#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00658 Uniform title: ajaḍapramātṛsiddhiḥ Author : utpaladeva Description: Copied from volume 34 of the K.S.T.S. series Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: Apr. 6, 2024 Diplomatic transcription Publisher : Publication year : 1921 Publication city : Publication country : India #################################################### ओं काश्मीर-संस्कृतग्रन्थावलिः | ग्रन्थाङ्कः ३४ सिद्धित्रयी ईश्वरप्रत्यभिज्ञाकारिकावृत्तिश्च श्रीमन्महामाहेश्वराचार्यवर्य-राजानक-उत्पलदेवविरचिते श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज- श्रीप्रतापसिंहवर-प्रतिष्ठापिते प्रत्नविद्याप्रकाश- (रिसर्च) कार्यालये तदध्यक्ष-पण्डित-मधुसूदनकौल-शास्त्रिणा उद्दिष्ठकार्यालयस्थेतरपण्डितसहायेन पाश्चात्यविद्वत्परिपत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य श्रीनगरे कश्मीर प्रताप स्टीम प्रेस मुद्रणालये मुद्रयापयित्वा प्राकाश्यमुपनीते विक्रमाब्दः १९७८ खैस्ताब्दः १९२१ काश्मीर-श्रीनगर अथ अजडप्रमातृसिद्धिः महामाहेश्वराचार्योत्पलदेवविरचिता सवृत्तिः | पृ० १) यथा सदसतां नैव विशेषोऽस्ति निजात्मनि | जडाजडानामप्येवं नास्त्यसाविति निश्चयः || १ || विज्ञानसंतानवादिनां मते सर्वेषां भावानां क्षणिकत्वात् स्वलक्षणात्मके प्रातिस्विके स्वरूपे विशेषाभावः संतानिन एकस्यानुसंधातुरनभ्युपगतत्वात् | एवं चेतनाचेतनानामपि स्वात्मनि निर्विशेषत्वम् || १ || प्रख्योपाख्या च सत्ता य- द्यदसत्ता विपर्ययः | नैतत्स्वरूपं स्पृशति वस्तुनो ज्ञातृगाम्यदः || २ || पृ० २) प्रकाशविमर्शलक्षणाभ्यां प्रख्योपाख्याभ्यां तदभावेन च भावानां सदसत्तयोर्व्यवस्थापयितुमिष्टयोरपि वस्तुनः स्वरूपस्पर्शाभावः, यतस्तत्प्रख्यादि ज्ञातुर्धर्मस्ततस्तत्स्वरूपव्यवस्थानाभावः || २ || प्रख्योपाख्याविषयता- प्यर्थस्यात्मा न युज्यते | परापेक्षितया नैक- रूपत्वे सत्त्वलङ्घनात् || ३ || न च प्रख्यादिविषयत्वेऽपि पदार्थस्वरूपतोपपद्यते परप्रकाशाधीनत्वात्तस्य | किं चानेकाकारत्वेऽपि वस्तुसत्ताया अप्रतिष्ठानात् | तस्मादन्योन्यं वस्तुतदभावयोर्निर्विशेषत्वम् || ३ || मा भूद्विशेषः प्रख्यादि- भावाभावौ ततः पुनः | सिद्ध्यत्येव विशेषोऽत्र तावता च प्रयोजनम् || ४ || निर्विशेषत्वाभ्युपगमेऽपि सदसतोर्वस्तुनोः प्रख्यादिभावाभावावविकलावेव तदवलम्ब्य पुनर्विशेषवत्त्वस्य