#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00504 Uniform title: amṛteśatantra Secondary title: netratantra Manuscript : NGMCP manuscript no. pra-285 Reel B25/4 Description: From a manuscript dated Nepal samvat 320 i.e. 1101 C.E. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: August 14 2021. Internet publisher : Muktabodha Indological Research InstituteMuktabodha Indological Research Institute Publication year : 2021 Publication city : Publication country : United States #################################################### ओं नमः शिवादिभ्यो गुरुभ्यः | यस्तृधा त्रिष्ववस्था सुरूपमास्थाय शक्तिमान् | उद्भवस्थितिसंहारकृत्स्नं विश्वस्य शक्तितः || विदधाति नमस्तस्मै शुद्धामृतमयात्मने | शिवाय ब्रह्मविष्ण्वेश पराय परमात्मने || कैलासशिखरासीनं देवदेवं महेश्वरं | क्रीडंतं च गणैः सार्द्धं पार्वत्या सहितं हरं || दृष्ट्वा प्रमुदितं दैवं प्राणिनां हितकाम्यया | उत्संगादवतीर्याशु पादौ जग्राह पार्वती || पप्रच्छ परया भक्त्या सन्तोष्य परमेश्वरं | श्रीदेव्युवाच || भगवं देवदेवेश लोकनाथ जगत्पते | यं त्वया महदाश्चर्यं कृतं विस्मयकारकं || सर्वस्य जगतो देव किंतु मे परमेश्वर | दुर्विज्ञेयं दुराराध्यं रहस्यं न प्रकाशितं || कार्तिके यस्य न मया न सुरेषु गणेषु च | योगेश्वरीणां मात्रीणां ऋषीणां योगिनां न हि || तदद्य मे जगन्नाथ सुप्रसन्नो यदि प्रभो | १ब्) प्रार्थयामि प्रपन्नाहं निःशेषं वक्तुमर्हसि || एवं देव्या वचः श्रुत्वा प्रसन्नवदनो व्रवीन् | भगवानुवाच || किं किं वदसि सुश्रोणि रहस्यान्ते हृदि स्थितं || सर्वं वक्ष्याम्यसंदेहि तोषितो ऽहं त्वया नघे | देव्युवाच || भगवं देवदेवेश चित्राश्चर्य विधायकं | आश्चर्यमीदृशं रम्यं न श्रुतं तच्छृणोम्यहं || विभो प्रसन्नवदन परमानंदकारक | अमात्सर्येण भगवन् कथनीयं त्वया मम || यत् तदापोमयं देव चक्षुः सर्वत्र दृश्यते | तस्मादग्निः कथं रौद्र उत्पन्नः कालदाहकः || येन वै दृष्टमात्रेण पित्रीषा भस्मसात् कृतः | किं तद्रौद्रं कृतं देव वह्निः कालदिदृक्षया || प्रज्वालित जगत्सर्वं ब्रह्मादिच्छा वरान्तिकं | कामस्तथैव निर्दग्धो लीलया परमेश्वर || क्रोधनेत्रानले नाथ दृश्यते यन्न कस्यचित् | २अ) कृतं तद् देवदेवेन महाविस्मयकारकं || देवनेत्रांतरे ह्यग्निस्त्वदृते कस्य दृश्यते | किं वा वह्निमयं चक्षुस्तत्कथं न विभाव्यते || येन वै चक्षुषा कृत्स्नं प्रसरस्त्वं जगत्पते | सर्वामृतमयेनैव जगदाप्यायकृत् क्षणात् || ममानंदयसे देव प्रसन्नेनैव चक्षुषा | अमृताकारसंशुभ्रं जगदाप्यायकारकं || तस्मात् कालानलप्रख्यं कुतो वह्निः प्रजायते | एतत् सर्वं समासेन भगवन् वक्तुमर्हसि || भगवानुवाच || अतिकौतूहलाविष्टा पृच्छस्येतच्छृणु प्रिये | यन्मे नेत्रांतरे ह्यग्नि यद्वामृतमनुत्तमं || तत्सर्वं संप्रवक्ष्यामि योगयुक्त्या शृणु प्रिये | यत्स्वरूपं निजं शुद्धं व्यापकं सर्वतोमुखं || सर्वभूतान्तरावस्थं सर्वप्राणिषु जीवनं | योगगम्यं दुराराध्यं दुष्प्रापंमकृतात्मभिः || स्वसंवेद्यं स्ववीर्यं च ममैव परमं पदं | तद्वीर्यं सर्ववीर्याणां तद्वै बलवतां बलं || २ब्) तदोजस्तेजसां सर्वं शाश्वतं ह्यचलं ब्रुवं | साममेच्छा पराशक्तिर्ह्यवियुक्ता स्वभावजा || वह्नि ऊष्मे च विज्ञेया रविरूपा रवेरिव | सर्वस्य जगतो वापि सा शक्तिः कारणात्मिका || सर्वज्ञादि गुणास्तत्र व्यक्ताव्यक्ताश्च संस्थिता | सैवेच्छा ज्ञानरूपा च ज्ञानादि गुणविस्मृताः || ज्ञानादि षट्गुणा ये च तत्रस्थाः प्रभवन्ति च | सा वै क्रिया महारूपा संस्थितैका क्रिया मता || अणिमादि गुणानष्टौ करोति विकरोति सा | एवं ममेच्छा ज्ञानाज्ञा कृयाख्या शक्तिरुच्यते || सूर्याचंद्रमसौ वह्निस्त्रिधामपरिकल्पना | त्रिनेत्रकल्पनामह्यं तदर्थमिह दृश्यते || दहनाप्यायनन्तेन प्रकाश्य विदधाम्यहं | सृष्टिस्थितिं संहृतिं च तनुर्विधाम्यहं || तद्वीर्या पूरितं सर्वं मत्तेज उपबृहितं | इच्छाज्ञानक्रियारूपं नेत्रामृतमनुत्तमं || तद्वीर्यं परमं धाम यत् परामृतरूपकं | ३अ) स एष परमानंदो देहे तत् परमं पदं | तदेतन्निष्कलं ज्ञानं विशुद्धं नेत्रमुत्तमं || मृत्युजित् तेन चाख्यातं सर्वेषा मोक्षदायकं | तत् सिद्धिदं परं देवि सर्वदुःखविमोक्षदं || सर्वव्याधि हरं देवं सर्वाहरमयं शिवं | दारिद्र्य दमनं नित्यं मृत्युजित् सर्वतो मुखं || अमोघममलं शान्तं सर्वगं सर्वसंस्थितं | सूर्यकोटिसहस्राणां वह्न्यायुतसहस्रशः || यत् तेजसा समस्तस्य कलानार्घंन्ति षोडशी | सर्वन्तेजोमयं तस्मादप्रधृष्यं सुरासुरैः || तेन नेत्राग्निना सर्वं निर्दहानि क्षणाद्ध्रुवं | तेनैवाप्यायनं भूयः प्राकाश्य विदधाम्यहं || तस्मात् परतरं नान्यत् किं विद्वीर्य प्रदृश्यते | तदेवास्त्रमयं रौद्रं अणोः सन्तारणं परं || क्षयकृत् सा शत्रूणां अस्त्रंस्त्वेतदुदाहृतं | सर्वेषामेव भूतानां आयुद्धान्ते तदायुधं || तदेकं बहुधा वीर्यं भेदानंतविसर्पितं | महापाशुपतं मह्यं विष्णोस्तच्च सुदर्शनं || ३ब्) ब्रह्मणो ब्रह्मदंडश्च सर्वेषां स्वस्वमायुध | अनेकाकाररूपेण आयुधं तदनेकधा || सुराणां सुस्वरूपेण मयावीर्यं समर्पितं | ज्ञानशक्त्या तु योगेश्या तेन व्याप्तमिदं जगत् || भीतानां सा परा रक्षात्र स्नानां अभयं परं | शत्रुभिश्चार्दितानां तु मोक्षदं परमं ध्रुवं || किं वा विस्तरणोक्तेन पौनपुण्येन सुंदरि | यद्यन्निव्रतरं रौद्रं श्रीमद्वर्जितमेव वा || प्रसादं वरदं श्रेयः प्रकाश्यन्तत्तदेव हि | तद् ज्ञेयमप्रमेयं च ज्ञानं मन्त्रं महाबलं || त्रातारं सर्वभूतानां गुप्तगोप्यं सदा मया | तवाद्य कथितं देवि भूयः परिपृच्छसि || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृत्तिशविधाने तंत्रावताराधिकारो नाम प्रथमः पटलः || १ || श्रीदेव्युवाच || यद्येवं परमं शान्तं अप्रमेयं गुणालयं | सर्वानुग्रहकं वीर्यं देवदेव मुखाच्छ्रुतं || ४अ) भगवं देवदेवेश लोकानुग्रहकारक | त्रियोनिजमिदं सर्वं देवमानुष तिर्यगं || आधिव्याधि भयो द्विग्नं विषभूतभयार्दितं | अपमृत्यु शतां कर्णं ज्वरकासक्षयान्वितं || भूतजं मानुषे लोके विप्राद्याः प्राणिनस्तथा | दुःखदोषशताकीर्णं कुतंस्तेषां सुखं विभो || युगानुरूपभावेन तेषामायुं स्वमानतः | जिघांसन्ति बलोपेतास्त्वत्तेजबलबृंहिताः || अनेकशतभेदैस्तु व्याधादि विनिपीडिताः | तेषामनुग्रहार्थाय कृपया प्राणिनां हितं || उपायस्तु जगन्नाथमुच्यन्ते येन सर्वतः | येन येन प्रकारेण ज्ञानयोगेन मंत्रतः || यत् तत् पश्यति देवेश तमुपायं वदस्व मे | एवं देव्या वचः श्रुत्वा प्रहस्यो वारशंकरः || ईश्वर उवाच || अतिकारुण्यया विष्टा देवित्वं पृच्छसे मम | न केन विदहं पृष्ठो नाख्यातं कस्य चिन्मया || यत् तत् सर्वेषु नेत्रेषु नेत्रभूतं(?) प्रकीर्तितं | ४ब्) ममांशकेन केनापि लक्षितं तु सुदुर्लभैः | तवाद्य कथयिष्यामि तृप्रकारं परं ध्रुवं || मंत्रयोगज्ञानगम्यं मोक्षदं सिद्धिदं परं | आदौ मंत्रमयं वक्ष्ये सिद्धत्रयसमन्वितं || सांगं स्वमुद्रया युक्तं सर्वत्राणकरं परं | भूतयक्षग्रहोन्माद शाकिनी योगिनी गणैः || भगिनी रुद्रमात्रीभि डाव्याडामरकादिभिः | रूपिकाभिरपस्मारैः पिशाचैश्चाप्यनेकशैः || ब्रह्मरक्षोग्रहादिभ्यः कोटिशो यदि मुद्रिताः | अपमृत्युभिराक्रान्ताः कालपाशजिघांसता || राजानो राजतनया राजपत्न्यो ह्यनेकशः | विप्रादि प्राणिनः सर्वे सर्वदोष भयार्दिताः || येन वै स्मृतमात्रेण मुच्यते तद् ब्रवीमिते | भूय प्रदेशे समे रम्ये चंदनागुरु चर्चिते || कर्पूरामोदगंधाढ्ये कुंकुमोदक चर्चिते | आचार्य सुप्रहृष्टात्मा चंदनागुरु चर्चितः || उष्णीराद्यैराभरणैर्भूषितः सुमहामतिः | ५अ) पद्ममष्टदलं कृत्वा मात्रिकां तत्र चालिखेत् | त्रितनुं मध्यतो लेख्यं वर्गाष्टौ प्राग्विषो लिखेत् || पूजयेत् परया भक्त्या पुष्पधूपार्घविस्तरैः | मंत्रमाता ततो देवि प्रोद्धरेत् मंत्रमुत्तमं || विश्वाद्यं विश्वरूपान्त विश्वहामृतकं दलं | स्वेति ध्वनि पराशक्तिः शिवमेकत्र योजयेत् || अनेन ग्रथितं सर्वं सूत्रेमणि गणा इव | अस्मात्मंत्रासमुत्पन्ना सप्तकोट्याधिकारिणः || चित्रभानु पदान्तस्थं शशांकशकलोदरं | तदंकुशोर्ध्वविन्यस्तं तिर्यगं तूर्ध्वयोजितं || एतत् तत् परमं ज्योतिरेतत् तत् परमामृतं | एतत् परममुद्दिष्टं अमृतं लोकविश्रुतं || पेयूष कलया युक्तं पूर्णचंद्रनिभोपमं | एतत् परतमं धाम एतत् परतमं पदं || एतत् परतमं वीर्यं एतत् परमामृतं | तेजसां परमं तेजं ज्योतिषां ज्योतिरुत्तमं || सर्वस्य जगतो देव ईश्वरं कारणं ध्रुवं | स्रष्टा कर्ता च हर्ता च नास्त्यस्य जगतो वली || ५ब्) मंत्राणामालयं ह्येष सर्वसिद्धिगुणास्पदः | अधुनांगानि वक्ष्यामि सन्नद्धोयैस्तु सिध्यति || कृतान्तमध्यमं वर्णं सुररा *? च मानुगं | प्रभंजनान्त शिरसं हृअदया सर्वसंस्थितं || सामान्तमनलाद्येन युक्तं प्रणवयोजितं | शिरो ह्येषो निलान्तेन युक्तो माया शिखा स्मृता || प्रशान्तमीश्वरोर्ध्वं च द्वादशार्द्धनियोजितं | शिवशक्तिस्तथा नादयुक्तं तद्वत्मनोत्तमं || सभैरवाद्यं प्रणवं सदागति शिर स्थितां | नेत्रमंत्र महोदग्रं सर्वकिल्विष नाशनं || अजीवकटसंयुक्तं अस्त्रमेतत् प्रकीर्तितं | अंगषट्क समाख्यात मंत्रराजस्य निसृतं || इति सर्वस्रोतसंग्रहसारे अमृतीशविधाने मृत्युंजये मंत्रोद्धारविधिर्द्वितीयः पटलः || ईश्वर उवाच || अधुना यजनं वक्ष्ये येन सिद्ध्यन्ति मंत्रराट् | आदौ स्नान प्रकुर्वीत सर्वकिल्विषनाशनं || ६अ) अस्त्रमंत्रेण देवेशि मृदमुद्धृत्य मंत्रवित् | शौचं यथोदितं कृत्वा स्नानं पश्चात् समाचरेत् || पादौ जंघे कटी चैव पूवद्भिः त्रिभिस्तृभिः | त्रिभिरंतरयोगेन सप्तभिः शुद्ध्यते मनः || सप्ताभिमंत्रितं कृत्वा मृदमस्त्रेण मंत्रवित् | प्रतांप्यार्क मुखे पश्चाच्छरीरमनुलेपयेत् || विघ्नोपशमनार्थं तु क्षाल्यमंतर्जलं जपेत् | वामहस्ते ततो भागान् मृदयात्रींस्तु कारयेत् || अस्त्रजप्तं क्षिपेद् दिक्षु मूले तीर्थं प्रकल्पयेत् | अंगैः शरीरमालिप्य क्षाल्यमन्तर्जलं जपेत् || मूलं शक्त्या समुत्तीर्य संध्यां वंदेदनुक्रमात् | शिखांबद्ध्वा शिखास्मृत्वा मंत्राणां तर्पणं ततः || देवान् पितॄनृषींश्चैव मनुजान् भूतसंयुतान् | सन्तर्पतीर्थं संगृह्य यागोक्तविधिना विशेत् || आशामात्री गणं लक्ष्मी नंदिगंगे प्रपूजयेत् | महाकालं तु यमुनां देहलीं पूजयेत् ततः || ६ब्) विघ्न प्रोच्चाटनं कृत्वा दिग्बंधं कवचास्त्रयोः | स्वासनार्थं प्रकल्प्येत शक्तिमाधारपूर्विकां || उपविश्य ततः कुर्यात् प्राणायाममनुक्रमात् | धारणामारभेत् तत्र युगपच्छोषणादिभिः || षाङ्कोषिकं(?) तु मलिनं दिग्बंधं तत्र भावयेत् | विज्ञानं केवलन्तत्र शून्यन्तत्रगतं स्मरेत् || नाहमस्ति न चान्योस्ति ध्येयं चात्र निवेद्यते | आनंदपदसल्लीनं मनः समरसी गतं || पश्चादाधारशक्तिस्थं स्था?सनं परिभावयेत् | धात्रीपयोगिवं पद्मां चंद्रबिंवावभासितं || पश्चात् कलाकलापोत्थं पेयूषेन तु सिंचितं | मूर्ति पूर्वं तृतत्वे तु मूले नैव प्रकल्पयेत् || ततोंगानि कराभ्यां तु शरीरे विन्यसेत् पुनः | मंत्रं चैवाभिमानं तु चिन्तये ध्यानयोगतः || धेनुमुद्रा ततो बद्ध्वा पद्ममुद्रा तथापि वा | ध्यायेदात्मनि देवेशं चंद्रकोटिसमप्रभं || स्वच्छमुक्ता फलप्रख्यं स्फटिकाह्नि समप्रभं | ७अ) कुंदेंदु गोक्षिरे निभं हि मादृशं विभुं | शुभ्राद्वारेंदु कांतादि सितभूषणभूषितं || सितचंदनलिप्तांगं कर्पूरक्षोदधूसरं | स्फुरचंद्रामृतस्फार बहुलोर्मिपरिप्लुतं || सोममंदलमध्यस्थं एकवक्त्रं त्रिलोचनं | सितपद्मोपविष्टं च बद्धपद्मासनस्थितः || चतुर्भुजं विशालाक्षं वदराभयपाणिनं | पूर्णचंद्रनिभं शुभ्रं मृतेनैव पूरितं || कलशं धारयन्तं हि जगदाप्याय कारकं | परिपूर्णं तथा चंद्रं वामहस्ते विचिन्तयेत् || सर्वश्वेतोपचारेण पूजितं तमनुस्मरेत् | बहुनात्र किमुक्तेन साक्षादमृतसागरं || तस्मादेव समुत्पन्नममृतं विश्वजीवनं | अथ चिन्तामणि प्रख्यं भावभेदेन संस्मरेत् || सौम्यं रौद्रं तथा भीमं विकृतं भावभेदतः | सदाशिवं भैरवं र?न्तं चुंरुं वीरनायकं || येन येन हि रूपेण साधकंस्संस्मरे तदा | तस्य तन्मयतां याति चिन्तामणि रिवेश्वरः || ७ब्) एवं ध्यात्वा यजेद् देवं मानसैः कुसुमैः शुभैः | हृत्पद्मे सर्वसिद्ध्यर्थं पश्चाद् बाह्ये प्रपूजयेत् || मानसैः कुसुमैरर्चा साधकेन शुभामता | अनिर्माल्य पराशुद्धा मोक्षदा सिद्धिदा शुभा || तस्मात् सर्वप्रयत्नेन मानसं यजनं ध्रुवं | आदावे प्रकर्तव्यं पश्चाद् द्रव्यैस्तु विस्तरैः || स्वगृहे देवतागारे संगमे गिरिमूर्द्धनि | सुप्रशस्ते तु भूभागे पद्मशंडे सुशोभने || आलिखेत् मंडलं चित्रं सितरेखोपशोभितं | चतुर्द्वारं चतुष्कोणं सुसमं तु मतोरमं || शोभापशोभसंपन्नं तन्मध्ये शशिमंडलं | पूर्णचंद्रसमप्रख्यं रश्मिमालावली युतं || तन्मध्येष्टदलं पद्मं सुसितं चंद्रसन्निभं | विचित्रकेसरोपेतं हेमकर्णिकमुत्तमं || तन्मध्ये चैव देवेशं स्वस्थानादवतारयेत् | आवाहयेत् ततो देवं त्रिदेहपरिकल्पितम् || ८अ) आग्नेयादि विभागेन दलेष्वंगानि विन्यसेत् | पूज्यश्वेतोपचारेण पुष्पांवरविलेपनैः || नैवेद्यैर्विविधैश्चित्रैर्धूपैः श्रेष्ठैः सुधूपितैः | हृद्यैः पानैश्चर्विविधैर्भावभेदेन पूजयेत् || सर्वश्वेतोपचारेण शान्त्यर्थं पूजयेत् पृये | पुष्ट्यर्थं बहुभिर्मिश्रैः संभारः संस्कृतं यजेत् || पश्चाद्धोमं प्रकुर्वीत यथाकर्मानुरूपतः | त्रिमेखले वर्तुले च चतुरश्रे सुशोभने || हस्तमात्रे ततः कुंडे षडंगेनोर्द्धमेखले | मध्यमादि चतुष्केण द्वादशांगेन चाधमा || हस्तमात्रं ततः खातं ओष्ठमेकांगुलायतं | अश्वत्थपत्त्र सदृशी नाभिः कुर्यान्नवांगुला || दैर्घ्यात् तु पार्श्वतस्तद्वतत्मध्याग्रांगुलन्वयं | उक्तं साहस्रिके होम द्विगुणं चायुते मतं || त्रिपंच युत होमेन त्रिगुणं तद्विधीयते | कुंडं वै लक्षणोपेतं लक्षहोमे प्रशस्यते || नित्यनैमित्तिके काम्ये शान्तौ पुष्टौ तु वर्तुलं | ८ब्) सर्वदिक्षु प्रशाम्येत श्रीकामे चतुरश्रकं | शस्यते पूर्वमानेन यं दृष्ट्वा कर्मभेदतः || संस्कारान्वस्य कुंडस्य कर्तव्या अस्त्रमंत्रतः | अधःकरणमुद्धारं अभिक्षेपं प्रपूरणं || सेचनं कुट्टनं चैव मार्जनं लेपनं तथा | प्रणवेन तु कर्तव्यं कुंडस्य परिकल्पना || चतुष्पथं चाक्षवाटं वागेश्या गृहकल्पनं | असिना प्रणवेनैव वागेश्या वाहनं पुन || अर्वनं चैव कर्तव्यं त्रितत्वेनन्त प्रोक्षणं | अस्त्रेण ताडनं चैव संस्कृत्यविधिपूर्वकं || क्रियाशक्ति स्वरूपेण कौंडिल्या कुंडकल्पना | ज्ञानशक्तिस्वरूपं तु वह्निन्तत्र प्रकल्पयेत् || वह्निमादाय पात्रस्थं पंचसंस्कारसंस्कृतं | निरीक्षणादि चास्त्रेण कवचेनावगुंठनं || प्रणवेनाहुतिः पंच हुत्वा द्रव्यादि शुद्धितः | विश्वाग्न्यापादनं पश्चात् कुर्वीत भ्रामये तृधा || बीजरूपं ततो वह्निमात्माने परमेश्वरं | ९अ) माया चैव तु योगेशी योनौ संक्षोभ्य संक्षिपेत् | वर्तुलीकृत विश्वाग्नौ पूजनं प्रणवेन तु || कर्तव्यं तन्मुखे पश्चात् संस्कारस्तु ततो नले | गर्भाधानं पुंसवनं सीमन्तोन्नयं तथा || वक्त्रकल्पनविश्वाग्नौ सीमाग्रीवादि कल्पन | जातकर्म तथैवात्र निष्क्रामोनामकल्पना || हृदयाद्यंग षट्केन कर्तव्यमनुपूर्वशः | चूडाद्या ये तु संस्कारा पूर्णाहुत्येकया पुनः || संस्काराणि तु सर्वाणि वह्नौ मूलेन कारयेत् | शिवशक्ति मयन्तत्र कल्पये तु विधानवित् || स्रुक्स्रुवौ तु दृढौ कार्यौ क्षीरवृक्षसमुद्भवौ | शस्यते शान्तिपुष्टौ तु शस्तद्रुमसमुद्भवौ || अन्यत्र भावभेदेन कार्यौकमानुरूपतः | षट्तृंशदंगुलं मानं स्रुग्वावाहु प्रमाणतः || षडंशपरिणाहेन दंडः कुंभात् समुत्थितः | चतुरंगुलपीठाग्रं तत्पीठं कमलोदरं || कर्तव्यं दंडमध्ये तु द्व्यंगुलायतवर्तुलं | ९ब्) अर्द्धांगुलसमुत्सेध विचित्ररचनाकुलं | वेदिकाष्टांगुलाकार्या चतुरासुशोभना || अधः पद्मा निविष्टान्त ऊर्ध्वि? पंचांगुलायुत | खातं तं अंगुलं कार्यं तदूर्ध्वं वर्तुलभ्रमं | अर्द्धांगुलप्रमाणेन तिलकैरुपशोभितं || तस्य पार्श्व चतुष्कं तु चतुष्कोणसमन्वितं | शिल्पिविज्ञानरचना नाना भिरचितं मतं || कंथ एका.उग्लः कार्यस्त त्रिभागविकल्पितः | पार्श्वयोश्च ततः कार्यं मुखं सप्तांगुलं शुभं || दैर्घ्यां तु पार्श्वयोष्टौ तु द्वौ भागौ ह्रासयेत् क्रमात् | मुखाग्रं तत् त्रिभागे तु द्वौ भागौ पार्श्वयोस्तथा || वर्तयेद्वेदयेतां तु कनिष्ठांगुलिमानतः | निम्नं निम्नतरं कुर्याद् यावच्चाग्रमुखान्तरं || पार्श्वयोस्तु तथा कार्या विचित्र रचना शुभा | स्वतृभागविवर्त स्यात् पार्श्वयोस्तु तथैव च || हस्तमात्र स्रुवः कार्यो मूलपीठे त्रिशाखिकं | मध्याग्रपीठपद्मांक कंठाचांगुलवर्तुलं || १०अ) चतुरंगुलदीर्घं तु द्विपुटाग्रं सुवर्तितं | अंगुष्ठपर्ववत् खातं गोष्पदाकृतिकारयेत् || कनिष्ठांगुलमानेन प्रतिष्ठा खातु वर्तुला | वर्तयेद्रवचनायुक्तं कर्षापूरितवक्त्रकं || चतुष्पला भवेत् पूर्णा स्रुवाशक्तिः स्रुवः शिव | क्रियाशक्तिस्तु वै कुंडं ज्ञानशक्तिस्तथा नलं || एवं निष्पाद्य विधिवत् पश्चाद्धोमं समाचरेत् | तिलैःक्षीरयुतैर्होमं शर्कराघृतमिश्रितैः || महाशान्तिप्रजायेत तत्क्षणात् नात्रसंशयः | आदौ चैवाज्य?संस्कारंन् कुर्याद्धोममथापरं || अधिश्रयणमुद्धारं भ्रामणं स्थापनं ततः | निरीक्षणं ततोस्त्रेण नैराजनमतः परं || पर्यग्नि करणं चैव तथैवोत्प्लवसंप्लवौ | अस्त्रे चैवार्चनं मूले नामृतीकरणं तथा || दर्भास्तरं विष्टराणि परिधी नस्त्रमंत्रतः | सूर्याचंद्रमसौवह्नि कल्पयेत् प्रणवेन तु || भावयेत् तवजिह्वा तु पूर्णां मूलेन पातयेत् | १०ब्) पश्चात्तूतं मंत्रं सागं मध्यमतं यजेत् | एवं कृत्वा तु जुहुयान्मंत्री कर्मानुसारतः || पयसाघृतयुक्तेन पुष्टिर्भवतिशाश्वती | घृतगुग्गुलुहोमेन पूर्णायुर्भवते ध्रुवं || श्रीकामं जुहुयात् पश्चान् घृतक्षीरसमन्वितं | राज्यकामोस्ततो बिल्वा त्रिसंधाक्तात् सुसिद्धिदात् || क्षीरवृक्षसमिद्भिस्तु होमाचारो गृ?तां भभेत् | प्रशस्तसमिधा होमात् प्रशस्त तरुजे नले || सर्वकामानवाप्नोति सत्यमेव नवान्यथा | ब्रीहिसप्तकहोमेन धनार्थी लभते धनं || ईहितं काममुद्दिश्य ईहितं होममाचरेत् | पयसा केवले नैव होमान्मृत्युंजये ध्रुवं || क्षीरवृक्षसमिद्भिस्तु होमादाराम्व?