#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00103 Uniform title: amṛtabindūpaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: amṛtabindu upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: January 29, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### अमृतबिन्दूपनिषत् सह नाववतु-इति शान्तिः मन एव बन्धमोक्षयोः कारणम् मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च | अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् || १ || मन एव मनुष्याणां कारणं बन्धमोक्षयोः | बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् || २ || विवरणम् अमृतबिन्दूपनिषद्वेद्यं यत् परमामृतम् | तदेव हि त्रिपाद्रामचन्द्राख्यं नः परा गतिः || अथ खलु कृष्णयजुर्वेदप्रविभक्तेयममृतबिन्दूपनिषत् | तस्या उपोद्घातादिसंगतिः कठवल्ल्यादिसमा | इयम् आख्यायिकां विना अवान्तररूपेण प्रवृत्ता | अल्पग्रन्थतोऽस्या विवरणमारभ्यते | मन इति | स्वातिरिक्ताविद्यापदतत्कार्यापह्नवसिद्धनिष्प्रतियोगिकब्रह्ममात्रा-ज्ञदृष्टिः यत् स्वातिरिक्तमस्तीति मननं करोति, तदेव मनो मायातत्त्वम् | हिशब्देन त्रिगुणात्मकमनसो निष्प्रतियोगिकाभावरूपत्वं द्योत्यते | स्वाज्ञदृष्टिसत्यवद्विकल्पितमनो द्विविधमिति प्. २७) शास्त्रतः प्रोक्तम् | किंरूपेण द्विविधमित्यत्र तत्सत्त्वांशः शुद्धं च तद्रजस्तमोंऽशः अशुद्धमेव च | पदद्वयं श्रुतिरेव व्याकरोति अशुद्धमिति | कामसंकल्पविशिष्टम् अशुद्धम् अविद्यांशत्वात्, कामसामान्यविवर्जितं शुद्धं विद्यांशत्वात् || १ || बन्धमोक्षहेतुः मन एवेत्याह- मन एवेति | संकल्पादिवृत्तिमन्मनो बन्धहेतुः, निःसंकल्पं मनो मुक्तिहेतुरित्यर्थः || २ || मनोनिरोधो मोक्षोपायः यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते | अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा || ३ || निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि | यदा यात्यात्मनोऽभावं तदा तत्परमं पदम् || ४ || तावदेव निरोद्धव्यं यावद्धृदि गतं क्षयम् | एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः || ५ || यतो निर्विषयमनसो मुक्तिहेतुत्वम् अतो मुमुक्षुणा मनो निर्विषयं कार्यमित्याह- यत इति || ३ || अमनीभाव एव मोक्ष इत्याह- निरस्तेति | यस्य मनसो ब्रह्मध्यानतो विषयासङ्गो निरस्तः, तत् निरस्तविषयासङ्गं मनो हृदि संनिरुद्धं सत् यदा यस्मिन् काले आत्मनः स्वस्य अभावम् अमनीभावं याति तदा तस्मिन् काले यत् सर्वापह्नवसिद्धपदं तत् परमं पदं निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते || ४ || मनस्तत्कार्यापह्नवसिद्धं ब्रह्मेति यत् तदेव ज्ञानमिति सर्ववेदान्तपरमतात्पर्यमित्याह- तावदिति | यावद्धृदि कामादिवृत्तिमत् मनः क्षयं गतं तावदेव मनो निरोद्धव्यम् | यत् मनस्तत्कार्यापह्नवसिद्धं ब्रह्म स्वमात्रमिति जानाति तदेतत् निर्विशेषज्ञानं ध्यानं च | शब्दद्वयतः निष्प्रतियोगिकस्वमात्रतया ब्रह्म ज्ञातुं ध्यातुं प्. २८) शक्यते इति द्योत्यते | स्वातिरेकेण ज्ञातुं ध्यातुं