#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00623 Uniform title: bagalāmukhīpañcāṅgam Manuscript : manuscript 6025 Dharmartha Trust at Raghunath Temple, Jammu, JandK Description: Title page: 6025 N0: 1636k Title: bagulāmukhīpañcāṅgam Extent: 153 patra Age: saṃ0 1939 Subject: tantra Link to original manuscript on archive.org: https://archive.org/download/BagulaMukhiPanchangamAlm27Shlf16025DevanagariTantra/Bagula%20Mukhi%20Panchangam_Alm_27_shlf_1_6025_Devanagari%20-%20Tantra.pdf Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: May 21, 2023 Revision 1: May 27, 2023 corrected v's and b's Revision 2: April 4, 2024 diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### न्०: १६३६ क तित्ले: बगुलामुखीपञ्चाङ्गम् (बगलामुखीपञ्चाङ्गम्) एxतेन्त्: १५३ पत्र अगेः सं० १९३९ सुब्जेच्त्: तन्त्र ६०२५ पृ० १अ) ओंश्रीगणेशायनमः श्री बलामुख्यैनमः श्रीईश्व रुवाच देवदेवेशिवक्ष्या मिरहस्यमुत्तमोत्तमं प पृ० १ब) टलंवगलामुख्यागोप्यंकु रुसुरार्चिते विद्येयंवग लामुख्याःप्रभावसहिता कलौ यस्यकस्यनदातव्या पृ० २अ) दुर्लभाभुवनत्रये प्रातःकृ त्यंचसंपाद्यचक्रपूजांसमा चरेत् पूजांकृत्वाजपेन्मंत्रं चतुर्वर्गफलप्रदम् तारा पृ० २ब) चतोत्तुला(तोत्तला)श्यामातारिणी चमनोन्मना वैंदवैशीभ गावासादेवताबगलामु खी यत्रकुत्रस्थितंमंत्री- पृ० ३अ) श्चाष्टसिद्धिप्रदायकः नत स्यसंभवेशक्रस्तत्ररोगो नवाध्यते तस्मातुगोपनी यैषाश्रीविद्याबगलामुखी पृ० ३ब) अस्यामंत्रंजपेद्रात्रौयथाश क्त्याचसाधकाः मध्याह्नेत स्यदेवेशिवशीभवतिदेव ता अद्याहंतवसद्भक्त्यामं पृ० ४अ) त्रोद्धारंतुवद्म्यहम् यंत्रोद्धा रंमहेशानिकुरुगोप्यंस्व योनिवत् प्रणवंपूर्वमुद्धृ त्यसाधकस्तदनंतरम् पृ० ४ब) वियद्भूमिरतीबिंदुंयोज यन्विंदुमुत्तमम् मंत्रंचद्वि शिरोज्ञेयंततःपल्लवमु द्धरेत् बगलामुखिवैद- पृ० ५अ) त्वासर्वदुष्टमुखंपदं वाचं स्तंभयद्विर्दत्वाजिह्वांकील य वुद्धिंविनाशयद्धिःस्या न्मृत्स्नावीजंचतारवम् पृ० ५ब) अंतेपिठद्वयंदद्यादेषमं त्रवरःस्मृतः चत्वारिंश त्पंचवर्णामंत्रोयंभुक्तिमु क्तिदः प्रकाशंचप्रवक्ष्या पृ० ६अ) मिशृणुदेवियथाक्रमं परं तुगोपनीयंचदुर्जनाद्वेषि तात्तथा प्रकाशं ओंह्लींब गलामुखिसर्वदुष्टमु- पृ० ६ब) खंपदंवाचंस्तंभयस्तंभय जिह्वांकीलय २ वुद्धिंवि नाशय २ ह्लींओंस्वाहा २५ अस्यनास्तिसुरेशानिन्यास पृ० ७अ) दोषःकदाचन नोविघ्नोनै वमाचारोनैवंप्रतिविपर्य यः साक्षादमृतरूपोयंदु र्लभंभगलामनुः || पृ० ७ब) एकलक्षंमहेशानिपुरश्च र्याविधिःस्मृतः अस्यस्मर णमात्रेणकोटिहत्याप्रण श्यति ध्यानमस्याःप्रवक्षा पृ० ८अ) मिगोपनीयंकलौनृभिः अथध्यानं उद्यत्सूर्यसहस्राभांमुंडमाला विभूषिताम् पीतांवरांपी तप्रियांपीतमाल्यवि पृ० ८ब) भूषिताम् पीतासनांशव गतांघोरहासास्मिताननां गदारिरसनाहस्तांमुद्गरा युधधारिणीम् नृमुंडरस पृ० ९अ) नांवालांतप्तकांचनसन्नि भाम् पीतालकांस्मयमयीं मधुपानपरायणां नानाभ रणभूषाढ्यांस्मरेहं पृ० ९ब) वगलामुखीम् इतिध्यानं मयाप्रोक्तंत्रिषुलोकेषुदुर्ल भम् यंत्रोद्धारंप्रवक्ष्यामिकु रुगोप्यंकलौभुवि आदौष पृ० १०अ) ट्कोणमुद्धृत्यचोर्ध्वमाकर्ष येत्पुनः त्रिकोणंसंक्षिपेन्म ध्ये यंत्रस्याधःसुरेश्व रि त्रिकोणंतुचरेन्मध्येत्रिकोणेविं पृ० १०ब) दुमुल्लिखेत् अष्टकोणमि दंयंत्रंवृत्तरेखात्रयांकित म् वहिश्चतुर्दलंप्रोक्तंवृत्त रेखात्रयंपुनः तद्वहिस्तुच पृ० ११अ) तुर्द्वारंचरेत्साधकसत्तमः यंत्रेशंवगलामुख्याःशत्रोः स्तंभनकारकं अदातव्यंम हेशानिगोपनीयंप्रय- पृ० ११ब) त्नतः वश्यार्थेचलिखेत्सुवर्णे मोहनार्थेचराजते स्तंभना र्थेचताम्रेचमारणार्थेपिलो हिते उच्चाटनार्थेचलिखेत्कां पृ० १२अ) स्यपात्रेचसाधकः इदंयंत्रत रंगोप्याप्रभावसहितंकलौ यंत्रेमूलंविभज्याशु यं त्रदेवीसमर्चयेत् | पृ० १२ब) ऊर्ध्वंतारंनरोदद्यात्तदधोमृ त्तिकाक्षरं तदधोर्ध्वंनरोद द्याच्छिववीजमधस्ततः त मोवीजंतदधस्तान्सुवीजं पृ० १३अ) तदधःस्मृतम् शून्यवीजं चतदधस्तधोदमृततार कम् यंत्रमध्येलिखेद्विं दौठद्वयंसाधकोत्तमः पृ० १३ब) देवीनामानिवक्ष्यामिशृणु पार्वतितत्त्वतः तोतलाता रिणीताराशीतलाचमनो न्मना वैखरीखेचरीश्यामा पृ० १४अ) नवमीवगलामुखी एतेयं त्रःसदापूज्यःसाधकैःशुभ वांछितिः त्रिकोणेपूजयेन्मं त्रीदेवेशींवगलामुखीं ए पृ० १४ब) तापूज्यःसदामंत्रैर्यंत्रम ध्येसुरेश्वरि वहिर्दलेषु संपूज्यःचतुस्रःसाधको त्तमैः तद्वहिरष्टपत्रेषु पृ० १५अ) पूजनीयाश्चदेवताः वाला भर्गशिखादुर्गाभवानीभ द्रकालिका भगावासामहा मायादेवतावैंदवेश्वरी ए पृ० १५ब) ताष्टदलेपूजाद्वारपालां स्तुपूजयेत् गणेशंवरु णंश्रीदंधर्मराजंसमर्च- येत् इंद्रेणह्यहितांदेवि पृ० १६अ) दिक्पालाद्वारपालकान् इ दंयत्रवरप्रोक्तंनदेयंयस्यक स्यचित् स्तंभनंमारणंवक्ष्ये मोहनाकृष्टिकर्मच वशी पृ० १६ब) कारंतथोच्चाटंविद्वेषंत ववद्म्यहम् यादृशी कामनायस्यतादृक्कर्मस मारभेत् रवौवुत्थायमंत्रीतु पृ० १७अ) ओंह्लींगंगणेशंतर्पयामिनमः ओं ह्लींवोंवरुणंतर्पयामिनमः ओंह्लीं श्रींश्रींदशविद्यांतर्पयामिनमः ओंह्लींत्रींधर्मराजंतर्पयामिनम पृ० १७ब) ओंवगलामुखीपरिवारितांतर्पया मिनमः ह्लींओंस्वाहातर्पयामिन मः ३ इतिसंतर्प्य विधिवत्निपी याचमनत्रयम् प्राणायामत्रयं पृ० १८अ) तथाचैवहरिद्रया मूलमंत्रे णदेवेशिशत्रोस्तंभयतेर साम् नीलपुष्पैस्तथामीनैः मारणालैर्यथाविधि नी पृ० १८ब) लद्रव्यैश्चरेद्धोमंशत्रूः मृ त्युपथंव्रजेत् क्षीराज्यदधि धूपेश्चमालतीकुसुमैस्त था मूलेनैवचरेद्धोमंत्रै पृ० १९अ) लोक्यंमोहयेद्ध्रुवम् वुकमां सैश्चसघृतैर्गोमूत्रेणसुमं त्रतः साधकस्तुचरेद्धोमं ध्रुवमाकर्षणंभवेत् गुड