#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00520 Uniform title: basavapurāṇa Author : śrībādarāyanamahaṛṣi attribute to Description: An important text for the vīraśaiva liṅgāyats. An extended narrative of the life and exploits of bāsava. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 12, 2021. Publisher : Publication year : 1905 Publication city : Puna Publication country : India #################################################### श्रीव्यासोक्तबसवपुराणं प्रारभ्यते प्रथमोऽध्यायः अगस्त्यप्रश्नः प्. १) श्रीशैलश्हिखरावासः श्रीशपूजितपादुकः || श्रीमल्लिकार्जुनस्वामी श्रेयसे भूयसेऽतुनः || १ || शिवलीलाविनोदार्थमिच्छाकल्पितविग्रहान् || नंदीशप्रमुखान् सर्वान् वेदशास्त्रार्थपारगान् || २ || चिदानंदरसास्वादसदासंतृप्तमानसान् || कर्तुं विश्वमकर्तुं वाऽप्यन्यथा कर्तुमेव वा || ३ || स्वतंत्रान् प्रमथान् शैवान् नमस्कृत्य प्रियव्रतान् || बसवेश्वरमाहात्म्यं जिज्ञासुः पापनाशनम् || ४ || शैवशास्त्रार्थतत्त्वज्ञो वेदवेदांगपारगः || भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः || ५ || रुद्राक्षमालाभरणो लिंगांगस्थलतत्ववित् | देदिप्यमानो नितरां महता शैवतेजसा || ६ || पांचरात्रादितंत्रज्ञसंभेदनशितद्युतिः || शिवदूषकतूलौघभस्मीकरणपावकः || ७ || शैवदूषकपाषंडपिंडीकरणपंडितः || लिंगदारणशास्त्राणि व्याकुर्वाणो महामतिः || ८ || प्. २) अगस्त्यः सर्वसिद्धांतकोविदः करुणानिधिः || द्रष्टुं तारकहंतारं कुमाराचलमाययौ || ९ || कुमारपर्वते रम्ये नानामुनिगणावृते || नानावृक्षसमाकीर्णे नानापुष्पोपशोभिते || १० || शकुंतसंघसंघुष्टे सिद्धद्वन्द्वविराजिते || विचित्ररत्नखचितस्वर्णसानुविभूषिते || ११ || तत्र योजनविस्तीर्णे चतुःस्तंभोपशोभिते || वितानैर्विविधैश्चित्रैः समंतात् परिवारिते || १२ || माणिक्यदर्पणैर्दिव्यैर्दीप्यमानोदरान्तरे || तत्र सिंहासने रम्ये विचित्रकुसुमावृते || १३ || वज्रनिर्मितसिंहेन्द्रैश्चतुर्भिरुपशोभिते || समासीनमुदारांगं भासमानं षडाननम् || १४ || विचित्रदामसंछन्नकुचकुड्मलशोभिताम् || नीलेन्दीवरधिक्कारिनयनद्वयशालिनीम् || १५ || गंगावर्तपरिस्पर्धिनाभिदेशविराजितम् || मत्तकोकिलसल्लापां मत्तद्विरदगामिनीम् || १६ || देवांगनाश्राव्यमाणवीणागानैकलालसाम् || बिंबाधरीं कंबुकंठीं कनत्कनकवर्णिनीम् || १७ || देवसेनां स्वमहिषीं वीक्षमाणं मुहुर्मुहुः || प्. ३) पुरोभागे नर्तमानमयूरालोकनोत्सुकम् || १८ || कश्यपात्रिभरद्वाजकण्वगौतमदाल्भ्यकैः | उपमन्युदधीच्यार्मुनिभीः परिवारितम् || १९ || कुमारस्वामिनं दृष्ट्वा दण्डवत्प्रणिपत्य च || तुष्टाव विविधैः स्तोत्रैर्वैदिकैः कुंभसंभवः || २० || अनुज्ञातस्ततस्तेन मोदमानः कृतार्थवत् || उपाविशत् सभामध्ये ज्वलन्तमिव तेजसा || २१ || सभामध्योपविष्टं तमगस्त्यं मुनिपुंगवम् | प्रीत्या दृष्ट्वाथ पप्रच्छ ब्रह्मंस्ते कुशलं त्विति || २२ || सोऽपि तत्पृष्ट्कुशलप्रश्नसंप्रीतमानसः || कृताञ्जलिपुटो भूत्वा प्राह गंभीरया गिरा || २३ || अगस्त्य उवाच || नमस्तारकसंहर्त्रे षण्मुखाय नमो नमः | देवसेनाहृदम्भोजभास्कराय नमो नमः || २४ || ब्रह्मविष्ण्वादिमुकुटरत्नसंदीपितांघ्रये || अशेषदेवतासंघरक्षणोत्काय ते नमः || २५ || आम्नायशिखरावासस्वरूपाय नमो नमः || वेदान्तगम्यरूपाय भक्तिगम्याय ते नमः || २६ || एवं स्तुत्वा कुंभयोनिः प्रष्टुं समुपचक्रमे || शिवयोः पार्श्वसंस्थेन भवता शिखिवाहन || २७ || स्वर्गैकहेतवो धर्मा ज्योतितिष्टोमादयः श्रुताः || प्. ४) तदनुष्ठानतः सांगं फलसिद्धिर्हि जायते || २८ || पुण्यक्षये मर्त्यलोकं प्रविशंति षडानन | तस्मिन् क्षीणे पुण्यलोकस्थितिनाशो भविस्.यति || २९ || अपूर्वमेव फलदं नेश्वरस्त्विति हि श्रुतम् || अतस्तत्र न विश्वासो योगिनां मोक्षकांक्षिणाम् || ३० || व्याजहाराक्षपादोऽपि न्यायशास्त्रं महत्तरम् || निमित्तकारणं तत्र जगतः परमेश्वरः || ३१ || एकविंशतिदुःखानां ध्वंसो मोक्ष इति श्रुतः || सदाशिवप्राप्तिरूपा सच्चिदानंदलक्षणा || ३२ || मुक्तिर्न कथिता तत्र पुनरावृत्तिवर्जिता || अणुद्वितयसंयोगाज्जायते द्व्यणुकं तह्ता || ३३ || द्व्यगुणकादिक्रमेणैव पृथ्व्यादीनां समुद्भवः || एवं सृष्टिर्हि कथिता गौतमेन महात्मना || ३४ || तद्वत्कणादशास्त्रं च षट्पदार्थनिरूपकम् || प्. ५) अनुपादेयमित्युक्तं द्वयं तत्वबुभुत्सुभिः || ३५ || अतस्तयोर्न विश्वासो योगिनां सिद्धिकामिनाम् || संख्यं हि द्विविधं प्रोक्तं सेश्वरं च निरिश्वरम् || ३६ || निरीश्वराभिधं सांख्यं महाऽऽयासैककारणम् || हठयोगादियोगानां स्वरूपप्रतिपादकम् || ३७ || अतस्तत्र न विश्वासो योगिनां मोक्षकांक्षिणाम् || सेश्वरेऽपि च सांक्येऽस्मिन्निश्वरोऽस्तीति हि श्रुतम् || ३८ || प्रकृतेश्च महत्तत्वमहंकारस्ततो ह्यभूत् || तस्माच्छब्दादिमात्राणि तेश्यो* भूतानि जज्ञिरे || ३९ || इथं हि कथिता सृष्टिर्जगतां शिखिवाहन || प्रकृत्या च विविक्तस्य पुरुषस्य महात्मनः || ४० || साक्षात्कारो हि मोक्षः स्यादित्येतत्पर्यवस्थितम् || अतस्तत्र न विश्वासो योगिनां मोक्षकांक्षिणाम् || ४१ || अतो वेदान्तशास्त्रं हि जीवब्रह्मैक्यबोधकम् || मुनयः संप्रवक्ष्यन्ति मुक्तेः परमकारणम् || ४२ || वेदान्तशास्त्रं परमं शिवोपासनकारणम् || दहरादिप्रभेदेन नानाशाखैकबोधिना || ४३ || उपासनाश्च कथिता देवविद्भिर्मनिषिभिः | उपासनाभिः सर्वाभिरुपास्यः परमः शिवः || ४४ || ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्या लोकपालकाः | किन्नराः पन्नगाश्चैव साध्याश्चैव मरुद्गणाः || ४५ || विश्वामित्रो वसिष्ठश्च कण्वो गौतम् एव च || प्. ६) अष्टावक्रो दधीचिश्च रैश्यः शांडिल्यनारदौ || ४६ || एवमन्ये महात्मनो मुनयो ब्रह्मवादिनः || लक्ष्म्याद्याः शक्त्यश्चापि मुनिपत्न्यः पतिव्रताः || ४७ || लिंगधारणसंयुक्ता लिंगव्रतपरायणाः || लिंगानर्पितवस्तूनामुपभोगपराङ्मुखाः || ४८ || स्थूलांगलिंगसंयोगविच्छेदे मरणोत्सुकाः || एतादृशा महाभक्ता इष्टलिंगार्चनोत्सुकाः || ४९ || लिंगे प्राणं समाधाय प्राणे लिंगं तु शंभवम् || सशरीरं मनः कृत्वा न किंचिच्चिंतयन्ति ते || ५० || उपासन्ते लिंगमेवं चिल्लिंगैक्यपरायणाः || भक्ता महीतले सन्ति हिमवत्पुत्रिकात्मज || ५१ || सर्वेष्.वेतेषु भक्तेषु भक्तः को नु महत्तरः || लिंगव्रतपरः को नु को नु लिंगार्चनोत्सुकः || ५२ || प्राकृतैः पुरुषैः कश्च संसर्गवर्जितः || शैवावमानसमये प्राणत्यागपरश्च कः || ५३ || लिंगांगस्थलतत्त्वज्ञो लिंगधृल्लिंगपूजकः || शैवविद्वेषिजनताशिक्षाकरणपंडितः || ५४ || शैवाभीष्टार्थदः श्रीमान् शैवशास्त्रार्थतत्त्ववित् || भविसंदर्शनालापपराङ्मुखमतिश्च कः || ५५ || एवंविधगुणं लोके शिवभक्तं दृढव्रतम् || प्. ७) वक्तुमर्हसि देवेश ममाद्य त्वं षडानन || ५६ || वृत्तम् || इति कलशजवाक्यं सर्व्योगींद्रहृद्यं श्रुतिपथरमणीयं साधुगंभीरभावम् || हिम्गिरिवरपौत्रः संभ्रमात्तन्निशभ्य क्षणमनु हृदि दध्यौ शांकरं पादपद्मम् || ५७ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे अगस्त्यप्रश्नकथनं नाम प्रथमोऽध्यायः || प्. ८) द्वितीयोऽध्यायः | गौरीप्रश्नः | नारदप्रश्नः | शिवनिरूपणं च | अथागस्त्यवचः श्रुत्वा षण्मुखः सर्वशास्त्रवित् || प्राह गंभीरया वाचा कुंभयोनिं महौजसम् || १ || (षण्मुख उवाच) पुरा कैलासशिखरे नानामुनिगणावृते || सहस्रस्तम्भसंयुक्ते शतयोजनविस्तृते || २ || मंटपे सर्वतोभद्रे नानारत्नविचित्रिते || दशयोजनविस्तीर्णे मणिसिंहासने स्थितम् || ३ || नीलग्रीवमुदारांगं शंकरं लोकशंकरम् || कृताञ्जलिपुटा गौरी रहसीदमभाषत || ४ || (गौर्युवाच) स्वामिन् सर्वजगन्नाथ सर्वलोकनमस्कृत || चंडालो नैव चंडालः पुल्कसौ नैव पुल्कसः || ५ || शिव इत्येव यो वक्ति भुञ्जीत सह तेन वै || वसेत्तेन सहैकत्र वदेत्तेन सहानघ || ६ || एवं वदन्ति श्रुतयः संशयो मे महानभूत् || अतो मे संशयं छेत्तुं त्वमेवार्हसि सांप्रतम् || ७ || इति पृष्टस्तया देव्या शंकरः करुणानिधिः || प्रत्युवाच ततो देवीं हर्षसंफुल्ललोचनः || ८ || (शंकर उवाच) दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः || प्. ९) कलाववतरिष्यन्ति निन्दकास्ते बहिस्.कृता || ९ || सहभोजनतस्तेषां चंडालैः सह भोजनम् || वरमित्याह परमश्रुतिरेषा सनातनी || १० || तस्माछ्रेष्ठतमा लोके शिवनामपरायणाः || न तैश्च साम्यमायांति सर्वे शापविदूषिताः || ११ || एवमुक्ता शंकरेण प्रौढा गिरिवरात्मजा || शिवेति नाम परमं सर्वपापनिकृन्तनम् || १२ || प्रायश्चित्तं हि सर्वेषां पापानामतिपावनम् ||| अतस्तद्वक्तृभिः सार्धं चंडालाद्यैश्च पुल्कसैः || भोजनं सह कर्त्व्यमिति निश्चित्य सा स्थिता || १३ || एतस्मिन्नंतरे योगी नारदः सर्वतत्त्ववित् || कैऌआसशिखरं प्राप दिदृक्षुः परमेश्वरम् || १४ || *ततो नत्वा महादेवं शंकरं चंद्रशेखरं || तुष्टाव विविधैः स्तोत्रैर्लौकिकैर्वैदिकैरपि || १५ || समागतं मुनिं दृष्ट्वा शंकरः परमेश्वरः || कुशलप्रश्नकथनमातेने गिरिजापतिः || १६ || के वा धर्माश्च लोकेषु वर्तन्ते मुनिपुंगव || इति पृष्टः शंकरेण बभाषे नारदो वचः || १७ || प्. १०) नारद उवाच || स्वामिन् सर्वजगन्नाथ प्रपन्नार्तिप्रभंजन || सर्वलोका मया दृष्टास्त्वत्प्रसादान्महेश्वर || १८ || शैवशास्त्रार्थतत्त्वज्ञाः शैवचारैकतत्पराः || लिंगांगस्थलतत्त्वज्ञा लिंगधारणदीक्षिताः || १९ || भविसंदर्शनालापसहवासपराङ्मुखाः || सन्ति सर्वेषु लोकेषु न कुत्रापि महीतले || २० || भूलोके यज्ञकर्तारः सन्ति धर्मपरायणाः || वर्तन्ते विष्णुभक्ताश्च पांचरात्रपरायणाः || २१ || जैनशास्त्रप्रवक्तारो बुद्धागमविशारदाः || चार्वाकमतसंचाराः सांख्ययोगप्रवर्तकाः || २२ || भूतले निवसन्त्येते त्वद्भक्ता न कदाचन || २३ || शापदग्धजनानां तु वीक्षणे क्रुद्धमानसः || महेश त्वत्पदध्यानक्षीणपापोऽभवं प्रभो || २४ || विश्वेश्वराराध्यवरः पंडितः श्रीपतिस्तथा || एकोराममहायोगी तथा मंचनपंडितः || २५ || कोटिपल्याभिधः श्रीमानुद्भटः करुणानिधिः || अन्येऽप्येवंविधाः शैवाः स्थापयित्वा युगे युगे || २६ || शिवभक्तिमिमां सम्यक् कैलासपदमाययुः || अद्य ब्रह्मकुले शुद्धे नास्ति भक्तस्तव प्रभो || २७ || अतो वर्णान्तरेष्वेवं तव भक्तिर्न दृश्यते || तुश्यं निवेदितुं सर्वं तव्दंतिकमुपागतः || २८ || प्. ११) एतच्छ्रुत्वा महादेवः सर्वलोकनमस्कृतः || शैलादिं समवेक्ष्याशु बभाषे मधुरं वचः || २९ || यदा यदा तु शैवस्य हानिर्धर्मस्य जायते || तदा तदाऽवतार्य त्वं स्थापयस्व वरानन || ३० || धर्मं वेदान्तवाक्यैकतात्पर्यमतिपावनम् || प्रत्यक्षादिप्रमाणानि दर्शयित्वैव निंदकान् || ३१ || परिभूय महाभाग ब्रह्मणानपि भूतले || वर्णाचारानुरोधेन शैवाचारान् प्रवर्तय || ३२ || वर्णाचारुषु सर्वेषु शैवभक्तिं प्रकाशय || मद्भक्तिस्थापनं कृत्वा वीरशैवान् समुद्धर || ३३ || इत्युक्तो देवदेवेन शैलादिरमितद्युतिः || राहुग्रस्त इवादित्यः क्षणं तस्थौ विचिन्तयन् || ३४ || अनुस्मृत्य ततः शापं पार्वत्या दत्तमुल्बणम् || अंगीचकार मनसा ह्यलंघ्यमिति निश्चयाअत् || ३५ || शैलादिहृदयं ज्ञात्वा पार्वतीरमणः शिवः || निश्चिन्तो भव नंदीश मद्वचः शृणु भक्तितः || ३६ || त्वामहं पुत्रगर्भस्थं दीक्षयिष्यामि शैवया || संगमेश्वररूपेण भविष्यामि गुरुस्तव || ३७ || लिंगधारणदीक्षां च करिष्यामि यथाविधि || वसामि लिंगरूपेण तवांगत्रितये सदा || ३८ || भक्तवेषधरो भूत्वा चरिष्यामि त्वया सह || त्वया सह गणानेतान् स्वतंत्रान् प्रेषितुं क्षमः || ३९ || भविष्यामि वृषेंद्राहं वसिष्ये त्वदधीनकः || प्. १२ ) इति प्रबोध्य नंदीशं प्रेषयामास शंकरः || ४० || वृत्तम् || इति परमरहस्यं वेदवेदान्तगम्यं परशिवभणितं तत्कार्यमावश्यकं मे || इति मनसि निधाय प्रत्ययान्नंदिकेशः क्षणमनु हृदि दध्यौ शांकरं पादपद्मम् || ४१ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे नारदप्रश्नशिवाज्ञाप्रशंसनं नाम द्वितीयोऽध्यायः प्. १३) तृतीयोऽध्यायः | श्रीशिवाय नमः कुमारगस्त्यसंवादे नंदीश्वरव्रतप्रतिपादकस्तृतीयोऽध्यायः प्रारभ्यते इत्थमुक्त्वा कुमारोऽसौ कुंभजं मुनिपुंगवम् || नंदीश्वरावतरणहेतुमाह षडाननः || १ || कुमार उवाच || ततो नंदीश्वरः श्रीमान शिवयोगपरायणः || देशं विचिंतयामास स्वावतारार्थमुत्तमम् || २ || अनुज्ञातः शिवेनैव सर्वतत्वार्थवेदिना || एवं प्रदृष्टमनसा नंदिना च महात्मना || ३ || शिवभक्तिं मर्त्यलोके नित्यं स्थापितुमुत्तमाम् || कैलासादाययौ तूर्णं नारदो मुनिसत्तमः || ४ || जंबूद्वीपे महापुण्ये मुनिभिः परिवारिते || श्रीशैलस्य च वायव्यभागे पुण्याश्रमावृते || ५ || कर्णाटविषये रम्ये कर्मसिद्धिप्रदायके || हिंगुलीपुरमुत्कृष्टं प्रविवेश मुनीश्वरः || ६ || विचित्रतोरणोपेतं नानारत्नैकशोभितम् || विवेश मादिराजस्य गृहं त्रिदशसंयमी || ७ || यतव्रतं मादिराजं मादांबां च पतिव्रताम् || ददर्श दम्पती तत्र चिन्ताव्याकुलमानसौ || ८ || तावुत्थाय महावेगादभिजग्मतुरादरात् || दधतुर्मधुपर्कं तावर्घ्यपाद्यपुरःसरम् || ९ || अथोपविष्टः स मुनिः स्वर्णपीठे मनोहरे || प्राह गंभीरया वाचा मंदस्मितमुखांबुजः || १० || नारद उवाच || मादिराज महाभाग सर्वशास्त्रार्थपारग || प्. १४) कच्चित्ते कुशलं व्रह्मन् कच्चिद्भक्तेस्तवानघ || ११ || मादांबापि महाभागा पातिव्रत्यपरायणा || दृढव्रतातिथेया सा शुभाचारानुवर्तिनि || १२ || दिवा सुधांशुवदिदं निशि पद्ममिवाननम् || दृश्यतेऽस्याः प्रभाहीनं चिन्तया परिशोषितम् || १३ || कारणं वद चिन्तायास्तत्वतो मे द्विजोत्तम || तच्छ्रुत्वा मादिराजोऽपि गृहिणीः समचोदयत् || विनयात्प्रत्युवाचेदं मादांबा मुनिपुंगवम् || १४ || मादांबोवाच || भवादृशा महात्मानो वीतरागा ह्यकल्मषाः || परप्रयोजनासक्तहृदयाः पुण्यवृत्तयः || १५ || परापत्तूलसंघातपावकीकृतबुद्धयः || महर्षयोऽपि व्यासाद्याः स्मर्तारः शंसितव्रताः || १६ || प्रशस्यन्ते चतुर्वेदैश्चार्तत्राणपरायणाः || १७ || पुन्नाम्नो नरकान्त्राता पुत्र एव न चापरः || पितॄणामृणनिर्मोक्षदक्षः पुत्रः प्रकीर्तितः || १८ || ब्रह्मन भाग्यविहीनाया न जातो मम पुत्रकः || पुत्रहीना भवेन्नारी विधवासदृशी मुने || १९ || वंध्यात्वं हि महादुःखं नारीणां मुनिपुंगव || सर्वव्रतानि चीर्णानि कामयंत्या सुतं मया || २० || धनान्यपि बहूंन्येवं दत्तानि द्विजपाणिषु || प्. १५) तथापि पुत्रलाभो मे नास्ति संयमिनां वर || २१ || अतो भाग्यविहीनां मां चिन्तैका बाधते भृशम् || एवमुक्तस्तया देव्या नारदः प्रत्यभाषत || २२ || नारद उवाच || पूर्वजन्मनि या नारी रजःसांकर्यकारिणी || वंध्या भवति सा नारी नात्र कार्या विचारणा || २३ || देवार्चनादिसर्वेषु पितृश्राद्धादिकर्मसु || नियुक्ता पाककरणे वनिता वरवर्णिनी || २४ || पाकमध्ये रजो दृष्ट्वा ज्ञात्वा दोसं विशेषतः || पाकवैययर्थ्यशंका या न बभाषेत वै यदि || २५ || तेन दोषेण महता भवेद्वंध्या न संशयः || ज्ञातमात्राद्बहिर्गच्छेन्न हि वंध्येति स्मृता || २६ || अतस्तद्दोषशमनं व्रतमेकं ब्रवीमि ते || तत्प्रभावात्पुत्रमेकं प्राप्स्यसि त्वं न संशयः || २७ || नंदिव्रतमिति ख्यातं त्रिषु लोकेषु विश्रुतम् || सदाचार्योपदेशेन व्रतमेतत्समाचरेत् || मादाम्बापि महाभागा प्रत्युवाच मुनिं ततः || २८ || मादाम्बोवाच || भो भो व्रह्मन् महाभाग परार्थैकप्रयोजन || आचार्य त्वमिहायातो ह्मावयोर्भाग्यगौरवात् || २९ || इदं शरीरममलं प्राणान्प्रियतमानपि || गृहान् गृहस्थितं द्रव्यं दास्यामि तव संयमिन् || ३० || किं तद्व्रतं त्वदुक्तं यत् तस्य का देवता स्मृता || प्. १६) कथं कार्यं कया चीर्णं पूर्वं सर्वं वदाधुना || ३१ || नारद उवाच || माघकृष्णचतुर्दश्यां व्रतमेतदुपक्रमेत् || प्रातः स्नात्वा शुचिर्भूत्वा नत्वा शिवपदांबुजे || ३२ || त्रिपुंड्रयुक्तानिटिला राजत्कुंकुममंडिता || रुद्राक्षमालाभरणा शिवध्यानपरायणा || प्रतः शिवालयं गत्वा चानिषिद्धिं शिवं यजेत् || ३३ || वृषस्य वृषणं स्प्र्ष्ट्वा शृंगमध्यावलोकनम् || सप्तजन्मफलं पापं तत्क्षणादेव नश्यति || ३४ || रुद्रसूक्तैः प्रशस्तैश्च वेदत्रितयवर्तिभिः || बोधायनोक्तमार्गेण श्रीरुद्रेणाभिषेचयेत् || ३५ || तत्पुरस्थं च शैलादिं शिवभक्ताग्रयायिनम् || तैलेन वृषगायत्र्या सर्वांगं परिषेचयेत् || ३६ || बिल्वपत्रैः प्रशस्तैश्च कुसुमैर्विविधैरपि || नन्दिनं पूजयेद्भक्त्या धूपदीपपुरःसरम् || ३७ || तस्मिन् दिने व्यतिते तु परेद्युर्ब्राह्मणान् बहुन् || शैवान् पाशुपताचारान् भोजयेत् प्रीतिसंयुता || ३८ || मासे मासेऽपि कर्तव्यं व्रतमेवं शुचिस्मिते || संवत्सरत्रये पूर्णे शिवरात्र्यां वरानने || ३९ || शिवस्य पूजनं कृत्वा नंदिनं परिपूजयेत् || नंदिनः स्वर्णशृंगारदिकिंकिणी स्वर्णनिर्मिताम् || ४० || अष्टापदान् खुरान् रम्यान् नियम्य नियमान्विता || अलंकृत्वा दिव्यवस्त्रैर्भूषणैर्नंदिकेश्वरम् || ४१ || प्. १७) वृषभेन्द्रध्यानयुक्ता भक्तितः परिपूजयेत् || आचार्यं पूजयेत्पश्चात् ब्राह्मणांल्लिंगधारिणः || ४२ || एकादश वदेद्भक्त्या ऋत्विजो वेदपारगान् || शैवाग्निं जनयित्वा तु यथावन्नियमान्विता || ४३ || सहस्रं वृषगायत्र्या हुवेदाज्येन सुंदरि || पयसा च हुवेदेवं चणकैश्च तथा हुवेत् || ४४ || समिद्भिश्च हुवेदेवं बिल्वपत्रैस्तदा हुवेत् || तिलैरपूपकैश्चैव लाजैर्गोधूमकैस्तथा || ४५ || मुद्गैर्माषैः कुलुस्थैश्च (कुलित्यैश्च) प्रत्येकं च सहस्रशः || एवं कृत्वा ततः क्षीरैः सहस्रं तर्पणं चरेत् || ४६ || ब्राह्मणान् भोजयेत् पश्चात् दक्षिणादानपूर्वकम् || ततः स्वयं च भुञ्जेत मित्रबंधुसहोदरैः || ४७ || एतद्व्रते कृते देवि तव पुत्रो जनिष्यति || एवं कृत्वाऽदितिः पूर्वं पुत्रमाप सुरेश्वरम् || ४८ || नंदिव्रतप्रभावेन चतुराश्रमवर्णकाः || सत्पुत्रान्प्रापुरुर्व्यां च केचित्सद्गतिमापिरे || ४९ || स्त्रियश्च विधवाश्चापि सतीत्वं प्राप्नुवंति ताः || काश्चिन्मृतपतिप्राणलब्धाः सन्ति महीतले || ५० || एवमुक्त्वा मुनिवरः कामचारो जगाम सः || मादांबापि व्रतपरा तस्थौ स्वभवनांतरे || ५१ || एतस्मिन्नंतरे नंदी स्वयं तूर्णमुपागतः || मादांबागर्भदेशं तं प्रविवेशाथ जन्मने || ५२ || तदा दौहृदचिन्हानि तस्याः संजज्ञिरे भृशम् || वक्ष्ये तद्गर्भचिन्हानि शृणु कुंभज सादरम् || ५३ || प्. १८) भविना नान्नभोगः स्याद्गभस्थस्य शिशोरिव || शिल्या च चिंतयाअ नित्यं वमते वरवर्णिनी || ५४ || अमृतांशोर्निवासेन पुत्रस्य जठरे तथा || क्षुधा न जायते नूनं तस्याः कुंभज सर्वदा || ५५ || जलजाक्ष्या गर्भदेशे सद्भक्तिरुचिमान् शिशुः || स्थितस्तेनैव रुचयो न जायन्तेऽन्यवस्तुषु || ५६ || पांडुरांगस्य देहस्य मूर्तेः स्थित्यैव पांडुता || शरीरे कलिता तस्या मादाम्बायाः समंततः || ५७ || जृंभते वक्त्रविकृतीः कुर्वन्तीव सुतागमे || शिवमूर्तिवशेनैव योगनिद्रेव शांभवी || ५८ || निद्रा तामाप सततं मादाम्बां वरवर्णिनीम् || गर्भस्थनीलकंठस्य कंठसंस्थितनीलिमा || ५९ || मादाम्बायाः कुचद्वंदे चकारावासमद्भुतम् || नीलचूचुकसंशोभि पीनोत्तुंगस्तनद्वयम् || ६० || भ्रमराक्रान्तकमलकोशद्वन्द्वमिवाबभौ || प्. १९) अपरिच्छिन्नदेवेशो यथा गर्भमवाप सः || ६१ || तथा सर्वजनादृश्यं मध्यं तत्याज सूक्ष्मताम् || नेत्रप्रान्तौ च मसृणौ मीलिताक्षिप्रवेशतः || ६२ || मादाम्बाया महादेव्याः किंचिन्निम्नौ बभूवतुः || योगिहंसप्रवेशेन मंदयाना बभूव सा || ६३ || निस्पृहस्य निवासेन मादाम्बायास्तदा मुने || अरतिश्चापि संजज्ञे सर्वेष्वपि च वस्तुषु || ६४ || एवमादीनि चिन्हानि मादाम्बायाश्च जज्ञिरे || सर्वं श्रुत्वा सखीवाक्यं तत्पतिर्मुदमाययौ || ६५ || संवत्सरत्रयं जातं न जातस्तु तनूभवः || नन्दीश्वरस्तदुदरे यथा कैलासमंदिरे || ६६ || अनुध्यायन्महादेवं सुखेनैवावसन्मुने || कदाचिद्भर्भभारेण दुःखिता साऽप्यचिन्तयत् || ६७ || अधुना नारदवचो मत्प्राणान्तकरं किमु || व्रतलोपस्तु जातः किं मम भाग्यविपर्ययात् || ६८ || अन्तर्वत्नी कर्कटीव प्राणांस्त्यक्ष्यामि किंन्वहम् || सम्बाधहेतुः सञ्जातः प्रसादात्परमेष्ठिनः || ६९ || एवं संचिंत्य बहुधा मादाम्बा दुःखकर्शिता || ततः शिवालयं गत्वा प्राणिपत्य सदाशिवम् || ७० || प्. २०) विज्ञाप्य च महादेवं पुनः स्वगृहमाययौ || आगत्य कुत्रचिद्गेहे गर्भभारसमाकुला || ७१ || श्रान्ता सुष्वाप मादाम्बा पर्यंके पद्मलोचना || स्वप्ने संनिहितः साक्षात् कूडलीसंगमेश्वरः || प्राह गंभीरया वाचा साम्बश्चन्द्रार्धशेखरः || ७२ || संगमेश्वर उवाच || मा भैषीस्त्वं महाभागे विस्तीर्णायतलोचने || भवत्याः प्रसवः कालो ह्यद्य सन्निहितोऽभवत् || ७३ || वृत्तन्तं तव वक्ष्यामि गर्भस्थस्य शिशोः शृणु || शिलादो नाम योगींद्रस्तपस्तेपे सुदारुणम् || ७४ || श्रीशैलस्य नगेन्द्रस्य भागे नैरृतिपालिते || महानंद्यभिधे क्षेत्रे नानामणिविचित्रिते || ७५ || सिद्धगंधर्वयक्षेशकिन्नरैरुपसेविते || कल्पवृक्षतरुच्छायानिषण्णमुनिसंकुले || ७६ || नीराहारो मासमेकं मासं तु पवनाशनः || पर्णाशनो मासमेकमभक्ष्यो मासमेव च || ७७ || ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थंडिले स्थितः || कंठलग्नजले स्थित्वा हेमन्तेऽत्यन्तशीतले || ७८ || तपश्च्कार सततं ध्यायन् साम्बं महेश्वरम् || तपसा जनितो धूमः सर्वलोकांश्च व्यानशे || ७९ || तपःसंजनितादग्नेर्लोकाः सप्त प्रजज्वलुः || तप्यतस्तस्य संभीता लोकपालाः सुरेश्वराः || ८० || प्. २१) स्वाधिकारच्युतेर्भीता विषण्णहृदयाः परम् || आगत्य ब्रह्मणो लोकं ब्रह्माणमिदमब्रुवन् || ८१ || देवा ऊचुः || चतुर्मुख महाभाग लोकाः सृष्टास्त्वया विभो || मोदमानाश्च तिष्ठंति स्वस्वकर्मानुसारतः || ८२ || श्रीपर्वते महापुण्ये शिलादो मुनिसत्तमः || तपस्तपति योगींद्रो बहवो वत्सरा गताः || ८३ || वयं तत्तपसा भीतास्त्वदन्तिकमुपागताः || भीत्या संप्रार्थितो देवैर्ब्रह्मा तान् प्रत्यभाषत || ८४ || ब्रह्मोवाच् || भवतामाधिपत्येऽस्मिन् न स्पृहा वर्तते मुनेः || शिवभक्ता महात्मानः शिवव्रतपरायणाः || ८५ || ब्रह्मविष्ण्वादिलोकेषु निःस्पृहा निरुपप्लवाः || मया प्रदीयमानेषु वरेष्वपि पराङ्मुखाः || अतो हि मादृशानां तु न शक्तिस्तन्निवारणे || ८६ || शिवः संवर्तते साक्षात्कैलासे पर्वतोत्तमे || अतस्तदन्तिकं गत्वा याचयध्वं सुरेश्वराः || ८७ || तेनेदं क्रियते कार्यमितरेषां तु द्रुलभम् || इति संबोधिता देवाः कैलासगिरिमाययुः || ८८ || तत्र साम्बं महादेवं चंद्रार्धकृतशेखरम् || प्रणम्य दण्डवद्भूमौ तुष्टुवुर्विदिधैः स्तवैः || ८९ || स्तुवतां सर्वदेवानां साम्बः सत्यादिलक्षणः || वामार्धभागविलसद्धिमवत्पुत्रिकाविभुः || ९० || प्. २२) अविरासीन्महादेवः पिनाकी वृषभध्वजः || ततः प्राह सुरान्सर्वान् कुशलप्रश्नपूर्वकम् || ९१ || साम्ब उवाच || किमर्थमागता यूयं सर्वे संभूय भो सुराः || युष्माकं राक्षसैर्बाधा किमद्य समुपागता || ९२ || कालकूटादिवस्तूनि जातानि किमु सांप्रतम् || विष्णोर्बलवतश्चास्य किमसाध्यमुपागतम् || ९३ || सर्वप्रपंचसंस्रष्टुर्विधातुः किमवस्थितम् || यूयं देवा यथावन्मे ब्रूतागमनकारणम् || ९४ || देवा ऊचुः || शिलादो नाम योगींद्रस्तपस्तपति भूतले || तस्यैव तपसा लोकाः प्रदग्धाश्च चतुर्दश || ९५ || तेन भीता वयं सर्वे त्वदंतिकमुपागताः || अस्माभिः कारणं किंवा न ज्ञातं तत्र शंकर || ९६ || त्राहि नः पार्वतीनाथ कृपया परमेश्वर || इति संप्रार्थितः शंभुर्देवदेवस्त्रिलोचनः || ९७ || आरुह्य वृषभं दिव्यं पार्वत्या सह शंकरः || ब्रह्मणा विष्णुना चैव सुरैः सर्वैः समन्वितः || ९८ || आजगाम तपोदेशं यत्रास्ते मुनिपुंगवः || योगं विहाय मुनिराट् तमपश्यन्त्रिलोचनम् || ९९ || प्रणम्य पार्वतीनाथं दण्डवधद्धरणीतले || तुष्टाव विविधैः स्तोत्रैरृग्यजुःसामसंभवैः || १०० || प्. २३) सर्वेषां कारणानां च कारणाय नमो नमः || यज्वनां फलदात्रे च यज्ञरूपाय ते नमः || १०१ || अशेषयोगगम्याय योगरूपाय ते नमः || भक्तस्थलस्वरूपाय भक्तिगम्याय ते नमः || १०२ || माहेश्वरस्थलज्ञाय महेशस्थलरूपिणे || प्रसादिस्थलरूपाय प्रसादिस्थलवेदिने || १०३ || प्राणलिंगिस्थलज्ञाय प्राणलिंगिस्थलात्मने || नमः शरणरूपाय नमः शरणवेदिने || १०४ || ऐक्यस्थलस्वरूपाय स्वरूपैक्यस्थलात्मने || भावलिंगस्वरूपाय प्राणलिंगस्वरूपिणे || १०५ || इष्टलिंगात्मने तुश्यं गुरुरूपाय ते नमः | एवं स्तुतो महादेवः पार्वतीप्राणवल्लभः || १०६ || सांब उवाच || भो भोः शिलाद मद्भक्त तुष्टोऽहं तापसोत्तम || किमीप्सितं तवास्त्यद्य तत्ते दास्यामि सांप्रतम् || १०७ || तपसा तव तुष्टोऽहं त्वद्भक्तेस्तु वशं गतः || || शिलाद उवाच || देवदेव महाभाग यदि तेऽस्ति कृपा मयि || छायासु कल्पवृक्षाणां संश्तितानामिव प्रभो || १०८ || गृहांगणे तु सम्बद्धकामधेनुवतामिव || अन्यकामः किमस्त्यद्य त्वत्प्रसादं विना प्रभो || १०९ || अतस्त्वत्पादकमलध्यायिनो मम शंकर || भक्तिमेव परां देहि त्वत्पदद्वयनिश्चलाम् || ११० || प्. २४) इतः संप्रार्थनीयं मे नान्यदस्ति महेश्वर || तथापि कामये किंचिद्वरं अद्धृदयस्थितम् || १११ || त्वत्पादपद्मयुगलभ्रमरायितचेतसम् || शिवभक्तं महात्मानं शिवव्रतपरायणम् || पुत्रं देहि महाभाग कृपाऽस्ति तव चेन्मयि || ११२ || इति संप्रार्थितः शम्भुर्देवदेवस्त्रिलोचनः || तथास्त्विति प्रतिज्ञाय सह देवैस्तिरोदधे || ११३ || ततः पुत्रो मुनेर्जातो नंदीशः शंसितव्रतः || सोऽप्यष्टवर्षको बालस्तपसा परमेश्वरम् || ११४ || तोषयित्वा जगद्योनिं शंकरं लोकशंकरम् || वाहनत्वमनुप्राप्तो गणाधीशत्वमन्वगात् || ११५ || केनचित्कारणेनाद्य त्वद्गर्भं समुपस्थितः || गर्भस्थितोऽपि बालोऽयं योगी योगैकतत्परः || ११६ || वृत्तम् || कान्ते तावकगर्भनामनि गुहामध्ये तु नंदिश्वरः प्राणापानयुगं निरुध्य निवसत्यद्यैश्वरं तेजसम् || आधारादिसमस्तचक्रनिचयं नित्वोर्ध्वमत्युज्वलं, यश्चक्रे मतिमात्मनश्च सततं ध्यायन् बहिर्निर्गमे || ११७ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे नंदिव्रतयुक्तमादाम्बागर्भमहिमाऽभिवर्णनं तृतीयोऽध्यायः || प्. २५) चतुर्थोऽध्यायः श्रीगुरुभ्यो नमः मादाम्बा संगमेशानं स्वपुरोभागसंस्थितम् || हर्षसंफुल्लहृदया स्वप्नेतं प्रत्यभाषत || १ || (मादाम्बोवाच) कस्त्वं देव महाभाग येनेत्थं परिभाषितम् || इदानीं श्रोतुमिच्छामि योगमाहात्म्यमुत्तमम् || कृपया वद सर्वेषां रहस्यं सविशेषकम् || २ || संगमेश उवाच || संगमेशोऽहमधुना तव सन्निहितोऽभवम् || वक्ष्यामि योगमाहात्म्यं शृणु त्वं वरवर्णिनि || मूलाधाराभिधं चक्रं चतुर्दलमुदीरितम् || ३ || स्वाधिष्ठानाभिधं चक्रं लिंगस्थं षड्दलान्वितम् || चक्रं तु मणिपूरख्यं नाभिस्थं दशपत्रकम् || ४ || अनाहताभिधं चक्रं द्वादशारं हृदि स्थितम् || विशुद्धिचक्रं कंठे तु षोडशारमुदीरितम् || ५ || आज्ञा (अग्नि) चक्रं भ्रुवोर्मध्ये द्विदलं परिकीर्तितम् || तस्योर्ध्वं शिरसि स्थाने सहस्रारं तु तिष्ठति || ६ || सहस्रारे स्थितं चंद्रमंडले परिशोभितम् || नकारोऽस्ति महाभागे मूलाधारे चतुर्दले || ७ || आचारलिंगनामाऽसौ पृथ्वितत्त्वस्वरूपभृत् || स्वाधिष्ठने मकारोऽस्ति गुरुलिंगस्य वाचकः || ८ || जलतत्वस्वरूपश्च वेदितव्यो वरानने || प्. २६) शिकारो मणिपूरेऽस्ति शिवलिंगस्य वाचकः || ९ || तेजस्तत्त्वात्मकः साध्वि नात्र कार्या विचारणा || अनाहते तु वाकारश्चरलिंगस्य वाचकः || १० || वायुतत्त्वमयः साध्वि विद्वद्भिः परिकीर्तितः || विशुद्धे तु यकारोऽस्ति प्रसादस्य च वाचकः || ११ || आकाशतत्त्वमित्येवमागमैः परिकीर्तितः || आज्ञा (अग्नि) चक्रे त्रयीरूपः प्रणवोस्ति त्रिमात्रकः || १२ || वाचकश्च महानाम्नो मनस्तत्वस्वरूपभृत् || पंचाक्षरीमहामंत्रः प्रणवेन षडक्षरः || १३ || प्राज्ञतैजसविश्वाश्च यदा यत्न लयं ययुः || तदास्ति तत्र मादाम्ब सा काष्ठाऽऽख्या पर कला || १४ || देहस्य नासारंध्रे द्वे ईडापिंगलसंज्ञिके || तयोर्निरोधने प्राणो ह्यग्निचक्रं भिनत्त्यसौ || १५ || तस्मिन्विभेदिते प्राणः सुषुम्नामार्गमास्थितः || सुषुम्नामार्गगे प्राणे भुजंगी बोध्यति स्वयम् || १६ || आधारस्योर्ध्वभागे तु स्वाधिष्ठानादधः स्थितम् || भिनत्ति वैधसग्रंथिं त्रिरावृत्तां महत्तराम् || १७ || मणिपूरोर्ध्वभागे तु द्वादशारादधः स्थिताम् || विष्णुग्रंथि भिनत्त्याशु स्वयं कुंडलिनि परा || १८ || विशुद्धस्योर्ध्वभागे तु आज्ञा (अग्नि) चक्रं सुशोभनम् || तदन्तरस्था विमला रुद्रग्रन्थिविभेदिनी || १९ || तस्माच्चक्राद्विनिष्क्रम्य सहस्रारस्थितं परम् || चंद्रबिंबं समासाद्य चिच्छक्तिरुपजायते || २० || सैव स्वाभाविकी शक्तिः शिवा हैमवती परा || चंद्रमंडलमध्यस्था शिवेनैव महात्मना || २१ || यदा युक्ता भवेत्सर्वं तदा सर्वं न भासते || नास्ति किंचिच्छिवादन्यज्जगत्स्थावरजंगमम् || २२ || सर्वं विलयमाप्नोति दृश्यमानं जगत्परम् || न जानाति तदा योगी कार्यं वाऽकार्यमेव वा || २३ || बाल्स्तवैष गर्भस्थोऽप्येवं योगपरोऽभवत् || संबोधयाम्यहं देवि गर्भस्थं तव पुत्रकम् || २४ || एवमुत्क्वा संगमेशः स्वयं सांबस्तिरोदधे || स्वप्नादुत्थाय सा देवी मादाम्बा हृष्टमानसा || २५ || बंधूनां स्वप्नवृत्तान्तमुवाचाशेषतस्त्विमम् || श्रुत्वा ते बांधवाः सर्वे पितृमातृकुलोद्भवाः || २६ || हर्षसंफुल्लहृदयाः साधु साध्विति चाब्रुवन् || ननृतुर्मुदिताः केचित् केचित्संजगुरादरात् || २७ || पाणिसंताडनं चक्रुर्हासं केचिच्च चक्रिरे || एवं सम्बोध्य मादाम्बां संगमेशः कृपाकरः || २८ || तद्गर्भं समनुप्राप्य नंदिनं समबोधयत् || भो भो नन्दिन् महाभाग लोकवन्द्यपदद्वय || २९ || प्. २८) आज्ञप्तस्त्वं मया पूर्वं किमर्थं गर्भमागतः || विस्मृत्य सर्वं शैलादे योगमार्गवशं गतः || ३० || ध्यायन्मां हृदयांतस्थमुषितो वत्सरत्रयम् || यदर्थं त्वं मयाऽऽदिष्टस्तत्सर्वं विस्मृतोऽसि किम् || ३१ || अतो निष्क्रम्य सहसा कार्यं साधय साधय || संगमेशैनैवमुक्तो नंदिकेशो महामतिः || ३२ || बुद्धिं चक्रे विनिर्गन्तुं मादाम्बागर्भदेशतः || ततः पुण्यमुहूर्ते तु सर्वलक्षणसंयुते || ३३ || मीनस्थिते भृगोः पुत्रे मेषष्थे च दिवाकरे || तुलास्थिते च तत्पुत्रे कर्कटस्थे बृहस्पतौ || ३४ || शशांके रोहिणीसंस्थे मकरस्थे च भूसुते || शिशोरर्धोदये जाते लग्ने कर्कटसंज्ञिके || ३५ || संगमेशस्तदा तूर्णमदृश्यत्वं समाययौ || भूतिपट्टं ततश्चक्रे स्वहस्तेनैव देशिकः || ३६ || निक्षिप्य मस्तके हस्तं तस्य पद्मसमप्रभम् || तमः पटलमुत्सार्य तत्कारणशरीरगम् || ३७ || शैवीं कलां समाकृष्य परात्परतरां गुरुः || शिशोर्भावेन संयोज्य मनसाऽयोजयत्स्वयम् || ३८ || मनसा दृष्टिदेशं तु नीत्वा तां परमां कलाम् || षडध्वशोधितं लिंगं चंद्रकांतशिलामयम् || ३९ || नीत्वा तत्र कलां सूक्ष्मां सन्निवेश्य कृपानिधिः || प्. २९)शैवीं पंचाक्षरीं पुण्यां प्रणवेन समन्विताम् || ४० || निगूढं दक्षिणे कर्णे जजाप परमेश्वरः || ततस्तत्कंठदेशे तु चक्रे लिंगस्य धारणम् || ४१ || कृत्वैवं चिन्मयीं दीक्षां सर्वशास्त्रेषु गोपिताम् || बालेन्दुविलसन्मूर्धा भालभागस्थलोचनः || ४२ || काषायकंथासंछन्नदीप्यमानतनुर्भृशम् || ताम्रकुंडलसंशोभिकर्णद्वन्द्वविराजितः || ४३ || भक्तवेषधरः श्रीमान्ं संगमेशः परात्परः || पश्यन्तीषु च कान्तासु मादाम्बामाह देशिकः || ४४ || अयि भद्रे महाभागे शिशोरस्य महामतेः || न कदापि पयो देहि लिंगमूर्तेरनर्पितम् || ४५ || विश्वं वसति यत्रैतद्वसत्यत्र महेश्वरे || तवैव बालकः श्रीमान् मनोवाक्कायकर्मभिः || ४६ || आद्यस्य च वकारस्य ह्यभेदेन बकारतः || एषोऽयं बालकः श्रीमान बसवेश्वरनामधृत् || ४७ || परात्परे लिंगे ये वसन्ति महेश्वराः || गच्छ्त्येतान् स्वयं भक्त्या तेनाऽयं बसवेश्वरः || ४८ || गत्यर्थकत्वे वाधातोरेतदर्थद्वयं स्थितम् || प्. ३०) महत्संसारचक्रेऽस्मिन् ये वसन्ति च दुर्जनाः || ४९ || तान्गंधते सदा बालो विश्वरक्षणतत्परः || हिंसागंधेन शब्देन प्रोच्यते वरवर्णिनि || ५० || सर्वदा तव बालोऽयं बसवेश इतीर्यते || कूडलीसंगमेशोऽहं मादाम्बे वरवर्णिनि || ५१ || कप्पडीसंगमेशाख्यपट्टणे निवसाम्यहम् || मत्पुत्रोऽयं महाभागे लोकपालनतत्परः || ५२ || शिवभक्तिपरो नित्यं तव पुत्रत्वमाप सः || तस्मादेनं महाभागे दिदृक्षुरहमागतः || ५३ || गुरुरूपधरो ह्यत्र सर्वकाले वसाम्यहम् || एवमाज्ञाप्य सहसा संगमेशस्तिरोदधे || ५४ || तत्रारिष्टगृहान्तस्था वनिताः पंकजेक्षणाः || अन्योन्यमूचिरे महद्विस्मयाविष्टचेतसः || ५५ || इदानीमागतः कोष्यमयोग्यं सूतिकागृहम् || लोकेऽस्मिन्पुरुषाः सर्वे न विशंति कदाचन || ५६ || कथं वाऽन्तर्दर्धे तूर्णमाश्चर्यमिव भाति नः || मादाम्बाअऽनुग्रहार्थाय शिवः किं समुपागतः || ५७ || प्. ३१) लिंगधारणमेतद्धि गर्भस्थस्य शिसोः कथम् || न दृष्टं न श्रुतं पूर्वं महत्यस्मिन् महीतले || ५८ || लोके ये शिशवो जाताः सर्वे वर्णानुसारतः || तेषां नास्तीदृशं रूपं सर्वनेत्रावकुंठकम् || ५९ || प्रसर्पन्ति न नेत्राणि बालस्य तनुवीक्षणे || यथा निदाघमध्याह्नभानुबिंबं महोज्वलम् || ६० || न शक्यमीक्षितुं तद्वद्बालो न प्रेक्षितुं क्षमः || अतो मादाम्बिकाभाग्यगौरवेण महेश्वरः || ६१ || सर्वलोकैककर्ताऽयं शिवो जज्ञे न संशयः || अथवा षण्मुखः सोऽयं तारकासुरमारकः || ६२ || भृंग्यादिप्रमथानां च मध्ये कश्चिन्महत्तरः || संजातः पुत्ररूपेण मादाम्बायामनुग्रहात् || ६३ || एवं विवदमानासु कामिनीषु परस्परम् || सर्वसौभाग्यसंपन्ना सुंदर्येकाऽब्रवीत्तदा || ६४ || केनापि हेतुना नंदी मादाम्बायाः सुतोऽभवत् || नोचेद्गर्भस्थितस्यास्य कथं लिंगधृतिर्भवेत् || ६५ || श्रुत्वैतद्विस्मिताः सर्वा जग्मुः स्वस्वगृहं प्रति || मादाम्बा मादिराजश्च दम्पती हर्षमापतुः || ६६ || दीपानरिष्टभवनान्तरभागसंस्थान् भासा शिशोरतुलया हृतरश्मिपुंजान् || प्. ३२) मध्याह्नभाग इव सा निशि निष्प्रभांस्तान् दृष्ट्वाऽतिविस्मयमवाप मुदा जनित्री || ६७ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे नंदिव्रतयुक्ते स्कंदागस्त्यवादे बसवेशप्रादुर्भागो नाम चतुर्थोऽध्यायः || प्. ३३) पंचमोऽध्यायः श्रीगुरुभ्यो नमः षडाननवचः श्रुत्वा भक्त्या कुंभोद्भवो मुनिः || प्रणम्य दण्डवद्भूमौ षण्मुखं पुनरब्रवीत् || १ || अगास्त्य उवाच || एवं नंदीश्वरो जातः सुरम्ये हिंगुलीपुरे || अस्य वृत्तान्तमाख्याहि भगवन्करुणानिधे || २ || षण्मुख उवाच || आहूय भक्तान् लिंगांकान् वीरशैवान् महागणान् || जंगमानेव तत्काले दम्पती तौ ववन्दन्तुः || ३ || तदा सिंहासनान्येषां दत्वा प्रक्षाल्य तत्पदम् || भक्तहस्तार्पितं तेषां भूतिदानपुरःसरम् || ४ || पादोदकं गृहीत्वा तौ गणानामेव दम्पती || क्षालयित्वा शिशोर्गात्रं ददौ भस्म विलेपतुः || ५ || भेर्याविदाद्यघोषश्च दिगंतान् व्यानशे तदा || दिव्यं बसवनामाख्यं चक्रतुस्तौ गणाज्ञया || ६ || ततो मासद्वये जाते बालोनून (नर्घ्य) प्रभायुतः || संप्रवृद्धशरीरः सन् बालक्रीडां चकार सः || ७ || मुष्टिं कृत्वा करयुगं चोर्ध्वंचाधश्च चिक्षिपे || ओंकारः सर्ववेदानामादावन्ते च दीयते || ८ || तस्य मात्रात्रयं प्रोक्तं मुनिभिर्ब्रह्मवादिभिः || अकारश्च तथोकारो मकारोऽथ तृतीयकः || ९ || अकारेणोच्यते ब्रह्मा उकारेणोच्यते हरिः || मकारेणोच्यते रुद्रः सर्वकारणकारणम् || १० || प्. ३४) सत्यलोकस्त्वकारेण ह्युकारेण महामुने || वैकुंठलोकः कथितो दिवाकरसमप्रभः || ११ || मकारेण तु रुद्रस्य लोकः कैलाससंज्ञकः || लोकानामपि सर्वेषामूर्ध्वं ब्रह्मांडखर्परः || १२ || खर्परस्योर्ध्वभागे तु कोटिसूर्यसमप्रभः || अर्धमात्रात्मको लोकः सोमलोक इतीरितः || १३ || भोक्तुं च सकलान् भोगान् शंकरो लोकशंकरः | तत्रास्ते बहुभिर्देवैर्गणैः कल्पितविग्रहैः || आनयन्निव तल्लोकं क्रीडयामास सोऽर्भकः || १४ || दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः || निंदयन्निव तान् सर्वान् बालो लालां व्यचिक्षिपत् || १५ || ये च कर्मैकनिरता हित्वा साम्बं सदाशिवम् || देवान्तरेषु ये भक्ता ये त्रिपुंड्रविवर्जिताः || १६ || लिंगानर्पितवस्तूनां भोक्तारो ये द्विजाधमाः || ये शंभुपादसलिलप्रसादानां च निंदकाः || १७ || शिवस्य निंदका ये तु शिवभक्तैकनिंदकाः || तेषां जन्म किमेतद्धि जीवनं काकजीवनम् || १८ || एवं संचिंत्य बालोऽयं प्रहसन्निव कुंभज || पदे पदे स्वयं हासं चकारार्भकसत्तमः || १९ || समये स्तन्यपानस्य तूष्णीं भावेन संस्थिताः || शिवप्रसादलीलायां मग्नः सन्निव भासते || २० || प्. ३५) शिवानंदरसं साक्षात् कृत्वा करगतं शिशुः || चिक्षेप वदने स्वीये रुच्यासक्त्या करद्वयम् || २१ || बालः शिवपदाम्भोजध्याननिष्ठो विचेष्टितः || मदागमनकार्यस्य चिरकालो गतोऽधुना || इतीव बसवेशोऽयमुल्ललास पुनः पुनः || २२ || गानश्रवणमात्रेण शिवस्य परमात्मनः || छद्मना रोदनस्यास्यानन्दाश्रूणि विनिर्ययुः || २३ || भवबाधासमाक्रांतदुःखैकाक्रान्तचेतसाम् || विरराज महातेजा दुःखमाकुलयन्निव || २४ || उद्वर्तनक्रियां चक्रे भूमौ सोऽर्भकसत्तमः || महेश्वरपदद्वन्द्वे नतिं कर्तुमिवादरात् || २५ || शिवभक्तिं व्यतीतां स तूत्थापयति सर्वथा || इतीव बसवेशोऽयं चकारोन्नमितं शिरः || २६ || एतां पद्मासनासीनवृत्तिं सर्वोत्तमोत्तमाम् || अभ्यसन्निव योगानां साधनार्थं प्रमोदतः || बसवेशस्तु बालोऽयं न्यषीदत्पृथिवीतले || २७ || द्वितीयशंभुर्नंदीशस्त्वहमेव न चापरः || इतीव गमनं चक्र जानुहस्तैः शनैः शनैः || २८ || वीरमाहेश्वराचारो राशीभूत इवोत्सुकः || २९ || प्. ३६) बसवेशो महातेजा रसायामुत्थितः स्थितः || पूर्वमार्गानुसारेण गमनं क्रियते मया || चकार सोऽर्भकः श्रीमान् पादक्षेपमितस्ततः || ३० || शिवस्मरणमात्रेण स्खलद्वाक्यपरंपराम् || ज्ञापयन्निव लोकानां मंदं मंदमुवाच सः || ३१ || जनाः श्रेष्ठतमा लोके शिवभक्तिपरायणाः || इति कोलाहलं कुर्वंश्चकारोल्लीलया त्विव || ३२ || क्रीडासमय एवाऽयं चकार शिवपूजनम् || पिताऽपि मादिराजोऽयं दृष्ट्वा त. मुदितोऽभवत् || ३३ || ततः क्रमेण यातेषु वत्सरेषु शिशोस्तदा || संप्राप्ते पंचमे वर्षे बसवेशस्य धीमतः || अक्षराभ्यसनं तातः कारयामास सादरम् || ३४ || संप्राप्ते चाष्टमे वर्षे मादिराजः सुधीमणि || पुत्रोपनयनोद्युक्तो हिंगुलीपुरवासिनः || ३५ || देशान्तरागतानन्यान् समीपग्रामवासिनः || आहुय ब्राह्मणान् सर्वान् वेदशास्त्रार्थपारगान् || तैः साकं तु सभामध्ये प्रोवाच मधुरं वचः || ३६ || मादिराज उवाच || पुत्रो ममाष्टवर्षोऽयं बसवेशो महामतिः || अतस्तस्योपनयनं कार्यमद्य द्विजर्षभाः || ३७ || विमर्शनीयमधुना लग्नं सल्लक्षणान्वितम् || इत्येवं मादिराजस्य वचः श्रुत्वा सगौरवम् || ३८ || प्. ३७) विचारवत्सु सर्वेषु ब्राह्मणेषु यदृच्छया || आजगाम महाशीलः पृथुको बसवेश्वरः || ३९ || आगत्य प्राविशत्तूर्णं मादिराजान्तिके स्वयम् || अशेषविप्रवाक्यानि श्रुत्वा प्राहातिधृष्टवत् || ४० || बसवेश उवाच || भो भो पितस्तदाख्याहि यदेतैस्तु विचिन्त्यते || एवमुक्तस्तु बालेन पिता वचनमब्रवीत् || ४१ || मादिराज उवाच || तवोपनयनं कर्तुं यतिष्ये बसवेश्वर || एवमुक्तस्तु बालोऽयं पितरं प्रत्यभाषत || ४२ || बसवेश उवाच || कर्मोपनयनं कर्तुं तात नांगीकरोम्यहम् || नूनं शिवस्वरूपोऽहं न जीवः कर्मपूरितः || नावयोरन्तरं किंचिद्विद्यते परमार्थतः || ४३ || महाब्राह्मणमीशानं प्रवदन्ति मुनीश्वराः || सामवेदस्थितो मंत्रः प्रपदाख्यो महत्तरः || ४४ || शिवंकरं शिवं साम्बमुपक्रम्येदमब्रवीत् || देवेषु ब्राह्मणोषि त्वं मनुष्येष्वमहीरितः || ४५ || ब्राह्मणो ब्राह्मणं पुण्यमुपधावेन्न चेतरम् || अतस्तमुपधावामि नान्यदिच्छामि दैवतम् || ४६ || अतो ब्राह्मण्यमिशस्य स्वतः सिद्धं न कर्मजम् || किमात्मनः शुद्धिकरं किंवा देहस्य शुद्धिदम् || ४७ || आत्मनश्चेदसंगस्य शुद्धिः स्वाभाविकी मता || देहस्य दोषयुक्तस्य कथं शुद्धि प्रजायते || ४८ || प्. ३८) तत्रापि पंचकोशेषु कस्य कोशस्य शुद्धिदम् || पंचकोशान् समुत्सार्य ध्यायेतेशानमव्ययम् || ४९ || एवं यो ध्यायते साम्बं ब्रह्मैकं सर्वकारणम् || अतीतः पंचकोशेभ्यः शिव इत्युच्यते बुधैः || ५० || अत्रेतिहासं वक्ष्यामि पूराणं पापनाशनम् || काशीक्षेत्रोत्तरे भागे तस्मिन् पुण्यं महत्तरम् || ५१ || बदरीवनमत्यर्थं मुनिभिः परिसेवितम् || तत्रैकोऽभून्मुनिवरो वरुणोनाम तापसः || ५२ || तस्यासीत्तनयः कश्चित् प्रसिद्धस्तपसां निधिः || भृगुर्नाम महायोगी नित्यं सत्यपरायणः || ५३ || स कदाचित्समागत्य वरुणस्यान्तिकं स्वयम् || कृत्वा प्रदक्षिणं पूर्वं प्रणनामाथ दण्डवत् || ५४ || उवाच वचनं सम्यग्गंभीरं परमार्थदम् || अधीहि भगवन्ब्रह्म यदुपास्यं मुनिश्वरैः || ५५ || वरुणस्तमुवाचेत्थं पुत्रं सत्यपरायणम् || विजिज्ञासस्व तद्ब्रह्म तपसा नियमेन च || ५६ || तदेव परमं ब्रह्म सर्वलोकेषु विश्रुतम् || तपस्तप्त्वा भृतुः प्रेम्णा सिद्धमेव विबोधतः || ५७ || व्यनानादन्नमेवेदं ब्रह्मशब्दाभिलाषितम् || अन्नादेव हि भूतानि जायन्ते खलु सर्वदा || ५८ || प्. ३९) जातान्यन्नेन वर्धन्ते सर्वभूतानि नित्यशः || अद्यते सर्वभूतैश्च स्वयमन्नं महत्तरं || ५९ || अत्ति सर्वाणि भूतानि स्वयमेव महान्ति च || तस्मादन्नमिति प्रोक्तं मुनिभिः शंसितव्रतैः || ६० || एवमन्नमयं कोशं ज्ञाव्ता ब्रह्मेति वारुणिः || तस्मिन्नपीरतुष्टः सन् पुनः पितरमश्यगात् || ६१ || यथापूर्वं समभ्यर्च्य पितरं सत्यवादिनम् || अधीहि परमं ब्रह्म तात सत्यपरायण || ६२ || इत्युक्तस्तेन तत्पुत्रं बभाषे वरुणः स्वयम् || विजिज्ञासस्व तपसा प्राणो ब्रह्मेति पुत्रक || ६३ || तपस्तप्त्वा भृगुः श्रीमान् प्राणो भ्रह्मेत्यबोधि सः || ? यथापूर्वं तपस्तप्त्वा मनो ब्रह्मेत्यबोधि सः || ६४ || तत्राप्यपरितुष्टः सन् यथापूर्वं तपोग्रहीत् || विज्ञानमेव ब्रह्मेति निश्चिकाय माहामतिः || ६५ || असंतुष्टस्तथाज्ञानात् पुनः पितरमुक्तवान् || विज्ञानमेव ब्रह्मेति तात बुद्धं मयाऽधुना || ६६ || तस्मान्न मेऽस्ति संतोषो न ज्ञातं ब्रह्म शाश्वतम् || अतो ब्रूहि परं ब्रह्म येन तुष्याम्यहं प्रभो || ६७ || एवमुक्तः स पुत्रेण पिता वचनमब्रवीत् || आनंद एव ब्रह्मेति जगज्जन्मादिकारणम् || ६८ || प्. ४०) आनंदाब्धिघनीभूतं शरीरं परमेशितुः || आनंदविग्रहः श्रीमान् शिवः परमकारणम् || ६९ || शिवार्धविग्रहे देवी भासते या महत्तरा || स्वाभाविकी ज्ञानरूपा बलरूपा क्रियात्मिका || ७० || आत्मभूता हि देवस्य सर्वान्तर्यामिनः प्रभोः || सा कल्याणगुणैर्दिव्यैर्निगुढा परमेश्वरी || ७१ || तदंशभूता परकृतिः प्रपंचपरिणामिनी || आकाशशब्दवाच्या सा देवी गिरिवरात्मजा || ७२ || सा स्याद्य एष आकाश आनंदो ब्रह्मलक्षणः || को ह्येवान्याच्च कः प्राण्यादित्यादिश्रुतिबोधितः || ७३ || योगेनाकाशशब्दोऽयं व्याचष्टे गिरिकन्यकाम् || ब्रह्माकाशशरीरं हि शिवेशानादिशब्दितम् || इत्युक्त्वा वरुणः श्रीमान् मोदयामास पुत्रकम् || ७४ || तस्मात्पंचसु कोशेषु बाह्यान्नमय ईरितः || तस्य संस्कारकरणात्का शुद्धिरुपजायते || ७५ || सुरापूरितभांडस्य बाह्यप्रक्षालनादिना || सुऽऽद्धिः संजायते का वा वदत ब्राह्मणोत्तमाः || ७६ || तदन्तरस्य जीवस्य कार्या शुद्धिर्महत्तरैः || ७७ || सिद्धा सा हि विशुद्धिर्मे लिंगधारणदीक्षया || गुरुणा मस्तके हस्ते निक्षिप्त् ज्ञानरूपिणा || ७८ || निर्दग्धं कारणांगं मे तमोरूपं महत्तरम् || तत्रत्या च कला शैवी भावगम्या ततो ऽभवत् || ७९ || भावस्य चित्तजन्यत्वान्मनोगम्या कला परा || सर्वेंद्रियसनाथत्वान्मनसो ब्राह्मणोत्तमाः || ८० || सर्वेंन्द्रियैः सह प्राणैर्नष्टप्रायं मनोऽभवत् || नष्टे मनसि मे प्राणा नष्टा वायुस्वरूपिणः || ८१ || प्राणवर्गेप्रणष्टे तु स्थूलदेहस्तथाऽभवत् || स्थूलसूक्ष्मशरीरस्य कारणं भूतपंचकम् || ८२ || निवातदेशनिर्दग्धपटवत्परिभासते || शुक्लशोणितसंजन्यं शरीरं भौतिकं मम || ८३ || ततो गुरुर्महायोगी कृपावानमितद्युतिः || पृथ्वीस्थाने नकारं च लिंगमाचारसंज्ञकम् || ८४ || जलस्थाने मकारं च गुरुलिंगं महत्तरम् || तेजःस्थाने शिकारं तु शिवलिंगं च शाश्वतं || ८५ || वाकारं पवनस्थाने चरलिंगं शिवात्म्कम् || वियत्स्थाने यकारं च लिंगं प्रासादसंज्ञकम् || ८६ || प्रणवं चात्मनः स्थाने महालिंगं तु चिन्मयम् || कृत्वा मंत्रमयं देहं ससर्जान्यं स्वशक्तिः || ८७ || अतो मंत्रमयस्यास्य प्. ४२) लैंगिकस्य द्विजोत्तमाः || प्राकृतस्येव संस्कारमेनं नांगीकरोम्यहम् || ८८ || वृत्तं || इत्युक्त्वा बसवेश्वरस्तु मुनिभिः श्लाघीयमानः परम् वाक्यं वाक्यविदग्रणीः सुरुचिरं शैवप्रमोदावहं || प्रालेयाचलतुल्यधैर्यकलितस्तस्मिन् स्थितः सस्मितो दन्ताल्युद्गतकान्तिसंचयपरिभ्राजद्दिगंतः क्षणम् || ८९ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेश्वरस्पुराणे स्कंदागस्त्यसंवदे कर्मनिरासो नाम पंचमोऽध्यायः || प्. ४३) षष्ठोऽध्यायः श्रीगुरुभ्यो नमः || अगस्त्य उवाच || ततः किमकरोद्बालो धैर्यवान् बसवेश्वरः || षडानन महाभाग तन्मे ब्रूहि समासतः || १ || कुमार उवाच || एवमुक्त्वा ततो बालः क्षणमेवं व्यचिन्तयत् || तातो मे दुष्टहृदयः पाषंडाचारतत्परः || २ || सर्वदा वशमापन्नो ब्राह्मणानां दुरात्मनाम् || मया संबोध्यमानोऽपि नूनं नैव निवर्तते || ३ || अत्यंतमूर्खहृदयः पापकर्मैकतत्परः || तथापि बोधयिष्यामि सन्मार्गं तु शुभप्रदम् || ४ || इति संचिन्त्य मनसा ब्राह्मणान प्रत्यभाषत || इतिहासं प्रवक्ष्यामि श्रुणुत ब्राह्मणोत्तमाः || ५ || यस्य श्रवणमात्रेण नाशमाप्नोति किल्बिषम् || पुराऽश्वलायनो नाम मुनिः परमधार्मिकः || ६ || अधीत्य चतुरो वेदान् सर्वांगैश्च समन्वितान् || विरुद्धवाक्यश्रवणाद्विषण्णहृदयोऽभवत् || ७ || ततः स चिन्तयामास केन वै तन्निवार्यते || अनेकशाखासंभिन्ना वेदा ब्राह्मणसंस्थिताः || ८ || सत्यलोकं गमिष्यामि पितामहदिदृक्षया || एवं संचिन्त्य मनसा ब्रह्मलोकमवाप सः || ९ || ततश्चतुर्मुखं दृष्ट्वा मुनिभिः परिवेष्टितम् || साष्टांगं प्रणिपत्याशु तुष्टाव प्. ४४) विविधैः स्तवैः || १० || ततः पप्रच्छ धातारं रहस्यं स्वात्मनि स्थितम् || अधीहि भगवन् ब्रह्मन् ब्रह्मविद्यां सनातनीम् || ११ || सेव्यमानां सदा सद्भिर्निगूढां श्रुतिपंजरे || ययाऽचिरात्सर्वपापं व्यपोह्य चतुरानन || १२|| परात्परं तु पुरुषं विद्वानेति महत्तरम् || तस्मै प्रोवाच मुनये भगवांश्चतुराननः ||१३ || श्रद्धाभक्तिध्यानयोगादवेहीमां महत्तराम् || ज्योतिष्टोमादिकर्मौघैः प्रजया च धनेन च || न लश्यते ब्रह्मविद्या त्यागेन मुनिसत्तम || १४ || त्यक्त्वा समस्तकर्माणि मुनयो ब्रह्मवादिनः || प्राप्ताः पूर्वे ऽमृतत्वं तु शिवध्यानपरायणाः || १५ || नाकं हित्वाऽऽत्महृदयगुहामध्ये व्यवस्थितम् || सूर्यकोटिप्रतीकाशं विशंत्येतन्मुनीश्वराः || वेदवेदान्तविज्ञाननिश्चितार्था महत्तराः || १६ || काम्यकर्मपरित्यागः संन्यास इति कथ्यते || तद्योगाद्यतयः प्रोक्ताः शुद्धसत्वाशया जनाः || १७ || बृहत्वाद्ब्रह्मणत्वाच्च शिवो ब्रह्मेति कथ्यते || सूर्यकोटिप्रतीकाशश्चंद्रकोटिसुशीतलः || अर्धमात्रात्मकः श्रीमान् सोमलोक इतीरितः || १८ || ब्रह्मांडस्योर्ध्वभागे तु दीप्यमानो निरामयः || ब्रह्मलोक इति प्रोक्तः सोऽयं लोको महामुने || १९ || प्. ४५) विश्वाकारेण या शक्तिः परिणाममुपैति हि || प्रकृतिः सां परेत्युक्ता मुनिभिः शंसितव्रतैः || अथवा परशब्देन ब्रह्माऽपि परिगीयते || २० || तदन्तकाले संप्राप्ते परस्मादमृताच्छिवात् || लोके विज्ञानिनः सर्वे परिमुच्यन्ति बन्धनात् || २१ || भविसंसर्गरहिते विविक्ते च सुखावहे || सुखासनस्थितः सिद्धः समग्रीवाशिरोऽङ्गवान् || २२ || विरजानलजं भस्म गृहीत्वाऽत्यन्तपावनम् || अग्निरित्यादिभिर्मंत्रैः सप्तभिश्चाभिमंत्रितम् || २३ || शरीरोद्धूलनं कृत्वा त्रिपुंड्रस्य तु धारणम् || रुद्राक्षधारणं चैव षडक्षरजपस्तथा || २४ || धृतेष्टलिंगपूजा च संस्कारः परिकीर्तितः || अत्याश्रम इति ख्यातो मुनिभिस्तत्वदर्शिभिः || २५ || अत्याश्रमस्थः सकलानींद्रियाणि प्रयत्नतः || निरुध्य स्वीयंमाचार्यं भक्त्या संप्रणमेद्बुधः || २६ || हृत्पुंडरीकममलं रजोगुणविवर्जितम् || विशुद्धं पापराहित्याद्विशोकमतिनिर्मलम् || २७ || विचिन्तयेत्स्वहृदयं तस्य मध्ये महामुने || दहराभिधमत्यन्तसूक्ष्मं सुषिरमस्ति हि || २८ || तस्मिन्नचिन्त्यविभवमव्यक्तं परमाद्भुतम् || अनन्तरूपं सर्वेशं शिवं परमकारणम् || २९ || प्. ४६) परात्परतरं चैव महोऽपि महत्तरम् || अणोरपि महादेवमणीयांसं सितप्रभम् || ३० || मृत्युंजयमुदारांगं कालकूटविषाशनम् || अनन्तरूपमव्यक्तं शिवं परमकारणम् || ३१ || अतीतं शांतममृतं वेदानां कारणं परम् || आदिम्ध्यान्तरहितमेकं तच्छब्दबोधितम् || ३२ || अत्यन्त्विभवोपेतं चिदानंदस्वरूपिणम् || अरूपमद्वयं नित्यं शाश्वतं परमेश्वरम् || ३३ || उमासहायं विश्वेशं लोचनत्रितयोज्वलम् || सकलं परमेशानं नीलकंठमनीश्वरम् || ३४ || मुनिर्गच्छति तं ध्यात्वा पंचभूतैककारणम् || सुषुप्तिसाक्षिं सर्वस्मात्तमसः परतः स्थितम् || ३५ || स ब्रह्मा स शिवः प्रोक्तः स एवेंद्रः प्रकीर्तितः || स एवाक्षरसंज्ञश्च स एव परमस्वराट् || ३६ || स एव विष्णुरित्युक्तः स एव प्राणसंज्ञकः || कालः स एव सोऽग्निश्च चंद्रमाश्च स कथ्यते || ३७ || स एव सर्वं यद्भूत यच्च भव्यं सनातनम् || द्यात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये || ३८ || आत्मानं सर्वभूतस्थं सर्वभूतानि चात्मनि || संपश्यन्मुदितो योगी प्. ४७) परब्रह्म निरामयम् || ३९ || विच्छिद्य सकलान् पाशान् याति नान्येन हेतुना || स्वीयमात्मानमरणिं प्रणवं चोत्तरारणिम् || ४० || कृत्वा ध्यानाख्यमथनदण्डं देव महामुने || अत्यन्तमथनेनाग्निं प्रंज्वाल्यानन्यमानसः || ४१ || अविद्याख्यमहापाशं शिवभक्तो दहेत् पुमान् || कर्मणा पाशविच्छित्तिर्नास्ति नास्ति महामुने || ४२ || मायया मोहितात्मा सन्नधिष्ठाय कलेवरम् || करोति सकलं कार्यं चोदितस्तेन कर्मणा || ४३ || कान्ताऽन्नपानप्रमुख्यैर्भोगैर्जाग्रत् प्रतुष्यति || अतः स्वप्नेऽपि जीवोऽयं भोक्ता च सुखदुःखयोः || ४४ || स्वमायाकल्पिते विश्वे विचित्रे तैजसाभिधः || सुषुप्तिकाले सकले विलीने जीव एव हि || ४५ || तमोऽभिभूतः प्राज्ञाअऽऽख्योऽप्येत्ययं सुखरूपताम् || बहुजन्मार्जितानां हि सम्बंधात्पूर्वकर्मणाम् || ४६ || स एव जीवः स्वपितः प्रबुद्धो भवति क्षणात् || जीवः पुरत्रये यस्तु क्रीडते चिन्मयात्मकः || ४७ || विचित्रं सकलं जातं मनोवाचामगोचरम् || आधारं सर्वं प्. ४८) लोकानां सदानंदैकविग्रहम् || ४८ || अखंडबोधं सर्वेशं पश्येत्स्वाभिन्नरूपिणम् || तस्मिन् पुरत्रयं चैव विलयं याति सर्वतः || ४९ || एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च || वियद्वायुस्तथा तेजो ह्यापः सर्वास्तथैव च || ५० || सर्वप्रपंचनिलया भूमिरत्यन्तविस्तृता || यदेतत्परमं ब्रह्म विश्व्स्यायतनं महत् || ५१ || सूक्ष्मात्सूक्ष्मतरं नित्यं तद्ब्रह्म त्वं त्वमेव च || जाग्रत्स्वप्नसुषुप्त्यादि विश्वं यत्र प्रकाशते || ५२ || तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते || त्रिषु धामसु यद्भोज्यं भोक्ता यश्च सनातनः || ५३ || भोगाश्च सर्ववस्तूनामन्नादीनां महामुने || साक्षी विलक्षणस्तेभ्यश्चिदात्माऽहं सदाशिवः || ५४ || एतच्च सकलं विश्वं जातं मययेव तत्वतः || मययेव स्थितिमायाति मयि नाशं समश्नुते || ५५ || अतोऽहमद्वयं ब्रह्म लक्षितं तत्पदेन तु || तदेवाहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते || ५६ || लोके ह्यणुतरं यत्तु ततोऽहमणुरेव हि || महद्भ्यो वियदादिभ्यो ह्यहमेव परो महान् || ५७ || अशेषं विश्वमेतद्धि चाहमेव न संशयः || पुरातनो विशुद्धश्च पुरुषोऽहं हिरण्मयः || ५८ || ईशोऽहं शिवरूपोऽहमभिन्नोऽहं प्. ४९) सदाशिवात् || पाणी पादौ च मे न स्तो ह्यचिन्त्योऽद्भुतशक्तिमान् || ५९ || अचक्षुरेव पश्यामि कर्णहीनः शृणोम्यहम् || विविक्तदेहः सकलं जानाम्येव चराचरम् || ६० || वेत्ता मम न कोऽप्यस्ति चित्स्वरूपः सदाशिवः || अनेकैर्वेदसंघैश्च वेद्योऽहं तु न चापरः || ६१ || अहमेव हि वेदान्तकर्ता वेदान्तविन्मुने || न मे पुण्यं च पापं च मम नाशो न विद्यते || ६२ || मम जन्म शरीरं वा नेंद्रियाणि मतिस्तथा || न मे भूमिर्न चापोऽपि तेजो वायुश्च मे न हि || ६३ || न चाम्बरं च दिक्कालो मनो मम न विद्यते || एवं गुहाशयं साम्बं विदित्वा परमेश्वरम् || ६४ || निष्कलं निष्क्रियं शान्तं सर्वभेदविवर्जितम् || समस्तसाक्षिभूतं च विश्वातीतं निरामयम् || ६५ || प्रयाति परमेशानं सदानन्दैकविग्रहम् || एतद्विद्याभिगमने कारणं शतरुद्रियम् || ६६ || योऽधीते शतरुद्रीयं सोऽग्निपूतो भवेत्पुमान् || सुरापानोदितात्पापाद्ब्रह्महत्योदितादपि || ६७ || गुरुतल्पोपगमनात् पूतो भवति मानवः || तस्माद्विभूतिसंपन्नो भस्मशययामुपेयिवान् || ६८ || प्. ५०) श्रीमत्पंचाक्षरीमंत्रं प्रणवेन षडक्षरम् || ध्यायमानो महामंत्रं शिवलिंगार्चने रतः || मोक्षश्रियमवाप्नोति नात्र कार्या विचारणा || ६९ || अतः कर्म परित्यागान्मोक्षमाप्नोति तत्त्वतः || द्विजाजामिति बालोऽयं बसवेशोऽब्रवीन्मुने || ७० || इति बसवकुमारस्याननओद्गीयमानम् || श्रवणकटु तदानीं ब्राह्मणानामदोषम् || सवनसदति विद्वद्गीयमानं हि सामामरवरनुतियोग्यं राक्षसानामिवासीत् || ७१ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेश्वरपुराणे स्वरूपग्रंथे षष्ठोऽध्यायः || प्. ५१) सप्तमोष्ध्यायः कर्मनिरसनम् अगस्त्य उवाच || एवं श्रीबसवेशेन प्रोक्तं वाक्यं महत्तरम् || तदाकर्ण्य सभामध्ये किमकुर्वन्त ते द्विजाः || १ || एतत्सर्वं महाभाग् विस्तरेण षडानन || सर्वज्ञस्त्वं ममाख्याहि कृपाचेन्मम सांप्रतम् || २ || स्कन्द उवाच || श्रुत्वैतद्ब्राह्मणाः सर्वे बसवेश्वरभाषितम् || पुनः प्रोचुर्दुरात्मानः संशयाविष्टमानसाः || ३ || ब्राह्मणा ऊचुः || बसवेश महाभाग सर्वशास्त्रार्थपारग || अनादिकालमारश्य वर्तते विश्वमिदृशम् || ४ || तत्र जाता महात्मानो व्यासाद्याश्च महर्षयः || किमेतद्धि न नानन्ति यत्त्वया परिभाषितम् || ५ || वैदिकानि तु वाक्यानि समस्तानि म्शामुने || भवदुक्तविरुद्धार्थं वदन्दि बसवेश्वर || ६ || अष्टवर्षं महाभाग ब्राह्मणस्तनयं परम् || पिता चोपनयीतैनं ततश्चाध्यापयीत वै || ७ || एवमेव श्रुतिः प्राह नान्यथा बसवेश्वर || जातकर्ममुखेष्वेषु कर्मसु ब्राह्मणस्य हि || ८ || कर्मोपनयनं श्रेष्ठं तत्त्यागात् पतितो भवेत् || कृतोपनयनः पूतो ब्रह्मचर्यं चरेद्ब्रही || ९ || अधीतवेदवेदांगः सर्वशास्त्रार्थपारगः || अनुज्ञातस्तु गुरुणा लभेद्गार्हस्थयमुत्तमम् || १० || गार्हस्थ्याच्च वनीभूत्वा वानप्रस्थस्तु संन्यसेत् || इत्येतद्वचनं श्रुत्वा ब्राह्मणानां सभान्तरे || ११ || प्राह गंभीरया वाचा प्रहसन्बसवेश्वरः || संन्यासाश्रयणादेतत्कर्मत्यागः परो मतः || १२ || संन्यासाश्रयणान्मर्त्यस्त्ववकीर्णी पतत्यधः || त्रिविधं वैदिदं कर्म चोदनालक्षणं परम् || १३ || नित्यं नैमित्तिकं काम्यं कर्म तत्तत्फलाश्रयम् || पश्वादिकामनां यत्तदधिकृत्य प्रवर्तते || १४ || स्वर्गकामो यजेतेति वाक्यप्राप्तानि यानि वै || उद्भिदादीनि कर्माणि काम्यानि कथितानि वै || १५ || तानि कर्माणि काम्यानि प्रोच्यन्ते वेदवित्तमैः || उपरागे नरः स्नायादिति नैमित्तिकं स्मृतम् || १६ || यावज्जीवबमग्निहोत्रं जुहोतीति वचः परम् || तदेतत्कर्म नित्यं स्याद्यावज्जीवपदश्रुतेः || १७ || तथैवाहरहः संध्यामुपासीतेतिवाक्यजम् || तदेतन्नित्यमित्याहुर्मीमांसान्यायकोविदाः || १८ || यावज्जीवपदं लिप्साकर्म नित्यत्वबोधकम् || प्. ५३) यावज्जीवमिदं कर्म करोमीति सभांतरे || १९ || संकल्प्य कर्मकर्ता यः सत्येव स्वस्य जीवने || प्रव्रजेद्यदि तत्त्यागादवकीर्णी भवेच्च सः || २० || वैधस्यकर्मणस्त्यागो विधिनैअ कृतो यदि || करिष्यति न पातित्यमिति चेत्तदसांप्रतम् || २१ || अतिरात्राख्यसवने षोडशग्रहणग्रहे || आम्नायवाक्यविहितं तत्रैतन्न्यायवर्तनम् || २२ || अंगीकृत्य पुरा कर्म तत्त्यजेद्यदि मध्यतः || अवकीर्णी स विज्ञेयः सर्वशिष्टैकदूषितः || २३ || अंगीकृत्य परित्यागादनंगीकरणं वरम् || एतदालोक्य मुनयो व्यासाद्याश्च महत्तराः || २४ || मौंजीव्रतं परित्यज्य मुनित्वं प्रतिपेदिरे || व्यासस्य जननादूर्ध्वं केनोपनयनं कृतम् || २५ || व्यासजन्म प्रवक्ष्यामि श्रुणुध्वं ब्राह्मणाधमाः || वसिष्ठस्य सुतः पूर्वं शक्तिर्नाम बभूव हि || २६ || तस्यासीत्तनयः श्रीमान् पराशर इति स्मृतः || तत्रासिद्धीवरसुता नौतारणपरायणा || २७ || पद्मपन्त्रविशालाक्षी कांचनांगी मनोहरा || कुचातिभारविनमन्मध्यदेशोपशोभिता || २८ || एकान्ते संस्थितां बालां निरीक्ष्य मुनिसत्तमः || प्. ५४) कंदर्पबाणसंभिन्नहृदयोष्भूत् पराशरः || २९ || मुहूर्तमात्रं संचिन्त्य तामुवाच मुनीश्वरः || त्वयाऽहं रन्तुमिच्छामि द्वीपेऽस्मिन्वरवर्णिनि || ३० || इत्युक्ता मुनिना बाला ह्रिया नतमुखी तदा || पराशरं मुनिश्रेष्ठं प्रत्युवाचाम्बुजेक्षणा || ३१ || कैवर्ततनया चाहं कन्या दुर्गंधसंकुला || दिवा भोगो ह्यसौ दोषः पथिकाश्च सहस्रशः || ३२ || आगमिष्यन्ति मार्गेण न रहस्यं मुनीश्वर || यथा वा वर्तते चित्तं भवतो हि तथा कुरु || ३३ || एवमुक्तस्तया योगी तं द्वीपं तमसाकुलम् || सुगंधयुक्तं तद्देहं चकार मुनिसत्तम्ः || ३४ || न हन्यते ते कन्यात्वं वरं दास्यामि ते प्रिये || इत्युक्त्वा मुनिशार्दूलः संगमं कृतवांस्त्या || ३५ || तदा जज्ञे महाभागः कृष्णद्वैपायनो मुनिः || कमंडलुधरः श्रीमानावृतो मृगचर्मणा || ३६ || हेमपिंगजटाजूटभ्राजन्मस्तकशोभितः || संजातमात्रः सहसा नमस्कृत्वा तदा तयोः || ३७ || ययौ देशान् महापुण्यांस्तपोनिधिसमाकुलान् || तस्योपनयनं केन कृतमेतन्ममोच्यताम् || ३८ || तथा हिमिगिरिप्रान्ते व्याधश्चोरो महानभूत् || धनलोभेन महता जघान ब्राह्मणान् बहून् || ३९ || दैवयोगेन तं देशं सप्तएते मुनयोऽगमन् || प्. ५५) तान्दृष्ट्वा तस्करः क्रूरः शरकोदण्डमंडितः || ४० || चर्मपाशासिकलितो गर्जन्नेवाययौ क्षणात् || आगत्य मार्गमावृत्य मुनीनामूर्ध्वरेतसाम् || ४१ || अतिष्ठत्क्रूरकर्माऽयं कालांजनसमद्युतिः || तदा तु मुनिसामर्थ्यात् पुण्यबुद्धिरजायत || ४२ || || चोर उवाच || के यूयं मुनिशार्दूला भवच्छिष्योऽहमागतः || व्याधान्वये समुत्पन्नः कृपासत्यविवर्जितः || ४३ || बहुनोक्तेन मुनयः किमस्ति कुटिलात्मनः || भवत्संदर्शनेनाद्य स्मुत्पन्ना महामतिः || ४४ || ममाद्यतरणोपायं कारुण्याद्ब्रूत सत्वरं || सत्यं सत्यं पुनः सत्यं यूयं हि गुरुवो मम || ४५ || एवमुक्ता ऋषिवराश्चोरेण विपिनान्तरे || अनुग्रहं ततश्चक्रुर्दयया संप्लुतात्मकाः || ४६ || तदनुग्रहमासाद्य व्याधः क्रूरविचेष्टितः || वल्मीकिरिति विख्यातो मुनिर्मुनिनमस्कृतः || ४७ || बभूव च तदा तस्य संस्कारः केन वा कृतः || एवमन्ये महात्मनो हित्वोपनयनक्रियाम् || ४८ || तपस्वित्वमनुप्राप्ताः सन्ति भूमण्डले शुभे || तेषां तेजोविशेषेण ब्राह्मण्यं समुपस्थितम् || ४९ || प्. ५६) इतीव मम वऋत्तान्तं शिवो गिरिवरात्मजा || नारदाद्या महात्मनो विन्दन्ति परमार्थः || ५० || अतो नांगीकरोम्येतत्कर्मोपनयनाभिधम् || ततश्चोद्वीक्ष्य पितरं बांधवासक्तमानसम् || विनिर्ययौ सभादेशाद्व्याधमध्यान्मृगो यथा || ५१ || इत्युक्त्वा कनकाचलप्रतिनिधिर्धैर्येण दिव्यः पुमान् || पित्रांदिस्वजनेषु हार्दजनितां त्यक्त्वा परां विक्रियाम् || गन्तुं देशिकसंनिधिं च मनसा निश्चित्य तूर्णं ययौ || हित्वा बर्बुरभूरुहान् शुक्र एव प्राप्तो रसलं परम् || ५२ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे कर्मनिरसनं नाम सप्तमोऽध्यायः || प्. ५७) अथ अष्टमोऽध्यायः || बसवेश्वरवियोगिन ब्राह्मणकृत दुःखवर्णम् || बसवेशविवाहः संगमेश्वरदर्शनं च || अगस्त्य उवाच || ब्राह्मणानां सभां हित्वा निर्याते बसवेश्वरे || किममुर्वंस्तदा सभ्याः कर्ममार्गरता द्विजाः || १ || स्कंद उवाच || तस्मिन्बाले विनिर्याते सा सभा न व्यरोचत || वनी वसन्तहीनेव नानाशुकपिकोज्वला || २ || रुरुदुःकेचननात्यन्तं केचित्तूष्णीं व्यवस्थिताः || केचिद्विसमयमापन्नाः केचिच्चिन्तासमाकुलाः || ३ || केचिच्चक्रुनमस्कारं केचिद्बद्धाञ्जलिं ददुः || ददृशुः केचिदित्थं हि बसवेश्वरसूक्तिभिः || ४ || बसवेशो महातेजा विनिर्गत्य सभान्तरात् || फणिहारिमहाभक्तभवनं वृषभध्वजम् || ५ || दृष्ट्वा विवेश भक्तेन तेनार्चितपदद्वयः || वीरमाहेश्वरान्नत्वा तत्रास बसवेश्वरः || ६ || तस्योपनयनं द्रष्टुं बसवेश्वरमातुलः || बलदेव इति ख्यातो धर्मात्मा समुपस्थितः || ७ || स्वप्ने संनिहितस्तस्य सम्गमेशो महाप्रभुः || बलदेव महाबाहो रहस्यं ते ब्रवीम्यहम् || ८ || न हि केवलमर्त्योऽयं भागिनेयस्तवानघ || शिवपारिषदश्रेष्ठो नंदिकेशो महत्तरः || ९ || कुतश्चित्कारणाज्जातः स्वसुर्गर्भात्तिवाधुना || प्. ५८) तस्य या महिषी पूर्वं सुयशा नाम सुंदरी || १० || तव सा पुत्रिका जाता गंगाम्बा लोकपावनी || तां प्रयच्छ महाभाग बसवेशाय धीमते || ११ || इत्युक्त्वान्तर्दधे तूर्णं कूडलीसंगमेश्वरः || बसवेश्वरमासाद्य स्वप्ने किंचिदभाषत || १२ || भो भोः शिष्य महाप्राज्ञ बसवेश महामते || मातुलः प्रातरागत्य यत्तु वक्ष्यति तच्छ्रुणु || १३ || बसवेश्वरमित्युक्त्वा संगमेशस्तिरोदधे || ततः प्रातः समुत्थाय बसवेश्वरमातुलः || १४ || भागिनेयान्तिकं गत्वा बभाषे विनयान्वितः || बसवेश महाबुद्धे ममैतद्वचनं श्रुणु || १५ || तवाहं हितमिच्छामि तस्मान्मद्वचनं हितम् || दास्यामि पुत्रिकां तुभ्यं बालां त्रैलोक्यसुंदरीम् || १६ || अस्मिन्नर्थे संगमेशः साक्षी नान्योऽस्ति कश्चन || इत्युक्त्वा गाढमालिंग्य भागिनेयमरिंदमः || १७ || बलदेवो ययौ तूर्णं विवाहोत्सवतत्परः || तदाश्रीसंगमेशो ऽपि बलदेवसुतां विभुः || १८ || पार्वत्यासहितः शंभुः शिवदीक्षावतींव्यधात् || लिंगधारणमस्याश्च चक्रे कंठे महेश्वरः || १९ || पंचाक्षरी जजापास्याः कर्णयोर्गुरुरूपकः || वृत्तान्तं बसवः श्रुत्वा गंगाम्बायाः शिवोक्तितः || २० || हर्षमाप स्वयं स्वस्रासह नागाम्बया तदा || आहूतो बलदेवेन विवाहार्थं शिवाज्ञया || २१ || प्. ५९) ततस्तु बसवेशोऽपि स्वस्रा नागाम्बयासह || वयस्यैः कतिभिर्युक्तो बलदेवान्तिकं ययौ || २२ || बाह्योद्यानवरे रम्ये तिष्ठन्तं बसवेश्वरम् || इन्द्रमुख्याश्च दिक्पाला भूषयामासुरञ्जसा || २३ || सौवर्णरत्नखचितं किरीटं पाकशासनः || तनूनपात्प्रदत्तानि चांगुल्यामरणानि च || २४ || वैवस्वतप्रदत्ते द्वे सरत्नकटदे तथा || राक्षसेन समानीतां कंठमालां महोज्ज्वलाम् || २५ || वरुणेन समानीतमंगदद्वितयं तथा || पवनेन समानीतं मुक्ताहारचतुष्टयम् || २६ || राजराजप्रदत्तानि कुंडलान्युज्वलानि च || अनर्घ्यरत्नस्थगितमैशानं कटिसूत्रकम् || २७ || रत्नमेकं भालदेशे दधौ श्रीबसवेश्वरः || चंद्रप्रकाशसदृशं दधौ कौशेयमुत्तमम् || २८ || चंद्रःस्वकान्तिनिचयं तन्मुखेच व्यचिक्षिपत् || दिव्यैराभरणैरेवं भूषितो बसवेश्वरः || २९ || ऐंद्रमैरावतं नागमारुरोह वरस्तदा || ततः कुबेरमाहूय दानकर्मण्ययोजयत् || ३० || देवेन्दो वेत्रहस्तः सन्नतिष्टत्तत्पुरस्तदा || विष्णुः परमहर्षेण चचार पुरतः प्रभोः || ३१ || चतुर्मुखः स्वयं साक्षात्सेवाकर्माकरोत्तदा || देवदुदुभयो नेदुर्ननृतुश्चाप्सरोगणाः || ३२ || मन्दारकल्पवृक्षोत्थपुष्पमालोपशोभितम् || प्. ६०) वरमानेतुकामः सन् बलदेवः प्रहर्षितः || ३३ || कस्तूरीलेपसम्फुल्लमुक्ताचूर्णविराजितात् || ध्वजाग्रपटसंछायनिषण्णगणिकोज्ज्वलात् || ३४ || गंगातरंगस.क्म्काशतूर्यघोषसमुज्ज्वलात् || नानातोरणसंघातानानामंगलशोभितात् || ३५ || सुगंधवासिताद्दिव्यकलशादर्शकात् स्त्रियः || बीज्जलं पुरतः कृत्वा निर्ययुः स्वपुरांतरात् || ३६ || तदा महोत्सवं वक्तुं शेषोष्प्यक्षमतां गतः || पुरा हिमवतः प्ष्ष्ठे शिवपाणिग्रहो यथा || ३७ || तथा महोत्सवो जातो मनोवाचामगोचरः || लक्ष्मीवाणीशचीमुख्या अनसूयानलायिका || ३८ || योगिन्योऽरुन्धतीमुख्याः पतिव्रतपरायणाः || भस्मरुद्राक्षभूषांगाः कुंकुमालंकृताः स्त्रियः || ३९ || शिवलिंगधराः शैवव्रतस्थाः शिवलक्षणाः || शिवलिंगधराः सर्वे ब्रह्मविष्ण्वादयः सुराः || ४० || मनुष्यरूपसंछन्ना भस्मोद्धूलितविग्रहाः || सेवां तु बसवेशस्य स्वानुगुण्येन चक्रिरे || ४१ || श्वशुरेण प्रहर्षेण प्रत्युद्यातो वरस्तदा || आयातः पुरमार्गेण पौरैः सर्वैर्निरीक्षितः || ४२ || प्. ६१) आगच्छन्तं वरं श्रेष्ठं दृष्ट्वा पौराः प्रहर्षतः | ववंदिरे प्रणेमुस्तं पुरुषास्ते स्त्रियोऽखिलाः || ४३ || गंगाबयाऽनया साध्व्या पुरा पुण्यं तु किं कृतम् || अयं वपुर्धरः साक्षात्पंचबाणो न चापरः || ४४ || जयन्तो माधवः श्रीमान नलो वा नलकूबरः || गंगाम्बया तपस्तप्तं पूर्वजन्मनि दुष्करम् || ४५ || एवं पौरजनोक्तानि संशृण्वन् बसवेश्वरः || बलदेवस्य निलये गजादवततार सः || ४६ || दत्तहस्तो ऽथ महता विष्णुना दैत्यजिष्णुना || वैत्रहस्तैश्च दिक्पालैः कृतमार्गः शनैः शनैः || ४७ || कक्ष्यान्तराण्याविवेश बलदेवस्य धीमातः || शिवलिंगधरास्तत्र वनिताश्च पतिवरताः || ४८ || लालैरवाकिरन् पुष्पैरक्षतैः शुभदाकैः || स्वस्तिवाचननान्द्यादीन् देवताराधनानि च || ४९ || रक्षाबंधनमुख्यानि कर्माणि विविधानि च || सांकुरारोपणं दिव्यं चकारगुरुसत्तमः || ५० || फलपल्लवसंशोभिविचित्राम्बरभूषणैः || तोरणैर्मुकुरैर्दिव्यैः कलशैर्वज्रनिर्मितैः || ५१ || नानारत्नप्रभादीप्ते चतुःस्तंभैर्विशोभिते || सुरम्ये मंटपे सर्वैरलंकारैर्विभूषिते || ५२ || तत्र सौवर्णरत्नादिखचितायां समंततः || प्. ६२) चंद्रकांतशिलारम्यवेदिकायां यथाविधि || ५३ || कृत्वा रुद्रावाहनानि बलदेवेन् धीमता || बोधितो गुरुवर्यस्तु सद्योजातादिकान्मुदा || ५४ || कलशांभस्थापयत्तत्तन्मंत्रैर्वैदिकलौकिकैः || सुवासिनीभिः सर्वाभिर्गीतं गाथानुबंधकम् || ५५ || विस्तृतं नृत्यगीतादिवाद्यारावविशोभितम् || मंगलाष्टकसंबोधमाहेश्वरगणैस्तदा || ५६ || वरपूजा कृता तत्र काले बंधुसमन्वितः || बलदेवो महाभक्त्या पूजयामास तत्वतः || ५७ || बसवेशं महापूज्यं ज्वलन्तं शैवतेजसा || नम्स्कृत्य ततो देवभक्तानुज्ञानुसारतः || ५८ || सालंकारां सुवेषाढ्यां गंगांबा लोकपावनीम् || इमां कन्यां प्रदास्यामि शंभुरूपाय सांप्रतं || ५९ || वेदिमध्योपविष्टाय बसवेशाय धीमते || तुभ्यं भक्त्या मया दत्तां बालां त्रैलोक्यसुंदरीम् || ६० || गृहाणेमामिति प्रोच्य संकल्ल्पं गणसन्निधौ || सगुडं जीरकं सम्यक् प्रोक्षितं कृतवांस्तदा || ६१ || मालिकाधारणं तत्र कृत्वाऽऽदौ वरयोस्तदा || बलदेवो महातेजाः कारयामास तत्वतः || ६२ || कन्याऽञ्जल्युपरिस्थेतु वरञ्जलितले स्वयम् || दक्षिणापूर्वकं बिल्वदलं चाक्षरसंयुतम् || ६३ || फलं निक्षिप्य हस्ताभ्यां गृहीत्वा क्षीरगोघृतैः || पूर्णं कलशमादाय सपत्न्या परितोषितः || ६४ || प्. ६३) बलदेवो महाभद्रो धारासंकल्पपूर्वकम् || ददौ बसवराजाय गंगांबां सुमुखीः तदा || ६५ || मुहूर्ते लक्षणोपेते यथाशास्त्रे महभत्तरे मांगल्यधारणं कंठे कृतवान् बसवेश्वरः || ६६ || यदुक्तं गुरुणा पूर्वं तथा ब्रह्माऽकरोत्स्वयम् || देवदुंदुभयो नेढुः पुष्पवृष्टिः पपात च || ६७ || कल्पवृक्षप्रसूनानि ववर्षुर्देवतागणाः || ततश्चतुर्मुखः साक्षात् परमेशाज्ञया पुनः || ६८ || गंगाम्बिकाकरग्राहं बसवेशं ततः स्वयम् || प्रणम्य दण्डद्भूमौ तुष्टाव विविधैः स्तवैः || ६९ || *तत्काले धनदो हृष्टो विचित्राम्बरभूषणैः || धनैर्धान्यैर्विचित्रैश्च फलैः पुष्पैर्मनोहरैः || ७० || तोषयामास बसवं सर्वेषां पुरवासिनाम् || देवानामपि दानानि यथेच्छं कृतवांस्तदा || ७१ || वाद्यगीतप्रसंगैश्च नटनासक्तमानसाः || गणिका ननृतुर्नृत्यं रंभोर्वश्यादयस्तदा || ७२ || नाकबल्याख्यकर्माणि कृतानि हि चतुर्थके || दिने हरिद्रया मिश्रवारिणा स्नानमाचरत् || ७३ || प्. ६४) पाणिग्रहोत्सेवजाते बसवेशो महामतिः || दावनुज्ञां दिक्यालप्रमुखानां दिवौकसाम् || ७४ || ततः स्वयं मासमेकमुवासश्वशुरालये || स्वाचार्यं द्रष्टुकामः सन् संगमेशं महेश्वरम् || ७५ || चकार बसवेशस्तु मतिं मतिमतां वरः || अनुज्ञातस्ततो हर्षाच्च्वशुरेण महात्मना || ७६ || स्वस्रा नागाम्बया सार्धं वध्वा गंगाम्बया तदा || अनेकभक्तसंघैश्च सहितः प्रययौ वरः || ७७ || ततो योजनदूरस्थे संगमेशालये परे साष्टांगं दंडवद्भूमौ प्रभणंसीद्भक्तितत्परः || ७८ || नानाऽऽगमस्थैर्वाक्यौघैराचार्यं संस्तुवन् मुदा || आचार्यस्य पुरं रम्यं प्रविवेश दृढव्रतः || ७९ || यत्र स्थिताश्च तरवो सर्वे रुद्राक्षभूरुहाः || यत्र जाता लताः सर्वाः सञ्जीवनलता मताः || ८० || यत्र स्थिता गणाः सर्वे शैवागमविशारदाः शिवलिंगार्चनोद्युक्ता भस्मोद्धूलितविग्रहाः || ८१ || त्रिपुंड्रधारणोत्कंठा धृतरुद्राक्षमालिकाः लिंगांगस्थलतत्वज्ञाः शैवव्रतपरायणाः || ८२ || नार्यः पतिव्रताः सर्वा गुरुशुश्रूषणोत्सुकाः || शिवभक्तार्चनोत्कंठाः शैवलांछनधारिणः || ८३ || यत्र सिद्धाश्रमे व्याघ्रभाल्लूकाद्या न घातुकाः दुर्बलांश्च न हिंसन्ति सर्वे धर्मैकतत्पराः || ८४ || प्. ६५) सिद्धाश्रममनुप्राप संगमेशालयं परम् || संगमेशोऽपि सहसा गुरुमूर्तिधरः परः || ८५ || शिष्यं समागतं शांतं शैवधर्मपरायणम् || प्रत्युज्जगाम दयया बसवेशं सभार्यकम् || ८६ || यद्रूपमास्थितः पूर्वं दीक्षार्थं तु समागतः || तादृशं रूपमास्थाय शिष्यं प्रत्युज्जगाम तम् || ८७ || गुरुं श्रीसंगमेशानं दृष्ट्वा बाष्पाम्बुभिः सह || साष्टांगं प्रणिपत्याशु स्तुत्वा बहुविधैः स्तवैः || ८८ || हर्षगद्गदवाक्यौघैः सहितो बसवेश्वरः || गुरुणा संगमेशेन स्वस्रा च सह भार्यया || ८९ || संगमेशालयं प्राप्य शिवभक्तैरनेकशः || उवास कतिचिन्मासान् गुरुशुश्रूषणे रतः || त्रिसंध्यं वन्दयन्भक्त्या गुरुपादाम्बुजद्वयम् || ९० || वृत्तं || इति बसवकुमारं वीक्षितुं चागतास्ते शिवपदयुगसेवां द्रष्टुमुत्कंठया च || शिववदनसरोजोद्गीतशास्त्रार्थजातं घटभव विदिताः संतस्थिरे तत्र हृष्ताः || ९१ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे कुमाररागस्त्यसंवादे बसवेशगंगाम्बिकाविवाहसंगमेश्वरदर्शनं नामाष्टमोऽध्यायः || प्. ६६) अथ नवमोऽध्यायः || पट्टाभिषेककथाविलासः || अगस्त्य उवाच || शिवपुत्र महाभाग सर्वशास्त्रार्थपारग || तारकप्रमुखाशेषरक्षोगर्वनिवारण || १ || ततः किमभवत्तस्य बसवेशस्य धीमतः || वर्तनं यादृशं तद्धि समासेन वद प्रभो || २ || षडानन उवाच || बसवेश्वरवृत्तान्तं वक्ष्यामि शृणु तापस || बसवेशे महाप्राज्ञे संगमेशान्तिकास्थिते || ३ || महाव्याधिसमाक्रान्तो बलदेवोऽभवन्मुने || सर्वशास्त्रार्थतत्त्वज्ञः सर्वकार्यधुरंधरः || ४ || संपिड्यमानो रोगेण बलदेवो महामतिः || बिज्जलस्यान्तिकं गत्वा रहसीदम्भाषत || ५ || भो भो बिज्जल सर्वज्ञ नीतिशास्त्रपरायण || भवादृशो हि नान्योऽस्ति कार्याकार्यनिरूपणे || ६ || तथापि किंचिद्वक्ष्यामि यद्धि मे प्रतिभासते || दुरासदरुजाक्रान्तो न जीविष्ये न संशयः || ७ || तव साचिव्यकर्मेदं कर्तुं शल्को न चापरः || बसवेशकुमारोऽयं सर्वकार्यविशारदः || ८ || सर्वशास्त्रार्थतत्वज्ञः सूक्ष्मदृष्टिर्वराननः || गुरुशुक्रसमादिष्टनीतिकार्यविदग्रणीः || ९ || सूक्ष्मकार्यविचारज्ञः परमर्मविदुज्ज्वलः || स एव सचिवस्तेऽद्य भवतीतीह भासते || १० || प्. ६७) प्रेषयित्वाऽतिकुशलांस्त्वदाप्तान् मंत्रिसत्तमान् || तमानय महाराज सर्वं स्वस्थं भविष्यति || ११ || तस्मिन्मंत्रिवरे जाते वसुधा सफला भवेत् || बोधितो मंत्रिवर्येण बलदेवेन धीमता || १२ || बिज्जलः सर्वमालोच्य तथैव करवाण्यहं || प्रतिश्रुत्यानघान् सर्वान् कार्याकार्यविचक्षणान् || १३ || सूक्ष्मसंदर्शनान् शांतान् कौटिल्यपरिवर्जितान् || आहूय मंत्रिणो वृद्धान् प्राह गंभीरया गिरा || १४ || संगमेशान्तिके बालो धीरोदात्तः प्रतापवान् || ज्वलज्ज्वलनसंकाशः कोटिसूर्यसमद्युतिः || १५ || बसवेशो महाप्राज्ञं बसवेशं महामतिम || अनुनीय च यत्नेन ह्यानयध्वं मदन्तिके || १७ || इति तेन समादिष्टा मंत्रिणो ययुरञ्जसा || ते तु गत्वा महदेवं संगमेशं निरीक्ष्य च || १८ || तस्योत्सवं समाचक्रुर्यथाविधमविस्तरम् || तं प्रणम्य वृषेशानं मंत्रिणस्ते व्यनिज्ञपन् || १९ || ततस्त्वामंत्रितास्सर्वे राजाज्ञां मस्तके धृताः || आनेतुकामा देवेश त्वदन्तिकमुपागताः || २० || प्. ६८) महाराजान्तिकं शीघ्रं गच्छत्वमधुना प्रभो || इत्युक्त्वा बसवेशस्य रहसीदं बभाषिरे || २१ || बसवेश महाभाग श्वशुरस्ते दिवं गतः || बिज्जलोऽपि महाराजः मीर्तिसत्यप्रतापवान् || २२ || बलदेवाधिपत्ये त्वां निश्चिकायाभिषेचितुम् || तदादिष्टा वयं सर्वे त्वामानेतुं समागताः || २३ || आयाहि कृपया स्वामिन् सर्वरक्षाधुरंधर || इत्युक्त्वा बिज्जलेंद्रेण दत्तवस्त्रविभूषणम् || २४ || निवेद्य विनयोत्कर्षाद्धर्षमापुस्तदन्तिके || इति तेषां वचः श्रुत्वा समंगीकृत्य मानसे || २५ || बसवेशस्तदा तेभ्यः प्रत्युवाच यथोचितम् || मंत्रिवर्या महाभागाः शृणुध्वं वचनं मम || २६ || अनुल्लंघ्या शिवाज्ञा हि यत्काले यदुपस्थितम् || तत्काले तदनुष्ठेयमिति वृद्धमुखाछ्रुतम् || २७ || अतः प्रातः समुत्थाय गुरोराज्ञामवाप्य च || वयं सहैव गच्छामस्तिष्ठध्वमधुनाश्ह्रमे || २८ || विसृज्य मंत्रिणः सर्वान् बसवेशो महामतिः || एकाकी सत्यसंधश्च गुरुध्यानपरायणः || २९ || प्रविश्य च गुरोः स्थानमेतत्सर्वं न्यवेदयत् || संगमेशस्तदाकर्ण्य सर्वज्ञोऽप्यज्ञवत्स्वयम् || ३० || प्रहसन्निव संतुष्टो बभाषे बसवेश्वरम् || गच्छ गच्छ महाप्राज्ञ श्रीघ्रं त्वं बिज्जलान्तिकम् || ३१ || प्. ६९ ) मयोपदिश्यमानार्थं कदाचिन्न हि विस्मर || प्राणात्ययेष्पि संप्राप्ते मा त्यज त्वं महामते || ३२ || अंगीकृतं व्रतं सर्वं शैवं सर्वार्थदं परम् || मा कुरु त्वं प्रमादेन पंक्त्भेदं च नित्यशः || ३३ || भक्तसंप्रार्थितं सर्वं महार्घ्यमपि पुत्रक || विसृज्य लौभ्यं सर्वज्ञ तस्मै तद्देहि भूर्यपि || ३४ || विसृज्य शिवभक्तौघान् मा भुंक्ष्व त्वं कदाचन || लिंगार्चनव्रतं त्यक्त्वा व्रतान्यन्यानि मा कुरु || ३५ || हित्वा शैवान् महाभागान् भविनो माऽर्चय प्रभो || आशास्यमानं भक्तौघैर्दासभावेन देहि तत् || ३६ || भक्तादानात्परं नास्ति मोक्षकारणमुत्तमम् || भक्तानां संकटे प्राप्ते प्राणत्यागैककारणे || ३७ || त्वत्प्राणानपि संत्यज्य भक्तरक्षापरो भव || कुपिताञ्शिवभक्तांस्तान्माऽवमन्यस्व सर्वथा || ३८ || शिवभक्तामानेन श्रेयो नश्येन्न संशयः || प्रतिकूलेषु भक्तेषु शान्तस्त्वं भव सर्वदा || ३९ || न शान्तिसदृशं वस्तु त्रिषु लोकेषु विद्यते || प्. ७०) शान्तो दान्तस्तितिक्षुश्च मोक्षमार्गरतो भवेत् || ४० || शिवलिंगप्रसादे च प्रसादे देशिक्स्य च || चरमूर्तेः प्रसादे च पाराङ्मुख्यं च मा कुरु || ४१ || किमत्र बहुनोक्तेन शैवधर्मास्तु ये स्मृताः || प्रायश्चित्तं तद्विलोपे प्रसादस्वीकृतिर्मता || ४२ || अतः प्रसादवैमुख्यात्तपोहानिर्भविष्यति || स्थावरेष्वपि लिंगेषु यदा भ्रंशो विजायते || ४३ || साहाययं तत्र कुर्वीत यथा शक्त्यतिभक्तितः || तत्र प्रसादग्रहणं नेष्टं स्याल्लिंगधारिणाम् || ४४ || ये निंदिता गौतमेन महता च दधीचिना || दाक्षायण्या नंदिना च तथा चैवोपमन्युना || ४५ || वीरभद्रेण महताऽप्यगस्त्येन महात्मना || भृगुणा च कुमारेण विघ्नेशेन गणेश्वरैः || ४६ || कणादप्रमुखैः शप्ता योगिभिर्नारदादिभिः || तन्नेक्षेतार्चनाकाले बसवेश महामते || ४७ || गुरुणा निर्मितं लिंगात्परो गुरुः || जंगमानुग्रहेणैव तत्सामर्थ्यं गुरोः स्मृतम् || ४८ || अतः प्रतिदिनं वत्स जंगमानर्चयादरात् || देशिकस्य तनुं देहि लिंगस्य च मनस्तथा || ४९ || जंगमानां धनं देयमिति शास्त्रस्य निश्चयः || प्. ७१) स्थावरेषु च लिंगेषु न गृण्हीयात्प्रसादकम् || ५० || त्वमेव सूक्ष्मया दृष्ट्या शैवान् धर्मान् समाचर || एवमूचे संगमेशः शिष्टं प्रस्थापयस्तदा || ५१ || गुरोरनुग्रहं लब्ध्वा बसवेशस्तदा मुदा || प्रणम्य संगमेशं तं सपत्नीको वृषेश्वरः || ५२ || स्वस्रा नागाम्बया युक्तः प्रयातः सर्वसिद्धिदः || बुज्जलप्रेषितैः सर्वैश्चतुरंगबलैर्वृतः || ५३ || महान्तं गजमारुह्य ययौ श्रीबसवेश्वरः || दिनत्रितयगंतव्यं मार्गमागत्य बिज्जलः || ५४ || प्रत्युद्ययौ तदा तूर्णं बसवेशं महोज्ज्वलम् || अन्योन्यवाक्यसंरंभावभूतां वृषभूभुजौ || ५५ || उभावपि गजारुढौ बहुभूषणभूषितौ || अवरुह्य गजाभ्यां तु विजनं देशमास्थितौ || ५६ || तत्रोपविश्य राजाऽयं बसवेशमथाब्रवीत् || बसवेश महाप्राज्ञ शृणु मद्वचनं परम् || ५७ || बलदेवो यथा पूर्वं शशास पृथिवीमिमाम् || धर्ममार्गैकनिरतः शाठ्यकापट्यवर्जितः || ५८ || तथात्वमपि भो मंत्रिन् पालयेदं जगत्परम् || कोशागारमिदं सर्वं त्वदायत्तं न संशयः || ५९ || बलानि चतुरंगानि त्वदीयानि न संशयः || इमेऽपि मंत्रिवृद्धाश्च त्वदाज्ञाकारिणः सदा || ६० || बहुनाऽत्र किमुक्तेन रजा बसवेश्वर || प्. ७२) त्वदाज्ञया प्रवर्तेऽहं नात्र कार्या विचारणा || ६१ || बिज्जलेनैवमुक्तस्तु मुमोद बसवेश्वरः || राजाऽपि बसवेशश्च समागत्यातिहर्षितौ || ६२ || यथापूर्वं गजारूढौ चतुरंगबलैर्युतौ || देवेन्द्रगीष्पतीवोभौ शोभमानौ तदा परम् || ६३ || ततः कल्याणनगरं संप्राप्तौ राजमंत्रिणौ || स्वांतःपुरं ययौ राजा नानासंपत्समृद्धिमत् || ६४ || सकलैश्वर्यसंपन्नं सर्वमंगलकारणम् || बलदेवगृहं रम्यं विवेश बसवेश्वरः || ६५ || || वृत्तं || तत्र श्रीबसवेश्वरः पुरजनान् द्र्ष्टुं समभ्यागतान् कांश्चित्स्वर्णविचित्रवस्त्रनिचयैर्वीटीप्रदनैर्बहून् || गंभीरैर्वचनैर्विभूषणचयैः संभावयंस्तां निशां निन्ये स्वल्पतरां कथाभिरनघैः शैवीभिरत्युज्ज्वलः || ६६ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे पट्टाभिषेककथाविलासो नाम नवमोऽध्यायः || प्. ७३) अथ दशमोऽध्यायः || श्रीगुरुभ्यो नमः || बिज्जलनीतिप्रबोधनम् || अगस्त्य उवाच || ततः प्रभातवेलायामुत्थितो बसवेश्वरः || प्रातःकृत्यं विधायाथ किं चकार वद प्रभो || १ || स्कन्द उवाच || अनेकमंत्रिभिः सार्धं चतुरंगबलैर्युतः || राजागारं ययौ तूर्णं राजा प्रत्युद्ययौ ततः || २ || बसवेशः समं राज्ञा विवेशास्थानमंदिरम् || अथोपविष्टं मंत्रीशं राजा वचनमब्रवीत् || ३ || बसवेश महाभाग तेजसाऽऽदित्यसंनिभ || शिवभक्तिः दृढीकर्तुमवतीर्णो महीतलम् || ४ || शैलादिरेव त्वं सत्यं नात्र कार्या विचारणा || नोचेत्तव महादेवः संगमेशः कृपानिधिः || ५ || आगत्य गुरुरूपेण कथं दिक्षां तव क्रियात् || पूर्वं तु बलदेवेन श्वशुरेण तवानघ || ६ || परामृश्य यथान्यायं मम राज्यं तु शासितम् || शाधि राज्यमिदानीं त्वं सर्वसंपत्समृद्धिमत् || ७ || कोशपूर्णा गृहाः सर्वे चतुरंगबलं तथा || इमे च मंत्रिणः सर्वे चिरकालमुपस्थिताः || ८ || त्वदीयमेतत्सर्वं हि नात्र कार्या विचारणा || असाधु सधु वा कार्यनालोच्य त्वयानघ || ९ || मया न क्रियते नूनमत्र साक्षी परः शिवः || प्. ७४) एतद्वचनमाकर्ण्य बसवेशः शनैर्हसन् || १० || प्रोवाच मधुरं वाक्यं महाराजसभान्तरे || देशदेशान्तरेभ्यस्तु शिवभक्ता मनस्विनः || ११ || मामुद्दिश्यागमिष्यन्ति तेषां त्वत्पुरवासिनाम् || जनानां कलहे प्राप्ते भक्तेष्वापादयंत्यघम् || १२ || तव क्रोधो हृदि भवेद्दुष्प्रधर्षाश्च ते स्मृताः || तेन व्याकुलितं सर्वं भवेद्राज्यं महीपते || १३ || कोशागारस्थितं द्रव्यं सर्वं बसवमंत्रिरात् || भक्तेभ्य एव प्रददौ नाना मणिगणोज्ज्वलम् || १४ || इतीर्ष्यया वदिष्यन्ति तवैते मंत्रिसत्तमाः || तेन जायते ते क्रोधो मयि दोषविवर्जिते || १५ || मम्यक्परीक्षणीयं तत्सहसा मा कुरु प्रभो || यद्यनानोचितं कार्यं करोषि प्रभुसत्तम || १६ || विगणयय च तत्सर्वं विनिवेद्य तव प्रभो || नाहं वसामि राज्येऽस्मिन् प्रतिश्रुतमिदं मया || १७ || बसवेशेनैवमुक्तो बिज्जलः प्रभुसत्तमः || तथैवाहं करिष्यामीत्येतद्वचनमब्रवीत् || १८ || समागत्य ततस्तूर्णं स्वगृहान् बसवेश्वरः || भक्तसंघैः प्रमुमुदे षट्स्थलज्ञानवित्तमैः || १९ || स कदाचित्सभामध्ये समासीनः शुचिस्मितः || भक्तप्रियतरं वाक्यमुवाच बसवेश्वरः || २० || प्. ७५) यद्यदिष्टं हि भक्तानां प्रार्थितं शैवसत्तमैः || दास्याम्यहं तत्तदर्थं लोभमोहविविर्जितः || २१ || न दास्ये यदि लोभेन भक्तैः संप्रार्थितं धनम् || संगमेशपदद्रोहपापोऽहं न संशयः || २२ || इति प्रतिश्रुतं वाक्यं श्रुत्वा देशांतरस्तिथाः || शिवभक्ता महात्मनो नानावर्णसमुद्भवाः || २३ || वृषध्वजा वृषारूढा भस्मोद्धूलितविग्रहाः || सुवर्णसूत्रसंशोभिस्वर्णपेटिविराजिताः || २४ || रुद्राक्षमालाभरणा रुद्रध्यानपरायणाः || केचिज्जटाधराः शंताः केच्चित्राम्बरावृताः || २५ || धृतकाषायकंथाश्च केचित्कौपीनधारिणः || प्राणलिंगार्चकाः केचिदिष्टलिंगैकतत्पराः || २६ || केचित्पंचाक्षरासक्ता मौनव्रतधराः परे || भविसंदर्शनाः केचित्केचिद्भविपराङ्मुखाः || २७ || एवं बहुविधा भक्ता नाना देशेष्.ववस्थिताः || कल्याणनगरं तूर्णमाययुर्भक्तसत्तमाः || २८ || दृष्ट्वा तानागतान् भक्तन् बसवेशो दृढव्रतः || प्. ७६) अर्घ्यपाद्यादिभिः सर्वैः पूनयामास भक्तितः || २९ || हृदालवालजनितां भक्तिकल्ल्ल्पलतां पराम् || शिवध्यानदृढोपघ्नां काम्यसिद्धिप्रदायिनीम् || ३० || चरपादाम्बुसंसेकाद्वर्धयित्वा मनोरमाम् || प्रसाददोहलं दत्वा फलितामकरोत्प्रभुः || ३१ || वृत्तम् || नानादेशसमागतान् शिवपदध्यानैकनिष्ठापरान् नानावर्णसमुद्भवान् शिवमुखोद्गीतागमज्ञानिनः || साक्षाच्छ्रीबसवेश्वरो गणमनः संकल्पितार्थप्रदस्त्वेतान् भक्तगणान् शिवेति च धिया संपूजयामास सः || ३२ || प्. ७७) इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे परमरहस्ये कुमारागास्त्यसंवादे बिज्जलनीतिप्रबोधनं नाम दशमोऽध्यायः || प्. ७८) अथ एकादशोऽध्यायः श्रीगुरुभ्यो नमः बसवेश्वरस्तुतिः || अगस्त्य उवाच || षडानन महाभाग भक्तत्राण परायण || भूयोऽपि श्रोतुमिच्छामि माहात्म्यं बसवेशितुः || १ || कुमार उवाच || कामितार्थप्रदानेन राजयोग्योपचारकैः || अर्चयामास बसवः शिवभक्तान् दृढव्रतान् || २ || अष्टांग्योगनिरतान् शैवशास्त्रविशारदान् || सुवर्णभूषणैः सर्वैर्नानारत्नविचित्रितैः || ३ || स्वर्णाम्बरैर्विचित्रैश्च गंधैर्मृगमदादिभिः || विशुद्धखादिरोपेततांबूलैरतिशोभनैः || ४ || एवंविधोपचारैश्च पूजयामास मंत्रिराट् || भक्तद्वादशसाहस्रं कल्याणनगरे शुभे || ५ || न्यवसद्गणिकागेहेष्वन्यकार्यविवर्जितम् || कमतंत्रविधानज्ञं सुरतासक्तमानसम् || ६ || स्वर्गांगनारतोविश्वामित्रसमं परम् || अन्नपानादिकं सर्वं बसवेशो वदान्ययाट् || ७ || प्रेषयामास सद्भक्त्या वेश्यागाराणि सर्वदा || यद्यदिष्टं हि भक्तानां ददौ तत्तदतंद्रितः || ८ || बसवेशस्वसा रम्या नागाम्बा वरवर्णिनी || शिवार्चनपरा नित्यं शिवभक्तार्चने रता || ९ || तस्यास्तु तनयो जज्ञे श्रीचन्नबसवेश्वरः || गुरुणा बसवेशेन कृतदिक्षो मुदान्वितः || १० || प्. ७९) गुरुपादाम्बुजध्याननिस्ठावान् बुद्धिमान् परः || सर्वांगलिंगसाहित्यशोभमानो महामतिः || ११ || अत्यन्तहेयसंसारसंसर्गेण विवर्जितः || दुष्टपाषंडजनतागर्वतूलतनूनपात् || १२ || पुरातनशिवाचारवर्तनोत्सुकमानसः || अत्यन्तसारगुणवान् गुर्वन्वेषणतत्परः || १३ || मृदुसंभाषणरतः सत्सु कारुण्यतत्परः || लिंगासक्तमना. शुद्धो लिंगपूजापरायणः || १४ || वेदवेदान्ततत्वज्ञ सर्वागमविशारदः || प्रारब्धसंचितागामिकर्मषंडविवर्जितः || १५ || बाह्याभ्यन्तरशत्रूणां निषुदनपटुः प्रभुः || संसारपाशनाशेन ज्ञानसंपादेन च || १६ || प्. ८०) संपाद्यान्तरनैर्मल्यौपकारकृतात्मकः || भ्कतस्नेहपरो नित्यमात्मयोगरतः सदा || १७ || सत्यालापैककुशलो धीरः सत्यप्रतापवान् || विनष्टपापसंघातः प्रतीक्षणपरः शिवः || १८ || जितेंद्रियो जितक्रोधः शुद्धसत्वश्च कीर्तिमान् || शिवप्रसादनिरतः शिवलिंगार्चने रतः || १९ || एवं भूतोऽतिमहिमा नित्यं संववृधे सुधीः || बसवेशपदाम्भोजपूजातत्परमानसः || २० || शिवपूजान्तवेलायां रोमांचिततनुर्भृशम् || हर्षेण गद्गदगलो ह्यानंदाश्रुभिरावृतः || २१ || निजलिंगविलीनात्मप्राणसंचयवान् परः || लिंगे स्वप्राणनिचयं निर्मथ्यात्यन्तयत्नतः || २२ || स प्रसन्नानुभूत्युत्थसुखसंधानतत्परः || चित्तशुद्धिधरोऽत्यन्तं सर्वकर्मविवर्जितः || २३ || गुरोरनुग्रहेणैव मर्कटन्यायमास्थितः || प्. ८१) लिंगधारणदीक्षादिफलवाप्त्यनुमोदितः || २४ || यथा शुकः समागत्य वृक्षाणां फलमश्नुते || तथा स्वयं फलं प्राप्तः श्रीचन्नबसवेश्वरः || २५ || गुरुप्रसादस्वीकारपारवश्यमुपेयिवान् || प्राणो लिंगं प्रासादश्च शरीरं महितद्युतेः || २६ || भक्तिरेव मनः स्वीयमन्यत् किंचन नास्ति हि || यत्सौख्यं शिवभक्तानां तत्तस्य धनमुच्यते || २७ || एतत्समष्ट्या जातोऽयं श्रीचन्नबसवेश्वरः || शिवतत्त्वपरिज्ञात् प्राकृतस्तुत्यगोचरः || २८ || जातस्यास्य तु माहात्म्यं वेद श्रीबसवेश्वरः || बसवेश्वरमाहात्म्यं वेत्त्ययं बसवेश्वरः || २९ || एवं तुष्टुवुरत्यर्थं शिवभक्ता जितेन्द्रियाः || श्रीचन्नबसवो भक्त्या तुष्टाव बसवेश्वरम् || ३० || शाश्वताय नमस्तुभ्यं सर्वज्ञाय नमो नमः || अशेषसद्गुणाढ्याय विश्वेशरगुरवे नमः || ३१ || सद्यः प्रसन्नानवद्यवेदान्तार्थविदे नमः || सद्भक्तिवित्तजनितमोक्षदाय नमो नमः || ३२ || परंज्योतिः स्वरूपांगदीप्यमानाय ते नमः || ब्रह्मांडानामशेषाणां सृष्टिस्थित्यंतहेतवे || ३३ || प्. ८२) सकलाय नमस्तुभ्यं निष्.कलाय नमो नमः || आदिमध्यान्तरहितनित्यज्योतिःस्वरूपिणे || ३४ || विद्यात्मने नमस्तुभ्यं विद्यादात्रे नमो नमः || षडध्वातीतरूपाय महापापौघनाशिने || ३५ || मोक्षप्रदानकृद्रम्यवीक्षणाय नमो नमः || अज्ञानध्वांतविध्वंसभास्कराय नमो नमः || ३६ || शिष्यमस्तकविन्यस्तज्ञानहस्ताय ते नमः || अशेषशिष्यसंप्राप्तप्रसादाय नमो नमः || ३७ || अनेकभक्तसंघातहृत्पद्मस्थाय ते नमः || भक्तरक्षाप्रवृत्ताय भवसंहारिणे नमः || ३८ || तत्त्वम्सयादिवाक्यार्थलिंगांगैक्याय ते नमः || तत्त्वात्मने श्रीगुरवे बसवाय नमो नमः || ३९ || || वृत्तं || एवं स्तुतः श्रीबसवेश्वरोऽपि नागांबिकागर्भसमुद्भवेन || प्. ८३) संतोषमाप स्वयमंतरंगे यथा हविष्मान् बहुसामगीर्भिः || ४० || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेश्वरपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे बसवेश्वरप्रशंसा नाम एकादशोऽध्यायः || प्. ८४) अथ द्वादशोऽध्यायः श्रीगुरुभ्यो नमः प्रभुसमागमन-तृप्तिकरणम् || अगस्त्य उवाच || श्रीचन्नबसवेशेन संस्तुतो बसवेश्वरः || ततः किमकरोद्धीरस्तन्मे ब्रूहि षडानन || १ || स्कंद उवाच || एवं संस्तुत्य बसवं श्रीचन्नबसवेश्वरः || गुरुध्यानपरो नित्यंतूष्णीमेव व्यवस्थितः || २ || अथास्मिन्नन्तरे योगी प्रभुर्नाम महातपाः || अणिमादिगुणोपेतो वियन्मात्रशरीरकः || ३ || ब्रह्मांडानि समस्तानि त्विंद्रजालसमानि हि || संप्रेक्स्ऽमाणः सततं दृढवैराग्यमास्थितः || ४ || अनुग्रहपरो नित्यं दयावानमितद्युतिः || अंतकान्तकसन्मूर्तिरसमानयशाः परः || ५ || निर्मूलितोद्रिक्तमलः पुण्यपापनिकृन्तनः || दृढभक्तिसमायुक्तः संसारगुणवर्जितः || ६ || दूरस्थितानां वस्तूनां द्रष्टा योगविदुत्तमः || प्रतिग्रहैकविमुखमानसः करुणानिधिः || ७ || समलिष्ठसुवर्णश्च तुल्यनिम्दास्तुतिः शुचिः || शत्रुमित्रसमः श्रीमांस्तुल्यो मानावमानयोः || ८ || प्. ८५) सप्तधातुमदोद्रेकसर्वावगुणवर्जितः || प्रभुश्चिद्रूपदीपोऽसावंधकारिस्वरूपभाक् || ९ || कालसंकल्परहितो विकल्पगुणवर्जितः|| महेंद्रजालसदृशप्रपंचोन्मूलनक्षमः || १० || परमानंदजलधिनिमज्जन्मानसः परः || रक्तवर्णसमाक्रांतजटाभूषितमस्तकः || ११ || अनिमेषसुधास्यंदिदिव्यदृष्टिसमंचितः || सामागानप्रियो नित्यं सच्चिदानंदविग्रहः || १२ || अन्तर्योगरतः श्रीमान् योगतत्वस्वरूपवित् || अनन्तवेदवेदान्तवेद्यमानो महामतिः || १३ || सनामो नामरहितो निःशरीरः शईर्यपि || शब्दगम्योऽप्यशब्दोऽयं भावाभावविवर्जितः || १४ || द्वैतयोगक्रियाद्वैतयोगातीतक्रियान्वितः || लिकत्रयीलक्ष्यमाणो भक्तिसर्वस्वरूपभृत् || १५ || सर्वकार्याणि संत्यज्य लिंगरूपनिरीक्षणः || लिंगेक्षणानन्दकेल्या विस्मृतात्मस्वरूपवान् || १६ || समायातः प्रभुः श्रेष्ठो बसवेशगृहान् प्रति || प्. ८६) निम्नोन्नतप्रदेशेषु समानगतिरादरात् || १७ || आगच्छन्तं प्रभुं दृष्ट्वा सर्वे दूरमुपागताः || स्थावरैर्दत्तमार्गोऽयं कोऽयं स्यादिति शंकया || १८ || तुष्टुवुर्विविधैः स्तोत्रैर्जनाः सर्वे पथि स्थिताः || बसवेश्वरसद्भक्तिसिंधावुज्जृंभिते सति || १९ || तद्वीचिमध्यसंलग्नदृश्यमानतरिर्यथा || प्रभुः समाययौ तूर्णं साक्षात्परशिवो यथा || २० || यथेक्षते शिलामध्ये रत्नं रत्नपरिक्षकः || बसवेशो निश्चिकाय प्रभुः लोकैकवर्जितम् || २१ || ननाम दंडवद्भूमौ बसवेशो गुरुं यथा || बसवेशकरानीतं रत्नसिंहासनं परम् || २२ || आरुरोह प्रभुः श्रीमान् कैलासमिव शंकरः || प्रभोरंगप्रभाः सर्वाश्चतुर्दिक्षु चकाशिरे || २३ || सजीवो जीवरहितः सक्रियो निष्.क्रियस्तथा || प्रभुः स मोदते सर्वान् पश्यन् सन् ज्ञानचक्षुषा || २४ || पुरापि जिजचिल्लिंगमेव प्राणो न चापरः || चेष्टाहीनश्चेतनोऽपि ख्याति हीनोऽपि संस्तुतः || २५ || प्. ८७) वाचामगोचरमहाशपथश्चिन्मयाकृतिः || अशेषजनचित्तौघध्यानचित्तः परात्परः || २६ || गुणाक्रान्तो गुणैर्हीनो विभक्तो ह्यक्षराकृतिः || एतादृशो महाभागः प्रभुर्लोकैकविश्रुतः || २७ || सिंहासने सुखासीनो विरराज महारुचिः || बसवेशोऽपि सद्भक्तो ननाम प्रभुसत्तमम् || २८ || हर्षगद्गदकंठः सन् तुष्टाव विविधैः स्तवैः || तूर्येषु वाद्यमानेषु नदत्सु पटहेषु च || २९ || ननृतुर्गणिकाः सर्वा जगुर्वैतालिकाः परे || वीणाक्कणनशब्दौघैर्मूर्छितोऽभूद्दिशं गणः || ३० || एवंविधोत्सवे काले बसवेशो नयान्वितः || प्रभोरन्तिकमासाद्य ययाचे भृत्यवत्स्वयं || ३१ || नीराजनकरांभोजपरिवारेण संवृतः || भो भो प्रभो महाभाग शिष्यसंघो मया सह || ३२ || आगच्छ शिवपूजार्थं पूजागारं महत्तरम् || एवं संप्रार्थ्यमानः सनाययौ प्रभुसत्तमः || ३३ || आगच्छन्तं महाभागं प्रभुं लोकैकपूजितम् || विचित्ररंगवल्लीभिर्बह्वीभिः परिशोभिते || ३४ || प्. ८८) सदीपदीपिकास्तम्भसहस्रशतदीपिते || कर्पूरदीपसंघैश्च परितः परिशोभिते || ३५ || सुगंधनिच्योपेतादिव्यधूपैश्च धूपिते || संक्रान्तचित्रपुष्पौघहेमपात्रविराजिते || ३६ || भोजनायतने रम्ये रत्नपीठे महत्तरे || बसवेशो भृत्यभावादुपावेशयदास्थितः || ३७ || हेमपात्रं समानीय भक्ष्यभोज्यादिपूर्वकम् || स्थापयामास पुरतः प्रभोरमिततेजसः || ३८ || सुरीयचमषययाख्यः शिवभक्तो दृढव्रतः || सव्यंजनान्नं मृदुलं सहस्तपरिमाणकम् || ३९ || यथा शिवाय प्रददौ भक्तितो लिंगमूर्तये || तथैव बसवेशोऽपि प्रभवे गुरुमूर्तये || ४० || स्वहस्तेन पृथक्कृत्य ह्यन्नं सव्यंजनं ददौ || बसवेश्वरहस्ताग्रदत्तमन्नं महोज्ज्वलम् || ४१ || गृह्णन् प्रभुः स बुभुजे विश्वरूपधरः परः || सहस्राणां शतेनैव तथाऽशीत्या च संख्यया || ४२ || संख्येयानां गणानां तु पर्याप्तं प्राशनाय तत् || पक्कं तदन्नमखिलं नालं तस्य प्रभोस्तदा || ४३ || सर्वस्मिन्नन्नजाते तु प्रकीर्णे बसवेश्वरः || प्रभुं शिवं विनिश्चित्य भोक्तारं भक्तिनम्रधीः || ४४ || अशक्तोऽहममुष्यान्नं प्रभोर्दातुं महौजसः || इति निश्चित्य बसवः कार्याकार्यविमुढधीः || ४५ || प्. ८९) उपहारे ततश्चक्रे शरीरं निजमंजसा || तद्दत्तात्मोपहारेण प्रभुः संतोषमाप्नुयात् || ४६ || ततः सर्वेषु सद्भक्तास्तुष्टुवुर्बसवेश्वरम् || अहो प्रभोस्तु माहात्म्यम् मनोवाचामगोचरम् || ४७ || १ यश्चान्तकाले संप्राप्ते सांबः सत्यादिलक्षणः || चराचरस्य बिश्वस्य चात्मा भवति निश्चयात् || ४८ || २ यस्य च ब्रह्मविष्णू तावूभे भवति जीवने || उपसेचनतां याति मृत्युः सर्वविनाशकृत् || ४९ || तादृशोऽपि महाभागः प्रभुः स्वातंत्र्यजृंभितः || आयातो भक्तिमात्रेण बसवेशस्य दृश्यताम् || ५० || गत्वा तमनुगृह्णाति सद्भक्तं बसवेश्वरम् || भक्तिमात्रेण साध्योऽयं नान्यमार्गेण किंचन || ५१ || इति तं तुष्टुवुः सर्वे तत्रत्या भक्तसत्तमाः || स्वयं तुष्टाव बसवं कारुण्यात्प्रभुसत्तमः || ५२ || बसवेश महाभाग भक्तिसंत्राणकारण || स्वकीर्तिचंद्रिकाव्याप्तसमस्ताजांडखर्पर || ५३ || अशेषभक्तसंदोह भक्तिषंड धुरंधर || नंदिकेशावतारस्त्वं केवलं न तु मानवः || ५४ || प्. ९०) इक्षुवृक्षोत्थफलवन्मणिगर्भस्थदीप्तिवत् || हेम्नि ह्यामोचवच्चैव चंदनोत्थप्रसूनवत् || ५५ || आलेखलेख्यमानाया वनितायाः सुजीववत् || स्वर्णकृत्रिमपुत्रस्य प्राणपंचकवत्तथा || ५६ || सद्भक्तस्थानभूतः सन् त्वं हि जातो यथार्थकः || बसवेश त्वमात्मीयो ह्यसतां दण्डनायकः || ५७ || असंख्यातगणानां त्वमीयः प्रभुसत्तमः || अनंतवेदवेधोऽसि मुक्तेस्त्वं हि नियामकः || ५८ || प्रसादरूपो भक्तानां सत्व रूपो हि कथ्यसे || अशेषाम्नायशिखरवाक्यतात्पर्यकोविदः || ५९ || गुरुप्रतिष्ठचिल्लिंगसत्पात्रं त्वं न संशयः || अशेषतत्वरूपस्त्वं महत्तत्वं त्वमेव हि || ६० || संविदादिस्वरूपस्त्वं नित्यानंदस्वरूपभृत् || बसवेश तवाशेषस्वरूपं भक्तिरेव हि || ६१ || पशवो ये च शृण्वंति बसवेत्यक्षरत्रयम् || प्. ९१) तेषामपि शिवज्ञानं भक्तिश्चोत्पद्यते दृढा || ६२ || शिशवः पक्षिणो बाऽपि ये शृण्वन्त्यक्षरत्रयम् || तेषां च शाश्वती भक्तिर्नेतरेषामिति श्रुतिः || ६३ || गृहीत्वाऽपि विषं घोरं नाम चोच्चार्यतेऽनघम् || अमृतं वै भवेत्तद्धि सत्यं सत्यं मयोदितम् || ६४ || ये स्मरन्ति महाभाग त्वन्नामात्यन्तपावनम् || तेषां प्रसूनकल्पं स्यात्कुलिशं चातिदारुणम् || ६५ || शत्रवि यान्ति मित्रत्वं भवन्नामानुवर्तनात् || त्वन्नामश्रवणादेव दवाग्निश्चंद्रिकायते || ६६ || लिंगैक्यकलिकायोगस्त्वयि नान्यते दृश्यते || मृतजंगमसत्प्राणसंधानाख्यक्रिया परा || त्व्ययेव दृश्यते वत्स नान्यत्र परिदृश्यते || ६७ || वृत्तं || एवं वचोभिरनघैः शिवतंत्रसंस्थैः संस्तुल्य तं बसवभक्तमुदारभावम् || प्रीत्या च हर्षपरिगद्गदकंथदेशस्तूष्णीः स्थितः प्रभुवरः परमार्थत्ता || ६८ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे प्रभुदेवतृप्तिर्नाम द्वादशोऽध्यायः || १२ || प्. ९२) अथ त्रयोदशोऽध्यायः श्रीगुरुभ्यो नमः प्रभुदेवप्रभावाख्यानम्- अगस्त्य उवाच || एवं स्तुतो हि प्रभुणा बसवेशः कृपानिधिः || ततः किमकरोत् सर्वं कृपया वद षण्मुख || १ || || स्कन्दौवाच || वक्ष्ये श्रीबसवेशस्य प्रभावं कुंभसंभव || भक्त्या शृणु महेशैकभक्तिज्ञानप्रदं सदा || २ || प्रभुणेत्थं स्तूयमानो बसवो विनयान्वितः || प्राह गंभीरया वाचा सर्वशास्त्रविशारदः || ३ || भक्तवत्सल सर्वेश परमात्मन् परात्पर || मोक्षलक्ष्मीप्रद श्रीमन् दिव्यमंगलविग्रह || ४ || गणाग्रगण्य सर्वज्ञ लिंगजंगमरूपधृत् || संगमेश्वरसद्भक्तपरानुग्रहतत्पर || ५ || अशेषभक्तसंघातकारुण्यामृतवारिधे || मादृशानां न भक्तिर्हि (शक्तिर्हि) भोज्यं दातुं भवादृशाम् || ६ || अत्रेतिहासं वक्ष्यामि शृणु देव दयानिधे || पुरा कैलासशिखरे सुखासीनं महोज्ज्वलम् || ७ || विरूपाक्षं महादेवं शंकरं लोकशंकरम् || हिमवत्पर्वतागाराद्गौरी गिरिवरात्मजा || ८ || द्रष्टुमश्याययौ तूर्णं सखीभिः परिआरिता || प्रेमधूर्षु च सर्वेषु शिवसारूप्यधारिषु || ९ || प्. ९३) बुबुधे न महेशानं साम्बं सत्यादिलक्षणम् || गणास्तदंतरे सर्वे स्वान्तरंगे प्रकंपिरे || १० || गौर्याः संशयविच्छित्यै स्वस्वरूपाणि ते दधुः || मेषाननाश्च कतिचिद्गोमुखाश्च तथाऽपरे || ११ || केचिच्च वानरमुखाः कतिचित्कुक्कुटाननाः || कतिचित् सामजमुखाः शरभोष्ट्रमुखाः परे || १२ || व्याघ्राननाश्च कतिचिन्मार्जास्यास्तथाऽपरे || वृकाननास्तथा केचित् सारमेयाननाः परे || १३ || तुरंगवदनाः केचित् सारंगवदनास्तथा || एकाननाश्च द्विमुखास्त्रिमुखाश्चतुराननाः || १४ || षण्मुखाः प.