#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00539 Uniform title: amṛteśvaradikṣāvidhi Manuscript : NGMCP 5-4867 Reel No: A 231/17 Description: Ritual manual Notes: Manuscript selected by Mark S.G. Dyczkowski, anddata-entered by the staff of Muktabodha under the direction of Dr. Anirban Dash. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्राचीनताडपुस्तकोद्धृतः अमृतेश्वरदीक्षाविधिः प्. १ब्) महाकौलकेयो नेत्रामृतभैरवोक्तमतके व्याप्यस्थितो दुस्कृतात् || ५ || तत्तु दशनरूपतो विभुतया सावरणत्वे स्थितो विश्वं भुक्तफलै प्रदै करसिको मृत्युञ्जयो नित्यशः | कारुणामृतवारिसेचनतया सांसारिकान् बोधयन्म * श्रीगुरुरूपवारणतया देवोऽमृतीशोऽवतात् || ६ || ज्योतिरूपं शिवं शान्तमक्ष * परमामृतम् | नमस्यामि महादेवममृतीशं श्रियायुतम् || ७ || वामोत्सन्गे महादेवीं श्रीयं लोकैक मातरम् | उद्वहन्परमानन्द चमत्कारेण घूञ्चितम् || ८ || नमस्करोमि सततं भक्त्या वाक्कर्म्म मानसैः | परामृतीश सुज्योतिमानन्दममलं विभुम् || ९ || अमृतभैरवपूजने टिप्पणं गुरुवरैर्गदितं तु यथक्रमम् | समवगम्य महेशवरागमं विरचयाम्यहमार्तिहरस्य तत् || १० || मृत्युजिन्नेत्र सन्नाम्नो भैरवस्यामृतात्मनः | लिख्यते विधिना दीक्षा मया विश्वेश्वरेण तु || ११ || ज्ञात्वादौ गुरुवक्त्रतस्तदनु वै दिव्यागमाच्छाम्भवात् पश्चात् स्वानुभवाच्च मंत्रविलयं विघ्नेश्वरेणा * * त् | देवस्यामृतभैरवस्य विधिना दीक्षा क्रमं लिख्यते तत्त्वार्थादि विशोधनेन परतो मुक्ति शिशोराप्तये || १२ || इति नमस्कारः || दीर्घायुष्यं वीरुतत्वं शरीरे सद्देशेषु जन्मलाभो धनाढ्ये | यूते वत्से मातवत्वं सुलाभाद्वर्त्म्ने वाञ्छा यस्य नाभूत्मृतोऽसौ || १ || मानुष्यं प्राप्य संसारे सद्देशे जन्मसौष्ठवम् | तत्राप्यविकलान्गत्वं धर्मवाञ्छामनीषिता || २ || गुरौ देवे लिन्गिने च देशिके साधके तथा | यस्यानतिशयी भक्तिर्वर्तते जन्मनः फलम् || ३ || मानुष्यं प्राप्यसज्जन्म देवैरपि सुदुर्लभम् | ये यजन्तेऽमृतीशाख्यं भैरवन्तेऽमरा नराः || ४ || साफल्यजन्मनः कर्तुं यस्यमीहा प्रवर्तते | तदाऽमृतीश्वरं देवं भक्त्या संपूजयेच्छिवम् || ५ || इति मानुष्यजन्मश्लाघना || जलबुद्वुदनिकरसमे संसारे घोरघोरतरे | निपतन्ति मन्दमतयो विषयासक्ता मुहुर्मोहात् || १ || प्. २अ) सम्भावयन्ति सततमहमिति भाव्नेन नश्वरे जगति | मधुविषवत्परिपाते विषयासक्तास्तनुं मोहात् || २ || संसारन्तरलतरं घोराघोरं भीषणं मनुजाः | संप्राप्यये यजन्तेन शिवंते वैसुनारकिणः || ३ || इति संसारनिन्दा || धनाढ्यं मानिनं शूरं रूपवन्तं प्रियंवदम् | युवानं तरुणं वृद्धं यमोनयतिनिर्घृणः || १ || वेदविज्ञानसंपन्नं मूर्खं काव्यकरं नरम् || राजानं सार्वभौमं च यमोनयति निर्दयः || २ || पाशजालं विनिष्क्षिप्य कण्ठे मृत्युसुहर्षितः | मारयन् मुद्गरेण सौमानवं नयति क्षणात् || ३ || गृहं धनं पुत्र कलत्र बान्धवान् सुखानि राज्यानि च कर्मजानि | संत्यज्य सर्वं मनुजाः प्रयान्ति शुभाशुभैः कर्मयुताः स्वमृत्युम् || ४ || इत्य नित्यता || मायी पाशवं कार्मपाशमखिलेनास्तीर्य संयन्त्रणात्रा सान्नेत्रमुदीरयन्ति च ततो मृत्योर्मुखात्तारणात् | तस्मान् मृत्युजितेत्ययं निगदितो लक्ष्मीश्वई संयुतो भक्तानाममृतत्व योगपदवी दानेऽमृतीशः स्मृतः || १ || तस्माच्छी देवी करात्प्रगृह्य विधिपूर्वकम् | दीक्षां निर्वाणसम्भोग दात्री मुन्मनदायिकाम् || २ || यावन्न निर्मलो ह्यात्माव * शैवे तदुच्यते | पत्रस्थः पुरुषः सर्व्वं वेत्यतीत मनामयम् || ३ || सन्नियेम्येन्द्रिय ग्रामं तत्तत्वं शक्तिलक्षणम् | निर्मलं न भवेद्देवि यावच्छ * न शोधितम् || ४ || दीक्षाज्ञानाग्निना शोध्यमात्मानञ्चैव निर्मलम् | ये विदन्ति न चैवान्यं विन्दन्ति परमं पदम् || ५ || रुद्राक्षं च त्रिपुड्रञ्च अर्चनं जपमेव च | हविप्रदानं पुष्पं च होमोध्यानस्तथैव च || ६ || प्रतिष्ठा स्नपनं चैव दीक्षाहीनस्य निष्फलम् | किमन्यै मंत्र वृन्दैश्च देवताराधनेन वा || ७ || यत्रैव देवदेवेशो ध्यातो जप्तश्च पूजितः | तत्र सन्निहितो भक्त्या दीक्षानैर्वाणिकी कृते || ८ || ब्रह्महत्या सहस्राणि गोस्त्री बाल शतानि च | पातकानि विनश्यन्ति दीक्षा नैर्वाणिकीकृते || ९ || प्. २ब्) इत्यात्मशक्तिशोधनत्वेन दीक्षामाहात्म्यम् || अथ गुरुशिष्यलक्षणमाह || शुभदेश समुद्भूतः शुभव * समाश्रयः | शुभवाचा सदाचारः शुभं मार्गप्रबोधकः || १ || दर्शनाह्लादजनकः सर्वावयवसंयुतः | सर्वशास्त्रकृताभ्यासः सर्वमार्गप्रवर्तकः || २ || कुलाकुलविभागञ्च स्वसंबन्धो * सोदयः | सदाज्ञानन्दमुदितः शिवदर्शनपारगः || ३ || द्रव्यादिलोभरहितस्त्यागी शर्वजनाश्रयः | निराचारपदस्थोपि सत्कृपापरिपालकः || ४ || क्रमायात क्रमपदे विज्ञानौघविसारदः | यो गुरुः स शिवः साक्षाद्भवबन्धविमोचकः || ५ || तम वाप्यमहापुण्यै शिष्येणा मन्दबुद्धिना | त्रिविधेनात्मनां सेव्यः कर्मणा मनसा गिरा || ६ || शिवोऽयमिति पाशप्तो भक्तियुक्तेन चेतसा | दण्डपातैर्नमस्कुर्यात् कृत्वा मण्डलकं पुरः || ७ || यद्यत्प्रियतरन्तस्य येन सन्तोषमेत्यसौ | तदाराधनशीलत्वात्तंतु शिष्यः समाश्रयेत् || ८ || प्रविश्य हृदयस्यान्तर्भावमावेक्ष्य यत्नतः | गुरोरभिमतं सर्वं कार्यं कार्यमनुल्वणम् || ९ || धनदार शरीरादि सर्वस्वं विनिवेदयेत् | सुखदुःखैक भावेन स्फुटमाराधयेद्गुरुम् || १० || गुरोराराधनस्थस्य शिष्यस्य करुणाकुलाः | भवन्ति पूर्वसंसिद्धाः सिद्धिदान समुत्सुकाः || ११ || अतोऽन्तर्भावना भाव्या व्याजमुच्छृत्य सर्वथा | गुरुमूर्तिमयं शम्भुमनन्य शरणं व्रजेत् || १२ || इह ह्यन्धान पश्यन्ति क्लिश्यन्ते मोहिता जनाः | गुरौ सत्यपि सेवन्ते नृपतिं धनलिप्सया || १३ || कष्टान्यनुभवन्तोऽपि विधाय प्राणविक्रयम् | नैवाप्नुवन्ति ते किंचिदिहाचामुत्रं वा फलम् || १४ || यस्यातिनिर्मला बुद्धिर्विवेके सति वर्तते | शिवमूर्ति गुरुं त्यक्त्वा सकथं सेवते नृपम् || १५ || सार्वभौमस्य नृपतेर्गुरोश्च महदन्तरम् | एको भुखण्डकः स्वामी सर्वतत्वधिपोऽपरः || १६ || तुष्टो ददाति कृच्छ्रेण ग्राम मात्रं नराधिपः | प्. ३अ) आसदाशिवपर्यन्तं हेलया चाग्नितो गुरुः || १७ || फलद्वयोर्नदुष्प्रो * मूले सिक्ते यथातरोः | तथैवाराधित गुरोः पूर्वसिद्धाः समृद्धयः || १८ || समीहते मुक्तिपदं गुरुसेवाविनैवयः | अरोपितेभ्यो वृक्षेभ्येः सफलान्यधि वाञ्छति || १९ || ब्रह्मादयः सुरवरा रुद्रा शम्भु वनेश्वराः | कुवंन्त्यनुग्रहे कस्माद्गुरुर्यावन्न सेवितः || २० || आराधिते गुरौ सम्यग्मुदान्तकरुण्मश्रयाः | भवन्ति देवताः सर्वाः साधकेऽनुग्रहोत्सुकाः || २१ || अतोऽनन्यशरण्येन सिद्धमार्गाभिलाषिणाः | गुरुमूर्तौ सदासेव्या व्यक्तिमभ्यागतः शिवः || २२ || गुरूणापि स्फुटाकार्या परीक्षा प्रथमं शिशोः | नापरीक्षित शिष्याणां योग्यता सिद्धशासने || २३ || कदाचिदुत्तमेयो * कदाचिदेषमे विधौ | कदाचि * * रं वाक्यं कदाचित्परुषाक्षेरम् || २४ || कदाचिदन्तः कर्तव्यः कदाचित्प्रेषयेद्वहिः | कदाचिद्बहुशोमान्यः कदाचिदपि ताडयेत् || २५ || एवं कृतऽपि नोयाति वशं हर्षविषादयोः | यो भक्तिभावितमतिःसयोग्यः सिद्धशासने || २६ || य एकदिनवद्भुक्तिमुत्तरोत्तरतो नयेत् | कृतार्थोऽहमिति ज्ञात्वा सयोग्यः सिद्धशासने || २७ || य आक्रुष्टोपि वहुशस्ताडितोऽप्यथवा भवेत् | न जहाति गुरोर्भक्तिं सयोग्यः सिद्धशासने || २८ || अनुक्तमथ वाप्युक्तं गुरुकार्यं न यस्त्यजेत् | वर्ततेनन्यभावेन स योग्यः सिद्धशासने || २९ || इत्यादिभिः समाचारैः परीक्ष्य शतशः शिशुम् | यदा सम्यक्परीक्षातो * * योग्यो तदा भवेत् || ३० || अष्टौत्रीणि तथा पंच अब्दांस्तत्र विभावयेत् | तावन्न कारयेद्दीक्षामित्याज्ञां पारमेश्वरी || ३१ || परीक्षितस्य शिष्यस्य धने स्त्रीषु तनौ तथा | निष्कल्मस्पदान्तस्य संसारविमुखस्य च || ३२ || सर्वभावानुरक्तस्य गुदेवे च लिन्गिने | तस्य देयमिदं ज्ञानमन्यथा नरकं व्रजेत् || ३३ || नदेयं पापशीलानां क्रोधिनां पापिनां तथा | गुरुनिन्दापराणां च देवमंत्र विदूषिणाम || ३४ || प्. ३ब्) नास्तिकानां शठानां च क्रियाधर्म बहिष्कृताम् | देयमेतत् स्वशिष्याणां सुपुत्राणां च नान्यथा || ३५ || स्वदीक्षितानां भक्तानां गुरुदेवाग्निपूजिनाम् | विनासमयदीक्षां वै न दद्यात् स्वप्रियाय च || ३६ || सर्वथा नैव दातव्यमित्याज्ञापारमेश्वरी | आज्ञाभन्गेन देवेशि देहपातो भविष्यति || ३७ || ददाति यदि मोहेन स्नेहेन धनलिप्सया | गच्छति नरकं घोरमित्याज्ञापारमेश्वरी || ३८ || आज्ञायाः परमेशस्य पालनात् सिद्धिमाप्नुयात् | पालनाच्च भवेद्देवि मृत्युजित् परमेश्वरः || ३९ || पूर्वसेवां गुरोः कार्यं द्वादशाब्दं समाहितः | सप्तवा पंचवा त्रीणि एकं वा कृत मण्डलः || ४० || सामक्रमेण वा * वा स्वभक्त्या कार्यकारणात् | मण्डलं नवरत्नैश्च प्रकुर्यात् सार्वकामिकम् || ४१ || अथवा हेमजैश्चू * राजतैर्वा सुभक्तितः | चतुःसमेन वा वृत्तं दत्वा वै हेमपादुके || ४२ || सप्तपंचत्रयं वापि प्रणाम दण्डपूर्वकम् | निपात्य धरणीदेशे जानुर्ध्वे तु समाहितः || ४३ || अञ्जलिं पुरयित्वा तु पुष्पैः श्वेतैः सुगन्धकै | ततो विज्ञायते भक्त्या गुरुं मोक्षप्रदायकम् || ४४ || * * * च परे तत्वे निर्वाणाख्यो कुले शिवे | देहि मे सद्गुरो दीक्षां दीनस्यार्तस्य सर्वथा || ४५ || स्वेच्छया कुरुमे नाथ दीक्षां निर्वाणदायिकाम् | ययाकृते भवाम्बोधिस्तीर्यते चैव बन्धनात् || ४६ || इति गुरुशिष्य लक्षणमण्डलकरणान्तान्युक्तानि || आदौ श्रीदेशिकः श्रीमान्विध्युक्तेन क्रमेण च | स्नात्वा राजोपचारेण सन्ध्यां निर्वत्यनुक्रमात् || १ || सुधौतवस्त्रैर्द्रवलैश्च चन्दनैर्जात्यादि पुष्पैर्ध बलेन भूतिना | यथा क्रमेणार्ति हरस्य पूजने ह्यलन्करेत् स्वंतनुशव्ययं स्मरन् || २ || सौवर्णराजतमयं सुशुभ्रं विशालं मुक्ताबली कनकदामविलंविशोभम् | नित्योत्सवं हरिविरिञ्चि सुपूजितं यद् यागालयं भवभयार्ति हरस्य शम्भोः || ३ || चतुर्द्वारं शुभं रम्यं यागधामं महाप्रभम् | नानापुष्पविचित्राढ्यं प्रविशेद्देशिकोत्तमः || ४ || प्. ४अ) नानाविचित्रविहगैः सेवितं मत्तकोकिलैः | लतामण्डप संछन्नं सेवितं यक्षकिन्नरैः || ५ || चम्पकाशोक पुन्नागैर्नारिकेलैः कपित्थकैः | पनसाम्रदाडिमैश्च बीजपूरकैः | मातुलुन्गैर्घंवैस्तालैः क्वचित् खर्जूरवृक्षकैः | नारन्गैस्तिन्तिन्तिणीभिश्च कदली कर्मरन्ककैः || ७ || लवलीकरमर्दैश्च जम्बूपूगद्रुमैस्तथा | तमालैर्बिल्वजम्बीरैस्तथा वदरवृक्षकैः || ८ || क्वचित्कुरवकोपेतं कञ्जिकार कदंबकैः | वकुलैः किंकिरातैश्च पाटलैर्मधूकैस्तथा || ९ || वृक्षैश्च पारिजातौघैः समन्तात् परिशोभितम् | तगरिः करवीरैश्च मालतीकुन्दयूथिभिः || १० || जातीभिश्चंपकाद्यश्च नवमालिकया क्वचित् | कुमुदाम्बुज कह्लारैः क्वचिन्नीलोत्पलादिभिः || ११ || सर्वर्तु कुसुमैः पुण्यैः फलैश्च परिभूषितम् | देवगन्धर्वयक्षेशैर्विद्याधर महोरगैः || १२ || राक्षसेन्द्रै दानवैश्च किन्नरैर्गरुडैस्तथा | सेवितं सुप्रयत्नेन समन्तान्मखमण्डपम् || १३ || अप्सरोभिश्च देवीभिः किन्नरीभिश्च गीतकैः | यक्षी विद्याधरीभिश्च सेवितं मुनिदारकैः || १४ || शिवानन्दरसे मग्ना गीतनृत्यादिहास्यकैः | भक्त्या कृताञ्जलिपुटो याग वाह्ये स्थिताः स्तुवन् || १५ || हाहाहूहू खुम्बुरुनारदौ च विश्वावसुच्चित्ररथो सुमाली | यभिः सुगीतैः खलु शम्भुयाग सेवारसे मत्तल्ल्वोद्भश्च || १६ || अजाश्च मार्जारमुखैर्गजाननैरुलूकगृध्रोष्ट्रे झिवाखुवेक्तकैः | गणेश्वरैर्मत्स्यमृगेन्द्रसूकरैः शश्यनै काम्बिकरूपधरकैः || १७ || अनंतवक्त्रैश्चरणैश्च बाहुनी सखानमूर्धामे भृताश्चेकधरै * प्रितैर्भृशंश्चीगणमुख्यहन्यै? संरक्षितं वाह्यते? एव यत्नतः || १८ || शिवाज्ञया ते शतकोटिसं * योस्थिता महेश्वरेश्चिररक्षेणाय | विघ्नोन्वितिः सारयतो द्विसप्तकोटिस्थितास्तेगणमुख्यवृन्दाः || १९ || ततो लक्ष्मी पश्चिमे तु द्वारे ध्येया सुरूपिणीम् | नवरत्नौघ * * वर्षन्ती मखमण्डपम् || २० || प्. ४ब्) सुदीप्तं पिन्गलजटं भ्रूभन्गैश्च विराजितम् | दंष्ट्राकरालवदनं देहल्यामस्त्रराजकम् || २१ || तर्जयन् विघ्नसंघातमिच्छेद्ध्यायेद्गुरूंस्तदा | पूजयित्वा प्रयत्नेन पश्चाल्लंघेत् स्वदेहलीम् || २२ || प्रविश्याभ्यन्तरं द्वारे वामशाखां