पृ० १९ब) पुष्पैश्चसघृतैःसक्षिरैरु धिरेणच रजस्वलायाव- स्त्रैणचरेद्धोमंचसाधकः व्राह्म्याद्यादेवताःसर्वे पृ० २०अ) रंभाद्याप्सरसांगणाः इंद्रा द्याश्चैवदिक्पालावशमा यातितत्क्षणात् लवणेनैव तैलेनघृतेनपायसेनच पृ० २०ब) विडालामेध्ययुक्तेनचरेद्धोमं चसाधकः स्वमूलेनरवेर्वह्नेः शत्रोरुच्चाटनंभवेत् कूपमृत्स्नां चसघृतांस्त्रीकेशंछागलंपलं पृ० २१अ) मीनकर्णांस्तथास्तन्यंजुहुयात्सा धकोत्तमः कर्मणामनसावाचा शत्रोर्विद्धेषणंभवेत् अविक्षीरे णमांसेनयोनिकेशेनसर्पिषा पृ० २१ब) साधकस्तुचरेद्धोमंवंध्यापुत्रंल भिष्यति सम्येनैवचतक्रेणगो क्षीरेणैवसर्पिषा साधकस्तुच रेद्धोमंसद्योविद्यानिधिर्भवेत् पृ० २२अ) इतीवंयादृशीस्वेच्छासाधकस्यप्र वर्तते तादृशंरचयेद्धोमंसर्वा न्कामानवाप्नुयात् कर्पासेनच रेद्धोमंराजासद्योवशीभवेत् पृ० २२ब) इदंतुपटलंगोप्यंतवभक्त्याप्र काशितम् अप्रकाशंपरंगुह्यं नदेयंयस्यकस्यचित् भुक्तिमु क्तिप्रदंगोप्यंगोपनीयंसुयोनि पृ० २३अ) वत् इतिश्रीईश्वरतंत्रेश्रीवग लामुखीपटलःसमाप्तम् || पृ० २३ब) ओंअथपूजापद्धतिःप्रतन्यते श्रीदेव्युवाच ओंश्रीकंठकरुणां भोधेजगज्जीवनकारक पद्ध तिंवगलामुख्याःपूजायावक्तुम पृ० १अ) र्हसि श्रीभैरवुवाच शृणुदेविप्र वक्ष्यामित्वद्भक्त्याकल्मषापहां प द्धतिंवगलामुख्यागोप्यांगोप्यतरां कुरु यथेष्टफलदांनॄणाम- पृ० १ब) मराणाममापिच यःपूजांरच येन्मंत्रीतस्यसिद्धिर्नदूरतः प्रभा तेस्वासनान्मंत्रीचोत्थायजल सन्निधौ गत्वाशीघ्रंपिवे- पृ० २अ) न्मंत्रीतताचमनत्रयं ओंह्रींवि द्यातत्वायस्वाहा श्रींगुरुतत्वाय स्वाहा क्लींदेवीतत्वायस्वाहा इ त्याचम्यब्रजेद्दूरंकुर्यान्मलवि पृ० २ब) सर्जनं मलमूत्रादिकंत्यक्त्वाकु र्याच्छौचविधिंनरः प्रणवेनचरेन्मं त्रीप्राणायामत्रयंमुदा पूरकं १६ कुंभकं ६४ रेचकं | ३२ | पृ० ३अ) कृत्वाप्राणायामविधिंचरेद्दंतवि शोधनम् स्वाहावीजेनसंशोध्य दंतान्साधकसत्तमः आनयेन्मृत्ति कांमंत्रीत्रीणिभागानिकारयेत् ४ पृ० ३ब) प्रणवेनमृदावीजवनेमृत्स्नांस शोधयेत् मूलेनांगेषुवस्त्राणि दूरीकुर्याच्चसाधकः मृदंसंशो ध्यविधिवत्तीर्थावाहनमाचरेत् पृ० ४अ) गंगेचयमुनेचैवगोदावरिसरस्व ति नर्मदेसिंधुकावेरिजलेस्मि न्सन्निधिंकुरु मूलेनैवमृदंन द्यांक्षिपेत्साधकसत्तमः तीर्थ पृ० ४ब) मावाह्यविधिवत्तावाहनसमा चरेत् प्रेतासनेगदाहस्तेपीतां वरविभूषिते बगलामुखि ह्लींयुक्तेजलेस्मिन्नेहिसादरम् पृ० ५अ) पुनर्नीरान्तरेमृत्स्नांसंक्षिपेत्सा धकोत्तमः मूलेनाशुमृदंमंत्री स्वेष्वंगेषुविलेपयेत् ततःप्रण म्यमिहिरंप्राणायामत्रयंचरेत् पृ० ५ब) ओंह्सौंःवीजयुक्तायसप्ताश्ववाह नायच नमस्तेनाथनाथायरव येविंदुचक्षुषे प्राणायामंकु र्यात् पू १६ कुं ६४ रे ३२ | पृ० ६अ) तताचमनत्रयं ओंह्रींशिवत त्त्वायस्वाहा १ ओंश्रींगुरुतत्वाय स्वाहा २ ओंक्लींशक्तितत्वायस्वा हा ३ इत्याचम्यगुरुंध्यायेत् ओं पृ० ६ब) अज्ञानध्वांततिमिरनाशरूपंद यानिधिम् शास्त्रांभोनिधिपूतंच वंदेहंगुरुमुत्तमम् इतिध्यात्वा गुरुंदेवंकुर्यात्स्नानमनुत्तमं पृ० ७अ) अवतीर्यजलेमंत्रीस्वात्मानंसा धकोत्तमः गायत्रींक्षालयेदादौ मूलमंत्रेणमांत्रिकः स्वाहावीजे नवदनंत्रिधाप्रक्षालयेन्नरः पृ० ७ब) ततस्तारेणरचयेच्छिखावंधन मादरात् मूलेनाशुस्वब्रध्नायद द्याज्जलांजलित्रयं तताचम्य त्रिर्देविस्वमूलमुच्चरन्ततः पृ० ८अ) स्नानंदद्यान्महेशानिजलादारु ह्यसाधकः धारयेदत्रकौपीनंकु र्यात्संध्याविधिंनरः तत्रादौभा स्करायाशुदद्यान्मंत्रेणमांत्रिकः पृ० ८ब) अर्घंजलांजलिंचैवप्राणायाम त्रयंचरेत् ओंह्सौंःह्रींश्रींक्लींसौःसू र्यायेषतेअर्घोनमः ३ ओंह्रांह्रौं ह्रैंह्सौःसूर्यायेषतेंजलिः ३ ततः पृ० ९अ) प्रणमेत् जपाकुसुमसंकाशंका शपोयंमहाद्युतिम् तमोहंसर्व पापघ्नंप्रणतोस्मिदिवाकरम् त तःप्राणायामत्रयंकुर्यात् पृ० ९ब) ततोगायत्रीजपेत् ओंह्लौंव्रह्मा स्त्रविद्यायैविद्महे ओंह्लुंपीतांव रायैशत्रुस्तंभिन्यैधीमहि ओंह्लीं बगलामुख्यैतन्नःघोराप्रचोदयात् ३ पृ० १०अ) इत्यनयागायत्र्यायथाशक्तिजपं संपाद्य देवींध्यायेत् गुरुभ्यःसम र्पयामीतिसंकल्पजपंसंपाद्य देवींध्यात्वा तत्राष्टासदसन्नि पृ० १०ब) भांशवगतांपीतांवरालंकृतां वालांपीतजटाधरांसुरगणैर्व्र ह्मादिभिःसेवितां शत्रोश्चैवर सांगदांचदधतींशत्रोरसा पृ० ११अ) स्तंभिनीम् ध्यायेहंबगलामुखीं भगवतीमद्यारुणाखींपराम् इतिध्यात्वाजपेन्मूलंयथाशक्त्या चसाधकः जपाद्दशांशतःकुर्या पृ० ११ब) न्मार्जनंसिद्धिवांच्छये तत्राचम्य चमूलेनजपेन्मूलंचसाधकः पटेद्वर्मस्तवंनाम्नांसहस्रंसाध कोत्तमः ततस्तुतर्पणंकुर्या पृ० १२अ) न्मूलमंत्रेणमंत्रवित् अथतर्प णम् ओंह्लींअस्त्रविद्यादातारंगु रुंतर्पयामिनमः १ ओंह्लांस्तंभ नादिविद्यापरंगुरुंतर्पयामिनमः पृ० १२ब) ओंह्लःमूलविद्यादातारंगुरुंतर्पया मिनमः ३ ओंह्लींव्रह्मानंदनाथगुरुं तर्पयामिनमः १ ओंह्लांविश्वक्से नानंदनाथगुरुंतर्पयामिनमः ३ पृ० १३अ) ओंह्लःशिवानंदनाथंगुरुंतर्पयामि नमः ३ ओंह्लींक्रंतोत्तलांतर्पया मिनमः ओंह्लींस्त्रींतारिणींतर्पया मिनमः २ ओंह्लुंतारांतर्पयामिन पृ० १३ब) मः २ ओंश्रींशीतलांतर्पयामिन मः रेंप्रींमनोन्मनांतर्पयामिन मः ओंह्लींवींवैखरींतर्पयामिनमः रेंख्रींखेचरींतर्पयामिनमः रेंक्रींश्या पृ० १४अ) मांतर्पयामिनमः रेंह्लींस्वाहाब गलामुखींतर्पयामिनमः ९ जी वदातारंपितरंतर्पयामिनमः ओं ह्लींपितामहंतर्पयामिनमः रेंओंरें पृ० १४ब) ह्लींप्रपितामहंतर्पयामिनमः ओंह्लीं वृद्धप्रपितामहंतर्पयामिनमः ओंह्लींगोत्रजंतर्पयामिनमः ओंह्लींस्तन्पदांमातरंतर्पयामि पृ० १५अ) नमः रेंमातामहंतर्पयामिनमः रें प्रमातामहंतर्पयामिनमः रेंवृद्ध प्रमातामहंतर्पयामिनमः रेंरें मातामहंगोत्रजंतर्पयामिनमः पृ० १५ब) रेंऐंसौंःसरस्वतींतर्पयामिनमः