#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00615 Uniform title: anādivīraśaivasaṅgraha Description: Notes: Text selected by Dr. Elaine Fisher and funded by a fellowship awarded to Dr. Fisher by Stanford University. Data entered by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: March 27, 2022 Publisher : vīraśaivaliṅgibrahmaṇagranthamala Publication year : 1905 Publication city : Solapur Publication country : India #################################################### वीरशैवलिंगिब्राह्मणधर्मग्रंथमाला ग्रंथ १९ वा. अनादिवीरशैवसारसंग्रह भाग १ ला. वेदमूर्ति, मणूर मठाध्यक्ष मल्लिकार्जुनशास्त्री शके १८२७, सन् १९०५ संस्कृत शुद्धिपत्रक पृष्ठ पंक्ति अशुद्ध शुद्ध २३ ५ षड्विधानं षड्विधानां २४ ८ तथैवैक्यादि भक्तांते तथैवैक्यादिभ ३९ ११ घष्टेः घृष्टेः ४४ ८ तमसा नमसा ४४ ९ महीम्नि महिम्नि ४७ २ सोख्यदं सौख्यदं ४८ ११ उभयोलिंग उभयोर्लिंग १३२ ७ चेतोविहंगशिव चेतोविहंग शिव १३२ ८ काम कामः १३२ १० वृक्षोरूढ वृक्षो रूढ १३९ ११ उपविष्ठे उपविष्टे १४८ ३ हरिणी पाद हरिणीपाद १५० ८ वलीपलित खा वलीपलितखा १५१ ९ र्जीयते र्जीयते १५५ ६ खट्वा मात्र खट्वामात्र १६१ ३ कठवल्योप कठवल्युप पृ० १) || ओं अथ अनादिवीरशैवसारसंग्रहप्रारंभः || || प्रथमप्रकरणम् || श्रीगुरुबसवलिंगाय नमः | श्रीगुरुप्रभवे नमः | श्रीगजाननाय नमः | श्रीशिवाय नमः | श्रीगुरवे नमः | ओं सर्वमंगलायै नमः | अनादिवीरशैवसारसंग्रहलेखनस्य भद्रं भूयात् | ओं नमः श्रीवृषेंद्रायानादिभक्तस्वरुपिणे || शिवाष्टावरणांगाय षट्स्थलाध्वप्रवर्तिने || १ || जयतु बसवराजः स्थौल्यनैर्मल्यपूजः प्रमथगणसमाजप्रोल्लसद्भक्तिनैजः || प्रहृतविनमदार्तिः स्फायदाम्नायपूर्तिः स्थिरदिगमितकीर्तिः श्रीवृषाधीशमूर्तिः || २ || पीठिकासूत्रस्थलम् अथर्वणे श्रुतिः- ओं भक्तिः साक्षाद्वृषस्थमात्रमिति ब्रह्मणि स्थितमिति भक्त्यास्तद्वीजमेव्नानादिवृषणाह्वयमिति भक्तिकर्मानीषादृढप्रत्ययचतुरः पादसंज्ञका इति सदा सत्यस्य मुख्यं तदभिमुखः सदानत पृ० २) एव शिरो भवति अपेक्षोपेक्षतद्बालांकुरोन्मूलनकठिनाग्रशृंगादित्यविच्छिन्ना पारान्तर्नादबहिर्नाद एव श्रवणौ इत्यविच्छिन्नापारान्तः सुप्रेमहृदयान्तर्दृगादीति दृशो इत्यविच्छिन्नापारान्तर्निजब्रह्मवासनासौरभ्यमेव घ्राणमित्यनादिरुचिस्तदैवापि नवनवमिव रौच्यमिव जिह्वामिति सदा ब्रह्मवादिनो वदन्ति वागिति व्रह्मनिर्वहणभारवाहत्वमेव पश्चाद्भाग इति ब्रह्मस्वमहिमावलोडनावलंबनकंदहृदयमित्येव तद्गर्भीकृतमेवोदरं स्वरुपं नभमिव नाभिरिति सदा ब्रह्मगामिति गुह्यमित्यलौकिकस्थितिरेव पृष्ठं स्वावलंबनेन पारं तरतीति पुच्छमिति सदा ब्रह्मविभवावधारणमेव ललाटवैभवमिति वृषस्वरूपापारमहिमा सच्चिदानंदस्वरूपं भवति || ३ || धर्मस्त्वं वृषरूपेण जगदानंदकारकः || अष्टमूर्तेरधिष्ठानमतः पाहि सनातन || ४ || पृथिव्यां यानि तीर्थानि सागरान्तानि तानि तु || अंडमाश्रित्य तिष्ठन्ति प्रदोषे गोवृषस्य तु || ५ || पृ० ३) इष्टदेवतानमस्काररूपमंगलम् वृषस्य वृषणं स्पृष्ट्वा शंकरस्यावलोकनात् || सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति || ६ || लैंग्यै ऋषिरुवाच- तुष्टुवुश्च गणाध्यक्षं वाग्भिरिष्टप्रदं प्रभुम् || यथा देवा भवं दृष्ट्वा प्रीतिकंटकितत्वचः || ७ || नियोगाद्वज्रिणो मूर्ध्नि पुष्पवर्षं बलाहकाः || ववर्षुश्च सुगंधाढ्यं नंदिनो भृंगनादितम् || ८ || वृष्ट्या स्पृष्टो तदा रेजे तुष्टस्पृष्टो यथांऽबया || नंदी भवश्चाद्रिजया स्नातया गंधवारिणा || ९ || पुष्पैर्नानाविधैस्तत्र भाति पृष्ठं वृषस्य यत् || संकीर्णं तु दिवः पृष्ठं नक्षत्रैरिव सुव्रताः || १० || शिवभक्त्यमृतास्वादचेतसे शिवजन्मने || नमः श्रीनंदिनाथाय शंकरापरमूर्तये || ११ || नमो बसवराजाय वृषेंद्रापरमूर्तये || चरार्चनैकनिष्ठाय शिवाचारप्रवर्तिने || १२ || वृत्तम् || जित्वा बिज्जलभूमिपालकुटिलव्यापारंपरं सप्ताहानि रविं पृ० ४) रुरोध तरसा यो वीरशैवाग्रणीः || चिद्दृष्ट्या तृणपूरुषेण विमुखीचक्रे च मीमांसकं तं वंदे वसवेश्वरं परशिवाकारं परं दैवतम् || १३ || ईश्वर उवाच- वकारो गुरुरूपं च सकारो लिंगमेव च || वकारश्चररूपं च त्रिविधं बसवाह्वयम् || १४ || वकारो नादरूपं च सकारो बिंदुरूपकः || कलारूपं वकारः स्यात्त्रिवर्णं बसवाक्षरम् || १५ || भक्तमुक्तविरक्ताश्च बसवेत्यक्षरत्रयम् || सदा भक्त्या जपेयुस्तत्पापतूलाग्निसन्निभम् || १६ || यस्य वक्त्रे स्थितं देवि बसवेत्यक्षरत्रयम् || वसामि सततं तत्र सत्यं सत्यं न चान्यथा || १७ || शिवतत्वामृतास्वादचेतसे योगिने नमः || श्रीचन्नबसवेशाय षट्स्थलब्रह्मवादिने || १८ || बसवेशादिसर्वेषां गणानां ज्ञानदायिने || योगींद्राय नमस्तस्मै प्रभवे शिवमूर्तये || १९ || शिवयोगामृतांभोधिमग्नमानसवृत्तये || नमः श्री सिद्धरामाय भक्तसंपत्प्रमोदिने || २० || पृ० ५) इष्टदेवतानमस्काररूपमंगलम् भक्तान् स्वलाभसंतुष्टान् साधून् भूतसुहृत्तमान् || निरहंकारिणः शांतान् नमामि शिरसाऽसकृत् || २१ || श्कांदे शंकरसंहितायाम् - वृत्तम् || वत्सैते गणनायकाः क्षितितलं गत्वा नियुक्ता मया संभूतास्सकलासु जातिषु पुनर्लिंगार्चनातत्पराः || संस्थाप्योत्तरवीरशैवपदवीं लोके हितार्थं नृणां मुद्राः पंच वहंत एव विचरंत्यन्ते समेष्यन्ति माम् || २२ || यदा यदा प्राणशिवैक्यभाजां हानिर्भवेद्भूमितले च सम्यक् || तदा तदा मर्त्यकुले गणेशाः संभूय कुर्वन्ति हि धर्मसंस्थाम् || २३ || गुरुचरणं भवहरणं शरणहृदाभरणमात्मसुखकरणम् || मरणभयादुत्तरणं तरुणारुणकिरणवरणमहमीडे || २४ || त्रियंबक विरूपाक्ष सोम सोमार्धभूषण || त्रैतानेत्र त्रयीनेत्र सोमसूर्याग्निलोचन || २५ || नमस्ते देवतानाथ नमस्ते दिव्यमूर्तये || पृ० ६) सर्वज्ञाय नमस्तुभ्यं पशूनां पतये नमः || २६ || श्कन्दपुराणे अगस्त्य उवाच - शिवाय शिवतत्वाय विद्यातत्वाय ते नमः || आत्मतत्वाय निर्बीजबीजिने बीजयोनये || २७|| श्रीमदैपुरसोमेशलिंगायालिंगरूपिणे || लिंगांगैक्यस्वलिंगाय नमस्ते लिंगमूर्तये || २८ || वातुले नमः शब्द उमा साक्षाच्छिवशब्दः शिवः स्वयम् || अयं शब्दस्तयोर्योगः सोमं तं समुपास्महे || २९ || शिवो लिंगमुमैवांगमनया सहितस्त्वयम् || सोमः संबंध इत्येवं पदत्रयमुपास्महे || ३० || गुरुरुवाच - अथातः षट्स्थलब्रह्माख्योपदेशविधिं परम् || प्रवक्ष्यामि विशेषेण शिवसिद्धान्ततंत्रजम् || ३१ || पुरा यथोपदिश्योक्तं षट्स्थलब्रह्मशंभुना || षण्मुखायोपदिष्टार्थं तथैवेहाधुनोच्यते || ३२ || वातुले पार्वत्युवाच - स्वामिन्मत्कृपयार्द्रात्मन् याचे प्रश्नं जयावहम् || पृ० ७) शिवसिद्धान्ततंत्रकथनम् तं वद त्वं महादेव मे घनं संशयं हर || ३३ || शिव उवाच - साधु पृष्टं त्वया देवि सर्वानंदकरं परम् || तं वदामि महार्थं ते निर्वाहकरमव्ययम् || ३४ || वृत्तम् || अपसरति विरक्त्या सौख्यमेकान्तभद्रे न च हरति स दुःखं स्वाविरक्त्याऽत्र चित्रम् || अनकलमिदमार्यो ज्ञानशान्तं विमृश्य प्रमथपतिरिदं यो विन्यसेदात्मभावे || ३५ || गुह्याद्गुह्यतरं चेदं न देयं यस्य कस्य चित् || भक्तसेव्यात्मशिष्यस्य विरक्तस्य महामते || ३६ || वातुले अप्रकाश्यमिदं तंत्रं रहस्यमतिदुर्लभम् || शिवज्ञानमहातंत्रं संक्षेपाद्वक्ष्यते मया || ३७ || गुह्याद्नुह्यमिदं तंत्रं सर्वशास्त्रसमुच्चयम् || सूक्ष्मात्सूक्ष्मतरं सारं सारात्सारं महोदयम् || ३८ || श्रुतिस्मृतीतिहासैश्च शिवधर्मादिशास्त्रकैः || कथ्यते शिवसिद्धान्ततंत्रं षट्स्थलनिर्णयम् || ३९ || पृ० ८) शिवागमैः शिवाद्वैतरहस्यैः पारमार्थिकैः || कथ्यते शिवसिद्धान्ततंत्रं षट्स्थलनिर्णयम् || ४० || सर्वैरुपनिषद्वाक्यैः पुराणैरुत्तरार्थकैः || कथ्यते शिवसिद्धान्ततंत्रं षट्स्थलनिर्णयम् || ४१ || गीतसारैः समस्तैश्च पुरातनमहामतैः || कथ्यते शिवसिद्धान्ततंत्रं षट्स्थलनिर्णयम् || ४२ || गुरूक्त्या स्वानुभूत्या च तर्कतश्च प्रमाणतः || कथ्यते शिवसिद्धान्ततंत्रं षट्स्थलनिर्णयम् || ४३ || वृत्तम् || गुरुचरशिवमूर्तीनां त्रयाणाममीषां निरतिशयकृपावाप्तप्रसादानुभूत्या || वरपरमरहस्यं श्रीमदाचार्यशिष्योत्तरघनतरसंवादार्थयुक्तं मयोक्तम् || ४४ || एतेषामेव सर्वार्थसारमादाय सादरम् || शिवोक्तं शिवसिद्धान्ततंत्रं वक्ष्ये समासतः || ४५ || वृत्तम् || वृषेंद्रमुख्य भक्तपुंगवांघ्रिपंकजं मुदा प्रणम्य सिद्धवीरणाख्यवीरशैवयोगिराट् || अहं करोम्यनादिवीरशैवसारसंग्रहं श्रुतिस्मृतिप्रशस्तमाद्यगीतसारसंग्रहम् || ४६ || पृ० ९) सप्तविंशतिस्थलनामानि अथातश्चानादिवीरशैवसारसुसंग्रहे || स्थलान्यत्र निगद्यन्ते सप्तविंशतिभेदतः || ४७ || प्रथमं पीठिकासूत्रमनादि भक्तलक्षणम् || द्वितीयमादिरहितजंगमस्थलमुत्तमम् || ४८ || तृतीयं शून्यलिंगस्य स्थलं विद्याच्चतुर्थकम् || पंचमं निष्कलाख्यस्य लिंगस्य स्थलमुच्यते || ४९ || महालिंगस्थलं षष्ठं प्रणवाकृतिलिंगकम् || सप्तमं विश्वजननस्थलमष्टममुच्यते || ५० || पिण्डस्थलं तु नवमं दशमं पिण्डचित्स्थलम् || संसारहेयभागेकादशस्थलमुदाहृतम् || ५१ || गुरुकारुण्यकं ज्ञेयं द्वादशं लिंगधारणम् || त्रयोदशं देशिकस्य महत्वं तु चतुर्दशम् || ५२ || पंचादशं स्वेष्टलिंगमाहात्म्यं षोडशं भवेत् || चरलिंगस्य माहात्म्ययुतं सप्तदशं भवेत् || ५३ || प्रसादस्य च माहात्म्यमष्टादशकमुच्यते || पादोदकमहत्वं च नवादशमुदीर्यते || ५४ || भस्ममाहात्म्यरुद्राक्षमहत्वं विंशति स्मृतम् || एकविंशति विख्यातं पंचाक्षरमहत्वकम् || ५५ || द्वाविंशतिर्भवेद्भक्तस्थलं माहेश्वरस्थलम् || त्रयोविंशतिराख्यातं चतुर्विंशतिसंयुतम् || ५६ || प्रसादिस्थलमत्रैव पंचविंशति कीर्तितम् || प्राणलिंगिस्थलं षड्विंशतिरत्र निगद्यते || ५७ || शरणस्थलमैक्यस्य स्थलं स्यात्सप्तविंशतिः || एतेषां चित्क्रियामार्गं दर्शयिष्यामि सांप्रतम् || ५८ || पीठिकासूत्रम् || पृ० १०) अनादिवीरशैवषट्स्थलज्ञानसारसंग्रहपरिक्रमः कथमिति चेत् || पीठिकासूत्रम् - श्रीमत्सकलब्रह्माण्डभाण्डपिण्डगर्भगर्भीकृतविश्वान्तर्गतविश्वव्य आपिनिरवयवनिरालनिरामयनिरालंवनिःशून्यनिरंजननित्यपरिपूर्णसच्चि दानंदमयः अनादिपरशिवः जगद्व्यवहारमायासंकल्पमार्गयुतकांडत्रयनिवृत्तिं कृत्वा स्वाभाविककर्मभक्तिज्ञाननिष्ठारूपमनादिवीरशैवषट्स्थलज्ञानसा रं प्रतिष्ठाप्य सर्वात्मनोऽप्येकजन्मन्येव नित्यमुक्तान् कर्तुं साक्षाच्छंभुर्गुरुनाम्नाऽभूत् || तत्सद्रुरुमूर्तेर्दिव्यज्ञानानंदकरकमलजातसुज्ञानपरनामा शिष्यस्तस्मै सद्रुरवे विज्ञापयन् सन् भो सद्रुरो भवदीयकरुणाकटाक्षवीक्षणेन षट्स्थल ब्रह्मांगलिंगसंगसुखी भूत्वा सद्योमुक्तो भवाम्यहम् || हे सद्रुरो इतः - परमप्येकः संशयो मे प्रतिभाति अयं संदेहीति मां न हित्वा कृपया मम संदेहनिवारणं कुरु तत्कथमित्युक्ते केचन शैवदर्शनस्थाः आदि- पृ० ११) पीठिकासूत्रस्थलनिरूपणम् वीरशैवमनादिशैवं पूर्ववीरशैवमुत्तरशैवमिति वदन्ति || तदीयभेदान् निश्चित्य संदेहनिवारणं यथा भवति तथा निरूपयेत्युक्ते स सद्रुरुमूर्तिः परमहर्षितः सन् भो शिष्य त्वया पृष्टः प्रश्नः सर्वलोकोपकारको भवति एतज्ञ्ज्ञात्वा गुरुचरभक्तविरक्ताः परमानंदनिजनिरवयवपदं प्राप्य नित्यसुखिनो यथा भवेयुस्तथा अनादिवीरशैवषट्स्थलज्ञानसारं वदामः स्थिरचित्तः सन् श्रृणु || इतःपरं वीरशैवं महाश्रेष्ठमिति शिववाक्यं वर्तत इति कृत्वा अनादिपरशिव इत्युक्तेऽपि लिंगांगसंबंधज्ञानाचारयुक्तवीरशैव इत्युक्तेऽपि महालिंगतत्वं स्वयमेव भूत्वा तद्धनमहालिंगं स्वयमेव द्विधा भूत्वा लिंगांगभक्तजंगमरूपं भूत्वा स्वयमेव आराध्य आराधकं सत् अद्वितीयत्वाद्वीरशैवमनादिसदुत्तरमासीत् || तेन निरवयवमहालिंगेन परशक्ति परनादबिंदुकलाः एकीभूत्वा सदाशिवमूर्तेरभवन् तस्य सदाशिवस्य पंचमुखैर्दीक्षिता गौतमादिपंचमुनयः आदिशैवमहाशैवादिषट्शैवानि पृ० १२) पीठिकासूत्रस्थलनिरूपणम् भूयोऽपि शैवपाशुपता इत्युक्तानि शैवानि षट् पूर्वशैवमार्गशैवशुद्धशैवमिति शैवत्रयं एवं पंचदशविधानि शैवानि सदाशिवसंबंधीनि भूत्वा तिष्ठंति तत्सदाशिवमूर्तेः पंचवक्त्रपंचसादाख्यानां मध्ये कर्त्रादिचत्वार एव निष्कला भवन्ति कर्मसादाख्यमेव सकलं भवति तत्कर्मसादाख्यमेव पंचविंशतिनिर्गुणलीलास्वरूपमाहेश्वरमूर्तिरभूत् तन्माहेश्वरमूर्तिमुखभुजोरुस्थानेषु रुद्रविष्णुब्रह्माणोऽजायन्त तादृऽऽन्मूर्तित्रयमेव वैष्णवादिवेदान्तशैवानां मध्ये षड्दर्शनादिमतान्यभूवन्निति वीरशैवमेव अल्पक्रियया घनमुक्तिं स्वकीयान् प्रापयिष्यति शैवं तु बहुक्रिययाल्पफलं प्रापयिष्यति इतर मार्गानवलंब्य स्थितदर्शनानि नानापरिभवान् प्राप्य तिष्ठन्ति तस्माद्वीरशैवषट्स्थलमेवानादीत्युत्तरं सदा जननस्थितिमरणरहितं भवति शैवदर्शनादिन्येवाद्यन्तयुक्तानि अतेव पूर्वाणीति निजमुक्तिस्तेषां न भवतीति तानि शैवानि भवीनि भवन्ति अयं महाप्रसंगः वाक्यमात्रं न भवति महादेवेनेदमुमास्कंदयोर्निरूपितं अनादिवीरशैवषट्स्थलज्ञान- पृ० १३) पीठिकासूत्रस्थलनिरूपणम् सारश्चतुर्वेदद्वात्रिंशदुपनिषदष्टादशस्मृत्यष्टाविंशत्यागमाष्ट् आदशपुराणेतिहासादिषु पुरातनप्रमथगणभृंगिरिटिघंटाकर्णसुकेशरुरूपमन्युभृगुदधीचि गौतमादिऋषिभिश्च सम्यक्प्रणीतः इमं श्रृण्विति वदन् सदमलानंदमूर्तिस्सद्रुरुः सकलवेदागमपुराणशास्त्रशिवरहस्यादिषु सारग्रंथानादाय सप्तविंशतिस्थलानि कृत्वा संगृहीतवान् तत्कथमिति चेत् सूक्ष्मदर्पणे स्थूलगजो विलीय दृश्यमान इव एषु सूक्ष्मस्थलेषु एकोत्तरशतस्थलानि विलीय तिष्ठन्ति अयमनादिवीरशैवषट्स्थलज्ञानसारः सप्तविंशतिस्थलैः सह यथा भवति तथा तिष्ठति तेषु अनादिभक्तस्थलाद्यैक्यस्थलान्तानि षड्विंशतिस्थलानि वीरशैवनिर्देशविवरणस्थलेन सह सप्तविंशतिस्थलान्यभूवन् || प्रथमे वीरशैवनिर्देशविवरणम् निष्कल एव गुरुः शून्यमेव लिंगं निरंजन एवावादिजंगमः एते गुरुर्लिगजंगमा एव स्थूलसूक्ष्मकारणांगमूर्तिः अनादिभक्तः सोऽयमनादिभक्तः स्वतनुप्राणचैतन्यस्वरूपमहावस्तु सेवितुम- पृ० १४) साध्यमिति संभाव्य स्वलीलया स्वयमेव द्विविधो भूत्वा स्वयमेव स्वयं पूजयितुं गौरवमिति स्वयमेव गुरुलिंगजंगमत्रिविधमूर्तिः स्वयं भूत्वा निष्कलगुरुरेव नादः शून्यलिंगमेव बिंदुः अनादिजंगम एव कला एतन्नादबिंदुकलान्विताखंडगोलकाकारतेजोराशिमहालिंगमभूत् तन्महालिंगमेव षट्स्थललिंगांगसंगी वीरशैवो बभूव || तत्कथमिति चेत् || विशब्देनोच्यते युक्तिः र शब्देन रजोमतम् || व शब्देनेर्यते बिंदुः श शब्देन