवं च ज्ञानखड्गं च पूर्ववत् | सापिधानाश्चरूः कुंभीं दर्वीं ताम्रेण कल्पिताम् || १९९ || आज्यक्षौद्रयुतं पात्रं पादाभ्यां तत्कृते तथा | आसनानि विशेषेण त्रिंशद्दर्भदलैर्भवेत् || २०० || बाहुप्रमाण युक्तानि कर्तव्यानि तथा पुनः | पालाशसमिधश्चापि चतुरश्चतुरो भवेत् || २०१ || सस्सनाडी हविः पात्रं तिलपात्राज्यकानि वै | मधुमन्त्राणि सर्वाणि फलविंशति संयुतम् || २०२ || घण्टाधूपप्रधानं च सृक्सृवौ विकटावधि | घृणाधि पञ्चितं शुद्धं शुष्कं * * * कालकम् || २०३ || व्यञ्जनार्थं तालवृन्ते मुक्तामुक्तं च पुष्करम् | गुल्गुलुं बिल्वपत्रं च धूमं कुंकुमबन्धि च || २०४ || सर्पिषा पूर्णदीपांश्च कल्पयेन्नन्दिकेश्वर | तण्डुलानि त्रिशूलं वा आज्यं गन्धं यवांस्तिलान् || २३५ || प्. ९१८) कुशदर्भानते दीक्षां शान्त्यर्थं मधुरत्रयम् | पायसं च हविः शुद्धं कल्पयेद्विधिना पुनः || २०६ || याज्ञिकैः पादपोत्थैश्च समिद्भिरपि चोज्वलैः | दशरात्री विहीनां च * * * नन्दिकेश्वर || २०७ || त्रिविधा चांगुली ज्ञेया मध्यमादिप्रभेदतः | अधमं मध्यमं श्रेष्ठं गुरोरिच्छावशाद्भवेत् || २०८ || दैर्घ्यं षट्त्रिंशता कुर्या अंगुल्या च स्रुवं तथा | बहुमानं प्रकुर्वीत श्रेष्ठमध्याधमक्रमात् || २०९ || कुर्यादेकांगुल * * सृक्सुवानां च लक्षणम् | उक्तं पूर्वनिदानं तु किंचिल्लक्षणदण्डवत् || २१० || प्. ९१९) तस्याष्ट सप्तभिर्वेदी कण्ठ * * स्य लक्षणम् | दण्डस्य नाहायामं स्याद्रसविंशतिभिर्भवेत् || २११ || गुणवेदांगुलं कुम्भे ग्रन्थियुक्तं द्वयांगुलम् | चतुरश्रांगुली तत्स्यात् तं वृत्तं द्व्यंगुलं खनेत् || २१२ || तस्याग्रकरयोर स्याद् देवी त्रिंशेन निष्कृतिः | आज्यनिर्गममार्गश्च कनिष्ठाम्भश्च विस्तृतिः || २१३ || मेखलाद्यंगुलावृत्ता स्रुवायामोजितांगुलम् | दण्डांगुलं द्वाविंशतिभिः तत्तं चतुरंगुलम् || २१४ || क्रमुको द्व्यंगुलं ख्यातः पंके मृगपदाकृतिः | दण्डस्य मुग्रो चाग्रेऽपि दण्डी कंकणवद्भवेत् || २१५ || प्. ९२०) विकंकतिश्च श्रीपर्णी शिंशुपा दारुबीजकाः | सूच्यग्रं पादपाः प्रोक्ताः किंशुकाद्याश्च याज्ञिकाः || २१६ || आदित्यादिग्रहाणां च समिधोऽर्कपलाशजाः | खादिराः किणिभिश्चैव पिप्पलोदुम्बरोद्भवाः || २१७ || शमीदूर्वा कुशोद्भूता जटाधिकशतोज्वलाः | क्रमेण संग्रहेत् सर्वं तदलाभे यवांस्तिलान् || २१८ || इमानि विष्ठरादीनि कुण्डं प्रति निवेदयेत् | सर्वं गृहोपकरणं स्थालीं दवीं विधानकम् || २१९ || उलूखलं च मुसलं खड्गं च क्षुरिका तथा | छत्रं च चामरं चैव तालवृत्तं च दर्पणम् || २२० || प्. ९२१) शिवां पतद्ग्रस्थालं यन्त्रिका पादुकाद्वयम् | सिन्धूरभाजनं चैव पूगफलं तथैव च || २२१ || ताम्बूलपेक्ष पूर्णाम्बु करण्डकयुतं तथा | भाजनं पञ्चनानान्त योगपट्टं च मार्जनीम् || २२२ || पट्टं च भूषणं चैव चन्दनाद्यनुलेपनम् | स्नानयोग्यं तथा सर्वमधिवासाय चानयेत् || २२३ || स्नातोऽधिवासयेद् शिलावेदी वृषाय च | मकुटं कुण्डलं चैव हारकेयूरमुद्रिकाम् || २२४ || विचित्रवस्त्रक्षौमादीनाहरेद्गुरु तृप्तये | वित्तशाठ्यं न कर्तव्यं आचार्याय विशेषतः || २२५ || प्. ९२२) तत्प्रीतिर्जगतां प्रीतिर्भवत्येव न संशयः | श्रीमद्गुरोः पदद्वन्द्व पूजनात् सर्वपूजनम् || २२६ || शस्त्रशंसनयुक्तेभ्यो मूर्तिभूतेभ्य एव च | तत्पादपादहीनाश्च दक्षिणाश्च भवेत्तदा || २२७ || दैवज्ञशिल्पिना चापि पूजा तुल्या चतसृभिः | पविरं कर्मणिन्नीलं मत्तिनीलं तथैव च || २२८ || मौक्तिकं पुष्परागं च पद्मरागं तथैव च | वैडूर्यमष्टकं प्रोक्तं रत्नगर्भं विशेषतः || २२९ || चन्दनागरुरक्ता च चन्दनोशीरमाधवाः | श्रीकण्ठकण्ठं च तथा शारी च शाखिनी तथा || २३० || प्. ९२३) ओषधीनां गणंश्चैवं लोहानां च ततः शृणु | स्वर्णं ताम्रमयोवर्ग भारमारं स कार्यकम् || २३१ || सीसं मनश्शिला चापि हरितालमथाष्टकम् | तोरिकास्सर्गमाक्षीकं रसवर्जितगैरिकम् || २३२ || गन्धकं चाष्टमित्यष्टौ धातवश्च प्रकीर्तिताः | गोधूमं च तिलं चैव माषं मुद्गस्वरं तथा || २३३ || वार * * मकानेवं व्रीहयोऽष्टौ प्रकीर्तिताः | अथवाष्टकला तु पञ्चहञ्च समाहरेत् || २३४ || जीरकं सहदेवं च स्वर्णकालयवं तथा | पसर्पे तु यवाहा च पारदं स्वर्णमेव वा || २३५ || प्. ९२४) कूर्म भूवृषपद्मानां एकं हेमादिनिर्मितम् | माषकं व्याप्तके कुर्यात् प्रत्येकोत्तरया तदा || २३६ || ज्येष्ठलिंगे बृहन्माषैरिति सर्वं समाहरेत् | पूर्वसंभूतसंभारैः आचार्यादींश्च पूजयेत् || २३७ || अथ वक्ष्ये विशेषेण स्नानं कुर्याद्गुरुस्तदा | नित्यक्रियां च कृत्वा तु प्राणवप्यकवस्वयम् || २३८ || मूर्तिभूतैस्सहायैश्च द्विजैर्गच्छेन्महालयम् | शान्ताख्यतोरणादींश्च सर्वं संपूजयेद्गुरुः || २३९ || प्रादक्षिण्य क्रमात्तेषां चाग्रयोद्वारपालकान् | पूर्वे नन्दिमहाकालौ याम्ये भृंगि विनायकौ || २४० || प्. ९२५) प्रतीच्यां वृषभ स्कन्दौ चोत्तरे देविनन्दिकौ | शाखामूले च तत्रस्थैः प्रशान्तशिखरौ यदा || २४१ || पर्जन्यशोकनामानौ भूतसंजीवनावृतौ | धनदश्रीप्रदौ द्वौ द्वौ क्रमात्संपूजयेद्गुरुः || २४२ || प्रणवादि चतुर्थ्यन्तैः नमोन्तैः स्वस्वनामभिः | लोकग्रहस्वस्यद्वस्था नन्दिनं च द्वयं द्वयम् || २४३ || रवित्रयं युगं वेदं लक्ष्मीर्गणपतिस्तथा | यागमूले मराश्चैते तिष्ठन्ति प्रतितोरणम् || २४४ || यागसंरक्षणायैव प्रत्यूहामर्दनाय च | पूर्वादिति क्रमाद्वापि चायुधान्यपि चार्चयेत् || २४५ || प्. ९२६) शक्तिं चापि तथा दण्डं खड्गं पाशं ध्वजं गदाम् | त्रिशूलं चक्रमम्भोजं पताका च यथा क्रमम् || २४६ || ओं हूमिति चवोन्य वज्राय च तथैव च | हुंफण्णमोऽन्तास्त्रमन्त्रं मन्त्रैरेवं समर्चयेत् || २४७ || ओं हूं हूं शक्तये हुंफण्णमः | ओं ह्रूं ह्रूं दण्डाय हुंफण्णमः || २४८ || एवं क्रमादनेनैव मन्त्रेण तु समर्चयेत् | कुमुदः कुमुदाक्षश्च पुण्डरीकाक्षश्च वामनः || २४९ || शंखकर्णस्तथा सर्वं वेत्रस्सुमुख संज्ञकः | सुप्रतिष्ठितनामा च गजानाग्रं विभावयेत् || २५० || प्. ९२७) खड्गहस्तं शवारूढं नीलोत्पलदलप्रभम् | रक्तनेत्रं रक्तपानं निर्-ऋतिं राक्षसाधिपम् || २५१ || शरच्चन्द्र प्रतीकाशं नागपाशधरं शुभम् | अनेकरत्नसंयुक्तं मकरोपरि संस्थितम् || २५२ || वरुणं पश्चिमे भागे भावयेन्नन्दिकेश्वर | विलोलध्वजहस्तं च पीतश्यामतनुं शुभम् || २५३ || पृषदश्व स भूतानां प्राणभूतं समीरणम् | हयारूढं शर्व शर्वरंरीरं च कुबेरकम् || २५४ || हेमवर्णं गदाहस्तं उत्तराशापतिं स्मरेत् | वृषारूढं तमीशानं त्रिशूलव्यालधारिणम् || २५५ || प्. ९२८) शरच्चन्द्र प्रतीकाशं भस्मोद्धूलितविग्रहम् | त्रिलोचनं जटाचूट शरच्चन्द्रार्धशेखरम् || २५६ || सहस्रफणसंयुक्तं पुण्डरीकनिभेक्षणम् | तटित्कोटि प्रतीकाशं कूर्मारूढमनन्तरम् || २५७ || पूजयेत् तदधोभागे चोर्ध्वे ब्रह्माणमर्चयेत् | चतुर्वक्त्रं स्वर्णवर्णं हंसारूढमनौपमम् || २५८ || अक्षमालां च दण्डं च कमण्डलु धरं तदा | स्तम्भमूले घटेष्वेव वेदधर्मादिकान् न्यसेत् || २५९ || अथवा दिक्षु कुम्भेषु अनन्तादींश्च पूजयेत् | वर्धनीं पृष्ठनीं कुम्भं भ्रामयेत्तं शिवाज्ञया || २६० || प्. ९२९) श्रावयेत् स्थापयेत् कुम्भं वर्धनीं तदनन्तरम् | कुम्भे स्थिरासनं देवं शस्त्रालुं च ध्रुवासनम् || २६१ || संपूज्य पूर्ववद् देवं संस्पृशेदुद्भवाख्यया | निजयागं जगन्नाथं रक्ष भक्तानुकम्पया || २६२ || इति संश्राव्य रक्षार्थं कुम्भे खड्गं निवेदयेत् | अथवा स्थण्डिले कुंभे मण्डले शिवमर्चयेत् || २६३ || मण्डले च यथा पूर्वं पूजयेच्छिवमव्ययम् | मण्डलस्य तु मध्ये विलिखेदष्टदलाम्बुजम् || २६४ || आद्यंशे कर्णिका कार्या द्वितीये केसराणि वै | दलसन्धि तृतीयांशं चतुर्थं * * * * कम् || २६५ || प्. ९३०) अंगुलाष्टकमानेन कर्णिका तत्र वै भवेत् | पद्मपत्रदलाग्राणि गात्राणि दलसन्धयः || २६६ || चतुरंगुलमानेन यथा शोभं क्रमाल्लिखेत् | दलाग्रं तु दलं न्यस्त्वा प्रतिवारुण मण्डलम् || २६७ || परिताङ्गुलेनैव कर्तव्यं नन्दिकेश्वर | शिवस्या सनकं तत्र वीथ्यादि सहितं भवेत् || २६८ || वीथ्या द्वारमथाद्येन तदर्धेनापि चाभवेत् | शोभानुद्वारमानेन कपालौ कृतदर्धता || २६९ || सिते रक्तं तथा कृष्णं रजतं पीतं पिधानकम् | * * * * दलाग्राणि दलगात्राणि च क्रमात् || २७० || प्. ९३१) अयं कुलेन तत्कुर्यात् कर्णिकाश्च षडंगुलम् | शिवं तत्रैव संपूज्य गच्छेयुः कुण्ड सन्निधौ || २७१ | मूर्तिपा स्वकलाश्चापि कुण्डनाभि पुरस्कृताः | कुण्डसंस्कारकादीनि देशिकादेशतो भवेत् || २७२ || जापिनोऽपि जपेयुस्ते हेतिमन्ये तु संहिताम् | चतुर्वेदविदो विप्राः पठेयुः शान्तिसूक्तकान् || २७३ || पवमानि सूसूक्तं च मैत्रं चैव वृषाकपिः | प्राच्यां पठेत्तु ऋग्वेदी सर्वमेतत्समं तदा || २७४ || * * * * * * *ण्ड देवरुद्रमनन्तरम् | पुरुषं गतिमेतानि सामवेदी तु दक्षिनः || २७५ || प्. ९३२) रुद्रं पुरुषसूक्तं च श्लोकाध्यायं विशेषतः | यजुर्वेदी ब्राह्मणस्तु प्रतीच्यां वै समुच्चरेत् || २७६ || उत्तरे सर्वशीर्षं च नीलरुद्रं तथैव च | स्रुवसूक्तं तथैवाशु जपेदाथर्वणिस्तथा || २७७ || देशिको वह्निमुत्पाद्य कुण्डं प्रति विनिक्षिपेत् | अग्नेः प्रागादिकान्यागात् पूर्वकुण्डादिभिः क्रमात् || २७८ || धूपदीपं च रूपं च कृते नाग्निं समुद्धरेत् | देवे * * * * * * * * बोग्नौ मन्तर्पणम् || २७९ || संपत्त्यै दुर्निमित्तानां शान्तये होममाचरेत् | पूर्णाहुतिं क्रमाद्दत्वा पूर्ववच्चरुकुम्भकम् || २८० || प्. ९३३) कुण्डं प्रति यथायोगं कारयेद्देशिकोत्तमः | यजमानोऽपि पूर्वोक्तभूषणैर्भूषयेच्च ताः || २८१ || अलंकृतास्तु ते सर्वे प्रययुः स्नानमण्डपम् | पद्मासने तु प्रायेद्याः प्रणवासनमध्यमे || २८२ || शिवं तत्र समावाह्य ताडयित्वा च कुण्डयेत् | काषायकरुणा चैव स्नाप * * * * तथा || २८३ || गोमूत्रगोमयैर्वापि शुद्धतोयान्तरान्तरम् | गन्धतोयेन फट्कारहेतिना शुद्धवारिणा || २८४ || भस्मना वापि संस्नाप्य पूजयित्वा विधानतः | पादादिकरशुद्धिश्च मूर्तिपैः कारयेद्गुरुः || २८५ || प्. ९३४) तनुत्रजप्तपीतेन वाससाच्छाद्य सांप्रतम् | शुद्धपुष्पैः सुसंपूज्य नयेदुत्तर वेदिकाम् || २८६ || शययासने सुसंवेश्य कुंकुमारुणसूत्रकैः | विमृज्य विलिखेत्तत्र हेमसूच्या गुरुः स्वयम् || २८७ || कृत * * * * णचांगकश्शिल्पि समुच्चरेत् | आचार्यस्त्रिंशताबोधा पादादर्धं तथापि वा || २८८ || शुभमंगं च कर्तव्यं सर्वकामार्थ सिद्धये | लिंगदैर्घ्यविकारांशे त्रिभक्ते भागहीनतः || २८९ || सप्तारे लिंगदेशस्य लिंगमस्तकयुग्भवेत् | क्षेत्राष्टं चेतु चिह्नं स्यान्मूर्ध्नि भाक्तिद्वयोच्यते || २९० || प्. ९३५) वश्यभागपरिवर्तेषु चाधोभागद्वयं त्यजेत् | पृष्ठभागे तु सम्बद्धं लेखात् संभ्रमणाद्भवेत् || २९१ || रत्नजे लोहजे वापि नर्मदा * * * * * | * * * * * * * सं मीचान पञ्चलोहके || २९२ || व्यक्ते तु नयनोन्मेष लक्ष्म तत्सन्निधाय वै | कल्लक्ष्ममार्गमधुना घृतेनापि प्रपूरयेत् || २९३ || शिल्पिदोष * * * व्य पूजयेल्लिंगमुत्तमम् | शययाभूषणपात्रादि * * * * * * * * || २९४ || शलाकापासनं तर्प्य शिल्पिनं यजमानकः | भूषणैर्विविधैरेव गोभिः क्षीरसमृद्धिभिः || २९५ || प्. ९३६) संपूजयेत् ततो लिंगं धूपदीपाक्षतादिभिः | गायन्त्यो मंगलं नार्यो जीवपुत्रास्सभ्रातृकाः || २९६ || सव्ये च व्योमहस्तेन सूत्रेणाद्य कुशेन वा | स्पृष्ट्वा च रोचनां दत्वा कार्यनिर्मर्त्सनादिकम् || २९७ || धान्यैश्च लवणैश्चापि शुद्धैकश्शर्करादिभिः | सन्तोषयेच्च कर्ता तु विविधैः स्वर्णदानकैः || २९८ || देशिको मूर्तिपैस्सार्धं प्रणवेन हृदाथवा | मृत्स्नागोमयगोमूत्र भस्मभिस्सलिलान्तरम् || २९९ || पञ्चगव्येन संस्नाप्य पञ्चामृत पुरस्सरम् | काषायवारिणा चैव निर्मस्ति तदनन्तरम् || ३०० || प्. ९३७) सर्वौषधिजले नैव शुभपुष्पफलान्वितैः | रत्नशृंग सुवर्णादि वारिभिश्चाभिषेचयेत् || ३०१ || सहस्रधारणायेन दिव्यौषधिजलेन च | गंगादितीर्थतोयेन पददेन च वारिणा || ३०२ || काकार्णवादिभिः कुंभैः शिवकुंभजलेन च | निर्मत्सलं विलेपं च सुगन्धैश्चन्दनादिभिः || ३०३ || ब्रह्मांगैश्च शुभैः पुष्पैः वर्मणारक्तपीडनैः | अघोरेण तु नीराज्य भस्मना तिलकं भवेत् || ३०४ || नृत्तैश्च गीतैर्वाद्यैश्च ब्रह्मघोषादि मंगलैः | जलजीरकधात्रादि पूर्वैरप्यादिषूचितैः || ३०५ || प्. ९३८) संतुष्टमर्चयेत्तत्र जपस्तुत्यादि मंगलैः | पुरुषेण विशेषेण समाचम्य पदा तदा || ३०६ || एवं देवं च संब्रूयादुयतां भगवानिति | ततो रथं समारोप्य मण्डपं पुरमेव वा || ३०७ || शतांगाग्रे च कर्तारं देशिकप्रोक्षिते कले | व्रजनृष्यादिभिस्सार्धं रथमार्गानुसारिभिः || ३०८ || वस्त्रादि हेमरत्नादि सप्तब्रूहि * * * कान् | नृत्तगीतादिभिश्चैव मालाभिश्च सुगन्धिभिः || ३०९ || वित्तानुसारतश्चैव दीपं च परितो भवेत् | पूर्वं तु मण्डपद्वारं तत्र भद्रासनस्थितान् || ३१० || प्. ९३९) शिवं समां च संपूज्य कृते स्वस्त्ययने सति | * * * * * पश्चिमे न्यस्य शिलां वै संज्ञताम् || ३११ || पश्चिमास्ये विधिस्त्वेवं पूर्वास्ये तद्विपर्ययम् | तत्र शस्त्रशताल्लब्ध निद्राकुम्भध्रुवासनम् || ३१२ || संकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु | पश्चात् स्करं फलशिरसा च * * * * * * || ३१३ || * * * * * * * * * * पकरणादि यत् | पदतां च ग्रहादीनि हृदा दद्यात्स्वशक्तितः || ३१४ || अभ्यंगाय घृतक्षौद्र युक्तपात्रं पदादिगे | तत्र स्थितो गुरुः पश्चात् षट्त्रिंशत्तत्वसंचयम् || ३१५ || प्. ९४०) शक्त्याद्यवनिपर्यन्तं स्वतत्वाधिपसंयुतम् | विन्यस्य पुष्पमालाभिः त्रिपुण्ट्रं परिकल्पयेत् || ३१६ || आथा सन्देश * * * * * * * * * * * | * * * *ण विन्यस्ये दर्घ्यविद्ध्या शिवात्मना || ३१७ || * * * * * रांश्चापि पूर्वादिक्रमतो न्यसेत् | भूवह्नियजमानार्क जलवायु निशाकरात् || ३१८ || व्योममूर्ति स्वरूपास्तां न्यसेत्तदधिनायकान् | शर्वं पशुपतिं चोग्रं रुद्रं भवमथेश्वरम् || ३१९ || महादेवं च भीमं च मन्त्रस्तत्वार्थ नामकान् | * * * * * * रस पवसाश्च त्रिरात्रिक || ३२० || तारं * * * * * * * * * * * * * * | प्. ९४१) अथवा पञ्चमे कुण्डमूर्तिः प * * * * सेत् | क्ष्म * * * * * * * * * * * * * स्तथा || ३२१ || ब्रह्माणं विष्णुरुद्रौ च ईश्वरं च सदाशिवम् | सृष्टि क्रमेण भोगाय मुक्त्यर्थं विपरीतकम् || ३२२ || मुमुक्षोर्वनिवृत्त्याद्या अजाताद्यास्तदीश्वरः | तत्र द्वयं न्यसेद्वाप्य सर्वत्र द्व्यसकारणम् || ३२३ || विशुद्धेऽध्वनि विद्येशा न शुद्धे लोकनायकाः | द्रष्टव्या मूर्तिपाश्चैते भोगिनो म * * * * || ३२४ || थेवाष्ट * * * * * पञ्चत्रीणि यथाक्रमम् | कृतस्नाता * * * * चन्दनादि * * * * || ३२५ || प्. ९४२) * * * * * * * द्य भगचिह्नेषु रन्ध्रके | रक्तपञ्चक संयुक्तं लिंगस्योत्तरतः स्थितान् || ३२६ || लिंगवत्कृतविन्यासान् विधिवत् समपूजयेत् | कृतस्नानादिकान्तद्वा लिंगमूले शिवां न्यसेत् || ३२७ || कृतस्नानादि संस्कारं शक्त्यन्तत्व वृतं तथा | तारपूर्वं च मूसूंह्रीं मध्यादन्यतमेन च || ३२८ || क्रियाशक्तिनिभांपिण्डं शिशला * * * * * | * * * * * * कुर्याद् भस्मदर्भतिलैर्युतः || ३२९ || दिक्पति * * * * त्र रक्षा * * * * क्तये | ओं ह्रीं ह्रां सः ओं हां भौरि रुद्र इत्येते स्वाहेत्यपि च पिण्डिकाम् || ३३० || प्. ९४३) ओं हां आधारशक्तये नमः ओं हां वृषभाय नमः | धारिका दीप्तमत्युग्रा ज्योत्स्ना चेतासलोत्कटा || ३३१ || धात्रीविहितमूर्तीशा न्यसेद्वा पञ्चनाडिका | वामा ज्येष्ठा क्रियाज्ञानि चेष्टा तिस्रोऽथवा न्यसेत् || ३३२ || क्रियाज्ञानि * * * * * * * * * * * * | मा मोक्षा क्षयानिद्रा मृत्युं मायाभय थ चक्रता || ३३३ || * थवा क्रियाज्ञानि तथैश्चावा विनायकाः * | आत्मविद्याशिवाख्येषु त्रिषु मूर्तिषु विन्यसेत् || ३३४ || अत्रापि पिण्डिका ब्रह्म शिलिधिष्ट यथाविधि | गौर्यादि मन्त्रकैरेव पूर्ववत्संप्रपूजयेत् || ३३५ || प्. ९४४) कुण्डपार्श्वे ततो गत्वा न्यासं कुर्याद्यथा विधि | कुण्डस्य मध्ये देवेशं मेखलासु महत्स्वरम् || ३३६ || ना * * * * * * * * * * ष्ठे च विन्यसेत् | कलशे स्थण्डिले * * * * * धानमा * * || ३३७ || * * * * * * * * * * * सव मुद्गताम् | गच्छन्ति शून्यमार्गेण निस्सरन्ति समुद्गताः || ३३८ || शून्यमार्गेण गच्छन्ति स्वस्यतां तत्र चिन्तयेत् | संध्येयं मूर्तिपैस्तत्र चान्योन्यं नन्दिकेश्वर || ३३९ || आधारशक्तिं संपूज्य कुण्डे सन्तर्प्य च क्रमात् | तत्वं तत्वेश्वरान्मूर्तिं मूर्तीशांश्च घृतादिभिः || ३४० || प्. ९४५) तर्पयित्वाथ संपूज्य * * * संहिताणुभिः | पूर्णाहुत्या सहस्रं च शतं वा चापि होमयेत् || ३४१ || * * * * श्वरं मूर्ति * * * * * * * * | * * * तर्प्य जुहुयात् सन्निधौ मूर्तिपानपि || ३४२ || पञ्चब्रह्मषडंगैश्च द्रव्यकालात्मनोरतः | शान्तिकुम्भे जलैश्चापि प्रोक्षयेत् कुशमूलतः || ३४३ || संस्पृश्य लिंगमूलं च जपं कुर्याच्च संख्यया | विदध्यात् सन्निधानार्थं हृदा रोधावकुण्ठनम् || ३४४ || कवचेन तदा कुर्यान् मूर्तिपांश्च विशेषतः | * * * * * संशोध्य विष्णुं शौच विशुद्धये || ३४५ || प्. ९४६) पूर्ववद्धोमसंख्यादि * * * * * * * * | * * * * * * * * * * मध्याग्रतः स्पृशेत् || ३४६ || यथा संख्यं च सन्धानं तदिदानीमिहोच्यते | ओं हां हां वं ओं ओं ओं वां वह्निमूर्तये नमः || ३४७ || क्रमात्तु यजमानादि मूर्तिभिश्चापि सन्धये | पञ्चमूर्त्या प्येवं सन्धानं हृदयादिभिः || ३४८ || स्वधाबीजैश्च मूलेन ज्ञेयं तत्वत्रयात्मके | वृद्ध्या वृक्षेऽपि वैनं * * * गच्छ स्वयं नरैः || ३४९ || प्रत्येकं भागशुद्ध्यर्थं शतं होमं च शतम् | हुत्वा यद्यत्कृतं कर्म शिवश्रोत्रे निवेदयेत् || ३५० || प्. ९४७) कर्मैतत्कथितं ह्येतत् चिच्छक्त्यै च मया प्रभो ! | ओं नमो भगवते रुद्राय रुद्रामोवित्कृते || ३५१ || विधिं पूर्वम * * * शक्त्या पूज्यर्कगृह्यता | ओं ह्रीं शांकरी पूरय स्वाहा * * * * * * || ३५२ || पिण्डिकायां न्यसेदेवमधिलिंगे न्यसे * * | * णशक्तिं क्रियाशक्तिं पिण्डे थैव च विग्रहेत् || ३५३ || आधारर * * * * * * * * * * * * | सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् || ३५४ || एकरात्रमथोवापि यद्वा सद्योऽधिवासितम् | अधिवास विहीनश्चेद् योगो निष्फलमाप्नुयात् || ३५५ || प्. ९४८) स्वस्वमन्त्रैश्च होतव्यमाहुतीनां शतं शतम् | दिग्बलिं विधिना कुर्याच्छिवकुम्भं च पूजयेत् || ३५६ || अधिवासविधिस्त्वेवं कृतोऽयं नन्दिकेश्वर | * * * * * * पश्चात् कृतनित्यविधिः स्वयम् || ३५७ || द्वारपूजां च कुर्याच्च पू * * * * * * चरेत् | समभ्यर्च्य च दिक्पालान्शिवकुम्भं च वर्धनीम् || ३५८ || लिंगमग्निं च संपूज्य अष्टपुष्पिकया क्रमात् | गच्छेच्छिवाज्ञया तत्र प्रासादं शस्त्रमुच्चरेत् || ३५९ || हुंफडन्तास्त्रमन्त्रेण * * * नि निवारयेत् | लिंगं न मध्ये स्थातव्यं वेदघोष विशंकया || ३६० || प्. ९४९) मध्यान्तस्तात् परित्यज्य वर्धनाय च * * * | तस्मादीशानमाश्रित्य शिलां मध्ये निवेशयेत् || ३६१ || मूलेन तामनन्ताख्य विन्यसेदचलां शिलाम् | अथवानेन मन्त्रेण शिवस्यासन रूपिणीम् || ३६२ || ओं नरो व्यापिनि स्थिरे चले ध्रुवे ह्रीं स्वाहा | शिवाज्ञयात्वया चेदा स्थातव्यमिहसन्ततम् || ३६३ || इत्यु * * * * ध्यच्य निरुध्याद्रोधमुद्रया | वज्रादीनि ततो चान्तानि तथोशीरादिकौषधौ || ३६४ || हेमादि लोहकां * * * * * * दिकांस्तथा | पूर्वोक्तधान्यराशींश्च क्रमा च विरचयय च || ३६५ || प्. ९५०) प्र * * * * विक्तस्तु लोकपालेश मन्त्रकैः | पूर्वादिचाष्टगात्रेषु क्रमादेकैकशः क्रमात् || ३६६ || स्वर्णं वा ताम्रजं कूर्मं वृषं वा द्वारसम्मुखम् | सरित्तटमृदा युक्तं पर्वताग्रमृदादि वा || ३६७ || * * * मध्यगर्तायां यवां मेरुं सुवर्णकम् | मधुकाक्षत संयुक्तं अञ्जनेन समन्वितम् || ३६८ || राजतां पृथ्वीं यद्वा यद्वा व * * * * * * | सर्वबीजसुवर्णाभ्यां समायुक्तं विनिक्षिपेत् || ३६९ || हेमं चर * * * * * * * * रत्नमन्त्रतः | वेदे नवस्य शक्त्यादि शक्तिपर्यन्तमासनम् || ३७० || प्. ९५१) कल्पयेत्पायसेनाथ क्षिपेद्गुद्गुलुवाथवा | स्वभूमाच्छाद्य वस्त्रेण कवचेनास्त्ररक्षणम् || ३७१ || दत्वा बलिं दिक्पतिभ्यः समाच्छान्ते गुरुस्सदा | शीलासूत्रजदोषस्य शान्तये मूलमन्त्रतः || ३७२ || शतं सम्यक् च जुहुयादस्त्रमन्त्रेण वाथवा | प्रत्येकं वास्तुदेवानां तृणेन जुहुयात्क्रमात् || ३७३ || हृदा देवं समुत्थाप्य मान * * * * * तैः | स्वबन्धुसहितः कर्ता पाश्चात्यो दैवतोऽपि वा || ३७४ || परिभ्रमाथ प्रासाद ग्रामादीन् क्रमशोपि वा | लिंगं स्थाप्य जलेभद्रां भद्रास्यै चार्धमुत्तमम् || ३७५ || प्. ९५२) प्रासादं च नयेत्पश्चाद् रत्नगर्भं विशेषतः | द्वारेण द्वारबन्धे च द्वारदेशेन तद्विना || ३७६ || शिलाशूरे द्वारबन्धे तदूर्ध्वेनाथ तद्विते | द्वारस्पर्शाद्विसृज्यैव द्वारेणैव शयेत् || ३७७ || अयमेव विधिर्ज्ञेयो व्यक्तलिंगेऽपि सर्वतः | गृहे प्रवेशस्तद्द्वारारिकैरपि समीरितम् || ३७८ || अपद्वारप्रवेशे तु गोत्रक्षयमनन्तरम् | कर्तुस्त्वन्तु विनाशाय मतश्शान्तिं समाचरेत् || ३७९ || जीर्णादिदोष दुष्टः स्यादपद्वारेण निर्मितम् | द्वाराभिमुख माप्यापि पीठे लिंगमनन्तरम् || ३८० || प्. ९५३) मंगलैस्तूर्यनिर्घोषैरक्षतैर्दूर्वयार्चयेत् | प्रीतोत्तिह्याथ देशिको मूर्तिपैस्सह || ३८१ || चन्दनैः कुंकुमैर्वापि विलिप्त्वा यन्त्रधारिणम् | ध्यात्वैक्यं शक्तिशिवयोश्शिवयोगी च लम्बनम् || ३८२ || लयान्तमूलमुच्चार्य सृष्ट्यार्षश्चभ्रे निवेशयेत् | र्यंशेन ब्रह्मभागे वा यद्वात्र्यंशद्वयेन च || ३८३ || अर्धेन चाष्टमांशेन सर्वस्याधः प्रवेशनम् | सीसकंभमपीडायाथ दीर्घान्तार्भस्समं हितः || ३८४ || पूर्वश्च शृंगवालुकाभि स्थिर * * रूपिणीम् | शक्त्यन्तमूलमुच्चार्य न्यसेद्दृष्ट्वा च निष्कलम् || ३८५ || प्. ९५४) लिंगवत् स्थाप्यमानं तु यां यां दिशमुपाश्रयेत् | तत्तद्दिगीशमन्त्रेण पूर्णां तं दक्षिणान्वितम् || ३८६ || भ्रामत्ते च स्फुटी वक्त्रे शब्दोच्चारेण संयुते | शतं मूलेन कर्तव्यं अर्धवारेण वा भवेत् || ३८७ || अन्येष्वपि च देशेषु एवं शान्तिं समाचरेत् | लिंगोक्त न्यासके कुर्याद्दोषशान्त्यै विशेषतः || ३८८ || * * * * * * * * पिण्डष्वष्या च विन्यसेत् | वालुकाभिश्च भूसन्धिं पूर्य यज्ञानु लेपनात् || ३८९ || देशिको मूर्तिपैस्सार्धं शान्ति कुम्भजलार्धतः | संस्नाप्य कलशैन्यस्तैस्तद्वत् पञ्चामृतादिभिः || ३९० || प्. ९५५) चन्दनाद्यैः सुसंलिप्य शिवं संपूज्य देशिकः | उमामहेश मन्त्राभ्यां कौस्पर्शे लिं * * * * || ३९१ || * * * * * * * * तत्वत्रयमथो न्यसेत् | च कुर्या * * * * * * * शक्तिं च पीठके || ३९२ || एवं क्रमाच्च विन्यस्य पूजयेज्जगदीश्वरम् | कुंकुमागरुकर्पूरैः समालभ्याथ भूषणैः || ३९३ || साज्यं गुग्गुलु दग्ध्वाच व्याप्यत्वेन शिवं न्यसेत् | धूपदीपं च नैवेद्यं हृदयेन फलानि च || ३९४ || निवेद्यं च ततः कुर्यात् समा * * * * * * | * * दत्वा जपं कुर्याद् निवेद्य * * * * * || ३९५ || प्. ९५६) प्रणम्यैवं बहिर्गत्वा प्रणवेन हृदाऽथवा | वृषभं स्थापयेत् पश्चात् पूर्व * * * * हुनेत् || ३९६ || ऋणादि दोषमोक्षार्थं ततो मृत्याजितं निश | हुत्वा शिवे * * * * शान्त्यर्थं प * * प्रभो ! || ३९७ || हिरण्य पशुभूत्यादि हेतवे * * * * * | महोत्सवं च दानं कुर्याद्दिन चतुष्टयम् || ३९८ || होमयेन् मूर्तिपैस्सार्धं त्रिसन्ध्यं तु दिनत्रयम् | तुरीये च दिने चैव पूर्णया बहुरूपिणा || ३९९ || चरुं च निर्वपेत्पश्चान् निवेद्यं तदनन्तरम् | सर्वकुण्डेषु संपाताहुतिं शोधितं हरेत् || ४०० || प्. ९५७) तृतिये * * * * * निर्माल्यं च तदूर्ध्वतः | निर्माल्यापनयं कृत्वा स्नापयित्वा प्रपूजयेत् || ४०१ || स्वमन्त्रवर्जनं कुर्याल्लिंगं चैतन्य संयुतम् | असाधारणलिंगेषु क्षमस्वेति विसर्जनम् || ४०२ || आवाहनमभि व्यक्ति स सद्यश्शक्तिरूपतः | प्रतिष्ठान्ते च कर्तव्यं स्थिराद्याहुति सप्तकम् || ४०३ || स्थिरस्वधाप्रमेयानां अधिबोधस्तथैव च | नित्योथ सर्वगैश्चैव नीराशी तृप्तयेव च || ४०४ || शिवस्य संनिधानार्थं शृणुह्येतान् प्रकीर्तितान् | ओं नमः शिवाय * * * * * * * * * * || ४०५ || प्. ९५८) * * क्रमाच्च होतव्यं स्वाहान्तेन गुणेन च | संपाद्यैवं विधायैव शिवकुम्भवदव्ययम् || ४०६ || घटद्वयं च तन्मध्यादेक कुम्भं यथाभवम् | संस्नाप्य तद्द्वितीयं तु यजमानाभिषेचने || ४०७ || धारयेत्तु बलिं दत्वा समाचम्य बहिर्व्रजेत् | शिवाज्ञया बहिर्गत्वा जगती बाह्यतः शुभैः || ४०८ || ऐशान्यां चण्डधामापि विधिना कारयेद्गुरुः | भगप्रमाणयुक्ते च स्वपीठे कल्पितासने || ४०९ || * * * * धिवक्तेन ब्रह्मांगैरर्चयेत्क्रमात् | उक्तानि पूर्वमंगानि ब्रह्माणि त्वयनं विना || ४१० || प्. ९५९) ओं वं सद्योजाताय हुं फण्णमः | ओं सं वामदेवाय हुं फण्णमः || ४११ || ओं चुं अघोराय हुं फण्णमः | ओं चें तत्पुरुषाय हुं फण्णमः || ४१२ || ओं चों ईशानाय हुं फण्णमः | नमस्कारेण सन्तर्प्य निवेद्यं च जपं तथा || ४१३ || विज्ञाप्य भक्तिसंयुक्तो यावत् संनिधयेत् तदा | तत्रत्वं सन्निधीग्राह्या देव * * * * * * || ४१४ || * * सादेन चण्डेश तत्सर्वं परिपूरय | चललिंगे च लोहे च बाणलिंगे स्वयंभुवि || ४१५ || प्. ९६०) न चण्डोऽधि कृतस्तत्र विशेषाद्रत्नगर्भके | अद्वित भावनायुक्ते स्थण्डिले च त्रिधावधि || ४१६ || चण्डमेवं च संस्थाप्य चण्डदोषनिवृत्तये | बन्धुदारसुतैर्युक्तं कर्तारं स परिग्रहम् || ४१७ || स्थापयेत् पूर्वकुम्भेन स्थापको देशिकोत्तमः | शिववत्पूजनं कुर्याद् यजमानोऽपि देशिकम् || ४१८ || * * * * * * * * * गुरोस्सन्तोष हेतवे | गुरुस्सन्तोषहीनश्चेद् यजमानोऽपि निष्फलः || ४१९ || मूर्तिपाश्च द्विजाश्चापि दैवज्ञं शिल्पिनं तथा | दक्षिणाश्च ततो दद्याद् यथा शक्त्या विशेषतः || ४२० || प्. ९६१) अन्धान्कुम्भांश्च कृपणाकुष्ठव्याध्यादि पीडितान् | तोषयेच्च विशेषेण यजमानः स्वयं तथा || ४२१ || गुरुः कर्तुश्च संतुष्टः फलमेवं प्रदर्शयेत् | प्रतिमालिंगदेवीनां यावन्तः परमाणवः || ४२२ || तावद्युग सहस्राणि शिवलोके महीयते | * * * * प्रदं नित्यं शिवलिंगप्रतिष्ठितम् || ४२३ || यदत्र सन्मुखीभावे चोदितं भगवन्मया | क्षमस्व नाद्य तत्सर्वं कारुण्याम्बुनिधिर्मम || ४२४ || एवं देवाय विज्ञाप्य भक्तियुक्तो गुरुस्तथा | प्रतिष्ठां पुण्यकं यत्तु स्फुरन्नक्षत्र सुप्रभम् || ४२५ || प्. ९६२) जलपुष्पकरोपेतं स्वकरेण समर्पयेत् | पश्चात् पाशुपतं जप्त्वा प्रणम्य शिवमव्ययम् || ४२६ || * * * बलिभिस्तत्र सन्निधापनरोधयेत् | स्थातव्यं भवता तावद् यावत् स * * * * * || ४२७ || * * * देशिकः शिल्प पात्रादिकमथा हरेत् | स्वस्वमन्त्रैश्च देवाश्च स्थाप्यास्तत्र विशेषतः || ४२८ || आद्यक्षरेण भेदाद्या तत्वव्यापितभावितः | साध्यादि देवा ऋषयः नक्षत्रं किं नरस्तथा || ४२९ || भूतत्वान् निर्मिताश्चैते विशेषान्नन्दिकेश्वर | गङ्गा च यमुना चैव नदी चैव सरस्वती || ४३० || प्. ९६३) जलतत्व विशेषेण स्थिता वै नन्दिकेश्वर | * * * * * * नाञ्च स्थानं तत्र व्यवस्थितम् || ४३१ || मनोबुद्धिप्रदानास्ते त्रितत्व ब्रह्मणः पुनः | * * * व गणदाद्री नागकेशर जन्मनाम् || ४३२ || मनोधीशुद्धविद्यान्त पदं गणपतेस्तथा | मायान्तं रविरेवं स्यादान्तरं शक्तिरेव च || ४३३ || शक्त्यन्तं शिवसंस्थानं लिंगे चैतद्विशेषणम् | अर्चना * * रान्तं वै कूर्माद्यासन पूर्वकम् || ४३४ || पंचरत्नादिकं चापि गर्ते चैव विनिक्षपेत् | शिवलिंगं च कर्तव्यं अन्यब्रह्म * * * * || ४३५ || प्. ९६४) गर्भं भज्य षड्भागं पृष्ठे चैकं विसर्जयेत् | पञ्चमांशं तु सं * * * * * * * * * * || ४३६ || * * * * विशेषेण धारनाभिर्विशुध्यति | आसनं स्नानपाद्यादि रत्नन्यासादिकं तथा || ४३७ || निरम्बुभिश्च कर्तव्यं भावना मुद्रया तथा | चललिंगे विशेषेण त्रिभिर्वा पञ्चभिस्तथा || ४३८ || पीठेव * * * * * * * च्छायां तु ते शृणु | भागत्रये द्वयेवापि कर्तव्यं नन्दिकेश्वर || ४३९ || स पीठेष्वपि तद्वत् स्यात् लिंगेषु * * * * * | स्फुटिकादिं च संस्कारो विष्टमन्त्रेण कारयेत् || ४४० || प्. ९६५) किं च ब्रह्मसिलायोगं मनसा परिकल्पयेत् | बाणस्वयंभुवादीनां पीठसंस्कार वर्जनम् || ४४१ || स्थापनं संहितामन्त्रन्यासहोमं च कारयेत् | पैष्टिकम्मृण्मयादीनां क्षणलिंगं तथा भवेत् || ४४२ || प्रोक्षणादींश्च कृत्वा संपूजयेत्तदा | मन्त्रानात्मनि संस्थाप्य तज्जले प्रक्षिपेत् पुनः || ४४३ || संवत्सरेण त * * * * * नन्दिकेश्वर | इत्यचिन्त्यविश्वसादाख्ये प्रतिष्ठालक्षणः पटलः || प्. ९६६) मण्डपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर | देवीं संस्नाप्य शययायां अधिरोप्य च पूर्ववत् || १ || ब्रह्मरन्ध्राल्ललाटान्तं ललाटाद्धृदयावधि | हृदयान्नाभि पर्यन्तं ना * * * * * वधि || २ || जानुभ्यामङ्घ्रिपर्यन्तं मूर्त्यादि विनिवेशनम् | आत्मविद्या शिवान्तं तु कुर्यादीशान वेशनम् || ३ || न्यस्त्वा * * * * * पि अपराख्यामनन्तरम् | क्रमाद्धुत्वा च पीत्वा च सन्ध्यायाममनन्तरम् || ४ || व्यापिकां * * * ध्यात्वा न्यस्तरत्नादिकां तथा | पश्चात्संस्थाप्य देवेशीं तस्यामेव नियोजयेत् || ५ || प्. ९६७) स्वमन्त्रेण क्रियाशक्ति रूपात्तां सृष्टियोगतः | क्रियाशक्तिं ततो न्यस्येद् * * * * न्य रूपिणीम् || ६ || विग्रहे च ततो न्यस्येद् व्यापिनीं शक्तिरूपिणीम् | अमुकेशी च नामां च समालभ्य च पूजयेत् || ७ || * * * * * * मन्त्रा भवत्येव न संशयः | ओं आं आधारशक्त्यै नमः * * * * * * * || ८ || ओं रांकन्द * * * * नालाय * * नायनः | ओं ॡं वैराग्याय नमः | ओं ॡं ऐश्वर्याय नमः || ९ || ओं ऋं अधर्माय नमः | ओं ॠं अज्ञानाय नमः | ओं ॡं अवैराग्याय नमः | ओं लूं अनैश्वर्याय नमः || १० || प्. ९६८) ओं * धच्छदनाय नमः | ओं अं ऊर्ध्वच्छदनाय नमः | ओं हां पद्माय नमः | ओं हां केसरेभ्यो नमः || ११ || ओं हां कर्णिकायै नमः | ओं हां पुष्करेभ्यो नमः | ओं ह्रीं प्राज्ञ्यै नमः | ओं ह्रीं ज्ञान्यै नमः || १२ || * * * * * यै नमः | * * वागैश्वर्यै नमः | ओं ह्रीं ज्वालिन्यै नमः | ओं ह्रीं वामायै नमः || १३ || ओं ह्रूं ज्येष्ठायै नमः | ओं ह्रूं रौद्र्यै नमः | नवशक्तीरिमा न्यस्य देवी ध्यानं च कारयेत् || १४ || हेमवर्णां सकुसुमां चन्दनादि विलेपिताम् | चतुर्भुजां त्रिणेत्रां च सर्वलक्षण संयुताम् || १५ || प्. ९६९) अनेकाभर * * * * * * * * * * * | एवं ध्यात्वा जगद्धात्रीं गौर्याभ * * * * * || १६ || ओं गौं गौर्यै नमः | * * * * * * * * नमः | ओं ह्रीं ह्रीं सः महागौरि रुद्रदयिते नमः || १७ || ओन्नमो गौरि रुद्रदयितायै स्वाहा | इति मूलमन्त्रः | ओं गां हृदयाय नमः || १८ || ओं गीं शिरए स्वाहा | ओं गूं शिखायै वषट् | ओं गैं कवचाय हुम् | ओं गौं नेत्रत्रयाय वौषट् || १९ || ओं गः अस्त्राय फट् | ओं सीं ज्ञानशक्तये नमः | ओं सिं नमः | * * * मन्त्र पूर्वोक्तः सुभगाद्या अनन्तरम् || २० || प्. ९७०) * * * * सुभगायै नमः | सूं कामिन्यै नमः | ओं सैं काममालिन्यै नमः | * * * * * * * || २१ || एता गौरीसमानास्युः शक्तयो नन्दिकेश्वर | एवं ध्यात्वा सुसंपूज्य सुगन्धैः कुसुमाक्षतैः || २२ || निवेद्य वेदनादीनि पूर्ववन्नन्दिकेश्वर ! | इत्यचिन्त्यविश्वसादाख्ये गौरीप्रतिष्ठाविधिरेकोन षष्टितमः पटलः || * * * * * * ष्वास शृणुत्वं नन्दिकेश्वर ! | विद्यान्तासनशर्य * गंस त्रयमथो न्यसेत् || १ || प्. ९७१) ईश्वरं तत्र विन्यस्य व्योमादि क्ष्मान्तपञ्चकम् | शुद्ध्यादि पूर्ववत्कुर्यात् कृत्वा पिण्डं च पूर्ववत् || २ || स देश पदपर्यन्तं विन्यस्तं रत्नपञ्चकम् | शक्त्या च सर्वतो मुख्यास्संस्थाप्य विधिवत्ततः || ३ || स्थाणुना विधिवत्सूर्यं शक्त्यन्तं स्थापयेद्गुरुः | * * * * म्यं तथा * * क्षन्तं नाम धारयेत् || ४ || सूर्यमन्त्रास्तुष्टव्या स्था * * * * * * * * | * * * * * * * * वक्ष्येहं नन्दिकेश्वर || ५ || आरामे चालये वापि पुण्यदेशे मनोरमे | आत्मार्थं च परार्थं च स्थापनं च विधीयते || ६ || प्. ९७२) परार्थे व्यचलत्वं वै विशेषत्वाच्च कीर्तितः | मण्टपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ! || ७ || पूर्वादीशान पर्यन्तं परिवारमथोच्यते | उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं नमम् || ८ || वि * * * * * * * * * * * * * भवेत् | विकटं भीमसंज्ञं च द्वारपार्श्वे प्रकल्पयेत् || ९ || कुम्भोदकं च निर्माल्य धारणं चैव देशिके | आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा || १० || अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः | अष्टमूर्त्यधिपा ह्येते अथवा हस्तिवक्त्रकः || ११ || प्. ९७३) विमेख भूतरूपौ द्वारपालौ द्विभुजौ हलदण्डकौ | दंष्ट्राकरलवदनौ * * * स्कन्दपादकौ || १२ || मध्य पद्मे गणाध्यक्षं सर्वतारोपशोभितम् | गजाननो महाकायः प्रलम्बोदर संयुतः || १३ || व्यालयज्ञोपवीती च हृस्वज.