रेंऐंसौंःसुमुखींतर्पयामिनमः रें ह्लींसौंःवालांतर्पयामिनमः ओंह्लीं ह्सौःभर्गशिखांतर्पयामिनमः पृ० १६अ) ओंह्लींह्सौंःभैरवींतर्पयामिनमः ओंच्छ्रींच्छिन्नमस्तिकांतर्पयामिन मः रेंदुंदुर्गांतर्पयामिनमः ओंह्लीं ह्रींभवानींतर्पयामिनमः रेंक्रीं पृ० १६ब) भैंभद्रकालींतर्पयामिनमः ओंह्लीं क्लींभगवतींतर्पयामिनमः रें श्रींमहामायांतर्पयामिनमः भैंवैंदवेश्वरींतर्पयामिनमः पृ० १७अ) ओंह्लींगंगणेशंतर्पयामिनमः ओं ह्लींवोंवरुणंतर्पयामिनमः ओंह्लीं श्रींश्रींदशविद्यांतर्पयामिनमः ओंह्लींत्रींधर्मराजंतर्पयामिनम पृ० १७ब) ओंवगलामुखीपरिवारितांतर्पया मिनमः ह्लींओंस्वाहातर्पयामिन मः ३ इतिसंतर्प्य विधिवन्निपी याचमनत्रयम् प्राणायामत्रयं पृ० १८अ) कृत्वाप्रणमेभास्करंप्रभुं प्रणम्य भास्करंभक्त्यापुजागेहंसमाव्रजे त् इतिअनायासेनविधाय आग त्यस्वगृहंमंत्रीद्वारपूजांसमारभेत् पृ० १८ब) ओंह्रींद्वांद्वारश्रियैनमः २ंश्रींदेह ल्यैनमः २ं अलिंदायैनमः ओंह्रीं लांलक्ष्म्यैनमः २ं व्रोंव्राह्म्यैनमः २ं म्रींमाहेन्द्र्यैनमः २ं श्रींशांकर्यैन पृ० १९अ) मः मध्ये क्लींह्लींबगलामुख्यैन मः द्वारपूजांचसंपाद्यप्राणाया मत्रयंचरेत् प्राणायामत्रयंकृ त्वास्वमूलेनचसाधकः स्वमंत्रेणचरे पृ० १९ब) न्मंत्रीसद्योविष्टरशोधनम् ओंअ स्यश्रीआसनशोधनमंत्रस्य मेरु पृष्टृषिः सुतलंच्छंदःकूर्मोदेव ता शेषितिवीजम् दिगन्नागाइति पृ० २०अ) शक्तिः धरणीपतिरितिकीलक म् आसनशोधनेविनियोगः ओं ह्लींप्रींप्रेतासनायनमः ओंह्रांश्रीं शिवरूपिणैसदाशिवायनमः पृ० २०ब) ओंह्रींसहस्रदलपद्मासनायन मः ओंह्रींमणिमंडपवेदिकास नायनमः ओंह्लींप्रींदेवीवाहनाय महाकालायनमःफट्स्वाहा इत्यास पृ० २१अ) नंचसंशोध्यप्राणायामत्रयंचरेत् सुशिखांचैवगायत्रींस्वमूलेनार्च येत्सुधीः गायत्र्याचैवसंपूज्यनि पीयाचमनत्रयं जपेन्मूलंयथाश पृ० २१ब) क्त्याकृत्वान्यासादिकंतथा ध्यात्वा देवींमहेशानिपूजयेद्वगलामुखी म् ओंअस्यश्रीव्राह्मास्त्रविद्याश्रीब गलामुखीमंत्रस्य व्रह्माऋषिःउश्नि पृ० २२अ) क्छंदः श्रीवगलामुखीदेवता ह्ल्लींवीजं ओंशक्तिः स्वाहाकील कं श्रीचतुर्विधपुरुषार्थेजपेवि नियोगः ओंअथमूलं ओंह्लींबग पृ० २२ब) लामुखिसर्वंदुष्टवाचंमुखंपदंस्तं भयस्तंभय जिह्वांकीलय २ वुद्धिंविना शय २ ह्लींओंस्वाहा इतिमूलम् ओं अथन्यासः व्रह्माऋषयेनमः शि पृ० २३अ) रसि उश्निक्छंदसेनमःमुखे व गलामुखीदेवतायैनमः हृदि ह्लींवीजायनमः गुह्ये ओंशक्तिये नमः पादयोः स्वाहाकीलकायैन पृ० २३ब) मः नाभौ सर्वांगेषु ओंशिवतत्वान मः शिरसि ओंगुरुतत्वायनमः मु खे शक्तितत्वायनमः हृदये व्र ह्मास्त्रविद्यातत्वायनमः नाभौ पृ० २४अ) शिवशक्तितत्वायनमः सर्वांगेषु इतितत्वन्यासः ओंअथमातृका न्यासः ओंअंआंइंईंह्लांनमः शिर सि उंऊंऋंऋंह्लींनमः मुखे ऌंॡं पृ० २४ब) एंएंह्लुंनमःनाभौ ओंओंऔंअंअंःह्लःन मःसर्वांगेषु कंखंगंघंङंयंह्लांनमः शिरसि चंछंजंझंञंह्लींनमःमुखे टंठंडंढंणंलंह्लूंनमः हृदये | पृ० २५अ) तंथंदंधंनंवंह्लैंनमः नाभौ पंफं वंभंमंयंरंलंवंह्लौंःनमः पादयोः शंषंसंहंलंक्षंह्लःनमः सर्वांगेषु इतिवर्णन्यासः अथमूलमंत्रन्यास पृ० २५ब) ह्लांअंगुष्टाभ्यांनमः ह्लींतर्जनीभ्यांन मः ह्लुंमध्यमाभ्यांनमः ह्लैंअनामि काभ्यांनमः ह्लौंकनिष्टिकाभ्यांन मः ह्लःकरतलकरपृष्टाभ्यांनमः पृ० २६अ) अथहृदयादिन्यासः ह्लांहृदयाय नमः ह्लींशिरसेस्वाहा ह्लुंशिखायै वषट् ह्लैंकवचायहुं ह्लौंनेत्रत्रया यैवषट् ह्लःअस्त्रायफट् एवंन्यास पृ० २६ब) विधिंकृत्वाध्यायेद्देवीचसाधकः म ध्येस्वधाव्दिमणिमंडपरत्नवेद्यांसिं हासनोपरिगतांपरिपीतवर्णां पी तांवराभरणमाल्यविभूषितांगींदे- पृ० २७अ) वींस्मरामिधृतमुद्गरवैरिजिह्वाम् इतिध्यात्वाजपंकुर्यात्साधकोमंत्र साधकः जपंकृत्वायथाशक्त्यायं त्रपूजांसमारभेत् अथपूजापद्धति पृ० २७ब) प्रथमंपूजयेन्मंत्रीद्वारपालान्सु रेश्वरि ततोष्टुदेवीसंपूज्यचतस्रः साधकोर्चयेत् ततोष्टदेवीसंपूज्य साधकोमंत्रसाधकः जपंकृत्वाय पृ० २८अ) थाशक्त्यायंत्रपूजांसमारभेत् यंत्रमध्येर्चयेन्मंत्रीनवमींबग लामुखीम् अथद्वारपालपूजा ओंग्लुंगंगणेशंपूजयामिनमः पृ० २८ब) इतिसंकल्पः ओंह्रींश्रींग्लौंगणेशा यगुंऊठःठःठःस्वाहा इतिपूर्वे ओंह्रां ह्लींवींवरुणायकुंठःठःठःस्वाहा इतिपश्चिमे ओंश्रींह्रींश्रींश्रीदाय पृ० २९अ) क्रींकुवेरायक्रूंठःठःठःस्वाहा इत्युत्त रे ओंश्रींह्रींक्लींद्रींधर्मराजायक्रूंठः ठःठःस्वाहाइतिदक्षिणे इतिद्वारपा लपूजा अथाष्टदलपूजा || पृ० २९ब) ओंवालांपूजयामिनमः ऐंक्लींसौंः वालायैनमः इतिपूर्वे ओंसौंःभर्ग शिखायैनमः इत्यग्निकोणे ओंश्रीं ह्रींदुंदुर्गायैनमः इतिदक्षिणे ओंओं पृ० ३०अ) ह्रींओंश्रींऐंसौंःभवान्यैनमः इति निनृतिदले क्रींक्रींक्रींह्रुंह्रुंह्रींह्रींभैं भद्रकालिभैंह्रींह्रींह्रुंह्रुंक्रींक्रींक्रीं स्वाहाभद्रकाल्यैनमः इतिपश्चिमे पृ० ३०ब) ओंह्रोंभैंभगावासायैनमः इतिवा युकोणे ओंह्रींश्रींक्लींमहामायायै नमः इत्युत्तरे श्रींह्रींक्लींऐंसौंःवैं दवेश्वर्यैनमः इतीशाने इतिचैवम पृ० ३१अ) ष्टदेवीसंपूज्यचतसृदेवीःसंपूज येत् ओंह्रींऐंसौंःसरस्वत्यैनमः इ तिपूर्वे ऐंक्लींसुमुख्यैनमः इतिदक्षि णे ऐंक्लींसौंःभैरव्यैनमः इतिपश्चि पृ० ३१ब) मे ओंश्रींऐंसौंःच्छ्रींछिन्नमस्तिका यैनमः इत्युत्तरे इतिचतस्रोदैवीः पूजयेत् ऊर्ध्वस्थेतारसंयुक्तेदले पूर्वेर्चयेत्सुधीः तोत्तलांदेवदेवेशीं पृ० ३२अ) मंत्रेणमांत्रिकोत्तमः ओंश्रींदुंतो तलायैत्रैंठःठःठःस्वाहा इतिपू र्वे ओंक्रींह्रुंस्थींतारिण्यैनमः इत्या ग्नीययां ओंश्रींस्त्रींक्कुंतारायैनमः पृ० ३२ब) इतिदक्षिणे ओंह्रींक्लींश्रींशीतला यैनमः इतिपश्चिमे(नैऋत्यै) ओंष्टैंसौःकलींश्रींमनोन्मन्नायैनमः इतिपश्चिमे ओंऐंसौंःक्लींवीं वैखर्यैनमः इतिवायव्ये