चिदीरिता || १ || यथा हिसिधातोर्वर्णव्यत्ययेन सिंहशब्दो निष्पन्नस्तथा वशकान्ताविति धातोः वर्णव्यत्ययेन शिवशब्दो निष्पन्नः शिव एव शैवस्तत्र स्वार्थेऽण्प्रत्ययः || कूटस्थगोलकाकारं लिंगं शकारो भक्तरूपश्च इत्युक्तत्वात् वीरवशेति वर्णचतुष्टयबीजमेव लिंगभक्ता भूत्वा वीरशैवमिति नाम बभूव तत् पंचाक्षरीप्रणवं षडक्षरसदनं एकाक्षरलेखाभावालेखं तत्कथमिति चेत् || लिंगं पंचाक्षरीरूपमिति वचनात् पंचाक्षरमेव लिंगं भक्तः षड्वर्णैकरूप इत्युक्तत्वाच्च || पृ० १५) पीठिकासूत्रस्थलनिरूपणम् ईश्वर उवाच - ओंकारो वदनं देवि नमः कारौ भुजद्वयम् || शिकारो देहमध्यं तु वायकारौ पदद्वयम् || इति षड्वर्णरूपं च भक्तरूपं मयोदितं इति अनेन षडक्षरेण द्विपंचाशदक्षराणि एतदक्षरातीत एव अवाक्जप्रणवः एवं पंचाक्षरषडक्षरैकाक्षराण्येव तत्वत्रयस्वयचरपरसुमुद्राः भूत्वा एकमेवाद्वितीयं ब्रह्म वीरशैवमासीत् तत्कथमिति चेत् || ९० || उत्तरवातुले एकमेवाद्वितीयं यदविकल्पं परं पदम् || तद्वीरशैवमित्युक्तं नेतरं सविकल्पकम् || ९१ || एक एवायमेतस्मात्सर्वस्मिन् जगतीति यः || विशिष्ट ईर्यते यस्माद्वीर इत्यभिधीयते || ९२ || ईश्वर उवाच - एकमूर्तिस्त्रयो भागा गुरुर्लिंगं च जंगमः || जंगमश्च गुरुर्लिंगं त्रिविधं लिंगमुच्यते || ९३ || बिंदूपनिषदि नादबिंदुकलारूपं गुरुर्लिंगं तु जंगमम् || नादश्च गुरुरूपाख्यो बिंदुरूपं तु लिंगकम् || कलारूपं चरं ज्ञेयं सर्वशास्त्रेषु कथ्यते || ९४ || ईश्वर उवाच - नादो गुरुमुखं चैव बिंदुर्लिंगमुखं तथा || कला चरमुखं ज्ञेयं गुरुर्लिंगं तु जंगमम् || ९५ || पृ० १६) नादो लिंगमिति ज्ञेयो बिंदुः पीठमुदाहृतम् || बिंदुनादयुतं रूपं लिंगाकार इहोच्यते || ९६ || अत्र प्रमाणम् || लयादिभेदः प्रागुक्तो य उपाधौ शिवस्य तु || स बिंदुरिति मन्तव्यः सैव कुंडलिनी मता || १ || परनिर्वाहनिष्ठानां यद्भवेत्परमं पदम् || तदाहुः स्थलमद्वैतं शिवज्ञानैकतत्पराः || ९७ || एकमेव परं ब्रह्म सच्चिदानंदलक्षणम् || शिवतत्वं शिवाचार्याः स्थलमित्याहुरादरात् || ९८ || आधारः सर्वशक्तीनां ज्योतिषामखिलात्मनाम् || यत्तत्वं भवति प्राज्ञैः स्थलं तत्परिगीयते || ९९ || आलयः सर्वभूतानां लोकानां लोकसंपदाम् || यद्भवेत्परमं ब्रह्म स्थलं तत्प्राहुरक्षरम् || १०० || सर्वेषां स्थानभूतत्वाल्लयभूतत्वतस्तथा || तत्वानां महदादीनां स्थलमित्यभिधीयते || १०१ || स्थीयते लीयते यस्मिन्मुक्तिः संसारपद्धतिः || तदेतत्स्थलमित्युक्तं स्थलतत्वविशारदैः || १०२ || तद्ब्रह्मस्थलशब्देन स्वशक्या षड्विधं भवेत् || पृ० १७) पीठिकासूत्रस्थलनिरूपणम् मोक्षमार्गैकसोपानं वीरमाहेश्वरादृतम् || १०३ || वीरागमे || वृत्तम् || सर्वज्ञता तृप्तिरनादिबोधः स्वतंत्रता नित्यमलुप्तशक्तिः || अनंतशक्तिश्च विभोर्विधिज्ञाः षडाहुरंगानि च षट्स्थलानि || १०४ || निष्क्रियस्य निरंजन्यनिर्गुणस्यामलात्मनः || कथं स्वर्गादिकर्तृत्वं शिवस्याभ्युपगम्यते || १०५ || ततो वस्त्वविकारित्वं कर्तृत्वे न विरुध्यते || समस्तोपाधिशून्यत्वं कर्तृत्वं तस्य चेष्टिते || १०६ || यथा कालो ह्यमूर्तोऽपि दृश्यते फलसाधकः || तथा शिवो ह्यमूर्तोऽपि कुरुते कार्यमिच्छया || १०७ || स्मृतिमात्राद्नारुडीयो दृश्यादृश्यस्य रक्षणम् || यो देवः स्वीयया कार्यं करोति क्षणमात्रतः || १०८ || यथार्को दिनचेष्टानां सन्निधेरुपकारकः || तथा सन्निधिशक्तेश्च चेष्टयत्यखिलं शिवः || १०९ || सर्वोपाधिविनिर्मुक्तं चैतन्यं सर्वगं शिवम् || तदेव यदिदं विश्वं तस्मादन्यं न विद्यते || ११० || स्वशक्तिक्षोभमात्रेण स्थलं तद्द्विविधं भवेत् || पृ० १८) एकं लिंगस्थलं प्रोक्तमन्यदंगस्थलं स्मृतम् || १११ || महद्धटप्रभेदेन यथाकाशं प्रतीयते || प्रतीयते तथा चैकस्थलं लिंगांगभेदतः || ११२ || त्रिकाण्डसारे उपास्योपासकत्वेन स्वयमेव द्विधा भवेत् || लिंगस्थलमुपास्यं स्यादंगस्थलमुपासकम् || ११३ || परमरहस्ये चिन्मात्रं परमं साक्षात्स्थलं सत्यादिलक्षणम् || लिंगांगत्वं शिवात्मत्वभेदेनैव स्वयं श्रितम् || ११४ || वातुले शिवत्वेनात्मरूपेण यथा चिन्मात्रमुच्यते || लिंगत्वेनांगरूपेण स्थलमात्रं तथोच्यते || ११५ || शिद्धांतशिखामणौ स्थलं चिन्मात्रमेवं स्याल्लिंगं स्याच्छिव एव हि || तथांगमेव जीवः स्यादिति मे निश्चिता मतिः || ११६ || यथा स्थलं द्विधाभूतं तथा शक्तिर्द्विधा भवेत् || शक्तिरप्रतिघा साक्षाच्छिवेन सहधर्मिणी || ११७ || सा शक्तिर्द्विविधा भूता स्वातंत्रेण बलेन तु || समानधर्मिणीत्वेन विभक्ता भक्तवत्सला || ११८ || लिंगस्थलाश्रया काचित्काचिदंगस्थलाश्रया || लिंगस्थलाश्रया शक्तिः कलारूपा प्रकीर्तिता || ११९ || पृ० १९) पीठिकासूत्रस्थलनिरूपणम् वासिष्ठे अधोमुखी भवेच्छक्तिर्भक्तिरूर्ध्वंमुखी भवेत् || सा माया शक्तिराख्याता निर्माया भक्तिरीरिता || १२० || शक्तिः प्रवृत्तिराख्याता निवृत्तिर्भक्तिरीरिता || शक्त्या प्रपंचसृष्टिः स्याद्भक्त्या तद्विलयो मतः || १२१ || शक्तिवैचित्र्यतो रूपं निरूपमपि याति हि || भक्तिवैचित्र्यतो रूपं निरूपमिदमाप्नुयात् || १२२ || प्रपंचवृद्ध्यपेक्षो हि शक्तिः स्वाभाविको गुणः || प्रपंचापचयापेक्षो भक्तिः स्वाभाविको गुणः || १२३|| अपि तर्कप्रमाणाभ्यां शक्तिभक्तिगुणाधिकः || उपास्यत्वं भवेच्छक्त्या भक्त्योपासकता भवेत् || १२४|| परमरहस्ये अनाद्यंतमजं लिंगं तत्पदं परमं प्रति || यद्गच्छति महाभक्त्या तदंगमिति निश्चितम् || १२५ || अं भवेत्परमं तत्वं तद्गतं तत्परायणम् || अंगस्थलमिति प्राहुरंगस्थलविशारदाः || १२६|| अमिति ब्रह्मसन्मात्रं गच्छतीति गमुच्यते || रूप्यतेंऽगमिति प्राज्ञैरंगतत्वविचिंतकैः || १२७ || पृ० २०) सवितुः पदमंगं स्याल्लिंगं भर्गपदं तथा || धीमहीत्यनयोरैक्यं गायत्री प्राह सादरम् || १२८ || तत्पदेनोच्यते लिंगं त्वं पदेनांगमीरितम् || अनयोरैकभावो यः संबंधोऽसि पदे न च || १२९ || यो भक्तिज्ञानयोगार्थः स तत्वमसि निर्णयः || यो निर्णयः स लिंगांगसंबंधार्थो न संशयः || १३० || लिंगं शिवो नियंतांगं प्रपंचस्सचराचरः || तस्मिन् तस्य लयस्थानं संबंध इति गीयते || १३१ || अंगं शक्तिरिति प्रोक्तं शक्तिमान् लिंगमुच्यते || अनयोरैक्यविज्ञानं संबंध इति कथ्यते || १३२ || लिंगं शिवो भवान्यंगमनयोः संगतिः परा || आनंदरूपिणी याऽसौ संबंध इति कथ्यते || १३३ || अंगं शक्तिः शिवो लिंगं यथा भक्त्यावगम्यते || इति विज्ञानसंपत्तिर्यासौ संबंध उच्यते || १३४ || वातुले शिव एव स्वयं लिंगमात्मैवांगं भवेत्खलु || तयोः शिवात्मनोः सम्यग्योगः संयोग एव हि || १३५ || पृ० २१) पीठिकासूत्रस्थलनिरूपणम् यथा लिंगस्थलं शक्त्या स्वीयया बहुधा भवेत् || तथा चांगस्थलं भक्त्या स्वीयया बहुधा भवेत् || १३६ || यद्यल्लिंगस्थलं साक्षाच्छिवो भवति शक्तितः || तत्तदंगस्थलं साक्षादात्मा भवति भक्तितः || १३७ || यद्यद्रुपमुपास्यत्वाच्छिवो व्रजति शक्तिमान् || उपासकत्वतश्चात्मा तत्तदाप्नोति भक्तिमान् || १३८ || यद्यत्स्वरूपमाधत्ते पूज्यत्वेन महेश्वरः || पूजकत्वेन चात्मायमेतद्रूपमनुव्रजेत् || १३९ || यद्यत्स्वरूपमाधत्ते साध्यत्वात्परमेश्वरः || साधकत्वादसावात्मा तत्तदास्थाय तिष्ठति || १४० || यद्यत्स्वरूपमाधत्ते गुरुत्वेनांबिकापतिः || शिष्यत्वेनायमात्मा च तत्तद्रूपमुपाश्रितः || १४१ || उपास्योपासकौ पूज्यपूजकौ साध्यसाधकौ || गुरुशिष्यौ शिवात्मानौ निगद्येते महात्मभिः || १४२ || अतः संयोगसद्भाव उच्यते सांप्रतं मया || लिंगस्थलं त्रिधा ज्ञेयं तद्भेदो वर्ण्यते क्रमात् || १४३|| प्रथमं भावलिंगं स्याद्द्वितीयं प्राणलिंगकम् || तृतीयमिष्टलिंगं स्यादित्येतत्त्रिविधं स्मृतम् || १४४ || निष्कलं भावलिंगं स्याद्भावग्राह्यं परात्परम् || सन्मात्रं भावलिंगं स्यादिति निष्ठा महात्मनाम् || १४५ || पृ० २२) प्राणलिंगं मनोग्राह्यं भवेत्सकलनिष्कलम् || तत्प्राणेष्वन्तर्मनसो लिंगमाहुरिति श्रुतिः || १४६ || सकलं दृक्कलाग्राह्यमिष्टलिंगस्थलं महत् || इष्टावाप्तिकरं साक्षादनिष्टपरिहारकम् || १४७ || इष्टमूर्ज्यं स्वभक्तानामनुयच्छति सर्वदा || इष्टलिंगमिति प्राह तस्मादाथर्वणी श्रुतिः || १४८ || सद्रूपं भावलिंगं स्याच्चिद्रूपं प्राणलिंगकम् || आनंदरूपमाचार्यैरिष्टलिंगमुदाहृतम् || १४९ || भावलिंगं परं तत्वं प्राणलिंगं तु सूक्ष्मकम् || इष्टलिंगं भवेत् स्थूलमेवं लिंगत्रयं स्मृतम् || १५० || एकमेकस्थलं भूयो द्विविधं द्विविधं भवेत् || भावलिंगस्थलं द्वेधा प्राणलिंगस्थलं द्विधा || इष्टलिंगस्थलं चैव द्विधा प्रोक्तं महात्मभिः || १५१ || महालिंगं प्रसादाख्यं लिंगमित्युभयस्थलं || भावलिंगं भवत्येव स्वानुभूतिप्रमाणतः || १५२ || तथा च चरलिंगं च शिवलिंगमिति द्वयम् || प्राणलिंगं भवत्येव तात्पर्यार्थो न सशंयः || १५३ || गुरुलिंगं तथाचारलिंगमित्युभयस्थलम् || इष्टलिंगं भवत्येव सत्यमुक्तमिदं मया || १५४ || पृ० २३) पीठिकासूत्रस्थलनिरूपणम् महालिंगं प्रसादाख्यलिंगं च चरलिंगकम् || शिवलिंगं तथा चैव गुरुलिंगं ततः परम् || आचारलिंगमित्येवं लिंगं षड्विधमुच्यते || १५५ || एकमेव स्वरूपं च लक्षणं परिकीर्तितम् || महालिंगस्थलादीनां षड्विधानं यथाक्रमम् || १५६ || अंगस्थलं त्रिधा ज्ञेयमाचार्यैः सूक्ष्मदर्शिभिः || योगांगं प्रथमं प्रोक्तं भोमांगं तु द्वितीयकम् || त्यागांगं तु तृतीयं स्यादेवमेव त्रिधा भवेत् || १५७ || शिवयोगसुखावाप्त्या योगांगमिति गीयते || शिवेन सह भोगेन भोगांगमिति कथ्यते || संसारभोग (भ्रांति) संत्यागात्त्यागांगमिति पठ्यते || १५८|| योगांगं कारणं प्रोक्तं भोगांगं सूक्ष्ममुच्यते || त्यागांगं स्थूलमित्युक्तमेवं भेदोपभेदतः || १५९ || इत्येवं त्रिप्रकारेण प्रोक्तमंगस्थलं क्रमात् || प्रत्येकं पृथगर्थत्वात्सांप्रतं प्रोच्यते द्विधा || १६० || योगांगमैक्यशरणस्थलमित्युभयं भवेत् || प्राणलिंगं प्रसादीति द्वयं भोगांगमिष्यते || १६१ || माहेश्वरस्थलं भक्तस्थलमित्युभयं तथा || त्यागांगं च भवत्येव प्रोच्यते पारमार्थकैः || १६२ || ऐक्यं तु शरणं नाम प्राणलिंगि प्रसादि च || पृ० २४) माहेश्वरं भक्तमिति क्रमात्षट्स्थलमुच्यते || १६३ || स्थिरा यत्र स्थिता भक्तिर्लीना संसृतिसंगतिः || स्थलं तदेतदित्याहुः स्थलशब्दार्थवादिनः || १६४ || षट्स्थलेषु प्रविश्यैषा भक्तिः षड्विधरूपिणी || क्रमात्प्रवर्तते तत्तल्लक्षणोपाधिभेदतः || १६५ || षड्विधाकारतो भिन्ना भक्तिः साक्षाच्छिवात्मिका || षण्णामैक्यादिभक्तान्तस्थलानां वर्तते पदे || १६६ || यथाशक्तिर्महत्संज्ञाद्याचारान्तेष्ववस्थिता || तथैवैक्यादि भक्तान्तेष्वेयं भक्तिरवस्थिता || १६७ || भक्तिस्समरसाकारा प्रथमं परिगीयते || आनंदाकारतो भाति द्वितीय भक्तिरुत्तमा || १६८ || तृतीयानुभवाकारा भक्तिर्भवति शाश्वती || चतुर्थी परमा भक्तिरवधानात्मिकामता || पंचमी नैष्ठिका भक्तिः षष्ठिः सद्भक्तिरीरिता || १६९ || वृत्तम् || अंगं च लिंगं च मुखं च हस्तो भक्तिश्च शक्तिश्च तथार्पणं च || प्रसाद इत्यष्टविधस्थलानि प्रतिस्थलं षट्स्थलसंज्ञितानि || १७० || अंगं च लिंगं च सदेव जातं भक्तिश्च शक्तिश्च तथा चिदेव || आनंद एवार्पणमुत्तमं च भवेत्प्रसादश्च परं त्रिरूपम् || १७१ || एवमंगस्थलं प्रोक्तं मया षड्विधरूपतः || पृ० २५) पीठिकासूत्रस्थलनिरूपणम् इतः परं प्रवक्तव्यं शेषोऽन्योग्रंथविस्तरः || १७२ || देव्युवाच - षट्स्थलं च कथं जातं षट्स्थलस्य कथं गुणः || षट्स्थलस्य कथं भेदो ब्रूहि मे परमेश्वर || १७३ || ईश्वर उवाच - यथा ह्यग्नेस्तथा भासस्तद्भेदं श्रुणु पार्वति || मययेव भिन्नभावेन लिंगं षड्विधमेव च || १७४ || आचारं गुरुलिंगं च इष्टलिंगे प्रजायते || शिवलिंगं चराख्यं च प्राणलिंगे च जायते || १७५ || प्रसादं च महालिंगं भावलिंगे च जायते || इत्येवं नवलिंगानि क्रमशो वर्ण्यते मया || १७६ || भक्तस्यांगस्थलं पृथ्वी जलं माहेश्वरस्य च || प्रसादिनोंगमग्निश्च वायुश्च प्राणलिंगिनः || १७७ || शरणस्यांगमाकाशमैक्यस्यात्मांगमेव च || एवमंगस्थलं ज्ञेयं सुसूक्ष्मं कमलानने || १७८ || भक्तस्य चित्तहस्तश्च बुद्धिर्माहेश्वरस्य च || प्रसादिनिरहंकारः सुमनः प्राणलिंगिनः || १७९ || ज्ञानहस्तः शरण्यस्य भाव ऐक्यस्य विश्रुतः || पृ० २६) एतद्धस्तपरिज्ञानं विशेषं श्रुणु पार्वति || १८० || भक्तस्याचारलिंगं स्याद्रुरुलिंगं महेशितुः || प्रसादिनः शिवलिंगं जंगमं प्राणलिंगिनः || १८१ || शरण्यस्य प्रसादं स्यादैक्यस्यापि महच्च तत् || एतत्सूक्ष्मतरं सूक्ष्माद्विशेषं श्रुणु पार्वति || १८२ || वृत्तम् || आचारलिंगं गुरुरूपलिंगं शिवाख्यलिंगं चरनामलिंगम् || प्रसादलिंगं च महात्मलिंगं निवृत्तिमार्गेण षडाहुरार्याः || १८३ || भक्तं माहेश्वरं नाम प्रसादि प्राणलिंगि च || शरणस्थलमैक्यं हि निवृत्तिर्लयमार्गतः || १८४ || देव्युवाच- पंचभूतमयं देहं किं भेदं तु समर्पितम् || अर्पितस्य मुखं किंवा तन्मुखं कथयस्व मे || १८५ || ईश्वर उवाच- आचारस्यार्पितं पृथ्वी गुरुलिंगार्पितं पयः || शिवलिंगार्पितं तेजो वायुश्चरसमर्पितः || १८६ || प्रसादार्पितमाकाशं परिणामार्पितं महत् || एवं पंचमुखं ज्ञानं दुर्लभं श्रुणु पार्वति || १८७ || उत्तरवातुले ईश्वर उवाच- आचारे दिव्यलिंगे निरुपमनिज भक्तस्थलांगैकाभाजि पृ० २७) पीठिकासूत्रस्थलनिरूपणम् घ्राणास्ये चित्तहस्तेन च घनसुखहेतौ क्रियाशक्तियुक्ते || घ्रातव्यं द्रव्यमप्यर्पणविषयविधानोपदिष्टं समर्प्य प्रायस्सद्भक्तिपूर्णस्स्वयमयमिह गंधप्रसादं भजेत || १८८ || स्वांगे माहेश्वरात्मन्यनुपमसहजज्ञानशक्तिप्रयुक्ते जिह्वास्ये सुप्रसिद्ध वरगुरुघनलिंगाभिधे संस्थितेऽस्मिन् || निष्ठाभक्तिप्रभावप्रणुहितसुमहाबुद्धिहस्तेन विद्वान् रस्यद्रव्यं समर्प्य स्वयममलरसाख्यप्रसादं भजेत || १८९ || योऽसौ नित्यप्रसादिस्थलपरमपदप्राप्तिदिव्यांगभाजि स्वेच्छाशक्तिप्रयुक्ते दृशि जगति मुखे पाणिनाऽहंकृतेन || साक्षाल्लिंगे शिवाख्ये सविनयमवधानात्मिका भक्तियुक्तो द्रष्टव्यांशं समर्प्यार्पणविनिहितरूपप्रसादं भजेत || १९० || संसक्तप्राणलिंगिस्थलविहितनिजांगे मनःपाणिनाऽसौ लिंगे चास्मिन् चराख्ये त्वचि जगति मुखे ह्यादिशक्तिप्रयुक्ते || स्पृष्टव्यं चार्पयित्वा स्वयमनुभवभक्तिप्रभावोपपन्नो पृ० २८) नित्यं स्पर्शप्रसादं निरतिशयसुखं तत्ववेत्ता भजेत || १९१ || लिंगे साक्षात्प्रसादे विमलशरणसंज्ञांगसंस्थेऽपि चास्मिन् श्रोतव्यं श्रोत्रवक्त्रे निखिलमिह पराशक्तियुक्ते समर्प्य || आनंदाकारभक्तिः स्फुटतरपरमज्ञानहस्तेन सोयं शब्दाख्यं तत्प्रसादं स्वयमविरतमत्याश्रमस्थो भजेत || १९२ || ऐक्यांगं भाजि लिंगे महति हृदि मुखे चिन्महाशक्तियुक्ते नित्यं भावेन हस्तेन च समरसभक्तिप्रयुक्ताः स्वयं सन् || ज्ञातव्यं चार्पयित्वा विमलमतिरवश्यं समर्प्यार्पणीयं तस्माल्लब्धं विशुद्धं घनतरपरिणामप्रसादं भजेत || १९३|| इतःपरं विशेषेण वीरशैवार्चनक्रमम् || षट्स्थलात्मकरूपेण प्रवक्ष्यामि समासतः || १९४ || भक्तस्थले सुखासीनो भूतिरुद्राक्षधारणम् || कृत्वा भक्त्या सुपूतात्मा ततो माहेश्वरस्थले || षडक्षरं परं मंत्रमनुष्ठायात्मनिष्ठया || १९५ || प्रसादिस्थले ह्यादाय लिंगं हस्तेऽवधानतः || प्राणलिंगिस्थले पूजां विधाय स्वानुभूतितः || १९६ || ततः शिवार्पणं कृत्वा स्वानंदाच्छरणस्थले || पृ० २९) पीठिकासूत्रस्थलनिरूपणम् ऐक्यस्थले प्रसादोपभोगतृप्तिमवाय च || १९७ || एवं समरसाद्भावात्षडंगस्थलयोगतः || कुर्याच्च सर्वदा सोऽयं वीरशैवार्चनक्रमः || १९८ || शिवायार्पितजीवत्वाद्वीरतंत्रसमुद्भवात् || वीरशैवसमायोगाद्वीरशैवमिति स्मृतम् || १९९ || ऽऽउत्तरवातुलेऽऽ शिवेन सह संबंधं शैवमित्यादृतं बुधैः || उभयोः संपुटीभावाद्वीरशैवमिति स्मृतम् || २०० || विशब्दोऽत्र विकल्पार्थो रशब्दो रहितार्थकः || विकल्परहितं शैवं वीरशैवमिति स्मृतम् || २०१ || विद्यायां शिवरूपायां विशेषाद्रमणं यतः || तस्मादेते महाभागा वीरशैवा इति स्मृताः || २०२|| शिद्धांतशिखामणौ विशब्देनोच्यते विद्या शिवजीवैक्यबोधिका || तस्यां रमन्ते ये शैवा वीरशैवास्तु ते मताः || २०३|| विद्यायां रमते यस्मान्मायां हेयां श्ववद्रहेत् || इत्यनेन निरुक्तेन वीरमाहेश्वरः स्मृतः || २०४ || वेदान्तजन्यं यज्ञ्ज्ञानं विद्येति परिकीर्तिता || विद्यायां रमते तस्यां वीर इत्यभिधीयते || २०५ || ज्ञानगम्यं रहस्यं च कैवल्यपदकारणम् || पृ० ३०) पीठिकासूत्रस्थलनिरूपणम् वीरशैवमिति ज्ञेयमेतल्लक्षणमुच्यते || २०६|| वीरागमेऽऽ चिद्विलासः शिवः साक्षाद्वीरशैवोऽभिधीयते || २०७ || श्रुतिः|| वीरशब्दः परमेश्वरगोचर इत्युक्तः कथितोऽसि वीर इति हिंसाभिधानतृप्तिसन्निधिमेति || २०८ || स्कान्दे || ये रुद्रलोकादवतीर्य रुद्रा मानुष्यमाश्रित्य जगद्धिताय || चरंति नानाविधचारुचेष्टास्तेभ्यो नमस्त्र्यंबकपूजकेभ्यः || २०९ || वृत्तम् || व्यालाकल्पा विषमनयना विद्रुमाताम्रभासा जायामिश्रा जटिलशिरसश्चंद्रलेखावतंसाः || नित्यानंदा नियतललिताः स्निग्धकल्माषकंठा- स्तेऽमी रुद्रा धृतपरशवो ये भविष्यन्ति भक्ताः || २१० || ऽऽउत्तरवातुले गुरुर्लिंगं जंगमश्च प्रसादः पादवारि च || तदेतदेकस्वरूपं ह्यनादिवीरशैवकम् || २११ || ग्रंथांतरे|| गुरुर्लिंगं चरश्चैव प्रसादः पादवारि च || तदेकत्वं स्वरूपं त्वित्यनादिवीरशैवकम् || २१२ || उत्तरवातुलेऽऽ गुरुर्लिंगं जंगमश्च प्रसादोप्येकदर्शनम् || पृ० ३१) पीठिकासूत्रस्थलनिरूपणम् यत्तदाचरणं प्रोक्तं वीरशैवमहागमे || २१३ || जंगमं नादरूपं च लिंगं बिंदुस्वरूपकम् || नादबिंदुद्वयोपेतमनाद्यं वीरशैवकम् || २१४ || तत्रैव || तस्माद्वीरव्रते निष्ठो मोक्षापेक्षायुतः प्रभुः || सर्वाचारेषु निरतो भक्त एवाधिको मतः || २१५ || दासोही लिंगनिष्ठश्च वीरव्रतसमाश्रयः || सुसर्वाचारसंपन्नो लिंगजंगमरूपकः || २१६|| वातुले शरीरादिपदार्थं च दत्तं दानं समर्पणम् || समर्प्य सोऽहमस्मीति दासोहंभाव उच्यते || २१७ || ईश्वर उवाच- अहं माहेश्वरप्राणो मम प्राणो महेश्वरः || तस्मादविरलं नित्यं शरणं नाम वर्तते || २१८|| लिंगांगी च मम प्राणो लिंगांगी च ममात्मभूः || लिंगांगी मम जीवश्च लिंगांगी मम रक्षकः || २१९ || लिंगांगी मम कर्ता च लिंगांगी च मम प्रभुः || लिंगांगी च मम स्वामी लिंगांगी चापि मद्गुरुः || २२० || ऽवायवीयसंहितायांऽ उपपातककोटिं च ब्रह्महत्यायुतानि च || दहत्यशेषपापानि शिवभक्तस्य दर्शनम् || २२१ || पृ० ३२) श्हैवेऽऽ || अनेनैव तु देहेन रुद्रः संतिष्ठति क्षितौ || पापहा सर्वमर्त्यानां सल्लापाद्दर्शनादपि || २२२ || अर्चयेद्यः सदा रुद्रं स रुद्र इव भूतले || पापहा सर्वमर्त्यानां दर्शनात्स्पर्शनादपि || २२३ || विष्णुनारदसंवादेऽऽ || दर्शनाच्छिवभक्तानां सकृत्संभाषणादपि || अतिरात्रस्य यज्ञस्य फलं भवति नारद || २२४ || शंकरसंहितायां || शिवलिंगांगसंबंधभाजां दर्शनमात्रतः || मुक्तिं गच्छन्ति मनुजाः पशुपक्षिमृगादयः || २२५ || लिंगांगसंगिनः पुंसो ये दृग्विषयवर्तिनः || सर्वपापविनिर्मुक्ता यास्यन्ति परमां गतिम् || २२६|| लिंगांगसंगिनो लोके लिंगध्यानपरायणान् || अनुव्रजति यो मर्त्यः सोऽपि मुक्तो न संशयः || २२७ || प्राणलिंगैक्यनिष्ठस्य देहं स्पृष्ट्वा समीरणः || यत्र गच्छति तत्रत्या मर्त्या मुक्ता न संशयः || २२८ || युगपच्छिवलिंगैक्यपादस्पृष्टरजांसि च || पतंति मस्तके यस्य स मुक्तो नात्र संशयः || २२९ || पृ० ३३) पीठिकासूत्रस्थलनिरूपणम् आदित्यपुराणे ब्रह्मविष्णुसंवादे || वृत्तम् || ये प्राप्य दुर्लभमिदं मनुजाः शरीरं कुर्वन्ति हन्त परमेश्वरपादपूजाम् || धन्यास्त एव निजपुण्यजितत्त्रिलोका- स्तेषां पदाम्बुजरजो भुवनं पुनाति || २३० || येऽर्चयन्ति सदा रुद्रं न ते प्रकृतिमानुषाः || रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः || २३१ || तेषां संरक्षणं यस्तु कुरुते मनुजोत्तमः || तस्य पाणितले मुक्तिः स्थिता नास्त्यत्र संशयः || २३२ || दुर्लभास्त्रिषु लोकेषु प्राणलिंगांगसंगिनः || पूर्वजन्मकृतं पुण्यं यैस्तेषां सुलभा भुवि || २३३ || परमाद्वैतविज्ञाननिष्ठानां च महात्मनाम् || शुश्रूषा क्रियते येन तत्पादौ मम मस्तके || २३४ || दाशरथिरामवाक्यं || तत्पादभृत्यभृत्यानां भृत्यभृत्यत्वमुत्तमम् || मदीशदेवदेवेश देवानामपि दुर्लभम् || २३५ || कर्मावलंबकाः केचित् केचिज्ञ्ज्ञानावलंबकाः|| वयं तु शिवभक्तानां पादरक्षावलंबकाः || २३६|| किंच मुंडकोपनिषदि || पृ० ३४) निर्माल्यमेव भक्षयेत् चंडालो नैव चंडालः पुल्कसो नैव पुल्कसः अपि वा यश्चंडालः शिवेति वाचं वदेत्तेन सह संवदेत् तेन सह संवसेत् तेन सह संविशेत् तेन सह भुंजीतेति || २३७ || शिवरहस्ये || अष्टादशानां वर्णानां श्रेष्ठो माहेश्वरो जनः || पूतस्तदीयदेशोऽपि किं पुनस्तस्य बांधवाः || २३८ || आदित्यपुराणे || प्रसादभोक्तृर्न्निंदन्ति ये जना भक्तिसंयुतान् || ते यान्ति पितृभिस्साकं नरकं नात्र संशयः || २३९ || ईश्वर उवाच- मद्भक्तानां प्रसादान्नं न गृह्णन्ति नराधमाः || शिवभक्तप्रसादान्नात् पापशुद्धो भवेन्नरः || २४० || पांसवः पर्वतायन्ते पांसूयन्तेऽपि पर्वताः || शिवप्रसादयुक्तानामाज्ञयैव तु केवलम् || २४१|| यजुर्वेदे शतरुद्रीये || या ते रुद्र शिवा तनूरघोराऽपापकाशिनी || २४२|| कारणागमे || वृत्तम् || अपापकाशीति वपुः श्रुतं ते शिष्टाः प्रसिद्धा भगवन्नपापाः || पृ० ३५) पीठिकासूत्रस्थलनिरूपणम् अतस्वदीयानपहाय भक्तानन्यानशिष्टानिति निश्चिनोमि || २४३|| वातुले || अघोराऽपापकाशिनी या ते रुद्र शिवा तनूः || यजुषा गीयते यस्मात्तस्माच्छैवोऽघवर्जितः || २४४ || स्कान्दे || शिवभक्तियुतो मर्त्यश्चंडालः पुल्कसोऽपि वा || नारी नरो वा षंडो वा सद्यो मुच्येत संसृतेः || २४५ || मार्गस्थो वाप्यमार्गस्थो मूर्खो वा पंडितोऽपि वा || मम भक्तो यदि भवेत् सर्वस्मादधिको हि सः || २४६|| किं कुलेन किमाचारैः किं शीलेन गुणेन किम् || भक्तिलेशयुतः शंभोस्स वंद्यः सर्वदेहिभिः || २४७ || मुंडकोपनिषदि || स्वेष्टलिंगप्रसादमेव चंडालोऽपि वा सदैवोपभुंजानः स्यात्स चांडालो न भवति पुल्कसो न भवति किं तु स एव कुलजः स एव वरः स एव धन्यः || २४८ || वातुलागमे || कायशुद्धिश्चात्मशुद्धिश्चांगन्यासः करस्य च || सर्वशुद्धिर्भवेन्नित्यं लिंगधारणमेव च || २४९ || तत्रैव || शुद्धत्वं शिवमुद्दिष्टाच्छिवज्ञानं हि शैवकम् || शुद्धशैवसमायोगाच्छुद्धशैवमिति स्मृतम् || २५० || पृ० ३६) वीरागमे || शिवेनोत्पद्यते शैवं तस्माज्जातः शिवद्विजः || शिवद्विजास्तु विप्रेंद्रा ह्यादिशैवाः प्रकीर्तिताः || २५१ || कौशिकः काश्यपश्चैव भारद्वाजोऽत्रिरेव च || गौतमश्चेति पंचैते पंचवक्त्रेषु दीक्षिताः || २५२ || श्कान्दे कालिकाखण्डे || तृणबिंदुरुवाच- नात्राश्रमकृतः कश्चिदुत्कर्षो विद्यते नृणाम् || परां दीक्षां विना शैवीं बन्धयन्त्रविमोचिनीम् || २५३ || यत्र कुत्राश्रमे तिष्ठन् दीक्षया तु विमुच्यते || तस्मान्मुक्तिर्दीक्षयैव नाश्रमैर्नान्यकर्मभिः || २५४ || दधीचिर्गौतमोऽगस्त्यो दुर्वासाश्च यथाक्रमम् | ब्रह्मचर्याश्रमस्थोऽभूद्दधीचिश्चवनात्मजः || २५५ || गृहस्थाश्रमनिर्माता गौतमो मुनिपुंगवः || अगस्त्योऽपि च ब्रह्मर्षिर्वानप्रस्थप्रवर्तकः || दुर्वासा अपि यतिनामाश्रमे निर्मितो महान् || २५६ || उत्तरवातुले || गुरुमंत्रोपदेशश्च जपः पादांबुजार्चनम् || लौकिकाचारसंबंधात्पूर्वशैवमिदं शृणु || २५७ || गुरुमंत्रोपदेशश्च लिंगमूर्तिप्रतिग्रहः || पृ० ३७) पीठिकासूत्रस्थलनिरूपणम् सिंहपीठादिके पूजा पूर्वशैवप्रवर्तनम् || २५८|| लिंगमंत्रोपदेशश्च करपीठार्चनं जपः || मल्लिंगधारणं तत्र लोकाचारप्रवर्तनम् || २५९ || कुलाचारप्रवृत्तिश्च संसारे चाभिमानवान् || न दह्यादवसाने च मार्ग शैवं प्रकीर्तितम् || २६० || वातुलतंत्रं || मंत्रतंत्रक्रियामुद्रान्यासावाहनकादिभिः || उपचारैर्बहुविधैर्लिंगं सिंहासने यजेत् || २६१ || शुद्धं मिश्रं तु संकीर्णं त्रिविधं शिवपूजनम् || शुद्धं तु लिंगतन्मात्रं मिश्रं चैव सदाशिवः || संकीर्णं प्रतिमाकारं लिंगत्रयमिदं शृणु || २६२|| न तुष्याम्यर्चितोऽन्यस्मिन् तथा देवि नगात्मजे || लिंगार्चितो यथात्यर्थं परितुष्यामि पार्वति || २६३ || यत्पुण्यं प्रतिमार्चायां युगकोटिशतैरपि || तत्फलं लभते देवि लिंगे तु घटिकार्धके || २६४ || जातलिंगं स्वयंभु स्याद्बाणं तु स्थापितं सुरैः || इतरं स्थापितं सर्वैर्मनुष्यैः सिद्धराक्षसैः || २६५ || प्राणलिंगं कराद्यंगे वीरशैवस्तु धारयेत् || चरलिंग इति ख्यातः पूज्यः पाशुपतैरपि || २६६ || वातुले || शुद्धशैवो विशेषेण मंत्रयंत्रप्रचारणात् || पृ० ३८) शुद्धो भवति लोकेषु प्रायश्चित्तविधानतः || २६७ || तत्प्रायश्चित्तविधानं यथा सोमशंभौ || स्वेष्टलिंगे परिभ्रष्टे नष्टे दग्धे हृतेऽपि वा || नीते वा मूषिकश्येनकाककौलेयवानरैः || २६८ || जप्त्वा लक्षमघोरस्य विधिना लिंगकान्तरम् || प्रतिष्ठाप्य नयेच्छुद्धिं पीठिकायां तथैव च || २६९ || लिंगलोपादिदोषेषु जपं कुर्यादघोरतः || शुद्धशैवमिदं ज्ञेयं वातुलाख्ये तदुच्यते || २७०|| व्रतस्य च क्रियालोपे लोपे च नियमस्य तु || गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति || २७१ || तत्प्रसादं च तत्क्षेत्रं तत्पदं फलमाश्रयम् || मनोवाक्वायकर्मभ्यो वर्जयेद्वीरशैवकः || २७२ || लोकाचारं परित्यज्य कुलाचारविवर्जितः || न वारो वैदिकाचारो वर्णाश्रमविवर्जितः || २७३|| सर्वमंत्रान् परित्यज्य शिवमंत्रं जपेत्सदा || मल्लिंगधारणं कृत्वा भविभक्तविभेदकः || माहेश्वरेषु संसर्गो वीरशैवः प्रकीर्तितः || २७४ || ईश्वर उवाच- प्राणलिंगे व्रते लुप्ते प्रायश्चित्तं न विद्यते || प्राणत्यागात्परं तस्मात्सावधानेन धारयेत् || २७५ || पृ० ३९) पीठिकासूत्रस्थलनिरूपणम् प्राणलिंगे च विच्छिन्ने लिंगे प्राणान्परित्यजेत् || प्रतिदीक्षां प्राप्य तिष्ठेद्रौरवं नरकं व्रजेत् || २७६ || एतत्प्राणमयं लिंगं यावज्जीवं समर्चयेत् || एतन्नष्टे तव प्राणान्परित्यज महामते || २७७ || सूक्ष्मागमे || शिरो योनिर्गोमुखं च मध्यं वृत्तं च पीठकम् || षट्स्थाने छिद्रयोगे तु तल्लिंगं नैव धारयेत् || तथापि धारणाद्योगी रौरवं नरकं व्रजेत् || २७८ || व्रीहिव्रीह्यर्धविच्छिन्नं केशग्राह्यं प्रमादतः || पीठादिलिंगपर्यन्तं त्यजेत्प्राणान्नगात्मजे || २७९|| ईश्वर उवाच- गोलकात्पीठपर्यन्तं भिन्नं तत्प्रेतलिंगवत् || देहप्राणपरित्यागं मद्भक्तस्य सुलक्षणम् || २८० || पुनस्तद्बंधनं कृत्वा ह्येवमात्माभिलाषकः || स देहे जायते धष्टेः? शृणु देवि वरानने || २८१ || वीरागमे || लिंगांगहीनो यदि कश्चिदेको यस्माच्च दीक्षायतशिष्य एव || पृ० ४०) उभौ महारौरवनारके स्तः स्वदेहयोर्नास्ति गिरींद्रपुत्रि || २८२|| लिंगद्वयं समाख्यातं चरं चाचरमेव च || अचरं मंत्रसंस्कारं चरं व्रतं समाचरेत् || २८३ || स्थावरं भिन्नदोषं तु व्रतभ्रष्टश्च जंगमः || उभयोर्भिन्नभावेन न चार्चा न च वंदनम् || २८४ || मंत्रयुक्तं भवेल्लिंगं व्रतयुक्तो भवेच्चरः || मंत्रव्रतविहीनौ च न च लिंगं न जंगमः || २८५ || न मंत्रं न च लिंगं च न व्रतो न च जंगमः || व्रतमंत्रौ च यत्रस्थस्तत्र सन्निहितः शिवः || २८६|| ईश्वर उवाच- लिंगगर्भोद्भवो मंत्रो मंत्रगर्भोद्भवः शिवः || लिंगमंत्रद्वयोरैक्यं वीरशैव इति स्मृतः || २८७ || वीरागमे || जंगमे प्राणलिंगी च गुरुस्थानं विवर्जयन् || येन तस्य गते लिंगे प्राणलिंगैक्यमुत्तमम् || २८८ || स्थावरं वर्जयित्वा च लिंगं बाह्यं चरः पुनः || प्राणलीनं चरे लिंगे न धार्यं लिंगमुत्तमम् || २८९ || लिंगबाह्याद्व्रतभ्रष्टः पुनर्लिंगं न धारयेत् || पृ० ४१) पीठिकासूत्रस्थलनिरूपणम् तत्पूजा निष्फला चैव रौरवं नरकं व्रजेत् || २९० || प्रेतलिंगेन संस्कारी भूतप्राणी स जायते || प्रभाते तन्मुखं दृष्ट्वा कोटिजन्मसु सूकरः || २९१ || पतिते प्राणलिंगे तु प्राणे लिंगं नियोजयेत् || आत्मघातं स्वयं कुर्यान्नारके कालमक्षयम् || २९२|| भक्तदेहं लिंगदेहं स्याद्देहं लिंगवर्जितम् || शस्त्रं शैलं जलं पाशसमाध्यग्नीन् विवर्जयेत् || २९३ || किंतु || तपोध्यानादि भस्मापि यस्य रुद्राक्षधारणम् || शिवमंत्रजपश्चैव शिवलोके महीयते || २९४ || अंगे च लिंगसंबन्धं लिंगे च प्राणसंयुतम् || निमिषार्धं वियोगेन नरके कालमक्षयम् || २९५|| प्राणत्यागे भये प्राप्ते चोरघाते च राजके || अप्रमादे प्रमादे च शिवलिंगं न वर्जयेत् || २९६ || इष्टलिंगं विना देहं तद्देहं भूतदेहवत् || इष्टलिंगयुतं देहं तद्देहं लिंगदेहवत् || २९७|| शैवरत्नाकरे || तदिष्टलिंगं यद्दाम चिद्रूपस्य परात्मनः || लीनोत्र लिंगे यत्कायो निर्देही स महान् भवेत् || २९८ || पृ० ४२) अंगमात्मा शिवो लिंगमिष्टमाधृतमात्मना || समाधिः करणानां तत्करपीठमुदाहृतम् || २९९|| अथ रोगादिभिर्वापि प्राणलिंगांगयोगभाक् || देहं परित्यजेदन्ते स शिवो वसति ध्रुवम् || ३०० || अष्टोत्तरशतं व्याधेः पापरूपेण संगतम् || ज्ञानिनां वपुरासाद्य तत्सर्वं