तो लभेत् | प्रशस्त समिधा होमात् प्रशस्तेन जले नलं || सर्वकामानवाप्नोति सत्यमेतं न चान्यथा | इति सर्वस्रोतसंग्रहं सारे मृत्युजिदमृतीशविधाने यजनाधिकार तृतीयः पटलः || ११अ) ईश्वर उवाच || अथ दीक्षां प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदां | भूततन्मात्रदशकं मनोबुद्धिरहंकृतं || प्रकृतिं पुरुषं चैव ईश्वरं च सदाशिवं | शिवमष्टादशं नाम तत्कार्येवविशोधयेत् || प्रकृतिं पुरुषश्चैव निपतिः काल एव च | माया विद्या तथैशं च सदाशिवशिवस्तथा || तत्वानि नवधा सम्यक् शोधयेद्दैशिकोत्तमः | तत्वैशट्तृंशदर्द्धेन तदर्द्धे नाथ पंचभिः || त्रिभिरेकेन वा कार्या परापरविभूतये | या कलाभिः पंचभिर्वाथ पदैर्दीक्षाथवा पुनः || वर्णैः पंचाशतो वापि मंत्रैर्वा भुवनैस्तथा | एतैः सर्वैः प्रकर्तव्या कार्या एकतमाथवा || सर्वैस्तु समुदायेन व्यक्तिशक्ति स्वरूपतः | यथा विभवसारेण कर्तव्यादैशिकोत्तमैः || वागेश्याः पूजनं कार्यं तद्गर्भे योजयेत् पशुं | गर्भाधानं तु जननं अधिकार लयं तथा || ११ब्) भोगः कर्मार्जनं चैव निष्कृतिस्तदनन्तरं | मूलमंत्रेण कर्तव्यं पाशच्छैदस्तथा स्मृतः || अस्त्रमंत्रेण दाहस्तूतं भस्मीकरण स्थितिः | शिखाच्छेदं तथा होमं मूलेनैव तु योजयेत् || संयोज्य परमे तत्वे संस्थानं चैव कारयेत् | अधिकारार्थमाचार्ये परापर पदे स्थितिः || शिवतत्वे स्वधाकारां विद्यादीक्षा सदाशिवे | पुत्रके परमे तत्वे समयिन्येश्वरे तथा || एवमुद्देशतो दीक्षा कथिता विस्तरेन्यतः | इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने दीक्षाधिकारश्चतुर्थः पटलः || ईश्वर उवाच || अभिषेकं प्रवक्ष्यामि यथा यस्यैव दीयते | अष्टभिः कलशैर्देयमाचार्यस्य विधानतः || ते तु विद्येश्वराः प्रोक्ता समुद्राश्च सगर्भगाः | पंचभिर्भूतसंख्यैर्वा त्रिभिर्वा तत्वरूपकैः || आत्मविद्या शिवाख्यैस्तु एकेनापि शिवात्मना | अधिकारार्थमाचार्ये साधके सिद्धिकामतः || १२अ) अभिषिक्तो ह्यनुज्ञातः प्रकुर्यान्मंत्रसाधनं | तद्व्रतस्तमसाचारस्तद्भक्तस्तत्परायणः || पवित्राहारनिरतो लघ्वाशी संयतेंद्रितः | एकान्ते पुण्यक्षेत्रे तु तीर्थायतन गोचरे || सर्वसंगोज्झितमनाः साधको जपमारभेत् | लक्षमेक जपेन्मंत्री पूर्वमेव समाहितः || तेन सामान्य कर्माणि सिद्ध्यन्ते साधकस्य तु | भौमीं सिद्धिमवाप्नोति दशलक्ष जपेन तु || अन्तरिक्षीं लभेत् सिद्धि लक्षपंचाशतोद्ध्रुवं | दिव्यां सिद्धिं तु लभते साधको नात्रसंशयः || यथा कोटि कृतेर्जप्यै ईश्वरी सिद्धिमावहेत् | व्यापकस्तु शिवो भूत्वा निग्रहानुग्रहक्षमः || यथेच्छां कुरुते सर्वां धारयेत् संहरेद्भृशं | सर्वगस्सर्ववेत्ता च सर्वज्ञो भवते ध्रुवं || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधान अभिषेकसाधनाधिकारः पंचमः पटलः || १२ब्) श्रीदेव्युवाच || श्रुतं मया महादेव मृत्युजित् सिद्धिमोक्षदं | अधुनाश्रोतुमिच्छामि सिद्धि त्रय समन्वितं || अमृतीशं महात्मानं सर्वप्राणिषु जीवनं | यदा सिद्धि प्रदो लोके मानुषाणां हितं करं || पूर्वोक्त दुष्टशमनं अपमृत्युविनाशनं | आप्यायनं शरीरस्य शान्तिपुष्टिप्रदं शुभम् || श्रीभैरव उवाच || श्रूयतां संप्रवक्ष्यामि रहस्यं परमाद्भुतं | यथातरंति मनुजा दुःखो दधि परिप्लुता || अपमृत्युशताक्रान्ता जरादारिद्र्यसंयुता | आधिव्याधिभयोद्विग्ना पापौघैर्विनिपीडिताः || मुच्यन्ते तु यथा सर्वे पूर्वोक्तैर्मारणैः पृये | त्रिविधं तदुपायं तु स्थूलं सूक्ष्मं परं च यत् || १३अ) स्थूलं च यजनं होमं जप ध्यानं समौद्रकं | मंत्राणि संपुटादीनि मंत्रराट् कुरुते भृशं || सूक्ष्मं चक्राभियोगेन कलानाद्यादयेन च | परं सर्वात्मकं देवं मोक्षदं मृत्युजिद् भवेत् || यदा मृत्युभया घ्रातं कालेन कलितं पृये | दृष्टस्तत्प्रतिघानार्थममृतेशं यजेत् तदा || सर्वश्वेतोपचारेण पूर्वोक्तेन विधानतः | यस्य नामं समुदिश्य पूजयेत् मृत्युजिद् विभुः || मृत्योरुत्तरते शीघ्रं सत्यं मेनानृतं वचः | सितशर्कर या युक्तो घृतक्षीर प्लुतैस्तिलैः || पुण्यदार्विधने वह्नौ कुंडे वृत्ते त्रिमेखले | महारक्षा विधानेन यस्य नामांकितो हुनेत् || महाशक्तिर्भवेत् क्षिप्रं गतस्यापि यमालयं | १३ब्) अथवा शर्करायुक्तं पयसा केवलेन तु | होमान्मृत्युंजये च्छीघ्रं मृत्युंजिन्नात्रसंशयः || सुगंधघृतहोमेन क्षीरवृक्षमये नले | जुहुयान्नाशयेन्मृत्युं मृत्युजिन्नात्रसंशयः || क्षीरवृक्षसमिद्धो वा ज्वरं नाशयते क्षणात् | तिलतंडुलमक्षीक आज्यंक्षीरसमन्वितं || एष पंचामृतो होम सर्वदुष्ट निवारणं | गुग्गुलांगुलिकाभिश्च त्र्यक्ताश्च शक्रमात्रया || होमात्पुष्टिर्भवत्याशु क्षीणदेहस्य सुव्रते | यदा व्याधिशा कीर्णा ह्यबलो दृश्यते नरः || तदा तु संपुटी कृत्य नामजप्त्वा विमुच्यते | यं यं मंत्रं जपेद् विद्वानमृतीशेन संपुटं || स तस्य सिद्ध्यते क्षिप्रं भाग्यहीनोपि यो भवेत् | क्षीणगात्रस्य देवेशि भेषजं मंत्रसंपुटं || दीयते तत्क्षणा देवि सपुष्टिं लभते बली | १४अ) हृत्पद्ममध्यगं जीवंच्चंद्रसंपुटमध्यगं | साध्यर्णरोषितं कृत्वा मृत्युरुन्तरते भृशं || साध्यर्ण रोधितं नित्यं ध्यायेद् देहं स योगवित् | सर्वव्याधिविनिर्मुक्तो सभवेन्नात्रसंशयः || क्षीरोदमध्यपद्मस्थं अमृतोर्मिभिराकुलं | ऊर्द्ध्वाधः शक्तिरुद्धं तु साध्यर्णसंपुटीकृतं || यो ध्यायति सदृष्टात्मा ह्यात्मनस्य परस्य वा | सबाह्याभ्यन्तरं शुभ्रं स्वधापूरितविग्रहणं || अमुद्विग्नमनायश्च सर्वभोगैः प्रमुच्यते | रोचना कुंकुमेनैव क्षीरेण च समन्वितं || सितपद्मेष्ट पत्रे तु मध्यसाध्यं निरोधितः | सर्वव्याधि पराक्रान्तं चंद्रमंडलवेष्टितं || चतुष्कोणे पराक्रान्तो वज्रभृद्वज्ररोधितः | मुच्यते नात्रसंदेहो सर्वव्याधि प्रपीडितः || षोडशारे महापद्मे षोडशस्वरभूषिते | आद्यन्तमंत्ररोधेन साध्यनामं विलेखयेत् || जीवान्तं सावमध्यस्थं वर्णांतांतेन रक्षितं | १४ब्) प्रत्यर्णममृतीशेन संपुटि त्वानुसर्वतः | मध्ये दलेषु सर्वेषु शशिमंडलमध्यगं || बाह्ये तु द्विगुणं पद्मं कादिसान्तं क्रमेण तु | पूर्ववत् तु लिखेन्मंत्री प्रतिसाध्यर्ण रोधितं || वर्णे तदनु साध्यस्य नामबाह्येर्कमंडलं | पुरंदर पुरे पश्चात् समन्तात् परिवारयेत् || श्वेतचंदनयुक्तायां रोचनाक्षीरयुक्तया | लिखित्वा मंत्रवाजानां कर्पूरक्षोदधूसरं || महारक्षाविधानं तु सुखसौभाग्यदायकं | एतच्चक्र महादेवि सितपुष्पैः प्रपूजयेत् || सर्वश्वेतोपचारेण मधुमध्ये निधापयेत् | अनेनैव विधानेन सप्ताहान् मृत्युजिद् भवेत् || राजरक्षाविधानं तु भूभृतामप्रकाशयेत् | संग्रामकाले वरदं ऋपुदर्पापहं भवेत् || शिवादिनवतत्वानि प्रत्येकं शशिमंडले | मध्ये पूर्वादिमीशान्तं अमृतीशेन मंत्रवित् || यदा व्याधि शताक्रान्ता अपमृत्युभिरेव च | १५अ) तदा श्वेतोपचारेण पूज्यं क्षीरघृतेन च || तिलैः क्षीरसमिद्भिर्वा होमाच्छान्तिं समश्नुते | एवसंपूज्य कुंभे तु सर्वौषधि समन्वितः || सितगर्भमये शुभ्रे रन्नगर्भांबुपूरिते | सर्वमंगलघोषेण शिरसि ह्यभिषेचयेत् || समुच्यतेन संदेहो सर्वव्याधि प्रपीडितः | ध्यात्वा परामृतं नित्यं नित्योदितमनामयं || प्रकृद्यान्तस्सममृतं अवतार्य पराशिवान् | चतुर्णवामृताधार नवधान च पूरितं || शतार्द्धक्षोभिता नित्यं षट्पंचैक समन्वितं | अनन्ताधारगंभीरं अष्टत्रिंशविभूषितं || पंचभिर्वा प्रसिद्ध्यर्थं पूर्णन्तेन निरुन्तरं | एवं ध्यानपरो यस्तु सबाह्याभ्यन्तरामृतं || विक्षोभ्यकलशं मूर्द्ध्नि दैशिको मंत्र तत्परः | अनुग्रह सदावस्थस्त्वभिषिंचेत् प्रयत्नतः || समुच्यतेन संदेहो संसाराद्दुरति क्रमात् | आयुर्बलं यशः कीर्ति धृतिर्मेधा यशः श्रियः || १५ब्) सर्वं प्रवर्द्धते यस्य भूभृतोराज्यमुत्तमं | दुःखान्वितो विदुःखस्तु व्याधिमान्निमुजो भवेत् || बंध्यापि लभते पुत्रं कन्या तु पतिमावहेत् | ययत्समीहते कामं तं तं तस्य ध्रुवं भवेत् || अभिषेकस्य माहात्म्यं विधान विहितस्य च | कथितं ते मया देवि पूजनं हितकाम्यया || अन्यशास्त्रोपचारेण सर्वशान्त्यारहो भवेत् | एवं स्थूलविधानं तु सूक्ष्मं चैवाधुना शृणु || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतेशविधाने स्थलधिकार षष्ठमः पटलः || ईश्वर उवाच || अतः परं प्रवक्ष्यामि ध्यानं सूक्ष्ममनुत्तमं | ऋतु षष्ट्य स्वराधारं त्रिलक्षं व्योमपंचकं || ग्रंथिद्वादशसंयुक्तं शक्तित्रयसमन्वितम् | धामत्रय पथाक्रान्तं नाडित्रयसमन्वितं || ज्ञात्वा शरीरं सुश्रोणि दशनाडि पथानुगं | १६अ) द्वासप्तति सहस्रैस्तु सप्तकोट्यार्द्धसंयुतं | नाडिवृंदैः समाक्रान्तं अनले व्याधिभिः कृतं || सूक्ष्मध्यानामृतेनैव परेणैवोदितेन तु | आप्यायं कुरुते योगी आत्मानोथ परस्य वा || दिव्यदेहस्तु भवति सर्वव्याधिविवर्जितः | यत् स्वरूपं स्वसंवेद्यं स्वस्थस्वव्याप्ति संभवं || स्वोदिता तु पराशक्ति स्वस्था तद्गर्भगः शिवः | तां वद्वेन्मध्यमे प्राणे प्राणापानांतरे ध्रुवं || अहं भूत्वा ततो मंत्रं तत्स्थं तच्चक्रगं ध्रुवं | स्वोदितेन वरारोहे स्पंदनं स्पदनेन तु || कृत्वा तदभिमानं तु जन्मस्थाने निधापयेत् | भावभेदेन तत्स्थानाम्मूलाधारे प्रयोजयेत् || नादसूच्याप्रयोगेन वेधयेत् सूक्ष्मयोगतः | आधारः षोडशं भित्वा ग्रंथिद्वादशकं तथा || मध्यनाडिपथारूढो वेधयेत् परमं ध्रुवं | तत्प्रविष्टस्तदा भूत्वा तत्समो व्यापकः शिवः || सर्वामयपरित्यागान्निष्कलं क्षोभ्यशक्तितः | १६ब्) पुनराप्यायतेनैव मार्गेण हृदयान्तरं | तत्र प्रविष्टमात्रस्तु ध्यानालब्धं रसायनं || विश्राम्या तु भवं प्राप्य तस्मात् स्थानात् प्रवाहयेत् | सर्वं तदमृतं वेगान् सर्वत्रैव निरोधयेत् || अनन्तनाडि भेदेन ह्यनन्तामृतमुत्तमं | अनन्त ध्यानयोगेन परिपूर्यस्वकंपुरं || भुक्त्वा जरामरस्तद्वत् सबाह्याभ्यन्तरं प्रिये | एवं मृत्युजितात् सर्वं सूक्ष्मनादेन पूरितं || तदासौ सिद्ध्यते क्षिप्रं सत्यं देवि न चान्यथा | जन्मस्थानं समाशृत्य स्पंदस्थं मध्यमां कलां || तत्स्थं कृत्वा तदात्मानं कालाग्निं तु समाश्रयेत् | गत्वा गृहीत विज्ञानं वीर्यं तत्रैव निक्षिपेत् || तद्वीर्यात् परमां शक्तिं क्रियाख्या मध्यमोदिता | विज्ञानेनोर्ध्वतो भिन्ना ग्रंथिभेदेन चेच्छया || मूलस्पंदं समाशृत्य त्यक्त्वा बाहु द्वयं ततः | प्रथ?मार्गप्रवाहेन सुषुम्नाख्यं समाश्रयेत् || १७अ) तदेवाशृत्य विरमेत् तत् सर्वेंद्रिय गोचरे | तदा प्रत्यस्तमे नैव विज्ञानेनोर्द्धतः क्रमात् || ब्रह्मादि कारणानां तु त्यागं कृत्वा शनैःशनैः | षष्ट्यांशक्तिमतः प्राप्य कुंडलाख्यां निरोधिकां || मायादि ग्रंथिभेदेन हृद्यादौव्यमपंचकं | जन्ममूले समयाख्या ग्रंथिजन्मनि पाशतः || ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः | कारणस्था तु पंचैवं ग्रंथादौ समुदाहृतं || इंदिकाख्या तु या ग्रंथिर्विमार्गेस्तन्मना तु सा | तदूर्द्ध्वं दीपिका चैव तदूर्धे चैव वै दधी || नादाख्या तु महाग्रंथि शक्तिग्रंथिस्त्वतः परम् | ग्रंथिर्द्वादशकं भित्वा प्रविशेत् परमं शिवं || ब्रह्माणं च तथा विष्णुं रुद्रं चैवेश्वरस्तथा | सदाशिवं तथा शक्तिं शिवस्थानं प्रभेदयेत् || खमनंतं तु जन्माख्ये नाभौ व्योम द्वितीयकं | तृतीयं तु हृदि स्थाने चतुर्थीं चंद्रमध्यतः || नादाख्यं तु समुद्दिष्टं षट्चक्रमधुनोच्यते | १७ब्) जन्माख्यं नाडिचक्रं तु नाभौ मायाख्यमुत्तमं | हृदिस्थं योगिचक्रं तु ता ईलुस्थं भेदनं स्मृतं || विंदुस्थं भेदचक्रं च नादस्थं शान्तमुच्यते | पूर्वोक्तानि च सर्वाणि ज्ञानशूलेन भेदयेत् || आक्रम्याधार जन्माख्यं तन्मूलं पीडयेच्छनैः | तस्याधारस्य सुश्रोणि पर्यायाच्छृण्वतः परं || जन्मस्थानं तु कूर्माख्यं कूमाख्यं स्थानपंचकं | मत्स्योदरं तथैवं हि मूलाधारं तदुच्यते || तस्मात् तां खेचराख्यां तु मुद्रां विंदेत योगवित् | मुद्राया तु तदा देवि आत्मा वै मुद्रितो यदा || तदा चोर्ध्वं तु विचरेद्विज्ञाने नोर्ध्वतः क्रमात् | विद्व्याद्भिंद्यात्परं यावत् स्थानं सुरवरार्चितं || तस्थानं देवि संप्राप्य योगिनी समरसी भवेत् | निष्कलं भावमापन्नो व्यापकः परमः शिवः || एवं भूत्वा समं सर्वं निस्पंदं सर्वतोदित | ततः प्रवर्तते शक्तिर्लक्षहीना निरामया || १८अ) इच्छामात्रविनिर्दिष्टा ज्ञानरूपा क्रियात्मिका | एका सा भावभेदेन तस्य भेदेन संस्थिता || खेचरी मुद्रया पूर्य शक्त्यन्तं तत्र सर्वतः | यावच्चनोदितश्चंद्रस्तावन् शून्यं निरंजनं || भावग्राह्यसमाकीर्णं सर्वावस्थोज्झितं परं | व्यापकं परमेशानं अनौपम्य मनामयं || भवन्ति योगिनस्तत्र तदारूढा वरानने | सा योनिः सर्वदेवानां शक्तीनां व्याप्यसर्वतः || अग्नीषोमात्मिका योनि तस्मात् सर्वं प्रवर्तते | तत्र संग्रंथिता मंत्रा त्राणवन्तो भवन्ति ते || सर्वेषां चैव संहारं तदेव परमं पदं | तस्मात् प्रवर्तते सृष्टि विक्षोभ्य परमं शिवं || अनौपम्यामृतं प्राप्य बिंदुं विक्षोभ्य लीलया | चंद्रोदयं तथा ख्यातं परमामृतमुत्तमं || वहलामृतकल्लोल अनन्तं तत्र संस्मरेत् | तस्मात् प्राप्यामृतं शुभ्रं स्वशक्त्या चैव कर्षयेत् || मध्यमार्गेण सुश्रोणि कारणानि प्रभेदयेत् | आप्यायनं प्रकुर्वीत स्थाने स्थानेप्यनुक्रमात् || १८ब्) यावद्ब्रह्मपदं प्राप्तं तस्मादाप्याययेदधः | जन्मस्थान पदा चैव कालाग्नौ च प्रचक्रमेत् || तदा पूर्यसमतां तु परिपूर्णं स्मरेत् पुनः | सुषुम्नामृतेनाखिलं तु परिपूर्णं विभावयेत् || अनन्त नाडिभिस्तत्र रोमकूपैः समन्ततः | निष्क्राम्य व्यापको भूत्वा खमृतोर्मि भिराकुलं || अमृतार्णवसंरूढो मज्जन्तममृतार्णवे | तदूर्धे ह्यमृतार्णं तु प्रद्रुतं व्यापकं शिवं || एवं समरसी भूत्वा ह्यमृतं सर्वतो मुखं | इच्छाज्ञानक्रियारूपं शिवमात्मस्वकं विभुम् || निरामयमनुप्राप्य स्वानुभूतं विभावयेत् | अमृतेश पदं सूक्ष्मं संप्राप्ये वामृती भवेत् || तदासौ ह्यमृती भूत्वा मृत्युजिन्नात्रसंशयः | कालजित् सुभगो वीरो मृत्युस्तस्य न बाधते || कालस्य वंचनं सूक्ष्मं मया ते प्रकटीकृतं | न कस्य चिन्मया ख्यातं त्वदृते भक्तिवत्सले || १९अ) इति अमृतेशविधाने सूक्ष्मध्यानाधिकारः सप्तमः पटलः || भगवानुवाच || अथ मृत्युंजय नित्यं परचैवाधुनोच्यते | यं प्राप्य न निवर्तन्ते संसारे तृविधे प्रिये || योगी सर्वगतो भाति सर्वदृक् सर्वकृच्छिवः | तमहं कथयिष्यामि यस्मादन्यन्न विद्यते || यं प्राप्यते तन्मयत्वेन भवते ह्यजरामरः | पन्नवाग्वदते नित्यं यन्न दृश्येत चक्षुषा || यन्न संश्रूयते कर्णैर्भासायश्च न जिघ्रति | न चार्द्धं(?) स्वादयते जिह्वा न स्पर्शेत त्वगिंदृयं || न चेतसा चिन्तनीयं सर्ववर्ण रसोज्झितं | सर्ववर्ण रसैर्युक्तमप्रमेयमतींद्रियं || यं प्राप्ययोगिनो देवि भवन्ति ह्यजरामराः | तदभ्यासेन महता वैराग्येन परेण च || रागद्वेषपरित्यागा लोभमोहक्षयात् प्रिये | मदमात्सर्य संत्यागान्मानगर्वतमोज्झितान् || लभते शाश्वतो नित्यं शिवमध्ययमुत्तमं | १९ब्) निमिषोन्मेषमात्रं तु यदि चैलोपलभ्यते | ततः प्रभृति मुक्तोसौ न पुनर्जन्ममाप्नुयात् || अष्टांगेन तु योगेन प्राप्नुयानान्यथा क्वचित् | संसारे विरतिर्नित्यं यमः परमुदाहृतः || भावना तु परे तत्वे नित्यं नियम उच्यते | मध्यमप्राणमाश्रित्य प्राणापानपथान्तरं || आलंव्यज्ञानशक्तिं च तत्स्थं चैवासनं भवेत् | प्राणादि स्थूल भावं तु त्यक्त्वा सूक्ष्मं पथांतरं || सूक्ष्मातीतं तु परमं स्पंदनं लभ्यते यतः | प्राणायामसमुद्दिष्टो यस्मान्न च्यवते मनः || शब्दादि गुणं वृत्तिर्या चेतसा ह्यनुभूयते | त्यक्त्वा तां परमं धाम प्रविशेत् तत् स्वचेतसा || प्रत्याहारमिति प्रोक्तं भवपाशनिकृन्तनं | धीर्गुणात्समतिं क्रम्य निर्गुणं चाव्ययं विभु || ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः | धारणा परमात्मानं धार्यते येन सर्वदा || धारणा सा विनिर्दिष्टा भववंधविनाशनी | २०अ) समस्सर्वेषु भूतेषु आधारं चिन्तविग्रहं | समाधानमिति प्रोक्तमन्यथा लोकदांभिकं || स्वपरस्थेषु भूतेषु जगत्यस्मिन्समानधीः | शिवोहम द्वितीयोहं समाधिस्स परस्मृत || सम्यक् स्वरूपं संवेद्यं संविद्रूपं स्वभावजं | स्वसंवेद्यं स्वरूपं च समाधानं परं विदुः || राशिभ्यां विज्जडाभ्यां च विचार्य निपुणं पदं | यदेवं शाश्वतं रूपं समाधानं तु तं विदुः || एवमष्टांग योगेन स्वभावस्थं परं ध्रुवं | दृष्ट्वांवचयते कालं ममृतेशं परं विभुं || मृत्युजित् स भवेद् देवि न कालः कलयेच्च तं | तत्त्व षट्तृंश तस्त्यागाद्भूवनानंत्यवर्जनात् || एकाशीति पदोर्ध्वं वै वर्णपंचाशतः परं | व्यापकं सर्वतंत्रेषु सर्वेष्वेव हि जीवनं || अष्टातृंशत्कलोर्ध्वे तु सर्वान्तस्सर्वमध्यगः | आदि मध्यं न चैवान्तं लभ्यते यस्य कस्यचित् || तम प्रमेयमतुलं प्राप्यसर्वं न विद्यते | येनैकेन जगत्सर्वं मरमेयेन पूरितं || २०ब्) तं ज्ञात्वा मुच्यते क्षिप्रं घोरात् संसारबंधनात् | तत्वत्रयविनिर्मुक्तं शाश्वतं ह्यचलं ध्रुवं || दिव्येन योगमार्गेण दृष्ट्वा भूयो न जायते | सर्वेंद्रियविनिर्मुक्तं विश्वरूपमनामयं || परमात्मस्वरूपं तु सर्वोपाधिविवर्जितं | चैतन्यमात्मनोरूपं सर्वशास्त्रेषु कथ्यते || निर्मलं न भवेद् देवि यावच्छक्त्या न शोधितं | दीक्षा ज्ञानाग्निना शोध्यमात्मानं चैव निर्मलं || ये विंदंति न चैवान्यं विंदन्ति परमं पदं | तेनात्मोपासकाश्चैव गच्छन्ति परमं शिवं || यदा तु परमाशक्तिस्सर्वज्ञादिषु गुणान्विता | आपादादि विकासिन्या न विकाम्येति निर्मला || यावन्न निर्मलो ह्यात्मा बद्धः शैवे तदुच्यते | २१अ) यत्रस्थः पुरुषः सर्वं वेत्यतीतमनागतं | सन्नियम्येंदृयग्रामं तत्तत्वं शक्तिलक्षणं || यत्र यत्र भवेदिच्छा ज्ञानं वापि प्रवर्तते | कृयाकृत्य स्वरूपा वा तत्तत्वं शक्ति लक्षणं || व्यापकस्य सतो देवि चिद्रूपस्यात्मनः शिवान् | प्रसरत्यद्भूतानंदा सा शक्तिः परमाद्भूता || विप्रसार्यतवात्मानं सर्वज्ञादि गुणैर्गुणी | साभासः कथ्यते देवि शिवः परमकारणः || सर्वज्ञः परितृप्तश्च यश्च बोधो ह्यवादिमान् | स्वतंत्रो ह्यप्रलुप्तश्च यश्च वानन्तशक्तितः || शक्तिमान् गुणभेदेन सगुणान्विंदते गुणी | पृथग्भेदविभेदेन नानात्वं विचरेदिह || सर्वाभास इति प्रोक्तो निराभासस्तु कथ्यते | २१ब्) नाहमस्ति न चैदान्यो(?) निराभासो यथा भवेत् | सावस्था परमा प्रोक्ता शिवस्य परमात्मनः || नाहमस्ति न चान्योस्ति ध्येयं चात्र विद्यते | आनंदपदसंलीनं ज्ञानं समरसी गतं || नोर्ध्वे ध्यानं प्रयुंजीत नाधस्तान्न च मध्यतः | नाग्रतः पृष्ठतः किंचित् पार्श्वयोरुभयोरपि || नान्तः शरीरसंस्थं तु न बाह्ये भावयेत् क्वचित् | नाकाशे बध्यते लक्षं नाधो दृष्टिं निवेशयेत् || न चक्षुर्मीलनं किंचि न किंचि दृष्टि बंधनं | अवलंबं निरालंबं सावलंबं न भावयेत् || नंदृयाणि भूतानि शब्दस्पर्शरसादिना | सर्वं त्यक्त्वा समाधिस्थः केवलन्मयो भवेत् || सावस्था परमा प्रोक्ता शिवस्य परमात्मनः | निराभास पदे तं तु तं प्राप्य विनिवर्तते || एवं भावितमात्मानमात्मनो भावना बलात् | स भवेत् परमं शान्तं शिवमत्यंत निर्मलं || तदेक तत्वं सर्व च भवते मृत्युजिच्छिवं | २२अ) स चामृतीशं परमं तृतीयं पदमुत्तमं | आख्यातं तव देवेशि किमन्यत् कथयामि ते || एवं मृत्युजितात् सर्वं व्याप्तं ज्ञात्वा विमुच्यते | सर्वकाले तु कालस्य वंचनं कथितं पृये || एवं तु त्रिविधं देवि मयाते प्रकटीकृतं | कालस्य वंचनं नाम योगं परमदुर्लभं || अनेनाभ्यासयोगेन मृत्युजिद्भवते नरः | अनेनैव तु योगेन लोकानुग्रहकाम्यया || मृत्युजिद्भवते योगी सर्वप्राणिषु सर्वदा | एवं मृत्युंजयं ख्यातं शाश्वतं परमं ध्रुवं || अस्मात् परतरं नास्ति सत्यमेतदुदाहृतं | यत्परामृतरूपं तु त्रिविधं चोदितं मया || तदभ्यासाद् भवे जंतुरात्मनोपि परस्य वा | अमृतीश समोदेवि मृत्युजिन्नात्रसंशयः || येन येन प्रकारेण यत्र यत्रैव संस्मरेत् | तेन तेन