ओंस्लींख्रीं खेचर्यैनमः इत्युत्तरे क्रींक्रींक्रीं पृ० ३३अ) ह्रींह्रींह्रुंह्रुंदक्षिणेकालिकेक्रींक्रीं क्रींह्रींह्रींहुंहुंस्वाहाश्यामाभगव त्यैनमः इतीशाने यत्रमध्यस्थि तेपर्त्त्रेस्वाहावीजेनमंडिते शून्योप पृ० ३३ब) रिस्थितेमंत्रीपूजयेद्वगलामुखी म् ओंह्लींवगलायखिसर्वदुष्टवा चमुखंपदंस्तंभय २ जिह्वांकीलय २ वुद्धिंविनाशय २ ह्लींओंस्वाहा बग पृ० ३४अ) लामुख्यैसपरिवारायैसायुधायैस वाहनायैह्लींनमः गंधाक्षतप्रसू नाद्यैर्धूपदीपादिभिस्तथा नैवेद्यैर्वि विधैर्देविमकारैपंचभिस्तथा साध पृ० ३४ब) कःपूजयेद्देवींमूलेनसाधकोत्तमः इतिदेवींसंपूज्य पात्राणिपूजये त् नवदेवीमूलेननवपात्राणिशु न्योपरिनिवेशयेत् ओंह्लींवगलामु पृ० ३५अ) खिह्लींओंमधुपांनिद्रांद्रींद्रेंद्रैंद्रौंद्रः शुक्रशापंमोचयमोचय ऐंठःक्लीं ठःसौठःस्वाहा इतिसंपूज्यपात्राणि दद्यान्नैवेद्यमुत्तमं मूलमंत्रेणदेवे पृ० ३५ब) शिसाधकःस्वफलाप्तये ओंह्लींबग लामुखिइमंवलिंगृह्ण २ ह्लींओंस्वा हा इतिवलिमंत्रः ततोदेव्यैपुष्पं दद्यात् देवदेविजगन्मातःपी- पृ० ३६अ) तांवरविभूषिते पूजयावलिनादे विपूर्णाभवसदामम जपेनस्तव राजेननाम्नांसहस्रकेनच देवे शिभुवनेशानि तुष्टाभवसदाम पृ० ३६ब) म नंदंतुसाधकाःसर्वेविनश्यंतु विदूषकः अवस्थाशांभवीमेस्तुप्र सन्नोस्तुगुरुःसदा आह्वानंनैव जानामिनैवजानामिपूजनम् पृ० ३७अ) विसर्जनंनजानामिक्षम्यतांवग लामुखि इतिश्रीरहस्यातिरह स्येबगलामुखिनित्यपूजापद्ध तिःसमाप्तम् शुभम् || पृ० ३७ब) ट्ःईष् FOḻईO ईष् Bḻआण्K पृ० १अ) अथकवचंप्रतन्यते श्रीभैरवुवाच शृणुवक्ष्यामितेदेविस्वरहस्यंचका मदम् श्रुत्वागुप्ततमंगोप्यंकुरुगु प्तंसुरेश्वरि कवचंबगलामुख्याः पृ० १ब) सकलेष्टप्रदंकलौ मत्सर्वस्वंपरंगु ह्यंगुप्तंचशरजन्मनः त्रैलोक्यविज यंनामकवचेशंमनोरमं मंत्रगर्भं मंत्ररूपंसिद्धविद्याविनायकं पृ० २अ) रहस्यंपरमंज्ञंयंसाक्षादमृतरू पिणं व्रह्मविद्यामयंवत्सेदुर्ल भंप्राणिनांकलौ पूर्णमेकोनपं चाशद्वर्णैर्मंत्रमयैर्युतं त्वद्भक्त्याव पृ० २ब) च्मिदेवेशिगोपनीयंसुयोनिवत् देव्युवाच भगवत्करुणासारविश्व नाथसुरेश्वर कर्मणामनसावाचान वच्यग्निभुवेपिच भैरवुवाच त्रै पृ० ३अ) लोक्यविजयाख्यस्यकवचस्यास्य पार्वति मंत्रगर्भस्यगुप्तस्यृषिर्दे वस्तुभैरवः उष्णिक्छंदश्चशक्ति स्यात्स्वाहाकीलकमुच्यते || पृ० ३ब) विनियोगःसमाख्यातःत्रिवर्गफल साधने अस्यश्रीत्रैलोक्यविजयना म्नोमंत्रगर्भस्यश्रीबगलामुखीक वचस्य भैरवृषिः उष्णिक्छंदः पृ० ४अ) श्रींबगलामुखीदेवता ह्लींवीजं ओं शक्तिः स्वाहाकीलकं त्रिवर्गफल साधनेविनियोगः भैरवुवाच देवीं ध्यात्वाजपेद्वर्ममंत्रगर्भंसुरेश्वरि पृ० ४ब) विनाध्यानेननोसिद्धिःसत्यंज्ञापय पार्वति अथध्यानं चंद्रोद्भासित मूर्धजांत्रिनयनांमुंडाक्षमालाकरां वालांपीतस्रगुज्ज्वलांमधुमदारक्तांजटाजूटिनीम् पृ० ५अ) शत्रुस्तंभनकारिणींशशिमुखीं पीतांवरोद्भासितां प्रेतस्थांवगला मुखींभगवतींकारुण्यरूपांभजे इतिध्यानं ओंह्लींममशिरःपातुदे पृ० ५ब) वीह्लींवगलामुखी ओंऐंक्लींपातुमे भालंदेवीस्तंभनकारिणी ओंअं ईंहंभ्रुवौपातुबगलाक्लेशहा रिणी ओंहंक्षंःपातुमेनेत्रेना पृ० ६अ) रसिंहीशुभंकरी ओंह्रींश्रींपातुमेगं डौअंआंईंभुवनेश्वरी ओंऐंक्लींसः श्रुतीपातुईंउंऊंवटेश्वरी ओंक्रीं हुंह्रींसदाव्यान्मेनासांडांऌंसरस्व पृ० ६ब) ती ओंह्रींह्रांमेमुखंपातुॡंओंऐं छिन्नमस्तिका ओंश्रींदंमेधरौपा तुओंऔंदक्षिणकालिका ओंह्रींहुंभैं रदान्पातुअंअःभैंभद्रकालिका पृ० ७अ) ओंक्रींश्रींशांरसांपातुकंखंगंघंच शारिका ओंऐंसौंःमेहनुंपातुङंचं छंजंमनोन्मना ओंश्रींश्रींमेगलंपा तुझंञंटंठंगणेश्वरी ओंह्रींस्कंदौस पृ० ७ब) दाव्यान्मेडंढंणंचैवतोत्तला ओंह्रीं श्रींमेभुजौपातुतंथंदंवरवर्णिनी ओं क्लींसौंःमेस्तनौपातुधंनंपंपरमे श्वरी ओंक्रंकंमेरक्षेद्वक्षःफंबं पृ० ८अ) भंभगवासिनी ओंक्रींक्रंह्रींपातुमे कुक्षिंमंयंरंवह्निवल्लभा ओंश्रींह्रींपा तुमेपार्श्वोलंवंलंवोदरप्रसूः ओंह्रीं हुंपातुमेनाभिंशंषंषण्मुखपालि पृ० ८ब) नी ओंऐंसौंःपातुमेपृष्टंसंहंहाट करूपिणी ओंक्लींऐंपातुमेशिश्नं लंक्षंहंतत्वरूपिणी ओंक्रींहुंमेकटिंपा तुपंचाशद्वर्णमातृका ओंऐंह्रींपातुमेगुह्यं पृ० ९अ) अंआंकंगुह्यकेश्वरी ओंश्रींउंहुंसदा व्यान्मेइंईंखंखगगामिनी ओंजुंसः पातुमेजानूउंऊंगंगणवल्लभा ओं श्रींह्रींपातुमेजंघेटंटांघंअघहारिणी पृ० ९ब) ओंश्रींसःपातुमेगुल्फौऌंॡंङंचं चचंडिका ओंऐंह्रींपातुमेपार्श्वेएं ऐंभंजंजगत्प्रिया ओंश्रींक्लींपातु मेपादौओंऔंझंञंभगोदरा ह्लींमे पृ० १०अ) सर्वंवपुःपातुअंअःह्लींत्रिपुरेश्व री ओंश्रींपूर्वेसदाव्यान्मेअंआंटंठं शिखामुखी ओंह्रींयाम्यांसदाव्या न्मेणंडंढंणंचतारिणीं श्रींह्रींमां पृ० १०ब) पातुवारुण्यांईंतंथंदंचखेचरी ओं यंमांपातुकौवेर्यांतंधंनंपंपिलं पिला ओंश्रींमांपातुचैशान्यांऊंफं वंवैंदवेश्वरी ओंश्रींसौंःपातुचाग्ने पृ० ११अ) ययांऋंभंमंयंचयोगिनी ओंऐंमांपा तुनैऋत्यांटांरंराजेश्वरीसदा ओं श्रींमांपातुवायव्यांॡंलंमांलंवि- केशिनी ओंप्रभातेचमांपातुऌवंवा पृ० ११ब) गीश्वरीतथा मध्याह्नेचमांपातु एंमांशंकरवल्लभा ह्रींश्रींक्लींपातु मांसायंऐंईंशाकंभरीसदा ह्रींनि शादौतुमांपातुओंसंसागरशायनी पृ० १२अ) क्लींनिशीथेचमांपातुओंहंहरि हरेश्वरी क्लींव्राह्मेमांमुहूर्तेव्या दंलंत्रिपुरसुंदरी विस्मारितंतु यत्स्थानंवर्जितंकवचेनतु || पृ० १२ब) ह्लींतनौमेसकलंपातुअंक्षंःह्लींव गलामुखी इतीदंकवचंगुह्यंमंत्रा क्षरमयंपरम् त्रैलोक्यविजयंना मसर्ववर्णमयंस्मृतम् अप्रका पृ० १३अ) श्यमदातव्यमश्रोतव्यमवाचि कं दुर्जनायाकुलीनायदीक्षा हीनायपार्वति नदातव्यंन दातव्यमित्याज्ञापारमेश्वरी पृ० १३ब) अदीक्षिततपाद्यायविहीनः शक्तिभक्तिमान् कवचस्यास्यप ठनात्साधकोदीक्षितोभवेत् कव