मुक्तिमाप्नुयात् || ३०१|| रोगाऽरोगाद्युपायेन येन केनापि हेतुना || षडंगशुद्धियुक्तस्य प्राणलिंगांगसंगिनः || देहावसानं यद्यस्ति तस्य नैवान्यथा क्रियाः || ३०२|| वृत्तम्|| नान्याश्रमेष्वस्ति विशिष्टमुक्तिः शैवेस्ति मुक्तिः परमा परेषाम् || मूढात्मनां मुक्तितया मतानां सन्यासयोगादिसमाश्रितानाम् || ३०३|| अन्येषु शास्त्रेषु बहुष्वतीव वांच्छन्ति मोक्षं परिमूढचित्ताः || ते शीतभीता इव वानराः स्युः खद्योतपुंजेष्वनलेष्टचेष्टाः || ३०४ || वायवीयसंहितायां || शिवो योगः पशुः पाशः पतिश्चैवार्थपंचकम् || पाशो विष्णुः पशुर्ब्रह्मा पतिरुद्रस्त्रियंबकः || ३०५ || पृ० ४३) पीठिकासूत्रस्थलनिरूपणम् योगः पाशुपतः साक्षाद्भस्मज्योतिर्महेश्वरः || पशो रपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् || अयथाकरणज्ञानादन्धस्य गमनं यथा || ३०६ || उत्तरवातुले || दर्शनं षड्विधं प्रोक्तं शैवशाक्तेयवैष्णवम् || गाणपत्यं च सौरं च कापालिकमिति स्मृतम् || ३०७ || व्रतं पाशुपतं चैव कालामुखकपालिकम् || लिंगांगसंगहीनत्वात्तच्छिष्यो नरकं व्रजेत् || ३०८ || शैवतंत्रस्य दीक्षायाः सर्वदोषो न विद्यते || वीरशैवस्य दीक्षायाः भुक्तिं मुक्तिं च विवृति? || ३०९ || तत्सर्वं शृणु देवि त्वं देवमानुषदुर्लभः || वीरमाहेश्वरः प्रोक्तो वीरतंत्रेण दीक्षितः || अन्याश्रमपरिग्राही वीरमाहेश्वरो न हि || ३१० || तत्वैरेभिर्निबद्धात्मा सर्वधर्मैश्च संयुतः || नान्येन शक्यते भोक्तुं मुक्त्वा दीक्षां शिवात्मिकाम् || ३११ || वैष्णवपुराणे || पतिहीना यथा नारी मातृहीनो यथा शिशुः || लिंगहीनस्तथा प्राणी तस्य जन्म निरर्थकम् || ३१२ || पृ० ४४) वृत्तम् || स्वर्गस्य मार्गा बहवः प्रतिष्टास्ते कृच्छ्रसाध्याः कुटिलाः सविघ्नाः || निमेषमात्रेण महा फलोयमृजुश्च पन्थाः स्मरणं स्मरारेः || ३१३ || तस्मात्सर्वं परित्यज्य शिवमेकं सदा स्मरेत् || तर्हि चेन्नान्यमार्गाधिदैवानीशत्वमुच्यते || ३१४|| इंद्रविष्ण्वब्जसंजातग्रहदेवानुवर्तिभिः || तत्तल्लोकफलावाप्तिर्मुक्त्वा मां नैव लभ्यते || ३१५ || तात्पर्यसंग्रहे || वृत्तम् || यत्तन्नमः कमपि शुश्रुम देवताभ्यस्त्वामंतरेण तमसामवसानभूमिम् || तास्तद्गृहीतुमनलं हि न कश्चिदीष्टे चोरोपनीतमिव धारयितुं किरीटम् || ३१६|| महीम्नि || त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च || रुचीनां वैचित्र्याद्रजुकुटिलनानापथजुषां नृणामेकोगम्यस्त्वमसि पयसामर्णव इव || ३१७ || स्कांदे || यदि पापरतः क्रूरः स्वाश्रमाचारवर्जितः || पृ० ४५) पीठिकासूत्रस्थलनिरूपणम् मम भक्तो यदि भवेत्पूज्यो मान्यः सदेव हि || ३१८|| ईश्वर उवाच- शैवं चतुर्विधं प्रोक्तं त्रिषु लोकेषु वर्तितम् [विश्रुत] || प्रथमं पूर्वशैवं च शुद्धशैवं द्वितीयकम् || तृतीयं मार्गशैवं च वीरशैवं चतुर्थकम् || ३१९ || उत्तरवातुले || शंकया भक्षितं सर्वं त्रैलोक्यं सचराचरम् || सा शंका भक्षिता येन स वीरो भुवि दुर्लभः || ३२०|| शंकरसंहितायाम् || वीरमाहेश्वरं तंत्रं ज्ञानदं त्रिविधं स्मृतम् || सामान्यं च विशेषं च निराभारं क्रमाद्भवेत् || ३२१ || तत्रादौ संप्रवक्ष्यामि वीरसामान्यलक्षणम् || हस्तमस्तकसंयोगाद्भूतिपट्टस्य धारणात् || शिवदेहीति विज्ञेयः सर्वपापैः प्रमुच्यते || ३२२ || गुरुणा दत्तलिंगं तु शिवमंत्रेण धारयेत् || मूर्ध्नि कण्ठे भुजे हस्ते हृदये नाभिमंडले || ३२३ || एतेषामेकदेशे तु धारयेच्छिवलिंगकम् || एतत्सामान्यवीरशैवलक्षणमिति स्मृतम् || ३२४ || देहं प्राणेन संयुज्य प्राणं लिंगे प्रकल्पयेत् || पृ० ४६) अविनाभावसंयोगात्तस्मादैक्यं प्रकल्पयेत् || ३२५|| गुरौ लिंगेऽक्षमालायां मंत्रे भस्मनि पंचसु || एतासु शिवमुद्रासु शिववद्भक्तिमाचरेत् || ३२६ || परमरहस्ये || सर्वसंसारसौख्यानि त्यक्त्वा चित्तं शिवे लयेत् || दण्डकौपीनकाषायजटावल्कलधारकः || ३२७ || मुंडी वा शिवचिह्नानि धारयेदजिनादिकम् || भिक्षाशी नियताहारो सुखसंसारवर्जितः || निराभार इति ज्ञेयः स एव परमः शिवः || ३२८|| यजुर्वेदे || अस्मान्सखा प्रतरणः स वीरः || ३२९ || वीरागमे || सर्वेषामपि शैवानां वीरशैवं महोत्तमम् || सुलभा देवपूजा च सुलभं च क्रियावहम् || ३३०|| सुलभं देवपूजायाः सुलभं च क्रिया बहु || स्वल्पक्रिया बहुफलं वीरशैवं महेश्वरि || ३३१ || उत्तरवातुले || फलाधिकं क्रिया सूक्ष्मं वीरशैवं तु कथ्यते || अन्यशैवं तु तत्सर्वं फलमल्पं क्रिया बहु || ३३२ || वृत्तम् || शुद्धं समस्तेंद्रियशर्मदं च स्वल्पप्रयासात्फलवृद्धिदं च || पृ० ४७) पीठिकासूत्रस्थलनिरूपणम् मोक्षप्रदं चैहिकसौख्यदं च सर्वोत्तमं शांकरकर्म सत्यम् || ३३३ || वीरागमे || तस्मात्सर्वप्रयत्नेन वीरमाहेश्वरं शुभम् || जीवन्मुक्तः स विज्ञेयो वीरमाहेश्वरः पुमान् || ३३४ || सत्यं वक्ष्यामि हे वत्स शिवलिंगार्चनक्रमम् || संसारदुःखरोगस्य भेषजं मुक्तिसाधनम् || ३३५|| नित्यं वेदितशैवैश्च सेव्यते लिंगसेवितम् || तत्वार्थैर्वीरशैवैश्च सेव्यते चरसेवितम् || ३३६ || शंकरसंहितायाम् || वृत्तम || यो हस्तपीठे निजलिंगमिष्टं विन्यस्य तल्लीनमनःप्रचारः || बाह्यक्रियासंकुलनिस्पृहात्मा संपूजयत्यंग स वीरशैवः || ३३७ || गंधपुष्पादिगंधस्य ग्रहणं तस्य पूजनम् || षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पितम् || ३३८ || स्वच्छंदाचारवर्तिन्या भक्त्या यत्कृतमर्चनम् || यद्भुक्तमर्पितं लिंगे सत्यमेव मयोदितम् || ३३९ || धर्मादिपुरुषार्थानां चतुर्णां परतः परः || पृ० ४८) पंचमः पुरुषार्थो हि भक्तिः शैवी सनातनी || ३४०|| शिवपुराणे || कैलासादिपदेष्वाशा यस्यास्ति स भवी भवेत् || भविशैवपदं सर्वं तद्गणा भविनो गणाः || ३४१ || मेरुमंदरकैलासशांभवादि महापदम् || इत्येते पदचत्वारि भविशैवपदान्तरम् || ३४२ || शिवपुराणे || बहुलिंगपूजकश्चैव बहुभावगुरुस्तथा || बहुप्रसादं यो भुंक्ते वेश्यापुत्रः स उच्यते || ३४३ || स्वयं लिंगांगसंबंधी शिव एव न चापरः || तस्मादन्योपभुक्तान्नमन्यपादोदकं त्यजेत् || ३४४ || पच्यमानपदार्थांश्च द्रवयुक्तान् विवर्जयेत् || द्रवहीनपदार्थांस्तु अर्पयेद्वीरशैवकः || ३४५|| महालिंगं मनोग्राह्यं विग्राह्यं ग्राह्यलिंगकम् || उभयोलिंगसंगेन सर्वांगं लिंगमेव च || ३४६ || योगसारसंग्रहे || पृ० ४९) पीठिकासूत्रस्थलनिरूपणम् मम लिंगांगसंगी यो लिंगांगसंगषड्विधम् | षट्स्थलज्ञानमाचरेत् त्रिषुलोकेषु दुर्लभम् || ३४७ || एवं षडंगलिंगैक्यस्थलमद्वैतमुत्तमम् || आश्रित्य षट्स्थलब्रह्मपदे नित्यं सुखी भवेत् || ३४८ || नेति नेतीति नेतीति शेषितं यत्परं पदम् || निराकर्तुमशक्तत्वात्तदस्मीति सुखी भवेत् || ३४९ || स्कांदे || शिवस्य भक्तिमूलं हि वीरमाहेश्वरैर्जनैः || संगमः सर्वदा पुंसां स तु लोकेषु दुर्लभः || ३५० || पुराकृतमहापुण्यपरिपाकविशेषतः || वीरमाहेश्वरासंगः सुलभः कस्यचिद्भवेत् || ३५१ || नरो माहेश्वरासंगपरो भवति वत्स चेत् || तद्दिनैरेव नो मासैः प्राप्यते शिववेदनम् || ३५२ || वृत्तम् || भवार्णवं तर्त्तुमिहेच्छतां नृणामुपाय एषः सुलभः सुखप्रदः || न वीरमाहेश्वरसंगमादृते जगत्त्रयेऽन्योस्ति विचारिते सति || ३५३|| तस्मात्परब्रह्म सुखस्वरूपं स्वमायया षट्स्थलभेदभिन्नम् || सच्चिन्मयं शंकरमक्षरं तद्यो वेद नायाति पुनर्भवं सः || ३५४ || पृ० ५०) ये षट्स्थलेषु विजयंति हि वै महान्तो वंद्यास्त एव विजितेंद्रियशत्रवस्ते || सम्राट् स्वराडपि च यत्र तृणायते त- च्छैवं पदं जगति ते हि समाप्नुवन्ति || ३५५ || एवं षट्स्थलनिर्णयं शिवपदप्राप्त्यैकहेतुं सदा यस्सेवेत कराब्जपीठनिहितश्रीकण्ठलिंगार्चकः | स ज्ञानी स पुरातनः स हि महामाहेश्वरेषूत्तमो मर्त्यस्तेन जगत्त्रये न सदृशो विद्येत देवोऽपि वा || ३५६|| लिंगधारी महालिंगे न भेदं कर्तुमर्हति || सद्भक्तो भृत्यरूपोपि वीरशैवसमो न च || ३५७|| वातुले || धारयेद्यस्तु हस्तेन लिंगाकारं शिवं सदा || तस्य हस्तस्थितं विद्धि तत्पदं [मत्पदम्] सम्पदां पदम् || ३५८|| शंकरसंहितायाम् || क्रिमिकीटपतंगेभ्यः पशवः प्रज्ञयाऽधिकाः || पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजातयः || ३५९ || पृ० ५१) पीठिकासूत्रस्थलनिरूपणम् द्विजातिष्वधिका विप्रा विप्रेषु ऋतुबुद्धयः || क्रतुबुद्धिषु कर्तारस्तेभ्यस्सन्यासिनोधिकाः|| ३६०|| तेभ्यो विज्ञानिनः श्रेष्ठास्तेषु शंकरपूजकाः || तेषु श्रेष्ठा महाभाग मम लिंगांगसंगिनः|| ३६१ || लिंगांगसंगिष्वधिको षट्स्थलज्ञानवान्भवेत् || तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा || ३६२|| स्कांदे || वीरशैवो महाश्रेष्ठः सर्वशास्त्रार्थसंमतः || त्रिमूर्तीनामपि शिवो देवानामुत्तमो भवेत् || ३६३ || स वंद्यः सर्वदा पूज्यः संसारविजिगीषुभिः || स भवार्णवमत्युग्रं दुष्पारं दुस्तरंगकम् || ३६४ || तीर्त्वा मां परमात्मानमेत्य नावर्तते पुनः || तस्मान्माहेश्वरस्यैषा निष्ठा वक्तुं नशक्यते || ३६५ || मया सर्वविदा वत्स किमुतान्यैरजादिभिः || बहुनोक्ते न किं वत्स स एवाहं न संशयः || ३६६ || पृ० ५२) वृत्तम् || एतन्मयोक्तं परमार्थसारं पुरोदितं शूलधरेण देव्यै || भक्त्या त्वमप्यद्भुतचेष्टितस्य शिवस्य धर्मं प्रथितं कुरुष्व || ३६७ || इदं महापापहरं पवित्रं धन्यं यशस्यं चरितं रहस्यम् || पठेत्सदा यः शृणुयादथो वा विधूतपापः शिवलोकमेति || ३६८ || इति श्रीमद्वीरमाहेश्वराचार्यवर्य श्रीवीरशैवषट्स्थलमार्गस्थापनाग्रगण्यश्रीसंपादनसिद्धवीराख्य अशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे पीठिकास्थलसूत्रं नाम प्रथमप्रकरणं समाप्तमभूत् || पृ० ५३) || श्रीगुरुबसवलिंगायनमः|| || अनादिभक्तस्थलं प्रारभ्यते || || द्वितीयप्रकरणम् || एवं शैवं वीरशैवं प्रतिपाद्य वीरशैवमेव अनादि सत् उत्तरं स्यात् शैवदर्शनमार्ग एव आदिस्सन् पूर्वं भवतीति वेदागमपुराणेतिहासादिषु प्रसिद्धो भूत्वा दृष्टे सति स अनादिवीरशैव एव अनादिपरशिवः स अनादिपरशिव एव सच्चिदानंदनित्यपरिपूर्णगुरुलिंगजंगमप्रसादपादोदकाखंडस्वरूपा नादिभक्तत्वात् अग्रे अनादिभक्तस्थलं कथ्यते || १|| वीरागमे || मद्भक्तानां च माहात्म्यं को वा जानाति तत्वतः || जानेऽहं त्वं हि जानासि नंदी जानाति वा गुहः || २|| सर्वकारणरूपं च सर्वतत्वपरं तथा || अनादिभक्तरूपं च सदोदितमिदं शृणु || ३ || वृत्तम् || भक्तो निरूढे निजभावरूपिणि निराश्रयानंदनिवासदायिनि || निर्देहके निर्विषये निरिंद्रिये निःकेवले नित्यपदे विराजते || ४ || पृ० ५४) अनादिभक्तमूर्तिश्च नित्या सत्या मम प्रिये || चिद्रूपा चिद्धनानंदचिन्मयी तु शुभानने || ५|| उत्तरवातुले || नित्यं पूर्णं चिदानंदं सद्रूपं ब्रह्मकीर्तनम् || यदेवाखंडरूपं च एतद्भक्तमुदाहृतम् || ६|| दृश्यं लिंगं जगद्यस्मिन् तन्नित्यं लिंगमुच्यते || अलघुयद्बृहद्वत्स परिपूर्णगुरुः स्मृतः || ७|| स्वयंप्रकाशरूपोऽयं सच्चिज्जंगम इष्यते || सौख्यं शतगुणाधिक्यमेतत्प्रसाद उच्यते || ८|| एतेषां स्वरसापूरैः सरसीकृतचिद्विधम् || एतत्पादोदकं विंद्यात्तद्रूपो भक्त उच्यते || ९|| गुरुलिंगचरं शेषं पादांबु सेकरूपकम् || तद्वै जानाति नो भक्तो विषयश्चेति कथ्यते || १० || आचारो गुरुसंबंधो निष्ठा तल्लिंगसंयुतः || सुज्ञानं जंगमश्चैव प्रत्यक्षश्च प्रसादकः || ११|| तत्तदेकरसश्चैव पादोदकमिदं शृणु || तत्पादोदकरूपश्च ह्यनादिर्भक्त उच्यते || १२ || तद्वद्भक्तान्तरे बाह्ये स्थितो भक्तस्तु संस्थितः || अंगान्तर्बाह्यचैतन्यं तस्माज्जानाति नः शिवे || १३|| पृ० ५५) अनादिभक्तस्थलनिरूपणम् भक्तप्राणं भवेत्तेन नादशून्यं च तत्पदम् || अंगलिंगचरप्राणमनादिभक्तलक्षणम् || १४|| ईश्वरगीतायाम् || अंगं लिंगमिति प्रोक्तं प्राणो जंगम उच्यते || लिंगजंगमयोरैक्यं तद्रूपं भक्त उच्यते || १५ || जंगमो लिंगरूपं च लिंगं जंगमरूपकम् || लिंगजंगममेकत्वमनादिर्भक्त उच्यते || १६|| लिंगजंगमभक्ताश्च त्रिधा ह्येकस्वरूपकाः || देहः प्राणस्तथात्मा च ह्यागमान्वयनिर्णयः || १७|| वीरागमे || लिंगं च बिंदुशून्यं च नादशून्यश्च जंगमः || भवेद्भक्तोंग शून्यश्च लिंगदेहश्च शून्यकः || १८ || लिंगं च कायशून्यं स्यात्प्राणशून्यश्च जंगमः || अनादिरूपभक्तश्चाप्यादिरूपस्तयोस्तनुः || १९ || ग्रंथान्तरे || सकलं भक्तरूपं च निष्कलं शिवरूपकम् || सकलं निष्कलं मिश्रं चररूपं निरूप्यते || २० || भक्तं सकलरूपं च सकलं निष्कलं चरम् || निष्कलं शिवरूपं च त्रिधा चैकमिदं शृणु || २१ || रहस्ये || लिंगं जंगममादिः स्याद्भक्तश्चानादिरूपकः || पृ० ५६) लिंगजंगमभक्ताश्च त्रिविधं चैकरूपकम् || २२ || सत्क्रिया लिंगमेवोक्तं सुज्ञानं जंगमस्तथा || क्रिया ज्ञानद्वयं चैकं भक्तरूपं शुभानने || २३|| ज्ञानेनैव क्रिया युक्ता क्रियया ज्ञानमन्वितम् || ज्ञानक्रियासमायुक्तं भक्तलक्षणमुच्यते || २४ || ज्ञानवैराग्यसंतोषक्षमाधृतिसमाधिभिः || शिवस्य लक्षणैर्युक्तो भक्त एव शिवः स्वयम् || २५ || ईश्वर उवाच- सर्वेषां मम भक्तानामिदमेव प्रयोजनम् || लिंगभक्तिर्लिंगपूजा लिंगधारणमेव च || २६ || लिंगांगी लिंगधारी च लिंगमूर्तिस्वरूपकः|| भो देवि जंगमप्राणितद्रूपो भक्त उच्यते || २७ || दासोहंभावो भक्तस्य सोहंभावश्चरस्य तु || भावभेदद्वयं नास्ति प्रकृतिप्रतिबिंबवत् || २८ || भयरूपो हि भक्तस्तु क्षमारूपस्तु जंगमः || उभयं चैकरूपं हि ममरूपं तु पार्वति || २९ || पुष्परूपश्च भक्तश्च गंधरूपश्च जंगमः| पृ० ५७) अनादिभक्तस्थलनिरूपणम् उभयं त्वेकरूपं च ममरूपं तु पार्वति || ३०|| वृत्तम् || दृग्दृश्यरूपेण च लिंगभक्तौ तावेकरूपौ परिपूर्णभावौ || वन्ह्युष्णरूपं कुसुमाग्रगंधं तद्रूपमेवं सुपदार्थरूपम् || ३१ || ग्रंथान्तरे || शिवभक्त इति प्रोक्तो यथा भक्तस्तथा शिवः || शिवभक्तयुतं रूपं जंगमं च निरूप्यते || ३२ || अनादिभक्तस्यांगं च लिंगं तत्स्यात्परं शिवम || तच्छिवं शक्तिसंयुक्तमन्योन्यं चैव सर्वदा || ३३|| शिवांगं शरणस्साक्षाच्छरणांगं शिवो भवेत् || शिवभक्तसमायोगं स्वेच्छाविग्रहधारणम् || ३४ || वायवीयसंहितायाम् || भक्तदेहे महादेवः सप्राणो लिंगप्राणकः || उभयोर्लिंगसंगं च सर्वांगं लिंगमेव च || ३५|| ग्रंथान्तरे || चेतनः शिवभक्तो मे भक्तस्य चेतनो ह्यहम् || यथा लिंगं तथा भक्तो यथा भक्तस्तथा शिवः || ३६|| लिंगं पंचाक्षरीरूपं भक्तः षड्वर्णरूपकः || पृ० ५८) लिंगसद्भक्तयोर्मध्ये भक्तरूपं विशिष्यते || ३७|| किंच || शिवरहस्ये || भक्तप्राणो ह्यहं देवि भक्तः प्राणो ममैव हि || मत्तोऽधिको हि भक्तस्तु तस्माद्भक्तं