#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00003 Uniform title: akulavīratantra Main title: akulavīratantram Secondary title: kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha Author : matsyendrānātha Alternate name : matsyendra Alternate name : macchagnapāda Editor : Bagchi, P. C. Description: The source of this e-text is Calcutta Sanskrit Series 3 - kaulajñānanirṇaya and some minor texts of the school of matsyendrānātha - where it is bundled along with kaulajñānanirṇaya kulānandatantra, and jñānakārikā . The printed volume also contains introductory material and summaries in english. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: August 1, 2006 Publisher : Metropolitan Printing and Pub. House Publication year : 1934 Publication city : Calcutta Publication country : India #################################################### [आ] श्रीमच्छन्दपादकेभ्यो नमः | श्रीमीनसहजानन्दं स्वकीयाङ्गसमुद्भवम् | सर्वमाधारगम्भीरमचलं व्यापकं परम् | मायामलविनिर्मुक्तं मीननाथं नमाम्यहम् || अथातः सम्प्रवक्ष्यामि अकुलवीरं महद्भूतम् | गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः || १ || अनुग्रहाय लोकानां सिद्धनाथेन भाषितम् | गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् || २ || संसारार्णवमग्नानां भूतानां महदाश्रयम् | यथा नदीनदाः सर्वे सागरे समुपागताः || ३ || तथा अकुलवीरेषु सर्वधर्मा लयङ्गताः | सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः || ४ || सहजानन्दं न विन्दन्ति सर्वधर्मसमासृताः | अजानन्तमलैर्ग्रस्ता महामायान्धच्छादिताः || ५ || शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) | न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् || ६ || संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा | बौधास्तु अरिहन्ता ये सोमसिद्धन्तवादिनः || ७ || (प्. ८५) मीमांस पञ्चस्रोताश्च वामसिद्धान्तदक्षिणाः | इतिहासपुराणञ्च भूततत्वन्तु गारुडम् || ८ || एभिः शैवागमैः सर्वैः परोक्षञ्च क्रियान्वितैः | सविकल्पसिद्धिसञ्चारं तत् सर्वं पापबन्धवित् || ९ || विकल्पबहुलाः सर्वैर्मिथ्यावादा निरर्थकाः | न ते मुञ्चन्ति संसारे अकुलवीरविवर्जिताः || १० || सर्वज्ञं सर्वमासृत्य सर्वतो हितलक्षणम् | सर्वेषां सिद्धिस्तत्रस्था सर्वसिद्धिञ्च तत्र वै || ११ || यत्रासौ अकुलवीरो दृश्यते सर्वतोमुखम् | तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् || १२ || शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम् | सर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः || १३ || भावाभावविनिर्मुक्त उदयास्तमनवर्जितः | स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् || १४ || अकुलवीरमिति ख्यातं सर्वाधारपरापरम् | नाधारलक्षभेदन्तु न नादगोचरे पठेत् || १५ || हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके | न इडा पिङ्गला शान्ता न चास्तीति गमागमे || १६ || न नाभिचक्रकण्ठे च न शिरे नैव मस्तके | तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे || १७ || न पूरककुम्भके तत्र रेचके (च) तथा पुनः | न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके || १८ || (प्. ८६) प्रवेशनिर्गमे नैव नावाहनविसर्जनम् | न करणैर्नासनं मुद्रैर्नामासे भिन्नतालुके (?) || १९ || न निरोधो न चोद्धारो नातीतां चालनं न हि | न प्रेर्यप्रेरकञ्चैव न स्थानन्नैव चाश्रयम् || २० || न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् | एतत् पक्षविनिर्मुक्तं हेतुदृष्टान्तवर्जितम् | सबाह्याभ्यन्तरन्तत्र एकोच्चारं चराचरम् || २१ || न दूरे न च वै निकटे न भरितो न च रिक्तक(ः) | न उन्नो न सोऽधिक एभिः पक्षैर्विवर्जितम् || २२ || यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै | यत्र लक्षं न विद्येत अकुलवीर स उच्यते || २३ || यस्यैवं संस्थितं कश्चित् समरस संस्थितः | स ब्रह्मा सो हरिश्चेशः स रुद्रो स