चेशमिदंगोप्यंसिद्धविद्यामयंपरम् पृ० १४अ) व्रह्मविद्यामयंगोप्यंयथाभीष्ट फलप्रदम् नकस्यकथितंचैत त्त्रैलोक्यविजयेश्वरम् अस्यस्मर णमात्रेणदेवीसद्योवशीभवेत् पृ० १४ब) पठनाद्धारणाच्चास्यकवचेशस्य साधकः कलौविचरतेवीरोय- थाह्लींबगलामुखी इमंवर्म स्मरन्मंत्रीसंग्रामंप्रविशेद्यदा पृ० १५अ) त्रिःपठेत्कवचेशंतुयुयुत्सुःसाध कोत्तमः शत्रून्कालसमानांस्तुजि त्वास्वगृहमेष्यति मूर्ध्निधृत्वाच कवचंमंत्रगर्भंतुसाधकः व्र पृ० १५ब) ह्माद्यानमरान्सर्वान्सहसावशमा नयेत् धृत्वागलेतुकवचंसाधक स्यमहेश्वरि वशमायातिस हसारंभाद्याप्सरसांगणः | पृ० १६अ) उत्पातेषुचघोरेषुभयेषुविविधे षुच रोगेषुकवचेशंचमंत्रगर्भं पठेन्नरः कर्मणामनसावाचात द्भयंशांतिमेष्यति श्रीदेव्यावग पृ० १६ब) लामुख्याःकवचेशंसुदुर्लभम् त्रैलोक्यविजयंनामनदेयंय स्यकस्यचित् अकुलीनायमूढा यभक्तिहीनायदंभिने लोभयुक्ता पृ० १७अ) यदेवेशिनदातव्यंकदाचन शि ष्यायभक्तियुक्तायगुरुभक्तिपरा यच लोभदंभविहीनायकवचेशं प्रदीयतां अभक्तेभ्योपिपुत्रेभ्योद पृ० १७ब) त्त्वाकुष्टीभवेन्नरः रवौरात्रौचरे द्देहीस्नानंपूजांगृहंव्रजेत् दीपमु ज्ज्वाल्यमूलेनपठेद्वर्मेदमुत्तम- म् प्राप्तेप्यत्यार्धरात्रौचराजात पृ० १८अ) द्गृहमेष्यति मंडलेशोमहेशानि देविसत्यंनसंशयः इदंतुकवचे शंतेमयाख्यातंनगात्मजे गोप्यं गोप्यतरंदेविगोपनीयंस्वयोनिव पृ० १८ब) त् इतिश्रीरुद्रयामलेतंत्रेउक्त महेश्वरसंवादेबगलामुखीमं त्रास्त्रकवचंसंपूर्णम् शुभम् पृ० १अ) ओंश्रीबगलामुख्यैनमः ओंहिमा द्रिशिखरेरम्येशीतलेरत्नसंयुते नानावृक्षसमाकीर्णेपुण्येगंगाभ सान्विते सुखासीनंसुरीशानंभग पृ० १ब) वंतंजगद्गुरुम् दयालुंपरमेशानं पार्वत्यासहितंपरम् गणगंधर्वगी र्वाणपूजितंपरमेश्वरम् वराभय करंशांतंजटाजूटधरंप्रभुं त्रैलो पृ० २अ) क्यनाथंस्मेसस्यं(स्मेरम्यं)भूतियुक्तकलेव रं तुष्टंदृष्ट्याजगद्धात्रीगौरीगिरि शमंत्रवीत् देव्युवाच शंकरेन्दुक लाचूढ(रूढ)देवदानवपूजित पृ० २ब) पुरामह्यंवरोदत्तस्त्वयात्रिपुरघा तन देवदेवमहेशानतन्मेदातुं त्वमर्हसि ईश्वरुवाच मयासत्यं वरोदत्तोवरंवरयसुव्रते देव्युवा पृ० ३अ) च शिवशंकरभोशंभोवदनाम सहस्रकम् देव्याःश्रीवगलामुख्याः मंत्रनामसहस्रकम् श्रीईश्वरुवाच नकस्यकथितंचैतद्रहस्यंसर्व पृ० ३ब) कामिकं गोपनीयंप्रयत्नेनकला वीप्सितदायकम् वशीकारंतथा कृष्टौविद्वेषेस्तंभनेतथा मोहने मारणेचैवसदापूज्यंचसाधकैः पृ० ४अ) कलौकोटिशतैर्देवियत्कृतंदुष्कृ तंनृभिः अस्यस्मरणमात्रेणत त्पापंशांतिमेष्यति रहस्यंगो पनीयंतुकलौसाधकसत्तमै पृ० ४ब) अवक्तव्यमिदंप्रश्नमदातव्यमि दंवरम् तस्मादेवेशशर्वाणिवरया न्यद्वरंप्रिये श्रीदेव्युवाच देव्याःश्री वगलामुख्यामंत्रनामसहस्रकम् पृ० ५अ) वेद्वदिष्यसिदेवेशकालक्षेपंच माकुरु श्रीईश्वरुवाच शृणुदेवि प्रवक्ष्यामित्वद्भक्त्याकामदंकलौ प रंतुगोपनीयंतुदुर्जनाद्द्वेषितादपि पृ० ५ब) अस्यश्रीवगलामुखीनामसहस्र स्य श्रीभैरवृषिः अनुष्टुप्छंदः श्रीदेवीबगलामुखीदेवता ह्लींबीजं ह्लांशक्तिः स्वाहाकीलकं पृ० ६अ) श्रीधर्मार्थकाममोक्षार्थेवगला मुखीसहस्रनामपाठेविनियोगः अथध्यानं पीतांपीतजटाधरांरि पुहरांहृष्टांसहास्याननां मुद्य पृ० ६ब) श्चंद्रकलावतंसितशिखांवह्नेंदु सूर्येक्षणाम् श्यामांपीतप्रसन्नमा ल्यसहितामुद्धृत्तवृजुस्तनीम् ध्या येश्रीबगलामुखींभगवतींकारुण्यरूपांपराम् पृ० ७अ) इतिध्यात्वास्मरेन्मंत्रीकृत्वान्यास विधिंततः ओंह्लींबगलामुखिस र्वदुष्टवाचंपदंस्तंभयस्तंभय जि ह्वांकीलयकीलय वुद्धिंविनाश पृ० ७ब) यविनाशयह्रींओंस्वाहा अथन्यासः ओंह्लांअंगुष्टाभ्यांनमः ओंह्लींतर्ज नीभ्यांनमः ओंह्लुंमध्यमाभ्यांनमः ओंह्लैंअनामिकाभ्यांनमः ओंह्लौं पृ० ८अ) कनिष्टिकाभ्यांनमः ओंह्लःकरतल करपृष्टाभ्यांनमः इतिकरन्यासः अथषडंगन्यासः ओंह्लांहृदयायन मः ओंह्लींशिरसेस्वाहा ह्लुंशिखायै पृ० ८ब) वषट् ओंह्लैंकवचायहुं ओंह्रों नेत्रत्रयायैवषट् ओंह्लःअस्त्रा यफट् ओंएवंन्यासविधिंकृ त्वापठेन्नामसहस्रकम् अ पृ० ९अ) प्रकाश्यंपरंगुह्यंकलौकांक्षित दायकम् ओंह्लींवालावलिज्ञेया वलिदावलदायिनी व्रह्मांडचारि णीव्राह्मीव्रह्मपूतासुरार्चिता पृ० ९ब) व्रह्मेशीब्रह्मपुत्रीचसाक्षाद्व्रह्मस्व रूपिणी व्रह्मज्योतिर्मयीनंदासुं दरीनंदपूजिता नंदेशीनंदने ष्टाचसदानंदमयीशिवा सा पृ० १०अ) क्षीसितांवरधरासांद्रपीनपयोध रा पुण्यापुण्यगतिःपुण्यापण्य स्त्रीपारलौकिकी परात्परापुरा पौरीपुराणपुरुषाकृतिः | पृ० १०ब) पुरेत्रिपुरसेव्याचपुरारिजयदा चमूः पद्मापद्मधराप्रीताप्रे तसंस्थापुरेश्वरी सिद्धापुत्रीच पौलौमीपुलोमतनयाप्रभा पृ० ११अ) पिवंतीपीवरांगीचपीनपालीव तप्रिया पलिताचकितातंत्रीवी णातंत्रविनीश्चिता वानरीवि भवावेणीवेणुविभवदावधूः पृ० ११ब) विचारज्ञावरस्त्रीचवीरसूर्वर नायिका विश्वात्माविश्वकर्त्त्री चकालिकाकालरूपिणी कलंक रहिताकालीधूम्राधूम्रशिवाद्युतिः पृ० १२अ) प्रतावतीविशिष्टांगीपामरीडा मरीश्वरी पिंगापिंगलकेशाचपं गुपुत्रीयमस्वसा यामीयशो- वतीशोभाशारीशशिनिभानना पृ० १२ब) शांतिर्युक्तांतिशर्वाणीशिवांग स्थाशिवेश्वरी शुभदाशुभकर्त्री चर्शिजन्नूपुरमेखला मेध्याम ध्याचमृद्वंगीमांडवीश्वरपूजिता पृ० १३अ) मान्यामनोन्मनामंदामानसीमा लिनीमता मुंडपात्रकरामाध्वी माध्वीरसविघूर्णिता माध्वीमाध्यं दिनीमृत्स्नामालतीमूकिनीमतिः पृ० १३ब) माधवीमारुतिर्मत्तामासिनीप क्षिणीपुरा पयांवरगतिःप्रीतिः पालिनीपद्मसन्निता जातिर्जालं धरीज्योतिर्जाड्यहर्त्त्रीजगत्प्रिया पृ० १४अ) ज्येष्टाकनीयसीक्रीताकोमलांगी कलंकिनी कालीकालप्रियाकु- ल्याक्रोधिनीकांचनप्रभा काम्याका रागृहस्थाचकामनाकौसलेश्वरी पृ० १४ब) कीर्तिःक्षेमंकरीक्षामाक्षमाशीला क्षमाप्रिया क्षुधाक्ष्वधातुराक्षीवा क्षालितावस्त्रदायिनी