नमाम्यहम् || ३८|| वृत्तम् || धाता सृष्टिपतिः स पंकजभवस्तद्विष्णुनाभौ हरिः शेतेऽब्धौ | स मुनेः करेऽपि स घटे मृद्युद्भवः सा धृता || शेषेणापि च पार्वती धृतवती वामांगुलाग्रेण तं सार्धांगे वसति प्रभोस्स हृदये भक्तस्य भक्तोऽधिकः || ३९ || शिवरहस्ये || नाहं वसामि कैलासे न मेरौ न च मंदरे || मद्भक्ता यत्र तिष्ठन्ति तत्र तिष्ठामि पार्वति || ४०|| औदुंबरफलं चैव स्थितं शिवतरौ जगत् || शिवस्यादिः स भक्तश्च द्रमादेर्भू यथा तथा || ४१ || भक्तात्मलिंगसद्भावो लिंगात्मभक्तसंस्थितिः || द्वयोरभेदबुद्धिर्यः श्रेष्ठः स तु गणेश्वरः || ४२ || पृ० ५९) अनादिभक्तस्थलनिरूपणम् इति श्रीमद्वीरमाहेश्वराचार्यवर्य श्रीवीरशैवषट्स्थलमार्गस्थापनाग्रगण्य श्रीसंपादनसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे अनादिभक्तस्थलं नाम द्वितीयप्रकरणं समाप्तम् || पृ० ६०) || श्रीगुरुबसवलिंगायनमः || || अथानादिजंगमस्थलं प्रारभ्यते || || तृतीयप्रकरणम् || एवं त्र्यशीतिमूर्तिं गर्भीकृत्य स्थितस्य अनादिभक्तस्य हृत्कमलमध्ये धर्मसुज्ञानैश्वर्यवैराग्ययुक्तचतुर्दलाग्रेषु सूर्यचंद्राग्निमंडलत्रय अ उमा अक्षरत्रयसंयुक्त ओंकारस्तस्मिन्प्रणवपीठाग्रे स्थित्वा अन्तर्बहिः परिपूर्णो भूत्वा सकलतत्वब्रह्मांडानि गर्भीकृत्य स्थितं जंगमस्थलं कथमिति चेत् पुरतः अनादिजंगमस्थलं निरूप्यते || शिवरहस्ये गुरुः || कैलासशिखरे रम्ये भक्तिसंधानदायकम् || प्रणम्य पार्वती भक्त्या शंकरं परिपृच्छति || १|| वीरागमे || देव्युवाच- जंगमस्य च माहात्म्यं वर्णितं तत्वतस्त्वया || किमिदं तस्य माहात्म्यं ज्ञातुमिच्छामि शंकर || २|| ईश्वर उवाच- शृणु देवि प्रयत्नेन तेषां च महिमाव्ययम् || समुद्रवालुकश्चैव गणितुं शक्यते न हि || ३ || उपनिषदि || वृत्तम् || निर्नामं निरवग्रहं निरशनं निष्कारणं निष्कलं पृ० ६१) अनादिजंगमस्थलनिरूपणम् निस्संगं निरुपाधिकं निरुपमं निष्प्रक्रियं निश्चलम् || निष्पुण्यं निरनुग्रहं निरधिकं निर्वासनं निर्वहं निर्भेद्यं निरघं निरंजनपदं चैतद्भवेज्जंगमम् || ४|| ब्रह्मबिंदूपनिषदि || तदेव निष्कलं ब्रह्म निर्विकल्पं निरंजनम् || ५|| परमरहस्ये || निराकारं निरालंबं निराकुलनिरंजनम् || निष्पदं निष्प्रकाशं च ज्ञेयं जंगमलक्षणम् || ६|| गोरक्षसंहितायाम् || महानादं महाबिंदु महाशून्यं तु जंगमम् || महाशून्यमिदं सर्वमादिनाथं तु जंगमम् || ७|| वीरागमे || आदिमध्यान्तशून्यश्च सर्वानंदमयो विभुः || अनादिजंगमो देवि शिवरुद्रादिपूजितः || ८|| शून्यशून्यं परं शून्यं निःशून्यं निष्कलं तथा || आदिमध्यान्तशून्यं च ह्यनादिजंगमस्थलम् || ९|| निःशून्यं निर्वयः शून्यं शून्यशून्यमनामयम् || पृ० ६२) आदिशून्यं निरंतर्यमनादिजंगमस्थलम् || १०|| आकाशं च जटाकाशं तत्वाकाशं निरंजनम् || हृदाकाशं चिदाकाशं शून्यजंगमलक्षणम् || ११ || आद्यन्तशून्यममलं सदानंदमयं विभु || अनादिजंगमं देवि ब्रह्मविष्ण्वेंद्रपूजितम् || १२|| आद्यंतरहितं ज्योतिरनादि प्रभुचाव्ययम् || अनादीशमजातं च ह्यनादिप्रभुजंगमम् || १३|| ईश्वर उवाच- निःसंगं च निराहारं निर्देहं निरुपाधिकम् || निस्सीमं निर्मलं चैव निरूपं जंगमं स्मृतम् || १४ || जगन्मध्ये स्थितो लोको न बाह्यो जंगमात्परः || जंगमः पंचभूतात्मा ह्यष्टमूर्त्यात्मजंगमः || १५|| सप्तद्वयभुवनानि सप्तोदन्वंत एव च || सप्तद्वीपाश्च निखिलं त्रैलोक्यं सचराचरम् || १६ || अनंतकोटिब्रह्माण्डं भूम्यादिकुलपर्वताः || अष्टदिगूर्ध्वभागाधोगर्भीकृतस्तु जंगमः || १७|| चतुर्वेदाश्च गर्भं च पुराणं तस्य मध्यमम् || पृ० ६३) अनादिजंगमस्थलनिरूपणम् योगिनो मुनयस्सर्वे जंगमांघ्रिं समाश्रिताः || १८|| उत्तरवातुले || वृत्तम् || साभ्यन्तरं सबहिरंगममूर्ततत्वं ज्योतिःपरं पुरुषमक्षरतः पराख्यम् || स्वात्मादिशक्तिघटितं मनसैव नित्यं ध्यातव्यरूपमिह यच्चरलिंगमाहुः || १९ || तस्य देहे समस्तानि भुवनानि चतुर्दश || पादयोरतलं विंद्यात्पादोर्ध्वे वितलं तथा || २०|| जंघयोः सुतलं ज्ञेयं जानुस्थं च महीतलम् || तलातलं तथोरौ च गुह्यस्थाने रसातलम् || २१|| पातालं कटिबंधे तु सप्तलोका इतीरिताः || भूलोको नाभिमध्ये तु भुवर्लोकस्तु कुक्षिके || २२ || हृदये चापि स्वर्लोको जनर्लोकस्तु कंधरे || ताल्वोश्चापि तपोलोको ललाटे सत्यलोककः || महर्लोकमिमं मूर्ध्नि चतुर्दश समीरितम् || २३ || ब्रह्माण्डं मकुटं तस्य वदनं गगनं शृणु || दिशस्सर्वाश्च बाहू च नेत्रे चंद्रार्कसंज्ञके || २४ || शरीरं व्योमरूपं च पातालं पादपंकजम् || करस्थले शून्यलिंगं मेघास्सर्वे जटामयाः || २५|| पृ० ६४) चंद्रज्योत्स्ना विभूतिश्च वेदास्सर्वे क्रियामयाः || नक्षत्रं पुष्पनिचयं रुद्राक्षाः कुलपर्वताः || २६ || सागरो जलपात्रं च कंथा सृष्टिमयं जगत् || आसनं पृथिवी तस्य अहोरात्रं गुहामठम् || २७ || त्रिकालं ज्ञानसौभाग्यं ऋतवः षट्स्थलं प्रिये || शेषोऽपि कटिसूत्रं च ज्ञानमुद्रा च वाऽऽन्मयी || २८|| मेरुर्दण्डो गुणः सूत्रं गोत्रं शिवकुलं भवेत् || वनस्पतयश्च रोमाण्येवमेतानि पार्वति || २९ || वीरागमे || सर्वशून्यं समस्तासु लीलास्वादिममूर्तिकम् || चतुर्दशानां लोकानामुद्भवस्थितिकारणम् || ३० || तस्माज्जंगमरूपेण शून्यलिंगसमुद्भवः || तल्लिंगेन समुद्भूतं सर्वभूतमतः शृणु || ३१|| मकुटे शून्यमुद्भूतं शून्याज्जातं चिदंबरम् || चिदंबराच्च चिच्छक्तिः पराशक्तिरभूत्ततः || ३२|| आदिशक्तिस्तु तस्या वै इच्छाशक्तिरभूत्ततः || पृ० ६५) अनादिजंगमस्थलनिरूपणम् ज्ञानशक्तिस्तु तस्या वै क्रमादुद्भवते तथा || ३३|| तस्याः सहस्रांशकैश्च क्रियाशक्तिसमुद्भवः || तस्यास्सहस्रांशकैश्च नादकोटिसमुद्भवः || ३४ || तस्य तस्य सहस्रांशात्पंचसादाख्यसंभवः || तेषां सहस्रकैरंशैर्माहेश्वरसमुद्भवः || ३५|| तस्य कोटिसहस्रांशाद्विग्रहाः पंचविंशतिः || तदंशे संभवो रुद्रस्तस्माज्जातो जनार्दनः || ३६ || जनार्दनसहस्रांशाद्ब्रह्मा लोकपितामहः || पितामहाच्च सकलं जगत्स्थावरजंगमम् || ३७ || तस्य नेत्रसमुत्पनौ चंद्रादित्याविति श्रुतिः || वदने ब्राह्मणस्तस्य बाह्वोश्च क्षत्रियस्तथा || उर्व्वोश्च वैश्यः संभूतः पादे शूद्रस्तथैव च || ३८ || गंधर्वा रोमकूपेषु जातास्सर्वे च मानुषाः || त्रिकालं च त्रिसंध्यं च दिवारात्रं चतुष्टयम् || ३९|| वेदानां मंत्रयज्ञाश्च दिशश्च ज्ञानषट्क्रियम् || समयश्च गुणाश्चैव स्त्रीपुंसक्लीबकं तथा || ४०|| उत्पत्तिस्थितिसंहारास्सस्यानि च फलानि च || मेघाश्च विद्युतोऽप्सरः क्रिमिकीटकसर्पकाः || ४१ || चतुष्पादा द्विपादाश्च षट्पादाश्च मृगास्तथा || पृ० ६६) अंडजाः स्वेदजाश्चैव उद्भिज्जाला जरायुजाः || ४२ || स्त्रीमित्रबन्धुपुत्राश्च धनधान्यादिसम्पदः || इति सर्वाणि जातानि ब्रह्मांगे तु यथाक्रमम् || ४३ || एवं सर्वे महादेवि शरीरे जंगमस्य च || प्रत्यक्षमपि गोप्तव्यमुपदेशं विना मम || ४४|| तस्माद्यः प्राणलिंगांगसंगिनः पूजयेत्सदा || जन्मान्तरसहस्रेषु भाग्यं सुलभते शिवे || ४५|| तस्माच्छिरस उत्पन्नमादि जंगमरूपिणः || शून्यलिंगमिति ख्यातं सर्वकारणरूपकम् || ४६|| लिंगप्राणस्तदात्मा च लिंगं चापि स्वयं तथा || लिंगस्य कारणं रूपमनादिर्जंगमः शिवे || ४७|| इति श्रीमद्वीरमाहेश्वराचार्यवर्य श्रीवीरशैवषट्स्थलमार्गस्थापनाग्रगण्य श्रीसंपादनसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे अनादिजंगमस्थलं नाम तृतीयप्रकरणं समाप्तम् || पृ० ६७) || श्रीगुरुबसवलिंगाय नमः || || अथ शून्यलिंगस्थलं प्रारभ्यते || || चतुर्थप्रकरणं || एवं सर्वतत्वब्रह्माण्डानां सर्वेषां स्वयमेवादिर्भूत्वा स्वस्यानन्यकारणत्वेनानादिजंगममिति प्रख्यातं तदेवानादिजंगमं निरंजनं ब्रह्म तदेव निरंजनब्रह्मभूतमनादि जंगमं स्वलीलाविलासेन चिंतनात् शून्यलिंगमुत्पन्नं तत्कथमितिचेत् || निरंजनस्य चिन्तायां निरंजन ओंकार संभव इति विद्यमानत्वात् पुरः शून्यलिंगस्थलमासीत् || वीरागमे || ज्वलत्कालानलाभासा तडित्कोटिसमप्रभा || तस्य चोर्ध्वशिखा सूक्ष्मा चिद्रूपा परमा कला || तस्यां शिखायामचलं शून्यलिंगमजायत || १|| लिंगपुराणे || वाचातीतं मनोतीतं भावातीतं निरंजनम् || सर्वशून्यं निराकारं परमानंदमुच्यते || २|| अदृश्ये भावना नास्ति दृश्यमेव विनश्यति || अवर्णमक्षरं ब्रह्म कथं ध्यायंति योगिनः|| ३|| वीरागमे || पृ० ६८) आदिमध्यान्तशून्यं च व्योमातीतं निरंजनम् || ध्यानज्ञानमनोहीनं शून्यलिंगमनाश्रयम् || ४ || ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं तथैव च | शून्यमात्रफलं ह्येतदूर्ध्वतो मध्यतः पुनः || ५|| लिंगपुराणे || ऊर्ध्वशून्यमधःशून्यं मध्यशून्यमरूपकम् || आदिमध्यान्तशून्यं च निष्कलं देहवर्जितम् || ६|| वीरागमे || तनुशून्यं मनःशून्यं भावनाभोगवर्जितम् || कामक्रोधादिशून्यं च शून्यनामेति विश्रुतम् || ७|| निःशून्य निरवयवं तत्वातीतं निरंजनम् || निर्भेदानंदरूपं च निर्नाम तत्वरूपकम् || ८|| निःशून्यं च निरालंबं परं ज्योतिःस्वरूपकम् || अव्ययं चाचलं चैव ह्यत्यतिष्ठद्दशांगुलम् || ९ || अन्तःशून्यं बहिःशून्यं शून्यं शून्यं दशादिशम् || सर्व न्यून्यं? निराकारं निर्द्वंद्वं परमं पदम् || १० || पृ० ६९) शून्यलिंगस्थलनिरूपणम् अंतर्बहिश्च शून्यं च दशादिशविवर्जितम् || पादाद्यवयवो नास्ति शून्यलिंगमिति स्मृतम् || ११ || आद्यं चानादिरूपं च नादबिंदुकलातिगम् || देहप्राणादिभिः शून्यं शून्यलिंगमुदाहृतम् || १२|| देहं नास्ति कुलं नास्ति करणं कालवर्जितम् || इंद्रियादिसुखं नास्ति शून्यलिंगमिति स्मृतम् || १३ || माता नास्ति पिता नास्ति नास्ति बंधुस्सहोदरः || कुलं नास्ति छलं नास्ति तत्स्याच्छून्यस्वरूपकम् || १४|| अकारणमकार्यं च मनोवाचामगोचरम् || आदिमध्यान्तशून्यं च व्योमाव्योमविवर्जितम् || ध्यानज्ञानमनोहीनं शून्यलिंगमनाश्रयम् || १५|| तेजोबिंदूपनिषदि || अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् || न ध्यातं न च वा ध्यातं न ध्येयाध्येयमेव च || १६ || सर्वं च यत्पदं शून्यं न परं न परापरम् || पृ० ७०) अचिंत्यमप्रबुद्धं च नासत्यं न च तद्विदुः || १७ || वीरागमे || सर्वशून्यस्य मध्ये तु निष्कलं च समुद्भवम् || तल्लिंगेन समुद्भूतं सर्वतत्वमतः शृणु || १८|| इति श्रीमद्वीरमाहेश्वराचार्यवर्यश्रीवीरशैवषट्स्थलमार्गस्थापनाग्रग् अण्यश्रीसंपादनसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे शून्यलिंगस्थलं नाम चतुर्थप्रकरणं समाप्तम् || पृ० ७१)|| श्रीगुरुबसवलिंगाय नमः|| || अथ निष्कललिंगस्थलं प्रारभ्यते || || पंचमप्रकरणम् || एवं सर्वशून्यनिरालंबं शून्यलिंगं स्वस्य लीलाविलासचिंतनेन षट्कलातीतं वाऽऽन्मानसागोचरं निष्कललिंगस्वरूपमासीत् तत्कथमिति चेत् || वीरागमे || शून्यं शून्यमयं शून्यं शून्यकायसमुद्भवम् || तत्वातीतं पदातीतं परतत्वं परापरम् || १|| शिवोऽस्ति सच्चिदानंदं परिपूर्णं निरंजनम् || अकारणमकार्यं च मनोवाचामगोचरम् || २|| ईश्वर उवाच- अलक्ष्यमद्वयं शून्यममूर्तं परमाव्ययम् || अनाम ह्यकलं शुद्धमनाद्यं शिव उच्यते || ३|| वातुलतंत्रे || शिवं परात्परं सूक्ष्मं नित्यं सर्वगताव्ययम् || अनिंदितमनौपम्यमप्रमाणमनामयम् || ४|| तत्वसारे || न रक्तं न च वा पीतं न शुक्लं कृष्णमेव च || सर्वैर्गुणैर्विनिर्मुक्तं ज्ञानातीतं परात्परम् || ५|| पृ० ७२) शिवधर्मपुराणे || ब्रह्माद्वैतान्न विष्णुश्च न रुद्रो नो रविर्विधुः|| अग्निर्व्योमसमीरांबू न भूमिर्न ग्रहा दिशः || ६|| ततोऽहश्च न रात्रिश्च न विष्णुर्न प्रजापतिः|| नाकाशादीनि भूतानि किं पुनर्भौतिकं जगत् || ७|| श्वेताश्वतरोपनिषदि || तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो भान्ति कुतोऽय- मग्निस्तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति || ८|| मुंडकोपनिषदि || हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् || तच्छुद्धो? ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः || ९ || परमार्थसारे || न देवः? पुण्डरीकाक्षो न च देवस्त्रिलोचनः || न देवो देहरूपोऽपि सदेवश्चित्स्वरूपकः || अकृत्रिमस्त्वनाद्यन्तो देवानां देव उच्यते || १०|| सर्वविकल्पविहीनं शुद्धं शान्तं व्ययोदयविहीनं || यत्परतत्वं तस्मिन् विभाति षट्त्रिंशदात्मकं न जगत् || ११ || पृ० ७३) निष्कललिंगस्थलनिरूपणम् सर्वज्ञानोत्तरे || न रुद्रो न च कालो वा नेश्वरो नाज एव च || अनाख्यं च निराभासं संस्थितं तन्निराश्रयम् || १२ || यजुर्वेदे जाबालशाखायाम् || प्रत्यंजनस्तिष्ठति स युगान्तकाले एको देवो न द्वितीयाय तस्थे न ब्रह्मा न विष्णुर्न सूर्योग्निर्न चंद्रतारकाः || १३ || यस्मिन्सूर्यो न भासते न चंद्रमा अनलो न हि यस्य भासा विभाति तं वन्दे || १४ || सूतसंहितायाम् || तस्य प्रकृतिजं विश्वं यः परः स महेश्वरः || योऽयं महेश्वरः साक्षात्प्रणवस्याप्यगोचरः|| ब्रह्मैकमेव जिज्ञास्यं न ततोऽन्यत्तु किंचन || १५|| न भूमिर्न जलं चैव न च तेजश्च वायवः || न च ब्रह्मा न विष्णुश्च न च नक्षत्रतारकाः || सर्वशून्यं निरालंबं स्वयंभूलिंगमूर्तिकम् || १६ || वीरागमे || निष्कलस्यान्तरे त्वासीदादिमूर्तिसमुद्भवः|| आदिमूर्तेः समाख्यातः परशक्तिसमुद्भवः || १७ || पृ० ७४) परशक्तेः समाख्यातो नादबिंदुसमुद्भवः || नादबिंद्वोः समाख्यातः सदाज्ञानसमुद्भवः || १८ || सदाज्ञानसमायोगाच्छिवस्येच्छासमुद्भवः || शिवस्येच्छासमायोगादीश्वरात्मसमुद्भवः || १९ || ईश्वरात्मसमायोगाद्रुद्रक्रियासमुद्भवः || रुद्रक्रियासमायोगाद्विष्णुलक्ष्मीसमुद्भवः || २०|| विष्णुलक्ष्मीसमायोगाद्ब्रह्मवाणीसमुद्भवः || ब्रह्मवाणीसमायोगात्सर्वविश्वसमुद्भवः || २१ || इति श्रीमद्वीरमाहेश्वराचार्यवर्यश्रीवीरशैवषट्स्थलमार्गस्थापनाग्रग् अण्यश्रीसंपादनसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे निष्कललिंगस्वरूपस्थलं नाम पंचमप्रकरणं समाप्तम् || पृ० ७५) || श्रीगुरुबसवलिंगाय नमः || || अथ महालिंगस्थलं प्रारभ्यते || || षष्ठप्रकरणम् || एवं सर्वतत्ववर्णातीतं निष्कलपरशिवलिंगं स्वस्य लीलाविलासेन स्वयमेव देवभक्तगुरुशिष्यपूज्यपूजकसेव्यसेवकस्वरूपो भूत्वा प्रपंचमठ?