#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M0511 Uniform title: anuttaraprakāśapañcāśikā Author : ādinātha Description: K.S.T.S. volume 13 Notes: Publisher : Publication year : 1918 Publication city : Publication country : India #################################################### ओं नमो ऽनुत्तरप्रकाशशङ्कराय अकृत्रिमाहमामर्शप्रकाशैकघनः शिवः | शक्त्या विमर्शवपुषा स्वात्मनो ऽनन्यरूपया || १ || शिवादिक्षितिपर्यन्तं विश्वं वपुर् उदञ्चयन् | पञ्चकृत्यमहानाट्यरसिकः क्रीडति प्रभुः || २ || पृथगर्थम् अर्थवत्ता विश्वविश्वशरीरयोः | न विश्वविश्ववप्षोर् भिन्नता कापि तात्त्विकी || ३ || भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं तु जगद् भवेत्| सत्तास्फुरत्तासंबन्धात् सत्ताभानं च तन् न चेत् || ४ || असतः किम् सतस् ताभ्यां संबन्धः सो ऽयम् इष्यते | स्वरूपलाभसुलभः संबन्धो न ह्य अवस्तुनः || ५ || न लब्धरूपसंबन्धे ताभ्यां किं चिद् उपेक्ष्यते | उपेक्षायाम् अवस्थानं न स्याद् एतस्य किं चन || ६ || स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी | विनाशानभुपगमे जडतापि निवर्तते || ७ || ततो गत्यन्तराभावाच् चिद् एव परिशिष्यते | सतश् चिदैक्यं प्रकृतं कदा चिन् न निवर्तते || ८ || प्रकाशे ऽनन्यतो भावः स्वातन्त्र्योल्लासकेवलः | परिछिन्नात्मिका शक्तिः शम्भोर् विश्वातिशायिनः || ९ || यत् प्रकाशात्मकं सर्वं तमःकेवलतां गतम् | यच् च किम् चिज् जगद् एतत् प्रकाशाद् अतिरिच्यते || १० || विमृश्यसरणीं प्राप्तम् इत्य एषा तात्त्विकी मतिः | अवभासैकतानानां मतिर् एकात्र साक्षिणी || ११ || किं प्रमाणाइर् वराकैस् तैश् चिदानुप्राणितात्मभिः | न हि वैकर्तनं ज्योतिर् दीपालोकम् अपेक्षते || १२ || शक्तिपातपवित्रे ऽस्मिन् धीतत्त्वे च परीक्ष्यताम् | आदर्शविमलाभोगे न तु सर्वं प्रकाशते || १३ || इत्थं चिदात्मकं सर्वं षट्त्रिंशद्भेदतत्त्वतः | आदौ शुद्धात्मकं तत्त्वं पञ्चधातमसः परम् || १४ || शिवः शक्तिश् च सादाख्यम् ईशो विद्येति भिद्यते | अक्षादिशान्तवर्णात्मा निरमायि शिवेन तु || १५ || कलाविद्यारागकालनियतिर् बन्ध उच्यते | मायापूर्वो वकारादिक्षकारान्ताक्षरात्मकः || १६ || पुमाञ् शक्तिर् मनो बुद्धिर् अहंकारादिपञ्चकम् | श्रोत्रादिपञ्चकं तादि टादि वागादिपञ्चकम् || १७ || तन्मात्रपञ्चकं चादि कादि व्योमादिपञ्चकम् | सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं विभोः स्मृतम् || १८ || इच्छैव सापरिम्लाना शक्तितत्त्वम् उदञ्चयन् | स्वेच्छयासूचितम् विश्वम् आच्छाद्याहन्तया स्थितम् || १९ || स एव तत्त्वं सादाख्यं सर्वानुग्रहणोद्यतम् | स एवेश्वरतत्त्वं स्यात् पश्यन् विश्वम् इदन्तया || २० || इदन्ताहन्तयोर् ऐक्यम् इति विद्या निगद्यते | स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः || २१ || मायागृहीतसंकोचः शिवः पुंतत्त्वम् उच्यते | अयम् एव हि संसारी जीवो भोक्तैव दृश्यते || २२ || ज्ञत्वकर्तृत्वपूर्णत्वनित्यत्वान्यस्य शक्तयः | तत्संकोचात् संकुचितः कलाद्यात्मतया मतः || २३ || मायात्मकं कला नाम किंचित्कर्तृत्वकारणम् | कालः परिच्छेदकरो नियतिश् चेदम् एव मे || २४ || कर्तव्यं नान्यद् इत्य एषा व्यवस्था यन्त्रणाकृइतिः | प्रकृतिर् गुणसाम्यं स्याद् अहंकारादिजन्मभूः || २५ || अहं