प्रकारेण स योगीकालजिद्भवेत् || यत्र यत्र स्थितो वापि येन येन व्रतेन च | २२ब्) येन येन हि योगेन भावभेदेन सिद्ध्यति | तदेकं बहुधा देवि विध्यातं वै सिद्धिदं भवेत् || द्वैताद्वैते विमिश्रे वा एकवीरेथयामले | सर्वस्सर्वप्रकारेण सर्वथा सिद्धो भवेत् || चिन्तरन्तं यथा लोके चिन्तितार्थ फलप्रदं | तथैषमंत्रराजस्तु चिन्तितार्थविधायकः || मंत्राणां सप्तकोटीनां मालयः परमो बली | भावहीनास्तु ये मंत्रा शक्तिहीनास्तु कीलिताः || वर्णमात्रविहीनास्तु गुर्वागमनविवर्जिताः | भ्रष्टाम्नायविहीनायेप्यागमोज्झितविघ्निताः || न सिद्ध्यन्ति यथा देवि जप्त्वा यष्ट्वा सहस्रशः | असिद्धा ऋपवो ये च सर्वशंकाविवर्जिताः || आद्यन्तसंपुटे नैव साध्यर्णेन तु रोदिताः | मंत्रेनानेन देवेशि अमृतीशेन दीपिताः || सिद्ध्यन्ति ह्यप्रयत्नेन यष्टाजप्ता न संशयः | ध्याता सर्वप्रदा देवि भवन्तेनानृतं वचः || २३अ) इति ते सर्वमाख्यातं रहस्यं परमं पृये || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने कालवंचनो नामाष्टमः पटलः || श्रीदेव्युवाच || श्रुतं मया महादेव माहात्म्यं मंत्रनायकं | अधुना श्रोतुमिच्छामि यदुक्तं विधुना मम || सर्वागमविधानेन भावभेदेन सिद्धिदं | वामदक्षिणसिद्धान्त सौरवैष्णववैदिके || यथेष्टसिद्धिदो देवो यथेष्टाचरयोगतः | तदाख्या हि सुरेशान चिन्तारन्तफलोदयं || भगवानुवाच || शृणु सुंदरि तत्वेन परमार्थं वदामि ते | अमृतीशविधानेन मृत्युजित् कथितं मया || तदेव परमं देवि शिवं सूक्ष्ममनामयं | स्वभावतत्समुद्दिष्टं व्यापकं शाश्वतं ध्रुवं || न तस्य रूपं वर्णं वा परमार्थ वदामि ते | यस्मात् सर्वगतं देवं सर्वागममयं शुभं || व्यापकं सर्वमंत्राणां सर्वसि * फलप्रदं | निर्मलं स्फटिकं यद्वत् तं तु प्रोक्तं सितादिकं || २३ब्) प्रतिचिंचेतसर्वत्रये नयेन हिरंजितः | तत्तदर्शयतीत्येवं नस्त्व? भावेन रंजितं || यथा तथैव देवेशि सर्वागम नियोजितः | फलं ददाति सर्वेषां साधकानां हि सर्वतः || तस्मात् स्रोतः सुसर्वेषु चिन्तामणिरिवोज्वलः | भावभेदेन वै ध्यातस्सर्वकामफलप्रदः || शिवस्सदाशिवश्चैव भैरवस्तुंबुरुस्तथा | सोमसूर्यस्वरूपेण वह्निरूपधरोविभुः || यतो ज्ञानमयं देवं ज्ञेयं च बहुधा स्थितं | नियंत्रितानां बद्धानां त्राणन्तन्नेत्र मुच्यते || मृत्योरुन्तारयेद् यस्मात् मृत्युजितेन बोध्यते | अमृतत्वंदयत्ये(?) तदमृतीश इति स्मृतः || एवं सर्वगतो देवो बहूरूपो मणिर्यथा | सर्वैचाराधितो देवि स्वसिद्धफलवांछया || सर्वेषां फलदो देव प्रार्थितार्थविधायकः | २४अ) तस्माद्भावानुरूपेण साधकस्साधने स्थितः | येन येनैव भावेन तस्य तत्फलदो भवेत् || यत्सदाशिवरूपेण सदा ध्यायति साधकः | सदाशिव तनुस्तस्य भवते परमेश्वरि || सर्वसाधारणो ह्येष सर्वानुग्रहकारकः | सद्यो वामो ह्यघोरश्च पुरुषेशानविग्रहः || अनेन हृदयादीनिन्यस्तव्यानि वरानने | अनेनैव तु मंत्रेण स्वासनं परिकल्पयेत् || चंद्रार्बुदप्रतीकाशं हि माद्रिनिचयोपमं | पंचवक्त्रं विशालाक्षं दशबाहुं त्रिलोचनं || नागयज्ञोपवीतं तु व्याघ्रचर्मांबरच्छदं | बद्धपद्मासनासीनं सितपद्मोपरिस्थितं || त्रिशूलमुत्पलं वाणमक्षसूत्रं च मुद्गरं | दक्षिणेषु कारेष्वेवं वामेष्वेवमतः परं || खेटकादर्षचापोग्रं मातुलुंगं कमंडलुं | २४ब्) चंद्रार्द्धमौलिनं देवमापीतं पूर्ववक्त्रतः | दक्षिणं कृष्णन्तीमोग्रं दंष्ट्रालंबिकृताननं || कपालमालाभरणं जगत्संत्रासकारकं | पश्चिमं हिमकुंदाभं वामं रक्तोत्पलं प्रभं || ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् | एवं ध्यात्वा तु देवेशं पूजयेद् विधि पूर्वकं || स्वमूर्तौ स्थंडिले लिंगे जले वा कमलोपरि | ईशानाद्यादि सद्यान्ता स्वदिक्षु प्रतिपूजयेत् || आग्नेयया हृदादीनि न्यस्त्वा पूज्यान्विधानतः | तदा सिद्ध्यत्य संदेहः सत्यमेतद् ब्रवीमिते || इति मृत्युजिदमृतीशविधाने सदाशिवाधिकारो नाम नवमः पटलः || भगवानुवाच || अथेदानीं प्रवक्ष्यामि भैरवागम भेदितं | भिन्नांजन वयप्रख्यं कल्पान्त दहनात्मकं || पंचवक्त्रं शवारूढं दशबाहुं भयानकं | क्षपामुखं घोरतरं गर्जं तं भीषणस्वरं || २५अ) दंष्ट्राकरालवदनं भृकुटीकुटिले क्षणं | सिंहचर्मपरीधानं व्यालहारैर्विभूषितं || कपालमालाभरणं दारितास्यं महातनुं | गजत्वाघ्राच्चत(?) तनुं शशांककृतशेखरं || कपालखट्वांगधरं खड्ग खेटकधारिणं | पाशांकुशधरं देवं वरदाभय पाणिनं || वज्रहस्तां महावीरं परश्वायुधपाणिमं | भैरवं पूजयित्वा तु तस्मात् संगगतां स्मरेत् || प्रलयाग्नि समाकारां लाक्षासिंहरसप्रभां | ऊर्ध्वकेशां महाकायां विकरालां सुभीषणां || महोदरीं पंचवक्त्रां नेत्रत्रयविभूषिता | नखरालां कोटराक्षीं मुंडमालाविभूषितां || भैरवोक्त भुजां देवो भैरवायुधधारिणीं | इच्छाशक्तिरितिख्यातां स्वच्छंदोत्संगगामिनीं || अघोरेश्वरीति विख्यातांमीदृग्रूपधरां स्मरेत् || सर्वतंत्रेषु या प्रोक्ता प्रच्छन्ना न स्फुटीकृता | ममाशयो(?) ततो(?) नाभि लक्षितो भुवि दुर्लभः || २५ब्) व्याधि ग्रहणाद्येषु(?) पद्मनेषु(?) क्षय हेतवे | गोब्राह्मणेषु रक्षार्थं शान्तिपुष्टौ सदा यजेत् || अथवा हेमकुंदेंदु मुक्ताफलसमद्युतिं | चंद्रकोटिसमप्रख्यं स्फटिकाबलसन्निभं || कल्पान्त दहनप्रख्यं जपाकिंशुकसन्निभं | सूर्यकोटिसमाकारं रक्तं वा तमनुस्मरेत् || अथवा पद्मरागाभं हरितात्मसमद्युतिं | इच्छारूपधरं देवमिच्छासिद्धिप्रदायकं || यादृशे नैव वर्णध्वा साधकस्तु मनुस्मरेत् | तादृशं भवते रूपं तादृक् सिद्धि प्रदं शुभं || पद्ममध्ये स्थितं ध्याये पूजयेद् विधिना ततः | यथानुरूप नैवेद्य पुष्पधूपा सदै?र्विभुं || या क्षीरसदृशीं देवीं हरहाससमप्रभां | विशुद्धस्फटिकप्रख्यां कुंदेंदु शशिनिर्मलं || चतुर्भुजां त्रिनेत्रां तु चक्रैकेन विभूषितां | सितांबरधरां देवीं सितहारविभूषितां || २६अ) सारंगासनसंस्था तु वज्रहस्तां महाबलां | पाशांकुशधरीं देवीं घंटाध्वनि निनादितां || पूर्वस्यां दिशि संस्था तु देवदेवस्य सन्मुखं | ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति साधकः || सूर्यकोटिसमप्रख्यां ज्वलिताग्नि समप्रभं | सिंदूरराशिसदृशीं विद्युद्रूपां भयंकरीं || त्रिनेत्रां भीमवदनां स्थूलकायां महोदरीं | लंबोदरीं लंबकुचां प्रेतारूढां महाबलां || कपालमाला भरणां व्याघ्रचर्मकटिस्थलां | गजचर्मोत्तरीयां च मुंडमालाविभूषितां || महोक्लेवविराजदन्तीं भासयन्तीं दिशोम्बरं | चतुर्भुजैकवक्त्रां तु खड्गखेटकधारिणीं || कपालखट्वांगधरीं दक्ष दिक्संस्थितां स्मरेत् | कृष्णारुणां महादीप्तां निर्मांसां विकृताननां || सुशुस्ककोटराक्षींर एकवक्त्रां चतुर्भुजां | त्रिनेत्रां भीमवदनां व्यालहारैर्विभूषितं || ऊर्ध्वकेशां महाकायां मुंडमालाविभूषितां | २६ब्) स्नायुरज्जु निबद्ध्वांगीं नरचर्मकटिस्थला | व्याघ्रचर्मांबर धरां खड्गखेटकधारिणीं || अंत्रासृङ्मांससंपूर्णं पिटिकां धारयेत् सदा | त्रोटयन्तीं महांत्राणि पश्चिमायां दिशि स्मरेत् || कुंभीरासनसंस्था तु? स? चैवमधुनोच्यते | उष्ट्रग्रीवं गजस्कंधमश्वकर्णं हुडाननं || व्याडजंघसमाकारं नखावज्रायुधोपमाः | कूर्मपृष्ठं मीनपुच्छं कुंभीरं परिकीर्तितं || नीलोत्पलदलश्यामां शरदंबुदसन्निभां | त्रिनेत्रां चैक वक्त्रां च नीलांबरविभूषितां || सिंहपृष्ठे समारूढां शरचाप करोद्यतां | शक्तिहस्तां महादेवीं तथा चोत्पलहस्तिका || दिश्युत्तरस्यां देवेशी ध्यातां यष्टां फलप्रदां | सिद्धारक्ता तथा शुष्का तथैवोत्पलमालिनी || चतुर्दिक्षु स्थिता ह्येता भैरवापातुगाः प्रिये | विदिक्षु दूत्योदिन्यस्य(?) वह्नादीशं दिगन्ततः || २७अ) काली चैव कराली च महाकाली तथैव * | भद्रकालीति विख्याता देवी रूपेण संस्थिता || किं त्वेता द्विभुजादेव्य पद्मासनमवस्थिताः | कर्तृका मुंडधारिण्यः किंकरा द्वारदेशतः || क्रोधनोवृत्तकश्चैव कर्षणोथ गजाननः | द्विभुजा विकृतास्यास्तु खड्गखेटकपाणयः || शान्त्यर्थे तु सिताः सर्वे रूपं वा कर्मभेदतः | अथातः संप्रवक्ष्यामि राजरज्याविधानतः || मंत्रसंपुटयोगेन मध्ये नामसमालिखेत् | तद्धर्थि भैरवं देवममृतेशं यजेत् पृये || देव्योदलेषु तेनैव तथैवाद्यंत्वयोजितां | दूत्यस्तथा नियोज्यन्ते मूलमंत्रेण किं कराः || पद्मबाह्ये सुशुक्लं तु लिखेत्रु?शशिमंडलं | चतुष्कोणं ततो बाह्ये वक्तलांछनलांछितं || रोचना कुंकुमेनैव क्षीरेण सितया पिव | लिखित्वा पूजयेच्छांतौ सर्वश्वेतोपचारतः || यथा तु रूपैर्नैवेद्यैर्घस्मरैर्वलिरासवैः | २७ब्) सितचंदनसंमिश्रं कर्पूरक्षोदधूसरं | साक्षतातंद्रुलतिलात्सितशर्करया सह || घृतक्षीरसमायुक्तान् होमयेद्यंस्तुयन्तीः(?) | महाशान्तिर्भवेत् क्षिप्रं गृहीतो यदि मृत्युना || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतेशविधाने दक्षिणवक्त्राधिकारो नाम दशमः पटलः || भगवानुवाच || अथेदानीं प्रवक्ष्यामि तन्त्रोत्तरमनुत्तमं | मंत्रेणानेन यष्टव्यं सर्वसिद्धिफलोदयं || सर्वोपद्रव शान्त्यर्थमष्टपत्रे कुशेशये | पूर्वोक्तमंडले देवि मध्ये देवं तु तुंबुरुं || दशबाहुं सुराशानं पंचवक्त्रं त्रिलोचनं | सदाशिवेन वपुषा वक्त्रान्येवं प्रकल्पयेत् || तमर्द्धचंद्रशिरसं राजीवासनसंस्थितं | हिमकुंदेंदु धवलं तु दि?नाबलसन्निभं || नागयज्ञोपवीतं च सर्वभूषण्भूषितं | सर्वाभरणसंयुक्तं व्याघ्रचर्म कटिस्थलं || २८अ) गजचर्मपरीधानं वृषारूढं महाबलं | खड्गचर्मधरं देवं टंककंदलभूषितं || पाशांकुशधरं देवं चक्रहस्ताक्ष सूत्रधृक् | वरदाभयहस्तं च सर्वकिल्विषनाशनं || चतुर्दिक्षु स्थिता देव्यः पूर्वाद्या दूतयस्तथा | आग्नेयादि विदिक्ष्वेवं किंकरा द्वारदेशतः || जंभनी मोहनी चैव सुभगा दुर्भगान्तिमाः | दूतयस्तु समाख्याता किंकराः शृणुतः पृये || क्रोधनो नृत्तकश्चैव गजकर्णो महाबलः | सव्यापसव्ये गायत्री सावित्री विनिवेशयेत् || अधोर्ध्वे चांकुशं मायां विन्यसेत् तदनन्तरं | सर्वाद्येतानि योज्यानि मूलमंत्रेण सर्वदा || सितरक्तपीतकृष्णा देव्यो वै चतुरानना | चतुर्भुजाः त्रिनेत्रा च टंककंदलधारिणी || दंडाश्च सूत्रहस्ताश्च प्रेतोपरिविराजते | जया देवी च विजया वक्त्रवर्णा चतुर्भुजा || चतुवक्त्रास्त्रिनेत्रा च शरकार्मुक धारिणी | २८ब्) खड्गचर्मधरी देवी ह्युल्रो?कोपरिसंस्थिता | जयन्ती पद्मगर्भाश्च चतुर्वस्त्रा चतुर्भुजा || शक्तिघंटाधरी देवी चर्मपट्टिसधारिणी | अश्वारूढा महादेवी सर्वाभरणभूषिता || अजिता च चतुवक्त्रा कृष्णवर्णा महाबला | चतुर्भुजा त्रिनेत्रा च पाशांकुशधरा तथा || रत्नपात्र गदाहस्ता दिव्यासनसुसंस्थिता | सौवर्णां चरधारिण्यो स्वर्णभूषण भूषिताः || स्वदिक्षुसंस्थिता यष्टा ध्यातासिद्धिफलप्रदा | दूत्यस्तद्रूपधारिण्यो किंतु वक्त्रैक भूषिताः || द्विभुजाश्च त्रिनेत्राश्च मुंडकर्तरिभूषिताः | मत्स्यः कूर्मोथमकरोभेकमासां तथासनं || किंकराः खड्गहस्ताश्च द्विभुजाश्चर्मधारिणः | एकवक्त्रास्त्रिनेत्राश्च भृकुटी कुटिलेक्षणाः || सितादि वर्णभेदेन ध्यातासिद्धिप्रदां शुभां | गायत्री रक्तवर्णा च वक्त्रैकेन विभूषिता || वद्वपद्मासनासीना ध्यानान्मीलित लोचना | २९अ) सावित्रीसितवर्णेन ध्यानान्तर्गत लोचना | तथैवा वयवा देवी मायाकृष्णा चतुर्भुजा || महापट्टावगूहिन्या संपुटाकारयुग्मतः | अंकुशं भैरवाकारं पाशांकुशधरं विभुं || कपालखट्वांगधरं वसासृङ्मांस लंपटं | रावंक्षीरार्णवं वोर्वी शक्तिमाधारिकां शुभां || आसनार्थं प्रयुंजीत सर्वशान्त्यर्थसाधकं | सर्वाण्येतानि वा देवि सुशुक्लाः शान्तिकारकाः || रक्तापीतास्तथा कृष्णा ध्यातव्याः कर्मभेदतः | तद्वत् पूजां प्रकुर्वीत यदासिद्धिफलप्रदाः || अथान्यं संप्रवक्ष्यामि चक्रराजं महाबलं | आद्यन्तसंपुटे चैव मध्ये नाम समालिखेत् || एवं देव्यश्च दूत्यश्च पूर्ववद् विधिना स्मरेत् | मध्ये दलेषु विदलेष्वन्यतः सर्वतः सुधीः || यथानुरूप नैवेद्यैर्भूरिशान्त्यर्थमात्मनः | अन्यस्य चात्रयोक्तव्यं यष्टव्यं शान्तिकर्मणि || २९ब्) तिलतंडुलमध्वाज्य क्षीरशर्करया सह | होमयेत् पूर्ववत् कुंडे प्रशस्तेंधन दीपिते || महाशान्तिः प्रजायेत *? मेनानृतं वचः | सर्वरक्षाविधानेस्तु योज्यादेव्यः सुसिद्धिदाः || पंक्तिस्था वायजेद् देवीं मध्ये देवं तु तुंबुरुं | सर्वश्रेयस्समाप्नोति साधकः संय *? दृयः || अन्यस्य वा प्रयुंजानो जयत्यनं संशयः | इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशं विधाने उत्तरतन्त्राधिकारे एकादशः पटलः || भगवानुवाच || अथातः संप्रवक्ष्यामि कुलाम्नाय निदर्शनं | यागहोमं जपं कार्यं येन सर्वमवाप्नुयात् || पद्ममध्ये तु संपू *? भैरवः पूर्वचोदितः | पूर्वादि दिग्दलान्तस्था ह्यष्टौ देव्य स्वभावतः || ब्रह्म्यादि देवतानां च स्वरूपायुधवाहनाः | ब्राह्मी माहेश्वरी चैव कौमारी वैषणवी तथा || ३०अ) वाराही चैव माहेंद्री चामुंडा बहुरूपिणी | ब्रह्मादि बहुरूपान्तं रूपमासां स्ववाहनं || हंसो वृषो मयूरश्च वैनतेयश्च सीकरः | * *? नैत्योवाहनानि प्रोक्ता न्यासां क्रमेण तु || स्वायुधं चैव सर्वासां स्वरूपांकुशभूषितां | कपालखट्वांग धरा वरदा भयहस्तिका || पंक्तिस्था वा * जे देवि सर्वाभीष्टफलप्रदा | सर्वेषां चैव शान्त्यर्थं प्राणिनां भूतिमिच्छता || भूरियागेन यष्टव्या यथाकर्मानुरूपतः | विशेषेन तु षष्ट्यव्य भूभृतानां तु दैशिकैः || आसामेव प्रसादेन राज्यं निहतकंटकम् | भुंजते सर्वराजान सुभगा ह्यवनीतले || यस्मादेत जगत्सर्वं देवीनां भावजं | एता योनि स्वरूपास्तु देवादि जगतः प्रिये || सर्वास्ताः सर्वदुःखौघ हारिण्यः प्राणिनां पृये | रक्षन्ति मातृवच्चैताः पालयन्ति * *? त्सदा || ३०ब्) कोष्ठे वै कार्षिकान्यद्वच्छक्ति रूपं जगत् प्रिये | प्रलयेधारयन्तिस्ससृजन्तीह पुनश्चताः || यद्वच्च कार्षकाः काले बीजवापं प्रकुर्वति | फलार्थं फलदं तद्वद्ब्रह्मकल्पसिसृक्षया || कल्पादौ कल्पमध्यान्ते व्यापयन्ति जगद्धिताः | तस्मात् सर्वप्रयत्नेन शान्त्यर्थं हितकाम्यया || यष्टव्याश्चैव होतव्या ध्यातव्यास्सिद्धिकामतः | सर्वबीजैस्त्रिमधोक्तैस्तिलैर्वा श्रीफलैः शुभैः || पुष्पैर्वा सुप्रशस्तैश्च फलैरन्यैः सुहोमि *? तैः | सर्वसिद्धिप्रदादेव्यः सर्वकामफलप्रदाः || इति सर्वस्रोतसंग्रहसारे मृत्युंजिदमृतीशविधाने कुलाम्नायाधिकारो द्वादशमः पटलः || ईश्वर उवाच || एवं वै मंत्रराजस्य कौलिकं विधिचोदितं | पुनरन्यं प्रवक्ष्यामि विधानं यत्फलं प्रदं || नारायणं चतुर्वाहुं पद्मपत्रयते क्षणं | ३१अ) अतसी पुष्पसंकाशमेकवक्त्रं द्विलोचनं | शंखचक्रगदापद्म सर्वाभरणभूषिणं || दिव्यांवरधरं देवं दिव्यपुष्पोपशोभितं | स्फुरन्मुत्त?माणिक्य किंकिणी जालमंडितं || दिव्यकुंडलधारी च उत्थितं तु सदास्मरेत् | अथवा पक्षिराजस्थं सुश्वेतं तु मनोरमं || त्रिवक्त्रं सौम्यवदनं वराहरिभूषितं | भुजैः षट्भिसमायुक्तं वराभयसमन्वितं || उत्संगे स्प?शृयं ध्यायेत् तद्वर्णायुधधारिणीं | लावण्यकान्ति सदृशी देवदेवस्य सन्मुखां || *? तुर्दिक्षु स्थिता देव्यो विदिक्ष्वंगानि पूजयेत् | जयालक्ष्मीस्तथा कीर्माया वैदिग्नता यजेत् || पाशांकुशधरां देवीं वरदाभयपाणिनीं | देवस्य सन्मुखा ध्याये श्रीवर्णारूपधारिणी || देवस्य सदृशान्यंगाष्टद्वर्णायुधधारकां | अथवाष्टभुजं देवं पीतवर्णसुशोभनम् || ३१ब्) मेषोपरिस्थितं देवं दिग्वासंमूर्द्धलिंगिनं | शृंगवटा? * *? केन चोयानोव्य?तपाणिनं || बालरूपं यजे नित्यं क्रीडमानं हि योषितां | चतुर्दिक्षु न्यसेद् देवीं दिग्वासास्तु मनोरमाः || कर्पूरी चंदनी चैव कस्तूरी? कुंकुमी तथा | तद्रूपधारिणीं देवीं इच्छासिद्धिफलप्रदा || बहुनात्रकिमुक्तेन विश्र?भुग्वा सदास्मरेत् | अनेकवक्त्रसंघातैरनेकास्त भुजैस्तथा || शयनं वा विवाहस्थं ह्यधे लक्ष्मि युतं तथा | केवलं नरसिंहं वा वाराहं वाथवा स्मरेत् || कपिलाननोपि वा ध्यायेदव्यक्तं वापि निष्कलं | येन येन प्रकारेण भावभेदेन संस्मरेत् || तस्य तन्मयतां याति इत्याज्ञा पारमेश्वरी | तेजोमयमतोवक्ष्ये येन सिद्धिर्भवेर्नृणां || रक्तपद्मनिभाकारं लाक्षारससमप्रभं | सिंदूररासिवर्णाभं पद्मरागसमप्रभं || कुसुंभरससंकाशं दाडिमी कुसुमप्रभं | ३२अ) कल्पान्तवह्निसदृशमेकवद्वक्त्रं द्विलोचनं | चतुर्भुजं महात्मान वरदाभयपाणिकं || वज्रमेकेन हस्तेन पद्ममेकेन धारयेत् | सप्ताश्च रथमारूढं नागयज्ञोपवीतनं || रक्तमाल्यांबरधरं रक्त स्रगनुलेपनं | अथवाष्टभुजं देवं लोकपालायुधान्वितम् || त्रिवक्त्रं घोरवदनं त्रिनेत्रं विकृताननम् | अश्वोपरिसमारूढं पद्ममध्ये सदायजेत् || हृच्छिरश्च शिखावर्म लोचनास्त्रं प्रपूजयेत् | मध्यपद्मे यजेद् देवं ग्रहाष्टौ तु द्वितीयके || नक्षत्राणि तृतीये तु य *? संख्यं त्रिभिस्त्रिभिः | दलाग्रे तृतयं पूज्यं लोकपालांस्ततो यजेत् || पंचमे पद्मसंस्थाने अस्त्राण्यष्टौ प्रपूजयेत् | केवलं सुत्थितं वापि द्विभुजं रश्मि संयुतं || विश्वकर्मस्वरूपं वा विश्वकर्ता जगत्पत्तिः | चतुर्भुजं महात्मानं टंकपुस्तकधारिणं || ३२ब्) सादर्षं वामहस्तेन सूत्रं वै दक्षिणेन तु | देवैः सिद्धैश्च गंधर्वैस्तूयमानं विचिन्तयेत् || स्थले नले जले चैव पर्वताग्रेषु पूजयेत् | यत्र वा रोचते चित्तमिच्छासिद्धिफलप्रदं || शंखकुंदेंदु धवलं त्रिवक्त्रं रुद्ररूपिणं | सदाशिवेन रूपेण वृषारूढं विचिन्तयेत् || चतुर्भुजं महात्मानं शूलाभयसमन्वितं | मातुलुंगधरं देवं अक्षसूत्रधरं प्रभुं || अथवा बहुबाहुं च नाद्यस्थं चिन्तयेत् प्रभुं | उमार्द्धधारिणं देवं विष्णुरेवार्द्धधारिणं || विवाहं च वा ध्यायेत् समीपस्थं प्रपूजयेत् | ब्रह्मा चतुर्मुखः सौम्यो रक्तवर्णः सुलोचनं || लंबकूर्चः सुतेजस्कौ हंसारूढश्चतुर्भुजः | दंडाक्षसूत्रहस्तश्च कमंडलुभयप्रदः || ३३अ) वेदैश्चतुर्भिः संयुक्तः सर्वसिद्धिफलप्रदः | बुद्धः पद्मासनगतः प्रलंवः श्रुतिवीवरः || पद्माक्षः पद्मचिह्नश्च मणिवद्धो जगद्धितः | समाधिस्थो महायोगी वरदाभयपाणिकः || अक्षसूवधरोदेवः पद्महस्तः सुलोचनः | ध्यात्वा ह्येवं प्रपूज्येतस्त्रीणां मोक्षफलप्रदः || बहुनात्र किमुक्तेन पौनः पुण्येन सुंदरि | कान्तिकेयश्च कामश्च सोमसूर्यविनायकाः || लोकपालाश्च वै सर्वे ह्यन्येवै देवयोनयः | गारुडे भूततंत्रे च वाग्विधानेषु पूजयेत् || न्यायारहन्वसांख्यैश्च वैदिकानां च सर्वशः | यामले एकवीरे च नवके तृकभेदतः || उमार्द्धधारिणे चैव विषुरेवार्द्धधारिणे | ३३ब्) तत्समीपस्थ देव्यो वा दुर्गाख्ये विंध्यवासिनी | चंडिकाद्याश्च शुष्काद्याः स्वयंभुस्ते महेश्वरे || प्राक्प्रतिष्ठितरूपे वा ऋषिर्मनुजयोजिते | आयुधेषु च सर्वेषु विद्यापीठेषु सर्वतः || पातालमंत्रतंत्रेषु नागेंद्रद्रावितेषु च | शक्तयो वाप्यनन्ताश्व मंत्रेनानेन सुव्रते || विधानेन तु यष्टव्या सर्वसिद्धिफलप्रदाः | भवंन्त्य वितथं भद्रे सत्यं मेनानृतं वचः || सर्वं साधारणो देवः सर्वसिद्धिफलप्रदः | सर्वेषामेव वर्णानां जीवभूतो यत स्मृतः || प्रतिष्ठा पूजने चैव भद्रपीठार्घपात्रकं | बाह्यस्थिते सकृत् पूज्ये सकृचंद्रार्क मूर्तिषु || अग्निसंस्करणे चैव न्यासध्यानादि वाहनैः | विकल्यो नैव कर्तव्यो सर्वसाधारणो यतः || संकरत्वं