समाश्रयन् | निःसरन्तन्तु विघ्नौघं यागमन्दिरमध्यतः || २३ || इति संचित्यविधिना शिवयागमनुत्तमम् | आसदाशिवपर्यन्तं तत्वव्रातात्मकं महत् || २४ || बहुनात्र किमुक्तेन ज्योतिर्मयमनुत्तमम् | काञ्चनं रत्नखचितं ध्येयं शैवन्तु मण्डपम् || २५ || परानन्दरसोन्मतो मंत्रविन्यस्तविग्रहः | सामान्यार्घजलेनैव प्रोक्ष्ययन्मण्डपोत्तमम् || २६ || यायादीशानदिग्देशे पंचगव्यस्य साधने | पूर्वाननोथ वा सौम्ये उपविश्य सुसंयतः || २७ || मण्डलं कारयेत् तत्र हस्तमात्रं सुशोभनम् | तस्मिन्मण्डके स्थाप्याः सरावा पंचशोभना || २८ || निवृत्यादि कला शुद्धा तस्मिन्निक्षेपयेच्छ्रुतम् | निवृत्यादिक बीजेन आसनं च ददेत् तथा || २९ || गोजलं गोशक्वत्सर्पिर्दधिदुग्धमनुक्रमात् | पश्चिमोत्तर याम्येषु पूर्वे मध्येष्वनुक्रमात् || ३० || कुशोदकं रत्नयुतं गायत्रामृतरूपया | प्. ५अ) प्रक्षिपेच्छस्रजालोयमिति संचिन्त्य तर्जयन् | विघ्नान्मूभ्यन्तरिक्षस्थान् खेचरानपि संस्मरेत् || १४ || कुशं कुर्यात् तु वर्द्धन्यै आसनाय प्रकल्पयेत् | नैर्-ऋत्ये वास्तुनामानः लक्षीं द्वारे प्रपूजयेत् || १५ || रत्नेन पूरयन्ती तु समन्तान् मखमण्डपम् | पश्चिमाभुमुखे कुण्डे शिवं सान्गामृतीश्वरम् || १६ || क्षीरार्णवस्थमासीनं वर्द्धनीं सिंहगामिनीम् | यजेद्देवं च देवीं च महाभैरवरूपिणम् || १७ || चलासने पुराभ्यर्च्य जप्त्वा मंत्रशतक्रमात् | वर्धन्या तद्दशांशेन जप्त्वा जाप्यं गुरूस्तदा || १८ || दिगीशां पूजयेत् पश्चात् स्वनाम्नावाहना युधैः | घटानुगामिनीं कृत्वा वर्धनीं भ्रामयेत् ततः || १९ || श्रावयञ्शंकरस्याज्ञापूर्वादीशान्त गोचरम् | विमुञ्चन् पयसो धारान् मूलमन्तर्जयं तदा || २० || आदौ कुम्भन्तु धृत्वा वै पश्चाच्छस्त्राख्यवर्धनी | स्वस्थाने तौ विधृत्वा तु प्रणम्याथ वदेदिदम् || २१ || भो भो शक्रादि दिक्पाला वाहनायुधसंयुताः | रक्षथे मंमखं यत्नात् सावधानं शिवाज्ञया || २२ || समग्रासनके कुम्भे अमृतीशं महेश्वरम् | पूजयेत् सान्गं * मलं वर्धन्यामस्त्रभैरवम् || २३ || योनिलिन्गाख्य मुद्रान्तु विदध्याल्लिन्गमुद्रया | कुम्भोपरि तु विन्यस्य शिवखड्गं शिवाज्ञया || २४ || कलशस्थं शिवं शान्गं वर्धनीं शस्त्ररूपिणम् | तयोर्नमस्कृतिं कृत्वा पश्चात् संपूजयेद्गणम् || २५ || श्वेतं चतुर्भुजं देवमेकवक्त्रं त्रिलोचनम् | वायव्यांशितपद्मस्थं गुरूमीशानदिग्दले || २६ || सौवर्णासनके शुद्धे रत्नैश्च समलन्कृते | भद्रपीठे वरे रम्ये स्नापयेज्जगदीश्वरम् || २७ || पंचामृतादिभिर्देवं तथा स्वच्छजलेन च | धूपपुष्पान्तरं कृत्वा विधिना मंत्रपूर्वकम् || २८ || दिव्यौषधीशतेनापि चन्दना गुरुवारिणा | रत्नोदकेन शीतेन यथेष्टं स्नापयेत् सुधीः || २९ || प्. ५ब्) ततो हेममयेख * नवरत्नपरिष्कृते | नवसूक्ष्मांवर वृते पुष्पाद्यैः स्थापयेच्छिवम् || ३० || इत्या विशुद्धविघान्तमासनं परिकल्प्यते | ध्यात्वा विधानतो देवं लिन्गलक्षौ निवेशयेत् || ३१ || ध्यायेदात्मनि देवेशं चन्द्रकोटि समप्रभम् | स्वच्छ मुक्ताफलप्रख्यं स्फटिका * *? प्रभम || ३२ || कुन्देन्द्र गोक्षीरनिभं हिमादि सदृशं विभुम् | शुभ्रहारेन्द्रकान्तादि सिद्धभूषण भूषितम् || ३३ || सितचन्दनलिप्तान्गं कर्पूरक्षोदधूसरम् | स्फुरच्चन्द्रामृतस्फारं बहुलोर्मि परिप्लुतम् || ३४ || सोममण्डलमध्यस्थमेकवक्त्रं त्रिलोचनम् | सितपद्मोपविष्ठं च वद्धपद्मासन स्थितम् || ३५ || चतुर्भुजं विशालाक्षं वरदाभय पाणिनम् | पूर्णचन्द्रनिभं शुभ्रममृतेनैव पूरितम् || १३६ || कलशं धारयन्तं हि जगदाप्यायकारकम् | परिपूर्णं तथा चन्द्रं वाहहस्ते विचिन्तयेत् || १३७ || सर्वश्वेतोपचारेण पूजितन्तमनुस्मरेत् | बहुनात्र किमुक्तेन साक्षादमृतसागरम् || १३८ || तस्मादेव समुत्पन्नममृतं विश्वजीवनम् | अथ चिन्तामणिप्रख्यं भावभेदेन संस्मरेत् || ३९ || एवं ध्यात्वा यजेद्देवं मानसैः कुसुमैः शुभैः | हृत्पद्मे सर्वसिद्ध्यर्थं पश्चाद्बाह्ये प्रपूजयेत् || ४० || मानसैः कुसुमैरब्धा साधकेन शुभामता | अनिर्माल्या पराशुद्धा मोक्षदा सिद्धिदा शुभा || ४१ || तस्मात् सर्वप्रयत्नेन मानसं यजनं ध्रुवम् | आदावेव प्रकर्तव्यं पश्चाद्द्रव्यैः सविस्तरैः || ४२ || आवाहयेत् ततो देवं त्रिदेह परिकल्पितम् | आग्नेयादि विभागेन दलेष्वन्गानि विन्यसेत् || ४३ || सर्वश्वेतोपचारेण पुष्पा * र विलेपनैः | नैवेद्यैर्विविधैश्चित्रैर्धूपैः श्रेष्ठैः सुधूपितैः || ४४ || हृद्यैः पानैश्च विविधैर्भावभेदेन पूजयेत् | सर्वश्वेतोपचारेण शान्त्यर्थं पूजयेच्छिवम् || ४५ || दीक्षाविधौ प्रतिष्ठायां भूकंपे राजविद्वरे | चौरे दुर्भिक्षके रोगे तथा मरणसंकटे || ४६ || प्. ६अ) भूतप्रेतपिश्चादि भये सर्पे च विग्रहे | नानाविघ्नौघशान्त्यर्थे सम्भारैर्बहुभिस्तथा || ४७ || पूजयेदमृतेशानं महाश्रीसहितन्तदा | सप्रसादेन दृष्ट्या तु पश्यन्तम्भैरवं स्मरेत् || ४८ || कर्पूरैश्चन्दनैश्चैव कुन्कुमा गुरुणा तथा | चन्द्राम्बुना तु संमर्घं लेपयेद्देवमीश्वरम् || ४९ || कर्णिकार वकुलाम्र विशोकैश्चम्पकैश्च करवीर कदम्बैः | किङ्किरात नवमालतिकाभिः कुन्दपाटलि सुरक्तमम्बुजैः || ५० || ककन धूत्तूरकैः पुण्डरीकैः शुभैर्मल्लिका केतकीस्तगर नीलाम्बुजैः | पारिजातार्जुनैर्नील कह्लारकैः कुटजपुष्पैस्तथा सिन्दु वारार्कजैः || ५१ || यः पूजर्यद्वहुविधैः कुसुमैर्महेशमापीठलम्बि * स्रजं करुणैक मूर्तिम् || देवीं च मातरमजां परमेश लक्ष्मीं त्रैलोक्य दुःखहरणीमभयप्रदात्रीम् || ५२ || नादान्ते चोरयन्मंत्रं घण्टावादनपूर्वकम् | ततोऽगुरुं गुग्गुलयुतं सर्पिषा च समन्वितम् || ५३ || दहेद्देवस्य पुरतो ध्यापयन्धूपमुत्तमम् | मनः प्रसादजनकं सर्वविघ्ननिवारणम् || ५४ || पायसापूपलड्डुक खण्डमोचादिमण्डकान् | द्यूतेन याचितां दद्यान्नैवेद्यं शम्भवेऽग्रतः || ५५ || रक्तशाल्योदनं चैव वहुव्यञ्जनसंयुतम् || दधिदुग्धं घृतेनापि युक्तं दद्यान्निवेद्यकम् || ५६ || ताम्बूलं दर्पणं दीपं छत्रचामरसंयुतम् | एतत्सर्वं तु मूलेन दद्याच्छम्भोः समाहितः || ५७ || धूपितं मंत्रितं चैव केशादि परिवर्जितम् | क्षालितं शोषितं पश्चाद्दिवाकर मरीचिभिः || ५८ || चीनद्रविडसौराष्ट्र