घाद्वयान्वितम् | सन्ध्याभ्रसन्निभोवापि नीलनीररुहप्रभः || १४ || तप्तकांचन संकाशः शुद्धस्फटिक सन्निभः | श्यामवर्णमयो वापि यथेष्टफलयोगतः || १५ || पाशाङ्कुशौ स्वदन्तं च लड्डुकं चोत्पलं तथा | किरीट मकुटोपेतं शुक्लयज्ञोपवीतवान् || १६ || प्. ९७४) सर्वाभरण संयुक्तो नेत्रत्रय विराजितः | पीठस्थं मूषिकस्थं वा सिह्मस्थं वाथ कल्पयेत् || १७ || बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् | जलाधिवासनं कुर्याल्लम्बकूर्च समन्वितम् || १८ || अष्टकुम्भन् न्यसेत् पश्चान्नर्मदाद्यष्टतीर्थकम् | कुण्डानि पञ्चकं चैवमथवा परिकल्पयेत् || १९ || शिल्पिनोद्वासनं कृत्वा पुण्याहं वाचयेद्द्विजैः | जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् || २० || मण्डपस्योत्तरे भागे स्नपनं पूर्ववच्चरेत् | रक्षासूत्रं च बध्वा तु मूलमन्त्रं पठेद्बुधः || २१ || प्. ९७५) संशिरोदेशपरितो परितोऽष्टघटान् न्यसेत् | नवरत्नादिकं न्यस्त्वा वासाभ्यां क्रमवेष्टनम् || २२ || पात्रहोमादिपुष्पाद्यैस्तर्पयेज्जुहुयात्ततः | समिदाज्य चरूंश्चैवं अष्टद्रव्यैश्च होमयेत् || २३ || सहस्रमर्धमर्धं वा शतमष्टोत्तरं तु वा | मूलमन्त्राद्दशांगानां * * * * न्तु विक्रिया || २४ || मूर्तिपानां तदर्धं स्यात् तत्वतत्वेशहोमकम् | स्वस्वमन्त्रेण शान्त्यर्थं प्रोक्षणं कारयेद्गुरुः || २५ || दर्भैस्संस्पर्शनं वापि प्रतिभागं समाचरेत् | आसीनासनमेवं हि प्रातःकाले गुरुः स्वयम् || २६ || प्. ९७६) नित्यकर्मद्वयं कृत्वा मण्डलादि प्रवेशनम् | उद्धृतं विघ्नराजानं कुम्भ वह्न्यादिमर्चयेत् || २७ || प्रायश्चित्तमघोरेण शतं वा होममाचरेत् | पूर्णाहुतिं च जुहुयात् प्रविशेद्भगवान्गुरुः || २८ || रत्नौषध्यादि संयुक्तां शिलां ब्रह्ममयीमपि | पूर्णान् न्यस्त्वा ततः पश्चाद्विघ्नराज प्रतिष्ठितम् || २९ || प्रायोद्विघ्नस्य मूलेन मन्त्रेण च समर्चयेत् | सुमुहूर्ते विशेषेण मन्त्रन्यासादिकं चरेत् || ३० || चलं चेत् स्नानवेद्यां तु मन्त्रन्यासादिकं भवेत् | तत्तत्कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् || ३१ || प्. ९७७) तत्वमूर्त्त्यादि विन्यासं पूर्ववत्कारयेद्गुरुः | एवं च स्नपनं कृत्वा नैवेद्यं च निवेदयेत् || ३२ || आचार्यं पूजयेत् पश्चान्मूर्तिपांश्च विशेषतः | वस्त्रहेमांगुलीयाद्यैः स्तोषयेद्गुरु मूर्तिपान् || ३३ || विघ्नेशस्थापनात् सर्वसिद्धयश्च भवन्ति हि | इत्यचिन्त्य विश्वसादाख्ये विघ्नेश स्थापनविधि पटलः || स्थापनं तव नन्दीश ! भुक्तिमुक्तिफलप्रदम् | त्रिणेत्रं चतुर्भुजं शान्तं कृताञ्जलि पुटस्थितम् || १ || प्. ९७८) मृगं च परशुं चैव करालम्बित वेत्रकम् | जटामकुट संयुक्तं नमाशुश्रिं * * * * खम् || २ || वामे तु सुयशादेवी संयुक्तं लक्षणान्वितम् | बालेन्दुशेखरं चैव कालकण्ठविराजितम् || ३ || बालसूर्य प्रतीकाशं रुद्राक्षैर्लक्षणान्वितम् | देवीं च श्यामवर्णाभां सर्वालंकारसंयुताम् || ४ || अंकुरं रत्नविन्यासमधिवासादिकं तथा | शयनारोपणं चैव पूर्ववन्नन्दिकेश्वर || ५ || देवस्य पुरतः कुम्भान्वेदिमुद्दिश्य वर्धनीम् | वसुकुम्भान् न्यसेद्दिक्षु * * रांश्चापि पूजयेत् || ६ || प्. ९७९) त्रितत्वमष्टमूर्तिश्च मूर्तीशान् शिववन् न्यसेत् | वामबीजांग संयुक्त देवं देव्याश्च शक्तिमत् || ७ || होमकर्म विधातव्यं पूर्ववद्रत्नगर्भकम् | प्रभाते मूर्तिपैस्सार्धं स्नापयेद्विधिना गुरुः || ८ || गन्धपुष्पादिकं सर्वं नैवेद्यान्तं तथैव च | ततः प्रभृतिनन्दीशमर्चयेद्भक्ति संयुतः || ९ || इत्यचिन्त्यविश्वसादाख्ये नन्दिकेश्वरस्थापनविधिः षष्टितमः पटलः || परार्थं विषये चैव नित्योत्सवविधिं शृणु | दक्षिणतस्तु कर्तव्यं वामे वा शुद्धभूतले || १ || प्. ९८०) प्रासादे मण्डपे वापि गोमयालेपनं भवेत् | अस्त्रेण प्रोक्षणं कृत्वा पात्रं लक्षण संयुतम् || २ || सौवर्णं राजतं ताम्रं कांस्यं मृण्मययान्वितम् | रन्ध्रांगुलं समारभ्य व्योमांगुलविवर्धनात् || ३ || द्वात्रिंशदंगुलान्तं तु पात्राणां मानकं भवेत् | सुवृत्तं चासनोपेतं कर्णिकादलराजितम् || ४ || तत्पार्श्वे रससप्ताष्ट ग्रहदिग्रहभाजने | एकद्वित्रिचतुष्पञ्चषट् * * * * का भवेत् || ५ || शेषेन मानमाख्यानं विकाराष्टदलं मतम् | अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् || ६ || प्. ९८१) तद्वतोषु समोपेतं पात्रं केवलमेव वा | कुडुम्बद्वयमारभ्य कुडम्बाध्या विधि || ७ || तण्डुलं कल्पयेदन्न लिंगार्थं समुदाहृतम् | अन्नलिंगं त्रिकालेपि प्रातर्मध्याह्नकेषु च || ८ || पुष्पलिंगं तु पूर्वाह्ने मध्याह्ने वाथ कल्पयेत् | प्रदोषेक्षतलिंगं स्यात् तत्र पाशु * * * * || ९ || चन्द्रशेखरसंयुक्ते तद्विहीने मेव हि | त्रिधा पाशुपतो ज्ञेयो मिश्र शान्तोग्रभेदतः || १० || द्विहस्तश्च चतुर्हस्तः सौम्यस्सौम्येक्षणान्वितः | विद्युन्मालानिभश्चेतो जटामकुटमण्डितः || ११ || प्. ९८२) * * * * क्षमालायुगि रवेरपरपावयुक् | वरदाभयपाणिर्वा सर्वलक्षणसंयुतः || १२ || पाशाक्षमालां हित्वा वै पद्मं घण्टां क्रमेण वै | योजयेत् सौम्यमूर्तिः स्याद्रत्नगर्भं विशेषतः || १३ || रौद्रं पाशुपतं वक्ष्ये शृणुत्वं नन्दिकेश्वर | शूलमूलाभये दक्षे शूलाग्रवरदान्वितः || १४ || रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् | त्रिशूलास्त्रकरं वौषट् त्रिधा रौद्रीं स्मरन्यजेत् || १५ || एतन्मिश्रं तु मिश्रः स्यात्परशुं शूलमावहन् | दक्षे पाशं मृगं वामे त्वन्यथा च निगद्यते || १६ || प्. ९८३) त्रिशूलमभयं सव्ये पाशं च वरदप्रभम् | दधद्द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा || १७ || पुष्पाक्षतान्न लिंगेषु * * * पूजमन्त्रतः | अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः || १८ || सपीठगोलकाकारे पीठे वा कृतमर्चयेत् | अन्नलिंग प्रमाणे तु मूलाग्ने समविस्तरे || १९ || करावधि प्रमाणान्ते सर्वलक्षण लक्षिते | स्थिलीकामानदण्डेन सहितं वा समर्चयेत् || २० || इन्दुशेखरमूर्तिः स्यात् प्रतिमालक्षणेन तु | पादुकात्र्यंगुले तस्मादंगुलादंगुलैर्घनात् || २१ || प्. ९८४) तिथिमात्रावसानं तु तयोर्देव्य * * र्तितः | दैर्घ्यानुसारतः कुर्याद्विस्तारोस्यार्ध उच्छ्रयः || २२ || अष्टांशावनतो मध्यमनेनुपानकम् | तयोस्तु वृषभः पूज्यः स्नानान्तो वा प्रकीर्तितः || २३ || समन्ताल्लोकपाः पूज्याः पूर्वादीशावसानके | नवांगलिंग संयुक्तमथ नित्योत्सवं नयेत् || २४ || सर्वैरेतैस्समायुक्त नित्योत्सवमथाचरेत् | द्वाभ्यां त्रिभिश्चतुर्भिर्वा पूर्वाह्ने च प्रदोषके || २५ || मध्याह्ने केवलं पूज्योऽथवा पाशुपताह्वयः | रंगे वा शिबिकायां वा परिचारकमूर्धसु || २६ || प्. ९८५) आरोप्य सुकृतं देवं वितानेन समन्वितम् | छत्रचामर संयुक्तं नानाध्वजसमायुतम् || २७ || नृत्तगीत समायुक्तं प्रदक्षिणमथाचरेत् | आद्यं प्रदक्षिणं कुर्याद् भृंगिणी तालसंयुतम् || २८ || वृषस्य वृषलम्बं स्याद् भृंगिणीतालवह्नितालकम् | मातॄणां चन्द्रतालं स्या विघ्नेशं धरकी भवेत् || २९ || उत्कटं च ग्रहे प्रोक्तं ज्येष्ठायां पुन्नितालकः | तटप्रभारं दुर्गायां विषमश्चिन्त चण्डिके || ३० || ग्रामे वा नगरे वापि बाह्यप्राकार एव वा | द्वितीयभ्रमणं ह्येतन् महापीठप्रदक्षिणम् || ३१ || प्. ९८६) एकं वापि द्वयं वापि त्रयं वा शम्बरीयुतम् | अथवा बलिपीठे तु ब्रह्मतालसमन्वितम् || ३२ || गजतालेन संयुक्तं द्वयं कुर्यात्प्रदक्षिणम् | पैशाचे ज्वलमेवं स्याच्छावरी तालसंयुतम् || ३३ || गोपुरे वाद्यहीनं स्याच्छंखध्वनि समन्वितम् | दक्षिणे भृंगिनी तालं कौशिकेन समन्वितम् || ३४ || चालोफाणि समायुक्तं शांकरे ढक्करी मता | एवं प्रदक्षिणं कृत्वा तृतीयं धाम संविशेत् || ३५ || प्रक्षालितांघ्रयस्सर्वे प्रविशेयुः शिवालये | अथवा मण्टपादौ तु पीठसंस्थानमत्क्रमात् || ३६ || प्. ९८७) वाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् | एवं लिंगात्समास्तित्य लिंगदक्षे निवेशयेत् || ३७ || शिवस्य पादौ वा पूज्यौ पादुके दक्षवामके | अन्यासामपि देवीनां देवानां मूलबिम्बवत् || ३८ || रूपान्तरं स्वयं सिद्धं नित्योत्सवमथाचरेत् | संपाद्यं तेन नित्यं तु नित्योत्सवमथाचरेत् || ३९ || तदस्त्रमन्नलिंगादौ पूजनीयं स्ववाहनम् | पादुकाद्वितयं पूज्यं नित्योत्सवविधि क्रमात् || ४० || इत्यचिन्त्य विश्वसादाख्ये नित्योत्सवविधिरेकषष्ठिः पटलः || प्. ९८८) विष्णोस्तु स्थापनं वक्ष्ये शृणुत्वं नन्दिकेश्वर ! | मण्टपं मण्डलं कुण्डं पूर्ववद्विधिना भवेत् || १ || स्नानादिकं च सर्वं च संपूज्यं पूर्ववत्तथा | हास्तिकं भद्रपीठं तु कल्पयेल्लक्षणान्वितम् || २ || तारपाशमहामायान्धण्डीशो वा भवस्थया | पुनश्चतां नमस्कारं सर्वे वै प्रणवादिकाः || ३ || चतुर्थी कन्यनन्ता पञ्चात्महृदयं शिरः | शिखाश्च कवचं तत्र अस्त्रमन्त्रैस्तु मध्यगैः || ४ || मन्त्रा भवन्ति पद्माद्याः क्रमात्सस्तैव ते कथा | तारं हृदय संयुक्तं भगवते तथैव च || ५ || प्. ९८९) वासुदेवाय इत्येवं द्वादशार्णो महामनुः | अवान्तरेण रूपेण ध्येयमूर्तिस्समीरिता || ६ || अनेनैव तु मन्त्रेण विष्णुस्साक्षाद् व्यवस्थितः | मण्टपादिषु संस्कारो दिगीशावाहमाचरेत् || ७ || कृत्वा हृदा हृदास्त्रेण गायत्र्या वचनेन च | अथ लक्ष्मी पुनः स्थानं देवस्य च यथाक्रमम् || ८ || परिधाप्य च वासांसि दत्वा पूर्ववदासनम् | निवेश्य मूर्तिरूपं तु शययायां तदनन्तरम् || ९ || द्वादशाक्षरमन्त्रस्य कृत्वा न्यासमनन्तरम् | खड्गादीनां च विन्यासं मन्त्री कुर्याच्च तद्यथा || १० || प्. ९९०) शिरो घ्राणललाटेष्वास्य कर्णहृदयेषु च | दक्षिणौ वामपादौ ध्यादक्षमाजांघ्रिषु क्रमात् || ११ || ज्वालामाकुलयेत्तं मे चक्रादित्य समप्रभा | पीतश्शुक्लारुणःश्वेत विद्युत्पीत सितारुणाः || १२ || प्रणवादि यकारान्त द्वादशार्णात् क्रमान् न्यसेत् | शिखायां खड्गविन्यासं ललाटे जगवमेव च || १३ || चतुर्थ्यन्तं नमोन्तेन स्वनाम्ना प्रणवेन च | लगं च मुसलं चैव बाह्येत्येकोदनन्तरम् || १४ || प्रणवाद्येन चारूढ चक्राथमध्यवर्तिताः | नमस्कारेण मन्त्रेण नाभी जठर पृष्ठयोः || ५ || प्. ९९१) प्रणवेनाथ पूज्यं तु हं हां शंखाय नमस्तथा | गुरुं शंखं च शि * * * * * * * * * * || १६ || * * * * च मेढ्रेषु शंखवह्निं निवेशयेत् | तारपूर्वं श्वं ढं पाषं गदायै च नमोणुना || १७ || मन्त्रविद्यात्मने चैव जंघाजानुषु विन्यसेत् | * * * * * * * * * * पादेषु निक्षिपेत् || १८ || ग्रीवायां माधवं कर्णे गोविन्दं हृदये भवेत् | विष्णुं च पृष्ठवंशे तु तथवं मधुसूदनम् || १९ || त्रिविक्रमं तु जठरे वामनं * दयोर्युगे | श्रीधरं जंघनैञ्चैव हृषीकेशमनन्तरम् || २० || प्. ९९२) पादयोः * * * सर्वान् पूर्वभागे विनिक्षिपेत् | * * * * * क्षामन्त्रैरक्षणादि स्वसंज्ञया || २१ || द्वितीयं हृदयाद्यं तु प्रोच्यते साम्प्रतं यथा | नमोन्तरं हृदयाद्यैश्च ओं ह्रीमित्यादिकास्तथा || २२ || मन्त्रो हृदयसंज्ञः स्यादों नमो विष्णवे नमः | शिरोऽभिधायितोमन्त्र प्रसिद्धैर्नन्दिकेश्वर || २३ || प्रणवाद्यं नमोन्तं च ब्रह्मणेति ध्रुवेण च | शिखां वर्मक्रमादस्त्रमों चक्रीति पठन्तिकम् || २४ || ओं काभ्रद्विनमोन्तौ च शाम्भवं विजयाविमौ | गायत्रीं चापि सावित्रीं प्रणवादि नमोऽन्तकम् || २५ || प्. ९९३) तारादिकं नमोन्तं च क्षीरूपा ये विमध्यगः | सप्तार्णं पिण्डमाख्यं च मन्त्रोऽयं सर्वसिद्धिदः || २६ || मात्रामेतां चतुर्थ्यन्तां चतुर्थ्यन्तान्ग्रहादिकान् | गायत्रीं चापि सावित्रीं नेत्रयोर्वामदक्षयोः || २७ || यथा स्थानं च विन्यस्य पूजयेद्भक्तिसंयुतः | ओं क्षं पिंगलाक्षरूपाय नमः || २८ || चक्रास्त्वादशारं च ज्योतिषा भास्करं परम् | तन्मध्ये च पुनर्देव यं पद्माष्टदलं भवेत् || २९ || कर्णिकायां च हृदयं पूर्ववक्त्रे शिरस्तथा | सव्ये दले शिखां चापि पश्चिमे कवचं न्यसेत् || ३० || प्. ९९४) अस्त्रमुत्तरतो न्यस्य गायत्रीं वह्निपत्रके | ऐशे दले च सावित्रीं राक्षसं नेत्रमन्त्रकम् || ३१ || पिंगलास्त्रं वायुदले चान्तरालारुणं भवेत् | अथ द्वितीयावरणं चक्रे वै द्वारदेशके || ३२ || केशवादि नमस्कार तारयुक्ता स्वनामभिः | दामोदरान्तमन्त्रे च पूर्वादिषु यथा क्रमम् || ३३ || विन्यस्य पश्चात्तद्बाह्ये खड्गं कौमोदकीं तथा | गदां च चक्रं शंखं च पद्मं च हलमेव च || ३४ || मुसलं च तथा शार्ङ्गं विन्यसेन्नन्दिकेश्वर | गन्धैः पुष्पैश्च नैवेद्यैर्वस्त्रालंकरणादिभिः || ३५ || प्. ९९५) अंगैरावरणैस्सर्वैर्वासुदेवं सुपूजयेत् | न्यासे तु पञ्चमूर्त्त्यन्ते मूलमन्त्रो भवेद्यथा || ३६ || नमोन्ते वासुदेवाय ओं ह मित्यादिकस्तथा | ओं हां रीं रं अं तथा | ओं अं ओं युग्मकपूर्वका || ३७ || संकर्षण प्रद्युम्न निरुद्धाख्य संज्ञकाः | नारायण क्रमादेता नमोऽन्ताश्च चतुर्थियुक् || ३८ || मूर्तीशमूर्तयः पश्चात् पञ्च क्षित्यादि पूजयेत् | अंगानां चापि विन्यासो यथा पूर्वं प्रपूजनम् || ३९ || अष्टमूर्त्यादि पक्षे तु पूर्वोक्ताश्च तदीश्वराः | मूलमन्त्र सहस्रं च तदर्धं देशिको जपेत् || ४० || प्. ९९६) पूर्णाहुतिं च जुहुयात् हुत्वा श्रोत्रे निवेदयेत् | यागदोष निवृत्त्यर्थं बलिदानं च दापयेत् || ४१ || हृदि हुत्वा तु तद्वच्च संकुर्यात् पिण्डिकामतः | लक्ष्यो नमोवन्मूर्त्त्या न तु ओं भं फं ध्रुवानिरा || ४२ || मन्त्रेणानेन संचिन्त्य लक्ष्मीर्भूत्वा च पूर्ववत् | पञ्चसंख्यान्त मन्त्रैश्च तन्मध्ये च व्यवस्थितः || ४३ || अक्षिरै हृच्छिरास्त्रस्य वर्मनेत्राभिधायकैः | हुंफडस्त्रावसानेन समुदायेन वा क्वचित् || ४४ || पूर्ववत्तां च संस्मृत्य प्रसादे वेशयेत्ततः | व्यापिनीं प्रकृतिं तस्य लक्ष्मी मन्त्रेण पीठिकाम् || ४५ || प्. ९९७) ओं ओं लक्ष्मीमूर्तये नमः | ओं यं टं रं भं फं लक्ष्म्यै नमः | पूर्वविन्यस्तरत्नां च तत्र च द्वादशाक्षरम् || ४६ || पुरुषान्तं समुच्चार्य पीतवस्त्रं चतुर्भुजम् | शंखं चक्रं गदां खड्गं भस्मं च वनमालिनम् || ४७ || सर्वेपयेच्च चक्रं च चक्र पद्मासनं भवेत् | नमोऽन्तव्यापनान्तं तु मूर्त्त्या युग्मशनीस्तथा || ४८ || तन्मात्रेष्वात्म तत्वं तु विद्यातत्व प्रधानकम् | पुरुषान्तं भवेदीशं विभाव्यैव मतः परम् || ४९ || परावरं समावाह्य देवं त्र्यावरणान्वितम् | भक्त्या संपूज्य विधिवत्तेषां पूर्ववदाचरेत् || ५० || प्. ९९८) स्वाम्यन्तं माधवान्तं वा कर्तृनाम्ना तु संयुतम् | धारयेन्नाम देवस्य विष्णोः स्थापनमुत्तमम् || ५१ || इत्यचिन्त्य विश्वसादाख्ये विष्णुस्थापनविधिश्चतुष्षष्टितमः पटलः || अथ वक्ष्ये विशेषेण विद्यापीठ प्रतिष्ठिकाम् | विद्या च द्विविधा प्रोक्ता संस्कृत्यन्यात्मिका भवेत् || १ || प्रासादे वा मठे वापि शुद्धदेशे गृहेऽपि वा | भक्तोक्तस्थानके वापि सर्वतीर्थान्तरालके || २ || * * * * न कर्तव्यं विधिना नन्दिकेश्वर | पूर्वोक्त पुस्तकं वापि अथवा लक्षणं शृणु || ३ || प्. ९९९) अंगुलत्रयमारभ्य व्योमांगुलविवृद्धितः | पञ्चविंशति मात्रान्तं भवेत् पुस्तकदैर्घ्यकम् || ४ || व्योमांशात्पादवृद्ध्या वा अर्धमात्रावसानिकम् | प्रमाणं च विशालं स्यात् पक्षवह्नियुतं तु वा || ५ || भूर्जेत्यक्तारवे वापि तालीदल समुच्चये | तालं वा भूर्जपत्रं वा पदादौ स्वर्णपत्रके || ६ || कामे शैलेन दार्वादौ * * * * क्षरैः शुभैः | मष्या वा धातुना वापि लिखेत् तूलिकयापि वा || ७ || नाराचेनापि वा कुर्याद्देशिकः शिष्य एव वा | शुभवारे सुनक्षत्रे सुलग्ने च प्रसन्नधीः || ८ || प्. १०००) विप्राद्यदीक्षितैर्जातु शिवज्ञानं न लेखयेत् | अदीक्षितसकाशे च नाध्येतव्यं विशेषतः || ९ || नानादेश समुद्भूतैरक्षरैः कृतिसंस्कृतैः | लेखयेद्विशदैर्वर्णैर्जप लुक्तायतं शुभम् || १० || प * * * * भिस्सर्वैरसंकीर्णं परस्परम् | शिवं सुगन्धैरभ्यर्च्य मातृकां शिवरूपिणीम् || ११ || वस्त्राद्यैर्देशिकश्चैषु पत्रिकामपि पूजयेत् | गोमयालिप्त भूभागे पुष्पव्रज सुशोभिते || १२ || गन्धधूपादि संयुक्ते ज्वलद्दीप समन्वितम् | शुद्धशैव समायुक्तो लिखेद्वा पाठधारणम् || १३ || प्. १००१) दीर्घकालेन जीर्णत्वाच्छिवज्ञानस्य पुस्तकम् | न्यूनातिरिक्त वा * * * * * * प्रमादिभिः || १४ || प्रमादाधीत पाठस्य नाशितस्याल्प बुद्धिभिः | अल्पज्ञान समोपेतैराचार्याशोधितैरपि || १५ || व्यर्थार्थैरप्युपेतस्य पुनरुक्तिरकारणात् | * * * रविरुद्धस्य स्वसिद्धान्त विरोधिनम् || १६ || छन्दसातीव नष्टस्य श्रुतार्थ रहितस्य च | इत्येवमादिभिर्दोषैः उपेतस्य क्वचित्क्वचित् || १७ || यः करोति पुनस्सम्यक् संस्कारं देशिकस्सुधीः | शिवत * * * * द्यः स विद्या परमेश्वरः || १८ || प्. १००२) न बोधयेत भक्तांस्तु शिवभक्तांस्तु बोधयेत् | शिवविद्यानुसारेण विद्यादानं तदुच्यते || १९ || संस्कृतैः प्राकृतैर्वाक्यैर्देशभाषा प्रकाशजैः | संस्कृत प्रभवैश्शब्दैः विशुद्धैस्संस्कृतैरपि || २० || देशभाष्याद्युपायैश्च तथा भूतागमैरपि | प्रदेशवर्तिभिर्वाक्यैर्बोधयेद्देशिकोत्तमः || २१ || यथा शिवस्य नैवान्तस्संपूर्णस्य महा * * | * * * गुणमैश्वर्यं विद्यादानस्य तत्फलम् || २२ || कीर्तिं श्रियं च महतीं सौख्यं मोक्षं समाप्नुयात् | घोरं च नरकं याति शिवज्ञानस्य नाशकः || २३ || प्. १००३) शिववत्पूजयेत् पश्चाच्छिवज्ञानप्रकाशकम् | प्रत्यहं लेखयेद्विद्यान् यथाशक्ति सुबुद्धिमान् || २४ || यावत्यक्षरसंख्या स्याच्छिवज्ञानस्य पुस्तके | तावद्युगसहस्राणि शिवलोके महीयते || २५ || दश पूर्वान्समुद्धृत्य दश वंश्यांस्तु पश्चिमान् | मातृकस्वधर्म * * स्वार्थं स्वर्गं समेत्य च || २६ || स्वर्गे संस्थापितान् सर्वान्स्वयं शिवपदे वसेत् | अपि श्लोकं तदर्धं वा शिवज्ञानस्य वाक्यकम् || २७ || वाचयेच्चिन्तयेद्वापि लिखेद्वालेखयेत्तु वा | शृणुयादेक चित्तस्तु तदर्थमपि धारयेत् || २८ || प्. १००४) अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्यफलं महत् | शिवज्ञानाभियुक्तस्य भोजनाच्छादनं महत् || २९ || आसमाप्तेस्तु संरक्षां विद्यादानं फलं भवेत् | वश्येन्नकार * * येऽथ तदेव फलमश्नुते || ३० || यस्य राज्ये शिवज्ञान व्याख्यानं वर्तते सदा | स राजा वर्तते राष्ट्रं स नृपोऽप्यजितो भवेत् || ३१ || राष्ट्रराजगुरुनेतान् सेनापत्येऽन्य कर्मणि | पुरोहितत्वे सर्वेषां राजकार्येत्यदर्शने || ३२ || दीक्षितास्तेऽपि सर्वेवै योगान्यन्येऽपि केचन | तस्मात् सिद्धान्तशैवेन शुद्धशैव विदारणात् || ३३ || प्. १००५) शान्तिकं पौष्टिकं कर्म नेयं राजा विशेषतः | एवं विद्या प्रभावत्वात् पावनं च शृणुष्व वै || ३४ || त्रयस्तन्तु समन्तं स्यात् त्रयस्त्रिंशत्कराणुना | विद्याशाला विशालास्यात्प्रासादे वाथ मण्डपे || ३५ || एकशालादिभेदेन शालोपलक्षणान्विता | विद्यापीठस्य विस्तारः सप्तांगुलि विशालतः || ३६ || सर्वलक्षण संयुक्तं मानोन्मानयुतं परम् | चतुरश्चस्तमो पास्याद् आयामाग्रं तु वा भवेत् || ३७ || विध्युक्तासनके चान्ये शिवज्ञानं यजेद्गुरुः | प्रोक्षयेत् पञ्चगव्येन शिवज्ञानाख्यविद्यताम् || ३८ || प्. १००६) मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तान्निवेशयेत् | आसनाद्यं विधेयं च मूर्तिमूर्तीश संयुताः || ३९ || शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि | मध्ये तु शिवकुंभं तु पार्श्वयोर्मकरद्वयम् || ४० || विद्येशांस्तत्र संपूज्य पूर्ववद्धोममाचरेत् | मन्त्रन्यासं गुरुः कृत्वा मध्ये तु परमं शिव || ४१ || पट्टिकायां न्यसेत्तत्र देवीं परमसुन्दरीम् | इत्यचिन्त्यविश्वसादाख्ये विद्याप्रतिष्ठाविधिः पञ्च षष्टिः पटलः || प्. १००७) अथ वक्ष्ये विशेषेण भक्तानां स्थापनं शिवे | विप्रक्षत्रिय विट्च्छूद्रास्त्वन्तरालास्त्रियोऽपि वा || १ || शिवभक्ति समापेता जीवन्तो वा मृताश्च वा | कृत्वा तेषां प्रतिकृतिं प्रतिष्ठाप्य समाचरेत् || २ || शैव पाशुपताश्चैव महाव्रतधराश्च ये | कौमाररौरवाद्यैश्च येन मार्गेण दीक्षिताः || ३ || तेषां तेनैव मार्गेण स्थापनाद्यं विधीयते | सर्वेषामपि शैवानां स्थापनं द्विविधं मतम् || ४ || स्वप्रधानं परांगं च रत्नगर्भं विशेषतः | अग्रहारे पुरादौ वा नदीतीरे वनेऽपि वा || ५ || प्. १००८) उद्याने पुष्करिण्यादौ सर्वतो वा मनोरमे | स्थानेऽन्यत्र च कर्तव्यं स्वप्रधानस्य मन्दिरम् || ६ || देवालये येतारवादौ तत्र कल्पित मन्दिरे | परिवार समोपेतं स्वप्रधानं च कारयेत् || ७ || देवालयादौ सर्वत्र मालिकामण्टपादिषु | परिवारविहीनं तु कल्पितं त्वंगमिष्यते || ८ || त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् | एकविंशति हस्तान्तं विमानव्यास इष्यते || ९ || आयामोत्सेधगर्भाद्यं मण्टपाद्यं तथा परम् | प्राकारं गोपुरांगण्य मालादीनां निरीक्षणम् || १० || प्. १००९) प्रथमेष्टाविधानं च गर्भसंस्थापनं तथा | मूर्धेष्टकाविधानं च पूर्ववत्समुदीरितम् || ११ || तदात्वं शिवलिंगं वा प्रतिमावा शिवस्य तु | विघ्नेशगुहनन्द्यादि प्रतिमाकृतिमेव वा || १२ || हेमराजत ताम्रादि हैमैर्लोहैश्च दारुभिः | मृद्भिर्वा कारयेद्धीमान् सर्वमा * * * * * || १३ || भित्तौ चित्रे पटे वापि कल्पयेन्नन्दिकेश्वर | लिंगं वा चोक्तमार्गेण प्रतिमां वापि कारयेत् || १४ || मानांगुलोक्तमार्गेण हर्म्यादीन्कारयेद्गुरुः | सर्वलक्षणसंयुक्तं सर्वमानोपशोभितम् || १५ || प्. १०१०) द्वारगोपुरसंयुक्तं प्रासादींश्च प्रकल्पयेत् | तस्मिन्प्रति कृतिं कुर्याद्गतरुद्रानुकूलतः || १६ || लिंगं च तद्विधातव्यं विधिना रत्नगर्भके | अष्टतालेन मानेन प्रतिकृत्यां विधीयते || १७ || बद्धपद्मासनारूढं वाहनादौ स्थितं तु वा | आसनं मानविस्तारं सर्वलक्षण संयुतम् || १८ || मुण्डी जटी बद्धकेशः शिखी वा मकुटान्वितः | क्षत्रियश्चेद्विधातव्यं सर्वभूषणभूषितम् || १९ || यथेष्टायुधसंयुक्तं नमस्कारेण वा युतम् | स्त्रियः श्वेतदुकूलैश्च भूषणैर्भूषयेत्पुनः || २० || प्. १०११) लक्षणं चैवमाख्यातं प्रतिष्ठाद्यं निगद्यते | प्रतिमोक्त प्रकारेण मधूच्छिष्टादिकं चरेत् || २१ || अयुगन्य * * * र्वे रत्नन्यासादिकं तथा | नेत्रस्योन्मीलनं चापि विधिना विधिना कारयेद्गुरुः || २२ || मण्डपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर | स्थण्डिलोपरि पीठं च प्रणवं कल्पयेद्गुरुः || २३ || तस्मिन्घटं प्रतिष्ठाप्य प्रतिमान्यासमाचरेत् | सुवर्ण वसुभाराभ्यां कृष्णमण्डलमालिखेत् || २४ || तेजामण्डलमालिख्य नेत्रं यूकप्रमाणकम् | नेत्रमन्त्रं समुच्चार्य क्रियामेनां समाचरेत् || २५ || प्. १०१२) हेमदूर्वादलैर्नेत्रैः * * * * भिषेचयेत् | घृतेन मधुना वापि द्वयं संपूर्य दर्शयेत् || २६ || वस्त्रैर्वा चर्मजैरेव शयनं पञ्चकं हि वै | अनन्ताधारधर्माद्यामथोद्यासनकल्पनम् || २७ || तारेण मानुषं पीठं कल्पयेन्नन्दिकेश्वर | जलाधिवासितं बिम्बं स्नानवेद्यां न्यसेत्पुनः || २८ || विष्ठरे वरसंस्नानं विधिना कारयेद्गुरुः | वस्त्रैराभरणैर्माल्यैः भूषयेत्प्रतिमां पुनः || २९ || कौतुकं बन्धयित्वा तु शयनोपरि विन्यसेत् | पूर्वशीर्षं न्यसेद्बिम्बं तस्योत्तरे कुम्भं च कारयेत् || ३० || प्. १०१३) अजपामन्त्र संयुक्तं जीवन्यासं च कारयेत् | व्योमाक्षरैश्च संयुक्तैः पञ्चब्रह्मषडंगकैः || ३१ || अंगनानां प्रतिष्ठायां शक्तिबीजं च कारयेत् | तत्तद्बीजेन कर्तव्यं पञ्चब्रह्मषडंगकम् || ३२ || जयादिसहिते तत्र प्रत्येकं वर्ण विन्यसेत् | स्त्रीप्रतिष्ठा स्वमन्त्राश्चेद्वर्धन्यां तु प्रकीर्तितम् || ३३ || पृथ्व्यादिपञ्चकं चैव मनोऽहंकारबुद्धयः | परिवारघटे पूजा स्वष्टौ वा वसवो मताः || ३४ || स्त्रीणां दिशस्तु पूर्वास्तैर्दैत्यानां परिकीर्तिताः | पूर्वाद्यष्टघटे वापि पुरुषे लोकपालकान् || ३५ || प्. १०१४) गन्धपुष्पादिभिः पूज्य तत्वतत्वेश्वरान् न्यसेत् | आत्मविद्याशिवाख्यं तु तत्वत्रयमुदीरितम् || ३६ || आत्मानमन्तरात्मानं परमात्मानमेव च | क्रमेणाधिपतित्वेन पूजयेन्नन्दिकेश्वर || ३७ || स्त्रीणामप्येवमेव स्यादाहुतिक्ष्मादयो मताः | निवृत्त्याद्या मूर्तिपाःस्युरष्टमूर्तौ विशेषतः || ३८ || दिक्पालमूर्तिपास्तत्र तद्वदंगानि विन्यसेत् | अकारादिक्षकारान्तं मातृकान्यासमाचरेत् || ३९ || आत्ममन्त्रेण विन्यासं जीवन्यासमुदीरितम् | तेनैवांगन्तु विन्यस्य गन्धपुष्पादिनार्चयेत् || ४० || प्. १०१५) वस्त्रेण वर्मणाच्छाद्य होमकर्म समाचरेत् | कुण्डसंस्कारकं * * * * णां जीवतर्पणम् || ४१ || पूर्वोक्तविधिना कृत्वा समिदाज्यादिशेषकम् | ब्रह्मो दुबरकाश्वत्थवटाः पूर्वादिषु क्रमात् || ४२ || अग्न्यादिषु शमी चैव खरमायूरचिल्लकाः | प्रधानं ब्रह्म वृक्षं स्याच्छतं वार्धं तदर्धकम् || ४३ || पूर्णान्तं होमकं कृत्वा तत्वतत्वेश्वरान्न्यसेत् | आहुतित्रितयं कुर्यात् प्रत्येकं नन्दिकेश्वर || ४४ || अघोरेण शतं हुत्वा प्रायश्चित्ताय देशिकः | शान्तितोयेन मूर्धादि पादान्तं प्रोक्षयेत्तदा || ४५ || प्. १०१६) अन्तर्बहिर्बलिं दत्वा पादप्रक्षालनं कुरु | देशिको मूर्तिपैःस्नात्वा प्रभाते नित्यसंयुतः || ४६ || सर्वाभरण संयुक्तः सोष्णीषस्सोत्तरीयकः | अध्येतृभिश्च दैवज्ञैः शिल्पिभिस्सहितैर्युतः || ४७ || द्वाराधिपांश्च संपूज्य कृतकुम्भार्चनो गुरुः | पूर्णान्तमग्निहोमं च कृत्वोत्थाप्याथ बिम्बकम् || ४८ || शयनं तत्र तद्बिम्बं प्रासादादानयेत् क्रमात् | रत्नन्यासादिसंयुक्तं स्नानश्वभ्रे निवेशयेत् || ४९ || तारमासनकं कृत्वा मूर्तिमन्त्रानुकल्पितम् | मातृकान्यासकं कृत्वा जीवन्यासं समाचरेत् || ५० || प्. १०१७) स्थापितैः कुम्भतोयैश्च स्नापयेद्गन्धपुष्पकैः | वस्त्राद्याभरणैश्चैव मलंकृत्वाथ देशिकः || ५१ || निवेद्यं च ततो दद्यात् उपचारपुरस्सरम् | शिवभक्तांश्च संपूज्य यथा विभवविस्तरम् || ५२ || ततः प्रभृति संपूज्य शिववन्नित्यमेव वा | सन्मार्गमात्मको नित्यमात्म मन्त्रषडंगकैः || ५३ || * * * * जटं कृत्वा दीपान्तं वा हविष्यकम् | बल्यन्तं वा समभ्यर्च्य भक्त्या सन्मार्गनायकः || ५४ || तरोजपास्वनाम्ना तु नमस्कारान्तमन्त्रकम् | मूलमन्त्रमितिख्यातं स्वाहान्तं चाग्निकार्यके || ५५ || प्. १०१८) भक्तजन्मदिने वापि कर्तृजन्मदिनेऽपि वा | प्रतिमासोत्सवं कुर्याद्विभवस्यानुसारतः || ५६ || ध्वजारोहणपूर्वं तु कर्तव्यं कर्तुमिच्छता | ध्वजेऽपि वृषभं कुर्याच्छिववच्चोत्सवं भवेत् || ५७ || नित्योत्सवसमायुक्तं पूर्णं कृत्वा तु देशिकः | पूर्वोत्सवं च कर्तव्यं वशिनां नन्दिकेश्वर || ५८ || शिवभक्त प्रतिष्ठां च यः कुर्यान्नरपुंगवः | तस्य श्रीर्विजयो तार्च्चिरत्ने सायुज्यमाप्नुयात् || ५९ || इत्यचिन्त्य विश्वसादाख्ये (भक्तप्रतिष्ठाविधिः) षष्षष्टितमः पटलः || प्. १०१९) द्वारप्रतिष्ठां वक्ष्यामि शृणुनन्दीश तत्क्रमात् | द्वारांगानि जयाद्यैश्च संस्कृत्यायतनं न्यसेत् || १ || मूलमध्याग्रभागेषु चात्मविद्याशिवान्तकम् | तत्वत्रयं क्रमान्न्यस्य सन्निरोध्याथ होमयेत् || २ || अनुरूपं जयं कुर्याद् विधिना नन्दिकेश्वर | वास्तुद्वारादयो यष्ट्वा तत्रैवानन्तमन्त्रतः || ३ || पञ्चरत्नादिकं न्यस्त्वा शान्तायामं समाचरेत् || कान्तिसिद्धार्थरुद्धिश्च यववृद्धिसहानुना || ४ || गोमन्दरदरोगेन्द्र मोहिनीलक्षणान्वितः | ते च नारग्वधो दूर्वा सान्दघ्नश्च यो दलः || ५ || प्. १०२०) कृत्वोर्ध्वोदुम्बरे बद्ध्वा र * र्थं प्रणवेन तु | द्वारमुत्तरतः किञ्चिद् आश्रितं सन्निवेशयेत् || ६ || आत्मतत्व मधोन्यस्य विद्यातत्वं तु शाखयोः | शिवमाकाशदेशे तु व्यापकं सर्वपृद्गलम् || ७ || ततो महेशानादींश्च विन्यसेन्मूलमन्त्रतः | द्वाराश्रितांश्च नन्द्यादीन् हृत्संयुक्तैः स्वनामभिः || ८ || जुहुयाच्छतमाद्यं वा द्विगुणं शक्तितोऽथवा | अस्त्रेण दोषमोक्षार्थं जुहुयादाहुतेश्शतम् || ९ || पूर्ववद्दिग्बलिं कृत्वा प्रदद्याद्दक्षिणादिकम् | इत्यचिन्त्यविश्वसादाख्ये द्वारप्रतिष्ठाविधिः सप्तषष्टितमः पटलः || प्. १०२२) स्फुरत्तारक संकाशं द्वादशान्तासमं भवेत् | निक्षिपेत् कुंभगर्भे च न्यस्य तन्त्रान्निवासिकम् || ६ || विग्रहं तद्गुणानां च बोधकं च कलादिकम् | क्ष्म्यान्तं च शेखरं तत्वं प्रान्तं तत्र निवेशयेत् || ७ || दशनाडीर्दश प्राणान् इन्द्रियाणि त्रयोर्दश | तत्रन्तदधिपाश्चापि प्रणवाद्यैः स्वनामभिः || ८ || स्वकार्यकारणत्वेन मायाकालनियामिकान् | विद्येशान् प्रेरकाच्छम्भुं प्रेरकश्च स्वयं वरैः || ९ || अंगानि च विनिक्षिप्य निरुध्यद्रोधमुद्रया | स्वर्णाद्याद्भवपुरुषं * * * पुरुषान्तरम् || १० || प्. १०२१) चैतन्यस्य च सम्बन्धः प्रासादे वक्ष्यतेऽधुना | शुलनासा समाप्तौ तु पूर्ववेद्याश्च मध्यतः || १ || आनन्दं शक्तिपद्मे च विन्यसेत्प्रणवेन तु | पूर्णाद्येकतमं पूतं पञ्चगव्येन संयुतम् || २ || मधुक्षीरयुतं कुम्भं न्यस्तरत्नादिपञ्चकम् | गन्धलिप्तं सवस्त्रं च गन्धपुष्पप्रधूपितम् || ३ || आम्रपल्लववक्त्राढ्यं हृदाहृत्पद्मकं न्यसेत् | पूरकेण समादाय सकलीकृतविग्रहः || ४ || सर्वात्माभिन्नमात्मानं स्थाणुन स्वात्ममारुतः | बोधायनात्मवांच्छम्भोरेक केतुं ततो गुरुः || ५ || प्. १०२३) पञ्चगव्य कषायाद्यैः पूर्ववत्संस्कृतं ततः | समारोप्य च शययायां ध्यात्वा रुद्रमुपान्तिमे || ११ || शिवमन्त्रेण तस्मिंश्च व्यापकत्वेन विन्यसेत् | होमं तु सन्निधानाय प्रोक्षणं स्पर्शनं जपम् || १२ || सन्निरोध्यारोधनं सर्वं भागत्रयविभागशः | प्रकृत्यन्तं विधायैव कुम्भे तान्विनिवेशयेत् || १३ || चूलिके ध्वजदण्डे च ध्वजेदेवकृतन्तथा | प्रतिष्ठा च ततोद्दिष्टा तथेदानीमिहोच्यते || १४ || ब्रह्मांगार्ध प्रवेशाद्वा यामं सर्वार्धवेशनात् | पैष्टिके दारुजं शूलं शैलजे धाम्नि शैलजम् || १५ || प्. १०२४) कर्तव्यो लिंगमानेन कुम्भे वा प्रोक्तमानतः | स च त्रिशूलयुक्तस्तु ग्रहशूलानि होमतः || १६ || ईशः शूलस्समाख्यातो यस्तु शूलस्य वेष्टकम् | शुक्रैर्ग्रहैरसैर्वापि हस्तैर्दण्डस्तु संमतः || १७ || बीजपूरकयुक्तेन क्रमादुक्तेन मार्गतः | चित्रोज्वलं च संघातो यद्द्विजंघार्धतो भवेत् || १८ || यदि वा दण्डमानस्तु भवेद्द्वारं यदृच्छया | पीठस्य वेष्टकं शुक्रैः * * * * * * * * || १९ || उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्तु सः | रालजो वंशजो यद्वा यद्वासुन्दरिवल्लभः || २० || प्. १०२५) कार्यश्शुभस्ततो वापि स भवेत्सर्व कामदः | अयमारोप्यमाणस्तु रूणमायाति वा यदि || २१ || जयमानविरोधं वा यद्द्वारज्ञो भवेद्भयम् | पूर्ववच्छान्तिहोमं च बहुरूपेण वा भवेत् || २२ || पूजां च द्वारपालादि मन्त्राणां तर्पणं तथा | विधाय रूपकं दण्डं स्थापयेदस्त्रमन्त्रतः || २३ || ध्वजं संप्रोक्ष्य तेनैवं * * * च विशेषतः | प्रासादस्थापनं कुर्यान् मृत्कषायादि वारिभिः || २४ || संलिप्याच्छाद्य शययायां विन्यसेत् पूर्ववद्गुरुः | लिंगवच्चूलिंका न्यासे विज्ञानार्चाक्रियां तथा || २५ || प्. १०२६) विशेषादाचतुर्थी च न च दण्डस्य कल्पना | दण्डं तथात्म तत्वं च विद्यातत्वमतः परम् || २६ || लंचापि पूजयेन्मन्त्री सान्निध्ये संहिताणुभिः | ध्वजे यत्प्रतिभागन्तु पीठं तैस्तैस्तु मन्त्रकैः || २७ || संस्कारणं यच्चकूचि द्रव्यन्यथा कृतम् | अस्त्रयागविधानेन तत्सर्वमुपदर्शितम् || २८ || प्रासादे कारितास्नादि * * * * * भूषिते | जंघायोदितदूर्ध्वे तु त्रितत्व * * * * * || २९ || सर्वतत्वमयं ध्यात्वा शिवं च व्यापकं न्यसेत् | अनन्तं कालरुद्रं च ध्यायेत्तच्चरणाम्बुजैः || ३० || प्. १०२७) कूश्माण्ड जटकोपेत पातालतरकैस्सह | भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम् || ३१ || ब्रह्मात्मकमिति ध्यात्वा जंघायां च विभावयेत् | जल तेजोऽनिलव्योम पञ्चाष्कसमन्वितम् || ३२ || सर्वावरणसंज्ञं च बुद्धयोन्यष्टकान्वितम् | योन्यष्टक समायुक्तं न्यासावधि गुणत्रयम् || ३३ || कुम्भस्थं पुरुषं सिह्मे रागञ्चापि क्रमान्न्यसेत् | मञ्जिरीवेदिकायां विद्याधिक चतुष्टयम् || ३४ || कुण्डे मायां सरुद्रां च विद्यां वामलसारके | तत्कलशेश्वरं बिम्बं विद्येश्वरमनन्तरम् || ३५ || प्. १०२८) जटाजूटे लसच्चन्द्र शकलं शूलधारिणम् | इच्छाज्ञानक्रियां चापि दण्डे नाद्यं च विन्यसेत् || ३६ || ध्वजे तु कुण्डली शक्तिमेवन्धाम विभावयेत् | जघन्यां धामसन्धाय लिंगपिण्डिकया यथा || ३७ || पूर्ववत्सर्वमन्त्रोऽपि विधिनापूर्य कल्प्य च | ब्रह्मघोषैस्तूर्य घोषैः वेदमंगलगीतिभिः || ३८ || गुरुमूर्तिधरैस्सर्वं सिवशूलं ध्वजं तथा | स्वमन्त्रैश्च समुत्थाप्य विन्यसेच्छक्तिपकजे || ३९ || आधारे रत्नका कुत्स्था ध्वजं तत्र निवेशयेत् | यजमानो ध्वजे लग्ने सुहृद्भिर्बन्धुभिस्सह || ४० || प्. १०२९) ग्रामप्रदक्षिणं कृत्वा अभीष्टफलमश्नुते | ध्यायन्गुरुः पशुपतिं स्थिरमस्त्राधिपैर्युतम् || ४१ || अधिपाश्शस्त्रयुक्ताश्च रक्षणाय निरोधयेत् | न्यूनाति दोषशान्त्यर्थं हुत्वा दत्वा च तत्फलम् || ४२ || गुरवे दक्षिणां दद्याद् यागदोष निवृत्तये | प्रतिमालिंगवेदीनां यावन्तः परमाणवः || ४३ || तावद्युगसहस्राणि कर्तुर्भोगभुजः फलम् | तत्कोटि गुणितं पुण्यं प्रासादे ध्वजरोपणात् || ४४ || इत्यचिन्त्य विश्वसादाख्ये ध्वजारोहणविधि पटलः | प्. १०३०) अघेशश्चान्यतो मन्त्री सत्यं नैवाप्नुयाद्ध्रुवम् | आषाढादि चतुर्दश्यां अथ श्रावणभाद्रयोः || १ || सितासितासु कर्तव्यं चतुर्दश्यष्टमीषु च | त्रिषु मासेषु चैतेषु मुख्यमध्याधम क्रमात् || २ || पवित्रमेकं कर्तव्यं अन्यथा दोषकारकम् | क्षीराम्बुधौ हरिस्साक्षा सुप्तये त्रिमासिके || ३ || आषाढादिकमासे वै पवित्रं कारयेत् क्रमात् | त्रिविधं तद्विजानीयान् नैमित्तिकमिदं परम् || ४ || दिवसं प्रति कर्तव्यं हेतुत्वात्तु विशेषतः | नैमित्तिकमिदं नाम पवित्रकमिति स्फुटम् || ५ || प्. १०३१) नित्ये तु नित्य पूजायां पत्रपुष्प कुशादिभिः | पवित्रमन्यकालेऽपि कल्पयेदन्वहं प्रति || ६ || वह्नौ ब्रह्मणि गौर्यां वै विघ्ननाग गुहेषु च | अर्के च शूलिनीता च चण्डिकायां यमं तथा || ७ || इन्द्रे च विष्णौ कामौ च महादेवे पितृष्वपि | समारभ्य प्रतिपदि यावत्पञ्चशतं क्रमात् || ८ || हैमजं राजतं ताम्रं कृतादिषु यथा क्रमम् | कलौ युगे च कार्पास तन्तुना च पवित्रकम् || ९ || त्रिगुणी स्त्रिगुणी कुर्याद् द्विजकन्यादिकृत् कृतम् | सूत्रं शुभं च घौतं च शोषितं तन्तु कल्पयेत् || १० || प्. १०३२) क्षौमपद्मजवल्कोत्थ पट्टदर्भशणोद्भवम् | सूत्रं मौञ्ज्यादि संभूतं योग्यं तत्र पवित्रके || ११ || अर्केन्दु वह्न्यजे नागे स्कन्दसादाख्य विश्वतौ | तद्बहिस्तन्तुभिश्चैव कारयेत्तु पवित्रकम् || १२ || अष्टोत्तरशतेनैकं सूत्राणां स्यात् पवित्रकम् | इत्थं त्रीणि तदर्धेन विंशत्या वाथ सप्तधा || १३ || सूत्रैरेकाशीत्या वा त्रिंशता वाष्टयुक्तया | तुल्यग्रन्थ्यन्तरैश्चैव कर्तव्यं शतपञ्चकैः || १४ || द्वादशांगुलमानानि व्यासादष्टांगुलानि वै | अथवालिंगविस्तारमानानि चतुरंगुलैः || १५ || प्. १०३३) तमर्च्य पिण्डिका स्पर्शं चतुर्थं सर्वतात्विकम् | गंगावतारकं चापि कुर्यात्किंकिणि कान्वितम् || १६ || सूत्रशुद्धिरजातेन गुह्यकेन सुरञ्जितम् | अघोरेण तु शुद्धिर्वै वक्त्रमन्त्रेण पूजयेत् || १७ || हरिचन्दनकर्पूर कस्तूरी कुंकुमैस्तथा | निशागैरिकराजैश्च रञ्जयेत्तु पवित्रकम् || १८ || दशग्रन्थिं न्यसेच्चैवमथवा सूत्रसंख्यया | यथा शोभमन्तरालमेक द्विचतुरंगुलम् || १९ || पौरुषप्रकृतिर्वीरा चतुर्थीत्वं च राजता | जायान्या विजया षष्ठी अजिता च सदाशिवा || २० || प्. १०३४) मनोन्मनी ततः प्रोक्ता दशमी सर्वतोमुखी | अधिकावा यथा शोभं कर्तव्या ग्रन्थयः शुभाः || २१ || बाणलिंगे च लोहे स्थण्डिले च भुवि | रत्नजे च यथा योगं पवित्रं कारयेद्गुरुः || २२ || रविचण्डेश वह्नीनां तन्तुश्च शिववद्भवेत् | एतेषां देवतानां च पवित्रं कारयेद्गुरुः || २३ || पुस्तके निजमूर्तौ च गुरावीशे गणेश्वरे | एकैकद्वारदिक्पाल कलशादिषु विन्यसेत् || २४ || पवित्रं नवहस्तान्तमेक हस्तादिषु क्रमात् | दशभिर्दशभिग्रन्थिरष्टाविंशतितो भवेत् || २५ || प्. १०३५) अन्तराल द्व्यंगुलादि क्रमादेकांगुलोत्तराः | ग्र * * * नमप्येषां ग्रन्थिविस्तारसंयुतम् || २६ || सप्तम्यां तु त्रयोदश्यां कृतनित्यविधिः शुचिः | रक्तैः क्षौमैश्च पुष्पैश्च भूषयेन्मखमन्दिरम् || २७ || सन्ध्यां नैमित्तिकं कुर्यात्तर्पणं च विशेषतः | र * * मर्चयेत् तत्र सूत्रिते भूप्रदेशके || २८ || प्रणवार्घ्यकरः स्वामी सकलीकृतविग्रहः | प्रोक्ष्य द्वाराणि चास्त्रेण क्रमात्पूर्वादितोऽर्चयेत् || २९ || ओं शान्तिकलाद्वाराय नमः | ओं हां निवृत्तिकलाद्वाराय नमः | ओं हां प्रतिष्ठाकला द्वाराय नमः || ३० || प्. १०३६) पूर्वादुत्तर पर्यन्तं क्रमाद्दिक्षु कलायजेत् | तथैव द्वारशाखासु द्वे द्वेषु च यथा क्रमम् || ३१ || नन्दिनं च महाकालं भृंगिणं च विनायकम् | * * * * * ऋषभं स्कन्दं देशैस्सह * * || ३२ || रक्षासूत्रं च कौपीनं भिक्षापात्रं च दण्डकम् | कंकतं कुंकुमं तैलं अञ्जनं दर्पणं तथा || ३३ || ताम्बूलं रोचनां चापि चोत्तरे सन्निवेशयेत् | आसनं पादुके पात्रं नागपट्टातपत्रकम् || ३४ || ईशमन्त्रेण चैशान्यां दद्यादीशान तुष्टये | साज्यं चरुं च पूर्वंस्या सान्तं गन्धादिकं नरे || ३५ || प्. १०३७) असं पन्नेषु सर्वेषु मनसा तत्प्रकल्पयेत् | समादाय पवित्राणि प्रोक्षितान्यर्घ्य वारिणा || ३६ || * * * संहितामन्त्र पूतानि ज्वलनात् पुनः | कृष्णा जिनादिनाच्छाद्य स्मरन् संवत्सरात्मकम् || ३७ || कर्मणां साक्षिणं चैव गोप्तारं शिवमव्ययम् | स्वेति हेति प्रयोगेण मंत्रसंहितया पुनः || ३८ || पवित्राण्य हि सं * * * *णामेक विंशतिः | यागधर्मवृषस्थान प्रासादानल संश्रयम् || ३९ || करणौघं च सूत्रेण वर्मणा परिवेष्टयेत् | पूजितायाथ सूर्याय दत्वा गन्धपवित्रकम् || ४० || प्. १०३८) समाचम्य कृतन्यास प्रणी * * * तार्घकम् | दद्याद्गन्ध पवित्रं तु नन्द्यादि द्वारपालके || ४१ || प्रविश्य कस्तुनाद्याय ब्रह्मणेऽपि ददेत्ततः | शास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः || ४२ || शिवकुम्भादि वर्धन्यां दद्याल्लम्बोदराय च | अभ्यर्च्य विधिवद् * * * * शिकांघ्रिपदाम्बुजम् || ४३ || पूजयेद्गन्ध पुष्पैश्च दत्वा तां च पवित्रके | पञ्चाशदौषधीलिप्तं नरोमानविवर्जितम् || ४४ || पुष्पदूर्वादि संयुक्ते धूपितं च विशेषतः | एकग्र * * * * ढ्य चतुर्वर्गफलोदयम् || ४५ || प्. १०३९) मात्राभिमन्त्रितं तन्तुविधायाञ्जलिमद्यमम् | अमन्त्रिणापतं ह्येति देशिकोपि यजेद्यथा || ४६ || ओं समस्तं विधिवच्छिद्र पूरणेशमखं प्रति | प्रभवात्मत्रयं मित्वा त्वदिच्छाव्याप्तिकारकम् || ४७ || त * * * नुनानी हि यजतश्चिदचित्पते | सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीदमे || ४८ || आमन्त्रितोसि देवेश सह देव्या गणेश्वरैः | मन्त्रैस्त्रैलोक्य पालैश्च सहितः परिवारकैः || ४९ || निवेदयाम्यहं तुभ्यं प्रभाते तु पवित्रकम् | नियमं च करिष्यामि परमेश तवाज्ञया || ५० || प्. १०४०) आमन्त्रादेवमित्येव रेचकानात्म दीक्षितम् | मूलं शिवान्तमुच्चार्य तच्छिवाय निवेदयेत् || ५१ || जप्तैःस्तोत्र प्रमाणैश्च तोषयेत्परमेश्वरम् | तृतीयांश्च चरोर्हुत्वा तदतीत शिवाग्नये || ५२ || ततः पूर्वादि दिग्वासिभ्यो दिगीश मातृगणरुद्र- क्षेत्रपालेभ्यः स्वाहेति || ५३ || आसां नाम्नादिभेदेन सर्वदिक्षु बहिर्बलिम् | अथ दद्यात्तु वायव्यं क्षेत्रपालबलिं गुरुः || ५४ || आचम्य विधिवच्छिद्रपूरकं होममाचरेत् | पूर्णाहुतिं व्याहृतिं च हुत्वा रुन्धति पावकम् || ५५ || प्. १०४१) तत्र ओं हां अग्नये स्वाहा | ओं हां सोमाय स्वाहा | ओं हां अग्नीषोमाभ्यां स्वाहा | ओं हां अग्नये स्विष्टकृते स्वाहा || ५६ || कुर्यादाहुतिभिश्चैवं चतुर्भिर्नन्दिकेश्वर ! | देव्यास्तु स्थण्डिलेभ्यर्च्य वह्नौ कृतदनन्तरम् || ५७ || नाडीसन्धानविधिना योजयेन्नन्दिकेश्वर ! | अस्त्रमन्त्रेण संशुद्धं शिवमन्त्रेण * * * || ५८ || * * द्वौ द्वौ क्रमात्पूज्यौ ओं हां जें कं नमो युतैः | ओं हां नन्दिने नमः | ओं हां महाकालाय नमः || ५९ || ओं हां भृंगिणे नमः | ओं हां विनायकाय नमः | ओं हां वृषभाय नमः | ओं हां देव्यै नमः || ६० || प्. १०४२) ओं हां चण्डाय नमः | इत्येवं क्रमतोऽभ्यर्च्य द्वारपालादिकान् न्यसेत् || ६१ || पूर्वद्वारेत्र संविश्य पूजयेन्नन्दिकेश्वर | भूतशुद्धिर्विशेषार्घ्यं चोशीरं प्रोक्षणादिकः || ६२ || पूर्ववद्वांगसंहारं अहमन्त्रा यथा विधिः | कुसुमैरक्षतैर्दूर्वा चन्दनाद्यैर्मृदादिभिः || ६३ || कृत्वा तु शिवहस्तं वै स्वशिरस्यधिरोपयेत् | शिवोहमिति सर्वत्र ज्ञानमग्रे प्रजानता || ६४ || ज्ञानमग्रकरोत्यर्वं भावयेद्गुरुरुत्तमः | आसाद्य राक्षसीं काष्ठां प्रक्षिपेदुत्तरायणे || ६५ || प्. १०४३) पञ्चगव्यमधो धाम समन्ताद्याग मण्टपम् | चतुर्ष्वथान्त्य संस्कारैर्लक्षणाद्यैस्सु संस्कृतैः || ६६ || राजादि विकिरेद्द्रव्यं कुशकूर्चकुमू भवेत् | वर्धनीं चासनार्थाय तानत्रैव प्रकल्पयेत् || ६७ || वास्तुदेवं च नैर्-ऋत्यां लक्ष्मीं द्वारे च पूजयेत् | पूर्वाद्यभिमुखं कुम्भं सर्वधान्योपरि स्थितम् || ६८ || प्रणवेन वृसारूढं सिह्मस्थां पार्वतीं ततः | शिवमन्त्रैस्समभ्यर्च्य वर्धन्या मन्त्रमर्चयेत् || ६९ || इन्द्राद्यजादि दिक्पालदशकांश्च समर्चयेत् | कुम्भञ्चानु गांसम्यग्वर्धनीं च तथैव च || ७० || प्. १०४४) गुरुः शिवाज्ञां संश्राव्य पूर्वादीशान गोचरम् | मूलमन्त्रं समुच्चार्य अविच्छिन्नाम्बुधारया || ७१ || वर्धनीं भ्रामयेदेनां रक्षार्थं हेमरूपिणीम् | घटं पूर्वं समारोप्य वर्धनीं तस्य पार्श्वतः || ७२ || कुम्भे च संग्रहेत् स्नाके यजेद्देवं स्थिरासने | तारासवस्थ वर्धन्यां आसनं च तदा द्वयोः || ७३ || भगलिंगसमायोगं विदध्याल्लिंगमुद्रया | ज्ञानखड्गं घटे न्यस्य मूलाणुञ्च जपेत्तदा || ७४ || वर्धन्यां तद्दशांशेन रक्षां विज्ञापयेदिति | लम्बोदरं तु नैर्-ऋत्यां पूजयेत्तु चतुर्भुजम् || ७५ || प्. १०४५) सायुधं पद्मरागाभं प्रत्यूहध्वंसनं परम् | गुरुमैशानके भागे स्थापयेत्तदनन्तरम् || ७६ || देशिकं शिववत्पूज्य सर्वज्ञान प्रदेशिकम् | विधिवत् स्थापयेत् पश्चाद् गन्धतोयैस्तथाम्बुभिः || ७७ || देवं संपूजयेत् पश्चाद् विधिना द्वारपालकैः | कुण्डसंस्कारपूर्वं तु शिवाग्निं परिपूजयेत् || ७८ || विध्युक्त चरुकं कुर्यात् संपाताहुति शोधितम् | देववह्न्यात्मभेदेन त्रिधा दर्व्या विभाजयेत् || ७९ || भागद्वयं शिवाग्नौ तु दत्वा चात्मार्थमेककम् | पूर्वोक्तदन्तकाष्ठं च दद्यात्क्षीरतरूद्भवम् || ८० || प्. १०४६) कवचेन नरेणैव पूर्वतो दन्तधावनम् | दातव्यं रूपिणा भस्म दक्षिणे शिखयाऽथवा || ८१ || मृत्तिकां पञ्चगव्यं च * * * * सुगन्धि वै | पुष्पमीशानके कुर्याद् आग्नेययांदिशि रोचनम् || ८२ || राक्षसे नागरुं चैव चातुर्जातं च मारुते | सर्वाणि होमद्रव्याणि सद्यो जाते कुशैस्सह || ८३ || अक्षसूत्रं च कौपीनं भिक्षापात्रं च दण्डकम् | कंकतं कुंकुमं तैलं अञ्जनं दर्पणं तथा || ८४ || ताम्बूलं रोचनां चापि चोत्तरे सन्निवेशयेत् | आसनं पादुके पात्रं नागपट्टातपत्रकम् || ८५ || प्. १०४७) ईशमन्त्रेण चैशान्यां दद्यादीशान तुष्टये | साज्यं चरुं च पूर्वंस्यासान्न गन्धादिकं नरे || ८६ || असं पन्नेषु सर्वेषु मनसा तत्प्रकल्पयेत् | समादाय पवित्राणि प्रोक्षितान्यर्घ्यवारिणा || ८७ || नीत्वा तु संहितामन्त्र पूतानि ज्वलनात्पुनः | कृष्णाजिनादिनाच्छाद्य स्मरन्संवत्सरात्मिकम् || ८८ || कर्मणां साक्षिणं चैव गोप्तारं शिवमव्ययम् | स्वेति हेति प्रयोगेन मन्त्रसंहितया पुनः || ८९ || पवित्राप्य हि संशोध्य वारणामेक विंशतिः | यागधाम वृषस्थान प्रासादानल संश्रयम् || ९० || प्. १०४८) करणौघं च सूत्रेण वर्मणा परिवेष्टयेत् | पूजितायाथ सूर्याय दत्वा गन्धपवित्रकम् || ९१ || समाचम्या कृतन्यास प्रणिपत्य कृतार्थकम् | दद्यान्गन्धपवित्रं तु नन्द्यादि द्वारपालके || ९२ || प्रविश्यकस्तुनाद्याय ब्रह्मणो विददेत् ततः | सास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः || ९३ || शिवकुम्भादि वर्धन्यां दद्याल्लम्बोदराय च | अभ्यर्च्य विघ्नराजं च देशिकांघ्रि पदाम्बुजम् || ९४ || पूजयेद्गन्धपुष्पेण दत्वान्नं च पवित्रके | पञ्चाशदौषधीलिप्तमानोन्मान विवर्जितम् || ९५ || प्. १०४९) पूष्पदूर्वादि संयुक्ते धूपितं च विशेषतः | एकग्रन्थ्यल्प सूत्राढ्यं चतुर्वर्गफलोदयम् || ९६ || मन्त्राभिमन्त्रितं तन्तु विधायाञ्जलिमध्यतः | आमन्त्रिणापदं ह्येतद् देशिकोऽपि यजेद्यथा || ९७ || ओं समस्थविधिवच्छिद्र पूरणेशमखं प्रति | प्रभवामन्त्रयामित्वा त्वदिच्छा व्याप्तिकारिका || ९८ || तत्सिद्धिमनुजानीहि जातं च चिदचित्पते | सर्वथा सर्वदा शम्भो नमस्तेस्तु प्रसीदमे || ९९ || आमन्त्रितोसि देवेश ! सहदेव्या गणेश्वरैः | मन्त्रैस्त्रैलोक्य पालैश्च सहितः परिवारकैः || १०० || प्. १०५०) निवेदयाम्यहं तुभ्यं प्रभाते पवित्रकम् | नियमं पञ्च करिष्यामि परमेश तवाज्ञया || १०१ || अमन्त्रादेवमित्येवं रेचकेनामृती कृतम् | मूलं शिवान्तमुच्चार्यं तच्छिवाय निवेदयेत् || १०२ || जपैस्तोत्रैः प्रणामैश्च तोषयेत् परमेश्वरम् | तृतीयांशं चरोर्हुत्वा तदतीत शिवान्नयेत् || १०३ || पूर्वादि दिग्वासिभ्यो दिगीशमातृगणरुद्रक्षेत्रपालेभ्यः स्वाहेति || १०४ || आसां साम्नादि भेदेन सर्वदिक्षु बहिर्बलिम् | अथ दद्यात्तु वायस्यं क्षेत्रपालबलिं कुरु || १०५ || प्. १०५१) आचम्य विधिवच्छिद्र पूरकं होममाचरेत् | पूर्णाहुतिं व्याहृतिं च हुत्वारुन्धित पावकम् || १०६ || तत्र ओं हां अग्नये स्वाहा | ओं हां सोमाय स्वाहा | ओं हां अग्नीषोमाभ्यां स्वाहा | ओं हां अग्नये स्विष्ट- || १०७ || कृते स्वाहा | कुर्यादाहुतिभिश्चैव चतुर्भ्यं नन्दिकेश्वर || १०८ || देवं तत्स्थण्डिलेभ्यर्च्य वह्नौ तु तदनन्तरम् | नाडीसन्धानविधिना योजयेन्नन्दिकेश्वर || १०९ || अस्त्रमन्त्रेण संशुद्धिं शुद्धपात्रेण कंकणम् | हृदयाख्येन मन्त्रेण पवित्राण्यधिरोपयेत् || ११० || प्. १०५२) षडंगेन कलामन्त्रैः ब्रह्मांगैर्वा यथा विधि | अंगमन्त्रैर्विशेषेण जपं कुर्यात्समाहितः || १११ || भक्तियुक्तश्शिवं नत्वा रक्षणार्थं समर्चयेत् | पुष्पधूपादिभिश्चैव संपूज्य विधिना तदा || ११२ || सिद्धान्तपुस्तकं चार्च्य विधिना नन्दिकेश्वर ! | भक्त्या पदान्तिकं गत्वा गुरोर्दद्यात्पवित्रकम् || ११३ || बहिर्निर्गत्य चाचम्य गोमये मण्डलत्रये | पञ्चगव्यं चरुं दन्तधावनं च विनिक्षिपेत् || ११४ || विधिनाचम्य सान्निध्य कृतसंगीतजो गुरुः | स्वपदेन स्मरन्नीशं मुमुक्षुर्दर्भसंस्तरे || ११५ || प्. १०५३) मुमुक्षुरप्यनेनैव प्रकारेणाभि संविशेत् | केवलं भस्मशययायां सोपवासस्समाहितः || ११६ || पवित्रस्याधिवासोऽयं विधिरत्र समाहितः | उत्थाय प्रातराचम्य कृतप्रातस्समाहितः || ११७ || कृतसन्ध्याविधिर्मन्त्री प्रविशेद्यागमण्डपम् | पवित्राणि समादाय चाविसर्जित दैवतम् || ११८ || शुद्धपात्रे समारोप्य चैशान्यां कृतमण्डले | देवं विसृज्य निर्माल्यमपनीय च तद्बहिः || ११९ || नित्यकर्म च कृत्वा तु पूर्ववच्छिवभूतले | शिवकुम्भे च वर्धन्यां द्वारदिक्पालवह्निषु || १२० || प्. १०५४) आदित्यं पूर्वमभ्यर्च्य विधिनान्नन्दिकेश्वर ! | कुर्यात्पूजां सविस्तारां नैमित्तिक विधान्विताम् || १२१ || मनूनां तर्पणं कुर्यात् प्रायश्चित्तं शिरोणुना | हुत्वा चाष्टोत्तरं पश्चाच्छतं पूर्णाहुतिं पुनः || १२२ || दत्वा पवित्रमर्कस्य समाचम्य विधानवित् | द्वारपालादि दिक्पालकुम्भवर्धनिकासु च || १२३ || सन्निधाने ततः शम्भोरुपविश्यति शासने | दद्यात् पवित्रमात्मार्थं गणाय गुरुपंकजे || १२४ || पवित्रकमथादाय किंचित्कलश संमुखम् | स्मरन्कलात्मकं देवं प्रब्रूयादिति शंकरम् || १२५ || प्. १०५५) कलात्मना त्वया देव यदिष्टं मामके विधौ | क्लिष्टं कृतं समुद्दिष्टं धृतं गुप्तं च यत्कृतम् || १२६ || तदस्तु क्लिष्टमक्लिष्टं सुसंपुष्टमसत्कृतम् | सर्वात्मा वायुना शम्भो त्वत्सूत्रेण त्वदिच्छया || १२७ || ओं पूरय पूरय मखं प्रति नियमेश्वराय स्वाहा | आत्मतत्वे प्रकृत्यन्ते पालिते पद्मयोनिना || १२८ || उच्चार्य मूलमाद्यन्तं पवित्रेणार्चयेच्छिवम् | विद्यातत्वे च विद्यान्ते पालिते विष्णुकारणे || १२९ || ईश्वरान्तं समुच्चार्य पवित्रमधिरोपयेत् | शिवान्ते शिवतत्वेथ रुद्रकारणपालिते || १३० || प्. १०५६) शिवान्तं मूलमुच्चार्य पवित्रमधिरोपयेत् | सर्वकारण बाल्येषु सर्वतत्वेषु सुव्रतम् || १३१ || मूलं लया * * * * दद्याद्गंगावतारकम् | मुमुक्षूणां पवित्रं तु चात्मविद्याशिवे क्रमात् || १३२ || भुभुक्षूणां च संप्रोक्ते शिवविद्यात्मभिः क्रमात् | स्वाहान्तं वा नमोऽन्तं वा मन्त्रैरेषामुदीरयेत् || १३३ || देशिकस्सर्वदेवानां पवित्रं कुर्यात्पुनः | ओं हां आत्मतत्वाधिपतये शिवाय स्वाहा || १३४ || ओं हां विद्यातत्वाधिपतये शिवाय स्वाहा | ओं हां शिवतत्वाधिपतये शिवाय स्वाहा || १३५ || प्. १०५७) एवं क्रमेण देवाय पवित्रं कारयेद्बुधः | ओं हां सर्वतत्वाधिपतये शिवाय स्वाहा || १३६ || अनेनैव तु मन्त्रेण कुर्याद्गंगावतारकम् | भक्त्या पुष्पकरद्वन्द्वं गुरवे विनिवेदयेत् || १३७ || त्वं स्थितिस्सर्वदेवानां स्थितस्त्वं च चराचरम् | अन्तं वारेण भूतानां दृष्ट्वातः परमेश्वरः || १३८ || कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम | मन्त्रहीनं क्रियाहीनं वृत्तहीनं च यत्कृतम् || १३९ || जपहोमार्चने हीनं कृत्यं नित्यं मया तव | उत्कृतं कृतिहीनं च तत्पुराथ महेश्वर ! || १४० || प्. १०५८) सुपूतस्तं सुरेशानं पवित्रं पापनाशनम् | त्वया पवित्रितं सर्वं जगत् स्थावरजंगमम् || १४१ || खण्डितं यन्मयादेव ! पदं वैकुल्ययोगतः | एकीभवतु तत्सर्वं तत्वज्ञार्थ सूत्रग्रन्थितम् || १४२ || जपन्निवेद्य देवस्य भक्त्या स्तोत्रं निवेद्य च | प्रणम्यामूलचित्तेन सन्तुष्टं भावयेच्छिवम् || १४३ || चतुस्त्रीरण्यथ द्वौ वा तासां मासार्धमेव वा | सप्ताहं पञ्चरात्रं वा त्र्यहमेकाहमेव वा || १४४ || गुरूणां वाथयोद्दिष्टं गृहीत्वा नियमं तथा | प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं प्रति || १४५ || प्. १०५९) यावत्तस्थौ शिवेप्येवं पवित्राणां चतुष्टयम् | समभ्यर्च्य समारोप्य पुष्पधूपाक्षतादिभिः || १४६ || अन्तर्बलिं पवित्रं च रुद्रादिभ्यो निवेदयेत् | शिवं स्तुत्वा प्रविश्यान्तर्वन्दित्वा तं क्षमापयेत् || १४७ || होमं प्रायश्चित्तकं च कृत्वा हुत्वा च पायसम् | पूर्णाहुतिं शनैर्हुत्वा पतिस्थं पितृशेच्छिवम् || १४८ || व्याहृत्या वा हुतिं कुर्याद् मध्यान्निष्ठुरयानिलम् | सुदित्येभ्योऽथ दत्वा वै चाहुतीनां चतुष्टयम् || १४९ || दिक्पालेभ्यस्ततो दत्वा स पवित्रं बहिर्बलिम् | पवित्रं च ततो न्यस्येत् सम्यक् सिद्धान्तपुस्तके || १५० || प्. १०६०) ओं हां भूस्वाहा ओं हां भुवः स्वाहा | ओं हां सुवः स्वाहा ओं हां भूर्भुवस्सुवः स्वाहा || १५१ || व्याहृतीभिश्चतुर्भिश्च जुहुयाद्देशिकोत्तमः | ओं हां अग्नये स्वाहा ओं हां सोमाय स्वाहा || १५२ || ओं हां अग्नीषोमाभ्यां स्वाहा ओं हामग्नये स्विष्टकृते स्वाहा | एवं क्रमादाहुतिभिः जुहुयात्तदनन्तरम् || १५३ || शिववद्देशिकं पूज्य मुद्राभूषण वस्त्रकैः | आयान्ते देशिके तेषां सद्यः प्रीणाति शंकरः || १५४ || गुरुरेव परं दैवं गुरुरेव परागतिः | गुरुसंतोषणान्नान्यद् विद्यते नन्दिकेश्वर ! || १५५ || प्. १०६१) हृदालम्बि पवित्रं तु गुरावरोपयेत् तदा | अर्धवक्षादिकान्सर्वान् भोजयेत् तदनन्तरम् || १५६ || वस्त्राभरणशययादि भक्त्या तेषां समर्चयेत् | देवेशोचितदानेन प्रीयतां मे सदाशिवः || १५७ || दानादिकं च कृत्वा तु पवित्राण्याहरेद्विभोः | पूजयेदष्ट पुष्पेण भक्त्या तं च विसर्जयेत् || १५८ || नित्यनैमित्तिकं कुर्याद् विस्तरेण यथा विधि | समारोप्य पवित्राणि प्रणम्याग्नौ शिवं यजेत् || १५९ || ततोऽस्त्रेण प्रायश्चित्तं हुत्वा पूर्णाहुतिं यजेत् | शिवाय मुक्तिकामस्तु कुर्यात्कर्मसमर्पणम् || १६० || प्. १०६२) त्वत्प्रसादेन कर्मेदं ममास्तु फलसाधकम् | भुक्तिकामस्तु कर्मेदमस्तु मे नाथ बन्धनः || १६१ || वह्निस्थानादि योगेन शिवो मे योजयेच्छिवम् | मन्त्रपूतं हृदि न्यस्य विसृजेत् पावकं पुनः || १६२ || प्रविश्यान्तस्समाविश्य कुम्भानुगत मन्त्रकान् | सापेक्षं च शिवे योज्य क्षमस्वेति विसर्जयेत् || १६३ || दिक्पालांश्च विसृज्याथ दापयेत् तत्पवित्रकम् | यद्यस्मिंश्चण्ड पूजां च कुर्याद्दत्वा पवित्रकम् || १६४ || निर्माल्यादिकमेतस्मै सपवित्रं समर्पयेत् | चण्डेशं स्थण्डिले वापि पीठे वा पूर्ववद्यजेत् || १६५ || प्. १०६३) यत्किंचिद्वापिकं कर्म कृतं न्यूनाधिकं मया | तदस्तु परिपूर्णं मे चतुराधि शिवाज्ञया || १६६ || चण्डेशमिति विज्ञाप्य विसृजेन्नन्दि वन्दनैः | अलं कूपेऽथवा तोये तन्निर्माल्यं विनिक्षिपेत् || १६७ || चण्डेशमेवं संपूज्य गोमयेनोपलेपयेत् | विशोध्य शुद्धदेहस्सन् स्नापयित्वा शिवं व्रजेत् || १६८ || पञ्चयोजनतश्चार्वाक् पवित्रं गुरुसन्निधौ | अनेन विधिना कुर्याल्लभते वांछितं फलम् || १६९ || पवित्रमेवं कर्तव्यं विधिना नन्दिकेश्वर ! | इत्यचिन्त्य विश्वसादाख्ये पवित्रविधिरेकोन सप्ततिः पटलः || प्. १०६४) ईशकोपात्पुरा जातो भैरवो दमनाख्यकः | सर्वेऽसुरास्तेन जाता दानवाश्च महाबलाः || १ || प्रसन्नेन शिवेनाथ भूतले वमुनेत्तवा | तान्तु नूनमनुप्राप्यमद्भोगाय भविष्यति || २ || ये नराः पूजयिष्यन्ति देवत्वं पल्लवादिभिः | ते यास्यन्ति परं स्थानं दमनत्वत् प्रसादतः || ३ || ये पुनर्न करिष्यन्ति दापनं पर्वमानवाः | चैत्रमासे तु तेषां ते दत्तं पुण्यफलं मया || ४ || सप्तम्यां च त्रयोदश्यां गत्वा दमनकान्तिकम् | शोधयित्वा तमस्त्रेण पूजयेत्संहिताणुभिः || ५ || प्. १०६५) सन्तोषयेत्तु तद्दानं भगवात्येन मन्त्रवित् | ईशप्रसादाज्ज्ञातोऽसि ममार्थे सन्निधीभव || ६ || शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया | इत्थं दमनमामन्त्र्य संरक्ष्य भवतं व्रजेत् || ७ || पुरस्थितं समानीय मृत्स्नासार्धं विशेषतः | मृत्स्ना संपूरिते पात्रे समारोप्याथ पूजयेत् || ८ || आमन्त्रितत्रभे कुर्यात् तत्पूर्वविधिना पुनः | सायंतने तु काले वै विदध्यादधि वासनम् || ९ || आहृत्य यागवस्त्राणि कृतस्नानादिकाः स्त्रियः | यथा विधि समभ्यर्च्य सूर्यशंकरपावकान् || १० || प्. १०६६) देवस्य पश्चिमेभागे तस्य मूलमुदाहृतम् | हृदये नाथ सद्यं च मन्त्रेणादाय तत्पुनः || ११ || वामेन शिरसा वापि नालाद्धात्रिं तथोत्तरे | दक्षिणे भस्म पात्रं च रूपेण शिखयाथवा || १२ || प्राच्यानां चर्मणा वापि स पुष्पं दन्तधावनम् | गायत्र्या बिलमूलेन ऐशान्यां गन्धसंयुतम् || १३ || न्यासाञ्जलौ च पुष्पांगदामपुष्पाक्षतान्वितम् | विज्ञापयेच्च देवेशं दमनारोहणं प्रति || १४ || आमन्त्रितोसि देवेश प्रातः काले मया प्रभो | कर्तव्यं तु यथा लाभं तामसर्वं