सिद्धेः, ततः साकल्येन भावेष्वर्थक्रियापि सिद्ध्येदेव || ४ || एवमप्यवभासानु- षक्ता सत्तोचिता भवेत् | पृ० ३) तदपेक्षां विना भावा- भावयोरविशिष्टता || ५ || इत्थं च वस्तुसत्तायाः प्रकाशलग्नाया एवौचित्यं प्रकाशमानतालक्षणं संभाव्यतेऽन्यथा संविदनुषङ्गं विना सदसतोरन्योन्यनिरपेक्षत्वात् स्वस्वरूपनिष्ठयोर्विशेषानुपपत्तेः || ५ || कथं स्यादविशेषोऽत्र यावतार्थक्रियां हि सन् | कुर्यान्नान्यस्तथाप्यर्थो निर्विशेषो निजात्मनि || ६ || यस्मात्सत एव वस्तुनोऽर्थक्रियाकारित्वमसतस्तदभाव इति कथमविशिष्टत्वमर्थक्रिययैव तद्भावोपपादनात्, इत्याक्षेपः | तत्राह तथाप्यर्थक्रियायास्तत्तत्प्रमात्रधीनतया नैसर्गिकत्वाभावाद्विना संविदाश्रयतामर्थस्य स्वात्मनि विशेषाधायकत्वासिद्धेः || ६ || एवमर्थक्रियाभासो- पाधिसंभेदमागतः | सन्नर्थः स्यात्स्वरूपेण नासतस्तु विशिष्यते || ७ || उक्तप्रकारेण संविद्यप्रतिष्ठानादर्थक्रियाकारिभिस्तत्तदाभासोपाधिभिः संभिन्नस्यार्थस्यार्थस्वरूपेण सत्तासंपत्तावपि पुनरसतोऽर्थाद्विशेषो न सिद्ध्येत् || पृ० ४) तत्राप्यर्थक्रिया सिद्ध- सत्ताकार्थे न वर्णिता | सममेवानयोस्तेन प्रतिष्ठा संविदाश्रया || ८ || तयोरुभयोः सदसतोर्मध्येऽपि प्रागसिद्धेऽर्थेऽर्थक्रियाया अव्यवस्थितत्वात्, अथ च पूर्वसिद्धेऽर्थे तत्सिद्धेर्नार्थक्रियैव वस्त्वात्मा; तस्माद्भावाभावयोरक्रममेव संविदधीनैव सिद्धिः तन्निष्ठत्वादेव भावव्यवस्थितीनाम् || ८ || संविदप्यपरामर्श- रूपा चेत्तदसावपि | अभावेन जडेनाथ तुल्यैव प्राग्वदात्मनि || ९ || निर्विमर्शस्य प्रकाशस्यापि स्फटिकादिवद्विश्वावभासनेऽपि अस्वतन्त्रत्वात्स्वात्मन्यसता जडेन च भावेन सादृश्यमेव स्यात् परस्परवृत्तपरिज्ञानेऽनेलमूकप्रायत्वात्, एतेन शान्तब्रह्मवादनिरासः कटाक्षितः || ९ || सैवं भूतात्मना स्वेना- प्यलब्धपरिनिष्ठितिः | कथमन्यस्य भावस्य प्रतिष्ठास्पदतामियात् || १० || निर्विमर्शा संवित्स्वतोऽलब्धसत्ताका परं व्यवस्थापयितुं नालं गगनकुसुममिव सौरभादिजनने || १० || पृ० ५) इदमित्युचितः संवि- त्प्रकाशोऽन्यस्य वस्तुनः | प्रतिष्ठात्मकतां गच्छे- दहमित्यात्मना पुनः || ११ || भिन्नं वस्तु इदन्ताविमर्शेन प्रकाशनार्हं सत्पुनरहन्तात्मना व्यवस्थामियात् | संविदेव विश्वस्फुरत्तामयी स्वस्वातन्त्र्यादेव विचित्रार्थात्मनाविभिन्नप्रकाशमयेन प्रस्फुरन्ती विश्वजीवितं, तदहन्ताविश्रान्तिं विना स्वतोऽसिद्धं कथं व्यवहार्यं स्यात् || ११ || व्यतिरेकेतराभ्यां हि निश्चयोऽन्यजडात्मनोः | व्यवस्थितिः प्रतिष्ठा च सिद्धिर्निर्वृत्तिरुच्यते || १२ || ज्ञातरि व्यवस्थितत्वे सन् जडोऽन्यथासन्, स्वात्मान्यसंरम्भत्वे स्वप्रकाशत्वं तदभावे नास्तीत्यन्वयव्यतिरेकाभ्यां हि स्वपरत्वनिश्चयः, स च व्यवस्थाप्रतिष्ठादिशब्दैरुच्यते || १२ || एवमात्मन्यसत्कल्पाः प्रकाशस्यैव सन्त्यमी | जडाः प्रकाश एवास्ति स्वात्मनः स्वपरात्मभिः || १३ || पृ० ६) इत्थं जडभावानां संविद्विश्रान्तिं विनासत्कल्पत्वात् स्वात्मन्यसत्स्वभावानां ज्ञातुः प्रकाशस्वभावस्य संबन्धितयैव सत्त्वं, तस्मात्संवित्प्रकाश एव स्वात्मोच्छलत्तया स्वमायाशक्त्युल्लासिते विश्ववैचित्र्ये जडाजडभावराशिद्वयेन वेद्यवेदकात्मकेन स्वरूपानतिरिक्तेनातिरिक्तेनेव प्रस्फुरेत्,- इति स्वातन्त्र्यवादस्य प्रोन्मीलनं सूचितवानाचार्यः || १३ || नचैवानुभवोऽप्यस्ति भिन्नाभिन्नविनिश्चयम् | मुक्त्वान्वयस्य प्रकाशस्य विमर्शरहितात्मनः || १४ || संयोजनवियोजनात्मकं स्वातन्त्र्यं विहाय सतो जडप्रकाशस्य नैव संरम्भात्मानुभवो निर्विमर्शात्मकत्वात् | एतदेव हि प्रत्यवमर्शस्य माहात्म्यं यद्विश्वं स्वात्मैक्येनान्तःस्थितं बहिरिदन्तयोद्भासयन् उद्भास्यमानमपि पुनः पूर्णाहन्ताविश्रान्त्याभेदमापादयेत् || १४ || इदमित्यस्य विच्छिन्न- विमर्शस्य कृतार्थता | या स्वस्वरूपे विश्रान्ति- र्विमर्शः सोऽहमित्ययम् || १५ || इदमिति विच्छिन्नतया विमृश्यस्यास्य जडस्य या संवित्स्वरूपविश्रान्तिलक्षणा कृतार्थता सोऽयमहमेव तत्तद्भाववैचित्र्यात्मना प्रकाशे इति चैतन्यप्रकाशतादात्म्याद- पृ० ७) हंप्रत्यवमर्षात्मा जीवितस्थानीयो, यदाश्रयाज्जडमपि वस्तु विम्रष्टृस्वभावप्रमात्रैक्यादहंभावविश्रान्तेरजडत्वमायाति | अजडाश्च वस्तुतः परप्रमात्रेकस्वभावाः,- इत्यद्वैतोऽजडप्रमातृभाव एव सर्वतः पारिपूर्ण्येन विजृम्भते इति तात्पर्यम् || १५ || द्विधा स एष एवात्मा मितोऽपरिमितस्तथा | प्राणादिना निरुद्धोऽणुः परमात्मा त्वखण्डितः || १६ || स एव संविदात्मा परमेश्वरः स्वेच्छया विश्वक्रीडोल्लिलासयिषायां प्राणाद्यात्मतामवभास्य तत्प्रमातृत्वेन संकुचितीभूय जीवतामेति, प्राणाद्यनिरुद्धस्तु विश्वनिर्भरितात्मतया पूर्णः स्वतन्त्रश्चिदात्मैवेति परिमितापरिमितत्वेन द्विविधत्वम् || १६ || उभयोऽप्येष पर्यन्त- भूमिः सर्वार्थसंविदाम् | एक एवानुसंधाना- दतोऽन्यो नोपपद्यते || १७ || द्विविधस्याप्यस्य प्रकाशात्मनः समस्तभावाभावात्मिकानामर्थसंविदां