नार्थं चिन्तनायां सैव चिन्तना बहिर्गता भूत्वा चिदासीत् सैव चित् चिदंबरं तत्कथमिति चेत् अवाच्यप्रणवचिंतायां चिदंबरसमुद्भवमित्युक्तत्वात् तच्चिदंबरं सर्वमंत्रात्मकं सद्वर्तते ततश्चितः सच्चिदानंदात्मककलाप्रणवानादिमातृप्रणवसंज्ञकचिन्नादचिद्विंदुचित् कलामिश्रीभूतं सत् शुद्धप्रसादप्रणवनामकाखण्डगोलकाकारतेजोमूर्तिस्वरूपमहालिंगस्व रूपत्वात् अग्रे महालिंगस्थलमासीत् || ईश्वर उवाच- महालिंगमिदं देवि मनोतीतमगोचरम् || निर्नाम निर्गुणं नित्यं निरंजन्यं निरामयम् || १|| निर्मलं निष्कलं ज्ञेयं निर्भेद्यं निरुपाधिकम् || पृ० ७६) अद्वैतानंदमक्षीणमसादृश्यमिदं शृणु || २|| किंच || पैंमलशाखायाम् || यत्तच्छान्तमजरमभयममृतं परं ज्योतिः || ३|| योगषट्सहस्त्रिकायाम् || परानंदात्मकं लिंगं केवलं सन्निरंजनम् || ज्ञानात्मकं सर्वगतं योगिनां हृदये स्थितम् || ४|| परतत्वं गोलकाकारं चिन्मयं चिद्विलासितम् || शरण्यं सर्वतत्वानां लिंगाकारेण वर्तते || ५|| शिवधर्मोत्तरे || आकाशं च निराकारं तन्मध्यं लिंगरूपकम् || अव्यक्तं लिंगमाकल्प्य गोलकाकारसंयुतम् || ६|| नादो लिंगमिति ज्ञेयं बिंदुः पीठमुदाहृतम् || नादबिंदुयुतं रूपं लिंगाकारमिहोच्यते || ७|| नादबिंदुः कलायुक्तं प्रकृतिप्रणवरूपकम् || शिवशक्तिसमायोगमभूत्सृष्ट्यर्थकारणम् || ८|| बिंदुः शक्तिः शिवो नादः कला संयोग एव च || शिवशक्त्योर्भवेद्योगो जगत्सृष्ट्यर्थकारणम् || ९|| तत्पराशक्तिरित्युक्ता पीठिका सैव नान्यथा|| सर्वस्योत्पत्तिहेतुत्वात्प्रथमं लिंगमुच्यते || १०|| सवित्री सर्वतत्वानां परशक्तिश्च पीठिका || पृ० ७७) महालिंगस्थलनिरूपणम् शिवतत्वं परानंदं परं लिंगमुदीरितम् || ११|| उत्तरवातुले || वृत्तम् || आद्यन्तशून्यममलं परिपूर्णमेकं सूक्ष्मं परात्परमनामयमप्रमेयम् || भावैकगम्यमजडं शिवतत्वमाहुश्चिच्छक्तिसंस्फुरणरूढमहात्मलिंगम् || १२|| किं चैतेषां स्थलानां तु प्रादुर्भावे प्रदर्शिते || शिव एव स्वचिच्छक्त्या महालिंगस्थलं भवेत्|| १३ || लीयते गम्यते यत्र येन सर्वं चराचरम् || तदेतल्लिंगमित्युक्तं लिंगतत्वपरायणैः || १४|| शिवधर्मोत्तरे || लिंगेन जायते तत्र जगत्स्थावरजंगमम् || तस्माल्लिंगं विशेषेण लिंगरूपमुदाहृतम् || १५|| ब्रह्माण्डकोटयस्तस्य निर्मातुर्लिंगरूपिणः || शिवस्य कुक्षिजलधौ जायन्ते बुद्बुदोपमाः || १६|| शिवसंकल्पमात्रेण बिंदुक्षोभकरस्सदा || य एवोपाधिमातस्थे विकृताकारजन्मनि || १७|| एतत्तत्वमयं लिंगं सर्वतत्वालयं विदुः || लिंगेन जायते तत्वं जगत्स्थावरजंगमम् || १८|| पृ० ७८) गारुडपुराणे || लिकारो लय इत्युक्तो गकारो सृष्टिरुच्यते || लयनं गमनं चैव लिंगशब्द इहोच्यते || १९|| सिद्धान्तशिखामणौ || ब्रह्मविष्ण्वादयस्सर्वे देवा वेदादयस्तथा || लियाना यत्र गम्यन्ते तल्लिंगं ब्रह्मकेवलम् || २०|| ब्रह्माण्डपुराणे || चराचरात्मकमिदं गम्यते यत्र लीयते || उत्पद्यते यतो भूयस्तल्लिंगं परमिष्यते || २१|| शिवधर्मे || जठरे लीयते तस्य जगत्स्थावरजंगमम् || पुनरुत्पद्यते तस्माद्ब्रह्माद्यं सचराचरम् || २२|| ज्वालामालावृतं दिव्यमप्रमेयमनामयम् || कल्पान्ते तत्र लीयन्ते वर्धन्ते सर्वदेवताः || २३|| दक्षिणे लीयते ब्रह्मा वामतश्च जनार्दनः || हृदये चैव गायत्री सर्ववेदोत्तमोत्तमा || २४|| लीयन्ते मूर्ध्नि वै वेदाः सषडंगपदक्रमाः || जठरे लीयते सर्वं जगत्स्थावरजंगमम् || २५|| सिद्धान्तशेखरे || पिण्डब्रह्माण्डयोरैक्यं लिंगसूत्रात्मनोरिव || स्वाव्ययं कृतयोरैक्यं क्षेत्रज्ञपरमात्मनोः || २६|| पृ० ७९) ब्रह्माण्डपुराणे || परं गूढं शरीरस्थं लिंगक्षेत्रमनादिवत् || यदाद्यमैश्वरं तेजस्तल्लिंगं पंचसंज्ञकम् || २७|| अधिष्ठानं समस्तस्य स्थावरस्य चरस्य च || जगतो यद्भवेत्तत्वं तद्धि वै स्थलमुच्यते || २८|| शिवरहस्ये || अवर्णो वर्णसंयुक्तो विरूपो विश्वरूपभृत् || परमात्मा परब्रह्मकश्चिद्देवोस्ति चिच्छिवः || २९|| शिवांगं चैव भूतांगं विद्यांगं च तथैव च || कूटांगं चैव शक्त्यंगं सामान्यांगं तथैव च || एतानि चांगनामानि शिवांगानि षडेव हि || ३०|| वातुले|| मंत्राध्वा च पदाध्वा च वर्णाध्वाचेति शब्दतः || भुवनाध्वा च तत्वाध्वा कलाध्वा चेति विश्रुताः || ३१|| जगत्यां भुवनाध्वानं पदाध्वानं च पंकजे || वर्णाध्वानं च वृत्ते तु कलाध्वानं तु पंकजे || ३२|| तत्वाध्वानं पट्टिकायां मंत्राध्वानं प्रदारिके || एवं षडध्वकं न्यस्य सर्वमंत्रात्मकं शिवम् || ३३|| आदिप्रणवपीठं स्यादकारो मध्यमेव च || उकारो गोमुखं चैव मकारो वर्तुलं तथा || नालो बिंदुर्महातेजो नादश्चाखंडलिंगकम् || ३४|| पृ० ८०) नकाराश्चादिपीठं च मकारो मध्यमेव च || शिकारो वर्तुलं चैव वकारो गोमुखं तथा || यकारो बिंदुरेव स्यात्प्रणवो लिंगमुच्यते || ३५|| नमेति पीठसंयुक्तं शिकारो मध्यमेव च || वकारो गोमुखं चैव यकारो वर्तुलं तथा || ओंकारो गोलकस्थानं लिंगं षड्वर्णरूपकम् || ३६|| वृत्तगोलकभावं च मध्यगोमुखप्राणकम् || इष्टं पीठं त्रिधा चैकं तत्वत्रयमुदाहृतम् || ३७|| आचारं गौरवं वृत्तेर्मध्ये लिंगं व्यवस्थितम् || गोमुखे चरलिंगं च प्रसादो वर्तुले तथा || गोलके च महद्रूपमिष्टं षड्विधमीरितम् || ३८|| वृत्तम् || यद्भक्तनिष्टं निजलिंगपीठे मध्ये प्रसादी स च गोमुखे च || यत्प्राणलिंगी शरणं च वृत्ते चित्ते निजैक्यंत्विति षट्स्थलानि || ३९|| बिंदुमध्ये गतो नादो नादमध्ये तु मूर्तयः || मूर्तिमध्ये गतं तत्वं तत्वमध्ये गतः शिवः || ४०|| मूलमंत्रस्वरूपाय मूलमंत्रात्मरूपिणे || मूलप्रकृतिसंज्ञाय मूलस्तंभाय शंभवे || ४१|| लीलायाश्च गतस्साक्षादुमापतिरितीरितः || लीलया रहितः पश्चात्स्वयंभूरिति कथ्यते || ४२|| पृ० ८१) महालिंगस्थलनिरूपणम् शिवस्तु ब्रह्म चैवोक्तं शक्तिरेवांगमुच्यते || शिवशक्तिसमायोगो जगत्सृष्ट्यर्थकारणम् || ४३|| स्वयंभु सर्वचैतन्यं तत्वमूलसमन्वितम् || परशक्तिसमायोगं जगत्सृष्ट्यर्थकारणम् || ४४|| वातुले || तच्चिंतायाः पराशक्तिः सहस्रांशेन जायते || तच्छक्तेस्तु सहस्रांशादादिशक्तिसमुद्भवः || ४५|| तच्छक्तेस्तु असहस्रांशादिच्छाशक्तिसमुद्भवः || तच्छक्तेस्तु सहस्रांशाज्ञ्ज्ञानशक्तिसमुद्भवः || ४६|| तच्छक्तेस्तु सहस्रांशात्क्रियाशक्तिसमुद्भवः || एषा वै पंचधा शक्तिर्निष्कला चेति कीर्तिता || ४७|| क्रियाकर्मेति विज्ञेयं तस्मात्कर्मेति नामतः || लिंगपीठे प्रकारेण कर्मसादाख्यलक्षणम् || ४८|| चत्वारि कर्तृरूपाणि केवलं नादमुच्यते || लिंगं शिवमिति ज्ञेयं शक्तिः पीठमुदाहृतम् || ४९|| योनिलिंगप्रकारेण जगत्सृष्ट्यर्थकारणम् || तथा संयोगभावस्य कर्मतत्वमुदाहृतम् || ५०|| तस्मान्नादात्मतत्वं च सर्वकारणकारणम् || सदाशिवमिति प्रोक्तं सर्वशास्त्रेषु निश्चितम् || ५१|| पृ० ८२) इति श्रीमद्वीरशैवाचार्यवर्य श्रीवीरशैवषट्स्थलमार्गस्थापनाग्रगण्य श्रीसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे महालिंगस्थलं नाम षष्ठप्रकरणं समाप्तम् || पृ० ८३) || श्रीगुरुबसवलिंगाय नमः || || अथ प्रणवलिंगमूर्तिस्थलं प्रारभ्यते || || सप्तमप्रकरणम् || एवमखंडगोलकाकारतेजोमूर्तिस्वरूपं महालिंगं जगत्सृष्ट्यर्थं चिंतनायां परशक्तिप्रकाशोऽभूत् || तस्याः परशक्तेः समरससंयोगेन परनादबिंदुकला भूत्वा तेन त्रिविधप्रणवेन सह ओंकारप्रणवरूपं लिंगमूर्तिस्वरूपमासीत् || तत्कथमिति चेत् आदिप्रणवचिंतायामक्षरत्रयमुद्भवम् || अकारोकारसंयोगादोंकारप्रणवोद्भव इत्युक्तत्वात्पुरः प्रणवलिंगमूर्तिस्थलमभूत् || सृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणम् || शक्तिसंयोगसद्भावं स्वेच्छया चिंतितः शिवः || १|| योगषट्सहस्रिकायाम् || तद्गुरोराज्ञयैवोक्तं नादबिंदुकलास्तथा || नादबिंदुकलायुक्तं प्रणवं च स्वयंभुकम् || २|| वातुले || नादाख्यो यत्परो बीजस्सर्वभूतेषु संस्थितः || तं विदित्वा महासेन देशिकः पाशहा भवेत् || ३|| पृ० ८४) वृत्तम् || वेदादिमूलं प्रथमं स्वराणां त्रयोदशस्थं शशिसूर्यबिंबम् || नादात्मकं सुप्तभुजंगरूपं त्रितत्वमूलं प्रणवं नमामि || ४|| तत्रैव || अवाग्जप्रणवे विंद्यादोंकारं नादरूपकम् || ओंकारप्रभवं विंद्यादकारप्रणवं परम् || ५|| अकारप्रणवे विंद्यादुकारप्रणवं तथा || अकारोकारसंयोगान्मकारप्रणवं तथा || एतत्प्रवृत्तिमार्गेण प्रोक्तं प्रणवपंचकम् || ६|| यथा तां सकलो देवो निष्कलेन समन्वितः || कलामुत्पादयामास सर्वमंत्रप्रवर्तिकाम् ओंकारमूर्ध्नि मध्यस्थो ओंकारव्यापकस्तथा || ७|| ओंकारे प्रथमां रेखामकारं सृजति प्रभुः || नामानामकलाविद्या सर्ववर्णेष्ववस्थिता || ८|| ओंकारे द्वितीयां रेखामुकारं च तथासृजत् || प्रतिष्ठासेत्यनुज्ञेया ह्युकाराक्षरसंभवा || ९|| मूर्ध्नि तस्य भवेदेषा सूक्ष्मरेखा निरंजना || मकारा सा भवेत्तत्र निर्वृत्तिर्नामतः कला || १०|| अकारोकारसंयोगादोंकारः स्वर उच्यते || ओंमित्येकाक्षरं ब्रह्म वदन्ते सर्वयोगिनः || ११|| अकारश्चाप्युकारश्च मकारश्च तृतीयकः || इमान्यैकं समुत्पन्नमोमिति ज्योतिरूपकम् || १२|| पृ० ८५) प्रणवलिंगमूर्तिस्थलनिरूपणम् सूतसंहितायाम् || ओंकारप्रभवा वेदा ओंकारप्रभवाः स्वराः || ओंकारप्रभवं सर्वं त्रैलोक्यं सचराचरम् || १३ || सर्वव्यापक ओंकारो मंत्रोन्यत्र न शोभते || प्रणवो हि परब्रह्म प्रणवः परमं पदम् || १४|| प्रणवं सर्ववेदाद्यं सर्वदेवमयं विदुः || सर्वेषां चैव मंत्राणां प्रणवः प्राण उच्यते || १५|| नकारस्तारकास्थानं प्रकारो दण्ड उच्यते || शिकारः कुण्डलाकारो वाकारश्चार्धचंद्रकम् || यकारो दर्पणाकारः प्रणवः पंचवर्णकः || १६|| निरामयसारे || त्रिवर्णमक्षरं चैतदोंकारेति प्रजायते || ह?क्षं तु त्रिवर्णं च चिदात्मनि सुजायते || १७|| अईइ उकारश्च उॠ ऌऌर्वर्णकम् || एऐ ओऔ अंअः वर्णं यकारे च प्रजायते || १८|| कखगघऽऽनकारश्च चछजझञकारकः || टठवर्णं तथा ह्यस्मिन् वकारे सुप्रजायते || १९|| डढण तथ वर्णं च दधनपफवर्णकम् || एतानि दशवर्णानि जायन्तेऽत्र शिकारके || २०|| बभमयरवर्णं च ल एकं वर्णकं तथा || वर्णषट्कं तथा ह्यस्मिन्मकारे च सुजायते || २१|| वशषसवर्णं चैव नकारे च प्रजायते || पृ० ८६) इति वर्णाक्षरन्यासः सुसूक्ष्मः कमलानने || २२|| प्रणवस्य तरोर्मूलं मकारो नादरूपकः || स्कंधो बिंदुरुकारः स्यात्कला शाखामकारकः || २३|| स्त्रीरूपा इव पुंरूपास्तथा चोभयरूपकाः || सर्वे वै देवतारूपाः प्रत्येकं वर्णरूपकाः || २४|| वर्णो बीजं तथार्णं च लिंगमक्षरमातृकम् || एते वै षट्कनामानो वर्णपर्यायवाचकाः || २५|| तेषां रूपं यथा प्रोक्तं प्रकृतिर्विकृतिस्तथा || प्रकृतिः सप्तवर्णानि विकृतिस्तु नवार्णकम् || २६|| अकारश्च इकारश्च उकारश्च ऋकारकः || ऌकारश्चैव एकारस्तथैवौकार एव च || २७|| एते सप्त स्वराः प्रोक्ता प्रकृतिस्तु समीरिताः || शेषास्तु विकृतिः प्रोक्तास्तेषामुद्भव उच्यते || २८|| अकारेऽभवदाकार इकारे ई समुद्भवः || उकारे चैव ऊकारृकारे ऋ समुद्भवः || २९|| ऌकारे चैव ऌर्कार एकारे त्वै च संभवः || ओकारे औस्तथा ज्ञेयो क्रमेणैवं समुद्भवाः || ३०|| एते वै विकृतिः प्रोक्ता आकारादिनवार्णकाः || आकारादिविसर्गान्ता एते वै षोडशस्वराः || ३१|| कला मात्रा स्वरा जीवा प्रकृतिर्विकृतिस्तथा || पृ० ८७) प्रणवलिंगमूर्तिस्थलनिरूपणम् प्राणात्मना च देही च कलापर्यायवाचकाः || ३२|| कलाभेदमिदं प्रोक्तं विकलाभेदकं शृणु|| ककारादिक्षकारान्तवर्णाश्च विकलाः स्मृताः || ३३|| देहोपाधि शरीरं च क्षेत्राधारतनुस्तथा || व्यंजनं विकलाशक्तिर्बिंदुपर्यायवाचकाः || ३४|| ककारश्च गकारश्च चकारश्च जकारकः || टकारश्च डकारश्च तकारश्च दकारकः || ३५|| पकारश्च वकारश्च शकारश्च क्षकारकः || एते द्वादश वर्णाश्च पुल्लिंगाश्चेति कीर्तिताः || ३६|| खकारश्च घकारश्च छकारश्च झकारकः || ठकारश्च ढकारश्च थकारश्च धकारकः || ३७|| फकारश्च भकारश्च षकारश्च सकारकः || एते वै भानुबीजाश्च जायाश्चेति प्रकीर्तिताः || शेषं नपुंसकं विंद्यात्त्रयो भेदा इति स्मृताः || ३८|| ओंकारं नादरूपं च ओंकारं बिंदुरूपकम् || ओंकारं व्यापिनं विंद्यादोंकारं गोप्यमाननम् || ३९|| सद्योजातं नकारश्च मकारो वामदेवकम् || शिकारो घोरसंयुक्तस्तत्पुरुषो वकारकः || यकारश्चेशसंबंधः पंचवक्त्रं प्रकीर्तितम् || ४०|| वातुले || ईशानं पुरुषं चैव अघोरं वामदेवकम् || सद्योजातं च पंचैतत्कलाब्रह्म प्रकीर्तितम् || ४१|| ईशानस्य कलाः पंच पुरुषस्य चतुःकलाः || पृ० ८८) अघोरस्य कलाश्चाष्टौ वामदेव त्रयोदश || सद्योजातस्याष्टकलाः अष्टत्रिंशत्कलाः स्मृताः || ४२|| ईशान सर्वविद्यानां प्रथमं परिकीर्तितः || ईश्वरः सर्वभूतानां द्वितीयश्चेति कीर्तितः|| ४३|| ब्रह्माधिपतिरित्येव ब्रह्मणोधिपतिस्तथा || ब्रह्मेतीदं तृतीयं स्याच्छिवो मेऽस्तु चतुर्थकम् || ४४|| सदाशिवोमिति ज्ञेयं पंचमं त्वितिकीर्तितम् || एते चेशानरूपाश्च पंच संख्याः प्रकीर्तिताः || ४५ || तत्पुरुषाय विद्महे प्रथमं परिवक्ष्यते || महादेवाय धीमहि तन्नो चेति द्वितीयकम् || ४६|| रुद्रस्तृतीयमित्युक्तं चतुर्थं तु प्रचोदयात् || एवं तत्पुरुषकलाश्चतस्रश्चेति कीर्तिताः || ४७|| अघोरेभ्यस्तथा पूर्वं घोरेभ्यश्च द्वितीयकम् || घोरघोर तृतीयं स्यात्तरेभ्यश्च चतुर्थकम् || ४८|| सर्वेभ्य पंचमं विंद्यात्षष्ठं सर्वमुदाहृतम् || सर्वेभ्यो नमस्ते अस्तु सप्तमं चेति कीर्तितम् || ४९|| अष्टमं रुद्ररूपेभ्यो अघोरस्याष्टकं स्मृतम् || ५०|| प्रथमं वामदेवाय ज्येष्ठायेति द्वितीयकम् || तृतीयं रुद्राय नमः कलायेति चतुर्थकम् || ५१|| पंचमं कलयेत्युक्तं विकर्णाय नमोस्तु षट् || सप्तमं बलमित्युक्तमष्टमं विकरणाय च || ५२|| पृ० ८९) प्रणवलिंगमूर्तिस्थलनिरूपणम् नवमं बलमित्युक्तं दशमं प्रमथनाय च || सर्वभूतदमनाय नमश्चैकादश स्मृतम् || ५३|| द्वादशं च मनश्चैते त्रयोदशोन्मनाय च || एतास्त्रयोदश कला वामदेवेति कीर्तिताः || ५४|| सद्योजातं प्रपद्यामि प्रथमं परिकीर्तितम् || द्वितीयं सद्योजाताय वै नमश्चेति कीर्तितम् || ५५|| तृतीयं तु भवे चैव भवे चेति चतुर्थकम् || पंचमं च नातिभवे षष्ठं चेति भवस्व माम् || ५६|| सप्तमं च भवो विंद्यादुद्भवायाष्टमं भवेत् || एवमष्टकलाः प्रोक्ताः सद्योजातमुदाहृतम् || ५७|| ईशानादीनि सद्यान्तान्यष्टत्रिंशत्कला स्मृताः || कला ब्रह्माणीति चोक्तं पंचब्रह्माणि चोच्यते|| ५८|| एवं तत्स्मृतिमात्रेण मूर्तं सकलरूपधृक् || निष्कलं तद्भावे तु तस्मात्सकलनिष्कलम् || ५९|| शिवमेकं विजानीयात् सादाख्यः पंचधा भवेत् || पंचमूर्धसमायुक्तं पंचवक्त्रसमायुतम् || ६०|| वासिष्ठे || यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः|| तस्य प्रकृतिजं विश्वं यः परः स महेश्वरः|| ६१|| वायवीयसंहितायाम् ब्रह्मगीतासु || तदिदं द्विविधं रूपं स्थूलं सूक्ष्मं च तत्परम् || पृ० ९०) अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं च योगिभिः || ६२|| वातुले || योगिनां च यतीनां च ज्ञानिनां मंत्रिणां तथा || ध्यानपूजानिमित्ताय सकलं निष्कलं भवेत् || ६३|| ततःपरं तु यन्नित्यं ज्ञानमानंदमव्ययम् || तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमास्तिकैः || ६४|| तत्वं तु त्रिविधं ज्ञेयं तस्य भेदं श्रुणुष्व च || शिवं सदाशिवं चैव माहेशं त्रिविधं स्मृतम् || ६५|| वातुले || शिवतत्वं महासेन निष्कलं चेति कीर्तितम् || सकलं निष्कलं चैव सदाशिवमिहोच्यते || महेशं सकलं विंद्यात्त्रिविधास्ते भवंति वै || ६६|| शिवमेकं विजानीयाः सादाख्यं पंचधा भवेत् || महेशं तु महासेन पंचविंशति भेदकम् || ६७|| जटामकुटसंयुक्तमेकवक्त्रं त्रिनेत्रकम् || सर्वाभरणसंयुक्तमेकपद्मासनस्थितम् || ६८|| प्रथमं सोमधारी च द्वितीयमुमयासह || तृतीयं वृषभारूढं चतुर्थं नृत्यकोपमम् || ६९|| पृ० ९१) प्रणवलिंगमूर्तिस्थलनिरूपणम् वैवाहं पंचमं विंद्यात्षष्ठं भिक्षाटनं भवेत् || कामारि सप्तमं विंद्याकालारि चाष्टमं भवेत् || ७०|| नवमं त्रिपुरारि स्याज्जलंधरवधो दश || एकादशमजारिः स्याद्द्वादशं वीरभद्रकम् || ७१|| त्रयोदशं हरिध्वंसमर्धनारी चतुर्दश || पंचदश किरातः स्यात्कंका?