तवाज्ञया || १५ || प्. १०६७) इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिः | संयोज्य मूलमन्त्रेण जपं कुर्याद्विशेषतः || १६ || पात्रे विशेषं निक्षिप्य द्वितीयेन विधायकम् | पवित्रकविधानेन कवचेनावकुण्ठयेत् || १७ || इत्थं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् | निराहारोऽथवा चापि हविर्भुञ्जीत देशिकः || १८ || देवस्य पुरतश्चापि प्रबुद्धो जपगीतिभिः | प्रातः स्नात्वा जगन्नाथं अष्टपुष्पं विसर्जयेत् || १९ || नित्यनैमित्तिकं चैव कुर्यात्पूजां विशेषतः | पञ्चांगैः पूजयेद्देवं दमनैरपि खण्डितम् || २० || प्. १०६८) अञ्जलौ शेषमादाय दूर्वागन्धाक्षतान्वितम् | शुद्धस्फटिकसंकाशं पञ्चवक्त्रं सदाशिवम् || २१ || ध्यात्वाभि मुखमेवं तु पूजयेन्नन्दिकेश्वर ! | आत्मविद्या शिवैस्तत्वैः मूलाद्यैरीश्वरान्तिके || २२ || पवित्रोक्तेन मार्गेण देवेशं सम्यगर्चयेत् | ओं हां आत्मतत्वेश्वराय शिवाय नमः || २३ || ओं हां विद्यातत्वेश्वराय शिवाय नमः | ओं हां शिवतत्वेश्वराय शिवाय नमः || २४ || एवं पुष्पाञ्जलिं कृत्वा विधिनाथ च मन्त्रवित् | ओं हौं माहेश्वराय मखं पूरयशूलपाणये नमः || २५ || प्. १०६९) वन्दित्वा शिवमभ्यर्च्य पावकं च यथोक्तवित् | भक्त्या विज्ञापयेदीशं वांछितार्थ फलप्रदम् || २६ || भगवन्नतिरिक्तं वा न्यूनं वाथ मयाकृतम् | सर्वं तदस्तु संपूर्णं सर्वं दमनकर्मकम् || २७ || एवं धामविधिं कृत्वा कुर्वीत गुरुपूजनम् | ब्राह्मणादीन्विशेषेण तुष्टये पूजयेत् तदा || २८ || गृहस्थो ब्रह्मचारी वा नियमं कुरुते विधिः | चैत्रमास कृता पूजा अफलाय भवेत्तदा || २९ || * * * * * * कुर्याद् गुरुभक्ति समन्वितः | ईश्वरोऽतिप्रसन्नोभूद्दमनस्य प्रसादतः || ३० || इत्यचिन्त्यविश्वसादाख्ये दमनोक्तविधिस्सप्ततितमः पटलः || प्. १०७०) अथ वक्ष्ये विशेषेण जीर्णलिंगस्य चोद्धृतिम् | लिंगं भूत्याश्रयं भूयाज्जीर्णोद्धारं विनाभवेत् || १ || उत्तरे जीर्णलिंगं च महापुण्यबलोद्बणम् | जीर्णदण्डमनिर्मूलं लक्षणेन विहीनितम् || २ || मानहीनं च स्फुटिका शान्त्याद्येन विदूषितम् | संपुटं व्यंगलिंगं च नदीतीरान्तरं पुनः || ३ || इत्यादि दोषदुष्टं च लिंगं संत्यज्य बुद्धिमान् | पीडितं चैव वृषभं चालिं च चलितं तथा || ४ || निम्नमृत्युच्चविषमं दिङ्मूढस्वं च वा ततः | एवं विधिं च संज्ञाप्य निर्वाणं च भवेद्यदि || ५ || प्. १०७१) नद्यादिक प्रवाहेण यदि संह्रियतेऽपि वा | विध्युक्तकर्मणा तत्र संस्थाप्यं च विशेषतः || ६ || सुस्थितं दुस्थितं वापि शिवलिंगं न चालयेत् | शान्तेन स्थापितं लिंगं सहस्रेण तु पालयेत् || ७ || पूर्णादिभिश्च संयुक्तं जीर्णाद्यस्य * * * तम् | पूजया रहितं यद्वा तत्सन्धिरपि दुस्थिरम् || ८ || शतेन स्थापनेत्यादेरयमर्थो विवर्जितः | स्थापितं यदि संमोहाल्लिंगं निम्नादितां व्रजेत् || ९ || सहस्रादिभ होमेन पालन्तुश्च तदा मतम् | परित्यक्तां शिलायोगं निर्वाणं च स लक्षणम् || १० || प्. १०७२) संसक्तमुत्तरे मन्त्री मन्त्रैवं स्थापनाय च | विधिना चलितं तत्तत् प्रागुक्तफलसिद्धये || ११ || ईशे यमे च कुर्यात्तु मण्टपं लक्षणान्वितम् | द्वारतोरण पूजां च द्वारपूजादि पूर्ववत् || १२ || स्थण्डिलेशं समभ्यर्च्य मन्त्रं तर्पण पूर्वकम् | वास्तुदेवं समभ्यर्च्य दिक्पालानां बलिं क्षिपेत् || १३ || देशिकोपि समाचम्य भोजयेल्लिंगविप्रकान् | देवं संस्थापयेत्पश्चाल्लिंगं दुष्टमिदं विभो || १४|| अस्य चोद्धारणे शान्तिस्स्यादित्यस्तिभवेच्छया | तस्मादस्त्रविधानेन समधिष्टं महेश्वर ! || १५ || प्. १०७३) एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत् | मध्वाज्य क्षीरदूर्वा च मूलेनाष्टोत्तरं शतम् || १६ || लिंगं ततश्च संपूज्य पूजयेत्स्थण्डिलं तथा | ओं व्यापकेश्वरायेति नुत्यन्तं शिवमर्चनम् || १७ || ओं व्यापकेश्वराय हृदयाय नमः | ओं व्यापकेश्वराय शिरसे नमः || १८ || ओं व्यापकेश्वराय शिखायै वषट् | ओं व्यापकेश्वराय कवचाय हुम् || १९ || ओं व्यापकेश्वराय नेत्रत्रयाय वौषट् | ओं व्यापकेश्वराय अस्त्राय फट् || २० || प्. १०७४) एवं पञ्चांग मन्त्रेण सम्यगभ्यर्च्य शंकरम् | अस्त्रमन्त्रेण तन्त्रस्थं सत्वं संश्रावयेद्गुरुः || २१ || सत्वको * * * * * लिंगमाश्रित्य तिष्ठति | लिंगं त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छति || २२ || विद्याविद्येश्वरैर्यत्र शम्भुरत्रभविष्यति | पाशुपतास्त्रमन्त्रेण जुहुयात्तु सहस्रकम् || २३ || प्रतिभागं विशेषेण शुभतोयेन मोक्षयेत् | काशैस्संमार्जयेत्पश्चाद्दत्वार्थं च विशेषतः || २४ || फलमेनं ततस्तत्र तत्वाधिपमनन्तरम् | मूर्तिमूर्तीश्वरा लिंगपिण्डिकांस्तु विशेषतः || २५ || प्. १०७५) विसृज्य स्वर्णपाशेन वृषस्कन्धस्त्वया तया | खट्वांगं तु ततो नीत्वा शिवमस्तु गृणञ्जनैः || २६ || तज्जले निक्षिपेन्मन्त्री पुष्ट्यर्थं होमयेच्छतम् | दिक्पालतर्पणं कुर्याद् वास्तुशुद्ध्यै शतं शतम् || २७ || विधाय रक्षां तद्धाम्नि महापाशुपतास्त्रतः | लिंगं तन्मात्रतस्तत्र विधिवत्स्थापयेद्गुरुः || २८ || ब्राह्मणैमुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितः | जीर्णं वाप्यथवा भग्नं धिनापि न चालयेत् || २९ || एवं विधिश्च कर्तव्यो जीर्णधाम समुद्धृतौ | खड्गमन्त्रगणा * * कारयेदन्य मन्दिरम् || ३० || प्. १०७६) संकोचे मरणं प्रोक्तं विस्तारे तु धनक्षयम् | तद्द्रव्यं श्रेष्ठद्रव्यं वा तत्कार्यं तत्प्रमाणकम् || ३१ || विधिनाजीर्णपूर्णानामुद्धारं च विधीयते | नोचेदनर्थकं तत्तु विधिना तत्समाचरेत् || ३२ || इत्यचिन्त्यविश्वसादाख्ये जीर्णोद्धारविधिरेकोन सप्ततितमः पटलः || मठप्रतिष्ठां वक्ष्यामि शृणुत्वं नन्दिकेश्वर ! | मण्टपं मण्डलं कुण्डं पूर्ववत्कारयेद्गुरुः || १ || अनुग्रहाय लोकानां लिंगभूता प्रतिष्ठिता | उत्तरेष्वेकतमे चैव मठादीनि प्रकल्पयेत् || २ || प्. १०७७) आगन्तुकानां सर्वेषां नैष्ठिकानां निवासभूः | अन्नपानीयसंयुक्तं केवलं वा मठं मतम् || ३ || कर्णसूत्रद्वयेनैव संयुतं पीठमिष्यते | पूर्वोक्तवास्तुना ये तु पादास्ते संप्रकीर्तिताः || ४ || एतत्पदं मठादीनां तच्च ग्रामादियोग्यताम् | रात्रौ वाथ दिवा वापि गृहदेवाल यादिषु || ५ || देवालये च ग्रामादौ शिवविप्रो विशिष्यते | स्वगृहे त्वनुशैवं तु महायान्तरशैलकौ || ६ || स्थण्डिलं कारयेत्तत्र अष्टपत्रं सकर्णिकम् | वस्त्रयुग्मावृतं स्कन्धे शिवकुम्भं द्विजश्शिवः || ७ || प्. १०७८) मन्दिरे विन्यसेत्तत्वं शक्तिं विन्यस्य धारिकाम् | आत्मतत्वमधोभागे ब्रह्मासावधि विन्यसेत् || ८ || सद्यतत्वं न्यसेन्मध्ये बुद्धितत्वपदानुगम् | तदूर्ध्वे शिवतत्वं स्याच्छुद्धविद्यावसानकम् || ९ || करणत्रितयं न्यस्त्वा शिवं सांगं च विन्यसेत् | तत्वोपस्थापनं शुद्धिं प्रोक्षणं स्पर्शनं जपम् || १० || सान्निध्यं रोधनं पूजा सन्धानं प्रति तत्वकम् | एवं सर्वत्र विधिवद्विधानं पूर्वतां व्रजेत् || ११ || शुभलग्नं समासाद्य विन्यसेद् ध्वजमादरात् | मन्दिरं स्थापयेत्पश्चात् फलाद्यैः शुभवस्तुभिः || १२ || प्. १०७९) दारुतृणादि संछन्ने मन्त्रे न्यासोऽत्र कथ्यते | शिवकुम्भं च संस्थाप्य लेपयेद्गोमयेन तत् || १३ || बाह्ये चाभ्यन्तरे चापि पुष्पगन्ध सुशोभितम् | पताका तोरणादींश्च कुर्यात्तत्र विशेषतः || १४ || सुहृद्भिवहभिस्सार्धं तत्कर्ता गुरुपूजकः | यजमानस्सुलग्ने तु स्नातश्च कृतमंगलः || १५ || चतुष्कामं न्यसेद्धीमावेदिकाया मुदङ्मुखात् | ब्राह्मणानां च दानं च दैवज्ञाय विशेषतः || १६ || शिल्पिने च ततो दद्याद् यथाविभव विस्तरम् | पूजयेत्पूर्वतः कुम्भान्वास्तु द्विकरमण्टपे || १७ || प्. १०८०) ज गत्यां पादपीठे च जंघा चैव कपोतके | भेदेन च यथा संख्यान्निवृत्त्यादिकलां न्यसेत् || १८ || हृदयेन समभ्यर्च्य शक्तिदिक्पालकानपि | व्य * पान्स्वस्वसंज्ञाभिः पूजयेद् ध्यान पूर्वकम् || १९ || वह्निगेहं समासाद्य तर्पयेद्वास्तु देवताः | निवृत्त्यादि कलाश्चापि द्वारपालान्स्वमन्त्रकैः || २० || दत्वा दिग्बलिमाचम्य सकलीकृतविग्रहः | मधुराम्रकपित्थैश्च बीजापूरफलैस्तथा || २१ || बदरामलवार्ताकनारंगलिकुचादिभिः | संस्थाप्य स्नापयेत्कुम्भजलैरुपरि चालयम् || २२ || प्. १०८१) विभूति स्थिरहेत्वर्थं सन्तानादिविवृद्धये | कीर्त्यर्थं कीर्तयेन्नाम कर्तृनामपुरस्सरम् || २३ || एकं मठं सुसंज्ञातं कुर्याद्वै देशिकोत्तमः | एवं मठप्रतिष्ठा च कार्या वै नन्दिकेश्वर || २४ || पुष्करिण्याः प्रतिष्ठां तु वक्ष्ये संक्षेपतः शृणु | वास्तुदेवं समभ्यर्च्य चतुरश्रे विशेषतः || २५ || रुद्रभाजित कोणेषु पूज्याः स्त्रीपदिकाः क्रमात् | ईशान पितृवायूनां दिशमारभ्य च क्रमात् || २६ || एकैक पदमारूढाः पर्जन्याद्या यथाक्रमम् | आप * करकोष्ठस्था मरीच्या द्वादशानुगाः || २७ || प्. १०८२) ब्रह्माणं मध्यदेशे तु पञ्चविंशतिकोष्ठके | वास्तुं यजेत्प्रतिष्ठायां वारुण्यां मण्टपे शुभे || २८ || परिगृहीत भूमध्ये प्रारभेत्तु यथाविधि | मूर्त्त्यंगयुक्ततारेण तन्नाम्ना च समर्चयेत् || २९ || दलाष्टसितपद्मे वै कालाग्निं मध्यतो यजेत् | हाटकेशं बलिं शान्तिबलिनाथमठेदयम् || ३० || महाब्धिं कलशाम्भोधिं विरूपाक्षं च पूजयेत् | पूर्वपत्रक्रमादीशे भ्रुकुटीश्चरमण्टपः || ३१ || अनन्ताद्यास्ततो गर्ते कार्कोटान्तानिकाणुभिः | यज्ञमण्टपबाह्ये तु पूजयेच्चरकीमुखान् || ३२ || प्. १०८३) गृह्या लोकादिनाथांश्च रौप्यनागाष्टकं तथा | तत्रानन्तमहापद्मौ तक्षकं गुलिकं तथा || ३३ || शंखं च वासुकिं पद्मं कार्कोटं चाष्ट विन्यसेत् | कृत्वा पूजां न्यसेत्पश्चात्पूर्वादिक्रमतस्ततः || ३४ || षडौषधीश्च निक्षिप्य परितः फणिनस्तथा | मत्स्याक्षीं च सभां चैव सृष्ट्याख्यां चापि तत्र वै || ३५ || कूर्मं च पञ्चरत्नानि रसगन्धाम्बु पञ्चकम् | अर्घ्याम्बु पञ्चगव्यं च पुष्करिण्यां परिक्षिपेत् || ३६ || खानतो द्विगुणं पादहीनमध्ये च वाधिकम् | हुं आं अनन्तनागाय नागाधिपतये नमः || ३७ || प्. १०८४) अस्त्रतोयेन संस्थाप्य अस्त्रेणाप्यधिवासयेत् | क्षुरिकायावतार्याथ क्षिपेद्वामेन वारिणा || ३८ || रौप्यं पाशं समादाय कपिलापृष्ठसंगतः | यजमानांस्तरेस्तस्यां गुरुः पाशुपतं जपेत् || ३९ || तत्र संतरणान्तेन तीर्णा वैतरणी नदी | अष्टोत्तरशतं हुत्वा रूपिणीं च विशेषतः || ४० || प्रचेतसं तु संतर्प्य विधिना नन्दिकेश्वर | देवेशं वामदेवाख्यं चरुन्तेभ्योऽवसाधयेत् || ४१ || दद्यात्पूर्णाहुतिं तत्र चरुणा शिवमन्त्रतः | गुरवै गौरियं देया वस्त्रसंभूषणादिभिः || ४२ || इत्यचिन्त्यविश्वसादाख्ये मठ पुष्करिणीविधि स्त्रिसप्ततितमः पटलः || प्. १०८५) प्रतिष्ठाविषये तत्र वक्ष्यते नन्दिकेश्वर ! | वास्तुदेवं समभ्यर्च्य मण्डलैरपि संयुते || १ || ईशस्त्वाग्नित्रकं चैव पुत्ररोगौ मरुद्दिभः | ईशादीशान्तकोणेषु सार्धद्विपदनायकाः || २ || पर्जन्याद्यास्सपदिकाः पूर्ववन्नन्दिकेश्वर ! | आपाद्याः पदयुग्मं वा भवत्येव विशेषतः || ३ || भानुभागा मरीचाद्या ब्रह्मा षट्त्रिंशदंशतः | चरक्याद्या बहिःपूज्या स्कन्दाद्या अपि पूज्यवत् || ४ || स्वतन्त्रविहितैर्मन्त्रैः स्मृता वा तदनन्तरम् | पूर्वकाद्याश्च रुद्रश्च स्वभूपद्मे यजेत्क्रमात् || ५ || प्. १०८६) कूपस्य वारुणे भागे मण्टपे च समर्चयेत् | पूर्वोदित विधानेन रौप्यनागाष्टकावृतम् || ६ || भुक्त्वा ते च बलिं दत्वा कूपे रत्नादि निक्षिपेत् | प्रोक्षयेदम्बुना शान्त्यै यजमानं ततो गुरुः || ७ || गुरुं सन्तोषयेत्कर्ता गोहिरण्याम्बरादिभिः | भोजनादि ततो दद्याद्यथा सामर्थ्यमर्थिनाम् || ८ || खातांनामपि सर्वेषां कूपवत्कार्य निष्कृतिः | क्षेपणं भवनं यच्च सव्यासव्येन संमतम् || ९ || इत्यचिन्त्य विश्वसादाख्ये कूपादि प्रतिष्ठाविधिश्चतुस्सप्ततितमः पटलः प्. १०८७) अथ वक्ष्ये विशेषेण वृक्षाणां च प्रतिष्ठितम् | जुहुयात् सर्पिषा चैव तिलैस्सम्यक् समाहितः || १ || आरामोद्यानयोर्द्राक्षा नैन्द्रदिक्कृतमण्टपे | स्नपनं पूजनं न्यासं स्वेन स्वेनाणुना चरेत् || २ || वृक्षाधिदेवताप्रीत्यै दद्यात्पूर्णाहुतिं गुरुः | (इत्यचिन्त्यविश्वसादाख्ये) वृक्षप्रतिष्ठाविधिः पञ्चसप्ततितमः पटलः अथान्त्येष्टिविधिं वक्ष्ये साधकाचार्यपुत्रकाः | एतेषां मरणान्तस्य विधिरन्त्येष्टिरुच्यते || १ || प्. १०८८) तत्वशुद्धिविहीनाभिरिष्टिरन्त्येष्टिरुच्यते | आर्द्रं वंशादिभि * * * मनोप्यत्र शोभिते || २ || पुष्पमालाभिसंयुक्ते कुर्याच्छंकरवालुके | स्वर्गसोपानयुक्ते च शवमारोपयेत्ततः || ३ || अपसव्योपवीतिभिर्दीक्षितैस्तुल्यजातिभिः | संस्कन्धैशस्त्रमन्त्रं च जपयुक्तैश्च धारयेत् || ४ || लाजाग्निकेश शुद्धे तु भूताग्रे चावतारयेत् | दक्षिने प्रेतशिरसं विधायैव विशेषतः || ५ || चतुर्हस्तयुतं कूटं तत्कुर्यात्प्रपयान्वितम् | सर्वालंकार संयुक्तं सर्वमाला सुशोभितम् || ६ || प्. १०८९) कुण्डं कुर्याद्विधानेन चतुरश्रैकमण्डलम् | षडंगुलोच्छ्रितं वायौ तन्मृदा स्थण्डिलं भवेत् || ७ || चतुष्करं चिताख्यातं कुण्डं दक्षिणतो भवेत् | विस्तीर्णाकारयुक्ताढ्यां अष्टांगुलविहीनकम् || ८ || कुण्डादित्रयमालिप्य गोमयाम्बुभिरेव च | गुरुः स्नातः कृतन्यासो गृहीतास्त्राद्यहस्तकम् || ९ || कृत्वा प्रदक्षिणं चापि स्थण्डिलं तमुदङ्मुखम् | अपसव्यकृत न्यासो हेतिमन्त्रेण रक्षितः || १० || मौनी कृतान्तर्यजनो मन्त्रपित्रास्त्रवर्धनीम् | तदम्बु * * * क्षेत्रे पञ्चविंशतिकोष्ठके || ११ || प्. १०९०) श्वेतैः पीतैश्च रक्तैश्च कृष्णैश्शुभ्रैर्यथाक्रमम् | पृथिव्यादि यथारूपं पञ्चवर्णैर्विभूषितम् || १२ || वंशज्वरादि संपन्ने वास्तुदेवं च विन्यसेत् | ब्रह्माणं पञ्चकोष्ठे च विन्यसेन्मध्यकोष्ठके || १३ || नैरृत्यां * * नीश्राद्धं विष्णुकोष्ठं चतुष्टये | अग्निकोणे चतुष्केपि रुद्रं ज्वलन संयुतम् || १४ || चतुष्कोष्ठे वायुकोणे वायुना समनीश्वरम् | तच्चतुष्के तथैशान्यां गगनेन सदाशिवम् || १५ || पूर्वादिदिक्स्वकोष्ठेषु नक्रादींश्चतुरो यजेत् | स्वनाम्ना च नमोन्तेन स्वाहान्तेन बलिं ददेत् || १६ || प्. १०९१) ओं ब्रह्मणे वास्त्वधिपतये नमः | इति भूमौ च विन्यस्य ब्रह्माणं विधिना यजेत् || १७ || ओं हां विष्णवे नम इति | वारि विष्णौ तु संपूज्य गोविन्दं नन्दिकेश्वर || १८ || ओं हां रुद्राय नम इति वह्निं संपूजयेदपि | ओं हां ईश्वरायनम इति वायौ चेशं समर्चयेत् || १९ || ओं हां सदाशिवाय नमः | व्योम्नि- सदाशिवेत्यादि मन्त्रैश्च ऐशान्यां वर्धनीं न्यसेत् || २० || मन्त्रं पाशुपताख्यं वै सम्यगेवं समर्चयेत् | अष्टकुम्भानि चिन्त्या च परितः स्थापयेद्गुरुः || २१ || प्. १०९२) ऐन्द्रादि चाष्टदिक्ष्वेव दिक्पालानां युधैर्यजेत् | दत्वैश्वर्यादिपीठं च स्थण्डिलाब्जगमध्यगम् || २२ || मनोन्मन्यादिवामान्त शक्तिचक्रं प्रपूजयेत् | विकीर्यतिलभस्मादि चेशं सांगं प्रपूजयेत् || २३ || प्रक्षिप्य दक्षिणे कुण्डे जनयेत्प्रागिवानलम् | ईशं संपूज्य हुत्वाग्नौ हुनेत्पूर्वावसानिकम् || २४ || प्रदक्षिणमथान्यादि कोणेषु निखनेत्क्रमात् | अस्त्रमन्त्रेण संजप्त्वा रक्तसूत्रेण वेष्टयेत् || २५ || ऊर्ध्वमूलानधोग्रांश्च शुष्ककाष्ठीयकालकान् | इन्धनैश्चितिमापूर्य सकुशैः कुसुमैस्तिलैः || २६ || प्. १०९३) पूजयेदस्त्रराजेन विपरीतघटावृतम् | प्रेतं मृद्गोमयाम्भोभिः संस्नाप्योद्धूल्य चानयेत् || २७ || दद्याद्वस्त्रोपवीतं च पूर्ववत्तानपेक्षया | अथात्र धारणाशुद्धे गन्धपुष्पादिपूजिते || २८ || महाजालप्रयोगेण जीवमादाय विन्यसेत् | ओं हुं हां हां हां हुं अमुकात्मने नमः || २९ || विद्यादेहं च तद्देहमस्तके वदने हृदि | नाभावधश्शरीरे च शान्त्यतीतादिकाः कलाः || ३० || विन्यस्य विद्यातत्वं च शक्तिचक्रं तथा शिवम् | चैतन्य सन्निधानाय शतं मूलेन होमयेत् || ३१ || प्. १०९४) समादाय निवृत्त्यादि यौगपद्यक्रमेण वै | अग्नौ संपूज्य संयोज्य शिवाद्यावाहनादिकम् || ३२ || कृत्वा त्वासन विश्लेषौ जीवस्य कर्षणादिकम् | शिवात्मानं च तत्रस्थदीक्षावत्सर्वमाचरेत् || ३३ || तन्त्राधिकारभोगं च लयं स्रोतो विनिष्कृतम् | निष्कृतिश्च तिरोधानं पशोः पाशविमोचनम् || ३४ || मर्दनं वर्तुलाकारं पादीदाहुतिकां क्रियाम् | कारणावाहनं तद्वद् अधिकार समर्पणम् || ३५ || आत्मनो मृतिकर्माणि कृत्वा गुणविवर्जिते | योजनाद्भावनानीतशिवे चैतन्यमव्यये || ३६ || प्. १०९५) स्थण्डिले सन्नियोज्याग्नौ शवदक्षिण मस्तकम् | चितावृत्तानमारोप्य विदधीतसदिन्धनैः || ३७ || सन्दीपयेच्चितां पश्चात् कुण्डमध्यगताग्निना | शिरः प्रदेशे ज्वलिते चोत्तरास्यो हुनेत्पुनः || ३८ || पूर्णाहुतिं च वह्नौ च यजेत्तन्नन्दिकेश्वर ! | त्वमग्नेर्दक्षिणः काले कालेनैवं शतं हुतम् || ३९ || गृहाणमन्त्रसंपूतां शाव्यालेतां महात्मभिः | अनेनैव तु मन्त्रेण दत्वा पूर्णाभवान्तिकम् || ४० || दीप्ताग्नौ सृक्सृवौ पश्चात्प्रक्षिपेतावधोमुखौ | वर्धनीं शस्त्रजप्तां तु वामांसे सन्निवेशयेत् || ४१ || प्. १०९६) सन्निवेश्य ततो यायात् प्रत्यग्द्वार प्रदक्षिणम् | विमुञ्चन्निक्षिपेत्तत्र यत एव समुद्धृता || ४२ || सरितश्च तटं गत्वा पश्चादनव लोकयेत् | स्नात्वा प्रास्तीर्य संदर्भानपसव्यं विधाय च || ४३ || ओं हां शुद्धात्मनीशो भव स्वाहा | ओं हां शुद्धात्मन् सदाशिवो भव स्वाहा || ४४ || ओं हां शुद्धात्मन् शान्तो भव स्वाहा | पितृतर्पणमेतैस्तु मन्त्रैः कुर्यात्समाहितः || ४५ || स्नात्वा गुरुरघोरेण शतमावर्तयेज्जपम् | द्विगुणं स्कन्धदातारस्ततो यास्यनियाश्रयम् || ४६ || प्. १०९७) तत्र देवं समभ्यर्च्य तदुद्दिश्य विशेषतः | प्रथमेऽह्नि तृतीये वा कुर्यात्संचयनं चितेः || ४७ || क्षीरपूर्णं च करकं तोयपूर्णमथापि वा | आदाय तत्र संस्थाप्य चित्या काष्ठत्रयं ददेत् || ४८ || क्रमेण पादमारभ्य शिरोन्तं ककुदीकृताम् | निश्शब्दं स्थापयेत्तस्य विधिना नन्दिकेश्वर || ४९ || तस्मात्प्रदेशमादाय सरितां नीरदेशके | निधाय विधिना खात्वा स्थापयेन्नन्दिकेश्वर ! || ५० || अथ दुर्मरणं चात्र पुनर्दहनमिष्यते | दीक्षाहीनस्य मरणे शिवदीक्षायुतस्य च || ५१ || प्. १०९८) जीवन्तोऽपि च वांछापे मृतदीक्षा विधीयते | शस्त्रैर्मृगैर्गजैश्चैव वारिभिर्विषभक्षणैः || ५२ || भित्तिवृक्षादिपतनैः हस्तनाडनभेदनैः | सर्पदंशनकैश्चैव रज्जुबन्धनमारणैः || ५३ || अन्यैरेता दृशैरेषां मरणे पूर्ववत्क्रिया | अविद्यमान देहानां तथा विकलदेहिनाम् || ५४ || क्षयकुष्ठपिशाचादिमरणे नन्दिकेश्वर ! | अपस्मारग्रहादीनां दर्शनान्मरणादपि || ५५ || ततः कुशैश्च दारुभिः पलाशोत्थैश्च पल्लवैः | षट्त्रिंशदथवा कुर्यात्प्रतिमां तु सलक्षणाम् || ५६ || प्. १०९९) पिष्टेन पञ्चगव्येन कारयेद्गोमयैस्सह | इष्टमानेन कर्तव्यं तस्यां कर्म यथाक्रमम् || ५७ || हुंफडन्तास्त्रमन्त्रेण पञ्चगव्यशिवान्तथा | किंतु सर्पिर्मधुक्षीरधाराभिस्तां च सेचयेत् || ५८ || स्वात्मदक्षिणभागे वै प्रतिमां कुसुमासने | संस्थाप्य करवीरोत्थमुकुलैन्या समाचरेत् || ५९ || यथा स्थानं च तत्वानि सर्वाण्यपि च विन्यसेत् | अथवा व्योम संस्थेन गोमयेन च भस्मना || ६० || पञ्चगव्येन संमार्ज्य प्रतिमां कारयेत्सुधीः | भूर्जपत्रे कृतं नाम लिखित्वा हृदये न्यसेत् || ६१ || प्. ११००) कूपं विचिन्त्य हृदये वामदक्षिणभागके | शुद्धां च पिंगलां चापि सुषुम्नां तत्र भावयेत् || ६२ || वामां ज्येष्ठां च रौद्रीं च शक्तित्रयसुतन्न्यसेत् | धर्माधर्मौ च कर्माणि सर्वाण्यपि च विन्यसेत् || ६३ || महाजालकमन्त्रेण संस्थितं यत्र कुत्रचित् | ओं हं हां हुं अनेन मन्त्रेण कृष्याण वामायेयं || ६४ || कर्माख्यकमलत्रयम् | एतत्तर्पणबन्धाय स्वस्वनाम्ना च होमयेत् || ६५ || पञ्चपञ्चाहुतिं कृत्वा विन्यसेन्मस्तकावधि | परं शिवं शिरो देशे शक्तिं बिन्दुं च वक्त्रके || ६६ || प्. ११०१) ललाटे तदधोनादं महेशं घण्टिकोपरि | कण्ठे सदाशिवं विद्याद्बाहुसन्धिषु विन्यसेत् || ६७ || अष्टविद्येश्वराणां तु मण्डलं वामपार्श्वके | मायां दक्षिणपार्श्वे तु कालतत्वं च विन्यसेत् || ६८ || कलां तदुत्तरे देशे हृदये नीललोहितम् | तत्रैव शुद्धविद्यां च पु * * गस्तथोच्यते || ६९ || नाभौ प्रकृति तत्वं च विन्यसेच्च यथाक्रमम् | सूक्ष्माणि पृष्ठदेशे च गुणत्रय समन्वितम् || ७० || पुरुषत्रयं नाभिमेढ्रे चान्तरं विन्यसेत्सुधीः | त्रिकस्सन्धिषु बुद्धिः स्यान्मेढ्रेऽहंकारकं न्यसेत् || ७१ || प्. ११०२) व्योमवागीश्वरीं चैव वायुं योन्यन्तरालके | चित्ते चाग्निमधोभागे वरुणं तत्र विन्यसेत् || ७२ || तत्वे वै बुद्धिगगनवायुं ज्वलनरूपिणे | पञ्चाष्टकानां रुद्राणां न्यासं तस्मादधोमहि || ७३ || तद्बहिश्शतरुद्रांश्च लोकपालांश्च तत्र वै | गुल्फाते चापि लोकादौ ब्रह्मविष्णुपितामहान् || ७४ || गुल्फादधस्तात्पातालसप्तकं विन्यसेत्क्रमात् | कुले तु नरकान्सर्वान् विन्यस्यांगुष्ठमूर्धनि || ७५ || कालाग्निमेवं स्थाने तु मूर्धाद्यंगुष्ठकान्तकम् | परश्शिवादिकालाग्नि तत्वान्यपि च विन्यसेत् || ७६ || प्. ११०३) गन्धादिभिस्समभ्यर्च्य कलां दीक्षां विधाय च | पूर्णाहुत्या शिवस्कन्तमात्मानं तु परश्शिवम् || ७७ || परिपूर्ण समग्रे च मधुक्षीरघृतप्लुतम् | पूर्णां हुत्वा च जुहुयाद् अग्नौ संपूर्णमानसः || ७८ || पश्चात्तां प्रतिमां चापि दहेत्पूर्वोक्तमार्गतः | भद्रे त्रिपदनक्षत्रे भृग्वंगार बृहस्पतौ || ७९ || दहने मरणे चैव तत्कुलस्य क्षयं भवेत् | तत्र वै दोषनाशाय पुनर्दहनमाचरेत् || ८० || तपस्सन्यासिनां चापि दामः परमहंसिनाम् | लोकाग्निमुदराग्नौ च समारोपणतः पुराः || ८१ || प्. ११०४) बाह्याग्निकार्यभावाच्च शाययेल्लक्षणैस्सह | खननेऽप्यपदं चापि दैर्ध्यं वेदकरं भवेत् || ८२ || हस्तद्वयं च विस्तारमधः खातं चतुष्करम् | अग्निकार्यं विना सर्वं कर्म पूर्ववदाचरेत् || ८३ || शिवाग्नि कार्य संयुक्तयतीनां तेन संदहेत् | खनने दहने चैव दण्डकौपीन संयुतम् || ८४ || तत्र देशेऽपि लिंगादिप्रतिष्ठामपि कारयेत् | तन्मूर्तिं वापि पीठं वा भित्तिचित्रमथापि वा || ८५ || कूटप्रासादकं वापि तत्र देशे च कारयेत् | आवाहनादिबल्यन्तं दीपान्तं वापि पूर्ववत् || ८६ || इत्यचिन्त्यविश्वसादाख्ये अन्त्येष्टिविधिद्विसप्ततितमः पटलः || प्. ११०५) अथ वक्ष्ये शिवश्राद्धमेकोद्दिष्टाख्यमेव च | आशौचान्ते दिने प्राप्ते एकोद्दिष्टं विधीयते || १ || अग्निसंचयनादेव दशाहैकादशाह्नि वा | तथैकहेतिकानान्तु कर्तव्यं श्राद्धमुत्तमम् || २ || स्वस्वजात्यनुरूपेण कर्तव्यं लौकिकं भवेत् | दशाहे द्वादशाहे च विप्रक्षत्रिय शुद्धि वै || ३ || पञ्चादशाहे वैश्यानां शूद्राणां मासमेव हि | पितृवत्सर्वजातीनां दीक्षितानां च शुद्धि वै || ४ || मासं प्रतिसमायावद् एकोद्दिष्टमिदं भवेत् | एकोद्दिष्टं विशेषेण चैकमर्घ्यं पवित्रकम् || ५ || प्. ११०६) अग्निकार्यविधिस्तत्र कर्तव्यः श्राद्धकर्मणि | श्राद्धपक्षेषु तिथिषु श्राद्धं सर्वासु साधयेत् || ६ || अनन्तेशश्च सूक्ष्मश्च शिवेशं च सुसंज्ञकैः | एकनेत्रैक रुद्रश्च त्रिमूर्तिष्विति भौतिके || ७ || त्रिमूर्त्त्यादिविलोमेन मात्रादित्रितयं भवेत् | शिवोत्तमाद्यनन्तेशात्पित्रादि त्रितयं क्रमात् || ८ || श्रीकण्ठश्च शिखण्डी च विश्वेदेवौ समीरितौ | षड्दैवतं गृहस्थानां लिंगिनां तु त्रिदैवतम् || ९ || लिंगिनो ब्राह्मणाद्याश्च श्रद्धया शिवदीक्षितः | शिवश्राद्धविहीनश्चेत् पिशाचत्वं स विन्दति || १० || प्. ११०७) द्वारे वै भस्मनिचये चान्तरिक्षे तथैव च | ऋक्षाणि त्रीणि चैकं च प्रेतभूतस्स तिष्ठति || ११ || नैष्ठिकानां विशेषेण नैष्ठिकाश्च भवन्ति वै | ईशस्सदाशिवश्शान्तः शिवश्राद्धे तपस्विनः || १२ || रुद्रश्चानातता नाम विश्वेदेवौ स्थितौ द्वयोः | निर्वाण दीक्षितानां तु रुद्रांशानामतोन्यथा || १३ || तत्र नन्दिमहाकालौ विश्वेदेवौ गणौ द्वयोः | स्कन्दचण्डगणाधीशा गणास्त्रिषु यथाक्रमम् || १४ || एवं च विधिविष्ण्वीशा विश्वेदेवा यमारुणौ | सर्वत्र पञ्चभावेऽपि पुरुषद्वयमुच्यते || १५ || प्. ११०८) शिरस्तद्धविभागेन त्रयमेकत्र कल्पयेत् | पर्वशेषेषु चाष्टम्यां मातृपक्षविधिः स्मृतः || १६ || पूर्वेद्युरादरेणैव गौरवेण निमन्त्रयेत् | आह्वाययेत्ततोन्यस्मिन्दिने सायाह्नकेऽपि वा || १७ || शुक्लपक्षे तु पूर्वाह्ने कृष्णे साद्यपराह्नके | कृतनित्यविधिश्शुद्धभावो वै * * * * * || १८ || कंकणे प्राक्समं कुर्याद्वेदाश्रं मण्डलद्वयम् | दक्षिणोत्तर संस्थानं भस्ममात्रं करान्तकम् || १९ || वारुण्यां वर्तुलं तद्वद् विश्वेदेवौ च पूजयेत् | पितृदेवं दक्षिणतः पश्चिम संस्थितम् || २० || प्. ११०९) देवद्वये यवान्दद्यात् सकुशान्पैतृयोस्तिलान् | श्वेतपुष्पैः क्रमात्तत्र चतुरश्र क्रमाद्यशेत् || २१ || यवैर्द्वयोस्त्रयाणां तु दद्यादर्घ्यं तिलैस्सह | निमित्तार्थे तिलैस्सार्धं रुण * * * दापयेत् || २२ || स्वाहा स्वधान्तकैर्मन्त्रैः स्वनामप्रणवान्वितैः | दक्षिणे वामदेवेन पादौ प्रक्षालयेन्मृदा || २३ || दद्यादाचमनं सौम्ये स्वाहान्ते तु प्रवेशयेत् | वामेन शुद्धेष्वासनेषु चैतान्नैवं निवेशयेत् || २४ || द्वयं पूर्वाननं पूर्वं ततस्त्रयमुदङ्मुखान् | द्रव्यमर्घ्याम्बुना प्रोक्ष्य प्रार्थयेत्तान्समाहितः || २५ || प्. १११०) यथा श्राद्धं करिष्येहं कुरुष्वेति समासतः | द्वाभ्या * * * जान्तेन सव्येनासनयोः कुशान् || २६ || त्रयाणामपसव्येन सर्वत्रैवं विधो विधिः | आवाहयेद्यथानाम्नः पञ्चापि तदनन्तरम् || २७ || द्वामे शाभ्यां च रक्षायै तिलैः कार्याप्यनुक्रमात् | सान्निध्यार्ध्यमघोरेण सपुष्पाम्बु कुशाक्षतैः || २८ || द्वाभ्यां त्रिभ्यस्तमीशेन दद्याद्भूमिषु जानुकः | यवैः पादादिमूर्धान्तं बहुरूपेण पूजयेत् || २९ || तिलैस्तत्रयतैन शिरः प्रभृति पूजयेत् | गन्धं पुष्पं च वामेन रूपिणा धूपदीपकम् || ३० || प्. ११११) दत्वेशेन पवित्राद्यं ब्रूयात्संपूर्णमस्त्विति | अनुक्तमन्यच्छ्राद्धांगं हृदयेनाभिमन्त्रयेत् || ३१ || संश्रावयेत्ततस्तांश्च पात्रं कृत्वा विधानवित् | पितृस्थानमसंत्यक्त्वा न्युब्जपात्रमधो न्यसेत् || ३२ || मृष्टान्नभोजनं कार्यं भक्तियुक्तो दृढव्रतः | कोद्रवं लवणं सर्वं तथा जम्बूफलानि च || ३३ || कूश्माण्डा लाबुवार्तालं माहिषं क्षीरमेव च | बीजपूरकषायाणि मरीचिं पिप्पलीमपि || ३४ || कृतं च लवणं सर्ववंशाग्रं च विवर्जितम् | वर्ज्यं च लोहितं सर्वं हित्वा कुंकुममेव च || ३५ || प्. १११२) आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च | कुलस्थं पादसंस्पृष्टं शुष्कं पर्युषितं च यत् || ३६ || पिण्याकमधितं चापि तथाति लवणं च यत् | हस्तदत्तानि तु स्नेहाल्लवणव्यञ्जनानि च || ३७ || दातारं नोपतिष्ठन्ते भोक्ता भुंक्ते च किल्विषम् | निरंगुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् || ३८ || बहिर्जानु च यद्भुक्तं सर्वमेवासुरं भवेत् | अन्तर्जानु विशेषेण तथैवाचमनं भवेत् || ३९ || उत्तरे शिवपूजा च दक्षिणे पिण्डयोजनम् | मध्ये वह्नि सपर्या वै कर्तव्या नन्दिकेश्वर ! || ४० || प्. १११३) अपसव्योपवीती च पित्रर्थे च विशेषतः | ओं सोमाय पितृमते * * * * * * * * || ४१ || सर्वपाकाग्रमादाय हुत्वाग्नौ पितृयज्ञके | आं कव्यवाहनाय स्वधा नमः * * * * * || ४२ || एतेन जुहुयादग्नौ पिण्डत्रयमनन्तरम् | पातेषु हुतशेषान्नमाददीत नरं जपन् || ४३ || एवमग्नौ च करणं मधुरान्नं घृतप्लुतम् | अघोरेण च शुध्यर्थं पुंसा दद्याच्च संस्पृशत् || ४४ || न्युब्जं सव्यतदंगुष्टं अभूतायां न संगतम् | वामं मृत्युञ्जयं वापि परितो भ्रामयेज्जपन् || ४५ || प्. १११४) अपामशनमस्त्रेण प्रदद्यात्पाणिपल्लवे | वाचंयमाः प्रभुञ्जीरंस्तेषु ध्वजमितीरिताः || ४६ || कर्ता तिष्ठेज्जपन्नीशं स्ते * * स्तादृशाननाः | भक्त्याथितींश्च संपूज्य तत्कालेनापि चालयेत् || ४७ || अन्नमादाय तृप्तास्थ मणित्वान्नमतः शनैः | तदन्नं प्रतिनेद्भूमौ दद्यादापस्सकृत्सकृत् || ४८ || उच्छिष्ट निकटे कुर्याद् गोमयेनाथ मण्डलम् | अजातेन च संदर्भान् वामेन विकिरेत्तिलान् || ४९ || त्रयं सर्वान्न पिण्डानां सतिलं दक्षिणामुखः | दर्भैः परिक्रमाद्दद्यादीशाद्यैर्मन्त्रकैः क्रमात् || ५० || प्. १११५) वामदेवेन मन्त्रेण तोयधारां विनिक्षिपेत् | पूजयेद्गन्धपुष्पाद्यैः प्रणमेन्नन्दिकेश्वर ! || ५१ || क्षमयित्वोप संहृत्य समाचम्य विधानवित् | पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् || ५२ || दद्याच्च दक्षिणां तेभ्यः कुर्यात्पात्रमुदाननः | सर्वान्प्रदक्षिणीकृत्य प्रणम्य विसृजेत्पुनः || ५३ || पंक्तिभ्यो मध्यपिण्डं च दद्यद्रुद्रसुताप्तये | ब्राह्मणायाथ वा तोये वह्नौ गो वृषभे तथा || ५४ || पिण्डांस्त्रीनपि दद्याद्वै निक्षिपेन्नन्दिकेश्वर ! | तत्तन्मनुष्याः पितरो दैत्याः श्राद्धे कृते यदि || ५५ || प्. १११६) मन्त्राः शिवान्वगाः वर्धयन्ति कुलद्वयम् | शिवश्राद्धे कृते देवाः पितरश्च विशेषतः || ५६ || वर्धयन्ति कुलद्वन्द्वं नात्र कार्या विचारणा | पश्चाल्लिंग प्रतिष्ठां वा प्रतिष्ठां वापि पैतृकीम् || ५७ || भित्तिचित्रं च वा कुर्यात्प्रतिष्ठा पूर्ववद्भवेत् | प्रासादगोपुरादीनि पूर्ववत्तत्र कारयेत् || ५८ || पञ्चावरणकैरेवं भवेदेव प्रतिष्ठितम् | अर्चनादिविशेषास्तु पूर्ववन्नन्दिकेश्वर ! || ५९ || इत्यचिन्त्य विश्वसादाख्ये शिवश्राद्धविधिपटलः || प्. १११७) अथ वक्ष्ये