च ईश्वरः || २४ || स शिवः परमदेवः स सोमार्काग्निकस्तथा | स च सांख्यः पुराणाश्च अर्हन्तबुद्ध एव च || २५ || स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः | स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वत्र देवता || २६ || यादृशेन तु भावेन पुरुषो भावयेत् सदा | तादृशं फलमा(व)प्नोति नात्र कार्यविचारणात् || २७ || अस्यैव हि नामानि पृथग्भूतानि योगिभिः | अनाम तस्य गीयन्ते भ्रान्तिज्ञानविमोहितैः || २८ || धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः | तेन मुञ्चन्ति संसारं नरकं योनिसंकुलम् || २९ || (प्. ८७) अकुलवीरं महद्भूतं यदा पश्यन्ति सर्वगम् | स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् || ३० || निस्तरङ्गं निराभासं पदभेदविवर्जितम् | सर्वावयवनिर्मुक्तं निर्लयं निर्विकारजम् || ३१ || अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् | सर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् || ३२ || कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् | मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् || ३३ || समत्वं एकभूतञ्च ऊहापोहविवर्जितम् | अकुलवीरं महद्भूतम् अस्तिनास्तिविवर्जितम् || ३४ || न मनो न च वै बुद्धिर्न चिन्ताचेतनादिकम् | न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः || ३५ || न भूते गृह्यते सो हि न सुखं दुःखमेव च | न रसो हि न सुखं दुःखमेव च (?) || ३६ || न रसो विरसश्चैव न कृतो न च जायते | न च्छाया न च तापस्तु न शीतो न च उष्णवान् || ३७ || न (दृश्यते मन्) स्तत्र उदयास्तमनवर्जितम् | न सीमा दृश्यते तत्र न च तीर्थ्यं न चैव हि (?) || ३८ || अद्वैतमचलं शान्तं संगदोषविवर्जितम् | निराकुलं निर्विकल्पञ्च निबद्धञ्च मलक्षणम् || ३९ || अनाथं सर्वनाथञ्च उन्मना मदवर्जितम् | अनिगूढमसन्धिञ्च स्थावरं जङ्गमेव च || ४० || (प्. ८८) ज्वलज्ज्वलनभूम्या च आपोञ्चैव तथैव च | सर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् || ४१ || यस्यैषा संस्थिता मुक्तिः स मुक्तो भवबन्धनात् | न तस्य मातापिता (वा)बान्धवं न च देवता || ४२ || न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् | त्यक्त्वा विकल्पसंघातम् अकुलवीरलयं गताः || ४३ || न जपो नार्चनं स्नानं न होमं नैव साधनम् | अग्निप्रवेशनं नास्ति हेमन्तभृगु नोदनम् || ४४ || नियमोऽपि न तस्यास्ति नोपवासो विधीयते | पितृकार्यं न करोताति तीर्थयात्राव्रतानि च || ४५ || धर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया | स्वयं त्यज सर्वकार्याणि लोकाचाराणि यानि च || ४६ || समयाचारविचारञ्च कृतका बन्धकानि तु | संकल्पञ्च विकल्पञ्च ये चान्ये किल धर्मिणः || ४७ || भवे योगी निराचारो पशुचारविवर्जितः | सिद्धिश्च विविधाकारा पाताले च रसायनम् || ४८ || प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन | सर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः || ४९ || एतेषु मोचना नास्ति अकुलवीरविवर्जिताः | यथा मृताः (न) जानन्ति स्वादं कटुमधुरस्य तु || ५० || तथा अकुलवीरन्तु न जानन्ति स्वभावगम् | यथा मदिरा महान्तस्य कथितं नेवशकृते (?) || ५१ || Pअगे ८९ तो ९६ मिस्सिन्ग् (प्. ९७) रहस्यपरमानन्दमतिगुह्यं सुगोपितम् | लोकानां च हितार्थाय सिद्धनाथेन भाषितम् || ३९ || निर्विकल्पं पदं शान्तं यत्र लीनं परापरम् | मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्जितम् || ४० || तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता | किन्तेन बहुनोक्तेन सर्वबन्धविवर्जितम् || ४१ || अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः | लब्ध्वा तु मोक्षसद्भावम् अकुलवीरं मलापहम् || ४२ || कौलमार्गे द्वयो सन्ति कृतका सहजा तथा | कुण्डली कृतका ज्ञेया सहजा समरसे स्थिता || ४३ || प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते | ततः स पातयेद् भूमौ मुद्रामन्त्रैर्नियोजितैः || ४४ || आहुते पतने चान्ये कर्णजापेन धूपकैः | एतत् साध्यमिदं तत्त्वं (एतद्) ध्यानञ्च धारणा || ४५ || अनेकैः कर्मसंघातैः नानामार्गविभावनैः | विकल्पकललोल्लोला उद्भ्रान्ता भ्रान्तचेतसः || ४६ || हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः | हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः || ४७ || तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः | दग्धबीजेषु संभूतिर्यथा नैव प्रजायते || ४८ || मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते | अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः || ४९ || (प्. ९८) न बध्यते यथा विमले रसं विप्रलयं गतम् | तद्वद्कुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः (?) || ५० || तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति | अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता || ५१ || अकुले वीरे च सम्प्राप्ते सर्वमेतद्विनश्यति | दधिमध्ये यथा सर्पिः काष्ठे चाग्निः स्थितो यथा || ५२ || पुष्पे गन्धस्तिले तैलं वृक्षे छाया समाश्रिता | मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता || ५३ || पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च | रक्तार्थाकुलवीरे (?) च तत्सर्वं विनियोजितम् || ५४ || भावाऽभावादिसंयुक्तैः प्रत्ययैर्दृष्टिगोचरैः | अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः || ५५ || पाशजालनिबद्धाश्च महामायाविमोहिताः | न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः || ५६ || सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् | सर्वभूतस्थितं ह्येकमध्येयं ध्येयवर्जितम् || ५७ || स च सर्वगतो भावः स्थिरे पूर्णे निरन्तरे | तत्र मनो विलीनन्तु अचलं भवतन्मयम् || ५८ || मनोवृद्धिस्तथा चिन्त्यं क्षिप्ता तन्मयतां गता | यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये || ५९ || तदा तन्मयतां याति निर्मलं निश्चलं पदम् | अकुलवीरं महद्भुतमेकवीरं च सर्वगम् || ६० || (प्. ९९) दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् | केचिद् वदन्तीदं धर्ममिदं शास्त्रमिदं तपः || ६१ || अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् | इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् || ६२ || ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा | तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः || ६३ || (अ)नागतन्तु गतञ्चैव न गच्छेन्न च तिष्ठति | न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् || ६४ || न चाहं प्रचितैर्दोषैः लिप्यते न कदाचन | नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः || ६५ || न मुक्तो वै न च न मुक्तमे (?) मोक्षस्य च स्पृहा | गच्छंस्तिष्ठन् स्वपन् जाग्रद्भूञ्जानो मैथुनेऽपि वा || ६६ || भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा | चिकित्सा नैव कुर्वीत इन्द्रियार्थैः कदाचन || ६७ || आचरेत् सर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् | एवं स चरते योगी यथारण्ये हुताशनः || ६८ || पिण्डबधाञ्च नानास्ति अवस्था मूर्खवासनाम् (?) | सोमशून्यस्तथा वह्निप्राणायामविवर्जितम् || ६९ || अप्रमेयनिराभासं धारणाध्यानवर्जितम् | येन जन्मसहस्राणि भक्त्या संपूजितो गुरुः || ७० || (प्. १००) ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम् | योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला || ७१ || अकुलवीरं महद्भूतं गम्भीरं गहनामयम् | पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्जितम् || ७२ || पदव्यञ्जननिर्मुक्तं विमलं सततोदितम् | तल्लीने तन्मयात्मानं विन्दते श्वाश्वतं पदम् || ७३ || चिन्तातीतं भवेत् सो हि योगसंयोगवर्जितम् | निर्वाणं वासनाहीनं तृप्तात्मा च निरामयः || ७४ || तेन लब्धा न सन्देहोऽमला मलच्छेदनाः | तस्य प्रवर्तते क्षिप्रं तस्यैव सर्वसर्वगम् || ७५ || वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च | तानि सर्वाणि मोहानि कायक्लेशैर्निरर्थकम् || ७६ || विद्याहङ्कारग्रस्तास्तु गर्विताः कुगतिं गताः | अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः || ७७ || अकुलवीरं न विन्दन्ति कृतकैर्मोहितात्मनः | गर्वितानां कुतो