#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00116 Uniform title: bṛhannīlatantra Editor : kaul madhusudan Description: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 1: Sept. 17, 2008 Notes: Publisher : Publication year : 1941 Publication city : Srinigar Publication country : India #################################################### ब्########################################################## अथ बृहन्नीलतन्त्रम् | प्रथमः पटलः | ओं श्रीगणेशाय नमः | नमस्तारायै | कैलासशिखरासीनं भैरवं कालसंज्ञितम् | प्रोवाच सादरं देवी तस्य वक्षःसमाश्रिता || १-१ || पुरा प्रतिश्रुतं देव कालीतन्त्रप्रकाशने | नीलतन्त्रप्रकाशाय तद् वदस्व सदाशिव || १-२ || यस्य विज्ञानमात्रेण विजयी भुवि जायते | यज् ज्ञात्वा साधकाः सर्वे विचरन्ति यथा तथा || १-३ || यस्य विज्ञानमात्रेण कविता चित्तमोदिनी | जायते च महादेव तत्त्वं तत् कथयस्व मे || १-४ || श्रीमहाकालभैरव उवाच | शृणु सा(ध्वि) वरारोहे सर्वार्थस्य प्रदायिनि | तत्त्वं तत् कथयिष्यामि तव स्नेहाद् गणाधिपे || १-५ || नीलतन्त्रप्रकाशाय प्रतिज्ञासीन्मम प्रिये | तस्मात् कथ्यं महेशानि शृणु(ष्व) कमलानने || १-६ || गुह्याद् गुह्यतरं तन्त्रं न प्रकाश्यं कदाचन | तन्त्रस्यास्य प्रकाशाच्च सिद्धिहानिर्न संशयः || १-७ || यद्गृहे निवसेत् तन्त्रं तत्र लक्ष्मीः स्थिरायते | राजद्वारे श्मशाने च सभायां रणमध्यतः || १-८ || (प्. २) निर्जने च वने घोरे (श्वा)पदैः परिभूषिते [परिपूरिते पाठान्तरम् |] | माहात्म्यात् तस्य देवेशि चमत्कारी भवेत् प्रिये || १-९ || तस्मात् सर्वप्रयत्नेन गोपनीयं प्रयत्नतः [विशेषतः ख पाठः |] | तन्त्रराजं नीलतन्त्रं तव स्नेहात् प्रकाश्यते || १-१० || गोपनीयतमं देवि स्वयोनिरिव पार्वति | विशेषं मन्त्रराजस्य कथितव्यं वरानने || १-११ || यज्ज्ञातात् साधकाः सर्वे सर्वैश्वर्यमवाप्नुयुः | सारात् सारतरं देवि सर्वसारस्वतप्रदम् || १-१२ || नित्यपूजां मन्त्रराजं मान्त्रोपासनिकं विधिम् | पुरश्चर्यां च नैमित्तकाम्यानां नियमं तथा || १-१३ || नियमं च रहस्यानां कुमारीपुजनक्रमम् | मन्त्रान्तरं च देवेशि पुरश्चर्यां विशेषतः || १-१४ || फलं स्तोत्रं विशेषेण कथितव्यं वरानने | भावानां निर्णयं वाच्यं पूजान्तरविधिं तथा || १-१५ || होमस्य नियमं वाच्यं वासनातत्त्वनिर्णयम् | गुप्तपूजां गुप्तमन्त्रं तथा गुप्तजपक्रमम् || १-१६ || स्वर्णरूप्यादिकरणं सूतभस्म तथैव च | सूतस्य निर्णयं वाच्यं तथा षट्कर्मलक्षणम् || १-१७ || विद्योत्पत्तिं विशेषण कथयिष्यामि तच्छृणु | श्रीदेव्युवाच | इदानीं श्रोतुमिच्छामि तारिणीं भेदसंयुताम् || १-१८ || सपर्याभेदसंयुक्तां महापातकनाशिनीम् | श्रीशिव उवाच | सिद्धविद्यां महादेवि मायामोहनकारिणीम् || १-१९ || (प्. ३) शृणु चार्वङ्गि देवेशि सर्वसारस्वतप्रदाम् | सर्वबीजं समुद्धृत्य द्वितीयं बीजकं शृणु || १-२० || जृम्भणान्तं त्यक्तपार्श्वं प्रस्थानवारकं युतम् | तुरीयस्वरसंयुक्तं चन्द्रबिन्दुविराजितम् || १-२१ || बीजं नीलसरस्वत्यास्तृतीयं शृणु भैरवि | सर्वस्याद्यं समादाय तस्याद्यं तत्र योजयेत् || १-२२ || यात्रानिवारणं तत्र योजयेच्च महेश्वरि | व्य(द्व्य)ङ्गवर्णयुतं कुर्यान्नादबिन्दुविराजितम् || १-२३ || कूर्चास्त्रेऽन्ते समायोज्य मन्त्रराजं समुद्धरेत् | पञ्चाक्षरी महाविद्या श्रीमन्नीलसरस्वती || १-२४ || अनया सदृशी विद्या त्रैलोक्ये चातिदुर्लभा | जपमात्रेण सर्वेषां साधकानां विमुक्तिदा || १-२५ || अतिरिक्तश्रमो ह्यत्र नास्ति हे ! सुरपूजिते | सारात् सारतरं देवि सर्वतन्त्रेषु गोपितम् || १-२६ || वशिष्ठोऽस्य ऋषिः प्रोक्तो बृहती च्छन्द उच्यते | नीलसरस्वती प्रोक्ता देवता कार्यसिद्धये || १-२७ || कवित्वार्थे विनियोगः सर्वसिद्धिसमृद्धिदः | हू/ बीजमस्त्रं शक्तिः स्यादेवमृष्यादिकल्पना || १-२८ || उत्थाय चोत्तरे यामे चिन्तयेत् तारिणीं पराम् | मूलादिब्रह्मरन्ध्रान्तं विसतन्तुतनीयसीम् || १-२९ || मूलमन्त्रमयीं साक्षादमृतानन्दरूपिणीम् | सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् || १-३० || तडित्कोटिसमप्रख्यां कालानलशिखोपरि [कामानन्दशिखो ख पाठः |] | तत्प्रभापटल[मण्डल ख पाठः |]व्याप्तिपटलाङ्कितदेहवान् || १-३१ || (प्. ४) सर्वमङ्गलसंपन्नः स्नानकर्म समारभेत् | मृत्कुशानपि संगृह्य [संग्राह्य ख पाठः |] गत्वा जलान्तिकं ततः || १-३२ || मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् | पुनर्निमज्ज्य पयसि संकल्पं स समाचरेत् || १-३३ || इष्टदेव्याः प्रपूजार्थं कुर्यात् स्नानं जलाशये | बिल्वाक्षतमोड्रपुष्पं कुलपुष्पं कुशाञ्जलम् || १-३४ || प्रस्थग्राहे ताम्रपात्रे कृत्वा चार्घ्यं निवेदयेत् | मूलान्ते चोद्यदादित्यमण्डलमध्यवर्तिन्यै || १-३५ || शिव[नित्य ख पाठः |]चैतन्यमययै (च) स्वाहेति तन्मनुः स्मृतः | मूर्तिभेदे महेशानि स्नानमन्यच्छृणु प्रिये || १-३६ || प्रोत्थाय चोत्तरे यामे शिरःपद्मे गुरुं स्मरन् | मूलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् || १-३७ || प्रोद्यत्सूर्यप्रतीकाशां कुण्डलीं परदेवताम् | यातायातक्रमेणैव चामृतीकृतविग्रहाम् || १-३८ || मूलविद्यां जपेद् ध्यात्वा चाष्टोत्तरशतं क्रमात् | मृत्कुशानपि संगृह्य गत्वा जलान्तिकं ततः || १-३९ || प्रत्युषसि गुरोश्चिन्तां कृत्वा स्नानं समाचरेत् | नद्यादिं समनुप्राप्य स्नायादप्सु महेश्वरि || १-४० || देवीरूपं जलं ध्यात्वा गृहीत्वा जलदर्भकम् | मलापकर्षणं कृत्वा मन्त्रस्नानं समाचरेत् || १-४१ || तत्प्रीत्यै परमेशानि स्नानं कुर्यात् समाहितः | आदौ च वैदिकीं संध्यां कृत्वा स्नानं समाचरेत् || १-४२ || (पश्चात् तु तान्त्रिकीं सन्ध्यां) कुर्याच्चैवागमोदिताम् | संध्यां कृत्वा ततो वीरः कुलकोटिं समुद्धरेत् || १-४३ || (प्. ५) स्नानार्थं मृत्तिकां नीत्वा संघृष्य च करद्वये | गात्रानुलेपनं कुर्यादस्त्रमन्त्रेण देशिकः || १-४४ || सूर्याय दर्शयेदादौ ततः कुर्याच्च लेपनम् | गोक(पु)रीषं नासिकायां वं मन्त्रेण पुटद्वये || १-४५ || जलाञ्जलिं ततो दत्त्वा मूर्ध्नः कृत्वाभिषेचनम् | तत आचमनं कुर्यात् त्रिकोणे दक्षिणेन तु || १-४६ || गृहीतपाणिना देवि शङ्खावर्तक्रमेण तु | विलोड्य तत्र निमज्जेदघमर्षणकं त्रिधा || १-४७ || कूर्चबीजं त्रिधा जप्त्वा कारयेदघमर्षणं | दद्याज्जलाञ्जलींस्त्रीन् वै वरुणाय ततः परम् || १-४८ || सोमाय भानवे पश्चाज्जलादुत्थाय वाससी | परिधाय ततो मन्त्री यथाविधि समाचरेत् || १-४९ || तिलकं रक्तगन्धेन गोपीनां चन्दनेन तु | देव्यस्त्रं विलिखेद् भाले ताराबीजं ततो हृदि || १-५० || शक्तिमध्यगतं कुर्यात् प्राणायामं समाचरेत् | आचम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् || १-५१ || आत्मविद्याशिवैस्तत्त्वैराचमेत् साधकोत्तमः | त्रिकोणे मूलमन्त्रेण् सवित्रे हंसकं जपन् || १-५२ || उपस्थाप्य जपेद् देवि गायत्रीं शृणु सुन्दरि | तारायै विद्महे प्रोक्त्वा महोग्रायै च धीमहि || १-५३ || तन्नो देवीति शब्दान्ते धियो यो नः प्रोचदयात् | गायत्र्येषा समाख्याता सर्वपापनिकृन्तनी || १-५४ || वामपादं ततः कुर्याद् दक्षपादे महेश्वरि | उपस्थाय पुनर्हंसमूर्ध्वबाहुस्त्रिधा जपेत् || १-५५ || (प्. ६) तीर्थोदकं तिलकल्कं क्षीराक्षतसमन्वितम् | उत्तराशामुखो भूत्वा देवीमात्रं च तर्पयेत् || १-५६ || मूलान्ते तारिणीं चोक्त्वा तर्पयाम्यग्निवल्लभाम् | स्वर्णपात्रेण रोप्येण ताम्रपात्रेण वा पुनः || १-५७ || ऋजुदर्भत्रयेणैव सन्तर्प्य भक्तितः सुधीः | दक्षिणाशामुखो भूत्वा संगृह्य मोटकं ततः || १-५८ || तृप्यन्तुं पितरः प्रोक्त्वा एतत् तर्पणमादिशेत् | सूर्यस्य वन्दनं चैवमभेदं च महेश्वरि || १-५९ || गायत्रीं प्रजपेद् धीमनघमर्षणपूर्वकम् | एतत् संध्यात्रयेणैव दिवा रात्रौ च वन्दना || १-६० || महारात्रावपि सदा कार्या देशिकसत्तमैः | संध्या त्ववश्यकर्तव्या त्रिसंध्यं श्रद्धयान्वितः || १-६१ || संध्यया प्रविहीनो यो न दीक्षाफलमाप्नुयात् | अर्धरात्रात् परं यच्च मुहूर्तद्वयमेव च || १-६२ || सा महारात्रिरुद्दिष्टा तत्र कृत्वाक्षयं भवेत् | ततो विद्यां हृदि ध्यात्वा अष्टोत्तरशतं जपेत् || १-६३ || तत्रैवोक्तक्रमेणैव तान्त्रिकं स्नानमाचरेत् | वैदिकीं तान्त्रिकीं संध्यां ततः कुर्यात् समाहितः || १-६४ || चतुर्विधानि कार्याणि वेदकार्येषु पार्वति | आगमं न तथा विद्धि एकमेव हि मद्वचः || १-६५ || संध्यां सायन्तनीं कुर्याद् द्वादश्यादिष्वपि प्रिये | अकुर्वन् निरयं याति यतो नित्यागमक्रिया || १-६६ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (मूलमन्त्रोद्धारपूर्वं सन्ध्याविधिनिरूपणं) प्रथमः पटलः || १ || अथ द्वितीयः पटलः इदानीं शृणु चार्वङ्गि पूजां सर्वागमोदिताम् | यां कृत्वा परमेशानि शिवत्वं प्राप्नुयादतः || २-१ || कार्यां सर्वप्रयत्नेन पूजां कुर्याच्छुचिस्मिते | एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे || २-२ || तत्रस्थः साधयेद् योगी विद्यां त्रिभुवनेश्वरीम् | पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते [मीक्षते ख पाठः |] || २-३ || तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा | उज्जटे पर्वते वापि निर्जने वा चतुष्पथे || २-४ || हर्म्ये वा साधयेद् देवीं सर्वाभीष्टप्रदायिनीम् | गणेशं क्षेत्रपालं च योगिनीर्वटुकं तथा || २-५ || गांवांक्षांयां च बीजानि तान्युक्तानि महेश्वरि | पूजयित्वा गृहद्वारे ब्रह्माणं पूजयेत् ततः || २-६ || मनसा वास्तुदेवं च पूर्वेण तु ततः सुधीः | ततस्तत् पुरुषान् विघ्नरूपांश्चैव निवारयेत् || २-७ || योगस्थानं समाश्रित्य तत्र पीठं विचिन्तयेत् | श्मशानं तत्र संचिन्त्य तत्र कल्पद्रुमं स्मरेत् || २-८ || तन्मूले मणिपीठं च नानामणिविभूषितम् | नानालङ्कारभूषाढ्यं मुनिदेवैर्विभूषितम् || २-९ || शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः | चतुर्दिक्षु महेशानि शवमुण्डास्थिभूषितम् || २-१० || (प्. ८) तन्मध्ये चिन्तयेद् देवीं यथोक्तध्यानयोगतः | एवं ध्यानं महेशानि हृदि कुर्याच्छुचिस्मिते || २-११ || शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् | गन्धानां पञ्चकं दद्याद् रक्तमालां निधापयेत् || २-१२ || ह्रींकारं धारयेद् हस्ते स्वर्णाभरणभूषितः | रक्तवस्त्रद्वययुतः क्रोधपैशुन्यवर्जितः || २-१३ || प्रणवं पूर्वमुच्चार्य वज्रोदके ततः परम् | ततः कूर्चं महादेवि फट् स्वाहा तदनन्तरम् || २-१४ || मन्त्रेणानेन देवेशि शोधयेज्जलमुत्तमम् | प्रणवं च ततो माया विशुद्धं तदनन्तरम् || २-१५ || सर्वपापानि तत्पश्चाच्छमय तदनन्तरम् | अशेषान्ते विकल्पं वापनयेति ततः परम् || २-१६ || हुं फट्स्वाहा वधिर्मन्त्रो हस्तक्षालनके मतः | प्रणवं च ततः कूर्च फट्स्वाहा तदनन्तरम् || २-१७ || मन्त्रेणानेन देवेशि आचमेत् साधकोत्तमः | प्रणवं मणिधरि पदं वज्रिणीति पदं ततः || २-१८ || वशकरीति च पदं हूं फट् स्वाहावधिर्मनुः | मन्त्रेणानेन देवेशिशिखाबन्धनमाचरेत् || २-१९ || ओंकारं पूर्वमुच्चार्य रक्षरक्ष पदं ततः | हूं फट् स्वाहेति मन्त्रेण भूमिशोधनमाचरेत् || २-२० || मन्त्रपूतेन तोयेन प्रोक्षयेद् यागमण्डपम् | चतुर्द्वारे महेशानि गणेशं वटुकं तथा || २-२१ || क्षेत्रेशं योगिनीश्चैव पूजयेद् बहुयत्नतः | तथा चैव महेशानि मुद्रां [मुद्रां नाराचाख्याम् |] कुर्याद् विशेषतः || २-२२ || (प्. ९) मन्त्रं शृणु वरारोहे सर्वसारस्वतप्रदम् | प्रणवं पूर्वमुच्चार्य सर्वविघ्नान् समादिशेत् || २-२३ || तत्परं च पुनर्देवि उत्सारय तदनन्तरम् | कूर्चः स्वाहावधिर्मन्त्रः सर्वसिद्धिफलप्रदः || २-२४ || प्रणवं पूर्वमुच्चार्य पवित्रपदमन्ततः | वज्रभूमे पदं पश्चाद् हू/फट् स्वाहावधिर्मनुः || २-२५ || मन्त्रेणानेन देवेशि कुर्याद् भूम्यभिमन्त्रणम् | प्रणवं पूर्वमुच्चार्य आः पदं तदनन्तरम् || २-२६ || सुरेखे वज्ररेखे च हूंफट्स्वाहावधिर्मनुः | रक्तचन्दनपुष्पाभ्यां पूजयित्वासनं सुधीः || २-२७ || विशेत् तत्रासने देवि ततः पूजनमारभेत् | शिखाबन्धनमन्त्रेण वस्त्रग्रन्थिं च बन्धयेत् || २-२८ || पूर्वोक्तेनैव मन्त्रेण चित्तादीनां विशोधनम् | कुर्यान्मन्त्रं महेशानि रक्तगन्धादिना शुभे || २-२९ || स्वर्णादिपात्रे संलिख्य तत्रार्णान् संलिखेत् सुधीः | आःसुरेखे वज्ररेखे हू/ फट्स्वाहा नमः पदम् || २-३० || मन्त्रेणानेन देवेशि पद्ममष्टदलं लिखेत् | तन्मन्त्रेणैव देवेशि वसुपत्रं मनोहरम् || २-३१ || पूर्वे त्रिकोणे देवेशि मायाबीजं लिखेच्छुभे | याम्ये वधूं लिखेच्चैव उत्तरे फंद्विठान्तकम् || २-३२ || पश्चिमे च महादेवि टंकारं विलिखेत् ततः | तन्मध्ये परमेशानि लिखेत् कूर्चं समाहितः || २-३३ || अथवान्यप्रकारेण यन्त्रं शृणु गणेश्वरि | विद्यार्थी प्राप्नुयाद्विद्यां सर्वशास्त्रविबोधिकाम् || २-३४ || (प्. १०) ज्ञानं तथा च ज्ञानार्थी मोक्षार्थी मोक्षमेव च | सर्वार्थी प्राप्नुयात् सर्वं यन्त्रस्यास्य प्रसादतः || २-३५ || व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् | ताराधीश्वरवारिवर्णविलसद्दिक् कोण[वृत्तेन ख पाठः |]संशोभितं यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् || २-३६ || यन्त्रं निर्माय देवेशि पीठपूजां समाचरेत् | गन्धर्वोक्तप्रकारेण पूजयेदावृतीस्ततः || २-३७ || योनिमुद्रां ततो बद्ध्वा चक्रमध्ये प्रपूजयेत् | पूर्वे गणपतिं चेष्ट्वा दक्षिणे वटुभैरवम् || २-३८ || क्षेत्रपालं पश्चिमे च योगिनीरुत्तरे यजेत् | ते सर्वे ध्रुवदीर्घाद्याः शक्तिबीजपुरःसराः || २-३९ || ततोऽष्टदलमध्ये तु लक्ष्म्यादीश्च प्रपूजयेत् | लक्ष्मीं सरस्वतीं चैव रतिं प्रीतिं तथा यजेत् || २-४० || कीर्तिं शक्तिं [कान्तिं शान्तिं ख पाठः |] च पुष्टिं च तुष्टिं चैव प्रपूजयेत् | देव्या नीलसरस्वत्याः पीठशक्तय ईरिताः || २-४१ || प्रणवादिनमोन्तेन पूजयेद् यत्नतः सुधीः | भूतशुद्धिं ततः कुर्यात् प्राणायामक्रमेण तु || २-४२ || भूतशुद्धिं विधायाथ शून्यं विश्वं विचिन्तयेत् | निर्लेपं निर्गुणं शुद्धं स्वात्मानं तारिणीमयम् || २-४३ || अन्तरिक्षे ततो ध्यायेत् आःकाराद्रक्तपङ्कजम् | भूयस्तस्योपरि ध्यायेत् टांकाराच्छेतपङ्कजम् || २-४४ || तस्योपरि पुनर्ध्यायेत् हू/कारं नीलसन्निभम् | ततो हू/कारबीजात्तु कर्त्रिकां बीजभूषिताम् || २-४५ || (प्. ११) कर्त्रिकोपरिगं ध्यायेत् स्वात्मानं तारिणीमयम् | प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् || २-४६ || खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ | नवयौवनसंपन्नां पञ्चमुद्राविभूषिताम् || २-४७ || सुमुखं चतुरस्रं च वृत्तं गोमुखमेव च | योनिमुद्रेति विख्याता मुद्राः पञ्च नमस्कृतौ || २-४८ || चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् | खड्गकर्त्रिसमायुक्तसव्येतरभुजद्वयाम् || २-४९ || कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् | पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् || २-५० || (नीलनागजटाजूटां श्वेताहिकृतकुण्डलाम् | पीताहिकङ्कणोपेतां धूम्राहिबाहुभूषणाम् || २-५१ || श्यामनागोपवीतां च शुभ्राहिहारभूषणाम् | श्वेतनागलसत्काञ्चीं पाटलाहिपदद्वयाम् || २-५२ || पार्श्वद्वये लम्बमाननीलेन्दीवरमालिकाम् | प्रज्वलत्पितृभूमध्यस्थितां दंष्ट्राकरालिनीम् || २-५३ || शवकण्टपदद्वन्द्ववामदक्षपदद्वयाम् | सावेशस्मेरवदनां भक्तानामभयप्रदाम् || २-५४ ||) क्रमेणानेन देवेशि ध्यात्वा नीलां (सरस्वतीम्) | आत्मानं तन्मयं ध्यायेद् भूतशुद्धिरितीरिता || २-५५ || अथार्घ्यस्थापनं वक्ष्ये येन सिद्धिर्भवेन्मनोः | त्रिकोणं मण्डलं कृत्वा स्ववामे परमेश्वरि || २-५६ || तत्र त्रिपदिकां न्यस्य शङ्खं प्रक्षाल्य सुन्दरि | भागत्रयेण देवेशि पूरयेज्जलमुत्तमम् || २-५७ || (प्. १२) कपालपात्रं संस्थाप्य रक्तगन्धादिकं ततः | रक्तपुष्पं ततो दद्याद् देवता सुप्रसीदति || २-५८ || दशधा मूलविद्यां च जप्त्वा प्रोक्षणमाचरेत् | प्राणायामं ततः कुर्यात् षडङ्गेन समन्वितम् || २-५९ || अक्षोभ्य ऋषिरेतस्या बृहती च्छन्द ईरितम् | नीलासरस्वती देवी त्रैलोक्ये च सुगोपिता || २-६० || हूं बीजमस्त्रं शक्तिः स्याच्चतुर्वर्गफलप्रदम् | मायाषड्दीर्घयुक्तेन षडङ्गन्यासमाचरेत् || २-६१ || एवं न्यासविधिं कृत्वा ताराषोढां समाचरेत् | विद्यया पुटितं कृत्वा षोढा च मातृकां न्यसेत् || २-६२ || क्रमोत्क्रमाद् वरारोहे ताराषोढा प्रकीर्तिता | यस्त्वेवं कुरुते मन्त्री स तु तारा प्रकीर्तितः || २-६३ || तस्य लोके गुरुर्नास्ति स गुरुः सर्वयोगिनाम् | बीजान्ते चैकजटायै हृदयं परिकीर्तितम् || २-६४ || तारिण्यै शिरसे स्वाहा तद्वद्वज्रोदके शिखा | उग्रजटे च कवचं महाप्रतिसरे तथा || २-६५ || पिङ्गोग्रैकजटे तद्वन्नेत्रास्त्रे परिकीर्तिते | यथा काली तथा नीला तत्क्रमान्मातृकां न्यसेत् || २-६६ || देवेशि भक्तिसुलभे परिवारसमन्विते | यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव || २-६७ || सर्वं मन्त्रमयं कृत्वा देवतायै निवेदयेत् | उपचारैः षोडशभिः पूजयेद् गन्धपुष्पतः || २-६८ || पाद्यार्घ्याचमस्नानवसनाभरणानि च | गन्धपुष्पधूपदीपनैवेद्याचमनं ततः || २-६९ || (प्. १३) ताम्बूलमर्चनास्तोत्रं तर्पणं च नमस्कृतम् | प्रयोजयेदर्चनायामुपचारांस्तु षोडश || २-७० || गन्धादयो नैवेद्यान्ताः पूजा पञ्चोपचारिका | पुष्पस्य नियमं देवि शृणुष्वैकमनाः प्रिये || २-७१ || कोकनदं च बन्धूकं कर्णिकाद्वयमेव च | वकमन्दाररक्तानि करवीराणि शस्यते || २-७२ || मल्लिकात्रितयं जाती क्षौमपुष्पं जयन्तिका | बिल्वपत्रं कुरुबकं मुनिपुष्पं च केसरम् || २-७३ || वासन्तीं चैव सौगन्धं काशपुष्पं मनोहरम् | आमलकं च कादम्बं बकुलं मुथिकां तथा || २-७४ || बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः | ओड्रपुष्पैर्विशेषेण वज्रपुष्पेण शोभितम् || २-७५ || सर्वं पुष्पं प्रदद्याच्च भक्तियुक्तेन चेतसा | जपापुष्पं महेशानि दद्याद् देव्यै विशेषतः || २-७६ || पद्मं प्रियतरं देव्याः शेफाली बकुलं तथा | रक्तोत्पलेन देवेशि पूजयेत् परमां शिवाम् || २-७७ || लक्षवर्षसहस्राणां पूजायाः फलमाप्नुयात् | शिरीषं परमं देव्याः प्रीतिदं तगरं तथा || २-७८ || स्थलपद्मं सुष्ठुतरं लक्षसंख्याक्रमेण च | यदि दयान्महेशानि सर्वसिद्धिः सुरेश्वरि || २-७९ || तदैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा | विजातीं तुलसीं रम्यां तस्याः प्रीतिकरीं पराम् || २-८० || काञ्चनं रक्तवर्णं च अतिप्रियतरं महत् | भक्तियुक्तो महेशानि सर्वं पुष्पं निवेदयेत् || २-८१ || (प्. १४) नैवेद्यं परमं रम्यं सुस्वादु सुमनोहरम् | दद्याच्चैवं महादेव्यै भक्तियुक्तेन चेतसा || २-८२ || मधुपर्कं विशेषेण देवीप्रीतिकरं परम् | संदेशमुष्णं दद्याच्च लड्डुकादिसमन्वितम् || २-८३ || पायसं कृसरं दद्याच्छर्करागुडसंयुतम् | आज्यं दधि मधून्मिश्रं तथान्नानि निवेदयेत् || २-८४ || शालमत्स्यं च पाठीनं गोधिकामांसमुत्तमम् | अन्नं च मधुना मिश्रं यत्नाद् दद्याच्च मन्त्रवित् || २-८५ || छागमांसं तथा देवि रोहितं मत्स्यभर्जितम् | योनिमुद्रां प्रदर्श्याथ आज्ञां प्राप्य यथाविधि || २-८६ || मातर्देवि महामाये बन्धमोक्षप्रवर्तिनि | आज्ञापय महादेवि गुरुत्रयमनुत्तमम् || २-८७ || पूजयामि महामाये सर्वसारस्वतप्रदम् | उवाच सादरं देवी भगवन्तमधोक्षजम् || २-८८ || गुरुत्रयं महादेव श्रोतुमिच्छामि यत्नतः | श्रीभैरव उवाच | अज्ञात्वा गुरुदेवं च नष्टमार्गो भविष्यति || २-८९ || नष्टमार्गे मन्त्रविद्ये न तादृक् सिद्धिगोचरे | गुरूणां शिष्यभूतानां नास्ति चेत् सन्ततिक्रमः || २-९० || तन्मन्त्राश्च विद्याश्च निष्फला नात्र संशयः | अज्ञात्वा गुरुवंश्यानां शिष्यश्च नष्टसन्ततिः || २-९१ || स्ववंशादधिकं ज्ञेयं गुरुवंशं शुभावहम् | सिद्धौघा गुरवो देवि दिव्यौघा गुरवस्तथा || २-९२ || ऊर्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः | परापरगुरूणां च निर्णयं शृणु भैरवि || २-९३ || (प्. १५) आदौ सर्वत्र देवेशि मन्त्रदः परमो गुरुः | सर्वतन्त्रेषु मन्त्रेषु स्वयं प्रकृतिरूपिणी || २-९४ || पूर्वाद्यष्टदले चैव परिवारान् प्रपूजयेत् | वैरोचनादीन् देवेशि पूजयेत् परमेश्वरि || २-९५ || प्रणवं पूर्वमुच्चार्य तन्नाम तदनन्तरम् | वज्रपुष्पं प्रतीच्छेति हुं फट् स्वाहावधिर्मनुः || २-९६ || अनेन मनुना देवि परिवारान् प्रपूजयेत् | द्वार्षु पूर्वादितस्तद्वत् पद्मान्तकयमान्तकौ || २-९७ || विघान्तकमथाभ्यर्च्य पूजयेन्नरकान्तकम् | नाजपात् सिध्यते मन्त्रो नाहुतश्च फलप्रदः || २-९८ || इष्टश्च यच्छते कामांस्तस्मात् त्रितयमाचरेत् | नित्यहोमं प्रवक्ष्यामि सर्वार्थं येन सिध्यति || २-९९ || सपर्यां सम्यगापाद्य बलेः पूर्वं [पूर्णं ख पाठः |] चरेद्विधिम् | ततो जपं तर्पणं च चरन् साधकसत्तमः || २-१०० || बलिवश्यादिकं चैव ब्राह्मणश्च समाचरेत् | विधिवदग्निमानीय क्रव्यादेभ्यो नम इति || २-१०१ || मूलमन्त्रं समुच्चार्य कुण्डे वा स्थण्डिलेऽपि वा | भूमौ वा संस्तरेद् वह्निं व्याहृतित्रितयेन च || २-१०२ || स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं तथा | ततो देवीं समावाह्य मूलेन षोडशाहुतिम् || २-१०३ || हुत्वा स्तुत्वा [जप्त्वा ख पाठ |] नमस्कृत्य विसृजेदिन्दुमण्डले | बलिं दद्याद् विधानेन छागादिं सुसमाहितः || २-१०४ || प्रणवं पूर्वमुच्चर्य मायाबीजं ततः परम् | एकजटे पदं पश्चान्महायक्षाधिपे ततः || २-१०५ || (प्. १६) बलिं गृह्णपदद्वन्द्वं गृह्णापयपदद्वयम् | मम शान्तिं कुरुकुरु परविद्यां पदं ततः || २-१०६ || आकृष्य च पदद्वन्द्वं त्रुटद्वन्द्वं ततः परम् | छिन्धिद्वन्द्वं महेशानि सर्वपदमनन्तरम् || २-१०७ || जगत् पदं महेशानि वशमानय तत् परम् | अनेन मनुना देवि बलिं दत्त्वा जपं चरेत् || २-१०८ || सहस्रं प्रजपेन्मन्त्रं शतं वापि महेश्वरि | विंशत्या वा जपेन्मन्त्रं ततो न्यूनं नचाचरेत् || २-१०९ || हृदा सरस्वति यावद् विद्याया व्याप्तिरुच्यते | मन्त्रध्यानं प्रवक्ष्यामि जपात् स(अ)र्वज्यदायकम् || २-११० || मन्त्रध्यानान्महेशानि शुध्यते ब्रह्महा यतः | मूलचक्रे तु हृल्लेखां सुर्यकोटिसमप्रभाम् || २-१११ || स्वाधिष्ठाने पीतवर्णं द्वितीयार्णं विभावयेत् | नाभौ जीमूतसंकाशं कूर्चबीजं महाप्रभम् || २-११२ || अस्त्रबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् | मूलादिब्रह्मरन्ध्रान्तं सर्वां विद्यां विभावयेत् || २-११३ || सूर्यकोटिप्रतीकाशां योगिभिर्दृष्टपूर्विकाम् | (अथवा पूर्णचन्द्राभं कूर्चं मूर्ध्नि सुधाप्लुतम् || २-११४ || अथवा सर्वां विद्यां तां जिह्वायां दीपरूपिणीम् | तत्प्रभापटलव्याप्तां जिह्वामपि विचिन्तयेत् || २-११५ || जिह्वायां न्यसनाद् देवि मूकोऽपि सुकविर्भवेत् |) गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् || २-११६ || सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि | एतत् पूजाक्रमं रात्रौ यदि कुर्यात् परात्मिके || २-११७ || (प्. १७) त(दे?दै)व सिद्धिमाप्नोति सत्यं सत्यं सुनिश्चितम् | स्तुतिं कुर्यान्महेशानि देव्यग्रे शुद्धमानसः || २-११८ || घोररूपे महारावे सर्वशत्रुवशङ्करि [क्षयङ्करि पाठः |] | भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् || २-११९ || सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते | जाड्यपापहरे देवि त्राहि मां शरणागतम् || २-१२० || जटाजूटसमायुक्ते लोलजिह्वानुकारिणि | द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् || २-१२१ || सौम्यरूपे घोररूपे [क्रोध पाठः |] चण्डरूपे नमोऽस्तु ते | [सृष्टि ख पाठः |]दृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् || २-१२२ || जडानां जडतां [जडतां भजतां ख पाठः |] हंसि भक्तानां भक्तवत्सले | मूढतां हर मे देवि त्राहि मां शरणागतम् || २-१२३ || हूं हूंकारमये देवि बलिहोमप्रिये नमः | उग्रतारे नमस्तुभ्यं त्राहि मां शरणागतम् || २-१२४ || बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे | कुबुद्धिं [मूढत्वं ख पाठः |] हर मे देवि त्राहि मां शरणागतम् || २-१२५ || इन्द्रादि(दिवि?देव) सद्वृन्दवन्दिते करुणामयि | तारे ताराधिनाथास्ये त्राहि मां शरणागतम् || २-१२६ || अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेत(सः?सा) [यः पठेन्नरः पाठः |] | षण्मासैः सिद्धिमाप्नोति नात्र कार्या विचारणा || २-१२७ || मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् | विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् || २-१२८ || (प्. १८ ) इदं स्तोत्रं पठेद्यस्तु स(ततं?धनं) लभते नरः | तस्य शत्रुः क्षयं याति महाप्रज्ञा च जायते || २-१२९ || पीडायां वापि संग्रामे जप्ये दाने [महोत्पाते ख पाठः |] तथा भये | य इदं पठति स्तोत्रं शुभं तस्य न संशयः || २-१३० || स्तोत्रेणानेन देवेशि स्तुत्वा देवीं सुरेश्वरीम् | सर्वकाममवाप्नोति सर्वविद्यानिधिर्भवेत् || २-१३१ || इति ते कथितं दिव्यं स्तोत्रं सारस्वतप्रदम् | अस्मात्परतरं स्तोत्रं नास्ति तन्त्रे महेश्वरि || २-१३२ || एवं स्तुत्वा महादेवीं दण्डवत् प्रणिपत्य च | आत्मानं च समर्प्याथ योनिमुद्रां प्रदर्शयेत् || २-१३३ || अथ वक्ष्ये महेशानि ताराष्टकमिमं परम् | पठनाद्य?स्य देवेशि शिवत्वं गतवान् (प्रिये?अहम्) || २-१३४ || शत्कृ (ता?त्वः) प्रपठनाच्छत्रुनाशो भवेद् ध्रुवम् | अष्टाविंशतिपाठाच्च राजा च दासतामियात् || २-१३५ || अष्टवारं प्रपठनात् सर्वसिद्धिश्वरो भवेत् | स्तवं शृणु वरारोहे येन राजा भविष्यति || २-१३६ || मातर्नीलसरस्वति प्रणमतां सौभाग्यसंपत्प्रदे प्रत्यालीढपदस्थिते शिवहृदि स्मेराननाम्भोरुहे | फुल्लेन्दीवरलोचनत्रययुते क(र्तृं?त्रीं) कपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये || २-१३७ || वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धिश्वरि [सिद्धिप्रदे इति पाठान्तरम्|] गद्यप्राकृतपद्यजाति[जातरचना सर्वत्र ख पाठः] रचनासर्वार्थसिद्धिप्रदे | (प्. १९) नीलेन्दीवरलोचनत्रययुते कारुण्यवारां निधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् || २-१३८ || खर्वे [सर्वे पाठः |] गर्वसमूहपूरिततनो सर्पादिवेशोज्वले व्याघ्रत्वक् परिवीतसुन्दरकटीव्याधूतघण्टाङ्किते | सद्यः कृत्तगलद्रजः परिमिलन्मुण्डद्वयीमूर्धज- ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय || २-१३९ || मायानङ्गविकाररूपललना बिन्द्वर्धचन्द्रात्मिके हूंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः | मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदानां नहि गोचरा कथमपि प्राप्तां तु तामाश्रये || २-१४० || त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्य श्रीपरमेश्वरि [स्त्रीपरमेश्वरी पाठः |] त्रिनयनब्रह्मादिसाम्यात्मनः | संसाराम्बुधिमज्जनेऽपटुतनून् देवेन्द्रमुख्यान् सुरान् मातस्त्वत्पदसेवने हि विमुखः [खो यो पाठः |] किं मन्दधीः सेवते || २-१४१ || मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण- [ङ्ग पाठः |] स्ते देवा जयसंगरे विजयिनो निःशङ्कमङ्के गताः | देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परे तत्तुल्यां नियतं यथासु[शुचिरवी पाठः |]भिरमी नाशं व्रजन्ति स्वयम् || २-१४२ || त्वन्नामस्मरणापलायनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः | दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितोऽन्तकश्च मनुजे मातः क्षणं भूतले || २-१४३ || (प्. २०) लक्ष्मीः सिद्धिगणश्च वादकमुखस्तम्भस्तथा वारिणः [वैरिणः ख फाठः |] स्तम्भश्चापि रणाङ्गने गजघटास्तंभस्तथा मोहनम् | मातस्त्वत्पदसेवया खलु नृणां सिध्यन्ति ते ते गुणाः कान्तिः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः || २-१४४ || ताराष्टकमिदं पुण्यं [रम्यं ख पाठः |] भक्तिमान् यः पठेन्नरः | प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः || २-१४५ || लभते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् | लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् || २-१४६ || कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् | विख्या(तं?तिं) चापि लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् || २-१४७ || अनेन स्तवराजेन स्तुत्वा देवीं सरस्वतीम् | इहैव सर्वकामान् वै भुक्त्वा मोक्षमवाप्नुयात् || २-१४८ || अस्मात् परतरं नास्ति स्तवेषु सुरवन्दिते | कलौ तु सर्वयत्नेन सर्वं त्यक्त्वा स्तवं पठेत् || २-१४९ || अष्टाङ्गं प्रणिपत्यादौ भवेत् साक्षात् सदाशिवः | पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा || २-१५० || मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः | त्रिकोणाकारिका चैव तारायाः परिकीर्तिता || २-१५१ || एवं नतिं पुरस्कृत्य सुगन्धिं लेपयेत् ततः | सुषुम्नामार्गकेणैव क्षमस्वेति हृदा नयेत् || २-१५२ || प्राणायामं पुनः कृत्वा स्वमात्मानं विभावयेत् | पुष्पग्रहणमन्त्रं च शृणुष्वैकमनाः प्रिये || २-१५३ || वाग्भवं प्रथमं दद्यान्निर्माल्यपदमन्तरम् | वासिन्यै च पदस्यान्ते नम उच्चार्य पूजयेत् || २-१५४ || (प्. २१) चर्व्यलेह्यान्नपानादि ताम्बूलस्रग्विलेपनम् | निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया || २-१५५ || शिरोलग्नं ततः कृत्वा निर्माल्यं शिष्टमेव च | विप्राय दद्यान्नैवेद्यं कुमारिभ्यस्तथैव च | किञ्चित् स्वयं च स्वीकृत्य विहरेत् सर्वदा भुवि || २-१५६ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (षोडशोपचारपूजास्तोत्रादिनिरूपणं) द्वितीयः पटलः || २ || अथ तृतीयः पटलः | श्रीदेव्युवाच | देवदेव महादेव अनाथानां दयाकर | दीक्षाविधिं महादेव कथयस्व समासतः || ३-१ || श्रीभैरव उवाच | शृणु सुन्दरि सर्वेशि कथ्यमानं मयानघे | तया विना महादेवि ह्यधिकारो न कर्मणि || ३-२ || सर्वाश्रमेषु भूतेषु सर्वदेवेषु सुव्रते | दीक्षां विना महादेवि सर्वं तस्य वृथा भवेत् || ३-३ || तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् | दीक्षामूलं जगत्सर्वं [जपं सर्वं ख पाठः |] दीक्षामूलं परं तपः || ३-४ || (प्. २२) दीक्षामू(लं?ला) परा सिद्धिस्तस्माद् दीक्षां समाचरेत् | दीक्षाहीनो महादेवि रौरवं नरकं व्रजेत् || ३-५ || अदीक्षिताद्यदि शुभे किञ्चिदादाय भोजयेत् | वृथा पानं भवेत् सर्वं तस्मात् सर्वं विवर्जयेत् || ३-६ || अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते | अन्नं विष्टासमं तेषां तोयं मूत्रसमं स्मृतम् || ३-७ || तस्मात् सर्वप्रयत्नेन सद्गुरोर्दीक्षितो भवेत् | सद्गुरोराहितदीक्षः सर्वकर्माणि कारयेत् || ३-८ || गुरुं विना महादेवि वृथा दीक्षा च जायते | कल्पे दृष्ट्वा तु मन्त्रं वै यो गृह्णाति नराधमः || ३-९ || मन्वन्तरसहस्रेषु निष्कृ(ते?ति)र्नैव जायते | गुरोर्मुखान्महाविद्या सर्वपापप्रणाशिनी || ३-१० || सद्गुरुं त्वं महादेवि कथ्यमानं मया शृणु | बहिरिन्द्रियहर्ता च गुरुः सर्वत्र दुर्लभः || ३-११ || अन्तरिन्दियहर्ता च गुरुः सर्वत्र शोभनः | अनिन्दितवेशधारी कपटेन विनाकृतः || ३-१२ || आचारवान् महाविद्याराधनेषु च तत्परः | तत्कल्पाचारशक्तश्च गुरुरित्यभिधीयते || ३-१३ || कौलज्ञानी महायोगी गुरुरेव च दैवतम् | कूलीनः सर्वमन्त्राणां दाता सर्वेषु सुन्दरि || ३-१४ || दीक्षा(भ्र?प्र)भुः स एवात्मा नापरो वेदपारगः | उत्पादकब्रह्मदात्रोगरीयान् कौलनायकः || ३-१५ || तस्मान्मन्येत सततं पितुरप्यधिको गुरुः | ध्यान[धर्म क पाठः |]मूलं गुरोर्मूर्तिः पूजामूलं गुरोः क्रिया || ३- १६ || (प्. २३) (मूलंमन्त्रं?मन्त्रमूलं) गुरोर्वाक्यं तस्मादादौ गुरुं यजेत् | शिवोऽपि परविद्यानामुपदेष्टा न संशयः || ३-१७ || वैष्णवस्तन्मतस्थानां सौरः सौरविदां सताम् | गाणपत्यस्तु देवेशि गणदीक्षाप्रवर्तकः || ३-१८ || शैवः शाक्तस्तु सर्वत्र दीक्षास्वामी न संशयः | तस्मात् सर्वप्रयत्नेन कुलीनं गुरुमाश्रयेत् || ३-१९ || एकद्वित्रिचतुष्पञ्चवर्षाण्यालोक्य योग्यताम् | योग्यं परीक्षयेच्छिष्यमन्यथा दुःखमाप्नुयात् || ३-२० || वृद्धिश्राद्धं ततः कृत्वा ब्राह्मणान् परितोष्य च | गृह्णीयाच्च ततो दीक्षां नान्यथा फलमाप्नुयात् || ३-२१ || चैत्रादीनां फलं ज्ञेयं मलमासं विवर्जयेत् | विषुवेऽप्ययनद्वन्द्वे संक्रान्त्यां मदनोत्सवे || ३-२२ || दीक्षा कार्या प्रयत्नेन पवित्रे गुरुपर्वणि | षष्ठी भाद्रपदे मासि (त्रये?इषे) कृष्णचतुर्दशी || ३-२३ || कार्तिके नवमी शुक्ला मार्गे शुक्लतृतीयिका | पौषे च नवमी शुक्ला माघे वरचतुर्थिका || ३-२४ || फाल्गुने नवमी शुक्ला चैत्रे कामत्रयोदशी | वैशाखे चाक्षया शस्ता ज्यैष्ठे दशहरा तिथिः || ३-२५ || आषाढे पञ्चमी शुक्ला श्रावणे कृष्णपञ्चमी | एतानि देवपर्वाणि तीर्थकोटिफलं लभेत् || ३-२६ || निन्दितेष्वपि कालेषु दीक्षोक्ता ग्रहणे शुभा | सूर्यग्रहणकालस्य समानो नास्ति भूतले || ३-२७ || पञ्चाङ्गशुद्धे दिवसे शोभने शशितारयोः | गुरुशुक्रोदये चैव शस्यते मन्त्रसंस्क्रिया || ३-२८ || (प्. २४) स्थानं शृणु वरारोहे येन सिध्येन्न संशयः | गोष्ठे शिवालये पुण्ये श्मशाने च नदीतटे || ३-२९ || शून्ये च ग्रहणे पुण्ये गिरौ च सिद्धिलिप्सुकः | जानीयाच्छोभनं कालं मन्त्रस्य ग्रहणं प्रति || ३-३० || रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयम् | पुष्या शतभि(षा?षक्) चैव दीक्षानक्षत्रमुच्यते || ३-३१ || क्रमं प्रवर्त्य विधिवत् पूजाहोमौ विधाय च | विद्यां तां कथयेत् सम्यग् जीवकर्णे च तत्त्ववित् || ३-३२ || अज्ञात्वा कुल्लुकां देवीमनत्वा गुरुपादुकाम् | अदत्त्वा दक्षिणां सम्यगकृत्वा कुलपुजनम् || ३-३३ || योऽस्मिंस्तन्त्रे प्रवर्तेत न तं पीडयसे ध्रुवम् | इषे मासि विशेषेण धर्मकामार्थसिद्धये || ३-३४ || नात्र कालविचारादि न च नक्षत्रशोधनम् | अष्टोत्तरशतं होमं बिल्वपत्रेण कारयेत् || ३-३५ || अष्टावष्टादश कुर्यादष्टाविंशतिमेव च | पायसं कृसरं दद्याद् गोधामांसमनुत्तमम् || ३-३६ || रम्भापुष्पं शालमत्स्यं जुहुयाच्च प्रयत्नतः | यवक्षीरं ततो दद्याच्छाल्यन्नं मधुना युतम् || ३-३७ || नारिकेलफलं दद्यात् स्वर्णाद्याभरणं तथा | गोभूहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः || ३-३८ || दक्षिणा च विशेषेण दातव्येति महेश्वरि | गुरवे दक्षिणां दद्यात् प्रत्यक्षाय शिवात्मने || ३-३९ || न चेत् संचारिणी शक्तिः कथमस्य भविष्यति | सर्वस्वं दक्षिणां दद्याद् धेनुं दद्यात् पयस्विनीम् || ३-४० || (प्. २५) यदा ददाति संतुष्टः प्रसन्नवदनो मनुम् | आसनं गुरवे दद्याद्रक्तकम्बलसंयुतम् || ३-४१ || हाराद्याभरणं दद्याद् गां च दद्यात् पयस्विनीम् | भूमिं वृत्तिकरीं दद्यात् पुत्रपौत्रानु(षा?या)यिनीम् || ३-४२ || गुरवे दक्षिणां दद्यात् सुवर्णं वाससा युतम् | गुरुसंतोषमात्रेण सिद्धिर्भवति शाश्वती || ३-४३ || अन्यथा नैव सिद्धिः स्यादभिचाराय कल्पते | विप्रेभ्यो भोजनं दद्याद् बहुमानपुरःसरम् || ३-४४ || सुवासिनीं कुमारीं च भोजयेन्मिष्टभोजनैः | तस्य च्छायानुसारी स्यान्निकटे त्रिदिनं वसेत् || ३-४५ || पश्चात् संचारिणी शक्तिर्गुरुमेति न संशयः | गुरोः परतरं नास्ति त्रैलोक्ये च विशेषतः || ३-४६ || गुरुणा परमेशानि देवतैक्यं विभावयेत् | महादेवो गुरुः साक्षाच्छ्रिगुरुः सर्वदेवताः || ३-४७ || गुरोश्च संनिधाने तु नान्यदेवं प्रपूजयेत् | संनिधौ च गुरुं चैव पूजयेत् परमेश्वरि || ३-४८ || गुरुपूजाफलं देवि यथावत् कथयामि ते | गुरुपूजाविधानं च कथयामि वरानने || ३-४९ || आदौ भद्रासनं दद्यात् पाद्यं दद्यात्ततः परम् | अर्घ्यं दद्याद् विशेषेण तथा चाचमनीयकम् || ३-५० || धूपं च गुग्गुलं दद्याद् दीपं दद्यात् सुशोभनम् | चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्मनोहरम् || ३-५१ || नानाविधं फलं दद्यान्नानारससमन्वितम् | भक्ष्यं भोज्यं विशेषेण दद्याच्चैव वरानने || ३-५२ || (प्. २६) पुष्पाणामञ्जलिं दद्याच्चन्दनेन समन्वितम् | शययां दद्यान्महेशानि विचित्रां सर्वमोहिनीम् || ३-५३ || खट्वां दद्यान्महेशानि विचित्राम्बरधारिणीम् | पादसेवां गुरोः कुर्यादतियत्नेन सुन्दरि || ३-५४ || गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु | गुरुपत्नीं विशेषेण पूजयेत् सर्वभोजनैः || ३-५५ || गुरुपत्नी च युवती नाभिवाद्या च पादयोः | पूर्णविंशतिवर्षेण गुणदोषौ विजानता | अत एव महेशानि न कुर्यात् पादसेवनम् || ३-५६ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (दीक्षाविधिनिरूपणं) तृतीयः पटलः || ३ || अथ चतुर्थः पटलः | अथ वक्ष्ये महेशानि पुरश्चर्याविधिं शिवे | अकृत्वा तु पुरश्चर्यां मन्त्रं जपति नित्यशः || ४-१ || कल्पकोटिजपेनापि तस्य सिद्धिर्न जायते | जीवहीनो यथा देही(हः) सर्वकर्मसु न क्षमः || ४-२ || पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः | जपहोमौ तर्पणं चाभिषेको द्विजभोजनम् || ४-३ || पञ्च कृत्यानि लोकेऽस्मिन् पुरश्चरणमुच्यते | यद्यत्संख्यं विहीयेत तत्संख्याद्विगुणं जपः || ४-४ || (प्. २७) कार्यो देवि वरारोहे सर्वेषां च विधिः स्मृतः | तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः || ४-५ || अपूर्वां च कुमारीं च भूषणैः परितोषयेत् | मन्त्राणां कीलकं कुर्यान्मन्त्रार्चनपुरस्क्रियाम् || ४-६ || ऋष्यादीनां महेशानि न्यासं कुर्यान्महेश्वरि | शृणु वक्ष्यामि देवेशि कालीतन्त्रमनोः क्रमम् || ४-७ || बिन्दुः श्रोत्रं नाद आस्यं ककारं हृदयं ततः | वह्निं नेत्रं कीलकं तु दीर्घाकारं प्रियंवदे || ४-८ || तारकं तारिनीतन्त्रे हृदयं विद्धि पार्वति | हकारं विद्धि सर्वत्र शक्तिपक्षे सुरेश्वरि || ४-९ || एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः | ततः प्रयोगं सर्वेषां वश्यादीनां च कारयेत् || ४-१० || स्वेच्छाचारपरो मन्त्री पुरश्चरणसिद्धये | रहस्यमालामाधाय लक्षमेकं सदा जपेत् || ४-११ || एवं कृते महेशानि सिद्धमन्त्रो भविष्यति | लभते श्रीमतीं वाणीं मन्त्रस्य लक्षजापतः || ४-१२ || भावानवहितानां च क्षुद्राणां क्षुद्रचेतसाम् | चतुर्गुणो जपः प्रोक्तः सिद्धये नान्यथा भवेत् || ४-१३ || महाचीनक्रमाशक्ता ब्राह्मणा अपि मोहने | चतुर्गुणविधानेन कुर्वन्ति जपमुत्तमम् || ४-१४ || जडो वा यदि मूकः स्याद् भावनावशतत्परः | रहस्यमार्गे निरताः सर्वे वर्णा द्विजातयः || ४-१५ || तदनुष्ठानविरताः सर्वे वर्णाः पृथक् पृथक् | विशेषतः कलियुगे मत्प्रसादाद् भविष्यति || ४-१६ || (प्. २८) अस्मात् परतरो नास्ति सिद्धिमन्त्रो गणेश्वरि | नक्तंभोजी हविष्यान्नो जपेद् विद्यां दिवा शुचिः || ४-१७ || तत्कृत्वा सिद्धिमाप्नोति जपेच्च मनसा स्थिरम् | भूमौ शयीत तत्काले त्यजेच्च युवतीं दिवा || ४-१८ || प्रातर्जपं प्रकुर्वीत मुखं शुद्ध्यति तत्परम् | हविष्यान्नं च संभुज्य ब्रह्मपुष्पं हुनेदथ || ४-१९ || जपकाले महेशानि भार्यां यत्नेन वर्जयेत् | विष्णुकल्पं वर्जयेत् तु तुलसीं च विवर्जयेत् || ४-२० || वर्जयेन्मालतीपुष्पमन्यदेवप्रपूजनम् | हस्तप्रक्षालनं शौचमाचारं भक्तिमांश्चरेत् || ४-२१ || देवीनां च तथा पुष्पं पृथक् पात्रे नियोजयेत् | एकीभावं हि कर्तव्यं यदीच्छेच्छुभमात्मनः || ४-२२ || नैवेद्यादि फलैस्तोयैर्जानीयादेव एकभाक् | हविर्नानाविधैर्गन्धैः पायसैर्मोदकादिभिः || ४-२३ || एवं क्रमेण भुञ्जीत दधि क्षीरं तथैव च | मालानां च महेशानि नियमं शृणु भैरवि || ४-२४ || अकस्मादीहिता सिद्धिर्महाशङ्खाख्यमालया | पञ्चाशन्मणिभिर्माला निर्मिता सर्वकामदा || ४-२५ || युद्धे मृतस्य देवेशि चाण्डालस्यास्थिकेन च | मस्तकस्य विशेषेण महाशङ्खः प्रकीर्तितः || ४-२६ || अनया मालया देवि तारामन्त्रः प्रसिद्ध्यति | तत्संस्कारं वरारोहे शृणुष्वैकमनाः प्रिये || ४-२७ || सूत्रेण ग्रथिता माला विप्रस्त्रीसूत्रनिर्मिता | पट्टसुत्रैः कृता माला जगद्वश्याय कल्पते || ४-२८ || (प्. २९) स्वर्णसूत्रकृता माला साक्षाद्वैश्रवणो भवेत् | मुखे मुखं तु संयोज्य पुच्छे पुच्छं नियोजयेत् || ४-२९ || गोपुच्छसदृशी माला यद्वा सर्पाकृतिर्भवेत् | मातृकावर्णसंमिश्रैर्ग्रन्थिं कुर्याद् विधानतः || ४-३० || तत्सजातीयमेकाक्षं मेरुत्वेन प्रकल्पयेत् | एवं क्रमेण ग्रथिता माला सर्वत्र शोभना || ४-३१ || एवं सा ग्रथिता माला मन्त्रसिद्धिप्रदायिनी | एकैकं मणिमादाय ब्रह्मग्रन्थिं विनिर्दिशेत् || ४-३२ || अनुलोमविलोमेन मातृकान्तर्गतं जपेत् | तेन सर्वगुणोपेता जायते सिद्धिभागिति || ४-३३ || कुल्लुकां च ततो नत्वा मालापूजां विधाय च | गृह्णीयाद् दक्षिणेनाथ नच वामेन संस्पृशेत् || ४-३४ || नाभितश्च शिरोदेशे कुल्लुकां परिकल्पयेत् | पट्टसूत्रकृता माला देव्याः प्रीतिकरी सदा || ४-३५ || अभावे चापि शङ्खस्य स्फाटिक्या मालया जपेत् | मालाविशेषं देवेशि भैरवि प्राणवल्लभे || ४-३६ || यया जप्तेन देवेशि सिद्धो भवति तत्क्षणात् | अनया सदृशी विद्या त्रैलोक्ये नास्ति सुन्दरि || ४-३७ || कृपया परमेशानि तव स्नेहात् प्रकाश्यते | परमं शृणु चार्वङ्गि शृणु पार्वति तत्त्वतः || ४-३८ || येन विज्ञानमात्रेण मन्त्राः सिध्यन्ति तत्क्षणात् | अनुलोमविलोमेन मन्त्रमा(न्तविर्भे?त्रार्णभे)दतः || ४-३९ || मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितं मनुम् | कुर्यान्मन्त्रमयीं मालां सर्वमन्त्रप्रदीपनीम् || ४-४० || (प्. ३०) चरमार्णं मेरुरूपं न लङ्घयेच्च सर्वदा | एतत्परं रहस्यं च मयोक्तं ते यशस्विनि || ४-४१ || त्वया गुप्ततरं कार्यं नाख्येयं यस्य कस्यचित् | शुभे काले शुभे लग्ने शुभर्क्षे च शुभे तिथौ || ४-४२ || प्रतिष्ठां कारयेद्विद्वान् स्वयं वा गुरुणापि वा | अश्वत्थपत्रनवकं पद्माकारेण पातयेत् || ४-४३ || तत्र संस्थापयेन्मन्त्री मातृकामन्त्रमुच्चरेत् | वह्निं संस्कृत्य देवेशि हुनेत् सुरगणार्चिते || ४-४४ || हुतशेषं प्रतिहुतौ प्रदद्याद् देवताधिया | तत्र देवीं समभ्यर्च्य ग्रहणेऽपि च पूजयेत् || ४-४५ || अनुलोमविलोमेन मातृकार्णेन मन्त्रयेत् | मेरुं प्रेतेन संमन्त्र्य तां नयेद् देवतात्मताम् || ४-४६ || एवं सर्वगुणोपेता जायते सर्वसिद्धये | स्मृतिसूत्रं वीतिहोत्रमावृत्तित्रितयं ततः || ४-४७ || दिवानिशाकरौ प्रोक्तौ तस्मात्तेजस्त्रयी शुभा | गोप्तव्या ह्यनिशं सूत्रे जपमालेप्सिताप्तये || ४-४८ || मातृमेयप्रमाणेन बिन्दुनादकलात्मिकाम् | उच्चरेदनुसंस्कृत्य कुण्डलीयोगतः प्रिये || ४-४९ || तेनविद्या लभेत् सिद्धिं नात्र कार्या विचारणा | कण्ठदेशे स्थिता मन्त्राः केवला वर्णरूपिणः || ४-५० || सौषुम्णाध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवन्ति हि | ईदृश्या च स्रजा यस्तु कुरुते जपमुत्तमम् || ४-५१ || अपमृत्युकलिभ्यां च मुच्यते नात्र संशयः | अथ वक्ष्ये महेशानि अङ्गुलीनां च निर्णयम् || ४-५२ || (प्. ३१) पर्वद्वयमनामायाः परिवर्तेन वै क्रमात् | पर्वत्रयं मध्यमायास्तर्जन्येकं समाचरेत् || ४-५३ || शक्तिमाला समाख्याता सर्वमन्त्रप्रदीपनी | व्यग्रचित्तेन यज्जप्तं यज्जप्तं मेरुलङ्घने || ४-५४ || तत्सर्वं निष्फलं याति इत्याहुः परमेश्वरि | पर्वद्वयं हि तर्जन्या मेरुं तद्विद्धि पार्वति || ४-५५ || सिद्धये साधको जप्यान्मेरुं नत्वा पुनः पुनः | तर्जन्यग्रं तथा मध्यं यो जपेत् सोऽपि पापकृत् || ४-५६ || नित्यं जपं करे कुर्यान्नतु काम्यं कदाचन | कुल्लुकां च ततो नत्वा मालापूजां विधाय च || ४-५७ || श्रीगु(रु?रो)श्चर(णं?