न जायेत तस्माच्छंकां परित्यजेत् | सकृजप्तशरीरस्थः संकृज्जप्तोर्घपात्रके || ३४अ) सकृद्धस्तेषु विन्यासो मानसे तु सकृज्जपे | बाह्यस्थितस्सकृत्पूज्यस्सकृचंद्रार्क मूर्तिषु || सकृहोमे सकृज्जप्ये उदके तु सकृद्यजेत् | सकृत्सकृच्च सर्वत्र पूजयेत् परमेश्वरं || प्राणायामादिकं क्लेश धारणामुद्रयोगतः | नैवोपयुज्यते ह्यस्य मंत्रराजस्य सुव्रते || व्यवसायैः प्रकर्तव्यं अन्यथा नैव सिद्ध्यति | निच्छिद्रं साधकेंद्रस्य राज्ये राष्ट्रविवृद्धये || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने सर्वविद्याधिकारस्त्रयोदशमः पटलः || श्रीदेव्युवाच || यदि देव परत्वेन वर्णितं मंत्रमुत्तमम् | सर्वेषामेव देवानां देवीनां चैव सर्वतः || हृदयं परमं ह्येष मंत्रराट्सर्वसिद्धिदं | किमन्यैर्मंत्रमुख्यैश्च यष्टैर्जप्तैर्व्रवीहितं || भगवानुवाच || साधुसाधुमहेशानि पृष्टोहं यत्त्वयानघे | ३४ब्) तदहं संप्रवक्ष्यामि यत्सारं परमं ध्रुवं | आसीदिदं शक्तिरूपं अनौपम्यमनामयं || शिवं सर्वगतं शुद्धंमप्रमेयमतींद्रियं | सिसृक्षुच्चेच्छया देवि ज्ञानशक्त्या क्रियात्मकः || प्रथमो ह्येषदेवेशि सर्वज्ञः सर्वगः शिवः | सर्वस्सर्वात्मको देव आदिसृष्टिप्रवर्तकः || ततो तु मंत्रसृष्टि वै शिवेन परमात्मना | नाना प्रकार रचिता पृथग्भेद व्यवस्थया || यथा तथैव देवेशि सर्वः सर्वात्मकः परः | साधारणो मंत्रनाथः सर्वेषां चैव वाचकः || यदा तदा हि सर्वेषांमात्मरूपो ह्यलेपकः | मंत्रकोट्यो ह्यसंख्याता व्यक्ताव्यक्ताश्च संस्थिता || सर्वे ते सिद्धिदास्तेन आद्यन्तेन तु रोधिताः | एतत् संपुटयोगेन जप्त्वासिद्धिफलप्रदाः || तदर्धं तव सुश्रोणि स्नेहेन प्रकटीकृतं | रहस्यं परमं सत्यं न श्राव्यं यस्य कस्यचित् || गुप्तः सुसिद्धिदो ह्येष प्रकटः सिद्धिहा भवेत् | ३५अ) प्रथमो ह्येष देवेशि सर्वज्ञः सर्वतः शिवः | सर्वः सर्वात्मको देवो आदि सृष्टिकरः प्रभुः || तदेव मंत्रसृष्टिं वै शिवं वै परमात्मनः | नानाप्रकार रचिता प्रेषंते देव्यवस्थिता || तत् तत् तथैव देवेशि सर्वसर्वात्मकं परं | तस्मात् सुगुप्तं कर्तव्यं संप्रदाय मुखागमः || इति मृत्युजिदमृतीशविधाने सर्वाधिकारो नाम चतुर्दशमः पटलः || भगवानुवाच || अतः परं प्रवक्ष्यामि सर्वरक्षाकरं यथा | मंत्रनाथं महोग्रं च धूपं रक्षोघ्न चोदितं || सप्तवाराभिजप्तं तु रक्षोघ्नं यस्य दीयते | शिरस्थं धारयेन्नित्यं सर्वदोषैः प्रमुच्यते || सर्वदैत्य क्षयार्थं तु समुक्तेनैव ब्रह्मणा | सेर्षाणां चैव सर्वेषांमभिचारो यथाकृतः || सदा वै सर्षपा प्रोक्ता पाति रक्षति सर्वतः | यदा रक्षांसि सर्वाणि प्राग्विव्रुतहतानि च || मया देवि यदा प्रोक्ता रक्षोघ्ना प्रथिता भुवि | ३५ब्) आहवेषु च सर्वेषु दैत्येस्सह सुरोत्तमैः | नियुक्ता दुष्टहन्तारों सिद्ध्यर्थं रिपुनाशनं || तेषामर्थं यदासिद्धं तदासिद्धार्थकं भुवि | ख्यातं दर्पापहं देवि भूतानां दुष्टचेतसां || यदा सर्वेषु भूतेषु भयत्रस्तेष्ट्र? सर्वतः | नैराजनविधानेन नामांकं जुहुयात् पृये || वह्नौ संक्रुद्धमनसा मंत्री रक्षार्थमुद्यतः | तदा नैराजनं ख्यातं सर्वश्रेयस्करं परं || सितादि युगभेदेन वर्तते तु ग्रहो बली | शुक्लः सर्वप्रदः ख्यातो रक्ते राज्यविधायकः || पीतोरक्षाकरः प्रोक्तः शत्रुविनाशकृत् | चतुर्युगे तु सर्वत्र पीतकृष्णौ द्वितीयके || राजसर्षपगौराख्यो रूपौ द्वौ तु हितौ प्रिये | यदा मृत्युवशाघ्रातस्सर्वतै तु कृष्णपद्रुतः || तदा तु घृतसंयुक्तं गोक्षीरसितशर्करं | तिलैविमिश्रितं कृत्वा जुहुयात् सर्वशान्तिदं || तिलैः कृष्णैः समायुक्तं राजसर्षपमुत्तमं | ३६अ) त्र्यक्ते वै जुहुयात् सम्यक् सर्वशान्ति प्रदं शुभं || अनेनैवाभिमंत्रित्वाद्यस्य हस्ते तु दीयते | सौभाग्यमतुलं देवि जयिते(?) द्या?वसंशयः || सप्ताभिमंत्रितं कृत्वा मंत्रेनानेन मंत्रवित् | मूर्ध्नि प्रदापयेद् यस्य सर्वदोषैः समुच्यते || अभिमंत्र्य तथा धूपं पुष्पं वासांसि वौषधं | समालभनपानं वा भोजनं वाभिमंत्रितं || दीयते(?) यस्य तस्यैव न हिंसंतितीतिहिंसकाः | दिविदिक्षु क्षिपेद् यस्य रक्षार्थं प्रयतात्मनः || दिवा वा यदि वा रात्रौ सुप्ते वा जाग्रतोपि वा | अवधस्सर्वभूतेषु भुवितिष्ठत्यसौ नरः || राजरक्षाविधानं तु मयैवं प्रकटी कृतं | तव स्नेहात् प्रशस्तं तु रहस्यं सर्वसिद्धिदं || नृपाणां नृपपत्नीनां तत्सुतानां द्विजातिषु | आचार्यः कुरुते यस्तु सर्वानुग्रहकारकः || मंत्रज्ञः साधको वाथ स पूज्यस्सर्वथा प्रभुः | सम्मानैवमनैर्नित्यं(?) दारैर्विविध विस्तरैः || ३६ब्) यथा मंत्रार्थसंयुक्त स्वाहा होमे फलप्रदः | तथा सर्वेषु कार्येषु दीक्षितो मंत्रवित्सदा || फलप्रदो भवेत् सम्यक् सर्वशक्ति प्रदः शुभः | सुधा यथा च नागानां पितॄणां च स्वधा यथा || नमस्कारोक्ति देवानां वौषट् शांतौ प्रशस्यते | मंत्रज्ञानां तथा नित्यं? दानसन्मानमुत्तमं(?) || फलप्रदं भवत्यासु? सर्वसिद्धि प्रदायकं | ज्ञानशक्ति स्थिता मंत्रास्तं ज्ञानं चेतसि स्थितं || तच्चितं पूजितं तुष्टं सात्विकं भवते सदा | सत्वस्था तु शृयो नित्यं लक्ष्मीस्तत्र प्रवर्द्धते || रजस्तमो विनाशेन मंत्राः सत्वोदये सदा | सिद्धि प्रदा भवंत्याशु यतोतीव सुनिर्मलाः || ३७अ) तस्मात् सर्वप्रयत्नेन आज्ञैषा पारमेश्वरी | परिपाल्या प्रयत्नेन सिद्धिमुक्तिर्न दूरतः || अनुत्तर विधानं तु न दद्यात् परदीक्षिते | स्वशिष्ये दीक्षिते दद्यान्नान्यथा सर्वथा प्रिये || इति सर्वस्रोतसंग्रहसारे मृत्युंजिदमृतीशविधाने पंचदशमः पटलः || श्रीदेव्युवाच || कथितं देवदेवेन रहस्यं परमाद्भुतम् | सर्वागम मयं देवं एकवीरं महाबलं || वामदक्षिणसिद्धान्तं भेदत्रयविभेदितं | वैष्णवादि समायुक्तं रहस्यं समुदाहृतं || सर्वदेव मयो ह्येष मृत्युजिद् व्यापकः शिवः | बहुभिः संप्रदाद्यैश्च यष्टव्यो भाव भेदतः || नाना कृयोपचारेण नानासिद्धि फलप्रदं | अधुना श्रोतुमिच्छामि संयम हृदि स्थितं || ३७ब्) त्वदृते संशयस्यास्य च्छेत्तान ह्युपपद्यते | पृथक्पृथक्समाचारं सर्वं देवेन भाषितं || कथमस्मिन्समाचारं सामान्यं सर्वतोदितं | कथमेकेन मंत्रेण सर्वेसिद्ध्यंति पूजिताः || बीजैः कूटैस्तथा पिंडैर्मालामंत्रैरनेकशः | वाच्यवाचक भेदेन सर्वसिद्धिफलप्रदं || कथमेकेन मंत्रेण पूजनार्हो नरो भवेत् | भवन्तीह सुराः सर्वे स्वावारस्यं प्रभावतः || मानवानां हितार्थाय कारुण्यात् परमेश्वर | कलिमासाद्य सिद्ध्यन्ति मनुजा दुःखमोहिताः || दारिद्र्यानलसंतप्ता जरामृत्युभयान्विताः | पायैकनिरताः क्रूरास्तपस्सत्य विवर्जिताः || हिंसा पैशुन्य चेतस्का शौचाचार बहिष्कृताः | योगिनी शाकिनीभिश्च डाद्यों डामरिकादिभिः || भूतैर्यक्षैरपस्मारैर्मुद्रिताः प्राणिनो यथा | ३८अ) सिद्ध्यंति विगता यासास्तथा ब्रूहि महेश्वर | श्रीभैरव उवाच || साधु साधु महाभागे यथापृष्टं वदाम्यहं | भविष्यन्ति महादेवि कलिः कष्टतरं यतः || तदर्थें परमार्थेन मया ते प्रकटी कृतं | परमाथ परत्वेन मृत्युजित्सर्वतो मुखः || भावभेदेन यष्टव्यो मोक्षसिद्धिं समीहते | यस्मिन् यस्मिन् यदाचारं मयाशस्त्रेषु भाषितं || स्रोतस्सुतत् तथा कार्यं विशेषाद्याग होमयोः | अन्ये सामान्यतो देवि न सिद्ध्यन्ति कदाचन || किन्तस्मिन्नाधिकारोस्ति त्रिविधे सर्वसिद्धिदे | द्वैताद्वैत विमिश्रे च यष्टं वै सिद्धिदो भवेत् || यस्मात् सर्वगतं देवं विश्वरूपो मणिर्यथा | साधकस्येच्छया यष्टं सिद्धिदं भवते ध्रुवं || यतः सर्वगतं देवं सर्वंश्वन्तर्गतं विभुं | तत्सिद्धि मुक्ति दातारं न वर्णाः परमार्थतः || ३८ब्) तस्मात् सर्वं सदा देवि यष्टव्यं भावभेदतः | यागमस्य प्रवक्ष्यामि कृयते तु यथेच्छया || पर्वताग्रे नदीतीरे गवां गोष्ठेथ चत्वरे | वने चोपवने रम्ये देशकालानुरूपतः || सर्वशल्यविनिर्मुक्ते दुष्टसत्वविवर्जिते | पुण्यधर्मे स्वसंवासे पापाचार वहिं कृते || यत्र निंदा पराः पौरा न दृश्यन्ति कदाचन | यत्र पश्यन्ति ते दुष्टा संकीर्णं सर्वशंकरैः || तस्मिं यजेन् महामंत्रं गीतिभिः परिवर्जितं | गृहे यागः प्रकर्तव्यः आचार्यैस्तत्व दर्शिभिः || सुगुप्तं तु प्रकर्तव्यं विशेषां शान्तिकर्मणि | दीक्षाकाले तु कर्तव्यं मंडलं यत्र तत्र हि || शान्तौ पुष्टौ प्रयत्नेन सुगुप्तं यजनं ध्रुवं | यस्माद्विंसापरालोके दृश्यन्ते सिद्धि हिंसकाः || कीलनं चैव मंत्राणां भेदनं मोहनं तथा | मंत्र संताडनं चैव जंभनं स्तंभनं तथा || रिपु त्वकरणं चान्यं प्रत्यंगैरत्वमेव हि | ३९अ) सर्वहानि करत्वं च कृयते दुष्टमंत्रिभिः | एवं दशप्रकारेण प्रपतंते हि हिंसकाः || तस्मात् सर्वप्रयत्नेन सुगुप्ते शरणोपरि | स्वगृहे कारयेद्यन्नाद्यागहोमं जपं तथा || अत्यंत फलं श्रेष्ठ सुगुप्तं मृत्युजित्सदा | मंडले स्थंडिले कुंभे निर्विशं न चेतसा || हर्म्योपरि तथा होमं विशेषाच्छान्ति पुष्टिदं | न विकल्पोत्र देवेशि विकल्पाद्रौरवं ब्रजेत् || यागं होमं च तत्रैव सर्वसिद्धिफलप्रदं | तस्करन्तं विजानीयात् सिद्धि हानि करोति यः || नाधिकारी भवेत् सोपि तन्त्रे वै पारमेश्वरे | सर्वतः स भवेद् देवि तत्वविच्चाध्वविद्गुरुं || एवं व्याप्तिं तु यो वेत्ति परापरविभागशः | सभवेन्मोचकः साक्षान् शिवः परमकारणः || शिवतत्वमविज्ञाय दीक्षादौ कुरुते तु यः | अंधेनैव यष्टांधाश्च उभयोश्च भ्रपातिनः || आत्मानं च तथा शिष्यं नीत्वा निरयसंकटे | ३९ब्) तस्मात् तत्व विदः श्रीमानाचार्यः सर्वगो भवेत् | यावन्न तत्व विच्छ्रेष्ठः कथं कर्माणि कारयेत् || मंत्रज्ञो ब्रह्मयोगज्ञो परस्यैवात्मनो यथा | यावन्न निर्मलो मंत्रस्तावत्सिद्धिः कथं भवेत् || निर्मलं तु भवेद् देवि तत्स्था मंत्राः सुनिर्मलाः | तदुद्भूतास्तत्समाश्च भवन्ते सर्वसिद्धिदा || शिवशक्ति नियोगाच्च मंत्राणामुदयं शुभं | सर्वत्र फलदा मंत्रा यतस्ते च शिवास्मृताः || तस्मात् शिव मयाः सर्वे नित्यानुग्रहकारिणः | शिवश्चाचार्य रूपेण तेन ते फलदा स्मृताः || यावन्न तत्व विन्मंत्री गुरुं वा साधको पि वा | तावन्न फलदो देवि सत्यमेतद्ब्रवीमिते || अन्यथा भोगसंयुक्तं आचार्यफलदं न हि | तस्मात् तत्व विदश्रेष्ठः सर्वदा सर्वकर्मसु || तेन यो दीक्षितो जंतुर्ब्रह्महापि शिवो भवेत् | यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् || ४०अ) येन येनोपचारेण भवभेदेन येन वा | सामान्येन विशेषेण कौलिकेनाथ सुव्रते || तत्तत्साधयते शीघ्रं यदि देवः सदाशिवः | चतुरश्रे वर्तुले तु हस्तमात्रेधिकेथवा || आचार्यस्येच्छया सर्वं सिध्यन्ति व्याप्ति वेदनां | क्रियाशक्तिस्वरूपेण कौंडिल्या व्याप्ति भेदना || तत् कुंडं व्यापकं ज्ञात्वा सर्वदस्तु भवेद् गुरुः | यावन्न विंदते व्याप्ति कुंडस्यैवात्मनो पि च || साध्यश्चैव पशुश्चैव पाषानां च षडध्ववित् | बालवत् क्रीडते तावत् कार्यं तस्य कथं भवेत् || यः पुनर्वेत्ति चात्मानं शिवशक्ति स्वरूपकं | ससर्वफलदश्रेष्ठः सकर्ता सर्वगः शिवः || ज्ञानशक्तिमयो वह्नि व्याप्यव्यापक भेदतः | सजाता सर्वकर्ता च मोक्षदः फलदो गुरुः || षडध्वातीतयागं तु यजते यस्तु दैशिकः | मायोदधौ शनोद्भूतं सर्वत्राणकरः शिवः || ४०ब्) अध्वमध्यगतं योगं यः करोत्यविचारतः | नासौ मोचयितुं शक्तः परस्यैवात्मनो पि वा || नैव सिद्धिं तु लभते न कार्य करणे क्षमः | षडध्वाध्वानतो नैव बंधनं तु मलं स्मृतं || मायीयाणव कर्मोत्र विसरे बंधकारणं | पशुश्चैव न तत्रस्थं शक्तौ वै मोचने गुरुः || अध्वमध्यगताः पाशा प्ररोहंति सदात्मनः | तदातीतं परं ज्ञात्वा कोन मुच्येत बंधनात् || कोपि वा मोक्षदो न स्यात् कस्सिद्धिं लभते सदा | कोन दाता भवेन् मंत्री कः कार्येन क्षमः पृये || स परः सर्वतो भद्र तं ज्ञात्वा तन्मयो भवेत् | मानोन्मान प्रमानेन विंदते यो ध्वनेद् गुरुः || शिल्पिवद् भवते दक्षो विचित्राकारकारकः | न मोक्षदस्तु भवते नसौ सिद्धिफलप्रदः || तस्मात् शिव समास्सर्वे द्रष्टव्या तत्ववेदिभिः | ४१अ) कार्मी ज्ञानी तथा योगी आचार्यस्त्रिविध स्मृतः | कर्मयोगौ तु स देवेशि ज्ञाने योगफलप्रदः || पृथग्भेदेन दृश्येत ज्ञाना द्वे योग कर्मणा | तस्मादार्य मुख्ये तु ज्ञानवां सर्वदो भवेत् || शिवाश्रयः शिवस्थस्तु शिवशक्ति प्रचोदितः | निर्ममेतजगत्सर्वं शिवरूपो यतस्थितः || इच्छाज्ञानक्रिया युक्तः शिवतत्व विशारदः | यः करोति शिवेच्छा तु ज्ञानव्याप्य व्यवस्थितः || अचिन्त्या मंत्रशक्तिर्वै परमेश मुखोद्भवा | यव्यत्प्रकुरुते ज्ञानी शिवशक्ति समाश्रयात् || तत्तन्निष्पद्यते तस्य शिवशक्तिप्रभावतः | तस्यैव सम्मुखा मंत्रा दृष्टप्रत्ययकारिका || शान्तिकादीनि कर्माणि विषभूतग्रहादिषु | क्षणेन कुरुते सर्वं शिवः परमकारणः || तं प्रबोधयते यस्तु ज्ञानयोग बलान्वितः | मंत्रशक्ति प्रभावेन स दीक्षां दीक्षयेत् पृये || ४१ब्) क्षयन्नयत्यशौ पाशां दद्यादेवं परं पदं | योजनाद्योजयेत् शक्तिः शिवशक्ति प्रभावतः || तस्यैव सन्मुखा मंत्रा दृष्टप्रत्ययकारकाः | शान्तिकादीनि कर्माणि विषभूतग्रहादिषु || प्रत्ययस्तस्य भवते दृष्टं नान्यस्य कस्यचित् | गारुडे भूततंत्रे च वामस्रोते च दक्षिणे || ज्येष्ठे चंडासि धारे च प्रत्यक्षफलदा क्रिया | अत्यंतमलिनस्यास्य पुंसो बद्धस्य मायया || कर्मणा भोगसक्तस्य अभिलाषान्वितस्य च | मोक्षं ददाति दीक्षासौ क्रियाज्ञानस्वरूपिणी || तन्मना तु पराशक्ति ज्ञानरूपावधूतिका | सा कृयेत्यभिधीयेत न क्रियावाध्वमध्यगा || योगशक्तिर्ज्ञानशक्तिः सर्वशास्त्रेषु गीयते | सा शक्तिः परमेशस्य शिवस्या शिवहारिणी || बंधमोक्षकरी पुंसां न स्वतंत्रा स्वभावतः | अनेनैवा तु मानेन शिवः सर्वप्रदः शुभः || ४२अ) शिवादि गुरुपंक्तिर्या रुद्रकोट्यो ह्यनेकशः | आप्तोपदेशमार्गेण पारंपर्येणसंस्थिता || शिवज्ञानं यतो देवि सर्वै चाप्तागमस्मृतः(?) | ब्रह्मादिस्तं च पर्यन्तं शिवशक्ति समन्वितं || एवं शक्ति मयं सर्वं जगत्स्थावरजंगमं | शक्तिमान्सर्वकर्माणि कुरुतेनात्रसंशयः || शान्तिकादीनि कर्माणि कर्माण्येवान्यथा न हि | शक्तिहीना न सिद्ध्यन्ते युगकोटिशतैरपि || जपकोटिसहस्रैस्तु होमलक्षैः सुविस्तरैः | तस्मात्सर्वप्रयत्नेन शिवज्ञानं समभ्यसेत् || तदासिद्ध्यन्ति कर्माणि सर्वाण्येतान्यथा न हि | शान्तिकादीनि कर्माणि कुरुतेसौ तदा गुरुः || यागे होमे जपे चैव तथा लेख्य क्रमेण तु | आपदायदिवोत्पना यथोक्तं यागमारभेत् || साध्यनामेन तद्र्वयं संभारेण तु संभृतः | यागं तु कुरुते यस्य तस्य शान्तिः प्रजायते || ४२ब्) तिलक्षीरघृतेनैव सितशर्करया सह | होमयेद्यस्य नामेन महाशान्तिमवाप्नुयात् || क्षीरवृक्षसमिद्भिस्तु क्षीराक्तैः सुसमाहितः | होमयेद्यस्य नामेन तस्य शान्तिर्भवेध्रुवं || सुमनाघृतसंयुक्ता होमयेद्यस्य नामतः | तस्य शान्तिर्भवेत् क्षिप्रं नात्रकार्यविचारणा || श्रीकामैः श्रीफलं हुत्वा श्रियामाप्नोति पुष्कलां | घृतगुग्गूलुहोमेन पुष्टिर्भवति शाश्वती || मृत्युजित्संपुटं कृत्वा साध्यनामं जपेद् यदि | आत्मनो वा परस्यापि मृत्युस्तस्य न बाधते || अष्टपत्रे तु कमले कर्णिकायां निवेशयेत् | साध्यर्णरोधितं नाम ततोर्ध्वं मृत्युजिद् भवेत् || आग्नेयादि विभागेन तलेष्ठंगानि विन्यसेत् | द्विरष्टदलसंपूर्णं बाह्ये तत्कमलं लिखेत् || स्वरशोडशकेनैव पूर्वादौ पूरयेत् तदा | द्वातृंशदलसंयुक्तं तद्बाह्ये पंकजं न्यसेत् || ४३अ) कादिसान्त * मेणैव पूर्वादीशानगं क्रमात् | साध्यर्ण रोहिताः सर्वे वर्णाश्चक्र त्रये स्थिताः || सर्वेषामध्यतः संज्ञा साध्यस्यैव तु रोधयेत् | जीवमध्यगतं नामकर्णिकायां निवेशयेत् || प्राणान्ते कल्पये जीवं प्राणवर्णान्तमध्यगं | बाह्ये तु मंडलसौम्यं सुसंपूर्णं प्रकल्पयेत् || तद्बाह्ये तु पुरं चैंद्रं वज्रदृग्वज्रभेदितं | भूर्जपत्रे तु संलिख्य चक्रमेतद्वरानने || सुशुक्ले निर्व्रणेश्लाक्ष्ण रोचना कुंकुमेन वा | मलयक्षीरयुक्तेन कर्पूरक्षोदधूसरं || संवेष्ट्यसितसूत्रेण कर्पासेन नवेन च | मधुमध्ये निधाप्येवं सुगंधघृतमिश्रितैः || मृद्भांडे सन्निधाप्येव सितपुष्पैः प्रपूजयेत् | पायसैर्घृतमिश्रैश्च भक्षैर्नानाविधैस्तथा || मृष्टैर्धूपैपयित्वा पूजयेद्भूतिसंभृतैः | बाह्ये तु कलशा नष्टौ पूर्वादौ पूजयेत् ततः || सितचंदनकर्पूरसुधूपोदसंस्रुता | ४३ब्) रत्नगर्भांबुसंपूर्णां सर्वौषधिसमन्वितां | सौवर्णां राजतां ताम्रां मृन्मयां वा सुशोभनां || अकालमूलां सुशुभां प्रसस्तां लक्षणान्वितं | संपूज्य तेषां मध्ये तु लोकपाला क्रमेण तु || तेषां शिवाज्ञादा तथा रक्षध्वंसाध्यमुत्तमं | प्रातर्मध्याह्ने सायाह्ने निशार्द्धे पूजयेत् ततः || सप्तरात्रे व्यतिक्रान्ते मृत्युजिद्भवते नरः | सर्वव्याधिविनिर्मुक्तः सर्वदोषविवर्जितः || सर्वरोगैर्विमुच्येत ज्वरैः सर्वैर्न संशयः | सर्वदुःखपरित्यक्तः ईतिभिः परिवर्जितः || तिष्ठते च नरोभूमौ कंचुयुक्तो यथाफणिः | यदि नान्यमनो देवि साधकस्तत्परायणः || जपहोमरतः शान्तः अस्मिन् स्थाने तु तिष्ठति | सत्ववांधैर्य संपन्नो दयादाक्षिण्यसंयुतः || सप्तरात्रे व्यतिक्रान्ते मृतश्चैवानयेद्वलात् | गोभूहिरण्यवस्त्राणि केयूरकटकादिभिः || ४४अ) पूज्योसौ परया भक्त्या शान्तिपुष्टिर्विशेषतः | यस्मात् मंत्रमयः सोवै शिवः साक्षां तु दैशिकः || तेन पूजितमात्रेण सर्वे मंत्राः फलप्रदाः | भवत्यवितथं भद्रे सत्यमेतन्नसंशयः || अन्यथा सिद्धिहानिः स्यात् कृतं चैव निरर्थकं | आचार्यश्चैव साध्यस्य कृत्या(?) चोत्पद्यते भृशं || तस्मात् सर्वप्रयत्नेन मंत्रवित् पूजयेद् गुरुः | भवन्ति पूजिता मंत्रा सर्वसिद्धिफलप्रदाः || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने व्याप्त्याधिकारः षोडशमः || भगवानुवाच || अथातः संप्रवक्ष्यामि चक्रराजं महाबलं | पूर्ववत् मध्यतो नाम जीवान्तं कल्पयेत् पृये || प्राणान्ते तु ततः कृत्वा वर्णान्तांतर्व्यवस्थितं | अंतिमं तु ततो बाह्ये तद्बाह्ये मध्यमन्यसेत् || प्रथमा तु ततो बाह्ये कर्णिकायां ततो न्यसेत् | केसरेषु स्वराः योज्या दलेष्वंगा पूजयेत् || ४४ब्) बाह्ये तु कलशं लेख्यं कलशो भयमध्यगं | पूजयेत् पूर्वविधिना जपहोमार्चने रतः || साधयत्य चिरेणैव चिंतितं नात्रसंशयः | सर्वशान्तिप्रदं चक्रं पुष्टिसौभाग्यदायकं || आयुर्वीर्यप्रदं पुण्यं ज्वररोगविनाशनं | परराष्ट्रविभीतानां नृपाणां विजयावहं || राजस्त्रीणां सुतानां च विप्रादीनां च सर्वशः | रक्षा ह्येषा प्रयोक्तव्या सर्वोपद्रवनाशनी || पंड्त्या?