विशेषेण जातिनिर्णयरूपकम् | विद्यातत्वाख्यलिंगं वै मायाशक्तिश्च पीठिका || १ || आत्मनामुत्तमौ चैव विष्णुवेधाख्यरूपिणौ | पुरुषोत्तमं तु वामे तु सव्ये ब्रह्माणमेव च || २ || विद्यातत्वपदं चैव स्थितिकारणमेव च | विष्णवे च विशेषेण स्थितिकारणमेव च || ३ || आत्मतत्वाधिपत्यं च सृष्टिकर्माप्यजाय वै | ब्रह्मातल्लिंगबुध्या तु जठरे तु चराचरम् || ४ || जनयामास वै विश्वं चतुःस्मृत्वा तु पूर्वकम् | पुरुषाघोरवामेशसद्यमन्त्रक्रमात्तदा || ५ || प्. १११८) दिव्यागमाश्च वेदाश्च लिंगमूर्धन्यजायत | सृष्टौ तु प्रथमे देवा मनुष्य पशुपक्षिणः || ६ || सरीसृपाश्च वृक्षाश्च वल्लीगुल्मादयस्तथा | ब्राह्मणाख्याः समाख्याताः कवयश्चाप्यनेकशः || ७ || द्वितीयाः क्षत्रिया जाताः तृतीया वैश्यजातयः | तुर्याः शूद्राश्च वर्णाःस्युः एवं जाताश्चतुर्विधाः || ८ || जातिसंकल्पमात्रं वै तत्वतो नास्ति जातिकम् | ये जाताः शिरसोभागं पूर्वं बाहुद्वितीयकम् || ९ || ऊरु स्तृतीया पादश्च चतुर्थो दृश्यते यथा | सृष्टिरूपं ब्रह्मरूपं तस्माद्ब्रह्मांगजातयः || १० || प्. १११९) मुखे जातो ब्राह्मणः स्यात्क्षत्रियो बाहुजस्तथा | ऊर्वोश्च जातो वैश्यः स्यात्पादयोः शूद्र एव च || ११ || विद्यारक्षणमानेन कारणाद्ब्रह्मसंहितम् | क्षत्रियं रक्षणार्थाय भूतिसंरक्षणाय च || १२ || ममत्व वृद्धये चैव क्षत्रसंज्ञमुदीरितम् | धनरक्षाभिमानेन वैश्यसंज्ञत्वजातिकम् || १३ || धान्योत्पत्यै ममत्वं च शूद्रसंज्ञमुदीरितम् | नवखण्डेषु वर्षेषु भारते वर्ष एव च || १४ || जातिभेदमिदं कल्प्यमन्यदेशेषु नास्ति तत् | तस्मात्तत्कल्पनामात्रं जातिभेदमितिक्रमम् || १५ || प्. ११२०) उच्चनीचक्रमादत्र जातिभेदं च कल्पितम् | अध्ययन मध्यापनं यजनं याजनं तथा || १६ || दानं प्रतिग्रहं चैव तेषां षट्कर्म चोच्यते | प्राणिनामस्त्र शस्त्रेण रक्षां कुर्यात्तु सर्वदा || १७ || जगतः पालनं दुष्टनिग्रहं शिष्टपूजनम् | नृपाणां वृत्तिरित्युक्ता तेषां मात्सर्यसंभवे || १८ || वैश्यजातेस्तु वृत्तिश्च धनधान्यादिविक्रयम् | तेन वर्धनकं कुर्याद् दानार्थं धनकंकतः || १९ || धान्योत्पत्तिं कृषिं चापि कुर्याच्छूद्रस्तु जीवनम् | एवमादि विभेदेन वृत्तिर्वै जगतो भवेत् || २० || प्. ११२१) तेषां चतुर्ण्णां वृत्तिस्तु चान्योन्यं च न गच्छति | तस्मादुत्कर्षणाशीते त्वदतो नास्ति भेदकम् || २१ || धर्ममित्यनुलोमांश्च शृणुत्वं नन्दिकेश्वर ! | द्विजेन कन्यायां जाता * * * * * * च्यते || २२ || द्विजेनोपनीतं कुर्यान् नित्यकर्म द्विजस्य वै | अथर्व प्रोक्तमार्गेण शान्तिकं पौष्टिकं भवेत् || २३ || रथं गजं हयं चैव वाहनं तु नृपाज्ञया | आयुर्वेदमथवं च ज्ञात्वा गुरुमुखेन तु || २४ || ब्राह्मणादि चतुर्णां तु रोगान्ज्ञात्वा चिकित्सयेत् | सेनापत्यं चमूनां च कुर्यादादिव संयुतम् || २५ || प्. ११२२) एते पञ्चकुलाजाता दीक्षायामुत्तमो भवेत् | द्विजस्य वैश्यकन्यायां जातोऽम्बष्ठेति विश्रुतः || २६ || द्विजेनोपनी * * * * * कर्मसु तत्परः | ब्राह्मणादि चतुर्णां तु रोगान्हस्तेन संस्पृशेत् || २७ || सवर्णस्य नियोगेन चिकित्सां कुर्यात्ततः परम् | शल्यक्रिया च कर्तव्या पीतकं चलनं तथा || २८ || विप्रस्य शूद्रकन्यायां जातः पारशवः स्मृतः | कुलशास्त्रोक्तमार्गेण भद्रकालीं समर्चयेत् || २९ || चित्रकर्म च विद्या च नृत्तगीतं च वाद्यकम् | तथा मर्दकवृत्तिश्च मुद्राभाग्यं तथैव च || ३० || प्. ११२३) शूलं च रुद्रवाद्यं च संग्राह्यातोद्यवाद्ययुक् | गृहे गृहेऽपि * * * टेहि देहीति याचयेत् || ३१ || एवं समाचरेन्नित्यं यावदामरणान्तिकम् | नृपस्य वैश्यकन्यायां जातो माहिष उच्यते || ३२ || नृपभण्डारकर्तृत्वं वैश्यवृत्तिस्तथैव च | नृपस्यान्तः पुरे रक्षा * * * * पजीवनः || ३३ || नृपस्य शूद्रकन्यायां जातश्चोग्र इति स्मृतः | विप्रक्षत्रियविट्छूद्रशुश्रूषां कारयेत्तदा || ३४ || नृपाज्ञया तु दण्ड्याश्च दण्डयेदविचारतः | वैश्यस्य शूद्रकन्यायां जातः कारविकः स्मृतः || ३५ || प्. ११२४) लेखप्र * * * * * द्राज्ञां तेनोपजीवनम् | ब्रह्माणमर्चयेन्नित्यं गृहमध्ये विशेषतः || ३६ || ताम्बूल क्रमुकादीनां विक्रयाजीवनः पुनः | सवर्णादध उत्पन्नाः पञ्चैते चानुलोमकाः || ३७ || एते दीक्षाविधौ * * * * * स्तेद्विशेषतः | कुलसम्बन्धजातत्वा न्नयोग्याः पशवस्तथा || ३८ || कामस्य दुश्चरित्रत्वात् कल्पना च विशीर्णतः | पापभेदात्तु संजातं प्रतिलोमाद्यनेककः || ३९ || ब्राह्मण्यां ब्राह्मणस्यैव प्रमाणाद्गूढसापिहिम् | व्याख्या विप्र स्यात् तन्तुधारण मात्रकम् || ४० || प्. ११२५) क्षौद्रहिंमु तथा पूपं जलतैलं च सैन्धवम् | बीजद्रव्याणि सर्वाणि सर्जसारं च गुल्गुलु || ४१ || सर्वाणि गन्धद्रव्याणि कृष्णव्या * * * * था | अन्यानि चौषधादीनि क्रय विक्रय जीवनम् || ४२ || स एव पति संयुक्ते कुण्डाख्ये तद्वियोगतः | गोलकाख्यो भवेदेवं वृत्तिः पूर्ववदेव हि || ४३ || नृपाणां ब्राह्मणस्यैव चोराज्जातोभि | तं ज्योतिषं चैव भूततन्त्रोऽर्थनिश्चयः || ४४ || आयुर्वेदमथाष्टांगं सामुद्रीलक्षणं तथा | ज्ञात्वा सर्वं च तेनैव जीवनं नन्दिकेश्वर ! || ४५ || प्. ११२६) चौर्याद्विप्रस्य वैश्यायां जातौ वैकम्भुकः स्मृतः | मृत्पात्रं प्रतिमां चित्रसुधाकर्म तथैव च || ४६ | मोहिनीं पूजनं कुर्यात् कुलशास्त्र विधानतः | शान्तस्तारं दण्डपालहेमकेश्यर्चनं तथा || ४७ || सूतके प्रेतके वापि यजेच्चोपनिते तथा | नाभेरुद्धूलनं तेषां भक्तिरितीरिता || ४८ || चौर्याद्विप्रस्य शूद्रायां जातः शूद्रक उच्यते | वने व्याल मृगादीनां संग्रहादुपजीवनम् || ४९ || वैश्यस्य चौर्याद्वैश्यायां जनितो मणिकारकः | शंखानां विक्रयं कुर्याच्छंखानां वलयक्रयी || ५० || प्. ११२७) वैश्यकुण्डो मणिकारो गोलकः शंखकारकः | वैश्यस्य चौर्याच्छूद्रायां जातः कटकरो भवेत् || ५१ || विष्णोरभ्यर्चनं कुर्यात् कटवृत्तिस्तु जीवनम् | शूद्रस्य चौर्याच्छूद्रायां जातो मालवकः स्मृतः || ५२ || स्याख्य गजादीनां तृणभारं तु दाहयेत् | एष वै शूद्रकुण्डः स्याद्गोलको वृत्तिरुच्यते || ५३ || राज्ञः कैंकर्यकं कुर्यात् तेन जीवनमन्वहम् | चतुर्दश च संप्रोक्ता अनुलोमक्रमात्तदा || ५४ || कुलबन्धि कुम्भकारो दीक्षायामपरे समाः | प्रतिलोमं करीपश्चाच्छृणुत्वं नन्दिकेश्वर || ५५ || प्. ११२८) ब्राह्मण्यां क्षत्रियस्यैव विधिना यदि जायते | पूजितं प्रतिलोमेषु स सूतो नाम नामतः || ५६ || तस्य वृत्तिः पुराणादौ बोधनं पाञ्चरात्रकम् | विष्णुतन्त्रोक्तमार्गेण पूजयेच्च जनार्दनम् || ५७ || रथांगं च भवं चैव वाहयेच्च नृपाज्ञया | नृपस्य भोजनार्थाय कारयेत्पाचनक्रियाम् || ५८ || वैश्यस्य विप्रकन्यायां जातो मातंग उच्यते | सर्वेषां कीर्तनं कृत्वा वन्दनं च विशेषतः || ५९ || वैश्यस्य क्षत्रकन्यायां जातस्त्वायोगवः स्मृतः | वृत्तिवस्त्रं च कस्यं च क्रयविक्रयणाद्भवेत् || ६० || प्. ११२९) शूद्रस्य नृपकन्यायां जातः पुष्कल उच्यते | सोमं चैव सुरां चैव संगृह्य क्रय विक्रयम् || ६१ || मृदंगादि महाशब्दं वादयेद्गेय संयुतम् | शूद्रस्य वैश्यकन्यायां जातः स्थपति रुच्यते || ६२ || देवानां सदनं चैव विप्रादीनां गृहं तथा | रत्नकार्याणि सर्वाणि रुग्णाद्याभरणं तथा || ६३ || प्रतिमानं च सर्वेषां अस्त्रशास्त्राणि सर्वतः | पात्राणि विविधादीनि आभासं सौधकार्यकम् || ६४ || विन्यासं वास्तुदेशेषु शल्योद्धारं तथैव च | लक्षणेन कृतं सर्वं तेषां यदुपजीवनम् || ६५ || प्. ११३०) प्रतिलोम इमे प्रोक्तास्तेषां संकर उच्यते | ब्राह्मण्यां ब्राह्मणस्यैव स्वगोत्रे चैव जायते || ६६ || सोपि चण्डाल इत्युक्तस्तथाचारं शृणुष्वथ | ग्रामस्य कोशमात्रे तु वासस्तस्य भवेत्पुनः || ६७ || कुरभान्गर्दभांश्चैव कुक्कुराणां च लक्षणम् | श्मशानवस्त्रं संगृह्य तस्याच्छादनकं भवेत् || ६८ || मृत्पात्रे भोजनं कार्यमायसाभरणं तथा | गोचर्मखण्डैश्शयया च महिषस्याजिनेऽपि वा || ६९ || पूर्वाह्ने संविशेद्ग्रामं अपराह्ने न संविशेत् | गदाधरो ग्रामशुद्धिं कुर्यात्प्रेताग्रयात्रके || ७० || प्. ११३१) भद्रकाल्यास्तु यात्रायां ग्रामकार्ये तथैव च | चण्डालवाद्यं संगृह्य भक्षणं च भवेत्ततः || ७१ || सन्यासो प्रेतविप्रस्य कश्चित्पात्रेषु जातकः | सोऽपि चण्डाल इत्युक्तः तस्याचारः पुरोक्तवत् || ७२ || शूद्रस्य जातो विप्रायां चण्डालस्य प्रसिद्धिकः | पूर्वचण्डालवृत्तिः स्याज्जीवितं च तथैव च || ७३ || शूद्रस्य तु नृपायां वै जातो बैलवनामवान् | स्पृसस्सहवर्णैस्तु * * * * तं च वाद्यकम् || ७४ || सर्वेषां प्रेक्षणं चैव तेन वृत्तिरुदाहृता | शूद्रस्य वैश्यायां संजातः श्वकिकाख्यात इष्यते || ७५ || प्. ११३२) यन्त्रेण तैलाद्युत्पाद्य तैलपिण्याकविक्रयम् | क्षारेण लवणेनैव विक्रयो जीवनं मतम् || ७६ || संकरं प्रतिलोमानामुक्तं प्रत्यपि संकरम् | ब्राह्मणान्क्षत्रियाज्वैश्यान्शूद्रान्वैश्यविसन्तिहि || ७७ || तेषु ब्राह्मण वाक्यस्य विप्रायां जायते तदा | सात्यकर्णक इत्युक्ते व्यभिचारविधानवित् || ७८ || तदेव क्षत्रियायोगादादावन्तेति कीर्तितः | शत्रूणां वश्यकार्यं च मन्त्र तन्त्र क्रियादिभिः || ७९ || तस्य वृत्तिश्च कथिता वैश्यायाः पुष्पकाः स्मृतः | औषधानि च मन्त्राणि गृह्यं * * दीकांश्चरेत् || ८० || प्. ११३३) वानप्रस्थस्य वैश्यायां जातो वैखानसः स्मृतः | विष्णुं संपूजयेन्नित्यं कटवृत्तिस्तु जीवनम् || ८१ || शूद्रायां तु तथा जातः तक्षकाख्यं तु प्रेमणः | क्षत्रियस्यैव कार्याणि जीवनं तस्य चोच्यते || ८२ || प्रात्यस्य राजन्यस्यापि ब्राह्मणां च निकस्तु सः | तन्नाम खल्ल इत्युक्तं चोररूपेण केशवः || ८३ || प्रेर्यवृत्तिर्नृपाणां तु भवेत्तेनैव जीवनम् | तदैव क्षत्रियोयोगाज् जातो मल्ल इतीरितः || ८४ || अन्यराजन्यवृत्तिं तु ज्ञात्वा राज्ञे निवेदयेत् | तेन जीवनमित्युक्तं स प्रविश्य दिने दिने || ८५ || प्. ११३४) सूतिकाभवनं चैव रक्षाभूतं च कारयेत् | वैश्यायां तु ततो जातो मैत्रकाख्य इतीरितः || ८६ || सोगताश्व समाविश्य कर्तृदेवान्समर्चयेत् | तथैव वृषलीयोगाज् जातो भागवतः स्मृतः || ८७ || तस्मात्सात्विक इत्युक्तो विष्ण्वाराधन वृत्तिकः | प्रात्यवर्गस्समाख्यातः संकरात्संकरं शृणु || ८८ || विप्रचोरोग्रकन्याया जातस्सुमतिकः स्मृतः | राज्ञस्तु कुञ्जराणां तु पालनं वृत्तिरुच्यते || ८९ || द्विजस्याम्बष्ठकन्यायां जातः स्वाभिरिकः स्मृतः | अजगो महिषाणां तु पालनं जीवनं भवेत् || ९० || प्. ११३५) द्विजस्यायोगवीयोगाज् जातो हि यव उच्यते | तत्कर्मकार इत्युक्तः तेषां नाविकवृत्तिका || ९१ || विप्रस्य बैलवायोगाज्जातः कुक्कुट उच्यते | तन्तुवायक्रियां कुर्यात् तेन जीवनमुच्यते || ९२ || काणस्त्रीहेष्य संयोगाज्जातस्तु दृचिकारकः | देवानामुत्सवे यज्ञे विधिना चित्रकादिकान् || ९३ || दृढं संरक्षणं कुर्यात् तेन वृत्तिरुदीरिता | स्थपत्यम्बष्ठ संयोगाज्जातो वैणव उच्यते || ९४ || आचरेद्वैणवं वृत्तं तेन जीवनमुच्यते | वैणव स्थपतीयोगाद् आपिण्डिक इतीरितः || ९५ || प्. ११३६) राजद्रोहि मनुष्याणां बाधां कुर्याद्विशेषतः | बाह्यरक्षा तु कर्तव्या तेनैवास्य तु जीवनम् || ९६ || मागधायोगवीयोगाज्जातश्शौरुण्डनामकः | आर्द्रवं कर्तृविधिना कृत्वा मत्क्रयविक्रयम् || ९७ || व्याघ्रं मृगं शशं कृष्णं संगृहेज्जालकादिना | मांसविक्रयणं कुर्यात् तेन जीवनमुच्यते || ९८ || पुष्करे योगवीयोगाज्जातो नाविक उच्यते | तस्य नाविकवृत्तिः स्याद्यावदाजीवमेव तु || ९९ || स्थपतीयोगवीयोगाज्जातो मैत्राख्यकः स्मृतः | घण्टाताडनकं कुर्यात् प्रातरेव महाध्वनिम् || १०० || प्. ११३७) क्षत्रियाणां तु बोधार्थं तज्जीवं परमीरितम् | अम्बष्ठस्य तु विप्रायां जातो नाविक उच्यते || १०१ || विन्धौ तुरण्डकादीनां कारणं जीवनं भवेत् | अम्बष्ठस्य नृपायां तु जातो नाविक उच्यते || १०२ || चतुर्वर्णानुलोमानां वपनं नाभ्यधो भवेत् | विप्रायां महिषस्यैव जातो वैणव उच्यते || १०३ || वैणवी तस्य वृत्तिस्तु न्वन्नालीनासमन्वितम् | ब्राह्मणादि नृपाणां तु वासनं शयनादिकम् || १०४ || वर्ण सम्बन्धनं कृत्वा तेन जीवन मुच्यते | नृपायां चूचुकस्यैव जातो वैवत्स्यबन्धकः || १०५ || प्. ११३८) जालेन सूत्रयन्त्रेण मत्स्यानाहृत्य विक्रयम् | वैदेहकस्य विप्रायां जातको रजकः स्मृतः || १०६ || निर्लेपनं च वस्त्राणां तेन वृत्तिरुदीरिता | आयोगवस्य विप्रायां जातस्ताम्रक उच्यते || १०७ || ताम्रेण सर्वकार्यं तु कृत्वा तत्क्रयविक्रयम् | नृपायां योगकस्यैव जनितो बन्धकः स्मृतः || १०८ || वस्त्रदोषाद्विनिर्मुक्ता शुद्धिं कृत्वोऽथ जीवनम् | वृषल्यो ममथस्यैव जातः कुक्कुट उच्यते || १०९ || गोपुराणां तु संशुद्धिं कृत्वा तेनोपजीवनम् | अम्बष्ठायां विदेहस्य जातो बैल इतीरितः || ११० || प्. ११३९) लाटयत्पटभादीनि शुद्धिं कृत्वा तु मुष्टिना | इन्द्रजालादिलीलाश्वकुर्यात्तेनोपजीवनम् || १११ || तस्यैव निषधीयोगाज्जातस्त्वगत उच्यते | वने व्यालमृगादीनि कन्दमूलान्यनेकशः || ११२ || औषधानि च सर्वाणि विक्रयाज्जीवनं भवेत् | चण्डालस्य तु विप्रायां जातः स्यपव उच्यते || ११३ || श्मशान वासस्संवेष्ट्य चर्मणा कर्णदेशके | पूर्वाह्ने ग्राममासाद्य अपराह्ने निवेशनम् || ११४ || सर्वं मलं व्यपोह्याथ शुनां मांसं च कारकः | चर्मणा पादरक्षादि कृत्वा तत्क्रय विक्रयम् || ११५ || प्. ११४०) वैदेहस्य नृपायां तु जातिस्सूतिक उच्यते | सूचिनाबन्धयेद्वस्त्रान्यथा युक्तोपजीवनम् || ११६ || पुष्करस्य तु विप्रायां जातस्त्वापश्वभक्षकः | नष्टद्रव्याणि सर्वाणि यत्नात्संगृह्यते ततः || ११७ || गुरूल्काश्वापचेञ्चाश्व म्लेच्छादिपनकादयः | जातिभेदमिदं प्रोक्तं क्रमात्तन्नन्दिकेश्वर ! || ११८ || व्रात्यपुत्राश्च दशका दीक्षायामथ माधवाः | उत्तमानां च मध्यास्तु पञ्चपञ्चाधिमामनुः || ११९ || अधमाधमकाश्चापि दशप्रोक्ता विशेषतः | चतुस्त्रिंशच्च ये मर्त्याः कुलसम्बन्धिनस्तथा || १२० || प्. १६४१) हीनाचारयुताश्चापि क्रूरकर्मयुता अपि | हीनवृत्तियुतानेव दीक्षायां वर्जयेद्गुरुः || १२१ || दीक्षाद्ययोग्यजातीकाप्यकल्पेन च भस्मना | त्रिपुण्ट्रां कितदेहाश्चरुद्राक्षमणिधारिणः || १२२ || अमन्त्रकाः स्वयं पश्चाच्छिवभक्तियुतान्परान् | लिंगिनं च सदा भक्त्या दूरतः प्रणमादिकाः || १२३ || कृत्वाशिवालयाद्यं च स्वस्वजात्यनुसारतः | यथोचितं तथा कुर्यात्तेन स्वर्गमवाप्नुयात् || १२४ || पश्चाद्भूमौ तु संजाय दीक्षया मोक्षमाप्नुयुः | दीक्षितो विधिनोलिंगी नैष्ठिकोऽपि विशेषतः || १२५ || प्. ११४२) तस्य जातेस्तु सम्बन्धो नास्त्येवं नन्दिकेश्वर ! | भौतिकस्य विशेषेण लोकाचार समन्वयात् || १२६ || पूर्वजात्या तु वक्तव्यमिति शास्त्र विनिश्चयः | इत्यचिन्त्य विश्वसादाख्ये जातिनिर्णयविधिरष्टसप्ततितमः पटलः भूतोत्पत्तिविधिं वक्ष्ये शृणुत्वं नन्दिकेश्वर ! | जननी प्रादुर्भाव इति तद्भेदे जातिभेदकः || १ || उद्भिदं स्वेदजं चैव मण्डजं च जरायुजम् | एवं चतुर्विधं प्रोक्तं जातिभेदं ततः शृणु || २ || प्. ११४३) भूमिमुद्भिद्य संजाता उद्भिदः स्थावरादिकाः | तृणगुल्मलताद्याश्च उद्भिदश्च प्रकीर्तिताः || ३ || स्वेदजाः स्विद्यमानेभ्यो * * * * दिमत्कुणाः | स्त्रियाद्याश्च पिपील्याद्या स्वेदजाश्च प्रकीर्तिताः || ४ || अण्डजाः पक्षिणस्सर्पा गोधामत्स्याश्च कच्छपाः | नक्रा ग्राहाश्च ते सर्वे चाण्डजाश्चेति कीर्तिताः || ५ || जरायुजश्च ग्राम्यातः क्रमतस्थूनि संभवाः | जरायुजाश्च मूलं वै चौषध्या जायते भृशम् || ६ || प्राप्तकाले तु संसिक्ता भूमिरुष्म समन्विता | वायुना व्यूहमानासा व्योम्नि जीवत्वमागता || ७ || प्. ११४४) यथार्तवानि बीजानि सं * * * * * पुनः | उच्छ्रनातार्द्रदुर्भं च मूलभागमियात्क्रमात् || ८ || तन्मूलादं कुरोत्पत्तिरंकुरार्पण निष्कृतिः | पर्णनालं ततः काण्डं काण्डोक्त प्रसवं पुनः || ९ || कुसुमात्क्षीरसंपत्तिः * * * ण्डुलनिष्कृतिः | तण्डुलानां तु पाकात्तु त्रियन्त्यौषधजातयः || १० || तदायवाद्यस्सप्तदशशणान्ताश्च प्रकीर्तिताः | फलपाकावसानान्तास्तथा चौषधिजातयः || ११ || ओषधीनां रसं चैव षड्विधं परिकीर्तितम् | * * * * * संयोगाद् अनेक स्वादुतां गतिम् || १२ || प्. ११४५) भोज्यं भक्ष्यं च लेह्यं च शोष्यं पेयं च पिंच्छिलम् | मधुराम्रे च लवणं तिक्तं कटुकषायकम् || १३ || एवं षड्रस संयोगाद् अन्नं ग्राम्यास्तु भुंजते | आसाद्यामाशयं प्राप्य प्राणादि स्थापितं क्रमात् || १४ || पुनर्दग्धं भवेदन्नं वायुना च विशेषतः | अन्नांशं भुजलांशन्तु तोयासो वह्निरूर्जितः || १५ || प्राणवायुजलस्याथ शनैरग्नि * * * * | अग्निनात्वार्थ्यतेतोयं तेनान्नस्यापि पाचनम् || १६ || पृथगंश पृथक्कीटं पुनश्च द्विविधं भवेत् | किट्टं द्वादशमार्गेण वह्निरंगात्प्रवर्तते || १७ || प्. ११४६) श्रोत्रनेत्रघ्राणजिह्वा शिश्नो मेढ्रगुदं नखाः | मलाशयाः कफस्वेदौ विण्मूत्रा द्वादश स्मृताः || १८ || हृदयाम्भोजसम्बद्धाः सर्वा नाड्यस्समन्ततः | प्राणवायुश्च नाडीनां मुखे सूक्ष्मरसं क्षिपेत् || १९ || तेनापि रसनेनैव नाड्या प्र * श्च पूर्यते | नाडीनां मध्यमे प्राणशरीरः श्लेष्मणो रसः || २० || पच्यन्ते पाकमानाश्च भवेत्पाकद्वयं पुनः | रसतस्त्वक्च रुधिरं मांसं रक्तात्तु जायते || २१ || मांसं मेदतस्नायुस्नायोरस्थीनि वै क्रमात् | मज्जा तु जायते पश्चाच्छुक्लोऽप्यत त्रिधा भवेत् || २२ || प्. ११४७) अन्नस्य रेतश्शुक्लं स्याच्छुक्लाद्देहस्य संभवः | प्राजापत्य * * * नै ऋतुकाले विशेषतः || २३ || निर्दोषं योनिगं शुक्लं योषिद्रक्तेन मिश्रितम् | शुक्तान्नरान्तस्थो जीवः करणसंयुतः || २४ || गर्भाशयं प्रविशति प्रीत्या स्वैरेव कर्मभिः | एकाहामिश्रितं तत्तु कलाख्यंगं च गच्छति || २५ || कललात्पञ्चरात्रेण बुद्बुदत्वं प्रपद्यते | सप्तरात्रोविमाद्भूत्वा बुद्बुदात्पेशिकां व्रजेत् || २६ || चतुर्दशदिनात्पेशि रक्तं मांसात्मना दृढा | पंचविंशदिनात्पश्चाद् बीजांकुरसमुद्भवः || २७ || प्. ११४८) तत्पुनर्मांसमात्रेण पञ्चधाजायते तदा | शिरो ग्रीवा च स्कन्धश्च पृष्ठवंशस्तथोपरम् || २८ || पाणिपादं तथा पार्श्वं कटिर्गात्रं तथैव च | मासद्वयात्क्रमेणैव भवत्येवांगनिष्कृतिः || २९ || मासेनैव च जायन्ते सर्वांगांकुरसन्धयः | अंगुल्यश्च चतुर्मासाज्जठराणा * * शकम् || ३० || पञ्चमे मासि वक्त्रं च नासाकर्णौ तथैव च | गुह्यं च दन्तपंक्तिश्च जायते च न खांकुराः || ३१ || कर्णादीनामपिच्छिद्रं षण्मासादेव जायते | पायुर्मेढ्रमुपस्थं च नाभिर्वंशास्थिरेव च || ३२ || प्. ११४९) गात्रेषु सन्धयो ये च सप्तमे मासि जज्ञिरे | अंगप्रत्यंग संपूर्णशिरोभाग समन्वितः || ३३ || अष्टमे मासिके चैव विस्पष्टांगश्च जायते | नवमे मासि संप्राप्ते संपूर्णज्ञान वारुणः || ३४ || षड्विधेन रसेनैव मातुराहारजैः पुनः | नान्तरालेन संव्याप्तपोषजा याति नित्ययः || ३५ || सुखदुःखं विजानाति निद्रां स्वपं पुराकृतम् | जरश्चाभं मृतश्चाभः जन्मजन्म पुनः पुनः || ३६ || यज्जन्मपरजन्मस्यार्थे कृतं कर्म शुभाशुभम् | एकाकी तेन दह्येहं गतास्ते फलभोगिनः || ३७ || प्. ११५०) यदा योग्याः प्रमुद्येऽहं तं प्रपद्ये महेश्वरम् | अशुभक्षयकर्तारंपरं मुक्ति प्रदायकम् || ३८ || गर्भस्थः कीटजालैश्च पीड्यमानो मुहुर्मुहुः | येन येन प्रकारेण गर्भवासो न जायते || ३९ || तेन तेन प्रकारेण शिवस्याराधनं भवेत् | गर्भस्थश्चिन्तयन्नित्यं यदि वा निर्गतो भवेत् || ४० || इत्येवं चिन्तया खिन्नो गर्भदुःखेन पीड्यते | मोक्षं विचिन्तयञ्जीवी कर्मपाशानुगः || ४१ || बृहच्छिलाभिराक्रान्तः क्वचिद्दुःखेन तिष्ठति | जीवोपि तद्वन्महतावेष्टितश्च जरायुणा || ४२ || प्. ११५१) संसारसागरे मग्नो दुःखमास्ते समाकुलः | गर्भादिकेनच्छन्नांगव्याकुलः पुमान् || ४३ || वह्निना लोहकुंभस्तु यथा कश्चित्प्रपद्यते | अथाप्य प्रश्चिते गर्भः कुम्भे तु जठराग्निना || ४४ || प्रतप्तलोहजातीभिः विभिन्नस्य निरन्तरम् | दुःखं यज्जायते तस्य तद्गर्भेषु गुणं भवेत् || ४५ || गर्भवासात्परं वासं कष्टं नैवात्र विद्यते | अग्निघोरं महादुःखं बहुलं देहिनामिदम् || ४६ || जंगमस्थावराणां तु गर्भाणामनुरूपतः | गर्भात्कोटिगुणं दुःखं योनियन्त्र प्रपीडनात् || ४७ || प्. ११५२) संपीडितसमस्तांशो दुःखार्तोऽपि भयान्वितः | तिलषत्पीड्यमाणस्य यन्त्रेणैव समन्ततः || ४८ || गर्भान्निष्क्रममाणस्य प्रबलैस्सूतिमारुतैः | महद्दुःखं भवत्येव जायमानस्य तस्य वै || ४९ || तिलेक्षुबन्धयन्त्रेण पीडितास्सारवर्जिताः | तद्वन्निस्सारमापन्नो विवशोऽधः पतत्यसौ || ५० || अस्थिपक्षतुलास्तम्भं स्नायुबन्धनयन्त्रितम् | रक्तमांसमृदा लिप्तं विण्मूत्रद्रव्यभाजनम् || ५१ || लोमकेशतृणच्छन्नं व्याधीनां च निकेतनम् | वदनैक महाद्वारं गवाक्षाष्टकभूषितम् || ५२ || प्. ११५३) अधरोष्टिकवाटं च जिंजमिह्वार्गलावृतम् | सिरास्वेद प्रवाहं च श्लेष्म पद्मपरिप्लुतम् || ५३ || परितः क्लेशसंयुक्तं कालानल समन्वितम् | कामक्रोधेन्धनाक्रान्तं व्यसनैश्चापि मर्दितम् || ५४ || भोगतृष्णातुरं डम्भरागद्वेषवशानुगम् | संकटेनाविविक्तेन योनिमार्गेण निर्गतम् || ५५ || विण्मूत्र रक्तसिक्तांगमुद्वेन च समुद्भवेत् | प्रधानास्थीनि वै त्राणि शतान्यधिकमष्ट वै || ५६ || सार्धां च सोरोम कोट्यं पञ्चपेशिशितानि च | द्विसप्तति सहस्राणां नाडीभिरभितो वृतम् || ५७ || प्. ११५४) * * * * * * * * शुक्लं कटुबु उच्यते | मेदः प्रस्थद्वयं प्रोक्तं देहिनां नन्दिकेश्वर ! || ५८ || मूत्राणां च पुरीषाणां संख्यासख्यानमादिशेत् | इति देहं * * * * ह्येव स्यान्नित्यमात्मनः || ५९ || विशुद्धस्यापि मलिनं कर्मबन्धाद्विनिर्मितम् | शुलशोणितसंयोगाद् देह उत्पद्यते यतः || ६० || पुरीषपूर्णकुम्भस्य शुद्धिः कुत्रोपलभ्यते | शोध्यमानोऽपि देहोयं अशुचिः स्याद्वि निश्चयः || ६१ || हृद्यानि सुरभीण्याशु यत्प्राप्यशुचिर्भवेत् | अशुद्धित्वं क्षणाद्याति किमन्यदशुचिर्भवेत् || ६२ || प्. ११५५) यस्य स्रोतांसि सततं सूक्ष्मैर्नाडी मुखैस्सदा | स्रवन्ति पूति गन्धानि किमन्यदशुचिर्भवेत् || ६३ || एवंविधे शरीरेऽपि न विरज्यति कश्चन | चन्दनागरुकर्पूरकुंकुमाद्यनुलेपितम् || ६४ || न जहाति स्वकं गन्धं श्वपुच्छमिवनामितम् | सर्वदा शोध्यमानोपि शुद्धिं नैवाधि गच्छति || ६५ || जिघ्रन्नपि सुदुर्गन्धं पश्यन्नपि स्वकं मलम् | नान्यद्विरागहेतुः स्याच्छरीरादिह विद्यते || ६६ || जगत्सर्वं विशुद्धं वै देह एवाशुचिः परम् | भावशुद्धिर्विशुद्धिर्वै शुद्धये कथितं मया || ६७ || प्. ११५६) भावहीने कृताशुद्धिर्भाव शुद्धिर्विशुद्धिदा | गंगातीर्थैश्च मृद्भारैमृज्यते पर्वतोपमैः || ६८ || दीर्घकालमशुद्धः स्याद् भावशुद्धि विहीनकः | शुद्धतीर्थ सहस्रैस्तु स्नातो भावविहीनकः || ६९ || तेनापि नैव शुद्धः स्यात् श्वदृतिः क्षालितायथा | दुष्टात्मावह्नि योगेऽपि न शुद्धः कुत्रचिद्भवेत् || ७० || स्वर्गं मोक्षं च नास्त्येव केवलं देहनाशनम् | शौचं परं भावशुद्धिप्रमाणं सर्वकर्मसु || ७१ || भावेनालिंगिता भार्या दुहिता वान्यथा यथा | मानवा भिद्यते बुद्धिरभिन्नेष्वेव वस्तुषु || ७२ || प्. ११५७) नन्दिन्सर्वत्र पुत्रस्तु स्तनं ध्यायन्यथा यथा | पतिस्तदेव ध्यायन्वै कामार्द्र हृदयो भवेत् || ७३ || परिष्वक्तापि यद्भार्या भावहीना न कामयेत् | अभावेन परं तस्माद्भावस्सर्वस्य हेतुक || ७४ || चेतश्शुद्धिर्विशुद्धिर्वै किमन्यैश्शै * * * रैः | दाहशुद्ध्या च सर्वं च लभते नात्र संशयः || ७५ || ज्ञानाम्बुनामलात्पुंसां सद्वैराग्यमृदा पुनः | अविनारागविण्मूत्रलेपगन्धविशोशधनम् || ७६ || स्वभावतः शरीरे तु मलभाण्डमिदं परम् | त्वङ्मात्र सारनिस्सारं रम्भास्तम्भनिभं परम् || ७७ || प्. ११५८) एवं शरीरं यत्प्राज्ञः प्रबुद्धः शिथिली भवेत् | संसारसागरं घोरं करोत्येव न संशयः || ७८ || एवमेतन्महाकष्टं गर्भदुःखं प्रकीर्तितम् | अज्ञातशेषां पुंसां तु नानाकर्मवशात्पुनः || ७९ || यास्मृतिर्गर्भवासे तु सास्मृतिस्तु प्रणश्यति | संक्षयद्योनि मार्गेण निर्गच्छन्नवशो भवेत् || ८० || प्रणवेनैव मरुता स्पृष्टो मोहवशानुगः | स्मृतिभ्रंशश्च जायेत पूर्वकर्मवशात्तदा || ८१ || तूर्णं सन्तायतेजान्तो रतिस्तत्रैव जन्मनि | लोभेन रक्तो मूढश्च स्वमात्मानं न वि || ८२ || प्. ११५९) * * णाति परं श्रेष्ठ न जपन्नेव दैवतम् | नेत्रयुक्तोऽपि सद्वस्तु नेक्षते च कदाचन || ८३ || शुद्धे समे पथि तथा गच्छन्स्पन्दति च ध्रुवम् | संसारे क्लिश्यते लोभ मोहक्रोध वशानुगः || ८४ || व्यक्तेन्द्रियविहीनत्वात् बाल्ये दुःखं महद्भयम् | वक्तुं कर्तुं न शक्नोति स्वेचेच्छन्नपि सत्क्रियाम् || ८५ || दन्ताना मुद्गमे काले व्याधीनां दुःखमाप्नुयात् | बाल्ये तु वहुमिश्चैव बालरोगैर्विशेषतः || ८६ || क्षुद्बुभुक्षापरीतांगः क्वचित्तिष्ठति चारटन् | मोहान्मूत्रपुरीषादीन् भक्षयेद्बाल्यभावतः || ८७ || प्. ११६०) कर्णवेधे च कौडीरे मातापित्रोश्च ताडनात् | अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात् || ८८ || कामज्वरेण सन्नांगो यौवने मोहपीडितः | ईर्ष्यया च महद्दुःखं मोहात्तस्यैव जायते || ८९ || जायते तस्य नेत्रस्य दुःखमेव न संशयः | निद्रां न विन्दते रात्रौ कामाग्नि परितापितः || ९० || दिवापि सौख्यं नास्त्येव वित्तचित्तन्नचिन्तया | योषित्सक्तस्य देहस्य पुंसो ये शुक्ल बिन्दवः || ९१ || कृमिभिस्तुद्यमानस्य कुष्ठिनः पामितस्य च | कण्डूयनाग्नितापेन यद्भवेत्स्तिषु तद्विषु || ९२ || प्. ११६१) यादृशं मन्यते सौख्यं कण्डूयन विनिर्गमात् | तादृशं सौख्यमेवैति नान्यस्त्रीषु न विद्यते || ९३ || * * शगन्धसञ्जातो गन्धोपरिविनिर्मिता | तद्वत्स्त्रीष्वपि तद्विद्धि न सौख्यं परमार्थतः || ९४ || विण्मूत्रस्य सकृत्सर्गाद् यादृशं स्यात्सुखं तथा | कान्तासुतद्वज्ज्ञातव्यं अन्यैः कल्पितमन्यथा || ९५ || अवस्तभूतनारीषु पापानामाश्रयासु च | सुखं नास्ति विचारोस्ति यदि तस्य विशेषतः || ९६ || अवमानेन संमानं वियोगे नष्ट संगमः | जरया यौवनं कष्टं क्वसौख्यमनुपद्रवम् || ९७ || प्. ११६२) वलीपलितपालित्यैः शिथिलीकृतविग्रहः | अन्योन्यं यौवने प्रतिवर्धनं स्त्रीनरं प्रति || ९८ || तद्गात्रं जरया ग्रस्तं अप्रियत्वं व्रजेत्क्षणात् | जरया शिथिलीभूतं स्वमात्मानं निरीक्षयेत् || ९९ || न विरज्येतकस्तस्माद् आज्ञो नास्तीति विद्यते | पुत्रमित्रकलत्रादिबन्धुभिर्जरया वृतः || १०० || दुराचाररतैश्चैव भृत्यैश्च परिभूयते | न जीर्येताथ धर्मार्थ काममोक्षफलं पुनः || १०१ || यौवने धर्मरक्षां च कुर्यात्तन्नन्दिकेश्वर ! | व्याधीनामाकरं देहं वातपित्तकफात्मकम् || १०२ || प्. ११६३) यस्माद्व्याधिस्वरूपोयमात्मनश्च शरीरकम् | शरीरेस्मिन्मृत्युशतं शतमेकेन संयुतम् || १०३ || तेषामेकस्तु कालाख्योऽप्यन्तेप्यागन्तवामताः | आगन्तवो भैषजाद्यैः शान्तिं गच्छन्ति नेतरे || १०४ || जपहोमादिभिस्सर्वैर्न प्रशाम्यति कालजः | विविधा मृतयश्चापि शस्त्रसर्पविषाणिभिः || १०५ || नगलैराभिचारैश्च कीनाशनगृहं व्रजेत् | कालमृत्युवशं जन्तुं न कश्चिदपि रक्षति || १०६ || न तपो न जपो नार्चा नौषधा दानमेव वा | रसायनवरैर्योगैः कालं दैवत्वमाप्नुयात् || १०७ || प्. ११६४) तथापि दीर्घकालेपि कालः कालं न यत्यसौ | नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् || १०८ || नास्ति मृत्युसमो रोगः सर्वेषामपि देहिनाम् | सत्पुत्रमित्रभार्यादिराज्यैश्वर्यादिकानपि || १०९ || असार्थांश्चापि शत्रूंश्च संहरेन्मृत्युराक्षसः | प्र * * * * * * ध्य प्यशनिषष्टिरेव वा || ११० || प्रथमायुस्समारभ्य मध्ये मृत्योर्वशंगतः | मध्ये रात्रिं मृतिस्तुल्या सर्वेषां प्राणिनामयम् || १११ || बालभावेपि मोहेऽपि यौवने कामपीडितः | वार्धक्ये जरया ग्रस्तो मध्ये व्याधिशतैरपि || ११२ || प्. ११६५) कामक्रोधैश्च मोहैश्च मदमात्सर्यकैरपि | देहजैश्शत्रुभिस्सर्वैः सर्वदा बाध्यते नरः || ११३ || जीवितेऽपि ततः प्रातो बाधामूत्रपुरीषयोः | * * सार्धैश्च मध्येह्नि तृप्तौ कामेन निद्रया || ११४ || रात्रौ तु सर्वदाजन्तोः सुखं किंचिन्न विद्यते | व्याध्यादि बाधयो घोरं मरणं च स गच्छति || ११५ || ततोऽपि जन्मकोटीषु जायते कर्मचोदितः | अन्योन्य मातृपितृत्व पितृत्वज्ञातिशब्दकैः || ११६ || कलत्रभृत्यपश्वादिजातिभेदेन विद्यते | कर्मणां साहचर्याच्च ऋणमात्रादि संभवः || ११७ || प्. ११६६) तस्मान्मातृपितृत्वादिनास्ति नास्ति यथार्थतः | धर्माद्ययेपि योगं च देहेन च समाप्नुयात् || ११८ || एवं जरायुर्निर्दिष्टो स्तनोशः परमार्थतः | मृत्युदुःखं च यद्भूतं तद्वच्छतगुणाधिकम् || ११९ || ग्रवाबाधश्च यामातस्त्रातापि परितापितः | सर्पास्यगतमण्डूक इव क्रन्दन्मुहुर्मुहुः || १२० || बन्धुभिश्च कलत्रैश्च मातृभिः पितृभिस्तथा | सेवितोऽपि मुखेनैव शुष्येताति समुच्छ्वसन् || १२१ || पादान्तेऽपिशिरः कृत्वा शिरोन्ते पादमेव च | * * * * * * * * नागजालेन पड्यते || १२२ || प्. ११६७) खट्वाया भूमिमन्विच्छन् भूमेः खट्वां पुनर्व्रजेत् | शुष्कन्धपिप तोयावमानस्य मृतः कस्य भविष्यति || १२३ || एवञ्जपनार्वस्वं च मुक्तलज्जो महीतले | मूत्रविष्ठानुलिप्तांगो म्रियते मृत्युना पुनः || १२४ || घोरचोरगजाध्वानो दह्य देहं क्रमाद्व्रजेत् | मनस्विनः प्रार्थनां तु मरणादधिकं