#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00004 Uniform title: anuttaraprakāśapañcāśikā Main title: anuttaraprakāśapañcāśikā by ādyanātha from the KSTS series vol. 14 -- The bhāvopahāra of cakrapāṇinātha with commentary by ramyadevabhaṭṭa -- where it follows bhāvopahāra and bodhapañcadaśikā Author : ādyanātha Editor : śāstri, mukundarāma Description: The anuttaraprakāśapañcāśikā by ādyanātha from the KSTS series vol. 14 where it follows bhāvopahāra and bodhapañcadaśikā Notes: This e-text was data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. . Revision 0: October 18, 2007 Publisher : Research Deaprtment Jammu and Kashmir State Publication year : 1918 Publication city : Bombay Publication country : India #################################################### श्री आद्यनाथविरचिता [सर्वसंविन्नदीभेदभिन्नविश्रान्तिभूमये | नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे ||] अकृत्रिमाहमामर्शप्रकाशैकघनः शिवः | शक्त्या विमर्शवपुषा स्वात्मनोऽनन्यरूपया || १ || शिवादिक्षितिपर्यन्तं विश्वं वपुरुदञ्चयन् | पञ्चकृत्यमहानाट्यरसिकः क्रीडति प्रभुः || २ || न पार्थ्यगा(र्थक्या)त्मवार्ताऽपि विश्वशक्तिशरीरयोः | न विश्वविश्ववपुषोर्भिन्नता कापि तात्त्विकी || ३ || भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं नु जगद् भवेत् | सत्तास्फुरत्तासम्बन्धात् सत्ताभानं तु तत्र चेत् || ४ || असतः किं सतस्ताभ्यां सम्बन्धः सोऽयमिष्यते | स्वरूपलाभसुलाभः सम्बन्धो नह्यवस्तुनः || ५ || न लब्धरूपसम्बन्धस्ताभ्यां किञ्चिदपेक्षते | अपेक्षायामवस्थानं न स्यादेतस्य किञ्चन || ६ || स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी | विनाशानभ्युपगमे जडताऽपि निवर्तते || ७ || ततो गत्यन्तराभावाच्चिदेव परिशिष्यते | ततश्चिदैक्यं प्रकृतं जगतो न निवर्तते || ८ || प्रकाशादन्यताभासः स्वातन्त्र्योल्लासकेवलः | परिच्छिनत्ति कः शक्तिं शम्भोर्विश्वातिशायिनः || ९ || स्वप्रकाशात्मकं सर्वं तमःकेवलतां गतम् | यच्च किञ्चिज्जगत्यस्मिन् प्रकाशान्नातिरिच्यते || १० || विमर्शसरणीं प्राप्तमित्येषा तात्त्विकी गतिः | अवधानैकतानानां मतिरेवात्र साक्षिणी || ११ || किं प्रमाणैर्वराकैस्तैश्चिदनुप्राणितात्मभिः | नहि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते || १२ || शक्तिपातपवित्रेऽस्मिन् धीतत्त्वे च परीक्ष्यताम् | आदर्शे विमलाभोगे ननु सर्वं प्रकाशते || १३ || इत्थं चिदात्मकं सर्वं षट्त्रिंशद्भेदमुद्रितम् | आदौ शुद्धात्मकं तत्त्वं पञ्चधा तमसः परम् || १४ || शिवः शक्तिश्च सादाख्यमीशो विद्येति भिद्यते | अक्षादिशान्तवर्णात्मा निरणायि शिवेन तु || १५ || कलाविद्ये रागकालौ नियतिर्बन्ध उच्यते | मायापूर्वोवकारादियकारान्ताक्षरात्मकः || १६ || पुमान् शक्तिर्मनो बुद्धिरहङ्कृन्मादिपञ्चकम् | श्रोत्रादिपञ्चकं नादि णादि वागादिपञ्चकम् || १७ || तन्मात्रपञ्चकं ञादि ङादि व्योमादिपञ्चकम् | सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं प्रभोः स्मृतम् || १८ || इच्छैवाऽस्य परिम्लाना शक्तितत्त्वमिति स्मृतम् | स्वेच्छया रचितं विश्वमाच्छाद्याऽहन्तया स्थितम् || १९ || तदेव तत्त्वं सादाख्यं सर्वानुग्रहणोन्मुखम् | तदेवेश्वरतत्त्वं स्यात् पश्यद् विश्वमिदन्तया || २० || अहन्तेदन्तयोरैक्यमितिर्विद्या निगद्यते | स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः || २१ || मायागृहीतसंकोचः शिवः पुंस्तत्त्वमुच्यते | अयमेव हि संसारी जीवो भोक्तेति गद्यते || २२ || ज्ञत्व-कर्तृत्व-पूर्णत्व-नित्यत्वाद्याश्च शक्तयः | तत्संकोचात् संकुचिताः