णौ)ध्यात्वा मालाया मन्त्रमुच्चरेत् | कुल्लुकां च न जानाति महामन्त्रं जपेन्नरः || ४-५८ || पञ्चत्वं जायत्रे तस्य अथवा वातुलो भवेत् [मूढकोलकः ख पाठः |] | तारिणीचण्डिकायाश्च मन्त्रः कुल्लुकवर्जितः || ४-५९ || मतिमान् यो द्विजातीनां नोपादेयः कथञ्चन | कुल्लुकां शिरसि धृत्वा सर्वयज्ञफलं लभेत् || ४-६० || नान्यो विचारः सर्वत्र विरूपाक्षस्य संमतः | कुल्लुके वर्जिते पुंसां यद्यनोपस्थितिर्भवेत् || ४-६१ || मम पूजा सदा व्यर्था मम यज्ञस्तथैव च | तारामन्त्रस्य जानीयात् त्र्यक्षरं मन्त्रमुत्तमम् || ४-६२ || न जानाति च यो मूढः कुल्लुकां तारिणीं जपेत् | यावज्जीवं महेशानि न सिद्ध्यति कदाचन || ४-६३ || महामन्त्रं परित्यज्य पूजयेद् यस्तु तारिणीम् | पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् || ४-६४ || (प्. ३२) कुल्लुका नाम सा देवी अनुभावस्वरूपिणी | सवामकर्त्रिहस्ता च चतुर्बाहुसमन्विता || ४-६५ || नीलोत्पलवपुः श्यामा सर्वालङ्कारभूषिता | लिखेत् तत् त्र्यक्षरं मन्त्रं हरिद्राचन्दनेन वा || ४-६६ || यावज्जीवं तु मन्त्रार्णं शिखायां धारयेत् सदा | महतीविद्यया प्राप्तं जपेन्मन्त्रं त्रिलक्षकम् || ४-६७ || लक्षमेकं जपेद् विद्यां हविष्याशी जितेन्द्रियः | उ(च्छ?च्च)स्थानेषु देवेशि तदासनस्य संस्थितिः || ४-६८ || पूर्वोक्तं पूजनं कृत्वा विप्राराधनतत्परः | अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् || ४-६९ || जपान्ते प्रत्यहं मन्त्री होमयेत् तद्दशांशतः | तर्पणं चाभिषेकं च तत्तद्दशांशतो मनोः || ४-७० || प्रत्यहं भोजयेद् विप्रान् न्यूनाधिक्यप्रशान्तये | अथैवं सर्वसंपूर्णं होमादिकमथाचरेत् || ४-७१ || रात्रौ बलिः सम(दाय?र्प्यस्तु)सर्वसिद्धिमभीप्सुभिः | विना दीपकमन्त्रेण अग्रे शून्यं न चार्चयेत् || ४-७२ || विनानया महादेवि विना रुधिरवेदनैः | त्रिवर्णमयया दीपन्या मन्त्रिणी सा च कथ्यते || ४-७३ || मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | शत्कोटिजपेनापि कथं सिद्धिर्वरानने || ४-७४ || गुप्तजीवाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये | मन्त्राश्चैतन्यसहिताः सर्वसिद्धिकराः सदा || ४-७५ || मन्त्रोच्चारे कृते यादृक् स्वरूपप्रथ(मं?नं)भवेत् | शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् || ४-७६ || (प्. ३३) हृदये ग्रन्थिभेदश्च सर्वावयवभेदनम् | आनन्दाश्रूणि पुलको देहावेशः कुलेश्वरि || ४-७७ || गद्गदोक्तिश्च सहसा जायते नात्र संशयः | सकृदुच्चारिते चैवं मन्त्रे चैतन्यसंयुते || ४-७८ || दृश्यते च महादेवि पारंपर्यं तदुच्यते | एवं जपं यथा कृत्वा दशांशमसितोत्पलैः || ४-७९ || आज्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पणम् | कालागुरुद्रवोपेतैर्विमलैर्गन्धवारिभिः || ४-८० || तर्प(येत्) तां परां देवीं तत्प्रकारमिहोच्यते | जले चावाह्य विधिवत् पाद्याद्यैरुदकात्मकैः || ४-८१ || संपूज्य विधिवद् देवीं परिवारान् सकृत्सकृत् | संतर्प्य विधिवद्भक्त्या दशांशं तर्पयेत् ततः || ४-८२ || पुनरकैकं संतर्प्य परिवारांस्तथा पुनः | तारिणीमभिषिञ्चामि नमो मूर्ध्नि विनिःक्षिपेत् || ४-८३ || अभिषेकोऽयमाख्यातः सर्वपापनिकृन्तनः | अभिषेकदशांशेन साधकानां च भोजनम् || ४-८४ || सुवासिनीं कुमारीं च भोजयेत् तदनन्तरम् | क्षीरखण्डाज्यभोज्यैश्च मन्त्रसिद्धिर्भवेद् ध्रुवम् || ४-८५ || गुरवे दक्षिणां दद्याद् बहुमानपुरःसरम् | होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः || ४-८६ || मन्त्रान्ते नाम चोच्चार्य तर्पयामि ततः परम् | स्वाहान्ते तर्पणं त्वेवमभिषेकं शृणुष्व मे || ४-८७ || मन्त्रान्ते नाम चोच्चार्य सिञ्चामीति पदं ततः | तद्दशांशं ब्राह्मणानां भोजनं च समाचरेत् || ४-८८ || (प्. ३४) इत्येवं सिद्धमन्त्रः सन् सर्वान् कामांश्च साधयेत् | बिल्वपत्रं महेशानि दशांशं जुहुयात् ततः || ४-८९ || अथ चैवं तिलाज्येन होमयेद् वाथ सुन्दरि | सर्वस्वं गुरवे दद्यात् तदर्धं वा तदर्धतः || ४-९० || अज्ञात्वा कुल्लुकां देवीमजप्त्वा गुरुपादुकाम् | न दत्त्वा दक्षिणां सम्यगकृत्वा चक्रपूजनम् || ४-९१ || योऽस्मिंस्तन्त्रे प्रवर्तेत तत्स्वं पीडयते ध्रुवम् | श्रीदेव्युवाच | कथितं परमेशान परदारविधौ मयि | न पापं जायते सुभ्रु परदारविधौ मम || ४-९२ || परस्य दारान् संस्पृस्य जप्यते यदि साधकैः | तदैव महती सिद्धिर्नात्र कार्या विचारणा || ४-९३ || कालीकल्पप्रकाशे च कथितं यन्महेश्वर | अत्रैव सम्यगाख्यानं कुरुष्व हृदयप्रिय || ४-९४ || श्रीभैरव उवाच | शृणु देवि महाभागे आपदुद्धारकारिणि | अकथ्यं यन्महादेवि तव स्नेहात् प्रकाश्यते || ४-९५ || परदारविधौ वेदनिन्दावादः प्रवर्तते | तासां सङ्गान्महेशानि तामिस्रं नरकं भवेत् || ४-९६ || वेदार्थमिति विज्ञाय कथं कुर्याच्च साधकः | परदारान् नैव गच्छेद्, गच्छञ्जपेच्चेति वेदः || ४-९७ || श्रुतिद्वयविरोधित्वाद्गच्छेरन् परयोषितः | तस्माच्छृणु वरारोहे वेदार्थं कथयामि ते || ४-९८ || श्रीदेव्युवाच | (प्. ३५) को वेदः कुत आयाति को वा तस्य प्रकाशकः | कः कर्ता तस्य वेदस्य तत्सर्वं कथयस्व मे || ४-९९ || श्रीभैरव उवाच | एको वेदश्चतुर्धाभूद् यजुःसाम-ऋगादयः | वेदो ब्रह्मेति साक्षाद्वै जानेऽहं नगनन्दिनि || ४-१०० || स्वयं प्रवर्तते वेदस्तत्कर्ता नास्ति सुन्दरि | स्वयंभूरीशो भगवान् वेदो गीतस्त(या?था)पुरा || ४-१०१ || शिवाद्या ऋषिपर्यन्ताः स्मर्तारोऽस्य न कारकाः | प्रकाशका भवन्त्येते कृष्णाद्यास्त्रिदिवौकसः || ४-१०२ || वैदिकप्रतिपाद्यश्च अर्थो धर्मः प्रकीर्तितः | विपरीतं महेशानि अधर्मो भवति प्रिये || ४-१०३ || परदारागमं वदे तन्निषिद्धं सुरेश्वरि | यद्धि वैधेतरं देवि तन्निषिद्धं महेश्वरि || ४-१०४ || परस्त्रियं महेशानि मनसा भावयञ्जपेत् | तदैव सर्वसिद्धिः स्यान्नात्र कार्या विचारणा || ४-१०५ || इति सिद्धन्तविद्भिश्च ज्ञेयं तन्त्रोपदेशिकम् | महाचीनद्रुमलतावेष्टनेन च यत्फलम् || ४-१०६ || तत्फलं नास्ति देवेशि त्रैलोक्ये सुरवन्दिते | यस्मिन् मन्त्रे य आचारस्तत्र धर्मस्तु तादृशः || ४-१०७ || कृतार्थस्तेन जायेत स्वर्गो वा मोक्ष एव च | भ्रान्तिरत्र न कर्तव्या सिद्धिर्भवति निश्चितम् || ४-१०८ || तस्मादनेन देवेशि पापं नास्ति महेश्वरि | तस्मात् कुर्यात् साधकेन्द्रः परदारागमं शुभे || ४-१०९ || अथान्यत् संप्रवक्ष्यामि मन्त्रसिद्धेश्च लक्षणम् | मातृकापुटितं कृत्वा स्वमन्त्रं प्रजपेत् सुधीः || ४-११० || (प्. ३६) क्रमोत्क्रमाच्छतावृत्त्या तदन्ते केवलं मनुम् | एवं तु प्रत्यहं जप्याद् यावल्लक्षं समाप्यते || ४-१११ || निश्चितं मन्त्रसिद्धिः स्यादित्युक्तं तन्त्रवेदिभिः | पुरश्चर्याशतेनापि प्रयोगविधिना तथा || ४-११२ || कल्पकोटिजपेनापि पूजायाः शतकेन च | न सिद्धिर्जायते सुभ्रु! यदि भावो न जायते || ४-११३ || इति श्रीबृहन्निलतन्त्रे भैरवभैरवीसंवादे (पुरश्चर्याविधिनिरूपणं) चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः | श्रीभैरव उवाच | नित्यार्चनरतो मन्त्री कुर्यान्नैमित्तिकार्चनम् | नैमित्तिकार्चने सिद्धिः कुर्यात् काम्यमखण्डितम् || ५-१ || मासार्धमथवा मासं द्विगुणं त्रिगुणं तथा | यावत्फलाप्तिभाग् [प्तवान् ख पाठः |] योगी तावदेवं समाचरेत् || ५-२ || नैमित्तिके च काम्ये च फलाप्तिर्मण्डलावधिः | नचेत् तु द्विगुणीकृत्य यथा स्यात् फलभाक् सुधीः || ५-३ || अष्टम्यां च चतुर्दश्यां पूजयेच्च प्रयत्नतः | यद्यत् प्रार्थयते मन्त्री तत् तदाप्नोति नित्यशः || ५-४ || (प्. ३७) लभते मञ्जुलां वाणीमष्टम्यां च ततो जपेत् | मध्याह्नसमये देव्याः पूजनं सिद्धिदायकम् || ५-५ || प्रातःकाले महादेवि पूजा कार्या विधानतः | सायाह्ने च महादेवि पूजा च शस्यते बुधैः || ५-६ || अष्टम्यां पूजनं देव्याः सर्वकामफलप्रदम् | रम्भापुष्पं बीजपूरं सुगन्धिपरिमिश्रितम् || ५-७ || मिश्रीकृत्य बलिं दद्यादष्टम्यां च विशेषतः | स्वर्णमालां महादेव्यै दद्याद् गन्धैर्विशेषतः || ५-८ || फलं क्षीरं तथा दद्यादधिकं शर्करान्वितम् | तस्मात् सर्वप्रयत्नेन संपत्त्यै पूजयेच्छिवाम् || ५-९ || सूक्ष्मतण्डुलसिद्धार्थान् देव्यै दद्यात् प्रयत्नतः | अष्टम्यां च चतुर्दश्यां पूजयेच्च यथोविधि || ५-१० || आज्ञासिद्धिमवाप्नोति ज(वा?पा)पुष्पं च वर्वराम् | चन्दनं चार्ककुसुमं दद्यात् श्वेतापराजिताम् || ५-११ || अर्घ्यं दद्याद्विशेषेण नित्यपूजा(च?सु) सर्वदा | अष्टोत्तरशतं जप्यं यावज्जीवितसंख्यया || ५-१२ || यस्तु संपूजयेद् दुर्गां महाष्टम्यां प्रयत्नतः | स त्रिजन्मार्जितं पापं तत्क्षणादेव नाशयेत् || ५-१३ || ये जपन्ति महामायां ज्ञात्वा तत्त्वेन भैरवम् | मधुना पायसं चैव क्षीरमाज्यं च शर्कराम् || ५-१४ || बलिं दद्याच्च गोधां वै चासवं च प्रशस्यते | अत्रासवमवश्यं च ब्राह्मणस्तु विशेषतः || ५-१५ || आसवं च महेशानि शृणुष्वैकमनाः प्रिये | (प्. ३८) श्रीभैरव्युवाच | भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु | केन रूपेण देवेश दद्याद् विप्रोऽथ चासवम् || ५-१६ || विशेषं कथयस्वाग्रे सारात् सारतरं यतः | कैतवं च परित्यज्य यदि स्नेहोऽस्ति मां प्रति || ५-१७ || केन पेयमासवं च केनापेयं वदस्व मे | अपेयं तन्महाबाहो पेयं वा तद्वदस्व मे || ५-१८ || यस्मान्मे परमेशान दूरीभवति संश(व?यः) | कोटीनां तिसृणां देवि तन्त्राणां सारमुत्तमम् || ५-१९ || तस्मादत्र प्रकथ्यं ते सत्यं सुरगणार्चिते | श्रीभैरव उवाच | शृणु देवि महाभागे सर्वशास्त्रार्थगामिनि | जिज्ञासितं परं तत्त्वं तन्मे निगदितं शृणु || ५-२० || मद्यमदेयमपेयमनिर्ग्राह्यं चेति, जपे देयं चेति | सुरा वै मलं सत्त्वानां पाप्मा तु मलमुच्यते | तस्माद् ब्रह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् || ५-२१ || अस्यां शृणु वरारोहे सुरां सुरगणार्चिताम् | गौडी पैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा || ५-२२ || पातव्या हि महाभागे न तु कैश्चित् द्विजोत्तमैः | पनसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् || ५-२३ || माक्षिकं तालमा(ध्वि?ध्वी)कं मैरेयं नारिकेलजम् | समान्येव विजानीयान्मद्या(न्ने?न्ये)कादशैव तु || ५-२४ || सुरापानविधौ देवि निन्दा केषां च संमता | विशेषं शृणु देवेशि तव स्नेहात् प्रकाश्यते || ५-२५ || (प्. ३९) तन्निषिद्धा महादेवि या च वैधेतरा भवेत् | अमन्त्रितसुरापाने प्रायश्चि(तो?त्तं) विधीयते || ५-२६ || शृणु देवि महाभागे पुरावृत्तं मनोहरम् | शुक्रो दैत्यगुरुः पू(र्वे?र्वं) सिद्ध्यर्थं कृतवाञ्जपम् || ५-२७ || कल्पकोटिजपेनापि नासिद्ध्यत कदाचन | पीत्वासवं महादेवि प्रत्यहं जपतत्परः || ५-२८ || चित्तोन्मादं तदा तस्य जातं परमकौतुकम् | जपभ्रष्टोऽभवत्तत्र सस्मार वनितां शुभाम् || ५-२९ || तथोर्वशी च स्वर्वेश्या तत्र गत्वा मनोरमम् | वाक्यं सर्वरसस्वादु कथयित्वा सुशोभने! || ५-३० || शुक्रेण सार्धं देवेशि रमयामास चोर्वशी | शुक्रोत्पत्तिश्च जायेत ज्ञानं य(ज)ज्ञे ततः परम् || ५-३१ || तत्त्वं ज्ञात्वा ततः शुक्रः शशापासवमुत्तमम् | तेन शापेन देवेशि शप्तं चासवमुत्तमम् || ५-३२ || ततः प्र(भू?भृ)ति तद् देवि सिद्धये न च जायते | एवं क्रमेण देवेशि शतवर्षं गतं प्रिये || ५-३३ || ततः सा च भगवती काली कालस्वरूपिणी | उवाच सादरं वाक्यं काली दैत्यगुरुं प्रति || ५-३४ || शृणु वत्स महद्वाक्यं सावधा(ना?नो)ऽवधारय | कथं शप्तं महाभाग चासवं देवदुर्लभम् || ५-३५ || श्रीशुक्र उवाच | सर्वेशे सर्वभूतेशे सर्वभूतसमावृते | ब्रह्मेशविष्णुनमिते प्रणमामि सदा शिवे || ५-३६ || ब्रह्मविष्णुशिवानां च प्रसूते करुणामयि | जडानां ज्ञानदे देवि त्राहि मां शरणागतम् || ५-३७ || (प्. ४०) तारिणी त्वं महादेवि चात्र पूर्णा युगागमे | अस्माकं ज्ञानदात्री च विष्णुमातर्नमोऽस्तु ते || ५-३८ || त्वं श्रीस्त्वं (हि?चैव)सावित्री सती च त्वं सुरेश्वरि | आद्ये भवाद्ये सर्वेशे विश्वमातर्नमोऽस्तु ते || ५-३९ || शिवे शिवात्मिके घोरे सर्वविद्यानिधे शुभे | प्रसन्ना भव सर्वज्ञे सर्वमन्त्रप्रकाशने || ५-४० || प्रसीद देवि चास्माकं सर्वभूतदयामयि | इति स्तवेन संस्तुष्टां महाकालीं करालिनीम् || ५-४१ || दण्डवत् प्रणिपत्यादौ पुनराह गरीयसीम् | आसवं च मया शप्तं कारणं शृणु भैरवि || ५-४२ || पीत्वासवं महादेवि न सिद्धिर्जायते मम | तस्माच्छप्तं महेशानि सर्वं निगदितं शृणु || ५-४३ || उवाच सा महासाध्वी काली कालस्वरूपिणी | प्रहसन्तीव सा देवी शुक्रं दैत्यगुरुं प्रति || ५-४४ || अमन्त्रिता सुरा वि(प्रो?प्र!)पीता परमदुर्लभा | तेनैव हेतुना सिद्धिर्न जाता तव सुन्दर || ५-४५ || अमन्त्रितसुरापाने प्रायश्चित्तं विधीयते | आयसे भाजने भद्रे स्वर्णे रूप्ये तथैव च || ५-४६ || ब्राह्मणो वेदवांश्चैव पिबेच्च वारुणीं शुभाम् | तप्तां सुरां पिबेच्चैव नान्यथा सिद्धिमाप्नुयात् || ५-४७ || इति ते कथितं दिव्यं सारवृत्तान्तमुत्तमम् | अपेया सा निषिद्धा सानाघ्रेया चेति च क्रमात् || ५-४८ || अनिर्ग्राह्या च सा देवी या वै वैधेतरा भवेत् | तस्माज्जपविधौ ज्ञेया सुरा सिद्धिकरी मता || ५-४९ || (प्. ४१) सर्ववर्णैर्महेशानि देया च त्रिविधा सुरा | अथवासवसंभृत्यै दद्याद्वापि गुडार्द्रकम् || ५-५० || तक्रं वा गुडसंमिश्रं दद्याद् देव्यै प्रयत्नतः | नारिकेलोदकं कां(श्ये?स्ये)ताम्रे वा विसृजेन्मधु || ५-५१ || तारामन्त्रेण काल्याश्च अत्र पूर्णाविधौ तथा | अनुकल्पं चासवं च दद्यादतिमनोहरम् || ५-५२ || रम्भाफलं शालमत्स्यं जुहुयान्मन्त्रवित्तमः | सर्वां सिद्धिमनुक्रम्य अन्ते मोक्षमवाप्नुयात् || ५-५३ || साज्यस्य बिल्वपत्रस्य होमेन जगती वशे | सहस्रहोमे देवेशि लभते सिद्धिमुत्तमाम् || ५-५४ || लभते मञ्जुलां वाणीं महाष्टम्यां च साधकः | कुलवारे कुलाष्टम्यां चतुर्दश्यां विशेषतः || ५-५५ || योगिनीपूजनं तत्र साधनं कुलपूजनम् | यथा विष्णुतिथौ विष्णुः पूजितो वाञ्छितप्रदः || ५-५६ || तथा कुलतिथौ शक्तिः पूजिता वरदायिनी | कुलवारे चतुर्दश्यामष्टम्यां च विशेषतः || ५-५७ || शङ्खस्थितं तोयपूर्णं ज(वा?पा)पुष्पं च बर्बरा | चन्दनं चार्ककुसुमं शुक्ला चैवापराजिता || ५-५८ || अ(न्न?र्घ्य)दानं विशेषेण नित्यपूजाक्रमः स्मृतः | अष्टोत्तरशतं जप्यं यावज्जीवितसंख्यया || ५-५९ || सहस्रं वा जपेन्मन्त्रं नित्यपूजाविधौ प्रिये | महोप्रायाः (?) सदा पूज्या पूजने कुल्लुका परा || ५-६० || स्तोत्रमन्त्रव्रतादीनामनुष्ठानं शृणु प्रिये | अननुष्ठानतस्तस्याः सर्वं तन्निष्फलं भवेत् || ५-६१ || (प्. ४२) महाविद्यां च सुन्दर्या वासुदेवं च योऽर्चयेत् | प्राप्नोति तत्फलं सर्वं हरिसायुज्यतां व्रजेत् || ५-६२ || वासुदेवो हरिर्ब्रह्मा तारिणी प्रकृतिः सदा | एकमूर्तिः सदा चिन्त्या एकमूर्तिः सदा स्थिता || ५-६३ || स्वर्गमोक्षप्रदा देवी धनविद्याप्रदायिनी | धनविद्यायशोलक्ष्मीरायुरारोग्यवर्द्धिनी || ५-६४ || तस्मात्तां पूजयेद् देवीं गन्धपुष्पैश्च धूपकैः | नैवेद्यैर्विविधैर्भक्त्या पूजयेत् तारिणीं सदा || ५-६५ || आषाढे शयनं कुर्यात् सिंहे च परिवर्तनम् | आश्विने बोधयेद् देवीं पशुपायसभोजनैः || ५-६६ || रात्रौ पवित्रेण वरं जायते सुरसुन्दरि | दिवा प्रबोधेऽपि तथा स्वप्नेऽपि च कदाचन || ५-६७ || शुक्लाष्टम्यां घटाष्टम्यां घटस्य च विशेषतः | माघमासस्य च विधो रात्रौ संपूजयेत् सुधीः || ५-६८ || पीठार्चनं महादेवि यत्र सिद्धिरनुत्तमा | पीठानां परमं पीठं कामरूपं महाफलम् || ५-६९ || तत्र यत् क्रियते पूजा सकृद्वापि महेश्व(री?रि) | विहाय सर्वपीठानि तस्य देहे वसाम्यहम् || ५-७० || तस्माच्छतगुणं प्रोक्तं कामाख्यायोनिमण्डलम् | तेषां फलं महेशानि वक्तुं किं शक्यते मया || ५-७१ || तत्र कोटिगुणैः सार्धमाद्या वसति तारिणी | मत्पीठं ब्रह्मणो वक्रं गुप्तं सर्वसुखावहम् || ५-७२ || यतो देवाश्च वेदाश्च मनयश्चैव भावजाः | सर्वेऽप्याविर्भवन्त्येते तेन गुप्तं सदा कुरु || ५-७३ || (प्. ४३) द्विविधं चैव यत्पीठं गोप्तव्यं तन्महेश्वरि [गुप्तं व्यक्तं ख पाठः |] | व्यक्ताद् [व्यक्त गुप्तं ख पाठः |] गुप्तं महापुण्यं दुरापं साधकाधमैः [कोत्तमैः ख पाठः |] || ५-७४ || गुप्तं सर्वत्र देशे तु [देवेशि ख पाठः |] लभ्यते कुलसुन्दरि | पीठप्रसङ्गाद् देवेशि पीठानि शृणु भैरवि || ५-७५ || शृणु तानि महाप्राज्ञे श्रेष्ठस्थानानि यानि च | सिद्धिप्रदानि साधूनां महद्भिः सेवितानि च || ५-७६ || पुष्करं च गयाक्षेत्रमक्षया(द्य?दि)वटं तथा | वराहपर्वतं चैव शिवं चामरकण्ठकम् || ५-७७ || नर्मदा यमुना पिङ्गा गङ्गाद्वारं तथा प्रिये | गङ्गासागरसङ्गं च कुशावर्तं च बिल्वकम् || ५-७८ || श्रीनीलपर्वतं चैव कलम्बकुब्जके तथा | भृगुतुङ्गं [भृगुभृङ्गं इति पाठान्तरम् |] च केदारं सर्वप्रियमहालयम् || ५-७९ || ललिता च सुगन्धा च शाकम्भरीपुरं प्रियम् | कणतीर्थं महागङ्गा तिलिकाश्रममेव च || ५-८० || कुमाराख्यप्रभासौ च तथा धन्या सरस्वती | अगस्त्याश्रममिष्टं मे काण्वाश्रममतः परम् || ५-८१ || कौशिकीसरयूशोणज्योतिःसरःपुरःसरम् | कामोदकं प्रियं श्रीमत् प्रियमुत्तरमानसम् || ५-८२ || मतङ्गवापी सप्तार्चिर यद्विष्णुपदं महत् | वैद्यनाथं महातीर्थं प्रियः कालञ्जरो गिरिः || ५-८३ || वामोच्छेदं हरोच्छेदं गर्गोच्छेदं महानलम् | भद्रेश्वरं महातीर्थं लक्ष्मणोच्छेदमेव च || ५-८४ || जानीहि प्रियसृष्टा च कावेरी कपिलोदका | सोमेश्वरं शुक्लतीर्थं कृष्णवीण्या प्रभेदकः || ५-८५ || (प्. ४४) पाटला च महाबोधिर्नागतीर्थं मदन्तिका | पुण्यं रामेश्वरं देवि तथा मेघवनं हरेः || ५-८६ || ऐलं रमणकं चैव गोवर्द्धनमतिप्रियम् | हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकमतिप्रियम् || ५-८७ || इन्द्रनीलं महानादं तथैव प्रियमेनकम् | पम्पासरः पञ्चवटी वटीपर्वतिका तथा || ५-८८ || गङ्गाबिल्वं च प्रासङ्गः प्रियनादवटस्तथा | गङ्गावामाचलं चैव तथैव ऋणमोचनम् || ५-८९ || गौतमेश्वरतीर्थं च वसिष्ठतीर्थमेव च | हारीतकं तथा देवि ब्रह्मावर्तं शिवप्रदम् || ५-९० || कुशावर्तमतिश्रेष्ठं हंसतीर्थं तथैव च | पिण्डावकरणं ख्यातं हरिद्वारं तथैव च || ५-९१ || तथैव बदरीतीर्थं वामतीर्थं तथैव च | जयन्तं विजयन्तं च सर्वकल्याणदं प्रिये || ५-९२ || विजया शारदातीर्थं भद्रकालीश्वरं तथा | अश्वतीर्थं सुविख्यातं तथा वेदशिरः प्रियः || ५-९३ || ओघवती नदी चैव तीर्थमत्रिपदं तथा | छागलिङ्गं मातृगणं करवीरपुरं तथा || ५-९४ || सप्तगोदावरं तीर्थं सर्वधर्मफलप्रदम् | अयोध्या मथुरा माया दुर्गा द्वारावति हरेः || ५-९५ || विद्यापुरमवन्ती च काञ्ची मङ्गलकोटकम् [शकुलकोठरं नकुलकोठरं मङ्गलकुट्टकं वा इति पाठान्तराणि |] | कालीघट्टं गुप्ततीर्थं सिद्धाख्यं [लिङ्गाख्यं इति पाठान्तरम् |] सर्वमोहनम् || ५-९६ || (प्. ४५) किरीटमुत्तरातीर्थं दक्षिणातीर्थमुत्तमम् | विशालातीर्थं काल्याश्च वनं वृन्दावनं तथा || ५-९७ || ज्वालामुखी हिङ्गुला च महातीर्थं गणेश्वरम् | जानीहि सर्वसिद्धीनां हेतुस्थानानि सुन्दरि || ५-९८ || अत्र सन्निहिता नित्यं सर्वे देवा महर्षयः | पितरो योगिनश्चैव ये च सिद्धिपरायणाः || ५-९९ || आशु सिद्ध्यन्ति कार्याणि श्रद्धाभक्तिमतां प्रिये | पुण्यकाले पठेद् यस्तु तत्पुण्यमक्षयं भवेत् || ५-१०० || श्राद्धकाले पठेद् यस्तु शृणुयाद्वापि भक्तितः | अक्षयं तद्भवेद्वाक्यं पितृणां परमं सुखम् || ५-१०१ || अस्मिन् स्थाने [पेठद्यस्तु इति वा पाठः |]जपेद्यस्तु सिद्धिर्भवति तत्क्षणात् | अथ वक्ष्ये महेशानि यत्र या देवता शृणु || ५-१०२ || यत्र ते यानि नामानि कथयिष्यामि तच्छृणु | मग्नोऽहं परमानन्दे त्वत्कथामृतवारिधौ || ५-१०३ || पुष्करे कमलाक्षी च गयायां च गयेश्वरी | अक्षयाऽक्षयवटकेऽमरेशामरकण्ठके || ५-१०४ || वराहपर्वते च त्वं वाराही धरणीप्रिया | दुर्मदा नर्मदायां च कालिन्दी यमुनाजले || ५-१०५ || शिवामृता च गङ्गायामम्बा तु तिलिकाश्रमे | कुमारधाम्नि कौमारि प्रभासे सुरपूजिता || ५-१०६ || काश्यां चैवान्नपूर्णा च द्राविडे च सरस्वती | महाविद्या मत्तमेधा अगस्त्याश्रमके तथा || ५-१०७ || कौशिकीति प्रियं नाम कौशिकामृतकौशिके [घृतकौशिके इति पाठान्तरम् |] | शारदा सरयूतीरे शोणे च कनकेश्वरी || ५-१०८ || (प्. ४६) स्वप्रकाशवशाद् देवि ज्योतिष्मतीह सङ्गमे | श्रीवहा श्रीगिरौ चैव काली कालोदके तथा || ५-१०९ || महादेवि! महाबुद्धिर्नीला चोत्तरमानसे | मातङ्गी स्यात् मतङ्गे च गुप्तार्चिर्विष्णुपादके || ५-११० || स्वर्गङ्गा स्वर्गमार्गे च गोदावर्यां गवेश्वरी | विमुक्तिश्चैव गोमत्यां विप्रभावा महाबला || ५-१११ || शतप्रभा शतरूपा चन्द्रभागा च तत्र वै | ऐरावत्यां च ईर्नाम सिद्धिदा सिद्धितीरके || ५-११२ || दक्षपञ्चनदे चैव दक्षिणा त्वं प्रकीर्तिता | औजिसे वीर्यदा त्वं च सङ्गमा तीर्थसङ्गमे || ५-११३ || बाहुदायामसन्ता(?) त्वं कुरुक्षेत्रे वपेक्षणा | तपस्विनी पुण्यतमा भारती भरताश्रमे || ५-११४ || सुकथा नैमिषारण्ये पाण्डौ च पाण्डवानना | विशाल्यां च विशालाक्षी मुण्डपृष्ठे शिवात्मिका || ५-११५ || श्रद्धा कनखले तीर्थे शुद्धबुद्धिर्मुनीश्वरे | सुवेशा सुमना गौरी मानसे च सरोवरे || ५-११६ || नन्दापुरे महानन्दा ललिता ललितापुरे | ब्रह्माणी ब्रह्मशिरसि महापातकनाशिनी || ५-११७ || पूर्णिमा चेन्दुमत्याद्यैः सिञ्चयन्ती प्रिया सदा | जा(ह्नि?ह्न)वीसङ्गमे तृप्तिः स्वधा त्वं पितृतुष्टिदा || ५-११८ || पुण्याहा वेणुवत्यां च प्रपायां पापनाशिनी | शङ्खसंहारिणी घोररूपा चैव महोदरी || ५-११९ || गर्गोच्छेदे महारात्रिः प्रबला च महावने | भद्रा च भद्रकाली च भद्रेश्वरीश्वरप्रिया || ५-१२० || (प्. ४७) भद्रेश्वरे रमा विष्णुप्रिया विष्णुपदे तथा | दारुणा नर्मदोच्छेदे कावेर्यां कपिलेश्वरी || ५-१२१ || भेदिनी कृष्णवेण्यायां संभेदे शुभवासिनी | शुद्धा वै शुक्लतीर्थे च प्रभा रामेश्वरे तथा || ५-१२२ || महाबोधौ महाबुद्धिः पाटले पाटलेश्वरी | सुरसा नागतीर्थे च नागेशी नागवन्दिता || ५-१२३ || मदन्ते च मदन्ती च प्रमदा च मदन्तिका | मेरुस्वना [मेघबला मघवने इति पाठान्तरम् |] मेघवने विद्युत्सौदामिनीच्छटा || ५-१२४ || रामेश्वरे महा(वि?सि)द्धिर्वारा चैलापुरे सती | प्रिया रमणके दुर्गा सुवेशा सुरसुन्दरी || ५-१२५ || कात्यायनी महादेवी गोवर्द्धनेऽम्बिका तथा | शुभेश्वरी हरिश्चन्द्रे पुरश्चन्द्रे पुरेश्वरी || ५-१२६ || पृथूदके महावेगा मेनाकेऽखिलवर्द्धिनी | इन्द्रनीले महाकान्ते रत्नवेशा सुशोभना || ५-१२७ || माहेश्वरी महानादे महातेजा महाबला | पम्पासरसि शारङ्गा पञ्चवट्यां तपस्विनी || ५-१२८ || वटीपर्वतिकायां च पञ्चवर्गा सुरङ्गिणी | सङ्गमे विन्ध्यसङ्गायां विन्ध्यश्रीर्विन्ध्यवासिनी || ५-१२९ || महानन्दा नन्दतटे गङ्गावामाचले शिवा | आर्यावर्ते महार्या त्वं विमुक्तिर्-ऋणमोचने || ५-१३० || अट्टहासे च चामुण्डा तन्त्रेशी गौतमेश्वरे | वेदमयी ब्रह्मविद्या वाशिष्ठे त्वमरुन्धती || ५-१३१ || हारीते हरिणाक्षी च ब्रह्मावर्ते व्रतेश्वरी | गायत्री चैव सावित्री कुशावर्ते कुशप्रिया || ५-१३२ || (प्. ४८) हंसीश्वरी हंसतीर्थे परहंसीश्वरीति च | पिण्डावकरणे धन्या सुरसा सुखदायिनी || ५-१३३ || नारायणी वैष्णवी सा गङ्गाद्वारे विमुक्तिदा | श्रीविद्या बदरीतीर्थे वामतीर्थे महाधृतिः || ५-१३४ || जयन्ते च जयन्ती त्वं विजयन्तेऽपराजिता | विजयायां महाशुद्धिः शारदायां च शारदा || ५-१३५ || सुभद्रा भद्रदा भव्या भद्रकालीश्वरे तथा | महाभद्रे भद्रकाली हयतीर्थे गिरीश्वरी || ५-१३६ || वेददा वेदमाता च वेदेशा वेदमस्तके | ओघवत्यां महावीर्या महानद्यां महोदया || ५-१३७ || चण्डा चात्रिपदे चैव छागलिङ्गे बलिप्रिया | मातृदर्शे जगन्माता करवीरपुरे सती || ५-१३८ || मलिनी रङ्गिणी वामा परमा परमेश्वरी | सप्तगोदावरे तीर्थे देवशीर्षाखिलेश्वरी || ५-१३९ || अयोध्यायां भवानी च जयदा जयमङ्गला | माधवी मथुरायां च देवकी यादवेश्वरी || ५-१४० || वृन्दा गोपेश्वरी राधा रासवृन्दावने रसे | कात्यायनी महामाया भद्रकाली कलावती || ५-१४१ || चन्द्रमाला महाशान्तिर्महायोगिन्यधीश्वरो | वज्रेश्वरी यशोदेति व्रजश्रीर्गोकुलेश्वरी || ५-१४२ || काञ्च्यां कनककाञ्ची स्यादवन्त्यामतिपावनी | विद्या विद्यापुरे चैव विमला नीलपर्वते || ५-१४३ || राजेशे श्वेतगङ्गेशी विमला पुरुषोत्तमे | विरजा याग(पू?पु)र्यां च भद्रेशे भद्रकर्णिका || ५-१४४ || (प्. ४९) तमोलिप्ते तमोघ्नी च स्वाहा सागरसंगमे | कुलश्रीर्वंशवृद्धिश्च माधवी माधवप्रिया || ५-१४५ || मङ्गला मङ्गले कोटे राढे मङ्गलचण्डिका | ज्वालामुखी शिवापीठे मन्दारे भुवनेश्वरी || ५-१४६ || कालीघट्टे गुह्यकाली किरीटे च महेश्वरी | किरीटेश्वरी महादेवी लिङ्गाख्ये लिङ्गवाहिनी || ५-१४७ || साक्षात् सर्वत्र भक्तानामभक्तानां कुतोऽपि न | अथान्यत् संप्रवक्ष्यामि सिद्धिस्थानानि सुन्दरि || ५-१४८ || सर्वपापविनाशा(र्थि?य)सर्वसिद्धिप्रदानि च | निर्मितानि शिवेनेह सि(द्ध?द्धि)स्थानानि यानि च || ५-१४९ || श्रुत्वा मनसि भाव्यानि प्रकाशान्यधिकारिषु | अमरेशमहापीठे ईश ओंकारसंज्ञकः || ५-१५० || तत्र दुर्गाद्वयं नाम चण्डिका च महेश्वरी | प्रभासे सोमनाथादौ देवी च पुष्करेक्षणा || ५-१५१ || देवदेवाधिपः शम्भुर्नैमिषे च महेश्वरः | तत्र प्रज्ञा च देवी च भवानी लिङ्गधारिणी || ५-१५२ || पुष्करे च राजगन्धिः पुरुहूता महेश्वरी | श्रीपर्वते प्रियं नाम शङ्करस्त्रिपुरान्तकः || ५-१५३ || मायापि शङ्करी तत्र भक्तानामखिलार्थदा | जप्येश्वरे महास्थाने शङ्करी च त्रिशूलिनी || ५-१५४ || त्रिशूलः शङ्करस्तत्र सर्वपापविमोचकः | आम्रातकपुरे सूक्ष्मः सूक्ष्माख्या परमेश्वरी || ५-१५५ || महाकाले महाकालो महाकाली महेश्वरी | मध्ये शिवश्च सर्वत्र शर्वाणी परमेश्वरी || ५-१५६ || (प्. ५०) केदारेश्वर ईशानो देवी सन्मार्गदायिनि | भैरवे भैरवः शम्भुर्भैरवी परमेश्वरी || ५-१५७ || गणक्षेत्रे मङ्गलाख्या शिवोऽहं प्रपितामहः | कुरुक्षेत्रे शिवः स्थाणुः शिवा स्थाणुप्रिया परा || ५-१५८ || इष्टलाभे स्वयंभूश्च देवी स्वायम्भवा मता | उग्रः कनखले प्रोक्तः शिवोग्रा शिववल्लभा || ५-१५९ || विमलेश्वरे विश्वस्तु विश्वा विश्वप्रिया सदा | अट्टहासे महानन्दो महानन्दा महेश्वरी || ५-१६० || महान्तको महेन्द्रे च पार्वती च महान्तका | भीमेश्वरो भीमपीठे शिवा भीमेश्वरी तथा || ५-१६१ || वस्त्रपादे भवो नाम भवानी भुवनेश्वरी | अद्रिकूटे महायोगी रुद्राणी परमेश्वरी || ५-१६२ || अविमुक्ते महादेवो विशालाक्षी शिवा परा | महालये हरो रुद्रो महाभागा शिवा तथा || ५-१६३ || महाबलश्च गोकर्णे शिवा [भद्रा च इति पाठान्तरम् |]ज्ञेया च चण्डिका | भद्रवर्णे महादेवो भद्रा च कर्णिका तथा || ५-१६४ || सुवर्णाख्ये सहस्राक्ष उत्पला परमेश्वरी | स्थाणुसङ्गे शिवः स्थाण्विश्वरः स्थाण्वीश्वरा शिवा || ५-१६५ || कमलालये म(हास्नाने?हेशानो)कमलाक्षो महेश्वरः | कमलाक्षी महेशानी सकलार्थप्रदायिनी || ५-१६६ || छगलाण्डे कपर्दी च प्रसरा च महेश्वरी | ऊर्ध्वरेता द्विरण्डे च सन्ध्याख्या परमेश्वरी || ५-१६७ || माकोटाख्ये महाकोटः शिवा च मुण्डकेश्वरी | मण्डलेश्वरपीठे च शङ्करः खाण्डवी शिवा || ५-१६८ || (प्. ५१) कालञ्जरे नीलकण्ठो हरकाली शिवा मता | स्थाण्वीश्व(रो?रे)स्थलो नाम्ना स्थलाख्या परमेश्वरी || ५-१६९ || श्रीमद्व्याघ्रपुरे साक्षाद्धरनामा सभापतिः | शिवः सभापतिर्नाम यत्र नृत्यति शङ्करः || ५-१७० || आत्मानन्दमहामोदपूर्णानन्दमहार्णवम् | नृत्यन्तं यत्र देवेशं देवेशी परिपश्यति || ५-१७१ || यत्र आशु महादेवो भक्तानां वरदो भवेत् | नृत्यन्तं यत्र देवेशं वीक्ष्य लोको विमुच्यते || ५-१७२ || पुण्यस्थानेषु सर्वेषु स्थानमेतन्महोत्तमम् | यत्र कर्माणि सर्वाणि अक्षयाणि भवन्ति वै || ५-१७३ || अस्मिन् महोत्तमे स्थाने शिवगङ्गाख्यमद्भुतम् | तटाकमस्ति तत्तीरे दक्षिणे नृत्यतीश्वरः || ५-१७४ || तटाकेऽस्मिन् वसन् स्नात्वा सभानाथं समीक्ष्य च | अष्टोत्तरसहस्रं तु जपेच्छ्रद्धासमन्वितः || ५-१७५ || यानि ते कथितान्यत्र सदा तिष्ठन्ति देवताः | पितरः सिद्धगन्धर्वाः सिद्धयः सर्वसिद्धिदाः || ५-१७६ || अत्र दत्तं हुतं जप्तं स्नानमक्षयपुण्यदम् | यद्यत् प्रकीर्तितं नाम तेनैव परिपूज्य च || ५-१७७ || प्रणवादिहृदन्तेन लभतेऽभीष्टमुत्तमम् | भोजयेद् ब्राह्मणान् योऽत्र सोऽक्षयं फलमश्नुते || ५-१७८ || इह नानासुखं भुक्त्वा हरगौरीपुरं व्रजेत् | शोकदुःखविनाशाय करुणानिधिरीश्वरः || ५-१७९ || निर्ममे सर्वसंपत्तौ पुण्यक्षेत्राणि भूतले | अनेकपुण्यशुद्धानामनेककालसाधनैः || ५-१८० || (प्. ५२) आस्तिकानां भवेदत्र निवासः साधनं श्रुतिः [रतिः इति पाठान्तरम् |] | तस्माद्यत्नेन कर्तव्यमत्र साधनमुत्तमैः || ५-१८१ || इदानीं शृणु चार्वङ्गि पीठं सर्वाङ्गसुन्दरम् | अक्षमालामयं पीठं(ब्रूहि?विद्धि)मे परमेश्वरि || ५-१८२ || यत्र सिद्ध्यन्ति कार्याणि स्थितिस्ते शङ्करस्य च | विष्णोरगाधबोधस्य तत्क्रियाया महेश्वरि || ५-१८३ || अन्येषां चैव देवानां युष्मत्पदनिवासिनाम् | प्रसादो हि भवत्याशु तत्र मे प्रीतिरुत्तमा || ५-१८४ || प्रिये ते कथयिष्यामि अक्षमालात्मकं परम् | सान्निध्यं यत्र सर्वेषां तस्मादादि दिवौकसाम् || ५-१८५ || अस्माभिश्च महद्भिश्च यद्यत् स्थानमलंकृतम् | तत्तन्महोत्तमं प्रोक्तं सर्वसिद्धिप्रदं प्रिये || ५-१८६ || महान्तो यत्र तिष्ठन्ति साधयन्ति परं पदम् | तत् तन्महोत्तमं स्थानं सर्वं कल्याणदं प्रिये || ५-१८७ || अमरेशपुरं चैवासुरान्तकं पुरं तथा | तत्तन्महोत्तमं स्थानं सर्वसिद्धिकरं नृणाम् || ५-१८८ || सतीभिः साधुभिः कान्ते यद्यत् स्थानमलंकृतम् | अम्बिकापीठमत्यन्तमनन्तपुरमेव च || ५-१८९ || अनिरुद्धपुरं वेत्सि तथादितिपुरं परम् | अणिमादिपुरं चैव अश्वमेधपुरं परम् || ५-१९० || अन्नपूर्णामहापीठमम्बुजाख्यपुरं तथा | आदिपीठानन्दपीठौ चामोदावादिसूकरौ || ५-१९१ || आशु सिद्धिपुरं चैव यथाद्यन्तपुरं मुखम् | अकम्पादित्यपीठा च आद्यादिनाथपीठकौ || ५-१९२ || (प्. ५३) इष्टनामपुरं चैव इन्दिरापुरमेव च | इलोदयगिरिश्चैव इलान्तेन्दुपुरे प्रिये || ५-१९३ || इन्द्राणीन्द्रेश्वरश्चैव इन्द्रानन्दपुरं तथा | पुरमिन्दुवती नाम तथेन्दुविजयं पुरम् || ५-१९४ || ईश्वरीश्वरयोगौ च ईशानन्देश्वरीपुरम् | ईशान्यैशपुरं देवि कथितं पीठमुत्तमम् || ५-१९५ || कामरूपं प्रियं वाराणसी नैपालमेव च | पौण्डवर्द्धनपीठं च पौरक्यं कान्यकुब्जकम् || ५-१९६ || पुण्याद्रिमर्बुदं चैव एकाम्राम्रातकेश्वरम् | त्रिस्रोतः [त्रैपुरं ख पाठः |] कामकोटं च तथा भृगुपुरं वरम् || ५-१९७ || कैलासपीठं केदारं शुभं चन्द्रपुरं तथा | श्रीपुरं च तथा कन्यापुरं जालन्धरं तथा || ५-१९८ || मालवं बिल्वपीठं [च कुलान्तं च ख पाठः |] च देवीकोटं तथैव च | गोकर्णं मारुतेशं च तथाट्टहासमेव च || ५-१९९ || कोल्लानामकगोत्रं च एलापुरमतिप्रियम् | महापथपुरं चैव ओंकारपुरमेव च || ५-२०० || जयदं च जयपुरमुज्जयिनीपुरं तथा | हरिद्रापीठकं चैव प्रियं क्षीरपुरं प्रियम् || ५-२०१ || गजाह्वयपुरं चैव उड्डीशपुरमेव च | प्रयागं च तथा षष्ठीपुरमेव शिवप्रदम् || ५-२०२ || मायापुरमतिश्रेष्ठं पुरं च सौरभेश्वरम् [परमेश्वरं जलेश्वरं ख |] | श्रीशैलं मेरुपीठं च मलयं च महागिरिम् || ५-२०३ || महेन्द्रपुरपीठं च तथा बलिपुरं प्रियम् | हिरण्यपुरपीठं च महालक्ष्मीपुरं तथा || ५-२०४ || (प्. ५४) चण्ड्.ईपुरमतिश्रेष्ठं तथा छायापुरं प्रिये | ज्ञात्वा पीठमिदं देवि मद्भक्तेषु प्रकाशय || ५-२०५ || समुद्धर इमा/ल्लोकान् मत्सम्बन्धविधानतः | संसारानलसंतप्तान् चिन्तावायुविघूर्णितान् || ५-२०६ || कृपयामृतवर्षिण्या अभिषिच्योद्धर प्रिये | पुण्यमस्ति महत् कान्ते यशोऽप्यस्ति महत्सुखम् || ५-२०७ || महाजनप्रसादोऽस्ति मत्प्रीतिर्लोकरक्षणे | मत्प्रसङ्गो मदालापो मत्सवो मदनुग्रहः || ५-२०८ || मत्कर्म मम सम्बन्धो मन्नाम मम चिन्तनम् | मत्कथा मदनुध्यानं मदावेशो मदर्चना || ५-२०९ || मदीक्षणं मदैक्यं च मन्मतिर्मन्नतिः स्तुतिः | मद्गानं मे पुरे नाट्यं मत्कर्मोद्योग एव च || ५-२१० || मन्नाम वै मन्मनवो मच्चेष्टा मत्प्रियस्पृहा | एकेनैव कृतार्थश्च मदनुग्रहभाग् भवेत् || ५-२११ || यदिच्छेत् तीर्थपीठेषु तदाशु लभते प्रियम् | मन्मन्त्रग्रहणादेव निष्पापो जायते पुनः || ५-२१२ || साधनाल्लभते सिद्धिः सिद्धक्षेत्रेष्वदीर्घतः | मन्मनुग्रहणं (न्यू?नू)नं मत्तोषकारणं परम् || ५-२१३ || गृहीत्वा नार्चयेद्यस्तु न जाने किं स मे पुनः | स्वर्गतः सुरवृक्षोऽपि न वै भवति कामदः || ५-२१४ || नाश्रयेद्यदि तन्मूलं को दोषस्तस्य तत् प्रिये | चिन्तामणिर्गृहेऽप्यस्ति न तत्र कापि च स्पृहा || ५-२१५ || को दोषस्तस्य यत्नेन सिध्यन्ति सकलाः क्रियाः | तस्माद्यत् कथितं तुभ्यं तत्र यत्नः फलप्रदः || ५-२१६ || (प्. ५५) विना यत्नेन किं किं स्यान्न जाने विजये सखि | सन्ति तीर्थानि सर्वाणि भास्करोऽयं हुताशनः || ५-२१७ || तारकाश्चन्द्रमा ज्योतिर्जलदा जलमेव च | वसुधादिग्रहा येऽन्ये दिशो विदिश एव च || ५-२१८ || तुलसी ब्राह्मणाश्चैव पुराणानि बहूनि च | शैवाश्च वैष्णवाश्चैव सारो धर्मः सनातनः || ५-२१९ || मद्भक्त्यवितथश्रद्धाशरणाश्च निरन्तरम् | उपाया विविधाः सन्ति स्वपरित्राणहेतवः || ५-२२० || तथापि न यतन्तेऽहो तथा चेच्छन्ति किल्विषम् | राजकोपप्रशभार्थे किं किं न स्यात्तदर्थिनः || ५-२२१ || सुखदुःखोपभोगश्च देशाद् देशान्तरं तथा | प्राप्याप्राप्ये तथा वस्तू दिवा रात्रिस्तथैव च || ५-२२२ || इन्द्रियस्पर्शभोगाश्च मेध्यामेध्यं च दर्शने | यत्नायत्नकृतं कार्यं सिक्तासिक्तमहोदधिः || ५-२२३ || भुक्ताभुक्तशरीरं तु सुवेशश्च कुवेशकः | प्रियवागप्रियवाक् च दूरं निकटमेव च || ५-२२४ || सुखं दुःखं तथा यच्च नानाकर्म प्रियाप्रियम् | सर्वेषां ह्रासवृद्धी च वपुषां निर्गमागमौ || ५-२२५ || धनानां स्थितिनाशौ च गन्धानां च क्षयस्थिती | वयोयौवनरूपाणां प्रक्रमं सर्वमेव च || ५-२२६ || पश्यन्तोऽपि न पश्यन्तो ज्ञानिनोऽज्ञानिनः सदा | तस्माच्छ्रद्धामयं मन्त्रं(सर्वं)श्रद्धा हि भावसिद्धिदा || ५-२२७ || अस्मासु भावना यस्य सोऽस्मासु प्रतिपद्यते | तस्मात् साधुपदे सद्भिर्गन्तव्यमतियत्नतः || ५-२२८ || (प्. ५६) प्रमादादपि नासाधुपथे वै ज्ञानदृष्टिभिः | इति सर्वं समालोच्य यथार्थं बुद्ध्य पण्डिते || ५-२२९ || आचर स्वं प्रियं धर्मं प्रवर्तय शुचिव्रतम् | मत्पदाम्बुजसेवासु व्रजन्तु मम सन्निधिम् || ५-२३० || क्रीडन्तु मज्जनैः सार्धं प्राप्नुयुः परनिर्वृतिम् | एतैर्मदुपदेशैस्त्वं शृणु वार्तां महामते || ५-२३१ || त्वत्प्रसादादिमे लोकाः सूरिणः स्युर्महाप्रिये | अत्र ते प्रियनामानि शृणुष्व नगनन्दिनि || ५-२३२ || कामेशा कामरूपे त्वं पूर्णा काश्यां विमुक्तिदा | नेपाले पुण्यदा पुण्या सुवेशा पौण्ड्रवर्द्धने || ५-२३३ || धर्मबुद्धिः सुधा चैव सुखदा पापमोचनी | [पारस्ये ख पाठः |] पौरक्ये परमानन्दा ब्रह्माणी कान्यकुब्जके || ५-२३४ || पुण्याद्रौ च महापुण्या पूर्णा यज्ञफलेश्वरी | कात्यायन्यर्बुदे देवि धनदा शिववल्लभा || ५-२३५ || एका चैकाम्रके देशे सुरूपेशाम्रकेश्वरे | त्रिपुरे [त्रिस्रोतसि ख पाठः |] सुन्दरी दिव्यरूपाखिलमनोहरा || ५-२३६ || कामकोटे महापीठे प्रमदा मदनालसा | कामेश्वरी रतिश्चैव भृगुपुर्यां व्रजेश्वरी || ५-२३७ || वृक्षेशा च तपोलक्ष्मीः कैलासे भुवनेश्वरी | केदारे वरदा चैवामृता चन्द्रपुरे सिता || ५-२३८ || कलावती प्रभेशा च श्रीपुरे श्रीरमा प्रिया | कुमारी ब्रह्मचर्या च कन्या च कन्यकापुरे || ५-२३९ || जालन्धरे महापीठे नागर्याग्निमुखी शुभा | ज्वालामुखी लोलजिह्वा सुवेशा च सुरङ्गिणी || ५-२४० || (प्. ५७) मालवे च महाविद्या बिल्वपीठे च रूपिणी | रूपवति महादेवी देवीकोटेऽखिलेश्वरी || ५-२४१ || गोकर्णे प्रियपीठे त्वं रुद्राणी सर्वमङ्गला | पवने हरपीठे च गन्धश्रीश्च सुगन्धिका || ५-२४२ || अट्टहासे महापीठे भीमकाली च कालिका | विरजे मुक्तिहेतुश्च नमः स्वस्ति सुधामयी || ५-२४३ || जयश्री राजलक्ष्मीश्च सुवेशा राजपर्वते | एलापुरे महासंपत् माहेश्वरी महापथे || ५-२४४ || गायत्री ब्रह्मरूपा च तत्सदोङ्कारपीठके | जया जयपुरे देवी जयदा जयमङ्गला || ५-२४५ || विजया मङ्गला गौरी उज्जयिन्यां सदा शिवा | गौरीश्वरी महादेवी हारद्रापीठके शिवा || ५-२४६ || क्षीरपीठे युगाद्या च क्षीराख्या नियमप्रभा | राजेश्वरी महालक्ष्मीर्हस्तिनापुरवासिनी || ५-२४७ || कमला विमला भक्ती रौद्री च नीलपर्वते | यागेश्वरी त्रिवेण्यां [त्रिवेणी ख पाठः |] च त्रिःस्रोता ब्रह्मरूपिणी || ५-२४८ || सिन्धुस्थ(ली?ले)कामधेनुः षष्ठी षष्ठीपुरे प्रिये | माया मायापुरे देवी सुरभी सौरभेश्वरे || ५-२४९ || विलासिनी महानन्दा प्रियचन्दनपर्वते | महाव्रजेश्वरी श्रेष्ठा शमनेश्वरपीठके || ५-२५० || भवानी भवभक्ता च श्रीशैले शिववल्लभा | देवता या स्वर्गलक्ष्मीः कनकामरपर्वते || ५-२५१ || उमा गौरी सती सत्या पार्वती हिमपर्वते | इन्द्रेश्वरी सुराराध्या माहेन्द्रे जगदीश्वरी || ५-२५२ || (प्. ५८) अल्लाभोगेश्वरी नित्या श्रीमद्वलिपुरे शिवा | सुवर्णा कनका वामा हिरण्यपुरपीठके || ५-२५३ || महालक्ष्मीर्महेशानी महालक्ष्मीपुरेऽम्बिका | चण्डीपुरे [चण्डा ख पाठः |] प्रचण्डा च चण्डा चण्डवती शिवा || ५-२५४ || छत्रे मेघस्वना चैव माया च्छत्रेश्वरी तथा | कालीघट्टे महापीठे काली कालात्मिका तथा || ५-२५५ || लिङ्गाख्ये भैरवी विद्या विजया जाह्नवीतटे | इति ते कथितं दिव्यं पीठक्रममुदाहृतम् || ५-२५६ || अतिगुह्यं महेशानि कथितं देववन्दिते [सुरगणार्चिते इत्यपि पाठः |] | मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय || ५-२५७ || तेषां भाग्यवशेनैव कथितं मन्मुखोदितम् | अकथ्यं कथितं भद्रे अतिप्रियतमे शिवे || ५-२५८ || सारात् सारतरं सर्वं कथितं तव सुन्दरि | इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे नैमित्तिकार्चन पीठ तदीश्वरीवर्णनं पञ्चमः पटलः || ५ || अथ षष्ठः पटलः | श्रीदेव्युवाच | भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद | इदानीं श्रोतुमिच्छामि पूजनं कुलपूजनम् || ६-१ || यत्कृ(ते?त्वा)साधको वीरः सद्यो मोक्षमवाप्नुयात् | एकश्चेत् कुलशास्त्रज्ञः पूजार्हस्तत्र भैरव | कथयस्व महादेव यदि स्नेहोऽस्ति मां प्रति || ६-२ || श्रीभैरव उवाच | कथितव्यं महापुण्यं विस्तरेण तपोधने | सर्व एव सुराः पूज्याः सत्यं ब्रह्मादयः शिवे || ६-३ || एका चेद्युवती तत्र पूजिता चावलोकिता | स(र्वत्रै?र्वा ए)व परादेव्यः पूजिताः कुलभैरवि || ६-४ || आदावन्ते च मध्ये च सा हि पूज्या [लक्षपूर्तौ ख पाठः |] विशेषतः | न पूजयति चेत् कान्तां बहु[तदा ख पाठः |]विघ्नैर्विलिप्यते || ६-५ || पूर्वार्जितफलं नास्ति का कथा परसाधने [पूजने ख पाठः |] | नवशक्तिर्महेशानि पञ्चशक्तिश्च भैरवि || ६-६ || पूजिता विगुणं सर्वं सगुणं कारयेद्यतः | पृथिवीं सस्यसंपन्नां ब्राह्मन्णे वेदपारगे || ६-७ || दत्त्वा यत्फलमाप्नोति तत्फलं कौलिकार्चनात् | अन्नदानं सहस्रेभ्यः शतेभ्यो यज्वनामपि || ६-८ || तेषां भोजनदानेन तत्फलं कौलिकार्चनात् | वापीकूपतडागानि कृत्वा च शिवकृष्णयोः || ६-९ || (प्. ६०) दानाद् यत् फलमाप्नोति तत्फलं कौलिकार्चनात् | यदि भाग्यवशेनैव वारमेकं प्रपूजयेत् || ६-१० || कृता(र्थो?र्था)स्ते हि निस्तीर्णा यान्ति देवीपुरे स्वयम् | पुरश्चरणकालेऽपि यदि स्यात् पीठपूजनम् || ६-११ || तत्रैव पीठपूजा सा मनसापि न हीयते | देवीकोटे महाभागा उड्डियाने च भैरवी || ६-१२ || योनिमुद्रा [योगनिद्रा ख पाठः |] कामरूपे महिषासुरमर्दिनी | कात्यायनी कामभूमौ कामाख्या कामरूपिणी || ६-१३ || जालन्धरी च पूर्णेशी पूर्णशैले च चण्डिका | कामरूपे ततो देवी पूज्या दिक्केरवासिनी || ६-१४ || अथवा कामरूपस्य दर्शनं यदि भाग्यतः | तदा भगादिदेवीनां पूजा तत्र विधीयते || ६-१५ || यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते | तदैव मानसीं तत्र तासां च संप्रकल्पयेत् || ६-१६ || भगिनीं भगजिह्वां च भगास्यां भगमालिनीम् | भगिनीं च भगाक्षीं च भगकर्णां भगत्वचम् || ६-१७ || भगनासां भगस्तनीं भगस्थां भगसर्पिणीम् | तत्र संपूज्य गन्धाद्यैर्मानसैर्गुरुमेव च || ६-१८ || नमस्कृत्य विधानेन स्वयमक्षोभितः सुधीः | द्वादश्यां पूजयेद्विष्णुं चतुर्दश्यामुमापतिम् || ६-१९ || अष्टम्यां पूजयेच्छक्तिं सर्वसिद्धिप्रदां किल | केशसंस्कारकर्माणि कारयेत् सर्वदा प्रिये || ६-२० || आदावानीय देवेशि स्वकान्तां वा परस्त्रियम् | प्रथमं चासनं दत्त्वा पाद्यं दद्यात् ततः परम् || ६-२१ || (प्. ६१) अर्घ्यं दद्यान्महेशानि यथोक्तविधिना शिवे | आचमनीयं च तथा दद्याच्च सुधया प्रिये || ६-२२ || स्नानीयं परमेशानि वौषडन्तेन दापयेत् | गन्धं दद्यान्महेशानि गन्धानामष्टकं तथा || ६-२३ || पुष्पं दद्याद्वरारोहे गन्धयुक्तं मनोहरम् | धूपं गुग्गुलुना दद्यात् महादैव्यै मनोहरम् || ६-२४ || दीपं च सर्पिषा दद्यात् ताम्राधारं सुशोभनम् | नैवेद्यं परमं दद्यात् सुस्वादु सुमनोहरम् || ६-२५ || नानाद्रव्ययुतं दद्यान्नारिकेलयुतं तथा | रम्भाफलं बीजपूरं श्रीफलं श्रीनिकेतनम् || ६-२६ || मधु दद्यान्महेशानि पलद्वयमितं शुभे | घृतं दद्यान्महेशानि नूतनं पलमानतः || ६-२७ || नानोपहारसंयुक्तं दधिदुग्धयुतं तथा | ताम्बूलं परमं दद्यात् सुस्वादु च सुवासितम् || ६-२८ || कर्पूरादिसमायुक्तं गुवाकेन समन्वितम् | चर्व्यं चोष्यं तथा लेह्यं पेयं दद्यान्महेश्वरि || ६-२९ || जलं दद्याद्वरारोहे कर्पूरादिसुवासितम् | यद्यदिच्छति तस्मिन् वै काले सुरगणार्चिते || ६-३० || तत्तद् दद्याद्विशेषेण येन तुष्यति सुन्दरी | सप्तवर्षाष्टवर्षा वा नववर्षा च या भवेत् || ६-३१ || दशवर्षा महेशानि एकादशगता तथा | द्वादशे वर्षे संप्राप्ता [प्राप्ते क पाठः |] तथा त्रयोदशे शुभे || ६-३२ || चतुर्दशे तथा देवि(तथा? वर्षे)पञ्चदशे तथा | षोडशवर्षा तथा देवि श्रेष्ठा कार्मप्रदा तु सा || ६-३३ || (प्. ६२) केशसंस्करणं कुर्यान्नानाद्रव्यैर्मनोरमैः | ततो दद्यात् महाद्रव्यं येन तुष्यति मानवी || ६-३४ || स्तनद्वन्द्वे रमाबीजं हनुद्वये भग-द्वयम् | कक्षाधः परमेशानि लिखेत् गङ्गाधर द्वयम् || ६-३५ || योन्यधः कामिनी युग्ममूरुद्वये लिखेत् प्रिये | पादपद्मतले विश्वबीजं परमदुर्लभम् || ६-३६ || संलिख्य विधिवद्भक्त्या शिरीषवृन्तकेन वै | भगे लिखेन्महेशानि बालाबीजं महेश्वरि || ६-३७ || ओष्ठद्वये भगं चैव लेखन्या कनकस्य च | हस्तद्वये काकिनी च लेखनीया च देशिकैः || ६-३८ || रक्तवस्त्रं महेशानि दद्याद्भद्रं मनोरमम् | रक्ताख्यचन्दनेनैव लिखेत् बीजं सुरेश्वरि || ६-३९ || भगे पुष्पाञ्जलिं दत्त्वा प्रणमेद् दण्डवद्भुवि | एवं वारत्रयं कुर्यात् यावद् दृष्टिर्न जायते || ६-४० || मूलमन्त्रं महेशानि जपेत् पर्वतमस्तके | सहस्रस्य प्रमाणेन जपेत् तत्र महेश्वरि || ६-४१ || अष्टाविंशतिमानेन तदास्ये तु जपेत् प्रिये | अष्टोत्तरशतं योनिगर्तमध्ये जपेत् प्रिये || ६-४२ || तासामभीष्टसिद्ध्यर्थं कुर्यात् पर्वतमर्दनम् | मूलं जपेन्महेशानि ताडयेद् योनिमण्डलम् || ६-४३ || ततस्तत्त्वं पुरः क्षिप्त्वा सिद्धो भवति साधकः | कालीप्रयोगमेतद्धि जानीहि सुरवन्दिते || ६-४४ || काली तारा महाविद्या त्रिपुरार्णा महेश्वरी | एतासां भैरवीणां च प्रयोगात् सिद्धिमाप्नुयात् || ६-४५ || (प्. ६३) बलिं दद्यान्महेशानि सन्ध्याकाले शिवालये | अदत्त्वा च महादेवि बलिं सर्वहितं प्रिये || ६-४६ || ............................................................ | शिवायै च बलिं दद्यात् सर्वयत्नपुरःस(रैः?