विश्रान्त्यास्पदत्वम् | स च पौर्वापर्यानुसंधातृतया संविन्मात्रस्फुरत्तैकरूप एव यस्मादतो भेदानुपपत्तिः || १७ || पृ० ८) न चाप्यव्यतिरेकात्म- विमर्शात्मन्यहंविदि | भाति पर्यन्तवर्तिन्यां भासनादधिकं जडम् || १८ || न च विश्वाभिन्नप्रत्यवमर्शस्वरूपेऽहंप्रकाशे सर्वज्ञानविश्रान्तिभूमौ तत्प्रकाशाधिक्येन जडस्य सत्ता, तस्य संवित्प्रकाशाद्भेदाभेदविकल्पैरुपहतत्वात्, अत एक एवाजडप्रमाता स्वस्वातन्त्र्येण स्वाभिन्नं भावजातं स्वात्मन्येवोद्भासयन्विलापयंश्चाप्रच्युतस्वात्मस्थितिः प्रस्फुरतीत्यर्थः || १८ || न सिद्धोऽप्रथनादेव ज्ञानादिसमवाययपि | तत्प्राणादि प्रमेयं स्या- न्न प्रमातान्यतो भ्रमात् || १९ || ज्ञानादिगुणैः समवेतोऽपि परिमितप्रमाता विमर्शवैधुर्यादेव न सिद्ध्यति निर्विमर्शत्वे जाड्यप्रसङ्गात्, तस्माद्व्यवच्छिन्नां भ्रान्तिमाश्रित्य प्राणपुर्यष्टकमातुर्वेद्यत्वं स्यात् न परमार्थप्रमातृभावः संभाव्यते || १९ || यद्यप्यर्थस्थितिः प्राण- पुर्यष्टकनियन्त्रिते | जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता || २० || पृ० ९) मायाव्यवहारात्मनि लोकयात्रायां यद्यपि प्राणादि संकोचवति जीवे सर्वेषां बाह्याभ्यन्तराणां विषयाणां व्यवस्थितिर्नियन्त्रिता तथापि संकुचितात्मनि तत्र मितप्रमातरि संकोचापहस्तनेन परप्रमात्रेकात्मतया शिवात्मन्येव सा तिष्ठति प्राणादेश्चित्प्रकाशादव्यतिरेकित्वात्, शिवस्यैव स्वेच्छया समुल्लासितायाः पशुभूमिकाया ग्रहणेनाणुभावाभ्युपगमात् || २० || तदात्मनैव तस्य स्या- त्कथं प्राणेन यन्त्रणा | साधिता प्रत्यभिज्ञाया- मख्यातेर्जीवता परम् || २१ || तस्माद्वस्तुतः शिवस्वभावाभिन्नेन प्राणादिप्रमात्रा संकुचितशुक्तिकेन कथमनवच्छिन्नप्रकाशानन्दमयपूर्णाहन्तास्फुरत्तात्मनः शिवस्यावभासननिरोधः स्यात् तथात्वे तस्य स्वयं स्थातुमशक्यत्वात् केवलमपरिच्छिन्नस्वशक्तिविकासस्याप्रथनमेव बन्धकत्वपर्यायं जीवत्वं, तस्य चेश्वरप्रत्यभिज्ञायां शास्त्रे सविस्तरं निर्णीतत्वादिति तत एव विवेच्यम् || २१ || नार्थव्यवस्था प्राणादा- वहंभावनिरोधतः | प्रकाशस्यात्मविश्रान्ति- रहंभावो हि कीर्तितः || २२ || पृ० १०) उक्ता सैव च विश्रान्तिः सर्वापेक्षानिरोधतः | स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च || २३ || प्राणादौ परिमितप्रमात्रास्पदे जडे स्वात्ममात्रस्फुरत्तात्मनः परामर्शस्य निरोधान्नैव वस्तुव्यवस्था तस्याः संविन्निष्ठत्वात्, यतो या संविदः