चवदनाः सप्तास्याश्चाष्टसन्मुखाः || नवास्याश्च दशास्याश्च त्वेकादशमुखाः परे || १५ || विमुखाश्च तथा केचित् सहस्रास्याः शताननाः || सहस्रद्वयवक्त्राद्या बहवो हि तथा परे || १६ || प्रलम्बोष्ठास्तथा केचिल्लम्बमानाननाः परे || विकृतास्यास्तथा केचिद्विकृतांगास्तथा परे || १७ || लम्बकर्णास्तथा केचिद् घंटाकर्णास्तथा परे || शंखकर्णा विश्वकर्णा केचिच्चात्यूर्ध्वबाहवः || १८ || भुजपादाः कुक्षिपादाः पार्श्वपादास्तथाऽपरे || बहुजिह्वास्तथा केचिद्बहुवर्णास्तथैव च || १९ || प्. ९४) त्रिनेत्राश्च सहस्राक्षाः सह्स्ररसनाः कति || अनेकप्राणिवदनाश्चानंतप्राणिलोचनाः || २० || अनंतजीवित्कंठा ह्यनंतदशनाः परे || अनंततालवो ह्यन्ये केचिद्बहुशिरोयुताः || २१ || अंडमालाश्च कतिचिद् व्याघ्राजिनधराः कति || गजाजिनधराः केचिद्वृषवाहस्तथा परे || २२ || अनंतभूषणाः केचित् बहुशस्त्रधराः कति || कामांगदग्धभस्मांगा ब्रह्मशीर्षधराः कति || २३ || नृसिंहाजिनवस्त्रांगा विष्णुकंकालिनः कति || विषकंठा कति जटाचंद्रगंगाधराः परे || २४ || एवंविधान् महाभागान् लयकालविवर्जितान् || गंगायाः सिकतानां च गणनादधिकान् बहून् || २५ || प्रमथांस्तान् रुद्रगणान् शिवसामर्थ्यरूपिणः || दृष्वा कुमारजननी गौरी सर्वगणांस्तदा || २६ || विस्मिता शिवमासाद्य पंचवक्त्रं सदाशिवम् || साष्टांगं दंडवद्भक्त्या ननाम चरणाम्बुजे || २७ || तुष्टावविविधैः स्तोत्रैर्लौकिकैर्वैदिकैरपि || शृणु शंकर सर्वेश यन्मया परिभाष्यते || २८ || प्. ९५) मन्मनश्चिंतितं ज्ञात्वा प्रमथौघास्तवाधुना || त्वत्सारूप्यं परित्यज्य निजरूपाणि ते दधुः || २९ || अतस्तेषां प्रदास्यामि मृष्टान्नमतिशोभनम् || इत्युक्त्वा गिरिजा तत्र तेषां भस्म तदा || ३० || वियद्विविक्तदेशे तु तत्वान्यादाय पार्वती || कायमानं चकाराशु विश्रुतं भुवनोज्ज्वल्म् || ३१ || कृत्वाऽजांडानि भांडानि विस्तृतानि समंततः || महार्घ्यवस्तुनिचयं पादयित्वा यथारुचि || ३२ || क्षिराब्धेः क्षीरमानिन्ये घृताब्धेश्च घृतं तथा || ऐक्षवं रसमानिन्ये दधिसिंधोस्तथा दधि || ३३ || कल्पवृक्षप्रसूतानि बहूनि विविधानि च || पत्राणि कल्पवृक्षाणाममृतार्थानि पार्वती || ३४ || आनीय चक्रे सामग्रीं गणसंतर्पणोत्सुका || रसायनानि संगृह्य दीर्घकासन्निभानि च || ३५ || मणिभित्तिसमाक्रान्तचिन्तामणिगृहान्तरे || स्थापयामास वस्तूनि महार्घाणि महान्ति च || ३६ || अत्युत्तमानि वस्तूनि कामधेनूद्भवानि च || संगृह्य हिमवत्पुत्री गणार्चनरता स्थिता || ३७ || एतस्मिन्नंतरे काले समेताः प्रमथाधिपाः || बालमेकं समाहूय सर्वे वचनमब्रुवन् || ३८ || भो भो वत्स त्वमद्याशु गत्वा गौरीगृहान्तरम् || भोजनावसरोऽस्माकं किमिदानीमुपस्थितः || ३९ || प्. ९६) एवमाभाष्यतां गौरीं पुनरागच्छ बालक || इति तैः प्रेषितो बालः समागत्येमब्रवीत् || ४० || मामद्य प्रमथाः सर्वे प्रेषयामासुरंबिके || मध्याह्नकालः संवृत्तो भोजनोद्यमशंसकः || ४१ || सैवमुक्ता तु बालेन प्रत्युवाच तमद्रिजा || पश्यामि सर्ववस्तूनि भक्ष्यभोज्यान्यनेकशः || ४२ || शीघ्रमानय तान् भोक्तुं सर्वं निष्पन्नतामतात् || एवमुक्तस्तया बालो गौरीमूचे महेश्वरीम् || ४३ || देहि किंचिन्ममाद्य त्वं क्षुधा संबाधते भृशम् || तद्भुक्त्वाऽहं गमिष्यामि त्वरया प्रमथांतिकम् || ४४ || श्रुत्वाऽर्भकवचो गौरी तथैवांगीचकार सा || तत्रोपवेश्य बालं तं ददावन्नं रसैर्वृतम् || ४५ || कृत्वा लिंगार्चनं बालो भोक्तुं समुपचक्रमे || किंचित् किंचित् पृथक्कृत्य गौरी तस्मै ददौ तथा || ४६ || भुंजानःसोऽपि बालोऽयं देहि देहीति चाब्रवीत् || तस्मिन् बाले तु भुंजाने धीरे सद्गणसत्तमे || ४७ || अशेषप्रमथार्थं तु गौर्या यद्धि कृतं तदा || तत्सर्वं शून्यमभवन्नावशिष्टं तु किंचन || ४८ || एतद्दृष्ट्वा महादेवी चिन्तयामास विस्मिता || चिन्तापरवशा गौरी ययौ सा भर्तुरन्तिकम् || ४९ || शिवपादाम्बुजं नत्वा ब्रह्मविष्ण्वाद्यगोचरम् || प्. ९७) शिरोऽवनम्य सा स्वीयं तूष्णीं तस्थौ हियाऽगजा(?) || ५० || गौरीं नतमुखीं दृष्ट्वा प्रोवाच परमेश्वरः || कर्मैतत् कृतवान् बालो विचित्रं परमाद्भुतम् || ५१ || असंख्यातास्तव गणाः सहस्राणि सहस्रशः || एते महागणा दिव्या बहुरूपधरास्तथा || ५२ || पुरातनमुनीनां च पुराणाः प्रमथाः प्रिये || अधिकृत्य च तानेव श्वेताश्वतरशाखिनः || ५३ || नमोभिः संयुजे तान् वै विशोकांश्च परात्परान् || सर्वस्मिन् पथि साधूंश्च पंडिताः समदर्शिनः || ५४ || अमृतत्वस्य ये पात्राः शिवभक्ता जितेंद्रियाः || तेषां धामानि दिव्यानि ह्यपेतास्तु समंततः || ५५ || एवं स्तुवंति सततं मनोवाचामगोचरान् || तेषामन्नप्रदाने तु का शक्तिस्तव सुंदरि || ५६ || गणाः सर्वे शरीरं मे तच्छरीरमहं प्रिये || मम प्राणास्तु ते प्रोक्ताः प्राणास्तेषामहं प्रिये || ५७ || तेषां मम न भेदोऽस्ति सत्यं सत्यं मयोदितम् || ब्रह्मांडानि समस्तानि जातानि च गणेच्छया || ५८ || तदाज्ञया संस्थितानि लयं यान्ति नगात्मजे || ब्रह्मविष्ण्वादिदेवाश्च तेषां भृत्यत्वमागताः || ५९ || किमेतद्बहुनोक्तेन कार्यं गिरिवरात्मजे || सृष्टिस्थितिलयाः सर्वे तेषामिच्छैकगोचराः || ६० || प्. ९८) अतः प्रमथमाहात्म्यं वर्णितुं कः क्षमः पुमान् || श्रुत्वेत्थं गणमाहात्म्यं परमेशाननोदितम् || ६१ || गौरी विस्मयमापन्ना तूष्णीं तस्थौ शिवान्तिके || गणेषु चातिबालोऽयमन्नपूर्णा महेश्वरी || ६२ || गणबालकसंतृप्तिकरणे निर्बलाऽभवत् || इत्यत्र प्रमथानां च गौर्या तृप्तिः कथं भवेत् || ६३ || न शक्यमन्नदानं तु कर्तुं देव्याऽपि तादृशा || तथा ते चन्नदानेन मादृशानां तु का कथा || ६४ || इत्युक्त्वा बसवेशोऽथ प्रभुं तुष्टाव भक्तितः || अशेषागम्यरूपाय नानागमविधायिने || ६५ || नानागुणसमेताय निर्गुणाय नमो नमः || कुक्षिस्थाशेषभुवनब्रह्मांडाय नमो नमः || ६६ || अशेषविश्वसंहर्त्रे वेदवेद्याय ते नमः || न क्षमोऽहं महाभाग दातुमन्नादिकं तव || ६७ || कृपां कुरु महेशान त्वदंघ्रिध्यानतत्परे || बसवेशवचः श्रुत्वा सद्भक्तं विनयान्वितम् || ६८ || प्रभुः संतुष्टहृदयः स्वकटाक्षैर्निरीक्ष्य तम् || दयामृतप्लुतं चक्रे स्वशिष्यं बसवेश्वरम् || ६९ || त्वदंगणे कामधेनुः सुरवृक्षाश्च निष्कुटे || चिंतामणिर्गृहेष्.वत्र प्रार्थनीयं किमस्ति ते || ७० || प्. ९९) प्रसादं तव दास्यामि त्रिषु लोकेषु दुर्लभम् | वरानन्यान् प्रदास्यामि देवदानवदुर्लभान् || ७१ || तव हस्ताब्जसंस्पृष्टं लोष्टं कांचनतामियात् || यद्दृष्टं भवता वत्स सर्वं तत्कांचनं भवेत् || ७२ || स्मर्यन्ते यानि वस्तूनि तेषां प्राप्तिर्भवेत्तदा | चरं वाऽपि महादेवं यजस्व परमेश्वरम् || ७३ || भक्तसंप्रार्थ्यमानं यत् तद्दास्यामि तवानघ | एबमादीन् वरान् दत्वा शिवभक्तिं ददाउ प्रभुः || ७४ || मोहमायातमोराशिमुत्सार्य प्रभुसत्तमः | देहेंद्रियादिसंभ्रांतिं नशयित्वा कटाक्षतः || ७५ || स्वात्मज्ञानं ददौ तस्मै महानाचार्यसत्तमः | एवं तद्बोधितः श्रीमान् बसवेशो महामतिः || ७६ || अतिसूक्ष्मदृशा लिंए स्वप्राणांश्च व्यलीयत | अशेषजगदाधारं लिंगं प्राणेषु पंचसु || ७७ || विलीय संस्तितस्तूष्णीं ब्रह्मानंदैकतत्परः | अंतर्यागरतः श्रीमान् दयावानमितद्युतिः || ७८ || अनुरागसासक्तैरनघैः प्रमथैः सदा | संवित्सुखरसास्वादलालसैः सह संस्थितः || ७९ || जलनिक्षिप्तलवणं कर्पूरं वन्हिसंयुतम् | तद्वद्रराज बसवः करका इव वारिधौ || ८० || प्. १००) स्वांगोपांगविहीनः सन् रेजेऽसौ बसवेश्वरः | ये पठंति महात्मानः प्रभोर्माहात्म्यमुत्तमम् || ८१ || शृण्वन्ति परया भक्त्या ते यांति परमां गतिम् | लिंगांगैक्यैकविज्ञानमाप्नुवन्ति न संशयः || ८२ || || वृत्तम् || प्रभुवदनसरोजोद्भूतमत्यन्तहृद्यं रसमति रसयित्वा वाक्यरूपं महार्हं | परशिवसुखमग्नो निश्चलध्यानमार्गे क्षणमनुहृदि दध्यौ लोचने मीलयित्वा || ८३ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे प्रभुदेवप्रभावाख्यानं नाम त्रयोदशोऽध्यायः || प्. १०१) अथ चतुर्दशोऽध्यायः बसवदत्तसंगमेश्वरललाटाक्षिदानकथनम् अगस्त्य उवाच || भूयोऽपि श्रोतुमिच्छामि प्रभावं बसवेशितुः || महासेन महाभाग तत्प्रभावं वदानघ || १ || इति पृष्टः कृपासिंधुः कुमारः शिखिवाहनः || बसवेश्वरमाहात्म्यं कुंभजायाब्रवीद्गुहः || २ || || स्कन्द उवाच || वेदवेदान्तसारोत्थं रहस्यमुपदिष्टवान् || कामचारो ययौ तूर्णं प्रभु सर्वार्थकोविदः || ३ || एकस्मिन् दिवसे रम्ये बसवो दण्डनायकः || अर्चयन् स्वगृहे तस्थौ शिवभक्ताननेकशः || ४ || धनग्रहरताश्चोरा विविशुस्तस्य मंदिरम् || वार्ताकलिंगकलिता धृतलिंगा इवाविशन् || ५ || बसवेशं तदा दृष्ट्वा प्रणेमुर्भयकंपिताः || तान् दृष्ट्वा बसवेशोऽपि मंदं मंदं विहस्य च || ६ || अप्रवेश्यमिदं रम्यं मदागारमलिंगिनम् || भवंतोऽपि महाभागाः पुरा क्षपितकल्मषाः || ७ || मा भैष्ट शिवपूजां च कुरुतेति वचोऽब्रवीत् || एतच्छ्रुत्वा तदा चोरा मनसीत्थं व्यचिन्तयन् || ८ || अस्माभिः किं नु कर्तव्यं बसवेश्वरहस्तगैः || देवतानुग्रहोऽस्मासु पूर्वपुण्यप्रभावतः || ९ || यद्यस्ति चेज्जीविताःस्मो नो चेन्नो मरणं दृढम् || प्. १०२) प्रतिगन्तु न नः शक्तिस्तिष्ठामो बसवान्तिके || १० || इति निश्चित्य मनसा ह्युपविष्टाश्च तस्कराः || शिवपूजाक्रियार्थं हि चोराश्चिक्षेपिरे करान् || ११ || बसवेश्वरमाहात्म्यात्तद्वार्ताकशलाटवः || शिवलिंगानि जातानि चैलांचलगतानि हि || १२ || चोरास्ते भक्तसाकारा जटावल्कलधारिणः || तत्कर्म विक्ष्य शैवास्ते बसवेशान्तिकस्थिताः || १३ || विस्मयापन्नमनस्तुष्टुर्बसवेश्वरम् || तत्रैको जंगमः प्राह किमेतद्विस्मयं प्रभो || १४ || पुरा वणिग्वरः श्रीमान् सत्यसंध इतीरितः || अदृष्ट्वा स्थावरं लिंगं न भुंक्ते च कदाचन || १५ || अर्चयित्वा स्वयं भुंक्ते चचारेत्थं स च व्रती | कदाचिद्व्यवहारार्थं ययौ देशांतरं परम् || १६ || अरण्ये कुत्रचित् सर्वे सह भारेण सुस्थिताः || ततो मध्याह्नसमये सत्यसंधः स्वकान् जनान् || १७ || आहूय वचनं किंचिद्बभषे धीमतां वरः || शिवलिंगनमस्कारमकृत्वा नैव भुज्यते || १८ || शिवालयं चिंतयध्वं यत्र कुत्र वणिग्जनाः || विनष्टचक्षुषस्त्वद्य शक्तिरन्वेषितुं न मे || १९ || एवं संबोधिताः सर्वे समेता वणिजस्तदा || आनीय गोणीजालानि चक्रिरे ते शिवालयम् || २० || प्. १०३) तन्मध्ये लिंगरूपेण प्रस्थं संस्थाप्य सादरम् || कर्णिकारैः पूजयित्वा शिवलिंगामितीहया || २१ || सत्यसंधांतिकं गत्वा प्रोचुः सर्वे वणिग्जनः || अदूरे वर्तते रम्यं शिवालयमनूपमम् || २२ || तत्र लिंगं नमस्कृत्वा वनेऽस्मिन् पूज्यतां त्वया || आकर्ण्य वचनं तेषां ययौ देवालयान्तिकम् || २३ || ततः प्रदक्षिणीकृत्य शिवलिंगं ननाम सः || तस्य भक्त्याऽभवत् सर्वगोणीराशिः शिवालयः || २४ || प्रपेदे लिंगरूपत्वं निक्षिप्तप्रस्थमुत्तमम् || तल्लिंगं सर्वदेशेषु बल्लेशो मल्लिकार्जुनः || २५ || इति प्रसिद्धमगमत् तदारभ्य महामुने || तच्च्रुत्वा च महाभागः कश्चिदेवमुवाच तान् || २६ || इदं हि शिवभक्तानां सुविस्मयकरम् परम् || अहमेकां प्रवक्ष्यामि कथां पापप्रणाशिनीम् || २७ || गोपालकुलसंजातः काटकूट इतीरितः || अजस्य चिक्कणीभूतं किट्टमादाय सत्वरम् || २८ || अयं परशिवः साक्षादिति निश्चित्य तेजसा || अभिषेकं ततश्चक्रे समस्तैः स्वपयोघटै || २९ || पयोहीनास्तदा जाता घटाः सर्वे सहस्रशः || पिताऽऽगत्य ततस्तूर्णं दृष्ट्वा मोघीकृतं पयः || ३० || क्रोधघूर्णितनेत्रः सन् पापात्मा पापकृन्नरः || पादेन ताडयमास लिंगं तत्पुरतः स्थितम् || ३१ || उत्थाय काटकूटोऽपि रोषघूर्णितलोचनः || एतत्कृतं त्वया कार्यं सर्वलोकैकनिंदितम् || ३२ || त्वामद्यैव हनिष्यामीत्युवाच पितरं तदा || पुरः स्थितं गृहीत्वाश्हु कुठारमतिभीषणम् || ३३ || तत्वज्ञानीव संसारं ज्ञानेनाम्नायजन्मना || चिच्छेदं पितरं क्रूरं मनसाऽप्यविशंकितः || ३४ || कैलासगोपुरद्वारकपाटास्तुबभंजिरे || ततस्तल्लिंगमभवत्पूर्वं तेन यदर्चितम् || ३५ || कथामेतां समाकर्ण्य शिवभक्तस्तदाऽपरः || किमाश्चर्यकरं चैतत् तथान्यं विस्मयावहम् || ३६ || शिवभक्तौघमाहात्म्यमधिकृत्य महात्मभिः || या कथा प्रोच्यते सद्भिस्तामद्याहं ब्रवीमि वः || ३७ || बावुरिब्रह्मयो नाम शिवभक्तो दृढव्रतः || तमेकदा पुरजनाः परिवार्य बभाषिरे || ३८ || षण्मतस्थेषु सर्वेषु वर्तमानेषु सर्वदा || प्. १०५) तेषु कस्मादिमे जाताः शैवाः सर्वोत्तमोत्तमाः || ३९ || सर्ववंद्याः कथं जाताः सर्वमेतद्वदानघ || एतद्वचनमाकर्ण्य ब्रह्मयो भक्तपुंगवः || ४० || प्राह गंभीरया वाचा हसन्नेव शनैः शनैः || शिवभक्तस्य महात्म्यं को नु वर्णयितुं क्षमः || ४१ || यस्य भावनयैवैतद्विश्वं लिंगात्मकं भवेत् || *इति ब्रह्मवाचं ते श्रुत्वोचुः प्राकृताः इति || ४२ || पुरतो यावनालानां राशिस्तु परिदृश्यते || लिंगरूपं कुरुष्वैनं तदा श्रद्धामहे वयम् || ४३ || इत्युक्तो ब्रह्म्नामाऽसौ पुरो राशिं ददर्श तम् || दर्शनादेव तद्राशिःः शिवलिंगमभूत्तदा || ४४ || अतो हि बसवेशाख्यभक्तमाहात्म्यमुत्तमम् || शेषवाल्मीकिदेवाद्याः नालं वक्तुमशेषतः || ४५ || एते कैतवलिंगांगा भक्तवंचनतत्पराः || बसवेश्वरमाहात्म्याद्भक्ता एव न संशयः || ४६ || तेषां समस्तवस्तूनि ददौ श्रीबसवेश्वरः || एतस्मिन्नन्तरे कश्चिच्छिवभक्तो जितेंद्रियः || ४७ || अभ्यंजनसमायुक्तो बसवेशांतिकं गतः || आदृतो बसवेशेन वाचमूचे महामतिः || ४८ || बसवेश महाभाग व्रतमेकं ममास्ति हि || प्. १०६) मुक्ताफलोत्थचूर्णेन प्रस्थत्रयमितेन च || ४९ || रंगवल्लीक्रियानित्यव्रतं संकल्पितं मया || दशखारिमितान्यद्य देहि मुक्ताफलानि मे || ५० || संप्रार्थितः सभामध्ये प्रहसन् बसवेश्वरः || दर्शयामास भक्तस्य यावनालसमुच्चयम् || ५१ || मुक्ताफलानि जातानि यावनालानि तत्क्षणात् || भक्तो गृहीत्वा सर्वाणि स्वेच्छया निर्ययौ ततः || ५२ || तद्दृष्ट्वाऽत्रैकभक्तो हि कथामूचे शुभां मने || मोरटान्वयसंजातो वंकयाख्यो महामतिः || ५३ || शिवभक्तिपरो नित्यमुज्जयिन्यामुवास सः || कश्चिद्भक्तः समागत्य शिवभक्ताग्रणीर्महान् || ५४ || जगाद वचनं श्लक्ष्णं परीक्षाकरणोद्यतः || ततो निशीथसमये चानेयं तु गवां पयः || ५५ || इदानीमेव संछिन्नबिल्वपत्रं च दापय || ग्रामांतरं न गंतव्यं कांतारं वा महत्तरम् || ५६ || अत्रैव देहि मे भक्त गोक्षीरं बिल्वपत्रकम् || एवमुक्तस्तु वंकाख्यः शिवभक्तेन धीमता || ५७ || भृत्यमेकं समाहूय शिवभक्तं दृढव्रतः | आदिदेश सभामध्ये वंकयेशो महामतिः || ५८ || लुनीहि बिल्वपत्रं त्वममलं शंकरप्रियम् || प्. १०७) अस्मिन् शुष्करावेव शाखागणविवर्जिते || ५९ || अस्यां स्थितायां वंध्यायां गवि दोहं समाचर || तूर्णं गत्वा ततो भृत्यस्त्वलुनाद्बिल्वपत्रकम् || ६० || ढुदोह च् परस्तस्याः पर्याप्तं च महामतिः || ददौ भक्ताय महते प्रार्थनां कुर्वते तथा || ६१ || इति श्रुतं तु पूर्वेषां भक्तानां मानसाद्भुतम् || तत्सर्वं बसवेशस्य ह्यभूल्लोचनगोचरम् || ६२ || इति तं गुष्टुवुः सर्वे वसवं भक्तसत्तमाः || एवं भक्तेषु सर्वेषु श्रावकेषु च नित्यशः || ६३ || तदिष्टार्थप्रदो जातो बसवो भक्तवत्सलः || दिगंतरलसत्कीर्तिचंद्रिकां द्रष्टुमागतः || ६४ || चकोरवन्नेत्रकांक्षी शिवो यातस्तदा मुने || संगमेशो महाभागः शिष्यवात्सल्यजृंभितः || ६५ || भक्तरूपं समासाद्य बसवेश्वरमभ्यगात् || बसवेश महाप्राज्ञ भक्ताभीष्टप्रदायक || ६६ || तार्तीयिकं लोचनं मे देहि ते शक्तिरस्ति चेत् || इत्युक्तः संगमेशेन तदा नत्वा हसन्मुने || ६७ || लिचनोत्पाटनकरं गृहीत्वा शस्त्रमुत्तमम् || प्राह गंभीरया वाचा बसवः संगमेश्वरम् || ६८ || दर्पणं पश्य भोः स्वामिन् नास्ति किं लोचनत्रयम् || प्. १०८) देयं हिं नु महादेव मम तल्लोचनं परम् || ६९ || संगमेशोऽपि तद्वाक्याल्लज्जितः संस्तिरोदधे || प्रोवाच बसवः श्रीमानदृष्ट्वा संगमेश्वरम् || ७० || सत्यव्रता भवद्भक्तास्तथा न भ्रंशितव्रताः || भक्तसंप्रार्थितं वस्तु दास्यामीति मम व्रतम् || ७१ || न याचे त्वां महादेव निधिं दासयवत् परम् || सिरियाल इवाद्य त्वां न याचे तनयं परम् || ७२ || स्वर्णवृष्टि न याचेऽहं करिकाल इवोज्वलाम् || वनितां वा न याचेऽहं परां नंबीव तु स्वयम् || ७३ || न याचेऽहं वयः पूर्णं वरं गुड इवोज्वलम् || स्वर्गं वाऽप्यपवर्गं वा न याचे परमेश्वर || ७४ || त्वद्भक्तभुक्तावशेषप्रसादो वर्तते मम || तदेव मम भोगार्थं सर्वकालं प्रवर्तते || ७५ || भक्तस्त्वं हि महाभाग ते भक्तास्तु धुरंधराः || अतस्तेऽपि महात्मानस्त्वत्कर्मकरणोद्यताः || ७६ || काटकूटो जलानेता स्नानार्थं तव शंकरः प्. १०९) मालाकारः पुष्पदन्तः कन्नाख्यः शिवपूजकः || ७७ || अंडारिर्दीपदो नंदी पिल्लाख्यो सत्यभूतिदः || अणुमूर्तिर्गंधदाता माचाख्यो धूपदायकः || ७८ || घंटानादकरो नित्यमोहिलाख्यो महामतिः || मांगल्यदीपदो नित्यं सोमनाधो महेश ते || ७९ || रेकाम्बा गृहसंचारपरामर्शैकतत्परा || लिंगाभिमानकलिता पाकार्थं तव शंकर || ८० || समिद्वहो मारयाख्यः करिकालस्तवेष्टदः || संगलाम्बा च ते दासी होन्नाख्यो भारवाहकः || ८१ || प्रसादपात्रदाता च करिकालो महामतिः || प्रसाददाता तुभ्यं हि चन्नाख्यो भक्तवत्सलः || ८२ || वीरचूडा महादेवी प्रसादं ग्राहयेत्त्वया || दृढशीलो रेचयाख्यो वरस्तांबूलदायकः || ८३ || बिब्बिबाचो महाभक्तः प्रसादग्राहकस्तव || भिष्ग्वरो नमित्तंडिः कालकंठ तवानिशं || ८४ || तपोनिधिः कल्लिदेवस्तव स्तोत्रतोऽभवत् || सामवेदी मुनिवरस्तव पौरोहितोत्तमः || ८५ || तत्ववेत्ता मायिदेवस्तव पौराणिकोत्तमः || भूतेश तव कल्यम्बः सर्वज्ञः परिहासकः || ८६ || सर्वशास्त्रार्थविज्ञानी वागीशस्तव पाठकः || प्. ११०) निरंकुशो भक्तवरः कविः श्रीपतिपंडितः || ८७ || पंडितः शिव ते विद्वान् मादिराजस्तथाऽनिशम् || वीणावाद्यकरश्चैव शंकरः स्यात्त्वदादृतः || ८८ || गणको केशिराजश्च जगदेवोऽतिधार्मिकः || दण्डनाथोऽभन्नित्यं संगमेश दयानिधे || ८९ || सचिवो गणनाथोऽस्ति चिद्रूपः प्रभुसत्तमः || गजसाद्यश्वसादी ते यिरुवत्तश्च चारमः || ९० || रहस्यभाषमाणश्च रामो भक्तवरस्तव || दूतमार्ग रतो नित्यं बल्लहस्ते महामतिः || ९१ || तव शंकरदासश्च भट्टश्रेष्ठो निरंकुशः || नंबी सखा भक्तवरो वल्मीकेश तवानिशम् || ९२ || एणाधिनाथः सेनानीर्मंचाख्यो भक्तसत्तमः || त्वया सहचरः श्रीमांश्चमडाख्यो महामतिः || ९३ || सुरिगेशान्वये जातो लोकाख्यस्तव पत्तने || वणिग्जनाधिपो नित्यं भस्मोद्धूलितविग्रहः || ९४ || बिज्जमाम्बा महादेवी तव धात्रि महेश्वर || रुद्रसंज्ञः पशुपतिर्विषवैद्यस्तवानघ || ९५ || सुरीयायुधधारी च सुरिचौंडाद्वयस्तव || कक्कयाख्यो महाभक्तः स्वानुभूतिपरयाणः || ९७ || प्. १११) शिवरात्र्यन्वयः संगस्तव दासो महेश्वर || तथा देवरदासश्च तव नर्मसखः परः || ९७ || किन्नरब्रह्मसंज्ञश्च स्वर्णकर्ता तवानिशम् || शिवभक्ताग्रगण्योऽयं माचिदेवो महायशाः || ९८ || वस्त्रप्रक्षालनकरो देवदेव महेश्वर || कड्वरान्वयजो नंबी करदीपधरो महान् || ९९ || प्राकारकारको नित्यं मल्लस्तव महेश्वर || तव देव महाभाग गुंडाख्यः कुंभकारकः || १०० || जोम्माख्यस्तु तव व्याधः शैवशास्त्रपरायणः || यिलाहाजब्रह्मनामा ते ह्ययः कारको महान् || १०१ || पशुपालो हि ते चंडिर्मायावी मल्लनामकः || कोवूरी तव बाचाख्यः शैवव्रतपरायणः || १०२ || वंकाख्यः क्षीरधुक् चैव शिवभक्तो दृढव्रतः || गोडगूची क्षीरपाका साधुद्विनयान्विता || १०३ || एवमन्ये महात्मानो मदीयास्तव भृत्यकाः || त्वदंतिके प्रार्थनीयं मम चिंचिन्न विद्यते || १०४ || त्वया यद्यत्प्रार्थ्यमानं तत्तद्दास्यामि ते प्रभो || संकटेऽपि मम प्राप्ते मानभंगे महत्तरे || १०५ || दास्यामि प्रार्थितं तुभ्यं त्वदीयगणसंन्निधौ || जगत्सृष्टेस्तथा पूर्वमहं भक्तस्तवानघ || १०६ || ब्रह्मविष्ण्वादिजननात्त्वद्भृत्योऽहं च पूर्वतः || प्. ११२) तवाष्टमूर्तिजननात् पूर्वं स्यां भजकोऽप्यहम् || १०७ || इत्थं संगमदेवाय स्वीयं नेत्रमदादसौ || तस्माच्छ्रीबसवेशोऽसौ विजयी स्याद्धटोद्भव || १०८ || वृत्तम् || आकर्ण्यैवं नरसुरवरस्तूयमानो महेशः सद्भिः सर्वैः स्तुतगुणगणः सर्ववेदान्तवेद्यः || सर्वेशोऽयं बसववचनं श्लक्ष्णगंभीरभावं संप्रीतः सन् स्वहितविषयं प्राप चंद्रार्धचूडः || १०९ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे चतुर्दश्ऽध्यायः || प्. ११३) अथ पंचदशोऽध्यायः || अगस्त्य उवाच || बसवेश्वरमाहात्म्यं वेदवेदान्तगोचरम् || महात्म्यमपि भक्तानां सर्वपापनिकृन्तनम् || श्रोतुमिच्छाम्यहं भूयं कृपया वद मे प्रभो || १ || || स्कंद उवाच || स्वर्गापवर्गदं श्रोतुमतिविस्मयकारणम् || बसवेश्वरमाहात्म्यं वक्ष्यामि शृणु कुंभज || २ || कदाचिद्बसवेशोऽयम् बिज्जलांतिकसंस्थितः || करौ प्रसारयामास हाहेत्युच्चैः स्वनं वदन् || सभासदो निज्जलश्च प्राहुः श्रीबसवेश्वरम् || ३ || किमेतद्विकृतं कर्म सर्वलोकविगर्हितम् || बिज्जलस्य वचः श्रुत्वा प्रहसन् बसवेश्वरः || ४ || प्रभो शृणु स्वकाधिक्यं न वदेत तथापि च || त्वत्सभ्यहास्यभंगाय वदामि भवते यतः || ५ || अस्ति पुण्यतमं क्षेत्रं कल्याणाख्यं महीतले || भक्तः कश्चिद्वसत्यत्र वेदशास्त्रार्थकोविदः || ६ || स तु संकल्पयामास व्रतमेकं महाद्भुतम् || खारिष्ट्कमितैः क्षीरैर्गव्यैरत्यन्तपावनैः || ७ || प्रत्यहं स्नापयाम्येतल्लिंगं लोकैकपूजितम् || प्. ११४) एवं संकल्प्य योगींद्रस्त्वकरोदन्वहं तथा || ८ || क्षीरैः कर्दमिता भूमिः शिवलिंगान्तिकस्थिता || तत्पंकमध्यादायाता तक्रभांडधराऽपरा || ९ || गोपकन्या पृठुश्रोणिः स्तनभारनता सती || भ्रश्यत्पदा तदा तन्वी घटरक्षणतत्परा || १० || चुक्रोश बसवेशेति द्वित्रिवारमतंद्रिता || तस्याः संरक्षणव्यग्रः प्रसार्य च करद्वयम् || ११ || मा भैषीरिति तामुक्त्वा ह्यग्रहं वरवर्णिनीम् || श्रुत्वैतद्बसवेशोक्तं परीक्षार्थं नराधिपः || १२ || स्वभृत्यान प्रेषयामास बिज्जलो गोपिकान्तिकम् || तदाहूता च सा गोपी बिज्जलान्तिकमायौ || १३ || *आगत्य च तया सर्वं कथितं राजसन्निधौ || यदुक्तं बसवेशेन स्ववृत्तं विस्मयावहम् || १४ || बसवेश्वरमाहात्म्यं पुनः प्रोवाच गोपिका || पूर्वं त्रिषष्टिभक्तानां वसत्येको महामतिः || १५ || श्रीमांश्चिट्टम्बलो नाम शिवभक्तो ड्ढव्रतः || वर्षर्तुकाले संप्राप्ते प्रसूनार्थं वनं गतः || १६ || शिवपूजाप्रसूनानि संगृह्य विपिनान्तरे || प्. ११५) पुनरागमवेलायां पारावारतटे शुभे || १७ || भ्रश्यत्पदः पतिष्णुश्च मेने चिट्टंबलेश्वरम् || तमन्तराले जग्राह तदा चिट्टंबलेश्वरः || १८ || तथैव मत्तक्रघटीं जग्राह बसवेश्वरः || किंचाहं संप्रवक्ष्यामि बसवेश्वरचेष्टितम् || १९ || एकदाऽहं महाराज सोन्नलाख्यपुरं गता || तत्पुरे शिवभक्तौघैः षट्स्थलब्रह्म्वादिभिः || २० || सुखगोष्ठ्यां समासीनं सिद्धरामं स्वतेजसा || भास्वन्तं तं महात्मानमूचुर्भक्ता महत्तराः || २१ || सिद्धराम महाभाग ष्ट्स्थलब्रह्मकोविद् || इदं पुरं त्वया सृष्टं द्वितीयश्रीगिरिर्यथा || २२ || श्रीमल्लिकार्जुनं देवमानीय श्रिनगोत्तमात् || स्थापयंस्तं भवान् पूर्वं भक्तसंघसमावृतः || २३ || अनेकशिवलिंगानि प्रतिष्ठापितवानसि || बह्वन्नं शिवभक्तेभ्यस्त्वमेको दत्तवानसि || २४ || सहजेन किरीटेन नानारत्नविशोभिना || निटिलस्थेन नेत्रेण भासमानो महीतले || २५ || योगानंदविलासेन महता शैवतेजसा || भासमानशरीरस्त्वं कापट्यपरिवर्जितः || २६ || उर्व्यां संचरतः स्वस्य पदन्यासं महोज्ज्वलम् || नालोकयन्ति मर्त्याश्च देवाश्च परमर्षयः || २७ || समाधियोगसंपन्नो नित्यं कैलासमभ्यगः || प्. ११६) भक्तगोष्टयां स्थितस्तत्र पुनर्भुवमुपागतः || २८ || एतत्तव प्रसिद्धं हि सर्वेषु भुवनेष्वपि || तत्रास्ति किमसौ भक्तो बसवेशो महामातिः || २९ || भूलोक इव तत्रास्ते किमस्माकं वद प्रभो || इति प्रोचुर्जनाः सर्वे तत्वज्ञाः सूक्ष्मदर्शिनः || ३० || इत्युक्तः सिद्धरामस्तु प्राह भक्तान सभान्तरे || अस्मिन् दिने तु कैलासं गत्वा सम्यक परीक्ष्य च || ३१ || पुनरागत्य भवतां कथयामि समासतः || एवमाभाष्य कैलासं सिद्धरामस्ततो ययौ || ३२ || अजेन कालरुद्रेण क्षयान्तर्ज्योतिषा तथा || तथा निजगणप्रेम्णा निल्लरुद्रेश्वरेण च || ३३ || याम्येन सर्वसर्वेशभर्गेशानप्रकाशकैः || सुराधीशेन महता भवगौरीशधन्यकैः || ३४ || वामदेवोद्भवाभ्यां च सुप्रचंडधरेण च || वामदेवोग्रस्ंवाहधातृभिश्च महात्मभिः || ३५ || पिनाकिना विधात्रा च शिवनाकुंठितात्मना || हुताशनमहातेजः प्रमुखैश्च महात्मभिः || ३६ || तथा सूक्ष्मलयेनाथ क्रूरदंष्ट्रेण धीमता || अत्युज्ज्वलद्वितरणक्षेमीशाभ्यां समंततः || ३७ || भीमेन दमनेनोग्रपिंगाक्षेण महीयसा || कर्त्रा विषधराख्येन वटरुद्रेण धीमता || ३८ || निधीशानन्तविभुभिर्गणाध्यक्षवृषाडिभिः || तथा निवृत्तिना चैव वायुवेगेन धीमता || ३९ || प्. ११७) हाररत्नेन तरुणा बभ्रुहंत्रा च धीमता || अग्निदुःखेन महता हा रसौख्यकरेण च || ४० || कालरुद्रसुदुंदुभ्यां महद्भ्यां च समंततः || ब्रह्मनाशाच्युतवरैस्तथा सौम्येन मृत्युना || ४१ || भयानकाख्यभक्तेन हरेण महताऽपि च || हालाहलपरं धातृवज्रदेहाव्ययाभिधैः || ४२ || शीघ्रेण वज्रदंष्ट्रेण वियोगेन वटेन च || सहनेशविरूपाक्षशुभपंचशिखैः सह || ४३ || नियोक्तृगृहरुद्रैश्च गोपतीशानबाधकैः || पिंगसाध्यकमातंगकपालधरलोहितैः || ४४ || सुरंगस्थूलरुद्राभ्यां शास्वतेन महीयसा || त्रिदिवेशोर्ध्वकेशाभ्यां विश्वेशेन महात्मना || ४५ || वित्तेशेन च चंडीशविद्येशाक्षयनामकैः || सदा विषधरेणैव रुद्रकालाग्निरुद्रकैः || ४६ || त्र्यक्षेण च फणींद्रेण विचक्षेण महात्मना || एवमादिगणैः सरैः समन्तात्परिवारितम् || ४७ || श्रीनंदिनंदिनाथाभ्यां नन्देन वृषभेण च || गोनंदगोमुखाभ्यां च तथा हयमुखेन च || ४८ || अभंगदण्डपाणिभ्यां चंडिकेशानरुद्रकैः || रुंडाभरणरुद्राभ्यां पुंडरीकेण धीमता || ४९ || पर्वताभरणाख्येन दर्पसर्वसुभद्रकैः || सर्वात्मसर्वसंहारसर्वज्ञैश्च महोज्ज्वलैः || ५० || दारुकेण गणेशेन रेणुकेन महात्मना || लिंगांगसामरस्यज्ञधवलाक्ष्द्वयेन च || ५१ || वीरभद्रसुभद्राभ्यां धवलाक्षेण सूरिणा || आरूढभद्रत्रिजटिधूर्जटिप्रमुखैस्तथा || ५२ || अशेषलोकविजयेनाट्टहासेन शोभिना || तथा निजबलाख्येन महद्द्विपबलेन च || ५३ || प्. ११८) नीललोहितनिःशंकनित्यनीलाभिधैर्गणैः || नित्यपुष्कलनामभ्यां शान्तिकालाभिधेन च || ५४ || महाकालेन कालेन तथा कालोग्ररूपिणा || निरूपिणा विरूपाक्षशांतरूपप्रपुष्कलैः || ५५ || विश्वरूपगणेशाभ्यां विषांगोग्राक्षपिंगलैः || सितिग्रीवोग्रभर्गैश्च कालातीतेन धीमता || ५६ || उत्तुंगविमुखाभ्यां च गजास्येन तथैव च || मान्व्यासेन महता भस्मोद्धूलितदेहिना || ५७ || द्विमुखैर्वानरमुखैरमुखैः शरभाननैः || उष्ट्रास्यैर्व्याघ्रवक्त्रैश्च पंचास्यैश्चतुराननैः || ५८ || सुमुखैरष्टवक्त्रैश्च पंचवक्त्रैश्चतुर्मुखैः || त्रिमुखैः सप्तवक्त्रैश्च नवास्यैर्दशवक्त्रकैः || ५९ || षण्मिखैरेकवक्त्रैश्च सहस्रमुखदुर्मुखैः || विकटाक्षैर्मखहरैर्विषस्मरहरैस्तथा || ६० || मृत्युघ्नेन यमघ्नेन गजासुरहरेण च || सुरासुरहराख्याभ्यां तथा पुरहरेण तु || ६१ || भृंगिना गजकर्णेन व्याघ्रकर्णाश्वकर्णकैः || घंटाकर्णेन शुद्धेन गोकर्णेन महीयसा || ६२ || अप्राकृतैः प्राकृतैश्च नानारूपधरैरपि || सेव्यमानं महादेवमष्टैश्वर्यसमन्वितम् || ६३ || सनत्सुजातसनकसनंदनसनातनैः || पुलहात्रिमरिचैश्च विश्वामित्रेण धीमता || ६४ || बादरायणमौद्गल्यवर्णावनशुकादिभिः प्. ११९) वालखिल्यवसिष्ठाद्यैर्मार्कंडेयादिभिः परैः || ६५ || अनेकमिनिसंघैश्च परितः परिवारितम् || सुरासुरैश्च यक्षैश्च सिद्धसाध्यैश्च किन्नरैः || ६६ || वसुभिर्द्वादशादित्यैस्तथैकादशरुद्रकैः || ब्रह्मविष्ण्वादिदेवैश्च समंतात्परिवारितम् || ६७ || दिक्पालैरष्टभिश्चैव सेव्यमानं समंततः || हाहाहूहूस्तूयमानं गीयमानं च किन्नरैः || ६८ || वामांगभागविलसद्गिरिजाताननेक्षणम् || कैलासे घनसंशोभे मणिसिंहासने स्थितम् || ६९ || दृष्ट्वा सांबं महादेवं सिद्धरामोऽतिभक्तितः || प्रणम्य दण्डवद्भूमौ तुष्टाव विविधैः स्तवैः || ७० || सदाशिव महादेव शृणु मद्वचनं परम् || शिवभक्ताश्च भूलोके मामूचुर्विनयान्विताः || ७१ || कैलासेऽस्मिन् महारम्ये शिवस्यास्थानमंटपे || बसवेशो महाभागो नास्ति किं वर्ततेऽथवा || ७२ || इतत्तत्वं महादेव सर्वमाज्ञापय प्रभो || सिद्धरामेण पृष्टः सन् शिवः प्राह शनैर्हसन् || ७३ || सर्वेष्वपि च लोकेषु भक्तौघहृदयेषु च || मद्वक्त्रे वर्तते सोऽयं सद्भक्तो बसवेश्वरः || ७४ || एवमुक्त्वा स्वहृदयं विवृत्य परमेश्वरः || दर्षयामास तस्यैनं सद्भक्तं बसवेश्वरम् || ७५ || प्. १२०) करस्थलिंगं भक्तौघपदनम्रकरं तथा || अनिमेषदृशं लिंगे हर्षाश्रुकणसंभृतम् || ७६ || पद्मासने समासीनं दरहासलसन्मुखम् || शिवध्यानपरं शांतंशिवहृत्पद्मसुस्थितम् || ७७ || गणाग्रणीं सिद्धरामो ददर्श बसवेश्वरम् || तद्धृदिस्थं महाभागं ददृशुः प्रमथेश्वराः || ७८ || देवताश्च स्तवं चक्रुर्विस्मिता गिरिकन्यका || एवमद्भुतसंयुक्तां तामुवाच महेश्वरः || ७९ || ममापि बसवेशस्य न भेदो गिरिकन्यके || मया दत्तो वरः पूर्वं शिलादस्य तपस्यतः || ८० || तव पुत्रो भविष्यामि नात्र कार्या विचारणा || अतः पृथिव्यां जातोऽहं बसवेश्वररूपभृत् || ८१ || चिच्छक्त्याऽहं समाक्रान्तः सद्भक्त्या बसवेश्वरः || लिंगरूपधरश्चाहं स तु भक्तस्वरूपभृत् || ८२ || नावयोर्विद्यते भेदः परमार्थनिरूपणे || यो वदेन्त्रिपु लोकेषु बसवेत्यक्षत्रयम् || ८३ || तस्य हस्तगता मुक्तिः सत्यं सत्यं मयोदितम् || हृत्पंकहे मदीयेऽस्मिन् सर्वभक्तान्तरात्मसु || ८४ || नित्यं सन्निहितः साक्षाद्बसवेशो महामतिः || पार्वत्यै बसवेशस्य प्रोक्तं महात्म्यमुत्तमम् || ८५ || प्. १२१) दृष्ट्वा बसववक्त्राब्जं प्राह चंद्रार्धशेखरः || बसवेश महाभाग सर्वभक्तशरीरग || ८६ || ये भक्ताः सन्ति भूलोके तत्प्रेक्षणसमुत्सुकाः || तत्पादाम्बुप्रसादाश्यां स्वशरीरं प्रवर्धय || ८७ || मद्भक्तिं सर्वलोकेऽस्मिन् स्वेच्छया त्वं प्रकाशय | एवमाभाष्य गौरीशो बसवेशं महामतिम् || ८८ || दर्शयामास बसवं सिद्धरामाय धीमते || कैलासात् सिद्धरामोऽपि समागत्याथ कृत्यवित् || ८९ || बसवेश्वरमाहात्म्यं भक्तौघेभ्यो न्यवेदयत् || तत्रैतत्सकलं श्रुत्वा स्वगृहादागतास्म्यहम् || ९० || सिद्धरामहृदब्जेऽसौ स्थितवान् बसवेश्वरः || तन्महत्वं दृष्टमासीदिति सा चाह भूपतिम् || ९१ || इति तस्या वचः श्रुत्वा प्राह बिज्जलभूपतिः || एतदेव वरं सत्यं सत्यं सत्यं न संशयः || ९२ || एतदेव वरं साक्षिगोपिकाकुंभरक्षणम् || अमूल्यानि च वस्त्राणि भूषणान्युज्ज्वलानि च || कालाख्यायै गोपिकायै दापयामास बिज्जलः || ९३ || वृत्तम् || इति परमरहस्यं गोपिकाभाष्यमाणं सकलसुरमुनींद्रैरादृतं भक्तिमद्भिः || प्. १२२) श्रुतिपुटयुगुलेनाकर्ण्य भूमीश्वरोऽसौ मणिमुकुटदुकूलान्याशु तस्मै ददौ सः || ९४ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्वरूपग्रंथे परमरहस्ये कुमारागस्त्यसंवादे बसवेश्वरमहिमप्रशंसनं नाम पंचदशोऽध्यायः || प्. १२३) अथ षोडशोऽध्यायः || भक्तकृतद्रव्यदानकथनम् || अगस्त्य उवाच || पुनश्च श्रोतुमिच्छामि बसवेश्वरवैभवम् || यस्य स्मरणमात्रेण नॄणां मृक्तिः करे स्थिता || १ || इति ब्रुवन्तं तं दृष्ट्वा शिखिवाहः शिवात्मजः || माहात्म्यं तस्य भूयोऽपि प्रोवाच जिततारकः || २ || स्कन्द उवाच || कदाचिद् बिज्जलः श्रीमान बसवं दण्डनायकम् || जीवितं देहि भृत्यानां मदीयानां यथा तथा || ३ || इत्यवोचन्नृपवरः समक्षं हि स मंत्रिणाम् || सोऽपि राज्ञो वचः श्रुत्वा भृत्यानाहूय सर्वशः || ४ || कोशागारं समासाद्य धनमानीय साक्षरम् || यथायोग्यं धनं तेषां दातुं समुपचक्रमे || ५ || अथान्तरे समागत्य भक्तः कश्चिद्धनाशया || भो भो वसव मंत्रीश भक्तर्*चितामणे प्रभो || ६ || ममैतत्सकलं देहि धनं त्वत्पुरतः स्थितम् || इति संप्रार्थितस्तेन धनं तस्मै न्यवेदयत् || ७ || तद्दृष्ट्वा मंत्रिणः सर्वे बसवेशान्तिकस्थिताः || राजान्तिकमुपागत्य राजानमिदमूचिरे || ८ || भो भो बिज्जल भूपाल शृण्वस्मद्वचनं परम् || एतद्वाक्यप्रवचनाद् वयं बसववैरिणः || ९ || अनुक्त्या वचनस्यास्य राजद्रोहकरा वयम् || प्. १२४) अतः कार्यं किमस्माकमनुज्ञां दातुमर्हसि || १० || बिज्जलः प्राह मंत्रीशानागतान् भयकंपितान् || अबह्यं वः प्रदास्यामि यद्वक्तव्यं तदुच्यताम् || ११ || अशेषभृत्यसंघानां जीवितं दातुमिच्छता || बसवेशेन तत् सर्वं दत्तं भक्ताय धीमते || १२ || एतन्मंत्रिवचः श्रुत्वा बिज्जलः क्रोधमूर्छितः || बसवेश्वरमाहूय प्रोवाच नृपशेखरः || १३ || बसवेश धनं दत्वा मदीयं गच्छ सांप्रतम् || लोके मंत्रिवराः सर्वे राजवृद्धिपरायणाः || १४ || भूपालनाशकरणे प्रोद्यतस्त्वं न संशयः || एतद्वचनमाकर्ण्य प्रहसन् बसवेश्वरः || १५ || राजानं वचनं किंचिद् बभाषे तत्सभांतरे || परमेश्वरभक्ताख्यकल्पवृक्षे स्थिते सति || १६ || भक्तानामंगणे तस्मिन् भक्तिमेरुगिरौ स्थिते || वरप्रदस्य कामारेर्भक्तिचिंतामणौ स्थिते || १७ || स्थितायामपि सद्भक्तिकामधेनौ जगद्गुरोः || अस्माकं धनमग्राह्यं परेषां प्रभुसत्तम || १८ || करिकुंभस्थमांसाशी मृगेंद्रस्तृणमत्ति किम् || दुग्धाब्धौ विहरन् हंसः कांक्षते किं नु पल्वलम् || १९ || शुकश्चतफलाशी किं बदरीफलमश्रुते || चंद्रपायी चकोरश्च तिरिरं कांक्षते किमु || २० || प्. १२५) विहरंतः पद्मवने भृंगाः किं बर्बुराश्रिताः || दिग्गजेंद्रार्भकः श्रीमान् खरक्षीरं किमीहते || २१ || तदीयमेव तद्द्रव्यं तस्मै दत्तं न संशयः || यावद्धनं त्वया पूर्वं निक्षिप्तं कोशमंदिरे || २२ || परीक्षय धनं सर्वं गणयित्वाऽतिवेगतः || अतस्त्वया न कर्तव्यं सहसा साहसं मयि || २३ || एवमुक्तो नृपवरो गणयामास तद्धनम् || गण्यमानं धनं सर्वं यथापूर्वं प्रवर्तते || २४ || दृष्ट्वेदं बिज्जलः श्रीमान् लल्लितोऽभूत्सभांतरे || अथास्मिन्नंतरे सश्या लज्जितं बिज्जलं नृपम् || २५ || प्राहुर्गंभीरया वचा मंत्रिणः सूक्ष्मबुद्धयः || अत्रेतिहासं वक्ष्यामः शृणु त्वं बिज्जलप्रभो || २६ || मधुरायां महाराजः पांड्यो नाम प्रतापवान् || स्वमंत्रिणं समाहूय धनं दत्वा जगाद सः || २७ || भो भो मंत्रिन् महाभाग कद्दत्तं पुष्कलं धनम् || गृहीत्वा सिंधुदेशोत्थतुरंगानानयाधुना || २८ || एवं प्रभुसमादिष्टो मंत्रीशोऽपि महामतिः || कंचिद्देशमनुप्राप्य भक्तेश्यस्तद्धनं ददौ || २९ || प्रभुदत्ते धने क्षीणे शंकराहितमानसः || मृगधूर्तान् गृहीत्वाश्हु ययौ राजान्तिकं पुनः || ३० || बभूवुस्तस्य साम्र्थ्यच्छृगालाश्च तुरंगमाः || प्. १२६) अतो हि शिवभक्तानामसाध्यं किं नु विद्यते || ३१ || बसवेशो बहुधनं दत्वा भक्ताय धीमते || तवापि प्रददौ भूयो यथासंख्यं यथास्थितम् || ३२ || एतच्छृत्वा बिज्जलोऽपि तुष्टस्तुष्टाव मंत्रिणम् || इतः प्रभृति ये भृत्या मंत्रिवृद्दाश्च ये स्थिताः || ३३ || पिशुनत्वं समास्थाय बसवेशं वदन्ति हि || तेषां छिनद्मि रसनां नासिकां क्रूरकर्मणाम् || ३४ || इतीरयित्वा बसवं तोषयामास बिज्जलः || ततस्तु बसवेशोऽयमागत्य स्वगृहं प्रति || ३५ || आस्ते संमोदमानः सन् जंगमार्चनतत्परः || कल्याणनगरे रम्ये शिवभक्तो दृडह्व्रतः || ३६ || गणिकामंदिरे स्थित्वा प्रोवाचाहूय तत्सखीम् || आहारमावयोस्तन्वि नित्यं दापय मानिनि || ३७ || तथेत्युक्त्वा तु सा दासी ययौ बसवमंदिरम् || सा दृष्ट्वा बसवेशस्य महिषीं वरवर्णिनीम् || ३८ || ददर्श पट्टवस्त्रं च गंगाम्बाधृतमुज्ज्वलम् || अतिविस्मयमापन्ना विसृजाहारयत्नकम् || ३९ || त्वरया पुनरागत्य स्वसखीं प्रत्यभाषत || किं ब्रवीम्यद्य जननि मया दृष्टं महाद्भुतम् || ४० || सौवर्णरत्नखचितं वस्त्रं गंगाम्बिकाधृतम् || तत्समानाम्बरं लोके न दृष्टं न श्रुतं पुरा || ४१ || प्. १२७) एतद्विज्ञापितुं सर्वं त्वदन्तिकमुपागता || भक्तोऽयं शिवशास्त्रशो गत्वा बसवमंदिरम् || ४२ || याचयेद्यदि तद्वस्त्रं बसवेऽऽषेन दीयते || श्रुत्वैवं स्वसखीवाक्यं सत्यं सत्यमितीरितम् || ४३ || शिवभक्तं विटं दृष्ट्वा रहसीदमभाषत || वस्त्रमानय मे क्षिप्रं गंगाम्बाधृतम्त्तमम् || ४४ || तथैव भाषमाणस्तु विप्रोऽयं धूर्तसत्तमः || बसवांतिकमागत्य प्रोवाच वचनं ततः || ४५ || गंगाम्बिकाधृतं वस्त्रं शोभमानं महोज्ज्वलं || दापयस्व महाभाग मद्वेश्या तोषमाप्नुयात् || ४६ || बसवेशो याचमानो गंगाम्बां वरवर्णिनीम् || चित्रवस्त्रसमाकीर्णामानिनाय सभांतरम् || ४७ || शिवभक्त महाप्राज्ञ गृहाणेदं ममांबरम् || एवमुक्त्वा विटं भक्तं बसवेशो दृढाशयः || ४८ || गंगाम्बान्तिकमासाद्य चकर्ष वसनं मुदा || आकृष्यमाणं तेनाभूदक्षयं वसनं तदा || ४९ || तद्दृष्ट्वा विस्मिताः सर्वे गंगाम्बां तुष्स्तुवुः स्तवैः || जंमाश्च हसंतस्तु प्रोचुः सभ्यान् सुविस्मितान् || ५० || किमेतदद्भुतं सश्या बसवेशस्य धीमतः || नयनारुर्भक्तवरो भक्तेनैकेन याचितः || ५१ || भार्यावसनमुत्सृज्य ददौ भक्ताय धीमते || प्. १२८) निर्माय द्वादशाब्दैस्तु वस्त्रमेकं महोज्ज्वलम् || ५२ || तंतुवायोऽपि दासाख्यो भक्ताय प्रददौ ततः || बल्लालोऽपि महाराजो भक्तसंप्रार्थितो महान् || ५३ || ददौ स्वमहिषीं तस्मै रूपलावण्यशालिनीं || श्रियोन्मयधरो भक्तः स्वकीयं मणिमुत्तमम् || ५४ || तत्प्रार्थितोऽपि भक्ताय ददौ दिव्यं महोज्ज्वलम् || कश्चित्पेर्मालिनामैकः शिवभक्तो दृढव्रतः || ५५ || दुर्भिक्षकाले संप्राप्ते भक्ताअनामतिसंकटे || आहूय शिवभक्तौघान् संख्यातीतं धनं ददौ || ५६ || तथैव मनकंजारनामैको भक्तसत्तमः || पुत्रीविवहसमये भक्तेनैकेन याचितः || ५७ || तस्याः शिरोरुहान् सर्वान् मुदा छित्वा ददौ ततः || इति भक्तवराः प्रोचुर्बसवेशसभासदः || ५८ || भुजंगोऽपि च सद्भक्तो निवार्य बसवेश्वरम् || वेश्याकोपेभयेनैव गृहित्वा वस्त्रसंचयम् || ५९ || निर्ययौ मोदमानः सन् विवेश गणिकागृहम् || बसवेश्वरसद्भक्त्या गंगाम्बामानमुत्तमम् || ६० || अनूनमभवत्तत्रेत्युमुं तुष्टुवुरादरात् || वदत्येवं भक्तगणे गंगाम्बा वरवर्णिनी || ६१ || नीलनीरदधिक्कारिकेशपाशशुशोभिता || प्. १२९) अर्धचंद्रललाट तु राकाचंद्रनिभानना || ६२ || दाडिमीबीजसंकाशदन्तकान्तिविराजिता || तिलप्रसूनसंकाशनासापुटविशोभिता || ६३ || बिंबिकाफलसंकाशरदनच्छदमंडिता || कंब्वाडंबरधिक्कारिगलकांतिविराजिता || ६४ || कुंभिनीकुंभसंशोभिकुचद्वंद्वसमाहिता || नाभिदेशविनिर्धूतगंगावर्ता वरानना || ६५ || इंद्रनीलप्रभाश्लिष्टारोमराजियुतावरा || सैकतश्रोणिसंभारा किंकिणीयुतमेखला || ६६ || रंभास्तंभसमानोरुप्रदेशकलिता सती || शुंभप्तंकजसंकाशपदद्वयविशोभिता || ६७ || पदमंजीरनिक्काणघूर्णिताशेषदिक्तटा || ययावतः परं साध्वी सखीभिः परिवारिता || ६८ || बसवेश्वरसद्भक्तिप्रभाश्रेणिः समंततः || व्याप्यमानाऽम्बरे दिक्षु स्वर्गलोके महीतले || ६९ || तेजः पटलमात्मीयं संकोचं प्राप्नुयात्परम् || इति संचिन्त्य मनसा भानुमान् पश्चिमांबुधौ || ७० || पतन्निव गतः सोऽयमस्तं ग्रहवरस्तथा || अस्तं गते निजे मित्रे सरोजानि समंततः || ७१ || प्राप्नुवन्ति हि संकोचं निनदुः पटहादय. || बभुः पंचमहारावा परमेश्वरमंदिरे || ७२ || प्. १३०) गृहे गृहे भक्तसंघदीयमानसुगंधिभिः || धूपधूमैश्च संजातघनावलिरिवाधुना || ७३ || अंधकारप्रभाजालमरुणद्धरिदन्तरम् || भक्तचिन्तामणेस्तस्य बसवेशस्य धीमतः || ७४ || अपवर्गांगनादत्तदीपिका इव रेजिरे || तारकाश्च नभोभागेऽप्यक्षीणतररोचिषः || ७५ || ततश्चंद्रोदये जाते बसवेशेन धीमता || सद्भक्तिचिंतामणिना ह्यन्ज्ञाताः सहस्रशः || ७६ || सर्वे संभूय सद्भक्ता ययुर्वेश्यागृहान्प्रति || संगृह्य केचित् पुष्पाणि केचित्कस्तूरिकास्तथा || ७७ || चंदनं च तथा केचित् केचिद्विटवरास्तथा || वेश्योपभोगयोग्यानि वस्तून्यन्यानि केचन || ७८ || तान् दृष्ट्वा मुदितः श्रीमान् मुग्धसंगो महामतिः || बसवेशांतिकं गत्वा प्रोवाच विनयान्वितः || ७९ || बसवेश महाभाग शिवभक्ता इमे परे || पूजाद्रव्याणि संगृह्य गच्छंति गणिकागृहान् || ८० || तत्र लिंगार्चनासक्ता वसन्त्येते महेश्वराः || अतोऽहं शिवपूजार्ह्तं गच्छामि गणिकागृहान् || ८१ || एतद्वचनमाकर्ण्य मुग्धसंगेन भाषितम् || मंदं मंदं प्रहास्यासौ बसवो दण्डनायकः || ८२ || गच्छ तात महाप्राज्ञ मुग्धसंग दयानिधे || प्. १३१) इत्युक्त्वाऽऽभरणैर्दिव्यैर्भूषयामास संगयम् || ८३ || स्वभृत्यैः प्रेषयामास गणिकामंदिरं प्रति || त्त्रैकां रूपसंपन्नां पीनोन्नतपयोधराम् || ८४ || हरिणीलोचनां कंबुकंठी बिम्बोष्ठशालिनीम् || दृष्ट्वा पुरः स्थितां वेष्यां मुग्धसंगस्तपोधनः || ८५ || केयं बाला चंद्रमुखी रुद्रकन्या भुवं गता || रतिर्वा मेनका वाऽपि घृताची वा तिलोत्तमा || ८६ || शची वा मंजुभाषा वा रंभा श्रीर्वा सुरांगना || इति संचिन्त्य मनसा तूष्णीं तस्थौ गऋहांतरे || ८७ || प्रत्युत्थायातिवेगेन सा बाला वरवर्णिनी | अर्घ्यपाद्यादिभिः सर्वैः पूजयामास मानिनी || ८८ || नानारत्नप्रभोपेतं वितानाद्यैर्महोज्ज्वलम् | हंसतूलिकयोपेतं बहुदीपोपशोभितम् || ८९ || प्रवेशयित्वा संगेशं क्रीडागारं महत्तरम् | नादयित्वा स्वयं वीणां जगौ सा वरवर्णिनी || ९० || पदसंवाहनं चक्रे वीटिदानपुः सरम् | तया संपूजितः संगो मनसीदं व्यचिंतयत् || ९१ || कर्त्व्यं शिवलिंगस्य पूजनं मोक्षकारणम् | तत्पर्यंकादधः स्थित्वा शिवपूजां प्रचक्रमे || ९२ || प्. १३२) भूतिधृत्संगयेशोऽपि प्राह बालामनिंदिताम् | त्व्या न धार्यते भस्म किं तदत्यन्तपावनम् || ९३ || मुग्धसंगेन सा पृष्टा हंसंती प्राह बालिका | पूर्वं भक्तः समागत्य पीतं भस्म ददौ मम || ९४ || रुद्राक्षमालिकाः कंठे न दृश्यन्ते कुतस्तव | इत्युक्ता संगमेशेन पुनः प्राह दरस्मिता || ९५ || लवणोदधितीरोत्थरुद्राक्षा भवता धृताः | क्षीराब्धिजाताः संशुद्धा रुद्राक्षाश्च मया धृताः || ९६ || बहुकालधृतत्वेन संजाता मसृणा इमे | प्. १३३) सर्वत्र न कृतं भक्तैर्नासारुद्राक्षधारणम् || ९७ || एतद्विधायकं वाक्यं कुत्र दृष्टं त्वयाऽनघे | नासारुद्राक्षमाहात्म्यं वदेत्युक्ताऽमुना तदा || ९८ || सा विस्मितमुखी प्राह संगं संगविवर्जितम् | देवाहं न क्षमा वक्तुं नासारुद्राक्षधारणात् || ९९ || यत्फलं लभते तत्तु वक्तुं देवाश्च न क्षमाः | रुद्राक्षमहिमाधिक्यश्रवणाद्धृष्टमानसः || १०० || एतत्प्रोक्तं तया सर्वं मन्वानः सत्यमित्यम् | त्वया किमर्थमकृतं जटाधारणमंगने || १०१ || इति पप्रच्छ सा बाला दर्शयामास वेणिकाम् | ममाप्यस्ति जटासंघः सूक्ष्मः पश्येति वादिनी || १०२ || एवमादीनि वाक्यानि श्रुत्वा विस्मितमानसः | उत्थाय दंडवद्भूमौ तस्याश्चक्रे नमस्क्रियाम् || १०३ || भवद्गुरुवरः को नु सांप्रदायप्रवर्तकः | प्. १३४) एवं तु सा बाला प्रहसंती शनैः शनैः || १०४ || वामदेवसती साध्वी गौरी गुरुरभून्मम | अष्टभागावशेषेण श्रपितं शर्करान्वितम् || १०५ || पयः प्रसादं मोक्ष्यामि न शाकान्नादिकं प्रभो | पुनस्तदीयकैर्भक्तैर्दीयमानं महत्तरम् || १०६ || कृत्वा लिंगार्पितं सम्यग् भोक्ष्याम्येतन्महामते | तनुं धनं मनस्त्यक्त्वा शिवभक्ता दृढव्रताः || १०७ || मद्गेहेष्वेव तिष्ठंति पादसंवाहनप्रियाः | अहोरात्रं जंगमोक्तरहस्याश्रवणोत्सुकाः || १०८ || गतिर्नो जंगमा एव नान्ये प्राकृतमानुषाः | गुरूपदिष्टमार्गोऽयमस्माकं मुनिसत्तम || १०९ || अस्मादाचर्यावर्याश्च संप्रदायप्रवर्तकाः | संति श्रीपर्वते रम्ये मल्लिकार्जुनमंदिरे || ११० || गौरिसमाश्च तन्वंग्यः पूर्णचंद्रनिभाननाः | बह्व्यो मद्वंशजाः संति नानाविद्याविशारदाः || १११ || द्राक्षारामे महापुण्ये श्रीमद्भीमेशपालिते | कांचीचिदम्बराद्येषु शिवक्षेत्रेषु मामकाः || ११२ || गिरिजा सांप्रदायोत्था जंगम प्राणिनो जनाः | अद्यापि शैवसंपन्ना वर्तन्ते हि महामुने || ११३ || एवं विदधवचनैस्तया संभाषीतो मुनिः || प्. १३५) विस्मयाक्रान्तचित्तः सन् मुग्दह्संगः कृतार्थधीः || ११४ || शययामेतां भृशं मेने महामुनिकुलोचिताम् || पुष्पादिद्रव्यनिचयं संशोध्यातिप्रयत्नतः || ११५ || तूर्णं प्रचक्रमे कर्तुं शिवपूजां विमुग्धीः || साऽपि बाला मुनिः ज्ञात्वा पर्यंकतलवासिनम् || ११६ || कामतंत्रविमूढं च शिवपूजैकतत्परम् || अत्रत्यसर्वद्रव्याणि पूजोपकरणानि च || ११७ || कुर्यामिति मतिं चक्रे हसंती च कृतार्थधीः || शिवपूजोत्सवे तस्मिन् प्रणवध्यानपूर्वकम् || ११८ || साबाला मुनिशार्दूलं निश्चित्याशु विरागिणम् || आहूय स्वजनान् सर्वान्नत्यादौ समयोजयत् || ११९ || नृत्यशास्त्रप्रवीणस्ता गानशास्त्रातिकोविदाः || विणामृदंगपटहान् गृहीत्वा गानसाधकान् || १२० || काश्चिद्विदग्धा ननृतुर्गायंति स्म तथाऽपराः || एवं महोत्सवे काले वेश्यास्त्रीपरिवारिताः || १२१ || लिंगपूजां प्रकुर्वाणस्तां जिनाय निशां पराम् || ततः प्रभातसमये प्रविनष्टे तमोगणे || १२२ || उदयाचलमारुढे परे मार्तंडमंडले || प्. १३६) मुग्धसंगोऽतिवेगेन प्रययौ बसवान्तिकम् || १२३ || बसवेशं समाहूय मुग्धसंगो ह्यभाषत || बसवेश महाभाग वेश्यालयं गतः || १२४ || तत्रैव महतीः क्रिडाः कृतवानस्मि सादरम् || तत्र संक्रिडमानः स नास्मार्षं त्वां शुचिव्रतम् || १२५ || संतोषदायकं कर्म मम जन्मावधीदृशम् || नाभवत्सर्वभक्तानामाशास्यं मोक्षकारणम् || १२६ || सदाशिवकृपाहीनजनानामतिदुस्तरम् || नास्तीदृशं महत्कर्म बसवेश महामते || १२७ || भवत्कृपालेशबलात् क्रीडाकर्माहमाप्तवान् || मया बिल्ववने रम्ये तथा रम्भावने परे || १२८ || श्रीशैले च महापुण्ये क्षेत्रे च विपिनान्तरे || नानाभक्तगणैः साकमुषितोऽहं मनोहरे|| १२९ || तत्रेदृक् परमो भक्तः पीतभस्मावलेपितः || श्वेतरुद्राक्षधारी च न् दृष्टो न श्रुतश्च वा || १३० || तस्य भक्तस्य माहात्म्यं देवो वेत्ति नचापरः || एतच्च्रुत्वा स बसवः प्रहसंश्च पुनः पुनः || १३१ || तन्मौग्ध्याकृष्टहृदयो मुमुदे स्वान्तरात्मनि || ननाम संगमं स्तुत्वा बसवेशस्तु कुंभज || १३२ || प्. १३७) वृत्तम् || इति बसवकुमारो मुग्धसंगेशभक्ताल्लपितमिदमशेषं श्रोत्रयुग्मेन पीत्वा || स्वमनसि विटभावं भूयसाम्रेडयन्सोऽप्यतुलमुदमवाप प्राप्तहेमेव दीनः || १३३ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे परमशिवरहस्ये कुमारागस्त्यसंवादे षोडशोऽध्यायः || प्. १३८) अथ सप्तदशोऽध्यायः || मुग्धभक्तचरितानि || अगस्त्य उवाच | षडानन महाभाग नमस्ते तारकान्तक | बसवेश्वरमाहात्म्यं श्रुतं विद्मयकारणम् || १ || अशेषशिवभक्तानां माहात्म्यं च श्रुतं मया | भूयोऽपि श्रोतुमिच्छामि महात्म्यं बसवेशितुः || २ || इति पृष्टह् कुमारोऽसौ तस्मै कुंभभुवे पुनः| मुग्धानां चरितं प्राह बसवेशनिरूपितम् || ३ || कुमार उवाच | श्रुत्वा संगेशवचनं बसवेशोऽतिविस्मितः | श्रीचन्नबसवं दृष्ट्वा शिष्यं स्वांतिकसंस्थितम् || ४ || मौग्धमेतस्य भक्तस्य नालं वक्तुं चतुर्मुखः | इति तस्य गुरोर्वाक्यं श्रुत्वा चन्नवृषेश्वरः || ५ || प्रणम्य दण्डवत्तूर्णं समुत्थाय कृताञ्जलिः | प्राह गंभीरया वाचा स्वगुरुं बसवेश्वरम् || ६ || आचार्यवर्य देवेश बसवेश नमोऽस्तु ते | एतादृङ्मौग्ध्यमलिता भूमौ किं संति जंगमाः || ७ || एवमुक्तस्तु शिष्येण बसवेशः कृतार्थधीः | मुग्धानां चरितं प्राह श्रीचन्नबसवं प्रति || ८ || प्. १३९) रुद्रपशुपतिकथा अयिलूरिपुरे तम्ये सर्वसिद्धिप्रदे शुभे | रुद्रः पशुपतिर्नाम्ना तुल्यः पशुपतेर्महान् || ९ || रामेश्वररालये रम्ये भक्तैः संभूय संस्थितः | तत्र स्थित्वा द्विजवरः पपाठेश्वरसंहिताम् || १० || तत्रेतिहासरूपेण कालकूटकथा ययौ | सुरासुराश्च संभूय ममंथुः क्षीरसागरम् || ११ || कालकूटविषं घोरं संजज्ञे च भयानकम् | ब्रह्मविष्णुमुखाः सर्वे प्रापुर्देवा भयं परम् || १२ || भीताः सदाशिवं तूर्णं शरणं ययुरादरात् | देवाश्च विविधैः स्तोत्रैस्तुष्टुवुः परमेश्वरम् || १३ || तैः स्तुतः परमेशोऽपि ज्ग्राह विषमुल्पणम् | इति पौराणिकः प्राह सुखासीनः सभान्तरे || १४ || एवं रुद्रः पशुपतिः कालकूटकथां परां | श्रुत्वाऽतिभीतः स क्षित्यां पपात भृशदुःखितः || १५ || क्षणं मुर्छापरवशः पुनरुत्थितवानभूत् | तस्मिन्काले महाभद्रे क्व गतासि नगात्मजे || १६ || नन्द्यादिप्रमथाः सर्वे कुमाराद्यास्तनूभवः | क्व गताश्च तदा सर्वे तेष्वेकः कृपयाऽऽप्लुतः || १७ || न निवारितवान् देवं विषग्रासैकतत्परम् | नाभूत्तस्याद्य जननी साऽस्ति चेत्तं निवारयेत् || १८ || प्. १४०) अहमद्य कथं शक्तः प्राणान् धर्तुमिमान् परान् | पाशाग्निसलिलैरद्य पंचप्राणांस्त्यजाम्यहम् || १९ || इति निश्चित्य मनसा कृष्णातीरं समाययौ | तत्तीरे च स्थितो भक्तः पतितुं मतिमाददे || २० || एतस्मिन्न्ंतरे देवश्चंद्रार्धकृतशेखरः | वृषभेशं समारुह्य तूर्णं प्रत्यक्षतामगात् || २१ || गृहीत्वा पाणिना विप्रं साहसं मा कुरुष्व भो | इत्युक्तो देवदेवेन भक्तोऽहं तव शंकर || २२ || यद्यस्ति ते महाभाग कृपा मज्जीवने परा | निष्ठीवय विषं घोरं स्वकंठस्थितमुल्बणम् || २३ || नो चेत्त्वक्ष्यम्यहं प्राणान् सहसाऽत्यन्तदुर्बलान् | स्पृशामि तव पादाब्जं सत्यं सत्यं मयोदितम् || २४ || एतद्वचनमाकर्ण्य ब्रह्मविष्ण्वादयः सुराः | पुनश्च कालकूटस्य प्रादुर्भावस्य शंकिताः || २५ || एतेषु शंकमानेषु शिवोऽत्यंतदयापरः || पुनः प्रोवाच भगवान् मुग्धं ब्राह्मणसत्तमम् || २६ || कालकूटविषं घोरं मत्कंठे वर्तते द्विज | तस्मात्त्वया न भेत्तव्यं तन्मां किं नु करिष्यन्ति || २७ || शिवेन बोधितोऽप्येवं लेभे न स्वास्थ्यग्रजः | प्. १४१) ज्ञात्वा दद्धृदयं साम्बः किं कार्यमिति चिन्तयन् || २८ || भो भो वत्स महाभाग विश्वासो यदि नास्ति ते | ममांकस्थलमारुह्य मत्कंठे न्यस्तलोचनः || २९ || विषं मद्धृदयं नेयाद्यावदत्यन्तमुल्बणम् | तावत्परीक्षय त्वं हि मामुन्मील्य च लोचने || ३० || इति संबोधिस्तेन शिवेन परमात्मना | यथा कंठाद्विषं घोरमायात्युदरगव्हरम् || ३१ || त्यक्ष्यामि च तदा प्राणानिति निश्चित्य भक्तिमान् | तीक्ष्णासिमेकमादाय शिवांके स्थितवान् स्वयम् || ३२ || अद्यापि कंठमुद्वीक्ष्य स चास्ते शंकरस्य च | इत्युक्त्वा पुण्यचरितं सर्वसिद्धिप्रदायकम् | पुनश्च मुग्धकथनं बसवः प्राह कुंभज || ३३ || नक्कनयनारुकथा || कश्चिद्भक्तवरः श्रीमांश्चोलदेशे मनोहरे || नयनारुः सपत्नीको दृढभक्त्या शिवालये || तत्र लिंगं यजन् नित्यं परां पंचाक्षरीं पठन् || ३४ || अथैकदा तु लिंगस्य शरीराश्यंतरेऽमले || विषकृमिश्चारैको दारुणो दुष्टविग्रहः || ३५ || प्रेक्षयामासतुस्तौ च दम्पती कृमिमुल्बणम् || तदा सती भयोद्विग्ना मुखफूत्कारवायुना || ३६ || प्. १४२) विषकृमिमपाकर्तुमुद्युक्ता वरवर्णिनी || तूर्णं तथाविधं चक्रे भयभक्तिसमन्विता || ३७ || तां दृष्ट्वा रोषताम्राक्षो नयनारुर्महामतिः || त्वदाननविनिष्क्रान्ता जाये द्रप्सगणा इमे || ३८ || पतंति शिवलिंगेऽस्मिन् लिंगं दुष्टं ततोऽभवत् || अतस्त्यजामि पापे त्वां त्वं हि गच्छ यथेप्सितम् || ३९ || इत्युक्ता पतिना साध्वी निष्क्रान्ता शिवसन्निधेः || शिवालयसमीपे तु तूष्णीमेव व्यवस्थिता || ४० || नयाअरुः समागत्य ददर्श गिरिजापतिम् || तस्या मुखविनिष्क्रान्ताद्द्रप्सात्पूते च देशके || ४१ || दुष्टानि कृमिजातानि नोत्पन्नानि व्रणानि हि || अन्यत्र च प्रदेशे तु व्रणजातं प्रदृश्यते || ४२ || अतः साध्वी मम सती लिंगस्य हितकारिणी || अहं पापकरोऽत्यर्थं लिंगदुःखकरो भृशम् || ४३ || अनुनीयाहमधुनां तां नयामि शिवांतिकम् || इति निश्चित्य मनसा तांनिनाय तदंतिकम् || ४४ || साऽऽगत्य वेगाल्लिंगस्य तस्य फूत्कारमाचरत् || तेनापि शिवलिंगेऽस्मिन् व्रणान्यालोक्य सर्वतः || ४५ || निशितं शस्त्रमादाय स्वशरिरश्छेत्तुमुद्यतः || दृष्ट्वा तन्मौढ्यमतुलं विस्मितः परमेश्वरः || ४६ || प्. १४३) उमादेहार्घकलितो ब्रह्मविष्ण्वादिभिर्युतः || अशेषप्रमथोपेतः शिवः प्रत्यक्षतामगात् || ४७ || तौ दम्पती च हर्षेण नमतुश्चरणौ तयोः || तौ दम्पती शिवः साक्षान्निनाय स्वपदं परम् || ४८ || इत्युक्त्वा हर्षमापन्नः स्वशिष्.