रम्) | अन्यथा सिद्धिहानिः स्यान्नात्र कार्या विचारणा || ६-४७ || प्रान्तरे बिल्वमूले वा श्मशाने वापि साधकः | निर्जने वा वने घोरे हर्म्ये वा प्रङ्गणेऽपि वा || ६-४८ || भित्त्यधो वा महेशानि बलिं दद्याद् विधानतः | मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् || ६-४९ || कालि कालीति वक्तव्ये [व्या ख पाठः |] तत्र सा शिवरूपिणी | पशुरूपा समायाति परिवारगणैः सह || ६-५० || भुक्त्वा रौति यदैशान्यां वायव्यां सुरवन्दिते | ऐशान्यां सुखसंपत्तिर्वायवी भोगमोक्षदा || ६-५१ || तदैव मङ्गलं तेषां भवत्येव न संशयः | अवश्यमन्नदानेन नियतं [नित्यं संतोषयेत् ख पाठः |] तोषयेच्छिवाम् || ६-५२ || (नित्यश्राद्धं यथा सन्ध्यावन्दनं पितृतर्पणम् | तथेयं कुलदेवीनां नित्यता कुलपूजने || ६-५३ || पशुरूपां शिवां देवीं यो नार्चयति निर्जने) | जपपूजाविधानानि यत् किञ्चित् सुकृतानि च || ६-५४ || गृहीत्वा शापमादाय शिवा रोदिति निर्जने | शिवारावेण तस्याशु सर्वं नश्यति निश्चितम् || ६-५५ || एकया भुज्यते यत्र शिवया देवि भैरवि | तत्रैव सर्वदेवानां प्रीतिः परमदुर्लभा || ६-५६ || (प्. ६४) पशुशक्तिर्नरशक्तिः पक्षिशक्तिश्च भैरवि | पूजिता द्विगुणं [विगुणं कर्म सगुणं साधयेद् ध्रुवम् ख पाठः |] कर्म साधयेत् परमेश्वरि || ६-५७ || तेन सर्वं प्रयत्नेन कर्तव्यं पूजनं महत् | राजादिभयमापन्ने देशान्तरभयादिके || ६-५८ || अशुभानि च कर्माणि विचिन्त्य बलिमाहरेत् | बलिमन्त्रं प्रवक्ष्यामि सावधानावधारय || ६-५९ || येन सिद्ध्यति सर्वेशि नास्ति कालस्य निश्चयः | आदौ कालीं समुद्धृत्य शिवे चेति ततः परम् || ६-६० || सर्वरूपधरे पश्चात् आगछेति पदद्वयम् | मम शब्दं ततो ब्रूयात् बलि शब्दं ततः परम् || ६-६१ || गृह्ण गृह्णेति द्वन्द्वं च वह्निजायावधिमनुः | मन्त्रेणानेन देवेशि बलिं दत्त्वा मनोहरम् || ६-६२ || सर्वपापैः प्रमुच्येत सत्यं सत्यं महेश्वरि | मन्त्रान्तरं प्रवक्ष्यामि बल्यर्थं यन्मनोहरम् || ६-६३ || गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि | शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव || ६-६४ || एवमुच्चार्य दातव्यो बलिः कुलजनप्रियः | यदा न भुज्यते देवि तदा नैव शुभं भवेत् || ६-६५ || शुभं यदि भवेत् तत्र भुज्यते तदशेषतः | एवं ज्ञात्वा महादेवि शान्तिं स्वस्त्ययनं चरेत् || ६-६६ || इति ते कथितं देवि नैमित्तिकविधिं शिवे | यत्कृते साधको वीरो जायते च निरापदः || ६-६७ || अथ वक्ष्ये महेशानि शाक्ताचारक्रमं शुभम् | शाक्तानां कुलसर्वस्वं जानीहि नगनन्दिनि || ६-६८ || (प्. ६५) प्रातरुत्थाय मन्त्रज्ञः कुलवृक्षं प्रणम्य च | शिरःपद्मे गुरुं ध्यात्वा तत्सुधाप्लावितं स्मरेत् || ६-६९ || मानसैरुपचारैस्तु तमाराध्य निरामयः | मुलादिब्रह्मरन्ध्रान्तं मूलविद्यां विभावयेत् || ६-७० || सूर्यकोटिप्रतीकाशां सुधाप्लावितविग्रहाम् | तत्प्रभापटलव्याप्तं स्वशरीरं विचिन्तयेत् || ६-७१ || श्लेष्मातक-करञ्जाक्ष-निम्बाश्वत्थकदम्बकाः | बिल्वो वाप्यथवाऽशोक इत्यष्टौ कुलपादपाः || ६-७२ || एवं ते कथितं भद्रे तन्त्रेऽन्यस्मिन् महेश्वरि | बालां वा यौवनोन्मत्तां वृद्धां वा कुलसुन्दरीम् || ६-७३ || कुत्सितां वा महादुष्टां नमस्कृत्य विभावयेत् | तासां प्रहारो निन्दा वा कौटिल्यमप्रियं तथा || ६-७४ || सर्वथा च न कर्तव्यमन्यथा सिद्धिरोधकः | स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् || ६-७५ || स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियामपि | विपरीतरता सा तु भाविता हृदयोपरि || ६-७६ || तद्धस्थावचितं द्रव्यं तद्धस्तावचितं जलम् | तद्धस्तावचितं भोज्यं देवताभ्यो निवेदयेत् || ६-७७ || अन्यमन्त्रपुरस्कारं निन्दां चैव विवर्जयेत् | एतद् ब्रह्म तदेवैतन्नाहं वस्तु न सोऽपि च || ६-७८ || नानाचारं न कर्तव्यं नाचारणमितस्ततः | प्रायश्चित्तं भृगोः पातं तीर्थाभिगमनं तथा || ६-७९ || पिण्डं वेदोदितं न्यासं कौले पञ्च विवर्जयेत् | भूतहिंसा न कर्तव्या पशुहिंसा विशेषतः || ६-८० || (प्. ६६) बलिदानं विना देव्या हिंसां सर्वत्र वर्जयेत् | बलिदानाय या हिंसा दोषाय प्रकीर्तिता || ६-८१ || बलिदानाय हिंस्याच्च सदा देवि महापशून् | इति वेदविदां देवि सिद्धान्तः सर्वसंमतः || ६-८२ || वेदसंमतसिद्धन्तः स ममापि च संमतः | पशुयागे महेशानि पशुं हन्यान्न संशयः || ६-८३ || सा हिंसा निन्दिता वेदैर्या च वैधेतरा भवेत् | वैधहिंसा च कर्तव्या संशयो नास्ति कश्चन || ६-८४ || इदानीं शृणु चार्वङ्गि रहस्यं परमाद्भुतम् | रहस्यं सर्वदेवीनां समयाचारलक्षणम् || ६-८५ || येन विना महेशानि न सिध्येन्मन्त्रमुत्तमम् | कल्पकोटिजपेनापि तस्य सिद्धिर्न जायते || ६-८६ || मानवाः कुलशास्त्राणां कुलाचारानुचारिणाम् | सिद्धाः स्युर्नास्ति संदेहो वैष्णवाचारतत्पराः || ६-८७ || परनिन्दासहिष्णुः स्यादुपकाररतः सदा | पर्वते विजने वापि निर्जने शून्यमण्डले || ६-८८ || चतुष्पथे कलामध्ये यदि दैवान्महेश्वरि | क्षणं ध्यात्वा मनुं जप्त्वा नत्वा गच्छेद् यथासुखम् || ६-८९ || गृध्रं वीक्ष्य महाकालीं नमस्कुर्यादतन्द्रितः | क्षेमङ्करीं तथा वीक्ष्य जम्बुकीं यमदूतिकाम् || ६-९० || कुररं श्येनभूकाकौ कृष्णमार्जारमेव च | कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये || ६-९१ || कुलाचारप्रसन्नास्ये नमस्ते शंकरप्रिये | श्मशाने च शवं दृष्ट्वा प्रदक्षिणमनुव्रजन् || ६-९२ || (प्. ६७) प्रणम्यानेन मनुना मन्त्री सुखमवाप्नुयात् | घोरदंष्ट्रे करालास्ये [कठोराक्षि ख पाठः |] किटि शब्दनिनादिनि || ६-९३ || गुरुघोररवास्फाले नमस्ते चितिवासिनि | रक्तवस्त्रां रक्तपुष्पां विलोक्य त्रिपुराम्बिकाम् || ६-९४ || प्रणम्य दण्डवद्भूमाविम मन्त्रं पठेन्नरः | बन्धूकपुष्पसंकाशे त्रिपुरे भयनाशिनि || ६-९५ || भाग्योदयसमुत्पन्ने नमस्ते वरवर्णिनि | कृष्णवर्णं तथा पुष्पं राजानं राजपुत्रकम् || ६-९६ || हस्त्यश्वरथशस्त्राणि करवीरं तथा शिवम् [फलकान् वीरपूरुषान् ख पाठः |] | महिषं कुलनाथं च दृष्ट्वा महिषमर्दिनीम् || ६-९७ || प्रणम्य जयदुर्गां वा स तु विघ्नैर्न लिप्यते | जय देवि जगद्धात्रि त्रिपुराद्ये त्रिदैवते || ६-९८ || भक्तेभ्यो वरदे देवि महिषघ्नि नमोऽस्तु ते | मद्यभाण्डं समालोक्य मत्स्यमांसं वरस्त्रियम् || ६-९९ || दृष्ट्वा च भैरवीं देवीं प्रणम्य विन्यसेन्मनुम् [विमृशेत् ख पाठः |] | घोरविघ्नविनाशाय कुलाचारसमृद्धये || ६-१०० || नमामि वरदे देवि मुण्डमालाविभूषिते | रक्तधारासमाकीर्णे वरदे [र्णवदने ख पाठः |] त्वां नमाम्यहम् || ६- १०१ || सर्वविघ्नहरे देवि नमस्ते हरवल्लभे | एतेषां दर्शनेनैव यदि नैवं प्रवर्तते || ६-१०२ || शक्तिमन्त्रं पुरस्कृत्य तस्य सिद्धिर्न जायते | एतेषां हिंसनोच्चाटमारणं वागुरादिभिः || ६-१०३ || क्रियते येन पापात्मा मद्भक्तः स कथं भवेत् | प्रधानांशसमुद्भूता एते कुलजनप्रिये || ६-१०४ || (प्. ६८) डाकिन्यश्च महादेवि त्वदंशाः सर्वतो दिशः | लब्धसिद्धिसमायोगो डाकिनीदर्शनं यदि || ६-१०५ || अथवा दानवानां च मद्भक्तानां विशेषतः | वटुकानां देवतानां तस्य सिद्धिश्च जायते || ६-१०६ || परयोषां समालोक्य षोडशाब्दां मनोहराम् | रक्तवस्त्रां मृगाक्षीं च प्रणम्य च मनुं जपेत् || ६-१०७ || अष्टोत्तरशतं जप्त्वा सिद्धिमाप्नोति निश्चितम् | ततः सिद्धमनुर्मन्त्री सर्वकर्माणि साधयेत् || ६-१०८ || वैशाखे मासि देवेशि तृतीयाक्षयसंज्ञिता | तस्यां चावाह्य विधिवत् कालिकां भुवनेश्वरीम् || ६-१०९ || प्रस्तुतिं कारयेद्विद्वान् सर्वकामफलप्रदाम् | स्तुत्वा चावाह्य यत्नेन पूजयेत् परदेवताम् || ६-११० || चतुर्भुजां महादेवीं मुण्डमालाविभूषिताम् | अभयं वरदं खड्गं मुण्डमालाधरां पराम् || ६-१११ || श्रीदेव्युवाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग | कालिकाया महादेव्याः पूजनं विस्तरेण तु || ६-११२ || गुप्तबीजं गुप्तमन्त्रं मूलाधारबहिष्क्रियाम् | कथयस्व समासेन येन तुष्यामि शंकर || ६-११३ || (श्रीभैरव उवाच) | मन्त्रन्यासं समाचर्य ऋष्यादिन्यासमाचरेत् | आदौ च आसनं दत्त्वा पूजयेत् परदेवताम् || ६-११४ || अस्यां तिथौ महादेवि कालिकां यः प्रपूजयेत् | तस्य सर्वार्थसिद्धिः स्यात् सर्वशत्रुक्षयो भवेत् || ६-११५ || (प्. ६९) राजानोऽन्ये महेशानि दासत्वं प्राप्नुयुर्लघु | न पूजयति चेत्कालीं दम्भाद्वाप्यथ भैरवि || ६-११६ || सर्वनाशं करोत्याशु क्रुद्धा भवति कालिका | तस्मात् सर्वप्रयत्नेन महाविभवविस्तरैः || ६-११७ || पूजयेत् परमेशानीं सर्वकामसमृद्धिदाम् | महापूजां महादेवि यदि कुर्याद्वरानने || ६-११८ || तदैव महती सिद्धिर्भवत्येव न संशयः | चतुर्वर्गस्य कामी हि पूजयेत् कालिकां मुदा || ६-११९ || प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद् बुधः | न्यासजालं महादेव्याः शरीरे विनिवेश्य वै || ६-१२० || एवं च आत्मनो देहे न्यासजालं निवेशयेत् | भूतशुद्धिं ततः कुर्यात् प्राणायामं चरेत् त्रिधा || ६-१२१ || अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || ६-१२२ || विघ्नानुत्सार्य देवेशि पद्मं निर्माय यागवित् | देवीसंमुखतो देवि ततः पूजां समारभेत् || ६-१२३ || रात्रौ गते तु प्रहरे प्रथमे सुरवन्दिते [सुरगणार्चिते इति पाठान्तरम् |] | आसनं प्रथमं दद्यात् स्वागतं तदनन्तरम् || ६-१२४ || पाद्यार्घ्याचमनीयं च मधुपर्कं ततः परम् | तथा चाचमनीयं च स्नानीयं च ततः परम् || ६-१२५ || वसनं रक्तकं दद्याद् रजताभरणं तथा | गन्धपुष्पे महादेवि धूपदीपौ ततः परम् || ६-१२६ || नैवेद्यं त्रिविधं दद्यात् सुस्वादु सुमनोहरम् | ताम्बूलं परमं हृद्यं दद्याद् देव्यै मनोहरम् || ६-१२७ || (प्. ७०) बलिदानं महादेव्यै कुर्यात् साधकसत्तमः | छागं दद्यात् तथा मेषं महिषं गोधिकां तथा || ६-१२८ || कपोतं च महेशानि दद्याद् देव्यै मनोहरम् | मधूदकं महादेव्यै शर्करादिविनिर्मितम् || ६-१२९ || ततः शत्रुबलिं राजा दद्यात् क्षीरेण निर्मितम् | स्वयं छिन्द्यात् क्रोधदृष्ट्या प्रहारजनकेन च || ६-१३० || कोपेन च सकृद् देवि सत्यं सत्यं गणेश्वरि | प्राणप्रतिष्ठां कृत्वा वै शत्रुनाम्ना महेश्वरि || ६-१३१ || शत्रुक्षयो महादेवि भवत्येव न संशयः | मन्त्रं जप्त्वा विधानेन नमस्कुर्याच्छुचिस्मिते || ६-१३२ || वाद्यभाण्डं निवेद्यैव सर्वयत्नेन देशिकः | ततः स साधको वीरो जायते नात्र संशयः || ६-१३३ || सन्दंशं परमं दद्याद् भृष्टद्रव्येण संयुतम् | गुडक्षीरं मधु द्राक्षामिक्षुदण्डं पुरातनम् || ६-१३४ || रम्भाफलं बीजपूरं तथा च नारिकेलकम् | मधुयुक्तं नारिकेलं शस्यं दद्यान्महेश्वरि || ६-१३५ || अवश्यं दापयेत् तत्तु देवीतोषो महान् भवेत् | गुप्तमन्त्रं महेशानि जानीहि नगनन्दिनि || ६-१३६ || [मन्त्रस्तु ओं ह्रीं ह्रीं हूं हूं क्रीं क्रीं दक्षिणे कालिके क्रीं क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ||] भुवनेशी द्वयं भद्रे कूर्चयुग्मं ततः परम् | निजबीजद्वयं देवि दक्षिणे कालिकेति च || ६-१३७ || संहारक्रमयोगेन पूर्वबीजानि चोच्चरेत् | वेदादिश्च महामन्त्रो वह्निजायावधिः स्मृतः || ६-१३८ || अस्मात् परतरं नास्ति कालीमन्त्रः परात्परः | कल्पपादपनामायं भजतां कामदो मनुः || ६-१३९ || (प्. ७१) अतिप्रियत्वात् कथितो न प्रकाश्यं वरानने | गुप्तबीजमिदं काल्याः सर्वतन्त्रेषु गोपितम् || ६-१४० || वश्यादि च महेशानि अनेन जायतेऽचिरात् | अष्टोत्तरशतेनापि मूलाधारबहिष्क्रियाम् || ६-१४१ || कर्तुं च शक्यते देवि सिद्धो भवति तत्क्षणात् | कलौ काली तथा तारा चान्नपूर्णा च सुन्दरी || ६-१४२ || एतासां सिद्धविद्यानां श्रीमन्त्रग्रहणादपि | शिवत्वं जायते सुभ्रु संशयो नास्ति कश्चन || ६-१४३ || शीघ्रं सिद्ध्यन्ति मन्त्राश्च सत्यं सत्यं महेश्वरि | माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्दशी || ६-१४४ || तस्यां संपूजयेत् तारां महाविभवविस्तरैः | चक्रवर्ती महाराजा भवत्येव न संशयः || ६-१४५ || मार्गे मासि सिते पक्षे सप्तमी रविवल्लभा | अन्नदां पूजयेद् भक्त्या पुत्रपौत्रसमन्वितः || ६-१४६ || लक्ष्मीः स्थिरायतेऽवश्यं यावच्च सचराचरम् | तावत् तस्य गृहे लक्ष्मीर्वैकृत्यं परिवर्ज्य च || ६-१४७ || निश्चला च भवेद् देवि सत्यं सत्यं गणेश्वरि | पूजा चास्या महेशानि कथिता तव सन्निधौ || ६-१४८ || अन्नदाकल्पके सम्यग् जानीहि गणसुन्दरि | कार्तिके शुक्लपक्षस्य नवमी या सिता भवेत् || ६-१४९ || तस्यां पूज्या महेशानि सुन्दरी परदेवता | सुन्दर्याः पटले सम्यक् पूजा च कथिता शुभे || ६-१५० || इति ते कथितं किञ्चित् नैमित्तं परमं शुभम् | अन्यद् वक्ष्यामि देवेशि जायन्ते च निरापदः || ६-१५१ || (प्. ७२) इदानीं कथयिष्यामि काम्यानुष्ठानमुत्तमम् | येनैव महता देवि सर्वविद्यामयो भवेत् || ६-१५२ || होमतर्पणपूजा च भावना जप एव च | मन्त्रस्य साधनं चैव मारणोच्चाटने तथा || ६-१५३ || एतानि काम्यकर्माणि कुरुते साधकः सदा | अर्धरात्रे शरत्कालो हेमन्तः स्यात् प्रभातके || ६-१५४ || पूर्वाह्णे च वसन्तः स्यात् मध्याह्ने ग्रीष्म एव च | प्रावृट्कालोऽपराह्णे स्यात् प्रदोषः शिशिरः स्मृतः || ६-१५५ || उषायोगे च हेमन्तः प्रभाते शिशिरागमः | प्रहरार्धे वसन्तश्च ग्रीष्मो मध्यन्दिनान्तरे || ६-१५६ || तुर्ययामे च वर्षाख्या शरदस्तंगते रवौ | एतत्ते कथितं सुभ्रु कालानां नियमं शृणु || ६-१५७ || एवं ज्ञात्वा महेशानि सर्वकर्माणि कारयेत् | शान्तिं पुष्टिं तथा वश्यमाकर्षोच्चाटनादिकम् || ६-१५८ || षट्कर्माणि प्रयुक्तानि निग्रहो मारणं तथा | रोगकृत्याक्षयादीनां निरासः शान्तिरीरिता || ६-१५९ || पुष्टिर्धनजनादीनां वश्यादीनां च कथ्यते | जनसंवननं चैवाकर्षणमात्मना कृतम् || ६-१६० || उच्चाटनादिकरणं निग्रहः परिकीर्तितः | जनानां प्राणहरणं मारणं परिकीर्तितम् || ६-१६१ || सूर्यादयं समारभ्य घटिकादशकं क्रमात् | ऋतवः स्युर्वसन्ताद्याश्चाहोरात्रं दिने दिने || ६-१६२ || वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः | हेमन्तो शान्तिके प्रोक्तो वसन्तो वश्यकर्मणि || ६-१६३ || (प्. ७३) शिशिरे स्तम्भनं प्रोक्तं विद्वेषे ग्रीष्म ईरितः | प्रावृड्डुच्चाटने शस्ता शरन्मारणकर्मणि || ६-१६४ || वश्ये चाकर्षणे चैव रक्तवर्णं विभावयेत् | निर्विषीकरणे शान्तौ पुष्टौ चाप्यायने सितम् || ६-१६५ || पीतं स्तम्भनकार्येषु धूम्रमुच्छाटने भवेत् | उन्मादे शक्रगोपाभं कृष्णवर्णाभकं मृतौ || ६-१६६ || उत्थितं मारणे ध्येयं सुप्तमुच्चाटने स्मृतम् | उपविष्टं सुरेशानि वश्यादौ परिचिन्तयेत् || ६-१६७ || आसीनं श्वेतवर्णं तु ज्ञेयं तु शान्ति(सात्वि)के शिवे | वामपार्श्वस्थितं कृष्णं तामसं परिकीर्तितम् || ६-१६८ || सात्त्विकं मोक्षकामानां राजसं राज्यमिच्छताम् | तामसं शत्रुनाशार्थं सर्वव्याधिनिवारकम् || ६-१६९ || मारणे विषसंहारे भूतग्रहनिवारणे | उच्चाटने च विद्वेषे पञ्चवर्णं प्रयुज्यते || ६-१७० || मन्त्रान्ते नामसंस्थानं योग इत्यभिधीयते | शान्तिके पौष्टिके वश्ये प्रायश्चित्तविशोधने || ६-१७१ || मोहने दीपने योगं प्रयुञ्जन्ति मनीषिणः | स्तम्भनोच्चाटनोच्छेदविद्वेषेषु स चोच्यते || ६-१७२ || नाम्न आद्यन्तमध्ये च मन्त्रसांमुख्य उच्यते | मन्त्राभिमुख्यकरणे सर्वपापप्रणाशने || ६-१७३ || ज्वर एष विषकृत्याशन्तिके स च उच्यते | संमीलने स एवाथ मन्त्राणामक्षराणि च || ६-१७४ || एकैकान्तरितं मन्त्रग्रथनं तत् प्रकीर्तितम् | यच्छान्तिके विधातव्यं नामाद्यन्ते यदा मनुः || ६-१७५ || (प्. ७४) तत्संपुटं भवेत् तत्तु कीलकं परिभाषितम् | स्तम्भे मृत्युजये द्विष्टौ रक्षणादिषु संपुटः || ६-१७६ || द्वे द्वे मन्त्राक्षरे यत्र एकैकं साध्यनामकम् | विदर्भ एष विज्ञेयो मुनिभिस्तन्त्रवेदिभिः || ६-१७७ || वह्निकार्ये जपेत् स्वाहा नमः सर्वत्र चार्चने | शान्तिपुष्टिवशद्वेषमारणोच्चाटने तथा || ६-१७८ || सुधा स्वाहा वषट् हुं च वौषट् फटं क्रमान् न्यसेत् | पद्मासनं महादेवि पौष्टिके समुदाहृतम् || ६-१७९ || वश्ये चैव महेशानि तथ च शान्तिके शिवे | आसनं स्वस्तिकं प्रोक्तं साक्षात् सिद्धिकरं तथा || ६-१८० || आकृष्टौ च महेशानि कम्बलं समुदाहृतम् | वीरासनं महेशानि विद्वेषे समुदाहृतम् || ६-१८१ || उच्चाटने मारणे च वीरासनं प्रशस्यते | शान्तिपौष्टिकवश्ये च सुन्दरी शोभनाशया || ६-१८२ || सर्वाभरणसंदीप्ता प्राप्तकाममनोरथा | ध्यातव्या देवता सम्यक् सुप्रसन्नाननाम्बुजा || ६-१८३ || आकर्षणे च तद्वत् स्यात् उच्चाटने प्रशस्यते | साध्य आकर्षणे द्वेषे प्रथितं तन्त्रवेदिभिः || ६-१८४ || वर्जमानैर्जनैर्दान्तैर्ग्रथितस्तक्षकेण च | उकारवयसाविष्टौ यक्ष उच्चाटने तथा || ६-१८५ || शिलयाक्रान्तितस्तत्त्वं तृणपानादिषु स्मरेत्(?) | इदानीं शृणु चार्वङ्गि तिथीनां नियमं शुभे || ६-१८६ || पञ्चमी च द्वितीया च तृतीया सप्तमी तथा | बुधेज्यवारसंयुक्ता शान्तिकर्मणि पूजिता || ६-१८७ || (प्. ७५) सप्तमी पौष्टिके शस्ता अष्टमी नवमी तथा | दशम्येकदशी चैव भानुशुक्रादिसंयुता || ६-१८८ || आकर्षणेऽप्यमावास्या नवमी प्रतिपत्तथा | पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्मणि || ६-१८९ || कृष्णा चतुर्दशी तद्वदष्टमी मन्दवारका | उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः || ६-१९० || चतुर्दश्यष्टमी कृष्णा अमावास्या तथैव च | मन्दसौरदिनोपेता शस्ता मारणकर्मणि || ६-१९१ || बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा | पौर्णमासी च विज्ञेया तिथिः स्तम्भनकर्मणि || ६-१९२ || शुभग्रहोदये कुर्यादशुभा अशुभोदये | रौद्रकर्माणि रिक्तार्के मृत्युयोगे च मारणम् || ६-१९३ || होमतर्पणपूजा च भावना जप एव च | मन्त्रस्य धारणा चैव मारणोत्सादने तथा || ६-१९४ || एतानि काम्यकर्माणि प्रयोगेऽन्यत् समर्चयेत् | अथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् || ६-१९५ || येन विज्ञातमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात् | प्रतिमां कारयेद् देवि पलेन रजतस्य च || ६-१९६ || पलार्धेन महेशानि साध्यस्य प्रतिमां शिवे | हरितालं पलार्धं च हरिद्राचूर्णकं तथा || ६-१९७ || गर्तं कृत्वा सार्धहस्तं तत्र निक्षिप्य सुन्दरि | रक्तासनं तत्र दत्त्वा वसेत् तद्गतमानसः || ६-१९८ || चतुर्दिक्षु महेशानि पताकां विनिवेशयेत् | रक्तासने चोपविश्य पूर्वास्यो जपमाचरेत् || ६-१९९ || (प्. ७६) पूजाया नियमं देवि जानीहि नगनन्दिनि | तिलपूर्णं घटं तत्र स्थापयेत् देवि देशिकः || ६-२०० || ताम्रपात्रं ततो न्यस्य प्रतिष्ठामाचरेत् ततः | प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद् बुधः || ६-२०१ || अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् | दशसाहस्रजप्येन प्रयोगार्हो भवेत् ततः || ६-२०२ || प्रणवं पूर्वमुच्चार्य मायाबीजं द्वितीयकम् | कान्तं च लाकिनीयुक्तं वामकर्णेन्दुभूषितम् || ६-२०३ || ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् | साध्यनाम ततो न्यस्य वशमानय तत्परम् || ६-२०४ || वह्निजायावधिर्मन्त्रो जपेद् दशसहस्रकम् | दशांशादिप्रमाणेन होमादींश्च समाचरेत् || ६-२०५ || प्रातः स्नात्वा शुचिर्भूत्वा हविष्याशी जितेन्द्रियः | प्रातः कालं समारभ्य जपेद् मध्यन्दिनावधि || ६-२०६ || जपे समाप्ते देवेशि हुनेद् दिने दिने शुभे | जातीकुसुमहोमेन वशयेन्नात्र संशयः || ६-२०७ || कर्पूरमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् | पूर्वं प्रणवमुद्धृत्य चामुण्डां प्रवदेत् ततः || ६-२०८ || तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि भैरवि | अनेनैव विधानेन सन्तर्प्य परदेवताम् || ६-२०९ || सिद्धिप्रयोगो देवेशि जायते नात्र संशयः | अभिषेकं ततः कुर्याद् भैरवि प्राणवल्लभे || ६-२१० || प्रणवं च महेशानि चामुण्डां तदनन्तरम् | अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषेचयेत् || ६-२११ || (प्. ७७) तद्दशांशेन देवेशि ब्राह्मणान् भोजयेत् तदा | एवं कृते महेशानि वशीकरणमुत्तमम् || ६-२१२ || जायते नात्र संदेहः सत्यं सुरगणार्चिते | कामतुल्यश्च नारीणां रिपूणां शमनोपमः || ६-२१३ || यावज्जीवितपर्यन्तं स्मरबाण इवेश्वरि | जायते नात्र संदेहः सत्यं सुरगणार्चिते || ६-२१४ || श्वेतापराजितामूलं पेषयेद् रोचनायुतम् | शतेन मन्त्रितं कृत्वा तिलकं कारयेत् ततः || ६-२१५ || वशयेद् नात्र सन्देहः सत्यं सत्यं महेश्वरि | चन्द्रसूर्यौ यदि वृथा तदा निष्फलभाग् भवेत् || ६-२१६ || रक्तवस्त्रेण चामुण्डां तोषयेद् बहुयत्नतः | सुवर्णदक्षिणा देया वित्तानुसारतः प्रिये || ६-२१७ || आद्यन्ते महतीं पूजां कुर्यात् तस्य वरानने | पञ्चदिनप्रयोगेण राजानं वशमानयेत् || ६-२१८ || तव प्रीत्यै महादेवि कथितं भुवि दुर्लभम् | विद्वेषणं विशेषेण शृणुष्वैकमनाः प्रिये || ६-२१९ || करञ्जकविषेणैव तथा धत्तूरकेण च | काकोलूकौ सदा लेख्यौ भूर्जपत्रे महेश्वरि || ६-२२० || साध्यानां नामसहितं मन्त्रं संलिख्य साधकः | एतयोर्यादृशं वैरं तादृशं चामुकयोर्भवेत् || ६-२२१ || वह्निजायावधिर्मन्त्रः सर्वविद्वेषकारकः | महाकाली देवता च पूजा तस्याः शुभप्रदा || ६-२२२ || एवं सहस्रमानेन जपं कुर्याच्छुचिस्मिते | मारणं सविशेषं च शृणुष्वैकमनाः प्रिये || ६-२२३ || (प्. ७८) निहत्य कृष्णमार्जारं मस्तकं तत्र तं नयेत् | सिन्दूरेण समायुक्तं कुर्यात् साधकसत्तमः || ६-२२४ || तज्जिह्वायां महादेवि साध्यनाम लिखेच्छिवे | साध्यनाम लिखित्वा तु कालीमन्त्रं जपेन्मुदा || ६-२२५ || निजबीजेन घटितमक्षरं प्रजपेत् ततः | दशसाहस्रजापेन मारयेदरिमग्रतः || ६-२२६ || श्मशानकालिकां तत्र चावाह्य पूजयेच्छुभे | लौहालङ्कारसंयुक्तं वस्त्रं देव्यै प्रदापयेत् || ६-२२७ || दक्षिणास्यो जपेद् मन्त्रं ततः सिद्धो भवेन्मनुः | अन्नं पक्त्वा महादेवि निर्जने दापयेत् प्रिये || ६-२२८ || अर्धरात्रे बलिं दत्त्वा खनेद् वैरिगृहे यदि | सप्ताहमध्ये देवेशि शत्रुर्याति यमालयम् || ६-२२९ || इति ते कथितं देवि सारात् सारतरं मतम् | तव स्नेहाद्वरारोहे प्रकाशितमिदं पुरः || ६-२३० || शान्तिकं शृणु सर्वज्ञे येन जीवति साधकः | उर्वशीं प्रथमं नीत्वा युगान्तकारकं परम् || ६-२३१ || स्तनद्वयेन संयुक्ता धूमिनी त्रितयं ततः | अस्य मन्त्रस्य देवेशि सहस्राष्टप्रमाणतः || ६-२३२ || जपं कुर्याद् महेशानि अन्नपूर्णा च देवता | पूजयेद् विविधैर्भक्ष्यैर्नानारससमन्वितैः || ६-२३३ || चर्व्यं चोष्यं तथा लेह्यं द्रव्यं दद्यान्मनोहरम् | दशांशादिप्रमाणेन होमादींश्च समाचरेत् || ६-२३४ || पद्मपुष्पस्य होमेन शान्तिर्भवति सुन्दरि | मधुना तर्पयेद् देवीमन्नपूर्णां परां गतिम् || ६-२३५ || (प्. ७९) प्रथमेऽहनि देवेशि जलेन पूरयेद् घटम् | तद्घटे पूजयेद् देवीं पुज्यावाह्य सुरेश्वरीम् || ६-२३६ || मन्त्रेणानेन देवेशि यदि कुर्यात् प्रयोगकम् | सर्वव्याधिर्विनश्येत नात्र कार्या विचारणा || ६-२३७ || रहस्यं शृणु देवेशि [येन प्रत्यक्षतांव्रजेत् इति पाठान्तरम् |]येन सत्य(युगं?पुरं)व्रजेत् | साधनादि महेशानि बहुधा कथितं मया || ६-२३८ || पुनः केन प्रकारेण ज्योतीरूपां विलोकयेत् | तन्मे शृणु वरारोहे कृपया परमेश्वरि || ६-२३९ || शृणु साध्वि महाभागे सर्वज्ञानान्तरस्थितम् | वैष्णवे गाणपत्ये च शैवे वा शम्भवेऽपि वा || ६-२४० || योगे संन्यासधर्मे वा कौलो धर्मः प्रशस्यते | कुलीनधर्ममाश्रित्य जपेद् रात्रिन्दिवं शिवे || ६-२४१ || नद्यादौ विजने शून्ये गेहे बिल्वतले तटे | लतासंवेष्टितस्थाने शुद्धभावेन तां भजेत् || ६-२४२ || श्मशाने निर्जने वापि सदा तिष्ठति सुन्दरी | विकाररहिताश्चेत् त्वां भजन्ते सिद्धिकामिनः || ६-२४३ || तदा त्वं साधकानां च भविता दृष्टिगोचरा | साधनं च प्रवक्ष्यामि कथितं यत् तपोधने || ६-२४४ || यतिभावेन वा देवि राजभावेन वा शिवे | अभेददर्शी संभूय त्वां प्रपश्यति साधकः || ६-२४५ || तीर्थपूर्णं नवघटं कुजवारेऽष्टमी यदि | निधाय तत्र विधिवत् पूजां कृत्वा विधानतः || ६-२४६ || विषिच्य वेदिकां तत्र तस्योपरि शुभासनम् | आस्तीर्य निवसेत् तत्र ज्योतिर्मन्त्रपुरःसरम् || ६-२४७ || (प्. ८०) फूत्कारेण चतुर्दिक्षु तन्मन्त्रमुच्चरन् धिया | ध्यायेच्च सततं देवि तव रूपं प्रयत्नतः || ६-२४८ || द्विभुजां सुन्दरीं श्यामां नानारत्नविभूषिताम् | रक्तवस्त्रां स्मितमुखीं मातृवत् परिपालिनीम् || ६-२४९ || भैरवीं घोररूपां त्वां तदा जानाति भैरवि | नासारन्ध्रोपरि ध्यायेत् तव तेजः स्वचक्षुषा || ६-२५० || कूर्चमध्येऽथवा पश्येत् तव ज्योतिरनामयम् | चन्द्रकोटिप्रभं शीतं रविकोटिसमं खरम् || ६-२५१ || उत्तुङ्गे च महाकालं स्वप्रकाशाचलं गुरुम् | धीरेण चेतसा धार्यं काले काले विधानतः || ६-२५२ || शून्यालये प्राङ्गणे वा वीथिकापालिकासु च | शृङ्गाट-हट्ट-शालेषु यथारुचि करोत्विति || ६-२५३ || किन्तु देवि विना हेतुं चेतः कस्मात् प्रसीदति | अन्तःशुद्धिर्मनःशुद्धिर्हेतुशून्या कथं भवेत् || ६-२५४ || नाचारे हरति प्रीतिर्विगीते नास्ति मे रुचिः | ततो हेतुं समाधाय सुगोप्यं जपमाचरेत् || ६-२५५ || सुरा हेतुः कारणं च परमामृतमेव च | ज्ञानदा शुभदा तीर्थं मदिरा मोदिनी सती || ६-२५६ || शुण्डा प्रबहुकुल्याङ्गा पावनी तारिणीति च | तव नामानि गोप्यानि जानीहि कुलभैरवि || ६-२५७ || तत् स्वरूपां मदोन्मत्तां मदिरां शङ्खभूषणाम् | ध्यायेत् प्रतिमुखीं स्मेरस्वप(सुद)तीं शुभदां शुभाम् || ६-२५८ || न च मे त्वापभाषेथा सदा शान्तन चेतसा | भिक्षुत्वं राजता वापि तवाश्रया युगे युगे || ६-२५९ || (प्. ८१) हेतुशून्या क्रिया नष्टा नान्तःशुद्धिर्नवा सुखम् | देहं व्यर्थं विजानीहि देवि त्वत्साधनं विना || ६-२६० || साधनं हि वृथा देवि हेतुवादं तथा शृणु | भैरवैर्हेतुपतिभिर्मार्गैः सेव्यं च शङ्करि || ६-२६१ || मिलित्वा पर्वतेऽरण्ये यो वै संयमितात्मना | एकाकी नैव मद्यान्नं स्त्रीभिः (?) स्तोत्रं सुवर्णितम् || ६-२६२ || पञ्चभिर्दशभिर्वापि जापकस्य सुसंयुतम् | समभावे जपेद् देवि नियतं द्वित्रिकैः सह || ६-२६३ || किञ्चिद्ध्यानेन तत्सर्वं न द्विधा किञ्चिदीरितम् | स्मृत्वा ततं ब्रह्ममयं भ्रान्तिरत्र न जायते || ६-२६४ || स्वीकृत्य त्वमपि ध्यायेस्तदा द्रक्ष्यसि सुन्दरि | एवं ध्यात्वा महेशानि प्रसन्नं यदि मे मनः || ६-२६५ || शोधनं संप्रवक्ष्यामि ज्ञानात् सार्वज्ञ्यदायकम् | घटं पुरो निधायादौ त्रिर्जपन् मूलमुच्चरेत् || ६-२६६ || योनिमुद्रां प्रदर्श्याथ शुभमेनमुदीरयेत् | नमस्ते ज्ञानदे शुद्धे शुद्धिभावविनिश्चिते || ६-२६७ || ज्योतीरूपे ध्वान्तहरे वरदेऽमृतरूपिणि | अविद्यान्तरसंस्थाने महापातकनाशिनि || ६-२६८ || सर्वपुण्यप्रसवने सर्वदामृतमानसे | नमस्तुभ्यं नमस्तुभ्यं प्रसीद परमेश्वरि || ६-२६९ || ऋद्धिं देहि मनः शुद्धिं(देहि)दुद्रुव(?)ते नमः | चराचरधृते पुण्ये धृतिदे धृतिनाशिनि || ६-२७० || सुरासुरनरैः सेव्ये व्यामोहं हर मेऽनघे | अरुणाक्षि विशालाक्षि विलक्षे साक्षिणि स्वयम् || ६-२७१ || (प्. ८२) दिव्यशङ्खपरीधाने सुलज्जे प्रीयतां मयि | तमःसंचयनाशिन्यै शिवारूपधृते परे || ६-२७२ || नमस्ते कुलधर्मायै कालिकायै हवे वले | ऐं स्त्रीं हूं ह्रीं दिव्यरूपे महामाये महेश्वरि || ६-२७३ || ह्रींकारात् सिद्धिमाप्नोति बुद्धिं देहि यशस्विनि | अमृतत्वं प्रयाह्यत्र निधेहि सिद्धिमुत्तमाम् || ६-२७४ || अपारेऽसारसंसारे तारे कामदुघेऽनघे | सर्वदेवगणप्रीतेऽपरिमेयगुणाश्रये || ६-२७५ || ब्रह्मानन्दपरानन्दे नमस्तेऽस्तु पुनः पुनः | चक्षुर्ध्वान्तं मनोध्वान्तं छिन्धि देवि सुरेश्वरि || ६-२७६ || कुलाचारप्रसन्ना त्वं पुनीहि ब्रह्मवादिनि | सत्यानन्दमयि श्रीदे कमले शूलधारिणि || ६-२७७ || पूतक्रतो विश्वसेव्ये प्रसूतिमुनिमानसे | नमो नित्यं जयायै ते परायै ते नमाम्यहम् || ६-२७८ || शुद्धाचाररते गोप्ये पशूनां गणकण्ठके | यथा ध्वान्ताद्विमुच्येऽहं तथा कुरु सुरार्चिते || ६-२७९ || एवं स्तुत्वा महादेवि मूलेनैव विशोधयेत् | ओं एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् || कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् || ६-२८० || ओं सूर्यमण्डलसंभूते वरुणालयसंभवे | अमाबीजमये देवि शुक्रशापाद्विमुच्यताम् || ६-२८१ || ओं वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि | तेन सत्येन देवेशि ब्रह्महत्यां व्यपोहतु || ६-२८२ || ततस्तां पुरतः कृत्वा यथोक्तं जपमाचरेत् | दिने दिने महादेवि यदि पूजां करोति हि || ६-२८३ || (प्. ८३) अवश्यमेव तद्रूपं जानीयात् साधकोत्तमः | शवानां साधनं देवि बहुधा कथितं मया || ६-२८४ || वीरभावेन तद् देवि हेतुहीनं वृथागतम् | इदानीं शवरूपेण ध्यायेत् त्वां सततं शिवे || ६-२८५ || तदा क्रीडति(सि) मूर्त्या च शवोपरि त्रपान्विता | ततो नित्यानुरागेण यद्भावाय प्रकल्पसे || ६-२८६ || महानिशायां ब्राह्म्ये वा मुहूर्ते ध्यानतत्परः | त्वद्रूपं परमानन्दं तदा पश्यति निश्चितम् || ६-२८७ || रात्रिपूजा-जपध्यानैर्बहुशो हेतुभावितैः | प्रसन्ना त्वं तदा देवि ततस्तत्र दृढा भवेत् || ६-२८८ || सतीं दृष्ट्वा नमस्कुर्यात् स्पृष्ट्वा तां च शुचिर्भवेत् | पीत्वा च परमानन्दं लभते प्राणनिर्वृतिम् || ६-२८९ || मोदिनीपूरितघटं बिल्वशाखादिशोभितम् | निधाय पुरतो मन्त्रैः पूजां कृत्वा विधानतः || ६-२९० || धूपैर्दीपैश्च नैवेद्यैर्बलिभिश्चैव शुद्धिभिः | द्वाविंशतिशतं नित्यं जप्तव्यं वेदिकोपरि || ६-२९१ || यथाशक्त्याथवा जप्यं लक्षमेकं सुसंयुतम् | तस्मादुत्थाय विधिवत् तिलाज्यैः श्रीफलैर्हुनेत् || ६-२९२ || तत्तया सुरया देवि तर्पयेच्च विधानतः | सन्तुष्टे मण्डले देवि संतुष्टा सिद्धिदा तदा || ६-२९३ || निर्विघ्नं जायते तत्र निःशङ्कं निरुपद्रवम् | निःशोकं निर्विकारं च परं चेतः प्रसीदति || ६-२९४ || नैवेद्यं तु नमस्कुर्यात् त्वद्बुद्ध्या स्वीकरिष्यति | भ्रमबुद्धिर्न कर्तव्या मनसापि कदाचन || ६-२९५ || (प्. ८४) तन्नैवेद्यं चेतसापि यदि निन्दति कश्चन | तदा तं चर्वयेत् काली निर्मूलं जायतेऽथवा || ६-२९६ || तस्माद् दृष्ट्वा च श्रुत्वा च न च निन्दायते क्वचित् | नरमार्जारमहिष च्छागलैर्मेषकैस्तथा || ६-२९७ || कपोतकलविङ्कादैर्हंसमद्गुर-कुक्कुटैः | शालसजालशकुल-रोहितादिभिरण्डजैः || ६-२९८ || बलिभिर्विविधैश्चान्यैः फलैश्च मधुराप्लुतैः | सिक्तसंपक्वदग्धैश्च वित्वचैरिक्षुयष्टिभिः || ६-२९९ || तारिणीं पुरतः कृत्वा शुद्धचित्तेन देशिकः | स्त्रीणां मनो न हन्तव्यं स्त्रियश्चास्य विशेषतः || ६-३०० || शक्तिरूपा हि त्वद्व्य(क्ता?क्तिः)यतः सर्वत्र शोभने | पशुशक्तिः पक्षिशक्तिर्नरशक्तिश्च शोभने || ६-३०१ || विगुणं पूजिता कर्म सगुणं जायते सदा | तासां पूजा विधानेन कर्तव्या भक्तितः शुभे || ६-३०२ || कौलिनीं सुभगां शक्तिं पुष्पेणापि न ताडयेत् | यदि शक्तिर्भवेत् तुष्टा तुष्टां जानीहि तां शिवे || ६-३०३ || नित्यपूजाविधानेन जपहोमपरायणम् | कुलसङ्गं समाश्रित्य पुरश्चरणमाचरेत् || ६-३०४ || क्षेमङ्करीं जम्बुकीं च काकोलं गृध्रमुत्तमम् | दृष्ट्वा चैषां रुतं श्रुत्वा प्रणमेत् मन्त्रपूर्वकम् || ६-३०५ || जपकाले महेशानि यद्येषां श्रूयते रवः | तदैव सिद्धिं जानीहि न जपेत् स्तोत्रमाचरेत् || ६-३०६ || बलिना मुण्डमालाभिर्गृहं कृत्वा जपं चरेत् | कृशोदरि महाचण्डे मुक्तकेशि बलिप्रिये || ६-३०७ || (प्. ८५) कुलाचारप्रसन्नास्ये नमस्ते शङ्करप्रिये | दीपैरुद्दीपितं कृत्वा तन्मध्ये निवसन् पुनः || ६-३०८ || परमानन्दचित्तेन तद्रूपस्य जपं चरेत् | एकलक्षेन जप्तेन साधयेत् सिद्धिमुत्तमाम् || ६-३०९ || रात्रौ जपं तथा पूजां रहस्यामृतसेवनम् | यदि न स्यात् कुलानन्दसाधकः कौलिकः कथम् || ६-३१० || बहुधा कथितं देवि सत्यं जानीहि मद्वचः | कुलामृतं विना देवि चेतः कस्मात् प्रसीदति || ६-३११ || ततो देवि समादाय पूजितां कुलपावनीम् | अनन्यभावमाश्रित्य ममात्मा सुप्रसीदति || ६-३१२ || श्रीदेव्युवाच | किमर्थं बहुधा देव मोदिनीस्तुतिरीरिता | तां विना नैव सिद्धिः स्यादित्येवं कथितं कथम् || ६-३१३ || तन्मे ब्रूहि महेशान येन तत्साधनं सदा | क्रियते शान्तचित्तेन तद्रूपं दृश्यते मुदा || ६-३१४ || श्रीभैरव उवाच | शृणु देवि परं गुह्यं कारणस्य च कारणम् | येन ज्ञातेन शारीरं मानसं च महेश्वरि || ६-३१५ || विनश्यति महा(देवि?मोहो)दिव्यं देहं च लप्स्यते | सर्वागमार्थसारं च सर्वयोगस्य मातरम् || ६-३१६ || शरीरं मलिनं विद्धि मनश्चञ्चलमेव च | मलापकर्षणं नास्ति कुतो ध्यानं महेश्वरि || ६-३१७ || शरीरभावा बहवः सुखदुःखात्मकाः शुभे | चेतःसंमीलनं केन ज्ञायतां तव जन्तुषु || ६-३१८ || (प्. ८६) भीतिलज्जाजुघुप्साद्या निद्रातन्द्राभ्रमादयः | अविपाको विभ्रमश्च शोकचिन्तादिकाः परे || ६-३१९ || भवन्ति विविधा भावा भूतानां देहधारिणाम् | देहव्यपाये नयनं भूतानां देहधारणे || ६-३२० || तत्रैव मन एवाहमात्मारामा सनातनी | अतस्तु तारिणीं देवि मम तेजःस्वरूपिणीम् || ६-३२१ || जानीहि भक्तिसंयुक्तां तामाश्रय विधानतः | मलापकर्षिते देहे सम्यग् दीपिततेजसि || ६-३२२ || ध्यानयोगे स्थिरत्वं च बलित्वं चोपलभ्यते | नाजीर्णो दुर्बलो रोगी भीरुश्चिन्तापरिप्लुतः || ६-३२३ || सुरासंसेवनाद् देवि नैते दोषा भवन्ति हि | अन्ये च बहवो दोषा नश्यन्ति मुक्तियोगतः || ६-३२४ || शापाश्चञ्चलचित्तानां ब्रह्मादीनामिहोदिताः | मन्त्रेण तां समुद्दिश्य मम पूजापरो भव || ६-३२५ || त्वत्स्वरूपां महादेवि तां विद्धि सर्वदा प्रिये | तया विना मनो नित्यं मालिन्यं न परित्यजेत् || ६-३२६ || परित्यक्ते तु मालिन्ये मनो देहं च रूपभाक् | अतः सुरां समाश्रित्य साधनं कुरु यत्नतः || ६-३२७ || इदानीं शृणु चार्वङ्गि शाक्ताचारं वरानने | येन विना न सिद्धिः स्यात् कल्पकोटिशतैरपि || ६-३२८ || मधु मांसं च मत्स्यं च मैथुनं महिला तथा | पञ्चमानां समाकृत्या पञ्चमी त्वत् स्वरूपिणी || ६-३२९ || नत्वा स्तुत्वा च तां देवीं पूजयित्वा सदा शुचिः | सुरा जनी च शक्तिः स्यान्मम रूपस्वरूपिणी || ६-३३० || (प्. ८७) तां समाश्रित्य सिद्धिः स्यान्नात्र कार्या विचारणा | सुराभाण्डं नमस्कुर्यात् स्त्रियं च रक्तवाससम् || ६-३३१ || कपिलां रोहिणीं गञ्जां गोष्ठं गां च पयस्विनीम् | कुलवृक्षफलैः पूजा नैवेद्यमामिषं रसम् || ६-३३२ || एका त्वं सर्वदेवानां सर्वदेवात्मिकापि च | सर्वानन्दमयः साक्षात् सर्वकामपरायणः || ६-३३३ || चतुष्पथजपासक्तः शुद्धः श्माशानिकः क्वचित् | भूत्वैव भावयन्नात्मानं ततः स्याच्छक्तिपूजकः || ६-३३४ || ब्रह्मानन्दो ब्रह्मरसः सुमनोऽस्थिविभूषितम् | सुरासनं प्रेतमाला धार्यते शक्तिदेवतैः || ६-३३५ || आत्मभूकुसुमैः शुक्रैर्बलिभिः पूजनं निशि | परब्रह्मरसानन्दी करोति शक्तिसेवकः || ६-३३६ || रात्रिपूजा विशेषेण कर्तव्या साधकोत्तमैः | बलिभिः पञ्चमीवर्गैरन्नैर्विविधपिष्टकैः || ६-३३७ || अशनैस्तुलितैः क्लिन्नै रसकेन च सारितैः | पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्बलिभिस्तथा || ६-३३८ || सानन्दैर्नृत्यगीताद्यैः शक्तिभिः साधकैः सह | संपूज्य पर(मा?या)भक्त्या तर्पयेद्वर्गमाश्रितः || ६-३३९ || कुलीनान् कुलसंबन्धान् विज्ञातान् द्वैतमानसान् | महासत्त्वान् दृष्टपथान् मदेकभाविनोऽपि च || ६-३४० || शक्तयः सर्वतः पूज्या मद्भावेन विशेषतः | शक्तिश्च कुसुमैः पूज्या सिन्दूरैर्गन्धचन्दनैः || ६-३४१ || अथ माल्यैरलङ्कारैः केवलं मातृभावतः | कुमारीपूजनं नित्यं शक्तिं वान्यां प्रपूजयेत् || ६-३४२ || (प्. ८८) एवं शक्तो यदा शक्तेः पूजनं भवमोचनम् | परीवादः पराभूतिर्हठादाकर्षणं स्त्रियाः || ६-३४३ || मनसापि न कर्तव्यं देवि सिद्धिं यदीच्छ(सि?ति) | रात्रौ च भ्रमणं देवि रात्रौ च शक्तिपूजनम् || ६-३४४ || न करोति यदा लोके साधकः कौलिकः कथम् | अनिन्दा सर्वभूतानां सर्वत्रैव दयान्वितः || ६-३४५ || बलिं विना महादेव्या हिंसा सर्वत्र वर्जिता | सदा सानन्दमनसा मम कामपरायणः || ६-३४६ || चतुष्पथनमस्कारी श्मशानचारिपूजकः | अन्धकारसमास्थायी गुहासेवनतत्परः || ६-३४७ || परमामृतपूतात्मा मम प्रीतिपरायणः | शालिग्रामे ब्राह्मणे च निन्दां चैव विवर्जयेत् || ६-३४८ || एषां पूजां विशेषेण करोति कारयत्यपि | ब्राह्मणो ब्रह्मभावेन क्षत्रः क्षात्रेण शङ्करि || ६-३४९ || वैश्यश्च(शूद्र?वैश्य)भावेन प्रसन्नो विचरिष्यति | दिवा हविष्यभोजी स्यात् न स्पृशेदन्यपूरुषम् || ६-३५० || रात्रौ स्वीयगणैर्युक्तः पञ्चमीमाश्रयेच्छिवे | तव पूजापरो भूत्वा शक्तिभिः साधकैः सह || ६-३५१ || नृत्यते गीयते यद्यत् तत् स्तोत्रं पूजनं तव | विना तीर्थाभिषेकेण नान्तः शुद्ध्यति भैरवि || ६-३५२ || न भूयो याति शोकांश्च परत्र मोक्षभाग् भवेत् | न रूपदर्शने देवि संशयो नास्ति कश्चन || ६-३५३ || इति पूजां महेशानि कृत्वा देवीपुरं वसेत् | अस्याः परतरा देवि नास्ति तन्त्रे महेश्वरि || ६-३५४ || (प्. ८९) एषा पूजा हि देव्याश्च पूजैव सुरवन्दिते | सर्वधर्मान् परित्यज्य पूजामेतां करोति यः || ६-३५५ || स योगी च महात्मा च संसारात् त्रायते क्षणात् | अगम्यागमने पापं नास्ति तस्य वरानने || ६-३५६ || या कथा तव देवेशि तव स्तोत्रं वरानने | इतस्ततो यद्गमनं प्रदक्षिणमुदाहृतम् || ६-३५७ || ततः परं महादेवि धर्माधर्मो न जायते | अप्रकाश्यं महेशानि तव स्नेहात् प्रकाशितम् || ६-३५८ || मद्भक्तेभ्यो महेशानि प्रकाशमुपदाय च | अभक्तेभ्यो न दद्याद्धि दत्त्वा मृत्युमवाप्नुयात् || ६-३५९ || इति ते कथितं देव्यास्तर्पणं शृणु भैरवि | विद्याकामेन होतव्यं तिलाज्यं मधुसंयुतम् || ६-३६० || बिल्वपत्रं घृताक्तं च किंशुकं बकुलं तथा | बन्धूकपुष्पहोमेन राजा च दासतामियात् || ६-३६१ || सर्पिर्लवणहोमेन आकर्षयति कामिनी | कर्णिकारस्य होमेन सौभाग्यं लभते नरः || ६-३६२ || करवीरैश्च पुंनागैः पुष्टिमाप्नोत्यसंशयम् | राजवृक्षस्य होमेन सर्वसंपत्तिमान् भवेत् || ६-३६३ || दुर्वातिलाज्यहोमेन दीर्घायुष्ट्वमवाप्नुयात् | संपूज्य मूलमन्त्रेण बिल्वपत्रैर्घृतान्वितैः || ६-३६४ || सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् | घृताक्तमालतीपुष्पहोमाद् द्रुतकविर्भवेत् || ६-३६५ || तर्पणस्य प्रसङ्गेन होमोऽयं कथितः शिवे | मधुना तर्पणं कुर्यात् सर्वकामफलप्रदम् || ६-३६६ || (प्. ९०) मन्त्रसिद्ध्यै महेशानि महापातकनाशनम् | कर्पूरमिश्रितैस्तोयैर्मासमात्रं प्रतर्पयेत् || ६-३६७ || वशीकृत्य नृपान् सर्वान् भोगी स्याद् यावदायुषम् | घृतैः पूर्णयशः सिद्ध्येद् दुग्धैरारोग्यमाप्नुयात् || ६-३६८ || अगुरुमिश्रितं देवि सर्वकालं सुखी भवेत् | नारिकेलोदकमिश्रैस्तोयैः सर्वार्थमाप्नुयात् || ६-३६९ || मरीचमिश्रितैस्तोयैः सर्वाञ्छत्रून् विनाशयेत् | केवलैरुष्णतोयैश्च शत्रुमुच्चाटयेत् क्षणात् || ६-३७० || ज्वराविष्टो भवेत् तेन दुग्धसेकात् शमं भवेत् | हविष्याशी मुक्तकेशो जपेदयुतमाचरेत् || ६-३७१ || गद्यपद्यमयी वाणी सभायां तस्य जायते | उच्चाटयति पिङ्गाक्षी संभावयति केकरा || ६-३७२ || विद्रावयति मुक्तास्या संभ्रामयति घूर्णिता | विक्षोभयति संक्षुब्धा संतापयति सन्निभा || ६-३७३ || संकोचयति संरुद्धा विप्ररुद्धा प्रबोधयेत् | एतत् सर्वं प्रकर्तव्यं भावनामात्रचिन्तनम् || ६-३७४ || उच्चाटेषु च सर्वेषु चायुतं प्रजपेत् सुधीः | शताभिजप्तमात्रेण रोचनातिलकं नरः || ६-३७५ || कृत्वा पश्यति यं मन्त्री तं कुर्याद् दासवत् प्रिये | दन्तेनानीयते चूर्णं कीलकं तेन कारयेत् || ६-३७६ || यथा मधुघृताक्तेन पद्मिनीपत्रमात्रके | लिखेत् सूत्रावलीमध्ये मूलमन्त्रं विदर्भितम् || ६-३७७ || तत् कुण्डचतुरस्रे च निक्षिप्य जुहुयादपि | सहस्रं क्षीरनीराक्तं पद्मानां लोहितत्विषाम् || ६-३७८ || (प्. ९१) मन्त्रं शृणु वरारोहे येन सिद्ध्यति निश्चितम् | ओं पद्मे पद्मे महापद्मे पद्मावति माये तथा || ६-३७९ || स्वाहान्तोऽयं महामन्त्रो नैमित्तिकफलप्रदः | एवं यः कुरुते कर्म सद्यो द्रुतकविर्भवेत् || ६-३८० || उपचारविशेषेण राजपत्नीं वशं नयेत् | रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् || ६-३८१ || मिश्रीकृत्य बलिं दद्यादष्टम्यां च विशेषतः | प्रयोगबलिमन्त्रोऽयं प्रयोगान् साधयेद् यदि || ६-३८२ || अर्धरात्रे ततो नित्यं बलिं दद्यात् चतुष्पथे | परसैन्यग्रहारिष्ट रोगकृत्यानिवारणम् || ६-३८३ || प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् | विकटदंष्ट्रे परपक्षं मोहय [क्षोभय ख पाठः |] द्वन्द्वमुच्चरेत् || ६- ३८४ || खादय द्वन्द्वमुच्चार्य पचद्वन्द्वं वदेत् पुनः | ये मां हिंसितुमुद्यता योगिनीचक्रैस्तान् हारय हूं फट् स्वाहा | परविद्यामाकर्षय २ छेदय २ हन २ कपाले गृह्ण २ स्वाहा | अनेनैव च देवेशि बलिं दद्याद् महेश्वरि | मायाबीजं समुच्चार्य कालि कालीति सुन्दरि || ६-३८५ || वज्रेश्वरी पदं पश्चाल्लोहदण्डायै नमः पदम् | इति संपूज्य देवेशि शक्तिं संपूजयेत् ततः || ६-३८६ || हू/ वागीश्वरीब्रह्मभ्यां नमः | हू/ लक्ष्मीनारायणाभ्यां च | ततो नमः पदं ब्रूयाद् देवि चण्डे महेश्वरि || ६-३८७ || ततोमामहेश्वराभ्यां नम इत्यादिनार्चयेत् | प्रणवं च ततः पश्चात् कार्तिकेश्वराभ्यां नमः || ६-३८८ || (प्. ९२) इत्यने(न?नैव)मन्त्रेण शक्तिं संपूजयेन्नरः | इति खड्गं प्रपूज्यैव विशेषेण प्रपूजयेत् || ६-३८९ || ओं खड्गाय खरनाशाय शक्तिकार्यार्थतत्पर | पशुच्छेदस्त्वया कार्यः खड्गनाथ नमोऽस्तु ते || ६-३९० || अनेनैव तु मन्त्रेण प्रणमेत् खड्गमुत्तमम् | गृहीत्वा ताम्रपात्रं च जलपूर्णमुदङ्मुखः || ६-३९१ || हर्षकामो महादेव्यै पशोश्च प्रोक्षणं चरेत् | प्रोक्षणं च पशोः कृत्वा चोत्सृजेद् देवताधिया || ६-३९२ || यथोक्तेन विधानेन तुभ्यमस्तु निवेदनम् | छिन्ने च पतिते वृद्धिर्वामभागे च निन्दितम् || ६-३९३ || दैन्यं मध्ये च पतितं देवे छेदं स्मरेद् बुधः | ततः कुण्डान्तिके गत्वा आहुतिर्दशपञ्चभिः || ६-३९४ || तेनैवमुत्सृजन् दोषं बलिं लक्षेत् सलक्षणम् | ततो रुधिरमाधाय वटुकादीन् समर्चयेत् || ६-३९५ || नैर्-ऋत्यां च महेशानि हू/ वा/ वटुकभैरवम् | वायव्ये हूं यां योगिनीभ्यो नमः इत्यादिनार्चयेत् || ६-३९६ || ऐशान्यां च महेशानि हूं क्षौ/ क्षेत्रपालाय नमः | इत्यादिना देवि(सम्यक्)गन्धपुष्पैः समर्चयेत् || ६-३९७ || आग्नेययां हू/ गां गणेशाय नम इत्यादिनार्चयेत् | गन्धपुष्पैः समभ्यर्च्य बलिदानं समाचरेत् | इति ते कथितो देवि बलिदानस्य निर्णयः || ६-३९८ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (कुलपूजा शाक्ताचारादिविधिनिरूपणं) षष्ठः पटलः || ६ || अथ सप्तमः पटलः | श्रीभैरव उवाच | अथ वक्ष्ये महेशानि निग्रहोपायमुत्तमम् | अवश्यमेव कर्तव्यं प्रयोगसाधनं तथा || ७-१ || मङ्गले शनिवारे च श्मशानाङ्गारमानयेत् | कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना || ७-२ || शताभिमन्त्रितं कृत्वा निःक्षिपेद् वैरिवेश्मनि | सप्ताहाभ्यन्तरे तेषामुच्चाटनमिदं भवेत् || ७-३ || नरास्थि विलिखेन्मन्त्रं क्षारयुक्तहरिद्रया | सहस्रं परिजप्याथ निशायां शनिवासरे || ७-४ || निक्षिप्यते यस्य गेहे तस्य मृत्युस्त्रिमासतः | क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे || ७-५ || धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयम् | (द्वि?