किमन्यदस्ति, ब्रह्ममात्रस्यैव निष्प्रतियोगिकत्वात् | तदतिरेकेण शेषो न्यायश्च विस्तरः, वाचारम्भणमात्रत्वात्; वाचारम्भणं विकारो नामधेयम् इति श्रुतेः || ५ || ब्रह्मज्ञानेन ब्रह्मभावप्राप्तिः नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च | पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा || ६ || ब्रह्मयाथात्म्यविदः तद्भावापत्तिमाह- नैवेति | स्वातिरेकेण एतत् नैव चिन्त्यं स्वमात्रत्वात् | स्वमात्रतया न चाचिन्त्यं, सविशेषतया न चिन्त्यं, स्वयमेवेति चिन्त्यमेव तत् | नैव चिन्त्यमित्यादिपक्षे पततीति पक्षपातं तद्विनिर्मुक्तं ब्रह्म स्वमात्रमिति यदा वेद, तदा वेदनसमकालं ब्रह्म संपद्यते ब्रह्मैव भवतीत्यर्थः || ६ || सवेशेषब्रह्मानुसंधानेन निर्विशेषब्रह्माधिगमः स्वरेण संधयेद्योगमस्वरं भावयेत् परम् | अस्वरेणानुभावेन नाभावो भाव इष्यते || ७ || तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् | तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् || ८ || निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् | अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः || ९ || प्. २९) न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः | न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता || १० || सविशेषब्रह्मोपासनया निर्विशेषब्रह्माधिगमः स्यादित्याह- स्वरेणेति | ओंकारस्वरेण आदावपरब्रह्मयोगं संधयेत् सविशेषेश्वरोऽस्मीत्यनुसंधानं कुर्यात् | सविशेषब्रह्मप्रसादात् परम् अस्वरं निर्विशेषं ब्रह्म भावयेत् | अस्वरेण निर्विशेषब्रह्मणा अनुभावेन अनुभवेन अस्वरं परं ब्रह्मैव भावयेदिति पूर्वेणान्वयः | स्वराभावोऽस्वर इति चेन्न; अस्वरस्य निर्विशेषब्रह्मतया भावरूपत्वात् | न हि भावः कदाप्यभावः इष्यते || ७ || यस्मादेवं तस्मात् यदेव अस्वरं तदेव प्राणादिनामान्तषोडशकलावैलक्षण्येन उपबृंहणात् निष्कलं ब्रह्म स्वविकल्पितविकल्पासंभवात् निर्विकल्पं स्वाञ्जनार्हस्वातिरिक्तवैरल्यात् निरञ्जनं यत् तत् ब्रह्माहमिति ज्ञात्वा तज्ज्ञनसमकालं ध्रुवं निर्विशेषं ब्रह्म संपद्यते || ८ || उक्तार्थमेव भङ्ग्यन्तरेणाह- निर्विकल्पमिति | जाग्रज्जाग्रदाद्यविकल्पानुज्ञैकरसान्तचतुष्पञ्चदशविकल्पाः यत्र स्वावशेषतया पर्यवस्यन्ति तत् निर्विकल्पम् | निर्विकल्पस्य सूक्ष्मत्वेनान्तवत्त्वं स्यादित्यत आह- अनन्तं चेति | त्रिविधपरिच्छेदवैरल्यात्; देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म इति श्रुतेः | चशब्दो निष्प्रतियोगिकानन्त्यद्योतकः | उक्तार्थे को हेतुः, दृष्टान्तो वा कः, इत्यत आह- हेतुदृष्टान्तवर्जितमिति | स्वसिद्धौ स्वातिरिक्तहेत्वभावात् स्वस्य निष्प्रतियोगिकत्वेन दृष्टान्तासंभावाच्च | यत एवम्, अतः तत् अप्रमेयम्; वेदान्तेतरप्रमाणासहत्वात् | अप्रमेयत्वेऽपि तदादिमत् स्यात् इत्यत आह- अनादिं चेति | निष्प्रतियोगिकसन्मात्रस्य उत्पत्त्यादेरसंभवात् | चशब्दतः स्वातिरिक्तस्याप्यजत्वं द्योत्यते, पश्यतेहापि सन्मात्रमसदन्यत् ब्रह्ममात्रमसन्न हि इति श्रुतेः | यत् एवं ज्ञात्वा