स्वात्ममात्रविश्रान्तिः स एव पूर्णाहन्ताविमर्शस्वभावोऽहंभावोऽर्थव्यवस्थापको गीयते | सैव विश्वभावानां पर्यन्तप्रतिष्ठाभूमिकत्वाद्विश्रान्तिः, विश्वप्रसरणे स्वव्यतिरिक्तसामग्रीनिरपेक्षत्वात् स्वातन्त्र्यं, तदेव कर्तृत्वं मुख्यमैश्वर्यमप्यागमेषूद्घोष्यते || २३ || मायाभिधायास्तच्छक्ते- रेव चान्याप्रसिद्धितः | तदख्यातिमयं ह्येत- ज्जगन्निर्मातृतेशिता || २४ || माया नाम शक्तिः शिवस्य शक्तिमतोऽव्यतिरेकिणी स्वरूपगोपनात्मिका क्रीडा, तन्निमित्तादेव यस्मादख्यातिमयमेतद्विश्वं भासते व्यतिरिक्तकारणस्य भेदाभेदविकल्पोपहतत्वेनाप्रसिद्धत्वात्, तस्माद्विश्वाभासानां निर्मातृत्वमीश्वरत्वम् || २४ || एकैव चानुसंधाना- त्सा प्रोक्ता सर्वसंविदाम् | पृ० ११) स्वसंवेदनपर्याय- मातृतत्त्वमनादि तत् || २५ || सैश्वरी पराशक्तिः समस्तानां विच्छिन्ननीलादिसंविदां संयोजनवियोजनादौ कार्ये पूर्वापरादिकोटावैक्यानुसंधानमाश्रित्य तदाधारभूतानवच्छेदिनी एकैव, तदेव स्वसंवेदनपर्यायं मातुरनादि तत्त्वमुच्यते || २५ || भावव्यवस्था यन्निष्ठा तस्याहंभावभागिनः | व्यापित्वमनुसंधानं तज्जडस्य न युज्यते || २६ || यत्र सर्वार्थानां व्यवस्थितिः प्रतिष्ठिता तस्य संविदात्मनः पूर्णाहन्तापरामर्शसारस्याजडप्रमातुः स्वातन्त्र्याविनाभाववत्त्वात्सर्वत्रानुसंधानात्मकं व्यापित्वमस्ति, तच्चास्वतन्त्रस्य जडस्य न घटते विमर्शसारत्वाभावात् || २६ || ततो भेदे तु भासस्य घटते भासमानता | तेनोक्तं प्रत्यभिज्ञायां तदद्वयमयं जगत् || २७ || अजडत्वमाश्रित्य पुनरेतावति भेदोल्लासात्मके विश्वस्मिन् नीलसुखादेर्भास्यस्यापरिक्षीणान्तःस्थितेरेव ज्ञानशक्त्या बहिर्भासिनः प्रकाशमानताया घटनात्; अथ चाभे- पृ० १२) दमवलम्ब्य जडस्य पुनः प्रकाशनोपपत्तेरन्यथा त्वप्रकाशनात् | तेन हेतुना श्रीमदीश्वरप्रत्यभिज्ञायां संविदद्वयप्रकृति विश्वमुक्तं भवतीति शिवम् || २७ || प्रमातृसिद्धावाचार्योत्पलदेवकृतौ मनाक् | चन्द्राब्ध्यष्टेन्दु १८४१ शाकाब्दे शास्त्री वृत्तिं हरो व्यधात् || इत्यजडप्रमातृसिद्धौ श्रीमन्महामाहेश्वराचार्योत्पलदेवपादविरचितायां वृत्तिः समाप्ता || श्रीमत्प्रतापभूभर्तुराज्ञया प्रीतये सताम् | मधुसूदनकौलेन संपाद्येयं प्रकाशिता || अयं ग्रन्थः पण्डित विश्वनाथ एंड सन्स फोटोग्राफर्स प्रोप्राइटर्स इत्यादि इत्येतैः स्वकीये काश्मीर प्रताप स्टीप प्रेस श्रीनगर इत्याख्याख्याते मुद्रणायन्त्रे सम्मुद्रितः ########### END OF FILE #######