द्वे)षे तु विलिखेद् मन्त्रं प्रेतकर्पटके सुधीः || ७-६ || द्वेष्यद्वेषकयोर्नाम्ना तस्य द्वेषो महान् भवेत् | मन्त्रं शृणु वरारोहे प्रयोगार्हो भवेद् यतः || ७-७ || अमुकं मारयेत् यादौ मारयेति पदं ततः | सहस्रं परिसंजप्य मन्त्रमेनं महेश्वरि || ७-८ || द्वेषमन्त्रविशेषं तु शृणु चैकमनाः प्रिये | अमुकामुकयोर्द्वेषं कुरु कुर्वित्यनन्तरम् || ७-९ || मन्त्रमुच्चार्य देवेशि जपेद् देवि सहस्रकम् | उच्चाटय पदद्वन्द्वं पिङ्गाक्षि तदनन्तरम् || ७-१० || (प्. ९४) फट् मन्त्रं मन्त्रमुच्चार्य साध्यसंज्ञान्वितं पुनः | देशाद् देशान्तरं याति रिपुः काक इवापरः || ७-११ || वह्निपुटे रिपोर्मन्त्रं लिखित्वा पत्रकेण तु | श्मशाने मन्त्रमुच्चार्य पुटीकृत्य विदर्भ्य च || ७-१२ || सहस्रजन्मभिर्जप्त्वा विद्या न हि फलप्रदा | सिद्धयश्च विनश्यन्ति देवानामपि दुर्लभाः || ७-१३ || मातृचक्रेऽमृतं लेख्यं भिन्नाञ्जनपुटीकृतम् | जले निःक्षिप्य मन्त्रं तु पुनर्नव इतीरितः || ७-१४ || जन्मलुप्तो मनुः स्निग्धो नवोदितशशी यथा | क्षणे क्षणेऽपि तेजस्वी रिपुदृष्टिगतोऽपि च || ७-१५ || अथ वक्ष्ये मन्त्रमेकं धारयेत् सर्वदा प्रिये | योनियुग्मे लिखेन्मन्त्रं मूलं हेमशलाकया || ७-१६ || क्लीबहीनान् दीर्घभिन्नान् षट्कोणे च लिखेत् ततः | अष्टपत्रेष्वष्टवर्णास्तद्वहिर्भूपुरद्वयम् || ७-१७ || अष्टवज्र भूपुरे च विलिखेत् साधकोत्तमः | स्वर्णपत्रेऽथवा भूर्जे रौप्ये वाप्यथ सुव्रते || ७-१८ || विलिखेद् हेमलेखन्या गन्धाष्टकसमन्वितम् | दूर्वाकाण्डेन संलिख्य कुशमूलेन वा पुनः || ७-१९ || वेष्टितं पीतवस्त्रेण यत्नेन परिवेष्टयेत् | बध्नीयात् पीतवस्त्रेण शिशूनां कण्ठभूषणम् || ७-२० || स्त्रीणां वामभुजे चैवमन्येषां दक्षिणे भुजे | वन्ध्या तु लभते पुत्रं निर्धनो धनवान् भवेत् || ७-२१ || इयं रक्षा पुरा बद्धा ज्ञानार्थं गौतमादिभिः | कीर्त्यर्थं पार्थिवैश्चान्यैः संग्रामे जयकाङ्क्षिभिः || ७-२२ || (प्. ९५) वाग्भवं कुलदेवी च तारकं वाग्भवं तथा | हृल्लेखास्त्रमनुश्चैव वह्निजायावधिर्मनुः || ७-२३ || अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः | कालिकामन्त्रतन्त्रोक्तान् प्रयोगानेव चाचरेत् || ७-२४ || कालिकातन्त्रमन्त्रोक्तान् प्रयोगानिह चाचरेत् | यथा काली तथा नीला भेदो नास्ति महेश्वरि || ७-२५ || अविशेषेण कर्तव्यं सत्यं च कथितं मया | अन्यच्छृणु वरारोहे वशीकरणमुत्तमम् || ७-२६ || यत्कृते साधको वीरो धन्यो भवति निश्चितम् | पुष्यार्के च महादेवि वीरमूलं समानयेत् || ७-२७ || शोधितं पञ्चगव्येन शोषयेद् भास्करद्युतौ | चूर्णयेद् मेषशृङ्गेण समादाय च तं शिवे || ७-२८ || यन्त्रं संलिख्य देवेशि मातृकाख्यं सुशोभनम् | मन्त्रं शृणु वरारोहे ध्यानात् सार्वज्ञ्यदायकम् || ७-२९ || व्योमेन्द्वौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् | आशास्वस्त्रिषु लान्तटान्तसहितं क्षोणीपुरेणावृतं यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् || ७-३० || तेन चूर्णेन देवेशि यन्त्रं संलिख्य यत्नतः | मृत्पात्रे च समालिख्य स्थापयेत् कुम्भकोपरि || ७-३१ || तिलपूर्णं घटं तेन स्थापयेत् सुरवन्दिते | पट्टवस्त्रेण चामुण्डां पूजयेच्छार्करोदकैः || ७-३२ || तन्मन्त्रं परमेशानि जप्त्वा वशयेज्जगत् त्रयम् | कपर्दिनं समुद्धृत्य कलहं तद् द्वितीयकम् || ७-३३ || (प्. ९६) खड्गेति परमेशानि चामुण्डे च ततः परम् | जयशब्दं समुच्चार्य वशमानय ठद्वयम् || ७-३४ || अनेन मन्त्रराजेन कुर्यात् पौष्टिकमुत्तमम् | भक्षं भोज्यं महादेव्यै दद्यात् सुरगणार्चिते || ७-३५ || रक्तासने चोपविश्य सहस्राष्टौ जेपेन्मुदा | दशांशादिप्रमाणेन होमादींश्च समाचरेत् || ७-३६ || जापे समाप्ते देवेशि दद्याद् रजतदक्षिणाम् | पलं वापि तदर्धं वा तदर्धं वापि शक्तितः || ७-३७ || प्रवालमालया देवि जपं कुर्याच्छुचिस्मिते | उष्णीषं लोहितं प्रोक्तमुत्तरीयं तथा प्रिये || ७-३८ || रक्तवस्त्रं परीधाय जपेत् तद् गतमानसः | कवित्वं जायते सुभ्रु! मन्त्रस्यास्य प्रसादतः || ७-३९ || कविता वशमायाति नात्र कार्या विचारणा | इदानीं शृणु चार्वङ्गि कविताकारकं परम् || ७-४० || प्रयोगं सर्वसंगोप्यं तव स्नेहात् प्रकाश्यते | नटीं चण्डा(लीनं?लिनीं)चैव योगिनं सर्वमोहनम् || ७-४१ || बीजत्रयं जपेद्रात्रौ मध्यरात्रौ रवेर्दिने | अष्टाधिकसहस्रेण प्रमाणेन जपं चरेत् || ७-४२ || शताभिमन्त्रितं कृत्वा पिबेच्च जलमुत्तमम् | सप्तदिनप्रयोगेण कविता चित्तमोदिनी || ७-४३ || जायते नात्र सन्देहः सत्यं सुरगणार्चिते | पाणिना दक्षिणेनैव मधुलाजान् समानयेत् || ७-४४ || प्रागेव नाडीच्छेदाद् बालं संस्कुर्याच्च साधकः | कवित्वं जायते तेना द्वितीयं सुरवन्दिते || ७-४५ || (प्. ९७) जिह्वां संमार्ज्य देवेशि लिखेद् हेमशलाकया | दूर्वया वा महादेवि जिह्वोष्ठयोः समालिखेत् || ७-४६ || पङ्क्तिद्वयेन संलिख्य कुर्याच्च बालसंस्क्रियाम् | एकादशाहे देवेशि द्वादशाहेऽथ वा पुनः || ७-४७ || वर्णजात्यादिभेदेन मासान्तं संभविष्यति | यथाशक्त्युपचारेण देवतां पूजयेत् पुरः || ७-४८ || संपूज्य देवतां भक्त्या लिखेन्मन्त्रं महेश्वरि | यदा पिता न देशस्थः पितृव्यो मातुलोऽपि वा || ७-४९ || लिखित्वा परमेशानि कुर्याच्च बालसंस्क्रियाम् | मूलमन्त्रं लिखेद् मन्त्री यस्योष्ठे श्वेतदूर्वया || ७-५० || वाक्योच्चाररतो बालो वाग्मी द्रुतकविर्भवेत् | जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते || ७-५१ || जिह्वायां तु लिखेद् मन्त्रं यज्ञदारु कुशेन वा | वारत्रयं सुसंमार्ज्य दक्षिणेनैव पाणिना || ७-५२ || मन्त्रमुच्चार्य प्रत्येकं पङ्क्तिं कुर्यात् सुशोभनाम् | आदौ संस्कारः कर्तव्यस्तदन्ते च लिखेन्मनुम् || ७-५३ || गन्धचन्दनपुष्पैश्च पूजयेत् तारिणीं शिवाम् | उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमम् || ७-५४ || पूजयेत् तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः | षोडशैरुपचारैश्च पूजयेद् भक्तिभावतः || ७-५५ || धूपं दद्याद् गुग्गुलुना सर्वकर्मफलप्रदम् | नारिकेलं तथा रम्भां बदरं बकुलं तथा || ७-५६ || बीजपूरं कर्णिकारं शर्करां गन्धसंयुताम् | मधूदकं कलायं च सिद्धान्नं पायसप्लुतम् || ७-५७ || (प्. ९८) मांसं मत्स्यं पिष्टकं च दद्यादतिप्रियं महत् | कविर्वाग्मी भवेत् पुत्रः सर्वकर्मप्रकारकः || ७-५८ || जितेन्द्रियः सत्यवादी धार्मिको जायते महान् | पिता चैव पितुर्भ्राता मातुर्भ्राता पुनस्तथा || ७-५९ || लिखेद् मन्त्रं महेशानि नान्यः सुरगणार्चिते | भ्राता वापि लिखेद् मन्त्रं सर्वकामफलप्रदम् || ७-६० || मातुः क्रोडे समादाय वस्त्रेणास्तीर्य यन्ततः | शान्तिं कुर्याद् बालकस्य ब्राह्मणैः [साधकैः ख पाठः |] सह संयुतः || ७-६१ || इमं पुत्रं कामयत कामजानामिहैव तु | देवेभ्यश्च महेशानि पुष्णाति पदमन्तरम् || ७-६२ || शिवशान्तिस्तारायै केसरेभ्यस्तारायै शिवाय शिवयशसे | मन्त्रस्य लेखनान्ते तु शान्तिं कुर्याद् महेश्वरि | इत्येतद् मत्स्यसूक्ते च कथितं विस्तरेण तु || ७-६३ || तन्मातुर्वामकर्णे तु शान्तिस्तोत्रं पठेन्मुदा | मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे || कृपया हर विघ्नं मे सर्वसिद्धिं [मन्त्र ख पाठः |] प्रयच्छ मे || ७-६४ || माहेशि वरदे देवि परमानन्दरूपिणि | कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-६५ || कौमारि सर्वविद्येशे कौमारक्रीडने परे | कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छे मे || ७-६६ || विष्णुरूपधरे देवि विनतासुतवाहिनि | कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे || ७-६७ || वाराहि वरदे देवि दंष्ट्रोद् धृतवसुन्धरे | कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-६८ || (प्. ९९) शक्ररूपधरे देवि शक्रादिसुरपूजिते | कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-६९ || चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि | कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-७० || महालक्ष्मि महोत्साहे शोकसंतापहारिणि | कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे || ७-७१ || मितिमातृमये देवि मितिमातृबहिष्कृते | एके बहुतरे [विधे ख पाठः |] देवि विश्वरूपे नमोऽस्तु ते || ७-७२ || इदं स्तोत्रं पठेद् यस्तु कर्मारम्भे महेश्वरि | विदग्धां वा समालोक्य तस्य विघ्नो न जायते || ७-७३ || कुलीनस्य द्वारदेवाः कथितास्तव सुन्दरि | दीक्षाकाले नित्यपूजासमये नार्चयेद् यदि || ७-७४ || तस्य पूजाफलं देवि नीयते यक्षराक्षसैः | शतवर्षजपाद् देवि न सिद्धिर्जायते प्रिये || ७-७५ || महापदि समुत्पाते पठेत् स्तोत्रं गणेश्वरि | आपदश्च पलायन्ते संशयो नास्ति कश्चन || ७-७६ || विद्याकामेन देवेशि शतकृत्वः पठेत् स्तवम् | इति ते कथितं मातुः स्तोत्रं कण्ठविभूषणम् || ७-७७ || मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय | अप्रकाश्यमिदं स्तोत्रं न देयं यस्य कस्यचित् || ७-७८ || दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितोऽपि यः | सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिने || ७-७९ || दद्यात् स्तोत्रं महेशानि नान्यथा फलभाग् भवेत् | अष्टादशपुराणेषु वेदव्यासेन कीर्तितम् || ७-८० || (प्. १००) श्रीदेव्युवाच | देवदेव महादेव स्थितिसंहारकारक | प्रश्नमेकं करोम्यत्र सकाशात् तव सुव्रत || ७-८१ || कैतवं च परित्यज्य तत् कथ्यं भवनाशन | महाचीनक्रमं देव कथितं न प्रकाशितम् | कथयस्व तदिदानीं यदि स्नेहोऽस्ति मां प्रति || ७-८२ || श्रीभैरव उवाच | महाचीनक्रमं देवि सर्वतन्त्रेषु गोपितम् | यत् कृत्वा साधकाः सर्वे शिवत्वं यान्ति तत्क्षणात् || ७-८३ || न वक्तव्यं महेशानि भुवनत्रितये शिवे | शुद्धभावेन देवेशि वक्तव्यं तव गोचरे || ७-८४ || नान्योऽस्ति मे प्रियः कोऽपि त्वदन्यः सुरवन्दिते | इदानीं परमेशानि निधारय मनः शिवे || ७-८५ || महाचीनक्रमं देवि कथितव्यं वरानने | अहं देहो महेशानि देही त्वं सर्वरूपदृक् || ७-८६ || मीनो यथा महादेवि पयसि प्रहृतो यथा | सदात्मा त्वं महेशानि अकथ्यं नास्ति सुन्दरि || ७-८७ || केचिद् देवा नरा केचिद् दानवा यक्षराक्षसाः | नागलोकाः किन्नराश्च गन्धर्वाप्सरसां गणाः || ७-८८ || ये वा पशुमृगाः पक्षा ये केचिज्जगतीगताः | एते जडतराः सर्वे परस्परखलात्मकाः || ७-८९ || कुकर्मनिरताः सर्वे कुमार्गदर्शनोत्सुकाः | एतेषां ब्रह्म [कोऽपि ख पाठः |] विज्ञानमानन्दं ब्रह्म चित्सुखम् || ७-९० || न जानाति महेशानि तत् कथं कथयामि ते | नित्यमुक्तस्वभावोऽयं तदर्थमिदमीरितम् || ७-९१ || (प्. १०१) क्षमस्व यदि चार्वङ्गि न वक्तव्यं महेश्वरि | श्रीदेव्युवाच | नमस्ते शिवरूपाय नमस्ते गुरुरूपिणे || ७-९२ || नमस्ते वरद स्वामिन् करुणानिधये नमः | अन्यदेवरता ये च सर्वे त्वत् पदकाङ्क्षिणः || ७-९३ || तेषामेवाधिकफलं मद्भक्तानां व्यवस्थितम् | सिंहव्याघ्रादयो ये च ये च विघ्नानुसारिणः [कारिणः ख पाठः |] || ७-९४ || विकाराश्च तथा सर्पास्तथान्ये दुष्टजन्तवः | ते सर्वे विलयं यान्ति पतङ्गा इव पावके || ७-९५ || देहं [गेहे ख पाठः |] दीपशिखाकारं दृश्यते दुष्टजन्तुभिः | केवलं प्रेमभावेन त्वयैव विभुणा प्रभो || ७-९६ || किं वा शवमयो भूत्वा आसने पञ्चदेवताः | पृथिवी जलतां याति जलं तेजोमयं भवेत् || ७-९७ || तेजो वायुं तथा वायुराकाशं तत्प्रकाशकम् | दानवा राक्षसाः सर्वे ये चान्ये (दानवा?देवता)गणाः || ७-९८ || राजानश्च तथा चान्ये सर्वे त्वत्पादवर्तिनः | आज्ञां भजन्ति गन्धर्वाः किं पुनर्नरकीटकाः [किन्नराः ख पाठः |] || ७-९९ || यत्र यत्र भवेद् वाञ्छा तत् तत् सिद्धिः करे स्थिता | सदानुगामिनी वाणी भजते तं सुनिश्चितम् || ७-१०० || द्विधाभावं परित्यज्य किमन्यद् बहुभाषितैः | मोक्षार्थी लभते मोक्षं धनार्थी धनमाप्नुयात् || ७-१०१ || अन्ते तु जायते गौरीलोके शिव इवापरः | सिद्धा भवन्ति यद्भक्ताः कथयस्व ममाग्रतः || ७-१०२ || (प्. १०२) श्रीभैरव उवाच | न वक्तव्यमभक्ताय परभक्ताय पापिने | महाचीनक्रमं देवि विविधं कथितं शिवे || ७-१०३ || स्नानादि मानसं शौचं मानसः प्रवरो जपः | पूजनं मानसं दिव्यं मानसं कल्पनादिकम् || ७-१०४ || सर्व एव शुभः कालो नाशुभो वर्तते क्वचित् | न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि || ७-१०५ || वस्त्रासनस्थानगे(हे?ह)देहस्पर्शादि वारिणः | शुद्धिं नचाचरेदत्र निर्विकल्पं मनश्चरेत् || ७-१०६ || नात्र शुद्ध्याद्यपेक्षास्ति न चामेध्यादिदूषणम् | य एवं चिन्तयेद् मन्त्री सर्वकामफलप्रदम् || ७-१०७ || गद्यपद्यमयी वाणी सभायां तस्य जायते | तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः || ७-१०८ || राजानोऽपि च दासत्वं भजन्ते किं परे जनाः | सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः || ७-१०९ || महानिश्यशुचौ देशे बलिं मन्त्रेण दापयेत् | स्त्रीनिन्दां च न कुर्वीत तासां प्रेम विवर्द्धयेत् || ७-११० || अत्युत्कटापराधेऽपि न तस्या द्वेषमाचरेत् | स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजयेत् स्त्रियः || ७-१११ || जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपं चरेत् | स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्रापि देशिकः || ७-११२ || भक्षंस्ताम्बूलमन्यांश्च भ(क्ष?क्ष्य)द्रव्यं यथारुचि | मांसमत्स्यदधिक्षौद्रभ(क्ष?क्ष्य)द्रव्यं यथारुचि || ७-११३ || भुक्तान्नशेषभ(क्षा?क्ष्या)णि भुक्त्वा सर्वं जपं चरेत् | दिक्कालनियमो नास्ति स्थित्यादिनियमो न च || ७-११४ || (प्. १०३) न जपे कालनियमो नार्चादिषु बलिष्वपि | स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने || ७-११५ || नाधर्मो विद्यते सुभ्रु किञ्चिद् धर्मो महान् भवेत् | स्वेच्छाचारस्थितो देवि प्रचरेद् हृष्टमानसः || ७-११६ || (कृतार्थं?कार्तार्थ्यं)मन्यमानस्तु संतुष्टो जितमानसः | जपं कृत्वा विशेषेण स्त्रिया च जपमाचरेत् || ७-११७ || आसनं शृणु देवेशि प्राक् सिद्ध्येज्जपमुत्तमम् | पीठानामुत्तमं पीठं जपात् सार्वज्ञ्यदायकम् || ७-११८ || योनिपीठे निवेश्यैव श्रोण्यां कमललोचने | योन्यां संक्षिप्तलिङ्गस्तु जपेत् तद्गतमानसः || ७-११९ || सहस्रं प्रत्यहं जप्त्वा कन्दर्पसदृशः पुमान् | जायते नात्र संदेहः सत्यं सुरगणार्चिते || ७-१२० || चीनाचारविशेषं हि कथितं परमेश्वरि | ताराकल्पे महेशानि विस्तरेण प्रकाशितम् || ७-१२१ || अत्र चैव महेशानि विशेषः कथितो मया | योनिकुन्तलमादाय गृह्णीयादन्तरीयकम् || ७-१२२ || एवं वत्सरपर्यन्तं जपेत् तद्गतमानसः | नीलासरस्वती काली चान्नपूर्णा च भैरवी || ७-१२३ || साधकाय प्रहृष्टाय प्रसीदति न संशयः | साधकोऽपि महादेवि वत्सरात् तां प्रपश्यति || ७-१२४ || इह ते संशयो नास्ति सत्यं सत्यं महेश्वरि | अतिस्नेहात् सुरश्रेष्ठे प्रकाशितमिदं तव || ७-१२५ || रहस्यं शृणु चार्वङ्गि येन सिद्ध्यति सुन्दरि | रजस्वलां स्त्रियं वीक्ष्य सहस्रं प्रजपेद् यदि || ७-१२६ || (प्. १०४) तदैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा | दिनैः षोडशभिर्देवि सिद्धिमाप्नोति साधकः || ७-१२७ || पर्वते हस्तमारोप्य निर्भयो यतमानसः | कवितां लभते सोऽपि अमृतत्वं च गच्छति || ७-१२८ || नीलपद्मं तथा बिम्बं खञ्जनं शिखरं तथा | चामरं रविबिम्बं च तिलपुष्पं सरोवरम् [सरोरुहम् ख पाठः |] || ७-१२९ || त्रिसूत्रं [त्रिशूलं ख पाठः |] वीक्ष्य जप्त्वा तु सततं शुद्धभावतः | सुखप्रसादं सुमुखं सुलोचनं सुहास्यदम् || ७-१३० || सुकेशं सुगतिं कन्दं सुगन्धं सुखमेव च | लभते च यथासंख्यं शृणु पार्वति सादरम् || ७-१३१ || महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूज्य च | तद् द्रुमोद् भवपुष्पेण पूजयेद् भक्तिभावतः || ७-१३२ || स भवेत् कुलदेवश्च कुलक्रमगतः शुचिः | ब्रह्मतरोर्महामूले देवीं ध्यात्वा यथाविधि || ७-१३३ || तत्सुधासारसारेण तर्पयेद् मातृकानने | स भवेत् साधकश्रेष्ठो मातॄणां च भवेत् प्रियः || ७-१३४ || महाचीनद्रुमलतावेष्टितः साधकोत्तमः | रात्रौ यदि जपेद् मन्त्रं सच [लता ख पाठः |] कल्पद्रुमो भवेत् || ७-१३५ || तिथिक्रमेण देवेशि लतया वेष्टितो भवेत् | तदा मासेन सिद्धिः स्यात् सहस्रजपमानतः || ७-१३६ || अष्टम्यां च चतुर्दश्यां द्विगुणं यदि जप्यते | तदैव महती सिद्धिर्देवानामपि दुर्लभा || ७-१३७ || महाचीनद्रुमे बीजं लिखित्वा कुङ्कुमेन च | तत्पार्श्वे साध्यमालिख्य ताडयद् दृष्टिवृष्टिभिः || ७-१३८ || (प्. १०५) तत्र गच्छति कामार्ता यत्र यत्रोपलभ्यते | महाचीनद्रुमरसेनाक्तं पिण्डं विधाय च || ७-१३९ || यन्नाम्ना दीयते देवि सोऽचिराद् मुक्तिमाप्नुयात् | महाचीनद्रुममूल-मज्जाभिर्बिल्वपत्रकैः || ७-१४० || सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः | तदा राज्यमवाप्नोति यदि सा न पलायते || ७-१४१ || तस्यापि षोडशांशेन कलां नार्हन्ति ते शवाः | शवासनाधिकफलं लतागेहप्रवेशनम् || ७-१४२ || धनकामस्तु यो विद्वान् महदैश्वर्यकामुकः | बृहस्पतिसमो यस्तु भवितुं कामयेद् नरः || ७-१४३ || अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य मन्त्रवित् | मैथुनं यः प्रयात्येवं स तु सर्वफलं लभेत् || ७-१४४ || लतारतेषु जप्तव्यं महापातकमुक्तये | लता यदि न संसर्गे तदा रेतः प्रयत्नतः || ७-१४५ || समुत्सार्य जपेद् मन्त्रं धर्मकामार्थसिद्धये | सुरतेषु प्रजप्तव्यं महापातकमुक्तये || ७-१४६ || वरासनस्थां संवीक्ष्य तन्मूले स्वेष्टदेवताम् | पूजयित्वा महारात्रौ त्रिदिनं पूजयेद् मनुम् || ७-१४७ || लक्षपीठफलं देवि लभते नात्र संशयः | वेतालपादुकासिद्धिः खड्गसिद्धिश्च जायते || ७-१४८ || अञ्जनं तिलकं गुप्तं प्रजप्य तु सहस्रकम् | स्वदेहरुधिराक्तैश्च बिल्वपत्रैः सहस्रकैः || ७-१४९ || श्मशानेऽभ्यर्च्य देवीं तु वागीशसमतां व्रजेत् | श्मशाने योषितं मन्त्री संपूज्य ऋतुगां शुभाम् || ७-१५० || (प्. १०६) रक्तचन्दनदिग्धाङ्गीं रक्तवस्त्रैरलङ्कृताम् | चारुपुष्पैर्मनुं प्रोच्य ततो ध्यायेच्च सुन्दरीम् || ७-१५१ || रमित्वा तां लभेद्राज्यं यदि नात्र पलायते | मेषमाहिषरक्तेन वाग्मित्वं तस्य जायते || ७-१५२ || ७- धनित्वं जायते तस्य सर्वसिद्धिः प्रजायते | वचसा च भवेज्जीवो धनेन च धनाधिपः || ७-१५३ || आज्ञया देवराजोऽसौ रूपेणैव मनोभवः | बलेन पवनो ह्येष सर्वतत्त्वार्थसाधकः || ७-१५४ || शोधितं साधितं दद्यात् सास्थि मांसं सदा बलिम् | सर्वं सास्थि प्रदातव्यं तथा लोमसमन्वितम् || ७-१५५ || एवंभूतः सदा देवि साधको भुवि दुर्लभः | यया कयाचित् दृष्ट्या वा यज्जपो भुवि दृश्यते || ७-१५६ || एतत् प्रकाशनात् देवि मृत्युर्भवति नान्यथा | एतत् साधकनिन्दां वा एतन्मन्त्रस्य वा पुनः || ७-१५७ || महाभूतगणैः सार्धं तस्य सर्वं हराम्यहम् | योगिनीचक्रसहिता स्वयं तद्वधकारिणी || ७-१५८ || रहस्यं शृणु देवेशि येन वाग्मी भवेत् सदा | यस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि || ७-१५९ || सारस्वतप्रयोगोऽयं कथितो विश्वमोहने | विशेषं कथयिष्यामि सावधानावधारय || ७-१६० || वीरतन्त्रे कथितं ते येन सर्वमयो भवेत् | जिह्वायां भावयेद् यस्तु तारिणीं दीपरूपिणीम् || ७-१६१ || मातृकासहितां विद्यां त्रिरावर्त्य जलं पिबेत् | जलपानविधानेन मूकोऽपि सुकविर्भवेत् || ७-१६२ || अजस्रभावनाभ्यासात् साधकः सुकृती सुधीः | कविर्वाग्मी महायोगी मुक्तिभागी भवेन्नरः || ७-१६३ || अब्दाच्चतुर्विधं तस्य पाण्डित्यमुपजायते | अथ वक्ष्ये महेशानि रहस्यं परमाद्भुतम् || ७-१६४ || युवतीनां तु योनौ तु लिखेद् मन्त्रान् मनोरमान् | संजप्य च महामन्त्रं सर्वसारस्वतप्रदम् || ७-१६५ || सहस्रजपमानेन प्रयोगं च समाचरेत् | पश्चाद् भ्रमणयोगेन ताडयेद् योनिमण्डलम् || ७-१६६ || सहस्रं च जपेत् तावद् यावद् रेतो न जायते | तेन तत्त्वेन देवेशि तर्पयेद् यतमानसः || ७-१६७ || कवित्वं जायते सुभ्रु वाग्मित्वं च तथैव च | पण्डि(त)त्वं महत्त्वं च जायते नात्र संशयः || ७-१६८ || रक्तपुष्पैर्महेशानि योनिपूजनमाचरेत् | युवतीरूपमास्थाय पूजयेद् बहुयत्नतः || ७-१६९ || घृणां त्यक्त्वा महेशानि पूजयेद् योनिमण्डलम् | रहस्यं शृणु चार्वङ्गि येन सिद्धो भवेद् मनुः || ७-१७० || (श्रीदेव्युवाच |) भगवन् भूतभव्येश भूताधिप महाबल | प्रसीद देवदेवेश सर्वप्राणिहिते रत || ७-१७१ || येनावश्यं भवेत् सिद्धिस्तदुपायं वद प्रभो | श्रीभैरव उवाच | शृणु देवि परं ज्ञानं सर्वज्ञानोत्तमोत्तमम् | येन विज्ञानमात्रेण शीघ्रं विद्या प्रसीदति || ७-१७२ || मूलकन्दे च या शक्तिर्जगदाधाररूपिणी | तद्भ्रमावर्तवातो यः प्राण इत्युच्यते बुधैः || ७-१७३ || (प्. १०८) झिल्लीशब्दा व्यक्ततरा कूजन्ती सततोत्थिता | गच्छन्ती ब्रह्मरन्ध्रेण प्रविशन्ती स्वकेतनम् || ७-१७४ || यातायातक्रमेणैव तत्र कुर्यान्मनोलयम् | तेन मन्त्रे शिखा जाता सर्वमन्त्रप्रदीपिका || ७-१७५ || तमःपूर्णे गृहे यद्वद् न किञ्चिदपि भासते | शिखाहीनास्तथा मन्त्रा न सिध्यन्ति कदाचन || ७-१७६ || शिखोपदेशः सर्वत्र गोपितः परमेश्वरि | तेन विना न सिद्धिः स्याद् वर्षकोटिशतैरपि || ७-१७७ || तस्मात् त्वयापि गिरिजे गोपनीयः प्रयत्नतः | सुप्ता निद्रायिता मत्ता विद्रावणरता परा || ७-१७८ || समस्तदोषजालेन ग्रथिता [रहिता येन ख पाठः |] कुलसुन्दरि | [स्वापे प्रहरे महानिशि चारो वामनाड्या वायोरुदयः | तथैव दक्षिणनाड्या वायोरुदये दिवाचारः | संध्याचारस्तु उभयनाडीप्रवाहः |] निशाचारं दिवाचारं सन्ध्याचारं च पल्लवम् || ७-१७९ || दुर्लभं बीजसंयुक्तं [संकेतं भावसंकेतं ख पाठः |] भावसंयोगमेव च | ज्ञात्वा प्रबोधयेद् वीरो गुरुस्तत्रैव कारणम् || ७-१८० || निशाचारे महेशानि विशेषं कथयामि ते | वामदक्षिणनासायामुदये देवि तत्त्वतः || ७-१८१ || स्वापकाले तु मन्त्राणां जपोऽनर्थफलप्रदः | स्वापकालो वामवाहो जागरो [प्रबोधो ख |] दक्षिणावहः || ७-१८२ || आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः | प्रबोधकालं जानीयाद् मन्त्रयोरुभयोरपि || ७-१८३ || कर्मणोर्वह्निताराद्याः वियत्प्रायाः समीरिताः | आग्न्येययोऽपि च सौम्याः स्युर्भूयिष्ठेन्द्वमृताक्षराः || ७-१८४ || (प्. १०९) एवं पञ्चाशदाग्नेययो विद्याः सौम्याः प्रकीर्तिताः | वामवाहो यदा वायुर्दीर्घाणां योजनं तदा || ७-१८५ || दक्षिणस्यां यदा वायुस्तदा ह्रस्वो नियोजितः | उभयस्थो यदा वायुस्तदा स्युरुभयात्मिकाः || ७-१८६ || प्रणवं मातृकादेवी हृल्लेखेत्यमृतत्रयम् | अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिद्ध्यति || ७-१८७ || एवं शृणु वरारोहे सर्वसारं मनूत्तमम् | नियमः पुरुषैर्ज्ञेयो न योषित्सु कदाचन || ७-१८८ || यद्वा तद्वा येन तेन सर्वतः सर्वतोऽपि च | योषितां ध्यानमात्रेण सिद्धयः स्युर्न संशयः || ७-१८९ || यथाऽयस्कान्तमात्रेण गूढविद्धशिलंत्वयः | स्वयमेव बहिर्याति यथा वा सौरतेजसा || ७-१९० || सूर्यकान्तः स्फुटं भाति यथा चन्द्रस्य रश्मिभिः | चन्द्रकान्तो द्रावयति यथा वर्षासु वारिदैः || ७-१९१ || जलसेकातितृप्ता भू रसपूर्णा प्रचक्षते | क्षुधार्तः क्षीरपानेन यथा तृप्तोऽभिजायते || ७-१९२ || पुष्पदर्शनमात्रेण गन्धर्वश्च सुखी भवेत् | कुलपुष्पप्रदानेन यथा शक्तिः प्रतुष्यति || ७-१९३ || गुरुसेवैकमात्रेण मन्त्रसिद्धिर्भवेद् यथा | महापद्मवनं ध्यात्वा यथा सिद्धिश्वरो भवेत् || ७-१९४ || त्रिपुराध्यानमात्रेण भुक्तिर्मुक्तिर्यथा भवेत् | महादुर्गाप्रसादेन यथा सिद्धीश्वरो भवेत् || ७-१९५ || युवतीध्यानमात्रेण यथा कुलपतिर्भवेत् | गङ्गास्मरणामात्रेण निष्पापो जायते यथा || ७-१९६ || (प्. १०९) तथा कर्षणमात्रेण शिव एव प्रजायते | कामाख्या योनिपूजायां यथा तुष्यति भैरवि || ७-१९७ || योषिच्चिन्तनमात्रेण तथैव वरदायिनी | तस्मात् सर्वप्रयत्नेन दीक्षयेद्(द्वि?नि)जकौलिकीम् || ७-१९८ || अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते | अनेनैव क्रमेणैव यः करोति क्रियां शुभाम् || ७-१९९ || तस्य वंशे महेशानि बृहस्पतिसमः पुमान् | जायते नात्र सन्देहः सत्यं सत्यं सुरार्चिते || ७-२०० || एकदा नारदं प्राप्य गौरी सर्वसुखान्विता | पप्रच्छ मधुरां भाषां शङ्करान्वेषणे रता || ७-२०१ || देवर्षिरब्रवीद् वाक्यं शृणु हे नगनन्दिनि | ताराप्रयोगमेतं हि येन सिद्धिर्भविष्यति || ७-२०२ || नारद उवाच | एकदेन्द्रः श्रिया भ्रष्टो विहाय चामरावतीम् | हिरण्याक्षपुरेऽगच्छत् सहितो देवसैन्यकैः || ७-२०३ || देवारिभिः समं तत्र विरोधः सुमहानभूत् | पराजितो देवराजो बृहस्पतिपुरोधसः || ७-२०४ || आश्रमे च पुनर्गत्वा विमृश्य विविधं शिवे | उवाच सादरं वाक्यं गुरुं प्राप्य जगद् गुरुम् || ७-२०५ || ७- (इन्द्र उवाच |) विश्वेषां पावनस्त्वं हि जगत् यस्मिंश्चराचरे | ब्रजामि शरणं देव रक्ष मां भगवन् यतः || ७-२०६ || उपायं ब्रूहि देवेश इन्द्रत्वं जायते यतः | केन रूपेण देवेश मम त्राणं भविष्यति || ७-२०७ || (प्. १११) बृहस्पतिरुवाच | देवेन्द्र शृणु मद्वाक्यं येन त्राणं भविष्यति | हिरण्याक्षपुरे देव दैत्याः सर्वारिमर्दकाः || ७-२०८ || तेषां पराभवं कर्तुं न क्षमो जगतीतले | कारणं शृणु देवेश येनैव शृणु मद्वचः || ७-२०९ || पुरा त्रेतायुगे राजन्नकरोर्नीलसाधनम् | तेन पुण्यफलेनैव इन्द्रत्वं गतवान् प्रिय || ७-२१० || कालीतारासाधनं च नानारूपेणवि(स्तरं?स्तृतम्) | अकरोद् दैत्यपुत्रोऽसौ तस्मात् पुण्यफलादिदम् || ७-२११ || येनोपायेन देवेश इन्द्रत्वं प्राप्स्यसि स्वयम् | तस्योपायं महाराज सावधानोऽवधारय || ७-२१२ || धर्मेण वर्धते नित्यमधर्मान्न विवर्धते | येन रूपेण देत्योऽसौ धर्मं संत्यजति द्रुतम् || ७-२१३ || तमुपायं जगद्वन्द्य(ब्रूहि?शृणु)सत्यं वचो मम | वृद्धब्राह्मणरूपेण वञ्चयामि सुरेश्वर || ७-२१४ || ततो विप्रो महान् भूत्वा वृद्धः पण्डितपावनः | सर्वशास्त्रार्थतत्त्वज्ञो हिरण्याक्षपुरं ययौ || ७-२१५ || शृणु वत्स महद् वाक्यं येन भद्रं भविष्यति | अहं तु सर्वशास्त्रज्ञो निर्धनत्वादिहागतः || ७-२१६ || वृत्तिं दत्त्वाध्यापकत्वमिति भिक्षा कृता मया | अध्यापकाय यो वृत्तिं दत्त्वाध्यापयति द्विजान् || ७-२१७ || किं न दत्तं भवेत् तेन धर्मकामार्थमिच्छता | पुण्यात् पुण्यतरं पुण्यं जानीहि सर्वसंमतम् || ७-२१८ || तथाऽस्त्विति वचः(श्रु?कृ)त्वा चाददद् वृत्तिमुत्तमाम् | अध्यापयामास द्विजान् दत्त्वा वृत्तिं मनोरमाम् || ७-२१९ || (प्. ११२) कुतर्कः शतशो देवि कृतस्तेन महीयसा | कुतर्केण महादेवि कुतर्कोऽयं महानपि || ७-२२० || मोहितो दैत्यराजेन्द्रो येन दानवपुङ्गवः | कृते कर्मणि भूमिस्थैः स्वर्गे तृप्तिः कथं भवेत् || ७-२२१ || तारिणी च महाकाली भवानी च महेश्वरी | तासां पूजा वृथा देव किमर्थं क्रियतेऽशुभा || ७-२२२ || एवं बहुविधेनैव कुतर्केण महानपि | मोहितो दैत्यराजोऽसौ धर्मं त्यक्त्वा महेश्व(री?रि) || ७-२२३ || अधर्मनिरताः सर्वे धर्मं त्यक्त्वा महेश्वरि | कालक्रमेण तेषां तु आपदः परमाः शुभे || ७-२२४ || ततो बृहस्पतिर्देवो देवराजगृहं ययौ | इन्द्राय सर्वमाचख्यौ दैत्यानां कर्मबन्धनम् || ७-२२५ || शृणु चैकाग्रमनसा येन ते कुशलं महत् | जायते नात्र संदेहो देवराज जगत्पते || ७-२२६ || तारिणीं कालिकां चैवान्नपूर्णां भैरवीं पराम् | संपूज्य विधिवद्भक्त्या सर्वसिद्धिर्भविष्यति || ७-२२७ || पूजाविधानं देवेश श्रोतुमर्हम्यसंशयम् | प्राङ्गने मध्यमे रात्रौ फाल्गुने मासि सुन्दर || ७-२२८ || चतुर्दिक्षु महेशान कदलीस्तम्भमुत्तमम् | आत्म(ने?नो)ऽग्रे च देवेश मण्डपं कारय प्रिय || ७-२२९ || चूताश्वत्थवटैर्दे(वि?व)च्छन्नं कुर्याच्च मण्डपम् | कुमारीवेष्टितं कुर्याद् मण्डपं सर्वमोहनम् || ७-२३० || तारामूर्तिं तथा कालीमूर्तिं वा देवराजक | सर्वकार्यप्रदां देव तां कुरुष्व महेश्वर || ७-२३१ || (प्. ११३) अन्नदामूर्तिमेतां हि कुरु वा सुरवन्दित | वटपत्रे महादेव्यै बलिं यत्नेन दापयेत् || ७-२३२ || आसनं कम्बलं दद्यात् स्वागतं मधुनिर्मितम् | पाद्यं तु पयसा दद्यादर्घ्यं दद्यात् कुशेन च || ७-२३३ || मधुपर्कं घृतेनैव जलेनाचमनीयकम् | तक्रेण स्नानमाचर्य वसनं लोहितं स्मृतम् || ७-२३४ || रजताभरणं दद्यात् सर्वदेवमनोहरम् | तण्डुलेन विना देव्यै नैवेद्यं दापयेत् प्रिय || ७-२३५ || चर्व्यं चोष्यं तथा लेह्यं पेयं दद्याद् मनोहरम् | रक्तचन्दनबीजैश्च जपेदष्टसहस्रकम् || ७-२३६ || शुक्लप्रतिपदारभ्यमष्टम्यां च समापयेत् | बलिं दद्याद् महादेव्यै छागेन महिषेण वा || ७-२३७ || अन्नं मत्स्यं तथा मांसं घृतं परमशोभनम् | पिष्टकं परमं द्रव्यं दद्याद् देव्यै मनोहरम् || ७-२३८ || होमयेद् देवदेवेश यथाशक्ति विधानतः | श्रीभैरव उवाच | कुमारीं पूजयेद् यत्नैर्द्रव्यैर्बहुविधैरपि || ७-२३९ || होमादिकं तु सकलं कुमारीपूजनं विना | परिपूर्णफलं नैव सकलं पूजनं भवेत् || ७-२४० || ततः सकलसिद्ध्यर्थं कुमारीं तु प्रपूजयेत् | आनयेत् कन्यकां योग्यां कुमारीं तु सुवासिनीम् || ७-२४१ || सुवासिनीं मदप्रौढां संशयं त्यज सुन्दरि | कथयामि न सन्देहः कुमारीपूजनं शुभम् || ७-२४२ || यस्याः पूजनमात्रेण त्रैलोक्यपूजनं भवेत् | कुमारी च महेशानि त्रिधा मूर्तिर्व्यवस्थिता || ७-२४३ || (प्. ११४) परापरात्मिका चैव तृतीया च परापरा | यत्र काले न किञ्चित् स्याद् देवासुरमहोरगाः || ७-२४४ || त्रैलोक्यं न त्वमहं तदा जाता कुमारिका | आद्यसृष्टिकरी या तु प्रत्यक्षा साभवत् त्रिधा || ७-२४५ || उमाकला तु सा जाता [देवी ख पाठः |] सृष्टिरूपा भवान्तरे | एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती || ७-२४६ || त्रिवर्षा च त्रिधा मूर्तिश्चतुर्वर्षा च कालिका | सुभगा पञ्चवर्षा च षड्वर्षा तु उमा भवेत् || ७-२४७ || सप्तभिर्मालिनी चैव अष्टवर्षा च कुब्जिका | नवभिः कालसङ्कर्षा दशभिश्चापराजिता || ७-२४८ || एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी | त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका || ७-२४९ || क्षेत्रज्ञा पञ्चदशभिः षोडशे चर्चिका मता | एवं क्रमेण संपूज्या यावत् पुष्पं न जायते || ७-२५० || प्रतिपदादि पूर्णान्तं वृद्धिभेदेन पूजयेत् | महापर्वसु सर्वेषु विशेषाच्च पवित्रके || ७-२५१ || महानवम्यां देवेशि कुमारीं च प्रपूजयेत् | पिङ्गलां पूजयेद् यस्तु षोडशे चैकभक्तिमान् || ७-२५२ || भक्तितः पूजयित्वा तु सर्वसंपत्तिमान् भवेत् | पूजयेत् कुलविद्यानामेकैकां कुलभैरवीम् || ७-२५३ || एवं प्रणवयोगेन चैतन्यं तत्त्वमर्चयेत् [मनुं ख पाठः |] | प्रणवस्य विशेषं हि जानीहि नगनन्दिनि || ७-२५४ || यज्ज्ञानात् साधकाः सर्वे भवन्ति मुक्तिभागिनः | योनिर्बिन्दुमती चैव मायाबीजं ततः परम् || ७-२५५ || (प्. ११५) ततो लक्ष्मीं समुच्चार्य कुर्याद् मायां महेश्वरि | [ऐं ह्रीं श्रीं हूं ह्रीं एते पञ्च प्रणवाः |] प्रणवाः पञ्च विख्याताः सर्वपापहराः शुभे || ७-२५६ || भैरवीबीजमाख्यातं प्रेतबीजं मनोहरम् | एकं द्वाभ्यां त्रिभिश्चैव सप्तभिर्वाष्टभिः पुनः || ७-२५७ || महाभयानि दुर्भिक्षाद्युत्पातानि कुलेश्वरि | दुःस्वप्नमपमृत्युश्च अन्ये ये ये समुद्भवाः || ७-२५८ || कुमारीपूजनादेव न तस्य प्रभवन्ति हि | नित्यक्रमेण देवेशि पूजयेद् विधिपूर्वकम् || ७-२५९ || घ्नन्ति विघ्नान् पूजितास्तास्तथा शत्रून् महोत्कटान् | व्याधयः सर्वरिष्टानि दुर्निमित्तान्यसंशयम् || ७-२६० || ग्रहा यक्षाः क्षयं यान्ति भूतवेतालपन्नगाः | असुरा गुह्यकाः प्रोक्ता योगिनी गुह्यडाकिनी || ७-२६१ || अणिमादीनि वेतालभैरवादीनि चैव हि | तुष्यन्ति दिव्यवेतालो भवेत् कुमारिकार्चनात् || ७-२६२ || ऐंकारेण जलं देयं ह्रींकारात् पादशोधनम् | श्रींकारेण महेशानि अर्घ्यं दद्याद् महेश्वरि || ७-२६३ || कूर्चबीजेन देवेशि दद्याच्चन्दनमुत्तमम् | शक्तिबीजेन पुष्पाणि सर्वैः धूपांश्च दापयेत् || ७-२६४ || वाग्भवं च ततो मायां सुन्दरीति ततः परम् | ङेऽन्तं पश्चिमवक्त्रं च हृदन्तेन न्यसेत् प्रि(य?ये) || ७-२६५ || योनियुक्तं शान्तवर्णो बिन्दुयुक्तःसुरार्चिते | कुमारिके पदं प्रोच्य शिरसे वह्निवल्लभा || ७-२६६ || वेदादिं च ततो मायां स्वबीजं तदनन्तरम् | शिखायै वषडित्युक्तं भैरवप्राणवन्दिते || ७-२६७ || (प्. ११६) प्रणवं काकिनीं चैव बिन्दुयुक्तां सनातनीम् | वागीश्वरी पदं चोक्त्वा कवचाय हुमीरितम् || ७-२६८ || मायाबीजं समुच्चार्य अस्त्राय फडिति क्रमात् | वाग्भवं च सिद्धि पदं जयाय तदनन्तरम् || ७-२६९ || पूर्ववक्त्राय देवेशि हृदन्तेन प्रपूजयेत् | पुनर्वाग्भवबीजं ङेयुतमुत्तरवक्त्रकम् || ७-२७० || नमोन्तेन महादेवि पूजयेत् सुरसुन्दरीम् | प्रणवं च महेशानि कालिके पदमन्तरम् || ७-२७१ || दक्षवक्त्राय तत्पश्चाद् नमोन्तं भैरवप्रिये | वाग्भवेन पुरक्षोभं मायाबीजे गुणाष्टकम् || ७-२७२ || श्रीबीजेन श्रियो लाभो ह्रींबीजेनारिसंक्षयः | भैरवेण तु बीजेन खड्गानामपराजितम् || ७-२७३ || कुमारिकाष्टकं वाथ सदा त्वं च कुमारिका | अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् || ७-२७४ || पूजिताः पूजयन्त्येता निर्दहन्त्यवमानिताः | कुमारी योगिनी साक्षात् कुमारी सर्वदेवताः || ७-२७५ || भूर्भुवर्मूर्तिका देवी कुमारी च प्रपूजिता | असुरा दुष्टनागाश्च ये ये दुष्टग्रहा अपि || ७-२७६ || भूतवेतालगन्धर्व डाकिनीयक्षराक्षसाः | हृदयं देवताः सर्वे भूर्भुवश्चैव भैरवि || ७-२७७ || पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ७-२७८ || ते तुष्टाः सर्वतुष्टाश्च कुमारीं यः प्रपूजयेत् | कालाग्निशिवपर्यन्तं तथा गौर्यादिसंस्थितिः || ७-२७९ || (प्. ११७) सप्तद्विपाः समुद्राश्च भुवनानि चतुर्दश | विधिना वै कुमारीं च भोजयेच्चैव भैरवीम् || ७-२८० || पाद्यमर्घ्यं तथा धूपं कुङ्कुमं चन्दनं तथा | भक्तिभावेन संपूज्य सर्वं त(स्य?स्या) निवेदयेत् || ७-२८१ || प्रदक्षिणत्रयं कुर्याद् आदौ मध्ये तथान्ततः | पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः || ७-२८२ || विवाहयेत् स्वयं कन्यां ब्रह्महत्या विनश्यति | गवां हत्या स्त्रिया हत्या सर्वं पापं प्रणश्यति || ७-२८३ || माता चैव पिता चैव भ्रातरश्च विशेषतः | ये च यत्र पुरः [पुनः ख पाठः |] सर्वे कन्यादानं प्रकल्पयेत् || ७-२८४ || भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसंपदः | रुद्रलोके वसेद् नित्यं त्रिनेत्रो [नियतो ख पाठः |] भगवान् हरः || ७-२८५ || षष्टिकोटिसहस्राणि अश्वमेधफलं लभेत् | एतत् फलं लभेद् मर्त्यः कन्यां यस्तु विवाहयेत् || ७-२८६ || बालुकाः सागरे यावत् तावदब्दं महेश्वरि | एकैकं कुलमुद्धृत्य सत्यकल्पे गतोऽपि च || ७-२८७ || तावत् स भुङ्क्ते भोगांश्च यावद्भूमिदिवौकसः | कन्यादानं महादानं सर्वदानेषु चोत्तमम् || ७-२८८ || दौर्भाग्यं नश्यति क्षिप्रं सौभाग्यं च प्रवर्धते | राजद्वारे लभेत् पूजां राजलक्ष्मीः स्थिरायते || ७-२८९ || सर्वाः कुमारिकाश्चैव पूजयेद् भक्तिभावतः | महाभये समुत्पन्ने यस्तु कन्यां प्रपूजयेत् || ७-२९० || तत्क्षणाल्लभते मोक्षं सत्यं सत्यं न संशयः | इति ते कथितं देवि कुमारीपूजनक्रमम् || ७-२९१ || (प्. ११८) विशेषलक्षणं चैव कथयिष्यामि संशृणु | तस्मात् परतरं नास्ति(म?त)न्त्रमध्ये महेश्वरि || ७-२९२ || कुमारीं पूजयित्वा च शिवत्वं गतवानहम् | कृष्णत्वं गतवान् कृष्णो ब्रह्मत्वं गतवान्(मुदा?विधिः) || ७-२९३ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (निग्रहादिप्रयोग कुमारीपूजाक्रमनिरूपणं) सप्तमः पटलः || ७ || अथ अष्टमः पटलः | श्रीभैरव उवाच | यन्त्रं शृणु वरारोहे येन सिद्ध्यति निश्चितम् | ततो लिखेद् यन्त्रराजं समस्तपुरुषार्थदम् || ८-१ || यस्य विज्ञानमात्रेण सद्यः खेचरतां व्रजेत् | आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्बहिर्न्यसेत् || ८-२ || बहिस्त्रिकोणमालिख्य षट्कोणं तद्बहिर्न्यसेत् | मध्ये तु वैन्दवं चक्रं मायाबीजविभूषितम् || ८-३ || षट्कोणं तद्बहिर्वृत्तं ततश्चाष्टदलं लिखेत् | बहिर्वृत्तेन संयुक्तं भूपुरेणैव संवृतम् || ८-४ || (प्. ११९) ज्ञात्वैवं मुक्तिमायाति यन्त्रमेतन्न संशयः | एतत् तु विलिखेत् ताम्रे कुण्डगोलविलेपिते || ८-५ || स्वयंभूकुसुमैर्युक्ते कुङ्कुमागुरुसंयुते | शुद्धासने च पशुभिरदृष्टे पुरतो न्यसेत् || ८-६ || अर्घ्यद्रव्यमर्घ्यपात्रे निक्षिपेत् पुरतः सुधीः | ततोऽर्घ्यं कारयेद् मन्त्री तया नार्या सुवेशया || ८-७ || कुण्डगोलोद्भवं द्रव्यं सुयंभूकुसुमं तथा | नाधर्मो जायते सुभ्रु महामन्त्रस्य साधने || ८-८ || ततो पीठक्रमेणैव यन्त्रपूजां समाचरेत् | ततो हृदयपद्मान्तः स्फुरन्तीं परमेश्वरीम् || ८-९ || सुषुम्नावर्त्मना नीत्वा शिरःस्थानं महेश्वरि | ततो वै स्वकराम्भोजपुष्पराशौ समानयेत् || ८-१० || नासया वामया देवि वायुबीजेन मन्त्रवित् | देवेशि भक्तिसुलभे परिवारसमन्विते || ८-११ || यावत् त्वां पूजयिष्यामि मातर्देवि इहावह | इत्यनेन च मन्त्रेण देवीमावाहयेत् सुधीः || ८-१२ || आवाह्य देवीं तामिष्ट्वा चोपचारैर्निवेश्य च | कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् || ८-१३ || विप्रचित्तां पूजयेच्च बहिः षट्कोणके तथा | उग्रामुग्रप्रभां दीप्तां तन्मध्ये च त्रिकोणके || ८-१४ || मात्रां मुद्रां मितां चैव पूजयेदपर त्रिके | सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः || ८-१५ || तर्जनीं वामहस्तेन धारयन्त्यो दिगम्बराः | देवतादक्षिणे भागे महाकालं समर्चयेत् || ८-१६ || (प्. १२०) ततः स्तुत्वा नमस्कृत्य कुर्यात् संमेलनं धिया | देवताग्रे तु संभोगं देवताप्रीतिकारकम् || ८-१७ || संभोगं तु पुरस्कृत्य देवीमीह विसृज्य च | कृतकृत्यो भवेन्मन्त्री नात्र कार्या विचारणा || ८-१८ || इदानीं शृणु देवेशि उपचारान् विशेषतः | प्रथमं तु सुरा पूज्या माध्वी गौडी तथैव च || ८-१९ || पैष्टी तस्या अभावेन आतिदेशिकमाचरेत् | नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु || ८-२० || गव्यं च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना | ताम्बूलं च सकर्पूरं नारिकेलं सशर्करम् || ८-२१ || पायसं सघृतं चैव आर्द्रकं सगुडं तथा | तण्डुलं सतिलं चैव तालं खर्जूरमेव च || ८-२२ || कदलीं तिन्तिडीं चैव श्रीफलं फलमुत्तमम् | अन्यानि च सुगन्धीनि स्वादूनि च फलानि च || ८-२३ || नरश्छागस्तथा मेषो महिषः शशकस्तथा | शरभः शूकरश्चैव बलयः परिकीर्तिताः || ८-२४ || कृष्णमार्जारकश्चैव ज्ञातव्या मन्त्रवित्तमैः | एतेषां चैव रक्तानि देयानि परमेश्वरि || ८-२५ || जलं सुवासितं देयं कुलक्षालनमेव च | नैवेद्यानि प्रधानानि कथितानि मया प्रिये || ८-२६ || येन संतुष्यते देवि कुमारी वरवर्णिनी | तं दद्यात् परमेशानि किमन्यच्च्रोतुमिच्छसि || ८-२७ || पुष्पितायाः कुलागारं स्पृष्ट्वा जपति यो नरः | अयुतैकप्रमाणेन साधकः स्थिरमानसः || ८-२८ || (प्. १२१) केवलं शुद्धभावेन स तु विद्यानिधिर्भवेत् | संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तथा || ८-२९ || वशमायान्ति ते सर्वे साधकस्य न चान्यथा | मुक्तकेशो हविष्याशी प्रजपेदयुतं नरः || ८-३० || नग्नां परस्त्रियं स्पृष्ट्वा प्रजपेत् स्थिरमानसः | तस्यालोकनमात्रेण वादिनो निष्प्रभां गताः || ८-३१ || राजानोऽपि च दासत्वं भजन्ते किं परे जनाः | धनकामस्तु यो विद्वान् महदैश्वर्यकामुकः || ८-३२ || बृहस्पतिसमो यस्तु भवितुं कामयेन्नरः | सुन्दरीं यौवनोन्मत्तां नारीमानीय यत्नतः || ८-३३ || अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य मन्त्रवित् | मैथुनं यः करोत्येव स तु विद्यानिधिर्भवेत् || ८-३४ || विपरीतरता सा तु भुवि श्रीर्हृदयोपरि | तन्मुखे चुम्बनं दत्त्वा सहस्रं मानसं जपेत् || ८-३५ || स भवेत् सर्वसिद्धीशो नात्रकार्या विचारणा | सर्वेषां साधनानां हि श्रेष्ठं स्यात् कुलसाधनम् || ८-३६ || तस्मात् सर्वप्रयत्नेन साधयेत् तं समाहितः | इदानीं शृणु देवेशि रहस्यमिदमुत्तमम् || ८-३७ || पुरा दारुवने रम्ये उन्मत्ता रागमोहिताः | परस्त्रियं घर्षयन्ति मद्यं स्वादन्ति नित्यशः || ८-३८ || तद् दृष्ट्वानुचितं कर्म विष्णुना समुपस्थितम् | श्रीविष्णुरुवाच | देवदेव महादेव सर्वदेव दयानिधे || ८-३९ || देवदारुवने पापा मद्यपानरतातुराः | परस्त्रियं घर्षयन्ति मुनयो रागमोहिताः || ८-४० || (प्. १२२) दिगम्बरास्तथा मूढाः संप्रयास्यन्ति कां गतिम् | इति तस्य वचः श्रुत्वा तमुवाच त्वहं प्रिये || ८-४१ || कालिका या महाविद्या ह्यनिरुद्धसरस्वती | विद्याराज्ञीति या प्रोक्ता एते तन्मन्त्रजापकाः || ८-४२ || परं मुक्ता भविष्यन्ति तद्गायत्रीं जपन्ति च | एतस्यास्तु प्रभावेण सर्वे देवा विमोचिताः || ८-४३ || निजमातृवधात् सोऽपि परशुरामो विमोचितः | दत्तात्रेयश्चात्रिपुत्रः सुरापानाद् विमोचितः || ८-४४ || गोतमस्त्रीघर्षणाच्च देवेन्द्रोऽपि विमोचितः | चाण्डालीगमनात् पूर्वं वशिष्ठश्च विमोचितः || ८-४५ || गुरुदाराघर्षणाच्च चन्द्रमाश्च विमोचितः | ब्रह्मणस्तु शिरश्छेदाच् शिवः सोऽहं विमोचितः || ८-४६ || रावणस्य वधाच्चापि रामचन्द्रो विमोचितः | तमेव गूढं वक्ष्यामि श्रुत्वा गोप्यः सदा बुधैः || ८-४७ || कालिकायै पदं चोक्त्वा विद्महे तदनन्तरम् | ततः श्मशानवासिन्यै धीमहीति पदं ततः || ८-४८ || तन्नो घोरी पदं चोक्त्वा ततः कामः प्रचोदयात् | एषा तु कालीगायत्री दशधा जप्तयानया || ८-४९ || ब्रह्महत्यादिपापानि खण्डं खण्डं व्रजन्ति हि | अनया सदृशी विद्या अनेन सदृशो जपः || ८-५० || अनेन सदृशं ज्ञानं न भूतं न भविष्यति | अन्यच्च शृणु देवेशि यथा पानादिकर्मणि || ८-५१ || कुमारीसाधनादीनि अनया साधयेच्छुभे | लीलया च महेशानि सिद्धिर्भवति निश्चितम् || ८-५२ || (प्. १२३) नटी कापालिनी वेश्या रजकी ब्राह्मणी शुभा | शूद्रकन्या विशः स्त्री च क्षत्रि(यी?या) सर्वदायिनी || ८-५३ || एतासां कांश्चिदानीय ततस्तद्योनिमण्डले | पूजयित्वा महादेवीं ततो मैथुनमाचरेत् || ८-५४ || धर्माधर्महविर्दी(प्ता?प्ते) आत्माग्नौ मनसा स्रुचा | सुषुम्नावर्त्मना नित्यमक्षवृत्तिर्जुहोम्यहम् || ८-५५ || स्वाहान्तोऽयं महामन्त्र आरम्भे परिकीर्तितः | प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचम् || ८-५६ || धर्माधर्मफल[कला ख पाठः |]स्नेहपूर्णां वह्नौ जुहोम्यहम् | स्वाहान्तोऽयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः || ८-५७ || ततो गच्छेत् प्रियां गच्छन् देवीं त्रिभुवनेश्वरीम् | तच्छ्रुत्वा वचनं विष्णुर्मां पुनरभ्यभाषत || ८-५८ || नमोऽस्तु ते महादेव सर्वतन्त्रात्मरूपिणे | त्वत् प्रसादादयं देव संशयो मे महान् गतः || ८-५९ || अनुजानीहि देवेश गमिष्यामि यथासुखम् | ततो मयाभ्यनुज्ञातः प्रणम्य च यथाविधि || ८-६० || ययौ स्वभवनं विष्णुरेतत् ते कथितं प्रिये | इदानीं शृणु देवेशि मन्त्रराजं मनोरमम् || ८-६१ || अत्र श्रीमन्त्रराजस्य माहात्म्यं शृणु पार्वति | श्रद्धया यत्र देवेशि परां मुक्तिमवाप्स्यति || ८-६२ || अश्वमेधैश्च गोमेधैर्नरमेधैस्तथा परैः | दानैश्च विविधैर्द्रव्यैर्होमैर्नानाविधैरपि || ८-६३ || अनेकजन्मसाहस्रैस्तपोभिः प्राप्यते परा | विद्याराज्ञी घोरकाली अनिरुद्धसरस्वती || ८-६४ || (प्. १२४) ज्ञात्वैव मुक्तिमाप्नोति किं पुनः कथ्यते परम् | अस्य ज्ञानप्रभावेण सिद्धयोऽष्टौ भवन्ति हि || ८-६५ || मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते | तस्यालोकनमात्रेण वादिनो निष्प्रभा मताः || ८-६६ || राजानोऽपि च दासत्वं भजन्ते किं परे जनाः | वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः || ८-६७ || दिवारात्रिव्यत्ययं च वशीकर्तुं क्षमो भवेत् | बृहस्पतिसमो वाग्मी सुकविर्भार्गवो भवेत् || ८-६८ || धने कुबेरसदृशस्तेजसा भास्करोपमः | बलेन सदृशो रामे विष्णुतुल्यपराक्रमः || ८-६९ || ब्रह्महत्यासुरापानस्तेयगुर्वङ्गनागमात् | सद्यो निर्दोषमायाति मन्त्रस्यास्य प्रसादतः || ८-७० || एवं संक्षेपतो वक्ष्ये नास्ति मन्त्रसमोऽधुना | सौरे च गाणपत्ये च चान्द्रे वैष्णव एव च || ८-७१ || नान्यद् विस्तरतो वक्तुं शक्यते परमेश्वरि | वक्त्रैः कोटिसहस्रैस्तज्जिह्वाकोटिशतैरपि || ८-७२ || निजमुद्धृत्य देवेशि आगस्करं द्वितीयकम् | वाणीं चैव महेशानि वर्णत्रयमुदाहृतम् || ८-७३ || अनेन मन्त्रराजेन सदृशं नापरं प्रिये | तव स्नेहाद् वरारोहे प्रकाशमुपपादितम् || ८-७४ || न वक्तव्यं न वक्तव्यं न वक्तव्यं महेश्वरि | तव स्नेहेन कथितं प्राणवद्धि सुरेश्वरि || ८-७५ || कुमारीपूजनेनैव दक्षिणाविधिरुत्तमा | कथिता देवि भद्रं ते अप्रकाश्यं प्रकाशितम् || ८-७६ || (प्. १२५) पूजाविधिरयं प्रोक्तः कुत्र वा पूज्यते शिवा | कुत्र वा ध्यायते देवी तं शृणुष्व महेश्वरि || ८-७७ || कामरूपे पूर्णगिरौ कोङ्कटे चोड्डीयानके | वाराणस्यां तु लौहित्ये करतोयानदीजले || ८-७८ || आर्यावर्ते प्रयागे च ब्रह्मावर्ते तथैव च | अनन्तफलदा पूजा सर्वत्रैव जले स्थले || ८-७९ || तदभावे शुन्यगेहे सिन्दूरादिविलेपिते | कर्त्रिशूलधनुःखड्ग-घण्टाचामरकादिभिः || ८-८० || वितानध्वजसंकीर्णे कृष्णागुरुसुधूपिते | सुदतीनां सुकेशीनां वेश्यानां गानशोभिते || ८-८१ || घण्टानादरवाकीर्णे दीपावलीपरिष्कृते | एवं भूतगृहे पूज्या तारा चैव सुशोभना || ८-८२ || श्मशाने च सदा पूज्या पीठादप्यधिका मता | तारिण्यास्तु श्मशानात् तु नान्यत् स्थानं प्रशस्यते || ८-८३ || तस्माच् श्मशाने पूजा च कर्तव्या भूतिलिप्सुभिः | गायत्री या पुरा प्रोक्ता ब्रह्मज्ञानस्वरूपिणी || ८-८४ || श्रीकृष्णश्च ऋषिस्तस्या गायत्री च्छन्द उच्यते | शिवशक्तिस्वरूपा हि देवता परिकीर्तिता || ८-८५ || अतः परं प्रवक्ष्यामि येनाशु फलमाप्नुयात् | ब्राह्मे मुहूर्ते उत्थाय ताम्बूलपूरिताननः || ८-८६ || खड्गहस्तः सुवाढ्यां तु दद्याद् मांसान्वितं बलिम् | पूजयित्वा यथान्यायं तत आनीय सुन्दरीम् || ८-८७ || कामिनीं यौवनोन्मत्तां सुवेशां चारुहासिनीम् | कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः || ८-८८ || (प्. १२६) यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते | तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत् || ८-८९ || स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् | स्त्रीमेलनं सदा कुर्यात् सुन्दरीभिर्विशेषतः || ८-९० || तासां प्रहारो निन्दा च कौटिल्यमप्रियं ततः | सर्वथा नैव कर्तव्यमन्यथा सिद्धिरोधकृत् || ८-९१ || तद्धस्तारचितं भोज्यं दैवतायै निवेदयेत् | प्रातःकृत्यं ततः कृत्वा स्नात्वा चिरं यथाविधि || ८-९२ || प्रयोगेण समागम्य कपालान्तःस्थले विशेत् | दिक्कालनियमो नास्ति स्थित्यादिनियमो नच || ८-९३ || न जपे कालनियमो नार्चनादिबलिष्वपि | स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने || ८-९४ || पूजयेद् विविधैः पुष्पैस्तुलसीवर्जितैः शुभैः | एवं संपूज्य विधिवत् सञ्जपेत् परमेश्वरीम् || ८-९५ || निशायां पूजयेद् देवीं जपेच्च प्रयतो नरः | सिन्दूरभूषणो नित्यं तथा चैव दिगम्बरः || ८-९६ || नारीं दिगम्बरीं कृत्वा विपरीतरतो भवेत् | अभिघातं चुम्बनं च कुर्यात् स्वाभीष्टसिद्धये || ८-९७ || निर्लज्जाकामबाणेन घृष्टं स्यात् मन्दिरं धनुः | तस्मिन् काले साधकेन्द्रो जपेत् संशुद्धमानसः || ८-९८ || संभोगं च स्वयं कुर्वञ्जपेत् सारस्वतप्रदाम् | तस्माद् भाव्या महेशानि कथिता देवदुर्लभा || ८-९९ || यस्याः प्रसादमासाद्य कलयामि जगत् त्रयम् | शिवशक्त्यात्मिका देवी अनिरुद्धसरस्वती | यां ज्ञात्वा मुक्तिमाप्नोति किमन्यत् कथयामि ते || ८-१०० || (प्. १२७) (श्रीदेव्युवाच |) इदानीं(शृणु?