भवेत् || १२५ || क्षणिकं मरणे दुःखं अनन्त प्रार्थनावृतम् | नित्यव्याधिस्तु क्षुद्व्याधि * * * * * मिदम् || १२६ || अन्नपानमहौषद्ध्या शमं गच्छति नान्यथा | तक्षवृ विधिरत्यन्त बलसंहारकारणम् || १२७ || प्. ११६८) तदभावे तु म्रियते व्याध्यौषधमिदं परम् | व्याध्यौषधमिदं ज्ञेयं परमार्थेन पण्डितैः || १२८ || त्यक्तसंगश्च यश्शेते सर्वकार्योमृतोपमः | सौख्यं तत्र न विद्येत तमसाच्छादितात्मनः || १२९ || सौख्यं कुतः प्रबोधेपि कार्यैरूवहितात्मनः | गजाश्वसेवा वाणिज्य गोरक्षणपरिश्रमैः || १३० || अर्थार्जनाय दुःखी स्याद् रक्षणे लब्ध * * * | * * र्थेदन्नरोगादिकष्टं तत् किंकरोम्यहम् || १३१ || नष्टा गावः कृषिर्भग्ना धनधान्यविनाशिताः | कण्ठादिभिर्गृहं भग्नं पार्थिवादिशतैर्नृपैः || १३२ || प्. ११६९) बालापत्या च मे पत्नी छिन्नं वै कः करिष्यति | कन्यानां कीदृशां चैव पराचिन्ताभिभूतवान् || १३३ || कुटुम्बरक्षणं कर्तुं चिन्ता सन्तति बाधितः | तस्य ज्ञानं श्रुतिश्शीलं गुणाश्च विनयन्तथा || १३४ || आमपात्राम्बुवद्दोहैस्सार्धं नाशं व्रजत्यसौ | पार्थिवत्वे कुतस्सौख्यं कीदृशं तत्सुखं भवेत् || १३५ || सर्वेषामेव जन्तूनां समानीय भवेद्भयम् | तत्रैकार्थाभिलाषित्वं शत्रुत्वमिति कीर्तितम् || १३६ || एकमासाभिलाषित्वाच्छन्नाजीवि परस्परम् | सवैर ष्यो नृपतिः न कश्चित्सामगीतले || १३७ || प्. ११७०) मेघैश्चापि तिरस्कारो रवश्चापि क्वचित्क्वचित् | मेघाः प्रभञ्जनेनैव वायुवीर्यं च पर्वतैः || १३८ || पर्वता वह्निना दग्धा वह्निस्तोयेन निर्जितः | आदित्य पादैरम्भांसि शोषं गच्छन्ति नित्यशः || १३९ || अजस्यैकदिनं सर्वं नाशं गच्छति वै ध्रुवम् | विरिञ्चोऽप्य परैस्सार्धं परार्धद्वयकालतः || १४० || परार्धद्वयकालश्च शिवे नाशं च गच्छति | सर्वातिशयवीर्यं च नास्ति संसारमण्डले || १४१ || जगत्पतिं विहायैवमव्ययं सर्वगं विभुम् | एवं विदित्वा सर्वं वै चा विज्ञानं विवर्जयेत् || १४२ || प्. ११७१) तस्माज्जगत्त्रये नास्ति कः शूरः कश्च पण्डितः | सर्ववित्कोपि नास्त्येव मुक्तोर्ध्वापि न कुत्रचित् || १४३ || यो यद्वस्तु विजानाति सस्वस्थश्च स पण्डितश्च | सर्वत्र सर्वदा नास्ति प्रभाव सदृशः पुनः || १४४ || प्रभावः कस्य चिन्नास्ति स्थितस्सातिशयत्वतः | असुरैनिर्जिता देवा असुरा अमरैर्जिताः || १४५ || इतरेतरयोगेन स्थितौ जयपराजयौ | प्रस्थमात्रान्नसंतृप्तो वसनद्वय संयुतः || १४६ || येन शययासनं चैकं विशेषं दुःखकल्पते | सप्तभूमयुते गेहे खट्वायामेकदेशके || १४७ || प्. ११७२) निपाते विद्यते यस्मात् केशाय बहुविस्तरम् | राज्ञोतिमात्रमानं वै केशायाभरणं भवेत् || १४८ || सुगन्धलेपनादीनि मलभावं च गच्छति | गीतं सर्वप्रलपितं नृत्तमुन्मत्त चेष्टितम् || १४९ || राज्यभोगैः कुतस्सौख्यं निश्चयं च विजानतः | पार्थिवानां च सर्वेषां अन्योन्यविजिगीषया || १५० || रज्यैश्वर्यादिभिस्सौख्यं विद्यते न कदाचन | सौख्यं कुतोपि हि स्वर्गे विलोक्यातिशयस्त्रियम् || १५१ || उपर्युपरि देवानामन्योन्यातिशयस्थितिः | क्षयात्पुण्यफलानां तु नराणां पतनं भवेत् || १५२ || प्. ११७३) न किंचित्क्रियते कर्म तत्र दोषो महान्भवेत् | छिन्नमूलस्तत्कुर्यात्तद्वदवश्यं पतति क्षितौ || १५३ || स्वर्गे सौख्यं न किंचित्स्या * * * * * * * तः | स्वस्वानुभव मध्ये च पुण्यकर्मफलक्षयात् || १५४ || रौरवादिषु घोरेषु पतत्येवाथ कर्मतः | वाङ्मनः कायिकैश्चापि घोरैश्च विविधैरपि || १५५ || स्थावरत्वं प्रपद्यते तीवैश्चोदनयासनैः | कुठाराद्यैश्च शस्त्रैश्च क्लेदनैस्ताडनैरपि || १५६ || फणिशाखाफलानां तु पतनं चण्डमारुतैः | भेदनं मर्दनं चैव करिभिश्चान्यदेहिभिः || १५७ || प्. ११७४) दावाग्नि तापशोषैश्च स्थावरत्वे महद्भयम् | बहुक्षात्रं च सर्पाणां * * * खञ्चदारुणम् || १५८ || पाशेन बन्धनं चैव दुष्टानां च विशेषतः | कीटादीनां च मरणमकस्मात्तु दिने दिने || १५९ || सरीसृपाणां सर्वेषां एवं दुःखं च जायते | श्वापदानां च सर्वेषां वर्षशीतातपाद्भयम् || १६० || भारोद्वहन दुःखं च शिक्षायुद्धादिपीडनम् | स्वकीय यूथविरहो नवानयनबन्धनम् || १६१ || पश्वादीनां च सर्वेषां एवं दुःखस्य संभवः | इत्येवमादिभिर्दुःखै व्याप्तं यस्माच्चराचरम् || १६२ || प्. ११७५) निरयादि मनुष्याणां तद् * * * * व्रजेद्बुधः | स्कन्धात्तत्स्कन्धयेद्भारं विश्रमन्गच्छते यथा || १६३ || तस्माल्लोकमिदं सर्वं दुःखाद्दुःखेन शाम्यति | नानायोनिसहस्रैस्तु पुण्यकर्मवशाद्भवेत् || १६४ || स्वर्गेऽपि रोगा विविधा * * * * न संशयः | शिरश्छिन्नस्य वज्रस्य पुनस्सन्धितमेव च || १६५ || तद्वच्छिष्यशिरो रोगी यज्ञ एव न संशयः | मार्ताण्डभानोः कुष्ठित्वं जलरोगं प्रचेतसः || १६६ || रवेर्दशनवैकल्यं इन्द्रस्य स्तम्भने भुजे | भगस्यन्दि क्षयरोगी क्षयरोगित्वमेव च || १६७ || प्. ११७६) सदा ज्वरि तु दक्षो वै विष्णोः कालुष्यमेव च | ब्रह्मणश्च शिरश्छेदः सर्वेषामपि विद्यते || १६८ || बाधा कल्पे च कल्पे च लयाच्च भवति ध्रुवम् | परार्धद्वयकालान्ते ब्रह्मणो भवेत् || १६९ || दक्षस्य दारिकां पौत्रीं ब्रह्मा कामितवान्यतः | क्रोधेना जया देवी योगस्थाप्यशपत्प्रभुः || १७० || धात्रा रागादि दोषैश्च जायते तत्र वै शृणु | दुःखानि च समस्तानि स्थितान्येव न संशयः || १७१ || दुःखाभिभूतो निपतेद् दुःखादाकुलितः क्षणात् | निर्वेदाद्ग्लानिमापन्नो वैराग्यं च समाप्नुयात् || १७२ || प्. ११७७) निरीहो निस्पृशस्सद्यो निस्पृहो मोक्षमाप्नुयात् | दुःखाद्विजन्मनः पुंसां तल्लवान्मोक्षमेव च || १७३ || येन केन प्रकारेण शिवलोकं च तद्गुरुः | चतुर्दश च जन्म स्याद् देवत्वाच्चाष्टधा युतः || १७४ || पैशाचादि च संप्रोक्ता मनुष्याः पशवः पुनः | स्थावरं चैवमेतेषु चतुर्दशसु तत्र वै || १७५ || तपोभिर्धर्मिभिर्दानैः हर्षैस्तु च * * * रपि | पैशाचं राक्षसं हित्वा देवयोनिषु जायते || १७६ || पुण्यपापसमं चैव मनुष्यत्वं प्रपद्यते | ईषत्पुण्यैश्च वा पापैः स्वमायातिशयेन च || १७७ || प्. ११७८) पशुंधनत्वमाप्नोति मृगजन्ममथ शृणु | रागद्वेषैर्मृगत्वं च जायते नन्दिकेश्वर || १७८ || जन्मवैचित्र्यतः पक्षिजातित्वं च प्रपद्यते | वै गाकाःसञ्जाताः सर्पादिकृमिकीटकाः || १७९ || द्रोहात्तृणादिजातित्वं मोहाच्छोकाच्च पादपाः | एतेषां सर्वजातीनां धर्माधर्मादयोर्ध्वतः || १८० || पुण्यपापानुसारेण सर्वयोनिषु जायते | पश्वादीनां च जन्मत्वं संप्राप्तमृतिमान्नरः || १८१ || पश्चात्कीनाशनं प्राप्य तस्याज्ञा जन्मभोगदा | पृथिवीगन्धतन्मात्रा न समापद्यते तले || १८२ || प्. ११७९) रसगन्धसमायुक्तं रूपमग्नौ प्रपद्यते | रसगन्धस्वरूपाणि स्पर्शं मारुति गच्छति || १८३ || एतैश्चतुर्भिराकाशैः शब्दनन्मात्रकं व्रजेत् | पञ्चतन्मात्रकाश्चाशु मनस्तत्वं प्रपद्यते || १८४ || षडिन्द्रियाणि सर्वाणि बुद्धितत्वं समाप्नुयात् | सप्तैतानि त्वहंकारे व्याप्नोतीत्यष्टकानि वै || १८५ || पुर्यष्टकं देहमिति कल्पितं नन्दिकेश्वर | अस्य देहस्य मध्ये च पुरुषः शब्दतत्वयुक् || १८६ || शिवाज्ञया च चित्तेस्य सन्निधौ द्विविधं भवेत् | शरीरं सुकृतैश्चैव दुष्कृतैश्च तथैव च || १८७ || प्. ११८०) सुकृतैश्च सुखं देहि दुष्कृतैर्यातनातुरम् | एवं मरणमाख्यातमुत्पत्तिस्तदनन्तरम् || १८८ || पुर्यष्टकत्वमापाद्य न तस्येव पतत्यसौ | आकाशाद्वायुरापन्नो वायोर्वह्निः सृजत्यसौ || १८९ || अग्नेरापश्च संप्राप्य जलं भूमिं सृजत्यसौ | उद्भिदानां च सर्वेषां स्वेदजानां तथैव च || १९० || स्वस्वयोग्यत्वमापन्नं त्रित्वमापन्नपुत्रकम् | जरायुजश्चाण्डजश्चोपि वौषड्जानाति माप्नुयात् || १९१ || अन्नं पित्रोस्तथा भोज्यं तस्मिन्सममभूत्पुनः | रसाच्छ्रोणितमुत्पन्नं शोणितान्मांस संभवः || १९२ || प्. ११८१) मांसान्मेदश्च संजातं मेदसः स्नायुरेव च | स्नायवां मज्जा तु संजाता तन्मज्जाच्छुक्ल संभवः || १९३ || अन्नादि शुक्लपर्यन्तं क्रमादात्मापरत्यसौ | शुक्लेन सार्धं मातुश्च योनौ रक्तं पतत्यसौ || १९४ || एवं विधैस्तु मरणैः पुनर्मरणमाप्नुयात् | पुनश्च जन्म संप्राप्य पुनः पञ्चत्वमृच्छति || १९५ || इत्यचिन्त्य विश्वसादाख्ये भूतोत्पत्तिविधिरेकानाशीतितमः पटलः कालोदयं समासेन शृणुत्वं नन्दिकेश्वर | कालं ज्ञात्वा त्रिभेदैस्तु मृत्युं जयति सर्वतः || १ || प्. ११८२) कालज्ञानोदयं सर्वे योगिनः शान्तचेतसः | आयुरादौ परीक्षेत ततो विज्ञानमाप्नुयात् || २ || आयुष्यरहिते मर्त्ये विज्ञानं निष्फलं भवेत् | तस्मात्सर्वप्रयत्नेन ज्ञात्वा कालं हि योगवित् || ३ || कालोत्तरं ततः कुर्याद् ध्यानधारणयोगजम् | काले वायुस्समाख्यातः कालः सर्वज्ञ उच्यते || ४ || कालो यमश्च सूर्यश्च कालस्सोमश्च देवता | सर्वदेवमयः कालो ज्ञात्वा कालं समभ्यसेत् || ५ || मेषः कर्कटकश्चैव तुला च मकरस्तथा | चरराशय इत्युक्ता वामनासापुटे चरेत् || ६ || प्. ११८३) वृषभश्च तथा सिह्नो वृश्चिकः कुम्भ एव च | दक्षिणे नासिकाद्वारे चरेत्सम्यक् स्थिराख्यकाः || ७ || मिथुनं च तथा कन्या कोदण्डो मीन एव च | अस्वभाव स्वभावत्वादुभयत्रापि वै चरेत् || ८ || एवमभ्यासयोगेन देशिकस्योपदेशतः | अहन्यहनि चाभ्यासान्मृत्युं जयति पण्डितः || ९ || अरोगी यौवनोत्पन्नौबलीबालत्वमाप्नुयात् | इडाचन्द्रकलाज्ञेया पिंगला सूर्यसंभवा || १० || वह्नेः कला सुषुम्ना स्यादहोरात्रं च रात्रितः | घटिकाः पञ्च पञ्चैव वामदक्षिणमेव वा || ११ || प्. ११८४) विषं दक्षिणसंचारं वामं चामृतमेव च | सुषुम्ना वहते मिश्रं नाड्यां चैव पृथक् पृथक् || १२ || षष्टिन्यासे भवेत्प्राणः षट्प्राणैर्घटिकाः स्मृताः | षष्टिघटिकमहोरात्रं जीवसंख्यां करोति यः || १३ || अयुते द्वे सहस्राणि षट्छतान्यधिकानि च | अहोरात्रेण चारेण श्वासचारणमेव तु || १४ || यथा तृणं जलूकां वै तृणानां यावदागतः | तद्वज्जिह्वा निरालम्बे नासाग्रे द्वादशांगुले || १५ || हंसहंसेति चोच्छासं निश्वासं च करोत्यसौ | चतुरंगुलहानिः स्यात्तदायुर्हानिरुच्यते || १६ || प्. ११८५) अष्टांगुलं ततोच्छ्वासं प्राणायामं समभ्यसेत् | प्राणायाम विहीनश्चेन् मरणं तु विकारणात् || १७ || नाभिमध्ये कुटाकारं तन्मूलं नवखण्डके | अयनद्वयकाले तु प्रातःकाले परीक्षयेत् || १८ || आदौ दक्षिणपादं तु दिनपादं बहेदिति | ततः सव्यापसव्येन यावदस्तमितो रविः || १९ || भूतषट्सप्तवसवो ग्रहपंक्तिर्भवेत्तथा | पक्षमित्येव नाडीनां क्रमादस्तं शृणुष्व तत् || २० || षड्विवंशकरं चैव मूलभेदस्य संख्यया | त्रिंशत्तु वेदसंख्यावै पञ्चाशद्द्वे च षष्टिकम् || २१ || प्. ११८६) अशीतिश्शतसंख्या वै व्युत्क्रमोक्तस्समाःसमाः | दिनार्धं च दिनं चैव द्विदिनं त्रिदिनं तथा || २२ || चतुर्दिनं भवेद्देवं वर्मणां पञ्चविंशतिः | भानुसंख्या दशाब्दंस्यादष्टमं परिकीर्तितम् || २३ || चतुष्टयाब्दमेवं स्याद् अत ऊर्ध्वं शृणु क्रमात् | दीपनं च महागी स्याद् दशाह्ने वर्तितं यदि || २४ || पञ्चदशदिनं तद्वद् वत्यरात्रि च यैककम् | षड्विंशदिनलोपंस्यासप्तविंशद्दिने पुनः || २५ || अष्टाविंशद्दिनानां च वाहाञ्चैवायुरेव च | त्रिंशदेकत्रिंशत्त्रिंशद्दिनैस्तथैव च || २६ || प्. ११८७) भावं दिनं चरेद्वायुदशसप्त * * मकम् | चतुष्टयं च त्रिदिनं द्विदिनं दिनमात्रकम् || २७ || एवं वायोः परीक्षा तु कालेन सममुच्यते | पाध्ववह्निरतश्चाथो दण्डस्पृकचेथरा भवेत् || २८ || पार्श्वे वायुश्च मध्ये तु गमनं वायुमृच्छति | कुम्भाहो तु चतुष्टिस्याल्ललाटे चाञ्जलिर्भवेत् || २९ || तत्पद्ममुपलाकारं दर्शनाज्जीवनं महत् | प्रतिपदादि संगम्य पूर्वपक्षोपरिस्थिता || ३० || यत्र रेखाखिलं कस्यात् तद्दिने मरणं भवेत् | छाया न विष्ठा तत्रैव मरणं भवति ध्रुवम् || ३१ || प्. ११८८) धूमावलोकने चापि वह्निरूपं तथैव च | त्रिमासान्मरणं गच्छेन्निश्चयं नन्दिकेश्वर || ३२ || भूतं चतुस्त्रये द्वे च एकमासं तथैव च | इष्टसंक्रमकाले तु सूर्यबिम्बनिरीक्षणात् || ३३ || लक्ष्यं तत्वविलक्षितेन मनसा शुद्धेन भावेन दक्षं दक्षिणपश्चिमोत्तरपुरे षट्त्रिद्विमानैकतः | छिद्रं पश्यति मध्यमे दशदिनं धूमाकुलं पञ्चमं चैवं कालमनाकुलेन मनसा योगीश्वरो लोकयेत् || ३४ || कृष्णश्चेन्मासमात्रं वै चार्धे वै चार्धमासकम् | पतितश्चेत्सप्तदिनं शून्यात्सप्तदिनं भवेत् || ३५ || प्. ११८९) रवीन्दुपरिवेषं तु सूर्यबिम्बनिरीक्षणम् | अनेकभेदमासानां नक्षत्र पतनाद्यहम् || ३६ || बवृक्सं च तदर्धं च निर्धूमादेकमासतः | दिद्धूमास्तेकमासं च मण्डलानिं च चैकतः || ३७ || हेमरूपाश्च पञ्चम्ये अग्निपादाष्टमंगलैः | प्रत्यादित्यप्रभाश्च प्रत्यादित्यद्वयं तथा || ३८ || ज्योतिर्मण्डलमेकं च कृष्णाकाशोक्ततद्घितम् | भूमिधूमाद्दहाहं च भूमिघोषैस्त्रयं तथा || ३९ || पुंभावाच्चतते दृष्ट्वा मर्ते आदित्यदर्शनम् | शिरोनूनादेकवर्षं सर्वन्यूना तदर्धतः || ४० || प्. ११९०) छायाभूमास्त्रयस्त्रिंशद्द्विविहीनं पञ्चविंशतिः | कुब्जे नरश्चतुर्विंशत् शिरोनासा तदर्धकम् || ४१ || चतुर्दिवसमध्ये च सूर्यरूपं जपेत्परम् | दीपधूमात्सपञ्चम्ये सहदीपार्धपक्षतः || ४२ || अभावात्सप्तकं चैव कालरात्रिश्च पञ्चमम् | अर्धं च नवमं चैव मृत्युपा * श्रयं तथा || ४३ || एकमूर्धाबह्वरोस्त्रयोदशे मृत्युरेव च | तस्त्रस्थानेह्निमीशाश्च चत्वारि मरणं भवेत् || ४४ || कृष्णबिन्दुश्च दृश्येत मासान्मृत्युमवाप्नुयात् | गलस्थानमिम * * * दिनैर्मरणं भवेत् || ४५ || प्. ११९१) कर्णमध्ये कृष्णबिन्दुः अर्धमासान्मरिष्यते | श्रोत्रपाश्वे तु कृष्णश्चेत् पञ्चाशद्दिवसान्मृतिः || ४६ || श्रोत्रपाश्वं च कृष्णं स्याद्विंशाहान्मरणं भवेत् | दन्ते कृष्णं च दृश्येत मासान्मृत्युमवाप्नुयात् || ४७ || कृष्णबिन्दुश्च तत्रास्ति पञ्चविंशद्दिनान्मृतिः | तन्मूलं कृष्णवर्णं स्यादष्टविंशत्यहान्मृतिः || ४८ || कृष्णं तु रसनाग्रं वै चत्वारिंशद्दिनं भवेत् | कदाचित्कण्डूय * * बुद्बुदाकार शर्तनात् || ४९ || त्रिंशद्दिनं च जीवेत तवाचोभिश्च कृष्णयुक् | त्रिंशद्दिनात्तु मरणं कथितं नन्दिकेश्वर || ५० || प्. ११९२) कृष्णं नखालि हीमांचे चतुर्दशदिनान्मृतिः | पदमध्ये च खिन्नं चे * * * मृत्युमाप्नुयात् || ५१ || तयोः पार्श्वे च कृष्णं चेत्सप्तविंशद्विवान्मृतिः | पादे विषं च कण्डूश्चेत् षड्वारान्मरणं भवेत् || ५२ || तत्र रेखा च कृष्णा च दशाहान्मृत्युमाप्नुयात् | मुखं शोभाविहीनं चेत् * * * मृतिमृच्छति || ५३ || जानुर्जंघा च कृष्णा चेत्त्रयस्त्रिंशद्दिनान्मृतिः | रेखादिवर्षमेतद्धि दृष्टिकर्णद्विविंशतिः || ५४ || मूर्ध्नि कृष्णनिमीलंचेत् त्र्यहान्मरणं भवेत् | एतत्कालमहाज्ञानं श्रुत्वैतदु * * * कः || ५५ || प्. ११९३) क्षिप्रेकोपरतारेथा रपांगे चलते तथा | शब्दस्तोयनिधौ भीममपिश्वासस्य नेधनः || ५६ || अब्दे तद्दलकोदर्धसमयेमासे तदर्धे तथा | पञ्चाहे दिवसेऽह्नि जीवहरणं विद्या * तैः || ५७ || लवादिप्रलयान्तं तु कालमेवं निरीक्षयेत् | नलिनीपद्मसंहत्याः सूक्ष्मसूच्यभिवेधने || ५८ || दले दले तु यः कालः स कालो लववाचकः | लवैस्त्रुटिः स्यात्त्रिंशद्भिः कल * वत्थितं विदुः || ५९ || काष्ठा तावत्कलाज्ञेया तावत्काष्ठा निमेषकः | त्रिंशत्कलामुहूर्तं स्यादित्येवं चापि पञ्चमम् || ६० || एवं कालं विदित्वा तु कालपञ्चकमभ्यसेत् | इत्यचिन्त्य विश्वसादाख्ये कालोदयविधिः अशीतितमः पटलः || प्. ११९४) अथ वक्ष्ये विशेषेण प्रायश्चित्तविधिं शृणु | प्रायो विनाश इत्युक्तश्चित्तं सान्धार्यते तु यत् || १ || तद्विना न समाधानात् प्रायश्चित्तमिति स्मृतम् | प्रातः काले तु समये शौचमाचमनं तथा || २ || स्नानं चोद्धूलनं चापि प्राणायामादि संस्पृशः | समाहितमना भूत्वा श्रद्धाभक्ति समन्वितः || ३ || रागद्वेषादि निर्मुक्तः क्षमी ध्यानपरायणः | सम्यक् प्रत्यग्रबुद्धिस्तु प्रायश्चित्तं समाचरेत् || ४ || प्रादि पात्रसंशुद्धिं वक्ष्ये तत्र पृथक् पृथक् | वस्त्राणां शुक्ल विण्मूत्रदिग्धानां मृज्जलैरपि || ५ || प्. ११९५) क्षालयित्वा पुनः क्षारैः गोमूत्रैरपि शोधयेत् | लेपगन्धौ च न स्यातां क्तोयेन शोधयेत् || ६ || अन्येषु द्रव्यजालेषु योग्येष्वेवं समाचरेत् | आविकक्षौमकौशेयं संशुद्धं गौरसर्षपैः || ७ || पट्टानामंशुकानां च श्रीफलैःशोधनं भवेत् | अरिष्टैः कुन्तपानान्तैः चेलवच्चर्मणामपि || ८ || रज्वौ च प्राशने वापि चामराणां तथैव च | पूर्वेषां वः कलादीनां शोधनं च भवेत्तदा || ९ || वस्त्रवल्लाबुपात्राणां विदलानान्तु शुद्धये | गोवालघर्षणं चापि विशेषात्परिकीर्तितम् || १० || प्. ११९६) ताम्रकांस्यादि पात्राणां त्रिपुसीसकयोरपि | कुम्भस्थेन जलेनैव शुद्धिः स्यान्नन्दिकेश्वर ! || ११ || हैमं रूप्यं तु निर्लेपं पात्रात्तज्जलतश्शुचि | माणिक्यं मौक्तिकं शंखं प्रबालं मौक्तिकं तथा || १२ || पूर्ववद्वारिणा शुद्धिरित्येवं कथितं मया | सूतिपात्रे पिकं स्पृष्टे विष्ठामूत्रादिदूषिते || १३ || अग्नौ संयोगिनो येन क्षालयेच्छुद्धिमर्हति | तृणपाषाण काष्ठानां वलालन्दलवल्लिषु || १४ || जलप्रोक्षणतः शुद्धिर्विहिता नन्दिकेश्वर ! | उलूखले च मुसले भारवे सृक्सृवादिके || १५ || प्. ११९७) उष्णतोयेन शुद्धिःस्याच्छूर्पकेरसपात्रके | तदावेदान्तवे चापि तत्क्षणाच्छोधनं भवेत् || १६ || अन्योन्योपहतानां तु गोमूत्रेण विशोधनम् | द्रव्याणां सहितानां तु व्रीहीणां प्रोक्षणाच्छुचिः || १७ || धान्यवच्छाकमूलानां फलानां शोधनं भवेत् | कृमिकीटपतंगानां स्पर्शनान्नन्दिकेश्वर ! || १८ || जलेन प्रोक्षणाच्छुद्धिः अस्त्रमन्त्रेण सर्वदा | श्ववराहखरोष्ट्राणां स्पृष्टो वै विध्वनाहके || १९ || लेपेऽपि स्पृष्टदेशात्तु संत्याज्याम्भोभिराक्षयेत् | मक्षिकाकेशसंमिश्रे तुषांगारकसंयुते || २० || प्. ११९८) पादधूल्यादिभिश्चैव युक्तेऽप्यत्र विशेषतः | तत्स्पृष्टदेशमुत्कृत्य पूर्ववच्छोषयेज्जले || २१ || आज्याभिधारणाच्चापि भस्मना चापि शोधयेत् | गोशकृन्मूत्रवल्मीकमृत्तिकाभस्मवारिभिः || २२ || प्रासमंगेहानां शुद्धिरेतैश्च जायते | अध्यापनादिकाले वा वने चोक्तमनाः शुचिः || २३ || भूमिस्सर्वत्र मेध्यास्यात्स्वर्णरत्नादिजन्मभूः | कुत्सित द्रव्य संयोगाच्छुद्धिरत्रैव चोच्यते || २४ || नगरग्रामगमनात् पादप्रक्षालनाच्छुचिः | आलये स्फुटिते भग्ने पिण्डिका चलितेऽपि वा || २५ || प्. ११९९) स्फुटिते चापि भवने लिंगे वा प्रतिमासु वा | भित्तौ चित्रे पटेच्छिन्ने भिन्ने वंशतृणावृते || २६ || अष्टबन्धविहीने च वह्निदग्धे तथैव च | नदीप्रवाहभग्ने वा भग्ने वा * * * * * || २७ || चण्डालश्वपचान्तादिस्पृष्टे दीक्षाविहीनके | संस्पृष्टे कुक्कुटादीनां बभ्रूणां च विशेषतः || २८ || काकानां कौशिकानां च स्पृष्टौ चैव विशेषतः | खरोष्ट्रकोलमार्जारस्पर्शनं त्वंगनन्दिभिः || २९ || सूतिकैः प्रापतीश्चोरैः प्रतिलोमान्त्यजातिभिः | व्रात्यैश्च प्रेतकैश्चैवरोगजालयुतैरपि || ३० || प्. १२००) न तत्स्पृष्टैश्च मूढैश्च लिंगादि स्पर्शने तथा | नित्यपूजाविहीने च आवृतार्चा विवर्जिते || ३१ || स्नानाभिषेकहीने वै बलिदानादिवर्जिते | पुष्पगन्धविहीने च धूपपाद्यैश्च वर्जिते || ३२ || सन्ध्यादीपविहीने तु हविर्हीने तथैव च | कालातीते च मन्त्राणां व्यत्यये च व्यतिक्रमे || ३३ || पुष्पहीने शिरोदेशे स्नपनांगविहीनके | पवित्रारोपणे हीने दमनारोपणे तथा || ३४ || धृतकम्बलहीने तु शिवरात्रि विहीनके | आत्मार्थं यजने हीने तस्य भेदविहीनके || ३५ || प्. १२०१) लंघने मलनिर्माल्यतपनादिषु भेदके | महापातक संयुक्ते पञ्चपातकसंभवे || ३६ || उपवीत वियुक्ते वा नियमाचारवर्जिते | मन्त्राणां संकरे चैव चात्यैष्ट्यादि विवर्जिते || ३७ || श्राद्धहीने त्वशेषाणां निष्कृतिश्च विधीयते | स्फुटिते भिन्ने प्रासादे भवेत् कर्तृविनाशनम् || ३८ || पुंसानकं च कृत्वा तु प्रोक्षयेत्पञ्चगव्यकैः | मन्त्रन्यासादिकं सर्वं पूर्ववत्पूजयेद्गुरुः || ३९ || चलितायां पिण्डिकायां स्थानभ्रंशमवाप्नुयात् | सुस्थितं पूर्ववत्कुर्यात् सन्धयेदष्टबन्धनैः || ४० || प्. १२०२) स्नपनं पञ्चगव्याद्यैः कारयेद्देशिकोत्तमः | पीठे तु भग्ने स्फुटिते कारयेदक्षतं पुनः || ४१ || स्नपनोक्तेन विधिना स्नापयेन्नन्दिकेश्वर | भग्ने च स्फुटिते लिंगे राष्ट्र नाशो न संशयः || ४२ || रत्नजं लोजहं वापि तंविसृज्याथ पूर्ववत् | लिंगं तु तवकं कृत्वा प्रतिष्ठां सम्यगाचरेत् || ४३ || स्वयंभुलिंगे तल्लिंगवर्जनं न तु कारयेत् | पूर्ववत्स्नपनं कुर्यात् पञ्चगव्येन देशिकः || ४४ || अंगानां विकलं वापि तत्तदंशं तु पूरयेत् | संप्रोक्षणादि सर्वं च पूर्ववन्नन्दिकेश्वर ! || ४५ || प्. १२०३) वैरिणापहृते लिंगे पटे वाचादिकेप्य वा | यजमानस्य नाशः स्याद् दुर्भिक्षं च भवेत्ततः || ४६ || बालालयं च संकल्प्य तन्मध्ये कर्णिका न्यसेत् | लिंगार्चनान्तरस्यान्तं यत्नेन च परिग्रहेत् || ४७ || संप्रोक्षणादिकं सर्वं पूर्ववत्स्नपनं भवेत् | अष्टबन्धनहीने तु अनावृष्टिर्न संशयः || ४८ || पूर्ववद्बन्धनं कुर्यात् मूलमन्त्रं शतं जपेत् | प्रासादलिंगप्रतिमा * * चरूपगादिषु || ४९ || वह्निना दहनान्नं तु कालवृष्टिर्विनश्यति | पूर्ववत्स्नपनं कुर्याल्लिंगादिषु विशेषतः || ५० || प्. १२०४) पटञ्चेदन्यथा कृत्वा प्रतिष्ठा पूर्ववद्भवेत् | चित्रं रूपविहीनं चेत् पुनश्चित्रं समालिखेत् || ५१ || संप्रोक्षणादिकं सर्वं पूर्ववत्स्नपनं भवेत् | चण्डालाद्यैस्तु संस्पृष्टे वैरिभिर्भयमुच्यते || ५२ || स्नपनं प्रोक्षणादीनि पूर्ववन्नन्दिकेश्वर ! | शतमावर्तयेदाशु मन्त्रं पाशुपतं गुरुः || ५३ || नित्यपूजाविहीने तु जनता दुःखमाप्नुयात् | एकसन्धिविहीनेन द्विगुणं चार्चयेत्पुनः || ५४ || हीने तु * * * * * हुनेत्पूर्वं सहस्रकम् | सन्धित्रयविहीने च पञ्चगव्येन सेचयेत् || ५५ || प्. १२०५) पूजाहीने त्र्यहे तत्र स्नपनं पूर्ववद्भवेत् | पञ्चांहे स्नपनं कृत्वा ब्रह्मांगैर्होममाचरेत् || ५६ || पक्षहीने तु गव्येन सेचयेत्स्नपनं तथा | मासैकं पूजनाहीनं यदि गव्याभिषेचनम् || ५७ || पूर्ववत्स्नपनं कुर्यात् गन्धतोयादिभिः पुनः | पञ्चब्रह्म षडंगैश्च जुहुयान्नन्दिकेश्वर || ५८ || मासादूर्ध्वेर्चनाहीने संप्रोक्षणमथाचरेत् | आवृतार्चनहीने स्यात् भृत्यवर्गस्य नाशनम् || ५९ || तत्तन्मन्त्रमनुस्मृत्य हुनेदष्ट सहस्रकम् | बलिदानविहीने तु न प्रीताः सर्वदेवताः || ६० || प्. १२०६) बलिमन्त्र मनुस्मृत्य जपेदष्टोत्तरं शतम् | स्नानतो यविहीनं चेद् अनावृष्टिर्भवेत्क्षणात् || ६१ || मूलमन्त्रं शतं जप्त्वा जलं तद्द्विगुणं भवेत् | गन्धद्रव्यविहीने तु बालानां नाशनं भवेत् || ६२ || हृदये नैव मन्त्रेण जपेदष्टोत्तरं शतम् | पाद्यादि द्रव्यहीने तु महामारी प्रवर्तते || ६३ || पञ्चब्रह्मषडंगैश्च जुहुयाच्छतमष्टकम् | सन्ध्यादीपविहीने तु दृष्टिरोगश्च जायते || ६४ || नेत्रमन्त्रं शतं जप्त्वा दीपं द्विगुणमाचरेत् | हविर्हीने तु दुर्भिक्षं द्विगुणं तत्तु दापयेत् || ६५ || प्. १२०७) हृदयेनैव मन्त्रेण हुनेदष्ट सहस्रकम् | संध्यातिक्रमयुक्तं चेद् वैरिभिर्भयमाविशेत् || ६६ || अघोरास्त्रेण जुहुयाच् छतमष्टोत्तरं गुरुः | स्नपनांगविहीने तु महावातश्च जायते || ६७ || अस्त्रेणैव शतं जप्त्वा पश्चात्प्रतिनिधिं ग्रहेत् | अदीक्षितानां संस्पर्श लिंगं वा प्रतिमां तु वा || ६८ || देशस्य नाशनं विद्यात् पञ्चगव्येन सेचयेत् | पवित्रारोपणे हीने परचक्राद्भयं भवेत् || ६९ || स्नपनं पूर्ववत्कुर्यात् सर्वसिद्धि समृद्धये | उक्तमासे तु तदृक्षे चोत्सवं न कृतं यदि || ७० || प्. १२०८) पुनरुत्सवकं कुर्यान् मूलमन्त्रं शतं हुनेत् | परार्थमेवं युक्तं तद् आत्मार्थे शुद्धिरुच्यते || ७१ || आत्मार्थे च परार्थे च व्यामिश्रं च शृणु क्रमात् | राजचोरभयादौ च देहे व्याध्यादि बाधिते || ७२ || देवाग्नि गुरुकार्येषु नित्यहानिर्नदोषभाक् | विरक्तस्य गृहस्थस्य प्रायश्चित्तं द्विधा भवेत् || ७३ || गृहस्थाद्द्विगुणं प्रोक्तं नैष्ठिके च विशेषतः | आषोडशान्तं बालः स्याद् अशीत्यादिशतान्तकम् || ७४ || स्थविरश्च भवेदेवं प्रायश्चित्तं तयोर्नहि | रोगार्ताश्च स्त्रियश्चापि प्रायश्चित्तार्धयोग्यकाः || ७५ || प्. १२०९) तत्रापि च परिक्लेशान् ज्ञात्वार्धार्धं च कारयेत् | स्वयं कर्तुमशक्तश्चेद् अन्येन द्विगुणं भवेत् || ७६ || देशकालाद्यवस्थाभिर ज्ञानभक्तिक्रियादिभिः | पुण्यक्षेत्रस्य देशं स्यात् गुरुदीक्षार्णदेशकाः || ७७ || विषुवायन पूर्वादि * * * काल एव वा | राष्ट्रदोषभयं चैव रिक्तव्याध्यादिरेव च || ७८ || एवमाद्याह्यवस्थाश्च अलभ्या इति कीर्तिताः | देशिकस्तु विचार्यैव कारयेत्तदनन्तरम् || ७९ || शैवाचाराविरोधेन यथा दृष्टं यथा श्रुतम् | गुरुभिः कल्पितं यत्तु तद्वतिश्चात्र दोषकृत् || ८० || प्. १२१०) गृहस्थस्यापि दानं च पूजां रात्रौ विवर्जयेत् | चन्द्रोपरागविषुवपुण्यकालायनेषु च || ८१ || रात्रौ च यजनादौ च कर्तव्यं बहुसिद्धिदम् | अन्यकाले गृहस्थस्य रात्र्यर्चा दोषमावहेत् || ८२ || शतमष्टोत्तरं वापि गायत्र्या जपमाचरेत् | रात्रौ पूजादिना चैव नैष्ठिकस्यापि सर्वदा || ८३ || एकस्यापि विलोपे तु सद्योजातशतं जपेत् | द्विसन्ध्यालोपके चैव त्रिशतं जपमुच्यते || ८४ || कामतश्च भवेत्सर्वमुपवासं चरेत्क्रमात् | एककालार्चने हीने जपेद्घोरसहस्रकम् || ८५ || प्. १२११) कामतस्सोपवासं स्याद् * * * द्वित्रिकालकम् | एकाहमेवं संजप्य द्वितीये वासरेऽपि च || ८६ || सहस्रं वर्धयेन्नन्दिन् त्रिदिने त्रिशतोत्तरम् | एवं तु वर्धयेद्धीमान् दिनं प्रति दिनं प्रति || ८७ || पक्षपूजाविहीने तु बहुरूपायुतद्वयम् | वर्धयेत्प्रतिमासं तु द्विशतोत्तरवृद्धितः || ८८ || चोरमूषिककाशादिश्वानवानरकादिभिः | सर्पमत्स्यादिभिश्चैव ग्रहे नष्टे तथैव च || ८९ || दग्धे बिलादिलग्ने तु दृष्टे चात्मार्थलिंगके | एकाहमुपवासं च पश्चान्नक्ताशनी भवेत् || ९० || प्. १२१२) अघोरं लक्षं संजप्याद् द्वि * * * गकान्तरम् | गुरुणादत्तं लिंगं च ज्येष्ठेनापि तथैव च || ९१ || अन्यलिंगं तु संगृह्य पूर्ववद्विधिना यजेत् | एवं च पिण्डिकानां तु प्रतिष्ठाप्याथ पूजयेत् || ९२ || लुलितेमंग सहस्र द्विगुणात्परिवर्तने | लाक्षान्बन्धुच्यते शुद्धिस्त्रीचतुर्लुठिते युतात् || ९३ || गण्डूककलशाद्यादिताडनायुश्चतद्वयम् | अयुतं मदपाते तु च्युतमानमनन्तरम् || ९४ || मृदुप्रदेशसाधारे * ता * लयुतं तथा | अच्छिन्ने च निराधारे द्विगुणं बहुरूपकम् || ९५ || प्. १२१३) अष्टतालाच्च्युते लिंगे विशीर्णे वा कलाशया | कामात्तु वेधने चापि प्रायश्चित्तं ततो नहि || ९६ || प्रासादं सर्वमेवं स्यात् प्रायश्चित्तोऽथ विद्यते | महापापविनाशे तु बहुरूपं प्रशस्यते || ९७ || कामतो लुठितं चैव पातनं तु विशीर्णकम् | न तस्य प्रायश्चित्तं वै महापातकिनस्तु वै || ९८ || पादस्पृष्टे तु लिंगे तु स्पृष्टे श्लेष्महतेऽपि वा | अघोरद्व्ययुतं चैव त्र्ययुतं च जपेत्पुनः || ९९ || द्विजात्यदीक्षित स्पर्शे लिंगे जप्यं चतुश्शतम् | बाह्यस्पर्शे तु साहस्रं प्रतिलोमे तु लक्षकम् || १०० || प्. १२१४) काकादिवर्ग संस्पृष्टेऽप्ययुतद्वयमुच्यते | कपालैर्भरन्नैश्चैव परमार्गसमन्वितैः || १०१ || महाव्रतयुतैश्चैव स्पृष्टे लिंगे चतुश्शतम् | स्पृष्टे पाशुपतैश्चापि चतुश्शतमथो जपेत् || १०२ || लिंगं च वेदिकां चापि विभज्य स्थापनं यदि | लक्षं तु बहुरूपेण जपं कुर्याद्विशुद्धये || १०३ || आत्मार्थे च परार्थे च लिंगं वै संयुतं यदि | राजादिभिश्चतुष्पादैर्घोरैश्चैवादिवातमे || १०४ || सन्त्यज्य तत्वदेवांगं जप्त्वाघोरं दशायुतम् | अन्यलिंगं प्रतिष्ठाप्य पूजयेन्नन्दिकेश्वर || १०५ || प्. १२१५) अग्निकुण्डे तु संस्थाप्य दक्षिणाभिरतस्य च | निर्वाणमुपगच्छेत एकरात्रमुपोषितः || १०६ || सहस्रं बहुरूपं तु जपेद्वै तस्य शान्तये | त्रिरात्रं दशसाहस्रं जपाच्छुद्धिश्च जायते || १०७ || न पूजितं त्रिसन्ध्यं तु तथैकादशिकात्रयम् | विशुद्धिं तेन चाप्नोति स्नानहीनतां जपेत् || १०८ || देवेप्य पूजिते पूर्वे गुरौ वह्नौ च भकिततः | बलिदानविहीनेऽपि मूलमष्टशतं जपेत् || १०९ || नियमस्य व्रतस्यापि क्रियायाश्च विलोपनम् | अष्टोत्तरशतं जप्यं गायत्रीं च विशेषतः || ११० || प्. १२१६) चतुर्दश्यथके पर्वे नित्यपूजाविहीनके | चतुगुणं भवेत्तन्तु प्रायश्चित्ताद्विशुध्यति || १११ || ग्रहणे विषुवे चैव न कृतं पूजनं यदि | अघोरमयुतद्वन्द्वं जपेत्तस्य विशुद्धये || ११२ || शिवरात्रि विहीने तु मूलं लक्षजपं ततः | तद्दिने सन्धिहीने तु चाष्टकृत्वो जपं भवेत् || ११३ || पूर्वं पवित्रं कार्यं स्यान् मध्ये चैव न कारयेत् | अघोरं लघुयुग्मं च जप्त्वा चान्द्रायणं जपेत् || ११४ || शिवनिन्दागुरोर्निन्दा ज्ञानिनिन्दा तथैव च | देवस्वहरणे युक्तो गुरुद्रव्यविनाशनः || ११५ || प्. १२१७) तद्द्रव्यहर्ता सुरापी च गणभक्ता तथैव च | कृतघ्नो ज्येष्ठबाधा वा दशैतेऽत्यन्तपापिनः || ११६ || मरणान्तावधेश्शुद्धिस्तेषां तत्रापि लक्ष्यते | शिवनिन्दारतस्यैव चान्द्रायणयुगं चरेत् || ११७ || शिवमन्त्रं जपेल्लक्षदशकं च विशुद्धये | गुरुनिन्दारतो वापि गुर्वनुग्रह पूर्वतः || ११८ || चान्द्रायणद्वयं कुर्याद् बहुमन्त्रेण पूर्ववत् | शिवज्ञानस्य निन्दायां पूर्ववन्नन्दिकेश्वर || ११९ || देवस्वहर्ता तद्द्रव्यं द्विगुणं तस्य दापयेत् | चान्द्रायणजपादीनि पूर्ववत्कारयेत्क्रमात् || १२० || प्. १२१८) गुरुद्रव्यविनाशे