गौडदेशोद्भवैर्वरैः | सूक्ष्मैश्चैतैः समसृणैर्वस्त्रैराछादयेच्छिवम् || ५९ || एवं पंचोपचारेण पूजां कृत्वा विधानतः | पश्चाज्जपं कर्तव्यमुन्मधान्गत्तमानसः || ६० || प्रदक्षिणं स्तोत्र मथान्ग पातप्रणामकं भक्तिपरो विदध्यात् | अर्घैक हस्तश्च गुरुः प्रदक्षिणं यायान्ति वासं खलु शुद्धमग्नेः || ६१ || प्. ६ब्) कुशसमिधतिलैर्घृतैश्च पू * यव फलधान्यसु शर्षपैश्च युक्तम् | बहुविधकुसुमे न चाग्निगेहं तदनु च देशिकवर्यं सार्घहस्तयायात् || ६२ || चतुरस्रे वर्तुले तु हस्तमात्रेधिकेपि वा | आचार्यः स्वेच्छया सर्वं सिध्यन्ति व्याप्ति वेदना || ६३ || कुर्याच्शक्तिस्वरूपेण कौंडिल्या व्याप्ति भवना | तत्कुण्डव्यापकं ज्ञात्वा सर्वदस्तु भवेद्गुरुः || ६४ || यावन्न विन्दते व्याप्तिं कुण्डस्यैवात्मनोपि च | साध्यश्चैव पशोश्चैव पाशानां च षडङ्गवित् || ६५ || बालवत्क्रीडते तावत्कार्यं तस्य कथं भवेत् | यः पुनर्वेद्मि चात्मानं शिवशक्ति स्वरूपकम् || ६६ || ससर्वफलदः श्रेष्ठः सकर्ता सर्वगः शिवः | ज्ञानशक्तिमयो वह्निर्व्याप्य व्यापकभेदतः || ६७ || सजाता सर्वकर्ता च मोक्षदः फलदो गुरुः | मानोन्मानप्रमाणेन विन्दते योऽस्वने गुरुः || ६८ || शिल्पिवद्भवते दक्षो विचित्राकारकारकः | न मोक्षदस्तु भवते नासौ सिद्धिफलप्रदः || ६९ || तस्मादाचार्यमुख्यस्तु ज्ञानवान् सर्वदो भवेत् | शिवाश्रय शिवस्थस्तु शिवशक्तिप्रचोदितः || ७० || निर्ममेति जगत्सर्वं शिवरूपो यतः स्थितः | इच्छाज्ञानक्रियायुक्तः शिवतत्वविशारदः || ७१ || यः करोति शिवेच्छातु ज्ञानव्याप्त्या व्यवस्थितः | अचिन्त्या मंत्रशक्तिर्वै परमेशमुखोद्भवा || ७२ || यद्यत्प्रकुरुते ज्ञानी शिवशक्ति समाश्रयात् | तत्तन्निष्पद्यते तस्य शिवशक्ति प्रभावतः || ७३ || तस्यैव सम्मुखामंत्रा दृष्ट प्रत्यय कारकाः | एवं शक्तिमयं सर्वं जगत्स्थावरजन्गमम् || ७४ || शक्तिमान् सर्वकर्माणि कुरुते नात्रसंशयः | शान्तिकादीनि कर्माणि कर्माण्येवान्यथा बहिः || ७५ || शक्तिहीना न सिद्ध्यन्ति युगकोटिशतैरपि | जपकोटिसहस्रैस्तु होमलक्षैः सुविस्तरैः || ७६ || तस्मात् सर्वप्रत्यत्नेन शिवज्ञानं समभ्यसेत् | तदा सिद्ध्यन्ति कर्माणि सर्वाण्येवान्यथा न हि || ७७ || प्. ७अ) शान्तिकादीनि कर्माणि कुरुतेऽसौ तदा गुरुः | अतः कुण्डादि संस्कारं कृत्वा वै होमयेत् सुधीः || ७८ || वीक्षणादि प्रकारेण मूलं नेत्रेषु विन्यसेत् | तदनु प्रोक्षयेच्छस्त्रै हूं फडन्तैश्च ताडयेत् || ७९ || क्रव्यादाशं परित्यज्य वर्मणा प्रोक्षयेत् सकृत् | कुण्डोर्ध्वे तु त्रिधाधाम्य वह्निं तन्मंत्रविद्गुरुः || ८० || ३ हूं वह्नि मूर्त्तये नमः | वह्निं निवेश्य बिन्दौ तु तथा संहारमुद्रया | नाभौपूरकयोगेन उद्भवाख्येन मुद्रया || ८१ || विश्राम्यानलमत्युग्र रेचकेन विधानतः | स्फुरज्ज्वालावलीभासमग्निं विन्यस्य योजयेत् || ८२ || ३ अमृतीशात्मने ह्रूं वह्नये नमः | तडित्पुंजप्रतीकासं भावयित्वा तु विन्यसेत् | पावके कुण्डमध्यस्थे पूजयित्वा तु भावतः || ८३ || तत्र वै पूजयेद्देवममृतीशं परं विभुम् | सान्गं सपरिवारं च पूजां कृत्वा विधानतः || ८४ || मूलेन आहुतीः पंच होमयेत् तदनन्तरम् | हृदयेन शिवाग्निस्त्वमिति नाम विधाय च || ८५ || मेखासु ततोन्यस्य विष्टरा * * * * * * | प्. ७ब्) ट्ःईष् FOḻईO ईष् Bḻआण्K प्. ८अ) ट्ःईष् FOḻईO ईष् Bḻआण्K प्. ८ब्) यानं पारदं च वरस्त्रीमनगु * * * * * * * * * * * * * * भक्तं सुभोजनम् || ९ || रक्ताभिषेकं राज्यं च * * * * * * * * * * * * * * * र्थैः सहस्तं भाषणं वरम् || १० || एवमादि शुभाः स्वप्नाः प्रशस्ताः शुभकर्मणि | अशुभं च प्रवक्ष्यामि आगमे कथितं यथा || ११ || तैलाभ्यन्गं दन्तपापातं कृष्णनार्याऽवगूहनम् | रसातलप्रवेशं च स्वशिरः कर्तनं तथा || १२ || गृहभन्गं खरोष्ट्रादि आरोहणमनुत्तमम् | विवाहं मुण्डनं चैव कर्दमे पतनन्तथा || १३ || युद्धे पराजयं नूनं रक्तपुष्प विधारणम् | विकृतं पश्यते रूपमात्मनो हसनन्तथा || १४ || स्वप्नान्येतानि दुष्टानि कथनीयं गुरोऽग्रतः | ज्ञात्वा तदनुसारेण होमये * * * * * || १५ || सहस्रं मूलमंत्रेण साष्टयुक्तं हविर्भुजे | तदा शान्तिं प्रपद्येत अन्यथा मरणं शिशोः || १६ || * * * * स्वप्नमाणवकविधिः || पुनस्ततोऽष्टकलशे गन्गादिजलपूरिते | फलरत्नादि गन्धाढ्यै चूतपल्लव वक्रके || १ || प्. ९अ) क्षीरोद मदिरान्तानि अन्कुराणि तु विन्यसेत् | ब्राह्म्याद्यास्तत्र वै देव्यो भैरवाष्टकसंयुताः || २ || षडन्गं मूलमंत्रं च मूतिं तत्र सुविन्यसेत् | ततोऽसौ शक्तिमंत्रेण सौवर्णं भद्रपीठकम् || ३ || भावयित्वाथवान्यस्य स्नानार्थं गुरुणा शिशोः | वितानं वरवस्त्रैश्च वेदीमण्डपकोपरि || ४ || कस्तूरीकुंकुमैश्चैव कर्पूरामलकादिभिः | स्नात्वा रा * * * * * * * * * येत्ततः || ५ || शङ्खभेरी प्रवादैश्च तथाकारुन निःस्वनैः | मर्दलैः पटहैर्वंशैः * * * * * * * * | * * * तालसन्नादैस्तथा क * लनादकैः | व * * * * * * * * * * * * * * * || प्. ९ब्) * * * * * * * * * * समस्तकं शिशोः | कुसुमेन ततो मंत्री कवचेनावगुण्ठयेत् || १ || नाभौ हृदि च बिन्दौ च त्रिवक्त्रान्तत्तनौ न्यसेत् | हुतभुक् चक्रमुद्बोध्य ततो हार्दं सुमण्डलम् || २ || एतौ द्वौ भास्कराग्नीनामर्चि ज्वालावगूहनात् | महन्मण्डलकं चान्द्रं सन्तायाद्ध्रिद्रुतं स्मरेत् || ३ || स्रवच्चन्द्रामृतनदी कल्लोलाकुलित क्षयात् | शिवज्ञानामृतौघेन सिञ्चितं च विभावयेत् || ४ || उङ्गीथास्करसंयुक्ता तत्त्ववक्त्रपदात्मकम् | भुवनानि कला मन्त्रा कारणानि षडैव तु || ५ || ब्रह्माविष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः | शिवश्चेति स्वशक्त्या च षड्युक्ताः सप्तमेलयः || ६ || अकारश्च उकारश्च मकारो विन्दुरेव च | अर्धचन्द्रो निरोधी च नादोनादान्त एव च || ७ || कुण्डली व्यापिनी शक्तिः समनात् स्तुसामया | निष्कलं च सतत्वन्तु शक्तिश्चैव तथोन्मना || ८ || साभासं च निराभासं परतत्वमनुत्तमम् | सड्भागात् सप्तमं प्रोक्तं लयमालयमुत्तमम् || ९ || तत्र सर्वे प्रलीनास्तु तत्समास्तत् प्रसादतः | यच्छक्ति * सृंहिताः शक्ताः परिपूर्णा भवन्ति हि || १० || क्रमस्तेषां प्रवक्ष्यामि यथा लीयन्ति सुन्दरि | अकारं ब्रह्मदैवत्यं हृदन्तं यावदध्वनः || ११ || कलाष्टकेन संयुक्तं कलयेत् सर्वजन्तुषु | प्. १०अ) सिद्धिर्-ऋद्धिर्द्युतिर्लक्ष्मीर्मेधाकान्तिर्धृतिः सुधा || १२ || सद्यो ब्रह्म कलायान्तु ब्रह्माणं व्याप्य संस्थितम् | रजोरक्षारतिः पाल्या काम्या तृष्णामतिष्क्रिया || १३ || वृद्धिर्माया च रात्रिश्च भ्रामणी मोहनी तथा | मनोन्मनीति विख्याता वामदेवे स्थिता कला || १४ || कण्ठान्तं यावत् स्वप्नस्था विष्ण्वंसे तु स्थिता इमांः | तमोमोहाक्षुधानिद्राव्याधि मृत्युर्भयाजरा || १५ || अघोरस्य कलाहेता रौद्रांसेतु व्यवस्थिताः | ताल्वन्तं यावत्सौपृष्टं तेजसी व्याप्तिरूत्तमा || १६ || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | पुरुषस्य कला ह्येता ईश्वरे तु व्यवस्थिताः || १७ || बाह्यावरणमाश्रित्य विन्द्वन्तं यावद्रज्ज्वला | शान्तावस्था तु तुर्याख्या नादाख्या संप्रचक्षते || १८ || व्याप्तिः सदाशिवे सा तु व्योमाख्या शून्यरूपिणी | तारासुतारातरणी तारयन्ती सुतारिणी || १९ || द्वादशान्तपदारूढा तुर्यान्तारश्मिवत्स्थिता | ईशानस्य कला ह्येता पंचैवं कारणात्मिका || २० || स्थूलमेतत्समाख्यातं ब्रह्माणं ब्रह्मभूतिजम् | सूक्ष्ममेव ततो वक्ष्ये अध्वने तु यथास्थितिः || २१ || यदर्धचन्द्रं कथितं प्लावितं बिन्दुमूर्धनि | शान्तामृतं तदुद्दिष्टं कलायुक्तं महेश्वरि || २२ || ज्योत्स्ना ज्योत्स्नावती चैव सुप्रभा विमला शिवा | अर्धचन्द्रकला ह्येताः सर्वज्ञ परसंस्थिता || २३ || विद्यावरणसम्बंधा मंत्रकोटि विभूषिता | क्रियाशक्ति * * * * * * ता विमलाभुजा || २४ || रुन्धनी रोधनी रौद्री ज्ञानबोधातनोपहा | निरोधिका * * * * * * देवनिरोधिका || २५ || नित्यतृप्ता महाभागा वामाशक्ति स्वरूपकाः | ईन्दिका दीपिका चैव रोचिका मोचिका तथा || २६ || ऊर्ध्वगामिन्य इत्येताः कलानादसमुद्भवाः | एताः स्वतन्त्रतायुक्ताः सकले निष्कले स्थिताः || २७ || ज्ञानशक्ति स्वरूपास्तु ज्ञाताः सर्वज्ञदायिकाः | प्. १०ब्) सूक्ष्मा चैव सुसूक्ष्मा च अमृतामृतसम्भवाः || २८ || व्यापिनी चैव विख्याताः शक्तितत्वं समाश्रिताः | अलुप्तशक्तिसंबन्धा चिच्छक्त्यासनवेष्टिता || २९ || शक्तितत्वे स्थिता ह्येता चिन्मात्रावधिलक्षिता | व्यापिनी व्योमरूपा च अनन्ता नाथसंञकाः || ३० || अनाश्रिता महेशानि व्यापिन्यस्तु कलाः स्मृताः | सर्वज्ञा सर्वदा भद्रा साधना स्पृहणाधृतिः || ३१ || समना चेति विख्याता एताः शिवकलाः स्मृताः | इच्छाशक्तिरधिष्ठानादिछासिद्धिप्रदायिकाः || ३२ || शिवतत्वं समाश्रित्य सुसंपूर्णा * वप्रभाः | अनन्तशक्तिसंस्थानात् सूक्ष्माश्चात्यन्तनिर्मलाः || ३३ || समनान्तं वरारोहे पाशजालमनन्तकम् | षट्कारणपदाक्रान्तं स्थूलसूक्ष्मप्रभेदतः || ३४ || शक्त्यादिसमनान्तं हि सूक्ष्मा विज्ञानगोचरम् | तदूर्ध्वे तु परंशान्तमप्रमेयमनामयम् || ३५ || तत्वत्रयं परंदेवि ज्ञात्वा मोचयते गुरुः | तत्रासौ निर्मलो ह्यात्मा स्वशक्त्याधारसंस्थितः || ३६ || ज्ञानक्रियासमादिष्टश्चिन्मात्रो निरनुप्लवः | सर्वभावपदातीतः सर्वेन्द्रिय विवर्जितः || ३७ || निर्मलः स्फटिकाकारः स्वात्मन्यात्मा व्यवस्थितः | तत्रस्थस्य च या शक्तिस्तस्यानुग्रहकारिणी || ३८ || यावन्नभवते देवि तावदात्मा शिवो न हि | यथार्करश्मिसंयोगात् कमलं प्रसरेत् क्षणात् || ३९ || मंत्रेण मनसा चैव सामरः स्याच्च योगतः | शिवशक्त्या तथाऽत्मा वै गृहीतः सर्वतः शिवः || ४० || सर्वज्ञादिगुणैर्युक्तो भवते तु शिवो यथा | निराभासः शिवः शान्तो ह्यप्रतर्क्यामनुत्तमम् || ४१ || यावन्न पूर्णतां प्राप्तस्तावत् साभास उच्यते | एवं शिवाज्ञया विष्टाः शिवीभूताः शिवप्रदाः || ४२ || भवन्ति विगता यास्य निर्दोषा निरनुप्लवाः | मंत्रस्यास्य प्रभावेण शिवस्य परमात्मनः || ४३ || अमृतीशस्य देवस्य मृत्युजिद्भैरवस्य च | परापरविभेदं च योबिन्दत्यस्य सर्वशः || ४४ || प्. ११अ) सोऽचिरादमृतेशत्वं प्राप्नुयान्नात्रसंशयः | जुहोति वी * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | | १ | अग्निरुद्रः १ हुताशनम् २ पिन्गलः ३ खादकः ४ हरः ५ ज्वलनः ६ दहनः ७ वभ्रूः ८ भस्मान्तकः ९ क्षयान्तकः १० इत्यग्निव्यवस्थित दशरुद्राः | २ | याम्यः १ मृत्युः २ हरः ३ धाता ४ विधाता ५ कर्ता ६ संयुक्ता ७ वियुक्ता ८ धर्मपतिः ९ अधर्मपतिः १० इति याम्यदिग्व्यवस्थित दशरुद्राः || ३ || निर्-ऋतिः १ मारणः २ हन्ता ३ क्रूरदृष्टिः ४ भयानकः ५ ऊर्ध्वशयः ६ विरूपाक्षः ७ धूमः ८ लोहितः ९ दंष्ट्रवान् १० इति नैर्-ऋत्यादिग्व्यवस्थित दशरुद्राः || ४ || प्. ११ब्) बलः १ अतिबलः २ पाशहस्तः ३ महाबलः ४ श्वेतः ५ जयभद्रः ६ वीरभद्रः ७ जलान्तकः ८ मेघनाद ९ स्वनादः १० इति वारुणदिग्व्यवस्थित दशरुद्राः || ५ || शीघ्रः १ लघुः २ वायुवेगः ३ सूक्ष्मः ४ तीक्ष्णः ५ क्षयान्तकः ६ पंचांतकः ७ पंचशिखः ८ कपर्दी ९ मेघनादः १० इति वायुदिग्व्यवस्थित दशरुद्राः || ६ || निधीशः १ रूपवान् २ धन्यः ३ सौम्यदेहः ४ जटाधरः ५ लक्ष्मीधरः ६ रत्नधरंः ७ श्रीधरः ८ प्रसादः ९ प्रकाशः १० इत्युत्तरदिग्व्यवस्थित दशरुद्राः || ७ || विद्याधिपः १ ईशः २ सर्वज्ञः ३ ज्ञानधृक ४ वेदपारगः ५ सुरेशः ६ शर्वः ७ ज्येष्ठः ८ भूतपाशः ९ बलिप्रियः १० इतीशानदिग्व्यवस्थित दशरूद्राः || ८ || वृषः १ वृषधरः २ अनन्तः ३ क्रोधनः ४ मरुताशनः ५ ग्रशनंः ६ ऊदुम्बरीशः ७ फलीन्द्रः ८ चक्री ९ दंष्ट्री १० इत्यधदिग्व्यवस्थित दशरुद्राः || ९ || शम्भुः १ विभुः २ गणाध्यक्षः ३ त्रिदशः ४ त्रिदशेश्वरः ५ संवाहः ६ विवाहः ७ नभः ८ लिप्सुः ९ त्रोलोचनः १० इत्यूर्ध्वदिग्व्यवस्थित दशरुद्राः || १० || तेषामुपरिस्थितं भुवनद्वयम् | पूर्वोक्तं वीरभद्रः १ भद्रकाली २ इति पृथिवीतले ब्रह्माण्डे १ इत्थं ब्रह्माण्डगर्भैर्भुवनषड्दिक्चक्रनालेशतम् | तदुपरिद्वयम् | तत्र रुद्राभिधानव्यञ्जितमष्टोत्तरशतम् | इति पृथिवीतले ब्रह्माण्डे || १ || अमरेशः १ प्रभासः २ नैमिषः ३ पुष्करः ४ आषाढी ५ डिण्डि ६ भारभूतिः ७ लकुलीशः ८ इत्यष्टावयतत्वे || २ || हरिश्चन्द्रः १ श्रीशैलः २ जलेश्वरः ३ आम्राडिकेश्वरः ४ मध्यमेश्वरः ५ महाकालः ६ केदारः ७ भैरवः ८ इत्यष्टावनलतत्वे || ३ || गया १ कुरुक्षेत्रः २ नखलः ३ कनखलः ४ विमलेश्वरः ५ अट्टहासः ६ महेन्द्रः ७ भीमेश्वरः ८ इत्यष्टावनिलतत्वे || ४ || वस्त्रापदः १ रुद्रकोटिः २ अविमुक्तः ३ महालयः प्. १२अ) गोकर्णः ५ भद्रकर्णः ६ स्वर्णाक्षः ७ स्थाणुः ८ इत्यष्टावाकाशतत्वे || ५ || छगलण्डः १ द्विरण्डः २ माकोटः ३ मण्डलेश्वरः ४ कालिञ्जरः ५ शन्कुकर्णः ६ स्थलेश्वरः ७ जलेश्वरः ८ इत्यष्टौगन्ध तन्मात्रारभ्यबुद्धितत्वे विवर्जितम् | अहन्कारान्तेऽध्वनिसंस्थितः || ६ || पैशाचम् १ राक्षसम् २ यास्कम् ३ गान्धर्वम् ४ ऐन्द्रम् ५ सौम्यम् ६ प्राजापत्यम् ७ ब्राह्म्यम् ८ इति देवयोन्यष्टकं बुद्धितत्वे || ७ || अकृतम् १ कृतम् २ भैरवम् ३ ब्राह्म्यम् ४ वैष्णवम् ५ कौमारम् ६ औमम् ७ श्रीकण्ठम् ८ इति योगाष्टकं गुणप्रकृतौ || ८ || अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः | क ख ग घ ङ | च छ ज झ ञ | ट ठ ड ढ ण | त थ द ध न | प फ ब भ म | य र ल व श ष स ह क्ष इति वर्णाः कथिताः || भुवनसप्ताविन्गति यथा | वामः १ भीमः २ ऊग्रः ३ भवः ४ ईशानः ५ एकवीरः ६ इत्येवं षड्भुवनानि पुरुषतत्वे || ९ || प्रचण्डः १ उमापतिः २ अजः ३ अनन्तः ४ एकशिवः ५ इति भुवनपंचकं रागतत्वे || १० || क्रोधः १ चण्डः २ इति भुवनद्वयमशुद्धविद्यातत्वे || ११ || ज्योतिः १ सम्वर्तः २ इति भुवनद्वयं कलातत्वे || १२ || सुरः १ पञ्चान्तकः २ इति भुवनद्वयं नियतितत्वे || १३ || एकवीरः १ शिखिदः २ इति भुवनद्वयं कालतत्वे || १४ || महा * * * १ वामदेवः २ भवः ३ भवोद्भवः ४ एकनिभेक्षणः ५ ईशानः ६ भुवनेशः ७ अन्गुष्ठमात्र ८ इति मण्डलेश्वराष्टकं मायातत्वे || १५ || एवं सप्ताविन्गतिभुवनाः || शुद्धविद्या यथा || ईश्वरः १ सं * * * * * * * * * * * | अष्टादश यथा || वामा १ ज्येष्ठा २ रौद्री ३ काली ४ कलविकरणी ५ बल * * * * * बलप्रमथनी ७ सर्वभूतदमनी ८ मनोन्मनी ९ नवभुवनानिशुद्धविद्यातत्वे || १६ || अनन्तः १ प्. १२ब्) सूक्ष्मः २ * * * * * ३ एकनेत्रः ४ एकरुद्रः ५ त्रिमूर्तिः ६ श्रीकण्ठः ७ शिखण्डी ८ इति भुवनाष्टकमीश्वरतत्वे || १७ || सदाशि * * * * * * * * * * * * || १ || निवृत्तिः १ प्रतिष्ठा २ विद्या ३ शान्तिः ४ शान्त्यतीता ५ महानेत्रामृतीशमंत्रस्य पदं वि * * * * नाय मंत्राणामुदयस्थितिलयान्तानां मूलहृदयशिरः शिखा कवच नेत्रास्त्रान्तानां यथाक्रमेण * * * नौ व्व्याप्तिं * * * शोधनीयम् | मनोतीते शिवे शुद्धे शान्ति नित्यं गुणोदये | विलीयमानमेतस्मिञ्शिष्यात्मानं विभावयेत् | पुरुषः १ रागः २ अशुद्धविद्या ३ कला ४ नियतिः ५ कालः ६ माया ७ इति तत्वे सप्तकम् || यथा तेषां वर्णमंत्राणां ततः कलायां भुवनपंचकम् | इन्धिका १ दीपिका २ रोचिका ३ मोचिका ४ ऊर्ध्वगामिनी ५ इति नादकलाया भुवनानि पंच | व्यापिनी १ व्योमरूपा २ अनन्ता ३ अनाथा ४ अनाश्रिता ५ इति शक्तिकलायां भुवनानि पंच || इति त्रितत्वात्मकवर्ण प्. १३अ) थिस् fओलिओ इस् ब्लन्च्क् प्. १३ब्) मकारः | अ उ म अत्राकार आत्मतत्वस्य वाचकः | अस्य पृथिव्यादि मायातत्वान्तं तत्व एकत्रिंशतिर्यावद्व्याप्तिं जानीयात् | इत्यकारेण शोद्ध्याः | तथोकारेण शोध्याः | शुद्धविद्यादि सदाशिवतत्वावधिर्यावत् | तत्वत्रयस्य व्याप्तिं तथा मकारेण शोध्याः | शक्ति शिवौ | एवमकारोकार मकारेणैकत्वात् | ओंकारेणामृतीशमन्त्रा * स्करेण भावपूर्वकेन शोधयेत् | तत्र पुनस्त्वत्वभुवनपद मंत्रकलावर्णादिक * * * * दीक्षावज्ज्ञातव्यम् | इति शोधनिका कृते | ततः परे तत्वे शिवे अजे * * * * * * * * * येत् | इति त्रितत्वदीक्षासंक्षेपात्कथिताः || एकषं पुनः प्रथम * * * * * * * * * * * * * * * दीक्षामभिधाय पश्चात् क्रियाज्ञानपूर्वकदीक्षायाः परा * * * * * * * * * * * * * * * न्तरक्रमेण | सकलकलाकलदीक्षाया जीवभूता च निष्कला * * * * * * * * * * * वेवदीक्षापि कथ्यते | तद्यथा | इडापिन्गला चैव कण्ठनालस्य पार्श्वयोः | तयो * * * * * न्तः मवाप्ना परमेश्वरि || १ || आधारभूतान्यखिलं देहं व्याप्य व्यवस्थिता | तस्यास्य शरणमात्रेण विद्धः पद्धति विह्वलः || २ || एकान्तस्थो निराधार अथवाऽधारपीडनात् | मुद्रासंयोगमाहात्म्या विद्धः पद्धति तत्क्षणात् || ३ || इत्येवमादिभिर्भेदैरूभयो गुरुशिष्ययोः | भावानुरूपतस्तीव्रो मंदो वावेवसम्भवः || ४ || वेधेनानेन संसिद्धः शिशोर्नैः संज्ञमागते | तत्वयो जनिका कार्या शक्तिसंहारमुद्रया || प्. १४अ) * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * | प्. १४ब्) किंचिच्छोभनं कृत्वा जुहुयात् | * परेह्यणुः || ३१ || त्रिधा संघट्टनं कृत्वा शनैर्भूमै निपातयेत् | एषा वैज्ञानिकी दीक्षा सद्यो मुक्ति प्रदायिका || ३२ || ततोऽर्घपात्रतो येन संसिच्याभ्यर्च्यतं शिशुम् | सान्गं सपरिवारं चामृतीशं पूर्ववद्यजेत् || ३३ || मस्तके तस्य शिष्यस्य शिवीभूतं स्मरन्गुरुः | सामरस्यं च मापन्नं शिवशक्त्योः सुखन्तदा || ३४ || भूतं भावन्तथा शाक्तं मात्रावेशपदानुगम् | क्रमेण शाम्भवान्तस्य वि * * त्वं यथा यथा || ३५ || वेधलक्षणान्याह | कंपते भ्रमते रौदे दुत्पतेन्निपतेद्वदेत् | अनिवद्धरवोन्मादी ससंज्ञाभूतवद्यथा || १ || प्. १५अ) भूतावेशस्य चिह्नेदं भावावेशमतः शृणु | यानि चिह्नानि जायन्ते भावविद्धस्य भामिनि || २ || घूर्मणः स्वेदरोमां च अश्रुपातान्गमोटनम् || आराध्यस्मरणादेव संपद्यन्ते गुणाअनि मे || ३ || भ्रमते चक्रवत्कायः कोष्टवत्पततिक्षणात् | पश्यते विभ्रमापन्नः शक्तिवेधोपलक्षणम् || ४ || कंपते भ्रमते चैव जल्पते वदतेखिलम् | अनधीतानि शास्त्राणि ग्रन्थतो ह्यन्यतसुधीः || ५ || अतीतानागतं चैव वर्तमानस्य यत्फलम् | * * शक्तिसमावेशात् सर्वमेव प्रपद्यते || ६ || शाम्भवेन तु वेधेनं सर्वाण्येतानि सिद्ध्यति | शुद्धशाम्भवविद्धस्य सांप्रतं निर्णयं शृणु || ७ || येन विद्धस्य लोकेस्मिन् सवज्ञत्वं प्रपद्यते | पूर्वोक्तेन तु कालेन शोधितश्च यदा शिशुः || ८ || वह्वर्थकालेन विशोधितात्मा आत्मैव सपश्यति सर्वभूतान् | नमे समानो भुवनान्तराले विद्धस्य काले भवते ह्यकाले || ९ || कंपनं धूननं तस्य