देव)कस्यास्ति घोरे कलियुगे शुभे | प्राधान्यं परमेशान तद्वदस्व सदाशिव || ८-१०१ || श्रीभैरव उवाच | कलिनाम्नि युगे देवि प्रधानां तारिणीं शुभाम् | कालीं चैव महेशानि अनिरुद्धसरस्वतीम् || ८-१०२ || श्मशानकालिकायास्तु प्राधान्यं शृणु भैरवि | सर्वसिद्धेः कारणं हि अनिरुद्धसरस्वती || ८-१०३ || तस्या मन्त्रेण मन्त्री स्यात् सर्वसिद्धिफलप्रदः | तारामन्त्रं पूर्वमुक्तं कालीमन्त्रं शृणुष्व मे || ८-१०४ || मायाद्वन्द्वं कूर्चयुग्मं निजबीजत्रयं तथा [त्रयं त्रयम् ख पाठः |] | दक्षिणे कालिके चेति संहारक्रमतः शुभे || ८-१०५ || पूर्वबीजानि चोद्धृत्य स्वाहान्तोऽयं मनुः स्मृतः | विद्याराज्ञीति विख्याता मन्त्रश्च कल्पपादपः || ८-१०६ || अस्मात् परतरं नास्ति कालीमन्त्रं मनोरमम् | तस्मात् सर्वप्रयत्नेन मन्त्रराजं शृणुष्व मे || ८-१०७ || मन्त्रस्य ज्ञानमात्रेण जीवन्मुक्तश्च साधकः | एषा विद्या(रहस्या तु) पूजने जपने तथा || ८-१०८ || ध्यानं तथा कुलाचारे सर्वविद्यागमेषु च | उच्चाटनं मारणं च वशीकरणमुत्तमम् || ८-१०९ || आकर्षणं स्तम्भनं च विद्वेषणमतः परम् | अनया साधयेद् देवि सिद्ध्यत्येव न संशयः || ८-११० || पूजां च विविधां कुर्यात् स्वशाखोक्तक्रमेण च | रक्तपुष्पैः पूजयित्वा सहस्रं होमयेदथ || ८-१११ || (प्. १२८) सा तु काममयी नारी निर्लज्जा काममोहिता | स्वयं(सान्त्याष्य?सन्त्यज्य)भर्तारं साधकं गच्छति ध्रुवम् || ८-११२ || अयुतं च जपेद् देवि ध्यात्वा देवीं दिगम्बरीम् | स्थावरा जङ्गमाश्चैव पातालतलगा अपि || ८-११३ || आकर्ष्यति मन्त्री च तत्क्षणाद् भुवि संस्थिताः | जप्त्वा देवीं श्मशाने च ध्यात्वा देवीं दिगम्बरीम् || ८-११४ || तद्भस्मलेपनं कुर्यात् ततः संहरते जगत् | श्वेतापराजितापुष्पैः पुजयेद् भक्तिभावतः || ८-११५ || हुत्वायुतं श्मशानेऽपि विश्वमुच्चाटयेद् ध्रुवम् | नारीं नग्नां श्मशाने च स्पृष्ट्वा च योनिमण्डलम् || ८-११६ || जपित्वा च वशीकुर्याद् यदि सा न पलायते | कृष्णपुष्पैः पूजयित्वा ध्यात्वा चैव दिगम्बरीम् || ८-११७ || जप्त्वायुतं श्मशानस्थः शत्रूणां मारणं चरेत् | कालीकल्पस्वरूपं च कथितं सुन्दरि प्रिये || ८-११८ || गोपने सर्वसिद्धिः स्याद् नात्र कार्या विचारणा | यथा काली तथा नीला चानिरुद्धसरस्वती || ८-११९ || तस्माच्च कथिता विद्या काली काली(कलौ युगे) | रहस्यं शृणु चार्वङ्गि कुण्डल्याश्चक्रनिर्णये || ८-१२० || आसनं जीवनस्येदममृतं देहरक्षकम् | निर्गुणं शाम्भवं चक्रं त्रिविधं शृणु पार्वति || ८-१२१ || येन विज्ञानमात्रेण ध्रुवं ज्योतिर्मयो भवेत् | इडापिङ्गलयोर्मध्ये वर्णाश्च ज्योतीरूपिणः || ८-१२२ || ज्योतीरूपाणि चक्राणि ज्योतीरूपा च कुण्डली | चन्द्रतः सूर्यपर्यन्तं चक्राण्यत्र चतुर्दश || ८-१२३ || (प्. १२९) अत्रास्ति कुण्डलीशक्तिर्बीजरूपा निराकृतिः | परेयं कुण्डलीशक्तिश्चन्द्रमण्डलवर्तिनी || ८-१२४ || इमं भेदं महेशानि यो जानाति स योगवित् | दलं कोशं तथा वर्णं तथैव चक्रदेवताः || ८-१२५ || तथैव पूर्ववज्ज्ञेयं सर्वचक्रेष्वयं विधिः | चन्द्रतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश || ८-१२६ || परापरेति विख्याता कुण्डली जीवसंज्ञका | सूर्यतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश || ८-१२७ || परमेष्ठी समाख्याता सूर्यमण्डलवर्तिनी | नराकारस्वरूपेयं परज्योतिःस्वरूपिणी || ८-१२८ || गोलकान्तर्ग(तो?ता)देवी ज्योतिर्बिन्दुसमाश्रिता | अत्रास्ति गोलकं चक्रं गोलोक इव दृश्यते || ८-१२९ || इयं नारायणी काली तारा शून्यनिवासिनी | सुन्दरी रक्तकाली च महिषमर्दिनी तथा || ८-१३० || मन(सः?सा)कल्पि(तो?ता)मूर्तिस्तेजोरूपाऽपरा च सा | परमात्मैव रामोऽयं महाविष्णुर्महाशिवः || ८-१३१ || निरञ्जनस्वरूपोऽयं कृष्णरूपा च तारिणी | आत्मप्रकाशिनी नित्या नित्यानन्दस्वरूपिणी || ८-१३२ || तस्या मन्त्राणि सुभगे मम मन्त्राणि यानि तु | पूर्वाम्नायविधानेन शीघ्रकामफलप्रदा || ८-१३३ || नानापापहरा देवी वीरस्तद्गतमानसः | तत्त्वभावं समासाद्य फलतत्त्वं लभेन्नरः || ८-१३४ || तव मन्त्राणि देवेशि सर्वार्थदायकानि च | यथा स्वयंभुवा देवाश्चत्वारः परिकीर्तिताः || ८-१३५ || (प्. १३०) ज्ञातव्याश्च प्रसिद्धाश्च पारम्पर्योपदेशतः | पर्यायतोऽपि विज्ञेयाः श्रुतिवाङ्मयभेदतः || ८-१३६ || तथा त्वयि मया प्रोक्ताः षडाम्नायाश्च सन्निधौ | स चाम्नायः श्रुतिर्ज्ञेयः श्रुतिश्च वेद उच्यते || ८-१३७ || अतस्त्वयापि गिरिजे गोपनीयः स्वयोनिवत् | अत ऊर्ध्वं तु सुभगे रहस्यं परमं शृणु || ८-१३८ || महामन्त्री यदा देवि साधको दैवयोगतः | तत्र कस्य जपं कुर्यात् पूजनादिकमेव च || ८-१३९ || सर्वदेवनमस्कारं नित्यं कुर्यात् प्रयत्नतः | जपादिकं तु तस्यैव यत्र शङ्काभिजायते || ८-१४० || गुरोर्गृहीतमन्त्रस्य प्रजपत्यपि साधकः | भ्रष्टाचारं प्रमादाद्वा आलस्याद्वापि सुन्दरि || ८-१४१ || शङ्करस्य गृहीतस्य कथितं यत्र कुत्रचित् | हीनवीर्यमवाप्नोति मन्त्रादिश्च वरानने || ८-१४२ || इत्यादिदोषनाशार्थं विधानं शृणु सांप्रतम् | प्रथमं जननं नाम जीवनं तु द्वितीयकम् || ८-१४३ || तृतीयं ताडनं देवि चतुर्थं बोधनं तथा | पञ्चमं त्वभिषेकस्तु विमलीकरणं तथा || ८-१४४ || आप्यायनं सप्तमं तु अष्टमं तर्पणं स्मृतम् | नवमं दीपनं प्रोक्तं दशमं गोपनं मतम् || ८-१४५ || मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् | प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः || ८-१४६ || स्वरव्यञ्जनभेदेन जीवनं तदुदाहृतम् | मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा || ८-१४७ || (प्. १३१) प्रत्येकं वायुबीजेन ताडनं नाम(तः?तत्) शृणु | मन्त्रं विलिख्य विधिवत् प्रसूनैः करवीरजैः || ८-१४८ || तन्मन्त्राक्षरसंख्यातैर्हन्याद्रेफेण बोधनम् | स्वतन्त्रोक्तविधानेन तदा मन्त्रार्णसंख्यया || ८-१४९ || अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये | संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् || ८-१५० || मन्त्रे मलत्रयं देवि विमलीकरणात्मकम् | तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः || ८-१५१ || कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षयेद् मनोः | तेन मन्त्रेण विधिवदेतदाप्यायनं मतम् || ८-१५२ || मनुना वारिणा पात्रे तर्पणं तर्पणं भवेत् | तारमायारमायोगाद् मनोर्दीपनमुच्यते || ८-१५३ || जप्यमानस्य मन्त्रस्य गोपनं चाप्रकाशनम् | एते च दश संस्काराः सर्वतन्त्रेषु गोपिताः || ८-१५४ || एतान् कृत्वा जपेद् मन्त्रं सदा परहितं प्रिये | निर्गुणं यत् परं ब्रह्म ज्योतीरूपं निराकृति || ८-१५५ || साकारं यदि जायेत सर्वदेहेषु देवता | रूपत्रयं सदा भूत्वा देहिनां देहभेदतः || ८-१५६ || भगाकारं च यद् ब्रह्म लिङ्गाकारस्वरूपतः | केचित् सेवन्ति सुभगे लिङ्गाकारस्य सर्वदा || ८-१५७ || भगाकारं च सेवन्ते विविधा ज्ञानिनः सदा | स्त्रीजातिरूपा सर्वत्र सर्वदेहेषु जानता || ८-१५८ || (या?सा) शक्तिरूपा विज्ञेया पुरुषः शिवरूपधृक् | तत्र तेषां विशेषार्थं नरदेहे वरानने || ८-१५९ || (प्. १३२) शक्तिः शिवश्च विज्ञेयो मम संकेतमुत्तमम् | भगं कुण्डं च सुभगे स्रुवं लिङ्गं प्रकीर्तितम् || ८-१६० || ऋतुरग्निश्च सुभगे गर्तमध्ये च क्षेपणम् | आज्यरूपं मतं शुक्रं मनो होता प्रकीर्तितः || ८-१६१ || फलरूपं च तत्रैव नानासंसारकामनाः | विज्ञाय चैवं यो मन्त्री मनुश्च पीठब्रह्मवत् || ८-१६२ || नित्यं च होमयेद् देवि तस्य रूपमनन्तकम् | यं यं कामादिकं देवि मनसा चिन्त्य कारयेत् || ८-१६३ || न दोषगुणविज्ञेयो (यं यं?तं तं) काममवाप्नुयात् | यथोक्तदेवतायाश्च यथोक्तफलमश्नुते || ८-१६४ || आयुर्लक्ष्मीं यशो देवि कीर्तिं च मोक्षमाप्नुयात् | गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् || ८-१६५ || गोप्या गोप्या पुनर्गोप्या जननीजारगर्भवत् | इति ते कथितं सम्यक् संस्कारक्रममुत्तमम् || ८-१६६ || इदानीं शाम्भवं चक्रं त्रिविधं शृणु पार्वति | येन विज्ञानमात्रेण ध्रुवं ज्योतिर्मयो भवेत् || ८-१६७ || इडापिङ्गलयोर्मध्ये वर्णाश्च ज्योतीरूपिणः | ज्योतीरूपाणि चक्राणि ज्योतीरूपा च कुण्डली || ८-१६८ || चन्द्रतः सूर्यपर्यन्तं चक्राण्यत्र चतुर्दश | तत्रास्ति कुण्डलीशक्तिर्बीजरूपा निराकृतिः || ८-१६९ || पारेयं कुण्डलीशक्तिश्चन्द्रमण्डलवर्तिनी | इमं भेदं महेशानि यो जानाति स योगवित् || ८-१७० || दलं कोषं तथा वर्णं तथैव च(न्द्र?क्र)देवताः | तथैव पूर्ववज्ज्ञेयः सर्वचक्रेष्वयं विधिः || ८-१७१ || (प्. १३३) चन्द्रतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश | परापरेति विख्याता कुण्डली जीवसंज्ञका || ८-१७२ || सूर्यतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश | परमेष्ठी समाख्याता सूर्यमण्डलवर्तिनी || ८-१७३ || नराकारस्वरूपेयं परज्योतिःस्वरूपिणी | गोलकान्तर्गता देवी ज्योतिर्बिन्दुसमाश्रिता || ८-१७४ || अत्रास्ति गोलकं चक्रं गोलोक इव दृश्यते | इयं नारायणी काली तारा स्याच्छून्यवासिनी || ८-१७५ || सुन्दरी रक्तकालीयं भैरवी नादिनी तथा | मन(सः?सा)कल्पिता मूर्तिस्तेजोरूपा परापरा || ८-१७६ || परमात्मैव रामोऽयं महाविष्णुर्महाशिवः | निरञ्जनस्वरूपोऽयं कृष्णरूपा च तारिणी || ८-१७७ || आत्मप्रकाशिनी देवी नित्यानन्दस्वरूपिणी | इति ते कथितं देवि रहस्यं परमाद्भुतम् || ८-१७८ || अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि | इदानीं शृणु देवेशि परं ब्रह्मस्वरूपकम् || ८-१७९ || प्राणस्तु परमेशानि आत्मज्ञानं शुचिस्मिते | यस्तु प्राणो महेशानि स जीवः परिकीर्तितः || ८-१८० || प्रदीपकलिकाकारो हृदये विद्यते प्रिये | परं ब्रह्म महेशानि प्रदीपकलिकाकृति || ८-१८१ || आत्मान्तरात्मा देवेशि सर्वेषां हृदि वर्तते | अन्तरात्मा परं ब्रह्म शरीरं व्याप्य तिष्ठति || ८-१८२ || द्वये तेजो वरारोहे शक्तिं प्रकृतिरूपिणीम् | प्राणायामस्य काले तु दृष्ट्वाश्चर्यं वरानने || ८-१८३ || (प्. १३४) यद् दृष्टं परमं गुह्यं तन्निशामय योगिनि | आत्मा ब्रह्मसमो भूत्वा यद् दृष्टं परमेश्वरि || ८-१८४ || तदक्षरं महेशानि दृष्टमानन्दमद्भुतम् | मनो मया महेशानि कृत्वा तत्रैव पार्वति || ८-१८५ || सुधार्णवे महेशानि मग्नो भूत्वा वरानने | लक्षवर्षं महेशानि निर्गतं परमेश्वरि || ८-१८६ || प्राणायामक्षणे देवि लक्षवर्षं गतं मम | यद् दृष्टं परमेशानि निर्दिष्टं तच्छृणु प्रिये || ८-१८७ || नातः परतरं किञ्चिद् विद्यते मम गोचरे | पर्यङ्कं परमेशानि आश्चर्यं परमाद्भुतम् || ८-१८८ || पयःफेननिभा शयया नानारत्नविभूषिता | या शयया परमेशानि स एव श्रीसदाशिवः || ८-१८९ || तत्रोपरि महेशानि सूक्ष्मां त्रिपुरसुन्दरीम् | जपायावकसिन्दूर सदृशाकृतिरूपिणीम् || ८-१९० || चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् | वरदाभयहस्तां च धारिणीं परमेश्वरीम् || ८-१९१ || दृष्ट्वानन्दमयीं लोलां लक्षवर्षं गतं मम | यदा तु परमेशानि मम दृग् गोचरं गतः || ८-१९२ || तदैव सहसा तत्र सूक्ष्मरूपत्वमागतः | ध्यानभङ्गे महेशानि तदैव मम सुन्दरि || ८-१९३ || तत्रैव दृष्टं ब्रह्माण्डं ब्रह्माद्यास्त्रिदिवौकसः | शक्तिं विना महेशानि नास्ति किञ्चिद् मम प्रिये || ८-१९४ || शक्तिर्हि ब्रह्मणो रूपं शक्तिरूपं वरानने | शक्तिं विना महेशानि न किञ्चिद् मम गोचरे || ८-१९५ || (प्. १३५) एवं हि क्रमतो देवि मातृकान्यासमुत्तमम् | कृत्वा न्यासं महेशानि मातृका विश्वमोहिनी || ८-१९६ || अतः परं महेशानि श्रीकण्ठन्यासमाचरेत् | श्रीकण्ठन्यासमात्रेण शिवोऽहं कमलानने || ८-१९७ || श्रीकण्ठं परमेशानि त्रैलोक्ये चातिदुर्लभम् | पूर्वोक्तेन क्रमेणैव सर्वं कुर्यात् शुचिस्मिते || ८-१९८ || सर्वं कुर्याद् महेशानि यत्नतः परमेश्वरि | ध्यायेत् शिवां वरारोहां हृत्प(त्र?द्मे)कमलेक्षणे || ८-१९९ || हृत्पद्मं परमं स्थानं ब्रह्मस्थानं सुरार्चिते | जीवस्य स्थानमेतत् तु हृदयं परमं पदम् || ८-२०० || हृत्पद्मं द्वादशदलं सहस्रादित्यवर्चसम् | तन्मध्ये भावयेद् देवं शिवं मृत्युञ्जयं प्रिये || ८-२०१ || शुद्धस्फटिकसंकाशं पञ्चवक्त्रं महाप्रभम् | आजानुबाहुं देवेशि पद्मवक्त्रं सुवीक्षणम् || ८-२०२ || किरीटिनं कुण्डलिनं केयूराङ्गदशोभितम् | सततं हास्ययुक्तं च दन्तपङ्क्तिविराजितम् || ८-२०३ || रुद्राक्षशोभितोरस्कं जटाशोभितमस्तकम् | व्याघ्रचर्मपरीधानं दशबाहुविराजितम् || ८-२०४ || एवं ध्यात्वा महादेव सदा मृत्युञ्जयं प्रिये | शक्तियुक्तं महादेवं सर्वाङ्गसर्वमोहनम् || ८-२०५ || सर्वाङ्गचिन्तनं कृत्वा एकाङ्गं चिन्तयेत् ततः | एकाङ्गं तु परित्यज्य समाधिर्जायते ततः || ८-२०६ || समाधिकाले देवेशि यत् तेज उपपद्यते | तन्निशामय देवेशि ज्ञानं परमदुर्लभम् || ८-२०७ || (प्. १३६) सर्वाङ्गं तु परित्यज्य यत् तेज उपजायते | स एव परमेशानि शिवो मृत्युञ्जयः प्रिये || ८-२०८ || प्रदीपकलिकाकारां प्रकृतिं विद्धि पार्वति | तत्र तेजसि देवेशि अन्तरात्मा सदा स्थितः || ८-२०९ || अन्तरात्मा महेशानि कार्यकारणवर्जितः | भ्रमरे भ्रमरीं बद्ध्वा हृत्पद्मे परमेश्वरि || ८-२१० || योगस्थस्य महेशानि लक्षवर्षं गतं मम | इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (यन्त्रमन्त्रान्तरप्रयोग तत्संस्कारादिविधिनिरूपणं) अष्टमः पटलः || ८ || अथ नवमः पटलः | श्रीभैरव उवाच | शृणु देवि प्रवक्ष्यामि साधनान्तरमुत्तमम् | यत् कृते परमेशानि कृतार्थो नात्र संशयः || ९-१ || प्रासादस्यान्तिके देवि कदलीस्तम्भनं भवेत् | तत्र वेदिं महेशानि वृक्षं तत्र प्ररोपयेत् || ९-२ || रक्तासने चोपविश्य साधयेद् वीरसाधनम् | मातृकान्यासमाचर्य पूजयेत् परमेश्वरीम् || ९-३ || षोडशैरुपचारैस्तु पूजयेत् परदेवताम् | पाद्यं दद्याद् महादेव्यै गोमूत्रमिश्रितं पयः || ९-४ || (प्. १३७) ताम्रपात्रे मधु दत्त्वा दुग्धयुक्तं हविर्युतं | घनीभूतं महेशानि दधि दद्यात् सशर्करम् || ९-५ || आचमनीयं देवेशि कांस्येनैव प्रदापयेत् | नैवेद्यं परमं दद्यात् सुस्वादु सुमनोहरम् || ९-६ || मधुयुक्तं नारिकेलं तक्रं च शर्करान्वितम् | दत्त्वा देव्यै महेशानि जीवन्मुक्तो भवेद् ध्रुवम् || ९-७ || अन्नं दद्याद् महेशानि सामिषं परमं शुभे | सप्ताहं व्याप्य तत्रैव जपेत् तद्गतमानसः || ९-८ || गते तु प्र(हरे?थमे)यामे द्वितीयप्रहरावधि | रुद्राक्षमालया देवि जपेद् वीतभयः सदा || ९-९ || सप्ताहाभ्यन्तरे देवि सिद्धो भवति मानवः | मातृकाक्षरसंयुक्तां विद्यां यद्वा न्यसेत् ततः || ९-१० || मन्त्रध्यानपरो भूत्वा जपेद् मन्त्रमनन्यधीः | एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् || ९-११ || द्व्यक्षरे त्वष्टसाहस्रं त्र्यक्षरे त्वयुतार्धकम् | ततः परं तु मन्त्राणां गजान्तकसहस्रकम् || ९-१२ || निशायां जपमारभ्य उदयान्तं समाचरेत् | जपादौ च बलिं दत्त्वा पश्चादपि बलिं हरेत् || ९-१३ || जपान्ते जपमध्ये वा देहि देहीति भाषते | तदापि च बलिं दद्याच् छागलं वापि माहिषम् || ९-१४ || न दिक्षु वीक्षणं किञ्चिन् न वा बन्धुसमागमः | गजारिदुष्टसर्पाणां मृगानां दंष्ट्रिणां तथा || ९-१५ || पक्षिकीटपिशाचानां यद्यन्मनसि संस्थितम् | तत्सर्वं स्वप्नवत् बु(द्ध्य?ध्वा)भयं सर्वत्र वर्जयेत् || ९-१६ || (प्. १३८) समाप्य साधनं देवि दक्षिणां विभवावधि | गुरवे गुरुपुत्राय तत् पत्न्यै चापि दापयेत् || ९-१७ || सम्यक् सिद्धस्य मन्त्रस्य नासाध्यं विद्यते क्वचित् | गुरुमन्त्रवतः [बहु ख पाठः |] पुंसः का कथा रुद्र एव सः || ९-१८ || यतः सर्वत्र देवेशि गुरुपूजा गरीयसी | तदग्रे मन्त्रतन्त्राणां भाषणं नैव कारयेत् || ९-१९ || पूजिते गुरुपादे वै सर्वदैव सुखी भवेत् | सर्वेषां तन्त्रमन्त्राणां पितासौ परमेश्वरः || ९-२० || अन्यदेवसपर्या वा चान्यदेवस्य कीर्त(नात्?नम्) | गुरुदेवं विना देवि तदग्रे नरके स्थितिः || ९-२१ || शवारू(ढा?ढो)यदि भवेत् तद्विशेष इहोच्यते | शून्यागारे बिल्वमूले नदीतीरे चतुष्पथे || ९-२२ || शवासन(र?ग)तो मन्त्री चिन्तयेद् वीरसाधनम् | चण्डालं चाभिभूतं वा शीघ्रसिद्धिफलप्रदम् || ९-२३ || आनीय स्थापयेदादौ न्यासजालं समाचरेत् | पीठमन्त्रं समालिख्य गन्धपुष्पादिनार्चयेत् || ९-२४ || अभ्यर्च्य चासनं दत्त्वा आत्मरक्षां च कारयेत् | ततः शवास्ये विधिवद् देवताप्यायनं ततः || ९-२५ || मन्त्रान्ते भुवनेशी स्याद् रेफान्तो मन्त्र ईरितः | महानीलक्रमं देवि सर्वसिद्धिप्रदायकम् || ९-२६ || न कस्यचित् प्रयोक्तव्यं गोप्तव्यं प्रीतये मम | सर्वेषां जीवहीनानां जन्तूनां वीरसाधने || ९-२७ || ब्राह्मणं गोमयं त्यक्त्वा साधयेत् वीरसाधनम् | महाशवाः प्रशस्ताः स्युः प्रधानं साधयेत् प्रिये || ९-२८ || (प्. १३९) श्मशाने हि पुरश्चर्या कथिता भुवि दुर्लभा | श्मशानसाधनं देवि मतं साधनमुत्तमम् || ९-२९ || श्मशानस्थो यदि भवेत् जपन् मन्त्रमनन्यधीः | स सर्वसाधनं कृत्वा देवीलोके महीयते || ९-३० || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (वीरसाधनविधानं) नवमः पटलः || ९ || अथ दशमः पटलः | श्रीभैरव उवाच | इदानीं शृणु चार्वङ्गि येन सिद्धो भवेद् मनुः | शवमुण्डं समादाय मङ्गले वासरे निशि || १०-१ || पञ्चगव्येन मिलितं चन्दनैकेन संयुतम् | अर्द्धहस्तमिते गर्ते हरिद्रारोचनायुते || १०-२ || क्षिपेत् तत्र शवमुण्डं रजतेन समन्वितम् | मृत्तिकया पूरयित्वा सर्वं संस्कृत्य शोधयेत् || १०-३ || तत्रोपरि विशेद् देवि क्रमेण हि समन्वितः | सहस्रस्य प्रमाणेन जपं कुर्यात् समाहितः || १०-४ || समाप्ते तु जपे तत्र पूजयेत् परमेश्वरीम् | एवं त्रिदिनमध्ये तु सिद्धो भवति मानवः || १०-५ || (प्. १४०) इति ते कथितं भद्रं प्रयोगं सिद्धिदायकम् | अष्टमीसन्धिवेलायां अष्टोत्तरशतं जपेत् || १०-६ || सप्तदिनप्रयोगेन सिद्धिमाप्नोति मानवः | शनौ च सन्धिवेलायां गृहे लताख्यकं यजेत् || १०-७ || जपेदेकाकी विजने लतासाधनतत्परः | एवं कृते महादेवि सिद्धिमाप्नोति साधकः || १०-८ || पूर्वोक्तकल्पमासाद्य पूजादिकं समाचरन् | केवलं कामदेवोऽसौ जप्त्वा चाष्टोत्तरं शतम् || १०-९ || सप्ताहाभ्यन्तरे देवि महदैश्वर्यमाप्नुयात् | विशेषं शृणु चार्वङ्गि तन्त्रेषु सर्वकामदम् || १०-१० || येन विज्ञानमातेण सिद्धयोऽष्टौ भवन्ति हि | तासां मूले तु देवेशि उग्रां संपूज्य साधकः || १०-११ || महासिद्धिर्भवेद् देवि सत्यं सत्यं वरानने | कुलाकृष्टलतागारे लिखित्वा मन्त्रमेव च || १०-१२ || प्रपूज्य तत्र संस्कारं कृत्वा तस्यै निवेदयेत् | किञ्चित् जप्तं मनुं नीत्वा देवताभावतत्परः || १०-१३ || तां प्रपूज्य नमस्कृत्य स्वयं जप्त्वा सुसंयतः | प्रातः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्भवेन् नृणाम् || १०-१४ || भूमिपुत्रसमायुक्ता अमावास्या शुभप्रदा | भाद्रे पुष्करयोगेन तस्यां वीरवरोत्तमः || १०-१५ || विष्णुक्रान्तां समानीय निक्षिपेद् मृतभूमिषु | तत्र तां सचितां कृत्वा तद्दिने मृतहट्टके || १०-१६ || तत्र प्रसार्य तां मत्स्यत्वक्स्नेहेन दापयेत् | तज्जलेनाभिषेकं च पूर्ववच्च शवोपरि || १०-१७ || (प्. १४१) सचितां विजयां तस्य उदरे मुखवर्त्मना | क्षिप्त्वा तत्रैव तत् मत्स्यमञ्जनान्वितलोचनः || १०-१८ || तिलकं पूर्वद्रव्येण तथाजस्रं मनुं जपेत् | स्वयमायाति भगवान् भैरवो बीमबाहुकः || १०-१९ || गतभीतिस्ततो वीरस्तं विलोक्य जपेद् मनुम् | यदि भाग्यवशाद् देवि लगुडस्तत्र लक्ष्यते || १०-२० || तदा स्वयं भैरवोऽसौ साक्षाद् वीरेश्वरो भवेत् | मत्स्यमानीय देवेशि निक्षिपेत् पितृकानने || १०-२१ || तत्रासकृज् जपित्वा च देवतामेलनं भवेत् | निशायां मृतहट्टे च उन्मत्तानन्दभैरवः || १०-२२ || दिग्वासा विमलो भस्मभूषणो मुक्तकेशकः | कृपाणी खड्गहस्तश्च जपेन् मातृकया यदि || १०-२३ || तदा तस्य महादेवि सर्वसिद्धिः करे स्थिता | डाकिनीं योगिनीं वापि अन्यां वा गणसुन्दरीम् || १०-२४ || तत्र चानीय संपूज्य सर्वसिद्धीश्वरो भवेत् | गुरुमानीय संस्थाप्य देववत् पूजयेद् विभुम् || १०-२५ || वस्त्रालङ्कारहेमाद्यैः स्वयं संतोषयेद् गुरुम् | तत्सुतं तत्सुतां वापि तत्पत्नीं च विशेषतः || १०-२६ || पूजयित्वा मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् | सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च || १०-२७ || केवलं देवभावेन जप्त्वा सिद्धीश्वरो भवेत् | गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिद्ध्यति || १०-२८ || गुरुं विलङ्घ्य शास्त्रेऽस्मिन् नाधिकारः सुरैरपि | एषां च मन्त्रतन्त्राणां प्रयोगः क्रियते यदि || १०-२९ || (प्. १४२) गुरुवक्त्रं विना देवि सिद्धिहानिः प्रजायते | एतत् तन्त्रं च मन्त्रं च शिष्येभ्योऽपि न दापयेत् | अन्यथा प्रेतराजस्य भवनं याति निश्चितम् || १०-३० || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (साधनान्तरविधाननिरूपणं) दशमः पटलः || १० || अथ एकादशः पटलः | श्रीभैरव उवाच | विशेषान् शृणु वक्ष्यामि येन सिद्ध्येज् जगत् त्रयम् | यस्मात् परतरं नास्ति तन्त्रमध्ये न संशयः || ११-१ || सर्वभाषामयी शुद्धा सर्वाम्नायैर्नमस्कृता | मायाबीजं समुद्धृत्य तारकं वह्निसंयुतम् || ११-२ || मायाबिन्द्वीश्वरयुतं [बिन्दुस्वर ख पाठः |] द्वितीयं बीजमुद्धृतम् | [त्रुटिरत्र दृश्यते |] रमां फट्कारकं चैव बीजपञ्चकमुत्तमम् || ११-३ || पञ्चरश्मिसमाक्रान्ताऽज्ञानेन्धनप्रदीपकम् | तस्योद्धारमहं वक्ष्ये शृणु सार्वज्ञकारणम् || ११-४ || प्रथमं प्रणवं दत्त्वा चतुर्थस्वरभूषितम् | रेफारूढं स्फुरद् दीप्तमिन्दुबिन्दुविराजितम् || ११-५ || (प्. १४३) भगं चैव महेशानि चतुर्थस्वरसंयुतम् | (दाहारूढं रयं चैव शक्तियुक्तं तु योजयेत्) || ११-६ || नादबिन्दुसमायुक्तं हूंकारं योजयेत् ततः | फट्कारं च ततो दद्यात् संपूर्णं सिद्धिदायकम् || ११-७ || लीलया वाक्प्रदा चेति तेन नीलसरस्वती | तारकत्वात् सदा तारा सुखमुक्तिप्रदायिनी || ११-८ || (उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता |) वितारैकजटा चैषा महामुक्तिकरी सदा || ११-९ || तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती | ताराद्या पञ्चवर्णेयं श्रीमन्निलसरस्वती || ११-१० || श्रीबीजाद्यापि देवेशि तदा श्रीःसर्वतोमुखी | एषैव हि महाविद्या मायाद्या सकलेष्टदा || ११-११ || वाग्भवाद्या यदा विद्या वाग्रूपा सर्ववाङ्मयी | एतान् क्रमगतान् प्राप्ता(न्)मत भेदाञ् जगन्मयी || ११-१२ || एषा पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी | वधूबीजं मध्यबीजं सर्वबीजान्तिमं भवेत् || ११-१३ || फलिनी सर्वविद्यानां जयिनी जयकाङ्क्षिणाम् | विषक्षयकरी विद्या अमृतत्वप्रदायिनी || ११-१४ || मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते | लिखेत् खं कूर्चसंयुक्तं रौद्रं त्रैगुण्यमेव च || ११-१५ || विधिविष्णुमहेशानां स्वशक्त्या क्रमयोगतः | एषा मता महाविद्या सर्वसिद्धिप्रदा शुभा || ११-१६ || सर्वमन्त्रमयी शुद्धा सर्वतन्त्रेषु गोपिता | सिद्धिदा भजतामाशु संप्रदायविधानतः || ११-१७ || (प्. १४४) ध्यानपूजादिकं सर्वं कुर्यात् साधकसत्तमः | अथातः संप्रवक्ष्यामि तारां भुवनतारिणीम् || ११-१८ || यस्याः स्मरणमात्रेण भयमाशु विनाशयेत् | प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् || ११-१९ || गगनं शेषसंयुक्तं बिन्दुनादविभूषितम् | कूर्चबीजं च हृदयं तारायै च समुद्धरेत् || ११-२० || महापद्मं समुद्धृत्य तारायै च समुद्धृतम् | सकलदुस्तरांस्तारे तारयेति तथा पुनः || ११-२१ || तरयुग्मं वह्निजाया मन्त्रोऽयं सुरपादपः | गद्यपद्यमयी वाणी सभायां तस्य जायते || ११-२२ || चतुर्लक्षजपेनास्याः सिद्धयोऽष्टौ भवन्ति हि | ध्यानपूजादिकं सर्वं पूर्वत् समुपाचरेत् || ११-२३ || प्रणवं पूर्वमुद्धृत्य तारे उत्तारयेति च | माया स्वाहेति मन्त्रोऽयं दशाक्षर उदाहृतः || ११-२४ || स्मरणात् सर्वसत्त्वानां भयमाशु विनाशयेत् | ध्यानपूजादिकं सर्वं पूर्वमुक्तं सुरेश्वरि || ११-२५ || विद्यारत्नं प्रवक्ष्यामि शृणु पर्वतनन्दिनि | वाग्भवं कुलदेवीं च तारकं वाग्भवं तथा || ११-२६ || हृल्लेखां चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः | अष्टाक्षरो मनुः प्रोक्तो वेदमातुरनुत्तमः || ११-२७ || पञ्चाङ्गं चास्य मन्त्रस्य पञ्चबीजैः प्रकल्पयेत् | अस्त्रं शेषाक्षरैर्न्यस्य कृतकृत्यो भवेद् नरः || ११-२८ || ध्यानपूजादिकं सर्वं पूर्वमुक्तं महेश्वरि | कालिका सिद्धविद्या स्याद् महाकाली परा मता || ११-२९ || तस्यास्तन्त्रे महाविद्या विज्ञेया साधकोत्तमैः | सर्ववेदमयी विद्या सर्वाम्नायैर्नमस्कृता || ११-३० || रक्षाकरी च संप्रोक्ता यदा सेव्या च साधकैः | प्रणवं पूर्वमुच्चार्य पद्मे युग्मं तथैव च || ११-३१ || महापद्मे पदं कुर्यात् पद्मावति पदं ततः | माये स्वाहेति मन्त्रोऽयं प्रोक्तः सप्तदशाक्षरः || ११-३२ || पूजा पूर्ववदुद्दिष्टा चार्धरात्रे चतुष्पथे | जपमस्याश्चरेद् यस्तु शीघ्रं द्रुतकविर्भवेत् || ११-३३ || बीजमन्त्राः स्वतन्त्राः स्युस्तारिण्याः सर्वसिद्धिदाः | एते भेदा महोग्रायाः पुरुषार्थप्रवर्तकाः || ११-३४ || आयुःश्रीकान्तिकविता विद्यासौभाग्यदायिनी | अन्ते निरामयं ब्रह्म जीवन्मुक्तिप्रदायिनी || ११-३५ || (शिवबीजं महेशानि शक्तिबीजं ततः परम् | सर्वबिन्दुसमायुक्तं वेदाद्यं तदधः क्रमात् || ११-३६ || माया स्त्रीं वर्मबीजान्ते हंसं जीवमुदीरितम् | एषा त्वष्टाक्षरी विद्या तव स्नेहात् प्रकाशिता || ११-३७ ||) आज्ञासिद्धिमवाप्नोति त्रैलोक्यं वशमानयेत् | वशमायान्ति सहसा वेदविद्याश्चतुर्दश || ११-३८ || हंसतारा महाविद्या तव स्नेहात् प्रकाशिता | कवितामाहरेत् पुंसां धनार्थी धनमाप्नुयात् || ११-३९ || मोक्षार्थी लभते मोक्षं नात्र कार्या विचारणा | उग्रतारा महाविद्या कथ्यते मम पौरुषम् || ११-४० || पञ्चाक्षरी च या विद्या हंसाद्यन्ता महोदया | केवलं त्वत्प्रयत्नेन [प्रसादेन ख पाठः |] तव स्नेहात् प्रकीर्तिता || ११-४१ || (प्. १४६) अस्याश्च जपपूजादीन् पञ्चाक्षरीवदाचरेत् | बीजयुक्ता महाविद्या त्रिताराद्या पृथक् पृथक् || ११-४२ || त्रैलोक्ये कथिता सिद्धिदायिन्युत्तमभूतिदा | षड्दीर्घमायया चैव षडङ्गं समुपाचरेत् || ११-४३ || पूजा पूर्ववदुद्दिष्टा प्रयोगान् वापि तत्समान् | वाङ्मायाकमलाबीजमीशो भृगुनिषेवितः || ११-४४ || चतुर्दशेन्दुसंयुक्तः पश्चाद् भृगुः सहेश्वरः | चतुर्दशविसर्गाढ्यो वद द्वन्द्वं च वाक् पदम् || ११-४५ || वादिनीति पदं पश्चात् क्लीं पदत्रितयं ततः | नीलसरस्वति पदं त्रिधावृत्तिश्च वाङ्मनोः || ११-४६ || काहि शब्दद्वयं पश्चात् कलरीमग्निवल्लभा | चतुस्त्रिंशद्वर्णयुक्तो नीलसारस्वतो मनुः [प्रकाशम् ऐं ह्रीं श्रीं हसौं स्हौंः वद वद वाग्वादिनि क्लीं क्लीं क्लीं नीलसरस्वति ऐं ऐं ऐं काहिकाहि कलरीं स्वाहा || ११-३४ ] || ११-४७ || षाट्कोशिकोऽयं विज्ञेयः षड्भिर्मन्त्रैर्यतः कृतः | ऋषिच्छन्दोदेवतानां विभागं शृणु पार्वति || ११-४८ || गङ्गाप्रवाहो नामर्षिर्मत्स्यरूपी जनार्दनः | अत्यष्टिः कथिता छन्दो देवी नीलसरस्वती || ११-४९ || सर्ववागैश्वर्यमयी समस्ताभीष्टदायिनी | ऐंबीजं कीलकं ज्ञेयं ह्सौं शक्तिः समीरिता || ११-५० || नीलो वर्णश्च विज्ञेयस्त्वरितं कविताफलम् | मुद्रा तु प्रति(वासि?राशी)नां मुखमुद्रा समीरिता || ११-५१ || हृल्लेखया षडङ्गानि कुर्यात् षड्दिर्घयुक्तया | नीलांशुकां मणिमयीं व्याघ्रचर्मधरां शुभाम् || ११-५२ || (प्. १४७) विद्यां ब्रह्मस्वरूपां च सर्वकामफलप्रदाम् | नमस्कुर्यात् प्रयत्नेन सर्वकामवरेश्वरीम् || ११-५३ || अथ वक्ष्ये महेशानि नीलस्य भावमग्रतः | पूर्वं देवासुरैर्युद्धे दानवा दितिजैः सह || ११-५४ || चक्रेण चक्रिणा छित्त्वा (छिन्नाः) कान्दिशीकाः प्रदुद्रुवुः | सम्भूय ते दुष्टदैत्याः समुद्रकुहरोदरे || ११-५५ || चक्रिणा च कृता पूर्वदेवानां परिभू(यते?तये) | देवरूपा भगवती सर्वमन्त्रमयी शुभा || ११-५६ || तत्रैव सर्वविप्राणां यज्ञकाण्डः प्रवर्तते | तेषु यज्ञेषु संभूतैर्हविर्भिर्बलिनः सुराः || ११-५७ || ......................................................................... | सुरा हास्मान् प्रबाधन्ते वयं निर्बलिनस्ततः || ११-५८ || इति तेषां वचः श्रुत्वा दीनानां दितिजन्मनाम् | हयग्रीवः सोमकश्च निर्वेदं भृशमापतुः || ११-५९ || तावुभौ भ्रातरौ दुष्टौ तुरङ्गग्रीव सोमकौ | शब्दाकर्षणिकां देवीं समुद्दिश्यातपस्यताम् || ११-६० || तयोर्घोरतपःप्रीता शब्दाकर्षणिदेवता | प्रोवाच व्रियतामत्र वाञ्छितो वरवल्लभः || ११-६१ || ताभ्यामुक्ता भगवती वरप्रार्थनहेतवे | सर्वशब्दाकर्षणार्थं वरोऽस्मभ्यं प्रदीयताम् || ११-६२ || तथास्त्विति तया प्रोक्तौ दानवावतिदर्पितौ | ततस्तस्य प्रभावेण भूलोकं समुपस्थितौ || ११-६३ || स(र्वाः?र्वे)चाकर्षिताः शब्दा मन्त्ररूपा द्विजन्मनाम् | सा शब्दरूपिणी देवी शुभ्ररूपा सरस्वती || ११-६४ || (प्. १४८) मुखानि सर्वविप्राणां त्यक्त्वा दिव्यवपुर्धरा | आयाता दैत्यवरयोर्दुष्टगृहमुपागता || ११-६५ || क्रन्दन्तीं तां च विवशां नीत्वा पातालगोलके | हालाहलविषैः कृत्वा कुण्डं नीलजलप्रभैः || ११-६६ || तत्र तां विनिमज्यैव वद्ध्वा पन्नगरज्जुभिः | पर्वतैर्निविडं कृत्वा पुनर्देवजिगीषया || ११-६७ || तामासाद्य महादिप्तौ तुष्टुवतुः शुभावहम् | शब्दाकर्षणबाणेन दैत्यानां पृथिवीतले || ११-६८ || निःशब्दाश्चैव बाणेन वेदविस्मारिणो द्विजाः | मन्त्रविस्मरणेनैव यज्ञविद्या निरासिता || ११-६९ || तन्नाशतो हविर्भागवर्जिता बलहानितः | निर्वीयाश्च निरुद्योगास्ताभ्यां देवा निराकृताः || ११-७० || इत्थं विद्राव्य विबुद्धांस्तौ हयग्रीवसोमकौ | विष्णुचक्राङ्कितौ तौ च समुद्रान्तर्गृहे स्थितौ || ११-७१ || ततो विष्णुर्महामत्स्यरूपधारी सदा प्रभुः | यत्नं चकार देवेशि तदुद्धरणहेतवे || ११-७२ || सहस्रदंष्ट्रस्य झषस्य रूपं पाठीननाम्नः परमोऽथ विष्णुः | रूपं गृहीत्वा भगवाननन्तो विवेश देवोद्धरणाय यत्न(चाब्धि)म् || ११-७३ || वराहरूपेण यथाब्धिमग्नां युगे युगे प्रोद्धृतवान् धरित्रीम् | तथैव मत्स्याकृतिरम्बुजाक्षो विलोडयामास समुद्रपूरम् || ११-७४ || (प्. १४९) श्रीमत्स्यरूपस्य हरेः शरीरादाविर्बभूवुश्च भुजाश्चतस्रः | खड्गं तथा चक्रकशार्ङ्गचापौ कौमोदकी बाहुचतुष्टयेन || ११-७५ || मत्स्यस्वरूपस्य जनार्दनस्य बभूव युद्धं शरदां सहस्रम् | ततश्च शब्दार्थविमर्शनार्थं निःश्वासवातेन बलादगृह्णात् || ११-७६ || अप(अ)हृतौ तौ हरिचक्रकृत्तौ कौमोदकीताडनमूर्च्छितौ च | महाहवे नाशमुपागतौ तौ दैत्यौ हयग्रीवकसोमकाख्यौ || ११-७७ || अथाम्बुधेर्गर्तपुरास्त्रवासे निवेशितां तां विषकुण्डमध्ये | मत्स्यस्वरूपी भगवाननन्तो निःश्वासमात्रैकशरीरशेषाम् || ११-७८ || आश्वासयामास स गीतवाक्यैर्हरिः स्मितं प्राह सरस्वतीं ताम् | त्रितारविद्यां प्रथमं जगाद समस्तमन्त्रप्रकरस्य मूलम् || ११-७९ || तेनापि नो संविदमाप देवी प्रासादमन्त्रं पुनरुज्जगाद | तेनापि नो संविदमाप देवी कामेश्वरीं सोऽथ जगाद विष्णुः || ११-८० || (प्. १५०) एवं षडक्षरमनुं वचसां सवित्रीमुत्थाप्य तां संविदमाबभाषे | नीलासि जाता विषकुण्डमध्ये सर्वाङ्गपूर्णा स्मितवक्त्रपद्मे || ११-८१ || यथा पुरा सर्वमहासुराणां मुखान्तरे याहि च वीतयत्नम् | वेदान् समुच्चारय नाशयैतान् इत्यादि वाणी हरिमाह देवी || ११-८२ || मत्स्यावतारेण सुरक्षिताहं भयं भवेन्नैव फलं समाप्तम् | किंत्वस्य शोभाकृतिरन्यथा मे नीलत्वमाप्तेति नितान्तचिन्ता || ११-८३ || निवेशिताहं विषकुण्डमध्ये यथेति दूरीभवति क्षणेन | तथा कुरुष्व प्रथितरुपायै इत्युक्त ईशोऽपि जगाद लक्ष्मीम् || ११-८४ || मा त्वं शुचं याहि चिरात् सवित्रि प्रागस्म्यभूवं शशिशुद्धवर्णा | उग्रेण हालाहलकर्षणेन नीलत्वमाप्तासि कुतोऽत्र दोषः || ११-८५ || नील्यो विपण्यो भुवनस्य शोभां पुष्णन्ति नीलः खलु देव एव | नीला मृडानी जगतां सवित्री नीलं च कण्ठे पुरशासनस्य || ११-८६ || (प्. १५१) नीलो महेन्द्रः सुरचक्रवर्ती नीला जगज्जीवनदाश्च मेघाः | नीलं नभः सर्वजनावकाशो नीलः कलङ्कः शशिदीप्तिहेतुः || ११-८७ || नीलोऽप्यहं सत्त्वगुणाश्रयश्च नीलस्य वर्णस्य कुतोऽस्ति दोषः | अशेषभूषामणिभूषिताङ्ग्यो विनाञ्जनेनाक्षिनिवेशितेन || ११-८८ || न रूपवत्यो नच वा युवत्यो विलासवत्यो नवयौवनाश्च | ख्यातिश्च ते नीलसरस्वतीति ख्याता भवित्री भुवनत्रयेऽपि || ११-८९ || त्वदर्थमेव प्रयतं मयार्ये षाट्कौषिकी बालमृगाक्षि नित्या | षडर्णयोगेन हि जीवितासि विनष्टचेष्टा विषकुण्डमध्ये || ११-९० || इत्थं समाश्व(अ)स्य वचोभिराद्यां प्रणम्य चादाय सरस्वतीं ताम् | प्रवर्तयामास मुखे द्विजानां पुनः सुराणां सुखहव्यल(ब्धौ?ब्ध्यै) || ११-९१ || ततः प्रभृत्येव जगत्प्रतीता मोक्षप्रदा नीलसरस्वतीति | (...............................................................................................) || ११-९२ || (प्. १५२) अस्या गुप्तं महामन्त्रं सर्वकामफलप्रदम् | यस्य स्मरणमात्रेण विजयी भुवि जायते || ११-९३ || शृणु वक्ष्यामि देवेशि उपायं साधने प्रिये | येन देवेशि भद्रं ते भविष्यति सुनिश्चितम् || ११-९४ || मन्त्रं शृणु वरारोहे जपात् सार्वज्ञदायकम् | विष्णुशक्तिर्महाशक्तिर्वह्निबीजं फडन्तकम् || ११-९५ || वर्णपञ्चकमेतत् तु सार्वज्ञकारणं महत् | यदाक्षमालया देवि दिक्सहस्रं जपेद् मनुम् || ११-९६ || आज्ञासिद्धिमवाप्नोति नात्र कार्या विचारणा | षण्मासात् परतो देवि महाराजत्वमाप्नुयात् || ११-९७ || अनेन सदृशं ज्ञानमनेन सदृशं तपः | नास्ति नास्ति महामाये तन्त्रमध्ये सुरेश्वरि || ११-९८ || अनेन मन्त्रराजेन वश्यादिकं समाचरेत् | ततः सिद्धो भवेद् मर्त्यो नात्र चिन्ताविधिः स्मृतः || ११-९९ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (मन्त्रोद्धारतत्प्रकारान्तरनीलिम्निरूपणमेकादशः पटलः || ११ || अथ द्वादशः पटलः | श्रीभैरव उवाच | इदानीं शृणु वक्ष्यामि विद्योत्पत्तिं वरानने | महाकाली जगद्धात्री तेजोरूपा जगन्मयी || १२-१ || ब्रह्मरूपा महादेवी सर्वकल्याणहेतुका | गोलोकादुपरि स्थानं मणिमुक्तादिशोभितम् || १२-२ || चतुर्द्वारं चतुष्काण्डं चतुरस्रं मनोरमम् | चतुर्भित्तिसमाकीर्णं मुक्ताहा(रं?रै)र्महोज्ज्वलम् || १२-३ || स्फटिकस्तम्भसंक्रान्तं नृत्यगीतादिसंयुतम् | निर्मुक्तं परमेशानि परमं नात्र संशयः || १२-४ || इति ते कथितं दिव्यं कैलासस्थानमुत्तमम् | गते जगति सर्वांशे प्रलये परमेऽनघे || १२-५ || ब्रह्मविष्णुशिवास्तत्र न्यवसंस्तत्र भैरवि | भीमनामा महाराजा धार्मिकः परमः पुमान् || १२-६ || तस्य द्वारि महादेवि शिवाद्याः सकलेष्टदाः | तपसा च महादेवि प्रीतास्ते भद्रकेकये || १२-७ || प्रलये च गते देवि राजानं रक्षितुं शिवे | ब्रह्माद्याः परमेशानि उपायं चक्रिरे शिवे || १२-८ || अन्तस्तत्त्वं समीक्ष्यैव उपायं च वरानने | न्यवसंस्तत्र संप्राप्ता देवीरूपं मनोरमम् || १२-९ || विभागं परमेशानि वटपत्रोदरे स्थिताः | भगवत्या(ः) पदं ध्यात्वा लक्षवर्षं ततोऽभवत् || १२-१० || (प्. १५४) जाता काली परा नित्या प्रत्यक्षा तत्र भैरवि | प्राह देव महादेव भवद्भिः स्तूयतेऽत्र का || १२-११ || ततस्तां दृष्टिपथगां ज्ञात्वा ब्रह्मादयः सुराः | स्तवं चक्रुः परं तत्र भगवत्याः पदेऽभवन् || १२-१२ || नमस्तुभ्यं महेशानि परमानन्दरूपिणि | अस्माकं प्राणरक्षार्थमागतासि जलोपरि || १२-१३ || नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः | नमस्तेऽस्तु महारौद्रि कालरात्रि नमोऽस्तु ते || १२-१४ || त्वां विना परमे रौद्रि प्रेतत्वं गतवान् भवः | रक्ष रक्ष परे विद्ये त्रैलोक्यभुवनोदरे || १२-१५ || मधुकैटभसंहन्त्रि निसुम्भासुरमर्दिनि | देवैश्वर्यप्रदे देवि नमस्ते शङ्करप्रिये || १२-१६ || चन्द्रसूर्यमये देवि परज्योतिःस्वरूपिणि | स्तवाभिभावभूता त्वं प्रसीद परमेश्वरि || १२-१७ || इत्युक्त्वा प्रणिपत्यापि प्रणमन्तः पुनः पुनः | किरीटेनार्कवर्णेन कालीपदेऽस्पृशन् प्रिये || १२-१८ || वरं वृणु महाभागा भगवत्योक्तमुत्तमम् | रक्षां कुरु महामाये नमस्ते शङ्करप्रिये || १२-१९ || तथास्त्विति वचः कृत्वा सृष्ट्यादी(न्)कुरुतानघाः ! | ब्रह्मोवाच | केन रूपेण देवेशि सृष्टिस्थित्यादिकं भवेत् | इति तस्य वचः श्रुत्वा भवानी भवमोहिनी || १२-२० || कथयामास सर्वांस्तान् व(वदुस्ता?रदा सा)सुरान् वरान् | मम पादरजो नीत्वा उपादानात्मकं शिवम् || १२-२१ || (प्. १५५) सृष्ट्यादीन् कुरुत प्राज्ञा येन सिद्धिर्भविष्यति | तत्पादप्रभवं नीत्वा रजो देवि शिवे शुभे || १२-२२ || सृष्टिं कर्तुं ततो ब्रह्मा स्थितौ विष्णुः प्रवर्तकः | संहारे रुद्र एवासौ प्रावर्तयत सत्वरम् || १२-२३ || सृष्टिराविर्बभूवाथ सर्वदेववरोत्तमैः | सनकाद्या सनन्दाद्या सन्ध्या चापि व्यजायत || १२-२४ || प्रजाः ससर्ज देवेशः सर्वभूतमयीः शुभाः | स्थितिं विष्णुर्महाभागश्चकार जगतां विभुः || १२-२५ || प्रसंहरति रुद्रश्च सृष्टेरेवं क्रमं शृणु | स्वर्गे देवा महादेवि इन्द्रो राजा तु तत्र वै || १२-२६ || मर्त्यलोकं सनाथाढ्यं राजा च भगवान् मनुः | पातालं सर्वनागाढ्यं निर्ममे जगतां विभुः || १२-२७ || तत्र राजा विराधाख्यः प्रजापालनतत्परः | ततो ब्रह्मा च विष्णुश्च रुद्रश्चैव सदाशिवः || १२-२८ || स्वस्वकर्मणि घूर्णन्ते प्रभवन्ति गणेश्वरि | ततस्तु परमेशानि रौद्री रात्रिरुदीरिता || १२-२९ || असुरास्तत्र देवेशि प्रदुद्रुवुर्महाभयाः | स्वर्गान् निराकृतास्तैस्तु भयानकभयार्दिताः || १२-३० || इन्द्रादयः सुरगणा ब्रह्मविष्णुशिवात्मिकाम् | आगच्छंस्तु महादेवीं स्वस्वकार्यार्थसाधकाः || १२-३१ || त्वमेव जगतां नाथस्त्वयि सर्वं प्रतिष्ठितम् | त्वमेव हव्यं(हेतो?होता)च भोज्यं भोक्ता च शाश्वतः || १२-३२ || वेद्यं वेदयिता चासि ध्याता ध्येयं च तत्परः | त्वं पितृणामपि पिता देवानामपि देवता || १२-३३ || (प्. १५६) परतोऽपि परश्चापि विधाता वेधसामपि | परब्रह्मस्वरूपस्त्वं प्रसीद परमेश्वरि || १२-३४ || इति तेषां वचः श्रुत्वा देवी चादितिजन्मनाम् | प्राह देवाः ! परो धर्मः परात् परतरोऽपि च || १२-३५ || किं कारणं महाभागाः! यत्नं कुरुत सादरम् | एवं श्रुत्वा ततो ब्रह्मा प्रोवाच वदतां वरः || १२-३६ || महेन्द्रस्य न चैश्वर्यं शाम्यते न च तेन सा | विष्ण्वादिको महान् भूतस्तेन शाम्येन्न संशयः || १२-३७ || ययौ ब्रह्मा महेन्द्रेण गोलोकं सहितो मुदा | नानाविधैर्महेशानि वाक्यैश्च परमेश्वरम् || १२-३८ || तुष्टाव परमानन्दं स्वकार्योद्धरणाय च | इति तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः || १२-३९ || उवाच सादरं विष्णुर्न मया शक्यते विभो | ब्रह्मविष्णू महेशानि आगतौ मम गोचरे || १२-४० || स्तवैर्बहुविधैर्दिव्यैस्तुष्टुवतुः परं शुभे | मयोक्तं परमेशानि एतान् हन्तुं न शक्यते || १२-४१ || इति मद्वचनं श्रुत्वा ब्रह्मविष्णू समाहितौ | प्राञ्जलिं च ततो बद्ध्वा प्रतुष्टुवतुर्मां चिरम् || १२-४२ || ततः परं महादेवि कथितं सर्वमोहनम् | न शक्तिर्मम तत्रास्ति समर्था तद्विमर्दने || १२-४३ || अस्ति काली महातीर्थे कैलासे भवगेहिनी | परमे च शिवे देवी संस्थिता विश्वमोहिनी || १२-४४ || सैव काली महाविद्याऽज्ञानेन्धनप्रदीपनी | ततो ब्रह्मा च विष्णुश्च रुद्रोऽहं परमेश्वरि || १२-४५ || (प्. १५८) महाकालीदर्शनाय वयं तत्र गताः शुभे | तेजोरूपधरे देवि महानाथे हरप्रिये || १२-४६ || देवदानवगन्धर्वहिताय परमेश्वरि | प्रसीद सर्वकल्याणि नमस्ते शारदेऽनघे || १२-४७ || इति तेषां वचः श्रुत्वा महाकाली महाशिवा | देवानां प्रीतये देवि प्रत्यक्षरूपतां गता || १२-४८ || देवी उवाच | किं याचत सुराः सर्वे वरं वृणु तपोघनाः! | यत् (यत्)कामयमानाः स्थ तत् सर्वं(शृणुता?वदता)मराः || १२-४९ || देवा ऊचुः | भीता महासुरैर्देवि यज्ञकाण्डं निवर्तितम् | तेषां वधाय देवि त्वं प्रसीद सर्वगोचरे || १२-५० || इति तेषां वचः श्रुत्वा देवी चादितिजन्मनाम् | प्रसन्ना सा महादेवी नीलरूपा वराङ्गना || १२-५१ || नीलसरस्वती ख्याता सृष्टसर्वविमोहिनी | तस्या उत्थाय सा देवी नीलवाणीति शब्दिता || १२-५२ || किमाज्ञापय देवि त्वं तत् करोमि प्रहेलया | तस्यास्तद्वचनं श्रुत्वा महाकालीति चिन्मयी || १२-५३ || उवाच सादरं देवि स्नेहगद्गदया गिरा | लीलया वाक्प्रदा चेति तस्मान्नीलसरस्वती || १२-५४ || देवि त्वं प्रथिता साध्वि नीलवाणीति(भाविनी?तारिणी) | तस्याः प्रभाववृन्दैश्च व्याप्तं सर्वं जगत् त्रयम् || १२-५५ || गच्छ त्वं परमेशानि मत्स्वरूपा वरानने | देवकार्यहितार्थाय निर्मिता त्वं शुचिस्मिते || १२-५६ || (प्. १५८) इति तस्या वचः श्रुत्वा तारिणी विश्वमोहिनी | देवान् प्राह महाभागाः! गच्छत यत्र तेऽसुराः || १२-५७ || अहं तत्र गमिष्यामि सर्वथा सन्निधौ सुराः | इत्युक्त्वा सा महादेवी तारिणी कामचारिणी || १२-५८ || अन्तर्हिता महामाया मायारूपवती च सा | महामाया सदानन्दा सर्वदेवमयी शुभा || १२-५९ || ए(या?षा) च सर्वदेवानां गायत्री च मनोरमा | गायत्री सैव सावित्री सैव ब्रह्मस्वरूपिणी || १२-६० || यामासाद्य महात्मानो धर्मकामार्थमुक्तिषु | नासाद्यं मेनिरे किञ्चित् त्रिषु लोकेषु सुन्दरि || १२-६१ || कवित्वं परमैश्वर्यं महादेव्याः प्रसादतः | ईशत्वं गतवान् इन्द्रः विष्णुत्वं गतवान् हरिः || १२-६२ || शिवत्वं गतवान् रुद्रः सर्वैश्वर्ययुतो महान् | इति तद्वचनं श्रुत्वा देवाः सर्वैर्नमस्कृताः || १२-६३ || किरीटेनार्कवर्णेन स्पृशन्तस्तत्पदाम्बुजम् | नमस्कृत्य नमस्कृत्य पुनर्नत्वा महेश्वरीम् || १२-६४ || सर्वं कार्यं महादेवि न किञ्चिदवशिष्यते | संस्मृता संस्मृता देवि हिंसेथाः परमापदः || १२-६५ || इति नत्वा महादेवीं सर्वकामवरेश्वरीम् | आगतास्ते पुनस्तत्र स्थितिर्यत्र शिवे (नघे?