देवीशीदे वकंन्याचनागकंन्यानगात्मजा पृ० १५अ) नागिनीनूतनानम्रानम्नांगीनू तनांवरा नेवीनवीनकांचीच नूपुरारावसंकुला नीतिनीन यदानीतिर्नलिनीनलिनप्रभा पृ० १५ब) नाविकानौर्नतिर्नासानाराचीन ग्नरूपिणी अनुष्टानरतापर्णाला स्यगीतरतानुतिः प्रभाप्रभाव तीप्रीतिर्नगराज्येष्टनंदिनी | पृ० १६अ) नंदनारामक्रीडाचक्रीडागम्या गुणिप्रिया गदिनीगदहर्त्त्रीच मज्जामारुतवेगिनी स्मयदास्म यहर्त्रीचस्मृतिदास्मृतिहारिणी पृ० १६ब) स्मृतिःसंस्कारकर्त्रीचविस्मृतिर्वि गतस्मया विनताविजयाविद्या वैरोचनप्रभाप्लुतिः पीवरांगी प्रजासाक्षीसरसासमदासती पृ० १७अ) गजाननप्रियागोप्त्रीगजेंद्रस्था गणेश्वरी गणगंधर्वपूजाचगां धर्वीकिन्नरीगतिः गाथागम्या गम्यरूपागारुडीगरुडार्चिता पृ० १७ब) प्रहासिनीमधुमतीमातंगीमुनि पूजिता मानवेशीमदोन्मत्ताम धुपानपरायणा मूर्तिर्माहेश्व रीमध्यामदिरारुणलोचना पृ० १८अ) मदिरावारुणीवीणावीणुहस्ता वटेश्वरी वाटहस्तारुणीवासा वागुरावांतदावधूः वेर्त्रहस्ता रिपोजिह्वाहस्ताशत्रुविमर्दिनी पृ० १८ब) मातःमुद्गरहस्ताचस्तंभिनीमो- हिनीमघा मलावतीमहामान्यम हामात्रेंद्रपूजिता रमारेवार विंदाक्षीरवींदुशिखिलोचना पृ० १९अ) रामारमणदग्धाचरेवतीरम- णप्रिया रोहिणीरम्यरूपाचर त्नालंकारशोभिता रत्नाकर प्रियारंभारंभोत्थारामसेविता पृ० १९ब) रामेश्वरीरामलक्ष्मीरुक्मिणीरु क्मनूपुरा रुक्मांगदाःसागरेष्टा रमःरमणरूपिणी षट्रसाद्वि रसामालाद्विजिह्वाभरणाभया पृ० २०अ) भयहर्त्रीभ्रमहर्त्त्रीभीमाभर्गप्रि याभगा सत्यामाहिष्मतीसंध्या सत्यसंधासमालया सुमनासो त्सुकासीतासलज्जालंवमूर्धजा पृ० २०ब) लंवोदरप्रियकरीललनाक्लेश नाशिनी क्लीवाक्रींकाररसिका लज्जालाजाशनालता वल्लीवेता लहासाचवेश्यावेशधराचसा पृ० २१अ) वनंधरावनकरावनस्पतिनि षेडषी वनेचरप्रियावपावेदा रवप्रियाचसा वादिनीवाग्भ वीवीरवीरसूर्वीरमर्दिनी पृ० २१ब) वरप्रदावयःश्रेष्टावयस्यावार कामिनी वरांगनावचाकुष्टाकु ष्टरोगक्षयंकरी कुगतिःकुम तिःकुंतीकुरुपांडवमर्दिनी पृ० २२अ) कौरवीपांडवीकांतिःकांतिदाकां तिरूपिणी काशीकेसरिगम्याच कुंकुमेष्टाचकूर्चिनी काश्मीरीक रुणाकांताकांभोजालयवासिनी पृ० २२ब) कारुण्यामाधवीवल्लीमाधवेष्टा मरावती मथुरोज्झयिनीमावा योग्यायोधक्षयंकरी यज्ञेशीय ज्ञभुक्तेव्यागंगागोदावरीगसदा पृ० २३अ) यशोवतीचचार्वंगीचंद्रभागाच लाचला चंचुहासाचमत्कारीचा रुरूपाचलालका विरहानल हर्त्त्रीचवेद्यमाताविभावरी पृ० २३ब) वितस्तावसुदेवेष्टावसुदावास वार्चिता पौलसीरसरूपाचपार वारसमुद्भवा समस्तासकला साध्वीसरयूश्चसरस्वती सिंधु पृ० २४अ) र्मंदाकिनीसत्यासाधुपूज्यासु रेश्वरी युयुत्सवाचयमुनाया मीयोगिनिसेविता हयस्थाग जराजस्थादैरावणनिषेडुषी पृ० २४ब) ऐरावतीवेत्रवतीनारसिंहीचन र्मदा कोशेश्वरीचकमलाक मलेष्टासुरासभा साम्यासाग रशययाचसमुद्रशयनार्चिता पृ० २५अ) सेतुरूपाचसर्वेशीसर्वदासर्व रूपिणी लोलालोलगतिर्लोल्या कूर्चरीनडकूवरी नडेश्वरी निंदिपूज्यानारदेष्टानमस्कृतिः पृ० २५ब) स्वेत्यास्वेदमुखेसारासारात्सारत मोतमा त्रिवेणीत्रिगतिस्त्रेता त्र्यक्षीत्र्यंबकपूजिता ताराचोग्रो प्रभाघोराचोग्रताराचतारिणी पृ० २६अ) उग्रेश्वरीचोग्रवुद्धिरुग्ररूपांवि कात्रयी त्रपावतीचत्रिपुरात्रि पुरासुरघातिनी त्रिपुरारिव धूस्त्र्यंवातारारुण्याधृतरूपिणी पृ० २६ब) तरुणेतरुणेष्टाचदहनत्रयरू पिणी वेदत्रयीनगेशानीसु रासुरभयंकरी संतानकरु हस्थाचसंततिःसागरेश्वरी पृ० २७अ) सुंभासुरनिहंत्रीचनिसुंभमद हारिणी संध्यात्रयीसंधिजरा विजराचसदागतिः सदागति निषेव्याचरात्रिरमरपूजिता पृ० २७ब) रात्रिंचरीरोगहर्त्रीरात्रिंचरक्ष यंकरी रावणेष्टाचरंतेष्टाराक्ष सीघोरलोचना कोटराक्षीच पद्माक्षीमृगाक्षीकोमलालका पृ० २८अ) मृगेंद्रसेव्यामृत्युश्चमांत्रिणी मांत्रिकप्रिया मातामहीचमारी शीपितृपैतामहीपरा पीतांवरा पीतप्रियापीतमाल्यविभूषिता पृ० २८ब) पीनस्तनीपिकाप्रेमाशारिश्वेत प्रियाशची इंद्राणीचैवरुद्राणी शर्वाणीशर्वपूजिता वैष्णवीवि ष्णुपूज्याचकौमारीशिखिविष्टरा पृ० २९अ) कौवेरीचैवयक्षेशीक्षौमवस्त्रा चयाज्ञिकी यशःप्रदाचताम्रां गीत्रिमयीत्र्यणुरूपिणी उर्वशी पिशिताक्ष्यापिपिशिताशनघातिनी पृ० २९ब) सृष्टिकर्त्रीचविश्वेशीविश्वंभरस मर्चिता विश्वंभराचधरणीधा त्रीधेनुर्धयावती दुहिणेष्टा स्थितिर्दीप्तिर्वद्धाद्रुतगतिर्दया पृ० ३०अ) अष्टकोणस्थितादुर्गादुर्गतिर्दु र्जयाद्युतिः द्युमणींदुसहस्राभा त्रिरूपाद्युतयीधरी देवेंद्रनिल याश्वेताछिन्नमस्ताछलेश्वरी पृ० ३०ब) छात्रीछत्त्रप्रियाध्येयादेवीचाध्ये यविक्रमा दासीदृप्तादर्पमयी तिथिरूपाचदंभिका त्रासात्रास करीतीक्ष्णीतीक्ष्णाश्रुद्युतिरूपिणी पृ० ३१अ) भालहस्तातुलद्युतिवर्तलातुल विक्रमा स्तुत्यास्तुतिमयीसौख्या सुखदासुमुखीश्रुतिः शशांक शेखराशांतशांतरूपाशिवेश्वरी पृ० ३१ब) शिवाघोरारवाशंकनिद्राजाग्रति रूपिणी जातरूपेश्वरीजंघाशा रिकाशारदाशिवा भवानीभ- गरूपाचमहिषासुरसूदिनी मा पृ० ३२अ) हिषस्थाचमहिषीमूलाधाराम लापहा श्रीशोभापद्महस्ताचप द्मोद्भवक्षयंकरी पद्मेक्षणप्रि यापद्मामहाकालसमर्चिता पृ० ३२ब) श्मशानवासिनीकालीकुलिका चारकौलिनी कामवतीकामग तिःकामलोलाकलानिधिः कला वतीचकृकटीकलामंडितशेखरा पृ० ३३अ) कौतुकीकौमुदेशीताकालिका कुर्तकार्चिता कात्यायनीकलाधा राकलिताकल्मषापहा कुचिताकु रुजेष्टाचमहेष्वासधराधृतिः पृ० ३३ब) कुणीकांचनभूषाढ्याकुलिका कनकांगदा पुलहापुलकाकीला पुलस्त्यसुतघातिनी पात्रीपुत्री चपौत्रीचपुत्रपौत्रविवर्धिनी पृ० ३४अ) पत्तिःपत्नीपयोदंष्टापीतीष्टापी तभूषणा पिंगाननापिंगकेशा पिंगवस्त्रापयोवती पुण्यापुण्य गतिःपुण्यापुण्यलोकनिवासिनी पृ० ३४ब) राजेंद्रसेविताराज्ञीराजराजेश्व रीरुचिः पुण्यात्मापुण्यदात्रीच पुण्येष्टापुण्यवर्धिनी शर्वरीश