चैव लिखेन्नाम अक्षरान्तरितं प्रिये | आद्यं तु मूलमंत्रं तु वौषड् जाति युत न्यसेत् || पूर्ववत् पूजयेद् भूरि पाशे चैव सिते शुभे | तत्क्षणान् मुच्यते रोगैराघ्रातो यदि मृत्युना || वौषड् जाति युतं मंत्रं दिक्ष्वष्टौ सुलिखेसिते | भूर्जवल्कलके रम्ये मध्ये नामं तु पूर्ववत् || रक्षापदसमायुक्तं तद्बाह्ये शशिमंडले | मंत्रान्तं वर्णममृतं कलाषोडशसंयुतं || ताडिर्मंडलमापूर्य बाह्ये तु कमलं न्यसेत् | ४५अ) तद्बाह्ये चंद्रसूर्ये तु पुरंदरपुरे स्थितौ | रोचना कुंकुमेनैव क्षीरशर्करया लिखेत् || पूजयित्वा विधानेन पूर्ववंशान्त्यतस्थितः | राजरक्ता तु वै प्रोक्ता सर्वोपद्रवनाशनी || राजरक्षाविधानं तु होमये क्षीरसंयुतं | सितशर्करसंयुक्तम् सुगंधघृतसंयुतम् || क्षीरवृक्षेंधने वह्नौ तिलैः शान्तिर्भवेद्ध्रुवं | यदासौ मृत्युना प्रातं कालेन कलिता नराः || यष्ट्वा तु पूर्ववद् यागं मंडलं तु यथोदितं | कर्तव्यं द्रव्यसंभारैः संभृतो मृत्युनाशनः || मृत्युरुन्तरते शीघ्रं मंत्रस्यास्य प्रभावतः | तदेव भूर्जपत्रे तु सितशर्करया सह || क्षीरेण रोचना युक्तं कुंकुमेन च्युतं लिखेत् | रुक्मकुंभे तु मध्वाक्ते स्थापयेत् तु सुगोपितं || तदूर्ध्वे तु द्वितीयं तु क्षीरपूर्णसुशोभनं | स्रवन्तममृतं ध्यात्वा स्थापयेत् पुष्टि कामतः || ४५ब्) सप्तरात्रप्रयोगेन मृत्युजिद् भवते नरः | क्षीणकायो भवेत् पूर्णं पक्षान्ते तु यथा शशी || न मृत्युवशगः सौरै सत्यं मेनांनृतंवचः | साध्यर्णरोधितं नाम रक्षापदसमन्वितं || मध्ये संयोजयेत् साध्यं पूर्ववच्चामृतीकृतं | तदात्मानं तु संवेष्ट्य वारुणेन तु वै पुनः || कलाशेषेण तद्बाह्ये संपूर्णेन तु वेष्टयेत् | पुरंदरं ततो बाह्ये द्वाचतुर्दिक्षु गोचरे || तन्मंडलांते योज्येत वक्त्रसंपुटमध्यगं | रक्षितं चामृतीशेन न तस्य भयदं क्वचित् || भवति योगिनी भूतरक्षराक्षसहिंसकैः | ब्रह्मराक्षसकाः सर्वे डाव्योडामरिकास्तथा || तेषां वै रक्षणार्थं तु यागरक्षासुशोभने | कुंभान्तस्थं लिखेन्नाम तं स्थाप्य कमलोपरि || अधोमुखं ततो पुष्टिकमलं पूर्ववल्लिखेत् | तत्कर्णिकस्थं विमलं अधोवक्त्रं प्रयोगतः || स्रवमानं ततो ध्यायेदमृतं सर्वतो मुखं | ४६अ) अमृतीशंकरं धेनु प्रविष्टं तु विभावयेत् | हृदिस्थं तत्प्रविष्टं तु सर्वनाड्यः प्रपूरयेत् || तत्क्षणाद् भवते पुष्टि क्षीणकायश्च यो नरः | पंक्त्या तु वै लिखेन् मंत्रं प्रत्येकं वर्णमध्यगं || नामं साध्यस्य वै लेख्यं दिग्विदिङ्मृत्युजिल्लिखेत् | पूर्ववत् कमलं लिख्य षडंगं पूर्ववत् प्रिये || संयोज्य पूजयेत् शक्त्या यथाविभवविस्तरं | सर्वश्वेतोपचारेण सर्वदुःखनिवर्हणं || भवते मंत्रमुख्यैस्तु नात्रकार्यविचारणा | इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने यंत्राधिकारो नाम सप्तदशमः पटलः || श्रीदेव्युवाच || भगवं देवदेवेश सर्वसत्वं हितेरत | व्रातास्त्वं तु सुरेशान सर्वानुग्रहकारक || उक्तं त्वया महेशान व्याप्ति मंत्रेषु चाध्वनः | आख्या हि मे जगन्नाथ यदि तुष्टोसिते प्रभुः || ४६ब्) मंत्राणां कीलनादौ तु योजनं सूचितं प्रभुं | नाख्यातं देवदेवेश यथायोज्यन्ति साधकाः || चूर्णलोपांजनादीनि कुहिकानि तु यानि हि | यथा मंत्रस्तथा जप्यै ध्यानधारणयोरपि || अन्येन मुक्तदोषेस्तु विषादिगरसंभवे | योजितं मंत्रराजानं कथं ज्ञास्यन्ति दैशिकाः || परदेहे स्वदेहे वा लक्षणैः कैश्चि दृश्यते | दृसंहिति कुतः कार्यं रक्षाया परमेश्वर || ईश्वर उवाच || यो विंद्यात् समिदं ज्ञानं सर्वकृत् साधकोत्तमः | परप्रयुक्तमंत्रस्य लक्षणं सुरसुंदरि || रागद्वेषाभिभूतं तु अपिमानश्च योगिनः | कार्यार्थं राजकार्ये वा परिभूतं यतस्ततः || योजयेत् मंत्रराजानं येन यत् सविभास्सदा | सेविते मंत्रनाथेन त्रैलोक्यं हस्तगं भवेत् || किं पुनर्मानुषे लोके वश्याकर्षणमारणं | करोति लीलया पूर्वं मंत्रराजप्रभावतः || ४७अ) ध्यानेन मंत्रयुक्तेन तथा लेख्य क्रमेण च | होमेन लोहचूर्णैश्च तथा संक्रमणौषधैः || विवादिगव(?) दोषैश्च खानपान विलेपनैः | एकान्ते निर्जने रात्रौ निःशब्दे तु वनेपि वा || पूजयेद् देवदेवेशं महाभैरव रूपिणं | महासंहारसंयुक्तं नैवेद्यैर्विविधैस्तथा || पानैश्च विविधैश्चैव धूपदीपानुलेपनैः | वस्याग्रतस्थितो मंत्री ध्यायेद् भैरव रूपिणं || महाकरालवदनं दंष्ट्रानं विकृताननं | उर्ध्वदृष्टि विरूपाक्षिं महाश्मश्रु भ्यानकं || आयुधैर्विविधैश्चैव नानाप्रहरणोद्यतं | ग्रसमानं हि भूतानां कालरूपे स्वरूपतः || ध्यानयुक्तं महामंत्रं योजद्येद्वृद्धि(?) मध्यतः | महामंत्रवरंघोरं वर्णरूपं विचिन्तयेत् || भ्रममानं देहमध्ये अक्षरामंत्रनायके | द्रूतास्ते हेमवत् तत्र वह्निरूप विचिंतयेत् || भ्रममानं देहमध्ये अक्षरामंत्रनायके | ४७ब्) द्रुतास्ते हेमवत् तत्र वह्निरूपं विचिन्तयेत् | ताम्रवद्रसरूपं तु हृदिस्था परिकल्पयेत् || सुस्वरूपं भवेत् तत्र तत्रान्तः कारणं क्षिपेत् | शक्तिर्मायाधिकास्तेषा एकभावं विकल्पयेत् || वीजांकुरवशेकं तु महानंदं प्रवर्तयेत् | अनन्ताशक्ति संक्षोभा च(?) कुरेव(?) समुत्थिता || प्रज्वलन्तं तृशूलं तु ध्यायमानं स्वशक्तितः | निष्क्रान्तं कनिकाभासं स्फुरज्वाला बलायुतं || सुवक्त्र यंत्रमार्गेण प्रेरितं शक्ति वेगतः | सव्यस्य वक्त्ररंध्रेण प्रविशन्तं विचिन्तयेत् || दीप्तहाटकवर्णाभं वह्निज्वालासमायुतं | स्फुरन्तं वायुवेगेन ध्यायमानं महाबलं || चित्तशक्त्या तु देवेशि मृत्युरूपेण चोदितः | ततः संक्षोभितं शूलं पतितं हृदिमध्यगः || तेनाक्रान्तस्तु मंत्रेण तीव्रं हृत्पद्ममध्यगः | आयुधैः प्रेतसत्यस्य नानाप्रहरणोद्यतैः || ४८अ) इति ध्यायेन्महाक्रूरात् पतितोसौ ममाग्रतः | शूलेन संपुटी भूतं गृहीतं परिचिन्तयेत् || चैतन्यं ग्राहयेत् तत्र साध्य हृन्मध्यसंस्थितं | स्वशक्त्योच्चारयेद्वेगाद्ध्यानं मंत्रप्रयोगतः || नीयते सममासीध्ये मंत्रस्यास्य प्रभावतः | शरीरविंवशी भूत नानामंत्रप्रयोगतः || इति ध्यानपरो यस्तु सप्ताहान्मारयेतसः | मृयते नात्रसंदेहो यदि साक्षात् पुरंदरः || सप्तरात्र प्रयोगेन देविनास्त्यत्रसंशयः | अथवामरणं नेच्छेत् प्रविशेतस्ववक्त्रतः || साध्यचिन्तं समाध्याय सततो ह्यधिमध्यतः | साध्यामृत महोघे सिंचमानं हृदिस्थितः || अनेनैव प्रयोगेन आकर्षे तृदशान्वलान् | संहृतः सर्ववीरैश्च का कथा मनुजेषु च || स्वराज्यं स्वधनं चैव स्वदारात् स्वसुतं तथा | ददंति मंत्रिणे सर्वं आकृश्या मंत्र तेजसा || ४८ब्) ऋपूंदासत्वमायान्ति क्लिन्न योन्यस्तथांबु या | पूर्ववत् संप्रयोक्तव्यं त्रिशूलं साध्यविग्रहे || तत्रस्थं चिन्तयेत् साध्यं चाल्पमानं मुहुर्मुहुः | स्वस्थानात् प्लाव्यते वेगान्नीतः कल्पान्त वायुना || उच्चाटयति तत्साध्यं मेरु मध्यादि संस्थितः | अनेनैव प्रयोगेन प्रीति विद्वेषलक्षणं || निष्क्रान्तं तद्विधा चिन्त्य उभौ तेषां प्रपूजयेत् | उच्चारण प्रयोगेन विमुक्ता यान्ति वेगतः || विद्वेषे दहनं लक्ष्मी किं पुनर्मनुजा भुवि | एवमेवान्व योगेन प्रविष्टः साध्यविग्रहे || तत्रस्थं देवदेवेशं चिच्चेतनसमन्वितं | आक्रम्य हृदयं तिष्ठेत् पिबे द्रव्य गमं क्रमात् || द्रावयेत् परदेहं तु सूर्यवद्विसमन्वितं | प्रत्येकं द्रावयेद् द्रव्यं पूरयित्वा स्वविग्रहं || आपूर्य देहं सकलं चंद्रवत् तिष्ठते ततः | क्षीणं साध्यं विचिंत्यं च सर्वक्षीणं स्वविग्रहं || ४९अ) किंचित्काले तु तिष्ठेत यावत् पूर्वं निरन्तरं | वेगेनागच्छते पूर्णं प्रविशत् स हृदान्तरे || अमृतात् प्लव्यमात्मानं देवेशं तत्र पूजयेत् | तैर्द्रव्यैरमृती भूतं परिपूर्णं प्रकल्पयेत् || सप्ताहाभ्यासयोगेन आनयेन्निर्विकल्पतः | ब्रह्मविष्केश्वराद्यैस्तु रक्षितं यदि नित्यशः || अनेनैव प्रयोगेन हृदि चिन्तं करिष्यति | उन्मत्तः क्रियते वापि स्तंभितं वा प्रकल्पयेत् || मूको वा तिष्ठते साग्र्य ग्राहयेद् वा यदिच्छया | ज्वरभूतविशादिभ्यो व्याधिशोकभयावहं || शूलमुन्मेलदुःखैश्च नानाव्याधिशतैरपि | यादृशं चेच्छते साध्यं तादृशं कृयते बला || अनेनैव प्रयोगेन साध्यं वा ग्राहयेद् विषैः | नागैश्च दस्युभिस्साध्यै सप्ताहान्नात्रसंशयः || ततः प्रभृति साध्यस्य दुःखशोकाश्च जायते | अनुत्साहं ततो द्वेगं बंधुपुत्रक्षयान्वितः || ४९ब्) दारांभृत्यांस्तथा भ्रातॄं प्रजा सर्वं च यौवनं | नोच्यते क्रमशस्साध्यो दुःस्वप्नं पश्यते सदा || अतिक्लेश सहो नेह(?) वचिन्तो भवते क्वचित् | अनुच्छाहमनाश्चासो भवत्रासं च जिह्मकं || कार्यहानिं राजभयं विदेशगमनं तथा | दुःखितं राज्यभ्रंशं वा देशादेश परिभ्रमं || एवमादि सहस्रैश्च दुःखदोषैः समन्वितं | तिष्ठते च परो भूमौ व्यभिचारे कृते सति || अथवा होमयेत् साध्यं फलं द्रव्यं तथौषधं | खदिराग्नौ कंटकैश्च चित्यग्नौ वापि होमयेत् || कार्या तु सारहोमैर्वा तुषांगारसमन्वितैः | पुष्पकं कणकैर्वापि महाफल्गुषमेव वा || कृष्णांजसंभवं कार्यं होमसिद्ध्यानुसारतः | तदद्भावात् प्रकुर्वीत फलैः सद्यैस्तृकंटकैः || रक्तास्तु कुसुमान्वश्ये उच्चाटे कृष्णवर्णकं | ५०अ) मरणे कंटकैर्युक्ता विद्वेषे गंधदूषिता | उच्चाटे कटु तैलोक्ता आकर्षे घृतसंयुतां || का कस्य संयुतं कृत्वा मारणे कुसुमं हुनेत् | विद्वेषे कटु तैलैश्च लवणेन हुतौ यजेत् || एवमेव फलं हुत्वा बीजांश्च विविधा क्रमात् | करोति विविधं च्छिद्रं साधको दुष्टहिंसकात् || अथवा लेखयेद्वापि नानामंत्रप्रयोगतः | मंत्रनाथेन देवेशि साध्यनामं विदर्भितं || अनलां कायेथेच्छासौ साध्यार्णेषु नियोजयेत् | आग्नेययं मंडलांतस्थं वायुमंडलवेष्टितं || ज्वलंतं चिन्तयेत् साध्यं दिनानां सप्तकं यदि | तत्क्षणानां जायते दाघं यदि शक्रसमो भवेत् || मंत्रराजं निवद्व्येतस्मरेण पटमध्यगं | श्मशानांगारके लिख्य विषरक्तान्वितेन तु || यस्य नामं वरारोहे हूं फट्कारं विदर्भितं | मारयेत् तत्क्षणावेगात् करजातिसमन्वितं || ५०ब्) मृयते सप्तरात्रेण अथ शत्रु भयं भवेत् | मंत्रनाथ महादेवि अधोर्ध प्राक् स्वसंस्थितं || साध्यनामदेवेशि कार्यत्वं शपदे लिखेत् | विगतं श्रेयमाप्नोति मानुश्रीयस्य या भवेत् || तृरक्षमवमाने तु यन्नामं तु समालिखेत् | यकाराद्यंत संरुद्धंमतः फट् स्त्रितयान्वितं || प्रेत स्थाने निधाप्येवं भैरवं तत्र पूजयेत् | अर्कपुष्पैर्वरारोहे तद्दिशाभिमुखस्थितः || तमुच्चाटयते क्षिप्रं विद्वेशो भव जायते | नियोग भवदे ह्येष मातामित्रो यदि भीवन् || पंचागेन पिशाचस्य क्रुद्धराजवसानकं | नाम्ना समालिखेद् यस्य उन्मत्तं ज्वरदाघ कृत् || काकोलूकस्य पक्षाणि खरोष्ट्रं मूत्रमृत्तिका | कृत्वा पतिकृतं कार्यं काकरक्तेन लेखयेत् || काकोलूकस्य पक्षाणि गुदयाता विनिक्षिपेत् | ५१अ) चतुष्पथे निखने श्मशानाग्निं ततोपरि | प्रज्वाल्य होमयेत् प्राज्ञः काकपक्षांश्च सुव्रते || उद्भ्रान्तपत्रसहिता खरमूत्रेण भाविता | यस्य नामं समुद्दिश्य यकाराद्यं तु रोधितं || मंत्रावसाने विन्यस्यस्तं विसर्गान्तं विचारयेत् | भ्रमते काकवत् पृथ्वी शत्रुव्याधि प्रपीडितं || पिष्ट्याकं निंबपत्राणि मृतकेश तुषानि च | शत्रोः प्रतिकृतिं कुर्यादर्कपुष्पैस्तु वेष्टयेत् || श्मशाने निखने तत्र वह्नेः प्रज्वाल्य चोपरि | पुष्पैर्विभीततरुजैर्यस्य नाम्ना तु होमयेत् || विद्वेषो भवते शत्रुः कामदेव समोपि यः | अथ चेन्मारयेत् क्षिप्रं शत्रु वै निश्चितात्मनः || अपकारशतैर्युक्तौ कृतघ्नो दुष्ट चेतसः | कपाल द्वितयं ग्राह्यं नामं शत्रो समालिखेत् || कपालहस्तकस्तत्र विषांगारेण भावितः | रुधिरेण समायुक्तं फट्कारांत विदर्भितः || ५१ब्) महापितृवनं गत्वा भैरवं पूजयेत् ततः | कृष्णमाल्योपहारैस्तु ततः कर्मसमारभेत् || विज्ञप्तं देवदेवेश शत्रुमेवं निपातयेत् | अनुज्ञातस्तु देवेशिं गृहीत्वा तु शिरो द्वयं || तत्र गत्वा महादेवि कपालासनसंस्थितः | तत्रस्थो रूपवर्णस्तु दक्षिणाभिमुख स्थितः || आत्मानं भैरवं रूपं ध्यात्वा घोरं स्वभीषणं | क्रूद्धः समुच्चरेन् मंत्रं विलोमेन महामतिः || हूं फट् स्वमुच्चार्य काद्यश्चास्फालयेद्भृशं | खंडश * *? तो यावत् तावच्छत्रुः प्रनश्यते || सप्तरात्रेण देवेशि प्रयोगस्त्व निवर्तकः | अन्ये शतसहस्राणि अन्यकालोच्छितानि तु || प्रयोगानि करोत्येशः पूजितो मंत्रनायकं | स्थावरं जंगमं चैव योगजं शंकयापि वा || कृत्त्रिमं वा प्रकुर्वीत सच्चिन्तं प्राणहानिकं | मूत्रं रक्तं तथा केशं वलास्थिं वानसीषु च || ५२अ) गोस्थिष्यास्थिभृगालांस्थि तथा मेषाविलोचनं | गोधूम हाटके युक्तो गृध्रवृष्ट्या च लेपयेत् || भक्षैपानै प्रदातव्या यागं कृत्वा सुपूजितं | स्नाने विलेपने धूपे गंधवस्त्रे तथौषधे || मृयते नात्रसंदेहं तृसप्तेन समो यदि | वनकामाषमुद्गाणि अपानेन विनिर्गता || धान्यं शृतं तथा रक्तं स्त्रीरक्तं निर्मलं तथा | मूलं रक्तं तथा केशं लाला चैव वरानने || मूत्रं जारीकृताह्वावनागेंद्रमदसंयुता | मोहनी विष्णुक्रान्ता च धात्री चैवकतस्थिता || पुष्यरिक्षे तु युंजीत गर्वितानां यशस्विनि | भक्षेपानेषु दातव्यं यावदायुर्वशी भवेत् || इति संक्षेपतः प्रोक्तं प्रयुक्तं मंत्रनायकं | करोति विविधा वाधां पूर्वसेवा यदा कृता || साधको योजयेद् देवि मंत्रा मंत्रेषु जायते | खादकास्त्रादि मंत्राणां परस्पर नियोजनात् || तीव्रातीव्राभियोगेन दूर्णितानिःखषा गता | ५२ब्) परस्परं सिद्धिहानि जपस्य हरणं तथा || जंभनं स्तंभनं चैव मोहनं कीलनं तथा | बलाबलवियोगेन साधकाये यजंति च || इत्यमृतीषविधाने वश्याकर्षणाधिकारोष्टा दशमः पटलः || श्रीदेव्युवाच || भगवं देवदेवेश सर्वभूत हितेरत | *? णं कृत्वा सुरेशान सर्वानुग्रहकारक || उक्तान्वया महादेव व्याप्तिमंत्रेण चाध्वनः | आख्याहितं जगन्नाथ यदि तुष्टोसि मे प्रभो || मंत्राणां काल(?) नादौ तु योजनं सूचितं विभुः | नाख्यातं देवदेवेश यथा सिद्ध्यन्ति साधक || परयुक्ता नश्यन्ति कृत्या खार्खोदकानि च | प्रत्यंगिरा प्रयोगेन हंतिरिष्टान्यनेकशः || यथा तथा महादेव ब्रूहि निःसंशयं मम | ईश्वर उवाच || वादिनामेव सर्वेषा मंत्रवादं तु चोत्तमं | आज्ञा नियोजयेत् मंत्रं मंत्रलिंगानि सुव्रते || ५३अ) दीपनं बोधनं चैव ताडनं चाभिषेचनं | विमलीकरणं चैव तथेंधन निवेशनं || सन्तर्पणं गुप्तिभावं आप्यायं नवमं तथा | एवं नवप्रकारेण मंत्रवादमशेषतः || योजानाति स जानाति मंत्रसाधनसाधनं | एकादशं विधो मंत्रो ज्ञातव्यो हि पुनः पृये || येन सम्यक् प्रयोगाश्च सिद्ध्यन्ते साधकेश्वराः | ते च वै संप्रवक्ष्यामि सर्वशास्त्रेषु सम्मतं || संपुटं ग्रथितग्रस्तं समस्तं च विदर्भितं | आक्रान्वमथमाद्यन्तगर्भस्थं सर्वतोद्धृतं || तथा युक्ति विदर्भं च विदर्भ ग्रथितं तथा | इत्येकादशधा मंत्रा भवन्ति फलदा पृये || सिद्धं साद्ध्यसुसिद्धं च तथैवारित्वमेव च | ज्ञात्वा सर्वमशेषेण मंत्र वा * * *? चरेत् || उदयास्तमनं व्याप्तिं ध्यानमुद्रा स्वरूपतः | यो वेत्येवमवेदज्ञो सर्वकृत् सर्वकोत्तमः || एवमाद्यैरशेषैश्च भावभेदः सुरेश्वरि | भावितव्या(?) महामंत्रा भवन्ति फलदा प्रिये || ५३ब्) तस्मात् सर्वप्रयत्नेन ज्ञात्वा सर्वं नियोजयेत् | अस्य वै मंत्रराजस्य नास्ति देवि विचारणा || सर्वेषामेव मंत्राणां वृंहकः परमेश्वरः | अनेन ग्रंथिता मंत्राः सूत्रेमणि गणा इव || अस्य गर्भे स्थिता मंत्राः भवन्ति सिद्धिमोक्षदाः | यस्मात् सर्वगतं देवं सर्वसिद्धिफलोदयं || व्यापकं सर्वतो भद्रं सर्वतो सुखमव्ययं | पूरणं सर्वमंत्राणां रक्षणं परमं बलं || मंत्राणां योनि भूतं तु मोक्षदं सिद्धिदं शुभं | यतस्ततोस्य मंत्रस्य नास्ति देवि विचारणा || एभिर्दोष सहस्रैश्च छिद्रितं साधकं यदि | विनायकैश्च ये ग्रस्ता आधिव्याधि प्रपीडिताः || राज्यभ्रष्टास्तु राजानः परराष्ट्रनिपीडिताः | विरक्तपौरान्निर्वृत्या अपुत्राश्च सुदुःखिताः || मृतपुत्रामृतादारा स भयाविगत शृयः | आचार्यः साधको वापि मंत्रसिद्धि परांमुखा || विप्रुत्रा दुर्भगानार्यो बंध्या विद्विष्टभर्तृकां || ५४अ) एवमादि सहस्रैश्च दुःखदोषैश्च संयुता | दृष्ट्वान्त मानवां लोके उक्तौर्दोषैश्च दूषिताः || तथा चैवग्र कर्तव्यं यागभाग्यरुहांपरां | श्रीवागं परमेशानि मंत्रेणानेन मंत्रिणा || महालक्ष्मी कृते यागे भाग्यभाग्भवते नरः | पूर्वोक्त दोषनिर्मुक्तो प्राप्नोति परमसुखं || कलशे नाभिषिक्तोसौ पूजयित्वा महाश्रियां | प्राप्नोति चिन्तितां कामान् ब्रह्मविष्णुशिवोपमान् || एवं ज्ञात्वा तु मेधावी यागं कुर्यात् सुशोभनं | कर्तव्यं सर्वथा देवि सर्वश्रेयकरं परं || पूर्वोक्तेनूप्रदेशे तु सर्वलक्षणलक्षिते | सर्वशल्योद्वृति(?) रम्ये महापद्मवने तथा || प्रछन्नेषु च शस्तेषु सुगुप्ते शरणोपरि | आलिखे मंडलं तत्र चतुरश्रं समन्ततः || एकोन विंशसूत्राणि पतयेद् वैंद्र वारुणे | तथा दक्ष कुबेराभ्यां(?) सूत्राणि सुसमां कुरु || ५४ब्) भागेष्टादशभिर्भागैश्चतुर्दिक्षु समन्ततः | कोष्ठकानां शतात्रीणि चतुर्विंशाधिकानि तु || तन्मध्ये तु लिखेत् पद्मं अष्टपत्रं सुशोभनं | भागाष्टकं तु तन्मध्ये चतुर्था विभजेत् ततः || प्रथमे कर्णिका कार्या केसराणि द्वितीयके | संधयश्च तृतीये तु दलायाणि चतुर्थकं || भ्रामयेच्चतुरौ वृत्ता सुसमासुसमानतः | दिक्षुसुत्राष्टकं दद्याद् विदिक्षुः पातयेत् तथा || ऐंद्र्या दिशि गृहीत्वा तु मध्यसूत्रप्रमाणतः | किं जल्कस्थंभवेत्पत्रं तन्मध्ये कर्णिका लिखेत् || दलसंधि स्थितेः सूत्रे स्थाप्यपार्श्वे तु भ्रामयेत् | द्वाभ्यामुभयपाश्वाभ्यां पुर्वपत्रप्रसाधयेत् || इतरान्येवमेवं तु पद्मपत्रदलं भवेत् | पीता तु कर्णिका कार्या पुष्करा हरिता स्मृता || केसराणि विचित्राणि चतुर्विंशकसंख्यया | सितारक्ता तथा पीता मूलमध्याग्र योजिता || ५५अ) सुश्वेताश्च दलाकायां व्योमरेखा तु वर्तुला | बाह्ये चांगुष्ठमानेन श्वेतवर्णासुशोभना || दलान्तराणि रक्तानि तद्बाह्ये चतुरश्रकं | तथैवांगुलमानेन सितरेखा तु पीतला || गात्रकानि ततो बाह्ये भागाभ्यां चैव पार्श्वतः | सितादि वर्णभेदेन कोणेष्ठाग्नेयमादिभिः || गात्रकाः पीतवर्णाद्याः पूर्वादि क्रममालिखेत् | द्वौ द्वौ भागौ ततो लोप्य वीत्यर्ये चैव सर्वतः || कृष्णेन रजसा पूर्य शंखपद्मविभूषिताः | द्वारशुक्लादि कुर्वीत द्विभागेनैव पार्श्वतः || वीथिमानेन विस्तारं वीथ्यर्धेन तु कारयेत् | कंठं तथोपकंठं च तथा शोभोपशोभितं || एवं निष्पाद्यते द्वारं संवृत्ता त्रीणि कारयेत् | पश्चिमं विवृतं कार्यं पार्श्वाभ्यां विलेखयेत् || शोभाश्चैवोपशोभाश्च रक्तवर्णाश्च पीतकाः | प्रतिकुर्याच्चतुर्दिक्षु कोष्टकैरधरोत्तरैः || ५५ब्) कोणान्तेषु लिखेद् देवि पद्मशंखौ समं ततः | तस्मिन् बाह्ये समन्ताच्चु? भूतरेखा प्रपातयेत् || सितादि वर्णभेदेन निवृत्त्याद्याश्च ताः कलाः | बाह्ये तु पत्त्रवल्यब्जैः स्वस्तिकैरुपशोभितं || आलिखेत् मंडलं मुख्यं तन्मध्ये तु यजेच्छृयं | पूर्वाधिवासः कर्तव्यो यथाविभवविस्तरैः || यागहर्म्यं प्रकर्तव्यं शक्त्याद्रव्यानुसारतः | वेदीतोरणसंयुक्तं नाना ध्वजविभूषितं || छत्रपादुकशयादि नाना शोभसमन्वितं | गृहोपस्करणाद्यैश्च भोगैर्नानाविधैस्तथा || वितानोपरिकर्तव्यं सुश्वेतं तु मनोरमं | जवनी चतुरंगा च दीपाष्टौ दिक्षुदापयेत् || बालव्यंजनघंटाश्च तथा दर्श चतुष्टयं | पताकाष्टौ तवाश्रेष्ठा नानारंगसमुद्भवाः || कलशाष्टौ तथारोप्या ताम्राया मृन्मयापि वा | समुद्राष्टौ तथा पूज्या सर्वौषधि समन्विताः || भूतपल्लवयुक्ताश्च स हिरण्याश्च पूजयेत् | ५६अ) कांडाष्टौ पंचरंगाश्च चतुर्दिक्षु निवेशयेत् | लोकपालास्तथा पूज्या पटेषु स्वाकृति स्थिताः || तथा ह्यस्त्रा कृतिः कार्या दशदिक्षुसमन्ततः | द्वाराध्यक्षांस्ततो बाह्ये कर्तव्याम्नाय दर्शनं || सर्वसाधारनत्वाश्च पटे कार्यास्तु या दृशा | वेदमंगलनिर्घोषैर्जयपुण्याहसंयुतै || नृत्तवादित्रगीतैश्च