नगे) || १२-६६ || पञ्चवर्षं गतं तत्र देवानां दिव्यजन्मनाम् | भ्रष्टराज्याः परातङ्का मर्त्या इव नगोपरि || १२-६७ || इन्द्रादयः सुरगणाः पुनर्देवीं समस्मरन् | गताः सर्वे नगं शुद्धं यत्रास्ते सुन्दरी शिवा || १२-६८ || (प्. १५९) आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् | मधुपर्काचमस्नान वसनाभरणानि च || १२-६९ || गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं शिवे | षोडशैरुपचारैश्च देवीं नीलसरस्वतीम् || १२-७० || पूजयित्वा बलिं दत्त्वा शिवायै विविधैः शुभैः | जपं चकार देवेशि देववृन्दः सुरोत्तमः || १२-७१ || महामन्त्रं पूर्वमुक्तं लक्षं जप्त्वा महेश्वरि | अयुतं चाजुहोदज्यैः पद्मपुष्पैर्मनोरमैः || १२-७२ || होमं चक्रुस्तिलयुक्तैः शर्करासहितैरपि | एवं हुत्वा महादेवि दशांशेनाभिषेचनम् || १२-७३ || दशांशैस्तर्पणं देवि कृतं सर्वैर्महेश्वरि | समाप्ते च ततो देवीं पूजयित्वा महानिशि || १२-७४ || बलिं दत्त्वा महादेव्यै सुराहाराः सुरास्तथा | एवं नियममानेन कृतं कर्म मनोरमम् || १२-७५ || ततो भगवती देवी देवैः स्मृता महेश्वरि | सन्तुष्टा सा महादेवी नीलरूपा महोदरी || १२-७६ || देवाग्रे परमेशानि प्रत्यक्षत्वमुपागता | किं करोमि क्व गच्छामि ब्रूत देवाः! समाहवे || १२-७७ || देवा ऊचुः | प्रणमा(मि?मो)महादेवि प्रसन्ना भव चेश्वरि | ततो भगवती देवी नीलरूपा मनोरमा || १२-७८ || दृष्ट्वा सुरसमूहान् सा तारिणी सर्वकामदा | स्वदेहतः पराः सृष्टा विद्या द्वादश ईरिताः || १२-७९ || काली चैव महादेवी महाविद्या तथैव च | षोडशी भुवनेशानी भैरवी च्छिन्नमस्तका || १२-८० || (प्. १६०) धूमावती च बगला मातङ्गी कमलात्मिका | एता विद्या महादेवि सिद्धिविद्याः प्रकीर्तिताः || १२-८१ || महादेव्याः सरस्वत्या देहोद्भूता वरानने | अन्याश्च मातरस्तस्या देहाज्जाता वरानने || १२-८२ || सर्वा देव्याः परानन्दे नृत्यन्ति चरणान्तिके | ततोऽसुरान् निहत्यैव पुनर्देवान् महेश्वरि || १२-८३ || संस्थापयामास तदा स्वस्वस्थानं गतास्तदा | इति प्रकारं देवेशि शृणु भैरवि मन्मुखात् || १२-८४ || तव स्नेहाद् वरारोहे प्रकाशमुपपादितम् | एतत् ते कथितं देवि विद्योत्पत्तिर्महेश्वरि || १२-८५ || सर्वतन्त्रेषु देवेशि गोपनीया सुरेश्वरि | तस्मात् परतरं नास्ति तन्त्रमध्ये महेश्वरि || १२-८६ || एषा ते कथिता विद्या सर्वसारोत्तमोत्तमा | इदानीं शृणु देवेशि सार्वज्ञकारणं मतम् || १२-८७ || रात्रौ प्रथमयामे तु मङ्गले वासरे शिवे | चतुर्हस्तप्रमाणां हि वेदिं कृत्वा मनोरमाम् || १२-८८ || सिन्दूरेण महेशानि यन्त्रं निर्माय साधकः | ताम्रस्योपरि संस्थाप्य वेष्टयेद् रक्तवाससा || १२-८९ || तिलपूर्णं घटं तत्र स्थापयेत् सुरवन्दिते | पूर्वमुक्तं मन्त्रबीजं तेनैव जपमाचरेत् || १२-९० || पूर्वास्यो हि जपं कुर्यद् विशेद् रक्तासने सुधीः | भूर्जे विलिख्य देवेशि साध्यनाम विदर्भितम् || १२-९१ || तदधः स्थापयेद् देवि विशेत् तदुपरि प्रिये | रक्तवस्त्रं परिधाय उष्णीषं लोहितं शिवे || १२-९२ || (प्. १६१) जपेत् पूर्वमुखो देवि पूजयेत् परमेश्वरीम् | सिन्दूरारुणविग्रहां करतले वामे च मुण्डं तथा कर्णे सव्ये शवेशं परिणमितजटाकेशपाशेन युक्ता(म्) | ध्यायेदट्टाट्टहासां (............?) रक्तधाराविशेषा रक्ताख्या पूर्णमूला विदधतु(?)(सु)वरं कामरूपा वराङ्गी || १२-९३ || इति ध्यात्वा महादेवीं पूजयेत् परमेश्वरीम् | दशसाहस्रजाप्येन जपं कुर्याच्शुचिस्मिते || १२-९४ || होमयेत् तद्दशांशेन दशांशैस्तर्पणं चरेत् | तद्दशांशैर्महेशानि अभिषेचनमाचरेत् || १२-९५ || ततो देवि महाभागे जपहोमादिकं चरेत् | पञ्चदिनप्रयोगेण सिद्धो भवति साधकः || १२-९६ || इति ते कथितं देवि प्रयोगसारमुत्तमम् | सर्वसिद्धिप्रदं देवि सर्वापद्विनिवारकम् || १२-९७ || पुष्पवन्तौ यदि वृथा तदा निष्फलभाग् भवेत् | अस्मात् परतरं नास्ति सत्यं सुरगणार्चिते || १२-९८ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (विद्योत्पत्ति सृष्टिक्रमपूजादिसाधन निरूपणं) द्वादशः पटलः || १२ || अथ त्रयोदशः पटलः | श्रीभैरव उवाच | अथ वक्ष्ये महेशानि सावधानावधारय | महाकाल्याः परं मन्त्रं सर्वसारस्वतप्रदम् || १३-१ || यामाहुराद्यां प्रकृतिं वराङ्गनां प्रमातुराद्यां सकलां तुरीयाम् | परापराम्बां वरदां वरेण्यां वीरेश्वरीं साधकसिद्धिदात्रीम् || १३-२ || यामाद्यां प्रकृतिं प्राहुः कालीं कालस्वरूपिणीम् | तस्या मन्त्रं महामन्त्रं मन्त्रसारमिमं प्रिये || १३-३ || यज्ज्ञात्वा साधकाः सर्वे सिद्धिं प्रापुर्महर्षयः | शिवरूपा शवारूढा वरदा भयनाशिनी || १३-४ || सर्वकामप्रदा देवी सर्वविस्मयकारिणी | नात्र चित्तादिशुद्धिः स्याद् न चामित्रादिदूषणम् || १३-५ || न कालनियमस्तत्र महामन्त्रस्य साधने | न वारं न च नक्षत्रं न च तिथ्यादिदूषणम् || १३-६ || गुरुचिन्ता न चैवात्र महाकाल्याश्च साधने | मन्त्रं शृणु वरारोहे सर्वसारस्वतप्रदम् || १३-७ || महाशक्तिद्वयं देवि शब्दबीजद्वयं ततः | निजबीजत्रयं चैव दक्षिणे कालिके पदम् || १३-८ || संहारक्रमयोगेन पूर्वबीजानि चोच्चरेत् | वर्तुलाद्यं महामन्त्रं वह्निप्रियान्तकं शिवे || १३-९ || (प्. १६३) त्रयोविंशत्यक्षरात्मा मनुः परमशोभनः | अनेन मन्त्रराजेन शिवोऽहं नात्रसंशयः || १३-१० || भैरवोऽस्य ऋषिः प्रोक्तो उष्णिक् छन्द उदाहृतम् | महाकाली देवता च लज्जाबीजं तु बीजकम् || १३-११ || हू/बीजं मन्त्रशक्तिः स्याद् विनियोगः प्रकीर्तितः | ध्यानं शृणु वरारोहे जपात् सिद्धिप्रदायकम् | यस्याभ्यासवशाद् देवि पशवो वीरतां गताः || १३-१२ || मेघाङ्गीं विगताम्बरां शवशिवारूढां त्रिनेत्रां(परां) कर्णालम्बितबालयुग्मशुभदां मुण्डस्रजा मालिनीम् | वामेऽधोर्ध्वकराम्बुजे नरशिरः खड्गं च सव्येतरे दानाभीति विमुक्तकेशनिचयां वन्दे महासुन्दरीम् || १३-१३ || इति ध्यानेन संपूज्य तोषयेत् परमेश्वरीम् | गायत्रीं शृणु चार्वङ्गि जपात् सार्वज्ञदायिकाम् || १३-१४ || कालिकायै पदं चोक्त्वा विद्महे पदमन्तरम् | श्मशानान्ते च वासिन्यै धीमहीति पदं ततः || १३-१५ || तन्नो घोरा च देवेशि प्रचोदयादनन्तरम् | जप्ता विंशतिधा देवी सर्वसंपत् प्रदायिनी || १३-१६ || जपेद् विंशतिसाहस्रं पुरश्चरणसिद्धये | होमयेत् तद् दशांशेन तद् दशांशेन तर्पयेत् || १३-१७ || दशांशेनाभिषेकं च भोजयेद् ब्राह्मणांस्ततः | तदन्ते महतीं पूजां कृत्वा सर्वं समाचरेत् || १३-१८ || ततो विसर्जयेद् देवि घटं चैव जले क्षिपेत् | तत् प्रयोगमहं वक्ष्ये दृष्टादृष्टफलप्रदम् || १३-१९ || साधिते च प्रयोगेऽस्मिन् मन्त्राः सिद्ध्यन्ति नान्यथा | गते तु(प्रहरे?प्रथमे)यामे तृतीयप्रहरावधि || १३-२० || (प्. १६४) प्राङ्गने चाथवा भूमौ साधयेद् वीरसाधनम् | कदलीस्तम्भमारोप्य वेदिकां च महेश्वरि || १३-२१ || घटं तत्र च संस्थाप्य सिन्दूरेणसमन्वितम् | आम्रपल्लवमेतस्मिन् पानसं खादिरं तथा || १३-२२ || अश्वत्थबदरीपत्रं क्षिपेत् कुम्भे गणेश्वरि | स्वर्णं रुप्यं तथा मुक्तां प्रवालं स्फटिकं तथा || १३-२३ || एतत् सर्वं समुत्क्षिप्य साधयेद् वीरसाधनम् | संलिख्य मातृकायन्त्रं तत्रोपरि विशेनमुदा || १३-२४ || कम्बले संविशेन्मन्त्री उत्तराशामुखः स्थितः | नानाद्रव्यैः पूजयित्वा अन्नव्यञ्जनसंयुतम् || १३-२५ || छागमांसं तथा सान्नं परमान्नं मनोरमम् | पायसं च तथा देवि महादेव्यै प्रदापयेत् || १३-२६ || आनीय युवतीं रम्यां नानालङ्कारभूषिताम् | केशसंस्करणं कृत्वा ताम्बूलं च प्रदापयेत् || १३-२७ || स्तनद्वये रमाबीजं मुखे वाग्भवबीजकम् | भगपार्श्वद्वये देवि लिखेत् कामद्वयं शिवे || १३-२८ || कुन्तलाकर्षणं कुर्यात् स्तनमर्दनपूर्वकम् | संक्षिप्य लिङ्गं तद्योनौ घातं कुर्याच्शुचिस्मिते || १३-२९ || सहस्रस्य प्रमाणेन जपं कुर्याद् वरानने | सप्तदिनप्रयोगेण मन्त्रसिद्धिर्भवेत् प्रिये || १३-३० || अथवा प्रजपेत् मन्त्रं यावत् पत्रं न दृश्यते | पत्रे जाते महेशानि मन्त्रसिद्धिर्न संशयः || १३-३१ || इति ते कथितं देवि रहस्यं सर्वकामदम् | न प्रकाश्यं महेशानि न प्रकाश्यं कदाचन || १३-३२ || (प्. १६५) भवभीतिर्महेशानि नास्ति हे नगनन्दिनि | प्रयोगोऽयं महेशानि सर्वसिद्धिप्रदायकः || १३-३३ || मूलमन्त्रस्य माहात्म्यं कथितुं नैव शक्यते | वक्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि || १३-३४ || तथापि वक्तुं शक्नोमि न च वै परमेश्वरि | अस्ति गुह्यतमं स्थानं त्रैलोक्ये चातिदुर्लभम् || १३-३५ || कामरूपं महापीठं सर्वकामफलप्रदम् | एवं जप्तं महेशानि अनन्तफलदं भवेत् || १३-३६ || यदि भाग्यवशेनैव पीठं प्राप्नोति मानवः | तत्र जप्तं महेशानि अनन्तफलदं भवेत् || १३-३७ || सिद्धिर्यत्र महेशानि तत्र तिष्ठति भैरवी | तस्मात् परतरं स्थानं तन्त्रेऽस्मिन्नात्र संशयः || १३-३८ || इति श्रीबृहन्निलतन्त्रे भैरवभैरवीसंवादे (महाकालीमन्त्र तत्पुरश्चरणादिप्रयोग वीरसाधननिरूपणं) त्रयोदशः पटलः || १३ || अथ चतुर्दशः पटलः | श्रीभैरव उवाच | अथ वक्ष्ये महादेवि कामाख्यामन्त्रमुत्तमम् | कामाख्यापञ्चमूर्तीनां रूपकं पञ्चभैरव(म्) || १४-१ || (प्. १६६) कामस्थं काममध्यस्थं कामोदरपुटी(हृ?कृ)तम् | कामेन कामयेत् कामी कामं कामेन कामयेत् || १४-२ || ज्येष्ठं तु व्यञ्जनं ब्रह्मा अपरः शक्र उच्यते | प्रथमं पुरतः कुर्यात् संसक्तं वसुधामयम् || १४-३ || प्रजापतिस्तथा शक्रबीजसंस्थाक्षिसंयुतम् | चन्द्रार्घसहितं बीजं कामाख्यायाः प्रचक्षते || १४-४ || इदं धर्मप्रदं काममोक्षा(र्थी?र्थ)संप्रदायकम् | इदं रहस्यं परममन्यतस्तु सुदुर्लभम् || १४-५ || स्तुत्यमिदं यः शृणुयाद् गुरुवक्त्राद् वरोत्तमम् | स कामान् निखिलान् प्राप्य परे लोके महीयते || १४-६ || कालीतन्त्रस्य मन्त्रस्य यथा पूर्वं मयोदितम् | मण्डलं प्रतिपत्त्या तु पर्याय आलयस्य च || १४-७ || स एव प्रथमः कार्यः शिलायां पुष्पचन्दनैः | पात्रादीनां प्रतिष्ठार्थं तथैवात्रापि योजयेत् || १४-८ || तत्र ताः सकलाः ग्राह्या आसनादेश्च पूजनम् | प्रथमं भास्करायार्घ्यं प्रदद्याच् श्वेतसर्षपैः || १४-९ || रक्तचन्दनपुष्पौश्च सगणाय महात्मने | आसनार्चनशेषे तु पीठोक्ताः सर्वदेवताः || १४-१० || पीठनाम्ना तु संपूज्य मण्डलस्य तु मध्यतः | ध्यानस्वरूपं भिन्नं तु महाकाल्या वरानने || १४-११ || कामाख्यासर्वसाम्ये तु महामायास्तवोद्गतम् | योगिनीस्तु चतुःषष्टिं पूजयेत् परमेश्वरि || १४-१२ || गुहं मनोभ(वो?वं) देवि महोच्छ्वासां तथा सखीम् | अनन्तरं पूजयेत् तु दिक्पालांश्च नवग्रहान् || १४-१३ || (प्. १६७) रूपतस्तान् समुद्दिश्य पूजयेत् स गणाधिपे | पूर्वद्वारे गणपतिं प्रथमं पूजयेच्शिवे || १४-१४ || नन्दिनं च हनूमन्तं पश्चिमद्वारि पूजयेत् | भृङ्गी चोत्तरतः पूज्यो महाकालस्तु दक्षिणे || १४-१५ || एते मम द्वारपालास्तव द्वारे प्रपूजयेत् | पात्रामृतीकृतवि(धौ?धिं) कुर्याद्वै काममुद्रया || १४-१६ || भूतापसरणं कुर्यात् पूर्वं तालत्रयेण तु | वामहस्ते दक्षिणेन पाणिना तालमाचरेत् || १४-१७ || हू/ हू/ फडिति मन्त्रेण वेतालादींश्च सर्पयेत् | अत्रोक्तेन स्वरूपेण प्राणायामान्तमाचरेत् || १४-१८ || स्थापयेत् प्रथमं देवीं मूलमन्त्रेण पूजकः | मधुक्षीराज्यदधिभिर्गोमूत्रैर्गोमयैस्तथा || १४-१९ || रत्नोदकैः शर्करादिगुडरत्नकुशोदकैः | सितसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः || १४-२० || रक्तचन्दनपुष्पैश्च दूर्वागोरोचनायुतैः | नवभिर्वितरेदर्घ्यं शिलाया योनिसन्निधौ || १४-२१ || आसनं पाद्यमर्घ्यं च तत आचमनीयकम् | मधुपर्कं स्नानजलं वस्त्रं चन्दनभूषणे || १४-२२ || पुष्पं धूपं च दीपं च नेत्राञ्जनमतः परम् | नैवेद्याचमनीये तु प्रदक्षिणानमस्कृती || १४-२३ || एते षोडश निर्दिष्टा उपचारास्तु सुन्दरि | आवाहयेद् महादेवि गायत्र्या कामरूपया || १४-२४ || तामेवं विद्धि वेतालगुह्यदैवतभैरवैः | कामाख्ये त्वमिहागच्छ यथावन्मम संनिधौ || १४-२५ || (प्. १६८) पूजाकर्मणि सान्निध्यमिह कल्पय कामिनि | पूजावसाने च बलिं देवीप्रित्यै निवेदयेत् || १४-२६ || रुद्राक्षमालया जप्यमाधायैव समापयेत् | त्र्यक्षरैर्मूलमन्त्रस्य त्रिरावृत्तैः प्रपूजयेत् || १४-२७ || महाकाल्याः षडङ्गानि स्वाङ्गानामन्तरे तथा | नीलमन्त्रस्य मन्त्रस्य कराङ्गन्यासयोश्च ये || १४-२८ || स्वरैः प्रोक्ता महादेवि सार्धचन्द्रैः सबिन्दुकैः | मूलमन्त्राद्यक्षराभ्यां युगपद्भुवि योजयेत् || १४-२९ || कनिष्ठादिक्रमेणैव त्वङ्गन्यासं समाचरेत् | अङ्गन्यासकरन्यासौ कृत्वा पश्चात् तु साधकः || १४-३० || हृच्छिरस्तु शिखा वर्म नेत्रास्योदरपृष्ठतः | वाह्वोः पार्श्वयोर्जङ्घयोः पादयोश्चापि विन्यसेत् || १४-३१ || अभयं वरदं हस्तमक्षमालां सुरेश्वरि | पूजयेच्च शिवं सूर्यं शिवाश्चन्द्रकलास्तथा || १४-३२ || रक्तपद्मं शरं चैव लोहितं ब्रह्मपुत्रकम् | मनोभवशिलां तत्र शक्तिहस्तां सुमध्यमाम् || १४-३३ || देव्याः प्रपूजयेद् भक्तः करवालं च पार्श्वतः | पीठाधिदेवतास्तत्र यजेत् कामेश्वरीं शुभाम् || १४-३४ || त्रिपुरां पूजयेन् मध्ये पीठे प्रत्यधिदेवताम् | शारदां च महोच्छ्वासां मध्य एवं प्रपूजयेत् || १४-३५ || चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी | योनिमुद्रा समाख्याता निर्माल्यस्य विसर्जने || १४-३६ || इदं द्रव्यं तु सिन्दूर अङ्गरागं तु कुङ्कुमैः | इति योऽत्र मया प्रोक्तो विशेषः परिपूजने || १४-३७ || (प्. १६९) एतैर्विशेषैः सहितं महादेव्याः प्रपूजने | सर्वं कल्पं समासाद्य कालिकां परिपूजयेत् || १४-३८ || मनोभवगुहामध्ये स याति परमां गतिम् | ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च || १४-३९ || कौमारी वैष्णवी दूर्गा नारसिंही च कालिका | चामुण्डा शिवदूती च वाराही कार्तिकी तथा || १४-४० || माहेश्वरी शङ्करी च जयन्ती सर्वमङ्गला | काली (क)पालिनी मेधा शिवा शाकम्भरी तथा || १४-४१ || भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा | क्षेमा धात्री तथा स्वाहा स्वधाऽपर्णा महोदरी || १४-४२ || घोररूपा महाकाली भद्रकाली भयङ्करी | क्षेमङ्करी चोग्रचण्डा चण्डोग्रा चण्डनायिका || १४-४३ || चण्डा चण्डवती चण्डी महाप्रियङ्करी तथा | बलविकरणी देवी बलप्रमथनी तथा || १४-४४ || मनोन्मथनी चैव हि सर्वभूतस्य दमनी | उमा तारा महानिद्रा विजया च जया तथा || १४-४५ || पूर्वोक्ताः शैलपुत्र्याद्या योगिन्यष्टौ तथा क्रमात् | ताभिराभिश्च सहिताश्चतुष्षष्टिं च योगिनीः || १४-४६ || पूजयेद् मण्डलस्या(न्ता?न्तः) सर्वकामार्थसिद्धये | नानाविधं तु नैवेद्यं पानं पायसमेव च || १४-४७ || मोदकापुपपिष्टादि देव्यै सम्यक् प्रदापयेद् | एवं तु पूजयेद् देवीं कालिकां कामदायिनीम् || १४-४८ || भक्तियुक्तो नरो भूत्वा सर्वान् स लभते प्रियान् | महोच्छ्वासा महादेवी महामाया तु सा स्मृता || १४-४९ || (प्. १७०) कालिकातन्त्रमन्त्रेण संपूज्य योनिमण्डले | तदेव मण्डलं चास्या ह्यङ्गन्यासं तदेव च || १४-५० || स एव पूजापर्यायस्तद्ध्यानं सैव देवता | मण्डलादि विसर्गान्तं महामायाः प्रपूजने || १४-५१ || यत् प्रोक्तं तेन तां देवीं महोच्छ्वासां तु मण्डले | स्नानपूर्वं पूजयेत् तु मध्वाज्यादिभिरासवैः || १४-५२ || शृणुष्वेकमनाः कान्ते त्रिपुरायाः प्रपूजनम् | एतस्या मूलम(न्त्रेण?न्त्रं तु) पूर्वमुत्तरतन्त्रके || १४-५३ || वाग्भवं कामबीजं च डामरं चेति तत् त्रयम् | सर्वधर्मार्थकामादिसाधनं कुण्डलीयुतम् || १४-५४ || त्रीण्यस्याः पूजने दद्यात् स्वर्गा(?)ध्याता महेश्वरी | त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी || १४-५५ || तस्यास्तु स्नापनं यादृङ् महाकाल्याः प्रकीर्तितम् | तेनैव स्नापनं कुर्याद् मूलमन्त्रेण साधकः || १४-५६ || त्रिकोणमण्डलं चास्यास्त्रिपुरं च त्रिरेखकम् | मन्त्रस्तु त्र्यक्षरं ज्ञेयं तथा रूपत्रयं ततः || १४-५७ || त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च भूतये | सर्वं त्रयं त्रयं यस्मात् तस्मात् सा त्रिपुरा मता || १४-५८ || उदीच्याद्यथ पू(र्णा?र्वा)न्ता रेखाः कार्यास्तु मण्डले | त्रिस्त्रिरेखास्तु कर्तव्याः स्युः पुनः पुष्पचन्दनैः || १४-५९ || ऐशान्याद्यथ नैर्-ऋत्यां यन्त्रं कृत्वाञ्ज(सो)ल्लिखेत् | नैर्-ऋत्यां चैव वायव्यां तत ऐशान्यगाः पुनः || १४-६० || एवं त्रिकोणं विलिखेद् मण्डलस्यान्तरे पुनः | ऐशान्यां या तु देवेशि सा शक्तिः परमेश्वरी || १४-६१ || (प्. १७१) एवं क्रमेण देवेशि वेतालादीन् प्रपूजयेत् | इति श्रीबृहन्नीअलतन्त्रे भैरवभैरवीसंवादे (कामाख्यामन्त्र त्रिपुरामण्डलपूजादिनिरूपणं) चतुर्दशः पटलः || १४ || अथ पञ्चदशः पटलः | श्रीभैरव उवाच | अथ वक्ष्ये महेशानि साधनस्थानमुत्तमम् | यत्र जप्तं महेशानि हठात् सिद्धिप्रदायकम् || १५-१ || दर्पणो देवि नाम्ना तु पर्वतः परमेश्वरि | कुबेरो यत्र वसति लोकपालैर्युतः शिवे || १५-२ || रोहितो मध्यदेशे तु तस्मिन्नास्ते महेश्वरि | रक्तवर्णो महेशानि लोहाकृतिरिवापरः || १५-३ || पर्वतस्य महेशानि माहात्म्यात् स्वर्गतिं गतः | हिमालयेन सदृशः सर्वकर्मसुसाधकः || १५-४ || समुत्पन्नं तु लौहित्यं सर्वैर्देवगणैर्हरिः | सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् || १५-५ || तस्य स्नानात् महेशानि पापदर्पस्य पाटनात् | तेनायं दर्पणो नाम सर्वैर्देवगणैः कृतः || १५-६ || (प्. १७२) तस्मिन् जप्ते महेशानि तत्क्षणात् सिद्धिमाप्नुयात् | रोहितो नाम दैत्योऽसौ देवीमन्त्रं प्रजप्तवान् || १५-७ || तत्र देवीवरं प्राप्य तत्क्षणात् स्वर्ग(तं?तिं) गतः | अधिष्ठाने तु देव्यास्तु दर्पणाख्या तदाभवत् || १५-८ || दर्पणाद् दिशि पूर्वस्यामग्निज्वालामयो गिरिः | सर्पाकारशतज्वालादीर्घाकृतिः कृतः स्मृतः || १५-९ || यत्र तिष्ठति वै वह्निरूर्ध्वभागे महेश्वरि | सिन्दूरपुञ्जसंकाशे चारुदारुशिलातले || १५-१० || तस्मिन् गिरिवरे वह्निर्नित्यमद्यापि शोभते | भैरवस्य हितार्थाय महाकाली महोज्ज्वला || १५-११ || तत्र तिष्ठति देवेशि रक्तवर्णा महोज्ज्वला | पूर्वमेव स्थितस्तत्र साक्षाद्वह्निर्महोज्ज्वलः || १५-१२ || लौहित्यनिकटे कुण्डः सर्वसारस्वतप्रदः | तत्र स्नात्वा महेशानि साक्षाद् देवमयो भवेत् || १५-१३ || पुरस्तादग्निस्थानस्य कुण्डकं वरुणाह्वयम् | तस्य तीरे गिरिः श्रेष्ठो नाम्ना कंशवरः पुरा || १५-१४ || वरुणस्तत्र वसति नित्यमेव जलाधिपः | तस्मिन् कंशवरे सम्यक् पूजयित्वा प्रचेतसम् || १५-१५ || स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् | आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् || १५-१६ || शशिचूडाशिखायुक्तं कौबेरं बीजमुच्यते | सप्तमो यः पकारस्य बिन्दुचन्द्रार्धसंयुतः || १५-१७ || वह्निबीजमिति ख्यातस्तेन वह्निं प्रपूजयेत् | मकारपञ्चमः सोमबिन्दुभ्यां वारुणः स्मृतः || १५-१८ || (प्. १७३) एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् | वायुकूटो नाम गिरिः पूर्वस्यां वारुणाचलात् || १५-१९ || खड्गीशवायुबीजेन मण्डलेन समन्वितः | वायुलोकः स्थितस्तत्र यस्माद् निःसृत्य मारुतः || १५-२० || ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूतले | तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् || १५-२१ || पूर्वाद्वायुगिरेः शैलश्चाश्वकूट इति स्मृतः | त्रिकोणश्चाश्वसंकाशस्तदूर्ध्वे चन्द्रमण्डलम् || १५-२२ || कूर्मं च बिन्दुसंयुक्तं मन्त्रं संजप्य सुन्दरि | चन्द्रबीजमिति ख्यातं विद्धि तं परमेश्वरि || १५-२३ || अद्यापि तं महादेवि प्रतिदर्शे च चन्द्रमाः | प्रदक्षिणीकृत्य महादेवि याति निशापतिः || १५-२४ || महाकाली घोररूपा तत्र तिष्ठति सुन्दरि | शिवेन सार्धं देवेशि क्रीडायुक्ता महानिशि || १५-२५ || तत्र गत्वा मनुं जप्त्वा सिद्धो भवति साधकः | रहस्यं शृणु देवेशि सर्वाह्लादकरं परम् || १५-२६ || तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः | तत्र स्नात्वा च पीत्वा च मुक्तिमाप्नोति मानवः || १५-२७ || चन्द्रो देवि महेन्द्रस्तु रोहिणीसहितः प्रिये | भगवत्याः पदं तत्र अञ्चितौ मुक्तिदायिनौ || १५-२८ || कृते कार्ये महादेवि भगवत्या महोल्कया | रोहिण्या सहितो देवि चन्द्रः सर्वप्रकाशकः || १५-२९ || अतिरेकं महाकाल्याः कृतवान् परमेश्वरि | दधिना परमेशानि दुग्धेनैव महेश्वरि || १५-३० || (प्. १७४) तेजोऽसीति घृतेनैव शर्करासहितेन च | फलोदकैर्महेशानि श्रीपुष्पसहितैस्तथा || १५-३१ || नानातीर्थोकैश्चैव अभिषिञ्चेद् अनन्तरम् | तज्जलैः सहितं कुण्डं महापुण्यफलप्रदम् || १५-३२ || चन्द्रकुण्डस्य तीरे तु महाभीमः सिताकृतिः | प्रतिदर्शं पूजयित्वा लभेद् मुक्तिं महेश्वरि || १५-३३ || तस्यैव निकटे देवि भस्मकूटो महागिरिः | यत्र तिष्ठति भूतेशो महादेवो महामतिः || १५-३४ || दक्षिणे तस्य कूटस्य देवी पीयूषधारिणी | उर्वशी नाम विख्याता महेन्द्रो यत्र तिष्ठति || १५-३५ || महाकाल्या महेशानि चोर्वशी तत्र तिष्ठति | महाकाल्या महादेवि यत्र तिष्ठति भाविनी || १५-३६ || सा चैवामृतराशिस्तु कृत्वा किंचन किंचन | उपस्थापयते नित्यं कामाख्या योनिमण्डले || १५-३७ || सुधाशिलान्तरस्था तु उर्वशी कुण्डवासिनी | उर्वशीकुण्डकूटस्य मध्ये कुण्डं सुधाकृतम् || १५-३८ || (द्वि?द्वा)त्रिंशद् धनुर्विस्तीर्णं पञ्चाशद् धनुरायतम् | तत्र स्नात्वा च पीत्वा च कामरूपो भवेद् नरः || १५-३९ || चन्द्रकुण्डस्य चैशान्यां मणिकूटो महागिरिः | मणिकर्णेशो महांस्तत्र सदा तिष्ठति सुन्दरि || १५-४० || सद्योजात इति ख्यातः कालिका तत्र तिष्ठति | जपं पूजां प्रशस्तां च साधयेत् साधनं परम् || १५-४१ || सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः | मणिकर्णेश्वरं दृष्ट्वा मुक्तिमाप्नोति साध्कः || १५-४२ || (प्. १७५) नदीषु मङ्गला नाम हिमपर्वतनिर्गता | पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना || १५-४३ || मणिकूटं समारुह्य यः पश्यति शुभां नदीम् | स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् || १५-४४ || मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलम् | निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः || १५-४५ || शरीरं प्राप्य तपसा समाराध्य वृषध्वजम् | तत्र मत्स्यस्वरूपेण कामदेवेन संस्थितम् || १५-४६ || १५- अधित्यकायां पृथिवी वीक्ष्यमाणा ह्यनन्ततः | नदी तु शाश्वती नाम्ना तत्रास्ते दक्षिणस्रवा || १५-४७ || शिवः कामधरो नाम तस्मिन् शैले व्यवस्थितः | शाश्वत्यां विविधं स्नात्वा पीत्वा कामधराम्भसि || १५-४८ || विमुक्तपापः शुद्धात्मा शिवलोके महीयते | इति यः परमं तत्त्वं जानाति परमेश्वरि || १५-४९ || स विमुक्तो महापापात् सत्यं सत्यं भवेद् नरः | इदानीं शृणु चार्वङ्गि रहस्यं सर्वमोहनम् || १५-५० || गन्धमादनपूर्वस्यां सुकान्तो नाम पर्वतः | तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम् || १५-५१ || यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः | अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ || १५-५२ || तत्पर्वते महादेवीं प्रपूज्य परमेश्वरि | पुरश्चरणमेकं तु कृत्वा निर्वाणमाप्नुयात् || १५-५३ || पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्व(को?यो) गिरिः | यत्रास्ते सततं देवो निर्-ऋ(तो?तिः) राक्षसेश्वरः || १५-५४ || (प्. १७६) खड्गहस्तो महाकायो वामे चर्मधरस्तथा | जटाजूटसमायुक्तः (पा?प्रां)शुः कृष्णाचलोपमः || १५-५५ || द्विभुजः कृष्णवर्णस्तु शवस्योपरि संस्थितः | रक्षःकूटं समारुह्य निर्-ऋतिं राक्षसेश्वरम् || १५-५६ || यः पूजयेद् महादेवीं कालिकां कालरूपिणीम् | नास्ति तस्य च रक्षोभ्यो भयं सुरगणार्चिते || १५-५७ || राक्षसाश्च पिशाचाश्च वेतालाश्च (ग?वि)नायकाः | तां दृष्ट्वा च महाकालीं सर्वपापैः प्रमुच्यते || १५-५८ || रक्षःकूटात् पूर्वदिशि भैरवो नाम (साधक?पर्वतः) | पाण्डुनाथ इति ख्यातो यथारूपेण संस्थितः || १५-५९ || तत्रैव पूजयेद् देवं पाण्डुनाथाह्वयं गिरिम् | वर्णेन घनवर्णेन गदापद्मधरः करे || १५-६० || दक्षिणे कमला देवी बाहुभ्यामपि बिभ्रतम् | चतुर्भुजं रक्तपद्मसंस्थितं मुकुटाकुलम् || १५-६१ || कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम् | नमो नारायणायेति मूलबीजेन वै हरेः || १५-६२ || एवं संपूजयेद् देवं चतुर्वर्गस्य सिद्धये | पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयो गिरिः || १५-६३ || ब्रह्मणा निर्मितः पूर्वं वासार्थं स्वर्गवासिनाम् | आयामेन शतव्यामं विस्तारेण तदर्धकम् || १५-६४ || सर्वपापहरं पुण्यं देवसेकात् समागतम् | कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतोदर || १५-६५ || हर मे सर्वपापानि पुण्यं शुद्धं च साधय | इति देवि प्रकारेण ब्रह्मकूटं महागिरिम् || १५-६६ || (प्. १७७) प्रदक्षिणेन संपूज्य देवीसायुज्यमाप्नुयात् | पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रमहो हरिः || १५-६७ || सततं यत्र वसति विष्णुर्वाराहरूपधृक् | ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् || १५-६८ || तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः | ब्रह्मशैलस्य पूर्वस्यां भूमिपीठो व्यवस्थितः || १५-६९ || चारुलिङ्गं शुभ्रवर्णं कामाख्यानाभिमण्डलम् | तत्रोग्रतारारूपेण रमते परमेश्वरी || १५-७० || तत्र तेनैव रूपेण पूजितव्या शुभात्मिका | रूपं शृणु वरारोहे तत्र ध्येया सदाशिवा || १५-७१ || कृष्णा लम्बोदरी दीर्घा विह्वला रक्तदन्तिका | चतुर्भुजा कृशाङ्गी च दक्षिणे कर्त्रिखर्परौ || १५-७२ || खड्गं चेन्दीवरं वामे शीर्षे चैव जटा पुनः | वामपादं शवस्योर्वोर्निधायोत्तमदक्षिणम् || १५-७३ || शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती | नागहारशिरोमाला भूतिदा कामदा परा || १५-७४ || त्रिकोणमण्डलं चास्याः हुंकारमध्यबीजकम् | द्वारेनाना योगिनीनां नामान्यासां तु तन्त्रके || १५-७५ || ज्ञेयानि नरशार्दूलैर्यत् प्रोक्तं चास्य गोचरे | उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलास्तथा || १५-७६ || नीलकूटं समारुह्य पुनर्योनौ न जायते | तत्र देवीं पूजयित्वा सर्वसिद्धिश्वरो भवेत् || १५-७७ || पुरन्दरपुरीयाते वाराङ्गनाकुलाधिके | सुधासंकीर्णतोऽमोघे पापं हर मनोहरे || १५-७८ || (प्. १७८) अमृतेनामृतं चाद्य देहि देवि ममोर्वशि | पुरन्दरप्रिये देवि वाराङ्गनाकुलाधिके || १५-७९ || लौहित्यहदसंकीर्णे पापं हर ममोर्वशि | इत्येभिः स्तुतिमन्त्रैश्च स्नात्वा पुण्योर्वशीवने || १५-८० || सर्वपापविनिर्मुक्तो विष्णुलोके विराजते | उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी || १५-८१ || शुक्लवस्त्रा गौरवर्ण पीनोन्नतपयोधरा | सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता || १५-८२ || उमामिन्द्रस्तु गदितं मन्त्रमस्याः प्रकीर्तितम् | गणेशः पूर्वदेशस्थः कामाख्यापर्वतस्य च || १५-८३ || तत्रैव चाग्निवेतालः स्थितः द्वारि मनोहरः | तयोः रूपं च मन्त्रं च यथोक्तं च महेश्वरि || १५-८४ || तदहं प्रतिवक्ष्यामि शृणुष्वैकमनाः प्रिये | प्रणवं परमेशानि हृदयं तदनन्तरम् || १५-८५ || हस्तिमुखायेति तदा निजबीजादिसंयुतः | मन्त्रं सि(द्धि?द्ध)गणेशस्य द्वारस्थस्य प्रकीर्तितम् || १५-८६ || रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम् | लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् || १५-८७ || शूर्पकर्णं बृहत्तुण्डमेकदन्तं पृथूदरम् | दक्षिणे करिदन्तं च उत्पलं च तथा परे || १५-८८ || लड्डुकं परशुं चैव वामतः परिकीर्तयेत् | बृहद्वक्षस्त्रिनयनं पीनस्कन्धाङ्घ्रिपाणिनम् || १५-८९ || युक्तं बहिर्कुरङ्गीभ्यां मध्यस्थमूषकान्वितम् | मन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पूजने || १५-९० || (प्. १७९) स एव मन्त्रो ग्राह्यस्तु तादृग्विधिनिषेवणम् | द्विभुजो पीनवदनो रक्तनेत्रो भयङ्करः || १५-९१ || छुरिका दक्षिणे पाणौ वामे रुधिरपात्रकम् | दंष्ट्राकरालवदनः कृशो धमनिसन्ततः || १५-९२ || जटां दीर्घां मूर्ध्नि बिभ्रद् घोररावयुतः परः | यः पूजयेत् तस्य पुनर्भूतादिभ्यो भयं नहि || १५-९३ || अथ वक्ष्ये महेशानि योगिनीतत्त्वमुत्तमम् | शैलपुत्रीप्रमुख्यानां मन्त्राण्यष्टाक्षराणि च || १५-९४ || वैष्ण्वईतन्त्रमन्त्राणि पूर्वप्रोक्तानि तानि च | शैलपुत्र्यास्तथा चाङ्गं मन्त्रं प्राक्प्रतिपादितम् || १५-९५ || रूपसदृशवर्णानां योगिनीनां विशेषतः | प्रत्यक्षरेण बीजेन दुर्गातन्त्रोक्तवर्त्मना || १५-९६ || नैजबीजेनैव पूज्या योगिन्यश्च महेश्वरि | कात्यायनीपादयुग्मं दुर्गातन्त्रेण पूजयेत् || १५-९७ || तदेव पूजनं रूपं तत् पूर्वं प्रतिपादितम् | प्रणवं पूर्वमुद्धृत्य छान्तवर्णं समादिशेत् || १५-९८ || वामगण्डेन संयुक्तं चन्द्रबिन्दुविभूषितम् | हंसशेषविसर्गान्तं मन्त्रं सर्वप्रियं शिवे || १५-९९ || कालरात्रिं पूजयित्वा सर्वैश्वर्ययुतो भवेत् | अनेनैव विधानेन पूजयेद् भुवनेश्वरीम् || १५-१०० || महाशक्तिं समुद्धृत्य वाग्भवं तदनन्तरम् | पुनयोनिं समासाद्य बीजत्रयमुदाहृतम् || १५-१०१ || अनेन मन्त्रराजेन पूजयेद् भुवनेश्वरीम् | एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः || १५-१०२ || (प्. १८०) विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने | नीलातन्त्रोक्तरूपेण तत्र पूजां समाचरेत् || १५-१०३ || प्रत्येकं योगिनीं यस्तु पूजयेत् सुरवन्दिते | स सर्वयज्ञस्य फलं लभते नात्र संशयः || १५-१०४ || नीलशैलस्य रूपस्य स्वरूपं प्रतिपादितम् | नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणम् || १५-१०५ || पूर्वस्यां कपटो नाम पर्वतो यः स्वरूपधृक् | तत्र याम्या शिला कृष्णा नीलाञ्जनसमप्रभा || १५-१०६ || अधित्यकायां राजेन्द्रं व्यासपञ्चसुरान्तकम् | पूजयेत् तत्र शमनं पा(शौ?शं)दण्डं सदैव यः || १५-१०७ || धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम् | कृष्णवर्णं तु द्विभुजं किरीटमुकुटोज्ज्वलम् || १५-१०८ || दधतं चासिपत्रं च वामपाणौ सदैव हि | कृष्णवर्णं स्थूलपादं बहिर्निःसृतदन्तकम् || १५-१०९ || भयाभयप्रदं नित्यं नृणां महिषवाहनम् | पूजयेत् परया भक्त्या यमबीजेन सुन्दरि || १५-११० || उपान्त्यवर्गस्यान्ते यो वर्णो बिन्द्विन्दुसंयुतः | यमबीजमिति ख्यातं यमस्य प्रीतिकारकम् || १५-१११ || अनेनैव तु मन्त्रेण यमं हि पूज(येत्?यन्)शिवे | कपटाख्याचलवरे नापमृत्युं समाप्नुयात् || १५-११२ || पूर्वस्यां कपटाख्यस्य शैलोऽर्चिष इति स्मृतः | यः पूर्वभाग्यैः प्राप्तो भृङ्गेश्याग्नेययामवस्थितः || १५-११३ || अस्मिन् वसन्ति सततं ग्रहाश्चैव यथेच्छया | एतांश्च पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित् || १५-११४ || (प्. १८१) अथ वक्ष्ये महेशानि सूर्यस्यापि च मन्त्रकम् | रूपं मन्त्रं च तन्त्रं च सूर्यस्यापि च संशृणु || १५-११५ || सप्तानामितरेषां तु मन्त्ररूपं शृणुष्व मे | रक्ताम्भोजधरः शूली शक्तिमांश्च गदाधरः || १५-११६ || चतुर्भुजो भानुरयं वरदो मेऽस्तु मऽऽगलः | प्रणवं पूर्वमुद्धृत्य हान्तवर्णं ततो न्यसेत् || १५-११७ || चन्द्रेण पुटितं बीजं द्वितीयं बीजमुत्तमम् | तृतीयं शृणु चार्वङ्गि वह्निबीजं महात्मकम् || १५-११८ || अनेन मन्त्रराजेन सूर्यस्य पूजनं भवेत् | इदानीं कथयिष्यामि कज्जलाचलमुत्तमम् || १५-११९ || यत्र गौरी महादुर्गा शिवेन सहिता सती | सर्वे विद्याधराद्यास्तु सन्त्यत्र देवयोनयः || १५-१२० || तं पर्वतं दिव्यरूपं समीक्ष्य च जपेद् दश | सहस्रान्त्रं मनुं प्रोक्तं सर्वसर्वस्वगोचरे || १५-१२१ || थान्तबीजं समुद्धृत्य वामगण्डविभूषितम् | अर्धचन्द्रेण पुटितं बीजमाद्यं प्रियङ्करम् || १५-१२२ || महाशक्तिं वरारोहे द्वितीयं बीजमुद्धृतम् | वह्निजायाअवधि मन्त्रं दुर्गाया बीजमुत्तमम् || १५-१२३ || तेन बीजेन देवेशि कालिकां पूजयेत् शिवे | सहस्रस्य प्रमाणेन जपं कुर्यात् शुचिस्मिते || १५-१२४ || तत्र जप्ते महेशानि मोक्षमाप्नोति साधकः | एकस्मिंश्च महेशानि पुरश्चरणके कृते || १५-१२५ || पुरश्चरणलक्षाणां फलं तत्र भविष्यति | तस्य पूर्वे महेशानि शुभपर्वतके शुभे || १५-१२६ || (प्. १८२) शच्या सार्धं पुरा रेमे यत्र शक्रः सुरेश्वरः | तत्पूर्वं सा महादेवि नदी कपिलसंज्ञिता || १५-१२७ || तस्यां स्नात्वा जलं पीत्वा देवीलोके महीयते | कालिकानिलयात् पूर्वदक्षिणस्यां तथा दिशि || १५-१२८ || विद्यते महदावृत्तं पवित्रं भूबिलं महत् | पञ्चविंशतिमानेन योजनानां गणेश्वरि || १५-१२९ || तस्मादायाति स्म नदी सर्वदेवनमस्कृता | को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य पिला स्मृता || १५-१३० || गङ्गेव फलदा यस्मात् तस्मात् कपिलसंज्ञिता | स्नात्वा कपिलगङ्गायां पूर्वमन्यतरासु च || १५-१३१ || नरः स्वर्गमवाप्यादौ देवीलोकं ततो व्रजेत् | अभीष्टदा नदीपूर्वभागे दमनिकाह्वया || १५-१३२ || नदी महाहृष्टतोया पापानां शमनी तथा | ततो ब्रह्माह्वया चाभूद् अपरा सरिदुत्तमा || १५-१३३ || तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी | माघमासं तु सकलं नद्यां स्नात्वा महेश्वरि || १५-१३४ || तथा दमनिकायां तु परं निर्वाणमाप्नुयात् | इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (साधनस्थानान्तरनिरूपणं) पञ्चदशः पटलः || १५ || अथ षोडशः पटलः | श्रीभैरव उवाच | अथ वक्ष्ये महेशानि सारस्वतपदप्रदम् | आचारं परमेशानि शृणुष्वैकमना यतः || १६-१ || यान्यवश्यं महेशानि कर्तव्यानीति निश्चितम् | साधवः क्षीणदोषाश्च स्वच्छन्दाः साधुवादकाः || १६-२ || तेषामाचरणं यत् तु सदाचारः स उच्यते | समुद्दिष्टसदाचारान् गृह्णीयात् तद्गृहान्तवत् || १६-३ || कुर्याद् विधिनिषेधाभ्यां निषेधादिविधिं तथा | षट्कर्मसु नियु~जीत राजा विप्रान् समन्ततः || १६-४ || तथैव क्षत्रियादीनि स्वे स्वे कर्मणि योजयेत् | यः स्वधर्मं परित्यज्य परधर्मं समाचरेत् || १६-५ || स दण्ड्यः परमेशानि शतं दण्डेन दण्डयेत् | सांवत्सरेषु कृत्येषु विशिष्यैतान् समाचरेत् || १६-६ || अवश्यं पार्थिवः कुर्यात् तान् विशेषान् महेश्वरि | शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् || १६-७ || नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये | पौषे मास्यसिते पक्षे तृतीया या महेश्वरि || १६-८ || पुष्येण युक्ता देवेशि तत्र देवीं प्रपूज्य च | सर्वान् कामानवाप्नोति सर्वं भवति निश्चितम् || १६-९ || (प्. १८४) ज्यैष्ठे दशहरायां तु कालिकाया महेश्वरि | तथा नीलसरस्वत्याः पूजनं विधिवच्चरेत् || १६-१० || अवश्यं राजभिः कार्यमन्यथा नश्यति ध्रुवम् | एभिः कृत्यैर्बलं राज्यं कोषश्चापि विवर्धते || १६-११ || अकृते च महादेवि दुर्भिक्षं मरकं भवेत् | जायन्ते चेतयः सर्वा विशिष्यैतान् समाचरेत् || १६-१२ || शरत्काले महाष्टम्यां नीलायाः पूजने विधिः | पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम् || १६-१३ || विधिं नीराजनस्य त्वं शृणु हे नगनन्दिनि | कृतेन येन चास्माकं गजानामपि वर्धनम् || १६-१४ || आश्विने शुक्लपक्षस्य तृतीयां स्नाति योगिनी | ऐशान्यां ससुरा सैव गृह्णीयात् स्नानमुत्तमम् || १६-१५ || नीराजनं ततः कुर्यात् संप्राप्ते देवसेऽष्टमे | नीराजनस्य कालस्तु पूर्वमुक्तो मया तव || १६-१६ || विधानमात्रं देवेशि शृणुष्वैकमनाः प्रिये | एकं हयं महासत्त्वं सुमनोहरमेव वा || १६-१७ || पूजयेत् सप्त दिवसान् गन्धपुष्पांशुकादिभिः | तृतीयादौ पूजयित्वा नयेत् तं यज्ञमण्डलम् || १६-१८ || चेष्टा निरूपयंस्तस्य जानीयात् तु शुभाशुभम् | परराष्ट्राभिमर्दः स्याद् अश्वो यदि पलायते || १६-१९ || म्रियते राजपुत्रस्तु यदि लेडानि मुञ्चति | नीयमानो न गच्छेच्चेद् महिषीमरणं तथा || १६-२० || तथैव मुखनासाक्षिशब्दं कुर्याद् हयो यदि | यत्काष्ठाभिमुखं कुर्यात् तत्काष्ठायां जयेद् रिपून् || १६-२१ || (प्. १८५) इति ते कथितं देवि राजत्वस्य प्रदायकम् | प्रयोगं मम सर्वस्वं जानीहि नगनन्दिनि || १६-२२ || अन्यं शृणु वरारोहे येन सिद्ध्यति साधकः | ज्यैष्ठे मासि सिते पक्षे ज्येष्ठायुक्ता च सुन्दरि || १६-२३ || पौर्णमासी महेशानि तस्यां स्नानं महाफलम् | चन्दनागुरुकक्कोलैर्दूर्वया श्वेतसर्षपैः || १६-२४ || आमलक्या महेशानि हरिद्राचूर्णकेन च | तिलतैलैर्विष्णुतैलैरन्यैश्च गन्धसंयुतैः || १६-२५ || नारायणेन तैलेन स्नपयेत् परमेश्वरीम् | नारिकेलोदकेनैव स्नपयेद् यदि कालिकाम् || १६-२६ || लक्षवर्षसहस्रैश्च देवीलोके महीयते | दध्ना च परमेशानि स्नपयित्वा सुरेश्वरीम् || १६-२७ || कल्पकोटिशतेनापि सायुज्याच्च न हीयते | दुग्धेन स्नपयेद् देवीं महाकालीं महोज्ज्वलाम् || १६-२८ || तस्य लक्ष्मीर्विशेषेण स्थिरा स्याद् नात्र संशयः | घृतेन स्नपयेद् देवीं सर्वकामार्थसिद्धये || १६-२९ || तथा शर्करया देवि फलमाप्नोति साधकः | मधुना स्नपयित्वा तु सर्वकामवरेश्वरीम् || १६-३० || कालिकां परमेशानि तथा चैव सरस्वतीम् | सर्वदुःखविनिर्मुक्तः स्वर्गे लोके महीयते || १६-३१ || सुगन्धिपुष्पतोयेन स्नपयेत् परमेश्वरीम् | तस्य पुण्यफलं देवि शृणुष्वैकमनाः प्रिये || १६-३२ || कल्पकोटिसहस्रैस्तु देवीसायुज्यमाप्नुयात् | भुङ्क्ते च विविधान् भोगान् यावदाभूतसंप्लवम् || १६-३३ || (प्. १८६) सचन्दनजलेनैव स्नपयित्वा सुरेश्वरीम् | यमलोकं परित्यज्य कैलासे वसतिर्भवेत् || १६-३४ || वैशाखे मासि देवेशि स्नपयेत् शीतलैर्जलैः | नारिकेलोदकं दिव्यं तस्यै दद्याद् मनोहरम् || १६-३५ || प्रातः संपूजयेद् देवीं सायाह्ने संप्रकाशयेत् | ज्यैष्ठे मासि सुरश्रेष्ठे मल्लिकां मालतीं तथा || १६-३६ || दापयेत् परमेशानि दध्ना च स्नानमाचरेत् | तथा कर्पूरसंमिश्रैस्तोयैश्च स्नपयेत् शिवाम् || १६-३७ || एवं क्रमेण देवेशीं स्नपयित्वा सुखं भवेत् | शुचौ मासि महादेव्यै शर्करासहितं दधि || १६-३८ || दद्याच्च परमेशानि स्नपयेत् श्वेतसर्षपैः | शर्करासहिता/ल्लाजान् महादेव्यै प्रदापयेत् || १६-३९ || एवं क्रमेण देवेशि पुरश्चर्याफलं लभेत् | श्रावणे परमेशानि घृतेन स्नपयेत् शिवाम् || १६-४० || तथा मसूरचूर्णेन स्नपयित्वा महेश्वरीम् | भुक्त्वा च विविधान् भोगान् दुर्गालोके महीयते || १६-४१ || पिष्टकैः सगुडैर्देवि तोषयेत् परमेश्वरीम् | नभस्ये परमेशानि स्नपयेत् सुरसुन्दरीम् || १६-४२ || हरिद्रामलकेनैव मथनेनैव सुन्दरि | क्षीरं दद्याद् महादेव्यै शर्करासहितं प्रिये || १६-४३ || छागमांसं पलान्नं च सूक्ष्मान्नसहितेन च | दद्याच्च पिष्टकं मौद्गं क्षीराज्यपरिभूषितम् || १६-४४ || एवं क्रमेण यो दद्याद् देवीलोकमवाप्नुयात् | इषे मासि प्रवृत्ते तु महादेवीं सरस्वतीम् || १६-४५ || (प्. १८७) स्नपयेत् च कषायेण कल्पामृतरसेन च | नारायणेन तैलेन विष्णुतैलेन वा पुनः || १६-४६ || अन्येन गन्धतैलेन स्नपयेद् भवमोहिनीम् | दद्याच्च परमं हृद्यं सन्देशं रसनासुखम् || १६-४७ || लड्डुकं परमं तस्यै दापयेत् सुरनायिके | नानाविधैश्च बलिभिः पूजयेत् शांकरीं शिवाम् || १६-४८ || एवं पूजां नरः कृत्वा वसेत् कल्पायुतं दिवि | कार्तिके मासि देवेशि स्नपयेदुष्णदुग्धकैः || १६-४९ || यक्षकर्दमकैर्वापि स्नपयेत् कार्तिके शिवे | भ्रष्टद्रव्यं महादेवि गोधूमादिविकारजम् || १६-५० || क्षीरेण सहितं दद्याद् महादेव्यै प्रियङ्करम् | नारिकेलं तथा रम्भां गुवाकमिक्षुदण्डकम् || १६-५१ || जम्भीरं नागरङ्गं च दद्याद् देव्यै सुशोभनम् | कदुष्णं परमान्नं च पिष्टकेन च संयुतम् || १६-५२ || भ्रष्टमत्स्यादिकं तस्यै दापयेद् यत्नतः शिवे | एवं कृत्वा नरः सद्यो जीवन्मुक्तो भविष्यति || १६-५३ || न तस्य पापपुण्यादि जायते नात्र संशयः | मार्गशीर्षे महादेवि मासश्रेष्ठे च सुन्दरीम् || १६-५४ || स्नपयेद् उष्णतोयैश्च वस्त्रपूतैः सुगन्धिभिः | कुङ्कुमादिभिरायुक्तैः पुष्पमाल्यमनोहरैः || १६-५५ || हरिद्रासहितैश्चारग्वधबीजैः सशर्करैः | स्नपयेत् परमेशानीं घृताक्तं चान्नमुत्तमम् || १६-५६ || व्यञ्जनं च घृताक्तं च सगुडं शुक्तिकायुतम् | वार्ताकीभ्रष्टद्रव्येण तोषयेत् परमेश्वरीम् || १६-५७ || (प्. १८८) मूलकं परमं तस्यै दापयेद् यत्नतः शिवे | नैवेद्यैर्विविधैर्देवि चणकादिविभूषितैः || १६-५८ || कदलीसहितैर्देवि दद्यात् परमसुन्दरि | सूक्ष्मवस्त्रं महादेव्यै ख(टं?ट्वां)दद्यात् सुशोभनाम् || १६-५९ || शययायुक्तां महेशानि दापयेत् सुरवन्दिते | एवं क्रमेण यो देवि मार्गे मासि प्रदापयेत् || १६-६० || तस्य पुण्यफलं देवि शृणु हे नगनन्दिनि | इह लोके सुखं भुक्त्वा महाराजत्वमाप्नुयात् || १६-६१ || इति ते कथितं देवि सर्वसिद्धिप्रदायकम् | पौषे मासि महादेवीं स्नपयेदुक्तया दिशा || १६-६२ || पूपयावकद्रव्यादि दापयेत् सुरमोहिनि | दिवा रात्रौ महादेव्यै दापयेद् भक्तमुत्तमम् || १६-६३ || सघृतं परमं हृद्यं ताम्बूलादियुतं प्रिये | नैवेद्यं परमं दद्यात् सयत्नैः साधकोत्तमैः || १६-६४ || माघे मासि महादेवि स्नपयेद् घृतपायसैः | गन्धयुक्तैर्जलैश्चापि स्नपयित्वा परां शिवाम् || १६-६५ || देवीसायुज्यमेवात्र प्राप्नुयाद् नात्र संशयः | चर्व्यं चोष्यं तथा लेह्यं पेयं दद्याद् मनोरमम् || १६-६६ || अन्नं पिष्टादिकं दद्याद् महादेव्यै प्रियङ्करम् | एवं क्रमेण देवेशीं तोषयेद् बहुयत्नतः || १६-६७ || इह लोके सुखं भुक्त्वा परत्र मोक्षमाप्नुयात् | फाल्गुने मासि देवेशि स्नपयेत् परमेश्वरीम् || १६-६८ || घृतेन पयसा वापि स्नपयेत् परमेश्वरीम् | नैवेद्यं परमं दिव्यं सुस्वादु सुमनोहरम् || १६-६९ || (प्. १८९) नानाद्रव्ययुतं भद्रे सर्वद्रव्यं सुशोभनम् | दद्याद् देव्यै महेशानि सुखमाप्नोति साधकः || १६-७० || चैत्रे मासि महेशानि दद्याच्च घृतपायसम् | दधि क्षीरं मधु द्रव्यं पायसं शर्करां तथा || १६-७१ || दद्याद् देव्यै महेशानि परं द्रव्यं सुशोभनम् | एवं क्रमेण देवेशि पूजयेद् यस्तु साधकः || १६-७२ || स मोक्षभाग् भवत्येव सत्यं सत्यं महेश्वरि | इति ते कथितं दिव्यं सर्वपापप्रमोचनम् || १६-७३ || प्रयोगं यः करोत्येवं स सुखी नात्र संशयः | इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (प्रयोगान्तर द्वादशमासविधिनिरूपणं) षोडशः पटलः || १६ || अथ सप्तदशः पटलः | अथ वक्ष्ये महेशानि सार्वज्ञकारणं परम् | रात्रौ देवि वरारोहे प्रथमे प्रहरे गते || १७-१ || मध्यरात्रौ विशेषेण सहस्रं यदि साधकः | प्रजपेत् परया भक्त्या मन्त्रमेनं समाहितः || १७-२ || योनिं पूर्वं पुनर्योनिं बीजयुग्मात्मकं मनुम् | प्रजपेद् मध्यरात्रौ च मन्त्रपूतं जलं क्षिपेत् || १७-३ || (प्. १९०) षण्मासाभ्यन्तरे देवि सर्वज्ञत्वं समाप्नुयात् | इति सत्यं महादेवि संशयो नास्ति कश्चन || १७-४ || चन्द्रसूर्यौ यदि वृथा तदा निष्फलभाग् भवेत् | रहस्यं शृणु चार्वङ्गि महाकाल्याः प्रियङ्करम् || १७-५ || येन सिद्ध्यति देवेशि साधको वीतमत्सरः | कार्तिके मासि देवेशि अमावास्या च या तिथिः || १७-६ || तस्यां रात्रौ विशेषेण पूजयेत् कालिकां पराम् | प्रथमे प्रहरे देव्यः स्नानाय परमेश्वरीम् | ७ || समाराध्य महेशानि संकल्पस्तदनन्तरम् | तत् समीपे (मण्डपे तु) पद्मं निर्माय सुन्दरि || १७-८ || अथवा सर्वतोभद्रं निर्माय मण्डलं शुभम् | भद्रासने महादेवीं संस्थाप्य पर्मेश्वरि || १७-९ || स्नपयेद् दर्पणे शुभ्रे हरिद्राम्लकेन च | तैलेन परमेशानि गन्धयुक्तेन सुन्दरि || १७-१० || शीतलैः सुजलैर्देवीं कालिकां स्नपयेद् मुदा | एवमुक्तप्रकारैश्च नीलावत् पूजयेत् सुधीः || १७-११ || ध्यानं शृणु वरारोहे सारस्वतप्रदायकम् | येन ध्यानेन देवेशि साधयेत् सिद्धिमुत्तमाम् || १७-१२ || मेघवर्णां स्मितमुखीं मुक्तकेशीं दिगम्बराम् | अट्टाट्टहासवदनां स्मेरा(रुण?नन)सरोरुहाम् || १७-१३ || त्रिनेत्रां वरदां नित्यां महादेवोपरि स्थिताम् | कर्णालम्बितबालाढ्यां मुण्डमालाविभूषिताम् || १७-१४ || वामोर्ध्वे कर्त्रिकां दिव्यां तद(र्धे?धो) मुण्डधारिणीम् | अभयं वरदं हस्ते बिभ्रतीं दक्षिणेन च || १७-१५ || (प्. १९१) त्रैलोक्यमोहिनीं देवीं मालां दिव्यां सुबिभ्रतीम् | एवं ध्यायेद् महाकालीं प्रसन्नवदनां शुभाम् || १७-१६ || मण्डपं परमेशानि निर्माय विधिवत् शिवे | चतुरस्रं चतुर्द्वारं मुकुटाङ्कितमूर्द्धजाम् || १७-१७ || परमे मण्डपे देवि पूजयेत् परमेश्वरीम् | विविधैः पूजयेद् द्रव्यैः पुष्पधूपासनादिभिः || १७-१८ || नैवेद्यं परमं दद्याद् नानाद्रव्योपशोभितम् | पक्वान्नं परमं दिव्यं नानारससमन्वितम् || १७-१९ || सन्देशं परमं कृत्यं(हृद्यं) सुस्वादु सुमनोहरम् | अपर्याप्तं महेशानि नाभिमात्रप्रमाणतः || १७-२० || प्रहरे प्रहरे पूजां जपं चैव समाचरेत् | ननाविधैश्च बलिभिः पूजयेत् कालिकां शिवाम् || १७-२१ || होमयेत् परमेशानि पायसाज्येन सुन्दरीम् | बिल्वपत्रैर्महेशानि होमयेच्च महेश्वरीम् || १७-२२ || स्तवं पठेद् महेशानि (भ?