बुधो विद्वान् ज्ञानसमकालं स्वातिरिक्तास्तित्वभ्रमतो मुच्यते, तत् स्वमात्रमवशिष्यत इत्यर्थः || ९ || प्. ३०) उत्पत्तिप्रलयबन्धमोक्षादिव्यवस्थादर्शनात् कथं स्वमात्रसिद्धिरित्याशङ्क्य अस्याः स्वाविद्याविकल्पितत्वेन कारणतुल्यत्वात् निष्प्रतियोगिकस्वमात्रसिद्धिः निरङ्कुशा इत्याह- न निरोध इति | निरोधः प्रलयः, उत्पतीः जातिः, बद्धः संसारी, मोक्षसाधकः प्रमाता, स्वाज्ञानतत्कार्यात् मोक्तुमिच्छुः मुमुक्षुः, संछिन्नसंसृतिपाशो मुक्तः इत्यादिकल्पना यतः स्वातिरिक्तास्तिताप्रभवा अत स्वातिरिक्तसामान्यस्य शशविषाणवदवस्तुत्वेनाविद्यकत्वात् स्वातिरिक्तोत्पत्तिप्रलयादिः निष्प्रतियोगिकाभावरूपः इत्यत्र मायाविद्याज्ञानविश्वाभावान्तःकरणादयः ब्रह्मातिरिक्तपर्यायाः अत्यन्ताभावरूपिणः इति परमाक्षरोक्तेः निरोधादि न स्वमात्रे अस्ति इत्येषैव परमार्थता | अतो निष्प्रतियोगिकब्रह्ममात्रसिद्धिः निरङ्कुशेत्यर्थः || १० || आत्मान एकत्वम् एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु | स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते || ११ || एक एव हि भूतात्मा भूते भूते व्यवस्थितः | एकधा बहुधा चैव दृश्यते जलचन्द्रवत् || १२ || अवस्थाभेदानुरोधेन तदध्यक्षभेदः स्यादित्यत आह- एक इति | चतुश्चतुर्धाभिन्नजाग्रत्स्वप्नसुषुप्तिषु विश्वविश्वाद्यनुज्ञैकरसाविकल्पान्तभेदेन यो विभागः सोऽयम् आत्मा एक एव इति मन्तव्यः, घटशरावाद्यनुगतव्योमैकत्ववत् जाग्रज्जाग्रदाद्यवस्थानुगतविश्वविश्वादिचित एकत्वात् | एवं चतुश्चतुर्धाभिन्नस्थानत्रयव्यतीतस्य तुर्यावस्थारूढस्य विश्वविश्वादिरूपेण पुनर्जन्म न विद्यते तथा जन्महेतुस्वाज्ञानवैरल्यात् || ११ || कथं पुनरात्मनः एकत्वमित्यत्र सदृष्टान्तमेकत्वमाह- एक इति | पञ्चभूतभौतिकव्यवस्थित आत्मा एक एव हि स्वज्ञादिदृष्ट्यनुरोधेन नभोजलबिम्बप्रतिबिम्बभावमापन्नचन्द्रवत् शिवजीवभेदेन एकधा बहुधेव दृश्यते, वस्तुत आत्मन एकत्वात् || १२ || प्. ३१) आत्मनो जन्मनाशराहित्यम् घटसंवृतमाकाशं नीयमाने घटे यथा | घटो लीयेत नाकाशः तद्वज्जीवो नभोपमः || १३ || घटवद्विविधाकारं भिद्यमानं पुनः पुनः | तद्भेदे च न जानाति स जानाति च नित्यशः || १४ || सर्वोपाध्यवच्छिन्नात्मनः तत्सत्त्वासत्त्वाभ्यां स्थितिनाशौ स्यातामित्यत आह- घटेति | घटसंवृतं घटावच्छिन्नाकाशम् अन्येन घटे नीयमाने यथा घटावच्छिन्नाकाशं नीतमिव भाति, न वस्तुतः; आकाशस्याचलत्वात्, यदा घटो लीयेत न हि तदवच्छिन्नाकाशो लीनो भवति तथा तद्वत् नभोपमो जीवः स्वोपाधिचलननाशाभ्यां जीवो न चलति न नश्यति चेत्यर्थः; जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति श्रुतेः || १३ || स्वोपाधिसत्त्वासत्त्वाभ्यां आत्मा दृश्यते न दृश्यते इति यो जानाति स एव आत्मयाथात्म्यं जानातीत्याह- घटवदिति | यथा घटादिः विविधाकारः तद्वत् तदवच्छिन्नाकाशमपि पुनः पुनः उद्भूतघटादिरूपं विविधाकारमिव दृश्यते | तद्घटादीनां भेदे ध्वंसे लोकस्तदवच्छिन्नाकाशभेदं यथा न जानाति अखण्डाकाशमेव पश्यति, तद्याथात्म्यज्ञस्तु घटाद्युपाधिसत्त्वासत्त्वाभ्यां