स्तोत्रैर्नानाविधैस्तथा | आचार्यश्च स्रुशुचिर्दक्षश्चंदनागुरुचर्चितः || धौतपौतिकया युक्तं उष्णीषांगुलि भूषितः | कटकादिभिहारैश्च पुष्पं स्रग्दामभूषितः || मूर्तिपैर्धूपबाहैश्च अर्घवाहैस्तथैव च | सर्वसंभारसंयुक्तं अधिवासनपूर्वकं || कुंभोस्त्रवर्द्धनी चैव तथा क्षेत्रपरिग्रहं | पश्चाद्वैरजपातं तु कर्तव्यं दैशिकेन तु || पूर्वोक्त वपुषा ध्यात्वा मृत्युजित् मध्यतो यजेत् | तदुत्संगे स्थितां देवीं श्रियं वै विश्वमातरं || ५६ब्) विशुद्धस्फटिकप्रख्याहिमकुंदेंदु सप्रभां | चंद्रार्बुदप्रतीकाशं गोक्षीर सदृशं प्रभां || मुक्ताफलनिभां श्वेतां श्वेतवस्त्राविभूषितां | सितचंदनलिप्तांगीं कर्पूरक्षोदधूसरां || शुभ्रहारेंदु कांतादि रत्नोज्वलविमंडितां | सितस्रग्दाममालाभिः कमलैः सुविभूषितां || हरहाससुशुभ्रांगी सिंहहासांमनौरमां | सुशुक्लमुकुटोपेतां एकवक्त्रां त्रिलोचनं || बद्धपद्मासनासीनां योगपट्टविभूषितां | शंखपद्मकरां सौम्यां वरदाभयपाणिनीं || चतुर्भुजां महादेवीं सर्वलक्षणलक्षितां | ध्यातव्यां भावभेदेन रूपायुधविभूषितां || अमृतीशविधानेन तथैवांगानि विकल्पयेत् | सर्वश्वेतोपचारेण पूजयेत् सर्वसिद्धिदां || अनेनैव विधानेन श्रीधरं वा शृया सह | पूजयेद् भक्तितो देवि सर्वकामफलप्रदं || ५७अ) पाद्यार्घकुसुमैः शुभ्रैर्मृष्टधूपैश्च धूपयेत् | लेहैः पेयैस्तथा वोष्पैर्भक्षैर्नानाविधैः शुभैः || पूजयेत् परमेशानं सर्वसिद्धिफलप्रदं | पूर्वैवनिर्मितं कुंडे होमं पूर्वोदितेन च || तर्पये देवदेवेशीं भक्तियुक्तेन चेतसा | अथवाष्ट भुजां देवीं चितां रत्नकरां शुभां || कलशं धारयेन्नित्यं अमृतेन समन्वितं | सोमसूर्यकरां देवीं सितपद्मोपरिस्थितं || निधीनां चोपरिष्टा तु गजमंगलभूषितां | ब्रह्माद्यैः सुरसंघातैः पूजितां संस्तुतां सदा || ध्यातां जप्तां महेशानि सिद्धिमुक्तिफलप्रदां | यष्ट्वा तु देवदेवेशीं कुंभस्थां प्रपूजयेत् || पूर्वोक्तेन विधानेन यागे पूर्वोदिते शुभे | पूर्ववद्ध्यानयोगेन कुंभमध्यगतां यजेत् || जप्त्वा चाष्टोत्तरशतं त्वभिषिंचेतपूर्ववत् | तस्या बला महालक्ष्मी राज्यं वायदभीप्सितां || ५७ब्) भौमांतरिक्षसिद्धीनि दिव्यां चैवेश्वरी शुभां | ईहितं कामयेत् किंचित् सुप्रसन्नो प्रयच्छति || आयुर्बलं यशः कीर्ति मेधाकांति शृयं वपुः | सर्वं विवर्द्धते यस्य यस्य वेश्मनि पूजिता || यः कश्चिदभिषिक्तो वा यस्य वा साधयेत् प्रिये | पूर्वोक्तं सर्वमाप्नोति शान्तिं पुष्टिं सुखानि च || पटे तु लिखितां देवीं यस्य वेश्मनि पूज्यते | पूर्वोक्तेन विधानेन तस्य सर्वं प्रयच्छति || बहुनात्र किमुक्तेन सिंहस्यैव यथामृगाः | प्रपलायन्ति सर्वे दुष्टादोषां सहस्रशः || किमन्यैर्मंत्रबृंदैश्च देवताराधनेन वा | यत्रैषा देवदेवेशी ध्याता जप्ता तु पूजिता || संग्रामकाले ध्यातव्या खड्गपत्रलता स्थिता | जयं प्रयच्छते वश्यं रिपुदर्पापहा भवेत् || संग्रामाग्रे सदायोज्या रिपुदर्पापहा भवेत् | अवश्यं जयमाप्नोति देवदेव्या प्रसादतः || ५८अ) अपि व्याधिशतार्तो वा दुःखशोकैः प्रपीडिताः | सर्वव्याधिविलिप्तो वा कृत्या खार्खोदपीडिताः || मंत्रैर्यंत्रैस्तथा ध्यानैर्जपहोमविशादिकैः | चूर्णलेपांजनादीनि कुहकानि तु यानि वै || करिष्यन्ति रिपो यत्र स्त्रियौ वा पुरुषोपि वा | पूजितानेन विधिना तेषां प्रत्यंगिरा भवेत् || आश्रित्य परमां देवीं भक्त्यासंपूजयेत् तु यः | यथा न दृश्यते दुष्टैः पापाचार रतैर्नरैः || मंत्रसिद्धैस्तथा धूर्तैः समयघ्नैश्च कंटकैः | तथा गुप्तानुयष्टव्या गोपिता सिद्धिदा भवेत् || यागा होमे तथा जप्ये मुद्रायां ध्यानयोगतः | सुगुप्तां ध्यायते देवी यस्य सौभाग्य भाग्भवेत् || यस्मादुष्टाश्च वहवो जिघांसन्ति सुखानि च | अन्य सौभाग्य संत्यक्ता दौर्भाग्येन प्रपीडिताः || पश्यन्ति यागे होमे च जपध्यानविधौ सदा | ५८ब्) जनयन्ति महाविघ्नां तस्माद्गुप्त तमो विधिः | भावभेदेन यष्टव्या साधकेन विपश्चिता || एकवीरक्रमेणाथ पूजिता वा सुरेश्वरी | ददाति सर्वकामांश्च प्रसन्नापरमेश्वरी || शैवे वैष्णवसिद्धान्ते भेदेनैव सुपूजिता | भक्तानां चित्तभेदेन फलदा परमेश्वरी || चिन्तामणिर्यथा लोके चिन्तितार्थफलप्रदा | तथैषानुमहालक्ष्मी सर्वकामफलप्रदा || देवासुरमनुष्याश्च नागागंधर्वकिन्नराः | ऋषयोप्सर सा यक्षा राक्षसाश्च पिशाचकाः || भूतवेतालयोगिन्यो मातरो गुह्यकास्तथा | डाव्योडामरिका देव्यो भगिन्यो दूतयस्तथा || तत्रायोगेश्वराः सर्वे योगसिद्धाश्च सर्वशः | महाश्रिया प्रसादा च सर्वे सिद्धाश्च सिद्धिदः || आकारं सर्वसिद्धीनां महालक्ष्मी महाबला | आशृतानां च भक्तानां साधकानां वरप्रदा || ५९अ) अस्याः परा हि जगतो नान्या कीचित् सुखप्रदा | अणिमादि गुणा ये च सर्वज्ञा द्यास्तु ये परा || ते सर्वेस्याः पुमां देवि सिध्यन्ते नान्यथा पृये | मोक्षार्थी वा प्रकथ? एकवीरां तु पूर्ववत् || अथवा शक्तिसंयुक्तं प्रतिष्ठापयते विभुं | सर्वसंभारसंयुक्तं प्रासादे तु मनोरमे || शक्तिशक्तिमतो योगात् स्थापयित्वा विधानतः | जन्मान्तर सहस्रैस्तु यत्पापं समुपार्जितं || तत्क्षणान्न पश्यते देवि तूलराशि रिवानलत् | वेष्टमात्रेण देवेशः स्थापितो वापि दीक्षितः || कुलां चोद्धरते सर्वां दशपूर्वां दशापरान् | यावत् प्रासाद लिंगं वा प्रतिमा चित्रभित्तयः || पाषाणधातवश्चैव ध्वजो वा ध्वजयष्टयः | समुद्रा सरितो याव मेरुचंद्रार्क भूमयः || संख्या तत्परमाणूनां तावत्कालं भुनक्ति सः | भोगात् सदाशिवे तत्वे भुक्त्वानिर्वाणमाप्नुयात् || ५९ब्) यथा समुद्रसंप्राप्य सिंधुः समरसी गतः | तथा शिवत्वमापन्नः पशुर्मुक्तो भवार्णवात् || प्रतिष्ठाफलमेतद्धि प्राप्नुयान्नात्रसंशयः | अदीक्षितानां नृपतौ तत्सुतानां द्विजातिषु || भोगालस्याथवा देवि कर्मदोषाश्च विघ्नतः | न यष्टं नपस्तप्तं न ध्यानं न प्रतिष्ठितं || पातित्येन मृतानां तु येषां नरकसंस्थितिः | निदानैर्वहुभिर्देवि बालस्त्रीवृद्धमानुषैः || मृतस्योद्धरणार्थाय दीक्षार्थं परमेश्वरं | यष्टव्यं पूर्वदेवेशं विशेषस्तत्र वा कृतिः || कर्तव्या रजतावश्यं सदृशाद्वादशांगुला | कार्या वा गोपये देवि कुशैर्वा स्नानशोधिता || दीक्षैव तत्र संस्कारां व्याप्त्या यत्र समं नयेत् | अणुं च योजयेत् तस्मिं पूर्णाहुत्या क्षिपे नले || योजन्या शिवतत्वे तु ततः सा योज्यतां लभेत् | श्राद्धे संपूजयेद् देवं मंतेष्टि त्वेति वा यजेत् || ६०अ) प्रतिष्ठाप्यस्तथा देवि दग्धपिंडे श्मशानके | पूर्वोक्त द्रव्यसंभारैः पूर्वोक्तविधिना गुरुः || पूर्वोक्तं भीषणं रूपं शक्तिद्वयसमन्वितं | चतुश्चाष्टौथवा देवि पूर्वध्यानावलोकितं || पूर्वोक्तं फलमाप्नोति इत्याज्ञा पारमेश्वरी || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधानो एकोन विंशतिमः पटलः || श्रीदेव्युवाच || कथितं देवदेवेन प्राणिनां हितकामया | अमृतेशविधानं तु सर्वरक्षाकरं परं || इदानीं श्रोतुमिच्छामि संशयं मे हृदिस्थितं | दृष्टिपातं प्रकुर्वन्ति जंतूनां मातरः सदा || असंख्यातास्तुता देव्यो अप्रमेय बलान्विताः | छायाच्छिद्रेण बाध्यन्ते योगिन्यौ बलवत्तराः || अत्यन्त वलिनस्तीव्रा निस्तृंशानिर्भया दृढाः | हिंसकाः सर्वजंनूनां चालानां च विशेषतः || ६०ब्) न संख्या विद्यते तासां तत्रोपायं वदस्व मे | छायारूपं फलं यत्तदृष्टिपातछलं तथा || प्रकुर्वन्ति सदा देव च्छायास्तास्तु कति स्मृताः | दृष्टिपातभयं किं वा कथं वापि निवर्तते || एतत्सर्वं समासेन प्रसादाद्वदशूलधृक् | भगवानुवाच || श्रूयतां संप्रवक्ष्यामि छायायाश्चैव लक्षणं | अप्रमेया ह्यनन्ताश्च मातरो बलवत्तराः || भूताश्च विविधाकारा ह्यनन्ताश्च महाबलाः | यक्षरक्षपिशाचांश्च ये चान्ये हिंसका शठाः || न संख्या विद्यते तेषां कोटि भेदेन संस्थिताः | संक्षेपतः प्रवक्ष्यामि येन मुच्यन्ति बालकाः || स्तृयश्च मनुजा वापि नृपपन्यश्च तत्सुताः | यथात्यजन्ति बलिनो यागव्रतपरायणाः || मंत्रसन्नद्ध देहाश्च सुप्रमेय बलान्विताः | पुराकल्पे समुत्पन्ना नानाजसहस्रशः || ६१अ) सर्वत्र हिंसकाः क्रूराः सर्वकालजिघांसकाः | यागार्थमुद्यताः सर्वे भैरवानुचराः सदा || तच्छक्त्या बलिनः सर्वे तत्तेजो बलबृंहिताः | महापशूपहारेण तोषयन्ति महाव्रताः || महाभैरवरूपं यत्स्वच्छंदं कृतवाहनं | दैत्यानां तु वधार्थाय देवानां स्थापनाय च || इंद्रादयो यदा देवा सदादित्यैरुपद्रुताः | विद्राविता यदा दैत्यै तदाहंसंस्तुतः सुरैः || ब्रह्माद्यैर्विविधैस्तोत्रै माया तेषां हितार्थतः | महाभैरवरूपं तु स्वच्छंदं तु कृतं मया || विद्रावणं तु दैत्यानां देवानां स्थापनाय च | तदर्थंनुग्रहा भूता मातरो निर्मिता मया || जित्वातैः शत्रुदर्पं कृतार्थास्ते मदंतिकं | आगताः प्रार्थयन्तिस्म विनाशभयभीरवः || भगवं देवदेवेश अस्माभिस्तोषितो ह्यसि | तुष्टेन देवदेवेन यत्कार्यं तत्प्रसादतः || कुरु देवेति चोक्तं तैस्तदा ते चरिता मया | ६१ब्) अजेया वरदानेन प्रार्थयन्तो महाबलाः | एवं भवन्ति मे सर्वे यथासृष्टा मयापुरा || ततः प्रभृति तैः सर्व जगत्स्थावरजंगमं | आक्रम्यपीडितं सर्वं देवमानुष तिर्यगं || देवानां तु जिघांसन्ति भूताः स्वर्गे महाबलाः | मानुषान्येव वलिनो जिघांसन्ति समन्ततः || तिर्यग्योन्यश्च विविधा जिघांसन्ति तथापरां | असंख्यातास्तु ते प्रोक्ता अप्रमेय वलोत्कटाः || पुनःस्तुतोहं देवैश्च प्रजापति पुरंदरैः | तदाक्षिप्ता मयासर्वे भूताश्च बलवत्तराः || मातरो भीमरूपाश्च भयभीतामदन्तिकं | आज्ञाविधायिनः सर्वे किंकुर्वाणात् समागतान् || तदा क्रुद्धेन देवेशि मंत्रकोट्यो ह्यनेकशः | अवतार्य विनाशार्थं मातॄणां च गृहेषु च || शिवशक्ति प्रभावेन मननत्राणधर्मिणः | ६२अ) मंत्रकाद्या ह्यनन्ताश्च मया सर्वेधिकारिकाः | विद्याबलभयाद्भीता आगतास्ते मदंतिकं || तदा मया ते विक्षिप्ताः स्थलेषु च जलेषु च | दिगंतरेषु शून्येषु ममाज्ञावशवर्तिनः || बलिकामास्तथा चान्ये भोक्तुकामाः परे तथा | रतिकामाहं तु कामा वातजाश्चापि पित्तजा || श्लेष्मजाः सन्निपातान्ये भूता विविधरूपकाः | मयोक्तास्तेपि बलिनो मयादावशवर्तिनः || मदुक्तमंत्रमुद्राभि ध्यानैश्च विविधैर्युतान् | पंचस्रोतो विनिर्भिन्नं शृण्वन्तो हि पदां पृये || तदा सर्वे विद्रवन्ति भयभीतादिशोदश | निधानै बहुभिस्सर्वैजिघांसंति नरं पशुं || दुराचारं दुरात्मानं अशुचिं पुरुषाधमं | मातापित्रो रसं माना तथायनवर्जनात् || अति स्त्री संगशमना निबंधाश्च विशेषतः | अकालमैथुनान्मोहाद् भयात् संभ्रमणं तथा || ६२ब्) संध्याविवर्जिता ये च संध्यामैथुन सेवकाः | भोजना ध्ययने निद्रा संध्यायां योनि सेवकां || अकामिनीः कामयन्ति गुरुदारादि ये पृये | प्रध्वंसयन्ति बलिनो बला चैवाति योषितः || तथान्ये सत्य वक्तारः प्रभुद्रोहकृतो शुभाः | अनुक्तैः पापरचितै ये नरा सम्यमाधवाः || एतैरन्यैर्निदानैश्च गृह्यन्ते मानुषा ग्रहैः | स्त्रीणां चैव तु दौःशील्यादशौचा भक्ष्यभक्षणात् || तथोभयगुरुद्वेषाद्भर्तारव्यभिचारतः | अन्यैरनुक्त दोषैश्च दूषिता मुद्रयंति च || रुंदंतां चैव बालानां रात्रौ जागरणां तथा | रात्रौ संत्रासना चैव दुष्टच्छायासुदूषिता || रजस्वला दूतिकाश्च पापिष्ठा ह्यशुचिस्तदा | उन्मत्ता विद्रुताभीतास्त्रस्तादोषैश्च दूषिताः || रुदंती क्रोशमानाश्च मुक्तकेशास्तदा रुणा | ६३अ) दुष्टपुक्कसचंडाल स्पर्शेनैव तु दूषिताः | शवस्पर्शान्तर्गमना तत्रस्थ स्पर्शनात् तथा || तद्दुष्टसाहचर्याच्च तद्वार्तानुगमं तथा | अशौचादि तथानेकै अस्पर्शैरपि दूषणात् || दुष्टा स्त्री पुरुषो वाथ स्नात्वां च्छायां प्रदापयेत् | बालानां भूपतीनां च तत्पत्नींनां तपस्विनां || च्छायाच्छिद्रेण भूताश्च मातरो बलवत्तरा | दृष्टिपातं प्रकुर्वन्ति लध्वच्छिद्राश्च हिंसकाः || रौद्रां दृष्टिं पातयन्ति बालानां च जिघांसकाः | पापिष्ठाश्च दुराचारा भूतद्यस्ता ज्वरादिकैः || ततोन्मत्ता दुष्टचेता पापाचाराः सुदुःखिताः | बुभुक्षिताअ मत्सराश्च शत्रवो वैरगर्विताः || एताश्चान्याश्च बहवो दृष्टिं संपातभीषणां | पश्यन्ति यदि बालानां पूर्वोक्तानां च सर्वशः || दृष्टिपातं ततो जाये ज्ञात्वा श्रेयसमाचरेत् | तत्क्षणान्न विलंवेत स्वल्पे नैव कृतेन हि || ६३ब्) न बाधयंते दोषानि उषित्वा वाध यन्तिताः | न विलंव्य तदा कालं सव्य एव समाचरेत् || स वौषधैस्सुप्रशस्तैर्बहुभिर्मंगलान्वितैः | पंचगव्येन वा तत्र मंत्रयुक्तेन कारयेत् || स्नानं सौभाग्य जननं सर्वदोष भयापहं | आचार्यो मंत्रकलशै पूर्ववद्विचोदितै || सदाति सद्यो बालानां पूर्वोक्तानां च सर्वशः | सद्यः श्रेयस्करं पुण्यं पुष्टिदं कांतिदं शुभं || यदा ह्यनन्तास्तत्रस्था मातरः संनिधाः पृये | जिघांसन्ति तदा सद्यो महामात्रीषु पूजयेत् || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेंद्राणी चामुंडा सप्तमातरः || एतास्तु मातराः सप्त पूजयित्वा शिवं भवेत् | समस्तमातृचक्रस्य योनयस्ताः प्रकीर्तिताः || ताभिः पूजितमात्राभिरुपहारैः पृथग्विधैः | कृत्स्नं मातृ समुहं तु तुष्टो भवति तत्क्षणात् || ६४अ) प्रधानाः सर्वमातॄणां एताः सप्त प्रकीर्तिताः | सितपीतरक्तकृष्णैः पुष्पैर्नानाविधैस्तथा || पायसैः कृसरैर्मात्स्यर्लेह्यैः रेपैरशेषतः | चतुर्विधेन मांसेन घस्मरैर्बलिभिस्तथा || पूजयित्वा तु मालानां सद्यः श्रेयो भविष्यति | तस्मात् प्रदानयागेन गुणभूतास्तु देवताः || त्रिप्ता भवन्ति सर्वत्र सर्वश्रेयो ह्यवाप्नुयात् | त्रिंशत्कोटिसहस्राणि स्वांगुष्ठा निर्मिता मया || विनायकानां घोराणांमग्निज्वलित चेतसां | यदितैर्विघ्नितः कश्चिदभिभूतो भवे नरः || तत्राधिदैवतं पूज्यं विघ्नेशं तु विनायकं | अन्य तंत्रोपचारेण ध्यानयोगेन पूजयेत् || हेमं रत्नानि धारूनि बीजान्येव प्रदापयेत् | स्वेन स्वेनैव रूपेण सर्वं सर्वेषु दापयेत् || विघ्नैः प्रमुच्यते साध्यं तत्क्षणान्नात्रसंशयः | ६४ब्) यदि भूतैर्गहैर्घोरैर्मुद्रितां बलिनैर्नरं | तदा भूतेश्वरं योज्यं पूर्वोक्तेन विधानतः || राक्षसैः विविधैर्यत्र प्राणिनो वाधिता ध्रुवं | इष्ट्वा रक्षोधिपस्तत्र सर्वश्रेयमवाप्नुयात् || यदा यक्षैरसंख्यातैरति भूतं क्वचिन्नरं | तदा वै श्रवणं शीघ्रं यष्ट्वा मोक्षमवाप्नुयात् || अष्टयोन्यस्तथा दिव्यौ विरुद्धा यदि कुत्रचित् | तदा तु भैरवं यागं कुर्याच्छ्रेयमवाप्नुयात् || अन्तर्बलिस्तु सर्वेषां दातव्यो भूरि घस्मरं | तदा बाह्यबलिं क्षेत्रे दातव्यः श्रेयमिच्छताः || आरण्यको बलिश्चान्यं महिशाद्यैस्तथाजिनैः | विविधैश्च बलिं कुर्यात् सर्वेषां तु प्रदापयेत् || नदीतटे श्मशाने वा अटव्यां मातृमंडले | प्रातर्मध्याह्नकाले च सायं चैवार्द्ध रात्रतः || बलिस्तेषु प्रदातव्यास्तेन तृप्ता भवन्ति ते | उदकं ह्यन्नमिश्रं तु भूरितेषां प्रदापयेत् || येन तृप्तास्तु ते सर्वे सर्वश्रेय फलप्रदाः | ६५अ) भवन्त्य वितथं भद्रे मातृवत् पालयन्ति ते | स्मृतिर्मेधा जयं वृद्धि वपुरायुर्यशः सुखं || नष्टं बलं तु सर्वेषां ददत्येन बलि स्मृतः | एवं मृत्युजिता सर्वं कर्तव्यं सर्वसिद्धिदं || स्कंदग्रहागृहीतानां बालानां पीडितात्मनां | रति ग्रहैस्तथा नार्योरभिभूता भवेत् क्वचित् || कार्तिकेयं ततो यष्ट्वा पूर्वोक्त विधिना ध्रुवं | क्षिप्रं ता च प्रमुच्यन्ति स्कंदाद्या ये शिशु ग्रहाः || यस्मिन् कुलेयं दशे तु मुद्रितं कीलितं क्वचित् | तत्कुले नैव यष्टेत सर्वदोषैर्विमुच्यते || तदर्द्धं तु मया सर्वं रहस्य प्रकटीकृतं | अस्मिन्तंत्रे तु सर्वेषां अमृतेश विधानतः || सर्वतं म्लषु सामान्यं मृत्युजित् प्रकटीकृतं | सर्वेषां हृदयं गुप्तमप्रकाश्यं महाद्भुतं || न केन चिदहं पृष्टो नाख्यातं कस्य चिन्मया | रहस्यं संप्रदायं च सर्वश्रेयः सुखावहं || साधकस्य प्रयत्ना ये भक्त्या ह्याराधयन्ति च | ६५ब्) सर्वदुःखैर्विमुक्तास्ते सत्यं मेनानृतं वचः | अनेनैवात्मनः कार्यं सर्वदुःखनिवर्हणं || भक्तानां स्वसुतानां च स्वदाराणां तु कारयेत् | स्वशिष्याणां तु भक्तानां नान्यथा तु प्रयोजयेत् || सर्वाश्रमं गुरुत्वाच्च भूपतीनां च सर्वदा | तत्सूतानां च पत्नीनां कर्तव्यं तु हितार्थिना || नित्ये नैमित्तिके काम्ये शांत्यर्थे कारयेत् सदा | मुखे प्रक्षालिते नित्यं तिलकं श्वेत चंदनं || सप्ताभिमंत्रितं कार्यं दोषनिवृत्तयेत् तदा | स्नानकाले तथा कार्यं तिलकं श्वेतभस्मना || स्मालभन पुष्पं वा तांबूलं वाभिमंत्रितं | दीयते यस्य तस्येह न हिंसंतीह हिंसकाः || भोजनं चाभिमंत्रैव मंत्रेणानेन मंत्रवित् | उभयोश्चंद्रयोर्मध्ये भुंजानो मृतमश्नुते || सर्वव्याधिविनिर्मुक्तस्तिष्ठते नृपतिः क्षितौ | अथ क्रीडनकालेषु गजाश्च महिषेषु च || अस्त्र क्रीडासु सर्वासु रक्षार्थं कलशं यजेत् | ६६अ) क्रीडार्थं विजयार्थं तु रक्षार्थं हिंसकादिषु | यस्माद्दुष्टाश्च वहवो जिघांसन्ति नृपेषु च || तस्माद्रक्षा प्रयोक्तव्या सर्वश्रेयस्करी शुभा | ततः सुप्तस्य नृपतेर्निद्रा कलशमर्चयेत् || रौप्यमौषधि संयुक्तं चंदनागुरुचर्चितं | क्षीरश्चोदक पूर्णं वा यजेत् मृत्युजितं जपेत् || सर्वश्वेतोपचारेण पुष्पधूपार्घपायसैः | ग्रंथे स्थितां महानिद्रां जगत्संमोहकारकी || सुखार्थं नृपते रात्रौ जीर्णार्थं भोजनादिके | आरब्धा देवदेवेन आज्ञादन्तेति भावयेत् || ततो रात्रि समग्रा तु तिष्ठते निद्रया सह | यक्ष रक्षः पिशाचाद्या दुस्वप्ने मातरासु च || भयैः संत्रासदुःखैश्च मुक्तस्तिष्ठेद्यथा सुखं | लोकपालेषु चास्त्रेषु रक्षार्थं नृपतेष्वपि || पूजनं चार्घ पुष्पाद्यैः कलशे पूजिते सति | यस्यैवं सततं कुर्याज्ज्ञानवां दैशिकोत्तमः || ६६ब्) पूर्वोक्तं सर्वमाप्नोति इत्याह भगवां शिवः | निमित्तेषु च सर्वेषु अमृतेशं यजेत् सदा || कामरूपी यजेद् यस्मात् सर्वकामानवाप्नुयात् | प्रजानां रक्षणार्थाय शालीनां सस्यसंपदे || सुतपत्नीषु रक्षार्थं आत्मनो राष्ट्रवृद्धये | इंद्ररूपी यजेत् तस्माद् बिजयार्थं नृपेषु च || गोभूब्राह्मणरक्षार्थमात्मनः स्वजनेषु च | महानवम्यां पूज्येत भूरि यागेन वेश्मनि || पूर्वोक्त श्रेयमाप्नोति आयुरारोग्यसंपदः | अस्त्रयागं प्रयत्नेन कर्तव्यं सिद्धिहेतुतः || अस्त्रसिद्धिमवाप्नोति प्रयुक्ता फलमश्नुते | यदा मृत्युवशा प्रातःकालेन कलितं नृपं || अरिष्टचिह्नितादान देशं वा तत्सुतादयः | ब्राह्मणादिषु सर्वेषु पौरजानपदेषु च || शालिचूर्णादि शस्येषु फलमूलोदकेन च | दुर्भिक्षव्याधिकाद्येषु उत्पातैश्चाप्यनुत्तमैः || ६७अ) तदा नैराजनं कार्यं राज्ञां राष्ट्रस्य वृद्धये | पूर्ववद्यजनं कृत्वा कलशेनाभिषिंचयेत् || निःशंकं निर्जने रात्रौ शुभमेतत् तु दैशिकः | जय पुण्याह शब्देन वेदमंगलस्वस्तिकैः || अभिषिंचत राजान सिद्धार्थान् होमयेद् बहून् | नैराजनविधानेन नामांकं जुहुयात् पृये || वह्नौ संक्रुद्धमनसो अजंश्च प्रोक्षयेद्बहून् | तृप्त्यर्थं भूतसंघस्य मंत्रीरक्षार्थमुद्यतः || शाकुनोंत्पाशगत्या वा विज्ञाय शकुनं हितं | यजेंद्र शिववारुण्यां निर्यातं सर्वसिद्धिदं || अथ पूर्वोक्तेन विधिना गृहयागं तु कारयेत् | यावत् सप्ताह्निकं देवि भूरिहोमेन सिद्धिदं || तस्याचला