शिवक्त्राचसितापुण्यजनेश्वरी पृ० ३५अ) त्रिपुरेशापुरीपूश्चपुरीशापीवरा नना भैरवीभीमरूपाचभप्रभा भार्गवार्चिता भार्गवेशीभृगु पुत्रीभृगुपुत्रकवित्वदा क पृ० ३५ब) वीद्रसेविताचैवविंध्यपर्वतवा सिनी कविजीवेश्वरीजेताजया जयविवर्धिनी कौसलोयाच कौसल्याकुप्याकुपितमानसा पृ० ३६अ) कोपिनीकुरुकुल्याचकमनीया चकंकणी कुलजाडाकिनीदांता ध्वांतहर्त्रीतमोपहा तामसीसा त्विकीसंघाराजसीरावटीश्वरी पृ० ३६ब) दंतादंतप्रियादांतादंभिकादं भवर्जिता नटीनटनशीलाच नृत्वगीतविशारदा नरनारा- यणीनारीनारायणप्रियंकरी पृ० ३७अ) नारायणीयोगनिद्रायोगिपूज्या युगालया युगकर्त्रीयुगाध्यक्षा योगिनीखेचरीखगा खेटिनीख गनेत्राचखगासनकराकुटी पृ० ३७ब) गौर्गौरीघौररूपाचकुःकुकूटा पलाशना गोकुलागद्यवाणीच भारतीभरतप्रिया गोदागोविं दभगिनीगुढाचखगगामिनी पृ० ३८अ) खांताखट्वांगहस्ताचकोटिसूर्य समानना हारिणीचगदाहस्ता हाटकेश्वरपूजिता हस्तिनीहृ तलोभाचलभ्यालभ्यस्वरूपिणी पृ० ३८ब) स्वनेत्रासुगतिःचीरीचीरीस्वरध राचमूः चर्मांवरामृतेष्टाचचं दनांगीच्युतालका चातुरीचतु रांगीचचतुःसागरशायिनी पृ० ३९अ) चतुर्वेदप्रियादांताचतुर्युगफ लप्रदा चतुर्वर्गसमफलाचतु र्वीजविभूषिता द्विचतुष्कोण संस्थाश्चविंदुस्थाननिषेडुशी पृ० ३९ब) वैंदवीवंधुरूपाचसावित्रीवैंध वीश्वरी सहस्रनिलयातापी तापसीतपसांफलम् तपोनि ष्टातपश्चर्यातापोधनसमर्चिता पृ० ४०अ) तरणिस्तमसांराशिस्तमीताम्र स्वरूपिणी घटस्थाघटनाघोरा चघोराक्षीवरूथिनी वानरीवि श्वहर्त्रीचविश्वकर्त्रीविश्वेश्वरी पृ० ४०ब) महाकुलीनाकुलजाहंसीहंसग तिर्हनुः हरावर्धिर्हरिसुताहरि पत्नीहरीश्वरी हेतिहस्ताहविः पूजापूजनापोतरूपिणी हवि पृ० ४१अ) ष्णल्लोचनाहांताहंक्षंस्तत्वसुरूपि णी हलीकारभूषाढ्याविंदु भूषितमस्तका प्रवणेष्टाप्रा णहर्त्रीप्राणदाक्रमुकेश्वरी पृ० ४१ब) क्रम्याकूरास्वरूपाचक्रमेश्वरस मर्चिता क्रोडिनीक्लांतरूपाचक्रो डीशांतामनाःशुचिः चामुंडीमुंड हस्ताचचंडमुंडनिकृंतनी चंडि पृ० ४२अ) काचंडरूपाचचंडहासाचमत्कृ तिः शिवदाशिववक्षस्थःशि वविष्णुसमर्चिता छुरिकाछ त्रहस्ताचछत्रिणीछेदकारिणी पृ० ४२ब) छिद्ररूपाछिद्रमतिःछलिनीछ लचारिणी चांडाल्युच्छिष्टरूपाच मत्तमातंगगामिनी कुवेरवर दाकूटात्रिकूटाकूटचारिणी पृ० ४३अ) कोटिसख्याकुलीरस्थाकुलीनाकु लकौटिनी श्यामाश्यामननाश्या मानारीश्यामलरूपिणी शीतातप प्रियादीप्तिर्दीप्तिवर्णसमज्ज्वला पृ० ४३ब) कादिवर्णेज्ज्वलाक्षांताचतुरात्मा चतुर्गतिः नाट्यप्रियानटस्त्रीच धूर्ताधूर्तवरप्रदा धूम्रार्चिर्धू म्रवस्त्राचधूम्राधूम्रनिभातथा पृ० ४४अ) वाराहीधूम्रशव्दाद्याकालरात्रि र्जगत्प्रिया ओंकाररूपिणीकुव्जा वाणींचैवसरस्वती भाषाचम्ले छभाषाचसंस्कृतिश्चविसंस्कृतिः पृ० ४४ब) जननीजानकीचैवजरामरण वर्जिता वृद्धाचतरुणीसारातृ प्तातृप्तमनोन्मना सृष्टिस्थिति करीदेवीतथाप्रलयकारिणी पृ० ४५अ) उच्चाटनीवश्यकर्त्रीवनितावन चारिणी वामावाचालजिह्वाच सुशीलावनवासिनी धर्म्याधर्म पताकाचदृढदेहादृढेंद्रिया पृ० ४५ब) जितेंद्रियाजितक्रोधामधुरामधु राक्षरा मधुरीमधुरालापावा लावालवलिप्रिया ज्वालास्माच शिखाज्वालाजांताज्वालामुखीतथा पृ० ४६अ) अघहर्त्रीचसर्वज्ञाज्ञानरूपापि लंपिला पद्मावतीव्रतचराप्रे तस्थाचपतिव्रता इंद्रिराचंद्र मध्यस्थासूर्यमंडलमध्यगा पृ० ४६ब) दक्षादाक्षायणीचैवदक्षयज्ञवि नाशिनी शिशुमाताशिशूत्संगा शिशुपालमदापहा श्यामांवरा शिवांगस्थाशवरूपाशवेश्वरी पृ० ४७अ) तुष्टारुष्टातथातुष्टिस्तोतुलात्र पुलीतथा तालीयातालुकातु ल्यातुलसीमालतीप्रिया भ्रमरीभ्रा मरोत्संगाभ्रमहर्त्रीभ्रमेश्वरी पृ० ४७ब) अभ्रंलिहाभ्रमध्यस्थापातालत लचारिणी पनसीपलभक्ष्याच पंक्तिमध्याप्रजावति पेषलांगी चमुषतामुसुलायुधधारिणी पृ० ४८अ) मनोहरामनुमयीमंत्रमालाहरा वलिः हृदरूपाचकामेशाशत क्रतुनिषेविता शंकरीशंकरे ष्टाचशुभदाशुभरूपिणी श्रे- पृ० ४८ब) णिकाशुभश्रेणिश्चमानिनीमा नदायिनी भगगीतिर्लिंगगीति र्भगलिंगसमाश्रया भगप्रिया भगावासाभूर्भूपतिसमर्चिता पृ० ४९अ) वांताचवकुलीमालातिलकाति लकप्रिया अशोकाशोकमालाच शोकहर्त्रीशुभंकरी शुभदाशु भरूपाचभद्रदाभद्रकालिका पृ० ४९ब) सिद्धासिद्धप्रियासाध्यासिद्धिदासि द्धरूपिणी सिद्धेश्वरीसिद्धमाता सांत्वतांपूतिपूजिता सांवरासा मगासांतासामगानरताश्रुतिः पृ० ५०अ) ऋद्धिदाऋभवेष्टाचृभुऋवर्ण भूषिता रूक्षारूपवतीरामातै- लिनीतलचारिणी तापत्रयह रातारुस्तारोद्भासितपस्तका पृ० ५०ब) साधिनीसाधिकासाधिसाधिका चसहोदरी साधनासालसास्वस्तिः स्थाणुश्रीःस्थाणुरूपिणी शूलिप्रि याशूलिहस्ताशूलरोगनिसूदि पृ० ५१अ) नी स्थूलरूपास्थितिकरीसिष्टीःस्थि तिलयात्मिका स्वयंभुकुसुमास्थूला स्वयंभूःस्वर्गचारिणी स्वर्गतिवै खरीद्यौश्चमुक्तारत्नेश्वरेश्वरी पृ० ५१ब) सुनाभीसरसीसिंधुस्तिथिनति- थिपूजिता आर्तिराधिहरीतोमा तापनीतापहारिणी शवकांची शवस्थाचनरमुंडाक्षिमालिनी पृ० ५२अ) नरेश्वरीनराराध्यानरवाहनपू जिता नामरूपानम्रदेहाशीत गुःशीतचारिणी स्वस्तिनीशं खिनीसाधुःसंपत्मनोपवीतिनी पृ० ५२ब) शीतलाशृंगिणीस्रांगाभद्रदाभु वनेश्वरी भगिनीभगमालाच भानुनेत्राभवर्गदा भगमालाभ गरूपाचभगलिंगस्वरूपिणी पृ० ५३अ) रेवतीरौप्यभूषाढ्यारौद्रीरुद्रार्चि तारसा भवर्गस्थावलवतीमहा त्रिपुरसुंदरी वलीष्टाभाग्यदाभी तिर्भयहावगलामुखी १००० पृ० ५३ब) श्रीदेव्यावगलामुख्याइदंनामस हस्रकं तवभक्त्यामयाख्यातंन प्रकाश्यंकदाचन स्तंभनेमार णेघोरेशत्रुवादेमहाभये मा पृ० ५४अ) रीभयेराजभयेतथाचौराग्निजे भये महोत्पातभयेदेविस्मरे- न्नामसहस्रकं सयस्तत्प्रश मंयातिनिदाघेसलिलंयथा पृ० ५४ब) वरदंभवहर्तारंरहस्यंसर्वका मदं अस्यस्मरणमात्रेणसर्वं पापंप्रणश्यति पुण्यंसहस्र नामेदंसर्वतीर्थफलप्रदं पृ० ५५अ) पुष्करादिषुतीर्थेषुस्नानास्याद्य त्फलंप्रिये तत्फलंलभतेजंतुः