नित्यशोऽखण्डाकाशमेव जानाति || १४ || निरुपाधिकात्मदर्शनम् शब्दमायावृतो नैव तमसा याति पुष्करे | भिन्ने तमसि चैकत्वमेक एवानुपश्यति || १५ || प्. ३२) तथा स्वाज्ञदृष्टिरुपाध्यनुकारिनानात्मभेदं पश्यति, उपाध्यपाये तद्भेदं न पश्यति | परमार्थमतिस्तूपाधिसत्त्वासत्त्वाभ्यां निरुपाधिकमात्मानमेकमेवानुपश्यतीत्याह- शब्देति | शब्दार्थप्रपञ्चहेतुभूता शब्दमाया, यद्वा अर्थशून्यतया शब्दमात्ररूपिणी वाचारम्भणात्मिका अघटितघटनापटीयसी माया, तयावृतो जन्तुः तमसा अन्धकारेण आवृतजन्तुवत् पुष्करे परमपावने स्वात्मनि नैव याति | प्रदीपादिना अन्धकारभेदवत् स्वज्ञानेन स्वाज्ञानतमसि भिन्ने, चकारात् तद्वासनायां नष्टायां, प्रत्यक्परचितोः एकत्वम् एक एवानुपश्यति | यद्वा- स्वाज्ञस्तु शब्दमायावृतः सन् पुष्करे तमसावृतजन्तुवत् सर्वभूतप्रत्यग्ब्रह्मैक्यज्ञानं नैव याति | स्वज्ञस्तु स्वाज्ञानतमसि भिन्ने पुष्करेपरमात्मनि सर्वभूतप्रत्यगेकत्वमनुपश्यति | परमार्थदृष्टिस्तु प्रत्यक्परविभागैक्यासहब्रह्मतत्त्वं निष्प्रतियोगिकस्वमात्रमिति पश्यति || १५ || शब्दब्रह्मध्यानेन परब्रह्माधिगमः शब्दाक्षरं परं ब्रह्म तस्मिन् क्षीणे यदक्षरम् | तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः || १६ || द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् | शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति || १७ || ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः | पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः || १८ || निर्विशेषब्रह्ममात्रावगत्युपायमाह- शब्देति | निर्विशेषब्रह्माप्त्युपायत्वेन यत् प्रसिद्धं शब्दाक्षरम् ओं इत्येतदक्षरं परं ब्रह्मालम्बनं तदर्थज्ञानतः तस्मिन् सावयवे शब्दाक्षरे क्षीणे विलयं प्रपन्ने सति यत् शब्दाक्षरविलयाधिकरणम् अक्षरं न क्षरति तदेतत् आधेयाधारात्मकक्षराक्षरगतहेयांशापह्नवसिद्धं परमाक्षरं यदि विद्वानात्मनः स्वातिरिक्तक्षराक्षरप्रपञ्चशान्तिम् इच्छेत् तदा तदक्षरं प्. ३३) अहमस्मीति ध्यायेत् || १६ || शब्दब्रह्मयाथात्म्यज्ञानतः शब्दप्रपञ्चनिरसनपूर्वकं तदर्थब्रह्माधिगमो भवतीत्याह- द्वे इति | शब्दब्रह्म परब्रह्मेति यत् ब्रह्म द्विविधं तच्छब्दपरब्रह्मगोचरे द्वे विद्ये वेदितव्ये सगुणनिर्गुणब्रह्मयाथात्म्ये ज्ञातव्ये | तुशब्दोऽवधारणार्थः | तयोरुपायोपेयात्मकत्वात् तत्रोपायभूते शब्दब्रह्मणि सविशेषब्रह्मणि निष्णातो मुनिः- प्रणववाच्यब्रह्मानुसंधानतः निर्विशेषब्रह्मज्ञानमुदेति- तज्ज्ञानोदयसमकालं स्वातिरिक्तसर्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति परं ब्रह्माधिगच्छति | तन्मात्रतया विद्वानवशिष्यत इत्यर्थः || १७ || ब्रह्माधिगमेऽपि तद्धेतुग्रन्थाभ्यासः कर्तव्य इत्यत आह- ग्रन्थमिति | साधनचतुष्टयसंपन्नो विद्वान् यावत् ब्रह्ममात्रज्ञानं नोदेति तावत् तज्ज्ञानविज्ञानतत्परः सन् सर्ववेदान्तग्रन्थजातमभ्यस्य संशयादिपञ्चदोषशान्त्यन्तं गुरुमुखात् श्रवणं कृत्वा अथ मनननिदिध्यासनप्रभवसम्यग्ज्ञान यदि जायते तदा धान्यार्थी पलालमिव ग्रन्थजातमशेषतः