याय वृषेश्वरः || पुनर्वक्ष्यामि मुग्धायाः कथां पापप्रणाशिनीम् || ४९ || बिज्जमहादेवी कथा पुरा बिज्जमहादेवी मुग्धाऽभूद्वरव्र्णिनी || नानाविधेषु भक्तेषु पत्नीपुत्रादिबंधुषु || ५० || सत्सु सर्वेषु शंभोश्च जननी न मया श्रुता || कथं हित्वा स जननीं जातोऽयं परमेश्वरः || ५१ || नो चेन्मृता वा जननी संप्रसूय तनूभवम् || मम माता पुरा बाल्ये पंचत्वमगमत् सती || ५२ || तेनाहमतिदैन्येन निमग्ना दुःखसागरे || अतो मातृविहीनानामियमेव गतिः खलु || ५३ || माता यद्यस्ति स कथं मुनिवेषधरो भवेत् || भुजंगहारकलितः कालकूटविषादनः || ५४ || व्याघ्रनागाजिनधरो भस्मदिग्धकलेवरः || श्मशानवासनिरतः पिशाचानुचरः कथम् || ५५ || कथं भिक्षान्ननिरतो जटाजूटादिकं कथम् || शिवस्य मातृहीनस्य सर्वमेतदुपस्थितम् || ५६ || मातृहीनोऽपि विश्वेशो जगत्कारणतामगात् || माताऽस्ति चेतयं देवः कीदृगैश्वर्यवान् भवेत् || ५७ || अतोऽहं जजनी सत्यं भविष्यामि न संशयः || इति निश्चित्य मनसा मुग्धा सा पंकजानना || ५८ || मातृकर्तव्यकर्माणि यानीह पृथीतले || तानि कर्माणि सर्वाणि स्वलिंगस्य चकार सा || ५९ || परमेशोऽपि तद्भक्त्या तानि जग्राह बालवत् || यद्भावभावितो लोको यत्कर्माणि करोति हि || ६० || तत्तद्भावं समास्थाय तानि गृण्हाति शंकरः || ततस्तत्कृतकर्माणि जग्राह शिशुवच्छिवः || ६१ || प्. १४५) बिज्जाम्बाऽपि कृतार्थेयं माता देवस्य याऽभवत् || इति तां तुष्टुवुर्लोके भक्ता विगतकल्मषाः || ६२ || गच्छत्सु दिवसेष्वेवं कारुण्यैकनिधिर्हरः || तह्याः प्रत्यक्षतां गंतुं मतिं चक्रे महेश्वरः || ६३ || पीष्यमान इवात्युग्रैरामयैः परमेश्वरः || क्षीरादिभोज्यवस्तूनि न जग्राहार्भकः स्वयम् || ६४ || नेत्रे निमील्य संतस्थौ निद्रापरवशो यथा || उत्पातातिवेगेन पर्यंके शयितः शिवः || ६५ || लक्षणान्येवदमादीनि दृष्ट्वाऽत्यन्तं रुरोद सा | हा पुत्र पुत्र पुत्रेति क्रन्दमानाऽतिदुःखिता || ६६ || उरोदेशं ताडयन्ती विकीर्णालकसंचया || औषधं किं नु दास्यामि तव संजीवनेऽर्भक || ६७ || एवं दुःखसमाक्रान्ता बिज्जाम्बा पद्मलोचना | किं रोगेण समाक्रान्तो बालो बालेन्दुशेखरः || ६८ || श्रीमत्सुंदरनंबीशगृहांगणमुपागतः | अलब्ध्वा तत्र मृष्टान्नं स्वकीयोदरसंमितम् || ६९ || ततः कुलालगुंडाख्यभक्तागारं प्रविष्टवान् | अलब्ध्वाऽनादिकं तत्र क्षुधाबाधासमाकुलः || ७० || तस्माच्चेरमभूपालसन्निधिं प्राप्य यत्नतः | प्रताड्य तत्र तूर्यादिं तेनातिक्षुधितः स्वयम् || ७१ || प्. १४६) तस्मादपि समागत्य खिन्नखिन्नोऽसि पुत्रक | पिष्टाम्बरान्तिकमागत्य मृद्भारेणाति दुःखितः || ७२ || तत्र संभक्ष्य पिष्टं तदपर्ययाप्त्याऽतिकर्शितः | तस्मादागत्य वेगेन भवनं सामवेदिनः || ७३ || मृतं तत्रैव गोवत्सं भुक्त्वा चात्यन्तदूषितः | गृहांश्च करिकालस्य गत्वाअ तत्रातिसुंदरम् || ७४ || पक्वाम्रफलजातं च भुक्त्वा तद्दत्तमास्थया | तस्मादपि समागत्य चन्नभक्तनिकेनने || ७५ || भुक्त्वा* कांजिकमत्याम्लं तस्मादागत्य पुत्रक | चिरितोंडगृहं प्राप्तः क्षुधया चातिपीडितः || ७६ || तत्पुत्रमांसनिचयं भुक्तवानसि पुत्रक | निम्बाम्बासदने भुक्तं मध्ये मध्ये तनूभव || ७७ || ततश्चोडम्बया दत्तं भुक्तशिष्टं मनोहरम् | गोघृतैः शर्करेणात्तं मुद्गान्नमतिसुंदरम् || ७८ || भक्षयित्वाऽगिवेगेन चमडांतिकमागतः | पुनस्तद्दत्तकवलं सततं भुक्तवानसि || ७९ || पूर्वेद्युरेवमबला काचिन्मामाह विस्मिता | अत्युग्रकेल्या किं वत्सः श्रान्तः किमतिभोजनैः || ८८ || पूर्वोक्तान्नप्रदेष्वेको दुष्टचक्षुरभूत् किमु | तस्यैव दृष्टिदोषेण संकट समुपस्थितम् || ८१ || प्. १४७) तदॄष्टिदोषशान्त्यर्थं भूतिं दास्यामि तेऽधुना | एतेषु भुवनेष्वद्य मत्सम जननी तव || ८२ || अस्ति किं परमेशान शिव कारुण्यवारिधे | त्वं हि मत्प्राणसदृशस्तत्र साक्षी त्वमेव हि || ८३ || यथाऽहं वर्धयामि त्वां तथा वर्धस्व चार्भक | एवं चेत्तव रोगोऽयं न भवेत्पुरभंजन || ८४ || भवाद्य तव रोगोऽयं यद्येव न निवर्तते | प्राणानहं महेशान त्यजामि तव सन्निधौ || ८५ || एवमाभाष्य दुःखेन शिरश्छेदनसाधनम् | असिमेकं समादाय तस्थौ पुत्रान्तिके सती || ८६ || तद्दर्शनात्पूर्वमेव स्वप्राणं व्यक्तुमुद्यता | तत्क्षणं गिरिजानाथो भक्तवत्सललीलया || ८७ || तस्याः कृपार्द्रहृदयः प्रादुरासीन्महेश्वरः | वरं वरय भद्रं ते दास्यामि च यथेप्सितम् || ८८ || एवं शिवोक्ता बिज्जाम्बा पुनः शिवमुवाच सा | न कामये वरानन्यान् वरणीयं न किंचन || ८९ || त्वद्रोगशांतिं याचेऽहं मनोवाक्कायकर्मभिः | एवमुक्तस्तया देव्या शंकरो लोकशंकरः || ९० || भक्तवत्सलां लोके स्थातुं सांबस्तदा मुने | प्. १४८) सर्वरोगविहीनः सन् शिवः प्रत्यक्षतामगात् || ९१ || वृत्तम् || इति परमशिवोऽसौ बिज्जमाम्बानुभावात्कलितपृथुकभावं तत्क्षणात्तं त्यजन् सः | वृषपतिमुखभक्तैः सर्वदा स्तूयमानः सुरनरमुनिगेयः प्रादुरादीन्महेशः || ९२ || अथ तस्याः स्वमातुश्च सायुज्यपदवीं ददौ | इत्युक्तं बसवेशेन सिद्धिदं चरितं मुने || ९३ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे परमरहस्ये स्वरूपग्रंथे कुमारागस्त्यसंवादे रुद्रपशुपतिबिज्जमाम्बाचरितं नाम सप्तदशोऽध्यायः प्. १४९) अथ अष्टादशोऽध्यायः अगस्त्य उवाच || षडानन महाभाग नमस्ते विश्वमूर्तये || पार्वतीमुखपंकेजभास्कराय नमो नमः || १ || अशेषोपनिषत्सारतत्वरूपाय ते नमः || पुनर्बसवमाहात्म्यं कथयस्व समासतः || २ || शृणु मुग्धकथामन्यामिति स्कन्दस्तमाह सः || श्रीचन्नबसवेशस्य बसवेश्वरसत्तमः || ३ || वर्णयित्वा तु बिज्जाम्बाकथां पापप्रणाशिनीम् || वृत्तांतं मुग्धशैवानां वक्तुं समुपचक्रमे || ४ || कोलूरकन्याकथा अस्ति भक्तवरः कश्चिच्छिवदेवो महामतिः | ग्रामान्तरं गन्तुकामो भार्यया गुणयुक्तया || ५ || कोषगूचीनामधेयामाहूय स्वसुतां पराम् || अयि कल्याणि सुश्रोणि विस्तीर्णायतलोचने || ६ || नित्यं शिवालयं गत्वा लिंगमूर्तेर्महौजसः || संतप्तं तु पयश्चाग्नौ प्रस्थमात्रप्रमाणकम् || ७ || निवेदयित्वा नित्यं त्वं व्रतं सांगं कुरुष्व मे | त्वधीनमिदं कर्म मा विस्मार्षीः कदाचन || ८ || प्. १५०) पुनरागमकाले तु तव कृत्रिमपुत्रिकाः || तद्वस्त्रनिचयं रम्यमानयिष्याम् पुत्रिके || ९ || एवमुक्त्वा तु तां बालां गतौ तौ गोपदम्पती || ततः परेद्युरुत्थाय गोपकन्या वरानना || १० || प्रातःकृत्यं तु निर्वर्त्य क्षीरमादाय भक्तितः || शिवालयं ययौ रम्यं लिंगमूर्तेर्निवेदि*तुम् || ११ || स्थापयामास पुरतः पयःकुंभं सुशोभ्नम् || ततो निवेदयांचक्रे क्षीरं देवाय शूलिने || १२ || परःपूर्णं घटं हृष्ट्वा तन्वी शोकभराकुला || लिंगमूर्ते महाभाग पयः पीतं न किं त्वया || १३ || न तप्तमिति वा निरसंमिश्रमिति वा प्रभो || वन्हिज्वालार्तमिति वा न पर्याप्ततरं तु वा || १४ || तस्माद्गृह्णासि न त्वं हि पयस्त्वत्पुरतः स्थितम् || मद्गृहेऽत्यन्तधवला शर्करा तिष्ठतेऽधुना || १५ || तामानेष्यामि वेगेन देह्यनुज्ञां ममानघ || आनेष्यामि घृतं रम्यं गुडमत्यन्तशोभनम् || १६ || अतः पयः पिबाद्य त्वं कृपा चेन्मयि शंकर || उष्णं पयः शीतमभूत् किंचिन्मां न वदस्यहो || १७ || प्. १५१)पितरावागतौ चेद्भि मृतिर्मम न संशयः || अतस्त्यजाम्यहं प्राणांस्त्वदर्थं वृषवाहन || १८ || इत्युक्त्वा पद्मपत्राक्षी गृहीत्वाऽश्मानमुल्बणम् || संताडितुं शिरोभागं निश्चिकाय दृढाशया || १९ || एतां दृष्ट्वा दयाविष्टः पार्वतीशो महेश्वरः || पयःपात्रं समादाय पपौ क्षीरं यथेप्सितम् || २० || ततः प्रोवाच सा बाला शिवं त्रिपुरभंजनम् || नपास्यसि यदि क्षीरं मद्दत्तं परमेश्वर || २१ || ताडयिष्यामि मत्पित्रा दण्डेन कशयाऽथवा || इति निर्भर्त्स्य देवेशं ययौ स्वभवनान्तरम् || २२ || दिने दिनेऽप्येवमेव पयः पीतं पुरारिणा || ततो दिनेशु गच्चत्सु पितरावागतावुभौ || २३ || पयोरिक्तघटां बालामायान्तीं तां ददर्शतुः | तामूचतुश्च पितरौ रिक्तपात्रधरां सुताम् || २४ || घटस्थितमिदां क्षीरं केषां दत्तं त्वया वद || एवमुक्ता पितृश्यां सा पितरावाह सस्मिता || २५ || भवदुक्तप्रकारेण शिवान्तिकमहं गता | तूर्णं पयोघटं पूर्णमादाय शिवसंनिधिम् || २६ || उपेत्य स्थापितः कुंभ पयःपूर्णस्तदन्तिके || प्. १५२) नाग्रहीत्प्गर्ववद्देवो* घटस्थं क्षीरमुज्ज्वलम् || २७ || तदाऽहं शोकसंपन्ना रुदन्ती च मुहुर्मुहुः || शिवमप्रार्थयं देवं लिंगमूर्ति महोज्ज्वलम् || २८ || ततः क्षीरं महेशानः पपावत्यंततृष्णया || अहं गृहमगां रिक्तं घटमादाय सत्वरम् || २९ || तामूचतुश्च पितरौ क्रोधघूर्णितलोचनौ || पयः पीतं शिवेनेति यदुक्तं पुत्रिके त्वया || ३० || मिथ्यावचनमित्येतदावयोः परिभासते || अष्टांगयोगयुक्तानां मुनीनामूर्ध्वरेतसाम् || ३१ || प्रत्यक्षविषयो नाभूच्छिवः सत्यादिलक्षणः || तवाभवत्कथं देवो न दत्तं क्षीरमुत्तमम् || ३२ || वयस्यानां पयः सर्वं त्वया दत्तं न संशयः || भर्त्सयामासतुस्त्वेवं पितरौ क्रोधमूर्छितौ || ३३ || पुनस्तामुचतुर्बालां पितरावतिविस्मितौ || परेद्युः प्रातरुत्थाय गत्वा गेहं पिनाकिनः || ३४ || आवां निश्चिनुवस्तूर्णं सर्वं त्वद्भाषितं वचः || इत्युक्त्वा बालया साकं गृहं स्वीयं विवेशितुः || ३५ || ततः प्रातः समुत्थाय ग्राहयित्वा पयोघटम् || बालया पद्मपत्राक्ष्या जग्मतुः परमेश्वरम् || ३६ || लिंगस्य पुरतः स्थाप्य पयःपूर्णं घटं परम् || पूर्ववच्च गृहाणेदमिति प्रोवाच बालिका || ३७ || तया संप्रार्थ्यमानोऽपि न जग्राह पयः शिवः || बालिकामौढ्यममलं प्रकटीकर्तुमीश्वरः || ३८ || प्. १५३) तामतिक्रोधताम्राक्षः पिता प्राह तनूभवाम् || पूर्वं बहुविधालापास्त्वया प्रोक्ता मदन्तिके || ३९ || किमित्ययं न गृण्हाति पयस्तत्पुरतः स्थितम् || इति निर्भर्त्स्य तनयां निहंतुमुपचक्रमे || ४० || साऽत्यन्तदुःखनिर्दग्धा रुदन्ती च पुनः पुनः || हा लिंग लिंग लिंगेति प्रलपन्ती मुहुर्मुहुः || ४१ || मया किमपराद्धं ते किमित्येवमुपेक्षसे || एवं संभाषमाणायां बालायां परमेश्वरः || ४२ || माभैषीस्त्वं महाभागे मयि तिष्ठति किं भयम् || इति लिंगबिलं तस्यै दर्शयामास शंकरः || ४३ || अत्यंतभीता सा बाला विवेश बिलमुल्बणम् || ततः पिता समागत्य त्वरया लिंगसंनिधिम् || ४४ || प्रविश्यमानां तां बालां दृष्ट्वा केशान् समग्रहीत् || मुष्टिमात्रमिताः केशा ह्यवशिष्टास्तथाऽभवन् || ४५ || बाला तु लिंगगर्भेऽस्मिन् विलीनाऽभवदुज्ज्वला || इदानीमपि लिंगस्य मस्तके केशसंचयः || ४६ || मुष्टिमात्रप्रमाणेन सर्वैश्च परिदृश्यते || षट्संख्येषु च मासेषु गच्छत्सु विबुधैः परैः || ४७ || छिद्यते केशनिचयो गोपिकाया पुनः पुनः || प्.१५४) अत्युत्तममिदं कर्म सर्वविश्वासकारणम् || ४८ || वृत्तम् || इति परमरहस्यं गोपिकासच्चरित्र सकलसुरमुनींद्रैरादृतं भक्तिमद्भिः || गुरुबसवमुखांभोजातजातं निशम्य क्षणमनुहृदि दध्यौ नागमांबातनूजः || ४९ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे परमरहस्ये स्वरूपग्रंथे कुमारागस्त्यसंवादे कोडगूचीचरितं नाम अष्टादशाऽध्यायः || प्. १५५) अथ एकोनविंशोऽध्यायः || अगस्त्य उवाच || विचित्रं शिवमाहात्म्यं विचित्रं भक्तचेष्टितम् || बसवेश्वरमाहात्म्यं विचित्रं विस्मयावहम् || १ || पुनस्तच्छ्रोतुमिच्छामि समासेनाद्य ऽण्मुख || कुंभयोनेर्वचः श्रुत्वा कार्तिकेयो महामतिः || बसवेश्वरमाहात्म्यं वक्तुं समुपचक्रमे || २ || कुमार उवाच || बसवेशेनैवमुक्तः श्रीचन्नबसवेश्वरः || मुग्धानामेव भक्तानां माहात्म्यं वद सद्गुरो || ३ || एवं शिष्यकृतप्रश्नो बसवेशो गुरूत्तमः || प्रचक्रमे कथामेकां वक्तुं पापप्रणाशिनीम् || ४ || कलियारुकथा बसवेश उवाच || श्रीमत्कांचीपुरे रम्ये कलियारुर्महामतिः || दृढभक्तिर्महादेवे शिवभक्तार्चनोत्सुकः || स कदाचित्ततो गन्तुं रम्यं ग्रामान्तरं प्रति || ५ || अरण्यमतुलं दीर्घं नानावृक्षसमाकुलम् || तरक्षुव्याघ्रभल्लूकनानामृगसमाकुलम् || ६ || विवेश दीपदकलिः शिवभक्तो दृढव्रतः || तन्मध्ये जीर्यमाणं च स ददर्श शिवालयम् || ७ || प्. १५६) हा कष्टं शिवलिंगस्य जीर्णं स्वस्यालयं परम् || ततोऽपि च महाकष्टं महारण्याधिवासनम् || ८ || तस्मात्परतरं कष्टमेकस्यैव निवासनम् | कौपीनाच्छानरतान् यश्चकार मुनीश्वरान् || ९ || दानवानपि यश्चक्रे मुक्तिसौख्यैकभाजिनः || ब्रह्मेंद्रविष्णुप्रमुखान् देवान् सर्वान् समंततः || १० || भृत्यत्वे योजयामास यश्चंद्रार्धशिरोमणिः || भ्राजयामास मार्तंडान् द्वादशापांगवीक्षणात् || ११ || अकरोद्भस्म मदनं परं सौंदर्यगर्वितम् || पुरत्रयं महाघोरं यो ददाह क्षणेन च || १२ || चक्रे दामोदरं यस्तु याचकं बलिमंदिरे || वेदैर्विधेयं यश्चक्रे विधातारं महत्तरम् || १३ || करुणार्द्रान्तरंगोऽपि यश्चक्रे सर्वसंहृतिम् || तस्यैव परमेशस्य निवासो विपिने कथम् || १४ || आलयं जीर्णमभवन्नानास्तम्भसमाकुलम् | गोपुरं जीर्णमुत्तुंगं मंटपं शिथिलं परम् || १५ || जिर्णानि च कवाटानि सार्गलानि महान्ति च || किमत्र बहुनोक्तेन सर्वं जीर्णमभूत्स्वयम् || १६ || प्. १५७) स्वदेहार्धमहागौरी यद्यस्तीदं कथं भवेत् || संमार्जनक्रिया नैव महत्यस्मिन् शिवालये || १७ || पूजाहीनमिवाभाति लिंगं सर्वमनोहरम् || ऽऽइवार्चकानां संचारो नैवात्र परिदृश्यते || १८ || किमम्त्रोक्तिसहस्रेण तस्यैकस्य स्थितिर्वने || महाप्रमादजननई बहुजानिप्रदा भवेत् || १९ || किमाभिः शुष्कचिन्ताभिः स्वस्थं सर्वं करोम्यहम् || इति निश्चित्य मनसा कलियारुर्दृढाशयः || २० || सर्वं धनं स्वायनस्थितमानीय भृत्यकैः || शिवालयं दृढं कृत्वा चक्रे प्राकारमुत्तमम् || २१ || शिवालयसमीपे तु चक्रे बिल्ववनं परम् || नानावृक्षसमाकीर्णं नानापुष्पोपशोभितम् || २२ || वापीकूपतटाकादीन् कारयामास भक्तितः || दीपिकाग्राहिणः सर्वानर्चकानां ततिं ततः || २३ || नानामृदंगवादित्रवादनात्यन्तकोविदान् || कुंतपट्टकृपाणादिनानाऽऽ.युक्धधरानपि || २४ || नृत्यगेयादिकुशलान् वेश्यासंघाननेकशः || स्थापयामास सद्भक्त्या दीपदो भक्तसत्तमः || २५ || किमत्र बहुनोक्तेन विपिनं घोरदर्शनम् || सोमप्रभासमायुक्तं पुरमासीन्मनोरमम् || २६ || एवं बहुविधे काले गते सर्वसमृद्धिदे || कलियारोर्धनं सर्वं विनष्टमभवत्तदा || २७ || ततो यथायथं ज * हुरुपचारप्रवर्तकाः || प्. १५८) उपचारांश्च तान् सर्वान् स्वयमेवाकरोदयम् || २८ || न शक्तिरभवत्तस्य दीपतैलादिसंग्रहे || अंधकारापनोदार्थं काष्ठभारं ददाह सः || २९ || तृणेष्वपि च दग्धेषु धैर्यवान् भक्तसत्तमः || आनीय वस्त्रनिचयं सर्वं स्वभवनस्थितम् || ३० || ददाह परमप्रीत्या चिंताभारविवर्जितः || यातेषु तेषु तच्छिद्रैश्चकार करदीपिकाम् || ३१ || तस्यामपि विनष्टायां भृशं चिंतापरोऽभवत् || अंधकारो महानासीद्भुवि विष्टंति तस्कराः || ३२ || अतो मयाद्य किं कार्यमिति चिंतां चकार सः || एवं संचिन्त्य बहुधा निर्विण्णो भक्तसत्तमः || ३३ || जटामाबध्य सुदृढां प्रददाह विशंकितः || ततो न गणयामास शिरोवेदनमात्मनः || ३४ || एतत्सर्वं तु विज्ञाय शिवस्त्रिपुरभंजनः || अंबिकारमणः साक्षाच्छूलहस्तः पिनाकधृक् || ३५ || प्रत्यक्षतामगात्तूर्णं प्रमथैः परिवारितः || अयि दीपद सद्बुद्धे प्रीतोऽहमधुना तव || ३६ || यदिष्टं वरय त्वं हि तद्दास्यामि न संशयः || एवमुक्तस्तु देवेन दीपदः प्रत्युवाच तम् || ३७ || ममाशास्यं किमस्त्यन्यच्चंद्रचूड दयानिधे || प्. १५९) किं त्वेकं वरयाम्यद्य वरं लोकैकविश्रुतम् || ३८ || एतस्मिन् घोरकांतारे न युक्तं तव वर्तितुम् || एतत्संरक्षणे शक्तिर्मम नास्ति महेश्वर || अत्रोपायं चिन्तयस्व वरो मम महानयम् || ३९ || वृत्तम् || श्रीमद्दीपदनायकेन महता भक्तेन संबोधितः सर्वज्ञः परमेश्वरोऽतिकरुणाक्रान्तान्तरात्मा महान् || भक्तं तेन विनिर्मितानि सकलान्यादाय तूर्णं ययौ कैलासाख्यपदं परं च पुनरावृत्त्या विहीनं महत् || ४० || लोके भक्तिमुपागताः स्वतनुना साकं शिवं यान्त्यमीत्येतन्नाद्भुत मेव दीपदकलिः सांबं च तस्यालयम् || आदायाद्भुतमेव तारकगिरिं यातीति सर्वे जनाः संभुयातितरां विमुग्धहृदयं स्तुत्यं प्रशंसंति हि || ४१ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे कुमारागस्त्यसंवादे दीपदकलियारुचरितं नामैकोनविंशोऽध्यायः || प्. १६० ) अथ विंशतितमोऽध्यायः || नाट्यनमित्तंडिकथा || अगस्त्य उवाच || कुमाराय नमस्तुभ्यं कुमाराचलवासिन् || पुनश्च श्रोतुमिच्छामि भक्तमाहात्म्यमुत्तमम् || १ || अगस्त्यवचनं श्रुत्वा तस्मै स्कंदः पुनस्तथा || मुग्धभक्तकथामन्यामूचे सर्वाघनाशिनीम् || २ || कुमार उवाच || ततस्तु बसवः श्रीमान् श्रीचन्नबसवेश्वरम् || मुग्धानामेव माहात्म्यं वक्तुं समुपचक्रमे || ३ || श्रीमत्कांचीपुरे रम्ये नानामुनिगणावृते || तत्राभूद्ब्राह्मणः कश्चिच्छिवभक्तो दृढव्रतः || ४ || नमित्तंडिरिति ख्यातो मुग्धभक्तिसमावृतः || सोऽप्येकाम्रेश्वरं द्रष्टुं गजासुरनिषूदनम् || ५ || अत्यद्भुताकारधरं बालेंदुकृतशेखरम् || कालकंठं विरूपाक्षं तूर्णमभ्याययौ द्विजः || ६ || एकं शिवार्चकं दृष्ट्वा समाहूयेदमब्रवीत् || शिवस्य मध्यभागोऽयं कुटिलं परिदृश्यते || ७ || वक्रभावं समासाद्य हस्तौ वा परमेशितुः || रोगादिना वा तौ पीनौ किमेतत्तिष्ठतेऽधुना || ८ || त्रिधाननं सदवनीं स्पृष्टमस्पृष्टवत्तथा || वर्तते पदयोरेकमन्यद्दूरेच तिष्ठति || ९ || प्. १६१) नेत्रत्रयं निमेषैश्च विहीनं परिदृश्यते || एकस्मिन्नेव भागे तु प्रस्थवद्वर्तते शिरः || १० || जटाभारस्य सद्ग्रंथिर्भृश्यमाना प्रवर्तते || एतच्चोद्यमिवाभाति कारणं तत्र किं वद || ११ || शिवद्विजवरः प्राह मंदस्मितमुखो वचः || वातरोगसमाक्रान्तः स्थितस्त्वेवं महेश्वरः || १२ || न चेदस्य तु भैष्ज्यं शरीतं नाशमाप्नुयात् || वेद्म्यहं तच्चिकित्सां वै भेषजं परिवर्तते || १३ || यद्यस्ति शक्तिस्ते ब्रह्मन् कारयस्व मयाऽधुना || शिवद्विजेनैवमुक्तः परिहासपुरःसरम् || १४ || श्रद्दधानो नमित्तंडिरतिभक्तिसमन्वितः || यदस्ति स्वगृहे द्रव्यं तदानीय महत्तरम् || १५ || निक्षिप्तवांस्तदग्रे तु वेपमानो भयाकुलः || गृहीत्वा सकलं द्रव्यं वार्तं कुरु महेशितुः || १६ || साध्वी सती सुताश्चाहं भवामस्ते हि भृत्यकाः || कुरुष्वेतन्महापुण्यमित्यवोचच्छिवार्चकं || १७ || गृहीत्वा तद्धनं सर्वं कापट्येन शिवार्चकः || वातशांतिकरं तैलं करिष्यामीत्यवोचतम् || १८ || गृहीत्वा श्रपितं तैलं ददावस्मै द्विजन्मने || तद्गृहीत्वा नमित्तंडिर्लेपयामास शंकरम् || १९ || अर्कपत्रादिपत्राणि समानीय द्विजोत्तमः || प्. १६२) उपचार ततश्चक्रे वातरोगनिबर्हणम् || २० || पथ्ययोग्यानि भोज्यानि ददौ प्रत्यहमास्थया || एवं दिनेषु गच्छत्सु चिन्तयामास स द्विजः || २१ || व्यतीतानि दिनान्यस्य रोगस्तु न निवर्तते || नश्येत्किं वातरोगोऽयं वन्यमूलैरुमापतेः || २२ || अहमेव भिषक् तस्य भविस्यामि न संशयः || इति संचिन्त्य मनसा मर्तुं समुपचक्रमे || २३ || अथास्मिन्नंतरे देवो महादेवो महेश्वरः || पार्वतीसहितः श्रीमान सर्वतंत्रविशारदः || २४ || भृंग्यादिप्रमथोपेतः शिवः प्रत्यक्षतामगात् || ततो नाट्यनमित्तंडिं दोर्भ्यामालिंग्य सत्वरम् || २५ || तवेप्सितं वरं दद्यां दैवतैरपि दुर्लभम् || एवमुक्तो नमित्तंडिः प्रोवाच परमेश्वरम् || २६ || वरैरन्यैः किमेभिर्मे भयेनाक्रान्तचेतसः || तथापि च वरिष्यामि वरं मद्धृदयस्थितम् || २७ || दृश्यते वक्रता देहे तव त्रिपुरभंजन || रोगेणेयं समुत्पन्ना सहजा वा महेश्वर || २८ || वक्तुमर्हसि देवेश कृपा चेन्मयि चाधुना || इत्युक्तः परमेशोऽपि प्राह ब्राह्मणपुंगवम् || २९ || तांडवाकृतिरेषा मे न रोगादिनिमित्तजा || प्. १६३) नाट्यस्याभिमुखश्चाहं ढक्कां संताडयामि चेत् || ३० || सर्वं विलयमाप्नोति जगदेतच्चराचरम् || नृत्तार्थं चलिते पादे तारा भुवि पतंति हि || ३१ || निरीक्षणेन महता ब्रह्मविष्ण्वादयः सुराः || लीयन्ते कुत्रचिद्देशे भयभ्रान्तविलोचनाः || ३२ || किंकिणीनादसंभ्रान्ता देवी गिरिवरात्मजा || मम वामांगभागस्था वेपमाना भयार्तितः || ३३ || निश्वासैश्च तथोच्छ्वासैर्ज्वलिते वडवानले || समुद्राः शुष्कतामापुर्नदीभिश्च समाकुलाः || ३४ || मत्पादघट्टनैर्भूमी रजोराशिस्तथाऽभवत् || भ्रान्ताश्च दिग्गजाः सर्वे निनदुर्मयि संस्थिते || ३५ || भ्रश्यत्कुठारपातेन गिरयश्चूर्णतां ययुः || पादाग्रताडनात्कूर्ममुखात्सस्राव शोणितम् || ३६ || जटाछटाभिघातेन भिन्नो ब्रह्मांडखर्परः || उत्पाटितानि भूतानि किरीटाग्रस्य घट्टनात् || ३७ || शेषो भुग्नफणो जातस्ताण्डवोद्धतवेगतः || प्. १६४) शेषनिश्वासवातेन नेत्राग्नौ ज्वलिते सति || ३८ || तदग्निज्वालया चन्द्रे भिन्ने सति शिरस्थिते || तस्मात्सुधा समुत्पना शिरसः स्पर्शमाप्नुवत् || ३९ || शिरोवक्षः पाणितले नृकपालानि यानि हि || अच्युतस्य कपालानि वर्तन्ते यानि यत्र हि || ४० || सुधासुत्या समस्तानि तानि प्राणयुतानि च || अभयं याचमानानि व्यतिष्ठन् ब्राह्मणोत्तम || ४१ || सर्वेष्वमरवर्गेषु सेवमानेषु तांडवे || क्रियमाणेऽतिवेगेन सर्वलोकक्षयावहे || ४२ || तत्तद्रसानुगुण्येन शरीरं वक्रतामगात् || तदाऽऽरभ्यजनाः सर्वे लसत्तांडवविग्रहम् || ४३ || अनुध्यायंति मामेव मम भक्ता मुमुक्षवः || एवमाभाष्य देवेशो नमित्तंडिं महोज्ज्वलम् || ४४ || ऋजूकृत्वा वक्रभावं हर्षितं भक्तसत्तमम् || कैलासं प्रापयामास सच्चिदानंदलक्षणः || ४५ || इत्युक्त्वा पुनरन्यस्य कथामाह वृष्र्श्वरः || वेदागमरहस्यं हि निशामय महामुने || ४६ || || कन्नप्पदेवकथा || श्रीकालहस्तिनगरे शैवसंघविराजिते || उडुमूरुकूलोद्भूतः कन्नपो भक्तसत्तमः || ४७ || प्. १६५) अत्यन्तधीरहृदयो दयासत्यविरागवान् || चोरमार्गरतो वाऽपि श्वगणैः परिवारितः || ४८ || धनुर्धरैः सहचरैर्लुब्धैर्बहुवनेचरैः || कदाचिन्मृगयाश्रांतः सुष्वाप विजने वने || ४९ || समागतस्ततः स्वप्ने भस्मदिग्धकलेवरः || रुद्राक्षमालाभरणो भक्तवेषधरः शिवः || ५० || कन्नप्पाख्यं समालोक्य भूतिपट्टं चकार सः || शिवकुंभोदकेनैवमभिषिच्य दृढाशयः || ५१ || परेद्युर्द्रक्ष्यसे लिंगंयत्सर्वैर्लक्षणैर्युतम् || तदेव प्राणलिंगं त्वं कुरुष्वात्यन्तभक्तितः || ५२ || ततः स्वप्नात् समुत्थाय विलोक्य च दिशो दश || अत्यन्तापूर्वमार्गोऽयमिति चिन्तितवानसौ || ५३ || जनान्सहचरान् सर्वान् विनिवार्यातिविस्मितः || तस्मान्मार्गादयं तूर्णं कार्याकार्यविमुढधीः || ५४ || ततः शतपदं प्राप्य गत्वा देशं वनान्तरे || तत्र लिंगं ददर्शाशु सुरम्यमतिपावनम् || ५५ || मया स्वप्नेऽपि यल्लिंगं दृष्टं शैवमनामयम् || तदेव लिंगमद्राक्षं प्रत्यक्षेण वनांतरे || ५६ || प्. १६६) अहो विवित्रमत्यन्तं स्वप्नस्येत्थं हि सत्यता || इति संतोषकलितः कन्नाख्योऽयं महामतिः || ५७ || ननाम दण्डवद्भूमौ सद्भक्त्या सकृता~ज्जलिः || स्वप्नोपदिष्टंयल्लिंगं देशिकेन महात्मना || ५८ || तदेवैतन्महालिंगमिति निश्चित्य चिन्तयन् || एतल्लिंगं मया त्यक्त्वा न गंतव्यं गृहान्तिकम् || ५९ || इति तल्लिंगमादाय कन्नपो गन्तुमुद्ययौ || अत्रास्ति चेदिदं लिंगमातपेनाति तप्यते || ६० || लिंगस्यास्य तु मद्ग्रामे गेहमेकं करोम्यहम् || अभीष्टार्थान् बहून् दत्वा संस्तुत्य विविधैः स्तवैः || ६१ || एतल्लिंगं तु नेतव्यं नान्योपायैर्महत्तरैः || इति मौग्धेन देवेशं तुष्टाव परमेश्वरम् || ६२ || अहो देव महाभाग संतज्य रजताचलम् || अनेकरत्नसंयुक्तं मंदराख्यं महानगरम् || ६३ || किमर्थं विपिनं प्राप्य विष्ठसि त्वं महेश्वर || अर्कधत्तूरपुष्पैस्त्वमुन्मत्तोऽसि किमीश्वर || ६४ || कुपितोऽस्यर्चकेषु त्वमुपचाराद्यभावतः || अनेकजनसंमर्दात्त्यक्त्वाऽन्यं नगमागतः || ६५ || गंगागौर्योस्तु कलहं समाधातुं त्वमक्षमः || चन्नभक्तादिसंपर्काद्भक्तैः किं नु बहिष्कृतः || ६६ || प्. १६७) संपादितुं वधूमन्यां तपः कर्तुं समागतः || कर्तुं नंबीशसंसेवामक्षमः किं समागतः || ६७ || अनुग्रहार्थं भक्तेऽस्मिन् काननं किमुपागतः || एकाकिनं काननस्थं विहीनं कार्मुकेषुभिः || ६८ || कथं संत्यज्य गच्छामि पदौ संचलितौ न मे || अर्धांगहारिणी गौरी क्व गता कमलेक्षणा || ६९ || सर्वान् गणान् परित्यज्य विष्ण्वादीनमरानपि || अरण्यं घोरमद्य त्वं सिंहव्याघ्रसमन्वितम् || ७० || अनेककिटिभिर्व्याप्तमागतोऽस्य विचारतः || दृष्ट्वा किरातशिशवस्ताडयेयुः शरः शितैः || ७१ || अतः सन्त्यज्य कान्तारं शुष्कमत्यन्तभीषणम् || नानाभोज्यैश्च संपूर्णं दधिक्षीरसमाकुलम् || ७२ || अनेकमधुसंकीर्णमागच्छ त्वं पुरं मम || कन्नपः प्रलपन्नेवं ननाम भुवि दण्डवत् || ७३ || अभाषयंतं देवेशं दृष्ट्वा चिन्तापरोऽभवत् || अनेककालमारभ्य नास्त्यस्य किमु भोजनम् || ७४ || वृथालापान परित्यज्य ह्यानये भोज्यमुत्तमम् || इति संचिन्त्य कनाख्यः कंदमूलफलानि च || ७५ || नानाफलानि दिव्यानि स्वादुमांसान् मृगानपि || प्. १६८) अन्वेषयन्वने तस्थौ धनुष्पाणिर्वनेचरः || ७६ || पुरातिबलसंपन्नौ महाविक्रमशोभितौ || श्रीवौंदरमहाकायौ दानवौ लोकविश्रुतो || ७७ || तौ तपश्चक्रतुः साम्बं शिवं लोकैकशंकरम् || तयोस्तु तपसा तुष्टः शिवः प्रत्यक्षतामगात् || ७८ || वरं दास्यामि युवयोर्मनसा परिचिंतितम् || ब्रह्मविष्ण्वादिदेवानां दास्यामि पदवीः पराम् || ७९ || इति शंभुवचः श्रुत्वा सभयौ भक्तिसंयुतौ || साष्टांगं दानवौ नत्वा याचयामासतुर्वरम् || ८० || पुराजलंधरेणायं भंगमाप मुरांतकः || नास्तल्लोकमिच्छावः समृद्धमपि सर्वथा || ८१ || अस्मद्गजासुरेणैव निकृत्तं ब्रह्मणः पदम् || निराकृतं तारकेण पदमीश शचीपतेः || ८२ || अतः स्थानेषु सर्वेषु सर्वदाऽऽवां पराङ्मुखौ || गजव्याघ्रादयस्त्वत्तो हताः पूर्वं महौजसः || ८३ || मोक्षमेव प्रपन्नस्ते पुनरावृत्तिवर्जितम् || आवामपि तथा मोक्षं गमिष्यावः पुरांतक || ८४ || अतो गृहाण नौ देहमाहारार्थं महेश्वर || इत्युक्तः परमेशोऽपि तौ बभाषे निशाचरौ || ८५ || श्रीकालहस्तिक्षेत्रस्य समीपे मृगरूपिणौ || युवां च तिट्ठतां नित्यं पुत्रमित्रसमन्वितौ || ८६ || प्. १६९) कन्नाख्यस्तु भवेद्भक्तो हनिष्यति मृगाकृती || तद्दत्तमांसनिचयं भुक्त्वा मुक्तिं ददामि वः || ८७ || राक्षसावेवमुक्तौ तौ शिवेन परमात्मना || पुत्रमित्रकलत्रैश्च जग्मतुर्मृगरूपताम् || ८८ || अन्यैश्चाप्रेक्षमाणास्ते विचेरुर्लिंगसव्निधौ || एकैकेनेषुणा कन्नो ह्येकैकमवधीत्क्रमात् || ८९ || मृगमांसं तदादाय मृदुलं शोभनं ततः || वन्हौ परमहर्ष्र्ण पचन्नास्वाद्य जिव्हया || ९० || रुच्यं रुच्यं पृथक् कृत्वा रम्यपत्रपुटे तथा || निक्षिप्य बिल्वपत्राणां पुटीं कृत्वा स्वमूर्धजान् || ९१ || मुखेनैव जलं गृण्हन् दक्षिणेनैव पाणिना || शरचापान् समादाय वमेनैव करेण च || ९२ || मांसयुक्तं पुटं गृण्हन् स ययौ शिवसंनिधिम् || आगत्य कन्नः पादेन चोपानहविशोभिना || ९३ || प्रमृज्य कालहस्तीशपूजां पूर्वंकृतां पराम् || गंडूषवारिणा स्नाप्य प्रार्चयद्बिल्वपत्रकैः || ९४ || ततो निवेदयामास स्वानीतं पिशितं परम् || किरातेन कृतां पूजामवलोक्य महीसुरः || ९५ || किरातोऽयमनाचरः पापकर्माविधर्षितः || कृतां च विधिना पूजां लोपयामास दुर्मतिः || ९६ || किं करोमि क्व गच्छामीत्येवं संचिन्त्य चेतसा || प्. १७०) तन्मांसखंडनिचयं स्वपादेन व्यचिक्षिपत् || ९७ || ततः पंचामृतैर्दिव्यैः स्नापयामास भक्तिमान् || पौराणैर्वेदिकैश्चैव स्तवैः स्तुष्टाव शंकरम् || ९८ || स्वयं रहस्यंदेशे* तु प्रच्छन्नः संस्थितो द्विजः || आगच्छन्तं महाक्रूरं पूजितुं परमेश्वरम् || ९९ || स ददर्श धनुष्पाणिं कालान्तकमिवापरम् || तत्पादमार्जितां पूजां स्वकृतां वेदमंत्रकैः || १०० || दृष्टाऽथ ब्राह्मणः श्रीमान् मनसीदं व्यचिन्तयत् || अहो नैव नियोगोऽयं किरातेन दुरात्मना || १०१ || लिंगं संस्पृष्टमभवत् संस्कृतं वेदमंत्रकैः || न निवारयितुं शक्तिर्दुर्बलस्य ममास्ति हि || १०२ || यथाऽत्रैव महाक्षेत्रे तंतुवायोऽतिदुर्बलः || तंतुभिः स्वांगसंभूतैरालयं शूलपाणिनः || १०३ || गोपुराणि चकाराशु मंडपान्यकरोद्भृशम् || एवं बाह्यस्थलिंगेऽस्य कीटस्तूपचचार सः || १०४ || अथास्मिन्नंतरे तूर्णमेकः शुंडालपुंगवः || लिंगं हि कीटनीतेन तन्तुजालेन वेष्टितम् || १०५ || इदं रम्यं करिष्यामि तंतुनाशनपूर्वकं || इति निश्चित्य मनसा चिन्ताभारसमाकुलः || १०६ || बृंहितैश्च कराग्रेण तंतुजालमनाशयत् || ततः करानीतजलैरभिषेकं चकार सः || १०७ || प्. १७१) पूजयामास वेगेन स्वकुंभानीतपंकजैः || एवं त्रिषंध्यं शुडालः पूजां कुर्वन्नवर्तत् || १०८ || ततः कीटवरो धीमानागत्यैतन्निरीक्ष्य च || शोकभारसमाक्रान्तस्तस्थौ लिंगस्य सन्निधौ || १०९ || आगच्छन्तं महामत्तं स्वोपचारविनाशकम् || सर्वदाऽहं हनिष्यामीत्येवं चेतस्यचिन्तयत् || ११० || ततः शनैरिभं प्राप्य नासाद्वारं विवेश सः || तद्वारेण शिरोभागं प्राप्य तन्मांससंचयम् || १११ || विनाशयामास ततः स ममारोद्धतो गजः || तथैवाहममुं क्रूरं हनिष्यामि दुरासदम् || ११२ || विचार्येत्थं द्विजन्माऽपि गृहीत्वा शस्त्रमुत्तमम् || तदागमनवेलायां रहो देशे च संस्थितः || ११३ || एतस्मिन्नन्तरे देवः कालहस्तीश्वरो महान् || किरातभक्तिदार्ढ्यं तद्ब्राह्मणाय निवेदितुम् || ११४ || विकृतं रूपमास्थाय लोचनत्रितयोज्ज्वलम् || जलं सस्राव नेत्राब्जाच्छिवस्य परमात्मनः || ११५ || किरातोऽत्र समागत्य दृष्ट्वा रूपान्तरं परम् || स्रवमाणं च नेत्र्ब्जाज्जलं दृष्ट्वा महत्तरम् || ११६ || भयेन वेपमानोऽसौ शोकाक्रान्तस्वमानसः || स्वयं च पूर्ववत्पूजां चकारायं वनेचरः || ११७ || ततो नेत्र जलं दृष्ट्वा कन्नः प्रोवाच शंकरम् || प्. १७२) भो भोः किमेतदाश्चर्यमदृष्टचरमीदृशम् || ११८ || दाक्षायणीमृतिं श्रुत्वा न नेत्रेभ्यो जलं स्रुत्म् || चीलालस्य शिरश्छेदं चिरुतोंडकृतं परम् || ११९ || दृष्ट्वाऽप्यश्रूण्यजातानि भवतः परमेश्वा || भवदाज्ञापसारे तु दृष्ट्वा ब्रह्मणमुत्तमम् ||| १२० || तदानीं तव नेत्राब्जान्नासीज्जलविनिः सृतिः || गृहीतुमन्यवनितां दारुकाख्यवने परे || १२१ || नाभवद्बध्यमानस्य नेत्रात्ते जलनिस्रुतिः || मृत्पूर्णपात्रभरणे न नेत्रात्ते जलस्रुतिः || १२२ || विहाय पत्नीपुत्रादीन् वसामि हि वनान्तरे || एवं संचिन्त्य दिनात्मा किं रोदिषि महेश्वर || १२३ || एकाकिना मया सर्वे लोका धर्तुं च न क्षमाः || तथा क्षुद्बाधया किं नु मदनागमनोत्थया || १२४ || व्याघ्रादिभिरयं भक्तो भक्षितस्त्विति चिंतया || सर्वोपचारान् संत्यज्य कन्नो ग्रामं ययाविति || १२५ || अतिक्रूतो महासर्पो दशतीत्यथवा प्रभो || किमर्थं रोदति भवान् भयभ्रान्त इवाधुना || १२६ || वदस्व मम सर्वेश रोदनस्याद्य कारणम् || इति दोर्श्यां समालिंग्य कालहस्तीश्वरं परम् || १२७ || प्. १७३) नेत्रोत्थं ममृजे नीरं चिंताव्याकुलमानसः || सिकतं पतितं किं नु वायवानीतं तृणादिकम् || १२८ || इति संमार्जयामास वस्त्राग्रेण्स् वनेचरः || एकनेत्रजलं दृष्ट्वा क्रोशमाने वनेचरे || १२९ || नेत्रांतराच्च् निष्क्रान्तो जलासारोष्तिदुस्तरः || ईशनेत्रजलं घोरं स निवारितुमक्षमः || १३० || भूमौ च निपतत्याशु हृदयं ताडयत्यसौ || नेमान्यानंदबाष्पाणि मुखे शोकनिरीक्षणात् || १३१ || कटाक्षवीक्षणजलं नेदमौष्ण्यानुवर्तनात् || न नेत्रयोर्घर्मजलं नेत्रस्वेदानिरीक्षणात् || १३२ || एकलोचनजन्यत्वान्नेदं कुःखोद्भवं जलम् || अतो रोगसमुत्पन्नमिदं नेत्रजलं परम् || १३३ || नाहं भिषग्वरो धीमान् नेत्रौषधविचक्षणः || त्वां त्रिनेत्रमिति ज्ञात्वा भृत्या जाताः सुराधिपाः || १३४ || यदा कदापि ते देहो नैतादृग्रोगसंकुलः || यन्नेत्रानलनिर्दग्धास्ते मृतिं प्राप्नुवंति हि || १३५ || प्. १७४) अंगहीनं दृष्ट्वा विमुखाः पंकजाननाः || त्वामंगहीनं सद्भक्ता इह तु प्रहसंति वै || १३६ || पुरा नेत्रं समुत्पाट्य पूजयमास केशवः || ततस्तद्भक्तिसंतुष्टो दत्तवानसि लोचनम् || १३७ || तत्सामर्थयं क्वानुगतं वद मे परमेश्वर || किं करोमि क्व गच्छामि किं वदाम्यतिदुःखितः || १३८ || नासीत्तवेदृशो रोगो भगवन् चिरजीविनः || एवं संचिन्त्य बहुधा किरातो भक्तसत्तमः || १३९ || उपायं निश्चयामास नेत्ररोगनिवृत्तये || शस्त्रेणोत्तार्य मन्नेत्रं तव दास्यामि निश्चयात् || १४० || त्वन्नेत्रं रोगसंयुक्तमहं गृण्हाम्यतंद्रितः || नेत्रमुत्पाटितुं शस्त्रं संदधे स वनेचरः || १४१ || उत्पाट्य लोचनं स्वीयं स शिवाय न्यवेदयत् || तेनैकनेत्रमीशस्य पद्मपत्रमिवाबभौ || १४२ || पुनर्नेत्रांतराज्जातं सलिलं परमेशितुः || तद्दृष्ट्वा सौख्यमापन्नः किंचित्प्रीतिमुखो ऽभवत् || १४३ || द्वितीयं लोचनं स्वीयमुप्ताटितुमसंशयः || चक्रे बुद्धिं महाभक्तो दातुमन्तकहारिणे || १४४ || प्. १७४) एतस्म्न्नंतरे सांबश्चंद्रार्धकृतशेखरः || वृषभेश्वरमारुह्य प्रत्यक्षोऽतिष्ठदन्तिके || १४५ || पुरःस्थितं च कन्नाक्यं भक्तं दृष्ट्वाऽतिविस्मितः || दोर्भ्यामालिंग्य तन्नेत्रं पुनस्तस्मै ददौ शिवः || १४६ || आनंदाश्रूणि कनाख्यनेत्राभ्यामथ जज्ञिरे || लिंगनेत्रसमुद्भूता या पुरा जलरूपिणी || १४७ || आनंदबाष्पधाराऽभूत्तदा तस्य पिनाकिनः || ततो मुनिगणाः सर्वे विष्ण्वाद्याश्च सुरास्तदा || १४८ || तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं त्रिलोचनम् || ते प्रशंसुश्च कन्नाख्यं भक्तं च विजितेंद्रियम् || १४९ || देवदंदुभयो नेदुः पुष्.पवृष्टिः पपात च || कन्नस्य शिवभक्तेश्च तथा तस्य गुणोन्नगेः || १५० || तन्मौग्ध्यस्यापि संतुष्टं शिवं परमकारणम् || द्रष्टुमभ्याययौ तूर्णं रहोदेशाद्द्विजोत्तमः || १५१ || स्तुवन्नानाविधैः स्तोत्रैर्वैदिकैश्च पुराणगैः || कन्नाख्यं शिवभक्तं च प्रणनाम द्विजोत्तमः || १५२ || ततः कन्नमुवाचेदं प्रांजलिर्द्विजपुंगवः || मौग्ध्यमीश्वरभक्तिं च न जानामिदृशीं पराम् || १५३ || तवापकारकरणे सन्नद्धोऽस्मि वनेचर || प्. १७६) अपराधसहस्राणि क्षमस्वाद्य ममानघ || १५४ || अशेषवेदवेदान्तवेद्यस्त्वं परमेश्वरः || शिवस्यापि तवात्यन्तं न भेदोऽस्ति यथार्थतः || १५५ || तवेदृशी महाभक्तिर्मौग्ध्यं चापि महत्तरम् || नास्ति भूमंडलेऽन्यत्र ब्राह्मणेषु महत्स्वपि || १५६ || वनेचरे स्तूयमाने ब्राह्मणेन महात्मना || गौरी च विस्मयं लेभे शिववामांगसंस्थिता || १५७ || शिवः संप्रेक्षयामास किरात. परमादरात् || किरातोऽपि महादेवं ददर्शा त्यन्तहर्षितः || १५८ || तयोरकेत्वमभजन् दृष्टयोऽत्यन्तशोभनाः || पूर्वमस्य महेशस्य कन्नदत्तं विलोचनम् || १५९ || अस्ति चेन्मथः श्रीमान् कथं नाशमवाप्नुयात् || महत्पुरत्रयं चापि कथं दाहमवाप्नुयात् || १६० || अत्यन्तशीतलेनैतच्चक्षुषा दृश्यते यदि || विश्वं प्रलयकालेऽपि कथं दग्धं भविष्यति || १६१ || कथमुग्राक्षि तस्य स्यादेतस्मींअल्लोचने सति || एतन्नयनलोभेन शिवोऽत्यन्तदयापरः || १६२ || इति संस्तूयमानोऽभूज्जनैः सर्वेर्मुनीश्वरैः || कन्नप्पनेत्रलाभेन शुशुभे परमेश्वरः || १६३ || कन्नस्य पादरक्षायाः संस्पर्शसहनाद्भुवि || भक्तवत्सलविख्यातिं लेभे त्रिपुरभंजनः || १६४ || प्. १७७) इति संस्तूयमानं तं कन्नाख्यं भक्तसत्तमम् || आलिंग्य च शिवो दोर्भ्यां करुणाप्लुतमानसः || १६५ || प्राह गंभीरया वाचा गणानामग्रतः शिवः || वरं दास्यामि संतुष्टस्ते वृणीष्व यथेप्सितम् || १६६ || स शिवेनैवमुक्तस्तु कन्नः प्रोवाच शंकरम् || अहं नाम न जानामि त्वदुक्तं वरमोक्षयोः || १६७ || त्वामेकमेव जानामि सत्यं सत्यं मयोदितम् || तथापि कामये चाहं सर्वेषामतिदुर्लभम् || १६८ || कटाक्षा एव सततं पतन्तु मयि शंकर || एवमुक्तस्तदा देवः शंकरो लोकशंकरः || १६९ || कन्नाख्यं पुरतः स्थाप्य स्वयं तस्थौ कृतार्थधीः || कन्नेशयोः कटाक्षाश्च मिलिताः संचकाशिरे || १७० || एवमानंदकलितावुभौ भक्तेश्वरौ परौ || कालहस्तिपुरे रम्ये तिष्ठंतौ च महौजसौ || १७१ || ततः प्रभृति कन्नस्य गंडूषमतिपावनम् || कालहस्तीश्वरस्नाननीरमासीन्मनोहरम् || १७२ || जनाः संपूजयन्त्यद्य शिवलिंगं महोज्ज्वलम् | कन्ननिर्माल्यपुष्पौधैरेतद्धि शिवशासनम् || १७३ || पूर्वं निवेद्य कन्नाय भक्षभोज्यादिकं परम् | निवेदयन्ति देवाय पश्चात्सर्वे तपोधनाः || १७४ || प्. १७८) अतो मुग्धस्व्भावानां शिवः शीघ्रं प्रसीदति | एवं मुग्धकथां रम्यां कथयन् बसवेश्वरः || १७५ || सद्भिर्गणैः स्तुतः सभ्यैः श्रीचन्नबसवेन च | पुरा भक्तवरः कश्चित् कलियंबुरिति श्रुतः || १७६ || भक्तानन्दप्रदो नित्यमद्भुताख्यानवर्णनैः | हासयामास देवेशं लीलाविग्रहधारिणम् || १७७ || तथैवाहं करिष्यामि भक्तान् स्मितमुखान् परान् | जन्मसाफल्यमेतद्धि श्रुणुध्वं भक्तसत्तमाः || १७८ || वृत्तम् || श्रीकालहस्तिनिलये परमेशभक्ता एवं स्थिताः सकललोकजनाभिवंद्याः || मुग्धेशभक्तकथया बसवेश्वरोऽसौ संतोषमूर्मिकलयैव जगाम सिंधुः || १७९ || मुग्धसंगस्य वै रुद्रपशुपस्य महात्मनोः | श्रीनीलनक्कनैनारोर्बालिकाबिज्जमाम्बयोः || १८० || दीपदाख्यकलीशस्य नाट्यनम्यंकतंडिनः | कन्नप्पाख्यस्य मुग्धानां शिवभक्तिसुसंपदां || १८१ || एतेषां नब भक्तानां चरितानि तु ये भुवि | स्तुवंति नित्यं शृण्वंति गायंति शिवभक्तितः || १८२ || पुत्राभिवृद्धिधर्मार्थकाममोक्षादिसिद्धयः | सिध्यंति सज्जनानां च तेषां शंभोः कृपाबलात् || १८३ || इत्येवं बोधितं चन्नबसवाय वृषेण हि | प्. १७९) मुग्धचारित्रनिकरं विद्धि कुंभज मोक्षदम् || १८४ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेपुराणे स्कंदागस्त्यसंवादे कन्नप्पकथानुवर्णनं नाम विंशोऽध्यायः प्. १८०) अथ एकविंशोऽध्यायः || मादिराजचरितं || || अगस्त्य उवाच || महासेन नमस्तेऽस्तु पार्वतीप्रियनंदन || श्रोतव्यं भक्तमाहात्म्यं ब्रूहि मेऽद्य षडनन | इत्युक्ते कुंभजे प्राह शिखिवाहः प्रमोदतः || १ || || स्कन्द उवाच || लोपामुद्राधव शृणु शंभुभक्तकथामिमाम् | श्रीचन्नबसवेशार्थं मुग्धभक्तचरित्रकं | उपवर्ण्य सभामध्ये तस्थौ श्रीबसवेश्वरः || २ || अथास्मिन्नंतरे योगी माहिराज इति श्रुतः | सकलेशान्वये जातो वीणावादनकोविदः || ३ || वेदवेदान्तसंवेद्यः शिवतत्वविदग्रणीः | यमाद्यष्टांगसंपन्नो युक्तः शमदमादिभिः || ४ || शिरोमणिः सज्जनानां कारुण्याप्लुतविग्रहः | अम्बिकाख्यपुरे रम्ये शिवभक्तैः समावृते || ५ || तत्र स्थित्वा माहीं सर्वां पालयन्नतिधर्मतः | गुरुजंगमलिंगानामर्चनातत्परः परः || ६ || आस्तीर्णपुष्पनिचये भवने संस्तुवन् शिवम् | द्वात्रिंशत्संख्यरागाणां पर्वाण्यारभ्य शास्त्रतः || ७ || तत्तद्रसानुगुण्येन यं यं रागं स्वयं जगौ | प्. १८१) ननाद महतीं वीणां तं तं रागं स्वयं बहु || ८ || तानानि स्वयमादत्ते यथायोग्यं श्रुतेरपि | संयोज्य शिवपूजायामतिहर्षेण संजगौ || ९ || श्रीरागैः पौरुषैरागैर्भरतेन विनिर्मितैः | मुमुदेऽतितरां गायन् शिवमानंदयन् परम् || १० || तत्तद्वाद्यानुगुण्येन नाट्यं बहुतरं स्वयं | गानं श्रुत्वा प्रमुदितान् भक्तान् संभावयन् समान् || ११ || अनेकभक्तसंघेश्च शिवपूजापरोऽभवत् | स कदाचित्सभामध्ये शिवभक्तैः समावृतः || १२ || तेश्यः शुश्राव मधुरवाक्यमत्यन्तपावनम् | मंडलाधिपतिः श्रीमान्मल्लर्सुरिति विश्रुतः || १३ || गेयशास्त्रकलाभिज्ञः पुराऽभूधार्मिकः प्रभुः | स कदाचिन्महीं कृत्स्नां त्यक्त्वा श्रीनगमभ्यगात् || १४ || तत्र बिल्ववने रम्ये तस्थावेकाग्रमानसः | इति श्रुत्वा भक्तमुखात् श्रीगिरिं स्वयमाययौ || १५ || मल्लर्सुं द्रष्टुकामः सन्नुत्साहकलितो महान् | तत्र शृंगाणि सर्वणि सर्वाः पुण्यगुहास्तथा || १६ || स्फाटिकाद्रीन् कांचनाद्रीन् रत्नाद्रीन् विविधनपि | पातालस्थगुहाः सर्वाः शिला अभ्रंकषा अपि || १७ || तथा भूतलसंछन्ननानापुरवराण्यपि | रसायनरसाहार्यांस्तथैव मणिपर्वान् || १८ || प्. १८२) मृगपक्षिमहानागसंपूर्णयतनानि च | अगण्यानि महार्हाणि वनानि विविधानि च || १९ || गिरिचूडाग्रनिपतत्प्रवाहकुलमंञ्जुलान् | एवं बहुविधान् देशान् दृष्ट्वा विस्मितमानसः || २० || स्नानलिंगार्चनादीनि तत्र तत्राचरन्नृपः | रुद्राक्षपर्वतान् रम्यांस्तथा रुद्राक्षभूरुहान् || २१ || रुद्राक्षाकरदेशांश्च रुद्राक्षसरितस्तथा | भस्मास्कान् भस्मतरून् पर्वतान् भस्मसंकुलान् || २२ || लिंगद्रुमाल्लिंगशैलांस्तथा लिंगादरान् बहून् | लिंगतीर्थानि सर्वाणि लिंगकीर्णतरंगिणीः || २३ || जंगमांस्तरुशैलादीन् व्रततीश्चापि जंगमाः | सल्लापासक्तवृक्षांश्च लताः सल्लापिनीस्तथा || २४ || परस्परं च सल्लापकौतुकान्भुधरानपि | तृणज्योतींषि सर्वत्र काष्ठज्योतींषि भूरिशः || २५ || गानयुक्तान्शकुंतांश्च नृत्यवत्पर्वतानपि || नृत्ययुक्तमृगान् सर्वान् नर्तनासक्तवानरान् || २६ || जलाकारगिरिन् सर्वानम्भोमयतरूनपि || जलरूपमृगान् सर्वान्विहंगान्सलिलाकृतीन् || २७ || भूरहान्बहुवर्णांश्च स्वर्णवर्णलतास्तथा || रत्नाश्मानि च सर्वत्र स्वर्णभूमिश्च कुत्रचित् || २८ || शिलोच्चयान् खेचरांश्च लतावृक्षांश्च खेचरान् || वृक्षादीन् खगरूपांश्च सुररूपधरान् क्वचित् || २९ || प्. १८३) कुत्रचिन्नररूपांश्च नानारूपधरान् क्वचित् || छायाविरहितान् वृक्षान् शाखापलवसंकुलान् || ३० || अपरावर्त्यमानात्मलतावृक्षगिरींस्तथा || वृक्षपर्वतसंयोगजायमानांस्तरूनपि || ३१ || वृक्षाणां परिवारैश्च समंतात्परिवारितान् || वृक्षाधिरूढवृक्षांश्च पर्वातारूढपर्वतान् || ३२ || जनस्यारोहणेनैव लोकसंचारिणो गिरीन् || स्वाधिष्ठानेन लिकस्य सर्ववस्तुप्रदर्शकान् || ३३ || आरोहणेन सर्वेषां चिंतिताकारकारिणः || तरुरूपान् शरीरार्धे ह्यर्धे पाषाणविग्रहान् || ३४ || घटिकामात्रसंभूतफलान् नानाफलप्रदान् || एवं बहुविधान् वृक्षांस्तथा पर्वतसंचयान् || ३५ || क्षणे क्षणे प्रेक्षमाणो नानाविधफलांस्तरून् || ये मूलदेशसंछिन्ना लगंति च पुनः पुनः || ३६ || तांश्च नानाविधतरूंस्तादृशान् पर्वतोत्तमान् || उत्थिता रविणा साकं विवृद्धा रविणा सह || ३७ || तदस्तमयवेलायां येभूमिं पुनरागताः || तान् भूरुहानतिश्रेष्ठान् जनेष्टफलदायकान् || ३८ || अशेषलोकसंचारगमनागमनोत्सुकान् || पुत्रागाशोकबकुलनानापुष्पोपशोभितान् || ३९ || प्. १८४) तथा नानाफलोपेतमणिरत्नप्रदान् द्रुमान् || क्षीरवृक्षान् क्षीरगिरींस्तटाकान् क्षीरऊरितान् || ४० || दधिवृक्षान् दधिनदीर्दधिपर्वतदीर्घिकाः || घृतवृक्षान् घृतनदीर्घृतपर्वतदीर्घिकाः || ४१ || सुधावृक्षान् सुधागोत्रान् सुधासलितवाहिनीः || रसवृक्षान् सरगिरींस्तटाकान् रसकल्पितान् || ४२ || स्वर्णवृक्ष्गिरीन् रम्यांस्तटाकान्स्वर्णदीर्घिकाः || राजतान् वृक्षशैलादीन् स्थावरान् मृगपक्षिणः || ४३ || रत्नप्राकारसंयुक्तसुवर्णायतनानि च || नीलपीतातिधवलनानारूपोपशोभिनः || ४४ || नानापुष्पफललोपेतानतिचित्रान्मनोरमान् || परसंमार्जनकरान् शिवभक्तांगणेऽखिले || ४५ || पयःसेकपरान्नित्यमम्बुदान् शैवमंदिरे || स्वयमागत्य सस्यानि रंगवल्लिकराणि च || ४६ || लिंगसेकपराण्यत्र तीर्थानि विविधानि च || लिंगपूजापरा नित्यं पुष्पवाटिश्च शोभनाः || ४७ || चंदनंश्चंदनालेपक्रियातिनिपुणान् बहून् || लिंगधूपक्रियासक्तान् रम्यान् गुग्गुलभूरुहान् || ४८ || तृणज्योतींषि लिंगानां दीपमालाप्रदानि च || लिंगानां फलनैवेद्यदायिनो भूरुहानपि || ४९ || नागवल्लिलतारम्यपर्णदानविचक्षणाः || प्. १८५) पूगवृक्षांश्च क्रमुकदानासक्तान् बहूनपि || ५० || चूर्णदानसमर्थानि तत्र मुक्ताफलानि च || लिंगरूपान् महावृक्षान्वृक्षलिंगार्चकान् द्रुमान् || ५१ || महोरगांल्लिंगरूपान् सर्पांश्चापि तदर्चकान् || लिंगरूपान् महाभृंगान् भृंगानेव तदर्चकान् || ५२ || गिरिलिंगार्चनासक्तान् गिरीनपि महत्तरान् || जललिंगार्चनासक्तान् न्हदानपि (?) सहस्रशः || ५३ || तीर्थलिंगानि तीर्थानि तत्पूजानिरतानि च || गिरिगव्हरसंघेषु गिरिलिंगान्यनेकशः || ५४ || सततं परया भक्त्या पूजयन्तो गिरिनपि || मुन्याश्रमेषु च मुनीन्मनिलिंगार्चनोत्सुकान् || ५५ || शबरेशाख्यलिंगानि शबरांश्च तदर्चकान् || अत्यन्तघोरतपसः कृशांगांस्तापसानपि || ५६ || वल्मीकाक्रान्तदेहांश्च मुनिमुख्यांस्तपस्यतः || वृक्षाकारधरान् भक्तान्शरीरोत्पन्नभूरुहैः || ५७ || पाषाणैः सह संभूतान्पाषाणाकृतिधारिणः || मुक्तकेशान्मुनीनन्यानंजनाद्रिसमप्रभान् || ५८ || शिवभावनयाऽत्यन्तं काष्ठवन्निश्चलान्मुनीन् || मुनीन्पंचाग्निमध्यस्थान्निराहारकृशान्बहून् || ५९ || प्. १८६) अब्भक्षान्वायुभक्षांश्च कंदमूलफलाशिनः || शिलोंछवृत्तिसपन्नान्शिलातलनिवासिनः || ६० || वृक्षरूपधरानन्यान्वृक्षदत्तान्नभोजिनः || गिरिप्रदत्तभिक्षान्नभोजनान्संयमीश्वरान् || ६१ || जलक्रीडावनक्रीडारतान् गंधर्वदम्पतीन् || अर्चितुं चन्नमल्लेशमागतान्देवदम्पतीन् || ६२ || जलकन्या जलनरान् जलकन्यामनोहरान् || बिलोद्भवांश्च पुरुषान्रूपयौवनशालिनः || ६३ || तथैव करिसंघातान्पुरुषामृगयादवान् || वराहानेव शार्दूलान्शरभाख्यान्मृगाधिपान् || ६४ || गंडभेरुंडमुख्यांश्च मृगानाखूरगानपि || अन्योन्यवैरमुत्सृज्य क्रीडमानान्समंततः || ६५ || स ददर्श महाराजः श्रीशैलकदलीवने || गुरुमन्वेष्यमाणोऽपि स ददर्श मुनिः शिवम् || ६६ || आत्मान्वेषणसंव्यग्रमादिराजतपस्विनः || मनो दिदृक्षया तूर्णं रूपान्तरमुपाददे || ६७ || मार्गावकुंठकं घोरं रोदोव्यापि महत्तरम् || परिपूर्णं महारूपं मादिराजोऽवलोक्य च || ६८ || चिन्तयामास मनसा विस्मयाविष्टमानसः || अयं गिरिवरः श्रीमान्योगींद्रो वा चिरंतनः || ६९ || रुद्राक्षभूरुहो वाऽथ दिव्यज्योतिरथापि वा || मदाचार्यस्वरूपो वा संभोर्वा रूपमुत्तमम् || ७० || प्. १८७) अथ वा ज्ञानरूपो वा मार्गमध्ये व्यवस्थितः || इति संचिन्त्य मनसा नानाकुहरमार्गतः || ७१ || उत्तमांगेक्षणासक्तो ययौ संवत्सरत्रयम् || तदुत्तमांगं नाद्राक्षीन्मादिराजो महातपाः || ७२ || ततः संचिन्तयामास हित्वा चरणपंकहे || शिरोदेशाभिगमनाच्छिरोदेशो न दृश्यते || ७३ || अतः पादाम्बुजं द्रष्टुं यास्यामीति व्यचिन्तयत् || वर्षाष्टकं ययौ तूर्णं तत्पादाब्जदिदृक्षया || ७४ || अत्यन्तघोरमगमच्चरणाब्जनिरीक्षणात् || ततो भयेन विभ्रान्तस्तुष्टाव पुरुषं परम् || ७५ || पुरा केन समश्चाहं त्वत्पादाब्जमुपागतः || इत्यतिष्ठन्मासमेकं निराहारो दृढव्रतः || ७६ || ततः संप्रेक्ष्य मल्लर्सुः प्रत्यक्षोऽभूद्गुरूत्तमः || पूर्वरूपं समासाद्य सर्वलोकैकसुंदरम् || ७७ || भक्तं दोर्श्यां समालिंग्य बभाषे वचनं शुभम् || त्वच्चित्तस्य परीक्षार्थ मयेयं वंचना कृता || ७८ || निवेशदेशं तं भक्तं प्रापयामास शंकरः || लिंगार्चनां कारयित्वा दत्वा मृष्टान्नभोजनम् || ७९ || अशेषतत्वसंबोधसुधाप्लुतमथाकरोत् || तिष्ठस्व त्वं क्रियाभ्रान्त्या भूलोकेऽत्यन्तसुंदरे || ८० || प्. १८८) इत्यवोचन्महादेवि माहिराजं महामुइं || एवमुक्तो मादिराजः प्राह श्रीमल्लिकार्जुनम् || ८१ || दरिद्रो निधिमुत्सृज्य काचमन्वेषयेत्किमु || दृष्ट्वा त्वच्चरणद्वन्द्वं यास्यामीश पुनः कथम् || ८२ || मंदस्मितमुखो भूत्वा ततः श्रीमल्लिकार्जुनः || नित्यस्वरूपसंसिद्धिं प्रायशस्तस्य बोधितुम् || ८३ || मतिं चक्रे महेशानो देवदेवस्त्रिलोचनः || आगच्छस्व महाभाग मादिराजस्थलान्तरम् || ८४ || तत्र चक्रे बर्बुरागं द्वित्रिशाखासमन्वितम् || निश्चितस्त्वं समाधिस्थो वर्तस्वाधो महीरुहः || ८५ || इत्याज्ञाप्य मुनिं देवस्तूर्णमंतर्दधे ततः || हस्वोरुबाहुजंघादिपदयुग्मैः** समावृतम् || ८६ || विपुलोदरकर्णाश्यां जिव्हया दीर्घया युतम् || लंबोष्ठं लंबदंतं च मार्जालचुबुकान्वितम् || ८७ || पिष्टसंयुतपिंगाक्षं रक्तश्मश्रुसमन्वितम् || निंबपल्लवसंशोभिशिरोरुहसमंचितम् || ८८ || सूक्ष्मेण वक्षसा नीलांजनसमप्रभम् || प्. १८९) एवमत्यन्तविकृतं गोपरूपं दधार सः || ८९ || कुठारमेकमादाय छागरक्षणतत्परः || अजवत्सान् समादाय तूर्णमश्याययौ पुनः || ९० || आरुह्य बर्बुरतरुं शाखामेकामधोऽच्छिनत् || तं दृष्ट्वा स्थितो योगी रोषघूर्णितलोचनः || ९१ || बभाषेऽत्यन्तकठिनं वेपमानाधरं वचः || शाखा छायाप्रदाऽस्माकं छिद्यते किमिति त्वया || ९२ || न सन्त्यन्ये च ते वृक्षाश्छेत्तुं गोपाल बालिश || एवमुक्तस्तु गोपालः प्रोवाच प्रहसन् वचः || ९३ || उपवेष्टुं तवान्यत्र वृक्षाः संति सहस्रशः || त्वयैवोत्थाय गंतव्यं मामेवं भाषसे कथम् || ९४ || अहो ते शमसंपत्तिरहोनिर्वाणधीस्तव || मन्निवारणकृत्यं हि महापापिप्रदूषितम् || ९५ || कोपोपहतचित्तो यः सपापीति निगद्यते || कोपात् परतरं नास्ति पापसंपादकं नृणाम् || ९६ || ज्ञानस्य कारणं किं वा ध्यानस्य कारणम् || एतादृकशांतिसंपन्नाः किं सन्त्यन्ये मुनीश्वराः || ९७ || नदीवेगात्समायान्तं भल्लूकम् प्रेक्ष्य धीवरः || गृहीतुं मेषबुद्ध्या तं प्रविवेश जलाशयम् || ९८ || तत्र भल्लूकसंयुक्तो व्यतिष्ठज्जलमध्यगः || प्. १९०) तीरस्थोऽन्यस्ततः प्राह शीघ्रमृक्षं त्यजाधुना || ९९ || तीरस्थेनैवमुक्तस्तु नीरपूरस्थितोऽब्रवीत् || मया व्यक्तोऽपि भल्लूको न मां त्यजति सांप्रतम् || १०० || मेषं गृहीतुकामस्य धीवरस्य च कस्यचित् || अत्यन्तक्रूरभल्लूकाज्जले निपतनं यथा || १०१ || वृक्षछायाऽतिलोभेन क्रोधागनु पतितो भवान् || अग्निं प्रवेष्टुकामाया वस्त्रसंरक्षणं यथा || १०२ || उद्यतस्य वने न्यस्तुं गृहसंभरणं यथा || कूपे पतितकामस्य ह्युडुपान्वेषणं यथा || १०३ || मुनेःअ संगविमुक्तस्य चाश्रमग्रहणं यथा || निवृत्तं चित्तचांचल्यं मुसलो दीयतां मम || १०४ || शिरोऽहं वेष्टयाम्यद्य समक्षं हि महात्मनाम् || इति यो वक्ति तेन त्वं सादृश्यं प्राप्तवानभूः || १०५ || प्रतिश्रुतेक्षुखंडस्य यवमात्रव्यवस्थितिः || प्रतिज्ञा हानिदा लोके यथा न जयकारिणी || १०६ || तथा संसारवैराग्यशालिनस्ते महात्मनः || शाखासंरक्षणं नाहं रोचयामि त्वया कृतम् || १०७ || प्. १९१) एवमाभाष्यमाणः सन् पूर्वरूपमुपाददे || तं दृष्ट्वा मुनिशार्दूलो लज्जया लिचनद्वयं || १०८ || निमील्य नम्रवदनश्चिन्ताव्याकुलमानसः || उष्णाश्रुकणसंपृक्तनयनाम्भोजशोभितः || १०९ || ममेदृशस्य का भक्तिः क्व मुक्तिर्लोकविश्रुता || दूरदेशगते वाऽपि शैवमाया दुरत्यया || ११० || प्रारब्धनाशमुत्सृज्य कथं शैवी दया भवेत् || अपक्वज्ञानसंपत्तेः कथं शैवी भविष्यति || १११ || ईश्वरस्य कृपां त्यक्त्वा शिवभक्तिः कथं भवेत् || न जायते निःस्पृहत्वं दुष्कर्माक्रान्तचेतसः || ११२ || एवं संचिन्त्यमानं तं मादिराजं विलज्जितं || मल्लर्सुस्तमथालिंग्य बभाषे वचनं परम् || ११३ || अतीवकर्मदूरस्त्वं मा शोकं कर्तुमर्हसि || इदानीं मर्त्यलोकं त्वं प्रेक्षितुं दुष्करं कृतम् || ११४ || तवाद्य हेतुं वक्ष्यामि शृणुष्वैकाग्रमानसः || शिवाज्ञया महाभागः शिवभक्तो दृढव्रतः || ११५ || शिवभक्तिं वर्धितुं वा बसवेशो भुवं गतः || संवर्धितुं शिवाचारान् याहि त्वं बसवान्तिकम् || ११६ || षट्शतं वाऽपि वर्षाणां तव पंचाशदुत्तरम् || प्. १९२) श्रीनगेऽस्मिन्व्यतीयाय नानामुनिगणकुले || ११७ || पंचाशत्संख्यवर्षेषु यातेषु ह्यागमिष्यसि || ईप्सितांश्च वरान् सर्वान् वृणुष्वाहं ददामि ते || ११८ || इत्युक्तो माहिराजोऽपि प्राह तं मल्लिकार्जुनम् || अन्याश्रयां परां लक्ष्मीं याचेऽहं न कदाचन || ११९ || मायाकल्पितमायुश्च धनित्वं स्वर्गमेव हि || पूर्वभर्गपदत्वेन मोक्षं चापि न कामये || १२० || अतो न कामये किंचित्तवैतद्विहितं खलु || नमस्तेऽस्तु महादेव प्रणतार्तिप्रभंजन || १२१ || करिष्यांइ त्वदुक्तं हि देवदेव महेश्वर || शिवाज्ञया क्षणे तस्मिन् मादिराजः कृतार्थधीः || १२२ || बसवेशान्तिके तस्थावेकग्रामस्थितो यथा || इतः पूर्वं संगमेशगर्भे दृष्ट्वा तमुज्ज्वलम् || १२३ || प्रणनाम महाभागो बसवेशोऽतिभक्तिमान् || तस्मिन्नेव क्षणे स्वस्य पुरोभागे ददर्श तम् || १२४ || पुनश्च दण्डवद्भूमौ प्रणनामातिभक्तितः || प्. १९३) लिंगध्यानमहासिंधौ निमज्जन्मादिराडयम् || १२५ || बसवेशेनानुदिनं पूज्यमानः स्थितोऽभवत् || मादिराजं संगमेश इति बुद्ध्वा गणाग्रणीम् || बसवेशः सदा भक्त्या पूजयामास कुंभज || १२६ || वृत्तम् || श्रीमादिराजचरितं शृणुते हि मर्त्यो यो वक्ति तस्य महितं विहितं चरित्रम् || तस्यातिसौख्यमतुलं प्रभवेदतीव शैवं पदं परमयोगिमुनींद्रभाव्यम् || १२७ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेपुराणे स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे एकविंशोऽध्यायः प्. १) श्रीव्यासोक्तबसवपुराणे द्वितीयभागः प्रारभ्यते द्वाविंशोऽध्यायः माचिदेवकथाप्रारंभः अगस्त्य उवाच || षडानन महाभाग प्रणतार्तिप्रभंजन || पुनर्भक्तौघमाहात्म्यं श्रोतुमिच्छामि सांप्रतम् || १ || स्कंद उवाच || वक्ष्यामि शृणु माहात्म्यं भक्तानामतिपावनम् || भुक्तिमुक्तिप्रदं रम्यं कलशोद्भव भक्तितः || २ || परे पिप्पलिगाभिख्ये रुचिरे लोकपावने || वीरभद्रांशसंजातः षट्स्थलज्ञानकोविदः || ३ || पूर्णवीरव्रताचारनिरतः शैवतत्त्ववित्|| जंगमातिहितः श्रेष्ठो लिंगनिष्ठो जितेंद्रियः || ४ || न्यायनिष्ठुरवाक्यौघसंभाषणविचक्षणः || अशेषसुगुणाधारो लिंगतत्त्वपरायणः || ५ || स्वकीर्तिकान्त्या निर्धौतसमस्ताजांडमंडलः || भविसंपर्कविमुखो भविसल्लापवर्जितः || ६ || तत्वानुभवसंघातसुधाम्भोधिरुदारधीः || सत्यप्रतिज्ञा ?तः सर्वपापहरः परः || ७ || प्. २)कामक्रोधादिनिर्कुक्तः सत्यसंकल्पकः ?वः || रजकत्वपरिच्छन्नप्रत्यक्षपरमेश्वरः || ८ || जरामरणैर्भक्तो ह्य??श्वाप्ययोजिजः || भक्तपाम्बुजासक्तस्वमानसमधुव्रतः || इति विख्यातो भक्तपादार्चनोत्सुकः || बसवेशस्य सद्भ???? जृम्भिते || १० || लिंगोत्साहसमाक्रान्तो जंगमालोकत?? ?????गरं प्राप? बसवेशदिदृक्षया || ११ || सत्कृतो बसवेशे?? ??न् सुपूजयन् || प्रयोजनानि भक्तानां कुर्वन्नाज्ञापुरः सरम् || ???लयन् भक्तवस्त्राणि हस्तकंडूनिवृत्तये || मलिनानि च वस्त्रा????? वोद्वहन् परम् || १३ || ब्राह्मे मुहूर्ते चोत्थाय गृहीत्वा वस्त्रसंचयम् || कस्मिंश्चिद्विजने रम्ये भविसंचारवर्जिते || १४ || क्षालयामास वस्त्राणि स्वयमेवातिमोदतः || ततः स्वयं शस्त्रपाणिर्गृहीत्वा वस्त्रसंचयम् || १५ || आययौ पुरमार्गेण जनानुत्सारयन् पथि || दैवात्तानि च वस्त्राणि स्पृशन्ति भविनो यदि || १६ || प्. ३) तानहं प्रहनिष्यामि नात्र कार्या विचारणा || एवमुद्घोषयामास घंटावादनपूर्वकम् || १७ || तत्र तत्र प्रदेशे तु घोषयन् वस्त्रसंचयम् || मार्गे भक्तैर्याचमानो ददौ वस्त्राणि धार्मिकः || १८ || स्वामिनामपि वस्त्राणि महतां प्रददौ पुनः || श्रुत्वैतत्सकलं कृत्यं मुमुदे बसवेश्वरः || १९ || एवं माचस्य माहात्म्यं दिगंतान् व्यानशे ततः || एकाकिनोऽपि माहात्म्यं नान्यत्र परिदृश्यते || २० || इति संतुष्टुवुर्भक्ताः कल्याणपुरवासिनः || कदाचित्पथि यातः सन् संस्पृष्टः प्राकृतेन च || २१ || रजको माचनामा तं जघान निशितासिना || ततः सर्वे च संभूय जनाः पुरनिवासिनः || २२ || राजान्तिकमुपागम्य चाक्रोशं चकुरञ्जसा || भो भो बिज्जल भूपाल धर्मो नास्ति पुरे तव || २३ || लिंगांगी रजकः कश्चिज्जघानैकं च मानवम् || अत्यंतबलदृप्तोष्यं पुरमार्गनिरोधकृत् || २४ || पौरानतिबलोपेतान् गणयत्येव नेतरान् || पृष्ठस्थितानि वस्त्राणि स्पृशेद्यस्तु प्रमादतः || २५ || तं हनिष्यति राजेंद्र स्वामुनः सोऽप्यशंकितः || प्. ४) ?आसन् वणिक्पथाः शून्या व्यवहाराश्च नाशिताः || २६ || इतस्ततस्तु संचारः स्तब्धः सर्वपुरौकसाम् || रथाश्वगजुमुख्यानि सेनांगानि महीपते || २७ || न तिष्ठंति पुरस्तस्य किं विचित्रमिदं महत् || अयान्तमेकं पथिकं दृष्ट्वाऽसौ रजकः पुमान् || २८ || हत्वा चिक्षेप वियति शवोऽद्यापि न दृश्यते || एतत्सर्वं समाख्यातुं त्वदन्तिकमुपागताः || २९ || इति पौरकथां श्रुत्वा बिज्जलो बसवेश्वरम् || कोपेन महताविष्टः प्रोवाच परुषं वचः || ३० || बिज्जल उवाच || विपरीतं किमेतद्धि बसवेश्वर मत्पुरे || रजकः कश्चिदागत्य नाशयामास मत्पुरम् || ३१ || पौरसंस्पृष्ट वस्त्राणि किं जीर्णानि भवन्ति हि || भक्तोऽहमिति संचिन्त्य निजघान पुरौकसः || ३२ || अयं हि दानवः किं नु क्रूरकर्माऽतिभीषणः || मनुष्यवेषधारी च किंवा मृत्युः समागतः || ३३ || बसवेश्वरमित्युक्त्वा राजाऽसौ क्रोधमूर्च्छितः || भृत्यानामन्त्र्य साटोपमिदं वचनमब्रवीत् || ३४ || अत्यन्तबलसंपूर्णाः प्रासपट्टसधारिणः || यूयं हनत तं क्रूरं रजकं राक्षसाकृतिम् || ३५ || एवं भृत्याः समादिष्टा बिज्जलेन महीभृता || प्. ५) निर्ययुर्बलसंपन्नाः शतशोऽथ सहस्रशः || ३६ || हन्तुमाज्ञापयन्तं तं बिज्जलं नृपसत्तमम् || मंदस्मितमुखो भूत्वा प्रोवाच बसवेश्वरः || ३७ || बसवेश्वर उवाच || भो भो बिज्जल भूपाल शृणु मद्वचनं परं || सामान्यरजकः कश्चिदवधीत्पुरवासिनः || ३८ || एवं कुरुष्व मा बुद्धिमतिबालिशवत्पराम् || पिनाकपाणिरेवायं साक्षान्त्रिपुरभंजनः || ३९ || समस्तकुलरूपोऽयममलः सत्कुलश्च सः || शिवापरावतारोऽयं सर्वव्यापी महाप्रभुः || ४० || उपवीनानि यश्चक्रे समुत्पाट्य विधेर्जटाः || वेदवेदान्ततत्त्वज्ञः स एवायं द्विजोत्तमः || ४१ || शिवलिंगैक्य-साम्राज्ये त्वभिषिक्तो महोज्ज्वलः || यमादिभृत्यसहितो बलवान् क्षत्रियोत्तमः || ४२ || अनेककर्मविलसद्घटीयंत्रे भवाम्बुधौ || लीलया भ्रमते यस्तु स एवायं वणिग्वरः || ४३ || प्. ६) सत्क्रियारंभसस्यानि परार्थानि बहूनि च || शिवभक्तिलवित्रेण छित्त्वाऽयं भक्तसत्तमः || ४४ || देवतान्तरभक्तौघतृणराशिं व्यपोह्य च || कटाक्षैर्विदलीकृत्यलिंगशालीनुपाददे || ४५ || शूद्रोऽयमिति विख्यातो लोकेषु नृपसत्तम || आदिशक्तिमुपादानमविद्याख्यां महत्तराम् || ४६ || नादबिंदुकलास्तिस्रो हेतून् कृत्वा निमित्तकान् || ब्रह्मांडाख्यघटानेतान् यः ससर्ज बहून् पुमान् || ४७ || अतो बिज्जल भूपाल कुलालोऽयं विचक्षणः || त्रिविक्रमस्य कंकालं गृहीत्वा शेषसूत्रके || ४८ || नृसिंहनखंर बध्वा तत्र कोलामिषं परम् || निक्षिप्य तद्ग्रहोद्युक्तौ मत्स्यकूर्मावुभौ परौ || ४९ || महाधीवरतां कर्षन् गतोऽयं भक्तसतमः || धीवरोऽयमिति ख्यातो मुनिभिर्ब्रह्मवादिभिः || ५० || अत्यन्तचटुलाभी लसंसारपरिवर्तिनः || प्. ७) बलीवर्धाञ्जीवसंज्ञान् कर्मपाशनियंत्रितान् || ५१ || कृत्त्वाऽयं क्रीडते नित्यं दारुयंत्राधिवासिनः || तक्षोऽयमिति विख्यातो लोकेऽस्मिन् देवदानवैः || ५२ || जीवाख्यलोहवर्गांश्च संयोज्य ज्ञानवन्हिना || तैक्ष्ण्यसंपादनाल्लोके लोहकार इति स्मृतः || ५३ || अनादिमल संयुक्तं गृहीत्वा जीवकांचनम् || प्रासादलवणेनैव भस्मना च महीयसा || ५४ || संयोज्य शिवदीक्षाख्यचिदग्नौ विनिपात्य च || निर्मलीकरणादेष स्वर्णकार इति स्मृतः || ५५ || हरिणीं रूपसंपन्नां स्वसुतां च रिरंसया || विधातुर्मृगरूपस्य शिरसश्छेदनादयम् || ५६ || महाव्याध इति ख्यातो मुनिभिस्तत्त्वदर्शिभिः || विधिविष्णुमुखाशेषपशूनां परिपालनात् || ५७ || गोपाल इति विख्यातः सर्वैर्वैदिकसत्तमैः || स्वाविद्याअभिधसूत्रैश्च कर्मनिर्याससंयुतैः || ५८ || प्रकृत्याख्यान् विकृत्याख्यान् संग्रहीदंडजानयम् || तेनायं लुब्धकः प्रोक्तः सर्वैर्बिज्जलभूपते || ५९ || चूर्णयित्वा कुलगिरीन् भूधरानितरानपि || नीरधीनुर्वरां चक्रे तेनायं कर्षकः स्मृतः || ६० || जत्येकार्णवे जाते ब्रह्मविष्णुपुरोगमान् || सुरान् प्रक्षायामास तेनायं रजकः स्मृतः || ६१ || प्. ८) एवंभूतस्य देवस्य माचाख्यस्य महात्मनः || भौतिकानामिव कुलं किमर्थं गण्यते त्वया || ६२ || अतिचारुचरित्रोऽयं कारणानां च कारणम् || नृसिंहगजशार्दूलचर्माम्बरधरः स तु || ६३ || भक्तानां क्षाल्यते वस्त्रसंचयोऽत्यन्तपावनः || न क्षाल्यते परेषां हि प्राकृतानां दुरात्मनाम् || ६४ || भविसंस्पर्शने तेषां भिनत्त्यपि शिरास्ययम् || महात्म्यमतुलं श्रोतुं कुटिलानां न रोचते || ६५ || वसनानां च संस्पर्शे हन्त्यसौ पापकर्मिणः || तद्दिव्यदेहसंस्पर्शे भिनत्तीति किमुव्यताम् || ६६ || अभिमानं त्यज त्वं हि हन्त्येवायं महाबलः || किं करोत्यमुमत्युग्रं दुर्बलं बलमिदृशम् || ६७ || इत्युक्तवन्तं बसवं राजाऽतिक्रोधमूर्च्छितः || प्राह गंभीरया वाचा कार्याकार्यविमूढधीः || ६८ || बिज्जल उवाच || बसवेश महाभाग किमेभिर्वचनैस्तव || एवं निवार्य बसवं भृत्यान् दृढमुवाच सः || ६९ || यूयं तन्मार्गमावृत्य तिष्ठध्वं तत्र भृत्यकाः || आगच्छन्तं निरीक्ष्यैनं ब्रूतमाऽगच्छ भो इति || ७० || प्. ९) एवमुक्तः स रजकः स्थितश्चेत्कलहोत्सुकः || एभिर्गंधगजैर्दिव्यैर्मारयध्वं नराधमम् || ७१ || एवमुक्तास्तु ते भृत्या निर्ययुर्बलदर्पिताः || बसवेशोमाहाभागस्तूष्णीं तस्थौ सभांतरे || ७२ || ततो गंधगजान् सर्वान् प्रषयामासुरंजसा || सोऽप्यागत्य महावीरः किंचित्प्रहसनोज्ज्वलः || ७३ || वस्त्रभारं वियद्भागे निक्षिप्यातिबलोन्नतः || गजानां च सहस्राणि भटानामयुतं तथा || ७४ || नाशयामास सहसा तृणानीव हुताशनः || घंटानादं ततश्च्क्रे सर्वभूतभयावहम् || ७५ || हत्वा नृसिंहमत्युग्रं शरभेश इवाबभौ || हत्वा गजासुरं घोरं साक्षाद्रुद्र इवाबभौ || ७६ || ततः क्रोधेन महता ज्वलन्माचो महामतिः || सर्वथाऽद्य हनिष्यामि तं नृपं बिज्जलाभिधं || ७७ || मामुद्दिश्य बलं घोरं येनेदं प्रेरितं महत् || एवं निश्चित्य मनसा निश्चक्राम महामतिः || ७८ || एतच्छ्रुत्वा बिज्जलोऽपि हतशिष्टबलोदितम् || भयविभ्रान्तनयनः स्विन्नदेहोऽतिकंपितः || ७९ || सभमध्ये समासीनं बसवेशं ददर्श सः || ततस्तं बसवेशोऽपि प्रोवाच वचनं परम् || ८० || अनादृत्यैव मद्वाक्यं पौरुषेणातिगर्वितः || प्. १०) अकर्तव्यमिदं सर्वं कृतवानसि भूपते || ८१ || बलं चायुतसंख्याकं गजानां च सहस्रकं || वाजिनां त्रिसहस्रं च नाशमाप क्षणेन हि || ८२ || अनालोचितकर्माणि विपदो यान्ति विस्मृतेः || अतस्तवापि संप्राप्तं संकटं सर्व नाशनम् || ८३ || अभिमानो विगलितः शिवद्रोहः समागतः || तेनास्य निष्कृतिर्भूमौ दोषस्यास्ति हि भूपते || ८४ || वृत्तम् || इति बसवमुखेन्दोरुत्थितं वाक्यरूपामृतमतिरसयित्वा बिज्जलाख्यो महीशः | सरसिजलजरम्यं ग्रीष्मकालातपार्तो जलमिव बहुहृद्यं जीविताशां प्रपेदे || ८५ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे परमरहस्ये स्वरूपग्रंथे कुमारागत्स्यसंवादे माचिदेवकथाप्रसंगो नाम द्वाविंशोऽध्यायः || प्. ११) त्रयोविंशोऽध्यायः अगस्त्य उवाच || माचविक्रमभीतस्य बिज्जलाख्यमहीपतेः || किमुवाच म**भागो बसवेशः सतां वरः || १ || स्कन्द उवाच || दृष्ट्वा बिज्जल***जं क्लान्तपद्ममिवस्थितम् || उवाच प्रहसन् वाक्यं बसवेशः कृपार्द्रधीः || २ || बिज्जलेश शृणुष्वेह कथां पापप्रणाशिनीम् || बभूव द्राविडे देशे राजा चोल? इति श्रुतः || ३ || स राज्यं पालयामास स्वर्गमिंद्र इवोज्ज्वलं || तस्यासीद्विषये कश्चिदिरुवत्तोऽतिभक्तिमान् || ४ || सर्वसंगविमुक्तश्च कीर्तिमांश्च प्रतापवान् || अतिसाहससंपन्नः शिवद्रोहैकशिक्षकः || ५ || प्रत्यक्षवीरभद्रश्च महापापविनाशकः || भस्मरुद्राक्षधारी च भक्तपादार्चनोत्सुकः || ६ || भक्तद्रोहरताशेषजनसंहरणव्रतः || नानाशैवपुराणर्थपरिज्ञानविशारदः || ७ || तस्य रज्ञो बभूवैकः शुंडालो बलदर्पितः || स शृंखलाश्च संभिद्य चोत्पाट्यालानमुत्तमम् || ८ || भयंकरश्च सर्वेषां चचार पुरवीथिषु || शिवभक्तश्च तत्रैकः शिवपूजारतः सदा? || ९ || प्. १२) ब्राह्मे मुहूर्ते चोत्थाय ययौ पुष्पवनं परम् || स्वयंपतितपुष्पाणि तथा छिद्रदलानि च || १० || कीटोपहतपुष्पाणि तथा पर्युषितानि च || संत्यज्य तानि पुष्पाणि म्लानपुष्पाणि यानि च || ११ || सुरम्याणि महार्हाणि सद्योविकसितानि च || समाययौ च संगृह्य बिल्वपत्रं मनोहरम् || १२ || मार्गमध्ये महावेगान्मत्तेभस्त्वागतोऽभवत् || आगत्य शिवभक्तं तं जग्राह करिराडयम् || १३ || स्वहस्तेन च दन्ताभ्यां संताड्य विददार हि || भक्तः प्राणवियोगार्तः प्रोवाचोच्चैः शिवेति च || १४ || आक्रोशध्वनिमाकर्ण्य भक्तोऽयमिरुवत्तकः || शिवभक्तारव इति ज्ञात्वा तद्देशमाययौ || १५ || विचिन्वन्नार्तरावस्य हेतुः किमिति भक्तितः || ददर्श च महीपालमत्तेभं मददर्पितम् || १६ || भक्तस्य पतनं घोरं रक्ताप्लुततनोस्तदा || कुठारेणाच्छिनत्तुर्णं गजासुरमिवेश्वरः || १७ || कालाग्निरुद्रवद्भक्तः सिंहनादं चकार सः || दंभोलोभिन्नगिरिवन्निपपात महीतले || १८ || ज्ञात्वा तच्चोडभूपाल इरुवत्तस्य पादयोः || प्रणम्य दंडवद्भूमौ कृताञ्जलिपुटोऽभवत् || १९ || प्. १३) हा हा मत्तगजः श्रेष्ठस्त्ववधीद्भक्तसत्तमम् || कलुषं किं पशोस्तस्य मददृप्तान्तरात्मनः || २० || तत्पालकस्य मे पापं भविष्यति न संशयः || शुद्धिं चाहं गमिष्यामि प्राणांस्त्यक्त्वाऽतिदुर्लभान् || २१ || इति निश्चित्य भूपालः खड्गमादाय सत्वरम् || करेण स्वशिरश्छेत्तुं बुद्धिं चक्रे महामतिः || २२ || एतस्मिन्नंतरे देवः शिवश्च्ंद्रार्धशेखरः || इरुवत्तस्य सद्भक्तेस्तुष्टश्चोडमहीपतेः || २३ || प्रत्यक्षतामगात्तूर्णमारुह्य वृषभेश्वरम् || शिवः प्राणान् ददौ देवो भक्तस्य च गजस्य च || २४ || इरुवत्तं च राजानं निन्ये कैलाशमुत्तमम् || स्वयं ममार मत्तेभस्तं भक्तमिति कोपतः || २५ || गजं जघान भक्तोऽयमिरुवत्तंडिनामकः || दृष्ट्वा तच्चोडभूपलो वैक्लब्यं प्राप्य चेतसि || २६ || अपराधः स्वभृत्यानां राज्ञो भवति निश्चयात् || अतः करिकृतं पापं निश्चिकाय ममेति च || २७ || अतस्त्यजाम्यहं प्राणानिति निश्चितवान्नृपः || अतस्तवेदं कलुषं माचद्रोहकृतं परम् || २८ || कथं नश्यति राजेंद्र वदस्वाद्य मम प्रभो || इतिहासान्तरं वक्ष्ये सर्वपापप्रणाशनम् || २९ || प्. १४) || बाऊरिब्रह्मययकथा || बाऊरिब्रह्मनामैकः शिवभक्तो जितेंद्रियः || लिंगागस्थलतत्त्वज्ञो धैर्यवानमितद्युतिः || ३० || अवार्यवीर्यसंपन्नः सत्यभाष्णतत्परः || शरणेष्वग्रयायी च लोभमोहविवर्जितः || ३१ || अत्यन्तमुत्तमः श्रीमान् गुरुलिंगार्चनोत्सुकः || पुष्पारामान् बहून् रम्यांश्चकार परमार्थवित् || ३२ || संगृह्य तेषु पुष्पाणि सुगंधीन्युज्ज्वलानि च || स्वयं कृत्वा पुष्पमाला भक्तेभ्यः प्रददौ सदा || ३३ || एकदा तत्र जैनास्ते वादयामसुरूर्जिताः || तेषामुपनिषद्वाक्यैर्व्यासवाक्योपबृंहितैः || ३४ || आधिक्यं परमेशस्य स्थापयामास संसदि || प्रत्यक्षादिप्रमाणानि दर्शयामास भक्तिमान् || ३५ || कृसरान्नं महादिव्यं शिवेनाभयकृत्पुरा || चकार यावनालौघलिंगमूर्तिं महोज्ज्वलाम् || ३६ || एवंभूतो ब्रह्मनामा बाऊरिग्रामसंस्थितः || आगत्यको महीपालः स्वतुरंगबलावृतः || ३७ || विजेतुं च दिशः सर्वाः प्रययौ स धनुर्धरः || बाऊरिग्रामनिकटे ब्रह्मपुष्पवनांतरे || ३८ || प्. १५) सेनानिवेशमतुलं चकार नृपपुंगवः || सेनागजेंद्रस्तस्यासीन्मदधारासमाकुलः || ३९ || अगण्यय च यंतारं सांकुशं बलदर्पितम् || प्रासपट्टसशूलादि धारिणः सैनिकानपि || ४० || उल्ललास महावेगाद्बृंहितेनातिभीषणः || सेनांगानि समस्तानि नाशयामास नागराट् || ४१ || आयन्तं मत्तशुंडालं ब्रह्मनामा बलोद्धतः || ताडयामास हस्तेन वज्रेणेव महागिरिम् || ४२ || पलायमानं सहसा हतवान् भद्रदंतिनम् || एवमुक्तस्तु भूपालः स्बभृत्यैरतिविव्हलैः || ४३ || स्वचित्ते चिन्तयामास भक्तद्रोहं विचिन्तयन् || उत्थाय सहसा गत्वा पपात ब्रह्मपादयोः || ४४ || गजेन यत्कृतं पापं तदपि क्षम्यता. त्वया || इति नम्रमुखो भूत्वा तस्थौ भक्ताग्रहो नृपः || ४५ || बावूरिब्रह्मनामापि दयाप्लुतमनास्तदा || अजीवयत्करिवरं कटाक्षामृतवारिणा || ४६ || जनाश्च विस्मयं चक्रुरागताः पुरवासिनः || ततो जगाम शरणं ब्रह्माणं नृपपुंगवः || ४७ || अतो हि शिवभक्तानां माहात्म्यं विस्मयावहम् || उद्धतान् शिक्षयन्त्येते नम्रान् संजीवयंति च || ४८ || किमत्र बहुनोक्तेन जीवनेच्छाऽस्ति चेत्प्रभो || अस्माभिर्गम्यतां माचसंनिधिं बिज्जलाधिप || ४९ || प्. १६) तदाकरिष्यति दयां माचयाख्यो महीपते || सक्षादपररुद्रोऽयं सत्यमेतन्मयोदितम् || ५० || बसवेनैवमुक्तोऽपि बिज्जलः प्रभुसत्तमः || लज्जानमितवक्त्रः संस्तथेत्यंगीचकार सः || ५१ || ततो गत्वा तु तं देशं यत्रास्ते रजकोत्तमः || नमस्कृत्वा च साष्टांगं तत्पादन्यस्तलोचनः || ५२ || पश्यत्सु सर्वमर्त्येषु प्रसादार्थं प्रतस्थिवान् || ततस्तु बसवेशोऽपि माचिदेवस्य संनिधिम् || ५३ || समाययौ हसन्मंदं हर्षसंफुल्ललोचनः || बसवस्तं नमस्कृत्वा तुष्टाव विविधैः स्तवैः || ५४ || एवद्विज्ञापयामास माचाख्यं बसवेश्वरः || मया निवार्यमाणोऽपि पौरेः संबोधितो जनैः || ५५ || त्वां विजेतुं कृतोद्योगस्त्वया भंगमवाप सः || अत्यंतदुर्बले बाले पक्षहीने च पक्षिणि || ५६ || महोज्ज्वलं पाशुपतं प्रयोक्तव्यं किमु प्रभो || अतस्त्वं कोपमुत्सृज्य दयां कुरु महीपतौ || ५७ || ततो दयार्द्रचित्तः सन् माचाख्यो भक्तसत्तमः || उत्तिष्ठोत्तिष्ठ भूपालेत्युवाच नृपसत्तमम् || ५८ || हतेषु बलसंघेषु सजलं भस्म चिक्षिपे || प्. १७) तेनेदं जीवितं प्राप्य चोत्तस्थौ बलमंजसा || ५९ || पूर्वेद्युश्च हतं मर्त्यं जीवयामास तत्क्षणात् || एतद्दृष्ट्वा जनाः सर्वे विस्मिताश्च बभूविरे || ६० || वियत्स्थलस्थितं वस्त्रभारमादाय सत्वरम् || यथापूर्वं ययौ पश्चान्माचभक्तो महाबलः || ६१ || पादौ प्रणम्य माचस्य बसवेशो नृपेण च || पौरैः परिवृतः सर्वैर्ययावास्थानमंटपम् || ६२ || यातेषु दिवसेष्वेवं भक्तः कश्चिदुदारधीः || माचान्तिकं समासाध्य बसवेशविनिर्मितम् || ६३ || स्वमाहात्म्यांकितं गीतं जगौ सर्वमनोहरम् || तच्छ्रुत्वा माचभक्तश्च चुकोप स्वान्तरात्मनि || ६४ || भक्ताः सर्वे दरिद्राः किं स्वयं संपत्तिमान् बहु || औद्धत्यं बसवेशस्य ज्ञातमासीन्मयाऽधुना || ६५ || इति संचिन्त्य माचोऽयं भक्तानाहूय गायकान् || भवद्भिस्तु न गेयं तद्गीतं बसवनिर्मितम् || ६६ || एतदाकर्णने दोषो ममात्यन्तं हि जायते || एवमुक्त्वा ययौ तूर्णं स्वकार्याय महामतिः || ६७ || एतच्छ्रुत्वा भक्तमुखाद्बसवो *भयविव्हलः || नमस्कुर्वन् महाभागं ध्यायन् सर्वैः स्तवैः स्तुवन् || ६८ || ययौ पदे पदे नत्वा माचभक्तांतिकं ततः || पतित्वा पादयोस्तस्य बभाषे मधुरं वचः || ६९ || प्. १८) अहंकारसमा*कान्तमक्रमालापतत्परम् || भक्तेषु दुर्जनाकारं सक्रोधमपराधिनम् || ७० || अज्ञानाक्रान्तहृदयं सकामं शौचवर्जितम् || अविवेकिनमत्यज्ञं भक्तिलेशविवर्जितम् || ७१ || निर्भाग्यं मां रक्ष रक्ष कृपया भक्तसत्तम || संख्यातीतानि गीतानि मया वै कथितानि हि || ७२ || तच्छ्रुत्वा त्वमतिक्रुद्ध इति मे प्रतिभासते || अतस्त्वं मामतिप्रीत्या भक्तमेवानुमन्यसे || ७३ || गृहीत्वा चरणौ दिव्यौ तिष्ठाम्यत्र महामते || एवं संप्रार्थितो माचो बसवेन महात्मना || ७४ || अश्रोतेवाभवच्छ्रुत्वा बसवेशप्रभाषितम् || संप्रार्थितः पुनस्तेन बभाषे बसवेश्वरम् || ७५ || रे रे बसवदुर्बुद्धे गर्वग्रस्तो न संशयः || लक्ष्मीर्विनयसंपन्नान् गर्वांधान् कुरुते सदा || ७६ || कार्याकर्यविचारज्ञं नेहते निपुणं जनम् || शिवभक्ता महात्मानो दरिद्राः किं महीतले || ७७ || समर्था व्याकुलीकर्तुं विश्वमेतच्चराचरम् || एवमाभास्.य तं माचो मनसीदं व्यचितयत् || ७८ || नाशयित्वाऽवलेपाद्रिं बसवस्वान्तसंस्थितम् || प्रत्यक्षादिप्रमाणैघैर्भक्तदासं करोमि तम् || ७९ || इति निश्चित्य मनसा तटाकजलमक्षिपत् || वज्रादीनि च रत्नानि जातान्युदकबिंदवः || ८० || प्. १९) जलबिन्दुसमाक्रान्ता भूमिः कांचनतामगात् || प्रेक्षयित्वा स्वसामर्थ्यं बसवेशाय भक्तराट् || ८१ || पुनः प्रोवाच सक्रोधं वेपमानाधरस्ततः || शिवभक्ता महाभागा अष्टैश्वर्य-समन्विताः || ८२ || तेषां त्वया दत्तगजो महिषार्भकसन्निभः || त्वया दत्तं सुवर्णं च लोष्टप्रायं न संशयः || ८३ || भवद्दतान् रत्नानि पाषाणसदृशानि हि || त्वद्दत्तरवस्त्रेभ्यो व्याघ्रचर्मातिरिच्यते || ८४ || अतस्त्वं गर्वमुत्सृज्य नयमेवावलंबय || एतद्दृष्ट्वा पौरजना विस्मिताश्च बभूविरे || ८५ || बिज्जलोऽपि समागत्य स्वबलैर्विस्मितोऽभवत् || माचभक्तोपरि ततः प्रमथैर्विनिपातिता || पुष्पवृष्टिश्च सहसा दंदुभिध्वानपूर्वकम् || ८६ || फलानि बसवेशस्य मनसा चिन्तितानि हि || शिवः समागत इव माचभक्तो रराजः सः || ८७ || **तु बसवेशोऽपि माचभक्तं ननाम सः || तुष्टाव विविधैः स्तोत्रैर्यय***शरणं परम् || ८८ || अहो माच महाभक्त त्वन्माहात्म्यं निरीक्षि***अकिंचनः कियन्मात्रः कुरुष्व करुणां मयि || ८९ || त्वमेव शंकरः साक्षात् किंकरोऽहं न संशयः || सर्वज्ञस्त्वं महाभागः किंचिज्ज्ञोऽहं महामते || ९० || प्. २०) अत्यन्तनिर्मलस्त्वं हि मलदिग्धोऽहमव्ययः || अज्ञोऽहं त्वं तु विज्ञानी त्वं सुधामयविग्रहः || ९१ || विषस्वरूपगातोऽहं दाता त्व. कथ्यते बुधैः || अहमत्यन्तदीनोऽहं पशु पशुपतिर्भवान् || ९२ || त्रैलोक्यशेखरस्त्वं हि सोऽहं निर्भाग्यशेखरः || अनेकदुर्गुणाधारे मयि किं संति सद्गुणाः || ९३ || अतो मां रक्ष गर्वांधं शिक्षय त्वं यथाविधि || अपराधसहस्राणि क्षमस्व मम साद्रम् || ९४ || माचस्ततस्तु बसवं गाढमालिंग्य सत्वरम् || स्वकटाक्षेक्षणैः सध्यस्तोषयामास भक्तिमान् || ९५ || परीक्ष्यैव महारत्नं लोके गृह्णाति मानवः || अतो मनः परिक्षार्थं मया कर्मेदृशं कृतम् || ९६ || इत्युक्त्वा बसवं माचो तोषयामास धीरधीः || समलं पुटपाकेन तप्त*स्वर्णमिवाधिकम् || ९७ || क्रकचेन विनिर्भिन्नं सुगंधमिव चंदनम् || माचवाक्यौघसंघृष्टं बसवेशमनोऽधिकम् || अणुभूतमलैस्त्यक्तं विरराज ततः परम् || ९८ || प्. २१) संसारयंत्रपतनहेतवोऽनर्थकारिणः || गुणाश्च प्रकृतेर्जाताश्चित्तशुद्धिविनाशकाः || ९९ || सत्वं रजस्तमश्चेति वेदाअन्तैः प्रतिपादिताः || तेषु सत्वं प्रशंसन्ति मुनयस्तत्वदर्शिनः || १०० || तत्राप्यनर्थहेतू दौ गुणौ तामसराजसौ || अतस्तौ हि परित्यज्य सद्भक्तैर्मोक्षकांक्षिभिः || १०१ || गृहीत्वा सात्विकीं भक्तिं स्थातव्यं पारमार्थिकैः || अतस्त्वमपि संत्यज्य गुणौ राजसतामसौ || १०२ || सात्विकीं भक्तिमास्थाय भृत्यभावं समास्थितः || उत्सृज्य गर्वं सकलं वर्तस्व बसवेश्वर || १०३ || वृत्तम् || माचं श्रीरजकत्वसंवृतमुमानाथांघ्रिभक्तं परं || नीत्वा शांतिमुदारवाक्यनिकरैरत्यद्भुतार्थोज्ज्वलैः || सारासारविचारतत्परमतिर्दघ्यौ क्षणं चेतसा || स्वाचार्यांघ्रिसरोजसंगतमनो-भृंगो महाभक्तराट् || १०४ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे माचिदेवमाहात्म्यप्रशंसा नाम त्रयोविंशतितमोऽध्यायः || प्. २२) चतुर्विशोऽध्यायः शंकरदासकथा अगस्त्य उवाच || ततः किमकरोन्माचः शिवभक्तः स्थिराशयः || स्वपुरः संस्थितं शांतमाभाष्य बसवेश्वरम् || १ || स्कंद उवाच || एवमाभाष्य बसवं माचाख्यो भक्तसत्तमः || कुर्वाणस्तन्मनः स्थैर्यं वक्तुं समुपचक्रमे || २ || बसवेश महाबुद्धे शृणुष्वेमां कथां पराम् || सुरभ्ये शंकरस्थाने नानामुनिगणावृते || ३ || आसीच्छंकरदासाख्यः शिवभक्तो दृढव्रतः || बालोहि शरणः श्रीमान् शिवभक्तार्चने रतः || ४ || कालकर्माख्येंद्रजालभस्मीकरणपंडितः || स्वपादार्चकशिष्यौघजन्मादीनां निवारकः || ५ || वशीकृतस्वान्तरंगश्चिन्मयानंदीवग्रहः || अतिरौद्रमहोद्रेकवीरभद्रसमप्रभः || ६ || प्रत्यक्षरुद्रमूर्तिश्च शत्रुसंहारकर्मणि || दण्डिताजाण्डभाण्डौघशिवपादाब्लभक्तिमान् || ७ || प्. २३) स्वदोर्दण्डाभिनयितताण्डवाडम्बरो महान् || विलसत्कीर्तिसंपन्नः संसारघ्नोऽतिनिर्मलः || ८ || अतर्कितप्रभावश्च नानाशत्रुनिषुदनः || शेषाहिगीयमानस्वलीलाव्यात्पदिगंतरः || ९ || प्रच्छन्नवेषधारी च संवीतो जीर्णकंथया || कंथां निर्माय चातुर्यात् समस्तानां पुरौकसाम् || १० || पंचभिः कुडुपैर्मेयान् व्रीहीन् संगृह्य यत्नतः || अर्चनं शिवभक्तौघकोटीनामन्वहं ददौ || ११ || एवं शंकरदासाख्ये प्रभौ तिष्ठति तत्पुरे || कुविंदकुलसंभूतो दासः कश्चित्समाययौ || १२ || द्रष्टुं शंकरदासाख्यभक्तमुत्कंठया महान् || लीलागोष्ठ्या समायुक्त. क्षणं तस्थौ च तन्मठे || १३ || दयाप्लुतस्ततस्तूर्णं ययौ स्वभवनान्तरम् || हा कष्टं शिवभक्तस्य संकटं समुपस्थितम् || १४ || तद्गेहमक्षिकाणां च न भवीकरणं स्थितम् || भक्तशंकरदासस्य कंथा फलति किं न्वहो || १५ || इति संचिन्त्य मनसा स्वसारं दुग्गलाभीधाम् || समाहूय ततस्तूर्णं सस्नेहाद्भक्तसंततौ || १६ || व्रीहीन् शूर्वमितान् रम्यान् प्रेषयामास सत्वरम् || दृष्ट्वा शंकरदासोऽपि दुग्गलाम्बामुवाचताम् || १७ || प्. २४) दासेनात्यन्तदयया प्रेषिता व्रीहयस्त्विमे || कस्य वस्त्रं तु निर्माय प्रयत्नेन समार्जिताः || १८ || प्रेषयामास तान् सर्वान् किं धनग्रहलोलुपः || नह्यस्ति धनमस्माकं व्रीहिविक्रयस्ंमितम् || १९ || एतत्संभाषणव्यग्रो व्रीहीञ्जग्राह मुष्टिना || तेन संप्रेषिता ये हि जाता मुष्टिसंमिताः || २० || ये दासभवनेऽतिष्ठन् निधयश्च सहस्रशः || ते शून्यतां ययुस्तूर्णं प्रभावात्तस्य तत्क्षणात् || २१ || एवं शंकरदासेन नाशिते च धनेऽखिले || दासः शोकं समापेदे चिन्ताभारसमाकुलः || २२ || निरीक्ष्य च ततो दासं दुग्गुलाम्बाऽवदत् स्वयम् || भ्रातः संपन्नतस्त्वं हि व्रीहीन् प्रेषितवानसि || २३ || साक्षाच्छंकरदासोऽयमष्टैश्वर्यसमन्वितः || तपोव्ययातिभीतः सन् दीनवत् प्रतिभासते || २४ || शुंडालस्य प्रमत्तस्य दन्तसंस्पर्शनोत्सुकः || मानवो जीवते किं नु महाबलसमन्वितः || २५ || महोरगमुखन्यस्तकरो मंत्रविवर्जितः || कथं संजीवते मर्त्यो मृत्युना च विवर्जितः || २६ || परीक्षितुं हि शरणान कः समर्थो महीतले || अतः शंकरदासोऽयमपरीक्ष्यस्त्वयाऽधुना || २७ || प्. २५) वरान् दत्तान् शिवेनापि नाग्रहीद्भक्तसत्तमः || स्वव्यापारार्जितं द्रव्यं कियन्मात्रं महामते || २८ || भक्ताः संतर्पितास्तेन कियन्तस्तान् परीक्षितुम् || तद्व्यापारच्च यल्लब्धं धनं तन्न विनश्यति || २९ || इतोऽपि शिवभक्तानां दारिद्र्यं क्व नु वर्तते || कल्पद्रुमे शिवाभिख्ये भक्तत्रातरि सर्वदा || ३० || कदाचित्तस्य भक्तस्य कृपालुः परमेश्वरः || वरान्यथेप्सितं तुभ्यं दास्यामीत्यवदत्स्वयम् || ३१ || हित्वा शंकरदासोऽपि वरान्सर्वान् विरक्तधीः || स दृष्टिं प्रार्थयामास सूचीरंध्रप्रदर्शने || अत्यंधकारसंपन्नरात्रावपि महामतिः || ३२ || एवं शंकरदासेन प्रार्थितः परमेश्वरः || ददावत्यन्तसंतुष्टस्तार्तियीकं विलोचनम् || ३३ || शिवप्रसादलब्धेन लोचनेनाविशंकितः || शिवद्रोहपरान्मूर्खाञ्छिवनिंदापरायणान् || ३४ || ददाह परमक्रूरान् दानवानिव शंकरः || तदैव सर्वानमरान् कंपयामास तेजसा || ३५ || ततो देवा भयोद्विग्नाः सर्वे संभूय सादरम् || भक्तं शंकरदासं तं शरण्यं शरणं ययुः || ३६ || सर्वाणि गृहकर्माणि मार्जनादीनि चक्रिरे || प्. २६) ततः क्षुद्रसुराः सर्वे क्षुद्रकर्माणि चक्रिरे || ३७ || जगद्वीरो मल्लनामा चौद्धत्यबलदर्पितः || भक्तं शंकरदासं तं बभाषे जनसंसदि || ३८ || अहो शंकरदासाद्य प्रभावः कोनु तेऽधुना || अतिक्षुद्रैः सुरगणैस्त्वत्कार्यकरणेन हि || ३९ || नारायणेन महता ब्रंह्मणा विश्वकर्मणा || देवेन्द्रेणापि पटुना त्वत्कार्याणि कृतानि किम् || ४० || तृतीयनेत्रमासाद्य शंभोश्च परमात्मनः || क्षुद्रप्रयोजनकृतिः किं माहात्म्य करी भवेत् || ४१ || तृतीयनेत्रमेतेन शिवाल्लब्धं भवेद्यदि || विष्णोर्दृष्टिपथे स्थित्वा न चलेद्यदि धैर्यतः || तदैतत्सकलं सत्यं भवेदद्य न संशयः || ४२ || एवमुक्त्वा तु मल्लोऽयं कल्याणाख्य पुरे शुभे || गोविंदप्रतिमामेकां कृत्वा लोहैश्च पंचभिः || ४३ || पांचरात्रप्रकारेण प्रतिष्ठाप्यातिभक्तितः || सायं प्रातश्च तात्पूजापरतंत्रोऽभवत्स्वयम् || ४४ || ततः शंकरदासोऽपि भक्तयात्रापरो महान् || यदृच्छया च तद्रम्यं प्राप गोविंदमंदिरम् || ४५ || गोविंदप्रतिमामग्रे स ददर्श महायशाः || शतधा सा विशीर्णाऽथ शिथिला नयनार्चिभिः || ४६ || अतितप्तंतु तल्लोहंप्रदुद्राव दिशो दश || प्. २७) आसन्पालायनाः सर्वे तत्रत्याः परवादिनः || ४७ || तेऽपि श्ंकरदासं तं तुष्टुवुर्भयविह्वलाः || किमत्र बहुनोक्तेन शिवभक्ता महत्तराः || ४८ || अनिवार्याः शिवस्यापि सृष्टिस्थित्यन्तकारिणः || भक्तिर्भयं च भक्तेषु भक्तसंसर्गतो भवेत् || ४९ || भक्तसंसर्गराहित्याद्भयं नैव प्रजायते ** | सर्वदा ज्ञानयुक्तस्य कार्याकार्यविचारिणः || ५० || अद्य ते बुद्धिनाशोऽभूद्भ्रातः किं नु करोम्यहम् || एवं संचिन्त्य बहुधा बहुदुःखसमाकुलौ || ५१ || तावुभौ जग्मतुस्तूर्णं संनिधिं च महात्मनः || अभिगम्य महात्मानं भक्तं शंकरदासकम् || ५२ || प्रणेमतुश्च साष्टांगं स्तुवनतौ विष्ठतः पुरः || भो भोः शंकरदासार्य रक्ष रक्ष कृपानिधे || ५३ || आवयोर्हि गतिस्त्वं हि दीनयोः सापराधयोः || ततः शंकरदासोऽपि निरीक्ष्य करुणार्द्रधीः || ५४ || अहो दास महाभाग संपन्नस्त्वं शिवाज्ञया || दारिद्र्यसिंधुमग्नोऽहं किं कर्तव्यं वद प्रभो || ५५ || मत्समीपागमे कार्यं किंवा ते वर्ततेऽधुना || मम त्वया किमानीतं धनं वा जिवनक्षमम् || ५६ || दरिद्राणां गतिस्त्वं हि भक्तानाममितौजसाम् || वस्त्रविक्रयसंप्राप्तं धनं धान्यं तवास्ति हि || ५७ || प्. २८) मम दातुं त्वदानीतं दीनस्य मृपण्स्य च || अस्तिचेद्दास वांछा ते मदीयं धनमीक्षितुम् || ५८ || खनित्रमानय क्षिप्रंदर्शयिष्यामि तेऽधुना || किमत्र बहुनोक्तेन पश्यात्रैव निधीन् मम || ५९ || एवमुक्त्वा खनित्रेण खातयित्वा च तां महीम् || निक्षेपान् दर्शयामास रत्नस्वर्णसमाकुलान् || ६० || दुग्गलांबा च दासश्च विस्मितौ ** कर्मणा || ततः शंकरदासांघ्रिपद्मयोर्विनिपेततुः || ६१ || प्राह शंकरदासस्तु क्रोधघूर्णितलोचनः || शिवान्तिकमुपागम्य धनं प्रार्थय सत्वरम् || ६२ || स दास्यति धनं तुष्टः स्वचित्तानंददायकम् || तस्यैतद्भक्तनिकटे धनं किं नास्ति मे वद || ६३ || तेनेत्थमुच्यमानौ तु पादौ न त्यजतुर्नतौ || एवं तत्पादयुगुले पतितावूचतुस्ततः || ६४ || न त्यक्ष्यावः स्वचरणौ ककलादपि कोमलौ || अत्यंतकृपणौ दीनौ लोभेनाक्रांतमानसौ || ६५ || गर्वांधतमसाक्रान्तस्वान्तौ दुर्णयभूषितौ || आवां पालय कारुण्यादपराधान् क्षमस्व नौ || ६६ || ततः शंकरदासोऽपि दयारससमाप्लुतः || भक्तौघै स्तूयमानः सन् समुत्थाप्य च तावुभौ || ६७ || प्. २९) दयासमुद्रमध्ये तौ मज्जयामास स प्रभुः || पूर्वाधिकाश्च निधयो नव तस्य विरेजिरे || ६८ || तंतुवायकुलोद्भूतदासस्य भवनेष्वहो || गर्वांधस्य तु सद्भक्तिर्वृद्धिं नेष्यति तत्त्वतः || ६९ || गर्वमुत्सृज्य बसव महतीं शांतिमावह|| अतः परां प्रवक्ष्यामि आनाम?म् ( निम्बाम्) एकां मनोहराम् || ७० || || निंबाम्बा-कथा || निंबाम्बानाम वनिता शिवभक्तिपरायणा || सत्क्रियाचरणासक्ता लिंगव्रतपरायणा || ७१ || कौटिल्यवेषरहिता जंगमार्चनतत्परा || संसारसंगरहिता सर्वदोषविवर्जिता || ७२ || सत्संगहृद्यचरिता सत्कुलाचारतत्परा || सदा सा शिवभक्तानां जलानयनतत्परा || ७३ || धनेन भक्तदत्तेन कुर्वंती जंगमार्चनम् || तस्याः सुतवरः श्रीमान् भक्तगोरक्षणोत्सुकः || ७४ || तदार्जितधनेनापि तर्पयन्ती तणान् सदा || उवास साधुचरिता ध्यायन्ती परमेश्वरम् || ७५ || अथास्मिन्नेव समये रम्ये कांचीपुरे शुभे || प्. ३०) चिरुतोंड इति ख्यातो ह्यासीद्भक्तिमतां वरः || ७६ || स महात्मा चकारैकं नियमं नियताशयः || पंचानां शिवभक्तानां करोमीष्टान्नभोजनम् || ७७ || संकल्पितं व्रतं चैनं परीक्षितुमुमाधवः || आययौ भक्तरूपेण चंद्रर्धकृतशेखरः || ७८ || सोऽयं वणिग्वरः श्रीमाञ्जंगमान्वेषणोत्सुकः || ददर्शैनं महात्मानं कृत्रिमाकारधारिणम् || ७९ || स *** न्यस्तहस्तो ननाम भुवि दण्डवत् || महापुरुषशार्दूल स्वामिन्नागच्छ मद्गृहम् || ८० || भिक्षां कुरु महाभाग भक्ष्यभोज्यसमन्विताम् || इत्युक्तः पार्वतीनाथो वणिजं प्राह सस्मितः || ८१ || इतोऽतिरिक्तमस्माकं किमस्ति सुधियां वर || वस्त्वैकमिष्टमस्माकं नराणां पललं महत् || ८२ || आगच्छामो वयं तूर्णं तत्सामर्थ्यं तवास्ति चेत् || एवमुक्तस्तु तेनायं चिरुतोंडोऽप्युवाच तम् || ८३ || पुत्रो मनोहरश्चास्ते सर्वलक्षणसंयुतः || तव दास्यामि तं हत्वा पललं तृप्तिकारणम् || ८४ || एवमुक्त्वा नमस्कृत्वा मुनिं कृत्रिमरूपिणम् || आययौ स्वगृहं तूर्णं पुत्ररत्नजिधांसया || ८५ || एतद्वृत्तान्तमखिलं स्वभार्यायै न्यवेदयत् || सा संगलाम्बा संतुष्टा पुत्र* * * * * * * * * || ***प्. ३५) * * * * * * * * * * * * * नादाय परमेश्वरः || चिरुतोंडं च तत्पत्नीं सिरियालुं तनूभवम् || १२६ || तत्स्वसारं पुण्यवतीं सुरम्यां चंदनाम्बिकाम् || कोतिसूर्यप्रतीकाशविमानोपरिसंस्थितान् || १२७ || कृत्वा कैलासभुवनं ययौ भागीरथीधरः || कैलासं समनुप्राप्य चिरुतोंडो वणिग्वरः || १२८ || सर्वेषां प्रमथानां च मुनीनामूर्ध्वरेतसाम् || मुखासीनः समीपे तु पार्वतीपरमेशयोः || १२९ || निहत्य चाहं स्वपुत्रमुदारं सुंदराकृतिम् || संभोक्तुं दत्तवानस्मि भक्त्यऽहं मोहवर्जितः || १३० || मत्समो नास्ति कोलेषु शिवभक्तश्च कश्चन || इति गर्वसमाक्रान्तमहंकारैकतत्परम् || १३१ || चिरुतोंडं ततो दृष्ट्वा सांबश्चंद्रार्धशेखरः || एतद्गर्वस्य शमनं चिन्तयामास चेतसा || १३२ || चिरुतोंडकरांभोजं गृहीत्वा च स्वपाणिना || भूलोकं समनुप्राप्य निंबांबागृहमाययऊ || १३३ || सा विलोक्य समुत्थाय शिवभक्तौ समागतौ || अर्घ्याद्यैः पूजयामास मधु*****र्कं ततो ददौ || १३४ || तयोरभ्यवहारार्थं भक्ष्यभोज्यानि चाकरोत् || शयानौ तौ च पर्यंके निद्रापरवशाविव || १३५ || निंबांबा सा यथापूर्वं जलानयनतत्परा || ययौ तत्तनुजः सोऽयं यो गोरक्षणतत्परः || १३६ || वनदेशात्समागत्य जननीमाजुहाव सः || प्. ३६) गृहानवस्थितां धात्रीं निश्चयमास वै तदा || १३७ || तत उद्धृत्य भांडस्थं जहारापूपयुग्मकम् || तदंतरे च निंबांबा समागत्य गृहं ततः || १३८ || शिवार्थकृतमन्नादि शुनालीढमभूदिति || शिवद्रओहकरं पुत्रं म्सलेन जघान सा || १३९ || अपूपपूरितास्यः सन्निपपात महीतले || मृतं तनूभवं दृष्ट्वा शोकमोहविवर्जिता || १४० || स्थाने रहसि निक्षिप्य तृणमाच्छाद्य सत्वरम् || ततः पाकप्रयत्ने सा संतस्थौ वरवर्णिनी || १४१ || ज्ञात्वा शिवोऽपि तत्सर्वं चिरुतोंडमथाव्रवीत् || चिरुतोंड वणिक्ध्रेष्ठ पश्य पश्येदमद्भुतम् || १४२ || पुत्रेण सहसाऽऽगत्य भुक्तं चापूपयुग्मकम् || ज्ञात्वेयं पुत्रवृत्तान्तं पाकवैयर्थ्यशंकया || १४३ || हत्वाऽवटे तु निक्षिप्य पाकयत्नपराभवत् || तत्सर्वं च निरीक्ष्यासौ चिरुतोंडोऽतिविस्मितः || १४४ || ततः सा च समागत्य जलमादय * * *णना || तौ भक्त्या स्नापयामास मुदितेनांतरात्मना || १४५ || ततो भक्ष्यादिकं ताश्यां ददौ भक्तिपुरः सरम् || अजानन्निव पुत्रस्य मरणं परमेश्वरः || १४६ || प्. ३७) तामाहूय शिवः प्राह निंबांबां करुणार्द्रधीः || पूर्वं तवागतः पुत्रः क्षुत्पिपासासमन्वितः || १४७ || विचिन्वन्सदने स्वे तु मातरं त्वां रुदन्मनाः || आसीत्सोऽपि मया दृष्टो बालोऽसौ क्व गतोऽधुना || १४८ || ममैतदन्नपानादि हित्वा तं नहि रोचते || त्वमतिक्रूरहृदया पापिष्ठा त्वं न संशयः || १४९ || बालेषु सत्सु लोकेऽस्मिन् भुंजंते के विषायितम् || अतस्त्वं सहसा गत्वा चाह्वानं कुरु पुत्रकम् || १५० || एतछ्रुत्वा च निंबांबा पुनः प्राह महेश्वरम् || किमेतया मायया ते सर्वं बुद्धं मयाऽभवत् || १५१ || चिरुतोंडाख्यभक्तोऽहं न भवामि कदाचन || तूष्णीं भुक्ष्व महाभाग मद्दत्तं भोजनादिकम् || १५२ || त्वन्मायामोहिता नाहं नात्र कार्याविचारणा || पूर्वं निहत्य स्वं पुत्रं पुनराह्वानकारणम् || १५३ || नैवेद्यं ते देववणिग ददौ तस्येष्टदो भवान् || त्वद्दत्तमपि कैलासं सत्यं नांगीकरोम्यहम् || १५४ || तत्कृतेनैव पापेन निधनं गतवानसौ || तस्मात्सोऽयं महाद्रोही न योग्यं स्मर्तुमत्र हि || १५५ || चिरुतोंडं शिवं तत्र चुकोपासौ तयोः पुरः || चिरुतोंडोऽपि तछ्रुत्वा निमग्नः शोकवारिधौ || १५६ || ततः शिवोऽपि संतुष्टः प्रादुरासीप्तदंतिके || प्रादुर्भूतं शिवं दृष्ट्वा निंबाम्बाऽऽह सविस्मिता || १५७ || एकमूर्तेस्त्रयोभागा गुरुलिंगं च जंगमम् || जंगमानुग्रहादेव देशिकः करुणानिधिः || १५८ || शिलाभावं विनाश्यासौ लिंगं चक्रे च चिन्मयम् || अतो लिंगाद्गुरुः श्रेष्ठो गुरोरपि च जंगमः || १५९ || अतो गुरोजंर्गमस्य लिंगस्याप्यर्चनं महत् || संत्यज्याद्य मम स्वामिन् कैलासाख्यं शिलोच्चयम् || १६० || देहस्य प्राणसंबंधात्पूज्यत्वं हि यथा भवेत् || भक्तस्यायाति माहात्म्यं तथा जंगमपूजनात् || १६१ || लोचनत्रितयेनैव त्वं शिवः परिकीर्तितः || तृतीयलोचनं हित्वा भक्त इत्यभिधीयते || १६२ || त्वत्साक्षात्कारमोहेन भक्तार्चां संत्यजामि चेत् || शिवभक्ता महात्मानो न हसंति किमीश्वर || १६३ || गुंडाख्यकुंभकारस्य वयो दातुं मनोहरम् || केनावृतशरीरोऽसि महता गजचर्मणा || १६४ || कया गौर्या समायुक्तो गतो भोगस्य मंदिरम् || कामैंदवीं कलां धृत्वा गतवा**सि शंकर || १६५ || नंदिनं कं समारुह्य मानकंजारमंदिरम् || प्. ३९) केनेश भालनेत्रेण यागशालां मनोहराम् || १६६ || ऋत्विग्गणसमोपेतां सामवेदिद्विजस्य च || प्राप्तवानसि वेगेन प्रमथैः परिवारितः || १६७ || कैश्चतुर्भिर्भुजैर्दिव्यैश्चिरुतोंडस्य मंदिरं || गतवानसि देवेश वदस्व मम शंकर || १६८ || मायाविडंबनामेनां हित्वा भुंक्ष्वाद्य मद्गृहे || नोचेदहं न जीवेयं शयामि चरणांतिके || १६९ || एवं निंबांबया प्रोक्तो भुंजानस्तद्गृहांतरे || चिरुतोंडमुखं दृष्ट्वा प्रोवाच प्रहसन् शनैः || १७० || चंडीशः काटकोटश्च पितरौ जघ्नतुः पुरा || मयि प्रत्यक्षतां याते पितरौ कांक्षितौ पुनः || १७१ || तथैव द्राविडे देशे भक्तः कश्चिदभूत्पुरा || नरसिंग इति ख्यातः शिवभक्तार्चनोत्सुकः || १७२ || तस्याग्रमहिषी साध्वी ययौ रम्यं शिवालयं || मार्गमध्ये समायान्तं ज्वलन्तं शैवतेजसा || १७३ || घृतपुष्पपुटं विप्रं पूजितुं परमेश्वरम् || दृष्ट्वा तत्राग्रहीदेकं प्रसूनं सुमनोहरम् || १७४ || तथाऽभिजिघ्रे सा राज्ञी राजसांक्रांत मानसा || सोऽपि बालस्तु सहसा तन्नासावच्छिनत्स्वयम् || १७५ || प्. ४०) तत्काले नृपतिः श्रीमानाययौ च यदृच्छया || तमायान्तं नृपं दृष्ट्वा वयस्याः प्रोचुरग्रहात् || १७६ || एतया च महादेव्या नापराधः कृतोऽधुना || किन्तु बालकहस्ताब्जसंस्थितं पुष्पमुत्तमम् || १७७ || गृहीत्वा परिजि*हे हि लीलया वामलोचना || शिवार्चससुतस्त्वस्या नासां चिच्छेद सत्वरम् || १७८ || एतच्छ्रुत्वैव भूपालस्तमाहूयेदमब्रवीत् || कीदृशीयं तव ब्रह्मन् भक्तिर्मे वद सुव्रत || १७९ || पुष्पग्रहमिदं हस्तं धित्वा पूर्वं ततः परम् || नासिकाछेदनं वेगात् कर्त्व्यमिति भासते || १८० || एवमानिंद्य तं बालं भार्यामाहूय ततत्क्षणम् || शिवपूजार्थमानीतं पुष्पं किं स्वीकृतं त्व्या || १८१ || पुष्पग्रहोद्यतः को नु करस्तु करयोर्द्वयोः || एवं राज्ञा च सा पृष्टा करं तस्मै न्यवेदयत् || १८२ || असिमादाय निशितां राजाऽसौ क्रोधमानसः || करं चिच्छेद वेगेन पत्नीस्नेहविवर्जितः || १८३ || प्रत्यक्षतामहं यातो नानामुनिगणावृतः || ततोऽहं तस्य भार्यायाः करं नासां च खंडिताम् || १८४ || प्. ४१) दत्वा भूपालभार्याया मुक्तिं प्रदां दयान्वितः || सोऽपि मुक्तिपदं प्राप पुनरावृत्तिवर्जितम् || १८५ || वीरचोडकथा कश्चिद्भक्त इतः पूर्वं सद्भक्तिविनयान्वितः || वीरचोड इति ख्यातो भूपतिः क्षितिमंडले || १८६ || तस्याग्रमहिषी धान्यं शून्यं मम चकार हि || गर्भस्थशिशुना साकं मदर्थं तां निहत्य च || १८७ || भोज्यं चक्रे ततश्चाहं प्रसन्नोऽभवमंजसा || पुनरावृत्तिरहितां मुक्तिं प्रादां महीपतेः || १८८ || निंबांबाऽपि महाभाग मयैवं बोधिता सती || निरागसं सुतं हत्वा नाजुहाव सुतं पुनः || १८९ || मया दत्तवरान् सर्वांश्चक्रमे नैव चेतसा || माहात्म्यमस्याः कथितुं कः समर्थो भवेद्भुवि || १९० || त्वं तु पुत्रं निहत्याशु पुनराहूतवानसि || एतादृशेषु भक्तेषु सत्सु भूमंडलेऽखिले || १९१ || गर्वं त्वं किमिति प्राप्तो मदीयास्थानमंटपे || नास्ति मत्सदृशो भक्त इति संचिन्त्य चेतसा || १९२ || इत्युक्त्वा चिरुतोंडाख्यं शंकरो लोकशंकरः || हतः निंबाबिका-पुत्रं जीवयित्वा ततः परम् || १९३ || कैलाशं प्रापयामास