कलाद्यात्मतया मताः || २३ || मायात्मनः कला नाम किञ्चित्कर्तृत्वकारणम् | विद्या किञ्चिज्ज्ञताहेतू रागोऽभिष्वङ्गकारणम् || २४ || कालः परिच्छेद करो नियतिश्चेदमेव मे | कर्तव्यं नान्यदित्येषा व्यवस्था यन्त्रणाकृतिः || २५ || प्रकृतिर्गुणसाम्यं स्यादहङ्कारादिजन्मभूः | अहं ममेदमित्येतद्बुद्धिहेतुरहङ्कृतिः || २६ || बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः | संकल्पस्य विकल्पस्य बीजं मन उदीर्यते || २७ || वचनादेश्च शब्दादेर्वागादिश्रवणादिकम् | कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् || २८ || प्रकाशाद्यवकाशादिकारणं भूतपञ्चकम् | परापराशक्तिमयं शुद्धविद्यादिपञ्चकम् || २९ || तदन्यदपरा शक्तिरित्येतत् तत्त्वमीरितम् | इयं देवी परा शक्तिः शुद्धाशुद्धाध्वगर्भिणी || ३० || पृथिव्यादीनि तत्त्वानि यदा लीनानि कारणे | तदा कारणमात्राणि बहिरुद्वमते विभुः || ३१ || अनुत्तरेच्छे उन्मेष आनन्देशनमूनता | क्रियेच्छाज्ञानशक्तीनां सत्ता चोच्छूनता च षट् || ३२ || इच्छेशनान्तरारूढाः स्फुटास्फुटजगन्मयाः | चत्वारः परतो वर्णाः षण्ढात्मानः प्रचोदिताः || ३३ || अनुत्तरानन्दचिती इच्छाशक्ति नियोजिते | त्रिकोणमथ षट्कोणमिच्छायां रूढिमागते || ३४ || अनुत्तरानन्दशक्तित्रिकोणद्वित्वयोगतः | तथैवोन्मेषयोगेन क्रियाशक्तेः स्फुटं वपुः || ३५ || उक्त त्रिशक्तिसंघट्ट त्रिशूलं द्वैतघस्मरम् | परस्परा विरोधेन कार्येषु प्रसरे गते || ३६ || न कथञ्चिदुपादेयमासां रूपमिदं भवेत् | बिन्दुर्वेद्यस्य संस्कारो विमर्शः सर्ग इत्यसौ || ३७ || कलाषोडशकाकारा शक्तिर्वियते परा | तिथयः प्रतिपत्पूर्वाः पञ्चदश्यन्तिमा यथा || ३८ || सूर्याचन्द्रमसोरन्तश्चरत्नि स्थितिहेतवः | तथा विमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः || ३९ || द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता | नित्यप्रवृत्ता शृङ्गाटवपुर्विश्वस्य जन्मभूः || ४० || हृदयं बीजमेतस्यां सारं यत्तत्परं महः | बटबीजे यथा वृक्षस्तथात्र निहितं जगत् || ४१ || विचार्यमाणे नैवेदं कारणादतिरिच्यते | मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे || ४२ || इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः | इह सर्वं सदेवाग्र आसीदिति विनिश्चयात् || ४३ || सत्तावाचिनि बीजेऽस्मिन् भाति मायान्तिमं जगत् | विलुप्तप्रत्ययाकारमेवैतत् परिशिष्यते || ४४ || ततो ज्ञानक्रियासारा विद्येश्वरसदाशिवाः | शक्तिशूले विलीयन्ते चतुर्दशकलात्मनि || ४५ || ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः परम् | इत्थं परस्यां संवित्तौ सर्वं संकुचितं क्रमात् || ४६ || अथ वाङ्मनसातीते यत्र क्वापि निरञ्जने | षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे || विश्वात्मनि महामन्त्रस्वभावे सा विलीयते || ४७ || [शुद्धविद्यादिकं सर्वं सादाख्ये पक्षसंग्रहात् || मध्यशक्तिपरामर्श इति वापि लयक्रमः | अन्यः पक्षोऽपि यः कश्चित् प्रमाणं चेन्नबाधते ||] कुतश्चिन्मथिते धाम्नि दीप्ते केनापि हेतुना | सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते || ४८ || पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम् | संकोचयन् परामर्शात् सामान्यस्पन्दकेवलः || ४९ || अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः | पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् || ५० || इति षडधिकत्रिंशद्भेद प्रसक्तजगत्तनुः प्रसरति महाशक्त्युल्लेखविचित्रमहापटी | जयति बहुशः स्पन्दाकारा परा चिदनुत्तरा विमृशत जनाः किं नो भूयः स्वभावविजृम्भितम् || ५१ || इति श्रीमदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका समाप्ता || ########### END OF FILE #######