इ षोडशं भवेत् || ७२|| चंडीशानुग्रहश्चैव तथा सप्तदशं भवेत् || विषापहरणं चैव अष्टादशमिति स्मृतम् || ७३|| चक्रदानस्वरूपं तु एकोनविशकं स्मृतम् || विघ्नप्रसादो विंशः स्यादुमास्कंदैकविंशकम् || ७४|| द्वाविंशमेकपादस्स्यात्त्रयोविंशं सुखावहम् || दक्षिणामूर्तिरूपं तु चतुर्विंशमिति स्मृतम् || ७५|| लिंगोद्भवस्वरूपं तु पंचविंशं प्रकीर्तितम् || एतेषां तत्वसंयुक्तमेकत्रिंशदिति स्मृतम् || ७६|| वातुले दीक्षाविधाने || सादाख्य ईश्वरश्चैव महेशो रुद्र एव च || त्रयावयवमूर्तिश्च द्विपंचाशच्च तत्कलाः || ७७|| सादाख्यपंचकं चैव ईश्वरस्याष्टकं भवेत् || पंचविंशं महेशस्य रुद्रस्यैकादश स्मृताः || ७८|| त्रिमूर्तेरंगत्रितयं द्विपंचाशच्च ते स्मृताः || पृ० ९२) शिवतत्वामूर्तिकं च मूर्तिकर्तृ तथैव च || ७९|| शिवत्वामूर्तिकं चैव मूर्तं कर्तृ तथैव च || कर्मापि पंचधा प्रोक्तं सादाख्यं तु तदीरितम् || ८०|| शतरुद्रीये || पृथिव्याः भवः अपांशर्वः अग्ने रुद्रः वायोर्भीमः आकाशस्य महादेवः सूर्यस्योग्रः चंद्रस्य सोमः आत्मनः पशुपतिरीरिताः || ८१|| शर्वः शिवो महादेवो नीलकण्ठो वृषध्वजः || ईशानः शंकरो भीमः पिनाकी चंद्रशेखरः || ८२|| कपर्दी च विरूपाक्षो वामदेवो मृडस्तथा || भूतेशः शूली सर्वज्ञः स्थाणुर्वै पार्वतीप्रियः || ८३|| महाकालो महादीर्घो महातांडवरूपकः || गंगाधरो गणेशश्च जगद्ध्वंसीति विश्रुतम् || ८४|| पंचविंशतिरूपेण माहेश्वरमिति क्रमात् || शिवो महेश्वरो रुद्रः श्रीकण्ठः शंभुरीश्वरः || ८५|| महादेवः पशुपतिर्नीलकण्ठो वृषध्वजः || हर एकादशं रुद्रमूर्तितत्वं यथाक्रमम् || ८६|| सृष्टेः कारणरूपं च भवाख्यमिति विश्रुतम् || रक्षणार्थं मृडाख्यं च संहारे कारणं हरः || ८७|| इति त्र्यवयवश्चैव मूर्तिभेद इति क्रमात् || इति द्विपंचाशन्मूर्तिस्सादाख्येन समुद्भवः || ८८|| तस्माल्लिंगविशेषेण कर्मरूपमुदाहृतम् || पृ० ९३) प्रणवलिंगमूर्तिस्थलनिरूपणम् कर्मोदये च सृष्टिश्च कर्मान्ते संहृतिर्भवेत् || ८९ || पिण्डस्थं पिण्डमध्यस्थं पिण्डेन तु घटीकृतम् || पिण्डेन पिण्डितं पिण्डं पिण्डरूपमुदाहृतम् || ९०|| पंचमूर्तिमयं देवं पंचतत्वात्मकं भवेत् || मूर्तीनां देहभेदैस्तु गुणैः पंचाननैर्युतम् || ९१|| सवीर्यं वै च निर्देहं मांसास्थिरुधिरं न च || इंद्रचापमिवाकाशे दर्पणे प्रतिबिंबवत् || ९२|| कुन्देंदुस्फटिकाभासं जटामुकुटमण्डितम् || पंचमूर्धसमायुक्तं पंचवक्त्रसमन्वितम् || ९३|| प्रतिवक्त्रं विशेषेण त्रिलोचनसमायुतम् || दिग्भुजं तु महासेन द्विपादं पद्मसंस्थितम् || ९४|| शूलं परशुखड्गं च वज्रं चाभयदक्षिणे || नागं पाशांकुशं चैव घण्टावह्निस्तु वामके || ९५|| सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् || दिव्यांबरधरं देवं दिव्यरूपमुदाहृतम् || ९६|| एतद्रूपं स्मरेन्नित्यं धर्मकामार्थमोक्षदम् || पृ० ९४) ध्यानरूपमिदं प्रोक्तं विशेषमधुनोच्यते || ९७ || कर्माख्यं पूर्ववक्त्रं स्यात्कर्तृ स्याद्दक्षिणाननम् || अपरं मूर्तं वक्त्रं स्यादमूर्तं चोत्तराननम् || ९८|| ऊर्ध्वं तु शिवसादाख्यमेवं पंचाननं विदुः || तस्मात्सदाशिवं प्रोक्तं तद्वै माहेश्वरं स्मृतम् || ९९|| पंचवक्त्रं दशभुजं दशपंचकलोचनम् || द्विपादं स्फटिकाभं च सर्वलक्षणसंयुतम् || तन्माहेश्वरवक्त्रेभ्यः पंचभूतं प्रजायते || १००|| इति श्रीमद्वीरमाहेश्वराचार्यवर्यश्रीवीरशैवषट्स्थलमार्गस्थापनाग्रग् अण्यश्रीसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे प्रणवलिंगस्थलं नाम सप्तमप्रकरणं समाप्तम् || पृ० ९५)|| श्रीगुरुबसवलिंगाय नमः|| || अथ विश्वोत्पत्तिस्थलं प्रारभ्यते || || अष्टमप्रकरणम् || एवं पंचसादाख्यलिंगमूर्तेः सदाशिवस्य पंचवक्त्रेभ्यः पंचभूतानि मनोनयनसंकल्पेभ्यश्चंद्रसूर्यात्मानश्च जातानि एताभ्योऽष्टतनुभ्यो ब्रह्मादिस्तंबपर्यन्तं सर्वं जगदुत्पद्य शिवं विस्मृत्य उत्पत्तिस्थितिलयवशं सत् पुण्यपापसुखदुःखेषु आसज्य विलुंठने सति परशिवः सर्वेषु स्थित्वा साक्षीभूय सर्वं जगन्नाटयन् विश्वविलासी भूत्वा तिष्ठति तत्कथमिति चेत् पंचब्रह्ममयं जगदित्युक्तेर्विद्यमानत्वादग्रे विश्वोत्पत्तिस्थलमभूत् || तेभ्यः पंचसंज्ञकेभ्यो रुद्रो रुद्राच्च माधवः || माधवाच्च विरिंचिः स्याद्विश्वोत्पत्तिरभूत्ततः || १|| वासिष्ठे || सति दीपे यथालोकं सत्यर्क इव वासरः || सति पुष्पे इवामोदश्चिति सत्यां जगत्तथा || २|| सर्वशक्तिमयं प्रोक्तं पूर्वमेकं शिवं तु तत् || शक्तिः सर्वं प्रपंचानां यथाशक्तिस्तथा जगत् || ३|| कर्मादिपंचनामानि केवलं त्वादिकथ्यते || पृ० ९६) लिंगं शिव इति ज्ञेयः पीठं शक्तिरुदाहृतम् || ४|| वातुले || सद्योजातं वामदेवाघोरतत्पुरुषाह्वयम् || ईशानं चेति पंचैतद्ब्रह्मसंज्ञं प्रकीर्तितम् || ५|| सद्योजाताद्भवेत्पृथ्वी वामदेवात्ततो जलम् || अघोराद्वह्नेरुत्पत्तिस्तत्पुरुषाद्वायुरुद्भवः|| ईशान्याद्गगनं जातं पंचब्रह्ममयं जगत् || ६|| पृथिवी निवृत्तिर्ज्ञेया प्रतिष्ठा त्वाप उच्यते || विद्या तेजो विनिर्दिष्टा वायुः शांतिःप्रकीर्तिता || शांत्यतीता च व्योम स्यात्कलारूपाः प्रकीर्तिताः || ७|| महोपनिषदि || अप एव ससर्जादौ तासु वीर्यमपासृजत् || तदण्डमभवद्धेम विश्वस्यायतनं महत् || ८|| सौवर्णमभवच्चाण्डमावेष्ट्याद्यं तदक्षरम् || अनेकाब्दं तदा चाप्सु दिव्यमन्तर्व्यवस्थितम् || ९|| शिवसंकल्पोपनिषदि || अण्डं हिरण्मयं मध्ये समुद्रं रुद्रस्य वीर्यात्प्रथमं बभूव अण्डाद्विष्णुर्ब्रह्मा जातवेदाश्च तन्मे मनः | शिवसंकल्पमस्तु || १०|| शैवपुराणे धर्मसंहितायाम् || सनत्कुमार उवाच || अजाद्यानां विभुस्साक्षात्पशूनां परमेश्वरः || ब्रह्माणं जनयामास रुद्रो विश्वाधिकः शिवः || ११|| रजोद्रिक्तो जगत्सर्वमसृजत्कनकाण्डजः || पृ० ९७) विश्वोत्पत्तिस्थलनिरूपणम् पंचधा वैकृतं सर्गं कौमारं च तथाऽकरोत् || १२|| नैष्कर्म्येण गते देवे सनंदे च सनातने || सनके च जगत्कर्ता साधकानसृजत्पुनः || १३|| ब्रह्माणस्तु मरीच्याद्याः नवाद्याः साधकाः स्मृताः|| ततो देवासुरपितृर्न्मनुष्यानसृजत्प्रभुः || १४|| मरीचिमत्रिमंगिरसंपुलस्त्यपुलहकृतून् || दक्षकश्यपभृग्वादीनृषीनग्रेऽसृजत्प्रभुः || १५|| पवनाधारं जलं कृत्वा कूर्मं कुंजरमेव च || मध्ये वसंत्यशेषाणि भुवनानि चतुर्दश || १६|| ऐरावतः पुण्डरीको वामनः कुमुदोंऽजनः || पुष्पदन्तः सार्वभौमस्सुप्रतीकश्च दिग्गजाः || १७|| अतलं वितलं चैव सुतलं च तलातलम् || महातलं रसाख्यं च पातालं चापि सप्तकम् || १८|| भूलोकश्च भुवर्लोकः स्वर्लोकश्च यथाक्रमम् || महर्जनस्तपः सत्यलोका ह्येते चतुर्दश || १९|| लवणेक्षुसुरासर्पिदधिक्षीरजलान्विताः || एते सप्तसमुद्राश्च वर्तन्ते हि यथाक्रमम् || २०|| जंबूप्लक्षशाल्मली च कुशक्रौंचशाकपुष्कराः || हिमवान् हेमकूटश्च निषधश्चेति दक्षिणे || नीलः श्वेतश्च शृंगी च मेरोरुत्तरतस्त्रयः || २१|| पृ० ९८) पातालं भूधरा लोकास्तथा हि द्वीपसागराः || आदित्यादिग्रहास्सर्वेऽप्यंडमध्ये व्यवस्थिताः || २२|| ततोऽसृजच्च भूतानि चराणि स्थावराणि च || सृष्ट्वा चतुष्टयं सर्वं देवर्षिपितृमानवान् || २३|| सत्ये प्रतिष्ठिता लोकाः सत्ये धर्मः प्रतिष्ठितः || सत्ये प्रतिष्ठितं ज्ञानं मुक्तिः सत्ये प्रतिष्ठिता || २४|| स्कांदे शिवरहस्ये|| दुर्वासा उवाच || कैलासेऽस्य सभा दिव्या देवर्षिपितृसेविता || नानासनवती दिव्या सर्वर्तुसुखदायिनी || २५|| गन्धर्वा गायकाः कान्ता नर्तक्योऽप्सरसां गणाः || विद्याधराः पाठकाश्च किन्नराश्च सचारणाः || २६|| वेधसो मंत्रिणश्चासन्ते धनुर्वेदपंचकाः || देशश्च सुमहानस्य भुवनानि चतुर्दश || २७|| श्रीमान्दुर्गो महामेरुः कोशो धर्मस्त्वनुत्तमः || विष्णुर्दण्डपतिश्चास्य मित्रं भक्तजनस्तथा || २८|| द्वार्स्थौ नंदिमहाकालौ युवराजश्च षण्मुखः || पुरोधाश्चाहमेव स्यात्कालज्ञो भास्करस्तथा || २९|| भगवान्सूपकारोऽग्निर्गणाध्यक्षो विनायकः || सर्व एव च गीर्वाणाश्शक्राद्या देशरक्षिणः || ३०|| पृ० ९९) विश्वोत्पत्तिस्थलनिरूपणम् हिरण्यकशिपुर्जंभ वलिवृत्रपुरोगमाः || कालनेमिमुखाश्चान्ये दैत्येंद्राश्चास्य तस्कराः || ३१|| ततोऽसौ मंत्रिभिस्सार्धं संमंत्र्य परमेश्वरः || पृथक् पृथक् च भूतानां चकारेकैकमीश्वरम् || ३२|| विष्णुं स सर्वलोकानामाधिपत्येऽभ्यसेचयत् || पुरंदरं च देवानां कुबेरं यक्षनायकम् || ३३|| प्रह्लादं सर्वदैत्यानां गरुडं च पतत्रिणाम् || वैवस्वतं पितृणाञ्च यादसां वरुणं तथा || ३४|| वासुकिं पन्नगानां च वृक्षाणां प्लक्षमेव च || स्कंदं ग्रह पिशाचानां रुद्राणां नील लोहितम् || ३५|| सोमं द्विजौषधीनां च नदीनां च महार्णवम् || हिमवंतं शिखरिणां गवां च वृषभं तथा || ३६|| ऐरावतं गजेंद्राणां मृगाणां सिंहमेव च || उच्चैःश्रवसमश्वानां मनुष्याणां महीपतिम् || ३७|| संस्थाप्यैतांस्तथान्यांश्च यथा स्थानं यथागमम् || सुखमास्ते मोदमानः सार्धं देवर्षिभिर्विभुः || ३८|| पंचविंशत्परार्धानि गणानां कामरूपिणाम् || पृ० १००) निखर्वमसुराणां च परिवारोस्य धीमतः || ३९|| मनुस्मृतौ || सर्वतः पाणिपादाब्जं सर्वतोक्षिशिरोमुखम् || सर्वमावृत्य तिष्ठन्तं तेजोराशिं शिवं स्मरेत् || ४०|| स्कान्दे || नंदीश्वरकृतस्तोत्रे वृत्तम् || रुद्राय भद्राय भवोद्भवाय सद्योधिजाताय भवोद्भवाय || ज्येष्ठाय तुष्टाय मनोन्मनाय || भवे भवे नातिभवे भवस्व माम् || ४१|| नमः शिवायाथ महेश्वराय परात्परायामितविक्रमाय || सहस्रमूर्धा पुरुषः स चात्मा सहस्रपादाक्षिशिरोरुबाहुमान् || ४२|| ग्रंथान्तरे || परात्परतरं प्राहुः परात्परतरं ध्रुवम् || ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् || ४३|| आदित्यपुराणे || ब्रह्माणं विदधे यो सौ पुत्रमग्रं सनातनम् || प्रहिणोतिस्म तस्मै च ज्ञानमात्मप्रकाशकम् || ४४|| स्कान्दे || मदंगस्वेदसंभूतौ ब्रह्मनारायणाविमौ || ४५|| वातुलोपभेद शुद्धाख्य तंत्रे || तन्महेश्वर कोट्यंशाद्ब्रह्मविष्णू समुद्भवौ || ४६|| पृ० १०१) विश्वोत्पत्तिस्थलनिरूपणम् स्कान्दे || वामदक्षिणपार्श्वे च संजातौ हरिपद्मजौ || यस्य देवस्य तं वंदे सर्वकारणकारणम् || ४७|| लैंगे || दक्षिणांगोद्भवो ब्रह्मा वामतश्च जनार्दनः || नेत्रेभ्यस्तस्य संजाताः सूर्यसोमाग्नयः स्मृताः || ४८|| घ्राणे वायुः समुत्पन्नो दिशः श्रोत्रे समुद्भवाः || आस्ये ज्ञानं समुत्पन्नं गणेशस्तु गलोद्भवः || ४९|| षण्मुखो हृदये जातो नाभौ देवाः समुद्भवाः || ऋषीणां च तथा कोटिर्निमिषेण समुद्भवः || ५०|| महेश्वरात्समाख्यातो रुद्रस्त्रिगुणसंयुतः || तस्माद्द्विगुणसंयुक्तो विष्णुस्साक्षादजायत || ५१|| तद्विष्णोर्जायते ब्रह्मा रजोगुणयुतो महान् || ब्रह्मणो जायते देवि जगत्स्थावरजंगमम् || ५२|| ब्रह्मोत्तरखंडे || देवत्वं याति सत्वेन रजसा च मनुष्यताम् || तिर्यक्त्वं तमसा जन्तुस्तथा नानात्वमाश्रितः || ५३|| मानवीयसंहितायाम् || ब्रह्मविष्ण्वर्कशक्राग्निजलेड्धर्मपुरोगमाः || सुरासुराः संप्रसूताः शंभोः सर्वे दिवौकसः || ५४|| पृ० १०२) कालज्ञाने || ब्रह्मा विष्णुश्च रुद्रश्च इंद्रश्चन्द्रो बृहस्पतिः|| प्रजापतिस्तथादित्यः शक्रः स्कंदो भृगुस्तथा || ये चान्ये प्राणिनो देवाः सर्वे प्रोक्ताः प्रसादजाः || ५५|| स्कंदपुराणे शिवरहस्ये || दुर्वासा उवाच || विष्णुश्चाहं रविर्देवि देवर्षिपितृमानवाः || भूतभव्यास्तथा सर्वे जाताः स्थावरजंगमाः || ५६|| ब्रह्मगीतासु || वृत्तम् || परमशिवसमुद्रेऽहं हरिः सर्वदेवा मनुजपशुमृगाद्याः शीकरा एव सत्यम् || विमलमतिभिरेवं वेदवेदान्तनिष्ठैर्हृदयकुहरनिष्ठो वेदितुं शक्यते हि || ५७|| यथा पत्राणि वृक्षेषु निर्झरेषु यथा कणाः || तथैव ब्रह्मणि स्फारे जगद्बुद्ध्या विकल्पितम् || ५८|| आत्मत्वमीश्वरत्वं च ब्रह्मण्यैकत्रकल्पितम् || बिंबत्वं प्रतिबिंबत्वं यथा पूषणि कल्पितम् || ५९|| गुणत्रयविभेदेन परतत्वेऽपि चात्मनि || भोक्तृत्वं चैव भोज्यत्वं प्रेरकत्वं च कल्पितम् || ६०|| लैंगे || तथा वह्निश्च यज्ञश्च वज्रपाणिः सुरासुराः || विष्णुर्नारायणः श्रीमान्सर्वं सोममयं जगत् || ६१|| शिवलोको बहिर्ज्ञेयो ब्रह्माण्डावरणाष्टकात् || पृ० १०३) विश्वोत्पत्तिस्थलनिरूपणम् पंचभूतान्यहंकारो बुद्धिः प्रकृतिरष्टमी || ६२|| शिवागमोत्तरे || अनादिरुद्रमूर्तिश्च सृष्टिस्थितिलयाधिपः || तेन रुद्रेण भावश्च तत्वानां चाप्यते शृणु || ६३|| कला विद्या च रागश्च कालो नियतिरेव च || भावको बोधकश्चैव ईश्वरश्च सदाशिवः || ६४|| शक्तिश्च शिवमित्युक्तं तत्वमेकादशं स्मृतम् || तस्य मिश्रस्य वर्गेण द्विपंचाशत्प्रभेदतः || ६५|| कलानां पंचकं चैवाप्यविद्यापंचकं तथा || रागश्च त्रिविधः प्रोक्तः कालश्च त्रिविधस्तथा || ६६|| नियतिः षट्प्रकारा च भावकं दशभेदकम् || बोधकं द्विविधं चैव ईश्वरस्त्रिविधस्तथा || ६७|| सदाशिवं तथा पंचशक्तिपंचकमेव च || पंचमं शिवतत्वं च द्विपंचाशदितीरितम् || ६८|| शांत्यतीता तथा शांतिर्विद्याप्रातिष्टिकापि च || निवृत्तिः पंचधा प्रोक्ता कला पंचेति भेदतः || ६९|| तनुरज्ञानमोहश्च मायाचानृतमेव च || अविद्येति तथा पंच सर्वजीवाश्रितं भवेत् || ७०|| रागश्चैव विरागश्च समरागस्त्रिधा तथा || रागतत्वमिति