ज्ञानं ग्रन्थकोटिशतैरपि || ७८ || कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च | खरवद्भवति तद्भारं सर्वं तस्य निरर्थकम् || अकुलवीरञ्च देहस्थं यदा पश्यति सर्वगम् || ७९ || धर्माधर्मफलं नास्ति नोदकं तीर्थसेवना | न क्रिया सत्यशौचं वा कर्मकाण्डे न भावना || ८० || (प्. १०१) न तस्य कर्मकर्माणि लोकाचाराणि यानि च | चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः || ८१ || अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् | कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः || ८२ || संकल्पविकल्पञ्च कलाकर्माणि यानि च | सिद्धयो विविधा लोके पातालं च रसायनम् || ८३ || प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन | सर्वे ते पाशबद्धश्च अधोमार्गप्रदायकाः || ८४ || न चैतैर्मुक्तिः संसारे अकुलं वीरवर्जिताः | यथा मदिरमानन्दं कथितं नैव जायते || ८५ || तद्वदकुलवीराख्यं स्वसंवेद्यनिरोपणम् | न जानन्ति नरा मूढाः सारात् सारतरं परम् || ८६ || तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति | चिन्तातीते यदा योगी स योगी योगचिन्तकः || ८७ || विरक्ता वासना यस्य तृप्तात्मा च निरामयः | तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः || ८८ || यावत् सममेकत्वं परमानन्दं न विन्दति | मूर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा || ८९ || अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः | दिशवेशविनिर्मुक्तं स्थानवर्णविवर्जितम् || ९० || (प्. १०२) निराकुलं निर्विकल्पं निर्गुणञ्च सुनिर्मलम् | अनाथं सर्वनाथञ्च प्रमादोन्मादवर्जितम् || ९१ || घननिविडनि(ः)सन्धिस्थावरे जङ्गमेषु च | जले ज्वलने तथा पवने भूम्याकाशे तथैव च || ९२ || सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् | तं ज्ञातं येन देहस्थं स मुक्तः सर्वबन्धनात् || ९३ || न तस्य क्रियाबन्धेन न वेद्यं न च वेदना | न यज्ञो नोपवासश्च न चर्या न क्रियोदयः || ९४ || न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् | न जापो नार्चनाग्नीनां न होमो नैव साधनम् || ९५ || नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् | नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः || ९६ || न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च | निरालम्बपदं शान्तं तथातीतं निरञ्जनम् || ९७ || सर्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते | कार्यकारणनिर्मुक्तमचिन्तितञ्च अनामयम् || ९८ || मायातीतं निरालम्बं व्यापकं सर्वतोमुखम् | स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्यते || ९९ || समस्तमेकदाभूतं द्वैताभावविवर्जितम् | अकुलवीरं महद्भूतमस्तिनास्तिविवर्जितम् || १०० || (प्. १०३) मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना (?) | न कालकलना चैव न शक्तिश्च न चेन्द्रियः || १०१ || न भूते गृह्यते सो हि न दुःखं सुखमेव च | न रसोऽधिरसश्चैव कृतकं नैव कारकम् || १०२ || न च्छाया नातपो वह्निर्न च शीतोष्णवेदना | न दिनं रात्रिमित्युक्तमुदयास्तमनवर्जितम् || १०३ || न मनो दृश्यते तत्र नोर्द्धमध्यं च ज्ञायते | अक्षोभ्यमचलं शान्तमीदृशं तत्त्वनिर्णयम् || १०४ || यादृशेन तु भावेन पुरुषो भावयेत् सदा | तादृशं फलमाप्नोति नात्र कार्यविचारणात् || १०५ || एवञ्च कुलसद्भावमवाच्यं परमामृतम् | अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविमोहिताः || १०६ || न दूरे निकटे चैव प्रत्यक्षं न परोक्षता | न भरितो न रिक्तो वा निपुणो नापि चाधिकः || १०७ || एतत् पक्षविनिर्मुक्तो हेतुदृष्टान्तवर्जितः | कृतकैर्मोहिता मूढाः कर्मकाण्डरतास्तु ये || १०८ || न तेषां मुक्तिः संसारे नरके योनिसंकुले | अकुलवीरं महद्भूतं यदा पश्यति सर्वगम् || १०९ || सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थित(म्) | निस्तरङ्गं निराभासं पदच्छेदविवर्जितम् || ११० || सर्वावयवनिर्मुक्तं निर्विकारञ्च निर्मलम् | अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् || १११ || (प्. १०४) न ध्यानं धारणा नैव न स्थानं वर्णमेव च | न रेचकं