ईषद्घूर्मः प्रवर्तते | विषमूर्छागतस्येव तिष्ठते भृतकुम्भवत् || १० || पश्यते चाग्रतः सर्वं तत्वव्यापी सदोदितः | तत्क्षणान्मुच्यते विषयाज्जीर्णत्व च मिवोरगः || ११ || सदानन्द मदोन्मत्तः सर्वज्ञगुणभूषितः | शाम्भवेन तु विद्धस्य चिन्हेदं संप्रवर्तते || १२ || * ल * लेति यद्वेधेः संपूर्णस्तु घटो यथा | भूतान्ता शक्तिमंत्रादौ तथा ह्येवं प्रचक्षते || १३ || वेधदीक्षापरं नास्ति कथं साप्रत्ययात्मिका | प्रत्यये सति मोक्षोऽस्ति अन्यथा तु कथं भवेत् || १४ || शाम्भवेन तु वेधेन तत्क्षणाद्विषयोज्झितः | विषयोज्झितमात्रेण देहेनाएन मुच्यते || १५ || येन वेधेन विद्धस्य सुखस्वादो न विद्यते | स कथं वाथनिर्मुक्तो विषयेषु विरज्यते || १६ || शाम्भवेपि हि संप्राप्ते दर्पेणाकुलितः क्षणात् | आज्ञानन्दे समुत्पन्नेन गन्तव्यं गुरोः क्षणात् || १७ || भूतादिशाम्भवान्तानां वेधानां लक्षणं गुरुः | ज्ञात्वा दीक्षां पुरा दद्यात् सुभक्ते शिष्यके तदा || १८ || ततः स्वदक्षिणे हस्ते चन्दना गरु कुंकुमैः | प्. १५ब्) मण्डलं कारयेत् तत्र शुभं पद्मसमन्वितम् || १९ || धूपितं गुग्गुलैर्धूपैर्भावपूर्वेण देशिकः | शक्त्याशशिनः पूर्णं मण्डलान्तन्तु विन्यसेत् || २० || आसनं देवदेवस्यामृतीशस्य सुशोभनम् | तस्मिन्नावाहयेद्देवं सान्गं सगणमीश्वरम् || २१ || उन्मन्यन्तु नीत्वा वै मंत्रमुख्योप्यशक्तितः | पूजयित्वा तममलं म्हाभैरवरूपिणम् || २२ || मण्डलत्रितयोपेतं विद्युत्पुञ्जप्रकाशकम् | धूपैः सुचन्दनैः पुष्पैर्दूर्वाक्षत सुदीपकैः || २३ || नैवेद्यै विविधैश्चैव पूजितं सुप्रसन्नकम् | शिवं सान्गं तु संचिन्त्य मस्तके तु शिशोस्तदा || २४ || शिवह्रस्वं प्रदायेत् कं शिवात्मानं शिशुं स्मरन् | पुनस्तस्यैव हस्तेपि विधिना पूजयेच्छिवम् || २५ || ततः कर्णे तु शिष्यस्य मृत्युजिन्मंत्रमुत्तमम् | कथयित्वा विधानेन मंत्रात्मानं शिशोर्गुरुः || २६ || पञ्चात्पूजार्यये * * ममृतीशं महेश्वरम् | ततः पश्येद्गुरु हृष्टः शिष्यः प्रक्षिप्तपुष्पकम् || २७ || तत्पुष्पपातवर्ण * * * * * * पूर्वकम् | शिष्यस्य नामकरणं शिवामरप्रणान्तकम् || २८ || कुर्याद्विमुच्य नेत्राख्य पट्टं स्वर्णशलाकया | मूलविन्यस्तया पश्चादञ्चयेन् मूर्तिमंत्रतः || २९ || शिष्यस्यामलनेत्रत्वं जातमित्यनुसंस्मरेत् | पश्चात्सान्गामृतीशानं महाश्रीसहितं शिवम् || ३० || पूजार्पयेच्छिशुं यत्नाच्छिवकुम्भास्त्रवर्धनी | पश्चात्पूजार्पयेदग्निं ततो देवान्तिकं नयेत् || ३१ || नमस्कृत्य महेशानं शिशोर्भक्त्या समाहितैः | मूलेनाष्टोत्तरशतं हुनेद्वह्नौ तिलान्गुरुः || ३२ || न्यूनादिदोषमोषाय शिवहस्तस्थिराय च | दुर्निमित्तायनोदायान्तर्भावेन संयुतः || ३३ || तथा चात्राग्नेर्लक्षणाच्छिष्यस्य पापाऽपायं विजानीयात् | तदाह कंपते स्फुटते चैव विष्टागन्धे हविर्भुजे | स्फुलिन्गिन्यवनिस्पर्शे जानियात् पातकं शिशोः || ३४ || सुगन्धि गन्धसुस्पर्शस्निग्धावर्तः प्रदक्षिणः | प्. १६अ) तेजस्वी चानलः शस्तो जानीयाच्च शिशोः शुभम् || ३५ || अग्नेर्लक्षणमेवं हि ज्ञात्वादौ कल्मषं शिशोः | अस्त्रेणाष्टोत्तरशतं जुहुत्तिलमुत्तमम् || ३६ || पश्चाद्गुरुर्दक्षणीयः स्वर्णभारैः सुविष्टरैः | माणिक्यमुक्ताखंचितैरलंकारैश्च ह्यद्भूतैः || ३७ || नवरत्नमयैर्दान्तैस्तथा वैरत्नपादुके | हैमं सिंहासनं छत्रं दत्वा वै चामरे शुभे || ३८ || मणिकुक्ता स्वनागेन्द्र उष्ट्रमेषगवादिभिः | क्षेत्रग्रामादि विषयैर्मण्डलैश्च शुभैर्वरैः || ३९ || यत्कृते तोषमायाति सहितस्य प्रदापयेत् | गुरौ तत्सर्वथादेयं वित्तशाठ्यं विना शिशुः || ४० || गुर्वायत्तं यतः सर्वं कालाग्न्यादि शिवान्तकम् | तेन तुष्टे भवेत् तुष्टः साक्षादमृतमीश्वरम् || ४१ || शिवश्चाचार्यरूपेण विश्वानुग्रहकारकः | तस्मान्न मानवीं बुद्धिं कारयेद् देशिकं प्रति || ४२ || इत्यागमवचनात् || अथ यो गुरुः सशिवः प्रोक्तो यः शिवः सगुरुः स्मृतः | संसारार्णवमग्नानां तारकः परमेश्वरः || ४३ || समार्यः ससुतः पश्चात् सभृत्यवलवाहनः | शिष्यः प्रहृष्टमनसा गुरोरग्रे निवेदयेत् || ४४ || आत्मना मनसा वाचा कर्मणा च विशेषतः | दासत्वेन शरीरादि गृहाणेदं हि मद्गुरो || ४५ || ह्युश्रूषार्थं गृहाणेश दीनमार्तभवार्णवात् | करावलम्बनं दत्वा मामुद्धृतमचेतनम् || ४६ || महापातकिनां चैव तथा संसारभीरुणाम् | त्वमेव शरणं स्वामिन् तृषार्तानां यथा जलम् || ४७ || दण्डप्रणामशतकैर्विज्ञाप्य स्वगुरुं शिशुः | शरीरं प्राणमर्थं च सद्गुरुभ्यो निवेदयेत् || ४८ || इति सर्वतत्वोपलक्षित परचिद्वेधनिर्वाणदीक्षाविज्ञानमयी गुरुदक्षिणान्तं कथिता || ततश्च समयश्रावणं कथ्यते || यथा | समयाश्रावयेत् पश्चादागमे कथितं यथा | भक्तिप्रह्वस्य शिष्यस्य गुरूणाभूगतस्य च || १ || शिवभक्तिं दृढां कुर्याद्गुरौ वह्नौ शिवागमे | अनन्यभावतो भावमाह्निकं नैव लोपयेत् || २ || प्. १६ब्) कारणेशान्ननिन्द्यात्तु नेक्षेन्नग्नां परस्त्रियम् | न जातु कुत्सितं ब्रूयादनिच्छन्तीं न कारयेत् || ३ || न प्राणिनं जिघांसेत विवदेन्नेतरैः सह | देशनिन्दा न कर्तव्या शिल्पिनेन तिरस्करेत् || ४ || समयाचारहीनानामागमान्तरसेविनाम् | शिवनिन्दापराणां च संगतिं नैव कारयेत् || ५ || गुर्वग्रे द्यूतमिथ्योक्तिरन्कमो * विजृम्भणम् | हास्यमुष्णीशकरणं यानवाहनसेवनम् || ६ || लालनन्तु अपत्यानां नारीमुखनिरीक्षणम् | मण्डनं दर्पणा लोकमुत्तर्वनम सौष्टवम् || ७ || ताम्बूलभक्षणं चैव च्छुरिकाशस्त्रधारणम् | मूर्धापिधानं वस्त्रेण सन्निकर्षोपवेशनम् || ८ || य * र्यष्टिकाबंधनं च योगपट्टोपवेशनम् | एतानन्यानपि तथा वर्जयेत् सर्वथा शिशुः || ९ || दूरस्थं निकटस्थं वा दर्शने दर्शने सदा | दण्डप्रणामके नैव स्वगुरुं प्रणमेच्छिशुः || १० || कर्दमोपमशुद्धोयमश्मालोष्ठं च भूतलम् | विचारणात्रनो कार्या प्रणमेद्दर्शने गुरोः || ११ || ससंभ्रमं समुत्थाय गच्छन्तं पृष्टतो व्रजेत् | दृष्ट्वा गुरुं प्रयत्नेन विनीतः प्राञ्जलिः शिशुः || १२ || दर्शनात् स्पर्शनान्नित्यं तथा संकीर्तनात् | गुरोः पापक्षयं याति ध्यानाच्छैव महच्छिशोः || १३ || गुरुभक्तन्तु सच्छिष्यमनुगृह्णन्ति