महालक्ष्मीराज्यं वा यदभीप्सितं | भौमांतरिक्षसिद्धीनि प्राप्नुया नृपतिः सुखी || तदा नैराजनं ख्यातं सर्वश्रेयस्करं परं | पूर्वोक्तं न पश्यते दोषं देविनास्त्यत्रसंशयः || गोषु मध्ये यजेद् यस्मा सदावर्द्धति गोकुलं | ६७ब्) सिंदूरं गौरिकं वापि अभिमंत्रेत मंत्रवित् | योक्तव्यं गोषुरक्षार्थं शृंगोर्ध्वे सर्वदोषजित् || अश्वानां रक्षणार्थाय पूर्वोक्तविधिना यजेत् | अभिमंत्रेत कलशं शिरस्तेषां प्रदापयेत् || सिद्धार्थकां जपित्वा तु कंठे कार्यं तु मुर्द्धनि | सर्वदोषविनिर्मुक्तां गजांश्चैव तु रक्षयेत् || अजेषु पशवो ह्येवं रक्षासर्वत्र कारयेत् | सर्वप्राणिषु रक्षार्थं योक्तव्यं नृपतेः सदा || महाशान्तिर्भवेत् तेषां दुर्भिक्षं नश्यते सदा | महाभयेषु सर्वेषु उल्काभूकंप पातने || अति दृष्टिरनावृष्टिः सूचितेषु भयेषु च | अकालोत्पन्न पुष्पादीं दैवै नष्टैश्च खंडितैः || ज्वरलूतादि दोषैश्च अपमृत्युभिरेव च | दुःखैर्नानाविधैश्चैव आघ्रातं मंडलं यदि || कर्मदोषाश्च यत्किंचि ग्रहदोषाश्च दारुणाः | ६८अ) तिरोभावं तु चोत्पन्नं मंत्रच्छिद्रं तथागतं | वटादि विशनाशेन कीटादि स्फोटकादयः || वातपित्तविकारेषु श्लेष्मदोषेषु सर्वतः | अर्षाश्च चक्षुरोषाश्च शरवैसर्पकादयः || वातजा पित्तजा दोषा धातुदोषास्तथैव च | व्याध्यंतराश्च ये चान्ये क्षतजातः सहस्रशः || अभ्यंतरस्थो व्याध्यश्च शोकाद्याश्चिन्तनाशकाः | अभिशप्ताश्च ये केचिद्ब्राह्मणाद्येषु सर्वसु || तदानुपूर्ववद्यागं कर्तव्यं शान्ति हेतुतः | प्रत्यहं हवनं कार्यं राज्ञोराष्ट्रविवृद्धये || सुखेन भुंजते राज्यं नात्रकार्याविचारणा | सकृत् पूजितमात्रेण नश्यन्ते विघ्नकारिणः || नष्टादशदिशो यान्ति सिंहस्यैव यथामृगाः | सतताभ्यासयोगेन दारिद्र्यं नश्यते कुलान् || यस्मिन् राष्ट्रे च देशे च वसते मंत्रवित् सदा | ईतयो व्याधयस्तत्र खार्खोदास्तस्करा ग्रहाः || शाकिन्यो विविधा यक्षाः पिशाचाराक्षसास्तथा | ६८ब्) बालग्रहाश्च विस्फोटा व्यंतरा ह्यंतराश्च ये | सर्पा विशान्ये दोशश्च दुर्भिक्षं रिपु पीडिनं || सर्वेन प्रभवंत्यत्र मंत्रविद्यत्र संस्थितः | स पूज्यः सर्वजंतूनां भूपतीनां च सर्वदा || दानपूजादि सम्मानैरसमैः पूज्यते यदि | तेन पूजितमात्रेण सर्वे मंत्रास्तु पूजिताः || भवन्ति सुखदास्तत्र तन्मुखस्थाः प्रपूजिताः | सर्वत्रा च्छेदकर्तार ग्रहाहिंसन्ति साधकं || तस्मात् ग्रहाणां दातव्यं सर्वदेवोदकोदनं | यष्ट्वा भूतानि तृप्यन्ते तृप्ता न भवन्ति ते || तदा रक्षा प्रकर्तव्या दैशिकेन महात्मना || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाते राजरक्षाधिकारो नाम विंशतिमः पटलः || श्रीदेव्युवाच || रक्षा तु कथिता देव प्राणिनामनुकम्पया | कीदृशी प्रोच्यते सा तु कस्य वा कृयते कथं || व्यापकः पुरुषः प्रोक्तो ह्यमूर्तः सर्वदेहिनां | ६९अ) देही बाह्यान्तरस्थोसौ निर्गुणो ह्यशरीर कृत् | कथं तु कृयते तस्य रक्षा कस्मा च रक्षते || शरीरं सकलं वाथ रक्षितव्यं कथं च तन् | पृथिव्यादि महाभूतैः निर्मितं चोदितं किल || अन्य तृतीयो वा रक्षः कस्य दैवं कथं विभो | कस्माच्च रक्षणियोसौ केन वा वद शूलधृत् || एतत् सर्वमशेषेण का रक्षा भगवन्वद | भगवानुवाच || शृणु देवि परं गुह्यं न पृष्टोहं सुरासुरैः | गरुडाद्यैस्तथा शिष्यै बहुभिर्मुनिभिर्न च || तदद्यन्ते प्रवक्ष्यामि शृणुष्वायत लोचने | व्यापकः पुरुषः सूक्ष्मो निर्गुणो निष्कृयो बलः || किं त्वाणवस्तथा कर्मो मायायस्त्रिविधो मलः | तत्संबंधात् समलिनो ह्यस्वतंत्रो ह्यशक्तिमान् || अशुद्धः प्रोच्यते तस्मात् मलत्रय विरोधतः | निर्मलो वा कथं प्रोक्तो भोगेषु सविरुध्यते || ६९ब्) शुद्धो भोगी न सिद्ध्येत विकल्पो भोग उच्यते | विकल्पः स तु संसारः पशोः संसरणं सदा || संसार्यस्य तु वद्धस्य निर्मलत्वं युज्यते | आणवं यन्मलं सूक्ष्मं कार्यतो ह्युपलभ्यते || अभिलाषं तु तत्कार्यं भोगादीनां प्रवर्तकं | कर्मयत्करणं कार्यं देशकालशरीरतः || क *? दि यत्पृथिव्यान्तं माया कार्या विदुर्बुधाः | एवं मलत्रयोपेतं संसारी संसरंत्यणु || कोशकारकृमिर्यद्वदात्मानं वेष्टये दृढं | उद्वेष्टनेन शक्तस्सो(?) ताथात्मा पाशपंजरे || यावन्न चेश्वरो देवो ह्यनुगृह्याति शक्तिमान् | तावत् मलावगूहेन गुंठितस्तिष्ठते पशुः || यदि चेन्नेश्वरः कश्चित् स्वतंत्रमखिलं जगत् | नियमः कारणानां तु न भवेदसमंजसं || बलीबंदं यदा कश्चित् बंधनं पाशवं धनः | तृणौः संयोजितैर्भोगैर्ह्यस्वतंत्रस्तथा पशुः || ७०अ) ह्यस्य पाशहस्तस्य ग्राहकः कश्चिदुन्नतः | समर्थो दृश्यते यद्वत्तद्वदीशोप्यनुग्रही || सर्वेषां च सकृच्छक्ता स्वशक्त्याबृंहितः शिवः | अवियुक्ता *? सा तस्य निजारश्मी रवेरिव || दाहप्रकाशिका वह्ने ऊष्मा नैव वियुज्यते | तद्वदीशस्य सा शक्तिरवियुक्ता शिवात्मिका || जगतः कारणं देवि सा चैका बहुधा स्थिता | इच्छाज्ञानकृयारूपा कृत्य भेदेन वर्तते || अघोरा सा तदिच्छास्याद् व्यापिका सा मुदायिनी | घोराज्ञान स्वरूपा तु सा परिग्रह वर्तिनी || घोराघोररता चान्या क्षोभिकाया कृयात्मिका | सा रक्षा सर्वभूतानां सर्वरक्षासुरक्षिणी || सा च दीक्षा समुद्दिष्टा दान * पणलक्षणा | अनेनैव प्रकारेण सर्वदोषनिवर्हणी || व्यापकस्य सतो पुंसः सा रक्षा न विधीयते | पुनरन्यं प्रवक्ष्यामि रक्षासर्वसुरक्षिणी || ७०ब्) *? लत्रयविरोधेन नानाकर्मफलोदया | शब्दादीनां तु विषये इंदृयाणां प्रवर्तते || हृत्पुंडरीक मध्यस्थं धर्माधर्मप्रवर्तकं | रागद्वेषभिभूतं च तृधान्तः करणावृतं || कार्यकारणसंबंधं करणैर्भूतंरंप्रतैः | निबद्धं चिन्मले नैव शतशोतसहस्रशः || कार्यकार्यान्त * *? तै धर्माधर्मविचिन्तितैः | तिजव्र?लुप्त चैतन्यं जीव इत्यभिधीयते || तस्य रक्ता समुद्दिष्टा मंत्रैर्विविधविस्तरैः | धारणामंत्रतंत्रैश्च शिवेन परमात्मना || जीवरक्षा तु सा प्रोक्ता क्रियाशक्तिर्महेश्वर | अन्या तृतीया रक्षा तु शरीरस्य तु रक्षणी || महाभयेभ्यः सर्वेभ्यो भूतयक्षग्रहादिकैः | डाव्यो डामरिकाभिश्च भगिन्यो * मारस्तथा || शाकिन्यो योगिनीभिश्च मुखमंडकादिभिः | नानाविधैरशेषैश्च हिंस *? कृयते ध्रुवं || ७१अ) यद्भयं तस्य शमनं सा रक्षा शक्तिरुच्यते | भूतजं मलिनं देहं अध्रुवं च अशाश्वतं || वातपित्तैस्तथा श्लेष्मैः सन्निपातादि * *? रैः | अनेकशतसंख्यातैर्दोषैर्दुष्टांशरीरकं || तस्य हिंसन्ति वहवो हिंसका दुष्टबुद्धयः | वातपित्तरुजाभूताश्लेष्मजास्सन्निपातिकं || भोक्तुकामावलिकामारतिकामास्तथा परे | हंतु कामाश्च वहा वा हिंसकाः सर्वजंतुषु || वात स्थानं समाशृत्य वातजाः प्र *? वन्ति हि | क्षोभयन्ति स्वकं स्थानं पित्तजाः पित्तिकन्ततः || श्लेष्मजाश्च स्वकं भावं स्थानं सान्निपातजाः | क्षोभयंति विनाशार्थं देहरक्षा त *? तः || मंत्रौषधि क्रियायोगे रक्षा वै शिवचोदिता | कर्तव्या शिवदा नित्या सा शिवाशिवहारिणी || बलिकामानुबलिभिर्घस्मरैस्त *? येत् पृये | ७१ब्) भोक्तुकामांजिघांसन्ति नश्यन्ते मंत्रयोगतः | रतिकामा अनेकैश्च मंत्रैस्तंत्रैस्तथौषधैः || प्रोक्तोप्यनुग्रहस्तेन मंत्रे *? मंत्रयोगिना | हंतु कामास्तु ये प्रोक्ता दुराधर्षा महाबलां || तथापि पारमेशेन मंत्रतेजो बलेन च | शिवशक्त्या प्रभावेन नश्यन्ते *? त्रसंशयः || एवं सेक्षेपतः प्रोक्तो इदं भूतविनिर्णयं | प्राणिनां तु हितार्थाय विष्टरोत्यत्रदर्शितः || एवं हि क्रियते रक्षा सुज्ञात *? कृता भवेत् | अन्यथा स्वात्मघाताय वर्ततेप्यनुयोगिनः || रक्षा बहुप्रकाराश्च कर्तव्याम्नाय दर्शनात् | आधाररक्षा प्रथ *? जीवरक्षा द्वितीयका || तृतीयागर्भरक्षा तु सूतिकाले चतुर्थिका | पंचमी भूतिका रक्षास्नात्वा षष्ठी तु कारयेत् || बालानां सप्तमी प्रोक्ता पुरुषा?णां तथाष्टमी | ७२अ) भेदं तासां प्रवक्ष्यामि यथाधाराधिकारयेत् | मातापित्रोंपरारक्षा कार्या तत्व विचिन्तकैः || दोषां कृत्वा सुपुरुषे संभवन्त्यस्य हिंस(?)काः | हिंसन्ति रक्षणी योसौ संभवार्थं प्रयत्नतः || यदा स्त्री मुद्रिता भूतैःस्तदा गर्भो न गृह्यते | एषा तु प्रथमा रक्षा आधाराख्या प्रकीर्तिता || * *? रक्तमयः कायः सर्वेषां प्राणिनां यतः | तदा तु रक्षितौ द्वौ तु कर्तव्यो मंत्रवादिभिः || रतिकामग्रहाये च कामाचारा ह्यनेकशः | पिबन्ते रेत? *? क्तं च नक्तं संभवते कथं || तस्मात् तु कारणाद्रेतो रक्षितौ संभवो भवेत् | संभूतं गर्भकं नेत्रं संरक्ष्यं गर्भपातनं || प्रसूति काले नारीणां रक्षाग *? विशारदैः | कार्यारक्षा प्रयत्नेन न च हिंसन्ति हिंसकाः || यावन्न सूतिका शुद्धा तद्गृहस्थं तु बालकं | सूतिका ग्रहदोषाद्या बाधन्ते रक्षया * *? || ७२ब्) तस्मात् सुरक्षितौ कार्यौ ह्यस्त्राद्यैस्तु विचक्षणः | सूतिकां स्नानकाले तु बालं वायच तत्स्थितं || हिंसन्ति बलिनो भूता तस्मात् स्नानं तु कार *? | स्नात्वा तदुत्तरं कालं बालरक्षासमात्रिका || धात्री तु कारणं तस्य क्षीरस्पर्शादि पोषणैः | तस्माच्चैरक्षितव्यादौ धात्री बालस्तोर्ध्वतः || सर्वका *? चरक्ष्य मंत्रौषधि प्रयोगतः | धारणाध्यानमुद्राभिमंत्रैर्धूपैरतत्रितः || तिलाज्यादि कृतैर्होमैः कलशैर्विविधैः शुभैः | शिरसि ह्यभि * *? त रक्षणीयं तु सर्वदा || बालप्रबुद्धसुप्तौ तु रुदमानं प्रहासितं | भुंजानं शयनस्थं तु तिष्ठन्तं क्रीडनं तथा || प्रभाते चार्द्धरात्रे च मध्याह्ने सा * *? चरे | संध्याकालेषु सर्वेषु रक्षये तन्तु बालकं || देवासुराणां भूतानां मात्रीणां भगिनीषु च | इष्टग्रहपिशाचानां संध्याकाले तु संगमं || ७३अ) संध्यासु सर्वासु रक्षितव्यं तु बालकं | गच्छंस्तिष्ठत्स्वपं जाग्रत् सर्वकालं तु रक्षयेत् || गच्छन्तं दर्शनाद् देवि जिघांसन्ति जिघांसकाः | रक्षाहीनं तु तिष्ठन् * *? यत्ते सुभीषणाः || स्वस्थं कलेन सुप्तं तु त्रासयन्ति समन्ततः | जाग्रतः केवलं रात्रौ त्रासयन्ति ग्रहाधमाः || तस्मात् सर्वप्रयत्नेन रक्षयेत् सर्वदा शिशुं | * *? नान्यैरुपायैश्च मंत्रवादैर्विना पृये || विशेषाद्राजतनयं रक्षितव्यं हि दैशिकैः | भाग्य सुक् स्रु प्रशस्तं च सर्वलक्षणरक्षितं || दृष्ट्वा यत्नेन दु * *? जिघांसन्ति शिशुं शुभं | तस्मात् सर्वप्रकारेण धारणाभिरनंतरं || प्राकारास्त्रेन वा देवि मंत्रैर्वा विविधैः शुभैः | लिखितैर्यंत्र योगैर्वा पू * *?ः सुप्रयत्नतः || वेष्टितैः कंठलग्नैर्वा सूत्रकैश्च सितादिकैः | धूपैर्विविधरूपैश्च धारिभिर्मणिभिस्तथा || रक्षोघ्नैस्तिलकैर्वापि नीरांज * *? रः सरैः | ७३ब्) रक्षणीया सदा बाला राजपुत्राविशेषतः | राजानो राजमात् पंच सजपन्त्यस्तथा पृये || अनेनैव विधानेन रक्षितव्यां सुनिश्चितैः | यस्म क्षुद्रा महाभूता मातरो दुष्ट चिन्तकाः || जिघांसन्ति प्रयत्नेन नित्यकालमतंद्रिताः | तेषां प्रशमनार्थाय प्राणिनामनुकंपया || मंत्रास्तौषधं यत्रा * *? हाबलपराक्रमाः | अनुग्रहार्थं मर्त्यानां मयासर्वेवतारिताः || तेषामेव हि सर्वेषां मंत्राणां भूरितेजसा | बलमोजस्तथा ज्ञानं स्मृतिर्मेधा व * *? यः || जीवनं प्रभु सर्वेषां मृत्युजित् कथितं मया | भूरिर्यागैर्जपैर्होमै तपसा संयमेव च || मंत्राश्चास्त्राणि सिद्ध्यन्ति युगधर्मानुरूपतः | तथा *? लि युगे दुष्टे पापिष्ठा येन राधमाः || तेषां ते सिद्धिदा मंत्रा भवन्ति न भवन्ति वा | अस्य देवाति देवस्य कृतादि युगसंस्थिति || भावानुरूप नि * नां तपो न व्रत सेवनात् | ७४अ) सर्वभावप्रसन्नानां द्वैताद्वैतजिगीषना | दौर्भाग्यालस्य युक्तानां पापोपहत चेतसां || भक्तिमात्राबलं बन्धा * *? ते नात्रसंशय | चिन्तारत्नं यथासर्वं चिन्तितार्थं प्रयच्छति || तथा सर्वं तु नेत्रं वै भावितस्य करोति हि | सूर्यचंद्रौ यथालोके सामान्येनाव * *? कौ || पृथिव्यापस्तथा तेजो वायुराकाशमेव च | सामान्यं वर्तयंत्येते ह्यन्नंत्कृद्दोष(?) हृद्यया || तथा सर्वेषु भूतेषु व्यापकः परमेश्वरः | * * *? प्रपंचरहितः सर्वेषां सर्वदः प्रभुः || मृत्युजित्परमो देव सर्वेषां सर्वसिद्धिदः | भक्तिमात्रावलंविन्धा?द्ध्यानधारण तत्परः || योस्यवेत्ताप्रपन्नश्च * *? निष्कंप चेतसः | ससर्वं फलमाप्नोति सर्वसिद्ध्यारुहो भवेत् || इति सर्वस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने इष्टपाताद्यधिकार * *? विंशतिमः पटलः || श्रीदेव्युवाच || उक्तं देवेन मे सर्वं यन्मयापरिपृच्छितं | अधुना श्रोतुमिच्छामि संशयं मे हृदिस्थितं || योगिन्ये * *? राश्चैव शाकिन्यो बलगर्विताः | कथं परपुरे प्राणाः क्षणादाकर्षयन्ति ताः || कस्माच्च निर्घृणा रौद्रा तासां वा किं प्रयोजनं | एतत् सर्व * *? षेण भगवन्वक्तु मर्हसि || भगवानुवाच || शृणु देवि प्रवक्ष्यामि रहस्यं परमाद्भुतं | यथा प्राणांजिघांसन्ति पशूनां पतिशासनात् || रागद्वेष * *? र्मुक्तालोभमोहविवर्जिताः | यागार्थं देवदेवस्य पशवः प्रोक्षयन्ति ताः || न लोभेन च हिंसंति न चैव हि जिघांसया | महाभैरव देवस्य शास * *? लयन्तिताः || यदर्थ पशवस्पृष्ट्वा स्वयमेव स्वयंभुना | पशवः पतियागार्थमुपयुजन्ति नान्यथा || तेषामनुग्रहार्थाय पशूनां च वरानने | मोच * *? हि पापेभ्यः पाशौघां छेदयंति ताः || ७५अ) पशूनामुपयुक्तानां नित्यमूर्द्धमतिर्भवेत् | त्रिविधेन तु योगेन योजयन्ति शिवाज्ञया || परे नैव हि सूक्ष्मेण स्व * *? त्रितयेन तु | योजयंति न चैवात्र घातयन्ति बलेन ताः || परः सर्वात्मके तत्वे निष्कृयो निर्मलस्तु यः | व्यापकः परमेशस्य सर्वं कारणकारणं || * *? तान्तरालस्थं सर्वानुग्रहकारकं | तस्मिन्नेव नियुक्तास्ता निर्मला विगतक्लमाः || एकीभावमनुप्राप्ता न वियुक्ताः कथंचन | तच्छक्तौ तु विलीना * *? च्छा रूपेणसंस्थिताः || ज्ञातोत्कर्षाः क्रियावस्था यागयोग्यावधूतिकाः | तद्भावं तु समास्थाय तद्रूपा योजयन्ति यत् || ते मुक्ताः शिवभूतास्तु * *? क्त्या शिवे रताः | निर्मला शिवभूतास्तु तत्प्रभावा भवन्ति ते || यथा योगेन दीक्षायां शिवत्वमुपलभ्यते | तथा वै योगयोगेन शिवत्वमुपया * *? || ७५ब्) अत्यन्तमलिनस्यास्य प्रागुक्तस्याधिकारिणः | मलप्रध्वस्तरूपस्य निर्मलत्व भजंतिताः || मूलच्छेदेन हि पशोजिघांसति मलत्रयं | मलय * * * *? स्य शरीरं न प्ररोहति || दीक्षैव योजने तस्य पशोर्नैव हि घातनं | व्यापकेन स्वरूपेण स्वशक्ति विभवेन च || त्रोटयन्ति पाशोः पाशां शरी * * *? नष्ट्यति | शरीरेण प्रनष्टेन मोक्षणं न जिघांसनं || दृढपाशप्ररूढस्य बद्धस्य पुरुषस्य वा | वियोगस्तु शरीरेण मारणन्तं बिदुर्बुधा || * *? परप्रकारस्तु सूक्ष्मं चैवाधुनोच्यते | सूक्ष्मशक्तिमयं ज्ञानं ज्ञानशक्त्या तु शस्यते || अरावारावराविष्ट्याध्वनिभासावसानगं | सिद्धा * *? द्धिदं ज्ञानं खेचर्योपासयन्ति ताः || अज्ञानेनावृतं ज्ञानं पशूनां समलस्थितं | निर्मलेन तु ता देव्यो ज्ञानेनाभि भवन्ति हि || यथाप्रसुप्तं बुद्ध * *? डते तु यतस्ततः | ७६अ) मदिरासेवमानेन यथैवोन्मादितः क्वचित् | क्रीडते ह्यस्वतंत्रत्वाद्वालो वा भ्राम्यते क्वचित् || उन्मत्तो वा प्रमत्तेन प्रेर्यते प * * *? था | मातृभिर्गुह्यकैः शक्त्या स्वेन योगबलेन तु || जीवमाकृश्यते क्षिप्रं पशूनां योगवीर्यतः | यत्तत्परममव्यक्तं शाश्वतं ह्यचलं ध्रुवं || तं * * * *? योगमार्गेण प्रविश्य परदेहतः | परोभूत्वा स्वशक्त्या तु जीवं जीवेन वेष्टयेत् || आक्रम्य तं हृदिस्थानोदध्वोर्द्धेन प्रवेशतः | एक * * *? त्वमापाद्य समत्वं तत्र चाभ्यसेत् || परं कारणमाशृत्य स्वतंत्रत्वं समभ्यसेत् | व्यापकेन स्वरूपेण शक्त्याशक्तिं तु आनयेत् || तदा तत्संपुट * * *? शान्तिच्छेदं तु कारयेत् | शक्तिरूपं ततो देवि तत्वमास्थापयोगवित् || स्वतत्वसत्तारूपेण चित्सूर्यत्वेन तापयेत् | द्रावयेत् तत्परस्थो * * *? रश्मिषु चार्कवत् || ७६ब्) योजयेद्धृदये सर्वान् शब्दादीनांद्रियाणि च | भूतानि रसभूतानि गुणान्येव हि सर्वशः || अतः करणसंघातं गृहीत्वा * *? चेतसा | प्रविशेत्त तदा योगी पुरमाक्रम्यसर्वशः || द्रुतं गृहीत्वा तत्सर्वं क्षिप्रमात्मस्थमानयेत् | तत्क्षणादानये जीवं मुद्रामंत्रप्रयो * *? || अनेन विधिना सूक्ष्मं योगं योगी समभ्यसेत् | तत्सर्वं प्राप्नुयात् क्षिप्रं सूक्ष्मं योगेन योगवित् || सूक्ष्मयोगः समाख्यातः स्थूलश्चै * *? च्यते | पिंडस्थन्प्रयोगेन पिंडमाकर्षये ध्रुवं || मंत्रमुद्राविधानेन विधिनापाशमेव च | ध्यानयोगबलेनैव च्छुम्मकाद्यंगलक्षणै? || * *? यंतितसंदेहः पशूनां पाशवं पुरं | त्रिविधेन तु योगेन योगिनो बलगर्विताः || जिघासंति यदा देवि तदाश्रेयः समाचरेत् | मृत्यु * * *? मं देवमनृतं सर्वतोमुखं || ७७अ) परेणैव स्वरूपेण व्यापकत्वेन मंत्रवित् | ज्ञात्वा तत्परमं योगं मंत्री व्याप्यपशोः पुरं || इच्छाशक्त्यात्वधिष्ठा(?) * * * *? जीवितं शुभं | संरक्षोद्योगविन्मंत्री क्रमं ज्ञात्वा तु योगिनां || पूर्वोक्तानां च सर्वेषां हिंसकानां यशस्विनि | सूक्ष्मं स्वशक्तिमार्गेण चक्र? * *? म योगतः || पूर्वोक्तं ग्रंथिभेदेन सूक्ष्मध्यानेन मंत्रवित् | मोचयेत् सर्वदोषेभ्यो नान्यथा तु कदाचन || ज्ञानयज्ञबलोपेतो मंत्रतंत्रविश * *? | मृत्युजित् सिद्धमंत्रश्च तपस्वी संयतेंद्रियः || ध्यानमंत्रादि युक्तश्च सत्वस्था ज्ञानवान्बली | संतुष्टः परमो योगी अष्टमूर्तिविधौरतः || रागद्वे * *? निर्मुक्तो लोभमोहविवर्जितः | निर्भयश्चैव निःशंको ह्यनुग्रहपरायणः || पूर्वोक्तै दारुणैर्दोषै मोचकः सभव्त् प्रिये | अन्यथा व * * *(?) स्तु सत्तवेदात्मनाशकः || ७७ब्) स्वकुलभ्रंशको दुष्टो नरके पच्यते ध्रुवं | भूताश्च विविधाकामा तरोदुष्ट हिंसकाः || योगिन्यो गुह्यका यक्षाः पिशाचा दुरित क्र *? | * *? लिकामाभोक्तुमाहं तुं कामास्तथा परे || रति कामाश्च साध्याश्च स्कंदाद्या ब्रह्मराक्षसा | असंख्यातास्तु ये केचि रौरान तेषां सह कुत्रचित् || विरो * * * *? कर्तव्यो आत्मज्ञैः स्वार्थ पंडितैः | धनार्थिभिवालुध्वै?