भु)क्तिमुक्तिप्रदायकम् | ततो विसर्जयेद् धीमान् महदेवीं मनोहराम् || १७-२३ || इति ते कथितं दिव्यं कालिकायाः प्रपूजनम् | यः करोति महादेवि स मोक्षं प्राप्नुयाद् ध्रुवम् || १७-२४ || इह लोके सुखं देवि भवेद् नीलाविधौ प्रिये | अथ वक्ष्ये महादेवि कुण्डानां निर्णयं तथा || १७-२५ || होमार्थ्ं परमेशानि सरस्वत्याः शिवप्रिये | होमस्यैव विधिं वक्ष्ये कुण्डेन सहितं (विभो?शिवे) || १७-२६ || आदौ भूमिं परीक्षेत वास्तुलक्षणतत्परः | शल्योद्धारं प्रकुर्वीत चाथवा परमेश्वरि || १७-२७ || (प्. १९२) पौरुषेण प्रमाणेन खनेत् सुरगणार्चिते | वास्तुपूर्वदिशि महादेवि कुण्डं प्रकल्पयेत् || १७-२८ || ऐशान्यां वा महेशानि कुण्डं कुर्याद् यथाविधि | सप्तहस्तं नव तथा पञ्च पञ्च विभेदतः || १७-२९ || चतुरस्रं चतुर्द्वारं निश्छिद्रं तु प्रकल्पयेत् | संस्तरेद् दर्भकेणैव सूत्रेणैव प्रकल्पयेत् || १७-३० || एककुण्डमिते नान्यत् पञ्चहस्तगृहं भवेत् | चतुरस्रे महेशानि सर्वकर्माणि साधयेत् || १७-३१ || प्रमाणं शृणु देवेशि येन सिद्धो भवेद् मनुः | कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वणः || १७-३२ || मध्यस्य दीर्घमानेन मानाङ्गुलिनिरूपणम् | अष्टभिश्च यवै(र्देवि) एकाङ्गुलमिति स्मृतम् || १७-३३ || प्रत्येकसूत्रमास्फाल्य तन्मध्ये साधयेत् सुद्धिः | भागत्रयेण तन्मध्ये विधाय चैव पार्वति || १७-३४ || दिशोर्मत्स्ययुगं कुर्यात् (तस्यान्या?तन्मत्स्या)दनयोः क्वचित् | दक्षिणोत्तरगं सूत्रं यथानालं निपातयेत् || १७-३५ || तत् सूत्राग्रेषु संस्थाप्य कोणेषु मकरांल्लिखेत् | कोणस्य मकरस्थानि दिक्षु सूत्राणि पातयेत् || १७-३६ || एवं कृते चतुष्कोष्ठं चतुरस्रं च जायते | एतत् कुण्डं महेशानि चतुरस्रं सुलक्षणम् || १७-३७ || कुण्डविस्तारमानं हि तादृशं परमेश्वरि | तन्मानं परमेशानि तादृग् रूपा च मेखला || १७-३८ || पञ्चत्रिमेखलं कुर्यात् तन्त्रवित् साधकोत्तमः | मेखलात्रितयं चैव महाहोमे महेश्वरि || १७-३९ || (प्. १९३) वेदाग्निनयनोत्सेधविस्तारा हस्तमात्रके | अन्तर्नवाङ्गुलोत्सेधा विस्तृता तु नवाङ्गुला || १७-४० || सर्वत्रैवंविधं क्षेत्रं कुण्डानामनुरूपतः | एकाङ्गुलं परित्यज्य कुण्डान्तर्मेखला भवेत् || १७-४१ || एकहस्ते तु कुण्डे वै ह्यन्यत् कुण्डे विवर्जयेत् | अर्द्धाङ्गुलप्रमाणे तु कुण्डं कुर्याच्च मन्त्रवित् || १७-४२ || सात्त्विकी मेखला पूर्वा द्वितीया राजसी तथा | तृतीया तामसी प्रोक्ता मेखलानां तु निर्णयः || १७-४३ || इति ते कथितं दिव्यं मेखलानिर्णयं तथा | अथ वक्ष्ये महेशानि योनिनिर्णयमुत्तमम् || १७-४४ || प्रथमे योनिं कुण्डे तु [प्रथमे मेखले योनिं ख पाठः |] मेखलान्तरपूर्वतः | कुर्याद् गजोष्ठवर्णं तु कुण्डवित् सर्वलक्षणम् || १७-४५ || योनिः षडङ्गुला प्रोक्ता चतुरङ्गुलविस्तृता | उन्नता द्व्यङ्गुला प्रोक्ता कुण्डे हस्तमिते बुधैः || १७-४६ || नाभिं कुण्डोदरे [कुण्डादधः ख पाठः |] कुर्यात् सुधीरष्टदलाब्जवत् | तत् तत् कुण्डानुरूपां वा नाभिं तत्र विचक्षणः || १७-४७ || नेत्रवेदाङ्गुलोत्सेधविस्तारा नाभिरत्र वै | द्विहस्तादिषु कुण्डेषु योनिं संवर्धयेत् क्रमात् || १७-४८ || एकैकाङ्गुलिमानेन तथा नाभिं च वर्धयेत् | कुण्डस्थले वहिःस्थानं स्थलं विद्धि महेश्वरि || १७-४९ || चतुरस्रस्थलारब्धं नालमध्ये सरन्ध्रकम् | स्थूलमूला च सूक्ष्माग्रा उन्नतिः स्याद् मनोहरा || १७-५० || वहिःस्थले मेखलायाः स्थानमारभ्य [बहिःस्थमेखलाबाह्यस्थानमा ख पाठः |] कारयेत् | योनिमध्ये बिलं कुर्यात् तद् बाह्ये ग्राहिसंज्ञकम् || १७-५१ || (प्. १९४) योन्यग्रं वर्धयेद् विद्वान् नाभिर्वृत्ताकृतिर्भवेत् | हस्तमात्रे सहस्रं तु द्विहस्ते चायुतं स्मृतम् || १७-५२ || चतुर्हस्ते लक्षमात्रं षट्करे दशलक्षकम् | दशहस्ते महेशानि कोटिहोमं समाचरेत् || १७-५३ || दशहस्तात् परं नास्ति तन्त्रेऽस्मिन् परमेश्वरि | खाताधिके भवेद् रोगी हीने धेनुधनक्षयः || १७-५४ || वक्रकुण्डे तु संतापो बन्धुहा हीनमेखले | मेखलारहिते शोकोऽभ्यधिके वित्तसंक्षयः || १७-५५ || भार्याविनाशकं कुण्डं योन्याः शून्यं महेश्वरि | अपत्यध्वंसनं कुण्डं यदि तत् कण्ठवर्जितम् || १७-५६ || उच्चाटः स्फुटिते छिद्रसंकुले वा मृतिर्भवेत् | तस्माद् हि परमेशानि ज्ञात्वा कुण्डं प्रसाधयेत् || १७-५७ || देवीप्रीतिकरं कुण्डं सर्वदेवनमस्कृतम् | मन्त्रसिद्धिकरं कुण्डं सर्वसारस्वतप्रदम् || १७-५८ || अथ वक्ष्ये महेशानि ह्यग्निकार्यं सुशोभनम् | यस्मिन् हुत्वा वरारोहे सर्वविद्यामयो भवेत् || १७-५९ || मण्डपस्योत्तरे भागे कुण्डान् कृत्वा यथोदितान् | नित्यनैमित्तिककाम्यान् संस्कारं तत्र चाचरेत् || १७-६० || अष्टादश स्युः संस्काराः कुण्डानां तन्त्रवर्त्मना | वीक्षणं मूलमन्त्रेण शरेण प्रोक्षणं चरेत् || १७-६१ || तेनैव ताडनं दर्भैर्वर्मणाभ्युक्षणं मतम् | अस्त्रेण खननोद्धारौ हृन्मन्त्रेण प्रपूरणम् || १७-६२ || समीकरणमन्त्रेण सेचनं वर्मणा मतम् | कुट्टनं हेतिमन्त्रेण वर्ममन्त्रेण मार्जनम् || १७-६३ || (प्. १९५) विलेपनं कलारूपकल्पनं तदनन्तरम् | त्रिसूत्रीकरणं पश्चाद् हृदयेनार्चनं भवेत् || १७-६४ || अस्त्रेण वज्रीकरणं हृन्मन्त्रेण जलैः शुभैः | योनिकुण्डानि देवेशि संस्कुर्यात् साधकोत्तमः || १७-३५ || तस्मिन् कुण्डे महेशानि रेखात्रयं समाचरेत् | प्रागग्रा उदगग्रा वा तिस्रो रेखा लिखेत् ततः || १७-६६ || प्रागग्राणां स्मृता देवा मुकुन्देशपुरन्दराः | रेखाणामुदगग्राणां ब्रह्मवैवस्वतेन्दवः || १७-६७ || अथवा त्रिकोणवृत्तं चतुरस्रं लिखेत् ततः | तत्र वह्नेर्योगपीठमर्चयेत् प्राणवल्लभे || १७-६८ || वामा ज्येष्ठा च रौद्री च अम्बिका शक्तयः क्रमात् | ततो देवि महाभागे ताराकुण्डं प्रपूजयेत् || १७-६९ || तन्मध्ये परमेशानीं नीलां वागीश्वरीं यजेत् | ततश्च श्रोत्रियो वह्निं तद्बीजेनैव चोद्धरेत् || १७-७० || हू/फट्कारेण देवेशि क्रव्यादेभ्यस्ततः परम् | वह्निजायावधिर्मन्त्रं वह्नेः सं(त्य?ते)जनं जपेत् || १७-७१ || तमग्निं शोधयेत् तत्र धेनुमुद्रावगुण्ठनम् | वारुणेनैव मन्त्रेण अमृतीकरणं मतम् || १७-७२ || कराभ्यां च समुद्धृत्य भ्रामयेद् उपरि त्रिधा | शिवस्य बीजबुद्ध्या तु तद्योनौ परमेश्वरि || १७-७३ || ह्रींबीजमादौ संजप्य वह्निमूर्तिं च ङेयुताम् | इत्यभ्यर्च्य महादेवि इडयाकृष्य सुन्दरि || १७-७४ || ततः कुम्भकयोगेन कूर्चबीजं समुच्चरन् | वह्नेश्चैतन्यापादान्ते ङेयुते परमेश्वरि || १७-७५ || (प्. १९६) ततस्तु ज्वालयेद् वह्निं चिन्मन्त्रेण महेश्वरि | चिन्मन्त्रं परमेशानि शृणुष्वैकमनाः प्रिये || १७-७६ || चित् पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा | वह्न्यङ्गे परमेशानि न्यासं कुर्याद् वरानने | सहस्रार्चिषे हृदयाय नमोऽन्तं न्यासमुत्तमम् || १७-७७ || स्वस्तिपूर्णाय शिरसे स्वाहान्तोऽयं मनुः स्मृतः | उत्तिष्ठ पुरुषायेति शिखायै वषडित्यपि || १७-७८ || धूमव्यापिने कवचाय हुमित्येव सुन्दरि | सप्तजिह्वाय नेत्रत्रयाय वौषडिति प्रिये || १७-७९ || धनुर्धराय अस्त्राय फडित्यङ्गानि संन्यसेत् | आवाहनस्य मन्त्रं वै शृणु हे नगनन्दिनि || १७-८० || प्रणवं पूर्वमुद्धृत्य वैश्वानर ततः परम् | जातवेद लोहिताक्ष इहावह ततः परम् || १७-८२ || सर्वकर्माणि साधय वह्निजायावधिर्मनुः | इत्यनेन च संपूज्य ध्यायेद् वह्निं समाहितः || १७-८३ || ध्यानं शृणु महेशानि ध्यानात् सार्वज्ञकारकम् | बन्धूकपुष्पसंकाशं सुतप्तकनकप्रभम् || १७-८४ || पद्महस्तं महाबाहुं वदनद्वयशोभितम् | सप्तच्छन्दोमयकरं वसतित्र(य)विग्रहम् || १७-८५ || त्रिधा ज्ञात्वा त्रिपादार्थं हव्यकव्यविवाहनम् | ब्रह्माध्वर्यूद्गातृहोतृ चतुःशृङ्गविराजितम् || १७-८६ || पञ्चरात्रं पाशुपतं देवानां तु महामतम् | बौद्धं वैदिकमित्येतत् षट्पिङ्गलविलोचनम् || १७-८७ || वेदार्थचतुरश्रोत्रं स्तोत्रशस्त्रमयध्वनिम् | रसातलजटाबद्ध मणिकोटरभास्करम् || १७-८८ || (प्. १९७) हेमालङ्कारसंयुक्तं हेमकुण्डलमण्डितम् | रक्ताम्भोरुहमध्यस्थं स्वस्तिकासनसंस्थितम् || १७-८९ || पृष्ठदेशसमालम्बि सौवर्णघृतपात्रकम् | वामैस्त्रिभिर्बाहुभिश्च दधानं रक्तवाससम् || १७-९० || सदा शब्दायमानं तु एधमानं स्वतेजसा | तोमरं तालवृन्तं च सौवर्णघृतपात्रकम् || १७-९१ || व्यावृत्तताम्रवदनं सप्तजिह्वासमाकुलम् | एवं ध्यायेद् महावह्निं चतुर्वर्गफलप्रदम् || १७-९२ || सप्तजिह्वाः प्रपूज्याथ पूर्वादिदिक्षु सुन्दरि | ब्राह्म्याद्याः पूजयेद् देवि स्वकर्मसिद्धये प्रिये || १७-९३ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डा चैव सुन्दरि || १७-९४ || महालक्ष्मिर्महेशानि पूजयेत् परमेश्वरि | बहिर्देशे पुनर्लक्ष्मीस्तथा चैव सरस्वती || १७-९५ || रतिः प्रीतिश्च कीर्तिश्च शान्तिः पुष्टिश्च सुन्दरि | तुष्टिश्चैव महेशानि बहिर्देशे प्रपूजयेत् || १७-९६ || मेखलासु महेशानि ब्रह्माणं पूजयेत् सुधीः | मेखलासु च सर्वासु वेष्टयेद् दर्भसंकुलैः || १७-९७ || त्रिपंक्त्याचरितं कुण्डं ततो व्याहृतिभिर्हुनेत् | त्रिः प्रताप्य महेशानि स्रुवं च प्रोक्षयेज्जलैः || १७-९८ || वामदक्षिणहस्ताभ्यां पुनः प्रताप्य सुन्दरि | दक्षिणे परमेशानि स्थापयेच्च स्रुवस्रुचौ || १७-९९ || अस्त्रमन्त्रेण देवेशि आज्यपात्रस्य प्रोक्षणम् | ततः पवित्रं तस्मिन् वै क्षिप्त्वा वह्नौ च निक्षिपेत् || १७-१०० || (प्. १९८) स्रुवेण परमेशानि हृदन्तेन महेश्वरि | तत् पात्रादाज्यमानीय हुनेद्वह्नौ महेश्वरि || १७-१०१ || अग्नये च महेशानि सोमाय च ततः परम् | अग्नीषोमपदौ ङेन्तौ वह्निजायावधिः प्रिये || १७-१०२ || वामदक्षिणमध्यात् तु गृह्णीयाद् आज्यमुत्तमम् | अग्नये स्विष्टकृते स्वाहा हुनेत् सुरगणार्चिते || १७-१०३ || मायाबीजं महेशानि हृदन्तेन महेश्वरि | गर्भाधानादिकं कर्म कल्पयामि महेश्वरि || १७-१०४ || सप्तसप्ताहुतीर्दद्यादन्येषां परमेश्वरि | विवाहान्तं कर्मगणं प्रोच्य संस्कारमाचरेत् || १७-१०५ || तस्मिन्नग्नौ महेशानि देवीं संपूजयेन्नरः | तद्वह्नेरात्मना चैक्यं विभाव्य परिकल्पयेत् || १७-१०६ || ततश्च मूलमन्त्रेण जुहुयात् षोडशाहुतीः | सतिलैश्च त्रिमध्वक्तैः सरक्तैः करवीरकैः || १७-१०७ || अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तथा | जुहुयाद् मूलमन्त्रेण महादेव्यै महेश्वरि || १७-१०८ || पृथक् कृत्वा महेशानि हुनेदावरणादिकम् | प्रणवं पूर्वमुच्चार्य अग्नये चैतदेव हि || १७-१०९ || पृथिव्यै चैव महते स्वाहान्तोऽयं मनुः स्मृतः | भुवश्च वायवे चैव अन्तरिक्षाय चैव हि || १७-११० || दिवे चैव महेशानि वह्निजायावधिर्मनुः | स्वर्गाय चैव सूर्याय तथा चन्द्रमसे प्रिये || १७-१११ || नक्षत्रेभ्यो महेशानि वह्निजायावधिर्मनुः | तदन्ते महतीं पूर्वां (जां) कुर्यात् चैव वरानने || १७-११२ || (प्. १९९) तद्वह्निं रक्षयेद् धीमन् यथाशक्ति विधानतः | न्युब्जेन पाणिना देवि होमयेत् सुरवन्दिते || १७-११३ || उत्तानेनैव हस्तेन यदि होमं करोति च | तदा तज्जनितं पुण्यं न भवेत् परमेश्वरि || १७-११४ || इति ते कथितं दिव्यं कुण्डादीनां निरूपणम् | प्रयत्नात् परमेशानि कर्तव्यं होमकर्मणि || १७-११५ || अथ वक्ष्ये महेशानि सावधानावधारय | माघे मासि सिते पक्षे सप्तमी या तिथिर्भवेत् || १७-११६ || तस्यां रात्रौ महादेवीं पूजयेत् परमेश्वरीम् | चतुर्भुजां महारौद्रीं श्मशानालयवासिनीम् || १७-११७ || मुण्डाभयखड्गवरान् दधतीं परमेश्वरीम् | मुण्डमालासमाकीर्णां लोचनत्रयसंयुताम् || १७-११८ || गते तु प्रथमे यामे तृतीयप्रहरावधि | पूजयेत् परमेशानीं महाविभवविस्तरैः || १७-११९ || पूर्वोक्तपूजया देवि पूजयेत् कालरात्रिकाम् | सहस्रस्य प्रमाणेन जपं कुर्यात् शुचिस्मिते || १७-१२० || होमयेत् परमेशानि पूर्वोक्तेन महेश्वरि | नैवेद्यं परमं देवि भ्रष्टद्रव्यादिकं प्रिये || १७-१२१ || दद्यात् प्रियतरं वस्तु महामायाप्रियंकरम् | अकुर्वन् निरयं याति सत्यं सत्यं महेश्वरि || १७-१२२ || अथ ते कथयिष्यामि सन्ध्योपासनकं विधिम् | आचम्य प्राङ्मुखो भूत्वा दिवसे परमेश्वरि || १७-१२३ || रात्रौ उदङ्मुखः कुर्याद् आह्निकं प्रियमुत्तमम् | अन्येषां पापराशीनां नाशकं विद्धि पार्वति || १७-१२४ || (प्. २००) भ्रूणहत्या सुरापानं सुवर्णहर्णं तथा | गुरुदराभिगमनं यच्चान्यद् दुष्कृतं कृतम् || १७-१२५ || सर्वमेतत् पुनातीयं महाभैरवरूपधृत् | द्विभुजां पीतवसनां नानालङ्कारभूषिताम् || १७-१२६ || रक्तवर्णां कृशाङ्गीं च त्रिवलीवलयोज्ज्वलाम् | पुस्तकं परमं दिव्यं दक्षिणे बिभ्रतीं शुभाम् || १७-१२७ || शिक्षासूत्रं तथा वामे बिभ्रतीं नयनत्रयाम् | कौशेयवसनां चापि देवीं सन्ध्यां विभावयेत् || १७-१२८ || इति ते कथितं दिव्यं ध्यानं सुरगणार्चिते | ध्यात्वा सन्ध्यां विशेषेण सर्वपापक्षयो भवेत् || १७-१२९ || आचमनं तथा वापि तीर्थस्यावाहनं ततः | प्राणायामं षडङ्गस्य न्यासमुत्तमकं ततः || १७-१३० || हस्ततले जलं नीत्वा मन्त्रमुच्चार्य पञ्चधा | गलितोदकतो देवि मूर्धानमभिषेचयेत् || १७-१३१ || तज्जलं दक्षिणे हस्ते आदाय परमेश्वरि | तेजोरूपं तज्जलं तु कर्षयेद् इडया प्रिये || १७-१३२ || प्रक्षाल्य पापं देहान्तः रेचयेत् पिङ्गलान्तरात् | हस्तस्य क्षालनं कुर्याद् अर्घ्यं सूर्याय दापयेत् || १७-१३३ || महादेव्यै त्रिरावृत्त्या चार्घ्यं दद्यात् सुरेश्वरि | गायत्रीं ध्यानसंयुक्तां प्रजपेत् तदनन्तरम् || १७-१३४ || ततो देवान् प्रतर्प्यैव इष्टदेवं त्रिः तर्पयेत् | जपं समर्प्य देवेशि मूलमन्त्रं जपेत् ततः || १७-१३५ || अष्टोत्तरशतावृत्त्या प्रजप्य मन्त्रमुत्तमम् | ततो जपं समर्प्यैवं प्रणमेद् दण्डवद् भुवि || १७-१३६ || (प्. २०१) प्राणायामं षडङ्गं च कुर्याच्चान्ते महेश्वरि | अमावास्या पौर्णमासी श्राद्धीयदिवसे तथा || १७-१३७ || संक्रान्तौ परमेशानि सन्ध्यां चैव समाचरेत् | चतुर्विधानि कर्माणि देवका(ष्टे?र्ये)षु पार्वति || १७-१३८ || आगमं नु तथा विद्धि यतो नित्यागमक्रिया | सन्ध्यां सायन्तनीं कुर्याद् द्वादश्यादिष्वपि प्रिये || १७-१३९ || अकुर्वन् निरयं याति एकमेव हि मद्वचः | इति ते कथितं दिव्यमाह्निकाचारमुत्तमम् || १७-१४० || त्रिःसन्ध्यां परमेशानि कुर्यात् साधकसत्तमः | नास्ति यस्यादरस्तत्र न स ब्राह्मण उच्यते || १७-१४१ || क्रुद्धा भगवती तस्य कामान् इष्टान् निहन्ति वै | संक्षेपेणैव देवेशि शृणु पूजाविधिं शिवे || १७-१४२ || आदौ ऋष्यादिविन्यासः करशुद्धिस्ततः परम् | अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च || १७-१४३ || तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् | ध्यानं पूजा जपश्चैतत् सर्वतन्त्रेष्वयं क्रमः || १७-१४४ || बलिदानं तथा कार्यं यथावत् तन्त्रवेदिभिः | पूजयेद् भैरवं दुर्गां तथा चैव महेश्वरीम् || १७-१४५ || वृषभं नन्दिनं चैव अतियत्नेन पूजयेत् | महाकाल्ं यजेद् धीमान् सर्वागमविशारदः || १७-१४६ || चक्रराजं पूजयित्वा सर्वसिद्धीश्वरो भवेत् | आदौ लिङ्गं महादेवं पूजयेद् यत्नतः शिवे || १७-१४७ || तस्मिंश्चैव हि समये स्वेष्टदेवं प्रपूजयेत् | तस्माद् निर्माल्यपुष्पं च गृह्णीयाद् भक्तिभावतः || १७-१४८ || (प्. २०२) इष्टपूजां विना लिङ्गनिर्माल्यं च निषिध्यते | इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (कालीध्यानादिपूजा कुण्डमेखलायोनिनिर्णय अग्निकार्यादिनिरूपणं) सप्तदशः पटलः || १७ || अथ अष्टादशः पटलः | श्रीदेव्युवाच | देव देव महादेव सृष्टिस्थित्यन्तकारक | प्रसङ्गेन महादेव्या विस्तरं कथितं मयि || १८-१ || देव्या नीलसरस्वत्याः सहस्रं परमेश्वर | नाम्नां श्रोतुं महेशान प्रसादः क्रियतां मयि | कथयस्व महादेव यद्यहं तव वल्लभा || १८-२ || श्रीभैरव उवाच | साधु पृष्टं महादेवि सर्वतन्त्रेषु गोपितम् | नाम्नां सहस्रं तारायाः कथितुं नैव शक्यते || १८-३ || प्रकाशात् सिद्धिहानिः स्यात् श्रिया च परिहीयते | प्रकाशयति यो मोहात् षण्मासाद् मृत्युमाप्नुयात् || १८-४ || (प्. २०३) अकथ्यं परमेशानि अकथ्यं चैव सुन्दरि | क्षमस्व वरदे देवि यदि स्नेहोऽस्ति मां प्रति || १८-५ || सर्वस्वं शृणु हे देवि सर्वागमविदां वरे [शिवे ख पाठः |] | धनसारं महादेवि गोप्तव्यं परमेश्वरि || १८-६ || आयुर्गोप्यं गृहच्छिद्रं गोप्यं न पापभाग् भवेत् | सुगोप्यं परमेशानि गोपनात् सिद्धिमश्नुते || १८-७ || प्रकाशात् कार्यहानिश्च प्रकाशात् प्रलयं भवेत् | तस्माद् भद्रे महेशानि न प्रकाश्यं कदाचन || १८-८ || इति देववचः श्रुत्वा देवी परमसुन्दरी | विस्मिता परमेशानी विषणा तत्र जायते || १८-९ || शृणु हे परमेशान कृपासागरपारग | तव स्नेहो महादेव मयि नास्त्यत्र निश्चितम् || १८-१० || भद्रं भद्रं महादेव इति कृत्वा महेश्वरी | विमुखीभूय देवेशी तत्रास्ते शैलजा शुभा || १८-११ || विलोक्य विमुखीं देवीं महादेवो महेश्वरः | प्रहस्य परमेशानीं परिष्वज्य प्रियां कथाम् || १८-१२ || कथयामास तत्रैव महादेव्यै महेश्वरि | मम सर्वस्वरूपा त्वं जानीहि नगनन्दिनि || १८-१३ || त्वां विनाहं महादेवि पूर्वोक्तशवरूपवान् | क्षमस्व परमानन्दे क्षमस्व नगनन्दिनि || १८-१४ || यथा प्राणो महेशानि देहे तिष्ठति सुन्दरि | तथा त्वं जगतामाद्ये चरणे पतितोऽस्म्यहम् || १८-१५ || इति मत्वा महादेवि रक्ष मां तव किङ्करम् | ततो देवी महेशानी त्रैलोक्यमोहिनी शिवा || १८-१६ || (प्. २०४) महादेवं परिष्वज्य प्राह गद्गदया गिरा | सदा देहस्वरूपाहं देही त्वं परमेश्वर || १८-१७ || तथापि वञ्चनां कर्तुं मामित्थं वदसि प्रियम् | महादेवः पुनः प्राह भैरवि प्राणवल्लभे || १८-१८ || नाम्नां सहस्रं तारायाः श्रोतुमिच्छस्यशेषतः | श्रीदेव्युवाच | न श्रुतं परमेशान तारानामसहस्रकम् | कथयस्व महाभाग सत्यं परमसुन्दरम् || १८-१९ || (श्रीपार्वत्युवाच |) कथमीशान सर्वज्ञ लभन्ते सिद्धिमुत्तमाम् | साधकाः सर्वदा येन तन्मे कथय सुन्दर || १८-२० || यस्मात् परतरं नास्ति स्तोत्रं तन्त्रेषु निश्चितम् | सर्वपापहरं दिव्यं सर्वापद्विनिवारकम् || १८-२१ || सर्वज्ञानकरं पुण्यं सर्वमङ्गलसंयुतम् | पुरश्चर्याशतैस्तुल्यं स्तोत्रं सर्वप्रियङ्करम् || १८-२२ || वश्यप्रदं मारणदमुच्चाटनप्रदं महत् | नाम्नां सहस्रं तारायाः कथयस्व सुरेश्वर || १८-२३ || श्रीमहादेव उवाच | नाम्नां सहस्रं तारायाः स्तोत्रपाठाद् भविष्यति | नाम्नां सहस्रं तारायाः कथयिष्याम्यशेषतः || १८-२४ || शृणु देवि सदा भक्त्या भक्तानां परमं हितम् | विना पूजोपहारेण विना जा(पे?प्ये)न यत् फलम् || १८-२५ || तत् फलं सकलं देवि कथयिष्यामि तच्छृणु | ओं अ(स्याः?स्य) श्रीतारादेव्या भक्तिकुलसर्व(स्व) नाम्नः (सहस्रनाम) (प्. २०५) स्तोत्रस्य, अक्षोब्य ऋषिः, बृहती उष्णिक् छन्दः, श्री उग्रतारा श्रीमदेकजटा श्रीनीलसरस्वती देवता, पुरुषार्थचतुष्टयसिद्ध्यर्थे विनियोगः || तारा रात्रिर्महारात्रिर्कालरात्रिर्महामतिः [कपालिनी ख पाठः |] | कालिका कामदा माया महामाया महास्मृतिः [महोत्सवा ख |] || १८-२६ || महादानरता यज्ञा यज्ञोत्सवविभूषिता | चन्द्रवक्त्रा [वज्रा क |] चकोराक्षी चारुनेत्रा सुलोचना || १८-२७ || त्रिनेत्रा महती देवी कुरङ्गाक्षी मनोरमा [हरा ख |] | ब्राह्मी नारायणी ज्योत्स्ना चारुकेशी सुमूर्धजा || १८-२८ || वाराही वारुणी विद्या महाविद्या महेश्वरी | सिद्धा [पिङ्गा ख |] कुञ्चितकेशा च महायज्ञस्वरूपिणी || १८-२९ || गौरी चम्पकवर्णा च कृशाङ्गी शिवमोहिनी | सर्वानन्दस्वरूपा च सर्वशङ्कैकतारिणी [संकट ख |] || १८-३० || विद्यानन्दमयी नन्दा भद्रकाली स्वरूपिणी | गायत्री सुचरित्रा च कौलव्रतपरायणा || १८-३१ || हिरण्यगर्भा भूगर्भा महागर्भा सुलोचनी | हिमवत्तनया दिव्या महामेघस्वरूपिणी || १८-३२ || जगन्माता जगद्धात्री जगतामुपकारिणी | ऐन्द्री सौम्या तथा घोरा [याम्या ख |] वारुणी माधवी [वायवी ख |] तथा || १८-३३ || आग्नेयी वैनतेयी [नैर्-ऋती चैव ख पाठः |] च ऐशानी चण्डिकात्मिका | सुमेरुतनया नित्या सर्वेषामुपकारिणी || १८-३४ || (प्. २०६) ललज्जिह्वा सरोजाक्षी मुण्ड[मुक्ता क |]स्रक्परिभूषिता | सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी || १८-३५ || धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगगामिनी | रुक्मिणी जानकी दुर्गाम्बिका सत्यवती रतिः || १८-३६ || १८- कामाख्या कामदा नन्दा नारसिंही सरस्वती | महादेवरता चण्डी चण्डदोर्दण्डखण्डिनी || १८-३७ || दीर्घकेशी सुकेशी च पिङ्गकेशी महाकचा | भवानी भवपत्नी (१००) च भवभीतिहरा सती [शची ख |] || १८-३८ || पौरन्दरी तथा विष्णोर्जाया माहेश्वरी तथा | सर्वेषां जननी विद्या [नित्या ख |] चार्वङ्गी दैत्यनाशिनी || १८-३९ || सर्व [घोररूपा ख |] रूपा महेशानि कामिनी वरवर्णिनी | महाविद्या महामाया महामेधा महोत्सवा || १८-४० || विरूपा विश्वरूपा च मृडानी मृडवल्लभा | कोटिचन्द्रप्रतीकाशा शतसूर्यप्रकाशिनी || १८-४१ || जह्नुकन्या महोग्रा च पार्वती विश्वमोहिनी | कामरूपा महेशानी नित्योत्साहा मनस्विनी || १८-४२ || वैकुण्ठनाथपत्नी च तथा शङ्करमोहिनी | काश्यपी कमला कृष्णा कृष्णरूपा च कालिनी || १८-४३ || माहेश्वरी वृषारूढा सर्वविस्मयकारिणी | मान्या मानवती शुद्धा कन्या हिमगिरेस्तथा || १८-४४ || अपर्णा पद्मपत्राक्षी नागयज्ञोपवीतिनी | महाशङ्खधरा कान्ता कमनीया नगात्मजा || १८-४५ || ब्रह्माणी वैष्णवी शम्भोर्जाया गङ्गा जलेश्वरी | भागीरथी मनोबुद्धिर्नित्या विद्यामयी तथा || १८-४६ || (प्. २०७) हरप्रिया गिरिसुता हरपत्नी तपस्विनी | महाव्याधिहरा देवी महाघोरस्वरूपिणी || १८-४७ || महापुण्यप्रभा भीमा मधुकैटभनाशिनी | शङ्खिनी वज्रिणी धात्री तथा पुस्तकधारिणी || १८-४८ || चामुण्डा चपला तुङ्गा शुम्बदैत्यनिकृन्तनी | शान्तिर्निद्रा महानिद्रा पूर्णनिद्रा च रेणुका || १८-४९ || कौमारी कुलजा कुन्ती [कान्ति ख |] कौलव्रतपरायणा | वनदुर्गा सदाचारा द्रौपदी द्रुपदात्मजा || १८-५० || यशस्विनी यशस्या च यशोधात्री यशःप्रदा | सृष्टिरूपा महागौरी निशुम्बप्राणनाशिनी || १८-५१ || पद्मिनी (२००) वसुधा पृथ्वी रोहिणी विन्ध्यवासिनी | शिवशक्तिर्महाशक्तिः शङ्खिनी शक्तिनिर्गता [नाशिनी ख |] || १८-५२ || दैत्यप्राणहरा देवी सर्वरक्षणकारिणी | क्षान्तिः क्षेमङ्करी चैव बुद्धिरूपा महाधना || १८-५३ || श्रीविद्या भैरवि भव्या भवानी भवनाशिनी [भय ख |] | तापिनी भाविनी सीता तीक्ष्णतेजःस्वरूपिणी || १८-५४ || दात्री दानपरा काली दुर्गा दैत्यविभूषणा | महापुण्यप्रदा भीमा मधुकैटभनाशिनी || १८-५५ || पद्मा पद्मावती कृष्णा तुष्टा पुष्टा तथोर्वशी | वज्रिणी वज्रहस्ता च तथा नारायणी शिवा || १८-५६ || खड्गिनी खड्गहस्ता च खड्गखर्परधारिणी | देवाङ्गना देवकन्या [मान्या ख पाठः |] देवमाता पुलोमजा || १८-५७ || सुखिनी स्वर्गदात्री च सर्वसौख्यविवर्धिनी | शीला शीलावती सूक्ष्मा सूक्ष्माकारा वरप्रदा || १८-५८ || (प्. २०८) वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदा सदा [मला ख |] | उग्रकाली महाकाली भद्रकाली च दक्षिणा || १८-५९ || भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा | शूलिनी शूलहस्ता च कर्त्रीखर्परधारिणी || १८-६० || महावंशसमुद्भूता मयूरवरवाहना | महाशङ्खरता रक्ता [शक्ता ख पाठः |] रक्तखर्परधारिणी || १८-६१ || रक्ताम्बरधरा रामा रमणी सुरनायिका | मोक्षदा शिवदा श्यामा मदविभ्रममन्थरा || १८-६२ || परमानन्ददा ज्येष्ठा योगिनी गणसेविता | सारा जाम्बवती चैव सत्यभामा नगात्मजा || १८-६३ || रौद्रा रौद्रबला घोरा रुद्रसारारुणात्मिका | रुद्ररूपा महारौद्री (३००) रौद्रदैत्यविनाशिनी || १८-६४ || कौमारी कौशिकी चण्डा [विद्या ख पाठः |] कालदैत्यविनाशिनी | शम्भुपत्नी शम्भुरता शम्बुजाया महोदरी || १८-६५ || शिवपत्नी शिवरता शिवजाया शिवप्रिया | हरपत्नी हररता हरजाया हरप्रिया || १८-६६ || मदनान्तककान्ता च मदनान्तकवल्लभा | गिरिजा गिरिकन्या च गिरीशस्य च वल्लभा || १८-६७ || भूता भव्या भवा स्पष्टा पावनी परपालिनी | अदृश्या च व्यक्तरूपा इष्टानिष्टप्रवर्द्धिनी || १८-६८ || अच्युता प्रच्युतप्राणा प्रमदा वासवेश्वरी | अपांनिधिसमुद्भूता धारिणी च प्रतिष्ठिता || १८-६९ || उद्भवा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी | कमला पुष्पदेहा च कामिनी कञ्जलोचना || १८-७० || (प्. २०९) शरण्या कमला प्रीतिर्विमलानन्दवर्धिनी | कपर्दिनी कराला च निर्मला देवरूपिणी || १८-७१ || उदीर्णभूषणा भव्या सुरसेना महोदरी | श्रीमती शिशिरा नव्या [नन्दा ख |] शिशिराचलकन्यका || १८-७२ || सुरमान्या सुरश्रेष्ठा ज्येष्ठा प्राणेश्वरी स्थिरा | तमोघ्नी ध्वान्तसंहन्त्री प्रयतात्मा पतिव्रता [परि ख |] || १८-७३ || प्रद्योतिनी रथारूढा सर्वलोकप्रकाशिनी | मेधाविनी महावीर्या हंसी संसारतारिणी || १८-७४ || प्रणतप्राणिनामार्तिहारिणी दैत्यनाशिनी | डाकिनी शाकिनीदेवी वरखट्वाङ्गधारिणी || १८-७५ || कौमुदी कुमुदानन्दा [कुन्दा ख पाठ |] कौलिका कुलजामरा | गर्विता गुणसंपन्ना नगजा खगवाहिनी || १८-७६ || चन्द्रानना महोग्रा च चारुमूर्धजशोभना | मनोज्ञा माधवी मान्या (४००) माननीया सतां सुहृत् || १८-७७ || ज्येष्ठा श्रेष्ठा मघा पुष्या धनिष्ठा पूर्वफाल्गुनी | रक्तबीजनिहन्त्री च रक्तबीजविनाशिनी || १८-७८ || चण्डमुण्डनिहन्त्री च चण्डमुण्डविनाशिनी | कर्त्री हर्त्री सुकर्त्री च विमलामलवाहिनी || १८-७९ || विमला भास्करी वीणा महिषासुरघातिनी | कालिन्दी यमुना वृद्धा सुरभिः [युवति ख पाठः |] बालिका सती || १८-८० || कौशल्या कौमुदी मैत्रीरूपिणी चाप्यरुन्धती | पुरारिगृहिणी पूर्णा पूर्णानन्दस्वरूपिणी || १८-८१ || पुण्डरीकाक्षपत्नी च पुण्डरीकाक्षवल्लभा | संपूर्णचन्द्रवदना बालचन्द्रसमप्रभा || १८-८२ || (प्. २१०) रेवती रमणी चित्रा चित्राम्बरविभूषणां | सीता वीणावती चैव यशोदा विजया प्रिया || १८-८३ || नवपुष्पसमुद्भूता नवपुष्पोत्सवोत्सवा | नवपुष्पस्रजामाला माल्यभूषणभूषिता [भूषिता ख |] || १८-८४ || नवपुष्पसमप्राणा नवपुष्पोत्सवप्रिया | प्रेतमण्डलमध्यस्ता सर्वाङ्गसुन्दरी शिवा || १८-८५ || नवपुष्पात्मिका षष्ठी पुष्पस्तवकमण्डला | नवपुष्पगुणोपेता श्मशान[शरीर ख पाठ |]भैरवप्रिया || १८-८६ || कुलशास्त्रप्रदीपा च कुलमार्गप्रवर्द्धिनी | श्मशानभैरवी काली भैरवी भैरवप्रिया || १८-८७ || आनन्दभैरवी ध्येया भैरवी कुरुभैरवी | महाभैरवसंप्रीता भैरवीकुलमोहिनी || १८-८८ || श्रीविद्याभैरवी नीतिभैरवी गुणभैरवी | संमोहभैरवी पुष्टिभैरवी तुष्टिभैरवी || १८-८९ || संहारभैरवी सृष्टिभैरवी स्थितिभैरवी | आनन्दभैरवी वीरा सुन्दरी स्थितिसुन्दरी || १८-९० || गुणानन्दस्वरूपा च सुन्दरी कालरूपिणी | श्रीमायासुन्दरी सौम्यसुन्दरी लोकसुन्दरी || १८-९१ || श्रीविद्यामोहिनी बुद्धिर्महाबुद्धिस्वरूपिणी | मल्लिका हाररसिका हार(अ)लम्बनसुन्दरी || १८-९२ || नीलपङ्कजवर्णा (५००) च नागकेसरभूषिता | जपाकुसुमसङ्काशा जपाकुसुमशोभिता || १८-९३ || प्रिया प्रियङ्करी विष्णोर्दानवेन्द्रविनाशिनी | ज्ञानेश्वरी ज्ञानदात्री ज्ञानानन्दप्रदायिनी || १८-९४ || (प्. २११) गुणगौरवसंपन्ना गुणशीलसमन्विता | रूपयौवनसंपन्ना रूपयौवनशोभिता || १८-९५ || गुणाश्रया गुणरता गुणगौरवसुन्दरी | मदिरामोदमत्ता च ताटङ्कद्वयशोभिता || १८-९६ || वृक्षमूलस्थिता देवी वृक्षशाखोपरिस्थिता | तालमध्याग्रनिलया वृक्षमध्यनिवासिनी || १८-९७ || स्वयम्भूपुष्पसंकाशा स्वयम्भूपुष्पधारिणी | स्वयम्भूकुसुमप्रीता स्वयम्भूपुष्पशोभिनी || १८-९८ || स्वयम्भूपुष्परसिका नग्ना ध्यानवती सुधा | शुक्रप्रिया[शुक्ल ख पाठः |] शुक्ररता शुक्रमज्जनतत्परा || १८-९९ || पूर्णपर्णा सुपर्णा च निष्पर्णा पापनाशिनी | मदिरामोदसंपन्ना मदिरामोदधारिणी || १८-१०० || सर्वाश्रया सर्वगुणा नन्दनन्दनधारिणी [नन्दकन्दल ख पाठः |] | नारीपुष्पसमुद्भूता नारीपुष्पोत्सवोत्सवा || १८-१०१ || नारीपुष्पसमप्राणा नारीपुष्परता मृगी | सर्वकालोद्भवप्रीता सर्वकालोद्भवोत्सवा || १८-१०२ || चतुर्भुजा दशभुजा अष्टादशभुजा तथा | द्विभुजा षड्भुजा प्रीता रक्तपङ्कजशोभिता || १८-१०३ || कौबेरी कौरवी कौर्या कुरुकुल्ला कपालिनी | सुदीर्घकदलीजङ्घा रम्भोरू रामवल्लभा || १८-१०४ || निशाचरी निशामूर्तिर्निशाचन्द्रसमप्रभा | चान्द्री चान्द्रकला चन्द्रा चारुचन्द्रनिभानना || १८-१०५ || (श्रो?स्रो)तस्वती स्रुतिमती सर्वदुर्गतिनाशिनी | सर्वाधारा सर्वमयी सर्वानन्दस्वरूपिणी || १८-१०६ || (प्. २१२) सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी शुभा | सहस्रनयनप्राणा सहस्रनयनप्रिया || १८-१०७ || सहस्रशीर्षा सुषमा [सुसमा ख पाठः |] सदम्भा सर्वभक्षिका | यष्टिका यष्टिचक्रस्था षद्वर्गफलदायिनी || १८-१०८ || षड्विंशपद्ममध्यस्था षड्विंशकुलमध्यगा | हू/कारवर्णनिलया हू/काराक्षरभूषणा || १८-१०९ || हकारवर्णनिलया हकाराक्षरभूषणा | हारिणी हारवलिता हारहीरकभूषणा || १८-११० || ह्रींकारबीजसहिता ह्रींकारैरुपशोभिता (६००) | कन्दर्पस्य कला कुन्दा कौलिनी कुलदर्पिता || १८-१११ || केतकीकुसुमप्राणा केतकीकृतभूषणा | केतकीकुसुमासक्ता केतकीपरिभूषिता || १८-११२ || कर्पूरपूर्णवदना महामाया महेश्वरी | कला केलिः क्रिया कीर्णा कदम्बकुसुमोत्सुका || १८-११३ || कादम्बिनी करिशुण्डा [करिगतिः ख पाठः |] कुञ्जरेश्वरगामिनी | खर्वा सुखञ्जनयना खञ्जनद्वन्द्वभूषणा || १८-११४ || खद्योत इव दुर्लक्षा खद्योत इव चञ्चला | महामाया ज्गद्धात्री गीतवाद्यप्रिया रतिः || १८-११५ || गणेश्वरी गणेज्या च गुणपूज्या गुणप्रदा | गुणाढ्या गुणसंपन्ना गुणदात्री गुणात्मिका || १८-११६ || गुर्वी गुरुतरा गौरी गाणपत्यफलप्रदा | महाविद्या महामेधा तुलिनी गणमोहिनी || १८-११७ || भव्या भवप्रिया भाव्या भावनीया भवात्मिका | घर्घरा घोरवदना घोरदैत्यविनाशिनी || १८-११८ || (प्. २१३) घोरा घोरवती घोष्या [घोषा ख |] घोरपुत्री घनाचला [घनालया ख |] | चर्चरी चारुनयना चारुवक्त्रा चतुर्गुणा || १८-११९ || चतुर्वेदमयी चण्डी चन्द्रास्या चतुरानना | चलच्चकोरनयना चलत्खञ्जनलोचना || १८-१२० || चलदम्भोजनिलया चलदम्भोजशोभिता [लोचना ख पाठः |] | छत्री छत्रप्रिया छत्रा छत्रचामरशोभिता || १८-१२१ || छिन्नछदा छिन्नशिराश्छिन्ननासा छलात्मिका | छलाढ्या छलसंत्रस्ता छलरूपा छलस्थिरा || १८-१२२ || छकारवर्णनिलया छकाराढ्या छलप्रिया | छद्मिनी छद्मनिरता छद्मच्छद्मनिवासिनी || १८-१२३ || जगन्नाथप्रिया जीवा जगन्मुक्तिकरी मता | जीर्णा जीमूतवनिता जीमूतैरुपशोभिता || १८-१२४ || जामातृवरदा जम्भा जमलार्जुनभञ्जिनी | झर्झरी झाकृतिर्झल्ली झरी (७००) झर्झरिका तथा || १८-१२५ || टङ्कारकारिणी टीका सर्वटङ्कारकारिणी | ठंकराङ्गी डमरुका डाकारा डमरुप्रिया || १८-१२६ || ढक्कारावरता नित्या तुलसी मणिभूषिता | तुला च तोलिका तीर्णा तारा तारणिका तथा || १८-१२७ || तन्त्रविज्ञा तन्त्ररता तन्त्रविद्या च तन्त्रदा | तान्त्रिकी तन्त्रयोग्या च तन्त्रसारा च तन्त्रिका || १८-१२८ || तन्त्रधारी तन्त्रकरी सर्वतन्त्रस्वरूपिणी | तुहिनांशुसमानास्या तुहिनांशुसमप्रभा || १८-१२९ || तुषाराकरतुल्याङ्गी तुषाराधारसुन्दरी | तन्त्रसारा तन्त्रकरो तन्त्रसारस्वरूपिणी || १८-१३० || (प्. २१४) तुषारधामतुल्यास्या तुषारांशुसमप्रभा | तुषाराद्रिसुता तार्क्ष्या ताराङ्गी तालसुन्दरी || १८-१३१ || तारस्वरेण सहिता तारस्वरविभूषिता | थकारकूटनिलया थकाराक्षरमालिनी || १८-१३२ || दयावती दीनरता दुःखदारिद्र्यनाशिनी | दौर्भाग्यदुःखदलिनी दौर्भाग्यपदनाशिनी || १८-१३३ || दुहिता दीनबन्धुश्च दानवेन्द्रविनाशिनी | दानपात्री दानरता दानसंमानतोषिता || १८-१३४ || दान्त्यादिसेविता दान्ता दया दामोदरप्रिया | दधीचिवरदा तुष्टा दानवेन्द्रविमर्दिनी || १८-१३५ || दीर्घनेत्रा दीर्घकचा दीर्घनासा च दीर्घिका | दारिद्र्यदुःखसंनाशा दारिद्र्यदुःखनाशिनी || १८-१३६ || दाम्भिका दन्तुरा दम्भा दम्भासुरवरप्रदा | धनधान्यप्रदा धन्या धनेश्वरधनप्रदा || १८-१३७ || धर्मपत्नी धर्मरता धर्माधर्मविनाशिनी [प्रवर्धिनी ख |] | धर्मिणी धर्मिका धर्म्या धर्माधर्मविवर्द्धिनी || १८-१३८ || धनेश्वरी धर्मरता धर्मानन्दप्रवर्द्धिनी | धनाध्यक्षा धनप्रीता धनाढ्या धनतोषिता || १८-१३९ || धीरा धैर्यवती धिष्ण्या धवलाम्भोजसंनिभा [सव ख पाठः |] | धरिणी धारिणी धात्री धूरणी धरणी धरा (८००) || १८-१४० || धार्मिका धर्मसहिता धर्मनिन्दकवर्जिता | नवीना नगजा निम्ना निम्ननाभिर्नगेश्वरी || १८-१४१ || नूतनाम्भोजनयना नवीनाम्भोजसुन्दरी | नागरी नगरज्येष्ठा नगराजसुता नगा || १८-१४२ || (प्. २१५) नागराजकृततोषा नागराजविभूषिता | नागेश्वरी नागरूढा नागराजकुलेश्वरी || १८-१४३ || नवीनेन्दुकला नान्दी नन्दिकेश्वरवल्लभा | नीरजा नीरजाक्षी च नीरजद्वन्द्वलोचना || १८-१४४ || नीरा नीरभवा वाणी नीरनिर्मलदेहिनी | नागयज्ञोपवीताढ्या नागयज्ञोपवीतिका || १८-१४५ || नागकेसरसंतुष्टा नागकेसरमालिनी | नवीनकेतकीकुन्द मल्लिकाम्भोजभूषिता || १८-१४६ || नायिका नायकप्रीता नायकप्रेमभूषिता | नायकप्रेमसहिता नायकप्रेमभाविता || १८-१४७ || नायकानन्दनिलया नायकानन्दकारिणी | नर्मकर्मरता नित्यं नर्मकर्मफलप्रदा || १८-१४८ || नर्मकर्मप्रिया नर्मा नर्मकर्मकृतालया | नर्मप्रीता नर्मरता नर्मध्यानपरायणा || १८-१४९ || पौष्णप्रिया च पौष्पेज्या पुष्पदामविभूषिता | पुण्यदा पूर्णिमा पूर्णा कोटिपुण्यफलप्रदा || १८-१५० || पुराणागमगोप्या च पुराणागमगोपिता | पुराणगोचरा पूर्णा पूर्वा प्रौढा विलासिनी || १८-१५१ || प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी | फाल्गुनी फाल्गुनप्रीता फाल्गुनप्रेधारिणी || १८-१५२ || फाल्गुनप्रेमदा चैव फणिराजविभूषिता | फणिकाञ्ची फणिप्रीता फणिहारविभूषिता || १८-१५३ || फणीशकृतसर्वाङ्गभूषणा फणिहारिणी | फणिप्रीता फणिरता फणिकङ्कणधारिणी || १८-१५४ || (प्. २१६) फलदा त्रिफला शक्ता फलाभरणभूषिता | फकारकूटसर्वाङ्गी फाल्गुनानन्दवर्द्धिनी || १८-१५५ || वासुदेवरता विज्ञा विज्ञविज्ञानकारिणी | वीणावती बलाकीर्णा बालपीयूषरोचिका || १८-१५६ || बालावसुमती विद्या विद्याहारविभूषिता | विद्यावती वैद्यपदप्रीता वैवस्वती बलिः || १८-१५७ || बलिविध्वंसिनी चैव वराङ्गस्था (९००) वरानना | विष्णोर्वक्षःस्थलस्था च वाग्वती विन्ध्यवासिनी || १८-१५८ || भीतिदा भयदा भानोरंशुजालसमप्रभा | भार्गवेज्या भृगोः पूज्या भरद्वारनमस्कृता || १८-१५९ || भीतिदा भयसंहन्त्री भीमाकारा च सुन्दरी | मायावती मानरता मानसंमानतत्परा || १८-१६० || माधवानन्ददा माध्वी मदिरामुदितेक्षणा | महोत्सवगुणोपेता महती च महद्गुणा || १८-१६१ || मदिरामोदनिरता मदिरामज्जने रता | यशोधरी यशोविद्या यशोदानन्दवर्द्धिनी || १८-१६२ || यशःकर्पूरधवला यशोदामविभूषिता | यमराजप्रिया [स्वसा ख पाठः |] योगमार्गानन्दप्रवर्द्धिनी || १८-१६३ || यमस्वसा च यमुना योगमार्गप्रवर्द्धिनी | यादवानन्दकर्त्री च यादवानन्दवर्द्धिनी || १८-१६४ || यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषिता | रामप्रीता रामरता रामतोषणतत्परा || १८-१६५ || राज्ञी राजकुलेज्या च राजराजेश्वरी रमा | रमणी रामणी रम्या रामानन्दप्रदायिनी || १८-१६६ || (प्. २१७) रजनीकरपूर्णास्या रक्तोत्पलविलोचना | लाङ्गलिप्रेमसंतुष्टा लाङ्गलिप्रणयप्रिया || १८-१६७ || लाक्षारुणा च ललना लीला लीलावती लया | लङ्केश्वरगुणप्रीता लङ्केशवरदायिनी || १८-१६८ || लवङ्गीकुसुमप्रीता लवङ्गकुसुमस्रजा [मोत्सुका ख |] | धाता विवस्वद्गृहिणी विवस्वत्प्रेमधारिणी || १८-१६९ || शवोपरिसमासीना शववक्षःस्थलस्थिता | शरणागतरक्षित्री शरण्या श्रीः शरद्गुणा || १८-१७० || षट्कोणमध्यमध्यस्था [चक्र ख पाठः |] संपद(ह?र्थ)निषेविता | हू/काराकारिणी देवी हू/काररूपशोभिता || १८-१७१ || क्षेमङ्करी तथा क्षेमा क्षेमधामविवर्द्धिनी | क्षेमाम्नाया तथाज्ञा च इडा इश्वरवल्लभा || १८-१७२ || उग्रदक्षा तथा चोग्रा अकारादिस्वरोद्भवा | ऋकारवर्णकूटस्था ॠकारस्वरभूषिता || १८-१७३ || एकारा च तथा चैका एकाराक्षरवासिता | ऐष्टा चैषा तथा चौषा औकाराक्षरधारिणी || १८-१७४ || अं अःकारस्वरूपा च सर्वागमसुगोपिता (१०००) | इत्येतत् कथितं देवि तारानामसहस्रकम् || १८-१७५ || य इदं पठति स्तोत्रं प्रत्यहं भक्तिभावतः | दिवा वा यदि वा रात्रौ सन्ध्ययोरुभयोरपि || १८-१७६ || स्तवराजस्य पाठेन राजा भवति किङ्करः | सर्वागमेषु पूज्यः स्यात् सर्वतन्त्रे स्वयं हरः || १८-१७७ || शिवस्थाने श्मशाने च शून्यागारे चतुष्पथे | य पठेच्छृणुयाद् वापि स योगी नात्र संशयः || १८-१७८ || (प्. २१८) यानि नामानि सन्त्यस्मिन् प्रसङ्गाद् मुरवैरिणः | ग्राह्याणि तानि कल्याणि नान्यान्यपि [तु ख पाठः |] कदाचन || १८-१७९ || हरेर्नाम न गृह्णीयाद् न स्पृशेत् तुलसीदलम् | नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन || १८-१८० || सिन्दूरकरवीराद्यैः पुष्पैर्लोहितकैस्तथा | योऽर्चयेद् भक्तिभावेन तस्यासाध्यं न किञ्चन || १८-१८१ || वातस्तम्भं जलस्तम्भं गतिस्तम्भं विवस्वतः | वह्नेः स्तम्भं [शैत्यं ख पाठः |] करोत्येव स्तवस्यास्य प्रकीर्तनात् || १८- १८२ || श्रियमाकर्षयेत् [पते ख पाठः |] तूर्णमानृण्यं जायते हठात् | यथा तृणं दहेद् वह्निस्तथारीन् मर्दयेत् क्षणात् || १८-१८३ || मोहयेद् राजपत्नीश्च देवानपि वशं नयेत् | यः पठेत् शृणुयाद् वापि एकचित्तेन सर्वदा || १८-१८४ || दीर्घायुश्च सुखी वाग्मी वाणी तस्य वशङ्करी | सर्वतीर्थाभिषेकेण गयाश्राद्धेन यत् फलम् || १८-१८५ || तत्फलं लभते सत्यं यः पठेदेकचित्ततः | येषामाराधने श्रद्धा ये तु साधितुमुद्यताः || १८-१८६ || तेषां कृतित्वं सर्वं स्याद् गतिर्देवि परा च सा | ऋतुयुक्तलतागारे स्थित्वा दण्डेन ताडयेत् || १८-१८७ || जप्त्वा स्तुत्वा च भक्त्या च गच्छेद् वै तारिणीपदम् | अष्टम्यां च चतुर्दश्यां नवम्यां शनिवासरे || १८-१८८ || संक्रान्त्यां मण्डले रात्रौ अमावास्यां च योऽर्चयेत् | वर्षं व्याप्य च देवेशि तस्याधीनाश्च सिद्धयः || १८-१८९ || सुतहीना च या नारी दौर्भाग्यामयपीडिता | वन्ध्या वा काकवन्ध्या वा मृतगर्भा च याङ्गना || १८-१९० || (प्. २१९) धनधान्यविहीना च रोगशोकाकुला च या | सापि चैतद् महादेवि भूर्जपत्रे लेखापयेत् [लिखेत् ततः ख पाठः |] || १८-१९१ || सव्ये भुजे च बध्नीयात् सर्वसौख्यवती भवेत् | एवं पुमानपि प्रायो दुःखेन परिपीडितः || १८-१९२ || सभायां व्यसने घोरे विवादे शत्रुसंकटे | चतुरङ्गे च तथा युद्धे सर्वत्रापत्[अरि ख पाठ]प्रपीडिते || १८-१९३ || स्मरणादेव कल्याणि संक्षयं यान्ति दूरतः | पूजनीयं प्रयत्नेन शून्यागारे शिवालये || १८-१९४ || बिल्वमूले श्मशाने च तटे वा कुलमण्डले | शर्करासवसंयुक्तैर्भक्तैर्दुग्धैः सपायसैः || १८-१९५ || अपूपापिष्टसंयुक्तैर्नैवेद्यैश्च यथोचितैः | निवेदितं च यद्द्रव्यं भोक्तव्यं च विधानतः || १८-१९६ || तन्न चेद् भुज्यते मोहाद् भोक्तुं नेच्छन्ति देवताः | अनेनैव विधानेन योऽर्चयेत् परमेश्वरीम् || १८-१९७ || स भूमिवलये देवि साक्षादीशो न संशयः | महाशङ्खेन देवेशि सर्वं कार्यं जपादिकम् || १८-१९८ || कुलसर्वस्वकस्यैवं प्रभावो वर्णितो मया | न शक्यते समाख्यातुं वर्षकोटिशतैरपि || १८-१९९ || किञ्चिद् मया च चापल्यात् कथितं परमेश्वरि | जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते || १८-२०० || कुलीनाय प्रदातव्यं ताराभक्तिपराय च | अन्यभक्ताय नो देयं वैष्णवाय विशेषतः || १८-२०१ || कुलीनाय महेच्छाय भक्तिश्रद्धापराय च | महात्मने सदा देयं परीक्षितगुणाय च || १८-२०२ || (प्. २२०) नाभक्ताय प्रदातव्यं पथ्यन्तरपराय च | न देयं देवदेवेशि गोप्यं सर्वागमेषु च || १८-२०३ || पूजाजपविहीनाय स्त्रीसुरानिन्दकाय च | न स्तवं दर्शयेत् क्वापि संदर्श्य शिवहा भवेत् || १८-२०४ || पठनीयं सदा देवि सर्वावस्थासु सर्वदा | यः स्तोत्रं कुलनायिके प्रतिदिनं भक्त्या पठेद् मानवः स स्याद्वित्तचयैर्धनेश्वरसमो विद्यामदैर्वाक्पतिः | सौन्दर्येण च मूर्तिमान् मनसिजः कीर्त्या च नारायणः शक्त्या शङ्कर एव सौख्य[शौर्य |]विभवैर्भूमेः पतिर्नान्यथा || १८-२०५ || इति ते कथितं गुह्यं तारानामसहस्रकम् | अस्मात् परतरं स्तोत्रं नास्ति तन्त्रेषु निश्चयः || १८-२०६ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (तारासहस्रनामनिरूपणं) अष्टादशः पटलः || १८ || अथ एकोनविंशः पटलः | श्रीभैरव उवाच | अथ वक्ष्ये महेशानि कवचं परमाद्भुतम् | यज्ज्ञात्वा साधकाः सर्वे अवश्यं मुक्तिमाप्नुयुः || १९-१ || (प्. २२१) श्रूयतां परमं गुह्यं कवचं मन्मुखिदितम् | जपाद्धि सर्वकल्याणं जायते नात्र संशयः || १९-२ || अप्रकाश्यं महादेवि तव स्नेहात् प्रकाशितम् | उद्धृतं सारभूतानां सारात् सारतरं परम् || १९-३ || कवचं धारयेद् यस्तु पठेद् वा भक्तिभावतः | स शिवः स च विद्येशः स च योगी न संशयः || १९-४ || कवचेन विना देवि योऽर्चयेत् तारिणीं पराम् | कल्पकोटिशतेनापि न सिद्धिर्जायते प्रिये || १९-५ || ब्रह्मविष्णुशिवानां च बीजं रक्षतु मूलकम् | तदेव शक्तिमूलं च लिङ्गं रक्षतु यत्नतः || १९-६ || मणिपूरं सदा पातु वधूबीजमशेषतः | अनाहतं वर्मबीजं पातु मे सर्वसर्वतः || १९-७ || अस्त्रादि सर्वदा पातु विशुद्धं कण्ठदेशकम् | शेषं हि पातु मे नित्यमाज्ञास्थानं द्विपत्रकम् || १९-८ || शीर्षं पातु सदा तारा जटा पातु सदाननम् | नीलासरस्वती पातु हृदयं मे सदा पुनः || १९-९ || मूलाधारं सदा पातु महानीलसरस्वती | अक्षोभ्यः पातु सर्वाङ्गं बृहती पातु भालकम् || १९-१० || उग्रतारा देवता मे शङ्खं रक्षतु सर्वदा | कर्णौ (तु)मे सदा पातु ह्रीं बीजं तदशेषतः || १९-११ || स्तनद्वयं सदा पातु हूंशक्तिर्विघ्नघातकः | रसनां मे सदा पातु लक्ष्मीर्देवी च शाश्वती || १९-१२ || रसनाग्रं सदा पातु सरस्वती प्रयत्नतः | रतिः पातु सदा बीजं प्रीतिर्मे वदनं सदा || १९-१३ || (प्. २२२) कीर्तिः कीर्तिं सदा पातु शान्तिः शान्तिं सदावतु | पुष्टिर्मे पातु पुष्टिं च तुष्टिस्तुष्टिं सदावतु || १९-१४ || वैरोचनः सदा पातु शङ्खं च शङ्खपाण्डुरः | पाण्डुरो मे सदा गुह्यं पातु नित्यं च सर्वशः || १९-१५ || पद्मनाभः सदा पातु नाभिं मे दशपत्रिकाम् | असिताङ्गः पातु लिङ्गं नामकः पातु कर्णकौ || १९-१६ || मामकः पातु मे बाहू हस्तौ पातु महेश्वरी | तारा [तारको ख पाठः |] मे पातु सततं पृष्ठं पद्मान्तको मम || १९-१७ || पार्श्वं मे च सदा (पा(तु?तां)यमान्तकवदान्तकौ | चरणौ मे सदा पातां विघ्नान्तनरकान्तकौ || १९-१८ || तारा मे पातु सततं अष्टाङ्गं परमेश्वरी | इतीदं कवचं देवि कथितं मन्मुखोदितम् || १९-१९ || प्रमादात् परमेशानि न प्रकाश्यं कदाचन | योगिनीभिस्तदा हन्यात् स्वयं च वधकारिणी || १९-२० || यदि भाग्यवशाद् देवि लब्धं साधकसत्तमैः | तदा तस्य महासिद्धिर्जायते देवि निश्चितम् || १९-२१ || निषेद्धेभ्यो न दातव्यं न प्रकाश्यं कदाचन | यदि दद्याद् निषिद्धेभ्यो तदा मृत्युमवाप्नुयात् || १९-२२ || दद्यात् शान्ताय शिष्याय तन्त्रमन्त्रयुताय च | गुरुभक्तियुतायैव तत्र सिद्धिरनुत्तमा || १९-२३ || रहस्यं कथितं सर्वमनन्तफलदायकम् | गोप्तव्यं परमेशानि न प्रकाश्यं कदाचन || १९-२४ || कवचेन विना देवि योऽर्चयेत् तारिणीं शिवाम् | तमश्नाति महोग्रा सा योगिनीभिः सुनिश्चितम् || १९-२५ || (प्. २२३) इति ते कथितं गुह्यं कवचं देवि दुर्लभम् | अथ वक्ष्ये महेशानि गोपनीयं प्रयत्नतः || १९-२६ || गुप्तमन्त्रं गुप्तजापं शृणुष्व क(म)लानने | महाशक्तिं समुद्धृत्य मातङ्गीं परमेश्वरीम् || १९-२७ || वह्निबीजं महेशानि बीजत्रयमुदाहृतम् | बीजत्रयात्मकं मन्त्रं सर्वसारस्वतप्रदम् || १९-२८ || एकादशसहस्रं तु पुरश्चरणमिष्यते | होमयेत् तद्दशांशेन दशांशेनैव तर्पणम् || १९-२९ || अभिषेकं दशांशेन भोजयेद् ब्राह्मणान् दश | मधूनि पायसं चैव महाज्यं च महेश्वरि || १९-३० || जुहुयाद् भक्तिभावेन सर्वतन्त्रेषु गोपितम् | अनेन मन्त्रराजेन साधयेत् तारिणीं शुभाम् || १९-३१ || ततः सिद्धो महादेवि भवत्येव महेश्वरि | युवतीयोनिदेशे तु हस्तमारोप्य सुन्दरि || १९-३२ || उत्तरास्यो महेशानि भूत्वा परमसुन्दरीम् | तारिणीं भावयेद् देवि मनसा काममोहिनीम् || १९-३३ || संभाव्य परमेशानि योनिमध्ये महेश्वरि | तत्र मुखं समानीय जपेदष्टोत्तरं शतम् || १९-३४ || सिद्धमन्त्री महेशानि जायते नात्र संशयः | पञ्चदिनप्रयोगेन कुबेर इव जायते || १९-३५ || सर्वैश्वर्ययुतो भूत्वा विहरेत् क्षितिमण्डले | अष्टोत्तरशतं जप्यं स्तनमर्दनपूर्वकम् || १९-३६ || क्षिपेत् लिङ्गं योनिगर्ते लघु शीर्षे च मस्तकम् | घाताघातेन देवेशि शुक्रमुत्सार्य सुन्दरि || १९-३७ || (प्. २२४) वामहस्ते तदाधाय तिलकं कारयेद् यदि | सर्वसंपत्तिमान् भूत्वा मोदते पृथिवीतले || १९-३८ || राजानोऽपि च दासत्वं भजन्ते किं परे जनाः | तस्य पादपद्मद्वन्द्वं रा(ज्ञः?