तु तस्मै द्विगुणितं ददेत् | चान्द्रायणद्वयं कुर्यात् पूर्ववज्जपमुच्यते || १२१ || प्रीत्या गुरोश्च शिष्याय यद्दत्तं तत्सुखावहम् | सुरापस्य विशुद्धिस्तु कालान्तेन न विद्यते || १२२ || सुरां तप्त्वाग्निवर्णाभां पाययेन्मरणं ध्रुवम् | तेन शुद्धिस्तु विहिता गुणतत्तर विद्यते || १२३ || त्रिलक्षं शिवमंत्रं च चान्द्रायणमथाष्टकम् | आचरेद्येन शुद्धिः स्यात् प्रमादाद्यदि तस्य तु || १२४ || कृतघ्नो ज्येष्ठ बाली च गुरुनिन्दासमं भवेत् | गुरुतल्पगतस्यापि गुरोरग्रे प्रिये रतः || १२५ || प्. १२१९) तस्याग्रेऽप्यन्तकोपी वा स्वर्णस्तेये तथैव च | एते वै पञ्चकास्तेऽपि महापापसमन्विताः || १२६ || गुरुतल्पाभिगमनी लिंगं स्वं शस्त्रतो हरेत् | तालपत्रयुतो गच्छेद् दक्षिणां ककुभं प्रति || १२७ || मरणान्ते च गमनं तेन शुद्धिर्भविष्यति | पुरस्ताद्देशिकस्यापि तथैवाप्रियवादकम् || १२८ || जिह्वायाश्च्छेदनं कुर्यात्तेनैव मरणं भवेत् | अथवानुग्रहात्तस्य गुरोश्शुद्धिर्विधीयते || १२९ || गुरुनाम जपेन्नित्यं मौनी तज्ज्ञानतत्परः | एनमामरणात्कुर्यात् तेन तस्यापि शुद्धिभाक् || १३० || प्. १२२०) तद्वज्ज्येष्ठप्रिये युक्तं चान्द्रायण समन्वितः | मौनी देहं त्यजेत्पश्चात् तेन शुद्धिश्च जायते || १३१ || विप्रादि जाति स्मरणं नैष्ठिके वचनं यदि | शिवनिन्दासमं ज्ञेयमघोरं लक्षकं जपेत् || १३२ || विण्मूत्र शुक्लसंपर्काच्छरीरं न च शुद्धियुक् | तद्वाणव मायोत्थतथर्माद्यशुपासनात् || १३३ || ज्ञानिनो यदि तल्लोपादशुचित्वं प्रपद्यते | शिवानुभूताध्ययनादानन्दाच्छुद्धिमाप्नुयात् || १३४ || तपोवनादि संयुक्तः प्रायश्चित्तं समाचरेत् | सुमहत्पातुकाद्यन्ते चोपपाता व सानिकम् || १३५ || प्. १२२१) विलोक्य व्रतकृच्छ्रादि तीर्थक्षेत्रादिवेशनम् | अग्रेऽपि चोग्रतपसा चाल्पे चाल्पे च वैभवम् || १३६ || तपः कृच्छ्रादयोप्युक्तास्तप्तकृच्छ्रास्तथैव च | अतिकृच्छ्रं तृतीयं स्यात्परा कश्चित्स्वरूपकम् || १३७ || चान्द्रायणशतं पश्चात् क्रमात्कृच्छ्रादिकं शृणु | त्रिरात्रमेकभुक्तिस्तु त्रिदिनं वोपवासनम् || १३८ || कृच्छ्रमेव समाख्यातं प्राजापत्यमिति स्मृतम् | उष्णाम्बु त्रिदिनं पीत्वा क्षीरभोजी जितेन्द्रियः || १३९ || सोष्ण्यमाज्यं त्र्यहं वाद्य त्रिदिनं केवलोदकम् | तप्त कृच्छ्र इति ख्यातमतिकृच्छ्रमथोच्यते || १४० || प्. १२२२) एकविंशतिनक्षत्रं त्रिपक्षं क्षीरभोजनम् | अतिकृच्छ्रस्समाख्यातः पराकस्त्विह कथ्यते || १४१ || द्वादशाहो निराहारः पराकाख्य इति स्मृतः | मासार्धं ग्रासवृद्धिः स्याच्छुक्ले कृष्णेऽवभासयेत् || १४२ || चान्द्रायणं यवामर्धं पिपीलाख्यं ततः परम् | मासार्धं ग्रासमासेस्याध्रासंशुक्ले च वर्धयेत् || १४३ || चान्द्रायणमिति प्रोक्तं जलेनैव जलात्मकम् | सायमाद्यन्तयोरह्वः सायं प्रातश्च मध्यमे || १४४ || चरिष्णुरुपवासं च जलं भुक्तं चतुष्टयम् | मध्यमस्त्वितयं वाथ तदर्धं नादमेव वा || १४५ || प्. १२२३) उपवासस्समाख्यातो गंगादीनां हि तीर्थकम् | व्रतं वै ब्रह्मचर्यादि भोजनं तत्र कथ्यते || १४६ || हविष्यं च मितग्रासं भिक्षान्नं क्षीरभोजनम् | शकं यावकपिण्याकं कन्दमूलपलाशनम् || १४७ || वायवादिरं निराहारं एवमादि समाचरेत् | यस्मिन्विधिनिषेधोवा नास्ति कर्मण्यनुष्ठिते || १४८ || तस्मिन्पुण्यं च पापं च नेति शास्त्रार्थ निश्चयः | प्रायश्चित्ते हुतादीनां शान्तिं सद्यस्समाचरेत् || १४९ || दिनपक्षार्क्षलग्नादीन् प्रेक्षणं चैव कारयेत् | सद्यः कृतं रत्नगर्भप्रायश्चित्तं न शस्यते || १५० || प्. १२२४) मध्यं सप्तदिनादूर्ध्वं पक्षाहादथवा भवेत् | मासावसानकं यत्तु हीनं तथैश्चर || १५१ || * * * * * * * * * * * च विशेषतः | आत्मार्थे च गुणं प्रोक्तं प्रायश्चित्तविधौ तदा || १५२ || स्वाहान्तं होमकाले च जपकाले नमोन्तकम् | स्वाहान्ते भगवत् क्षोभवंशपदं पुनः || १५३ || * * कुर्विति संयुक्तं प्रतिमन्त्रं दशान्तरम् | पश्चादनन्तरं पापी शतंमन्त्रान्तरं तु वा || १५४ || संजप्य जपकाले तु होमकाले विशेषतः | पूर्णाहुतिं च जुहुयाद् विधिना नन्दिकेश्वर || १५५ || प्. १२२५) एकत्रिपञ्चसप्ताहान्न * * * * सप्तकैः | पक्षत्रिसप्तनक्षत्रे अविच्छिन्ना यतस्ततः || १५६ || लक्षजापे तु कर्तव्यमधिके वर्धयेत्पुनः | आत्मार्थलिंगमन्येन पूजितं वा स्वयं पुनः || १५७ || प्रायश्चित्तं तु कर्तव्यं शास्त्रोक्तेन जपादिना | नैष्ठिकोपि हरिद्रां च ताम्बूलं यदि सेवते || १५८ || दिनं प्रति सहस्रं वै दक्षिणं तु जपेत्क्रमात् | सप्ताहादूर्ध्वमेवं स्यात्कृच्छ्रमेकं चरेत्सुधीः || १५९ || नैष्ठिकः शिविका डोलातुरंगाद्यधिरोहणात् | अघोरं तु सहस्रं स्याद्दिनं प्रतिदिनं प्रति || १६० || प्. १२२६) व्याध्यादौरोहणाद्धूद्यो न दोषाय कदाचन | शिवद्रोहे गुरुद्रोहे ज्ञानिनिन्दादिनि व्रते || १६१ || रौरवादिक्रिये चैव तत्तद्भेदे तथैव च | अष्टाविंशति कोटीनां नरकेप्यतिदारुणे || १६२ || आजन्मतारको नित्यं व्याधितो भवति ध्रुवम् | सुमहत्पातंशकृथमे तत्कालार्धं तु पीड्यते || १६३ || तद्दशांशं तु कालः स्यात् * * * * दि पञ्चके | तत्समे तु तदर्धं स्यान्निरये वसतिस्सदा || १६४ || मृगपक्ष्यादिहननेप्युपपातकसंभवे | * * * * * * * * सहस्रं वसति ध्रुवम् || १६५ || प्. १२२७) तत्समे तु तदर्धं वै नरकीपीडनं भवेत् | तस्मात्सर्वप्रयत्नेन पातकादीन्विसर्जयेत् || १६६ || पुनर्जन्म न विद्येत दीक्षितस्य विशेषतः | पापान्नरकसंप्राप्तिस्तस्मात्पापं न कारयेत् || १६७ || शान्तिके पौष्टिके वापि प्रायश्चित्तादिके जपे | वश्यं पूर्वमुखं चैव दक्षिणं चाभिचारकम् || १६८ || धनदं पश्चिमं विद्याद् उत्तरं शान्तिदं भवेत् | उष्णीषं कञ्चुकीनाशो मुक्तकेशोदलावृतः || १६९ || अपवित्रकरोऽशुद्धो * * * नं जपेत्क्वचित् | जृम्भानिष्ठीवनं चैव क्षुतमर्दन तन्त्रिका || १७० || प्. १२२८) नीचान्त्य दर्शनं चैव वर्जयेज्जपकर्मणि | आचमनं भवेत्तेषां स्मरेद्वामामुमान्वितम् || १७१ || नक्षत्राणि च पश्येद्वा कुर्याद्वा प्राणयामकम् | * * * नश्शयानोवा गच्छेदुत्थित एव वा || १७२ || रथ्यायामशिवे स्थाने चान्धकारे विशेषतः | पादौ प्रसार्य न जपेत् कुक्कुटासनको नवः || १७३ || यानशययादिरूढो वा चित्तव्याकुलसंभवः | सुशक्तश्चेत्सर्वमेव शक्तयश्शक्तितो जपेत् || १७४ || आदौ योगे भवेदन्ते पल्लवस्संपुटद्वयोः | ग्रथनोन्तरितः प्रोक्ता विदर्भो द्व्यन्तरीकृतः || १७५ || प्. १२२९) मध्याद्यन्तचरोयः स्यात्साध्यनामा * * * * | तम्भनं रोधने विद्यादाकृष्टौ स्याद्द्विदर्भनम् || १७६ || उच्चाटे मारणे कार्यः पल्लवश्च विशेषतः | अनिर्दिष्टमसंज्ञं च यत्कृतं तद्वृथा भवेत् || १७७ || यमुद्दिश्य कृतं कर्म तस्य सिद्धिदमुच्यते | मोक्षे प्रायश्चित्तेषु सप्तत्तुषु जपं भवेत् || १७८ || ग्रीष्मे उद्वेषणं कुर्याद् वर्षासूच्चाटनं भवेत् | मारणं शिशिरे कुर्यात् तथान्यानि वसन्तके || १७९ || पूर्वाह्ने शान्तिकं प्रोक्तं मध्याह्ने तु जयार्थकम् | उच्चाटनं पराह्ने स्यान् मध्याह्ने शैशिरं तु वा || १८० || प्. १२३०) हेमन्ते कर्मपूर्वाह्ने मध्याह्नेऽपि प्रशस्यते | अर्धयांमोत्तरे काले हेमन्ते कर्म शस्यते || १८१ || अर्धयामोत्तरे यामे अपराह्ने तु * मकम् | चारदं चार्धरात्रे स्याद् वासन्तं सार्धवाधके || १८२ || शान्तिस्सर्वत्र श * * * * * * * * * * | || चिन्त्यः समाप्तः || प्. १२३१) योगजमहोत्सवः अथ वक्ष्ये विशेषेण शिवोत्सवविधिक्रमम् | सर्वदोषनिवृत्त्यर्थं सर्वलोक सुखावहम् || १ || सर्वदेव प्रियार्थं स्यात् सर्वप्राणि सुखावहम् | राष्ट्रस्य सस्यफलदं भुक्तिमुक्ति फलप्रदम् || २ || राज्ञां च विजयस्यार्थं सर्वरक्षार्थ साधनम् | उत्सवं कॢप्तभेदं च पुष्कलं विजयान्वितम् || ३ || स * * * त्युच्यते वाचा * * शब्दभाषितम् | उद्भूतसृष्टिकारित्वाद् उत्सवः कथितः क्रमात् || ४ || प्रतिष्ठोत्सवविधिश्चैव मासोत्सव विधिक्रमः | अमावास्यां समारभ्य मासोत्सवं तथैव च || ५ || प्. १२३२) वसन्तोत्सव विधिं चैव पुष्यमासेष्विदं तथा | चैत्रमासे त्रयोदश्यां मासनक्षत्रमेव च || ६ || वैशाखे तु विशाखान्तं वसन्तोत्सवमेव च | सर्वमासे तु कर्तव्यं महोत्सवविधिक्रमः || ७ || निश्चित्यमासनक्षत्रे कथितमुत्सवं तथा | षोडशं सर्वरक्षार्थं चैत्रं द्वादशकं तथा || ८ || सौख्यं नवदिनं प्रोक्तं सप्ताहं श्रीकरं भवेत् | पार्थिवं पञ्चदिनं चैव द्व्यहं वृद्धिकरं तथा || ९ || एकाहं शिवमेवोक्तं उत्सवं कारयेद्बुधः | सप्तविंशति नक्षत्रं ध्वजारोहण पूर्वकम् || १० || प्. १२३३) भेरीमादौ समारभ्य अष्टादशदिनं भवेत् | अंकुरार्पणकं पूर्वं ध्वजं पश्चात्समर्चयेत् || ११ || भेरीं तु ताडनं कुर्याद् अस्त्रदेवार्चनं भवेत् | सर्वेषामुत्सवं कुर्यात् पूर्वं वृषभमर्चयेत् || १२ || तद्दिनात्पूर्वरात्रौ तु वृषयागं समाचरेत् | प्रतिष्ठादिक्रमेणैव मण्डपं तु प्रकल्पयेत् || १३ || ध्वजस्य लक्षणं चैव कार्पासं सितमेव च | द्वादशं दशहस्तं स्यान्नवहस्तमथापि वा || १४ || ध्वजस्य पञ्चभागं स्याच्छिखरं हस्तमेव च | हस्तार्धं पुच्छमेवोक्तं त्रिपुच्छं तु द्विपुच्छकम् || १५ || प्. १२३४) तत्पटं पञ्चधा भज्य मध्यभागे वृषं लिखेत् | ऊर्ध्वे तस्य लक्ष्मीं चैव अधो भागे तु कुम्भकैः || १६ || तदूर्ध्वे अस्त्रदेवः स्यात्तदूर्ध्वेच्छत्र चामरे | पार्श्वे तु दीप एवोक्त अथवा कुरमेव वा || १७ || धूपघण्टामिति प्रोक्तं पूर्णकुम्भैरलंकृतम् | श्वेतं रक्तं तथा पुष्पं सर्वालंकारमेव च || १८ || वृषभं श्वेतवर्णं च सर्वसिद्धिं प्रकारयेत् | काम्याद्धरहवर्णेन आभिचारं तु * * कम् || १९ || स्मभवशयनं चैवं वृषभं तु लिखेद्बुधः | कृते तदुक्तवर्णानां वालापीतेन शोभितम् || २० || प्. १२३५) नेत्रं तु कृष्णवर्णं च रक्तं नीलं तु मिश्रकम् | सर्वाभरण संयुक्तं सर्वपुष्पैरलंकृतम् || २१ || शिवाग्रे मण्डपं धौतं गोमयालेपनं तथा | दर्भमालां समावेष्ट्य मुक्तादामप्रलम्बितम् || २२ || तन्मध्ये स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः | तदर्धं तण्डुलैः कुर्यात् तदर्धं तु तिलैरपि || २३ || तन्मध्ये नलिनं लिख्य मध्यमे वृषभध्वजम् | तदग्रे स्थण्डिलं कुर्यात् नेत्र भंतु स्थापयेत् || २४ || अभितोष्टघटान्न्यस्त्वा पूजयेत्पूर्ववत्क्रमात् | मध्ये वृषभमावाह्य गन्धपुष्पैस्समर्चितम् || २५ || प्. १२३६) परितोऽष्टघटान्न्यस्त्वा स्वस्वबीजेन विन्यसेत् | इक्षुं च गोपतिं चैव शंकुकर्णं तथैव च || २६ || तीक्ष्णशृंगं तथानन्दिं वृषभं लजं तथा | महोदरोष्टमश्चैव स्वस्वनाम्ना प्रपूजयेत् || २७ || वृषगायत्रिमन्त्रेण वृषकुम्भं न्यसेत्क्रमात् | तदग्रे स्थण्डिलं कुर्यात्सितैस्सिकतमेव च || २८ || चतुरश्रासनं कुर्याद्धस्तमात्रेण देशिकः | प्राच्य सूत्रं त्रिसूत्रं स्यादुदक्सूत्रं तथैव च || २९ || ब्रह्मजज्ञानमन्त्रेण मध्यरेखां समालिखेत् | नाके सुपर्णमन्त्रेण दक्षिणेषु लिखेद्बुधः || ३० || प्. १२३७) आप्यायस्वेति मन्त्रेण उत्तरे तु समालिखेत् | योरुद्र इति मन्त्रेण उदक् सूत्रं तथैव च || ३१ || इदं विष्ण्विति मन्त्रेण पूर्वे रेखां समालिखेत् | इन्द्रं विश्वेति मन्त्रेण पश्चिमे तु समालिखेत् || ३२ || शिवाम्भसा तु संप्रोक्ष्य कूर्चं प्रादेश पूजयेत् | वागीश्वरं तु वागीशीं आसनं तु प्रपूजयेत् || ३३ || तदग्रे वह्निं संस्थाप्य होमं कृत्वा विचक्षणः | पूर्ववच्चाग्नि संस्कारं पूजयेद्वृषभं गुरुः || ३४ || ब्रह्माणं दक्षिणेऽभ्यर्च्य उत्तरे विष्णुमेव च | परिस्तरणे दद्याद् दर्भादीनि परिस्तरेत् || ३५ || प्. १२३८) प्रोक्षणीमूर्ध्वतः स्थाप्य अधः प्रणीतापात्रकम् | आज्यस्थालीं तथा स्थाप्य चरुस्थालीं तु स्थापयेत् || ३६ || प्रणीतां प्रोक्षणीं चैव आज्यस्थाली मधोमुखम् | सृक्सृवाभिमुखे स्थाप्य स्थापयेत्तु अधोमुखम् || ३७ || प्रादेशमात्रसमिधा परिधित्रयमेव च | समिधाद्वयपूर्वे तु * * * * * * * * || ३८ || इन्धनं तत्र कुर्वीत वह्निं प्रजालयेत्क्रमात् | आहुति त्रितयं कुर्याद् व्याहृत्या जुहुयात्क्रमात् || ३९ || पञ्चब्रह्म षडंगेन जुहुयात्तु क्रमात्सुधीः | वृषगायत्रिमन्त्रेण तत्र होमत्रयं हुनेत् || ४० || प्. १२३९) समिधस्सद्यमन्त्रेण आज्यं वामेन होमयेत् | चरुंत्वघोरमन्त्रेण लाजं तत्पुरुषेण तु || ४१ || तिलमीशान मन्त्रेण सर्षपं कवचेन तु | आढकं मुद्गमाषाणां तथैव जुहुयात्क्रमात् || ४२ || शिवमन्त्रेण जुहुयात् प्रत्येकं तु दशाहुतीः | होमान्ते वृषकुम्भः स्याद्वृषकुम्भस्तु मूर्तिमान् || ४३ || तदग्रे भेरीदेवः स्यात् स्थण्डिलेन प्रकल्पयेत् | ब्रह्मा विष्णुश्च रुद्रश्च अधिदेवाः प्रकीर्तिताः || ४४ || गन्धं पुष्पं च धूपं च दीपं चैव निवेद्यकम् | अर्चयेद्भेरिदेवं स्याद् आचार्यस्ताडयेत्क्रमात् || ४५ || प्. १२४०) आहूय वाद्यकान्पश्चात् शुद्धपारशिवस्तथा | अंगपूर्ण समायुक्तं शक्त्या सहितमेव च || ४६ || शक्तिहीनं विना कुर्याद् वर्जयेत्तु विचक्षणः | नन्दिकेश्वरमावाह्य वाद्यान्हृदय संपदम् || ४७ || यजनं धूपदीपं स्यात् पुष्पं हस्ते निधापयेत् | तत्पुष्पं निक्षिपेद्भेर्यां समतालं तु वाद्यकान् || ४८ || सप्ततालमिदं प्रोक्तमाचार्यः शिष्य एव वा | अस्त्रदेवं समभ्यर्च्य मध्यपत्रे तु रुद्रकम् || ४९ || ब्रह्माणं दक्षिणे पत्रे वामपत्रे जनार्दनम् | गौरीं च मध्यकूले तु सरस्वतीं दक्षिणे तथा || ५० || प्. १२४१) लक्ष्मीं च वामपत्रे तु मध्ये गंगां च योजयेत् | गणेशं पालिकामध्ये स्कन्दं दण्डाग्र एव च || ५१ || अनन्तादिशि खण्ड्यन्तं पालिकोपरि विन्यसेत् | क्षेत्रपालं तथैशान्यां दण्डमध्ये तु शास्तु च || ५२ || चन्द्रसूर्यादिनक्षत्रं दण्डमध्ये तु पूजयेत् | चण्डेशं दण्डमूले तु सर्वदेवे च संग्रहे || ५३ || सर्वदेवं समावाह्य अस्त्रेणैव समाचरेत् | धूपदीप समायुक्तं सर्वदेव निवेद्यकम् || ५४ || अस्त्रदेवं च लिंगं च बलिपात्रं तथैव च | प्रतिश्चन्द्रधरं चैव वृषध्वजसहैव च || ५५ || प्. १२४२) ग्रामप्रदक्षिणं कुर्याद् बलिदेवान्समर्चयेत् | दिनदैवतमावाह्य पीठाग्रे वा ध्वजाग्रके || ५६ || प्रथमं विघ्नरात्रं स्याद् पैशाचं तु द्वितीयकम् | तृतीयं ब्रह्मरात्रं स्याद् गन्धर्वं तु चतुर्थकम् || ५७ || पञ्चमं भूतरात्रं स्यात् षष्ठं वै गुहरात्रकम् | सप्तमं ऋषिरात्रं स्याद् अष्टमं नागरात्रकम् || ५८ || नवमं चेन्द्ररात्रं स्याद् दशमं विष्णुरात्रकम् | एकादशं रुद्ररात्रं द्वादशं शिवरात्रकम् || ५९ || गणरात्रं त्रयोदश्यां चतुर्दशं राक्षसं तथा | पञ्चादशं शास्तुरात्रं शक्तिरात्रं च षोडश || ६० || प्. १२४३) विघ्नादिशिवपर्यन्तं पैतृकोत्सवमेव च | विघ्नादि चेन्द्रपर्यन्तं सौख्यमुत्सवमेव च || ६१ || विघ्नादि ऋषिरात्रान्तं सप्ताहमुत्सवं भवेत् | विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च || ६२ || विघ्नादि ऋषिरात्रान्तं सप्ताहमुत्सवं भवेत् | विघ्नादि भूतपर्यन्तं पार्थिवोत्सवमेव च || ६३ || विघ्नादि ब्रह्मपर्यन्तं सात्विकोत्सवमेव च | प्रथमं गणपते रात्रमुत्सवादिति संभवेत् || ६४ || प्रथमं विघ्नराजं तु अपूपं तिलचूर्णकम् | शुद्धान्नं तु निवेद्यं स्याद्विघ्नरात्रौ बलिं क्षिपेत् || ६५ || प्. १२४४) शुद्धान्नं कृसरान्नं च माषयुक्तं दधिप्लुतम् | द्वितीयेऽहनि दातव्यं पैशाचं मन्त्रमुच्चरन् || ६६ || शुद्धान्नं बृहती सर्पिर्दधिक्षीरं तु मिश्रकम् | तृतीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् || ६७ || कृसरान्नं लड्डुकं सर्पिः कदलीगुलसंयुतम् | चतुर्थेऽहनि दातव्यं गान्धर्वं मन्त्रमुच्चरन् || ६८ || मुद्गान्नं गुलसंयुक्तं मधुक्षीरं घृतं तथा | पञ्चमेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् || ६९ || पायसान्नं घृतं चैव कदलीगुलसंयुतम् | षष्ठेऽहनि प्रदातव्यं स्कन्दमन्त्रमनुस्मरन् || ७० || प्. १२४५) शुद्धान्नं घृतसंयुक्तं बृहतीफलमेव च | सप्तमेऽहनि दातव्यं ऋषिमन्त्रमनुस्मरन् || ७१ || षिष्ठमाषमधूसर्पिरिक्षुमिश्रमिति स्मृतम् | अष्टमेऽहनि दातव्यं नागमन्त्रमनुस्मरन् || ७२ || शुद्धान्नं सघृतं क्षीरं पनसाम्रफलं तथा | नवमेऽहनि दातव्यं मनुमन्त्रमनुस्मरन् || ७३ || शुद्धान्नं दधि संयुक्तं गुलखण्ड समन्वितम् | कदलीपनसं चाम्रं नालिकेरफलान्वितम् || ७४ || दशमेऽहनि दातव्यं विष्णुमन्त्रमनुस्मरन् | माषान्नं घृतसंयुक्तं क्षीरं च गुलखण्डकम् || ७५ || प्. १२४६) एकादशबलिं कुर्याद् रुद्रमन्त्रमनुस्मरन् | शुद्धान्नं दधिसंयुक्तं बृहती मूलसंयुतम् || ७६ || द्वादशेऽहनि दातव्यं शिवमन्त्रमनुस्मरन् | कृसरान्नं घृतं सर्पिर मधुक्षीरफलं तथा || ७७ || त्रयोदशेऽह्नि दातव्यं गणानां मन्त्रमुच्चरन् | मुद्गान्नं माषसंयुक्तं गुलं क्षीरं घृतं तथा || ७८ || चतुर्दशेऽह्निदातव्यं राक्षसं मन्त्रमुच्चरन् | पायसं घृतसंयुक्तं गुलखण्डसमन्वितम् || ७९ || पञ्चादशेऽह्नि दातव्यं शास्तृमन्त्रमनुस्मरन् | शुद्धान्नं लड्डुकं सर्पिः कदलीकारवल्लिका || ८० || प्. १२४७) वल्लीमूलं तथा कन्दं गुलक्षीरं घृतं तथा | षोडशेऽहनि दातव्यं शक्तिमन्त्रमनुस्मरन् || ८१ || दिनदैवतमावाह्य नित्यमेवं बलिक्रमम् | ब्रह्माद्यैशानपर्यन्तं लोकपालबलिं क्षिपेत् || ८२ || शुद्धान्नं घृतसंयुक्तं दधिक्षीरं तु मिश्रकम् | पश्चिमद्वारहर्म्ये तु वास्तुभूतबलिः क्रमात् || ८३ || ब्रह्मादिनिरृत्यन्तं वारुणादिप्रदक्षिणम् | एवं बलिक्रमं कुर्यान् नित्यमेव बलिं क्षिपेत् || ८४ || तद्द्वारे बलिं निक्षिप्य वृषभं तत्र पश्चिमम् | ज्येष्ठादि विघ्नपर्यन्तं स्वस्वनाम्ना बलिं क्षिपेत् || ८५ || प्. १२४८) दिनदैवतमावाह्य पीठाग्रे तु बलिं क्षिपेत् | ध्वजादिबलिपीठान्तं सर्वमेव बलिं क्षिपेत् || ८६ || सर्वदेवालयाग्रे तु ग्रामद्वारे बलिं क्षिपेत् | * * * * * * लक्ष्मीं गोस्थाने च सरस्वतीम् || ८७ || कूपे चैव महामोटीं दुर्गादेवीं बलिं क्षिपेत् | श्मशाने सुन्दरीं चैव देवकोष्ठं बलिं क्षिपेत् || ८८ || तत्तत्स्वनाममन्त्रेण बलिक्षेपविधिं शृणु | ग्रामप्रदक्षिणं कुर्यान्महापीठे बलिं क्षिपेत् || ८९ || लिंगस्य तु महापीठे अन्नलिंगं विसर्जयेत् | जले तु भूतकं कुर्याद् विसृजेदन्न लिंगकम् || ९० || प्. १२४९) आवाहनबलिं चैव उद्वासनबलिं तथा | त्रिंशद्बलिक्रमं कुर्यात् षोडशं दिनमेव च || ९१ || चतुर्विंशद्बलिं कुर्याद् द्वादशं दिनमेव च | अष्टादशबलिं कुर्यात् सौम्यमेवं विधीयते || ९२ || मनुना कौशिकं चैव एकाहे तु प्रदापयेत् | बलिसंख्या इति प्रोक्ता उत्सवस्य विधिं शृणु || ९३ || उत्सवं कारयेद्धीमान् पुण्यनक्षत्र एव च | प्रतिष्ठाद्युत्सवे हीने यथेष्टं मासमानयेत् || ९४ || राजजन्मन्यनक्षत्रे सुखप्रीतिकराय च | द्वाहापीठं * * * * प्रसादुर्धूढमेव च || ९५ || प्. १२५०) व्याप्तलिंगविदीर्याणि यजेदुत्सवमेव च | प्रतिष्ठाशिखरं हीनं उत्सवं वर्जयेत्ततः || ९६ || अंगोपांगं च प्रत्यंगं परिवारसमन्वितम् | प्रासादद्वार * * * * * मेवमिहोच्यते || ९७ || हीने तु उत्सवं हीने वर्जयेत्तु विचक्षणः | प्रारभ्यमुत्सवे हीने यथेष्टं मासि मानयेत् || ९८ || आहसं सहसा कृत्वा पश्चादुत्सवमाचरेत् | कालातीतादिदोषेण शान्तिहोमं समाचरेत् || ९९ || राजक्षोभे न कर्तव्यं उत्सवं हीनमेव च | राजराष्ट्रे सुखं प्राप्ते पुनरुत्सवमाचरेत् || १०० || प्. १२५१) पूर्वोत्सवविहीने च यथेष्टं मासि मानयेत् | * * * ते काले * * * नष्टे उत्सवमेव च || १०१ || प्रायश्चित्तविधिं कुर्याच्छान्तिहोमं समाचरेत् | मासनक्षत्र तीर्थान्तं आर्द्रान्तमुत्सवं परम् || १०२ || ग्रामनक्षत्र तीर्थान्तं प्रतिष्ठानक्षत्रमेव च | राजजन्मन्यनक्षत्रे यजमानवशाद्बुधः || १०३ || चान्द्रमित्युक्तनक्षत्रं सौरमानं च तीर्थकम् | तत्काले तीर्थमारभ्य संक्रमं संभवेत्सुधीः || १०४ || गुरुशुक्रास्तमे चैव तन्मासमुत्सवं कुरु | प्रतिमां वर्जनात्पश्चाद् ऋज्यवं कारयेद्बुधः || १०५ || प्. १२५२) सर्वमासेषु कर्तव्यमुत्सवं कारयेत्क्रमात् | नित्यं नैमित्तिकं काम्यमुत्सवं त्रिविधं भवेत् || १०६ || नित्यं नित्योत्सवं कुर्यान्नैमित्तिकं विशेषतः | यथेष्ठं काम्यमित्युक्तं उत्सवं त्रिविधं भवेत् || १०७ || नित्योत्सवं ततः कुर्यात् नैमित्तिकमहोत्सवम् | इष्टमासेषु काम्यार्थमुत्सवं कारयेद्बुधः || १०८ || नित्योत्सवं विनायत्र महोत्सवं विसर्जयेत् | ध्वजारोहण * * तु वर्जयेत्तु विचक्षणः || १०९ || यजमानेच्छया कुर्याद् यथेष्टं मासि मानयेत् | ध्वजे ध्वजं न कर्तव्यं कर्तव्यं वृषभध्वजम् || ११० || प्. १२५३) विष्णुकल्याणदं प्रोक्तं शिवयागं समाचरेत् | देवयागं च कुर्वीत विष्णुयागं विनाशयेत् || १११ || देवानामपि कल्याणं नृपादीनां न कारयेत् | ग्रामे च नगरे चैव पत्तने राजधानिके || ११२ || सर्वदेवोत्सवं कुर्याद् एकस्मिन्नेव वस्तुनि | हरि * * * * * स्यात् हरिपृष्ठं तु शोभनम् || ११३ || सर्वदेवोत्सवं कुर्याद् एकवास्तु बलिक्रमम् | उत्सवं कारयेद्धीमान् पुण्यमासे तु पूर्वकम् || ११४ || माघमासे तु माघान्तं फाल्गुन्यां चोत्तरान्तकम् | चैत्रमासे तु चित्रान्तं विशाखे वैशाख एव च || ११५ || प्. १२५४) मूलान्तं ज्येष्ठमासे तु कृष्णाष्टम्यन्तमुत्सवम् | आषाढे पूर्वनक्षत्रे श्रावणे वैष्णवान्तकम् || ११६ || शुक्लपक्षे तृतीयेषु रोहिण्यन्तं प्रकल्पयेत् | पूर्णे तु मासनक्षत्रे समुद्रस्नानमुत्तमम् || ११७ || पूर्वाषाढान्तं भाद्रे तु अश्वान्तमश्वमासके | कार्तिके कृत्तिकान्तं वा आर्द्रान्तमुत्सवं परम् || ११८ || विपुलं चान्द्रमासे तु सौरमासप्रशस्तिकम् | सर्वोत्सवं च ऋक्षे तु सौरं सौख्यान्तमेव च || ११९ || आरम्भं त्रिविधं तेषां कौतुकं बन्धपूर्वकम् | भेरीताडनपूर्वं च अंकुरार्पणपूर्वकम् || १२० || प्. १२५५) अंकुरं वृषयागं तु वृषभान्तं प्रतिष्ठितम् | उत्सवांकुरं द्वितीयं तु तीर्थांकुरं तृतीयकम् || १२१ || सर्वेषामुत्सवं कुर्याद् अंकुरं द्विविधं भवेत् | नयनं मोक्षणं चैव जलाधिवासनं विना || १२२ || आचार्यः शिल्पिहस्तेन नयनोन्मीलनं कुरु | शालितण्डुल तन्मध्ये वृषकुम्भान्तमेव च || १२३ || अष्टदिक्कलशेनैव उक्षादीन्कलशे न्यसेत् | पुण्याहं वाचयेत्तत्र होमं कुर्याद्विशेषतः || १२४ || हेमसूच्या प्रकारन्तु सुमुहूर्ते विचक्षणः | मधुसर्पिस्तथा कुर्यान् नेत्रं तु स्पर्शनं तथा || १२५ || प्. १२५६) धूपदीपं तथा कुर्याद्धान्यदर्शन संभवेत् | दर्पणे अभिषेकं तु मुद्गान्नं तु निवेदयेत् || १२६ || शिल्पिं विसर्जनं कुर्याद्गोमयालेपनं तथा | मण्डपे समलं कृत्य मध्ये स्थण्डिलमेव च || १२७ || नलिनं च लिखेत्तत्र मध्ये वृषभकुम्भकम् | अभितः कलशानष्टौ उक्षादीन्क्रमशो न्यसेत् || १२८ || हैमं तु नखदूर्वं च स्थण्डिलं तत्र कारयेत् | होमान्ते नयनोन्मीलं मधुसर्पिश्च लोचनम् || १२९ || दर्शयेद्द्रव्य संयुक्तं अभिषेकं दर्पणं तथा | दर्पणं जलाधिवासं च प्रतिष्ठां कारयेद्बुधः || १३० || प्. १२५७) शिवाग्रे मण्डपं कुर्याद्गोमयालेपनं तथा | मण्टपे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः || १३१ || तन्मध्ये नलिनं कृत्वा स्थापयेद्वृषभध्वजम् | कौतुकं बन्धयेद्धीमान्स्वर्णं रजतसूत्रकम् || १३२ || अथवा कार्पाससूत्रं स्याद्बन्धयेद्वृषशृंगके | पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् || १३३ || त्रियम्बकेन मन्त्रेण रक्षासूत्रं तु बन्धयेत् | शयनं स्थण्डिलं कुर्यात् तदग्रे वृषकुम्भके || १३४ || अभितः कलशानष्टौ उक्षादीन्क्रमशो न्यसेत् | तदग्रे अग्निं संस्थाप्य होमयेत्पूर्ववद्गुरुः || १३५ || प्. १२५८) तदग्रे भेरीदेवं स्यात् स्थण्डिलं तत्र कारयेत् | पश्चिमे अस्त्रदेवं तु शालिभिः स्थण्डिलं क्रमात् || १३६ || लाजपुष्पैरलंकृत्यदर्भमालासमन्वितम् | अग्निकार्योक्तमार्गेण होमयेत्तु विचक्षणः || १३७ || प्रोक्षणीं प्रणीता पात्रं आज्यस्थालीं तु विन्यसेत् | उत्तरे आसनं कल्प्य अधोमुखं तु साधयेत् || १३८ || प्रोक्षणीपात्रमादाय तोयं कुशाक्षतैर्युतः | प्रादेशकूर्चसहितं त्रिःस्पर्शनजलं तथा || १३९ || आज्यस्थालीं प्रणीतां च ऊर्ध्वमुखान्तमेव च | प्रोक्षयेत्प्रोक्षणीं चैव प्रोक्षणीस्थजलं तथा || १४० || प्. १२५९) प्रणीतां च जलं पूर्य कुशपुष्पाक्षतैर्युतः | जनार्दनं समावाह्य उत्तरे स्थाप्यमेव च || १४१ || दक्षिणे तु जले ब्रह्मकूर्चं पुष्पाक्षतान्वितम् | अग्निसंस्कार मेवं तु आज्यसंस्कारमेव च || १४२ || आज्यस्थालीं घृतं पूर्यं कूर्चं प्रादेशमात्रतः | प्रादेशे स्पर्शनं कुर्याद्विसर्जयेदग्निमेव च || १४३ || दर्भाग्निं प्रदक्षिणं कुर्यादाज्य संस्कारमेव च | एवं संस्कारमेवं तु यथोक्तं पूर्वमेव च || १४४ || समिदाज्यचरून्लाजान् माषशालि यवांस्तथा | तिलसर्षपमुद्गानि गुलखण्डं दश स्मृताः || १४५ || प्. १२६०) परिस्तरणदर्भाणां परिधित्रंयमेव च | ऊर्ध्वं तु समिधा कृत्वा परिषेचमनन्तरम् || १४६ || अग्निसंस्कारमेवं तु आज्य संस्कारमेव च | समिधा सद्यमन्त्रेण आज्यं वामेन हूयते || १४७ || अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु | तिलमीशानमन्त्रेण सर्षपं कवचेन तु || १४८ || मुद्गमाष यवांश्चैव शिवमन्त्रेण हूयते | वृषमूलं च गायत्रीं शतमष्टोत्तरं शतम् || १४९ || द्रव्यान्ते व्याहृतिं हुत्वा स्विष्टमग्नेति मन्त्रतः | जयादि रभ्याधानं च राष्ट्रभृच्च हुनेत्क्रमात् || १५० || प्. १२६१) पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् | ताम्बूलं दापयेत्कुर्यान् मूर्तिं वृषभ कुम्भके || १५१ || मन्त्रन्यासं ततः कुर्याद् वृषमूलेन मन्त्रवित् | भेरीघोषं ततः कुर्यादावाहनमथोच्यते || १५२ || आहूयवाद्यकान्पश्चात् शुद्धपारशिवाः स्मृताः | दीक्षितानां तु सर्वेषां आचार्यस्ताडयेत्क्रमात् || १५३ || नववस्त्रोत्तरीयं च यज्ञोपवीतमेव च | सर्वाभरण संयुक्तं सर्वपुष्पैरलंकृतम् || १५४ || पुष्पाञ्जलिसमायुक्तं भेरीघोष समन्वितम् | ताडयेन्नवतालं स्यादाचार्यः शिष्य एव च || १५५ || प्. १२६२) अस्त्रदेवं तु संपूज्य देवतावाहनं भवेत् | शिवादि चण्डपर्यन्तं आवाहनविधिं कुरु || १५६ || हविर्निवेदयेद्धीमान् सर्वदेवं निवेदयेत् | बलिपात्र समायुक्तमन्नलिंगास्त्रमेव च || १५७ || ध्वजं चण्डेश्वरं चैव ग्रामप्रदक्षिणं तथा | वृषयन्त्रं समादाय ध्वजपं बन्धयेत्क्रमात् || १५८ || सन्धि दैवतमावाह्य दिनदेव समन्वितम् | अन्तर्बलिक्रमं पूर्वयागान्ते वा बलिं क्षिपेत् || १५९ || दिनदैवतमावाह्य पीठाग्रे वा बलिं क्षिपेत् | सर्वमभ्यर्चयेद्धीमान् पश्चाद्वास्तु बलिं क्षिपेत् || १६० || प्. १२६३) यन्त्रपीठं समादाय रत्नजं लोहजं तथा | अथवा दारुजं पीठं तालमान प्रमाणतः || १६१ || अथवा कदलीपत्रे वास्तुबाह्यबलिं क्षिपेत् | ग्रामप्रदक्षिणं कृत्वा महापीठबलिं क्षिपेत् || १६२ || अन्नलिंगस्य मूर्तीनां जले वापि बलिं क्षिपेत् | ध्वजपटं स्थालिकां चैव दण्डमूले तु संस्थितम् || १६३ || दण्डलक्षणमेवोक्तं दारुजं वाथ कारयेत् | आसनं खादिरं चैव बिल्वचम्पकमेव च || १६४ || देवदारुक संयुक्तं व्याघ्रवृक्ष समन्वितम् | मधूकमर्जुनं चैव कृष्णवृक्ष समन्वितम् || १६५ || प्. १२६४) मुनिवृक्षसमुत्पन्नं क्रमुकं वेणुदण्डकम् | वक्रं भिन्नं च सुषिरं कृमिकोटरवर्जितम् || १६६ || अन्तस्सारं पुमानेवं बहिस्सारं तु शक्तिकम् | स्थूप्यन्तं वागलान्तं वा वृषस्थल समं तु वा || १६७ || तद्बाह्यं च समं वापि गोपुरस्य समं तु वा | त्रयस्त्रिंशति वा हस्तं पञ्चविंशति हस्तकम् || १६८ || ध्वजहस्तमपि प्रोक्तं दण्डायामं विधीयते | क्षीरवृक्षं तु संग्राह्य यष्टिं कृत्वा विचक्षणः || १६९ || चतुस्तालप्रमाणेन त्रितालं च समन्वितम् | अग्न्यंगुलघनं प्रोक्तं चतुराकृत्यलं कृतिम् || १७० || प्. १२६५) सुषिरद्वयसंयुक्तं अर्धचन्द्रसमन्वितम् | उपदण्डप्रमाणेन वेणुदण्डं विधीयते || १७१ || नवतालेन तत्कुर्यात् सप्ततालं तु मध्यमम् | षट्तालं पञ्चतालं च कन्यसं उपदण्डकम् || १७२ || अयसा वलयं वापि बन्धयेदुपदण्डकम् | कार्पाससूत्रं रज्जुं च वलयद्विगुणं भवेत् || १७३ || कनिष्ठांगुलि प्रमाणं तु दण्डमूलं समाश्रितम् | भूमि संप्रोक्षणं कुर्याद् यष्टिबन्धन संयुतम् || १७४ || दण्डं तु स्थापनं कुर्यात् शालितण्डुल कूर्चकम् | रत्नजं रजतं चैव कूर्मासनं तु लोहजम् || १७५ || प्. १२६६) पञ्चलोहसमायुक्तं दण्डमूले तु योजयेत् | त्रिहस्तं तु प्रमाणेन द्विहस्तं वा नयेत्क्रमात् || १७६ || पुण्याहं वाचयेत्तत्र सुमुहूर्ते विचक्षणः | वेदिकालक्षणं प्रोक्तं * * भेदनिका तथा || १७७ || अथवा मृदं संग्राह्य त्रिमेखलसमन्वितम् | हस्तद्वयं तु विस्तारं उत्सेधं हस्तमात्रकम् || १७८ || रत्निमात्र समुत्सेधं मुष्ठिमात्रमथापि वा | विस्तारात्तुसमुत्सेधं हस्तमात्रमथोत्तमः || १७९ || चतुविंशांगुलं हस्तं मात्रांगुलेन कारयेत् | वेदिकालक्षणं प्रोक्तं दण्डमूले विचक्षणः || १८० || प्. १२६७) शिल्पिं विसर्जयेद्धीमान्गोमयालेपनं ततः | कौतुकं बन्धयेद्धीमान् दण्डमध्ये सुबन्धनम् || १८१ || विनायकं पूजयेत्तत्र पुण्याहं वाचयेत्तदा | आयसं वलयं रज्जुद्विगुणं मूलमाश्रिता || १८२ || दर्भमालासमायुक्तं पुष्पमाल्यैश्च शोभितम् | ध्वजं च बन्धयेद्धीमान्किंकिणी पुष्प शोभितम् || १८३ || वृषकुम्भश्च मूर्तिः स्याद्धूपदीप समन्वितः | सुमुहूर्ते तु यः कुर्याद् ध्वजारोहणमेव च || १८४ || कार्पासकेन संयुक्तं सन्धयेत्तु दृढं बुधः | विपरीतं च रोहणं प्रायश्चित्तं विधीयते || १८५ || प्. १२६८) शान्तिहोमं ततः कुर्यात् पुनस्सन्धानमाचरेत् | सर्वदेवान्समावाह्य दण्डमूले तु योजयेत् || १८६ || लोकपालान्समभ्यर्च्य दिग्देवान्बन्धयेत्क्रमात् | नृत्तगीतसमायुक्तं सर्वघोष समन्वितम् || १८७ || मुद्गान्नं तु निवेद्यं स्यात् पायसान्नं निवेदयेत् | बल्यन्नं तु ततः कुर्यात् दिग्विदिक्षु च एव हि || १८८ || गर्भोत्पत्तिसमायुक्तं धृतमांगल्यदापयेत् | अमंगल्य कन्यका चैव अपस्मारो दृढं बुधः || १८९ || आचार्यं पूजयेत्तत्र वस्त्रहेमांगुलीयकैः | शिवाग्रे मण्टपं कुर्याद् गोमयेनोपलेपयेत् || १९० || प्. १२६९) उमास्कन्दान्तमेवं स्यात् कौतुकं बन्धयेत्क्रमात् | सुवर्णं रजतं वाथ अथ कार्पासमेव च || १९१ || त्रियम्बलेन मन्त्रेण रक्षाबन्धन कर्मणि | स्थलिके स्थण्डिलं चैव तन्मध्ये तन्तुरक्षकम् || १९२ || परिचारक हस्तेन प्राकारेति प्रदक्षिणम् | नववस्त्र समायुक्तं तूर्यघोष समन्वितम् || १९३ || तस्याग्रेण स्थितं कुर्यात् पुण्याहं वाचयेत्ततः | त्रियम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् || १९४ || उमासहितमेवोक्तं चन्द्रशेखरमेव वा | पुष्पमालां ततः कुर्यात् कूटं वा मण्टपं तु वा || १९५ || प्. १२७०) ऐन्द्रे वा पावके वापि यमे वा राक्षसेऽपि वा | वायौ सोमे तथैशान्यां यागमण्टपमेव च || १९६ || मण्टपं समलंकृत्य तस्यान्तर्वेदिकां कुरु | रत्निमात्र समुत्सेधं दर्पणोदरसन्निभम् || १९७ || हस्तद्वितयविस्तारमुपवेदीसमायुतम् | नवाग्निरुत्तमश्चैव पञ्चाग्निर्मध्यमो भवेत् || १९८ || एकाग्निरधमश्चैव वृत्तं वा चतुरश्रकम् | एकाग्निं वाथ कुर्वीत पूर्वपश्चिममेव वा || १९९ || यद्द्वाराभिमुखं लिंगं तद्द्वारं कुम्भपूजनम् | तदग्रे अग्निकुण्डं वा होमयेत्तु विचक्षणः || २०० || प्. १२७१) षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा | चतुस्तम्भसमायुक्तं चतुर्द्वारसमायुतम् || २०१ || युगतोरण संयुक्तं दर्भमाला समन्वितम् | गात्रवेष्टन संयुक्तं पताका ध्वजमेव च || २०२ || वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः | तदर्धं तण्डुलैः प्रोक्तं तदर्धं तु तिलैरपि || २०३ || तन्मध्ये नलिनं लिख्य अष्टपत्रं सकर्णिकम् | मध्ये सदाशिवं कुम्भं वर्धनीं तु तथोत्तरे || २०४ || अष्टविद्येश्वराश्चैते तत्तत्स्वनाममन्त्रकैः | द्वारकुम्भं समादाय पूर्वादीशान्तमर्चयेत् || २०५ || प्. १२७२) प्राकुम्भमग्निकुम्भं वा निरृति त्रयमेव च | वारुण्यभूते तथैव वायुसोमे युगान्तं च त्रिकुम्भमीशे || २०६ || तत्तत्स्वनाममन्त्रेण द्वारकुम्भं समर्चयेत् | सर्वदेवं समावाह्य गन्धपुष्पादिनार्चयेत् || २०७ || धूपदीप समायुक्तं होमं कृत्वा विचक्षणः | पुण्याहं वाचयेत्तत्र कौतुकं बन्धयेत्क्रमात् || २०८ || कौतुकं त्वग्निकुण्डे तु प्रति प्रति विशेषतः | कुण्डसंस्कारमेवोक्तं अग्निं प्रज्वाल्यमेव च || २०९ || अग्निकार्यविधिः प्रोक्तः प्रतिकुण्डं तु होमयेत् | आचार्यः शिष्यसंयुक्तो होमं कुर्याद्विचक्षणः || २१० || प्. १२७३) पालाशौदुम्बरं चैव अपामार्गं नृपस्य तु | बिल्वं च खदिरं चैव न्यग्रोधं वह्निमेव च || २११ || वैकंकतं च काश्मीरं समिधस्समुदाहृताः | परिस्तरणदर्भाणां परिधित्रयमेव च || २१२ || पूर्वे ऊर्ध्वं च समिधां द्वयं विष्ठरमेव च | ब्रह्माणं दक्षिणेऽभ्यर्यच उत्तरे तु जनार्दनम् || २१३ || परिषेचन पात्रैश्च प्रोक्षणी पात्रमेव च | प्रणीता पात्रमादाय पूजयेच्च जनार्दनम् || २१४ || आज्यसंस्कारमेवोक्तं स्वाहासहितमेव च | होमान्ते तद्बलिं कुर्यान् मेखलोपरि विन्यसेत् || २१५ || प्. १२७४) तत्तत्स्वनाममन्त्रेण लोकपालबलिं क्षिपेत् | बहिर्बलिविधिं कुर्याद् अन्तर्बलिमथाचरेत् || २१६ || कुण्डपार्श्वे पावके च अन्तर्बलिं क्षिपेत्ततः | प्रथममष्टनागं च द्वितीयं द्वादशादिकम् || २१७ || नानादिग्बलिं निक्षिप्य पूर्णाहुतिमथाचरेत् | अग्निमंत्रमनुस्मृत्य स्वाहेति च नियोजयेत् || २१८ || अग्निमूर्तिं समावाह्य कुम्भमध्ये सुयोजयेत् | हविर्निवेदयेत्तत्र सर्वदेवं निवेद्यकम् || २१९ || होमान्ते भेरिघोषः स्यात्सप्ततालविधिर्भवेत् | आहूयवाद्यकान्पश्चाद् आचार्यः शिष्य एव च || २२० || प्. १२७५) यागान्ते भेरिघोषः स्याद् वास्तुदेवबलिं क्षिपेत् | प्रथममन्तर्बलिं कुर्याद् द्वितीयं दिनदेवता || २२१ || ध्वजादिबलिपीठान्तं बलिभोज्यक्रमं शृणु | उमास्कन्देश्वरं देवं ग्रामप्रदक्षिणं तथा || २२२ || तथे वा शिबिकायां वा स्थापयेद्देवमेव च | शंखघोष समायुक्तं ब्रह्मघोष समन्वितम् || २२३ || सर्ववाद्य समायुक्तं स्तोत्रमंगलवाचकैः | छत्रं च चामरं चैव व्यजनं ध्वजमेव च || २२४ || सर्वदेव समायुक्तं यन्त्रदीपमनन्तरम् | सर्वभक्तजनानां तु नृपतिब्रह्ममेव च || २२५ || प्. १२७६) आचार्यं दक्षिणे पार्श्वे नृपतिर्वामपार्श्वके | रुद्रकन्यकय युक्तं गान्धर्वं तु शिवाग्रके || २२६ || ग्राम प्रदक्षिणं कुर्याद् आस्थानं मण्टपं तथा | पाद्यमाचमनं चार्ध्यं धूपदीप समन्वितम् || २२७ || आरात्रिमर्चयेद्धीमान् भस्मं तु पातयेद्बुधः | दर्पणं चामरं चैव व्यजनं छत्रमेव च || २२८ || भस्मं तु दापयेत्पश्चान् नृपभक्तजनान्वितः | नालिकेर समायुक्तं कदलीफल संयुतम् || २२९ || अभिमन्त्रित ताम्बूलं ताम्बूलं तु निवेदयेत् | तद्दिनं तु समारभ्य यज्ञं सप्तदिनं भवेत् || २३० || प्. १२७७) तद्दिनात्सप्तदिवसे तैलाभ्यञ्जन कर्मणि | आस्थान मण्डपं कुर्याद् गोमयालेपिते शुभे || २३१ || स्थण्डिलं तत्र कुर्वीत अष्टद्रोणैश्च शालिभिः | तन्मध्ये तु घृतं स्थाप्य दूर्वाक्षत समायुतम् || २३२ || पुण्याहं वाचयित्वा तु घृतं शिरोर्पणमेव हि | दूर्वाक्षत समायुक्तं ऊद्धू * * * * बुधः || २३३ || अस्त्रभेर्यादि संयुक्तं तैलाभ्यञ्जनकं तथा | स्नपनं कारयित्वा तु पञ्चाशत्पञ्चविंशतिः || २३४ || शुद्धवस्त्रपरीधानं श्वेतमाल्यविभूषितम् | मुक्ताभरण संयुक्तं श्वेतचन्दनलेपितम् || २३५ || प्. १२७८) बहुनैवेद्य संयुक्तं उपदंश समन्वितम् | ताम्बूलं तु निवेद्यं स्याद्धूपदीप समन्वितम् || २३६ || आरात्रिमर्चयेत्कुर्यात् भस्मं तु दापयेद्बुधः | ग्रामप्रदक्षिणं कुर्यात् प्रवेशे दीपदापनम् || २३७ || काले काले विशेषेण बहिर्होमं समाचरेत् | पश्चाद्धोमबलिं कुर्यात् अस्त्रराज समन्वितम् || २३८ || अन्नलिंगबलिं चैव चन्द्रशेखरमेव च | रात्रौ बलिं ततः कुर्यात् सर्वेषां बलिमाचरेत् || २३९ || ग्रामप्रदक्षिणं कुर्यात् त्प्रविशेदालयं प्रति | अष्टमे वा नवाहे वा गन्धोत्सव विधिक्रमम् || २४० || प्. १२७९) तद्दिनस्य तृतीये वा द्वितीये वांकुरार्पणम् | तद्दिनात्पूर्वरात्रौ तु कौतुकं मंगलं कुरु || २४१ || गीतं च ललितं चैव भुजंगत्रासमेव च | एकनृत्तसमायुक्तं स्नपनं तत्र कारयेत् || २४२ || शिवाग्रेमण्टपं कुर्याद् आस्थानं मण्टपं तथा | गोमयालेपिते शुद्धे स्थण्डिलं परिकल्पयेत् || २४३ || अष्टद्रोणैश्च शालीनां तदर्धं तण्डुलं तथा | तदर्धं तिलसंयुक्तं देवाग्रे स्थण्डिलं तथा || २४४ || दर्भैः पुष्पैः परिस्तीर्यं लाजपुष्पैश्च शोभितः | तन्मध्ये तु त्रिपादीनां ब्रह्मजज्ञानमन्त्रतः || २४५ || प्. १२८०) नाके सुपर्णमन्त्रेण दक्षिणे सूत्रमेव च | आप्याय स्वेति मन्त्रेण उत्तरे रेखयेत्क्रमात् || २४६ || यो रुद्र इति मन्त्रेण उदक्सूत्रं तथैव च | इदं विष्ण्वितिमन्त्रेण प्रतीच्यां रेखयेत्क्रमात् || २४७ || इदं विश्वेति मन्त्रेण पूर्वरेखां समालिखेत् | तन्मध्ये स्थापितं कुर्यात् प्रदक्षिण मथाचरेत् || २४८ || वागीश्वरं वागीशीं तन्मन्त्रैरर्चयेत्क्रमात् | तत्पुरो ह्यासनं कल्प्य प्रणीतां प्रोक्षणीं तथा || २४९ || आज्यस्थालीं सृक्सृवं च साधयेत्तु विशेषतः | समित्त्रय समायुक्तं परिधित्रयमेव च || २५० || प्. १२८१) प्रोक्षणी पात्रमादाय जलेनापूरयेत्क्रमात् | कुशपुष्पाक्षतैर्युक्तं प्रोक्षणीं साधयेत्ततः || २५१ || प्रणीतापात्रमादाय तोयपुष्पाक्षतैर्युतम् | उत्तरे चैव संकल्प्य जनार्दनं समर्चयेत् || २५२ || आज्यस्थालीं घृतं * * त्रिंशत्स्पर्शनकूर्चकम् | कूर्चग्रन्थिं विसृज्याथ अग्निमध्ये स्थितं ताः || २५३ || तथा संस्कारदर्भाणां अग्निं प्रदक्षिणं तथा | व्याहृतिं जुहुयात्पश्चाद् ब्रह्मजज्ञानमन्त्रकैः || २५४ || परिस्तरण दर्भाणां परिधित्रयमेव च | पूर्वे विष्ठरं संकल्प्य समिदाहुतिमाचरेत् || २५५ || प्. १२८२) समिधा सद्यमन्त्रेण आज्यं वामेन होमयेत् | अघोरेण चरुं हुत्वा लाजं तत्पुरुषेण तु || २५६ || तिलमीशानमन्त्रेण सर्षपं कवचेन तु | मुद्गमाषं च शालीनां नेत्रमन्त्रेण हूयते || २५७ || पायसं गुलखण्डं च शिवमन्त्रेण हूयते | प्रति प्रति तथा कुर्यात् प्रत्येकं तु दशाहुतीः || २५८ || शिवगायत्रि मन्त्रेण तत्तदष्टोत्तरं हुनेत् | द्रव्यान्ते व्याहृतिं हुत्वा दशहुत्वा समाचरेत् || २५९ || पूर्णाहुतिं च शिरसा अग्निबीजमनुस्मरन् | होमान्ते कौतुकं कुर्यात् पुनः पुण्याहमाचरेत् || २६० || प्. १२८३) त्रियम्बकेन मन्त्रेण कौतुकं तु नटेश्वरम् | शक्तेस्तु वामहस्ते तु कौतुकं बन्धयेत्सुधीः || २६१ || कौतुकं त्वस्त्रदेवानां मृदपाद्ये तु कौतुकम् | धूपदीपसमायुक्तमारात्रिमर्चयेद्बुधः || २६२ || सुमुहूर्ते विशेषेण बन्धयेत्कौतुकं हृदा | ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् || २६३ || नृत्तगीतं च वाद्यं च पुराणकथनं क्रमात् | अपूपं निवेदयेद्धीमान् बहुनैवेद्यसंयुतम् || २६४ || निवेदयेत्ततो मन्त्री ताम्बूलं तु निवेदयेत् | धूपदीपसमायुक्तमारात्रिकमथाचरेत् || २६५ || प्. १२८४) छत्रं च चामरं चैव दर्पणं दर्शयेत्क्रमात् | भस्मशेषं च नृपतिर्भक्तानां दापयेत्सुधीः || २६६ || नववस्त्रैरलंकृत्य कौतुकं पूर्ववत्क्रमात् | सर्वाभरण संयुक्तं मुक्ताभरणभूषितम् || २६७ || श्वेतपुष्पैरलंकृत्य श्वेतचन्दनलेपितम् | नीलोत्पलसमं पुष्पं न भवेत्तु भविष्यति || २६८ || तण्डुलं च समायुक्तं प्रभावसमन्वितम् | हर्म्यप्रदक्षिणं कुर्याद् आस्थानं मण्टपं स्थितम् || २६९ || धूपदीपसमायुक्तं नीराञ्जनं विशेषतः | भस्मं तु दापयेत्पश्चाच् छत्रचामरदर्शनम् || २७० || प्. १२८५) नृपतेश्च जनानां च शेषं भस्म तु दापयेत् | प्रातःकाले समारभ्य गन्धोत्सव विधिक्रमम् || २७१ || आचार्यः स्नानमेवं तु प्रतिमास्नानमाचरेत् | चित्रवस्त्रैरलंकृत्य सर्वाभरणभूषितम् || २७२ || कस्तूरीं चैव कर्पूरं कृष्णगन्धं तु मिश्रितम् | शंखदुन्दुभिनिर्घोषैः स्तोत्रमंगलवाचकैः || २७३ || ग्रामप्रदक्षिणं कुर्यात् प्रविश्यास्थान मन्टपम् | देवसन्निधिसंप्राप्ते होमं कृत्वा विशेषतः || २७४ || पूर्ववदग्निं संस्थाप्य अग्निकार्योक्तमाचरेत् | पुण्याहं कारयेद्धीमान् होमं कृत्वा विचक्षणः || २७५ || प्. १२८६) सर्वगन्धसमायुक्तं कृष्णगन्ध प्रधानकम् | होमान्ते कृष्णगन्धेन लेपयेत्तु नटेश्वरम् || २७६ || शक्तौ गन्धं समुत्प्राप्य सुमुहूर्ते विचक्षणः | ब्राह्मणान्भोजयेत्तत्र स्वस्तिसूक्तसमन्वितम् || २७७ || अस्त्रदेवं सुभेरीं च मृदवाद्ये तु गन्धकम् | मूलबेरं सुगन्धं स्यात् परिवार समन्वितम् || २७८ || यागेश्वरस्य देवानां कृष्णगन्धं तु दापयेत् | चतुर्वेद प्रवक्तॄणां द्विजानां भोजयेत्क्रमात् || २७९ || शुद्धनृत्तं विशेषेण गीतवाद्य समन्वितम् | गोदर्शमशुभं प्राप्य कन्यादर्शन संभवम् || २८० || प्. १२८७) भेरीं तु ताडनं कृत्वा आचार्य हस्तमेव च | गन्धद्वारेति मन्त्रेण ताडयेत्तु विचक्षणः || २८१ || आहूय वाद्यकान्पश्चात् हस्ते पुष्पं तु निक्षिपेत् | पुष्पाञ्जलिर्नमस्कृत्वा वाद्यकान्ताडयेत्क्रमात् || २८२ || सप्ततालविधिः प्रोक्त आचार्यः शिष्य एव च | नन्दिमन्त्रं समुच्चार्यं मृदवाद्यं तु ताडयेत् || २८३ || आचार्यस्ताडयेत्पश्चाद् वाद्यकास्तदनन्तरम् | झल्लरीमुखं चैव पटहं मर्दलं तथा || २८४ || महानाट्यसमायुक्तं महाघोष समन्वितम् | सप्ततालं ततः कुर्यान् महानाट्यं तथैव च || २८५ || प्. १२८८) देवदेवं नमस्कृत्वा पाद्याचमनमेव च | धूपदीप समायुक्तं नीराजनं विशेषतः || २८६ || भस्मं तु दापयेत्पश्चाद् दर्पणं दर्शयेत्क्रमात् | छत्रं च चामरं चैव व्यजनं च क्रमात्सुधीः || २८७ || शेषभस्म समायुक्तं भूपतिं च विशेषतः | सर्वभक्तजनानां तु सर्वेषां गन्धमेव च || २८८ || महाहविर्निवेद्यं स्यात् ताम्बूलं तु निवेदयेत् | धूपदीप समायुक्तमारात्रिमर्चयेत्क्रमात् || २८९ || सर्वपुष्पैरलंकृत्य सर्वघोष समन्वितम् | शंखनाद समायुक्तं दुन्दुभीमर्दलान्वितम् || २९० || प्. १२८९) पुष्पप्रभा समायुक्तं चित्रप्रभा समन्वितम् | रथे वा शिबिकायां वा चित्रदीप समन्वितम् || २९१ || सप्ताग्रहं ततः कुर्यात् प्रविश्यास्थानमण्टपम् | पाद्यमाचमनं चार्घ्यं धूपदीप समन्वितम् || २९२ || नीराजनं ततः कुर्याद् भस्म तु दापयेत्क्रमात् | नालिकेरसमायुक्तं कदलीपनसं तथा || २९३ || ताम्बूलं दापयित्वा तु दर्पणं दर्शयेत्क्रमात् | छत्रं च चामरं कुर्यात् गीतवाद्य समन्वितम् || २९४ || स्नपनं कारयित्वा तु पंचाशत्पंचविंशतिः | स्नपनं कारयित्वा तु पूर्ववत्परिकल्पयेत् || २९५ || प्. १२९०) लाजचूर्णं शकृच्चूर्णं मृदं ग्राह्य तु बुद्धिमान् | अभिषेकं प्रकुर्वीत स्नपनं कारयेत्क्रमात् || २९६ || पुण्याहं वाचयेत्तत्र वेदध्वनि समायुतम् | शुक्लवस्त्रपरीधानं श्वेतमाल्यानुलेपनम् || २९७ || श्वेतचन्दन संयुक्तं कर्पूरं चैव मिश्रितम् | श्वेतयज्ञोपवीतं च श्वेतवस्त्रोत्तरीयकम् || २९८ || हविर्निवेदयेत् धीमान् ताम्बूलं तत्र कारयेत् | शिबिकायां ततः कुर्यात् प्राकारे तु प्रदक्षिणम् || २९९ || शिवाग्रे मण्टपं कुर्याद् आस्थानं मण्टपं तथा | धूपदीप समायुक्तं आरात्रिक समन्वितम् || ३०० || प्. १२९१) पैशाचनृत्तसंयुक्तं महानाटकमेव च | प्रातःकाले समारभ्य चित्रवस्त्रोत्तरीयकम् || ३०१ || सर्वाभरण संयुक्तं सर्वमंगलभूषितम् | सर्वमंगलवाद्यं च शंखकाहलमेव च || ३०२ || ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति | आस्थान मण्टपे स्थित्वा धूपदीपसमन्वितम् || ३०३ || आरात्रिमर्चयित्वा तु भस्म दत्वा विशेषतः | दर्पणं चामरं चैव व्यजनं च नयेत्क्रमात् || ३०४ || शेषभस्म ततः कुर्यान् नृपतिश्च विशेषतः | सर्वभक्तजनानां च भस्म दत्वा च दापयेत् || ३०५ || प्. १२९२) नालिकेरसमायुक्तं पनसं कदलीफलम् | स्नानं कृत्वा यथान्यायं हविर्निवेदयेत्ततः || ३०६ || मृगयात्रां समारभ्य पूर्वरात्राधिवासयेत् | त्रिपुरघ्नप्रतिमां कुर्यात् कल्याणसुन्दरं तथा || ३०७ || वाजियन्त्राः स्थितान्ते तु राजयन्त्रं गजस्थिताः | कारुकैर्विद्यदृच्छं वा केचित्काले शिवोत्सवम् || ३०८ || केचित्खड्गधराश्चैव केचित्परशुधारिणः | परिधाय ययुस्सर्वे धनुर्धरास्तथैव च || ३०९ || युद्धारम्भे तथा सर्वे शीघ्रं गच्छेत्समाकुलम् | मृगपक्षिवराहाश्च मयूराः कुक्कुटास्तथा || ३१० || प्. १२९३) मुक्तालंकार संयुक्तं वनयात्रा समन्वितम् | हेलाविलासकथितं गच्छेद्भक्तजनैर्युतम् || ३११ || गौरीं चण्डेश्वरं चैव महाकालं वृषं तथा | ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं सह || ३१२ || प्रदोषसमये काले तीर्थाधिवासनं भवेत् | शिवाग्रे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः || ३१३ || तन्मध्ये नलिनं कुर्यात् त्रिपादीं तत्र विन्यसेत् | शालिकातण्डुलैः पूर्य तन्मध्ये कुम्भकं हृदा || ३१४ || उमास्कन्देश्वरं चैव अस्त्रदेव समन्वितम् | भेरीदेवं समभ्यर्च्य चण्डेशप्रतिमां तथा || ३१५ || प्. १२९४) कौतुकं बन्धयेद्धीमान् उमास्कन्देश्वरं तथा | पुण्याहं पूर्ववत्कुर्यात् कौतुकं बन्धयेद्धृदा || ३१६ || त्रियम्बकेन मन्त्रेण रक्षासूत्रं सुबन्धयेत् | अस्त्रं तु कौतुकं कुर्याद्भेर्यां कौतुकबन्धनम् || ३१७ || नदीतटक उदकौ अस्त्रतीर्थसमन्वितम् | सर्वदेवं समावाह्य सप्ततन्तुं समापयेत् || ३१८ || स्थण्डिलं तत्र कुर्वीत कुंभं तु स्थापयेत्क्रमात् | पुण्याहं वाचयेत्तत्र गन्धपुष्प समन्वितम् || ३१९ || सप्ततालविधिं कुर्याद् आचार्यः शिष्यसंयुतः | स्नानं कृत्वास्त्र तत्वज्ञः सर्वभक्तजनैस्सह || ३२० || प्. १२९५) ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति | तीर्थाधिवासनं कृत्वा महातीर्थं ततः शृणु || ३२१ || प्रातःकाले समारभ्य अमृतस्नानमुत्तमम् | प्रातस्संगमकाले तु यागान्ते वा बलिक्रमम् || ३२२ || ग्रामप्रदक्षिणं कुर्याद् उमास्कन्देश्वरं तथा | आस्थानमण्टपे स्थित्वा धूपदीप समन्वितम् || ३२३ || चूर्णोत्सवं ततः कुर्यान् मण्टपाग्रे विशेषतः | गोमयालेपिते शुद्धे श्वेतवर्णैरलंकृतम् || ३२४ || तन्मध्ये स्थलिकां कुर्याल्लूखलं मुसलेन तु | लूखलं ब्रह्मदैवत्यं मुसलं विष्णुदैवतम् || ३२५ || प्. १२९६) वस्त्रं दूर्वासमायुक्तं तत्र पुष्पैः परिस्तरेत् | रजनीद्रोण संयुक्तं लूखलं पूर्णमेव च || ३२६ || रुद्रकन्यकया युक्तं स्नानं कृत्वा विशेषतः | त्रिपुण्ट्रभस्मसंयुक्तं श्वेतवस्त्रैरलंकृतम् || ३२७ || धूपदीपसमायुक्तं पुष्पं कूर्च उपन्यसेत् | लूखलं तु नमस्कृत्य रजनीचूर्णमेव च || ३२८ || शंखघोषसमायुक्तं सर्ववाद्यसमन्वितम् | रजनीं लूखलं पूर्य देवसन्निधि संयुतम् || ३२९ || कुशलाजाक्षतैःपुष्पं कूर्चं तत्रैव विन्यसेत् | मंगलांकुरमावृत्य सुमुहूर्ते विचक्षणः || ३३० || प्. १२९७) पुण्याहं वाचयेत्तत्र तैलं शिरोर्पणं ततः | मूलबेरं च परितो तैलाभ्यञ्जन कर्मणि || ३३१ || उमास्कन्देश्वरं चैव अस्त्रं भेर्यां च तैलकम् | दूर्वांकुराक्षतैर्मूर्ध्नि अर्चयित्वा विशेषतः || ३३२ || धूपदीपसमायुक्तमारात्रिक समन्वितम् | भक्ष्यभोज्यविशेषेण ताम्बूलं तत्र कारयेत् || ३३३ || दर्पणं दर्शयेत्तत्र चामरं व्यजनं तथा | ब्राह्मणान्भोजयेत्तत्र चतुर्वेदसमन्वितान् || ३३४ || प्रतिमामस्त्रदेवानां रजनीचूर्णमस्तके | तैलारम्भे तु सहसा चूर्णं कृत्वा विचक्षणः || ३३५ || प्. १२९८) तैलं च चूर्णपात्रं च अस्त्रदेव समन्वितम् | शंखघोष समायुक्तं वास्तुदेवबलिक्रमः || ३३६ || प्राकारेणावृतं कुम्भैः पूर्णं गच्छेत्समाकुलम् | भूपतिं तैलसंयुक्तं महासेना समन्वितम् || ३३७ || गायकैर्वाद्यनृत्तं वा गणिकाभिस्समन्वितम् | तदीतीरे तटाके वा तीर्थं च स महेश्वरम् || ३३८ || स्थण्डिलं तत्र कुर्वीत विधिपूर्वं विशेषतः | पुण्याहं वाचयेत्तत्र गन्धपुष्पसमन्वितम् || ३३९ || परिस्तरेण दर्भाणां अर्चयेत्कलशं तथा | सर्वदेवं समावाह्य सर्वतीर्थ समन्वितम् || ३४० || प्. १२९९) सप्ततालविधिः प्रोक्त आचार्यः शिष्य एव च | अस्त्रेण सर्वभक्तानां सहस्नानं विधीयते || ३४१ || ग्रामप्रदक्षिणं कुर्यात् प्रविशेदालयं प्रति | मूलदेवस्य स्नपनं प्रतिमा स्नपनं तथा || ३४२ || यागेशं पूजयेत्तत्र पूर्णाहुतिं समाचरेत् | शिवकुम्भं ततोद्धृत्य आचार्यः परिचारकैः || ३४३ || ग्रामप्रदक्षिणं कुर्याच् छिवाग्रे मण्टपं तथा | पुण्याहं वाचयेत्तत्र अभिषेकं च कारयेत् || ३४४ || यागेश्वरस्य देवानां पीठबाह्ये प्रदक्षिणम् | स्नपनं तत्र कुर्वीत वस्त्रेणालंकृतं शुभम् || ३४५ || प्. १३००) उमास्कन्देश्वरं चैव स्नपनं तत्र कारयेत् | अष्टोत्तर शतं श्रेष्ठं पंचाशत्पंचविंशतिः || ३४६ || देवाग्रे स्थण्डिलं कृत्वा अष्टद्रोणैश्च शालिभिः | पुण्याहं वाचयेत्तत्र स्नपनं स्नानमाचरेत् || ३४७ || शुद्धवस्त्रपरीधानं श्वेतमाल्यसुशोभितम् | हविर्निवेद्य संयुक्तं ताम्बूलं तत्र कारयेत् || ३४८ || धूपदीपं समारोप्य नीराजनं विशेषतः | मौनव्रतधरास्सर्वे ग्रामप्रदक्षिणं तथा || ३४९ || लाजं पुष्पं गृहीत्वा तु ब्राह्मणान्स्वस्ति वाचकैः | आलयं तु प्रविश्याथ आचार्यः पूजयेत्ततः || ३५० || प्. १३०१) यागोपकारसंभारवस्त्रहेमांगुलीयकैः | ब्राह्मणान्भोजयेत्तत्र भक्तानां परिचारकैः || ३५१ || ध्वजदेवं समभ्यर्च्य मुद्गान्नं तु निवेदयेत् | अवरोहं तु कुर्वीत शंखकाहलमर्दलैः || ३५२ || भेरीघोष समायुक्तं सर्वालंकारमेव च | प्राकारं तु प्रदक्षिण्य चण्डयागं समाचरेत् || ३५३ || चण्डेशं स्नानसंयुक्तं वस्त्रैराभरणैर्युतम् | चण्डाग्रे होमसंयुक्तं अग्निकार्यं समाचरेत् || ३५४ || होमाग्रे तु बलिं दद्यात् ताम्बूलं तु निवेदयेत् | धूपदीपसमायुक्तं अर्चयित्वा विशेषतः || ३५५ || प्. १३०२) अन्नलिंगसमायुक्तं बलिपात्रसमन्वितम् | अस्त्रदेवं समादाय मौनं बलिं समाचरेत् || ३५६ || मौनव्रतधरास्सर्वे बलिदेवान्विसर्जयेत् | दीपहीनं तथा कुर्या प्रभानाथं तु घोषयेत् || ३५७ || ग्रामप्रदक्षिणं कृत्वा महापीठेबलिं क्षिपेत् | पादप्रक्षालनं कुर्यात् प्रविशेदालयं तथा || ३५८ || गौरीयागमहं वक्ष्ये पूर्वरात्रेऽधिवासयेत् | सायेचोत्सवमारभ्य उमास्कन्देश्वरं तथा || ३५९ || ग्राम प्रदक्षिणं कुर्याद् भक्तोत्सवमथाचरेत् | सर्वलोकसुखं पुण्यं सर्वराष्ट्रविवर्धनम् || ३६० || प्. १३०३) सर्वदारिद्र्यशमनं राज्ञां विजयवर्धनम् | भोगमोक्षफलं चैव उत्सवः कथितः क्रमात् || ३६१ || इति योगजे उत्सव विधिपटलः || ओं शिवाय नमः || पद्ममूलेन चैकेन नालजं पत्रपुष्पकम् | तथा च लिंगेनैकेन उत्सवो जायते क्रमात् || १ || लिंगं वै पद्ममूलं तु पद्मनालं ध्वजं स्मृतम् | पत्रं चैव महेशादि कुम्भादि कुसुमं स्मृतम् || २ || नाडीत्रयं तु लिंगे स्यादालीनं तु शिवोत्सवे | महेशादिषु कुम्भेषु ध्वजेषु च विशेषतः || ३ || प्. १३०४) अग्नौ घृतादि होतव्यं तृप्तिं प्राप्य घटे शिवम् | मन्त्रैः कुम्भैः शिवं पूज्य लिंगे तृप्तं सदाशिवम् || ४ || * * * * * * * * * * (सिद्धान्तशेखरे) अबुद्धिर्बुद्धिपूर्वस्तु दीक्षा तु द्विविधा भवेत् | अबुद्धि पूर्वसंस्कारदीक्षाभेदं चतुष्टयम् || ५ || कर्षणादि प्रतिष्ठान्तं प्रतिष्ठाद्यर्चनान्तकम् | अर्चनादुत्सवान्तं तु प्रायश्चित्तं चतुष्टयम् || ६ || कर्षणादि प्रतिष्ठान्तं समयं परिकीर्तितम् | विशेषमर्चनं काम्यं नित्यं नैमित्तिकं विदुः || ७ || उत्सवध्वजशुद्धिस्स्यात्तीर्थान्तमभिषेचनम् | तदंगकर्महीनं तु प्रायश्चित्तमिति स्मृतम् || ८ || प्. १३०५) समयस्नान पर्यन्तं ज्ञानपूर्त्तिपवित्रकम् | * * * * * * * * संकल्पनिराकरणे ध्वजारोहादितीर्थान्तं दशकार्यमिदं भवेत् || ९ || एतानि दशभेदानि त्रिपदार्थस्य युज्यते | बीजांकुरार्पणं चैव ध्वजारोहणमेव च || १० || तत्वरूपमिदं सर्वं तस्मिन्विन्यासदर्शनम् | यागदीक्षाध्वशुद्धिःस्याद्वृषारूढात्मरूपकम् || ११ || आत्मदृश्यं रथीयानं कृष्णगन्धात्मशोधनम् | दीपावलोकनं चैव शिवरूपमिति स्मृतम् || १२ || तीर्थं तु दर्शनं विद्याद् योगं कुम्भाभिषेचनम् | प्. १३०६) शक्तियात्रा महेशस्य शिवभोगमिति स्मृतम् || १३ || एवं तु दशकार्याणि दीक्षाचोत्सवमुच्यते | * * * * * * * * * * * (इति कामिके) ध्वजदण्डः पतिर्ज्ञेयो ध्वजस्थितवृषः पशुः || १४ || * * * जस्य सूत्रं स्याद् वृषभ ध्वजरूपिणः | इच्छाज्ञानक्रियाशक्तिर्यष्टित्रयमिदं भवेत् || १५ || यष्टिदण्डस्तु नादः स्याद् बलयं बिन्दुरेव च | उत्सवस्य तु कर्तृत्वं ध्वजारोहणमुच्यते || १६ || ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि | तन्नः शिवः प्रचोदयात् * * * * * * * * || १७ || प्. १३०७) ओं सप्तजिह्वाय विद्महे हव्यवाहाय धीमहि | तन्नो अग्निः प्रचोदयात् * * * * * * * * || १८ || ओं तत्पुरुषाय विद्महे महादेवाय धीमहि | तन्नो रुद्रः प्रचोदयात् * * * * * * * * || १९ || ओं नारायणाय विद्महे वासुदेवाय धीमहि | तन्नो विष्णुः प्रचोदयात् * * * * * * * * || २० || ओं हंसारूढाय विद्महे कूर्चहस्ताय धीमहि | तन्नो ब्रह्मा प्रचोदयात् * * * * * * * * || २१ || ओं गणाम्बिकाय विद्महे उमाशक्ती च धीमहि | तन्नो देवी प्रचोदयात् * * * * * * * * || २२ || ओं वक्रतुण्डाय विद्महे शूर्पकर्णाय धीमहि | तन्नो दन्तिः प्रचोदयात् * * * * * * * * || २३ || प्. १३०८) ओं धनुर्धराय विद्महे सर्वसिद्धी च धीमहि | तन्नो धरा प्रचोदयात् * * * * * * * * || २४ || ओं महादेव्यै च विद्महे रुद्रपत्न्यै च धीमहि | तन्नो गौरी प्रचोदयात् * * * * * * * * || २५ || ओं तीक्ष्णशृंगाय विद्महे वेदपादाय धीमहि | तन्नो वृषभः प्रचोदयात् * * * * * * * * || २६ || ओं सर्वशक्ती च विद्महे सप्तरूपाय धीमहि | तन्नो मातॄः प्रचोदयात् * * * * * * * * || २७ || ओं तद्विशाखाय विद्महे बाणहस्ताय धीमहि | तन्नः स्कन्दः प्रचोदयात् * * * * * * * * || २८ || ओं फलप्रदाय विद्महे पापहन्त्री च धीमहि | तन्नो ज्येष्ठा प्रचोदयात् * * * * * * * * || २९ || प्. १३०९) ओं कात्यायनाय विद्महे कन्यकुमारि धीमहि | तन्नो दुर्गि प्रचोदयात् * * * * * * * * || ३० || ओं अश्वध्वजाय विद्महे पद्महस्ताय धीमहि | तन्नः सूर्यः प्रचोदयात् * * * * * * * * || ३१ || ओं झषध्वजाय विद्महे पद्महस्ताय धीमहि | तन्नो वीरः प्रचोदयात् * * * * * * * * || ३२ || ओं हंसध्वजाय विद्महे * हस्वाय धीमहि | तन्नो ब्राह्मी प्रचोदयात् * * * * * * * * || ३३ || ओं वृषभध्वजाय विद्महे हस्ताय धीमहि | तन्नश्शंकरि प्रचोदयात् * * * * * * * * || ३४ || ओं मयूरध्वजाय विद्महे शक्तिहस्वाय धीमहि | तन्नः कौमारी प्रचोदयात् * * * * * * * * || ३५ || प्. १३१०) ओं चक्रध्वजाय विद्महे शंखहस्ताय धीमहि | तन्नो वैष्णवी प्रचोदयात् * * * * * * * * || ३६ || ओं महिषध्वजाय विद्महे दण्डहस्ताय धीमहि | तन्नो वाराही प्रचोदयात् * * * * * * * * || ३७ || ओं गजध्वजाय विद्महे वज्रहस्ताय धीमहि | तन्नो इन्द्राणी प्रचोदयात् * * * * * * * * || ३८ || ओं पाशहस्ताय विद्महे शूलहस्ताय धीमहि | तन्नश्चामुण्डी प्रचोदयेत् * * * * * * * * || ३९ || ओं शूलहस्ताय विद्महे श्वानवाहाय धीमहि | तन्नो भैरवः प्रचोदयात् * * * * * * * * || ४० || ओं पक्षिराजाय विद्महे शुक्लापांगाय धीमहि | तन्नो मयूरः प्रचोदयात् * * * * * * * * || ४१ || प्. १३११) महासेनाय विद्महे षडाननाय धीमहि | तन्नः स्कन्दः प्रचोदयात् * * * * * * * * || ४२ || ओं श्वेतवर्णाय विद्महे वक्रतुण्डाय धीमहि | तन्नो गजेन्द्रः प्रचोदयात् * * * * * * * * || ४३ || ओं वेत्रहस्ताय विद्महे टंकहस्ताय धीमहि | तन्नो नन्दी प्रचोदयात् * * * * * * * * || ४४ || ओं टंकहस्ताय विद्महे शिवचिह्नाय धीमहि | तन्नश्चण्डः प्रचोदयात् * * * * * * * * || ४५ || ओं उत्पलहस्ताय विद्महे गौरी चिह्नाय धीमहि | तन्नश्चण्डी प्रचोदयात् * * * * * * * * || ४६ || ओं चित्रहस्ताय विद्महे पक्षहंसाय धीमहि | तन्नो हंसः प्रचोदयात् * * * * * * * * || ४७ || प्. १३१२) ओं सर्पराजाय विद्महे नागराजाय धीमहि | तन्नोऽनन्तः प्रचोदयात् * * * * * * * * || ४८ || ओं व्योमव्योमाय विद्महे सूक्ष्मसूक्ष्माय धीमहि | तन्नो रुद्रः प्रचोदयात् * * * * * * * * || ४९ || ओं तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि | तन्नः शिवः प्रचोदयात् * * * * * * * * || ५० || ओं श्रीं पशुं हुं फट् पाशुपतास्त्राय नमः | * * * * * * * * * इति पाशुपतास्त्रम् || ५१ || ओं हः अस्त्राय फट् | शिवास्त्रम् | ओं प्रस्फुर प्रस्फुर घोरघोरतरतनुरूप चटचट || ५८ || प्रचट प्रचट कुह कुह वमवम बन्धय बन्धय | घातय घातय | इत्यघोरास्त्रम् || ५९ || प्. १३१३) ओं श्रीं पशुं हुंफट् * * पाशुपतास्त्राय नमः | इति पाशुपतास्त्रम् * * * * * * * * * || ६० || ओं आं ईं ऊं रुद्रस्थितशृंखले ओं सर्वतो भद्रे | कटिरुद्रवचनविधारि रक्षमां प्रत्यंगिरेधाम || ६१ || धाम ज्योतिर्ज्योतिस्सुवस्सुवः भूपते नमोऽस्तु | स्वाहा | इति प्रत्यंगिरास्त्रम् * * * * * * * || ६२ || ओं हौं शिवाय नमः | ओं हौं सदाशिवाय नमः | ओं हां महेश्वरायनमः | ओं ह्लीं हं विष्णवे नमः || ६३ || ओं ह्यां ब्रह्मणे नमः | ओं ह्रां ह्रीं सह शिव सूर्याय नमः | ओं गं गां गौं गणपतये नमः | ओं सौं शरवणभवषण्मुखाय नमः || ६४ || प्. १३१४) ओं तुम्बुरु तुम्बुरु आनन्द ताण्डवेश्वराय नमः | ओं श्रीं ह्रीं वीरभद्राय नमः | ओं जुंसः ओं || ६५ || ह्रीं वं कुरु कुरु वटुकाय आपदुद्धारणाय नमः | ओं हंसः शिवाय नमः | इत्यात्मपञ्चाक्षरम् || ६६ || ओन्नमस्त्र्यक्षरं ओं ह्रीं ह्रां महीं व्योमव्यापिने नमः | इति शाम्बरं इं क्ष्म्रं इति मुख्यां फट् ह्लां ह्लां ह्लां तिशरणं || ६७ || व्र शिरसे स्वाहा ओ दीक्षुकृत् क्षुरिकाबीजं ओं षं हां हीं हूं व्योमव्यापिने हुंफट् | इति द्वादशाक्षरम् || ६८ || प्रशान्त प्रणवपुरुष्टुतं औं जुं सं | ह्रीं विद्यां गास्त्राय नमः || ६९ || प्. १३१५) ओं ह्रीं वं पराशक्तिमययै नमः | ओं ह्रीं भुवनेश्वर्यै नमः || ७० || ओं ह्रीं मनोन्मन्यै नमः | ओं श्रीं महागौर्यै नमः || ७१ || ओं श्रीं ह्रीं उमादेव्यै नमः | ओं ऐं क्लीं सरस्वत्यै नमः || ७२ || ओं श्रीं कमलवासिन्यै नमः | ओं रं वं यं सं त्रं हं अमृतेश्वराय नमः || ७३ || हौं सिद्धप्रासादमाह | हौं कलाप्रासादमाह | ह्रीं कमलाकृत प्रासादमाह | हां क्षमण प्रासादमाह || ७४ || प्. १३१६) हं अन्नस्थप्रासादमाह | हृं सृं क्ष्मृं ऌं वृं श्रं त्रं ऊं कण्ठेर्ण्य प्रासादमाह || ७५ || आत्मतत्वप्रासादमाह * * * * * * * | औं आदित्य प्रासादमाह * * * * * * * || ७६ || आं सः आत्मप्रासादमाह * * * * * * * | ओं हां हौं शिवायनमः | प्रासादपञ्चाक्षरम् || ७७ || नमश्शिवाय इति स्थूलसूक्ष्मम् * * * * * | स्थूलं नमश्शिवाय सूक्ष्मं नमोऽन्तं शिवाय इति सिद्धः || ७८ || प * * * * * * * * मिदं समाप्तमासीत् || ########### END OF FILE #######