देवताः | यक्षाविधाधराश्चैव तथा किं पुरुषादयः || १४ || तस्मात् सर्वप्रयत्नेन गुरुं शरणमाश्रयेत् | गुर्वायत्ते यतः सर्व त्रैलोक्यं स चराचरम् || १५ || इत्थं संक्षिप्तसमयं श्रुत्वा शिष्य प्रणम्य च | गुरुं सर्वात्मभावेन पश्चाद्दिनान्धपूजनम् || १६ || भोजनैर्वरवस्त्रैश्च तथा दक्षिणयापि च | कुर्यात्तपस्वि विप्राणां नटगायनकेषुअ च || १७ || पुष्पाञ्जलिं समुद्धृत्य त्रिधा कृत्वा प्रदक्षिणम् | गुरवे परमेशाय स्वात्मानं विनिवेदयेत् || १८ || ये चान्ये गुरुसंतान क्रमिकाः पूर्वदीक्षिताः | गुरुवस्तेपि विज्ञेयाः सुसम्मान्या गुरुर्यथा || १९ || कनिष्ठाभातरा प्. १७अ) ये च ये चान्ये भ्रातृपुत्रकाः | समान्यायोग्यतामीक्षते ज्ञानाऽज्ञादिभिः क्रमात् || २० || समयः सर्वथापाल्यः शास्त्रे शास्त्रे स्थितो यथा | तन्मूलाः सिद्धयः सर्वाः सर्वत्रैव व्यवस्थिताः || २१ || समयानां विलोपेन शास्त्रलोपकृतम्भवेत् | शास्त्रलोपे कृते लुप्तः स्वयं देवो महेश्वरः || २२ || विलुप्ते परमेशाने संस्कारादि विलुप्यते | ततो विलुप्तसंकारो नरकादिषु पच्यते || २३ || अतो न समयत्यागः प्राणान्ते च समाचरेत् | समयस्थं समायान्ति निवासायां हि सिद्धयः || २४ || कुपितंः पातयेच्छैलाञ्छोषयेज्जलधीश्वरान् | स्फोटयेच्छैलवृक्षांश्च समयाचारपालनात् || २५ || स्नाने देवार्चने रोगे मुक्तकेशे शयानके | प्रणमेन्न गुरुं शिष्यः कायेन मनसा नमेत् || २६ || आवश्यके तु तैलाक्ते भोजने रति संगतौ | वपने वमने चैव प्रणमेन्न गुरुं शिशुः || २७ || नैवोपवेश्यमग्रे तु शिरःस्थाने तथोच्चके | गुरोरग्रे तथैकान्ते विप्ण्वधस्ताद्गुरौ स्थिते || २८ || गुर्वालये तु संप्राप्ते दूरादकृतमण्डनः | द्वारमादौ प्रणम्याथ प्रविशेत् संयतः शिशुः || २९ || यथा सिद्धरसस्पर्शात्ताम्रं भवति कांचनम् | तथैव गुरुसंस्पर्काच्छिशोः पापक्षयम्भवेत् || ३० || गुरोः पाद समीपे तु सेवनीयं शिशुः सदा | बहुप्रलापन्नवदेद्वदेत्युक्ते तु संवदेत् || ३१ || आदिष्टे गुरुणा कार्यं स्वयं कुर्वीत नान्यतः | पादप्रक्षालनं स्वापं तथा पाद प्रसारणम् || ३२ || कर्तनं नखकेशानां वर्जयेद्गुरुसन्निधौ | अनुज्ञां प्राप्य वा कुर्याद्गुरुदृष्टेरगोचरम् || ३३ || या नारीकामितां पूर्वं प्रसन्गाद्गुरुणा भवेत् | मनसापि न शिष्येण कामितव्या स्वमातृवत् || ३४ || पाण्डित्यातिशयान्मानाद्रूपद्रविणवर्धतः | गुरुणा सह वाग्वादं कदाचिन्नैव कारयेत् || ३५ || गुरोः शक्त्यां च पीठं च पादुकोपानहे तथा | डोला च वाहनं चैव गुरुवत् पूजयेत् सदा || ३६ || प्. १७ब्) सेवार्थमागते धाम्नि वहिःक्वापि गते गुरौ | तत्सम्भुक्तोपकरणां तद्वत्संपूजयेच्छिशुः || ३७ || तद्भार्भा तत्सुते चैव तद्भातरि च मित्रके | तद्बन्धुवर्गे तु भृशं गुरुवद्वत्तयेत् सदा || ३८ || प्रणमेत् तु यदा देवं स्वगुरुं वा गुरुर्यदा | तदा स्वयं च प्रणमेद्गुरोर्भक्तिं विदर्शयेत् || ३९ || गुरुणा कथिते किंचिद्ब्रूपादादेशपूर्वकम् | जी उ इत्यपि ब्रूयाद्वि * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * | योन पालयते भक्त्या समयाचारमल्पधीः || सयाति नरकं घोरमित्याज्ञापारमेश्वरी || ५३ || कुम्भीपाके महाघोरे असिपत्रवने तथा | अवीची रौरवे चैव प्रज्वलन्ताम्र मन्दिरे || ५४ || प्. १८अ) इत्येवमादि नरके सप्तकोटि समुद्भवे | पच्यते भुवनं यावद्गुर्वाज्ञालोपने कृते || ५५ || एन दण्डे तथा युद्धे मार्गे चौराकुले गुरोः | प्राणसंकटके प्राप्ते स्वप्राणान्तेत्र मुञ्चयेत् || ५६ || रुद्राक्षैर्भस्मना वापि शिवचिह्नैः सुचिह्नितम् | गुरुवत् पूजनीयो स्यैकमप्यागतमादरात् || ५७ || न पृच्छेदागतं वेश्म कुल विद्याभिधानकम् | नरके शोयमव्यग्रं ध्यात्वा भु * पयेत् सुखम् || ५८ || अथवा | समं सर्वमिदं बोद्ध्यं त्रैलोक्यं स चराचरम् | शिवशक्त्योर्यतश्चिह्नैर्व्यञ्जितं संप्रदृश्यते || ५९ || तस्मान् माहेश्वरं सर्वं ध्यायेत् तु लक्षकः सुधीः | अतः संपूजयेत् सर्वं तत्वव्रातं तदाश्रयेत् || ६० || क्रोधोमदश्च मानं च नैवाग्राह्याः कदाचन | बाह्यलिन्गपुराभ्यर्च्य पश्चादभ्यन्तरं यजेत् || ६१ || यतः | विहीनाग्नौ यथा कुण्डे भस्मयुक्ते हुतम्भवेत् | तथा वै भक्तिहीनस्य शिवपूजा निरर्थकम् || ६२ || इति शिष्यस्य समयाचार श्रावणप्रकरणम् || उक्ता पुरातु षड्विंशत्तत्वदीक्षा यथाक्रमम् | पश्चात् पंचकलादीक्षा नवतत्वात्मिका पुनः || १ || तत्वत्रयात्मिका चैव दीक्षानिर्वाण दायिका | तथैकतत्विका चैव दीक्षामोक्षा लया शुभा || २ || एवं क्रियावतीं कृत्वा पुरा वै लोक सम्मताम् | गद्य भंग्या तु कथितां भक्तियुक्ते तु शिष्यके || ३ || पश्चाज्ज्ञानवतीं कुर्यात् षट्सद्वेधविदर्शिताम् | कथितां पद्मभन्गेन जीवन्मुक्तिं प्रदायिकाम् || ४ || नेत्रोद्योतमिदं दीप्तमज्ञानतिमिरापहम् | भुक्तिमुक्तिप्रदं श्रेष्ठं देशिका चर्चयन्त्विदम् || ५ || अमृतीशस्य देवस्य नेत्रोद्योतन्तुटिप्पणम् | कुलाकुलसमुद्भूतं ज्ञानदीक्षासुबोधितम् || ६ || इत्थं मया विरचितं तु महेशदीक्षा सट्टिप्पणं स्वहृदये विधिवद्विचिन्त्य | तस्मात् सुचिंत्य हृदये कलुषं विहाय संचचयन्तु निपुणं वरदेशिकास्तत् || ७ || प्. १९) भैरवस्यामृतीशस्य दीक्षाट्टिप्पणकं स्फुटम् | विश्वेश्वरेण रचितं सज्जनाष्वर्यन्त्विदम् || ८ || मात्सर्यमुत्सार्यविचार्ययुक्त्या सद्भिः सहालोच्य महेशदीक्षाम् | विश्वेश्वरेण रचितां वरदेशिकास्तां सम्यक् प्रबुद्धमतिना खलु चर्ययन्तु || ९ || मया स्वभक्त्युल्लासेन कृतं दीक्षासुट्टिप्पणम् | शर्वः सर्वं न जानाति तस्मात् क्षमथदेशिकाः || १० || तथापि | विश्वेश्वरः सकलतत्वमहाभ्यगर्भं देवस्य चन्द्रशिरसः खलु तत्वमूर्तेः | दीक्षाक्रमं सकलशैवमहार्थशास्त्रं ज्ञानप्र * मतिनारचितं मयै तत् || ११ || योजानातिकुलक्रमं परपदं शैवं तथा गारूडम् | वैनायक्य पदं च चाण्डमतकं सौरं च विश्वेश्वरः | श्रीचन्द्रामृतभैरवस्य विधिना दीक्षाक्रमं तात्विकं शम्भोर्वक्त्रसमुद्भवा गमधिया तेनैव तन्निर्मितम् || १२ || इति शिवसप्तस्रोतागमगणाभिप्रायादुद्धृतामृतीशनेत्रोद्योता-ऽप्रतिहतमहादि इक्षासुटिप्पणकं समाप्तम् || ########### END OF FILE #######