प्रोक्तं वक्ष्येऽतः कालतत्वकम् || ७१|| भूतं च वर्तमानं च भविष्यत्कालमेव च || पृ० १०४) आयुः कर्म च वित्तं च विद्यानिधनमेव च || सुखं चेति तथा षट्कं प्रोक्तं नियति तत्वतः || ७२|| रतिर्हास्यं च शोकश्च क्रोध उत्साह एव च || भयं जुगुप्सितं चैव विस्मयो वीरेव च || करुणश्चेति जायन्ते भावकाद्दश भेदकाः || ७३|| माया निर्मायमेवोक्तं द्विविधं बोधकं तथा || सत्वं रजस्तमश्चैव त्रिविधं चैश्वरं भवेत् || ७४|| शिवोऽमूर्तिश्च मूर्तिश्च कर्तृकर्मेति पंचधा || सदाशिवमिति प्रोक्तं शक्तिभेदमतः शृणु || ७५|| पराशक्तिस्तथादिःस्यादिच्छाज्ञानक्रियास्तथा || शक्तितत्वं पंचविधमिति गोप्यं मम प्रिये || ७६|| सच्च चिच्च तथानंदं नित्यं पूर्णमिति क्रमात् || पंचधा शिवतत्वं च तद्भेदं शृणु पार्वति || इति द्विपंचाशत्तत्वं क्रमाद्रुद्राच्च संभवम् || ७७|| स्कांदे || तस्मात्सर्वाणि भूतानि भवंत्यादियुगागमे || तस्मिन्नेव लयं यान्ति पुनरेव युगक्षये || ७८|| एक एव शिवस्साक्षाच्चिदानंदमयो विभुः || निर्विकल्पो निराकारो निर्गुणो निष्प्रपंचकः | पृ० १०५) विश्वोत्पत्तिस्थलनिरूपणम् अनाद्यविद्यासंबंधात्तदंशो जीवसंज्ञकः || ७९|| निर्मलं निष्कलं शान्तं सर्वातीतं निरंजनम् || तदेव जीवयोगेन पुण्यपापफलैर्वृतम् || ८०|| लैंगे|| प्रवृत्तो रागलोभाद्यदोषेषु युज्यतेऽपि सः || दोषयुक्तः पुमान्कर्म करोति च शुभाशुभम् || ८१ || परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम् || अकार्याभिनिवेशश्च चतुर्धा कर्म मानसम् || ८२|| असंबंधप्रलापित्वमसत्यं चाप्रियं च यत् || परापवादपैशून्यं चतुर्धा कर्म वाचिकम् || ८३|| अभक्ष्यभक्षणं हिंसा मिथ्याकामस्य सेवनम् || परस्वानामुपादानं चतुर्धा कर्म कायिकम् || इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसाधनम् || ८४|| ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः || महापातकिनस्त्वेते तत्संयोगी च पंचमः || ८५|| शिवधर्मोत्तरे || गुडेक्षुक्षीरशाकांश्च दधिमूलफलानि च || ऊर्णाकार्पासकौशेयभंगपट्टोद्भवानि च || पृ० १०६) स्थूलसूक्ष्माणि वस्त्राणि ये लोभेन हरंति च || ८६|| यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् || अपहृत्य नरा यान्ति नरकं नात्र संशयः || ८७|| यमलोकं व्रजंत्येते शरीरेण यमाज्ञया || यमदूतैर्महाघोरैर्नीयमानास्सुदुःखिताः || ८८|| सद्यः प्रीतिकरं दिव्यं बलपुष्टिविवर्धनम् || नान्नदानसमं दानं त्रिषु लोकेषु विद्यते || ८९|| नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः || नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः || ९०|| स्वर्गे यज्ञफलं भुक्त्वा दाता यज्ञस्य यत्फलम् || गर्भवासेषु जायेत लिंगार्चनविवर्जितः || ९१|| स्कंद उवाच || अथ नारकिणां पुंसामधर्मादेव केवलात् || क्षणमात्रेण भूतेभ्यः शरीरमुपपद्यते || ९२|| तद्वद्धर्मेण चैकेन देवानामौपपादिकम् || सद्यः प्रजायते दिव्यं शरीरं भूतसारतः || ९३|| कर्मणाप्यतिमिश्रेण यच्छरीरमिहात्मनः || तद्भूतपरिमाणेन विज्ञेयं हि चतुर्विधम् || ९४|| अचरा बहुधा भिन्ना गिरिवृक्षादि भेदतः || चरास्तु त्रिविधाः प्रोक्ताः स्वेदाण्डजजरायुजाः || ९५|| पृ० १०७) विश्वोत्पत्तिस्थलनिरूपणम् उद्भिदः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः || क्रिमिकीटपतंगाद्याः स्वेदजा नाम देहिनः || ९६|| अंडजाः पक्षिणः सर्पा नक्रमत्स्याहिकच्छपाः || जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः || ९७|| तत्र सिक्ता जले भूमिरंतरुष्मप्रपाचिता || वायुना व्यूह्यमाना च बीजत्वं प्रतिपद्यते || ९८|| यथात्र शालिबीजानि संसिक्तान्यंभसा पुनः || उच्छूनतां मृदुत्वं च मूलभावं व्रजन्ति हि || ९९|| तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः || पर्णान्नालं ततः काण्डं कांडाच्च प्रसवं पुनः || १००|| प्रसवादपि च क्षीरं क्षीरात्तंडुलसंभवः || तंडुलं च यदा पक्वं म्रीयन्त्यौषधयस्तदा || १०१|| यवाद्याः शालिपर्यन्ताः श्रेष्ठाः सप्तदश स्मृताः|| ओषध्यः फलपाकान्ताः शेषाः क्षुद्राः प्रकीर्तिताः || १०२|| एता लूना मर्दिताश्च शनैरुत्पूय संस्कृताः|| शूर्पोलूखलयंत्राद्यैः स्थाल्यामुदकवह्निभिः || १०३|| षड्विधाहारभेदेन परिणामं व्रजन्ति ताः || अन्योन्यरससंयोगादनेकस्वादुतां गताः || १०४|| भक्ष्यं भोज्यं च पेयं च लेह्यं चोष्यं च पिच्छलम् || पृ० १०८) इति भेदास्तु षट् प्रोक्ता मधुराद्याश्च षड्विधाः || १०५|| तदन्नं स्थूलकवलैर्ग्रासैर्भुक्तं च देहिभिः || अंतस्थमाशयेदग्निं प्राणः स्थापयते क्रमात् || १०६|| अपृथग्भूतमाहारं स वायुः कुरुते द्विधा || संप्रविश्यान्नमध्ये तु पृथगन्नं पृथग्जलम् || १०७|| अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं तु जलोपरि || जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः || १०८|| वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम् || तदन्नमुष्णतोयेन समंतात्पच्यते पुनः || १०९|| द्विधा भवति तत्पक्वं पृथक्विट्टं पृथग्रसः || मलैर्द्वादशभिर्भिन्नं किट्टं देहाद्वहिर्व्रजेत् || ११०|| कर्णाक्षिनासिकाजिह्वादन्ताः शिश्नं गुदं नखाः || मलाश्रयाः कफस्वेदौ विण्मूत्रे द्वादश स्मृताः || १११|| हृत्पद्मे प्रतिबद्धाश्च सर्वा नाड्यः समंततः || तासां मुखेषु तत्सूक्ष्मः प्राणः स्थापयते रसम् || ११२|| रसेन तेन ता नाडीः प्राणः पूरयते पुनः || प्रतर्पयन्ति संपूर्णास्ताश्च देहं समंततः || ११३|| पृ० १०९) विश्वोत्पत्तिस्थलनिरूपणम् ततस्स नाडीमध्यस्थः शारीरेणोष्मणा रसः || पच्यते पच्यमानश्च भवेत्पाकद्वयं पुनः || ११४|| चर्मावेष्टं समंताच्च रुधिरं च प्रजायते || रक्ताल्लोमानि मांसश्च केशाः स्नायुश्च मांसतः || ११५|| स्नायोश्शिरास्तथास्थीनि नखा मजास्थिसंभवाः || मज्जा करणवैकल्यं शुक्रं च प्रसवात्मकम् || ११६|| इति द्वादशधान्नस्य परिणामः प्रकीर्तितः || अन्नाच्चैव ततः शुक्रं शुक्राद्देहस्य संभवः|| ११७|| ऋतुकाले यदा शुक्लं निर्दोषं योनिसंस्थितम् || तदा तद्वायुना स्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् || ११८|| विसर्गकाले शुक्रस्य जीवः करणसंयुतः || प्रीत्या प्रविशते योनिं कर्मभिः स्वैर्नियोजितः || ११९|| तच्छुक्रं रक्तमेकस्थमेकाहात्कललं भवेत् || पंचरात्रेण कललं बुद्बुदाकारतां व्रजेत् || १२०|| बुद्बुदं सप्तरात्रेण मांसपेशी भवेत्पुनः || द्विसप्ताहाद्भवेत्पेशी रक्तमांसाचिता दृढा || १२१|| बीजस्येवांकुराःपेश्याः पंचविंशतिरात्रतः || भवन्ति मासमात्रेण जायते पंचधा पुनः || १२२|| ग्रीवा शिरश्च स्कन्धश्च पृष्ठवंशस्तथोदरम् || पृ० ११०) पाणिपादास्तथा पार्श्वे कटिर्गात्रं तथैव च || मासद्वयेन सर्वाणि क्रमशः संभवंति च || १२३|| त्रिभिर्मासैः प्रजायन्ते सर्वांगांकुरसन्धयः || मासैश्चतुर्भिरंगुल्यः प्रजायन्ते यथाक्रमम् || १२४|| मुखं नासा च कर्णौ च जायन्ते पंचमासकैः || दंतपंक्तिस्तथा गुह्यं जायन्ते च नखाः पुनः || १२५|| कर्णयोर्भवतश्छिद्रे षण्मासाभ्यन्तरेण तु || पायुर्मेढ्रमुपस्थं च नाभिश्चाप्युपजायते || १२६|| संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः || अंगप्रत्यंगसंपूर्णः शिरः केशसमन्वितः || १२७|| विभक्तावयवः स्पष्टः पुनर्मासाष्टकेन तु || पंचात्मकसमायुक्तः परिपक्वः स तिष्ठति || १२८|| चैतन्यं बीजरूपं च शुक्रं रक्तं तथा जलम् || एकीभूतं यथा काले तथा काले प्ररोहति || १२९|| रक्ताधिकाद्भवेन्नारी नरःशुक्राधिकाद्भवेत् || नपुंसकः समाच्चैव त्रिविधं पिंडसंभवः || १३०|| चोरपापिष्ठधीमन्तो व्रतभ्रष्टो दयापरः || दरिद्रो धनिकः कामी व्याधिपीड्यस्तु पंडितः || विवेकी भोगी नृपतिः शिवयोगी यथाक्रमम् || १३१|| रुधिरं मांसं त्वक्चैवमातुरंशा इति स्मृताः || पृ० १११) विश्वोत्पत्तिस्थलनिरूपणम् अस्थिनाड्यश्च रोमाणि पितुरंशाः प्रकीर्तिताः || अग्निश्च वायुरात्मा च शिवांसाः परिकीर्तिताः || १३२|| मातुराहारवीर्येण षड्विधेन रसेन च || नाभिसूत्रनिबंधेन वर्धतेऽसौ दिने दिने || १३३|| ततः स्मृतिं लभेज्जीवः संपूर्णेस्मिन् शरीरके || सुखंदुःखं विजानाति निद्रास्वप्नं पुराकृतम् || १३४|| गर्भोपनिषदि || अथ नवमासे सर्वलक्षणसंपूर्णो भवति पूर्वजातिं च स्मरति कृत्याकृत्यं च कर्म जानाति शुभाशुभं च कर्म विंदति || १३५|| नानायोनिसहस्राणि गत्वा चैव तु मायया || आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः || यदि योन्याः प्रमुंचामि तं प्रपद्ये महेश्वरम् || १३६|| मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः || नानायोनिसहस्राणि मया दृष्टानि जायता || १३७|| संसारसागरं घोरं लंघयाम्यहमात्मना | विरजानलजं भस्म गृहीत्वा चाग्निहोत्रजम् || समुद्धूल्य सदाचार्यं प्रणिपत्यात्मविद्यया || १३८|| अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च || पृ० ११२) तत्तच्छ्रेयः करिष्यामि येन गर्भे न संभवः || १३९|| गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिर्गतः || अध्येष्यामि शिवज्ञानं संसारविनिवर्तकम् || १४०|| एवं स गर्भे दुःखेन महता परिपीडितः || जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् || १४१ || यथा गिरिवरक्लान्तः कश्चिद्दुःखेन तिष्ठति || तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः || १४२|| पतितः सागरे यद्वद्दुःखं चास्ते समाकुलः || गर्भोदकेन सिक्तांगस्तथा व्याकुलितः पुमान् || १४३|| लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना || गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना || १४४|| सूचीभिरग्निवर्णाभिर्निर्भिन्नस्य निरंतरम् || यद्दुःखमुपजायेत तद्गर्भेऽष्टगुणं भवेत् || १४५|| गर्भवासात्परो वासः कष्टो नैवास्ति कुत्रचित् || देहिनां दुःखबहुलं सुघोरमतिसंकटम् || १४६|| इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् || चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः || १४७|| गर्भात्कोटिगुणं दुःखं योनियंत्रप्रपीडनात् || पृ० ११३) विश्वोत्पत्तिस्थलनिरूपणम् संमूर्च्छा जायते तस्य जायमानस्य देहिनः || १४८|| इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः || शिरस्याताड्यमानस्य पाशमुद्गरकोटिभिः || १४९|| गर्भान्निष्क्राम्यमाणस्य प्रबलैः सूतिमारुतैः || जायते सुमहद्दुःखं परित्राणमविंदतः || १५०|| गर्भोपनिषदि || इत्थं गर्भगतः स्मृत्वा योनियंत्रप्रपीडनात् || जायते वायुना याति विस्मृतिं वैष्णवेन च || १५१|| यंत्रेण पीडिता यद्वन्निस्साराःस्युस्तिलेक्षवः || तद्वच्छरीरं निःसारं योनियंत्रप्रपीडितम् || १५२|| जराशोकसमाविष्टं कालचक्रानले स्थितम् || कामक्रोधेंधनाक्रान्तं व्यसनैश्चोपमर्दितम् || १५३|| भोगतृष्णातुरो मूढो रागद्वेषवशानुगः || संवर्द्धितांगप्रत्यंगो जरायुपरिवेष्टितः || १५४|| संकटेनाविविक्तेन योनिमार्गेण निर्गतः || विण्मूत्ररक्तसिक्तांगः षट्कोशांगसमुद्भवः || पृ० ११४) अस्थिपंजरसंघातं ज्ञेयमस्मिन्कलेवरे || १५५|| शतत्रयं षष्ट्यधिकं पंचाशीतिशतानि च || सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः|| १५६|| शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याश्च ताः स्थिताः || तावंतीभिश्च नाडीनां कोटिभिस्तत्समन्वितम् || १५७|| प्रस्वेदस्त्वशुचिर्याभिरन्तस्थः स्रवते बहिः || द्वात्रिंशद्दशनाः प्रोक्ता विंशतिस्तु नखाः स्मृताः || १५८|| पित्तं तु कुडवं ज्ञेयं कफस्यार्धाढकं भवेत् || वसायाश्च पला विंशस्तदर्धं पललस्य च || १५९|| चर्म पंचपलं ज्ञेयं पलानि दश मेदसः || पलत्रयं महारक्तं मज्जा स्यात्तच्चतुर्गुणा || १६०|| शुक्रार्धं कुडवं ज्ञेयं तद्वीर्यं देहिनां बलम् || मांसाद्यमेकपिंडस्य पलसाहस्रमुच्यते || १६१|| रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः || इति देहग्रहं ख्यातं नित्यस्यानित्यमात्मनः || १६२|| अविशुद्धं विशुद्धश्च कर्मबंधविनिर्मितम् || शुक्रशोणितसंयोगाद्देहः संजायते यतः || १६३|| गर्भस्थस्य स्मृतिर्यासीत्सा जातस्य प्रणश्यति || संमूर्च्छितस्य दुःखेन योनियंत्रप्रपीडनात् || १६४|| पृ० ११५) विश्वोत्पत्तिस्थलनिरूपणम् बाह्येन वायुना चास्य मोहसंज्ञेन देहिनः || स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते || १६५|| तेन ज्वरेण महता महामोहः प्रजायते || संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः || १६६|| स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च || रतिस्संजायते तूर्णं जन्तोस्तत्रैव जन्मनि || १६७|| रक्तो मूढश्च लोकोऽयमकार्ये स प्रवर्तते || न चात्मानं विजानाति न परं न च दैवतम् || १६८|| न शृणोति परं श्रेयः सति चक्षुषि नेक्षते || समे पथि शनैर्गच्छन् स्खलतीव पदे पदे || १६९|| सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि || संसारे क्लिश्यते तेन रागलोभवशानुगः || १७०|| गर्भस्मृतेरभावाच्च शास्त्रमुक्तं शिवेन तु || तद्दुःखशमनार्थाय स्वर्गमोक्षप्रसाधनम् || १७१|| तथा शिवधर्मोत्तरे || मलमज्ञानमित्युक्तं संसारांकुरकारणम् || तत्तमस्तेन तमसा युक्तो यस्तामसः स्मृतः || १७२|| पृ० ११६) मैत्रेयोपनिषदि || स एव एष अभिभूतः प्राकृतैर्गुणैरित्यतोऽभिभूतत्वात्संमूढत्वं प्रयाति संमूढत्वादात्मस्थं प्रभुं भगवन्तं कारयितारं नापश्यत् || १७३|| स्वायंभुसूत्रे || कलोद्वलितचैतन्यो विद्यादर्शितगोचरः || रागेण रंजितश्चापि बुद्ध्यादिकरणैर्युतः || १७४|| मायाद्यवनिपर्यन्ते तत्वभूतात्मवर्त्मनि || भुंक्ते तत्र स्थितान्भोगान्भोगैकरसिकः पुमान् || १७५|| शिवधर्मे || अविद्यामोहितो जीवो ब्रह्मैक्यज्ञानवर्जितः || परिभ्रमति संसारे निजकर्मानुरूपतः || १७६|| वृद्धजाबालोपनिषदि || सकलंकत्वं जन्मवत्वं दुःखित्वादिकं जीवस्वरूपं तदनभिज्ञत्वमहंकारस्स तेनाविष्टः स्वर्गनरकभोक्ता संसारसागरनिमग्नो मिथ्याभिमानी जीवः किल्मिषाश्रयः पुनःपुनरुत्पद्यते || १७७|| शिवधर्मे || देवतिर्यऽऽन्मनुष्यादि जातिभेद व्यवस्थितः || मायै माहेश्वरस्तेषां प्रेरको हृदये स्थितः || १७८|| पृ० ११७) विश्वोत्पत्तिस्थलनिरूपणम् इति श्रीमद्वीरमाहेश्वराचार्यवर्यश्रीवीरशैवषट्स्थलमार्गस्थापनाग्रग् अण्यश्रीसंपादनसिद्धवीराख्यशिवयोगींद्रविरचिते अनादिवीरशैवसारसंग्रहे विश्वोत्पत्तिस्थलं नाम अष्टमप्रकरणं समाप्तम् || ########### END OF FILE #######