स्मरेन्नामसहस्रकम् रहस्यंप रमंज्ञेयंकोटियज्ञफलप्रदं पृ० ५५ब) पुण्यंपुण्यप्रदंपूतंपुत्रपौत्रवि वर्धनं महोपद्रवशांत्यर्थंस्म रेन्नामसहस्रकम् प्रातरुत्था ययेमर्त्यःपठेद्वावाचयेदिमां पृ० ५६अ) श्रावयेत्तस्यमर्त्यस्यकरस्थःस र्वसिद्धयः रवौप्रभातेचोत्थाय कुकमेतचभूर्जके कस्थूरेचं दनाद्येनलिखेद्यंत्रंसुमंत्रकं पृ० ५६ब) श्रीदेव्यावगलामुख्यालिखेन्नाम सहस्रकम् अष्टकोणंत्रिकोणंच तद्वहिस्तुचतुर्दलम् त्रिवृत्तंतद्व हिर्देविलेखेदष्टादलंततः पृ० ५७अ) पुनस्त्रिवृत्तमालिख्यचतुर्द्वारस मन्वितम् यंत्रेशंवगलामुख्या लिखेद्भूर्जेचमंत्रवित् तदुपरि सदावीरःपीतचैलेनवेष्टयेत् पृ० ५७ब) तदोपरिमहेशानियंत्रेस्वर्णंचवे ष्टयेत् मूर्ध्निधृत्वाचयंत्रेशंसाध कोमंत्रसाधकः त्रैलोक्येवि चरेद्वीरोयथैवाहतथैवसः पृ० ५८अ) वामेधृत्वाभुजेमंत्रीशत्रोस्तंभय तेरसां गलेयंत्रंसदाधृत्वाकुर्या द्भोगंस्त्रियासह कर्मनामनसा वाचावहुपुत्रयतोभवेत् र पृ० ५८ब) जस्वलाचयंत्रेशंधृत्वावैपंचमे दिने प्राप्तेतुदशमेमासेवंध्या पुत्रंलभिष्यति यंत्रंतुहृदये धृत्वात्रैलोक्यंवश्यमानयेत् पृ० ५९अ) एकलक्षंमहेशानिमंत्रस्यास्य कलौनृणां श्रीदेव्यावगलामु ख्याःपुरश्चर्याविधिःस्मृतः यःक रोतिशतावर्तंशतक्रतुर्भविष्यति पृ० ५९ब) कोटियज्ञफलाप्त्यर्थंमेकवारंप ठेन्नरः देवीदर्शनप्राप्त्यर्थंदशा वर्तंचरेत्सुधीः वलीचसमता तुल्योवायुवेगस्तुसाधकः पृ० ६०अ) ज्ञानीममसमोदेवीवुद्ध्याधिषण सन्निभः कवित्वेशुक्रसदृशः प्रतापीवह्निसन्निभः तेजसादि त्यसंकाशोमंत्रीस्याश्चास्यपाठतः पृ० ६०ब) अस्यपठनमात्रेणनाम्नांसहस्र कस्यच साधकोवगलामुख्यिष्ट पुत्रोभविष्यति वहुनात्रकिमु क्तेनप्रभावस्यमहेश्वरि साध पृ० ६१अ) कोबगलापुत्रोपदेष्टोदेवता यकः इहलोकेसुखंभुक्त्वामृ त्योमोक्षमवाप्नुयात् इदंरहस्यंपर मंरहस्यातिरहस्यकं सर्वस्वंवग पृ० ६१ब) लामुख्यामयाख्यातंसुरेश्वरि यस्य कस्यनदातव्यंनदातव्यंमहेश्वरि गोप्यंगुप्ततरंगोप्यंपुनर्गुप्तंमहे श्वरि इतिश्रुत्वामहादेवी पृ० ६२अ) तोषनिर्भरमानसा पादपोर्न्यप तच्छंभोदुभौप्रीत्याननंदतुः इति श्रीईश्वरमततंत्रेश्रीदेवीवरदावाक्त भनिश्रीवगलामुख्यनामसहस्रंसमा० पृ० ६२ब) अथस्तवराजःप्रतन्यते ओंचल त्कनककुंडलोल्लसितचारुगंडस्थ लां लसत्कनकचंपकद्युतिविरा जिचंद्राननां गदाहतविपक्षकां पृ० १अ) कलितलोलजिह्वांचलांस्मरामिब गलामुखींविमुखवाङ्मुखस्तंभिनीम् १ पीयूषोदधिमध्यचारुविलसद्रत्नो ज्ज्वलेमंडपे यत्सिंहासनमौलिपा पृ० १ब) तितरिपुप्रेतासनाध्यासिनीम् स्व र्णाभांकरपीडितारिरसनांभ्राम्यद्भ दाविभ्रमा स्वप्नेपश्यतियांतित स्यविलयंसद्योथसर्वापदः २ देवी पृ० २अ) त्वच्चरणांबुजेवितनुतेयःपीतपुष्पां जलिं मुद्रांवामकरेनिधायचपुनर्मं त्रीमनोज्ञाक्षरम् पीतध्यानपरो पिकुंभकवशाद्वीजंस्मरेत्पार्थिवं पृ० २ब) तस्यामित्रमुखस्यवाक्यपदयोसम्भोभवद्वाग्विन ३ वादीमूकतिरंक तिक्षितिपतिर्वैश्वानरःशीतति क्रो धीशान्यतिदुर्जनःसुजनतिक्षिप्रानु पृ० ३अ) गःखंजति गर्वीखर्वतिसर्वविश्वज डतित्वन्मंत्रिणायंत्रितो श्रीनित्येबग लामुखिप्रतिदिनंकल्पाणितुभ्यं नमः ४ मंत्रास्तावदलंविपक्ष पृ० ३ब) दलनेस्तोत्रंपवित्रंचते यंत्रंवादि नियंत्रणंत्रिजगतांजैत्रंत्वत्रंचते मातःश्रीवगलेतिनामललि- तंयस्मास्तिजंतोर्मुखेत्व- पृ० ४अ) न्नामग्रहणेनसंसदिमुखस्तंभोभ वेद्वाग्विन ५ दुष्टस्तंभनमुग्रवि घ्नशमनंदारिद्र्यविद्रावणं भूभृत्सं *मनंचलन्मृगदृशांचेतःसमाक पृ० ४ब) र्षणं सौभाग्यैकनिकेतनंममदृ शोकारुण्यपूर्णेक्षणे मृत्योर्मारण माविरस्तुपुरतोमातस्त्वदीयंव पुः ६ मातर्भंजयमद्विपक्षदलने पृ० ५अ) जिह्वांचलांकीलय व्राह्मींमुद्रयमुद्भयस्व धिषणामुष्णोर्गतिंस्तंभय शरूंश्चूर्णयचूर्णयाशुगदयागौ रांगिपीतांबरे विघ्नौघंवगलेहर पृ० ५ब) प्रतिदिनंकल्याणितुभ्यंनमः ७ मा तर्भैरविभद्रकालिविजयेवारा हिविश्वाश्रये श्रीविद्येसमये महेशिबगलेकामेशिवेमेरमे पृ० ६अ) मातंगीत्रिपुरेपरात्परतरेस्वर्गा पवर्गप्रदे दासोहंशरणागतः करुणयाविश्वेश्वरित्राहिमाम् ८ संरंभेचौरसंघेप्रवहनसमयेबं पृ० ६ब) धनेव्याधिमध्ये विद्यावादेविवा देप्रजपति(प्रकुपिति पाठांतरम्)नृपतौदिव्यकालेनि शायां वश्येवास्तंभनेवारिपुव धसमयेनिर्जनेवावनेवा गच्छं पृ० ७अ) स्तिष्टंस्त्रिकालंयदिपठतिशिवं प्राप्नुयादाशुधीरः ९ नित्यंयस्तु मनोहरंस्तवमिमंध्यायेत्पठेत्सा दरं धृत्वायंत्रमिदंतथैवसमरे पृ० ७ब) वाहौकरेवागले राजानोवरयो षितोथकरिणःसर्पामृगेंद्राःख गाःतेवैयांतिविमोहिताःप्रतिदिनं लक्ष्मीस्थिरासिद्धयः १० अनुदि पृ० ८अ) नुमभिरामंसाधकोयस्त्रिकालंप ठतिभुवनमातःपूज्यतेदेवसंघैः भवतिपरमकृत्यंतस्यदृष्ट्यावलो के भवतिपरमसिद्धिर्लोकमात पृ० ८ब) र्नमस्ते ११ त्वंविद्यापरमात्रिलोक जननीविघ्नौघसंहारिणी योषा कर्षणकारिणीजनमनःसंमो हसंदायिनी स्तंभोत्साराग- पृ० ९अ) कारिणीपशुमनःसंमोहसंदायि नी जिह्वाकीलनभैरवीविजयते व्रह्मादिमंत्रोयथा १२ संकष्टेचौर संघेप्रहरणसमयेबंधनेवारिम पृ० ९ब) ध्ये विद्यावादेविवादेप्रजपतिनृ पतौदिव्यकालेनिशायां वश्ये वास्तंभनेवारिपुवधसमये निर्विशंकेरणेवा नित्यं पृ० १०अ) यःस्तोत्रमेतत्पठतितवशिवेतस्य भीतिर्नचास्ति १३ विद्यांलक्ष्मींसर्व सौभाग्यमायुःपुत्रैःपौत्रैःसर्वसाम्रा ज्यसिद्धिम् मानंभोगोवश्यमारोग्य पृ० १०ब) सौख्यंप्राप्तंतत्तद्भूतलेस्मिन्नरेण १४ त्वत्कृतंजपसन्नाहंगदितंपर मेश्वरि दुष्टानांनिग्रहार्थायतं गृहाणनमोस्तुते १६ ब्रह्मास्त्र- पृ० ११अ) संज्ञकंस्तोत्रंत्रिषुलोकेषुदुर्लभ म् यःपठेछ्रद्धयायुक्तःसर्वान्का मान्सविंदति १७ इतिश्रीरुद्रया मलेतंत्रेबगलामुखीस्तवराजः पृ० ११ब) संपूर्ण || समाप्तश्च || जम्बूराजधान्यांलिखितमिदम्पञ्चाङ्गं १९३९ वै० ########### END OF FILE #######