कोटिसूर्यसमप्रभम् || प्. ४२) उवास सा च भूलोके जंगमाराधनोत्सुका || १९४ || वृत्तम् || उत्सृज्य गर्वं बसवेश्वर त्वं भक्तेषु लोके परमेषु सत्सु || शांतिं परामावह भक्तवर्य शान्त्यैव कर्माणि फलंति लोके || १९५ || इतिश्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे स्वरूपग्रंथे स्कंदागस्त्यसंवादे चतुर्विंशोऽध्यायः || प्. ४३) पंचविंशोऽध्यायः हलायुधकथा अगस्त्य उवाच || किमुवाच ततो माचः सर्ववाचामधीश्वरः || रजकत्वपरिच्छन्नो ब्रूहि मेऽद्य षडानन || १ || स्कन्द उवाच || भूयश्चन्द्रजटाजूटश्चिरुतोंडं नताननम् || हृहीत्वा स्वकराब्जेन हालायुधपुरं ययौ || २ || ततो हलायुथः श्रीमानागतौ भक्तशंकरौ || साष्टांगं प्रणिपत्याशु बभाषे मधुरं वचः || ३ || अतिश्रांताविवेदानीं दूराध्वगमनेन हि || अतो भवंतावत्यन्तं स्थातव्यमनुकंपया || ४ || एतघ्छ्रुत्वा महादेवस्तमुवाच हलायुधम् || विस्मयं मम वृत्तान्तमाचक्षे तव सुव्रत || ५ || अंमाम्बा काचन सती स्तन्यं दत्वा पुपोष माम् || भोगस्य पाणिमादाय गतिमभ्यस्त वानहम् || ६ || ***णि नम्बिनः कुर्वन् दूतोऽहं वाक्यकोविदः || एकपात्रे तु चन्नेन भुञ्जाना**न्नादिकं परम् || ७ || ततो दासस्य दयया वस्त्रवंधनकोविदः || मानकंजारभक्तेन छित्वा पुत्रीशिखां पराम् || ८ || बद्धो मम जटाभारो मस्तके पिंगले महान् || प्. ४४) कलत्रहीनं मां वीक्ष्य बल्लालः प्रभुसत्तम्ः || ९ || अत्यन्तरूपसंपन्नां ददौ कान्तां मनोरमाम् || भक्तोऽथ मोन्नेयधरः स्वर्ण दत्वा महत्तरम् || १० || विटसंचारनिरतमकरोदति भक्तितः || तद्धनं तु समादाय दक्षवाट्यामहं गतः || ११ || तत्रैकया तु कामुक्या रूपतारुण्यमुख्यया || रममाणः सुखाविष्टस्ततस्तत्रैव वत्सरान् || १२ || चिरुतोंडगृहं गत्वा शिवभक्ताश्चरंति हि || अनुरक्तोऽहमेतेषु क्रीडितुं चरतः सदा || १३ || विशुद्धचेतनोऽत्यन्तं सद्भक्ता गतिरावयोः || संपूजयंति भक्ताश्च नौ लिंगमिव भक्तितः || १४ || श्रीनीलकंठमूर्तिश्च बलगोंडपतिस्तथा || करिकालो ह्यर्यमश्च हिंगुलीमार एव च || १५ || एणाधिनाथनामा च सेदिराजो महामतिः || वागीशोऽपि महाभागश्चारमः श्वपचस्तथा || १६ || सोमासिमारनामा च पिल्लस्तत्त्वविदां वरः || एवमाद्या महात्मानः सदा संपूजयन्ति नौ || १७ || किमत्र बहुनोक्तेन शृणु वाक्यं हलायुध || ये भक्ता भुवि तिष्ठंति शिवभक्तार्चनोत्सुकाः || १८ || तेषां गृहेषु सर्वेषु चराम्यत्र न संशयः || मज्ज्ञ्ननरहितो भक्तस्त्रिषु लोकेषु नास्ति हि || १९ || भक्तौघैः पुष्टदेहस्य निर्ययुर्दिवसा मम || प्. ४५) मज्जन्मस्थितिभूमिश्च शिलोच्चयपुरी शुभा || २० || मम मातापिर्ट्ज्ञानं नास्ति सत्यं मयोदितम् || मत्सुखं मम कष्टं वा किं वा वक्ष्ये हलायुध || २१ || इतोऽपि विस्मयकरीं कथां वक्ष्ये मनोरमाम् || कांचीपुरे पुरा कश्चिच्चिरुतोंडोऽतिधार्मिकः || २२ || माहेश्वरार्चनासक्तो ह्यभीष्टार्थप्रदः सदा || शिवो मनः परीक्षार्थं प्रेषयामास पार्षदान् || २३ || तेषामपि च सर्वेषामिष्टार्थं प्रददौ मुदा || त्रिसप्तकृत्वदिवसान् स्थिरां वृष्टिमकल्पयत् || २४ || तदा नियमसंपन्नः पंचभक्तानतर्पयत् || ततः कस्मिंश्च दिवसे नाभूदेकोऽपि जंगमः || २५ || स मार्गयामास कांचीं भक्तार्थं च दृढव्रतः || शिवो महेश्वरो भूत्वा समागत्य च कुत्रचित् || २६ || स्थितोऽतिजरयाक्रान्तो भृशं शांत इवेश्वरः || चिरुतोंडोऽपि तं दृष्ट्वा हर्षफुल्ललोचनः || २७ || आमंत्रयामास भोक्तुं भक्तं स्वभवनान्तरे || ययाचे पललं नारं शिवः कृत्रिमवेषधृत् || २८ || तथेति संप्रतिश्रुत्य प्राप्य स्वीयं गृहान्तरम् || सुतं निहत्य तन्मांसं ददौ भक्ताय धीमते || २९ || शिवः संतुष्टहृदयः सर्वैः कांचीनिवासिभिः || प्. ४६) कैलास प्रददौ तस्मै पत्नीपुत्रयुताय च || ३० || एतादृशो महात्मानो भक्ताः किं संति भूतले || अशक्यं पुत्रहननं सर्वेषां गृहमेधिनाम् || ३१ || भक्तवाक्यमिति श्रुत्वा पुनरूचे हलायुधः || अहो नरामिषं भोक्तुं स शिवः किंनु राक्षसः || ३२ || चिरुतोंडो दयाहीनः कथं पुत्रं जघान सः || वचनं चान्यथा कर्तुं गुरुत्वाद्भवतोऽधुना || ३३ || तथापि भवतां वाक्यं मिथ्येति प्रतिभाति मे || एवमाभाष्यमाणं तं पुनः प्रोवाच शंकरः || ३४ || दातारश्च स्वभाग्यानां सुतानां दानतत्पराः || स्वदेहदाननिरताः संति लोके सहस्रशः || ३५ || शिवो मनः परीक्षार्थं दुष्करं वस्तु याचते || भक्तस्तस्य प्रसादार्थं ददत्येव न संशयः || ३६ || अतः स चिरुतोंडोऽपि ददौ पुत्रशिरः पलम् || नास्ति चेदत्र विश्वासो मदुक्तार्थे हलायुध || ३७ || लोकान् परीक्षय क्षिप्रं गत्वा ग्रामपुरादिकम् || सर्वे गायन्ति शतशो बाला गोपाश्च कोटिशः || ३८ || एवमाभाष्यमाणः सन् कुपितोऽभूद्धलायुधः || भक्तवात्सल्य मृत्सृज्य ययाचे पललं कथम् || ३९ || भक्तः स चिरुतोंडोऽपि भक्तिहीनोऽभवत् कथम् || प्. ४७) कीदृशो महादेवो भक्तो वा कीदृशः स्मृतः || ४० || माता वा राक्षसी घोरा कथं पुत्रं जघान सा || वार्धकात् परमेशस्य बुद्धिभ्रंशोऽथवाऽभवत् || ४१ || हन्तुं समुद्यते भक्ते कथं नाविरमच्छिवः || कथं स्वतनुमुत्सृज्य चिरुतोंडो जघान तम् || ४२ || जंगमः स्वसुतस्तस्य नाभवत्किं वदाद्य मे || अतोऽयं चिरुतोंडोऽपि जंगमप्राणघातुकः || ४३ || शिवेनाद्य परित्याज्यं भोक्तव्यं किं नरामिषम् || अतस्तं चिरुतोंडाख्यं पुत्रद्रोहपरायणं|| नरमांसाशिनं शंभुं शिवं नांगीकरोम्यहम् || ४४ || ये पठंतीदमाअख्यानं चिरुतोंडकथाश्रयम् || तेषामत्यन्तमूर्खाणां बहिष्कारं करोम्यहम् || ४५ || इत्युक्त्वा करतालानि भेरीघोषपुरः सरम् || कारयामास वगेन स्वभृत्यैर्बलदर्पितैः || ४६ || चिरुतोंडः शंकरोऽपि श्रुत्वा तद्वचनं परम् || महाभयेन संक्रान्तौ तिष्ठतुस्तौ तदंतिके || ४७ || शिवभक्तौ महात्मानौ मद्गेहं समुपस्थितौ || संपूजनीयौ परमाविति संचिन्त्य चेतसा || ४८ || मया श्रुतानि वक्यानि जुगुप्सा-करणानि च || इतः परं कर्त्व्यं निंदाकरमिदं वचः || ४९ || अस्ति चेद्युवयोः प्रीतिश्चिरुतोडप्रशंसने || प्. ४८) गच्छतां शीघ्रमुत्थाय चिरुतोंडांतिकं युवाम् || ५० || एवं हलायुधवचः श्रुत्वा तौ लज्जयान्वितौ || नशक्तावुत्तरं दातुं शिवभक्तावुभावपि || ५१ || ततः सस्मार देवेशो गौरीं हैमवतीं पराम् || संगलाम्बां पुरस्कृत्य गौरी गिरिवरात्मजा || ५२ || ततः शिवान्तिकं तूर्णमाययौ परमेश्वरी || संगलाम्बाहैमवत्योर्जंगमं रूपमीक्ष्य च || ५३ || हलायुधो नमश्चक्रे मधुपर्कपुरः सरम् || ततो हलायुधं गौरी प्रोवाच महितंवचः || ५४ || सरस्वती च लक्ष्मीश्च विधिकेशवयोरुभे || मुखे च वक्षोदेशे च तिष्ठतो हि हलायुध || ५५ || पुरुषांतरगामिन्यौ भवनेष्वखिलेषु च || हित्वा स्वपुरुषं गौरी न याति पुरुषांतरम् || ५६ || तथा पतिव्रता चाहं शिवभक्त हलायुध || सद्भक्तानामीप्सितार्थं ददासि त्वं महीतले || ५७ || इति श्रुत्वा च बहुशो याचितुं त्वामहं गता || अतो मदीप्सितं दत्वा गृहाणाशीर्वचः परम् || ५८ || इत्युक्त्वा विविधैः स्तोत्रैः सा तुष्टाव हलायुधम् || शैवश्रियाऽतिसंपन्नो लिंगांगस्थलतत्ववित् || प्. ४९) अनिश्चिलगात्रश्च कीर्तिमांस्त्वं हलायुध || ५९ || एवं स्तुतिगिरा तुष्टस्तामुवाच हलायुधः || यद्यत्कामयसे साध्वि तत्तद्दास्यामि तेष्धुना || ६० || तच्छ्रुत्वा मुदिता साध्वी हलायुधमुवाच तम् || अहं शिवस्य महिषी चिरुतोंडवधूरियम् || ६१ || चिरुतोंडशिवौ पूर्वं यौ त्वया तु बहिष्कृतौ || बहिष्कृते प्राणनाथे तद्वधूश्च बहिष्कृता || ६२ || प्रीतिस्तवावयोः स्याच्चेन्नाथौ मुंच बहिष्कृतेः || श्रुत्वैतत्पार्वतीवाक्यं संतुष्टोऽभूद्धलायुधः || ६३ || तथेत्युक्त्वा ततः श्रीमानभयं च तयोर्ददौ || नास्ति नास्ति बहिष्कार इत्युवाच हलायुधः || ६४ || ततो वृषध्वजः शंभुः पार्वतीप्राणवल्लभः || गंगोत्तुंगतरंगार्धचंद्ररेखाविराजितः || ६५ || हलायुधपुरोभागे प्रादुरासीत्सहोमया || ततो हलायुधं भक्तं परिष्वज्य स्वबाहुभिः || ६६ || तत्साहसस्य तद्भक्तेः संतुष्टः परमेश्वरः || तत्पालितैर्नवपुरैर्नानासंपत्समृद्धिभिः || ६७ || दिव्यं विमानमारुह्य हलायुधपुरः सरम् || ऋषिभिर्जनसंघैश्च स्तूयमानो महेश्वरः || ६८ || ययौ काइलासभुवनमनेकप्रमथोज्ज्वलम् || प्. ५०) चिरुतोंडमनोगर्वनिर्वापणमनीषया || ६९ || हलायुधं महाभक्तं मुक्तं चक्रे महेश्वरः || अतो बसवभक्तानां गर्वान्मोक्षो न विद्यते || ७० || वृत्तम् || माचार्यवागमृतपूरितकर्णरंध्रो भक्तप्रभावपरिचिन्तनशुद्धभावः || शांत्युज्ज्वलद्विनयसंवृतचित्तवृत्तिर्दध्यौ तदीयचरणद्वयमेव सोऽयम् || ७१ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रन्थे स्कन्दागस्त्यसंवादे पंचविंशतितमोऽध्याय ह् || प्. ५१) षड्विंशोऽध्यायः मिरुमिंडदेवकथा अगस्त्य उवाच || अत्यन्तगर्वसंपन्नं बसवेशमनः परम् || भक्तमाहात्म्यकथनान्माचः संशोध्य यत्नतः || १ || ततः किमकरोद्ब्रूहि पार्वतीनंदन प्रभो || तच्छ्रुत्वा मुनये स्कन्द भक्तकथां पराम् || २ || स्कन्द उवाच || माचिदेवो महाभक्तो भक्तमाहात्म्यमुत्तमम् || बसवेशाय महते वक्तुं समुपचक्रमे || ३ || माचिदेव उवाच || भक्ताग्रगण्यः प्रथितो मिरुमिंड इति श्रुतः || भक्तार्चनसमुद्योगी शिवलिंगार्चनोत्सुकः || ४ || शापानुग्रहशक्तश्च जगद्विख्यातकीर्तिमान् || नितान्तशीलसंपन्नो दुष्टनिग्रहणक्षमः || ५ || अष्टांगयोगतत्त्वज्ञः शिष्टसंरक्षणोद्यतः || चेगोंडपुरसंवासी नानासंपत्समृद्धिमान् || ६ || शिवरात्रिव्रतं कृत्वा द्वादशाब्दमतंद्रितः || ततस्त्रयोदशे वर्षे तिरुवालपुरं ययौ || ७ || वल्मीकदेवसदने शिवरात्रौ तु जागरम् || प्. ५२) कर्तुं संकल्पयामास भक्तसंघैः समावृतः || ८ || उन्नते गोपुरे रम्ये शृण्वन्भक्तकथाः स्थितः || तस्मिन्नवसरे रम्ये नंबी भक्तिमतां वरः || ९ || परनाच्या च सहितः सुहृद्भिः परिवारितः || जेगीयमानः पौरैश्च स्तूयमानः कवीश्वरैः || १० || संस्तूयमानो मुनिभिर्वामदेवपुरोगमैः || इष्टार्थान् प्रददत्तेषां कविगायकवंदिनाम् || ११ || अलंकुर्वन् महीकांतां स्वपादनखकांतिभिः || स्वदन्तकान्तिमुक्ताभिर्भूषयन्नष्टदिग्गजान् || १२ || स्वशरीरप्रभाजालैः स्थगयन्नर्कमंडलम् || स्वदृष्टिकुसुमैर्दिव्यैर्लिंगं संपूजयन्महान् || १३ || अनेकविटचेष्टाभिः कर्षयन् पुरभामिनीः || अतिमोहात्समागत्य भक्तानगणयंस्तदा || १४ || वल्मीकदेवभवनं प्रविवेशातिकामुकः || शिवं संप्रार्थयामास सदा देयं धनं बहु || १५ || कोऽयं शिवालयं प्राप्तो दृप्तोऽतिविटरूपधृत् || अगण्यय महाभक्ताञ्छिवान्तिकमुपाययौ || १६ || अतिगर्वसमाक्रान्तमविनीतं विटाकृतिम् || भक्तेषु क्रुध्यमानेषु कथं रक्षेदुमापतिः || १७ || शिवस्य कोपे संजाते भक्ताः संरक्षणे क्षमाः || प्. ५३) अतश्चैनं हि तरसा निर्यासध्वं तपोधनाः || इति प्रोवाच भगवान् मिरुमिंडः सभासदः || १८ || एतस्मिन्नंतरे कश्चिच्छिवार्चकतनूभवः || प्रोवाच विनतो भूत्वा मिरुमिंडं तपोधनम् || १९ || साक्षाद्वल्मीकदेवोऽयं स्वयमेवातिवत्सलः || एतद्भक्त्यातिसंतुष्टः पुत्रप्रीत्यैव रक्षति || २० || निष्काणां च सहस्रं तु ददात्यनुदिनं स्वयम् || वेश्यागारं स्वयं गत्वा देवदेवस्त्रिलोचनः || २१ || संभाष्य च धनं दत्वा गणिकां संदधाति वै || पीठमर्दवदेतस्य कार्याणि कुरुते शिवः || २२ || विदूषकस्य कृत्यानि कुरुतेऽस्यैव संनिधौ || करोति नागरिकवत् संधानं सरसोक्तिभिः || २३ || मिमुक्तैश्च शिवस्तस्मिन् विक्रीत इव वर्तते || अर्चकेनैवमुक्तस्तु मिरुमिंडोऽब्रवीद्वचः || २४ || किं स्वयं नंबिभक्तोऽसौ शिवोऽयं किमु शंकरः || उभयोश्चापि सामर्थ्यं पश्यामि गणसंसदि || २५ || इत्युक्त्वा प्रमथान्वीक्ष्य मिरुमिंडोऽप्युवाच तान् || वयं कुर्मः शिवस्यास्य भक्तस्यापि बहिष्क्रियाम् || २६ || इत्युक्त्वा ताडयामास घंटात्यन्तनिस्वनाम् || ततः शिवोऽपि सहसा नंबिनं परिगृह्य च || २७ || प्. ५४) साहसित्वं च भक्तानां कथितुं नंबिने ततः || आययौ मंडपं बाह्यं भक्तवेषधरः शिवः || २८ || वल्मीकदेवोऽप्यत्यन्तं भयकंपितविग्रहः || गृहीत्वा नंबिनं हस्ते क्षुद्रमार्गेण निर्ययौ || २९ || क्रोशद्वयं ततो गत्वा ददर्शोद्यानमुज्ज्वलम् || वनं तदित्यविज्ञाय स्थितौ दिग्भ्रमविह्वलौ || ३० || ग्रामोऽयं किंन्वयं देशो महारण्यमिदं किमु || एवं संचिन्त्य बहुधा नानाद्रुमसमाकुलम् || ३१ || उद्यानवनमेवेति निश्चयामासतुस्ततः || प्रविश्य तद्वनं रम्यं नानापुष्पमनोरमम् || ३२ || तिंत्रिणीचूतपुन्नागवृक्षाकीर्णतटं परम् || संप्रेक्षयामासतुस्तौ भयोद्विग्नस्वमानसौ || ३३ || हित्वा तदपि कासारं प्रफुल्लकमलोज्ज्वलम् || तदूर्ध्वं चंदनतरून् पारिजातमहीरुहान् || ३४ || क्रमुकाशोकबकुलतातहिंतालभूरुहान् || लतागृहान् सुरम्यांश्च सिद्धद्वन्द्वविराजितान् || ३५ || अतिक्रम्य पुरोभागे नानाशुकपिकोज्ज्वलम् || मल्लीवल्लीसमाक्रान्तविटपैः परिवारितम् || ३६ || कल्पवृक्षं महारम्यमतिदूरे ददर्शतुः || शिवालयभ्रांतियुक्तचित्तौ शंकरनंबिनौ || ३७ || एतच्छिवालयं किं नु किं वा सिद्धाश्रमो महान् || प्. ५५) एवं विचिन्त्य बहुधा कल्पवृक्षं मनोरमम् || ३८ || सूक्ष्मदृष्ट्या परामर्श्य निश्च्यं तौ समापतुः || ततस्तस्थौ तरुच्छायां संप्राप्यातिमनोरमाम् || ३९ || विचित्रपुष्पसंकीर्णे सिद्धस्त्रीपरिवारिते || तत्र सिंहासने रम्ये चोपविष्टोऽभवच्छिवः || ४० || अतीवनिःश्वसञ्च्छ्रान्तश्चातिभीत इवाकुलः || नखाग्रैः स्वेदबिंदूंश्च मंदं प्रचिक्षिपत् || ४१ || वस्त्रांचलेन दिव्यांगं मंदमांदोलयंस्तदा || शिवः सिंअहासने रम्ये चातिश्रान्त्योपतस्थिवान् || ४२ || उपविष्टं शिवं दृष्ट्वा नंबी प्रोवाच विस्मितः || तवैतद्धि भयं किंनु त्रिलोकाधिपतेः परम् || ४३ || एवमुक्तस्तु तं भक्तमुवाच परमेश्वरः || अशेषवेदवेदान्तपुराणैः कल्पसूत्रकैः || ४४ || प्रत्यक्षादिप्रमाणैश्च कामिकाद्यागमैरपि || सद्भक्तपरतंत्रोऽहमिति संज्ञा ममार्पिता || ४५ || प्राणोऽहं सर्वभक्तानां भक्तास्ते तनवो मम || भक्तसेवैव मत्सेवा भक्तस्तोत्रं मम स्तुतिः || ४६ || मद्भक्तनिंदा मन्निंदा सत्यं सत्यं मयोदितम् || परित्यज्य तु मद्भक्तान् यो मां पूजयते सदा || तस्य संपूजनं नित्यं नैष्फल्यमुपयाति हि || ४७ || सद्भक्तवत्सलोऽत्यन्तं भक्ताभीस्टप्रदः सदा || अत्रेतिहासं वक्ष्यामि शृणु नंबिन् महामते || ४८ || प्. ५६) पुराभूद्दानवः कश्चिद्बाणो नाम महामतिः || शिवलिंगार्चनासक्तः शिवभक्तार्चनोत्सुकः || ४९ || सहस्रवारं देवस्य पूजनं करवाण्यहम् || इति संकल्पयामास प्रत्यहं नियमान्वितः || ५० || ततोऽहं तुष्टहृदयो विस्मितस्तेन कर्मणा || तस्य बाहुसहस्रं तु दत्तवानस्मि सादरम् || ५१ || सोऽपि बाहुसहस्रेण मद्दत्तेन दृढव्रतः || सहस्रवारं मत्पूजामेकदैवाकरोत्सुधीः || ५२ || शिवेन बाहुसाहस्रं लब्धबान् बाणदानवः || इति संप्रेक्षितुं बाणं भक्ताः सर्वे समागताः || ५३ || तेषां संभाषणासक्तबाणस्यास्य महत्मनः || मदर्चने प्रसादोपभोजने च निरंतरम् || ५४ || प्राकृतानां दृष्टिपातो भवेतेति च शंकया || द्वादेशे स्थितश्चाहं द्वारपालस्वरूपभृत् || ५५ || एतद्धि सर्वे जानंति जनास्त्रैलोक्यवासिनः || पुनश्चाहं प्रवक्षामि शृणु नंबिन् तपोधन || ५६ || करिकाल इतिख्यातो मुदिगोंडाभिधे पुरे || महाविभवसंपन्नः शिवलिंगार्चने रतः || ५७ || कावेरीबंधनं कर्तुं तस्य धीः सुश्तिराऽभवत् || पुरौकसो जनाः सर्वे नानाग्रामनिवासिनः || ५८ || मृत्तिकानयनं कर्तुं नियोगं मृतवान्नृपः || प्. ५७) पिष्टाम्बा नाम तत्रासीच्छिवभक्ता दृढव्रता || ५९ || मृत्तिकानयनं कर्तुं भूपतिस्तां न्ययोजयत् || पिष्टाम्बा मृत्तिकाभारमुवाह महदादरात् || ६० || पुनः शृणु तव श्रीमन्महिताचरितां कथाम् || कलिकाम इति ख्यातो भक्तोऽभूत् प्राग्धरातले || ६१ || अहं भृत्यः शिवः स्वामीत्यमुमर्थं विचिन्तयन् || शिवस्य पादकमले नितान्तं श्रान्तिमेष्यतः || ६२ || नंबिनामाऽपरो भक्तो वेश्यागाराण्यनेकशः || प्रेषयामास देवेशमिति ज्ञात्वा महाशयाः || ६३ || तिरुवालूरिनगरे तिष्ठन्तो भक्तसत्तमाः || न वारयन्ति देवेशं न कर्त्व्यमिदं त्विति || ६४ || न योजयन्ति भृत्यं हि नंबिनं कार्यकोविदम् || चुकोप कलिकामाख्यः श्रुत्वैतद्वचनं परम् || ६५ || प्रतिशुश्राव सक्रोधं सभ्रूभंगं महीपतिः || नंबिनं ये स्मरन्त्यद्य शिवं तद्दासमेव वा || तिरुवालुपुरस्थांस्तान् हनिष्याम् न संशयः || ६६ || तदाऽहं तस्य निकटं गत्वाऽत्यन्तप्रयत्नतः || संप्रार्थ्य कलिकामाख्यं प्रसन्नं कृतवानहम् || ६७ || तवाभीष्टधनं दातुमृण. प्राक्तनमस्ति किम् || दृष्ट्वा त्वद्भक्तिमेवाहं ददामि तव कांचनम् || ६८ || प्. ५८) करोमि दासभावं च नानाजनविगर्हितम् || अतो हि मम भक्तेषु नाहंकारस्तु युज्यते || ६९ || त्वत्संसर्गेण संजातो ह्येतत्परिभवो मम || एवंविधैश्च दृष्टान्तैर्बोधयित्वा च नंबिनम् || ७० || श्रुत्वैतद्भक्तमाहात्म्यं नंबी भक्तिमतां वरः || प्रणिपत्य शिवं सांबमुवाच वचनं परम् || ७१ || आचार्यवर्य देवेश मद्गर्वो नाशितस्त्वया || धन्योऽस्म्यनुगृहीतोऽहं त्वद्भक्तानुस्मृतेः शिव || ७२ || इदानीं भक्तनिकटं गत्वाऽहं विनयान्वितः || स्तुत्वा नत्त्वा च भक्त्यैव दयां तेषां भजामि वै || ७३ || पश्येदानीं महेशान मच्चरित्रं महेश्वर || एवमुक्त्वा ततो नंबी विचिन्वन् भक्तसत्तमान् || ७४ || नमस्कुर्वन् स्तुवन् स्तोत्रैर्गायन् गीतैः सुशोभनैः || शिवभक्तमथैकैकं गायन् सप्तस्वरैरपि || ७५ || मोदयामास भक्तोघान् नंबीशो विनयान्वितः || कथामकथयच्छुंभुस्तदा श्रीपरमेश्वरः || ७६ || सभयः सत्यसंपन्नो नंबी चाकर्ण्य तद्वचः || गणान् पुरातनान् स्तोतुमारेभे शिवसंनिधौ || ७७ || वृत्तम् || नंबिने शिखरिराजसुतेशो भक्तसंततिकथाः कथयित्वाः || प्. ५९) शांतभावमकरोत् परमेशो भक्तपादकमलार्पितचित्तम् || ७८ || इत्येवं माचिदेवस्य वाक्यं श्रुत्वा वृषेश्वरः || भक्तिमाप मदं हित्वा तदग्रे कलशोद्भव || ७९ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे परमरहस्ये कुमारागस्त्यसंवादे षड्विंशतितमोऽध्याय ह् || प्. ६०) अथ सप्तविंशतितमोऽध्यायः अगस्त्यः || ततः किमकरोन्नंबी शिवानुग्रहमाप्तवान् || एतत्सर्वं समासेन तारकघ्न वदस्व मे || १ || एवं पृष्टः कुंभजेन तारकासुरभंजनः || बसवं भोधितुं माचप्रोक्तं पुण्यफलप्रदम् || नंबिनश्चरितं श्राव्यं वक्तुं समुपचक्रमे || २ || स्कंदः || यथा तुष्टाव नंबीशश्चिंताभारसमाकुलः || तत्प्रकारं शृणुष्वद्य कथयामि महामुने || ३ || एणांकदेवकथा पूर्वमेणांकनामाऽभूत् शिवभक्तो दृढव्रतः || स तु संकल्पयामास करुष्येऽहं महेशितुः || ४ || चंदनालेपनं शंभोः सत्कर्तुं चोपचक्रमे || गंधं विलेपयामास प्रत्यहं परमेशितुः || ५ || हृतमासीद्धनं सर्वं चंदनक्रयणेन हि || विक्रीतुं चंदनं चैव धनाभावं विचार्य च || ६ || चिंतापरवशो भूत्वा निश्चिकायेदमद्भुतम् || भक्तिरेव धनं सर्वं धनं किं धनमुच्यते || ७ || मनसः साहसाभावे नास्ति भक्तिर्दृढापरा || तत्सत्वे सर्वमस्त्येवेत्येवं निश्चित्य चेतसा || ८ || प्. ६१) स्वतनुं चंदनं काष्ठं कृत्वा तद्गंधलेपनम् || करोम्यहं सदा भक्त्या शूलिनः || ९ || इति निश्चित्य मनसा विचारमकरोद्यथा || मद्गात्रोद्भवगंधश्च न चंदनसमो भवेत् || १० || अथवा रक्तसंमिश्रो भवेद्यदि विवर्णकः || दुर्गंधो वा शिवस्यापि मम वैरं तथा भवेत् || ११ || किमिदानीं विचार्यं मे निश्चित्येति स्थितोऽभवत् || स्वकूर्परेणोत्थगंधमाकृप्य परमेशितुः || १२ || लेपयामास सद्भक्त्या शिवोऽपि परया मुदा || पुनरावृत्तिरहितं पदं यस्य प्रदापयत् || १३ || एणांकमूर्तये तस्मै सद्भक्ताय नमो नमः || कडवलनंबिकथा तथा कडवलनंबीशः शिवपूजारतः सदा || १४ || सहस्रदीपिकादानं कुर्वन्नास्ते महेशितुः || तैलवस्त्राद्यभावेऽपि महोत्साहोऽतिधैर्यवान् || १५ || स्वतनुं दीपिकां कृत्वा यः कैलासं जगाम हि || अहर्नित्यं नमस्यामि तस्मै कडवलनंबिने || १६ || प्. ६२) गुग्गुलकलियारि कथा परंधाम-पुरे रम्ये शिवभक्तातिसंकुले || भक्तः श्रीगुग्गुलकलिः शिवव्रतमहोत्सुकः || १७ || स्थाणोर्गुग्गुलुधूपानां प्रदाताऽनुदिनं परः || गुग्गुलोऽस्तु क्रये सर्वं नष्टमासीद्धनं स्वकम् || १८ || तदानीं नागकन्यानां संगीतरसतत्परः || नागेश्वरो लिंगमूर्तिर्नम्रो वक्रत्वमागतः || १९ || तद्वक्रत्वप्रशमने धरणीशादयो जनाः || उपायैस्ते बहुविधैरसमर्था बभूविरे || २० || एवं राजादयः सर्वे चिंताभारसमाकुलाः || तेषां तु गुग्गुलुकलिर्गत्वा सन्निधिमाहतान् || २१ || लिंगस्य वक्रतामेनां शमयिष्ये न संशयः || नित्यं च गुग्गुलोर्भारः खारी-परिमितो महान् || २२ || भवद्भिर्मम दातव्यः पौरैर्नृपतिनाऽथवा || अंगीचक्रुस्तथा पौरा नृपाद्याः शिवसन्निधौ || २३ || ततस्तु गुग्गुलुकलिः खड्गमादाय सत्वरम् || शिवस्य संनिधिं प्राप वस्त्रं छित्वा स्वपाणिना || २४ || शस्त्रस्य पार्श्वयोर्वस्त्रं बद्ध्वाऽसौ दृढनिश्चयः || तच्छस्त्रस्यानुसंधानं स्वकंठस्य शिवस्य च || २५ || कृत्वा प्राणांस्ततस्त्यक्तुं समुद्युक्तोऽभवत्तदा || प्. ६३) ऋजु तामगमच्छीघ्रं लिंगं नागेशसंज्ञकम् || २६ || एवं कृत्वा तु यः प्राप कलासपदमुत्तमम् || प्रत्यहं तस्य भक्तस्य चरणौ प्रणमाम्यहम् || २७ || अरुवालुकथा अरुवालुः पुरा कश्चिच्छिवभक्तो महीपतिः || शाल्यन्नमेवानुदिनं ददामीति व्रते रतः || २८ || एतद्व्रतरतस्यास्य विनष्टं सकलं धनम् || ततो लवित्रपाणिः सन् चचार सकलां महीम् || २९ || तत्र कर्षकसस्यानि छित्वाऽसौ नियतव्रतः || तान्यादाय व्रतं स्वीयं कुर्वन्नास महीतले || ३० || व्रीहीनलम्ध्वा पंचाहमुपवासांश्च्कार सः || कथंचित्प्राप व्रीहींश्च संभ्रमादागतश्च वै || ३१ || एकदा व्रतिनस्तस्य व्रीहयः पतिता भुवि || पतिता विविशुर्निम्नं व्रीहयो वटमुज्ज्वलम् || ३२ || गतेषु व्रीहिषु ततो व्रतलोपभयाकुलः | लवित्रेण गलं स्वीयं छेत्तुं समुपचक्रमे || ३३ || ततो यस्य प्रसन्नोऽभूत्सांबश्चंद्रार्धशेखरः || अगम्यं ब्रह्मविष्ण्वाद्यैः कैलासाख्यं पदं ददौ || ३४ || तस्मै नित्यं नमस्यामि सद्भक्ताय महात्मने || प्. ६४) अतिभक्तकथा **पांड्यदेशे बभूवैकोऽतिभक्तोऽतिधीवरः || ३५ || *न्हदं सोऽपि समागत्य जालं तत्र प्रचिक्षिपत् || जलमध्ये निपतितं प्रथमं मत्स्यमुत्तमम् || ३६ || शिवार्पणधिया सोऽयमुत्सृज्यान्यान्मनोहरान् || मत्स्यानाकर्षयामास शतशोऽथ सहस्रशः || ३७ || विक्रीय तद्धनं सर्वं जंगमानां न्यवेदयत् || तस्यैकदा जालमध्ये स्वर्णमत्स्यं पपात वै || ३८ || तमादौ पतितं मत्स्यं शिवायैव न्यवेदयत् || पुनश्चिक्षेप कासारे जालमत्यन्तशोभनम् || ३९ || सौवर्णमत्स्य एवायं पपातातिमनोहरः || समर्पितः शिवायेति मुमुचे धीवराग्रणीः || ४० || एकस्तदतिरिक्तोऽपि न पपात यदृच्छया || एवं पंचसु यातेषु दिवसेषु महामतिः || ४१ || चिंताभारसमाक्रांतो जंगमार्चनलोपतः || ततः सरोवरं चान्यं ययौ धीवरसत्तमः || ४२ || स एव मत्स्यः पतितो वागुरायां शिवेच्छया || पूर्वं शिवार्पितं ज्ञात्वा मुमुचे मत्स्य-सत्तमम् || ४३ || मत्स्यं तदतिरिक्तं च नाविशद्वागुरांतरे || दिनेष्वेवं प्रयातेषु धीवरो भक्तसत्तमः || ४४ || पुनश्च स्वगृहं प्राप्य सोऽयं रात्रिं व्यपोह्यताम् || प्. ६५) ततः प्रातः समुत्थाय ययौ चान्यं सरोवरम् || ४५ || तत्र प्रसारयामास जालं स्वकरसंस्थितम् || स एव मत्स्य आयातो यः पूर्वेद्युः समीक्षितः || ४६ || तमंडजं ततो हित्वा धैर्यवान् भक्तसत्तमः || तदा संकल्पयामास मंदं मंदं च निःश्वसन् || ४७ || अस्मिन् दिने वागुरायां झषास्तु न विशंति चेत् || त्यक्षाम्यहमसून् स्वीयान्नात्र कार्या विचारणा || ४८ || एवं निश्चित्य कासारे स्वीयां चिक्षेप वागुराम् || भालनेत्रश्चंद्रचूडः प्रादुर्भूतो ऽभवच्छिवः || ४९ || दिव्यं स्थानं ततो यस्मै ददौ सर्वेश्वरः स्वयम् || तस्य भक्तस्य भृत्योऽहं मनोवाक्कायकर्मभिः || ५० || || एणाधिनाथकथा || एणाधिनाथो लीलाख्यपुरे प्रभुरजायत || भूतिरुद्राक्षसहिताः शैवा एव न संशयः || ५१ || इति निश्चित्य मनसा शैवद्रोहपराङ्मुखः || शशास सकलां पृथ्वीं क्रोधलोभविवर्जितः || ५२ || कदाचिच्छत्रवः सर्वे संभूय बलदर्पिताः || निरुध्यैतत्पुरं सर्वं तस्थिरे स्वबलैर्वृताः || ५३ || एणाधिनाथः संक्रुध्य स्वबलैर्योद्धुमाययौ || ततः समभवद्युद्धं संकुलं रोमहर्षणम् || ५४ || प्. ६६) तस्य प्रयुध्यमानस्य नानाऽऽयुधसमन्वितः || विभूतिरुद्राक्षधरो भटः कोऽपि पुरोगतः || ५५ || तं दृष्ट्वा नृपतिः श्रीमान् खड्गमुत्सृज्य सत्वरम् || पपात पादयोस्तस्य भक्तिभावविनम्रधीः || ५६ || स्वपुरः प्रणतं भूपं ख्ड्गेन हतवान् भटः || करवालः प्रभोः कंठे पुष्पमालाऽभवत्तदा || ५७ || ततः प्रसन्नो भगवान् धूर्जटिर्नीललोहितः || यस्य मोक्डं ददौ शीघ्रं तस्मै नित्यं नमाम्यहम् || ५८ || || चेदिराजकथा || चेदिदेशाधिपः श्रीमान् महासत्यः प्रतापवान् || अर्चयन् शिवभक्तौघान् प्रार्थ्यमानेष्टवस्तुभिः || ५९ || उवास स्वपुरे रम्ये हत्वा शत्रून् रणावृतान् || निर्जिताः शत्रवः सर्वे कपटोपायकोविदाः || ६० || भृत्यान् कृत्रिमलिंगांगान् प्रेषयामासुरादरात् || तान् दृष्ट्वा स महीपालः प्रणनामातिसत्वरम् || ६१ || ततः कृत्रिमलिंगांगास्ते नृप भक्तपुंगवम् || खड्गमुद्यम्य हस्तैस्तं हन्तुं चक्रुश्च शेमुषीम् || ६२ || ततो निवृत्तरोषः सन् राजाऽयं सत्यभावनः || प्. ६७) दध्यौ स्वगुरुरूपेण ते जाता लिंगधारिणः || ६३ || यस्येश्वरः प्रसन्नोऽभूत्तस्मै नित्यं नमो नमः || || करयूरचौडार्यकथा || करयूर्यन्वये जातश्चौडनामा नृपोत्तमः || ६४ || तस्यासन् पृथिवीपालाः शत्रवो बलदर्पिताः || तान् हंतुं प्रेषयामास संख्यातीतं बलं स्वकम् || ६५ || तेन दिन्नानि शत्रूणामानीतानि शिरांसि च || तानि पश्यंश्च तन्मध्ये ददर्श सजटं शिरः || ६६ || तत् दृष्ट्वा शोकसंतप्तश्छित्वा स्वस्यशिरः परम् || तन्मस्तकस्योर्ध्वभागे स्थापयामास भूपतिः || ६७ || एतत्क्रियातिसंतुष्टो यस्य मोक्षं ददौ शिवः || तस्य पादाब्जयुगलं नम्स्याम्यतिभक्तितः || ६८ || || कलियंबकथा || कलियंब इति ख्यातो दृढलिंगार्चनोत्सुकः || तस्यासीद्दासिकापुत्रो हित्वा कार्याणि केवलम् || ६९ || स्वैरं चचार निर्भीतो दासः क्रीडा-परायणः || प्. ६८) तस्मिश्चुकोप राजाऽयं नुध्वैतद्दासिकासुतः || ७० || लिंगधार्यभवद्धीमान् गुरुं प्राप्यातिभीतितः || तस्यांघ्रिकमलद्वन्द्वं प्रणनाम स्वयं नृपः || ७१ || पादाभिषेचनं कर्तुं भार्यामाहूय भूपतिः || जलमानय सुश्रोणि सुवर्णकलशेन हि || ७२ || साऽपि तद्वचनं श्रुत्वा दासीपुत्रो ह्ययं नृप || पादप्रक्षालनं कर्तुं नोत्सहे सर्वथा प्रभो || ७३ || एतद्वचनमाकर्ण्य राजा कोपसमन्वितः || करौ तस्याः प्रचिच्छेद प्रादुर्भूतस्ततः शिवः || ७४ || पुनरावृत्तिरहितं यस्य स्वीयं पदं ददौ || तस्य दासानुदासोऽहं मनोवाक्कायकर्मभिः || ७५ || || इरुवदाण्डारिकथा || इर्वदाण्डारिभक्तस्य जंगमाचरितस्य च || गृहमागत्य देवेशो भक्तवेषधरः शिवः || ७६ || कंथां स्वकीयं पात्रं कौपीनं च महत्तरम् || गृहे संस्थाप्य तत्सर्वं ततः स्वैरं विनिर्ययौ || ७७ || कंथादिकं ततः सद्यस्तिरोधानं चकार सः || ततस्तु पुनरागत्य कदाचित्त्रिपुरांतकः || ७८ || त्वदंतिकं न्यस्तधनं देयमित्यब्रवीच्छिवः || प्. ६९) ततोऽन्विष्य च वै भक्तौ नापश्यद्धनमस्य हि || ७९ || स्वामिंस्त्वद्दत्तवस्तूनि न संत्यत्र गृहे मम || तत्तुल्यानि च वस्तूनि दास्येऽहं भवतोऽधुना || ८० || ततः प्रोवाच भगवान् भक्तं तं वृषभध्वजः || तादृक्कंथादिकं चास्ति संगृहीतं मदन्तिके || ८१ || एतत्तुल्यं धनं देहि तद्गतं चेन्महामते || इत्युक्त इर्वदांडारिस्तथैवास्त्विति चाब्रवीत् || ८२ || तुलादंडे स्ववस्तूनि निक्षिप्य शिवभक्तराट् || चिक्षेप यद्भक्तकंथामुख्यवस्तुत्रयं परम् || ८३ || भक्तवस्तुत्रयसमं न बभूवाखिलं धनम् || उपविष्टस्तुलापात्रे स्वयमेवाविशंकितः || ८४ || ततोऽष्टमूर्तिर्भगवान् प्रादुर्भूतः कृपार्द्रधीः || यस्य मुक्तिं ददौ तूर्णं तस्मै नित्यं नमाम्यहम् || ८५ || || दंगुलिमारकथा || भक्तो दंगुलिमाराख्यो भक्ताराधनतत्परः || तद्गृहं समनुप्राप्तो निशीथे वृष्टिसंकुले || ८६ || त्रिलोचनो जगन्नाथो भक्तवेषधरः शिवः || वर्षधाराप्लुतं भक्तं दृष्ट्वा दंगुलिमारकः || ८७ || विस्रस्य स्वगृहं तूर्णमदहच्छैत्यनुत्तये || प्. ७०) अतीतशीतभारः सन् ययाचेऽन्नं तमीश्वरः || ८८ || पूर्वस्मिन् दिवसे यानि शालिबीजान्यवाकिरन् || सत्वरं तानि संगृह्य जलैः क्षालनमाचरत् || ८९ || अग्नौ संतापयामास कृत्वा तंदुलसंचयम् || ततस्तस्मै ददौ चान्नं क्षुधिताय महात्मने || ९० || ततो यस्य प्रसन्नोऽभूच्छिवः सत्यादिलक्षणः || तस्य दंगुलिमारस्य चरणौ प्रणमाम्यहम् || ९१ || || गणपालकथा || शिवभक्तः पुरा कश्चिद्गणपालो महीपतिः || स्वपुरस्थाञ्जनान् सर्वान् प्राहेदं वचनं परम् || ९२ || युष्माभिश्च जनैः सर्वैः कर्त्व्यं लिंगधारणम् || नोचेद्यूयं मम पुरान्निष्क्रामध्वं पुरौकसः || ९३ || इति संबोधिता राज्ञा प्रोचुस्तत्पुरवासिनः || वैदिकैर्विधिभिर्लिंगधारणं विहितं नहि || ९४ || इति तैः प्रोच्यमानस्तु राजा वचनमब्रवीत् || लिंगधारणमाख्यातं वीरशैवस्य निश्चयात् || ९५ || ब्रह्मेति लिंगमाख्यातं ब्रह्मणस्पतिरीश्वरः || पवित्रं तद्धि विख्यातं तत्संपर्कात्तनुः शुचिः || ९६ || ऋगित्याह पवित्रं ते विततं ब्रह्मणस्पते || प्. ७१) तस्मात्पवित्रं तल्लिंगं धार्यं शैवमनामयम् || ९७ || अतप्ततनुरज्ञो वै आमः संस्कारवर्जितः || दीक्षयारहितः साक्षान्नाप्नुयाल्लिंगमुत्तमम् || ९८ || अघोरेरापापकाशीति या ते रुद्र शिवा तनूः || यजुषा गीयते यस्मात् तस्माच्छैवोऽघवर्जितः || ९९ || यजुर्वेदे पु नः प्राह विभिन्ने षडशीतिधा || तैत्तिरीयाख्यशाखायां ग्रंथे चारण्यकांडके || १०० || नारायणाख्यसंप्रश्ने सर्वलिंगमिति श्रुतिः || शिवं प्रस्तुत्य निधनपतये च नमः पुरः || १०१ || इत्यादि शैवलिंगस्य धारणं विदधाति हि || सर्वस्य जीववर्गस्य निधनस्य पतिः शिवः || १०२ || जगज्जन्मादिकर्तृत्वमेतेन प्रतिपाद्यते || पतंति निधने ये तु ब्रह्माद्याः प्राणिनः परे || १०३ || अंतर्यामितया तेषां तदंतिक इतीरितः || सर्वांतर्यामिभावेन सर्वसंहरणेन वा || १०४ || वेदान्तवेद्यं ब्रह्मैव लिंगमित्यभिधीयते || ब्रह्मांडोपरि संस्थित्या चोर्ध्वलिंगमिति श्रुतिः || १०५ || तदेव भावनागम्यं परमं लिंगमुच्यते || प्. ७२) तदेवभावलिंगं स्यात् सर्वतत्त्वैककारणम् || १०६ || पंचाशत्स्वपि वर्णेषु षडक्षरमनौ स्थितः || इंधना इति विज्ञेया नकाराद्याश्च वर्णकाः || १०७ || नमः पीठमिति प्रोक्तं शिकारो मध्यमीरितम् || वाकारो गोमुखं वृत्तं यकारो गोलकं स्मृतम् || १०८ || ओंकारं लिंगमाख्यातं लिंगं षड्वर्णकल्पितम् || सुवर्णलिंगमित्युक्तमिष्टलिंगं महात्मभिः || १०९ || तप्तकांचनसंकाशे मणिपूरे महत्तरे || अवस्थितं प्राणलिंगं कांचनाद्रिसमप्रभम् || ११० || हिरण्यलिंगम्त्युक्तं शैवशास्त्रार्थकोविदैः || क्षितिमूर्तिधरः शंभुः सर्व इत्यभिधीयते || १११ || नकारवाच्यं सर्वेशं शर्वलिंगं वदंति हि || जलमूर्तिधरो देवो भव इत्यभिधीयते || ११२ || मकारवाच्यं यल्लिंगं भवलिंगं तदुच्यते || शिवलिंगं महाधाम तेजस्तत्वनियामकं || ११३ || शिवलिंगमिति ख्यातं मुनिभिस्तत्त्ववादिभिः || संहाररुद्र एवासौ ज्वल इत्यभिधीयते || ११४ || वायव्यलिंगमेवैतज्ज्वललिंगमिति स्मृतम् || चिदाकाशस्थितत्वेन शिवो इति स्मृतः || ११५ || लिंगरूपधरः सोऽयं दिव्यलिंगमितीरितः || अंतःकरणसंयुक्त आत्माऽयं शिव ईरितः || ११६ || प्. ७३) स एव लिंगरूपत्वादात्मलिंगमिति स्मृतः || नकारवाच्यं परमं यल्लिंगं पार्थिवं परम् || ११७ || आचारलिंगमित्युक्तं शैवगमविशारदैः || भवाख्यलिंगं तत्वज्ञा गुरुलिंगं वदंति हि || ११८ || यल्लिंगं तैजसं प्रोक्तं शिवलिंगं तदुच्यते || उग्राख्यलिंगं वायव्यं चरलिंगमितीर्यते || ११९ || प्रसादलिंगमित्युक्तं दिव्यलिंगं यदुच्यते || महालिंगमिति प्रोक्तमात्मलिंगं महत्तरम् || १२० || श्रुत्वैतद्दशलिंगानां धारणं तु विधीयते || लिंगानां दशकं चैतत्सूर्यमंडलवर्तिनः || १२१ || उमया सहितस्यैव शिवस्य परमात्मनः || सर्वलिंगम्तिख्यातं शैवशास्त्रविशारदैः || १२२ || तद्धि स्थापयतीत्युक्तौ स्थापनं हि विधीयते || वाच्यवाचकरूपेण द्विधा मंत्रः प्रकीर्तितः || १२३ || वाचको वर्णरूपः स्याद्वाच्यश्च परमः शिवः || शिवस्य लिंगरूपत्वं ज्ञेयं प्रकरणेन हि || १२४ || पाणौ तु मंत्रमित्युक्तं हस्ताधिकरणं स्मृतम् || तस्य पाणिपदं प्रोक्तमन्यस्थानोपलक्षकम् || १२५ || उत्तमांगं गलश्चैव भुजमध्यमुरस्थलम् || प्. ७४) लिंगधारणयोग्यानि स्थलानि विविधानि हि || १२६ || पवित्रपदसामर्थ्याद्धारणं सार्वकालिकम् || पुरीषोत्सर्जने मूत्रविसर्गे देहलिंगयोः || १२७ || संबधेऽपि च लिंगस्य पावित्र्यं नैव हन्यते || यज्ञोपवीतं परमं पवित्रमिति वाक्यवत् || १२८ || पवित्रपदसामर्थ्यादुपवीतमिवामलम् || न जहाति स्वपावित्र्यं लिंगं चैतत्तथैव हि || १२९ || एवमादिप्रमाणानि पुनस्तत्पुरवासिनाम् || उपदिश्य ततस्तेषां चक्रे लिंगस्य धारणम् || १३० || भविसंदर्शनालापपराङ्मुखनृपान्तिकम् || शूद्रवेषधरः शंभुरागतो वृषभध्वजः || १३१ || दौवारिकैः स्ववचनं प्रेषयामास भूपतेः || अहं शूद्रवरः कश्चित्त्वद्राज्ये कर्षकः स्मृतः || १३२ || तवाधिकारि पुरुषा मामद्यैवं बभाषिरे || आनेतव्यं धनं शूद्र पूर्वस्मादधिकं परम् || १३३ || एतत्ते कथितुं सर्वं त्वदंतिकमुपागतः || दौवारिकः समागम्य राज्ञे सर्वं न्यवेदयत् || १३४ || तत आगत्य शुद्राय नृपवाक्यं न्यवेदयत् || लिंगधारणहीनस्त्वं लिंगधारी भवाधुना || १३५ || तव प्रयोजनं सर्वं करोम्यद्य न संशयः || शूद्रः प्रोवाच तच्छ्रुत्वा नृपदौवारिकाय च || १३६ || प्. ७५) कुलवृद्धैरस्मदीयैर्न कृतं लिंगधारणम् || अतोऽहं न भविष्यामीत्येवं राज्ञे न्यवेदयत् || १३७ || राजाऽपि परमक्रुद्धो हन्तुं तं समुपागमत् || ततः शिवः प्रादुरभूच्छूलपाणिः पिनाकधृत् || १३८ || वरं वरय भूपाल प्रितोऽहं भवतोऽधुना || ततो राजा शिवं प्राह प्रीतिश्चेन्मयि शंकर || १३९ || अंगीकुरुष्व सद्भक्त्या लिंगधारणमुत्तमम् || तदा तद्दत्तलिंगं च स्फटिकं धृतवा शिवः || १४० || दोर्भ्यामलिंग्य तं भक्तं निन्ये कैलासमीश्वरः || ददौ निरामयो देवः शैवं पदमनामयम् || १४१ || गणपालस्य तस्याहं नमामि चरणाम्बुजे || गुंडार्यकथा अप्पाभिधे पुरे रम्ये कुंभकारकुलोद्भवः || १४२ || गुंडनामाऽभवच्छ्रीमान् शिवभक्तो जितेंद्रियः || स कदाचिन्नीलकंठं दृष्ट्वा लिंगं मनोहरम् || १४३ || निश्चक्राम ततो रात्रावागन्तुं स्वगृहं प्रति || तस्यैवागम्यमानस्य भक्तस्योपरि मोहतः || १४४ || प्रक्षाल्यामत्रपात्रं तु वेश्या चिक्षेप तज्जलम् || प्. ७६) तज्जलेनाप्लुतो गुंडः शिवेत्युच्चैरुवाचह || १४५ || आक्रोशवाक्यं सा श्रुत्वा वेश्या भीतिसमाकुला || स्वगृहात्तूर्णमागत्य नत्वा संप्रार्थ्य यत्नतः || १४६ || निनाय स्वगृहं गुंडं स्नापयित्वा जलैः शुभैः || नानापरिमलोपेतं चंदनं विलिलेप सा || १४७ || देइव्यान्यपि च वस्तूनि ददावत्यन्तभक्तितः || गुंडस्तदा ययौ तूर्णं मुदितः स्वस्य मंदिरम् || १४८ || तद्भार्या गंधलिप्तांतं दृष्ट्वा प्राह वरानना || त्वं गतोऽसि च वेश्याया गृहं रन्तुं तया सह || १४९ || मदंगं मा स्पृशारेऽद्य रम्यम् स्पृशति चेद्भवान् || नीलकंठपदद्रोही भविष्यति न संशयः || १५० || एवमुक्तस्तया साध्व्या गुंडोऽपि दृढनिश्चयः || पंचोत्तराशीतिसमा नास्पृशद्वरवर्णिनीम् || १५१ || अथैकदा समागत्य भक्तवेषधरः शिवः || विचित्ररत्नखचितं धृत्वा पात्रं सकांचनम् || १५२ || कुंभकार त्वया पात्रं रक्षणीयं महोज्ज्वलम् || आगत्याहं पुनरिदं गृहीष्यामि मनोहरम् || १५३ || इत्युक्त्वा स्वर्णपात्रं तद्दत्वा स्वैरः ययौ शोवः || गत्वा समागत्य ययचे परमेश्वरः || प्. ७७) पात्राभावं समुद्विक्ष्य गृही गुंडोऽतिभक्तिमान् || १५५ || शोकार्तेनैव मनसा निर्विण्णः सन् स्थितः पुरः || वर्तमानं पुरोभागे गुंडं प्राह महेश्वरः || १५६ || मत्पात्रं चोरमार्गेण हृतं गुंड त्वयाऽधुना || मत्पात्रस्थापहरणे युवामेव हि तस्करौ || १५७ || युवां जले मज्जयामि जलात्पूर्वं य उत्थितः || स एव तस्करो ज्ञेयो मत्पात्रहरणोद्यतः || १५८ || प्रवेष्ट्व्यं जलं तूर्णमित्युक्त्वा तौच दंपती || स्नातौ दिव्याम्बरधरौ युवानौ रूपसंयुतौ || १५९ || ततः शिवः प्रादुरभूदिन्दुखंडशिखामणिः || उवाच दम्पती तौ तु परमः करुणार्द्रधीः || १६० || पंचोत्तराशीतिसमा भुक्त्वा भोओगान् यथोप्सितम् || कैलासं मत्पुरं दिव्यं परमं प्राप्नुतं ततः || इत्युक्त्वा ऽन्तर्दधे तूर्णं शिवः सच्चिन्मयाकृतिः || १६१ || यः शिवानुग्रहाल्लेभे कारुण्यमतिसुंदरम् || तस्य पादाम्बुजद्वन्द्वं नमस्याम्यतिभक्तितः || १६२ || पूसल नैनारुकथा पुरा विक्रमचोडाख्यो राजा चक्रे शिवालयम् || सौवर्णं तं निरीक्ष्याशु पूसलान्वयजो महान् || १६३ || नयनारुः स्वयं चक्रे मानसे कनकालयम् || प्. ७८) स्वयमेवाभवत्तूर्णं शिवालयमनुत्तमम् || १६४ || तत्र संपूज्य सर्वेशं यः कैलासपदं ययौ || प्रणमामि च तं भक्त्या मोक्डलक्ष्मीसमृद्धये || १६५ || संत्यज्य सकलाअं राज्यं यो वैराग्यपदं गतः || तस्याहं तिरुपालस्य संस्मरामि पदद्वयम् || १६६ || पूर्वमाराध्य देवेशं यो मोक्षं सहसाऽगमत् || चिरुतोण्डस्य तस्याहं दासभावं करोम्यहम् || १६७ || पुरातनानां भक्तानां नवीनानां तथैव च || ये समाराध्य देवेशं गमिष्यन्ति कृतार्थताम् || तद्भृत्यानां च भृत्योऽहं मनोवाक्कायकर्मभिः || १६८ || नंब्येवं शिवभक्तानां माहात्म्यघटितानि हि || संख्यातीतानि गेयानि गायन्नत्यन्तभक्तितः || १६९ || मिरुमिंडादिभक्तानां समीपं स्वयमाययौ || तत्पृष्ठदेशमाश्रित्य | महेशोऽपि समाययौ || १७० || अभयप्रार्थनासक्तं गृहीत्वा नंबिनं ततः || आगच्छन्तं महादेवं प्रणेमुर्भक्तपुंगवाः || १७१ || म्रुमिंडमुखान् भक्तान् शिवश्चंद्रार्धशेखरः || कैलासवासिनश्चक्रे स्थितो नंब्यवनीतले || १७२ || अतो गर्वांधचित्तानां क्व भक्तिर्बसवेश्वर || दाता भोक्ता शिवः कर्ता त्रातेति स्वयमेव हि || १७३ || भक्तानां भक्तियुक्तानां भक्तिरेव सनातनी || प्. ७९) सैव सिद्धिप्रदा नित्यमिमामंगीकुरु स्वयम् || १७४ || वृत्तम् || इति बसवकुमारं बोधयित्वा तु माचो विनयकलितचित्तो चिश्वनाथंघ्रिभक्तः || विविधमणिसमूहं भक्तसंघाय दत्वा नृपतिमुखजनौघान् प्रेषयामास पश्चात् || १७५ || मिरुमिंडकथां भक्त्या श्रुण्वतां विमलात्मनाम् || सांबः सायुज्यपदवीं ददाति भुवि कुंभज || १७६ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपगर्ंथे परमरहस्ये स्कन्दागस्त्यसंवादे मिरुमिंडचरितं नाम सप्तविंशोऽध्यायः || प्. ८०) अथाष्टाविंशोऽध्यायः किन्नरब्रह्मदेवकथा अगस्त्यः || भक्तमाहात्म्यकथया संतुष्टोऽहं षडनन || भक्तानामेव माहात्म्यं पूनर्ब्रूहि शिवात्मज || १ || पृच्छतस्तस्य सेनानीः शिवलिंगांगसंगिनां || शिवात्मनां च भक्तानां माहात्म्यं प्राह हर्षितः || २ || कुमारः || भूलोके समभूद्भक्तः मिन्नरब्रह्मसंज्ञकः || लिंगांस्थलतत्वज्ञः शैवाचारपरायणः || ३ || सर्वेषां शिवभक्तानां दानकर्म करोति सः || व्यापारैर्बहुभिः सर्वैरर्जितं धनसंचयम् || ४ || प्रदत्वा शिवभक्तेश्यो निर्धनः सन् व्यतिष्ठत || वीणामादाय तदनु जगौ गीतान्यनेकशः || ५ || तस्य नादानुरागेण प्रीतोऽभूत्परमेश्वरः || ददावनुदिनं द्रव्यं यावद्भक्तार्चनक्षमम् || ६ || धनेन शिवभक्तेन चक्रे लिंगार्चनं सदा || भक्तौघैश्च समाकर्ण्य बसवेशयशः परम् || ७ || ययौ तं द्रष्टुकामः सन् किन्नरब्रह्मभक्तराट् || प्. ८१) बसवः संगमेशानं दृष्ट्वैनं भक्तसत्तमम् || ८ || प्रत्युद्गम्य स्वयं नत्वा पूजयामास भक्तितः || पादोदकप्रसादाभ्यां संतुष्टः प्रत्यहं स्थितः || ९ || ततः संतुष्टहृदयः किन्नरब्रह्मभक्तराट् || त्रिपुरांतकदेवस्य संस्थितो गोपुरांतरे || १० || ततो विटवरः कश्चिन्मेषं पाशेन संयुतं || वारांगनार्थमादाय ययौ तद्वीधिमार्गतः || ११ || छित्वा स्वकंठसंलग्नपाशं मेषो यदृच्छया || पुरांतकालयं रम्यं प्रविवेशातिवेगतः || १२ || सोऽपि तूर्णं समागत्य मेषं जग्राह पाणिना || किन्नरब्रह्मभक्तोऽसौ मेषं दृष्ट्वा दयान्वितः || १३ || मेषस्य ग्रहणोद्युक्तमुवाच विटपुंगवम् || प्राणभीत्यैव मेषोऽयं संप्रापेमं शिवालयम् || १४ || अतस्त्वं न गृहाणेमं तद्धनं ते ददाम्यहम् || शिवभक्ता न त्यजंति प्राणिनं शरणागतम् || १५ || अतो धनं गृहीत्वाशु गच्छ त्वं त्वद्गृहान्तिकम् || सोऽप्यतिक्रोधताम्राक्षः प्रावदद्भक्तपुंगवम् || १६ || विक्रीतोऽयं महामेषो गतोऽसौ शिवमंदिरम् || न त्यक्ष्याम्यहमेतं हि मद्वेश्याप्रीतिकारणम् || १७ || बुद्धिस्तवास्ति चेदेनं रक्षितुं मेषपुंगवम् || दत्वा सहस्रनिष्काणि रक्षैनं करुणाधे || १८ || किन्नरब्रह्मभक्तश्च ददौ निष्कसहस्रकम् || प्. ८२) एतद्धनं गृहीत्वाशु क्रीत्वा मेषांतरं परम् || १९ || ययौ वेश्यान्तिकं तूर्णं संतुष्टहृदयस्ततः || वृत्तान्तं सकलं प्राह वेश्यायै विटराट् तदा || २० || वेश्याऽप्यत्यन्तसंक्रुद्धा प्राहेत्थं विटपुंगवम् || पूर्वं नियोजितो मेषो देवानां प्रीतये मया || २१ || तत्त्यागान्मम हानिःस्याद्देवताक्रोधसंभवा || तमेवानय शीघ्रं हि मयि प्रीतिस्तवास्ति चेत् || २२ || नोचेन्मामद्य संत्यज्य गच्छ गच्छ गृहान्मम || हसंति च वयस्या मे हसंति मम बांधवाः || २३ || ततः समाययौ तूर्णं सक्रोधो विटपुंगवः || किन्नरब्रह्मनिकटस्थितं मेषमथाग्रहीत् || २४ || क्रोधघूर्णितताम्राक्षः किन्नरब्रह्मभक्तराट् || मेषं तव न दास्याम् विक्रीतं शरणागतम् || २५ || बलाद्गृहिष्यसि त्वं हि छिनद्ब्मि तव मस्तकम् || इत्युक्तोऽपि विटो दृप्तो नात्यजन्मेषपुंगवम् || २६ || किं च रुष्टः शस्त्रपाणिर्योद्धुमुद्युक्तवांस्तदा || ततस्तु शिवभक्तोऽस्य कुठारेणाच्छिनच्छिरः || २७ || ततस्तद्बांधवाः सर्वे बिज्जलान्तिकमागमन् || रुरुदुः शोकसंतप्ताअ बाष्पपूरितलोचनाः || २८ || नापराधः कृतोऽनेन शिवभक्तस्य तस्य हि || प्. ८३) विक्रीतमेषमादाय मदियोऽयं समाययौ || २९ || विच्छिन्नरज्जुमेषोऽयं शिवालयमुपागतः || पुनस्तद्ग्रहणोद्युक्तमेनं भक्तवरोऽच्छिनत् || ३० || इति बिज्जलभूपालं प्रोचुस्ते विटबांधवाः || उर्वीश्वरोऽपि सक्रोधः प्रोवाच बसवेश्वरम् || ३१ || लोके वदन्ति सद्वृद्धाः शिवभक्तान् दयापरान् || अपराधविहीनस्य हननं नोचितं खलु || ३२ || न शिक्षकोऽस्ति चास्माकमिति संचिन्त्य चेतसा || अकृत्यानि च कुर्वन्ति शतशोऽथ सहस्रशः || ३३ || अपराधविहीनानां हननं न नृपोचितम् || भक्तानामुचितं नेति वक्तव्यं किमु मे वद || ३४ || अकृत्यकरणोद्युक्ताः शिवभक्ता इति श्रुताः || जघान पितरं कश्चिज्जघान तनयं परः || ३५ || पादेनाताडयद्देवं कश्चिन्मांसं ददौ परः || अताडयच्छिलाखंडैर्देवदेवं त्रिलोचनम् || ३६ || स्वकुलानि परित्यज्य कुर्वंति सहभोजनम् || दुराचाररताश्चापि दौष्ट्यमस्मत्कृतं परं || ३७ || स्वयमेव दवन्त्येवं स्वसमाजेऽविशंकिताः || सर्वमेताद्धि मद्राज्यं यूयं पालयताधुना || ३८ || बिज्जलेनैवमुक्तस्तु बभाषे बसवेश्वरः || प्. ८४) धर्ममार्गं न त्यजन्ति शिवभक्ता दृढव्रताः || ३९ || अतो विमर्शनीयं हि सर्वमेतन्महीपते || स्वमंत्रिणः प्रेषयाद्य किन्नरब्रह्मसंनिधिम् || ४० || तथेति प्रेषयामास बिज्जलो मंत्रिसत्तमान् || ते गत्वा तं नमस्कृत्य प्रोचुस्तं वचनं परम् || ४१ || किमेतद्धि कृतं कायं मेषार्थं नरमारणम् || हिंसाऽत्यन्तनिषेधा हि विरक्तानां महात्मनाम् || ४२ || इत्युक्तः किन्नरब्रह्मा मंत्रिणस्तानुवाच सः || सर्वं मेषस्य वृत्तांतं यथापूर्वमभूत्तथा || ४३ || तेश्यः प्रोवाच ततसर्वं किन्नरब्रह्मभक्तराट् | नास्ति चेदत्र विश्वासो भूपतेर्मंत्रिसत्तमाः || ४४ || पुरांतकेन तत्सर्वं भाष्यामि तदग्रतः || ततस्तु मंत्रिणः सर्वे किन्नरब्रह्मभाषितम् || ४५ || राज्ञे निवेदयांचक्रुर्बसवेश्वरसंनिधौ || एवं मंत्रिमुखाच्छृत्वा किन्नरब्रह्मभाषितम् || ४६ || बिज्जलो विस्मयाविष्टश्चिंतयामास चेतसा || मनुष्याः साक्षिणो लोके यथादृष्टाथवादिनः || ४७ || न दृष्टं देवतासाक्ष्यं विरुद्धं विस्मयावहम् || अतः कपटमाश्रित्य प्रोक्तं वा सत्यमेव वा || ४८ || पश्यामि निकटं गत्वेत्युत्थितो निर्ययौ ततः || प्. ८५) नृपेण सार्थं सहसा निर्ययौ बसवेश्वरः || ४९ || बसवेशोऽपि तं नत्वा तुष्ट्व विविधैः स्तवैः || विरक्ताः शिवभक्ताश्च सत्यसंधा जितेंद्रियाः || ५० || शिवालयबहिर्भागे सर्वे तस्थुर्नृपादयः || ततो नृपाज्ञ यैवासावर्चकः प्राद्रवद्भयात् || ५१ || आगत्य किन्नरब्रह्मा लिंगमूर्तिमुवाच तम् || कपाटेन समाच्छाद्य गृहं स्वीयं मनोअहरम् || ५२ || किमर्थं तिष्ठसे स्वामिन् साक्ष्यभीतोऽसि किं वद || बहिःस्थितेन भक्तेन प्रोक्तश्चंद्रार्धशेखरः || ५३ || कपाटानि विनिर्भिद्य ह्यभवद्दृष्टिगोचरः || भक्ताय दासकाख्याय निर्भिन्नमररं पुरा || ५४ || इति शुश्रुम तत्सर्वमद्य प्रत्यक्षतां गतः || ततस्ते चिन्तयामासुर्बिज्जलप्रमुखा जनाः || ५५ || कपाटस्य विभिन्नत्त्वाच्छिवः साक्षी भविष्यति || ततश्च विविधैः स्तोत्रैर्ब्रह्मभक्तं जनोऽस्तुवत् || ५६ || ततस्तु किन्नरब्रह्मा शिवं तुष्टाव वाग्यतः || नंब्याख्यश्च पुरा भक्तो गृहीत्वा गणिकास्तनम् || ५७ || अहूतः स्तनमध्यस्थः प्रत्युक्तिं दत्तवानसि || पुरा देवरदासस्य परेषां प्रत्ययाय हि || ५८ || पिपीलकान्तर्यामी सन् वचनं प्रोक्तवानसि || प्. ८६) बाऊरिब्रह्मणस्त्वं हि समक्षं प्रतिवादिनाम् || ५९ || राशिं च यावनालानां लिंगं च कृतवानसि || एवं संस्तुत्य भक्तेन हस्तमुद्यम्य भक्तितः || ६० || आहूयमानो देवेशो वचनं प्रत्यभाषत || तदारवाच्च ते सर्वे विना भक्तान् महाजनाः || ६१ || निपेतुर्मूर्च्छिता भूमौ बभुवुश्च विचेष्टिताः || मार्तंडमंडलं भ्रांतं नक्षत्राण्यपतन्भुवि || ६२ || चकंपे वसुधा सर्वे दिग्गजाश्च विकुंठिताः || वर्धयो घूर्णिता भीता ब्रह्मविष्ण्वादयः सुराः || ६३ || शशंकिरे भयभ्रांता ह्यकालप्रलयोदयात् || एवं सप्तदिनं जातं प्रसुप्तं भुवनत्रयम् || ६४ || चेरुस्त्रिलिक्यां प्रमथा जृंभमाणाः समंततः || एवमद्भुतवाग्दानसंवृतं भुवनत्रयम् || ६५ || तदालोकावनमना बसवः करुणार्द्रधीः || किन्नरब्रह्मभक्तांघ्रिं नत्वा तुष्टाव भक्तितह्ः || ६६ || अशेषजगदाधारमूर्तये सत्यरूपिणे || अखंडमहिमाधारशिवरूपाय ते नमः || ६७ || अहंकारविदूराय शुद्धदेहाय ते नमः || अशेषवेदवेदान्तवेद्याय परमात्मने || ६८ || गुणत्रयविहीनाय गुणत्रितयहेतवे || प्. ८७) नमो वाचामगम्याय मनोऽतीताय ते नमः || ६९ || एवं संस्तुत्य बसवो ब्रह्मभक्तं महोज्वलम् || अनुनीयातियत्नेन परां शांतिं निनाय तम् || ७० || किन्नरब्रह्मणा प्रोक्तः शिवश्चंद्रार्धशेखरः || हाहाकारादुपरतः सर्वप्राणिभयावहात् || ७१ || बिज्जलाद्या जनाः सर्वे बभूवुः प्राप्तचेतनाः || ब्रह्मविष्ण्वादयः सर्वे बभुवुर्हृष्टमानसाः || ७२ || मूर्च्छां त्यक्त्वा बिज्जलोऽपि समुत्थाय जनैः सह || पुनः स्थितं च तं भक्तं तुष्टाव विनयान्वितः || ७३ || ब्रह्मभक्त सुरैः सर्वैर्वंद्यमानपदाम्बुज || अपराधसमाक्रांतमज्ञानतमसाऽऽवृतम् || ७४ || कार्याकार्यविमूढं मां रक्ष रक्ष दयानिधे || त्वत्सामर्थ्यं परिज्ञातुं न समर्थाः सुरा अपि || ७५ || अस्माकं ज्ञानहीनानां का शक्तिः कथय प्रभो || त्वदुक्त्या सहसाऽऽगत्य हाहाकारं शिवोऽकरोत् || ७६ || त्वद्वाक्येनैवोपरतः किमाधिक्यमितः परम् || सर्वेषामधिको देवः शंकरो न तवाधिकः || ७७ || त्वमेव हि महेशोऽसि त्वमेव त्रिपुरांतकः || एतच्चराचरं सर्वं ब्रह्मविष्ण्वादयः सुराः || ७८ || त्वमेव नातिरिक्तं हि त्वं सर्वस्य नियामकः || प्. ८८) ततस्त्वमेव चास्माऽकं गतिरन्या न विद्यते || ७९ || एवमुक्तो बिज्जलेन प्रहसंच्छिवभक्तराट् || उवाचात्यन्तदयया बिज्जलं विनयान्वितम् || ८० || भक्तेषु च भयाविष्टो जीव बिज्जलभूपते || इति बिज्जलमाश्वास्य मेषार्थं यो हतः पुरा || ८१ || तं विटं जीवयामास कृपयाप्लुतमानसः || ततो भक्तगणैः साकं बसवेशो विनिर्ययौ || ८२ || अत्याश्चर्यसमायुक्तो बिज्जलः स्वगृहं ययौ || पुरौकसो जनाः सर्वे जग्मु स्वस्वगृहान् प्रति || ८३ || किन्नरब्रह्मयोगींद्रः शिवेन प्राप्तसद्धनः || लिंगार्चनकाननंतान् वै तृप्तांश्चक्रे महामुने || ८४ || वृत्तम् || ये शृण्वंति पठंति ब्रह्मचरितं लोकोत्तरं पावनं श्रोतॄणामघशोषणं सुखकरं संपत्करं मोक्षदं || ते भुक्त्वेह समस्तभोगनिचयं देहावसाने पदं शैवं योगिगणैश्च दैवतगणैः संप्रार्थितं यांति हि || ८५ || इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवपुराणे स्कन्दागस्त्यसंवादे ब्रह्ममाहात्म्यं नाम अष्ताविंशोऽध्यायः || प्. ८९) एकोनविंशोऽध्यायः || कलकेतब्रह्मदेवकथा || अगस्त्यः || भूयोऽपि भक्तमाहात्म्यं तारकासुरभंजन || समस्तपातकघ्नं च कृपया वद मे प्रभो || १ || स्कन्दः || कलकेतब्रह्मनामा शिवभक्तस्तपोनिथिः || लिंगांगस्थलतत्वज्ञो जंगमार्चनतत्परः || २ || अशेषकर्मसंघातनिर्मूलनविचक्षणः || तृणीकृताखिलसुरो जीवन्मुक्तः प्रतापवान् || ३ || मेषशृंगधरः श्रीमान् विरभद्र इवापरः || परेषामिमपि सिद्धांतान्निर्दग्धुं मेषवाहनः || ४ || आययौ भक्तसदनमित्युच्चैः प्रवदन्मुहुः || हासयन्भक्तसंघांश्च तैर्दत्तं व्रीहिसंचयम् || ५ || गृहीत्वा हृहमागत्य चक्रे भक्तार्चनं सदा || अथास्मिन्नंतरे कश्चिच्छिवभक्तो दृढाशयः || ६ || किन्नरब्रह्मनामानं भक्तं द्रष्टुं समाययौ || ततो मार्गे परिश्रांतः श्रुत्पिपासासमन्वितः || ७ || कलकेतब्रह्मभक्तभवनं समुपागमत् || श्रांतं तमर्चयित्वा तु भोजनादिभिरादरात् || ८ || ततः प्रोवाच वचनं शिवभक्तं महामतिः || प्. ९०) किमर्थमटसे भूमिगणयय परिश्रमम् || ९ || कलकेतब्रह्मभक्तं पुनरूचे शिवार्चकः || नंबिने प्रत्यहं शंभुर्ददौ यो धनमीप्सितम् || १० || किन्नरब्रह्मनाम्नश्च भक्तस्यापि ददाति सः || इति श्रुत्वा दरिद्रोऽहं धनसंग्रहणोत्सुकः || ११ || भक्तं तं याचितुं द्रव्यमागतोऽस्मि महामते || कलकेतब्रह्मनामा श्रुत्वा भक्तप्रभाषितम् || १२ || भक्तं समागतं प्राह धनग्रहणतत्परम् || धनं लब्ध्वा महेशानाद्ददातीति किमद्भुतम् || १३ || स्वव्यापारेण यल्लब्धं तदेव धनमुत्तमम् || तदेव देयं भक्तेभ्यस्तस्मान्न गणयामि तम् || १४ || दत्ते लिंगसुखेऽत्यन्तं गुरुणा परमात्मना || बहूकरोमि त्च्चैव न धनं तुच्छसौख्यदम् || १५ || मत्कायकेन यल्लब्धं तद्धनं चास्ति भूतले || इच्छाऽस्ति चेत्तव धनं गृहाण त्वं मदन्तिके || १६ || इत्युक्त्वा हस्तदण्डेन ताडयामास भूतलम् || महद्धनं तदा तत्र दृष्टं भक्तेन तेन वै || १७ || तद्गृहीत्वा धनं सर्वं हृष्टांतःकरणस्ततः || बसवेशान्तिकं तूर्णमाययौ धनभारभृत् || १८ || ततो भक्तवरः श्रीमान् बभाषे बसवेश्वरम् || प्. ९१) कलकेतब्रह्मनाम्ना दत्तं मह्यं धनं बहु || १९ || ओढुं चैतदशक्तो ऽहं देहि भृत्य बलान्वितम् || इति श्रुत्बा भक्तवाक्यं बसवोऽत्यन्तविस्मितः || २० || शिवभक्ता महात्मानस्तन्माहात्म्यं तु को वदेत् || कल्पवृक्षो याचितः सन्नभीष्टार्थं ददाति हि || २१ || तादृशी कामधेनुश्च तादृक् चिंतामणिस्तथा || एते मुक्तिप्रदाने तु न शक्ता इति कीर्तिताः || २२ || अभिष्टार्थप्रदः सोऽयमपवर्गप्रदश्च हि || *प्रत्यक्षसंगमेशोऽयं केवलं न तु मानुषः || २३ || शिवदत्तधनं त्यक्त्वा स्वव्यापारार्जितं धनम् || देयं शंकरभक्तानां प्रशांतानां महात्मनाम् || २४ || इत्यालोच्य धिया हृषृस्तस्य भृत्यं नियोज्य च || तं द्रष्टुमुत्सुकोऽत्यन्तं बसवेशः स्वयं ययौ || २५ || तुष्टाव विविधैः स्तोत्रैर्बसवो भक्तवत्सलः || स्तुवंतं बसवेशानं प्रोवाच ब्रह्मभक्तराट् || २७ || सर्वे भक्तास्त्वया दृष्टाः श्रुताश्च विविधा अपि || किन्नरब्रह्मभक्तेन सदृशः किमु विद्यते || २८ || प्. ९२) यो नंबिने धनं दत्वा तुतोष परमेश्वरः || इदानीं किन्नरब्रह्मभक्तस्यापि धनं ददौ || २९ || एकः संभाषयामास स्वकार्यमत्परो महान् || कारयामास देवेन तयोः को नु समो भुवि || ३० || किमेभिः शून्यवचनैस्त्यक्त्वा संप्रार्थनां शिवात् || अभिष्टानि महार्हाणि किं वस्तूनि लभंति हि || ३१ || वृथेदं तम्कृतं पूर्वं मम नास्ति धनागमः || अस्माभिः पूजितो देवो न ददाति च किंचन || ३२ || अत्यंतायासकरणे प्रस्थमात्रास्तु शालयः || लभ्यंते न ततः किंचिल्लभ्यते धनमुत्तमम् || ३३ || किमत्र बहुनोक्तेन बसवेश महामते || किन्नरब्रह्मनिकटं गत्वैतद्वचनं वद || ३४ || त्वं गत्वा राजतगिरिं पुनरागतवानसि || तेन ख्यातिरभूल्लोके इदानीमागतं यशः || ३५ || त्वया संप्रार्थितो देवश्चाहेति च शिवोऽवदत् || अतः समागमिष्यन्ति शिवभक्ताः सहस्रशः || ३६ || धनलोभेन रत्नादिवस्त्रलिभात्त्वदन्तिकम् || अतिव्ययकृतस्तस्य नास्ति चेद्धनमुल्बणम् || ३७ || स्वव्यापारार्जितं द्रव्यं तिष्ठत्यद्य मदन्तिके || ददामि तद्धनं तस्य किंचित्संरक्षितं मया || ३८ || इत्युक्त्वा हगृहे भक्तो मृत्तिकामान्तिकस्थितम् || प्. ९३) मृत्तिका स्वर्णमभवत् तत्करस्पर्शमात्रतः || ३९ || तद्दृष्ट्वा बसवेशोऽपि परं विस्मयमाप्तवान् || किन्नरब्रह्मभक्तोऽपि श्रुत्वैतद्वचनं परम् || ४० || कलकेतब्रह्मपादावागत्य प्रणनाम हि || कलकेतब्रह्मभक्तः किन्नरब्रह्मभक्तकम् || ४१ || आलिंग्य च स्वयं दोर्भ्यां कृपावृष्ट्याऽवलोक्य तम् || किन्नरब्रह्मसर्वज्ञ शिवं संपूज्य भक्तितः || ४२ || शिवाखंडकृपां हित्वा शिवाभिन्नस्वरूपतः || द्रव्यं दातुं धनं प्रार्थ्य देहं पोषितवानसि || ४३ || न युक्तमीदृशं कार्यं सद्भक्तानां विशेषतः || तस्मादखंडरूपं त्वं भज भावपुरःसरं || ४४ || किन्नरब्रह्मभक्ताख्यमित्युक्त्वा कलकेतकः || किन्नरब्रह्मभक्तस्य बसवेशस्य धीमतः || ४५ || पादोदकप्रसादौ च दत्वा करुणया ततः || चेतः प्रवेशयांचक्रे तस्य लिंगस्य कीलके || ४६ || ततः किन्नरब्रह्माख्यो बसवेशोऽपि निर्ययौ || इमां पुण्यां तस्य कथां ये शृण्वंति समाहिताः || ४७ || पठंत्यनुदिनं वाऽपि तेषां मुक्तिर्न संशयः || || मोलिगेमारकथा || भक्तो मोलिगेमाराख्यः साक्षाद्रुद्रस्वरूपधृत् || ४८ || सदाचाररतः श्रीमान् कामक्रोधविवर्जितः || प्. ९४) विमलांगो निष्प्रपंचस्तत्वसंचिंतनोत्सुकः || ४९ || सर्वकर्मापहर्ता च सर्वकर्मविवर्जितः || लिंगाक्रांतप्राणचयः शिवध्यानपरायणः || ५० || आनीय काष्ठनिचयं तद्विक्रयणजाद्धनात् || अनेकशिवभक्तौघपूजायां निरतोऽभवत् || ५१ || बसवेशगृहे भक्ता भुक्त्वा सर्वरसोज्वलम् || नानाभक्ष्यैरुपहितं शाल्यन्नं सुमनोहरम् || ५२ || असंतुष्टाश्च तद्गेहे कांजिकं च ततः परम् || तेन संतुष्टहृदयाः प्रोचुस्ते बसवेश्वरम् || ५३ || त्वद्गेहे दत्तवस्तूनि षड्रसैः सहितानि च || मारप्रदत्तकांजीरसमानि न भवंति हि || ५४ || एकप्रस्थमितं धान्यं स्वव्यापारेण लभ्यते || अनेन भक्तसंघानां ददौ भोज्यं मनोहरम् || ५५ || तस्मान्मोलिगेमारेण भक्तश्च सदृशो न हि || एतच्छ्रुत्वा तु बसवो मारगेहमुपाविशित् || ५६ || प्रसन्नवेषधारी सन् गृहीत्वा निष्कसंचयम् || दृष्ट्वा तद्गृहिणीं तत्र ययाचेऽन्नं रसोज्वलम् || ५७ || साध्वी संतुष्टहृदया ह्यर्घ्यपाद्यादिकं ददौ || प्. ९५) तत्र लिंगार्चनं कृत्वा निक्षिप्य धनमुत्तमम् || ५८ || विष्टराधः प्रदेशे तु बसवेशो विनिर्ययौ || एतत्प्रसादग्रहणं भवरोगैकभेषजम् || ५९ || अभीष्टार्थप्रदं चैव मुक्तिमार्गप्रदर्शकम् || एतद्गृहे क्षणेनैव नाशमायाति पातकम् || ६० || एतदायतनं दृष्ट्वा कृतार्थो भवति क्षणात् || एतन्निवासदेशस्था मृगपक्षिमहोरगाः || ६१ || पिपीलिकादयः सर्वे कृतार्था नात्र संशयः || इति संचिंतयंश्चित्ते तोषं बसवराट् गतः || ६२ || ततो मध्याह्नसमये व्यापारोपरतो गृहम् || मारभक्तः समायातः प्रत्युद्यातश्च भार्यया || ६३ || ततओ लिंगार्चनकाले विष्टराधः स्थितं धनं || दृष्ट्वाऽऽहूय स्वमहिषीं दत्तं केनेति चाब्रवीत् || ६४ || साऽपि भर्तारमाहेत्थं नाहं जाने धनागमम् || कश्चिद्भक्तः इतः पूर्वं कृत्वा लिंगार्चनं गतः || ६५ || निश्चिकाय स्वमनसा मारस्तं बसवेश्वरम् || बसवेशं स्वांतगर्वविनाशं करवाण्यहम् || ६६ || इति निश्चित्य मारोऽपि गणानाहूय सत्वरम् || प्रक्षाल्य तेषां पादौ च तत्तीर्थं स्वकरेण च || ६७ || गणसंस्मरणं कुर्वन् काष्ठभारे व्यचिक्षिपत् || ततो मारः समुत्थाय काष्ठकैकमुज्वलम् || ६८ || प्. ९६) भक्तानां प्रददौ तेषां कल्याणपुरवासिनाम् || सुवर्णदण्डास्ते जाता मारभक्तप्रभावतः || ६९ || आनीतं बसवेशेन धनं चापि ददौ ततः || श्रुत्वैतत्सकलं भक्तमुखेभ्यो बसवेश्वरः || ७० || विस्मितस्तस्य माहात्म्यं ननामागत्य सत्वरम् || नमंतं बसवेशानं दृष्ट्वा मारोऽब्रवीद्वचः || ७१ || गतिस्त्वं सर्वभक्तानां सदाभीष्टप्रदायकः || मादृशानां च भक्तानां त्वदायत्ता हि संस्थितिः || ७२ || यथा मम धनं दत्तं कृतार्थस्त्वं न चापरः || ७३ || एतत् प्रहासवचनं श्रुत्वा शोकसमाकुलः || मारं प्रोवाच बसवेऽप्यत्यन्तविनयान्वितः || ७४ || दुर्गुणामाकरोऽहं सुगुणां त्वमाकरः || यथा चंडालनिकटे वेदवाक्यं न विद्यते || ७५ || यथा हसंतिकामध्ये पंकजं वा मनोहरम् || तथा मयि महाभाग विनयो हि न तिष्ठति || ७६ || संगमेश्वररूपस्त्वं गतिर्मम न चापरः || ब्रुवन्तमेवं चरणे पतितं बसवेश्वरम् || ७७ || उत्थाप्यालिंग्य मारस्तं मृदुवाक्यैरतोषयत् || ततो मारं नमस्कृत्य निर्ययौ बसवेश्वरः || ७८ || प्. ९७) वृत्तम् || माराख्याभक्तचरितं जनतातिहृद्यं पापेंधनानलशिखोपममम्प्रमेयम् || शृण्वंति ये परमयोगिगणाः पठंति ते यांति शैवपदमुत्तममत्युदारम् || ७९ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे मोलिगेमारमाहात्म्यं नाम एकोन्त्रिंशोऽध्यायः || प्. ९८) त्रिंशोऽध्यायः || कन्नदब्रह्मार्यकथा || अगस्त्यः || पार्वतीहृदयानंदहेतवे कारणात्मने || नमस्तुश्यं पुनर्भक्त माहात्म्यं वद षण्मुख || १ || स्कंदः || भक्तः कन्नदब्रह्माख्यः शिवभक्तिपरो महान् || भक्तार्पितप्राणधनो ह्यत्यद्भुतचरित्रकः || २ || सदा शैवव्रताचारो जंगमाराधकाग्रणीः || ब्रह्यांतरार्चनासक्तः सत्कीर्तिरतिसाहसः || ३ || चोरतंत्रप्रयोगाढ्यश्चोरवेषधरः सदा || भक्तगेहान्समुत्सृज्य चक्रे रौर्यमितस्ततः || ४ || चौर्येण धनमानीय चक्रे भक्तार्चनं सदा || तद्गेहमागता भक्ता बहवो लिंगधारिणः || ५ || तदा तस्य गृहे नाभूदर्चितुं जंगमान्धनम् || बहुधा स तु संचिन्त्य दिवेत्यवगणयय च || ६ || हुज्जलस्य धनागारे धनमानेतुमुद्यतः || आगच्छतश्च तस्यासीद्बसवो दृष्टिगोचरः || ७ || त. दृष्ट्वा बसवेशोऽपि दण्डवत्प्रणनाम सः || चौर्येण धनमानेतुमुद्युक्तोऽहं समागतः || ८ || प्. ९९) बिज्जलस्य धनागारमिदानीं दर्शयस्व मे || एवमुक्तोऽथ बसवस्तस्थौ संचिंतयन् क्षणम् || ९ || भक्तसंप्रार्थितं वस्तु यत्तन्नास्तीत्यहं वचः || न ददामीति संकल्पं कृतः सन् भक्तसंनिधौ || १० || इति निश्चित्य बसवो धनागारमदर्शयत् || सर्वापेक्ष्यं भूमिजलं स कृत्वा धनमाहरेत् || ११ || संभूयाथ जनाः सर्वे कोशागाराधिकारिणः || बिज्जलायावदन्वेगात्कन्नदब्रह्मचेष्टितम् || १२ || बिज्जलः क्रोधविवशो बसवेशमुवाच तम् || बसवेश महाभाग म्तकार्यकरणक्षमः || १३ || परद्रव्यापहरणमुखकार्यपराङ्मुखः || इति संचिन्त्य स मया दत्तं स्वातंत्र्यमुल्बणम् || १४ || त्वयेत्थं क्रियते चेद्धि पापिष्ठस्त्वत्समो न हि || प्राणानपि कदाचिन्म हरिष्यसि न संशयः || १५ || इत्युक्तवंतं नृपतिं प्रोवाच बसवेश्वरः || नाहं ददामि ते द्रव्यं भक्तसंरक्षणक्षमम् || १६ || तदीयं तद्धनं चास्य ददामि क्षितिपालक || एवमुक्त्वा ययौ तूर्णं बसवेशः कृपानिधिः || १७ || पुरस्कृत्य च राजानं क्रोधविव्हलरूपिणम् || कोशागारस्थितं द्रव्यं राज्ञो दर्शयितुं ततः || १८ || बिलदेशे स्थितां सर्वां मृत्तिकाराशिमुज्ज्वलम् || प्. १००) हिरण्मयं ददर्शाग्रे राजा विस्मितमानसः || १९ || बसवेश्वरमाहूय राजा वचनमब्रवीत् || चोरः को नु महाभागो येन भूः कांचनायिता || २० || बसवेशः पुनः प्राह राजानमतिविस्मितम् || भक्तः कन्नदब्रह्माख्यः सर्वागण्यसुखोज्वलः || २१ || प्रवक्तुं तस्य माहात्म्यं ब्रह्मणाऽपि न शक्यते || एतस्य पादांगुलयः कल्पवृक्षादिपंचकम् || २२ || कामधेनुपयोधारि तत्कटाक्षनिरीक्षणम् || तच्चित्ते शैवसंकल्पे चिंतामणिरवर्तत || २३ || स्पर्शवेधिरभूत्तस्य हस्तमध्ये नृपोत्तम || या भूस्तत्पादसंलग्ना मुक्तिभूः साऽपि जायते || २४ || तेन दत्तः प्रसादोऽपि भक्तानाममृतायते || निग्रहानुग्रहावस्य निदानं भोगमोक्षयोः || २५ || तत्कटाक्षैकवशगा ह्यणिमाद्यष्टसिद्धयः || एतत्सामर्थ्ययुक्तोऽपि व्रतं चक्रे महामतिः || २६ || चौर्यार्जितधनेनैव तर्पयामीति सद्गुणान् || कुमार्गोऽयं सद्भक्तिरिति वाच्यं न पंडितैः || २७ || द्यूतेन पांडवाः सर्वे राज्यभ्रष्टा बभूविरे || द्यूतेन मूर्खनैनारुर्भक्तो मोक्षमवाप्तवान् || २८ || प्. १०१) मृगयानिरतो रामो हृतभार्यो हि रक्षसा || मृगयानिरतः कन्नः कैलासपदमाययौ || २९ || परस्त्रीनिरताः सर्वे नरकं यांति भीषणम् || परस्त्रीनिरतो नंबी बभूव सुजनाग्रणीः || ३० || स्वल्पजंतुं निहत्याशु मांडव्यः शूलभागभूत् || चंडीशः पितरं हत्वा मोक्षलक्ष्मीमवाप सः || ३१ || मृषावादरतो ब्रह्मा नागमत्पूज्यतां भुवि || चिरितोंडो मृषावादी मोक्षलक्ष्मीमवाप हि || ३२ || अल्लंध्य वचनं चैतद्राज्यान्ते नरकं व्रजेत् || चोडराजो ययौ तूर्णं पुनरावृत्तिवर्जितम् || ३३ || अधर्मो धर्मतां याति शिवार्थं त्वेनसा कृतः || धर्मोऽप्यधर्मतां याति शिवं त्यक्त्वा जनैः कृतः || ३४ || एतेषामपि भक्तानामसौ भक्तो महत्तरः || दिवारात्रविभागोऽस्य नास्ति चौर्याय भूपते || ३५ || यदा भक्तः समायाति चौर्यकालः स एव हि || भक्तोऽयं शिवभक्तानां धनं न स्वीकरोति हि || ३६ || प्राकृतानामेव धनं गृहीत्वा याति सत्वरम् || धूल्यादिकं च तत्स्पृष्टं याति कांचनतां पराम् || ३७ || अतस्तस्यैव संस्पर्शान्मृत्तिका स्वर्णता गता || प्. १०२) एवमुक्त्वा समाहूय कोशागाराधिकारिणः || ३८ || तत्रत्यं गणयामास राजकीयं धनं तदा || यथापूर्वं धनं तत्र प्रातिष्ठद्बिज्जलप्रभोः || ३९ || बिज्जलोऽत्यंतसंतुष्टः स्वभृत्यैश्च धनं ययौ गृहम् || ततः कन्नदब्रह्माऽपि समागत्य गृहं स्वकम् || ४० || भक्तान संतर्पयामास भक्ष्यभोज्यादिवस्तुभिः || ये पटह्ंति कथामेतामतिविस्मयकारिणीम् || ४१ || ते यांति परमं धाम शिवस्य परमात्मनः || मूषिणीचौडार्यकथा अस्मिन् महीतले रम्यं मुषिणीति पुरं परम् || ४२ || चमडोनाम तत्रासीच्छिवभक्तो निरंकुशः || सर्वेषां शिवभक्तानां मानसाब्जदिवाकरः || ४३ || सफलीकृअतसत्कर्मा दुष्टकर्मविवर्जितः || प्राज्ञः संसारसंतापविच्छेदनविचक्षणः || ४४ || अज्ञानजनतादूरः सदावीररसोज्वलः || प्रवर्षदमृतासाररम्यदृष्टिर्विलासवान् || ४५ || शापानुग्रहशक्तश्च प्रथितो भुवनत्रये || स्वसिद्धांतसमायुक्तो जनकार्यक्रियोद्यतः || ४६ || तपसो वा गोपतिर्वा भक्तो वा मृतिमेति चेत् || प्. १०३) तदा संजीवयिष्यामीत्येवं तेन प्रतिश्रुतम् || ४७ || गच्छतो मे पुरोभागे नदी कचित्स्थिता यदि || तस्याः प्रवाहमध्येऽह. गमिष्यामि न संशयः || ४८ || एवं नियमसंयुक्तश्चमडो दृढनिश्चयः || अर्चनं शिवभक्तानां कुर्वन्नास महोज्वलः || ४९ || स एकदा भक्तमुखान्माहात्म्यं बसवेशितुः || श्रुत्वा तद्दर्शनोत्कंठः कल्याणं गंतुमुद्ययौ || ५० || भक्तसंघातवृतः श्रीमान् मार्गमध्येऽतिसुंदरम् || विषवृक्षं ददर्शैकं फलमालासमाकुलम् || ५१ || समीपवर्तिनो भक्ताः प्रोचुस्तं चमडेश्वरम् || अस्माकं चमडेशाद्य प्रीतिरेतत्फलाशने || ५२ || एतद्भक्तवचः श्रुत्वा स्वासिमुद्यम्य भक्तराट् || विषवृक्षान्तिके स्थित्वा प्राह भक्तान् समीपगान् || ५३ || एतत्फलानि भुंक्षध्वं यथेच्छं भक्तसत्तमाः || इत्युक्तास्ते भक्तवरा भक्षयामासुरादरात् || ५४ || सुधासमानि तान्यासन् विषवृक्षफलानि वै || ततस्तु बसवेशोऽपि संगमेशोदरे परे || ५५ || आगच्छन्तं महात्मानमपश्यच्चमडेश्वरम् || अर्घ्यपात्रं समादाय शिघ्रं प्रत्युद्ययौ ततः || ५६ || पूजयित्वा स चमषं प्रणनामातिभक्तितः || प्. १०४) चमडो बसवेशश्च यथेच्छं तिष्ठतः पुरे || ५७ || ततस्तु चमडो भक्तवरैः संप्रार्थितो महान् || विवाहर्थं ययौ तूर्णं स्वीयभक्तसमावृतः || ५८ || कल्याणनगरे रम्ये शिवभक्तौघमध्यगम् || तपराजाभिधशव. वाहितं भक्तपुंगवैः || ५९ || विमानमध्यगं दृष्ट्वा प्राहेदं वचनं परम् || तव नंदीशवाहस्य न युक्तं नरवाहनम् || ६० || आगच्छागच्छ भो भक्त विवाहार्थं मया सह || खड्गहस्तोऽथ पादाग्रं गृहीत्वाऽशु चकर्ष तम् || ६१ || उत्थाय तपराजोऽपि मंदस्मितमनोहरम् || समालिंग्य ततो दोर्भ्यां चमडेशं महाद्युतिम् || ६२ || ततः पौरैः स्तूयमानस्तपराजेन संयुतः || विवाहार्थं तु चमडो गतवांस्तुष्टुवुर्जनाः || ६३ || व्यतीत्य दूरमध्वानं वटवृक्षसमाकुले || अतिष्ठत्प्रवने देशे चमडेशो गणैः सह || ६४ || तव गोपकुमारौ द्वौ विवादं चक्रतुस्तदा || एकस्तत्रान्यमवदन्नापराधः कृतो मया || ६५ || अत्र साक्षी च बसव-वटवृक्षो महानयम् || एतच्छ्रुत्वा समागत्य चमडो गोपबालकम् || ६६ || अपृच्छदित्यय. वृक्षो कथं बसवनामधृत् || एतद्वृक्षस्य बसवसंज्ञा जाता कथं वद || ६७ || इत्युक्तो गोपपृथुकश्चमडं पुनरब्रवीत् || प्. १०५) पितामहेन कथितं तत्पितामहभाषितम् || ६८ || अस्माभिर्गोपपृथुकैस्तच्छ्रुतं भक्तसत्तम् || नामेदं प्रवदन्त्यस्य वृद्धा ग्रामनिवासिनः || ६९ || निमित्तं किंचिदप्यत्र श्रुतं वृद्धमुखान्मया || वृषभावतिदृप्तौ द्वौ सप्ताहं चक्रतुः पुरा || ७० || युद्धमत्यन्तमतुलं तत्रैको निहतो वृषः || अत्र पौराश्च निक्षिप्तं चक्रुर्वृषमहीपतिम् || ७१ || समाध्युपरिभागे च निक्षिप्तो वटभूरुहः || निर्यासो वटवृक्षस्य रक्तरूपेण तिष्ठति || ७२ || फलं तु मांसरूपेण तिष्ठत्यत्र न संशयः || एतस्माद्वटवृक्षोऽयं बसवेश्वरनामधृत् || ७३ || एतच्छ्रुत्वा च चमषः क्रोधघूर्णितलोचनः || वृषभेशस्य मरणं पुराणं वा नवीनकम् || ७४ || श्रुत्वा मया न गंतव्यं विवाहार्थमितोऽन्यतः || सहैव वृषभेशेन गंतव्यमिति चोक्तवान् || ७५ || वटवृक्षान्तिकं गत्वा प्राह गंभीरया गिरा || आगच्छागच्छ वृषभ भुवं भित्वा बलादमुम् || ७६ || त्वया साकं गमिष्यामि विवाहार्थं वृषाधिप || इत्युक्तश्चमडेनाथ वृषभोऽत्यन्तदर्पितः || ७७ || वटवृक्ष विनिर्भिद्य निर्ययावतिवेगतः || तमागतं च वृषभं किंकिणीजालसंयुतम् || ७८ || ककुत्खुरविषाणाढ्यं चमडोऽयमपूजयत् || तत्रत्या विस्मिताः सर्वे तुष्टुवुश्चमडेश्वरम् || ७९ || प्. १०६) ततो वृषभराजाय ददुःक्षीरघटाज्जनाः || वृषभेशं पुरस्कृत्य पयसा पूरितोदरम् || ८० || विवाहर्थं ययौ पश्चाच्चमडो भक्तपुंगवः || उद्वृत्तवीचिनिकरां गहीरोदकपूरिताम् || ८१ || नदीं समुद्रगां कांचिन्मार्गमध्ये ददर्श सः || ततः प्राहनदीं भक्तः स्वपुरोभागसंस्थिताम् || ८२ || शिवभक्तः पुरा कश्चित्पपौ सप्तार्णवानपि || भविभिर्नीयमानां तां नावमुत्सृज्य दासकः || ८३ || भवतीं निर्जलां कृत्वा नदीमवततार सः || गजेशमसणं पूर्वं शिवध्यानैकतत्परम् || ८४ || मध्यस्थितं महाभागे दृष्ट्वाऽन्तं भयसंयुता || स्वतनूं द्विविधां कृत्वा सन्मार्गं दत्तवत्यसि || ८५ || अतोऽस्माकं महापुण्ये देहि मार्गं च सांप्रतम् || एवमुक्त्वा तु चमडः खड्गं तीक्ष्णमकंपयत् || ८६ || भीता साऽपि नदी वेगान्मार्गं तस्मै न्यवेदयत् || तेन मार्गेण चमडस्तस्याः पारमुपागतः || ८७ || वृषेण भक्तसंघैश्च तपराजेन संयुतः || उत्सुकः श्वशुरग्रामनिकटे समतिष्ठत || ८८ || ततो बंधुजनैः सर्वैः प्रत्युद्यातोऽतिवैभवात् || पौरैस्तु प्रेक्ष्यमाणः सन् विवेश श्वशुरालयम् || ८९ || प्. १०७) कन्यामुदवहत्साध्वीं रूपयौवनसंयुताम् || वध्वा वृषेण भक्तैश्च तपराजेन संयुतः || ९० || चमडो विभवाक्रांतः प्राप कल्याणपत्तनम् || कल्याणपत्तने काचिद्बालिका दशवार्षिकि || ९१ || आगत्य चमडस्यास्य ननाम चरणौ तदा || सोऽप्याशीर्वचनं चक्रे चिरंजीवेति भक्तराट् || ९२ || ततो बसवगेहेषु प्रातिष्ठद्भक्तसत्तमः || परेद्युरेव सा बाला ममारात्यन्तरोगतः || ९३ || पिता माता बंधुजनाः संभूय चमडान्तिकम् || मृतां बालां गृहीत्वैव समागत्यैवमब्रुवन् || ९४ || अस्यास्त्वयाश्हीर्वचनं कृतं पूर्वेद्युरेव हि || चिरंजीवेति तद्वाक्यमद्यैवाभून्मृषापरम् || ९५ || आक्रोशमानांस्तद्बंधून् दृष्ट्वा शोऽपि दयापरः || हस्ते स्वखड्गमादाय शवस्यान्तिकमाययौ || ९६ || उत्तिष्ठोत्तिष्ठ बाले त्वमिति प्राहातिधैर्यवान् || एवमुक्ते च चमडे सोत्थिताऽभूद्वरानना || ९७ || सुप्तोत्थितेव सा बाला सहसाऽऽगत्य सस्मिता || ननाम चमडं भक्तांस्तदन्तिकनिवासिनः || ९८ || नतावभूतां पितरौ चमडस्य पदद्वयम् || ततः संप्रार्थयामासुस्त्रयस्ते चमडेश्वरम् || ९९ || लिंगधारणदीक्षां नः कुरुष्वेत्यतिमोदतः || चमडश्च तथेत्युक्त्वा चक्रे चिल्लिंगधारणम् || १०० || प्. १०८) गतायुस्त्वं परित्याज्य शतायुस्त्वं ददौ मुदा || न शक्तिः प्राणदाने तु ब्रह्मादीनां दिवौदसाम् || १०१ || अयं तु मृतबालायाः पुनः प्राणं ददौ क्षणात् || अयं परशिवः साक्षान्मर्त्यलोके चरत्यहो || १०२ || एवं पौरजनाः सर्वे तुष्टुवुश्चमडेश्वरम् || ततोऽन्यदर्शकाः सर्वे प्राकृताः कपटात्मकाः || १०३ || चमडेश्वरसामर्थ्यमेकदा तु परीक्षितुम् || आनीय दारुप्रतिमां सर्वावयवसंयुताम् || १०४ || रुद्राक्षमालिकोपेतां भस्मदिग्धतनुज्वलाम् || जटाभारसमाक्रांतां कौपीनाच्छादनान्विताम् || १०५ || कस्मिंश्चिद्विजने देशे शून्ये चैव शिवालये || निवेशमानाः सर्वे च स्वयमूचुरितस्ततः || १०६ || दरिद्रोऽयं मृतःअ शैवो नास्ति तत्सन्निधौ धनम् || नागच्छंति ततः शैवाः शवं संस्कर्तुमद्य हि || १०७ || शिवार्चकांस्ततः सर्वे समाहूय च तापसान् || प्रेस्थानं नेतुकामा दारुयंत्रशवाकृत्म् || १०८ || वाहयित्वा तु चमडनिलयान्तिकमाययुः || स दृष्ट्वा चमडः प्रेतं कृत्रिमं दारुकल्पितम् || १०९ || ज्ञात्वेत्थं चिंतयामास स्वचित्ते भक्तसत्तमः || एतत्कृतं प्राकृतैस्तैर्मत्परीक्षार्थमेव हि || ११० || प्. १०९) इति निश्चित्य चमडस्तथैवास्त्विति चाब्रवीत् || ब्रह्मांडखर्परे भिन्ने पुनः संधातुमीश्वराः || १११ || शिवभक्ता महात्मानः कियन्मात्रं ममेदृशम् || ततो भक्तान्नमस्कृत्य शिवं संचिन्त्य भक्तितः || ११२ || किपात्खंड्गं समुद्धृत्य ययौ तच्छवसंनिधिम् || उत्तिष्ठोत्तिष्ठ प्रेताद्य शिवभक्तदयानिधे || ११३ || एवं वदन् स्वहस्तेन शवपाणिं ततोऽग्रहीत् || चमडेशकरस्पर्शात् प्रतिमा दारुयंत्रिता || ११४ || दिव्यदेहसमाक्रांता सप्राणा चाभवत्ततः || विस्मितेष्वपि सर्वेषु पश्यत्स्वत्यन्तमादरात् || ११५ || आगत्य चमडेशस्य ननाम चरणौ च सः || तुष्टाव चमडेशानं वैदिकस्तुतिभिस्ततः || ११६ || नान्यं जाने च मज्जन्म त्वत्कृपाविहितं परम् || तेनैव मुच्यमानस्तु चमडो भक्तपुंगवः || ११७ || लिंगधारणदीक्षां च चक्रे तस्य महामतिः || ततस्तु चमडः क्रुद्धो वंचकान् प्रतिवादिनः || ११८ || खड्गमुद्धृत्य सहसा ययौ हंतुं स्वयं क्षणात् || ततस्तेऽपि भयभ्रांता निपेतुस्तस्य पादयोः || ११९ || तुष्टुवुर्विविधैः स्तोत्रैर्लौकिकैर्वैदिकैरपि || अस्माकं तु गतिस्त्वं हि गतिरन्या न विद्यते || १२० || प्. ११०) एवमुक्तस्तु चमडो ह्यनुगृह्य नताञ्जनान् || कृपया तान् ररक्षाय कृतवन् लिंगधारणम् || १२१ || वृत्तम् || एतत्कथामृतरसं च पिबंति कर्णैः सर्वातिशायिमहिमोज्वलमप्रमेयम् || ये चामडं निहतकल्मषसंचयास्ते गच्छन्ति शैवपदमच्युतमुख्यवेद्यम् || १२२ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे मुषिणीचमडेशमाहात्म्यं नाम त्रिंशोऽध्यायः || प्. १११) एकत्रिंशोऽध्यायः || सुरीयचमडार्यकथा || अगस्त्यः || भूयोऽपि भक्तमाहात्म्यं सर्वपातकनाशनम् || सर्वसंपत्करं पुण्यं वद मेऽद्य षडानन || १ || स्कंदः || वरकीर्तिसुसंपन्नः कारणानां च कारणम् || लिंगतत्वस्वरूपज्ञो लिंगयोगसमन्वितः || २ || वीरव्रतप्रतापाढ्यो गूढलिंगैक्यमानसः || शुद्धान्तरंगविज्ञानी भुवनत्रयपूजितः || ३ || गतकर्मेन्द्रियः श्रीमान् ज्ञानेंद्रियविवर्जितः || सदयात्मा च तेजस्वी संहारभयवर्जितः || ४ || शीलसंपत्तिमान्वीर इत्यष्टाविधभक्तिमान् || विकारैः कायकैः शून्यो भक्तलिंगप्रसादभुक् || ५ || खंडिताशेषपाषंडसिद्धान्तनिचयः परः || सुरीयचमडो नामा ह्यासीद्भक्तवराग्रणीः || ६ || स्थित्वा कल्याणनगरे प्रशस्तैः सर्ववस्तुभिः || तर्पयामास भक्तौघांश्च्छतशोऽथ सहस्रशः || ७ || भुक्तेषु शिवभक्तेषु चक्रे लिंगार्चनं स्वयम् || प्. ११२) आनंदबाष्पसंसेकानंतरं चाभिषेचनम् || ८ || विचित्रपुष्पपूजायाः पूर्वं चित्ताब्जपूजनम् || धूपदानात्पुरा भक्तिवासनादानमुत्तमम् || ९ || पूर्वं नीराजनाच्चैव चात्मज्योतिः समर्पणम् || पदार्थार्पणतः पूर्वं स्वप्राणानां समर्पणम् || चकार भक्तवर्योऽयमंगचेष्टाविवर्जितः || १० || मग्नः सुखांबुधौ शैवे संस्तुवन् विविधैः स्तवैः || व्यापारानांतरान्बाह्यान् कृत्वा लिंगविलीनकान् || ११ || प्राणलिंगार्चनं चक्रे चेष्टपूजापुरः सरम् || एवं लिंगार्चनं कृत्वा प्रसादावसरे सति || १२ || तद्धस्तदत्तकवलान् बुभुजे पार्वतीपतिः || स्वयं तु बुभुजे पश्चात्तच्छेषं नियमान्वितः || एतं दृष्ट्वा महात्मानं भक्ताः प्रोचुः कथान्तरम् || १३ || वृत्तम् || षष्ठ्युत्तरत्रिशतखारिमितैर्मनोज्ञैः सत्तंदुलैः पचितमन्नमशेषहृद्यम् || रुच्यं तदर्धमितरम्यमरीचचूर्णयुक्पाकमिश्रितमदात्करिकालचोडः || १४ || तदीश्वरस्तु बुहुजं श्रुतमेतत्पुरा जनैः || तदा भक्तवरश्चन्नो ददौ कौबेरमुत्तमम् || १५ || तद्भुक्तं परमेशेनेत्येतद्भक्तमुखाच्छ्रुतम् || द्राक्षावाट्यां वीरचोडः स्विच्छिष्टं कृसरान्नकम् || १६ || ददौ शिवेन भुक्तं तदिति भक्तमुखाच्छ्रुतम् || प्. ११३) चमडेश्वरदत्तान्न्भोजनं परमेशितुः || १७ || दृष्टमन्तो वयं सर्व इति तं तुष्टवुर्गणाः || सुरीयचमडाख्यानं ये शृण्वंति समाहिताः || १८ || तेषामनेकश्रेयांसि सिद्ध्यन्त्यत्र न संशयः || आंध्रब्रह्मार्यकथा शिवभक्तार्चनासक्तः शिवभक्तो जितेंद्रियः || १९ || परसिद्धान्तक**वांतचंडमार्तंडमंडलः || कुतंत्रशुष्ककांतारदाहदावानलः परः || २० || मलत्रयापहारी च सर्वजीवदयापरः || भक्तिसौभाग्यकलितः पुण्यपापविवर्जितः || २१ || अत्यन्तानंदकलितः प्रसादपरिसेवने || सावधानशिवाचारसंरक्षाव्यग्रमानसः || २२ || सर्वलोकहितार्थी च शिवध्यानपरायणः || कलिपापप्रशमनो दानशीलः प्रतापवान् || २३ || आंध्रबोम्म इति ख्यातः शिवतत्वरहस्यवित् || श्रीअम्त्कल्याणनगरे स्थितो भक्तानथार्चयन् || २४ || तदानीं शीगिरौ रम्ये नानामुनिगणान्विते || शिवानंद इति ख्यातः शिवभक्तो जितेंद्रियः || २५ || शिवयोगाभिनिरतः शिवध्यानपरायणः || प्. ११४) कस्मिंचित्सरसस्तीरे तापसाकृतिविग्रहः || २६ || उवास परयोगी ध्याननिर्धूतकल्मषः || विस्रस्तकेशनिकरैरावृतांगोऽतिदुःसहः || २७ || नखमूलसमाक्रांतविपुलामंडलो महान् || स्वपाणिनखकांत्याख्यवल्लीभिः परिवारितः || २८ || अत्यंतनिश्चलांगः सन् महापर्वत**त् स्वयम् || आयताचारभक्तिः सन् कंदमूलफलाशनः || २९ || तच्छिष्य संन्नीधौ तस्य संतुष्टो नियमान्वितः || तत्र तिष्ठन्महाभागो गुरुशुश्रूषणेरतः || ३० || गंधर्वाः सह भार्याभिर्विहारार्थं समाययुः || तं दृष्ट्वा विकृताकारं निश्चलांगं समाधिन || ३१ || गंधर्वाः सह पत्नीभिः परिहासं तु चक्रिरे || एवं हासरतान् दृष्ट्वा सपत्नीकान् दिवौकसः || ३२ || शिष्यः शशाप सक्रोधो वेपमानाधरस्ततः || कल्याणनगरप्रांते मृगा यूयं भविष्यथ || ३३ || भयभ्रांताश्च गंधर्वा मुनिशिष्यमथोचिरे || रक्ष रक्षाद्य नः सर्वान् सापराधांस्तपोधन || ३४ || इति तैः प्रार्थितः शिष्यः शापान्तमवदत्ततः || प्. ११५) आंध्रदेशोद्भवः कश्चिज्जोम्मनामेशभक्तिमान् || ३५ || युष्मान्मृगाकृतिधरान् यदैव निहनिष्यति || तदैव शापमोक्षः स्यान्मुक्ति*पि भविष्यति || ३६ || कल्याणनगरप्रांते गंधर्वा मृगरूपिणः || इतस्ततः स्वचरन्तो बहुकालं तु तस्थिरे || ३७ || बोम्मस्यागमनं स्वेष्टं चिंतयंतः स्वचेतसि || कदाचिद्बोम्मभक्तोऽपि बिल्वानयनकांक्षया || ३८ || स्वयं ययावरण्यं तद्गंधर्वमृगसेवितम् || तत्र स्थिता मृगाः सर्वे परिवार्योपतस्थिरे || ३९ || तेषु प्राह मृगः कश्चिन्मनुष्यवचनेन हि || ब्रह्मेश्वर महाभाग गंधर्वाश्च वयं परे || ४० || शप्ताश्च मुनिना पूर्वं श्रिनगे मुनिसेविते || शापावसानं तेनैव दत्तं मत्प्रार्थितेन च || ४१ || यदा यूयं विनिहता बोम्मेशेन महात्मना || शापमोक्षो हि भवता. मुक्तिश्चापि भविष्यति || ४२ || अस्मान् जहि त्वमद्याशु कृपामुत्सृज्य केवलम् || लोकोऽस्माकं तु गंधर्वः पुराऽभून्मुनिसत्तम || ४३ || हतास्त्वया गमिष्यामो मुक्तिमत्यन्तदुर्लभाम् || मृगैः संप्रार्थितो जोम्मो विपिने विजने परे || ४४ || ज्ञानदृष्ट्या निरिक्ष्यैतत्सत्यमित्यगृहीत्ततः || जोम्मस्तु स्वहृहं गत्वा बिल्वपत्रं प्रगृह्य सः || ४५ || प्. ११६) ततः कतिपयैर्भक्तैर्मृगयाकर्मकोविदैः || शरकोदण्डपाणि सन्नाययौ तद्वनं पुनः || ४६ || जघानाशु मृगान्सर्वांस्तीक्ष्णबाणनिपातनैः || हतास्ते तु मृगाः सर्वे पुनर्गंधर्वतां गताः || ४७ || बोम्मपादौ नमस्कृत्य तदनुज्ञामवाप्य च || कांचनानि विमानानि समरुह्य महांति च || ४८ || जग्मुः कैलासनगरं चिदानंदघनं परम् || ततस्ते बोम्मसचिवं दृष्ट्वैतत् परमाद्भुतम् || ४९ || एतन्मृगाणां माहात्म्यं वेत्त्ययं परमार्थतः || अन्योन्यमेवं भाषन्तो बोम्मेशं तुष्टुवुः स्तवैः || ५० || दृष्ट्वा तदद्भुतं पौराः शशंसुर्बिज्जलाय वै || बिज्जलो विस्मयाक्रांतो बसवेशं तु पृष्टवान् || ५१ || कश्चिद्बोम्माभिधो भक्ता मृगान्हत्वा पुरांतिके || कैलासं प्रापयामास श्रुतमेतज्जनोक्तिभिः || ५२ || एतत्सत्यमसत्यं वा वद मे बसवेश्वर || इत्युक्तो बसवेशोऽपि प्रोवाच नृपसत्तमम् || ५३ || आचार्यचरणध्यानभिंडिवालेन येन हि || संसारसिंहो निहतः कामक्रोधादिदंतधृत् || ५४ || भक्तसंदर्शनाभिख्यमुद्गरेण बलीयसा || येन संसारहरिणो निहतः श्रममंतरा || ५५ || गुर्वाज्ञाख्यकृपाणेन पूर्वाश्रमतरक्षुराट् || प्. ११७) कामाख्यदंतैः सुदृढैर्युक्तो येन हतोऽभवत् || ५६ || सुज्ञानकुंतमुद्यम्य येनाज्ञानकिटिर्हतः || मायाप्रपंचमहिषं भक्तिसत्तोमरेण यः || ५७ || जघान मुनिशार्दूलो बोम्माख्यो भक्तसत्तमः || शिवमाहात्म्यार्धचंद्रबाणेनातितरस्विना || ५८ || येन बोम्मेन निहताः परवादिमृगोत्कराः || तस्य बोम्मस्य महतो मृगान् हत्वाऽटवीतले || ५९ || प्रापणं शिवलोकस्य किमाश्चर्यं नृपोत्तम || किमत्र बहुनोक्तेन तत्पादनिहताः पथि || ६० || पिपीलिकादयो यांति कैलासपदकुज्वलम् || इत्युक्तो बसवेशेन बिज्जलो विस्मयं गतः || ६१ || सर्वसंपत्करं पुण्यं सर्वपापप्रणाशनम् || बोम्मेश्वरस्य माहात्म्यं ये शृण्वंति समाहिताः || ६२ || शिवभक्तिसमाक्रांतास्ते यांति परमां गतिम् || इत्यवोचद्गुहो प्रीत्या कुंभजाय ततः परम् || ६३ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे सुरीयचमडार्याचरितं नामैकत्रिंशोऽध्यायः || प्. ११८) द्वात्रिंशोऽध्यायः || एकांतरामार्यकथा || अगस्त्यः || देवसेनाननांभोजसहस्रकिरणानघ || भक्तानामेव माहाअत्म्यं पुनर्ब्रूहि षदानन || १ || स्कंदः || एकांतरामनामाऽभूच्छिवभक्ताग्रणीर्महान् || शान्तो दान्तो रुद्रमूर्तिविदृष्टिपराङ्मुखः || २ || खंडिताशेषचार्वाकसिद्धान्त्ः शास्त्रकोविदः || शैवदिद्धान्ततत्वज्ञः समलोष्टाश्मकांचनः || ३ || द्वितीयवीरभद्रश्च कीर्तिमांश्च प्रतापवान् || लिंगत्रितयविज्ञानी लिंगषट्केंद्रियाक्रियः || ४ || लिंगाभिमानकलितः षट्स्थलज्ञानपंडितः || स्वपादाश्रितशिष्यौघपवित्रकरणक्षमः || ५ || नित्यं शिवार्चनां कृत्वा कैलासं प्रमथोज्वलम् || गत्वा प्रणम्य देवेशं वीरभद्रमुखान् गणान् || ६ || संस्तुत्य तद्गुणान् सर्वानानंदाब्धौ ममज्ज सः || प्. ११९) पुनर्भूलोकमागत्य च चारवसुधातले || ७ || कदाचिद्वसवेशस्य भक्तिसंदर्शनेच्छया || प्रच्छन्नवेषधारी सन् कल्याणनगरं गतः || ८ || बसवेशं समालोक्य चरन्नास् च तत्पुरे || जैनः कदाचिदागत्य सोपानच्छिवमंदिरम् || ९ || प्रविवेश स तं दृष्ट्वा प्राह क्रोधसमन्वितः || रे रे चार्वाक दुर्बुद्धे त्वयेदं पातकं कृतम् || १० || प्रायश्चित्तं न तस्यास्ति शिवप्रणतिमंतरा || रौरवादींश्च नरकान् प्रविश्यति न संशयः || ११ || इतत्तिष्ठतु मद्वाक्यं शृणु चार्वाक दुर्मते || कुठारेणातितीव्रेण त्वां छिनद्म्यहमादरात् || १२ || एकांतरामेणोक्तः सन् चार्वाकः प्रत्यभाषत || शिवालयानां सर्वेषां रक्षकस्त्वं किमुच्यताम् || १३ || जिनातिरिक्ताः किं देवास्तिष्ठंत्यस्मिन् महीतले || तवायमीश्वरः स्याच्चेच्छित्वा स्वीयं शिरोऽधुना || १४ || पुनर्घटय तद्दृष्ट्वा निश्चिनोमि शिवं ततः || एकांतरामस्तेनैवमुक्तः संस्तमभाषत || १५ || अहो चार्वाकदुर्बुद्धे शिवस्यैव महात्मता || तद्भकतैश्च कृतान्यद्य प्रत्यक्ष्याणि वदामि ते || १६ || इति तस्मै कथां दिव्यां वक्तुं समुपचक्रमे || प्. १२०) चार्वाकाद्य शृणुष्वेवं वचनं मम दुर्मते || १७ || श्रीचंबूरे महाकालः पूर्वं भक्तिमतां वरः || पश्यत्स्वेव हि सर्वेषु स्वीयं छित्वा शिरः परम् || १८ || निवेद्य देवदेवाय ततो लेभे पुनः शिरः || तत्पुरे तत्समाकर्ण्य भक्तो गोविंदभट्टकः || १९ || दत्तं चेच्छिवनिर्माल्यं न धार्यं तच्छिरः पुनः || किंतु मच्छिर एवेदं पूजनीयमुमापतेः || २० || इति निश्चित्य मनसा शिरश्च्छित्वा ह्यपूजयत् || पुनरन्यशिरो लेभे त्रिदिनात्कृपया विभोः || २१ || एतच्छ्रुत्वा वंकनामा शिवभक्तोऽतिसाहसः || दिनत्रयादयं लेभे नैतद्धि मम रोचते || २२ || इत्युक्त्वा खड्गमादाय चिच्छेद स्वशिरः परम् || छिन्ने शिरसि संजातं पूर्ववन्मस्तकांतरम् || २३ || शिरांस्येव तु छिन्नानि संख्यातीतानि तत्क्षणे || ततस्तद्भक्तिसंतुष्टश्चंद्रर्धकृतशेखरः || २४ || प्राह गंभीरया वाचा वंकाख्यं भक्तपुंगवम् || विनिर्जितोऽहं त्वद्भक्त्या सर्वलोकाधिकोऽप्यहम् || २५ || एवमुक्त्वा महेशानः पाणिनाऽऽगृह्य वंककम् || शिरांसि तानि संगृह्य सर्वाण्यपि महेश्वरः || २६ || स्वलिंगगर्भे धृतवान् पश्यत्स्वपि नजेष्वहो || प्. १२१) एवंविधा महादेवभक्ताः संति महीतले || २७ || सर्वे जैना जिताः शैवैरिति किं न श्रुतं त्व्या || तिर्ववातिपुरे पूर्वं तिरुनामकरः परः || २८ || वौद्धशास्त्रार्थतत्वज्ञ उवासात्यन्तदर्पितः || स एकशूलरोगापीडितोऽत्यन्तदुःसहात् || २९ || तस्य स्वसा स्मागत्य भ्रातरं प्राह सुंदरी || अस्मत्कुलोचितैर्मंत्रैः शूलरोगो न हन्यते || ३० || वांछा तवास्ति चेदद्य जीवितुं भ्रातृसत्तम || शैवीं पंचाक्षरीं दिव्यां शिवभक्ताद्गृहाण ताम् || ३१ || इति संबोधितः सोऽपि स्वस्रा जैनकुलागर्णीः || रोगशांतो भविष्यामि भक्तोऽहमिति चाब्रवीत् || ३२ || सत्कृत्य सोऽपि सद्भक्तान्नमस्कृत्य पुरांतकम् || पंचाक्षरीजपासक्तो लिलेप भसितं ततः || ३३ || शशाम शूलरोगोऽपि दुःखहेतुर्महत्तरः || ततः सोऽपि समुत्थाय ययौ भक्तांतिकं मुदा || ३४ || ततः श्रीपतिनामाख्यं प्रपेदे गुरुसत्तमम् || अनुगृहिष्यन्नार्चार्यः प्रणतं जैनपुंगवम् || ३५ || कृपाकटाक्षशस्त्रेण तत्कर्माणि विनाश्य सः || भूतिपट्टं ततः कृत्वा शिवकुंभाभुभिः परः || ३६ || संस्नाप्य लिंगसंस्कारान् चक्रे शस्त्रोक्तमार्गतः || प्. १२२) स्वहस्तसंगमेनैव तद्देहं पांचभौतिकम् || ३७ || विनाश्य योजनं चक्रे शिवलिंगांगयोस्ततः || तत्प्रसादात्प्राणवायून् विनाश्य स्वप्रभावतः || ३८ || शिवप्राणसमायुक्तं चकार कृपया परम् || सिद्धमंत्रप्रभावेन शिष्यमंगसमन्वितम् || ३९ || कृत्वा शुद्धात्मनि परे ज्योतिः शैवमनामयम् || संधाय मुक्तिहेतूंश्च शैवाचारानुपादिशत् || ४० || कृपाप्रसादमाहात्म्यात् सर्वपापविनाशकात् || भक्तिस्वरूपविज्ञानसंपन्नमकरोत्ततः || ४१ || एकविंशतिदीक्षाभिस्तिरुनामकरं परम् || शुद्धात्मानं ततः कृत्वा प्राहेत्थं गुरुसत्तमः || ४२ || दत्वा शिष्याय संतुष्टः पुनः प्रोवाच तत्वतः || शिवभक्तान्नमस्कुर्वन् कुर्वन् भक्त्या शिवोत्सवान् || ४३ || शिवभक्तार्चनं कुर्वन् शिष्य तिष्ठस्व नित्यशः || एवमाज्ञापितः सोऽपि तथैवासौ व्यतिष्ठत || ४४ || बौद्धास्तद्बांधवाः सर्वे तं विलोक्यासहिष्णवः || मत्तेभं प्रेषयामासुर्निहंतुं भक्तसत्तमम् || ४५ || सोऽप्यागत्यातिवगेन प्रणिपत्य विनिर्ययौ || तस्मै विषं च प्रददुर्भक्तं जीर्णमभूद्विषम् || ४६ || अगनु निपेतयामासुः शशामाग्निश्च भीतवत् || चिक्षिपुर्जलमध्ये तु नावधीत्तं तु तज्जलम् || ४७ || प्. १२३) तदाऽऽगताश्च ते सर्वे भयसंकुलमानसाः || शिवभक्तो महाभागो ह्यस्मानेव हनिष्यति || ४८ || एवं विचार्य मनसा जग्मुस्तं शरणं ततः || ततो भक्तवरः सर्वाननुगृह्य दयार्द्रधीः || ४९ || परिहृत्य च पूर्वाणि जैनानां लांछनानि च || विनाश्य प्रतिमाः सर्वा जैनपूजाः सहस्रशः || ५० || लिंगधारणसंपन्नांस्तत्र वृद्धांस्तथाऽकरोत् || नराधम शृणु ततस्ते मतानां च खंडनम् || ५१ || तिर्वालूरुपुरे कश्चिदिरुवत्तांडिरिति श्रुतः || शिवभक्तो हि जत्यन्धः शिवपूजारतः सदा || ५२ || परमेशाभिषेकार्थं शिवालयसमीपतः || दृढकुद्दालहस्तः सन् वेत्रपात्रधरस्तदा || ५३ || कर्तुं सरोवरं रम्यं स्वयमेव समुद्ययौ || मार्गस्य प्रत्यभिज्ञार्थं मृत्तिकानयने स्वयम् || ५४ || शंकून् संस्थापयामास निपुणान्नास भक्तराट् || ततस्तदाऽऽगताः सर्वे शंकूनूद्धृत्य चिक्षिपुः || ५५ || शिवस्तस्य तदा तूर्णं लोचने प्रददौ ततः || ततो जैन्जनान् सर्वान् निजघान बलोद्धतः || ५६ || प्. १२४) पिल्लनयनारुकथा वाराणस्यां वथैवान्यो देवलो ब्रह्मवंशजः || तस्यासीत्तनयः कश्चित्पिल्लो नम महायशाः || ५७ || तमेकदा तस्य पिता गृहीत्वा मणिकर्णिकाम् || स्नातुं गत्वा सुतं तत्र निवेश्य स्नानमाचरत् || ५८ || तदंतरे पार्वतीशावारुह्य वृषभेश्वरम् || नभौगतौ च तं बालं दृष्टवन्तौ यदृच्छया || ५९ || पार्वती सहसाऽऽ.गत्य दीक्षां कृत्वा तु शांभवीम् || तस्य स्तन्यं ददौ शीघ्रं हर्षफुल्ललोचना || ६० || हेमपात्रे पयोदुग्धं स्वीयं तस्मै न्यवेदयत् || पुनर्ययौ च गिरिजा ततः प्राणेश्वरांतिकम् || ६१ || स्नात्वा पिता समाग्त्य बालमादित्यसन्निभम् || दृष्ट्वा प्रोवाच वचनं विस्मयाकुलमानसः || ६२ || कया दत्तमिदं स्तन्यं हेमपात्रं मनोरमम् || इत्युक्त्वा ताडयामास सोऽर्भकं तं हरद्बिजः || ६३ || भीत्या प्रोवाच पितरं दुःखव्याकुलमानसः || नभोमार्गेण गच्छन्तौ पार्वतीपरमेश्वरौ || ६४ || मां दृष्ट्वा शिवमुत्सृज्य गिरिजा स्वयमाययौ || चंद्रं हित्वा चंद्रिकेव मणिं हित्वेव तत्प्रभा || ६५ || प्. १२५) स्वाधारं पावकं त्यक्त्वा दाहशक्तिरिविज्वला || कितीटभागविलसन्मणिरंजितदिक्तटा || ६६ || विचित्रपुष्पसंछन्नकुचकुड्मलशोभिता || अष्टमीचंद्रविलस्द्भालभागोपशोभिता || ६७ || इंदीवरदलस्पर्धिनयनद्वयराजिता || गंगावर्तैकसंस्पर्धिनाभिदेशविराजिता || ६८ || आगत्य गिरिजा स्तन्यं दत्वा देवी सपात्रकम् || हित्वा मां निर्ययौ सांबं गौरी गिरिवरात्मजा || ६९ || तत. स विस्मितो विप्रः प्रणिपत्य शिवावुभौ || बालमादाय सहसा ययौ स्वभवनान्तिकम् || ७० || पार्वतीस्तन्यपानेन प्राप्तविधोऽर्भकस्तदा || गौरीनिकेतनं गत्वा तुष्टाव विविधौः स्तवैः || ७१ || ततस्तुष्टाऽम्बिका तस्मै स्वर्णतालयद्वयं ददौ || तंबुरं नारदं चापि प्रापयन्निव सोऽर्भकः || ७२ || जगौ सप्तस्वरैः सम्यक् स्तोत्राणि शिवयोर्मुदे || ततस्तद्गानसंतुष्टः पार्वतीरमण प्रभुः || ७३ || मुक्ताफलसमाकीर्णकायमानोपशोभिताम् || सुवर्णदण्डविलसच्छिबिकां च मनोहराम् || ७४ || तथाऽक्षयनिधिं श्वेतछत्रमत्यन्तसुंदरम् || प्. १२६) अष्टमूर्तिर्ददौतस्मै बालायामिततेजसे || ७५ || शिबिकां तां समारुह्य कहलाध्वनिपूर्वकम् || आगतः परसिद्धांतधूमकेतुर्महोज्वलः || ७६ || संस्तुतो मागधैरेवं चोडभूपान्तिकं गतः || शिष्यं कृत्वा चोडभूपं शिवदीक्षासमन्वितम् || ७७ || पिल्लभक्तस्तु जैनानां सहस्रद्वयमंजसा || शिवभक्तियुतं कृत्वा चान्यजैनानथावधीत् || ७८ || ततो गच्छन् महात्माऽयं पुरं तिरुमरक्कडम् || ब्रह्मेश्वरालयं श्रुत्वा कवाटैः पिहितः त्विति || ७९ || समागत्यातिवेगेन कवाटान् विबिभेद सः || तिरुवालं ततो गत्वा पुरं तु त्रिदिवोपमम् || ८० || सर्पदष्टमृतं शूद्रं जीवयामास तत्क्षणात् || मिनाक्षीं द्रष्टुकामः सन् मधुरापुरमाययौ || ८१ || ततस्तु सौगताः सर्वे राजानमिदमूचिरे || अम्नायबाह्यसिद्धान्तधूमकेतु रिति श्रुतः || ८२ || बालोऽयमागतः कश्चिन्निष्क्रामय पुरादमुम् || इत्युक्तः स तु भूपालः सौगतान् पुनरब्रवीत् || ८३ || अयं तु चोडभूपस्य च्याचार्य इति संश्रुतः || तन्निराकरणं कर्तुं वृथैवाद्य न युज्यते || ८४ || यूयं संभूय सर्वेऽपि विवदध्वं मदन्तिके || अहं निष्कासयाम्येनं विवादे च पराजितम् || ८५ || प्. १२७) अष्टादशसहस्राणि चार्वाकाः संगतास्ततः || विवादनिर्जितास्तेन निस्तेजस्का बभूविरे || ८६ || ततोऽर्धरात्रौ ते जैना ज्ञात्वा सुप्तं गृहोदरे || अग्निं निवेशयामासुर्द्ग्धुं तं ब्रह्मचारिणम् || ८७ || कृशानुश्च ततो भीतः संस्थितः पिल्लसन्निधौ || निजगाद कृशानुं स दग्धुं मामागतोऽधुना || ८८ || त्वज्जिव्हा वीरभद्रेण पुरा भिन्ना बलीयसा || इदानीं नासिकां स्वस्य बलादेव भिनद्म्यहम् || ८९ || नोचेत्सर्वान् जैनपरान् संत्यज्य पृथिवीपतिम् || उष्णज्वरेण संतप्तं कुरुष्वाग्ने मदाज्ञया || ९० || भवंतं रक्षयिष्यामि सत्यमेतन्मयोदितम् || नृपांगं प्रविबेशासौ ज्वररूपेण पावकः || ९१ || तन्मडलेशमहिषी मांगायक्करसी सती | पिल्लान्तिकमनुप्राप्य प्रणम्येदमुवाच सा || ९२ || राजोष्णज्वरसंतप्तो रक्षस्वाद्य दयनिधे || तयैवं प्रार्थितः पिल्लस्त्वाययौ नृपसन्निधिम् || ९३ || मयाऽपह्नियते घोरः सव्यभागस्थितज्वरः || वामभागस्थितः सर्वैर्वार्यतां सौगतैर्ज्वरः || ९४ || इक्त्युक्त्वा तत्सव्यभागे भस्म चिक्षेप मंत्रितम् || ज्वरस्तु नाशमगमत्सव्यपार्श्वस्थितः परः || ९५ || जवरोऽभिम्ऽम्त्रितो जैनैर्ववृधे वामपार्श्वतः || प्. १२८) ततो राजा बहुविधैः स्तवैस्तुष्टाव योगिनम् || ९६ || रुद्रमूर्ते नमस्तेऽस्तु नमस्ते करुणात्मने || सद्भिरीड्य नमस्तेऽस्तु पिल्ल विद्वन्नमोऽस्तु ते || ९७ || ज्वरं मद्वामभागस्थं सम्यङ् मर्दय मत्पितः || एवं संप्राथितो भस्म वामभागे लिलेप सः || ९८ || भस्मधारणमाहात्म्याद्वामांगस्थं विनिर्गतम् || ततः सुंदरपांड्याख्यं राजानं सहसाऽगमत् || ९९ || तच्छरीरस्थिता रोगाः सर्वे नाशमुपागमन् || नमश्चक्रतुरत्यन्तप्रीत्या तौ दम्पती तदा || १०० || अभीष्टवस्तुभिः सर्वैः पूजयामासतुर्मुनिम् || ततः पिल्लस्तु चार्वाकान् प्राह गंभीरया गिरा || १०१ || प्रामाण्यं वेदशास्त्राणां भवद्भिर्नोररीकृतम् || प्रत्यक्षमात्रप्रामाण्यवादिनो हि महीतले || १०२ || अतस्त्वदिष्टं प्रत्यक्षं विमृशध्वं तथागताः || इत्युक्तास्ते तु पिल्लेन संविचार्य परस्परम् || १०३ || पिल्लं निजगदुः सर्वे शिवभक्तं जितेंद्रियम् || भवतामिष्टमंत्रं च तथा मन्मंत्रमुत्तमम् || १०४ || हुताशने निक्षिपामो लेखयित्वा च पत्रयोः || यत्पत्रिका न दग्धा स्याज्जयस्तेषां भवेद्ध्रुवम् || १०५ || प्. १२९) श्रुत्वैतद्वचनं पिल्लो मनसीत्थं व्यचिन्तयत् || तुलापात्रे सुवर्णं च श्वास्थि निक्षिप्यते यदि || १०६ || का हानिः स्यात्सुवर्णस्य सर्वोत्कृष्टस्य भूतले || तथा चंदनखंडस्य काष्ठैर्बर्बुरसंज्ञकैः || १०७ || अवस्थित्या चैकदेशे हीनं स्यान्नहि चंदनम् || जैनलेखैकसंस्पर्शाच्छिवमंत्रस्य का क्षतिः || १०८ || एवं विचार्य पिल्लोऽयं मौनमंगीचकार सः || उभाभ्यां लिखितां लेखां राजा चिक्षेप पावके || १०९ || जैनलेखा विदग्धाऽभूदग्निप्रक्षेपमात्रतः || सरःस्था पद्मिनीवेयं लेखा शैवी रराज सा || ११० || निर्जिताश्चापि ते जैना मानांतरमकामयन् || प्रवाहमध्ये कावेर्यां निक्षिपामस्तु पत्रिके || १११ || या पत्रिका जलस्यास्य प्रतिकूलं हि गच्छति || जयस्तस्येति निश्चित्य प्रमाणं तत्र चक्रिरे || ११२ || तेनापि च प्रमाणेन निर्जितः सौगतास्ततः || पुनः प्रमाणकरणव्यग्रानुद्वीक्ष्य सौगतान् || ११३ || पिल्लः प्रोवाच राजानं तत्वनिर्णयतत्परम् || पुनः प्रमाणकरणे चार्वाकाश्च यतंति हि || ११४ || ये निर्जिताश्च तत्रापि तान् शूलेश्वद्य निक्षिप || एवमुक्तास्तु ये बौद्धास्ते च शीघ्रं प्रदुद्रुवुः || ११५ || प्. १३०) पिल्लोऽपि तस्य भक्तस्य चक्रे लिंगस्य धारणम् || अष्टादशसहस्राणि सौगताश्च ततः परम् || ११६ || कुलचर्याख्यभक्तेन लोहस्तंभांश्च निर्मितान् || आनीय ज्वलितान् कृत्वा तानारोपयदास्तिकः || ११७ || पुनरेकांतरामोऽपि जैनं प्राहातिदुर्मदात् || शृणुष्व जैन दुर्बुद्धे वाक्यं य ते ब्रवीम्यहम् || ११८ || निडुमारमहीपालः कश्चिदासीदुदारधीः || शैवशास्त्रार्थतत्वज्ञः शिवभक्तो महामतिः || ११९ || स्वराज्यसंस्थिताञ्जैनान् समाहूय समंततः || सभामध्योपविष्टः सन्नागतांस्तानुवाच सः || १२० || तिरुनाम पुरं रम्यं पिल्लभक्तः समाययौ || तत्रस्थान् सौगतान् सर्वान् निनाशयदिति श्रुतम् || १२१ || भवंतोऽपि च मद्राज्ये शैवदीक्षापराङ्मुखाः || लिंगधारणहीनाश्च भूतिरुद्राक्षवर्जिताः || १२२ || अतः सर्वान् हनिष्यामि युष्मान् सुगतवर्त्मगान् || इत्युक्त्वा क्रोधताम्राक्षो नाशयामास सत्वरं || अवशिष्टास्तु ते बौद्धाः शिवभक्तास्तु जज्ञिरे || १२३ || प्. १३१) || नमिनंदिकथा || नमिनंदी पुरा भक्तस्तिर्वदूरपुरे शुभे || कृत्वा घृतार्जनं भक्त्या चातियत्नेन सुव्रतः || १२४ || ददौ शिवाय महते दीपमालासहस्रकम् || तद्ग्रामवासिनो बौद्धाः संभूयेदमचिंतयन् || १२५ || निष्कास्यः सर्वथा सोऽयं ग्रामादस्मान्महत्तरात् || इति संचिन्त्य बहुधा समवापुश्च निश्चयम् || १२६ || सर्पिर्ददति ये तस्मै स्वल्पं वा नमिनंदिने || तान्वयं दण्डयिष्यामो लगुडैरायसर्द्दृढैः || १२७ || घृताभावे दीपमाला नष्टा स्याच्छिवमंदिरे || एवं संकेतयामासुः सर्वे बौद्धाश्च संगताः || १२८ || घृतक्रयं कर्तुकामाश्चचारायं गृहान् बहून् || अलब्ध्वा स घृतं भक्तो दीपमालाव्रतोत्सुकः || १२९ || निर्वापणे हि दीपानां प्राणांस्त्यक्ष्याम्यहं तनोः || इति संकल्प्य मनसा प्राणास्त्यक्तुं समुद्यतः || १३० || ततः प्रत्यक्षमभवदिन्दुखंडशिखामणिः || प्राह गंभीरया वाचा स्वभक्तं नमिनंदिनम् || १३१ || एतत्सरोवरजलमानीयात्यन्तशीतलम् || पूर्वं वरदसोमाख्यो यथैवार्घ्योदकैः शुभैः || १३२ || चकार परमेशाय दीपमालां महोज्वलाम् || प्.