त्यजेत्, प्रयोजनाभावात् | न हि सरित्पारं प्रविष्टस्य नौकापेक्षास्ति, तथेत्यर्थः || १८ || सर्वभूतप्रत्यगात्मनः एकत्वम् गवामनेकवर्णानां क्षीरस्याप्येकवर्णता | क्षीरवत् पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा || १९ || घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् | सततं मनसि मन्थयितव्यं मनोमन्थानभूतेन || २० || नानान्तःकरणावच्छिन्नप्रतीचो नानात्वं स्यादित्यत आह- गवामिति | नानावर्णविशिष्टगोक्षीरं यथा एकरूपं तथा नानालिङ्ग्यनुगतप्रत्यग्ज्ञानमेकरूपम् | प्. ३४) तुशब्दोऽवधारणार्थः || १९ || एवं सर्वभूतप्रतीचः एकत्वं किं न भातीत्यत आह- घृतमिवेति | यथा पयसि निगूढं घृतं मथनादिना आविर्भवति तथा भूते भूते सर्वभूतान्तःकरणे तद्वृत्तिभावाभावप्रकाशकमपि विज्ञानं प्रत्यक्तत्त्वं स्वाज्ञदृष्टिनिगूढतया वसति | चशब्दो निःसंसयार्थः | प्रत्यगभिमुखीभूते मनसि मन्थानभूतेन प्रत्यग्भावमापन्नेन मनसा मन्थयितव्यम् | एवं संततमननात् पराक्सापेक्षप्रत्यक्परविभागैक्यगतहेयांशापह्नवसिद्धं ब्रह्ममात्रं निष्प्रतियोगिकतया आविर्भवतीत्यर्थः || २० || तत्साक्षात्कारसाधनं ध्यानम् ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत् परम् | निष्कलं निश्चलं शान्तं तद् ब्रह्माहमिति स्मृतम् || २१ || सर्वभूताधिवासं यद्भूतेषु च वसत्यपि | सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः || २२ || तदस्म्यं वासुदेव इत्युपनिषत् || सर्वभूतनिगूढं ब्रह्म कथं साक्षात्कर्तुं शक्यमित्यत आह- ज्ञानेति | सर्वापह्नवसिद्धब्रह्ममात्रगोचरज्ञानमेव नेत्रं ज्ञाननेत्रमन्तःकरणे समाधाय विन्यस्य- चशब्दात् ज्ञानेतरसाधनासिद्धत्वं द्योत्यते- दार्वोः मथनाविर्भूतवह्निवत् निष्प्रतियोगिकं परं ब्रह्म उद्धरेत् | प्राणादिकलासु सतीषु कथं निष्प्रतियोगिकता इत्यत आह- निष्कलमिति | ब्रह्ममात्रसिद्धेः प्राणादिनामान्तषोडशकलापह्नवपूर्वकत्वात् | पूर्णत्वात् निश्चलं स्वातिरिक्तशान्तं यदवशिष्यते तत् निष्कलमित्यादिपदत्रयविशिष्टं ब्रह्मेति स्मृतं, ब्रह्म स्वमात्रमिति पर्यवसन्नमित्यर्थः || २१ || निष्प्रतियोगिकब्रह्ममात्रस्य अर्धमात्राभागत्रयावष्टम्भतः सर्वात्म्यं वस्तुतः स्वमात्रसिद्धिं प्रकटयन् उपसंहरति- सर्वेति | यत् सर्वभूतानामधिवासः स्थानम् अधिष्ठानत्वात्, यदन्तर्याम्यात्मनापि भूतेषु च वसति, यत् सर्वानुग्राहकत्वेन प्. ३५) कूटस्थचिन्मात्रतया अवशिष्यते तदस्म्यहं वासुदेवः तत्परवासुदेवाख्यं ब्रह्मास्मि | यः स्वातिरिक्ताधिवसनाद्वासुः स चासौ अधिष्ठेयसापेक्षाधिष्ठानगतहेयांशापह्नवसिद्धनिष्प्रति-योगिकब्रह्ममात्रतया दीव्यत इति देवः परमात्मा स्वमात्रमवशिष्यत इति फलितोऽर्थः | आवृत्तिरादरार्था | इत्युपनिषच्छब्दः प्रकृतोपनिषट्समाप्त्यर्थः || २२ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं बिन्दूपनिषदः स्फुटम् | प्रकृतोपनिषद्व्याख्याग्रन्थस्त्रिंशाधिकं शतम् | इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे विंशतिसंख्यापूरकम् अमृतबिन्दूपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######