पूरकञ्चैव नरोद्घातञ्च (?) कुम्भकम् || ११२ || न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च | ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् || ११३ || एतैः सर्वैर्विनिर्मुक्तं हेतुदृष्टान्तवर्जितम् | सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थितम् || ११४ || समरसानन्दरूपेण एकाकारं चराचरे | ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् || ११५ || यस्या (?) वशं स्थितः कश्चित् समरसं रससंस्थितम् | स ब्रह्मा स हरिश्चैव स रुद्रञ्चै(वे)श्वरस्तथा || ११६ || स शिवः शाश्वतो देवः स च सोमार्कशङ्करः | स विशाख्यो मयूराक्षो अर्हन्तो बुधमेव च || ११७ || स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः | स्वयं ध्यानं स्वयं ध्याता स्वयं सर्वेश्वरो गुरुः || ११८ || सर्वज्ञः सर्वमासृत्य सर्वतो हितलक्षणः | सर्वयोगिनी तत्रस्था सर्वे सिद्धाश्च तत्र वै || ११९ || सर्वं सर्वार्थकं चैव सर्वज्ञानश्च तत्र वै | यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् || १२० || शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च (?) | सर्वे भीराश्च (?) तत्रैव ये प्रलीनाः प्रलयं गताः || १२१ || नाधारे ध्येयलक्ष्ये च न नादगोचरे परे | न हृदि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः || १२२ || (प्. १०५) न इडा पिङ्गला चैव सुष्मणा च गमागमैः | न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा || १२३ || चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे | न पूरके कुम्भके चैव रेचके च तथा पुनः || १२४ || न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः | प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके || १२५ || न करैर्न सरैर्मुद्रैः नाकाशे वायुमण्डले | न चापे चन्द्रसूर्ये च भावाभावे समागमे || १२६ || अनौपम्यं निरालम्बं पक्षापक्षविवर्जितम् | अज्ञानमलग्रस्तात्मा महामायाविमोहिताः || १२७ || शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः | न विदन्ति पदं शान्तं कैवल्यं निष्क्रियं गुरुम् || १२८ || संख्यादयश्च ये केचित् न्यायवैशेषिकास्तथा | बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः || १२९ || मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः | इतिहासपुराणानि भूततत्त्वञ्च गारुडम् || १३० || एते चैव समाः सर्वे केचित् वा(ऽपि) क्रियान्विताः | विकल्पसिद्धिदाः सर्वे तद्विदुर्न च पण्डिताः || १३१ || विकल्पबहुलाः सर्वे मिथ्यावादनिरर्थकाः | न ते मुच्यन्ति संसारे अकुलवीरविवर्जिताः || १३२ || यानि कानि च स्थानानि गिरिर्नगरसागरम् | सर्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च || १३३ || (प्. १०६) पञ्चभूतात्मकं सर्वे यत् किञ्चित् सचराचरम् | शिवाद्यदेवपर्यन्तं सर्वं तत्रैव संस्थितम् || १३४ || ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः | गन्धैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः || १३५ || तर्पयन्ति च ये भक्तास्त्रिविधैश्चैवान्तरात्मना | तेऽपि बन्धैः प्रमुच्यन्ति मुक्तिमार्गी न (?) काङ्क्षिणः || १३६ || ब्रह्मेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च | विषाख्यो मयूराक्ष (?) ये च ऋषयस्तपोधनाः || १३७ || देवादिभ्यो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः | ते (सर्वे) मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् || १३८ || अथान्यं संप्रवक्ष्यामि भिन्नावस्थां स्वभावगः | पूर्वं यदुक्ता सर्वे अन्वयमार्गे त्वकौलिके (?) || १३९ || * * * * * * * * * * * * * * * * | * * * * * * * * * * * नात्र संशयः | परमामृतसन्तृप्ताः सहजानन्दं च केवलम् || १४० || न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च | सर्वव्याधिहरश्चैव न पुनर्भवसंभवः || १४१ || अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः | सर्वतः सर्वदा शुद्धः सर्वतः सर्वदा प्रभुः || १४२ || इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनी प्रसादाल्लब्ध(म्) अकुलवीरं समाप्तम् || ########### END OF FILE #######