ज्ञां)किरीटभूषणम् || १९-३९ || सभायां जायते देवि बृहस्पतिरिवापरः | इति ते कथितं गुप्तमन्त्रजापं महाधनम् || १९-४० || मन्त्रराजं महादेवि कथितं नगन्दिनि | गोपनीयं पशोरग्रे सिद्धमन्त्रं सदा शिवे || १९-४१ || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (ताराकवच गुप्तमन्त्रनिरूपणं) एकोनविंशः पटलः || १९ || अथ विंशः पटलः | श्रीदेव्युवाच | सर्वं संसूचितं देव नाम्नां शतं महेश्वर | यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् || २०-१ || पठित्वा परमेशान हठात् सिद्ध्यति साधकः | नाम्नां शतं महादेव कथयस्व समासतः || २०-२ || (प्. २२५) श्रीभैरव उवाच | शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् | यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः || २०-३ || कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् | नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् || २०-४ || नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः | कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् || २०-५ || शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् | सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् || २०-६ || तारिणी तारसंयोगा महातारस्वरूपिणी | तारकप्राणहर्त्री च तारानन्दस्वरूपिणी || २०-७ || महानीला महेशानी महानीलसरस्वती | उग्रतारा सती साध्वी भवानी भवमोचिनी || २०-८ || महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया | महादानरता चण्डी चण्डासुरविनाशिनी || २०-९ || चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला | एकजटा कुरङ्गाक्षी वरदाभयदायिनी || २०-१० || महाकाली महादेवी गुह्यकाली वरप्रदा | महाकालरता साध्वी महैश्वर्यप्रदायिनी || २०-११ || मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा | शठविज्ञा महानादा कमला बगलामुखी || २०-१२ || महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी | सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी || २०-१३ || हिमालयसुता कन्या कन्यारूपविलासिनी | शवोपरिसमासीना मुण्डमालाविभूषिता || २०-१४ || (प्. २२६) दिगम्बरा पतिरता विपरीतरतातुरा | रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया || २०-१५ || स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका | शिवप्राणा शिवरता शिवदात्री शिवासना || २०-१६ || अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी | मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा || २०-१७ || खर्वा खर्वजनप्रीता मणिभूषितमण्डना | किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना || २०-१८ || कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका | कपालखर्परधरा पञ्चाशन्मुण्डमालिका || २०-१९ || हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना | शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी || २०-२० || उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका | रमेशी रमणी रम्या रामानन्दस्वरूपिणी || २०-२१ || रजनीकरसंपूर्णा रक्तोत्पलविलोचना (१००) | इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि || २०-२२ || प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् | सर्वासुरमहानादस्तूयमानमनुत्तमम् || २०-२३ || षण्मासाद् महदैश्वर्यं लभते परमेश्वरि | भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये || २०-२४ || धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् | दारार्थी प्राप्नुयाद् दारान् सर्वागम(पुरो?प्रचो)दितान् || २०-२५ || अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः | सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन || २०-२६ || इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि | (प्. २२७) अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः || २०-२७ || नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः | प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः || २०-२८ || इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने | येन विज्ञानमात्रेण विजयी भुवि जायते || २०-२९ || योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने | अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च || २०-३० || तज्जलं तु पिबेद् देवि षण्मासं जपते यदि | सर्वविद्यामयो भूत्वा मोदते पृथिवीतले || २०-३१ || शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि | वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा || २०-३२ || तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि | सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् || २०-३३ || शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् | अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः || २०-३४ || जायते च जगत्सर्वं सस्थावरचरात्मकम् | श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि || २०-३५ || साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे | श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः || २०-३६ || उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः | तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् || २०-३७ || तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि | भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते || २०-३८ || भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः | स(तु)दुग्धाख्यसंयोगे नानात्वं लभते प्रिये || २०-३९ || (प्. २२८) तृणेन जायते देवि रसस्तस्मात् परो रसः | तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः || २०-४० || स एव कारणं तत्र तत्कार्यं स च लक्ष्यते | दृश्यते च महादे(व?वि)न कार्यं न च कारणम् || २०-४१ || तथैवायं स एवात्मा नानाविग्रहयोनिषु | जायते च ततो जातः कालभेदो हि भाव्यते || २०-४२ || स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् | स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः || २०-४३ || नानाध्याससमायोगादात्मना जायते शिवे | एक एव स एवात्मा सर्वरूपः सनातनः || २०-४४ || अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् | तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् || २०-४५ || विना घटत्वयोगेन न प्रत्यक्षो यथा घटः | इतराद् भिद्यमानोऽपि स भेदमुपगच्छति || २०-४६ || मां विना पुरुषे भेदो न च याति कथञ्चन | न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः || २०-४७ || न स्नानैस्तर्पणैर्वापि नच (ज्ञा?दा)नैः कदाचन | प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् || २०-४८ || प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् | प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् || २०-४९ || नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः | इति ते कथितं तत्त्वं सर्वसारमनोरमम् || २०-५० || इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (ताराशतनाम तत्त्वसारनिरूपणं) विंशः पटलः || २० || अथ एकविंशः पटलः | श्रीभैरव उवाच अथ वक्ष्ये महेशानि तत्त्वसारं पुरातनम् | येन विज्ञानमात्रेण कुबेर इव जायते || २१-१ || ताम्रसीसकमेतत् तु पित्तलं चापि यत्नतः | चतुर्हस्तप्रमाणं हि गर्तं कृत्वा तु साधकः || २१-२ || सरलं भस्म कुर्याच्च विवर्जाङ्गारसंयुतम् | करीषमर्धसं(युक्तं?शुष्कं)ताम्रस्योपरि पूरितम् || २१-३ || तापयेत् परमेशानि दिनानि सप्त चैव हि | ततः प(रे?रं)महेशानि उत्तोल्य यत्नतः शिवे || २१-४ || पात्रे लोहमये देवि तमादाय महेश्वरि | वि(वज?वर्जा)ङ्गारजैर्देवि अलातैस्तापयेद् दृढम् || २१-५ || द्रवीभूतं तथा ताम्रं येन जायेत सुन्दरि | तदर्धं च रसं तत्र दद्यात् प्रयतमानसः || २१-६ || विजावरसकेनैव अटरूषरसेन च | सिंहिकारसकेनाथ युक्तं कुर्याद् महेश्वरी || २१-७ || ततश्च स्वर्णं जायेत सत्यं सुरगणार्चिते | मूलमन्त्रस्य जाप्येन सिद्ध्यत्येव न संशयः || २१-८ || सहस्रदशजापेन सिद्ध्यत्येव न संशयः | पूर्वोक्तेन रसेनैव शुद्धसूतेन वा पुनः || २१-९ || (प्. १३०) संहृत्य तत्र दद्याच्च सीसकं रूप्यतां व्रजेत् | इति ते कथितं सर्वं सर्वसारस्वतप्रदम् || २१-१० || प्रयोगार्हो भवेद् देवि सत्यं सत्यं वरानने | इदानीं शृणु चार्वङ्गि सूतभस्म तथैव च || २१-११ || येन विज्ञानमात्रेण मंत्रसिद्धिर्भवेत् प्रिये | सार्धहस्तप्रमाणेन गर्तं कृत्वा तु देशिकः || २१-१२ || हरिद्रागोमयेनाथ लेपयेत् परमेश्वरि | ततस्तु गजमूत्रेण भस्म कुर्याद् यथाविधि || २१-१३ || वैजयन्त्याश्च मूलेन तथा सिद्धरसेन च | करीषकेण देवेशि भस्मीकुर्याद् विधानतः || २१-१४ || शुद्धसुतं समादाय मङ्गले वासरे निशि | ऊर्ध्वाधो लवणं दत्त्वा भस्मीभवति तत्क्षणात् || २१-१५ || अश्वत्थपल्लवेनैव संयुक्तं परमेश्वरि | सूतभस्म भवत्येव परेशि नात्र संशयः || २१-१६ || अश्वदन्तेन देवेशि वाजिमारेण चैव हि | संयुक्तसूतं तत्रत्यं भस्मीभवति तत्क्षणात् || २१-१७ || धातुना सह युक्तं तद् बद्धिभवति सुन्दरि | पातालरसकेनैव भवेच्च स्वर्णमुत्तमम् || २१-१८ || आदौ च गुलिकां बद्ध्वा पश्चाद् रसेन ताडयेत् | ततो बद्धिभवत्येव सत्यं गुरुगणार्चिते || २१-१९ || त्रिरात्रस्य विधानेन जपं कुर्याच्छुचिस्मिते | ततः प्रयोगो देवेशि सिद्धो नास्त्यत्र संशयः || २१-२० || भावनारससंपन्नो भवेद् योगी महाकविः | भावस्य निर्णयं देवि कथितमपि शोभने || २१-२१ || (प्. २३१) भावस्तु त्रिविधो देवि दिव्यवीरपशुक्रमात् | गुरवस्तु त्रिधा ज्ञेयास्तथैव मन्त्रदेवताः || २१-२२ || आद्यो भावो महादेवि श्रेयान् सर्वागमेषु च | द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः || २१-२३ || बहुजापात् तथा होमात् कायक्लेशादिविस्तरैः | न भावेन बिना देवि मन्त्रविद्या फलप्रदा || २१-२४ || किं वीरसाधनैर्लक्षैः किं वा कृष्टिकुलाकुलैः | किं पीठपूजनेनैव किं कन्याभोजनादिभिः || २१-२५ || स्वयोषित्प्रीतिदानेन किं परेषां तथैव च | किं जितेन्द्रियभावेन किं कुलाचारकर्मणा || २१-२६ || यदि भावविशुद्धात्मा न स्यात् कुलपरायणः | भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् || २१-२७ || भावेन गोत्रवृद्धिः स्याद् भावेन कुलसाधनम् | किं न्यासविस्तरेणैव किं भूतशुद्धिविस्तरैः || २१-२८ || किं तथा पूजनेनैव यदि भावो न जायते | शेषभावो महादे(व?वि)सर्वकर्मसुखावहः || २१-२९ || तेन भावेन देवेशि पूजयेत् परमेश्वरीम् | विना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः || २१-३० || यत्र कुत्र कुजे वारे श्मशानगमने कृते | पूजाफलं लभेत् तत्र सप्तवासरसंमितम् || २१-३१ || चतुर्दश्यां गते तत्र पक्षपुण्यफलं लभेत् | नागते नार्चिते स्थाने पशुरेव न संशयः || २१-३२ || नान्यः स्यादधिको देव इति चिन्तापरायणः | साधके क्षोभमापन्ने मम क्षोभः प्रजायते || २१-३३ || (प्. २३२) तस्माद् यत्नाद् भोगयुतो भवेद् वीरवरः सदा | भोगेन मोक्षमाप्नोति भोगेन कुलसुन्दरीम् || २१-३४ || बिना हेतुकमासाद्य क्षोभयुक्तो महेश्वरः | न पूजां मानसीं कुर्याद् न ध्यानं नच चिन्तनम् || २१-३५ || यद्यद् वदति निद्राति यत्करोति यदर्चति | तत् सर्वं कुलरूपं तु ध्यात्वैवं विहरेत् सुधीः || २१-३६ || तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् | न चैव श्रुतिदोषोऽत्र नापराधादिदुषणम् || २१-३७ || एकाकी निर्जने देशे श्मशाने पर्वते वने | शुन्यागारे नदीतीरे निःशङ्को विहरेत् सदा || २१-३८ || वीराणां जपकालस्तु सर्वकालः प्रशस्यते | सर्वदेशे सर्वपीठे कर्तव्यं कुलतोषणम् || २१-३९ || इति विज्ञाय देवेशि सर्वं कुर्याद् वरानने | बहुनात्र किमुक्तेन किमन्यत् कथयामि ते || २१-४० || इति श्रीबृहन्निलतन्त्रे भैरवीभैरवसंवादे (रसायन भावनिरूपणं) एकविंशः पटलः || २१ || अथ द्वाविंशः पटलः | श्रीदेव्युवाच | पूर्वं हि सूचितं देव कालीनामसहस्रकम् | तद्वदस्व महादेव यदि स्नेहोऽस्ति मां प्रति || २२-१ || श्रीभैरव उवाच | तन्त्रेऽस्मिन् परमेशानि कालीनामसहस्रकम् | शृणुष्वैकमना देवि भक्तानां प्रीतिवर्द्धनम् || २२-२ || (ओं अस्याः श्रीकालीदेव्याः मन्त्रसहस्रनामस्तोत्रस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीकाली देवता क्री/ बीजं हू/ शक्तिः ह्री/ कीलकं धर्मार्थकाममोक्षार्थे विनियोगः) | न्यासादि, कलिका कामदा कुल्ला भद्रकाली गणेश्वरी | भैरवी भैरवप्रीत भवानी भवमोचिनी || २२-३ || कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी | महाकालरता सूक्ंसा कौलव्रतपरायणा || २२-४ || कोमलाङ्गी करालाङ्गी कमनीया वराङ्गना | गन्धचन्दनदिग्धाङ्गी सती साध्वी पतिव्रता || २२-५ || काकिनी वर्णरूपा च महाकालकुटुम्बिनी | कामहन्त्री कामकला कामविज्ञा महोदया || २२-६ || कान्तरूपा महालक्ष्मिर्महाकालस्वरूपिणी | कुलीना कुलसर्वस्वा कुलवर्त्मप्रदर्शिका || २२-७ || (प्. २३४) कुलरूपा चकोराक्षी श्रीदुर्गा दुर्गनाशिनी | कन्या कुमारी गौरी तु कृष्णदेहा महामनाः || २२-८ || कृष्णाङ्गी नीलदेहा च पिङ्गकेशी कृशोदरी | पिङ्गाक्षी कमलप्रीता काली कालपराक्रमा || २२-९ || कलानाथप्रिया देवी कुलकान्ताऽपराजिता | उग्रतारा महोग्रा च तथा चैकजटा शिवा || २२-१० || नीला घना बलाका च कालदात्री कलात्मिका | नारायणप्रिया सूक्ष्मा वरदा भक्तवत्सला || २२-११ || वरारोहा महाबाणा किशोरी युवती सती | दीर्घाङ्गी दीर्घकेशा च नृमुण्डधारिणी तथा || २२-१२ || मालिनी नरमुण्डाली शवमुण्डास्थिधारिणी | रक्तनेत्रा विशालाक्षी सिन्दूरभूषणा मही || २२-१३ || घोररात्रिर्महारात्रिर्घोरान्तकविनाशिनी | नारसिंही महारौद्री नीलरूपा वृषासना || २२-१४ || विलोचना विरूपाक्षी रक्तोत्पलविलोचना | पूर्णेन्दुवदना भीमा प्रसन्नवदना तथा (१००) || २२-१५ || पद्मनेत्रा विशालाक्षी शरज्ज्योत्स्नासमाकुला | प्रफुल्लपुण्डरीकाभलोचना भयनाशिनी || २२-१६ || अट्टहासा महोच्छ्वासा महाविघ्नविनाशिनी | कोटराक्षी कृशग्रीवा कुलतीर्थप्रस(अ)धिनी || २२-१७ || कुलगर्तप्रसन्नास्या महती कुलभूषिका | बहुवाक्यामृतरसा चण्डरूपाति(रो?वे)गिनी || २२-१८ || वेगदर्पा विशालैन्द्री प्रचण्डचण्डिका तथा | चण्डिका कालवदना सुतीक्ष्णनासिका तथा || २२-१९ || (प्. २३५) दीर्घकेशी सुकेशी च कपिलाङ्गी महारुणा | प्रेतभूषणसंप्रीता प्रेतदोर्दण्डघण्टिका || २२-२० || शङ्खिनी शङ्खमुद्रा च शङ्खध्वनिनिनादिनी | श्मशानवासिनी पूर्णा पूर्णेन्दुवदना शिवा || २२-२१ || शिवप्रीता शिवरता शिवासनसमाश्रया | पुण्यालया महापुण्या पुण्यदा पुण्यवल्लभा || २२-२२ || नरमुण्डधरा भीमा भीमासुरविनाशिनी | दक्षिणा दक्षिणाप्रीता नागयज्ञोपवीतिनी || २२-२३ || दिगम्बरी महाकाली शान्ता पीनोन्नतस्तनी | घोरासना घोररूपा सृक्प्रान्ते रक्तधारिका || २२-२४ || महाध्वनिः शिवासक्ता महाशब्दा महोदरी | कामातुरा कामसक्ता प्रमत्ता शक्तभावना || २२-२५ || समुद्रनिलया देवी महामत्तजनप्रिया | कर्षिता कर्षणप्रीता सर्वाकर्षणकारिणी || २२-२६ || वाद्यप्रीता महागीतरक्ता प्रेतनिवासिनी | नरमुण्डसृजा गीता मालिनी माल्यभूषिता || २२-२७ || चतुर्भुजा महारौद्री दशहस्ता प्रियातुरा | जगन्माता जगद्धात्री जगती मुक्तिदा परा || २२-२८ || जगद्धात्री जगत्त्रात्री जगदानन्दकारिणी | जगज्जीवमयी हैमवती माया महाकचा || २२-२९ || नागाङ्गी संहृताङ्गी च नागशययासमागता | कालरात्रिर्दारुणा च चन्द्रसूर्यप्रतापिनी (२००) || २२-३० || नागेन्द्रनन्दिनी देवकन्या च श्रीमनोरमा | विद्याधरी वेदविद्या यक्षिणी शिवमोहिनी || २२-३१ || (प्. २३६) राक्षसी डाकिनी देवमयी सर्वजगज्जया | श्रुतिरूपा तथाग्नेयी महामुक्तिर्जनेश्वरी || २२-३२ || पतिव्रता पतिरता पतिभक्तिपरायणा | सिद्धिदा सिद्धिसंदात्री तथा सिद्धजनप्रिया || २२-३३ || कर्त्रिहस्ता शिवारूढा शिवरूपाअ शवासना | तमिस्रा तामसी विज्ञा महामेघस्वरूपिणी || २२-३४ || चारुचित्रा चारुवर्णा चारुकेशसमाकुला | चार्वङ्गी चञ्चला लोला चीनाचारपरायणा || २२-३५ || चीनाचारपरा लज्जावती जीवप्रदाऽनघा | सरस्वती तथा लक्ष्मीर्महानीलसरस्वती || २२-३६ || गरिष्ठा धर्मनिरता धर्माधर्मविनाशिनी | विशिष्टा महती माल्या तथा सौमयजनप्रिया || २२-३७ || भयदात्री भयरता भयानकजनप्रिया | वाक्यरूपा छिन्नमस्ता छिन्नासुरप्रिया सदा || २२-३८ || ऋग्वेदरूपा सावित्री रागयुक्ता रजस्वला | रजःप्रीता रजोरक्ता रजःसंसर्गवर्द्धिनी || २२-३९ || रजःप्लुता रजःस्फीता रजःकुन्तलशोभिता | कुण्डली कुण्डलप्रीता तथा कुण्डलशोभिता || २२-४० || रेवती रेवतप्रीता रेवा चैरावती शुभा | शक्तिनी चक्रिणी पद्मा महापद्मनिवासिनी || २२-४१ || पद्मालया महापद्मा पद्मिनी पद्मवल्लभा | पद्मप्रिया पद्मरता महापद्मसुशोभिता || २२-४२ || शूलहस्ता शूलरता शूलिनी शूलसङ्गिका | पि(णा?ना)कधारिणी वीणा तथा वीणावती मघा || २२-४३ || (प्. २३७) रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता | रणप्रीता रणरता रणासुरविनाशिनी || २२-४४ || रणाग्रवर्तिनी (३००) राणा रणाग्रा रणपण्डिता | जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा || २२-४५ || रतिप्रिया रतिरता रतिभक्ता रतातुरा | रतिभीता रतिगता महिषासुरनाशिनी || २२-४६ || रक्तपा रक्तसंप्रीता रक्ताख्या रक्तशोभिता | रक्तरूपा रक्तगता रक्तखर्परधारिणी || २२-४७ || गलच्छोणितमुण्डाली कण्ठमालाविभूषिता | वृसासना वृषरता वृषासनकृताश्रया || २२-४८ || व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा | कामाङ्गी परमा प्रीता परासुरनि(वा?रा)सिनी || २२-४९ || तरुणा तरुणप्राणा तथा तरुणमर्दिनी | तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती || २२-५० || स्वप्नावती स्वप्नरता नारसिंही महालया | अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा || २२-५१ || मन्दाकिनी मन्दरता महानन्दा वरप्रदा | मानदा मानिनी मान्या माननीया मदातुरा || २२-५२ || मदिरा मदिरोन्मादा मदिराक्षी मदालया | सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता || २२-५३ || जयप्रदा जयरता दुर्ज(या?यया)सुरनाशिनी | दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी || २२-५४ || सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी | कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया || २२-५५ || (प्. २३८) गुणातीता गुणप्रीता गुणरक्ता गुणात्मिका | सगुणा निर्गुणा सीता निष्ठा काष्ठा प्रतिष्ठिता || २२-५६ || धनिष्ठा धनदा धन्या वसुदा सुप्रकाशिनी | गुर्वी गुरुतरा धौम्या धौम्यासुरविनाशिनी (४००) || २२-५७ || निष्कामा धनदा कामा सकामा कामजीवना | चिन्तामणिः कल्पलता तथा शङ्करवाहिनी || २२-५८ || शङ्करी शङ्कररता तथा शङ्करमोहिनी | भवानी भवदा भव्या भवप्रीता भवालया || २२-५९ || महादेवप्रिया रम्या रमणी कामसुन्दरी | कदलीस्तम्भसंरामा निर्मलासनवासिनी || २२-६० || माथुरी मथुरा माया तथा सुरभिवर्द्धिनी | व्यक्ताव्यक्तानेकरूपा सर्वतीर्थास्पदा शिवा || २२-६१ || तीर्थरूपा महारूपा तथागस्त्यवधूरपि | शिवानी शैवलप्रीता तथा शैवलवासिनी || २२-६२ || कुन्तला कुन्तलप्रीता तथा कुन्तलशोभिता | महाकचा महाबुद्धिर्महामाया महागदा || २२-६३ || महामेघस्वरूपा च तथा कङ्कणमोहिनी | देवपूज्या देवरता युवती सर्वमङ्गला || २२-६४ || सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः | भगप्रीता भगरता भगप्रेमरता सदा || २२-६५ || भगसंमर्दनप्रीता भगोपरिनिवेशिता | भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी || २२-६६ || दक्षकन्या महादक्षा सर्वदक्षा प्रचण्डिका | दण्डप्रिया दण्डरता दण्डताडनतत्परा || २२-६७ || (प्. २३९) दण्डभीता दण्डगता दण्डसंमर्दने रता | सुवेदिदण्डमध्यस्था बूर्भुवःस्वःस्वरूपिणी || २२-६८ || आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः | क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी || २२-६९ || विशालावयवा मेघ्या त्रिवलीवलया शुभा | मदोन्मत्ता मदरता मत्तासुरविनाशिनी || २२-७० || मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी | चण्डरूपा महाचण्डी चण्डिका चण्डनायिका || २२-७१ || चण्डोग्रा चण्डवर्णा प्रचण्डा (५००) चण्डावती शिवा | नीलाकारा नीलवर्णा नीलेन्दीवरलोचना || २२-७२ || खड्गहस्ता च मृद्वङ्गी तथा खर्परधारिणी | भीमा च भीमवदना महाभीमा भयानका || २२-७३ || कल्याणी मङ्गला शुद्धा तथा परमकौतुका | परमेष्ठी पररता पर(अ)त्परतरा परा || २२-७४ || परानन्दस्वरूपा च नित्यानन्दस्वरूपिणी | नित्या नित्यप्रिया तन्द्री भवानी भवसुन्दरी || २२-७५ || त्रैलोक्यमोहिनी सिद्धा तथा सिद्धजनप्रिया | भैरवी भैरवप्रीता तथा भैरवमोहिनी || २२-७६ || मातङ्गी कमला लक्ष्मीः षोडशी विषयातुरा | विषमग्ना विषरता विषरक्षा जयद्रथा || २२-७७ || काकपक्षधरा नित्या सर्वविस्मयकारिणी | गदिनी कामिनी खड्गमुण्डमालाविभूषिता || २२-७८ || योगीश्वरी योगमाता योगानन्दस्वरूपिणी | आनन्दभैरवी नन्दा तथा नन्दजनप्रिया || २२-७९ || (प्. २४०) नलिनी ललना शुभ्रा शुभ्राननविभूषिता | ललज्जिह्वा नीलपदा तथा सु(मु?म)खदक्षिणा || २२-८० || बलिभक्ता बलिरता बलिभोग्या महारता | फलभोग्या फलरसा फलदा श्रीफलप्रिया || २२-८१ || फलिनी फलसंवज्रा फलाफलनिवारिणी | फलप्रीता फलगता फलसंदानसन्धिनी || २२-८२ || फलोन्मुखी सर्वस्त्त्वा महासत्त्वा च सात्त्विकी | सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी || २२-८३ || महारूपा महाभागा महामेघस्वरूपिणी | भयनासा गणरता गणप्रीता महागतिः || २२-८४ || सद्गतिः सत्कृतिः स्वक्षा शवासनगता शुभा | त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी || २२-८५ || महानन्दा सदानन्दा (६००) नित्यानित्यस्वरूपिका | सत्यगन्धा सत्यगणा सत्यरूपा महाकृतिः || २२-८६ || श्मशानभैरवी काली तथा भयविमर्दिनी | त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी || २२-८७ || त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी | महासप्तदशी षष्ठी सप्तमी (चा)ष्टमी तथा || २२-८८ || नवमी दशमी देवप्रिया चैकादशी शिवा | द्वादशी परमा दिव्या नीलरूपा त्रयोदशी || २२-८९ || चतुर्दशी पौर्णमासी राजराजेश्वरी तथा | त्रिपुरा त्रिपुरेशी च तथा त्रिपुरमर्दिनी || २२-९० || सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोपवीतिनी | चामरी चामरप्रीता चमरासुरमर्दिनी || २२-९१ || (प्. २४१) मनोज्ञा सुन्दरी रम्या हंसी च चारुहासिनी | नितम्बिनी नितम्बाढ्या नितम्बगुरुशोभिता || २२-९२ || पट्टवस्त्रप(रि?री)धाना पट्टवस्त्रधरा शुभा | कर्पूरचन्द्रवदना कुङ्कुमद्रवशोभिता || २२-९३ || पृथिवी पृथुरूपा सा पार्थिवेन्द्रविनाशिनी | रत्नवेदिः सुरेशा च सुरेशी सुरमोहिनी || २२-९४ || शिरोमणिर्मणिग्रीवा मणिरत्नविभूषिता | उर्वशी शमनी काली महाकालस्वरूपिणी || २२-९५ || सर्वरूपा महासत्त्वा रूपान्तरविलासिनी | शिवा शैवा च रुद्राणी तथा शिवनिनादिनी || २२-९६ || मातङ्गिनी भ्रामरी च तथैवा(ङ्गन?नङ्ग)मेखला | योगिनी डाकिनी चैव तथा महेश्वरी परा || २२-९७ || अलम्बुषा भवानी च महाविद्यौघसंभृता | गृध्ररूपा ब्रह्मयोनिर्महानन्दा महोदया || २२-९८ || विरूपाक्षा महानादा चण्डरूपा कृताकृतिः | वरारोहा महावल्ली महात्रिपुरसुन्दरी || २२-९९ || भगात्मिका भगाधाररूपिणी भगमालिनी | लिङ्गाभिधायिनी देवी (७००) महामाया महास्मृतिः || २२-१०० || महामेधा महाशान्ता शान्तरूपा वरानना | लिङ्गमाला लिङ्गभूषा भगमालाविभूषणा || २२-१०१ || भगलिङ्गामृतप्रीता भगलिङ्गामृतात्मिका | भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी || २२-१०२ || स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमासना | स्वयम्भूकुसुमरता लतालिङ्गनतत्परा || २२-१०३ || (प्. २४२) सुराशना सुराप्रीता सुरासवविमर्दिता | सुरापानमहातीक्ष्णा सर्वागमविनिन्दिता || २२-१०४ || कुण्डगोलसदाप्रीता गोलपुष्पसदारतिः | कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका || २२-१०५ || स्वयम्भवा शिवा धात्री पावनी लोकपावनी | महालक्ष्मीर्महेशानी महाविष्णुप्रभाविनी || २२-१०६ || विष्णुप्रिया विष्णुरता विष्णुभक्तिपरायणा | विष्णोर्वक्षःस्थलस्था च विष्णुरूपा च वैष्णवी || २२-१०७ || अश्विनी भरणी चैव कृत्तिका रोहिणी तथा | धृतिर्मेधा तथा तुष्टिः पुष्टिरूपा चिता चितिः || २२-१०८ || चितिरूपा चित्स्वरूपा ज्ञानरूपा सनातनी | सर्वविज्ञजया गौरी गौरवर्णा शची शिवा || २२-१०९ || भवरूपा भवपर भवानी भवमोचिनी | पुनर्वसुस्तथा पुष्या तेजस्वी सिन्धुवासिनी || २२-११० || शुक्राशना शुक्रभोगा शुक्रोत्सारणतत्परा | शुक्रपूज्या शुक्रवन्द्या शुक्रभोग्या पुलोमजा || २२-१११ || शुक्रार्च्या शुक्रसंतुष्टा सर्वशुक्रविमुक्तिदा | शुक्रमूर्तिः शुक्रदेहा शुक्राङ्गी शुक्रमोहिनी || २२-११२ || देवपूज्या देवरता युवती सर्वमङ्गला | सर्वप्रियङ्करी भोग्या भोगरूपा (भो?भ)गाकृतिः || २२-११३ || भगप्रेता भगरता भगप्रेमपरा तथा | भगसंमर्दनप्रीता भगोपरि निवेशिता || २२-११४ || भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी | दक्षकन्या महादक्षा सर्वदक्षा प्रदन्तिका (८००) || २२-११५ || (प्. २४३) दण्डप्रिया दण्डरता दण्डताडनतत्परा | दण्डभीता दण्डगता दण्डसंमर्दने रता || २२-११६ || वेदिमण्डलमध्यस्था भूर्भुवःस्वःस्वरूपिणी | आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः || २२-११७ || क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी | विशालावयवा मेध्या त्रिवलीवलया शुभा || २२-११८ || मद्योन्मत्ता मद्यरता मत्तासुरविलासिनी | मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी || २२-११९ || चण्डरूपा महाचण्डा चण्डिका चण्डनायिका | चण्डोग्रा च चतुर्वर्गा तथा चण्डावती शिवा || २२-१२० || नीलदेहा नीलवर्णा नीलेन्दीवरलोचना | नित्यानित्यप्रिया भद्रा भवानी भवसुन्दरी || २२-१२१ || भैरवी भैरवप्रीता तथा भैरवमोहिनी | मातङ्गी कमला लक्ष्मीः षोडशी भीषणातुरा || २२-१२२ || विषमग्ना विषरता विषभक्ष्या जया तथा | काकपक्षधरा नित्या सर्वविस्मयकारिणी || २२-१२३ || गदिनी कामिनी खड्गा मुण्डमालाविभूषिता | योगेश्वरी योगरता योगानन्दस्वरूपिणी || २२-१२४ || आनन्दभैरवी नन्दा तथानन्दजनप्रिया | नलिनी ललना शुभ्रा शुभाननविराजिता || २२-१२५ || ललज्जिह्वा नीलपदा तथा संमुखदक्षिणा | बलिभक्ता बलिरता बलिभोग्या महारता || २२-१२६ || फलभोग्या फलरसा फलदात्री फलप्रिया | फलिनी फलसंरक्ता फलाफलनिवारिणी || २२-१२७ || (प्. २४४) फलप्रीता फलगता फलसन्धानसन्धिनी | फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विका || २२-१२८ || सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी | महारूपा महाभागा महामेघस्वरूपिणी || २२-१२९ || भयनाशा गणरता गणगीता महागतिः | सद्गतिः (९००) सत्कृतिः साक्षात् सदासनगता शुभा || २२-१३० || त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी | महानन्दा सदानन्दा नित्या सत्यस्वरूपिणी || २२-१३१ || शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी | महाशुक्रा शुक्ररता शुक्रसृष्टिविधायिनी || २२-१३२ || सारदा साधकप्राणा साधकप्रेमवर्द्धिनी | साधकाभीष्टदा नित्यं साधकप्रेमसेविता || २२-१३३ || साधकप्रेमसर्वस्वा साधकाभक्तरक्तपा | मल्लिका मालती जातिः सप्तवर्णा महाकचा || २२-१३४ || सर्वमयी सर्वशुभ्रा गाणपत्यप्रदा तथा | गगना गगनप्रीता तथा गगनवासिनी || २२-१३५ || गणनाथप्रिया भव्या भवार्चा सर्वमङ्गला | गुह्यकाली भद्रकाली शिवरूपा सतांगतिः || २२-१३६ || सद्भक्ता सत्परा सेतुः सर्वाङ्गसुन्दरी मघा | क्षीणोदरी महावेगा वेगानन्दस्वरूपिणी || २२-१३७ || रुधिरा रुधिरप्रीता रुधिरानन्दशोभना | पञ्चमी पञ्चमप्रीता तथा पञ्चमभूषणा || २२-१३८ || पञ्चमीजपसंपन्ना पञ्चमीयजने रता | ककारवर्णरूपा च ककाराक्षररूपिणी || २२-१३९ || (प्. २४५) मकारपञ्चमप्रीता मकारपञ्चगोचरा | ऋवर्णरूपप्रभवा ऋवर्णा सर्वरूपिणी || २२-१४० || (स?श)र्वाणी सर्वनिलया सर्वसारसमुद्भवा | सर्वेश्वरी सर्वसारा सर्वे(षां?च्छा) सर्वमोहिनी || २२-१४१ || गणेशजननी दुर्गा महामाया महेश्वरी | महेशजननी मोहा विद्या विद्योतनी विभा || २२-१४२ || स्थिरा च स्थिरचित्ता च सुस्थिरा धर्मरञ्जिनी | धर्मरूपा धर्मरता धर्माचरणतत्परा || २२-१४३ || धर्मानुष्ठानसन्दर्भा सर्वसन्दर्भसुन्दरी | स्वधा स्वाहा वषट्कारा श्रौषट् वौषट् स्वधात्मिका || २२-१४४ || ब्राह्मणी ब्रह्मसंबन्धा ब्रह्मस्थाननिवासिनी | पद्मयोनिः पद्मसंस्था चतुर्वर्गफलप्रदा || २२-१४५ || चतुर्भुजा शिवयुता शिवलिङ्गप्रवेशिनी (१०००) | महाभीमा चारुकेशी गन्धमादनसंस्थिता || २२-१४६ || गन्धर्वपूजिता गन्धा सुगन्धा सुरपूजिता | गन्धर्वनिरता देवी सुरभी सुगन्धा तथा || २२-१४७ || पद्मगन्धा महागन्धा गन्धामोदितदिङ्मुखा | कालदिग्धा कालरता महिषासुरमर्दिनी || २२-१४८ || विद्या विद्यावती चैव विद्येशा विज्ञसंभवा | विद्याप्रदा महावाणी महाभैरवरूपिणी || २२-१४९ || भैरवप्रेमनिरता महाकालरता शुभा | माहेश्वरी गजारूढा गजेन्द्रगमना तथा || २२-१५० || यज्ञेन्द्रललना चण्डी गजासनपराश्रया | गजेन्द्रमन्दगमना महाविद्या महोज्ज्वला || २२-१५१ || (प्. २४६) बगला वाहिनी वृद्धा बाला च बालरूपिणी | बालक्रीडारता बाला बलासुरविनाशिनी || २२-१५२ || बाल्यस्था यौवनस्था च महायौवनसंरता | विशिष्टयौवना काली कृष्णदुर्गा सरस्वती || २२-१५३ || कात्यायनी च चामुण्डा चण्डासुरविघातिनी | चण्डमुण्डधरा देवी मधुकैटभनाशिनी || २२-१५४ || ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा | रुद्रकाली विशालाक्षी भैरवी कालरूपिणी || २२-१५५ || महामाया महोत्साहा महाचण्डविनाशिनी | कुलश्रीः कुलसंकीर्णा कुलगर्भनिवासिनी || २२-१५६ || कुलाङ्गारा कुलयुता कुलकुन्तलसंयुता | कुलदर्भग्रहा चैव कुलगर्तप्रदायिनी || २२-१५७ || कुलप्रेमयुता साध्वी शिवप्रीतिः शिवाबलिः | शिवसक्ता शिवप्राणा महादेवकृतालया || २२-१५८ || महादेवप्रिया कान्ता महादेवमदातुरा | मत्तामत्तजनप्रेमधात्री विभववर्द्धिनी || २२-१५९ || मदोन्मत्ता महाशुद्धा मत्तप्रेमविभूषिता | मत्तप्रमत्तवदना मत्तचुम्बनतत्परा || २२-१६० || मत्तक्रिडातुरा भैमी तथा हैमवती मतिः | मदातुरा मदगता विपरीतरतातुरा || २२-१६१ || वित्तप्रदा वित्तरता वित्तवर्धनतत्परा (११००) | इति ते कथितं सर्वं कालीनामसहस्रकम् || २२-१६२ || सारात्सारतरं दिव्यं महाविभववर्द्धनम् | गाणपत्यप्रदं राज्यप्रदं षट्कर्मसाधकम् || २२-१६३ || (प्. २४७) यः पठेत् साधको नित्यं स भवेत् संपदां पदम् | यः पठेत् पाठयेद्वापि शृणोति श्रावयेदथ || २२-१६४ || न किञ्चिद् दुर्लभं लोके स्तवस्यास्य प्रसादतः | ब्रह्महत्या सुरापानं सुवर्णहरणं तथा || २२-१६५ || गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् | सर्वमेतत्पुनात्येव सत्यं सुरगणार्चिते || २२-१६६ || रजस्वलाभगं दृष्ट्वा पठेत् स्तोत्रमनन्यधीः | स शिवः सत्यवादी च भवत्येव न संशयः || २२-१६७ || परदारयुतो भूत्वा पठेत् स्तोत्रं समाहितः | सर्वैश्वर्ययुतो भूत्वा महाराजत्वमाप्नुयात् || २२-१६८ || परनिन्दां परद्रोहं परहिंसां न कारयेत् | शिवभक्ताय शान्ताय प्रियभक्ताय वा पुनः || २२-१६९ || स्तवं च दर्शयेदेनमन्यथा मृत्युमाप्नुयात् | अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि || २२-१७० || महाकाली महादेवी तथा नीलसरस्वती | न भेदः परमेशानि भेदकृन्नरकं व्रजेत् || २२-१७१ || इदं स्तोत्रं मया दिव्यं तव स्नेहात् प्रकथ्यते | उभयोरेवमेकत्वं भेदबुद्ध्या न तां भजेत् | स योगी परमेशानि समो मानापमानयोः || २२-१७२ || इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे (कालीसहस्रनामनिरूपणं) द्वाविंशः पटलः || २२ || अथ त्रयोविंशः पटलः | श्रीदेव्युवाच | पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् | नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो || २३-१ || श्रीभैरव उवाच | साधु पृष्टं महादेवि अकथ्यं कथयामि ते | न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि || २३-२ || प्राणाधिकप्रियतरा भवती मम मोहिनी | क्षणमात्रं न जीवामि त्वां बिना परमेश्वरि || २३-३ || यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् | तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः || २३-४ || शृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् | सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च ईरितः || २३-५ || देवता भैरवो देवि पुरुषार्थचतुष्टये | विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः || २३-६ || महाकाली जगद्धात्री जगन्माता जगन्मयी | जगदम्बा गजत्सारा जगदानन्दकारिणी (१०) || २३-७ || जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी | भैरवभाविनी भावानन्ता सारस्वतप्रदा || २३-८ || चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला | (प्. २४९) भद्रकाली (२०) विशालाक्षी कामदात्री कलात्मिका || २३-९ || नीलवाणी महागौरसर्वाङ्गा सुन्दरी परा | सर्वसंपत्प्रदा भीमनादिनी वरवर्णिनी || २३-१० || वरारोहा (३०) शिवरुहा महिषासुरघातिनी | शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता || २३-११ || सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा | कोमलाङ्गी विधात्री च विधातृवरदायिनी (४०) || २३-१२ || पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी | कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा || २३-१३ || मत्ताङ्गी मदनप्रीता मदाघूर्णितलोचना (५०) | मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी || २३-१४ || नरमुण्डस्रजा देवी खड्गहस्ता भयानका | अट्टहासयुता पद्मा पद्मरागोपशोभिता || २३-१५ || वराभयप्रदा (६०) काली कालरात्रिस्वरूपिणी | स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा || २३-१६ || शरत्ज्योत्स्ना च संह्लादा विपरीतरतातुरा | मुक्तकेशी (७०) छिन्नजटा जटाजूटविलासिनी || २३-१७ || सर्पराजयुताभीमा स(र्व?र्प)राजोपरि स्थिता | श्मशानस्था म्हानन्दिस्तुता संदीप्तलोचना || २३-१८ || शवासनरता नन्दा सिद्धचारणसेविता (८०) | बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी || २३-१९ || गायत्री चैव सावित्री महानीलसरस्वती | लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता || २३-२० || व्याघ्रचर्मावृता (९०) मेध्या त्रिवलीवलयाञ्चिता | गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा || २३-२१ || पवित्रा परमा माया महामाया महोदया (१००) | इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि || २३-२२ || यः पठेत् प्रातरुत्थाय स तु विद्यानिधिर्भवेत् | इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् || २३-२३ || तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः | खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये || २३-२४ || ते सर्वे वशमायान्ति साधकस्य हि नान्यथा | नाम्नां वरं महेशानि परित्यज्य सहस्रकम् || २३-२५ || पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् | अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि || २३-२६ || भजते यो महकालीं सिद्धिर्नास्ति कलौ युगे | प्रपठेत् प्रयतो भक्त्या तस्य पुण्यफलं शृणु || २३-२७ || लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् | बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति || २३-२८ || इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे (कालीशतनामनिरूपणं) त्रयोविंशः पटलः || २३ || अथ चतुर्विंशः पटलः | श्रीदेव्युवाच | देवेदेव महादेव सृष्टिस्थित्यन्तकारक | यदुक्तमन्नदाकल्पे तद्वदस्व समाहितः || २४-१ || अन्नदायाः परं मन्त्रं विशेषं कथयामि ते | इति मे कथितं भद्र तद्वदस्व समाहितः || २४-२ || श्रीभैरव उवाच | यथा काली तथा नीला तथा चैवान्नदा शिवे | एतासां मन्त्रमेतस्मिन् कथितं परमेश्वरि || २४-३ || एका मूर्तिस्त्रिधा भूत्वा जगतां हितकारिणी | अन्नदायाः परं कल्पं कथितं तव सुन्दरि || २४-४ || मन्त्रराजं महादेवि शृणुष्वैकमनाः प्रिये | [अन्नवर्णं महादेवि महिकारसमन्वितम् | न्नं वर्णं चैव मे देहि स्वराद्येन विभूषितम् || २४-अनाधिलोहितं देवि तये पदसमन्वितम् | ममान्नं पदमीशानि प्रदापय पदं ततः || २४-इति तन्त्रान्तरोक्तो मन्त्रः ||] जृम्भणान्तं त्यक्तपर्श्वं यात्रावारणरोहकम् || २४-५ || वामाक्षिसंयुतं देवि बिन्दुसंयुतमुत्तमम् | प्रथमं बीजमेतद्धि कथितं परमेश्वरि || २४-६ || (प्. २५२) ततश्च लोहितं देवि स्वराद्येन विभूषितम् | अन्नवर्णं महादेवि मकारैकारसंयुतम् || २४-७ || नान्नवर्णं महादेवि स्वराद्येन विभूषितम् | ततश्च परमेशानि त्रिपदं सर्वगोपनम् || २४-८ || मन्त्रं गुप्तं महेशानि वह्निजायावधिस्थितम् | मन्त्रमेतन्महेशानि हठात् सिद्धिप्रदायकम् || २४-९ || ध्यानपूजादिकं सर्वं कथितं पूर्वकल्पके | शतनाम प्रवक्ष्यामि सर्वसारस्वतप्रदम् || २४-१० || बिना येन महादेवीमन्नदां भजते नरः | शतवर्षसहस्रेण तस्य सिद्धिर्न जायते || २४-११ || तस्मात् सर्वप्रयत्नेन सावधानावधारय | नाम्नां सहस्रं कथितं परमं तव सुन्दरि || २४-१२ || इदानीं शृणु देवेशि अन्नदाशतनामकम् | यस्मात् परतरं नास्ति तन्त्रमध्ये महेश्वरि || २४-१३ || अन्नदा परमा माया महादेवी शिवप्रिया | भवानी जगतामाद्या प्राणदा प्राणवल्लभा || २४-१४ || जगज्जीवमयी (१०) गौरी त्रयी वेदमयी परा | काशीपुरनिवासा च काशीपुरविनाशिनी || २४-१५ || कैलासनिलया काली कल्पज्ञा कल्पदा (२०) शुभा | महादेवप्रपूज्या च महादेवरतातुरा || २४-१६ || पायसान्नप्रिया देवी पीनोन्नतपयोधरा | त्रिवलीवलयोपेता नयनोत्तमसत्तमा || २४-१७ || अन्नपात्रधृतानन्ता (३०) अन्नवेषनतत्परा | गङ्गा गया विशालाक्षी विशालरूपयौवना || २४-१८ || (प्. २५३) मदोन्मत्ता स्वरूपाङ्गी पूर्णचन्द्रनिभानना | शिवप्राणा शिवरता (४०) सदाशिवमहाघना || २४-१९ || महादेवप्रिया साध्वी सती कामालसा प्रिया | कोमलाङ्गी कामकला कला काष्ठा (५०) यशस्विनी || २४-२० || प्रफुल्लपद्मवदना तथा पद्मालया शिवा | भवानी भवनप्रीता पद्मासनसमाश्रया || २४-२१ || वेष्टिता सिद्धगन्धर्वैः संस्तुता ऋषिभिस्तथा | शिवेन सह संविष्टा (६०) शिवक्रीडनतत्परा || २४-२२ || युवती यौवनप्रीता नित्ययौवनतत्परा | सदा षोडशवर्षीया सदाशिवमनोरमा || २४-२३ || चारुरूपधरा चारुवक्त्रा चारुपराक्रमा | चार्वङ्गी (७०) कनकाङ्गी च कनकोपरिसंस्थिता || २४-२४ || अन्नपूर्णा सदापूर्णा भूषणा स्वर्णकङ्कणा | भक्तप्राणा भक्तरता भक्तभोजनतत्परा || २४-२५ || आज्यप्रिया (८०) विरूपाक्षी काकपक्षधरा शुभा | शुभदा शोभना शुद्धा निष्कला परमागतिः || २४-२६ || दीनप्रिया दीनरता (९०) दीनभोजनतत्परा | साधकप्रेमसंपन्ना साधकाभीतिदायिनी || २४-२७ || साधकैः सह संविष्टा साधकप्रेमतोषिता | साधकानन्ददात्री च साधकप्रेमगोचरा || २४-२८ || जगद्धात्री जगत्त्रात्री जगतां जयकारिणी (१००) | इति ते कथितं दिव्यमन्नपूर्णाशतं शुभम् || २४-२९ || यः पठेत् प्रातरुत्थाय स भवेत् परमेश्वरः | दरिद्रो लभते देवि सर्वसंपत्तिमेव च || २४-३० || (प्. २५४) अरोगी जायते सुभ्रु! सर्वशास्त्रार्थविद्भवेत् | अन्नचिन्ता तस्य वंशे न जायते सुरेश्वरि || २४-३१ || स भवेत् परमेशानि त्रैलोक्यविजयी प्रभुः | वन्ध्यापि लभते पुत्रं कन्या विन्दति सत्पतिम् || २४-३२ || पठनाद्धारणाद् वापि नरो सर्वमयो भवेत् | गुह्याद् गुह्यतरं स्तोत्रं सर्वतन्त्रेषु गोपितम् || २४-३३ || तव स्नेहाद् वरारोहे प्रकाशितमिदं पुरः | न प्रकाश्यं महादेवि न प्रकाश्यं कदाचन || २४-३४ || मद्भक्ताय महेशानि प्रकाशमुपपादय | व्यासादयो वशिष्ठाद्याः सर्वे च तदुपासकाः || २४-३५ || एकान्नपूर्णा देवेशि रूपभेदादनेकधा | काली तारा महाविद्या चान्नदा परमेश्वरी || २४-३६ || एता विद्या महादेवि सिद्धविद्याः कलौ युगे | अनेकजन्मसौभाग्याद् यद्येताः परमेश्वरि || २४-३७ || प्राप्नुवन्ति वरारोहे तेषां पुण्यफलं शृणु | यदि भाग्यवशेनैव एतासां सदुपासकः || २४-३८ || स कविः सच विज्ञानी सच साधकसत्तमः | एतन्मन्त्रग्रहादेव सिद्धो भवति मानवः || २४-३९ || एतन्मन्त्रं समादाय धर्मकामार्थमुक्तिषु | नासाध्यं मेनिरे देवि साधकाः वीतमत्सराः || २४-४० || ऐश्वर्येण महादेवि कुबेर इव जायते | य एताः पूजयेन्नित्यं प्रत्यहं भक्तिभावतः || २४-४१ || तस्यैवज्ञाकराः सर्वे सिद्धयोष्टौ भवन्ति हि | तस्यैव धनसंपत्तिं दृष्ट्वैव परमेश्वरि || २४-४२ || (प्. २५५) इन्द्रोऽपि परमेशानि तिरस्कृत इवापरः | तस्यैव जननी धन्या पिता तस्य सुरोत्तमः || २४-४३ || संप्रदायविदां वक्त्राद् य एता वेत्ति तत्त्वतः | एतासां ज्ञानमात्रेण कुलकोतीः समुद्धरेत् || २४-४४ || नन्दन्ति पितरः सर्वे गाथां गायन्ति ते मुदा | अपि चास्मत्कुले कश्चित् कुलज्ञानी भविष्यति || २४-४५ || एष्टव्या बहवः पुत्रा यद्यप्येकः कुलं वसेत् | किं गयापिण्डदानेन किं काशीगमनेन च || २४-४६ || यदि भाग्यवशेनैव कालीं सरस्वतीं शिवे | अन्नपूर्णां महादेवीं पूजयति गृहाङ्गने || २४-४७ || स ब्राह्मणः स वेदज्ञः स वशी सच साधकः | स तीर्थवासी पीठानां चतुर्थाश्रमिणो यथा || २४-४८ || स संन्यासी महायोगी जीवन्मुक्तो भविष्यति | पापं पुण्यं महादेवि तस्य नास्ति वरानने || २४-४९ || हिंसादिजनितो दोषो नास्त्येव वरवर्णिनि | अपि चेत् त्वत्समा नारी मत्समः पुरुषो यदि || २४-५० || एतासां सिद्धविद्यानां समो मन्त्रोऽस्ति वै तदा | मन्त्रं संत्यज्य चान्येषां एतन्मन्त्रं समाश्रयेत् || २४-५१ || कोटीनां तिसृणां मध्ये तन्त्रसारं प्रकाशितम् | यदुक्तं परमेशानि तत्कर्तव्यमहर्निशम् || २४-५२ || एतत् तन्त्रं महेशानि यद्गृहे तिष्ठति प्रिये | मत्सांनिध्यं महेशानि तत्र तिष्ठति निश्चितम् || २४-५३ || सर्वविद्या भवत्येव संशयो नास्ति कश्चन | ऐश्वर्यं रोगराहित्यं सदा भवति तद्गृहे || २४-५४ || (प्. २५६) अहं शिवः परात्मा च विमाता तु महेश्वरी | सर्वमेव महेशानि कथितं दुर्लभं शिवे || २४-५५ || इति श्रीबृहन्नीलतन्त्रे सर्वतन्त्रोत्तमोत्तमे भैरवभैरवीसंवादे (अन्नदामन्त्रोद्धारशतनामतन्त्रमाहात्म्यनिरूपणं) चतुर्विंशः पटलः || २४ || समाप्तं चेदं श्रीबृहन्नीलतन्त्रम् | पञ्चाङ्कनन्दशशि (१९९५) संमितवैक्रमेऽब्दे श्रीनीलतन्त्रकमशेषसुतन्त्रसारम् | श्रीभैरवागममहाब्धिमहार्घरत्नं संस्कृत्य शुद्धिपदपाठसुमीलनाद्यैः || १ || प्राचीनहस्तलिखितानपि जीर्णभूयो ग्रन्थान् प्रयत्नवशतोऽनुविधृत्य लब्धान् | औदार्यवीर्यसुभगत्वगुणस्फुरच्छ्री- राजाधिराज हरिसिंहनृपानुशिष्ट्या || २ || उच्चैः पदाधिकृतिभाजन काकजाति- श्रीरामचन्द्रविबुधाधिकृतिप्रबन्धे | संपाद्य शास्त्रि शिवनाथसहायभाजा प्राकाशि शास्त्रिहरभट्ट विपश्चितेदम् || ३ || ########### END OF FILE #######