श्च न कुर्याचि यशोर्थिभिः || स्वकुद्रं चंद्रनादीनां कारुण्या चैव कारयेत् | नृपाणां तत्सुतानां * * * *? नां च सर्वथा || यस्मिं देशेथराष्ट्रे वा निवसे योगमंत्रवित् | तत्र राजा प्रभुर्देव सा देवाश्रमेणां गुरुः || सर्वेषां माश्रमाणा च राजासंपद्यते गुरु(?) | *? कृते वर्तमानस्य सहते तास्तु मातरः || पूर्वोक्ता दारुणा घोरा प्रशमं यान्ति सर्वथा | तेषां वल्युपहारेण भूरियागेन ते नृपा || संतोषयन्ति(?) * *? द्वैत स्यात् सर्वं क्षमन्तिते | ७८अ) मंत्रवादं हि सर्वत्र न कार्यं शिवचिन्तकैः || नानाविधैरुपायैश्च शरीरं पांचभौतिकं | विनाशयन्ति ये घोरा तेषां प्रश * * * *? णु || स्थूलं स्थूलेन भावेन चूर्णधूपविलेपनैः | मंत्रौषध क्रिया योगैरावेशन पुरःसरैः || यंत्रचक्रप्रयोगैश्च जीवरक्षादिभिस्तथा | * * *? रणयोगैश्च सिद्धमंत्रैश्च धारणात् || मुद्रामंत्रविधिज्ञैश्च गमागमविचिंतकैः | भूततंत्रविधौर्वीरैरौषधज्ञैः सुचिन्तकैः || संयतैरप्रमत्तै श्च * *? संकरवर्जितैः | प्रातः स्नानैः कृता पूजैर्जपध्यानपरायणैः || लक्षलक्षणवेदज्ञैनिर्यपेक्षैः सुपेशलैः | कर्तव्यो मंत्रवादश्च नान्यथ *? चिन्तकैः || यदीच्छेदुत्तमां सिद्धिं मोक्षं वा शाश्वतं ध्रुवं | मंत्रवादं न कर्तव्यं इत्याज्ञा पारमेश्वरी || अनुग्रहार्थं मर्त्यानां भूपतीनां कुदुंविनां | अ * *? ह पदस्थेन कर्तव्यो हितमिच्छता || ७८ब्) कदाचिदप्रबंधेन यदि कुर्याद् विनश्यति | न क्षमंति बलोपेताः शिवयागेषु भाविताः || नित्य * *? वीत भया भैरवाज्ञानुपालितः | आज्ञातास्ते प्रकुर्वन्ति मंत्रमुद्रा प्रयोगतः || नात्मार्थं ते जिघां सन्ति तेन ते बलित स्मृताः | पुरा देव * *? वेन शिवेन परमात्मना || सृष्टा ह्यनेन विधिना पिशाचानांतादिशोदश | तद्बलेन समाविष्टा जनिता बलवत्तराः || प्रवृत्तास्ते महा * *? पूर्वं देवि जिघांसया | चतुर्दशविधं सर्गं भोक्तुं दृष्ट्वा स्वयंभुवा || पूर्वं यतस्ततः सृष्टा मंत्राश्चामोघशक्तयः | सप्तकोट्यस्तु बलिनो ब * * *? ति पक्षतः || ये दुष्टा जगतो घोरा जिघांसन्ति बलोत्कटा | तेषां हि शमनार्थाय जगतो रक्षणार्थाय च || मंत्रौषधि क्रिया योगाच्छतषोथ * * * *? | ७९अ) आज्ञाताः परमेशेन तदर्थं वै प्रवर्तनं | मंत्रवादेषु सर्वेषु नाज्ञाभंगेषु नान्यथा || तत्प्रभावाच्च बलिनो मंत्राश्चामोघशक्तयः | तद्वीर्या पूरि * * *? शेषा वर्णास्तु केवलाः || मृत्युंजयं समाख्यातं सर्वमंत्रेश्वरः प्रभुः | न चास्य कश्चिन् मंत्रो वा विद्या चाज्ञानुलेपयेत् || स्मरणाच्चपला * * * *? स्येव यथा मृगाः || इति सर्वस्रोतसंग्रहसारे मृत्युदमृतीशविधाने जीवाकर्षयाद्यधिकार द्वाविंशतिमः पटलः || श्री * *? च || मंत्राः किमात्मका देव किं स्वरूपास्तु कीदृशाः | किं प्रभावाः कथं शक्ताः केन वै संप्रयोजिताः || शिवात्मकाश्च तदेव व्यापकाः शून्यरूपि *? | *? या कारणहीनत्वात् कथं तेषां हि कर्तृता || अमूर्तत्वा कथं तेषां कर्तृत्वं चोपपद्यते | विग्रहेण विना कार्यं कः करोति विभो वद || न दृष्टो ह्यशरी * * *? पकः परमेश्वरः | ७९ब्) शरीरेण यतो बद्धः कथं बद्धस्य कर्तृता | मलिनत्वादस्वतंत्रो लुप्तशक्तिर्विभाव्यते || शक्तिहीनस्य कर्तृत्वं विरुद्धं सर्व वस्तुषु | एवं शिवात्मका मंत्राः कथं सिद्ध्यन्ति वस्तुतः || अस्ति चेच्छक्ति रूपस्तु कस्य शक्तिश्च कीदृशी | शक्तिः किं कारणं देव कार्यं वा कस्य कीदृशं || * * *? शक्तिमान् कश्चित् कस्य शक्तिर्विधीयते | स्वतंत्र्या न प्रसिद्ध्येत्तु विना सिद्धेन केनचित् || असिद्धेन तु यत्सिद्धं तदसिद्धं प्रचक्षते | वस्तुशूते * *? चात्र शक्तिर्वै सिद्ध्यते क्वचित् || शक्तिरूपास्तु ते मंत्राः केवलास्तु विपर्ययं | अथ वेदाणवामंत्रा विग्रहाकररूपिणः || आत्म स्वरूपा व्या * *? बलिना बलिनो न हि | मलिनो मलिनस्यैव प्रक्षालयति कस्य कः || न सिद्धाद्ध्याणवा मंत्रीः कैवलाः परमेश्वरः | तत्र तृयं विनासित्वं विरु * * *? संस्थितिः || ८०अ) युक्तिरेवात्र कर्तव्या प्राणिनां हितकाम्यया | दृश्यंते बलिनो मंत्रा ह्यप्रधृष्याः सुरासुरैः || सर्वानुग्रहकत्वेन सर्वदा सर्वगा हि *? | *? क्षेपतो महेशान संशयं तु वदस्व मे || त्वत्तः परतोनान्यदस्ति कश्चिज्जगत्पते * | ब्रूहि सर्वं सुरेशान यदि तुष्टोसि मे प्रभो || भगवानुवाच || * *? थश्नो महागूढो न पृष्टोहं न केनचित् | चोदितास्तु मया सर्वे सर्वशास्त्रेषु सर्वदा || न विंदन्ति विमूढात्मा मायदाच्छादितः सदा | तत्व त्रयं विना * * *? त्रे वक्तुं न युज्यते || आस्तां ताव जगत्सर्वं तत्वं यावं न सिद्ध्यति | त्रितत्व निर्मितं सर्वं यत्किंचिदिह दृश्यते || तत्व त्रयं विनादेवि न पदार्थो हि विद्य *? | स्मात्तत्त्व त्रयं सर्वं परं चापरमेव च || शिवात्मकाः शक्तिरूपास्तथा मंत्राण चात्मकाः | तत्त्व त्रय विभागेन वर्तन्ते ह्यमितौजसाः || परं सर्वात्मकं * * *? नाद्यं कारणं ध्रुवं | अप्रपंचमनिर्देश्य मनौपम्यमनामयं || ८०ब्) निराभासं परं शान्तं सर्वामयविवर्जितं | व्यापकं सर्वतो भद्रं सर्वज्ञादि गुणै * *? || ज्ञानघनसंपूर्ण स्वानंदानंदनंदितं | निरानंदं निर्विकल्पं निराचारं निरक्षरं || अद्वैतं कल्पना हीनं चिद्व्यनं चिन्मलापहं | चिदचिद्व्यापकं * * *? त्योदितमनुत्तमं || निर्विकारं परं नित्यं निर्मलं निरुपप्लवं | सर्वो *? मानरहितं सर्वभावविवर्जितं || सर्वरूपं कलातीतं अचलशाश्वतं वि *? | * * *? त्व कलामंत्र भुवनाक्षरवर्जितं || सर्वभूतांतरस्थं तु सर्वभूतेषु संस्थितं | सर्वे मंत्रास्तु तत्रस्था सर्वत्रांतर्गतं विभुं || सर्वदं सर्वभावस्थं सर्व * * * *? वनं | हृदिस्थं सर्वभूतानां प्रेरकं सर्वजंतुषु || न तेन रहितं किंचि दृश्यते सुरवंदिते | तस्मात् सर्वगतं विश्वं स एकः परमेश्वरः || सर्वज्ञो * * * * *? तस्य बोधो ह्यनादिमान् | ८१अ) स्वतंत्रो लुप्तशक्तिश्चानंतशक्तिर्महेश्वरः | तस्य चेच्छा महेशस्य निर्विकल्पः कथंचन || अमेयत्वादनादि त्वात् कथं * * *? लभ्यते | कार्यतो ह्यनुमानेन वस्तुतः परिभाव्यते || कार्य तस्य परा शक्ति यथा सूर्यस्य रश्मयः | वह्नि ऊष्मेव विज्ञेया ह्यविना भाव तस्थि *? || * * *? दकरी भद्रा शिवस्येच्छानुवर्तिनी | तद्धर्मधर्मिणी शान्ता नित्यानुग्रहशालिनी || विवर्तमेतत्सर्वं हि तच्छक्तेनान्यतो भवेत् | सानंदा तु * * * *? निरानंदः परः शिवः || सर्वज्ञादि गुणा ये च शिवस्य परमात्मनः | शाक्तास्तेनान्यतो दृष्टा ह्यन्यथानोपपत्तितः || एकः शिवस्तथैका तु श * * * *? शाश्वती | अभिस्था द्वैतसंस्था च सैवैका सामुदायिनी || इच्छारूपा शिवस्यैषा ह्यभिन्ना सर्वतोमुखी | किं चिदुच्छूनतापत्तिः सर्वज्ञादि गुणास्त *? || ८१ब्) न रूपे तु सैवैका यदा बोधयतेखिलं | बोधो ह्यनादिमान्यत्तत्परं ज्ञानं तु सा स्मृता || ज्ञानशक्तिरिति ख्याता सर्वज्ञादि गुणास्पदा | अस्वतंत्र * * *? सा क्रिया कारणरूपिणी || वष्टरूपाष्ट भेदेन स्योटादि(?) ध्वनिरूपिणी | मातृका सा विनिर्दिष्टा कृपाशक्तिर्महेश्वरं || क्रियाख्या परमा सा तु * * * *? य रूपिणी | एवं क्वतेति सा प्रोक्ता एकानान्य स्वभावजा || स्वभावोत्था स्वभावा तु स्वास्वतः स्वोदिता शिवा | व्यतिरिक्ता न चैवैषा कर्तृ * * * * च्यते || शिवस्य परिपूर्णस्य स्वतंत्रस्य विभोर्यतः | कः कर्ता क्षोभकः कोवा तस्या तद्वैतता शिवे || यत्तस्य सर्वकर्तृत्वं सा शक्ति तुपचर्यते | * * * *? रुते सृष्टिं स्थितिं विलयसंहृती || करोति भगवान् सर्वस्तिरोभावमनुग्रहं | क्रियाशक्त्या तु सृजते ज्ञानशक्त्या जगत्स्थितिं || संहारं रुद्र * * * *? रो भावं तु मायया | ८२अ) अनुग्रहं तु ज्येष्ठाया कार्यते नामसंचयः | कृत्यं पंचविधं शंभो जगतो विद्यतेर्यतः || क्रियया न विकल्प्यं तु सर्वं ज्ञास * * *? तं | यतस्ततः शक्तिरेषा शिवस्यैवानुमीयते || आत्मा देवो ह्यनन्तश्च मलेनैव निरोधिताः | ते तु गृहीताः परया परमेशस्य चेच्छया || * * * *? स्तथात्मा च त्रितत्वं वेद्यमुत्तमं | त्रिस्वरूपस्तथा देवो रुद्रोविष्णुपितामहः || करोति षट्विधां सृष्टिं चतुर्भेदविभेदितां | थतनारकिति * * * * *? सुरमानुषात् || जरायुजांडजा देवि तथा च स्वेदजोद्भिजात् | शक्त्या तु भगवान् सर्वं करोति विभु शक्तितः || निमित्तकारणं देवो यथासु य * * *? या | उपादानं तु सा शक्ति चक्षुध्वा समवायतः || यथार्क रश्मि संस्पर्शात् सूर्यकान्तो मणिर्महान् | तेजः प्रकुरुतेप्यर्थं उभाभ्यां नैव का * *? || ८२ब्) यस्कान्तमणिर्दृष्ट्वा लोहः प्रकुरुते प्रिया | उभयोर्नैव कामोस्ति निमित्तं तु तथा पुनः || सूक्ष्मत्वानोपलभ्येत यस्ताभ्यां प्रचोदकः | तादृक्स्व * * * *? तो नान्त भूतोन्तकारणं || उपादानं तु सा शक्ति सर्वत्रैव विभाव्यते | यथा सर्वं सुनिष्पन्नं कृयाशक्त्या प्रदृश्यते || क्षोभ्यक्षोभकभावं तु प्रत्य * * * *? र्हरिन् | पार्श्वांतं समवायं तु कारणं तु विदुर्बुधाः || अकामतः सृजेत्सर्वं शक्त्यासर्वं चराचरं | एवमुक्तेन विधिना मंत्राः सर्वेन्त्रितत्त्वजाः || * * *? शक्तिरूपाश्च तथैवात्म स्वरूपकाः | त्रिस्वभावाः समुद्दिष्टा सर्वत्र बलशालिनः || भवन्ति सर्वदाः सर्वे सर्वगासर्वरूपिणः | शिवो ह्यनादि * * * * *? तः प्रथमो बलः || इच्छया तु यदा देव प्रसरंत्यविलंबितः | सा शक्तिः परमासूक्ष्मा उन्मना शिवधर्मिणी || अस्तित्वमात्रमात्मानं क्षो * * * * *? यदा | ८३अ) समना सा विनिर्दिष्टा शक्तिः सर्वाध्ववर्तिनी || क्रोडी करोति या विश्वं संहृत्य सृजते पुनः | कौंडिल्याख्या महाशक्तिस्तृतीया ह्यु * * * *? || रूपं द्यदास्फोटं अदृष्टं शिवविग्रहं | प्रसरत्यति वेगेन ध्वनिना पूरयेज्जगत् || सनादो देवदेवेशः प्रोक्तश्चैव सदाशिवः | ध्वनि र * * * * *? विश्रमत्यनुरोधतः || निरोधीनामविख्यात सर्वे देव निरोधकः | निरुद्धस्य महेशत्वं अभिमानं प्रवर्तते || असंख्यातास्तु कोट्यो वै * * * * * *? स्थिताः | लभंतेत्र प्रविष्टा ये तद्विंदुं चेश्वरं स्मृतं || यदाशिवामृतं मूर्द्ध्नि पतते सृष्टिकारणं | आप्यायं भवते तेन सोर्द्धचंद्र इति स्मृतः || * * * *? र्व वर्णानां सृष्टिकारण एव च | मकारो ह्यत्र वै रुद्रो वर्णसंघट्ट उत्तमः || यदा स्थितं तु लभते सोन्मुखं सृष्टिकारणं | प्रतिष्ठाख्यो ह्यका * * * *? साक्षाद्भवत्यसौ || ८३ब्) निवृत्तिस्तु यदा सर्वं निष्पन्नं प्रणवं विदुः | उंकाराख्यं परं वाम ब्रह्मासौ कमलासनं || मंत्रसृष्टिर्भवेदेषा शिवस्य परमा * *? | * *? ष्टविधभेदेन वर्णपंचाशरूपिणी || ज्ञानशक्तिः परासूक्ष्मा मातृकांतं विदुर्बुधाः | सायोनिः सर्वमंत्राणां सर्वमात्रारणि स्थिता || जुहो * * * * *? लं सामृतं सृष्टि संयुतं | तेनासौ देवदेवेशो ह्यमृतेशः परापरः || मृत्युरुत्तारयेद् यस्मात् मृत्युजित् तेन कथ्यते | भरणात् प्रकृ * * * *? भैरव इति स्मृतः || एवमाद्या स्मृता मंत्राः सर्वेहामृत तेजसः | अधिकारं प्रकुर्वन्ति सर्वस्य जगतो प्रिये || मोचयन्ति हि संसाद्यो ज * * * * * *? वे | मननत्राणधर्मित्वा तेन मंत्रा इति स्मृताः || तस्मात् सर्वगता मंत्राः सर्वदास्तित्रितत्वजाः | शिवशक्त्यात्मरूपास्तु नित्यानुग्रह श * *? || * * *? क्ति प्रभावाश्च शिवदा शिवहारिकाः | ८४अ) ज्ञातमात्रा हि फलदा भोगमोक्षप्रदायकाः | यत्तेषां सर्वदेवित्वं सर्वशक्तित्वमेव च || तच्छिव * * * * *? शक्तित्वं सर्वकर्तृता | सर्वानुग्रहकर्तृत्वं सर्वत्र फलदायकं || आत्मत्वे यत्स्वरूपं तु त्रिविधं साधनं स्मृतं | मंत्रध्यानं तथा मुद्रा सा * * * * * *? तं || दीक्षामंडलसंस्कारं यजनं तपनं तथा | होमक्रिया तथा लेख्यं ध्यानं धारणयोः क्रिया || मुद्राबंधस्तथा योगो यजनं तु कृ * * *? | * *? मंत्राः समाख्याताः सर्वत्रैवाधिकारिणः || इति सर्वत्रस्रोतसंग्रहसारे मृत्युजिदमृतीशविधाने मंत्रविचारवर्णनो नाम त्रयोविंशतिमः पटः || श्रीदेव्युवाच || असंख्यातास्तु कोट्यावै मंत्राणाममितौजसां | उक्ता देवेन सर्वज्ञाः सर्वदाः सर्वगाः शुभं || ८४ब्) * * *? र्वेश्वराः शक्ताः सर्वत्रैवाधिकारिणः | तेषामेवेति सर्वेषां कथमप्यधिको बली || मंत्रराद्यरमेशानः कथं मृत्युंजयः परः | स * * * *? मुत्पन्नं हृदि देव वदस्व मे || पूर्वोक्तं मंत्रसद्भावं हृदं देवे नामकं | तदश्रोतुमिच्छामि परां कोतूहलं हिमे || भगवानुवाच || श्रूयतां * * * *? मि संशयं मे हृदि स्थितं | मंत्रकोट्या ह्यसंख्याताः सर्वे सर्वाधिकारिणः || शिवशक्तिप्रभावाच्च सर्वशक्तिसमन्विताः | भोगमोक्ष * * * * *? शक्तिबलबृंहिताः || किंतु देवि परः शान्तो ह्यप्रमेयो गुणान्वितः | शिवः सर्वात्मकः शुभ्रो भावग्राह्यो ह्यनुत्तमः || आश्रयः परमस्तेषां * * * * *? मेश्वरः | तदिच्छया समुत्पन्ना तं च्छक्त्यासंप्रचोदिताः || भवन्ति फलदाः सर्वे सर्वेत्रैवाधिकारिणः | यदे तत्परमं धाम सर्वेषामालय * *? || ८५अ) * * *? वसमुत्पन्ना मंत्राश्वामोघशक्तयः | नित्यो नियामको ह्येषां नेता च निरनुप्लवः || निष्प्रपंचो निराभासोस्त्रायकः कारणः शिवः | त्र * * * * * * *? तारणं तु स्वचेतसा || नयते मोक्ष भावं तु तारयेन् महतो भयान् | नयनाश्च तथा भ्राणा नेत्रमित्यभिधीयते || जीवनं सर्वभूतेषु नेत्रभूतं * * * *? | * *? स्त मंत्रजातस्य स्वामिवत्परमेश्वरः || प्रणवं प्राणिनां प्राणं जीवनं संप्रतिष्ठितं | गृह्नाति प्रणवं सर्वं कलाभिः कलयेच्छिवं || षट्प्रकारं म * * * * * *? र पदे स्थितं | जुहोति विद्यया सर्वं जुंकारेण प्रबोधितं || स्वरूपं यत्स्वसंवेद्यं सम्यक्संतृप्तिलक्षणं | सर्वामृत पदाधारं सविसर्गं परं शिवं || * * * * * *? तेन पूर्णाहुत्या तु मूलया | स्वाचारया स्वभावस्था स्वस्वरूपा सदोदिता || इच्छाज्ञानक्रियारूपा या चैका शक्तिरुत्तमा | तया प्रकुरुते * * * * *? त्स शिव स्मृतः || ८५ब्) उद्गीथाक्षरसंयुक्ता तत्त्ववर्णपदात्मकं | भुवनानि कलामंत्राः कारणानि षडेव तु || ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः(?) | * *? श्चेति स्वशक्त्या तु षट्त्यागात् सप्तमे लयः || अकारश्च उकारश्च मकारो बिंदुरेव च | अर्द्धचंद्रनिरोधी च नादोनादान्त एव च || कुंडली व्यापि * * * * * *? तस्तु सा मया | निष्कलं चात्म तत्वं तु शक्तिश्चैव तथोन्मना || सा भासंतं निराभासं परतत्वमनुत्तमं | षट्त्यागात् सप्तमं प्रोक्तं लयमाल * * * *? || * * *? र्वे प्रलीनास्तु तत्समास्तत्प्रसादतः | यच्छक्ति बृंहिताः शक्ताः परिपूर्णा भवन्ति हि || क्रमस्तेषां प्रवक्ष्यामि यथा लीयन्ति सुंदरि | अकारं * * * * * * *? तं यावदध्वनः || कलाष्टकेन संयुक्तं कलयेत् सर्वं जंतुषु | सिद्धिरिद्धि द्युतिर्लक्ष्मी मेधाकान्तिर्धृतिः सुखं || सद्या ब्रह्म कला जाते * * * * *? संस्थितं | ८६अ) रजोरक्षारतिः पाल्याङ्कम्पातृष्णामतिः क्रिया | वृद्धि माया च रात्री च भ्रामणी मोहनी तथा || मनोन्मनीति विख्याता वाम दे * * * * *? | कंठान्तं यावत् स्वप्नस्था विष्ण्वंशे तु स्थिता इमाः || तमो मोहा क्षुधा निद्रा व्याधिमृत्युभयाजरा | अघोरस्य कला ह्येता रौद्रांशे तु व्य * * *? || * * *? यावत्सौषुप्तं तैजसी व्याप्तिरुत्तमा | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || पुरुषस्य कला ह्येता ईश्वरे तु व्यवस्थिताः | वाद्याव(?) * * * * * * *? तं यावद्रज्वलाः || शान्तावस्था तु तुर्याख्या नादाख्या संप्रचक्ष्यते | व्याप्तिः सदाशिवे सान्त व्योमाख्या शून्यरूपिणी || वारासुतारातर * * * * * *? तारणी | द्वादशान्त पदारूढा तुर्यात्तान् रश्मिवस्मृता || ईषानस्य कलाह्येता पंचैवं कारणात्मिका | स्थूलमेतत्समाख्यातं ब्रह्माणं * * * * *? || ८६ब्) *? क्ष्ममेव मनोवक्ष्ये ह्यध्वानै तु यथा स्थितं | यदर्द्धचंद्र कथितं प्लावितं बिंदुमूर्द्धनि || शक्त्यामृतं तदुदिष्टं कलायुक्तं महेश्वरि | ज्योत्स्ना * * * * * *? सुप्रभाविमलाशिवा || अर्द्धचंद्रकला ह्येताः सर्वज्ञः परसंस्थिताः | विद्यावरणसंवद्धा मंत्रकोटिविभूषिताः || क्रियाशक्ति स्व * * * * * *? विमलाः शुभाः | बंधुनी रोधनी रौद्री ज्ञानबोधा तमोपहा || निरोधिका कला ह्येताः सर्वदेव निरोधिकाः | नित्य तृप्ता महाभागा व * * * * * *? काः || इंधिका दीपिका चैव रोचिका मोचिका तथा | ऊर्ध्वगामिन्य इत्येताः कलानादसमुद्भवाः || एता स्वतंत्रता युक्ताः सकले नि * * * *? | *? न शक्ति स्वरूपास्तु ज्ञाताः सर्वज्ञदायिकाः || सूक्ष्मा चैव सुसूक्ष्मा च अमृतामृतसंभवा | व्यापिनी चैव विख्याता शक्तितत्वं समा * * *? || ८७अ) * * * *? क्ति संबद्धाश्चिच्छक्त्यासनवेष्टिता | शक्ति तत्वे स्थिता ह्येताश्चिन्मात्रावधिलक्षिताः || व्योपिनीव्योमरूपा च अनन्तानाथसंज्ञि *? | * * * * *? हेशानि व्यापिन्यस्तु कला स्मृता || सर्वज्ञा सर्वदा भद्रा सादनास्पृहणा धृतिः | समना चेति विख्याता एताः शिव कला स्मृताः || इच्छा * * * * * *? इच्छाशक्तिप्रदायिकाः | शिवतत्वं समाश्रित्य सुसंपूर्णार्णव प्रभा || अनन्तशक्ति सस्थाना सूक्ष्मश्चात्यन्तनिर्मलाः | समनान्तं वरा * * * * * *? मनन्तकं || षट्कारण पदाक्रान्तं स्थूलं सूक्ष्मं प्रभेदतः | शक्त्यादि समनान्तं हि सूक्ष्मविज्ञान गोचरं || तदूर्ध्वे तु पराशान्तं अप्रमेय मनामयं(?) | * * * * * * *? विज्ञात्वा मोचयते गुरुः || तत्रासौ निर्मलो ह्यात्मा स्वशक्त्याधारसंस्थितः | ज्ञानक्रियासमाविष्ट चिन्मात्रो निरनुप्लवः || सर्वभाव पदां * * * * * *? विवर्जिताः | ८७ब्) निर्मलस्फटिकाकार स्वात्म आत्म व्यवस्थितः | तत्रस्थस्य च या शक्ति तस्यानुग्रहकारिणी || यावन्न भवते देवि तावदात्मा शिवाना(?) *? | * * * * *? ना शुद्धकमलं नार्करश्मिभिः || यावन्नाद्भासितं सर्वं तावदीशन् प्रविस्तरं | यथार्क रश्मि संयोगात् कमलं प्रसरे क्षणात् || शिवशक्त्या तथा * * * * * * * *? शिवः | सर्वज्ञादि गुणैर्युक्तो भवते च शिवो यथा || निराभासः परः शान्तः अप्रत *? मनुत्तमं | यावन्न पूर्णतां प्राप्लस्तावत्साभास(?) उच्यते || य * * * * * * * *? क्त्यात्मा वै प्रसारितः | ततः प्रसर रश्मि(?) वा? गृहीतस्तु परस्सदा(?) || शि * * * *? देवेशि *? विभागेन? सर्वशः | एवं ज्ञातु मंत्राणां मंत्रत्वं कुरुते सदा || * * * * *? स्तः सर्वे भागमोक्षफलप्रदा | न विंदेत यदा मंत्री सृष्टिसंहारकारिणी || उदयास्त स्वरूपेण मंत्रा ह्यल्प फलप्रदाः | भोगमोक्षं नवच्छन्ति(?) जप्ता(?) ध्या? * * * * *? || * *? त्फलं प्रयच्छति शिवाज्ञासंप्रचोदिताः | यदा तु विंदते मंत्री उत्पत्ति स्थिति संहृतीः || उदयास्त *? रूपेण मंत्राणां ममितौजसां | ईषत्फलं * * * * * * * *? विदायिनः || ८८) सन्मुखाश्च भवंत्येते साधकस्य भवंति हि | एवं शिवाज्ञया विष्टाः शिवीभूताः शिवप्रदा || भवन्ति विगता यासा निर्दोषा * * * * *? | * *? स्यास्य प्रभावेन शिवस्य परमात्मनः || अमृतेशस्य देवस्य मृत्युजिद्भिरवस्य तु | परापरविभेदं च यो विंदत्यस्य सर्वशः || सोचिरादमृ * * * * * *? न्नात्रसंशयः | ये प्रपन्नास्य मंत्रस्य कृतकृत्या भवन्ति ते || येन येन हि भावेन यद्यत्फलजिगीषया | यद्यदा श्रयते भक्त्या तत्तत्फलमवाप्नुयात् || * * * * *? माख्यातं मया तुभ्यं न चान्यथा | यदाहं चोदितो देवि सर्वानुग्रहकारकः || गूहप्रश्नेन तत्सर्वं मया ते प्रकटीकृतं | इति संक्षेपतः प्रोक्तं * * * * * * * *? || न देयं पापशीलानां क्रोधिनां कामिनां तथा | गुरु निंदा परानां च देवमंत्रविदूषिणां || नास्तिकानां शठानां च कृयाधर्म बहिष्कृतं | देयते * * * * * * *? पुत्राभ्यां च नान्यथा || ८९) स्वदीक्षितानां भक्तानां गुरुदेवाग्नि पूजनं | विना समय दीक्षां वै न दद्यात् सु पृयस्य च || सर्वथा नैव दात्तव्यं * * * * * * * *? | आज्ञाभंगेन देवेशि देहपातो भविष्यति || ददाति यदि मोहेन स्नेहेन धनलिप्सया | गच्छते नरकं घोरमित्याज्ञापारमेश्वर || * * * * * *? शस्य पालनात् सिद्धिमाप्नुयात् | पलनाच्च भवे देवि मृत्युजित् परमेश्वरः || इति मृत्युजिदमृतीशविधाने मंत्रमहात्म्य * * * *? चतुर्विंशतिमः पटलः || समाप्तमिदं मृत्युजिदमृतीशविधानं संपूर्णमिति शुभम् || संवत् ३२० चैत्रशुदि शनि दिवे * * * * * * *? विश्वेश्वर लिखापितमिदं पुस्तकं || पंडितकीर्तिधर लिखितं मया || ओं नमः शिवाय || ओं नमो भगवते वासुदेवाय || ########### END OF FILE #######