ममेदम् इत्य एतद् बुद्धिहेतुर् अहंकृतिः | बुद्धिर् अध्यवसायस्य कारणं निश्चयात्मनः || २६ || संकल्पस्य विकल्पस्य बीजं मन उदीर्यते | वचनादेश् च शब्दादेर् वागादिश्रवणादिकम् || २७ || कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् | आकाशाद्यवकाशादिकारणं भूतपञ्चकम् || २८ || परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् | तदन्यद् अपराशक्तिर् इत्य एतत् तत्त्वम् ईरितम् || २९ || इयं देवी परा शक्तिः शुद्धाशुद्धाध्वगर्भिणी | पृथिव्यादीनि तत्त्वानि यदालीनानि कारणे || ३० || तदा कारणमात्राणि बहिर् उद्वमते विभुः | अनुत्तरेच्छे उन्मेषे आनन्देशनम् ऊनता%? || ३१ || क्रियेच्छाज्ञानशक्तीनां सत्ता षट् * * * * * | (*अनुत्तरेत्यादित्रिपद्येष्व् अर्थासंगत्या पाठाशुद्धिः प्रतिभाति) इच्छेशनान्तरारूढा स्फुटास्फुटजगन्मयी || ३२ || चत्वारः परतो वर्णाः षण्डात्मानः प्रचोदिताः | अनुत्तरानन्दशाक्तिस् त्रिकोणाद् वृत्तियोगतः || ३३ || तथैवोनेषयोगेन क्रियाशक्तेः स्फुटं वपुः | उक्तं त्रिशक्तिसंघट्टात् त्रिशूलं द्वैतघस्मरम् || ३४ || परस्परविरोधे तु कार्येषु प्रविरोहति | न कथंचिद् उपादेयम् आसां रूपम् इदम् भवेत् || ३५ || बिन्दुर् वेद्यस्य संस्कारो विमर्शः सर्ग इत्य असौ | कलाषोडशकाकारा शक्तिर् विजयते परा || ३६ || तिथयः प्रतिपत्पूर्वाः पञ्चदशेति मायया | सूर्याचन्द्रमसौ स्वान्तश्चरन्तौ स्थितिहेतवे || ३७ || यथाविमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः | द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता || ३८ || नित्यप्रवृत्तशृङ्गाटवपुर्विश्वस्य जन्मभूः | हृदयं बीजम् एतस्यां सारं यत् तत् परं महः || ३९ || वटबीजे यथा वृक्षस् तथात्र निहितं जगत् | विचार्यमाणे नैवेदं कारणाद् अतिरिच्यते || ४० || मृदादेः कलशादीनां तत्त्वं नान्यन् निरूपणे | इत्य आहुस् तत्त्ववादिन्यः श्रुतीनाम् अन्तिमा गिरः || ४१ || इदं सर्वं सद् एवासीद् अग्रे इति विनिश्चयात् | सत्तावाचिनि बीजे ऽस्मिन् भाति माया त्व् इदम् जगत् || ४२ || विलुप्तप्रत्ययाकारम् एतत् स परिशिष्यते | ततो ज्ञानक्रियासारविद्येश्वरसदाशिवाः || ४३ || शक्तित्रिशूले लीयन्ते चतुर्दशकलात्मनि | ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनम् अतः [परम्] || ४४ || इत्थं परस्यां संवित्तौ सर्वं संकुचितं क्रमात् | अथवा मनसातीते यत्र क्वापि निरञ्जने || ४५ || षट्त्रिंशत्तत्त्वलहरीकलहातीतगोचरे | विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते || ४६ || कृतश् चैन्मथिते धाम्नि दीप्ते केनापि हेतुना | सर्वम् हविर् इदं जुह्वन् न दारिद्र्येण पीड्यते || ४७ || पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम् | संकोचयत्परामर्शात् सामान्यस्पन्दकेवलम् || ४८ || अहमि प्रलयं कुर्वन्न् इदमः प्रतियोगिनः | पराक्रमपरो भुङ्क्ते स्वभावम् अशिवापहम् || ४९ || इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः प्रसरति महाशक्त्युल्लेखविचित्रमहापटी | जयति बहुशः स्पन्दाकारा परा चिद् अनुत्तरा विमृशत जनाः किं नो स्वभावविजृम्भितम् || ५० || इति श्रीमदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका समाप्ता सेयं काश्मीरभूपालसंश्रितेन प्रकाशिता सता मुकुन्दरामेण सन्मुदे ऽस्तु शिवे ऽर्पिता ########### END OF FILE #######