१३२) तथैव दीपमालां त्वं कुरुष्वाद्याविशंकितः || १३३ || वृत्तम् || एवं सरोवरजलं नमिनंदिनामा दीपान् यथाविधि चकार स भक्तवर्यः || नष्टाश्च जैनपशवः सहसा स्वत्सैस्तद्वीक्ष्य विस्मयमवापुरिमे च बौद्धाः || १३४ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे द्वात्रिंशोऽध्यायः || प्. १३३) अथ त्रयस्त्रिंशोऽध्यायः अगस्त्यः || तिर्वदूरपुरे बौद्धा दृष्ट्वेदं नमिनंदिनः || माहात्म्यं विस्मयाविष्टाः किमकुर्वंस्ततः परम् || १ || स्कंदः || ननिनंदी दीपमालां शोभमानां सरोजलैः || दृष्ट्वा स्वगोविनाशं च भीत्या तं शरणं ययुः || २ || समागत्य च ते सर्वे प्रणेमुर्नमिनंदिनम् || नमिनंदी मृपाष्टो गवां प्राणान् पुनर्ददौ || ३ || ततस्तु सौगतान् सर्वान् लिंगधारणसंयुतान् || भस्मरुद्राक्षनिरतान् षडक्षरजपातुरान् || ४ || चकार स्वप्रभावेन सर्वलोकैकसंस्तुतः || पुनरेकांतरामोऽयं बभाषे सौगतं ततः || ५ || अथान्यमपि वक्ष्यामि जैनकोलाहलं परम् || || सांख्यतोंडकथा || चोडदेशे पुरा कश्चिच्छांतमंडाभिधे पुरे || ६ || सांख्यतोंड इति ख्यातो बौद्धपुत्रोऽतिधार्मिअः || आबाल्यं परमेशानपदाम्भोरुहभक्तिमान् || ७ || शिवपूजां ततः कर्तुं चिंतयामास चेतसा || करणे शिवपूजाया नानुमन्यंति सौगताः || ८ || प्. १३४) शिवपूजापरित्यागे मुक्तिर्मम न विद्यते || उपायंचिंतयामयत्र मदीयानुमतावहम् || ९ || त्रीण्यश्मानि समादाय पूजयामि महेश्वरम् || तुष्यंति तेन मे वृद्धाः शिवपूजा कृता भवेत् || १० || एवं निश्चित्य मनसा शिवपूजां तथाऽकरोत् || शिवालयपुरो मध्ये नदी काचिन्महाजला || ११ || मार्गं तस्मै च न ददावालयागमनं प्रति || सांख्यतोंडो महाभागो दिनत्रयमुपोषितः || १२ || चतुर्थदिवसे प्राप्ते नदी गगजलाऽभवत् || तामुत्तीर्य समागत्य मनोज्ञं शंकरालयम् || १३ || पाषाणनवकं त्यक्त्वा गृहित्वैकां शिलां घनाम् || चिक्षेप शिवलिंगेऽस्मिन् पुष्पबाणमिवोज्वलम् || १४ || शिवोऽपि तां शिलां क्षिप्तां स्वहस्ताभ्यामथाग्रहीत् || मंदस्मितमुखांभोजस्तमुवाच महेश्वरः || १५ || वरं वरय भद्रं ते प्रीतोऽस्मि तव सांप्रतम् || एवमुक्तः सांख्यतोंडस्तुष्टाव गिरिजापतिम् || १६ || ब्रह्मविष्ण्वाद्यसंप्रेक्ष्यतत्वरूपाय ते नमः || अशेषवेदवदांतवागगम्याय ते नमः || १७ || उपमन्युदधीच्यादिमुनिवंद्याय ते नमः || प्. १३५) शेषजवागवेद्याय विश्वरूपाय ते नमः || १८ || त्वत्पादकमलध्यानान्नेतरत्र स्पृहा मम || किरंतं मृदुपुष्पाणि दग्ध्वा मन्मथकुज्वलम् || १९ || शिलाक्षेपसमुद्युक्तं ममाद्यानुगृहीतवान् || समौ मानापमानौ ते स्तुतिर्निन्दा तथा समे || २० || भक्तेषु तव वात्सल्यं वक्तुं जिव्हायते विधिः || नियोज्य त्वां च सेवायां नंबी प्राप भवत्पदम् || २१ || संस्तुत्य मल्हणस्त्वां हि मुक्तिं प्रापान्यदुर्लभाम् || अतो मामनुगृह्याशु ग्रामं मत्प्रेरितं महत् || २२ || तवालयेषु सर्वेषु शिरोभागेऽवधारय || एवमुक्त्वा सांख्यतोंडस्त्यक्त्वा सौगतपद्धतिम् || २३ || हत्वा च सौगतानन्यान् स्वयं शिवपदं ययौ || || कोवूरिब्रह्मकथा || तथा कोवूरिब्रह्माख्यः शिवभक्तो जितेंद्रियः || २४ || सौगतान् सर्वशास्त्रेषु जितवान् परमार्थवित् || निर्जितास्तेन चार्वाका ब्रह्माख्यं तु तदोचिरे || २५ || वटवृक्षं दहाशुत्वं स्वेक्षणेन महामते || नो चेद्वयं दहिष्यामः पुनर्जीवय सत्वरम् || २६ || प्. १३६) इत्युक्तस्तैः पुनः प्राह युष्माभिर्दह्यतां वटः || अहं पुनर्जीवयिष्ये मंत्रितेनैव भस्मना || २७ || इत्युक्तास्ते च ददहुर्वटवृक्षं महोज्वलम् || वटभस्मोपरि परं क्षिप्त्वा भस्म सुमंत्रितम् || २८ || पुनरुत्पादयामास वटवृक्षं महत्तरम् || ततो जैनालयान् सर्वान् सक्रोधः स्ंददाह सः || २९ || रे रे चार्वाक दुर्बुद्धे त्रपा नास्ति तवाधुना || पुनरन्यां कथां वच्मि त्वदीयमतखंडनाम् || ३० || || देवरदासदेवकथा || पुरा पोट्लचरग्रामे चार्वाकोऽभून्महामतिः || पंचविंशतिसाहस्रचार्वाकपरिवारितः || ३१ || तद्ग्रामे बल्लहो नाम राजा जैनकुलोद्भवः || तस्य राज्ञो गुरुरभूत् स्वयं जैनशिखामणिः || ३२ || सिंगबलाहभूपस्य पुरंदरसमश्रियः || तस्यासीत्सुग्गला देवी भार्या त्रैलोक्यसुंदरी || ३३ || गुरुं देवरदासाख्यं शिवभक्तं दृढव्रतम् || भृत्यान् संप्रेष्य यत्नेन साङयामास सुंदरी || ३४ || अगणयय च चार्वाकचरिताः कपटक्रियाः || प्. १३७) अनेकशिष्यसंयुक्तश्चाययौ गुरुसत्तमः || ३५ || श्रुत्वाऽऽयातं गुरुवरं सुग्गलाम्बाऽतिधर्मिका || अर्घ्यपाद्यादिविधिभिः पूजयामास सत्व्रम् || ३६ || ततो बौद्धवराः सर्वे राज्ञे सर्वं न्यवेदयन् || राजा स्वपत्नीमासाद्य रहसीदमभाषत || ३७ || दंपत्योर्न हि भेदोऽस्ति पत्नी भर्टृवशंगता || अहं जैनेषु सस्नेहो जैनाचारपरायणः || ३८ || गुरुं देवरदासाख्यं समानीतवती परम् || विरुद्धमिदमत्यन्तं सर्वलोकैकनिंदितम् || ३९ || शृण्वंति चेज्जैनवरास्तं हनिष्यंति कोपनाः || गुरुं समागतं त्वां हि शीघ्रं त्वं प्रेषयाधुना || ४० || सा प्राह नृपतिं क्रुद्धा पंकजायतलोचना || हंतुमेव हि चार्वाका नानीतोऽयं गुरूत्तमः || ४१ || इदं मदीयवचनं शृणु राजन् महामते || चार्वाकभक्तस्त्वं राजन् शिवभक्त्यां स्पृहा मम || ४२ || जैनास्तिष्ठंत्यत्र पुरे सोऽपि मद्गुरुरागतः || प्रत्यक्षादिप्रमाणैश्च विवदंतु परस्परम् || ४३ || त्वत्समक्षं जयो यस्य स एव गुरुरावयोः || तथैवेति प्रतिश्रुत्य जैनान् स्र्वान् समाह्वयत् || ४४ || तथा देवरदासोऽयमाययौ नृपसन्निधिम् || प्. १३८) बौद्धा महेंद्रजालादिक्षुद्रविद्यातिकोविदाः || ४५ || चक्रुः प्रसंगं ते सर्वे स्वसिद्धांतानुसारतः || तथा देवरदासोऽपि बौद्धांस्तान् प्रत्यभाषत || ४६ || पुरा ब्रह्मर्षयः सर्वे वदन्ति ब्रह्मवादिनः || विश्वस्यास्य समस्तस्य किं भवेत्कारणं परम् || ४७ || वयं कुतोऽद्य संजाता जीवामः केन वा वयम् || क्वचास्माकं संप्रतिष्ठा वर्धिताः केन आ वयम् || ४८ || अविलंघ्या च विश्वस्य व्यवस्था केन वा कृता || कालस्यापि न हेतुत्वं स्वभावो नैव युज्यते || ४९ || नियतेश्च न हेतुत्वं यदृच्छाऽपि न युज्यते || भूतानि भूतसंयोगे जगतो न हि कारणम् || ५० || अचेतनत्वादेतेषां चेतनत्वेऽपि चात्मनः || सुखदुःखसमाक्रांत्या ह्यसामर्थ्यत्वतस्तथा || ५१ || ततस्ते मुनयः सर्वे संशयाविष्टमानसाः || निश्चेतुमसमर्थाश्च ब्रह्म विश्वस्य कारणम् || ५२ || दध्युर्नियमसंपन्ना ब्रह्मविद्यां महत्तराम् || तेषां प्रादुरभूद्गौरी हिमवत्पुत्रिकाऽमला || ५३ || अशेषागमसंबोध्या ब्रह्मविद्याधिदेवता || नमश्चक्रुस्ततस्तस्यै मुनयो ब्रह्मवादिनः || ५४ || प्. १३९) तत्प्रसादान्महेशानं सांबं चंद्रार्धशेखरम् || ब्रह्मेति निश्चयामासुर्जगज्जन्मादिकारणम् || ५५ || एवं वदंति शतशः श्रुतिवाक्यं महत्तरम् || ततो देवरदासं तं प्रत्यूचुर्बौद्धपुंगवाः || ५६ || प्रामाण्यं नानुमानस्य सर्वत्रोपाधिसंशयात् || प्रामाण्यं नोपमस्यापि पौरुषेयत्वसंभवात् || ५७ || ईश्वरस्याप्यभावेन चेश्वररोक्तत्वकल्पनम् || न युज्यते हि वेदानां तस्मात्त्वद्भाषितं वृथा || ५८ || श्रुतयश्च प्रमाणं चेद्विरुधार्थं वदंति किम् || वेदितव्ये ब्रह्मणी द्वे इति भेदं वदन्त्यहो || ५९ || तत्वमस्यादि वाक्यानि त्वभेदं प्रवदंति हि || प्रामाण्यं तत्तु किं वाच्यमुभयोर्वाक्ययोर्वद || ६० || न कर्मणा न प्रजया धनेनेति वचः परम् || विधत्ते कर्मणस्त्यागं वेदप्रामाण्यवादिनाम् || ६१ || कानिचित्संति वाक्यानि कर्मत्यागेत् किल्बिषम् || प्रवदन्ति विरुद्धत्वं न प्रामाण्यं श्रुतेर्गिराम् || ६२ || ततो देवरदासोऽयमित्युक्तस्तानथावदत् || अनुकूलेन तर्केण नष्टे चोपाधिसंशये || ६३ || प्. १४०) व्याप्तिग्रहस्ततस्तस्माज्जायतेऽनुमितिर्ध्रुवम् || साध्यते हि न कर्तृत्वं पक्षीकृत्यांकुरादिकम् || ६४ || कार्यत्वहेतुना देवः परिशेषस्य सिध्यति || त्वदुक्तत्वाच्च वेदानां प्रामाण्यं न विहन्यते || ६५ || उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् || अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये || ६६ || तात्पर्यलिंगषट्केन युक्तं यत्तत्परं वचः || तदेव प्रबलं ज्ञेयं वाक्यवाक्यार्थवेदिभिः || ६७ || तदभावाद्द्वैतवाक्यं व्यवहारानुवादकम् || अतस्तद्दुबलं ज्ञेयं श्रौतमार्गानुयायिभिः || ६८ || तत्वमस्यादिवाक्यानामयुक्तमनुवादता || मानांतराबोधनेन ह्यद्वैतस्य च सौगताः || ६९ || अद्वैतवाक्यं प्रबलमप्राप्तार्थविधायकम् || यस्तु वैराग्यहीनोऽपि कर्म त्यजति मानवः || ७० || तस्यैव दोषः कथितो वाक्यैः कर्मप्रशंसकैः || प्. १४१) वैराग्यात्कर्मसंत्यागे विद्वद्भिश्च कृते सति || ७१ || दोषो नास्तीति विदुषां कर्मत्यागे वचो जगौ || निर्विशंकं हि वेदानां प्रामाण्यमुपयाति हि || ७२ || अतो वेदविहीनानां भवतां दुर्गतिर्भवेत् || सर्वाननशिरोग्रीवः सर्वभूतगुहाशः || ७३ || सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः || एक एव हि रुद्रोऽयमद्वितीयो हि तिष्ठति || ७४ || तिलेषु च यथा तैलं दधिनीव परं घृतम् || स्रोतःसु चोदकानीव पावको ह्यरणिष्विव || ७५ || श्रुतयश्चैवमाद्यास्ताः शिवं सर्वेश्वरं प्रभुम् || विश्वस्यान्तर्यामितया प्रवदन्ति सहस्रशः || ७६ || एवमुक्तास्ततो बौद्धाः पुनर्वाक्यं बभाषिते || शिवस्य सर्वव्यापित्वे संत्यज्यैतच्चराचरम् || ७७ || किमर्थं धृतवांल्लिंगं खंडरूपं शिलामयम् || पुरूषत्यागदेशः कः को वा मूत्रविसर्जने || ७८ || ततो देवरदासोऽयं प्रत्युवाच स सौगतान् || शिवस्य सर्वव्यापित्वे संस्थिते गुरुरूपतः || ७९ || शिव एव समागत्य स्वस्वरूपं महत्तरम् || शिष्यानुग्रहदश्चक्रे शिष्यस्योत्तारणाय वै || ८० || निकृत्य शिलारूपं लिंगं चिन्मयमुत्तमम् || धारयामो वयं लिंग गुरुदत्तमतः सदा || ८१ || प्.१४२) शिवः सर्वत्र नासीति ये वदन्ति नराधमाः || तेषामाननभूरेव स्थानं मूत्रपुरीषयोः || ८२ || एवमुक्तास्ततो बौद्धाः शिवभक्तेन संसदि || एतच्छास्त्रप्रसंगेभ्यो निवृत्ताः संबभूविरे || ८३ || विचार्य सर्वे संभूय सर्पमानीय भीषणम् || घटोदरे विनिक्षिप्य प्रोचुस्तं भक्तपुंगवम् || ८४ || तिष्ठतु सर्ववाक्यानि प्रत्यक्षं हि महत्तरम् || अस्ति चेत्परमेशानः सर्वत्र व्यापकः प्रभुः || ८५ || घटस्थितं स्वहस्तेन बहिरानय शंकरम् || एवमुक्तस्तु चार्वाकैर्हसन् देवरदासकः || ८६ || पुरातनान्नूतनांश्च भक्तान्नत्वाऽतिभक्तितः || समुत्ततार हस्तेन घटस्थं तं महोरगम् || ८७ || तद्धस्तस्पर्शनेनासौ फणींद्रो भीषणाकृतिः || स्फटिकं लिंगमभवत्सर्वलक्षणलक्षितम् || ८८ || लेभिरे विस्मयं सर्वे नृपाद्याश्च सभासदः || ततो बल्लहभूपोऽयं सपत्नीकः सभृत्यकाः || ८९ || सचार्वाकगणो हीमान्(?) प्रणनामातिभक्तितः || ततो बल्लहभूपालं लिंगधारणसंयुतम् || ९० || कृत्वा जिनालयान् सर्वांश्चिक्षेपायां महत्तरः || प्रतिष्ठाप्य ततो लिंगमुत्तरेश्वरसंज्ञकम् || ९१ || प्. १४३) शिवदीक्षां ततश्चक्रे जैनानां तत्पुरौकसाम् || एतद्देवरदासस्य माहात्म्यमतिपावनम् || सद्भ्कता ये तु शृण्वंति ते यान्ति परमं पदम् || ९२ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे त्रयस्त्रिंशोऽध्यायः || प्. १४४) अथ चतुस्त्रिंशतितमोऽध्यायः || नाचिदेवकथा || अगस्त्यः || देव देवरदासस्य माहात्म्यं त्वन्मुखाच्छ्रुतम् || भक्तस्यान्यस्य माहात्म्यं वदस्व करुणानिधे || १ || कुमारः || पुरे मारुडिगाख्येऽभूद्धीरो नाचाभिधो महान् || पौरैः सर्वैरविज्ञातभक्तिमान् परमेशितुः || २ || जिनालयानां सर्वेषामुन्नतोऽयं शिवालयः || तमिमं पातयिष्याम इति बौद्धाः समागमन् || ३ || ततस्तं पातयित्वाऽशु निजघ्नुश्च ददर्चकम् || श्रुत्वैतन्नाचिदेवोऽयं कोपोद्भ्रांतविलोचनः || ४ || न निहत्याद्य चार्वाकान् महापातककारिणः || शंकरस्यापि नैवेद्यं न ददामीति निश्चयात् || ५ || तस्माद्विनिर्ययौ तूर्णं भक्तानयनबुद्धितः || भक्तैर्द्वादशसाहस्रसंख्याकैः परिवारितः || ६ || आनयामास लिंगानां सहस्रद्वयमुत्तमम् || ततः पुरवरं रुध्वा घोषयामास सत्वरम् || ७ || हित्वा बौद्धजनाः सर्वे निर्यांत्वद्यैव सत्वरम् || ततो बौद्धजनैः साकं युद्धं चक्रे महामतिः || ८ || ततस्ताञ्च्छतसंख्याकान् जैनान् हत्वा च कुंतकैः || प्. १४५) जिनालल्यस्थप्रतिमाद्विसहस्रमनाशयत् || ९ || तदालयेषु लिंगानि स्थापयामास भक्तितः || नाचिदेवस्य माहात्म्यं न किं ज्ञातं त्वयाऽधुना || १० || आसीत्पुरा सोमनामा नाहुलीनगरे वरे || त्रिकालं शिवलिंगस्य पूजानियममास्थितः || ११ || कदाचिन्नेत्ररोगार्तः शिवसंदर्शनाक्षमः || उपवासं ततश्चक्रे व्रतभंगभयेन हि || १२ || एकं विहाय तं भक्तं नासन् भक्ताश्च तत्पुरे || तत्पुरस्थाश्च चार्वाकास्तमूचुः कपटोज्वलाः || १३ || शिवालयं वयं सर्वे नेष्यामस्त्वां महोज्वलम् || इति तं प्रापयामासुः सुगतस्थालयं परम् || १४ || सुगरप्रतिमां सोऽयं सोमेशः शिवभक्तराट् || नमश्चकार सद्भक्त्या लिंगं निश्चित्य तत्वतः || १५ || बभाषिरे ततो बौद्धाः सोमं भक्तिमतां वरम् || नमस्कृतस्त्वया सोम मद्देवः सुगतोऽधुना || १६ || सक्रोधः सोमभक्तोऽसौ चार्वाकान् प्रत्यभाषत || मया नमस्कृतो देवः शिव एव नचापरः || १७ || संशयो भवतां स्याच्चेद्दर्शयिष्ये वृषध्वजम् || इत्युक्त्वा पिहितं स्वीयमुन्मील्य नयनद्वयम् || १८ || शिवं संभावयंस्तत्र नमश्चक्रेऽतिभक्तिमान् || प्रतिमां तां विनिर्भिद्य शंकरो लोकशंकरः || १९ || प्. १४६) समस्तयोगिभिर्ध्येयं लिंगरूपमदर्शयत् || सोमलिंगमिति ख्यातिमाप्तवान् वृषभध्वजः || २० || || वैजांबाकथा || इतिहासांतरं वक्ष्ये शृणु चार्वाक दुर्मते || वैजाम्बा नाम् युवती शिवभक्ता गुणोज्वला || २१ || जैनभक्तिरताः सर्वे पतिमुख्याश्च बांधवाः || इति संकल्पयामास भोजयिष्यामि सौगतान् || २२ || पाके कृते च मध्याह्ने तद्भर्ता बौद्धवत्सलः || बौद्धनाहूय तद्गेहात्सकलांस्त्वरया ययौ || २३ || पक्वान्नादिपदार्थौघान् दृष्ट्वा सैवं व्यचिन्तयत् || भस्मोद्धूलितसर्वांगः शिवभक्तो विशुद्धधीः || २४ || नायातो मद्गृहमिदं सर्वं व्यर्थं भविष्यति || जैनाननेषु पतितं भक्तयोग्यं मनोहरम् || २५ || हविर्यथा देवयोग्यं सारमेयमुखेष्विव || एवं संचिन्त्यमानायां वैजांबायां महानसे || २६ || शिवः समाययौ तूर्णं भक्तवेषधरः परः || आगतं शिवभक्तं तं दृष्ट्वा संतुष्टमानसा || २७ || दत्वा भक्ताय सा पाद्यं ददावन्नादिकं परम् || सोऽपि लिंगार्चनं कृत्वा बुभुजे भक्तसत्तमः || २८ || भर्त्राऽऽहूताश्च चार्वाकास्तद्गृहे भोक्तुमागताः || प्. १४७) शिवभक्तंतु भुंजानं दृष्ट्वा ते स्वगृहान् ययुः || २९ || समागतः सोऽपि भर्ता शिवोऽदृश्यत्वमाप्तवान् || सोऽपि पत्नीं समाहूय प्राह कोपसमन्वितः || ३० || येन भुक्तं पूर्वमत्र क्व गतः स तपोधनः || आहूतेषु च सर्वेषु स्थितेषु मम बंधुषु || ३१ || किमर्थं मुनये दत्तं साहसिक्या त्वयाऽधुना | पापिष्ठया त्वया सर्वं मद्गेहस्थं विनाशितम् || ३२ || भर्तुराज्ञा न लंघ्या हि सतीनां पुण्यचेतसाम् || पापकर्मरता त्वं हि मदाज्ञाभंगकारिणी || ३३ || तस्मिन् यदि तव प्रीतिर्जारे सौंदर्यशालिनि || शीघ्रं त्यक्त्वाऽद्य मद्गेहं गच्छ यथेप्सितम् || ३४ || इत्युक्त्वा ताडयामास ह्ययोघनकरः पतिः || सा ताडिता च संतस्थौ ध्यायंती परमेश्वरम् || ३५ || अयोघनकृतैरेतत्ताडनैर्जैनसत्तमाः || जैनालयेषु तिष्ठंतस्ताडिताः पीडिताः परम् || ३६ || क्रंदन्तः शोचयन्तस्ते दिशो दश च दुद्रुवुः || यथा पूर्वं च सा तस्थौ सुखेनैव गृहांतरे || ३७ || एवं संताडिता बौद्धा निपेतुर्जलधौ परे || तटाकेषु परे पेतुः केचित्पेतुर्महीतले || ३८ || केचिदाक्रोशयामासुरब्रह्मण्यं जगुः परे || प्. १४८) केचित्स्वभवने लीना मूर्च्छां केचिदुपागताः || ३९ || एवं भये महाघोरे बौद्धानामागते सति || कश्चिद्बुद्धिमतां श्रेष्ठो विचार्यैतानथाब्रवीत् || ४० || वैजाम्बायाः पतिर्जैनौ नैजाम्बां ताडयत्यसौ || तत्ताडनानि सर्वान्नः पीडयंत्यद्य सौगतान् || ४१ || तया संप्रार्थितो देवः शिवश्चंद्रार्थशेखरः || अयोघन. समादाय किंवा ताडयति स्वयम् || ४२ || इति ब्रुवाणे चार्वाके सर्वे जैनाश्च संगताः || आगत्य जैनसदनं तत्पाणिस्थमयोघनम् || ४३ || बलादाकर्षयामासुश्चार्वाकास्ते सहस्रशः || ततस्तेषां सौगतानां प्रहाराः शांतिमाययुः || ४४ || एतत्प्रभावं ज्ञात्वाऽपि तद्भर्ता क्रोधमूर्छितः || जैनान् सर्वान् विहायान्नं त्वया दत्तं तपस्विने || ४५ || अस्मदीयान् महावृद्धांस्त्वं तु शिक्षवती परम् || इति निष्क्रांता गच्छंती पुरमार्गतः || कंचिज्जैनालयं दृष्ट्वा शिवालयधिया सती || ४७ || शिवबुद्ध्या ननामाशु प्रतिमां जैननिर्मिताम् || जिनाकृतिं विनिर्भिद्य निर्ययौ चंद्रशेखरः || ४८ || लिंगरूपधरः शंभुस्तत्रासीत्पार्वतीश्वरः || सर्वेष्वपि च बौद्धेषु पश्यत्सु परमेश्वरः || ४९ || प्. १४९) सर्वैरप्रेक्ष्यमाणः वाक्यं प्रोवाच भामिनीं || सर्वासामपि नारीणां पतित्यागो न युज्यते || ५० || तथाऽपि प्रवदन्त्यन्ये सूक्ष्मदृष्ट्या महर्षयः || महापातकसंयुक्तः पतिस्त्याज्यो हि योषिता || ५१ || लिंगभ्रष्टः शिवद्रोही म्लेंच्छाद्यन्नरतस्तथा || त्याज्य एव पतिः स्त्रीणां श्रुतयश्च वदन्ति हि || ५२ || त्वं तु त्यक्तवती नाथं शिवद्रोहपरायणम् || अतस्त्व महापापं नास्ति नास्ति वरानने || ५३ || तिलकेति पुरा कश्चिद्वनिताऽभून्महीतले || शिवद्रोहरतं पापं शिवभक्तिविवर्जितम् || ५४ || पतिं सत्यज्य सहसा शिवालयमुपागमत् || शिवस्य पृष्ठभागे सा विलीना संस्थिताऽभवत् || ५५ || तद्भर्ता सहसाऽगत्य करं जग्राह सत्वरम् || साऽपि पुंरूपमास्थाय तस्थौ तल्लिंगसंनिधौ || ५६ || प्रोचुरेवं महाभागे स्मर्तारः शंसितव्रताः || एवमेवेयमबला पतिं त्यक्त्वा समागता || ५७ || शिवस्यानुग्रहाल्लेभे कांक्षणीयं मुनीश्वरैः || इति तां वुष्टुवुः सर्वे प्रमथाः शंसितव्रताः || ५८ || बौद्धाः संतुष्टुवुश्चैनां वैजाम्बां वरवर्णिनीम् || ततः प्रभृति तल्लिंगं वैजनाथाभिधामगात् || ५९ || प्. १५०) तदेतत्किं न जानासि वद चार्वाक दुर्मते || न विश्वासो वदान्येषु चार्वाक तव दुर्मते || ६० || अस्माभिरब्बलूराख्ये ग्रामे वादेन निर्जिताः || प्रोचुर्मां वादकथया पर्याप्तमिति सौगताः || ६१ || प्रत्यक्षमेव सर्वेषामस्माकं दर्शयाधुना || ततः प्रतिश्रुतं चैतत्पूर्वं चार्वाकसंसदि || ६२ || श्वः सूर्योदयवेलायां जिनमूर्तिर्विशीर्यते || जिनालयोऽपि शतधा विशीर्णोऽतिपतिष्यति || ६३ || तदा शिवं च मां भक्तं श्रद्धयिष्यथ नास्तिकाः || ततः प्रभाते संप्राप्ते त्वदीये जैनमंडले || ६४ || पश्यति प्रतिमा भिन्ना विशीर्णाऽभूज्जिनालयः || निपपातातिवेगेन गिरिर्वज्रहतो यथा || ६५ || एतन्मदीयवृत्तान्तं सर्वे जानंति सौगताः || इदानीमपि सर्वेषां प्रत्यक्षं दर्शयामि वः || ६६ || मदीयेनैव शस्त्रेण छित्वा मन्मस्तकं परम् || पुनः शिरः संधयामि व्यतीते दिनसप्तके || ६७ || ततोऽहं नाशयिष्यामि प्रतिमाभुर्जिनालयान् || एकांतरामेणैवोक्तमंगीचक्रुश्च सौगताः || ६८ || ततस्ते सौगताः सर्वे सत्वरं समुपागमन् || बिज्जलो बसवेशश्च सर्वे पौरजनास्तथा || ६९ || स्त्रीबालसहिताः क्षिप्रं निरीक्षितुमुपागमन् || प्. १५१) ततस्त्वेकांतरामोऽपि स्नात्वा भस्मधरः परः || ७० || रुद्राक्षमालाभरणो ध्यायमानो महेश्वरम् || शिवभक्तान्नमस्कृत्य नूतनांश्च पुरातनान् || ७१ || गृहीत्वा पाणिना खड्गं स्वमस्तकमथाऽच्छिनत् || बसवेशेन भक्तौघैरशेषैः परिवारितः || ७२ || बिज्जलप्रमुखैः पौरैराश्चर्येण निरीक्षितः || वंदिभिः स्तूयमानः सञ्जयशब्दपुरः सरम् || ७३ || नदत्सु तूर्यसंघेषु काहलाध्वनिपूर्वकम् || नर्तमानासु वेश्यासु गीयमानैश्च गायकैः || ७४ || स्वमस्तकं करे धृत्वा शिवो ब्रह्मशिरो यथा || ततः सप्त दिनान्येवं चचार पुरवीथिषु || ७५ || तत एकांतरामोऽयं पूर्वदेशमुपागतः || स्वशिरः संधयामास सुदृष्टो बिज्जलादिभिः || ७६ || तदीषद्वक्रमभवत्सर्वेषां प्रत्ययाय च || एकांतरामभक्तोऽयं प्रत्यक्षः परमेश्वरः || ७७ || इति संतुष्टुवुः सर्वे बिज्जलाद्याः पुरौकसः || देवदंदुभयो नेदुः पुष्पवृक्ष्टि पपात च || ७८ || घोषितेषु मृदंगेषु ननृतुश्चाप्सरोगणाः || ततो भक्तगणाः सर्वे प्रहृष्टाश्च सहस्रशः || ७९ || जिनालयानसंख्याकानाशयामासुरंजसा || जैनांश्च नाशयामासुः कल्याणपुरसंस्थितान् || ८० || प्. १५२) एकांतरामं बसवः विविधैः स्तवैः || निनाय स्वगृहान् रम्यान् भक्तसंघसमावृतः || इत्थमेकांतरामोऽसौ जिग्ये जैनान्महामुने || ८१ || वृत्तम् || एकान्तरामचरितं शृणुतेऽतिभक्त्या लोकाद्भुतं विविधपातकनाशनं यः || तस्याग्निशस्रविषवारिपिशाचनागबाधा कदापि न भवेदतिपामरस्य || ८२ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे चतुस्त्रिंशोऽध्यायः || प्. १५३) अथ पंचत्रिंशतितमोऽध्यायः अगस्त्यः || एकांतराममाहात्म्यं श्रुतमेतन्मयाऽधुना || भक्तांतराणां माहात्म्यं कार्तिकेय वदस्व मे || १ || स्कंदः || भक्तः सोड्डलबाचाख्यः साक्षाद्रुद्र इवापरः || सर्वैद्रियगुणाभासः सर्वैद्रियविवर्जितः || २ || अशेषवेदवेदान्ततत्त्वज्ञानविजृंभितः || प्रतिबंधकनिर्मुक्तः शिवध्यानपरायणः || ३ || शिवभक्ताग्रणीः श्रीमाञ्च्छौर्यवान् परनिग्रहे || दौर्भावसंगरहितो योनिजन्मविवर्जितः || ४ || अपुनर्भवसंपन्नः शांतो दांत उदारधीः || परदैवाद्रिदंभोली रुद्रस्योद्रिक्तशौर्यवान् || ५ || शिष्टसंरक्षणो धीरः पाषंडांभोधिकुंभजः || सर्वज्ञतां नंदिनश्च सर्वलोकैकसंस्तुताम् || ६ || भृंगिनाथस्यैकलिंगनिष्ठत्वं महदद्भुतम् || रौद्रं श्रीवीरभद्रस्य दधीच्यादिमहात्मनाम् || ७ || शापशक्तिं गौतमस्य तर्कशक्तिं महोज्वलाम् || संगृह्येमं प्रयत्नेन निर्ममे परमेश्वरः || ८ || इति संस्तूयमानः सन् चचार वसुधातले || प्. १५४) श्रुतिस्मृतिपुराणैश्च वेदान्तैर्विविधैरपि || ९ || प्रतिकूलानुकूलाभ्यां तर्काभ्यां सहितेन च || अनुमानप्रमाणेन कामिकाद्यागमैरपि || १० || जगज्जन्मादिहेतुत्वं स्थापयन् गिरिजापतेः || पिपीलिकाद्या ब्रह्मान्ताः पशवः परिकीर्तिताः || ११ || तेषां पतिर्महादेव इति संस्थापयन भुवि || विनाश्य सकलाञ्जैनांश्छित्वा वैष्णवनासिकाः || १२ || अद्वैतिनो हतान कृत्वा हत्वा चार्वाकदुर्मदान् || शैवं संस्थापयामास मतं वेदान्तसंमतम् || १३ || सौराष्ट्र एव प्रत्यब्दं शिवरात्रौ प्रजागरम् || करवाणीति संकल्पं चक्रे सोड्डलबाचराट् || १४ || ततो दिनेषु गच्छत्सु शिवरात्रिः समागता || स तु बिज्जलमासाद्य बभाषे वचनं परम् || १५ || प्रत्यब्दं शिवरात्र्यां तु व्रतं राजन् मया कृतम् || सौराष्ट्रसोमं द्रक्ष्यामि करिष्ये तत्र जागरम् || १६ || इत्युक्तो बिज्जलः प्राह बाचं भक्तिमतां वरम् || शकटेष्वद्य धान्यानि तिष्ठंति पुरवीधिषु || १७ || तेषां मानं कुरुस्.वाद्य गंतुं तेनोपयुज्यते || अतः सौराष्ट्रसोमेशमानयाद्यैव मत्पुरम् || १८ || इत्युक्तश्चिंतयामास बाचः स्वीयहृदम्बुजे || बिज्जलोऽत्यन्तमूर्खोऽयं व्रतकालः समागतः || १९ || प्. १५५) अनुल्लंघ्यं शिवस्यापि व्रतं संकल्पितं मया || अतः सोमेश्वरः साक्षादागमिष्यति मत्पुरम् || २० || इति निश्चित्य मनसा बाचः कार्यकरोऽभवत् || शिवरात्रेः पूर्वदिने वृषध्वजयुतः परः || २१ || गृहीतपत्निकः शंभुर्वार्ताहारः समाययौ || आगत्य राजमार्गस्थं व्रीहिमानोद्यतं परम् || २२ || बाचं दृष्ट्वा महाभक्तं बभाषे वचनं परम् || सौराष्ट्रसोमनाथस्य निकटादहमागतः || २३ || आगमिष्यति सोमेशः परेद्युर्भवदन्तिकम् || इत्युक्त्वा पत्रिकां दत्वा स्वयमंतर्दधे ततः || २४ || परेद्युः प्रातरेवास्य धान्यमध्ये वृषध्वजः || प्रादुरासीन्महादेवो लिंगरूपधरः शिवः || २५ || एतच्छ्रुत्वा बिज्जलोऽपि बसवेन सहाययौ || तं दृष्ट्वा बसवेशोऽपि बभाषे बिज्जलं वचः || २६ || त्वया निवारितः सोऽयं गंतुं सोमेशसन्निधिम् || स्वयमेवागतः श्रीमान् सोमः सौराष्ट्रसंस्थितः || २७ || गुड्डाम्बाभक्तिसंतुष्टः पूर्वं प्रत्युद्ययौ शिवः || अतो हि शिवभक्तानामसाध्यं किं नु विद्यते || २८ || पुराऽभुत्सिद्धरामाख्यः शिवभक्तो जितेंद्रियः || श्रीशैलशिखरावासं मल्लिकार्जुनमव्ययम् || २९ || आनेतुं स्वपुरं रम्यं न क्षमः स च भक्तराट् || प्. १५६) सिद्धरामादयं श्रेष्ठो बाचो भक्ताग्रणीर्महान् || ३० || श्रुत्वैतद्बिज्जलनृपः समागत्य ननाम तम् || धान्यमध्ये तु यल्लिंगमासीच्छ्रेष्ठं मनोहरम् || ३१ || तत्र स्वर्णालयं राजा कारयामास तत्कृअणात् || ततस्तलींगनिकऋए बाचो भक्तगणैर्वृतः || ३२ || शिवरात्रिव्रतं चक्रे सौराष्ट्रे च यथा तथा || सोमलिंगमिति ख्यातिं प्राप तल्लिंगमुज्वलम् || ३३ || ततो बिज्जलभूपालो बाचमाहात्म्यमुत्तमम् || अमृष्यमाणः स्वपुरसन्निधौ कपटोज्वलः || ३४ || प्रतापनारायणाख्ये पुरे परमपावने || गोविंदप्रतिमामेकां प्रतिष्ठाप्यातिभक्तितः || ३५ || अत्युन्नतं स्वर्णमयं कारयामास चालयम् || तत्रोपविश्य राजाऽयं मंत्रिभिः परिवारितः || ३६ || साग्रहस्तत्सभामध्ये प्रोवाच बसवेश्वरम् || पौराः समागताः सर्वे मंत्रिणश्च समागताः || ३७ || सोड्डलान्वयसंजातो बाचः किमिति नागतः || एतं महोत्सवं सोऽयं किं न जानाति तत्वतः || ३८ || ज्ञात्वा न प्रेक्षणीयोऽयमन्यदेवस्य चोत्सवः || इति नायाति किं वाऽद्य द्रष्टुमुत्सवमुत्तमम् || ३९ || नोचेदुपरमं प्राप्तो मत्कार्यकरणे किमु || इत्युक्तवंतं भूपालमुवाच बसवेश्वरः || ४० || प्रयोजनात् क्रियाहीनं भीत्या युद्धात्पलायितम् || प्. १५७) दंडयंति हि राजानः स्वामिद्रोहपरायणम् || ४१ || कार्येष्वेतेषु तेनैकं न कृतं नृपपुंगव || अन्यदेवालयं सोऽयमनिष्टं नागतस्त्विति || ४२ || दंडितुं नार्हसि त्वं हि बाचं भक्ताग्रयायिनम् || शिवभक्ता महात्मानश्चान्यदेवालयान्वरान् || ४३ || न विशंति महाघोरे संकटे समुपस्थिते || लिंगनिष्ठापरो भृंगी वेदवेदांततत्ववित् || ४४ || वाम्भागे स्थितां गौरीं हित्वा हिमवतः सुताम् || स्वयं प्रदक्षिणं चक्रे सव्यभागस्वरूपिणः || ४५ || शिवस्य देवदेवस्य किं न जानासि भूपते || तथैव घंटाकर्णाख्यः शिवभक्ताग्रणीर्महान् || ४६ || देवतांतरनामानि श्रूयन्त इति शंकया || घंटासहस्रं धृतवान् कर्णद्वन्द्वे दृढव्रतः || ४७ || तेन घंटाकर्णनाम प्राप्तं भूमंडले शुभे || एतद्भवान्न जानाति किंवा बिज्जलभूपते || ४८ || अतो भक्ता महाभागा न पश्यन्त्यन्यदेवताः || अन्यदेवताः गंतुं नोत्सहंते विपत्स्वपि || ४९ || महेंद्रमंगलाभिख्ये पुरेऽत्यन्तमनोहरे || अर्यमेति समाख्यातः शिवभक्तार्चनोत्सुकः || ५० || स तु व्रतं चकारैकमतिसाहसवृत्तिमान् || प्. १५८) यस्त्वन्यदेवतां मोहात् संस्मरेच्च मदन्तिके || ५१ || तं हनिष्यामि खड्गेन निशितेनाविचारयन् || तस्य गेहान्तिकं कश्चिदाययौ ब्राह्मणओत्तमः || ५२ || पठन्नशेषपापघ्नं शतरुद्रीयमुत्तमम् || ययाचे तद्गृहे भिक्षां पात्रपाणिरुदारधीः || ५३ || भिक्षाप्रदानसमये सिक्थं भुव्यपतत्तदा || सिक्थं गृहीतुकामः सन् रामरामेत्युवाच सः || ५४ || दारयामास खड्गेन तं विप्रमतिसाहसात् || ततस्तु ब्राह्मणाः सर्वे संभूय ग्रामवासिनः || ५५ || सर्वे नृपान्तिकं गत्वा राज्ञे कर्म न्यवेदयन् || शिवभक्तो वृथैवायं वेदवेदांगपारगम् || ५६ || सर्वशास्त्रार्थतत्वज्ञं स्वखड्गेन जघान तम् || एवं निवेदयामासुर्भूपायामिततेजसे || ५७ || राजाऽर्यमाणमाहूय प्राह वाक्यं सभांतरे || ब्रह्मणस्तु न हंतव्य इत्युल्लंघ्य विधिं परम् || ५८ || किमर्थं हत्वान् विप्रं सर्वशास्त्रार्थपारगम् || आगः किं कृतमेतेन वद सत्यं सभांतरे || ५९ || नो चेत्त्वां च हनिष्यामि नात्र कार्या विचारणा || ततः प्राहार्यमाऽऽयातो राजानमिदमब्रवीत् || ६० || मया हतो द्विजन्माऽयं मनो जानाति शंकरः || अर्यमेत्युक्तवान् भूपो भृत्यानाहूय सत्वरम् || ६१ || युष्माभिः स निहन्तव्यस्त्वर्यमाऽख्यस्तपोधनः || प्. १५९) इति राज्ञो वचः श्रुत्वा प्राह भूपतिमर्यमा || ६२ || शिवे जाग्रति लोकेषु मां हन्तुं को भवान् प्रभो || ततो भृत्या समादाय जग्मुर्हन्तुं पुरान्तिके || ६३ || मध्ये शिवालयं दृष्ट्वा करतालसमन्वितः || उवाच परमेशानं भक्तिभावविनम्रधीः || ६४ || देवतान्तरभक्तैर्मां समाकृष्य नृपाधमः || हन्तुकामः स्वभृत्यौघानादिदेश बलोद्धतान् || ६५ || मामिश रक्ष रक्षाद्य कृपया परमेश्वर || इतीरितो महादेवः सांबः सत्यादिलक्षणः|| ६६ || विनिर्भिद्य महेशानः स्वोदरं पार्वतीपतिः || प्रविशस्वार्यमन्नद्य मद्गर्भमिति चावदत् || ६७ || विवेश सोऽपि वेगेन भृत्याः समागताः || समग्रहीरंस्तत्कच्छवसनं नृपपुंगव || ६८ || तत्कच्छवसनं लिंगसंनिधौ दृश्यतेऽधुना || अतो देवालयानन्यान् भक्ता नायांति बिज्जल || ६९ || पुरा माहेश्वरः साक्षाद्वीरशंकरनामकः || महद्व्रतमिदं चक्रे भविनं प्राकृतात्मकम् || ७० || मलत्रयसमाक्रांतं स्वप्ने वा नेक्षयाम्यहम् || एवं व्रतपरः श्रीमान् स्पने हौद्धं ददर्श सः || ७१ || व्रतलोपभयाक्रांतो गत्वा श्रीहाटकेश्वरम् || प्रज्वाल्य पावकं तत्र पतितुं कृतवान् मतिम् || ७२ || प्रादुर्भूतः शिवस्तस्य सायुज्यपदवीं ददौ || अतोऽन्यदेवतागेहप्रवेशन पराङ्मुखाः || प्. १६०) शिवभक्ता महात्मानः शैवव्रतपरायणाः || ७३ || वृत्तम् || भक्तौघमाहात्म्यमिदं पवित्रं शृणोति भक्त्या रहितोऽपि यो वा || भुक्त्वेह भोगान विधिविष्णुमृग्यं स याति दिव्यं पदमीश्वरम् || ७४ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे स्कंदागस्त्यसंवादे पंचत्रिंशोऽध्यायः || प्. १६१) अथ षट्रिंशतितमोऽध्यायः || मंचनपंडिताराध्य कथा || अगस्त्यः || भक्तानमेव माहात्म्यं मम श्रोतुं कुतूहलं || स्वामिन् सुमुक्तिदं भूयो भक्तानां चरितं वद || १ || कुमारः || आविर्भूतः स्वयं साक्षाच्छ्रीमान् मंचनपंडितः || अशेषवेदवेदान्ततत्त्वज्ञः परमार्थवित् || २ || आत्रेयगोत्रसंभूतः शैवागमविशारदः || वाराणदीपुरीं गत्वा श्रीमद्विश्वेशसंनिधौ || ३ || अत्यन्तनियमोपेतस्तपस्तेपे सुदारुणम् || प्रत्यहं स्वांगुलीश्छित्त्वा पूजयामास शंकरम् || ४ || ततो वै स्वांगुलीः सर्वा यथापूर्वं जगाम सः || ततः संतुष्टुवुः सर्वे काशीपुरनिवासिनः || ५ || अशेषवेदशास्त्रैश्च शंकरः प्रतिपाद्यते || एवं विलिख्य सौवर्णे पत्रे मंचनपंडितः || ६ || निबध्य पत्रं वंशाग्रे स्थापयामास वीथिषु || ततोऽन्यदर्शनाः सर्वे गत्वा वाराणसीं प्रति || ७ || गदाधरालयप्रांते स्थित्वा मंचनपंडितम् || स्वजनैराह्वयामासुर्वृद्धेः शास्त्रविशारदैः || ८ || उपविष्टः सभामध्ये विद्वत्संघविराजिते || प्. १६२) स्थापयंच्छिवपारम्यं वेदान्तवचनैः परैः || ९ || निराकरोत्परोक्तानि दूषणानि सहस्रशः || ततस्ते निर्जिताः सर्वे तमूचुः प्रतिवादिनः || १० || शास्त्रवादकथा चेयमास्तां मंचनपंडित || शिवश्चेद्देवतोत्कृष्टः प्रत्यक्षं दर्शयाधुना || ११ || स तथेति प्रतिज्ञाय विष्णोरालयमाययौ || परमेश्वरभक्तोऽहं शिवभक्तो भवानपि || १२ || आवामद्यैव संभूय गच्छावः शिवसन्निधिम् || विश्वेशचरणाम्भोजयुगलं परिपूजितुम् || १३ || गदाधरमुवाचेत्थं श्रीमान्मंचनपंडितः || गधाधरोऽपि तद्वाक्यं श्रुत्वा नायायणः प्रभुः || १४ || वैष्णवाद्यैर्दृढं बद्धं विनिर्भिद्याररं ततः || निर्ययौ पादचरी सन् मंदस्मितमुखांबुजः || १५ || अग्रयायिषु भक्तेषु शिवस्यामिततेजसः || अतिशोकसमाविष्टवैष्णवैः परिवारितः || १६ || विश्वेश्वरालयं प्राप्य पुरस्तस्थो नमञ्छिवम् || तुष्टाव विविधैस्तोत्रैर्देवदेवं त्रिलोचनम् || १७ || समक्षमेव सर्वेषां काशीपुरनिवासिनाम् || गदाधरः समानीतस्त्वया विश्वेशसंनिधिम् || १८ || त्वत्प्रभावं समाख्यातुं न शक्तो हि चतुर्मुखः || इति तं तुष्टुवुः सर्वे मंचनाराध्यपंडितम् || १९ || प्. १६३) सदाशिवस्य भक्तोऽहमितिविष्णुर्वदन्निव || विश्वेशस्य पुरोभागे स्थितवान्मधुसूदनः || २० || अतो हि शिवभक्तानां माहात्म्यमतिपावनम् || वर्णितुं कः समर्थः स्याल्लोके बिज्जलभूपते || २१ || तथा शंकरदासोऽपि द्वितीयवृषभध्वजः || वैष्णवप्रतिमाः सर्वास्तत्कटाक्षनिरीक्षणात् || २२ || विशीर्णा जज्ञिरे लोके शतशोऽथ सहस्रशः || ततोऽन्यदर्शनाः सर्वे गोविंदप्रतिमां शुभाम् || २३ || वीक्ष्यैव मल्लभूपस्य संन्निधौ भयकंपिताः || तां संन्निवेशयामासुरुद्धता वैष्णवादयः || २४ || ततः शंकरदासेन जन्मल्लस्य सन्निधौ || गोविंदप्रतिमा दृष्टा विशीर्णऽभूत् सहस्रधाअ || २५ || अतो हि शिवभक्तानां प्रभावं विस्मयावहम् || किं त्वं वेद महाभाग बिज्जलप्रभुसत्तम || २६ || अद्यापि बाचमाहात्म्यं किं न जानासि भूपते || तेन सौराष्ट्रसोमेशस्त्वानीतः स्वगृहांतरम् || २७ || इत्युक्त्वा बसवेशोऽपि बाचभक्ताय धीमते || एतद्वृत्तांतमखिलं प्राहिणोद्भक्तपुंगवः || २८ || अहूतो बसवेशेन बाचः शीघ्रं समाययौ || आगतं बिज्जलो दृष्ट्वा बाचं क्रोधादुवाच तम् || २९ || प्. १६४) सर्वलोकाधिपस्यास्य गोविंदस्य महोत्सवम् || वयं समागताः सर्वे भवान्नायाति किं वद || ३० || इत्युक्तो बाचभक्तोऽसौ बिज्जलं प्राह संसदि || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ३१ || यतश्च संप्रसूयन्ते सहभूतैः सहेंद्रियैः || स्वयमुत्पत्तिमत्वेन न तारयितुमक्षमाः || ३२ || यथा विभिन्ना नौरेका भिन्नां नावं महोदधेः || पारं नेतुं क्षमा नासीच्छिला वऽपि शिलांतरम् || ३३ || तथोत्पन्नाञ्जनान् सर्वान् न संतारयितुं क्षमाः || ब्रम्हविष्ण्वादयो देवा जनिताः शूलपाणिना || ३४ || एतेषां कारणं देवः कस्मादपि न जायते || कारणानां च यो धाता ध्याता परमकारणम् || ३५ || स सर्वैश्वर्यसंपन्नो नम्ना सर्वेश्वरः स्वयम् || सर्वैमुमुक्षुभिर्धेयः शिव एव शिवंकरः || ३६ || तस्मात् सर्वान् परित्यज्य ध्येयः सांबः शिवः परः || प्राहाथर्वशिखावाक्यं मुनिभिर्मोक्षकांक्षिभिः || ३७ || एवं विचार्य मनसा गोविंदप्रतिमोत्सवम् || स्रष्टुं समागतो नाहं बिज्जलप्रभुसत्तम || ३८ || इत्युक्तवन्तं बावं तं पुनः प्रोवाच भूपतिः || सर्वेऽपिकर्मणा जाताः कर्मणैव स्थितिं गताः || ३९ || कर्मणैव लयं यांति तस्मात्कर्मैव कारणम् || प्. १६५) इत्युक्त्वा नृपतिं प्राह बाचो भक्तिमतां वरः || ४० || यथैव प्रेरकं हित्वा शरो लक्ष्यं न याति हि || कर्मा पि प्रेरकं हित्वा तथा किं नु करोति वै || ४१ || एष एवं साधु कर्मकारयत्यंबिकापतिः || यमेश्यः सर्वलोकेश्यश्चोर्ध्वंचैवोनिनिष्यते || ४२ || एष ह्येतत्साधु कर्म कारयत्यंबिकापतिः || यमेभ्यः सर्वलोकेभ्यो ह्यधोलोकं निनीयते || ४३ || तस्मात्परशिवः साक्षात् कर्मणां प्रेरकः स्मृतः || संत्यज्य किं करोत्येतत्प्रेरकं परमेश्वरम् || ४४ || तस्माच्च कर्मवादोऽयं न युक्तः प्रभुसत्तम || शिवाराधनबुध्यैव यत्कृतं कर्म तत्कृतम् || ४५ || शिवं हित्वैव दक्षेण कृतं कर्म च वैदिकम् || शिवश्छेदाय तदभूद्दक्षस्यामिततेजसः || ४६ || शिवाराधनविघ्नानां विच्छेदाय महात्मनां || काटकूटेन चरिता स्वपितुर्हननक्रिया || ४७ || संपादयामास पुरा पुण्यलोकमनुत्तमम् || जन्ममृत्युविहीनेन महेशेन महात्मना || ४८ || मृत्वा जनित्वा संसारे भ्राम्यन्ते ह्यच्युतादयः || तेषां वदेत् कथं साम्यं श्रुतिमार्गैककोविदः || ४९ || पिपीलिकाद्या ब्रह्मान्ताः प्राणिनः पशवः स्मृताः || प्. १६६) तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः || ५० || अतः कथं भवेत्साम्यं पशूनां तत्पतेरपि || भृग्वादिशापदग्धानां विष्ण्वादीनां दिवौकसाम् || ५१ || शिवेन मुनिवंद्येन कथं साम्यं वदेत्पुमान् || अशेषदेवतासंघदाहकं विषमुल्बणम् || ५२ || यः पपौ चातिवेगेन प्रार्थितः सर्वदैवतैः || शिवस्य तस्य देवानां कथं साम्यं वदेत्पुमान् || ५३ || त्रिपुरांधकमु ख्यानां सःअर्त्रा शूलपाणिना || तैर्नित्यं हन्यमानानां कथं साम्यं वदेत्पुमान् || ५४ || नारायणोऽपि भृगुणा शप्तो लक्ष्मीपतिर्महान् || दशावतारगहने भ्रमत्यद्यापि भूपते || ५५ || एतादृशस्य कृष्णस्य शिवेनामिततेजसा || साम्यं वदेत् कथं धीमान् वेदशास्त्रविशारदः || ५६ || यो घोरवेषमास्थाय शरभाख्यो महेश्वरः || नृसिंहं लोकहन्तारं संजघान् महाबलः || ५७ || हन्त्रा च हन्यमानस्य कथं साम्यं वदेत् पुमान् || उत्पाटयन् स्वनेत्राब्जं पूजयामास शंकरम् || ५८ || पूजकस्यास्य पूज्येन कथं साम्यं वदेत्पुमा || दक्षाध्वरे वीरभद्रो दक्षसाहाययकारिणम् || ५९ || प्. १६७) गदाशार्ङ्समापेतं शंखचक्रविराजितम् || यत्पुत्रस्ताडयामास तेन साम्यं कथं वदेत् || ६० || अवलिप्तं विधिं ज्ञात्वा शिवनिंदापरायणम् || यः पंचमं शिरः श्रेष्ठं चिच्छेद वृषभध्वजः || ६१ || विधातुस्तेन रुद्रेण कथं साम्यं वदेत्पुमान् || सृष्ट्वा प्रजापतिः पुत्रीं तां दृष्ट्वा स्मरपीडितः || ६२ || रन्तु गृहीतुकामः सन् मतिं चक्रे विमूडधीः || सा प्राप्य हरिणीरूपं प्रदुद्रावाति वेगतः || ६३ || चतुर्मुखोपि हरिणस्तस्याः पश्चात्प्रदुद्रवत् || भूत्वा शिवो मृगव्याधो जघान हरिणं विधिम् || ६४ || हंत्रा च हन्यमानस्य कथं साम्यं वदेत् पुमान् || ६६ || विष्णुर्नायायणः श्रीमान् दीक्षितश्चोपमन्युना || इंद्रनीलमयं लिंगं पूजयामास भक्तितः || ६७ || सर्वदेवाः पुरा काश्यां स्थाप्य लिंगं स्वनामभिः || पूजयामासुरत्यन्तभक्त्या सर्वेश्वरं शिवम् || ६८ || सर्वेषामपि देवानामीप्सितार्थान् ददौ शिवः || प्. १६८) अतः शिवस्य माहात्म्यं वर्णितु न क्षमो भुवि || ६९ || एकांतरामप्रमुखा ये भक्ता भुवि संस्थिताः || पुरातनाश्च ये भक्ताः काटकूटादयः परे || ७० || शिवेनानुगृहीतास्ते कैलासपदमाययुः || भक्तवात्सल्यसंयुक्तस्तत्तुल्यो न हि विद्यते || ७१ || अतो मोक्षार्थिभिः सर्वैर्ध्येयश्चंद्रार्धशेखरः || श्रोतव्यः कीर्तितव्यश्च मंतव्यः परमेश्वरः || अतो विष्ण्वादयः सर्वे न ध्यातव्या मनीषिभिः || ७२ || वृत्तम् || एतद्धि बाचवचनं श्रुतिसारभूतम् || श्रुत्वा च बिज्जलमुखा मुदितान्तरंगाः || बाचस्य पादकमले प्रणिपत्य भक्त्या || स्वं स्वम् निकेतनमवापुरुदारभावाः || ७३ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे षट्त्रिंशोऽध्यायः || प्. १६९) अथ सप्तत्रिंशतितमोऽध्यायः अगस्त्यः || माहात्म्यं शिवभक्तानां त्वत्तो निगदितं मया || समासेन श्रुतं भूयः कार्तिकेय वदस्व मे || १ || स्कंदः || स्ग्रेसरस्तु भक्तानां कीर्तिमानमितद्युतिः || शिवनाग इति ख्यातो भक्तितत्त्वार्थकोविदः || २ || बसवेशसमीपस्थः सदा संतुष्टमानसः || प्रत्यहं बसवेशस्य पूजां गृह्णन्नुवास सः || ३ || तदाऽसद्ब्राह्मणाः सर्वे नृपं गत्वा बभाषिरे || बसवेश गृहे रम्ये शिवनाग इति श्रुतः || ४ || चंडालो बसवेशेन पूजितः सन्नतिष्ठत || प्रत्यहं बसवेशोऽपि तन्नमस्कारणोत्सुकः || ५ || संसक्तः सर्व भक्तैश्च संभुंक्ते चाप्यशंक्तः || अशेषान्वैदिकानस्मान् भोजनावसरे सदा || ६ || नेक्षते बसवेशोऽपि पातित्यागमशंकया || किमत्र बहुनोक्तेन कल्याणपुरमुज्ज्वलम् || ७ || चंडालाकीर्णमभवत्पुल्कसैश्च समाकुलम् || वर्णाः सर्वे समाकीर्णा नाशं धर्मास्समाप्नुयुः || ८ || राजा राष्ट्रकृतं पापं सर्वमाप्नोत्यदंडनात् || ज्ञात्वाऽप्यकथनात्पापं शिक्षकस्य महीपतेः || ९ || पुरोहितोऽपि लभत इति शास्त्रव्यवस्थितिः || अतस्ते कथयिष्यामो मत्पापविनिकृंतने || १० || प्. १७०) राज्ञा चानुमतो धर्मः सर्वराज्ये प्रवर्तते || शिक्षय त्वं हि बसवं मा वा शिक्षय भूपते || ११ || अस्माभिः कथनीयं यत् तदुक्तं तव सन्निधौ || एतत्पौरवचः श्रुत्वा राजा कंपितमानसः || १२ || आव्हयामास बसवं स्वभृत्यैर्वेत्रपाणिभिः || कृत्वा तु शिबिकारूढं शिवनागं महोज्वलम् || १३ || स्वयं गृहीत्वा तद्धस्तमाययौ बसवेश्वरः || तं दृष्ट्वा शिबिकारूढं राजानं प्रोचिरे द्विजाः || १४ || त्वन्मंत्री बसवेशोऽयं चंडालेन सहागतः || अकार्यकारणे भीतिं त्यक्त्वा बिज्जलभूपते || १५ || एतच्छ्रुत्वा बिज्जलोऽपि सबाह्यां संसदं गतः || स्ववस्त्रमासनं कृत्वा शिवनागं जितेंद्रियम् || १६ || तद्विष्टरे सन्निवेश्य भक्तिभावविनम्रधीः || बसवेशः समागत्य राजानमवदत्स्वयम् || १७ || किमर्थमहमाहूतो मत्कार्यं वद मे प्रभो || बिज्जलः क्रोधताम्राक्षो जगाद बसवेश्वरम् || १८ || वेदशास्त्रपुराणेषु वर्णास्त्वष्टादश स्मृताः || यथा तेषामसांकर्यंपालयंति तथा नृपाः|| १९ || इदानीं वर्णसांकर्यं कल्याणकटके मम || त्व्या कृतं पुरा कैश्चिदकृतं बसवेश्वर || २० || या भक्तिः सर्ववर्णानामतिसांकर्यकारिणी || प्. १७१) सा भक्तिर्जनिता लोके त्वया नान्यैर्मुनीश्वरैः || २१ || सा भूः कथं वा फलिता भवेद्वृष्टिः कथं भवेत् || यस्यां भूमौ प्रतिष्ठंति मनुष्याश्च भवादृशाः || २२ || एवं पृष्टोऽथ बसवो भूपालमिदमब्रवीत् || माचलेति पुरा काचिदभूच्चंडालवंशजा || २३ || मनोज्ञरूपसंपन्ना नीलकुंचितमूर्धजा || इंदीवरच्छदस्पर्धिनेत्रेद्वन्द्वविशोभिता || २४ || अर्धेन्दुनिटिला रम्या पूर्णचंद्रन्भानना || तिलपुष्पप्रतीकाशनासिकापरिशोभिता || २५ || कुंदप्रसूनसंकाशद्विजपंक्तिविराजिता || बिंबोष्ठा कंबुकंठी च चक्रवाककुचद्वया || २६ || गंगावर्तसमानाभनाभिदेशोपशोभिता || इंद्रनीलप्रतीकाशरोमपंक्तियुता परा || २७ || सैकतश्रोणिसंयुक्ता रंभास्तंभोरुशोभिता || शंभुत्सारससंशोभिपदद्वययुता बभौ || २८ || कदाचिन्नृपवर्येण नलाख्येन विनोदिना || रथकारकुलोत्पन्ना सा दृष्टा वरवर्णिनी || २९ || तां दृष्ट्वा नृपतिः श्रीमान् स्मरबाणनिपीडितः || ग्रामस्थितानशेषान् सोऽप्याहूय ब्रह्मणोत्तमान् || ३० || सभामध्योपविष्टः सन् प्राहेदं वचनं परम् || प्. १७२) यूयं कुरुत मद्वाक्यं यद्ब्रवीम्यहमादरात् || ३१ || मद्ग्रामे वर्तते काचिच्चंडालकुलसंभवा || योषिद्वरा राजमार्गे सा दृष्टा गच्छता मया || ३२ || तस्यां मे मानसं लग्नमत्यन्तं द्विजपुंगवाः || तस्माद्यूयं प्रकुर्वध्वं तामद्योत्तमवंशजाम् || ३३ || इति राज्ञो वचः श्रुत्वा प्रत्यूचुस्ते नृपं द्विजाः || राजंस्त्वदुक्तवचनमश्राव्यं हि महात्मभिः || ३४ || अकार्यकरणे भूप महान् दोषो भविष्यति || ब्रह्मणानां वचः श्रुत्वा राजा वचनमब्रवीत् || ३५ || नांगीकृतं भवद्भिश्चेन्न जीविष्ये न संशयः || कर्मणोऽस्य धनं यावत्तावद्दास्यामि सांप्रतम् || ३६ || तच्छ्रुत्वा वचनं तस्य कृछ्रेनांगीकृता द्विजाः || अंगीकृत्य ततः स्वर्णधेनुमकारयन् || ३७ || तस्यां निवेश्य तां बालां क्षीरेणापूरयंस्तदा || धेनुगर्भोद्भवा नारी पवित्रैव न संशयः || ३८ || इति प्रोचुर्दुतात्मानः पूर्वजन्मगतं नृप || तस्याः प्रणम्य ते सर्वे तदुच्छिष्टं पयः पपुः || ३९ || किमेभिरुक्तिभिर्भूप सर्वे ते ब्राह्मणाधमाः || संभूय तां स्वर्णधेनुं च्छित्वाऽवयभेदतः || ४० || कृत्तिं सर्वां यायजूका नितंबं श्रुतिपाठकाः || कशेरुकामुपाध्याया वालं पंडितसत्तमाः || ४१ || प्. १७३) षडंगकास्तु पार्श्वो द्वौ वक्षः प्राभाकरास्तथा || उदरं सूक्ष्मशल्यानि पार्श्वशल्यानि शाब्दिकाः || ४२ || त्रिवेदिनो वपां चैव भागशेषाश्च सर्वशः || विद्यार्थिनोऽभ्यागताश्च स्थूलसूक्ष्मखुराणि च || ४३ || समग्र्हीरंस्तत्सर्वं कृत्वैवं नृपपुंगव || ग्रामांत्यजानामेतेषां गोहन्तॄणां नृपोत्तम || ४४ || न श्रोतव्यानि वक्यानि विरुद्धानि महात्मभिः || आम्नायाः किं नु प्रथमा आद्याः किं विधिकल्पिताः || ४५ || जातीनां कुत इत्युक्ते द्वे जाती विधिचोदिते || शृणुष्व नृपशार्दूल प्रवर्तकनिवर्तके || ४६ || भवकर्मप्रयुक्तस्तु प्रवर्तक इति स्मृतः || शिवकर्मसुसंयोगी निवर्तक इतीरितः || ४७ || श्रेष्ठे च संस्तुते सर्वैर्वेदार्थाचरिते स्थिते || कुलानामितरेषां तु वाक्यानि किमु शंसितुम् || ४८ || ब्राह्मणः कथिते जातिस्थिते चोभे प्रकर्तकः || अष्टादशकुलानां तु कथनं किं प्रयोजनम् || ४९ || अष्टादशानां वर्णानां श्रेष्ठं भक्तियुतं कुलम् || दौर्भाग्यकरसंस्पृष्टकांचनं लोहवद्यथा || ५० || शिवप्रतिनिधिर्भक्तस्तथा वै प्राकृतात्मनाम् || प्. १७४) स्थितो मानुषरूपेण दृश्यते परमार्थतः || ५१ || तस्माच्छंकरभक्तानां माहात्म्यमतिपावनम् || अत्युत्तमं च भवतां वक्तुं श्रोतुं न शक्यते || ५२ || मृगेंद्रेण शुनः साम्यं मानवः को वदेद्भुवि || ग्रामक्रोडस्य करिणा कथं साम्यं वदेत्पुमान् || ५३ || भागीरथ्या च कुल्यायाः कथं साम्यं वदेत्पुमान् || खद्योतानां द्युमणिना कथं साम्यं वदेत्पुमान् || ५४ || नक्षत्राणां च चंद्रेण कथं साम्यं वदेत्पुमान् || सुमेरुगिरिणा शेन्याः कथं साम्यं वदेत्पुमान् || ५५ || सुरद्रोः कंतकतरोः कथं साम्यं वदेत्पुमान् || शिवनागाख्यभक्तेन बिज्जलप्रभुसत्तम || ५६ || एते विप्राधमाः सर्वे कथं साम्यं प्रयांति हि || इतिहासासांतरं वक्ष्ये शृणु राजन् महामते || ५७ || शिवभक्तो महायोगी श्रीमांच्छ्रीपतिपंडितः || शास्त्रवादातिकुशलो ब्राह्मणानां सभांतरे || ५८ || शिवभक्तेन यो भूयात्सुकुलेनाकुलेन वा || वेदाध्ययननिष्पाणातो वेदांतार्थविशारद || ५९ || समान इति तस्याहं संच्छिनद्भयसिना शिरः || अनंतपालभूपालसमक्षं भक्तितत्परः || ६० || इति प्रतिज्ञां कृत्वाश्हु नीत्वांऽगारचयं परम् || प्. १७५) पट्टवस्त्रांतरे न्यस्य बबंध सदृढं परम् || ६१ || अतो हि शिवभक्तानां माहात्म्यं को नु वर्ण्यते || शिवभक्तिविहीनं यो ब्राह्मणं वेदपारगम् || ६२ || भक्तचत्वरसंस्थेन शुना साम्यं वदेद्भुवि || स चंडाल इति ज्ञेयो नांत्यजोऽन्त्यज उच्यते || ६३ || विनहालपुरे रम्ये कल्लिदेवोऽतिभक्तिमान् || द्वितीयो हि महीरुद्रः प्रपंचगुणविश्रुतः || ६४ || बभूव तत्पुरे सर्वो विषदंष्ट्रोऽतिभीषणः || पौरान् सर्वान् परित्यज्य देशांतरसमागतान् || ६५ || संदष्ट्वा मारयन्नास प्रत्यहं विधिचोदितः || दृष्ट्वा हनिष्यत्यान्वेष्य रात्रौ सुप्ताञ्जनान् बहून् || ६६ || स एकदा कल्लिदेवं दृष्ट्वा तं भक्तसत्तमम् || दृष्ट्वा तदा कल्लिदेवं मृतः सर्पोऽतिभीषणः || ६७ || तं दृष्ट्वा तत्पुरस्थाश्च जना विस्मयमापिरे || ततः कृपान्वितः सोऽयं जीवयामास चोरगम् || ६८ || ततः सन्नुतसच्छीलः स्वच्छंदो भक्तितत्परः || तद्ग्रामे तस्थिवान् सोऽयं कल्लिवेदो महाशयः || ६९ || तत्पुरे तु तदारभ्य विगतं सर्पजम् भयम् || कल्लिदेवस्ततस्तत्र न्यवसच्छुद्धमानसः || ७० || कस्मिंश्चिद्दिवसे तस्य दासी त्वत्यन्तपावना || अर्घ्योदकं समानेतुं गृहीत्वा भांडमुत्तमम् || ७१ || प्. १७६) शुभ्रवस्त्रधरा तूर्णं ययौ तत्पुरमार्गतः || ततः स द्विजवर्यस्य करः स्पृष्टोऽभवत्तदा || ७२ || आगच्छंतीं च तां दासीं स्पृष्ट्वान् द्विजपुंगवः || सा च निर्भिद्य तद्भांडं निजघान महीतले || ७३ || पुनश्च स्वगृहं गत्वा भस्म धृत्वाऽतिभक्तितः || नवपात्रं समादाय जलमानेतुमुद्यता || ७४ || ततश्च ब्राह्मणाः सर्वे राजवीथ्यां समागताः || अस्पर्शा हि द्विजाः सर्वे सर्ववर्णांतरैः सदा || ७५ || इयं चंडालकुलजा द्विजसंस्पर्शमात्रतः || जलमानियमानं तदपवित्रमभूदिति || ७६ || विनिर्भिद्य घटं वीथ्यां गृहीत्वाऽन्यघटं ततः || वस्त्रेणाच्छाद्य तं कुंभमानयंती विशंकिता || ७७ || एवं विचिन्त्य ते सर्वे क्रोधपूरितचेतसः || आनायय कल्लिदेवं तं शांतचित्तमथोचिरे || ७८ || ततः कौटिल्यकलितास्तमूचुर्द्विजपुंगवाः || पूर्वं तु भवता सर्पो निहितो जीवितो महान् || ७९ || ततः प्रभृति चास्माकमुत्कृष्ट इव लक्ष्यसे || पुराणे धर्मशास्त्रे वा ब्राह्मणानां महात्मनाम् || ८० || निषिद्धोऽन्त्यजसंस्पर्शः कल्लिदेव महामते || न निषिद्धो ह्यन्त्यजानां ब्राह्मणस्पर्श उत्तमः || ८१ || प्. १७७) आहिताग्निर्महाभागे वेदवेदांतपारगः || स्पृष्टवानिति मामद्य कुंभं निर्भिद्य सत्वरम् || ८२ || गृहीत्वाऽन्यघटं दासी जलमानेतुमाययौ || इत्युक्तः कल्लिदेवोऽथ ब्राह्मणान् प्रत्यभाषत || ८३ || भक्तांगणस्थाः श्वानोऽपि त्वादृशान् न स्पृशंति हि || भवद्भिः कृतसंस्पर्शो मदालयनिवासिनाम् || ८४ || दासानामुचितो नेति चोच्यते किं द्विजाधमाः || तस्माद्विचार्यमाणेऽपि भवंतः किं द्विजातयः || ८५ || यो ब्रह्म नित्यं चरति स एव ब्राह्मणः स्मृतः || तस्माद्ब्राह्म्यं न युष्माकं शृणुध्वं ब्राह्मणाधमाः || ८६ || किमेतैर्वचनैः शुन्यैर्ब्रह्मेति परमं किमु || भवद्भिरभिधेयोऽस्य कथ्यते चेदलं ततः || ८७ || परमात्मा परब्रह्म परमेश्वर एव् च || एतैर्युक्तो नामधेयैर्हर एव न चापरः || ८८ || परशब्दः समुत्कर्षपदं भवति निश्चयात् || तदुत्कर्षपदं नास्ति परेषां त्रिदिवौकसाम् || ८९ || हरिश्च परमेष्ठी च परमात्मा कथं भवेत् || वेदेषु शास्त्रनिचये हरिमुख्यास्तु देवताः || ९० || जीवात्मान इति ख्याताः परमात्मा शिवः स्वयम् || सद्भक्ता एव जानंति तद्ब्रह्माव्ययमेव हि || ९१ || हरिब्रह्ममुखाः सर्वे शिवभक्ताः शिवार्चकाः || प्. १७८) सर्वस्मिन् देवतासंघे ब्राह्मणः शिव एव हि || ९२ || त्वं देवेष्विति मंत्रोऽयमित्युवाचैककंठ्यतः || शाखाऽपि तैत्तिरीयेयं शैवप्रकरणे परा || ९३ || ईशानः सर्वविद्यानां भूतानामीश्वरः शिवः || इति ब्रह्माधिपं प्राह ब्रह्मणोऽधिपतिं शिवम् || ९४ || शुद्रत्वं जनने चैव प्रेतत्वं मरणे तथा || उभयं केन मार्गेण गतं ब्रूउत द्विजाधमाः || ९५ || रुद्रं विना क्रियाः कार्याः संति किं भुवनत्रये || श्रुतीनामपि कः कर्ता विना रुद्रेण चास्ति हि || ९६ || शिवसंबंधिनो ये तु त एव ब्राह्मणाः स्मृताः || ततोऽस्मान्संपरित्यज्य शिवनिंदापरायणान् || ९७ || भस्मरुद्राक्षरहितान् लिंगधारणबर्जितान् || ब्राह्मण्यं कथमायाति ब्रूत मे ब्राह्मणाधमाः || ९८ || किमत्र बहुनोक्तेन शिवभक्तांगणस्थितान् || सारमेयान्निकृष्टा हि भवंतो ब्राह्मणाधमाः || ९९ || सृष्टेयं विधिना जातिः शिवसंस्कारवन्हिना || दह्यते शांभवी जातिरपरा याति नो द्विजाः || १०० || अतो हि प्राकृता यूयं वयं शांभवसत्तमाः || खद्योतसूर्ययोर्यावदन्तरं वर्त्तो भुवि || १०१ || प्. १७९) अस्माकमपि युष्माकं वर्तते तादृगंतरम् || इत्युक्ता ब्राह्मणाः सर्वे कल्लिदेवमथाब्रुवन् || १०२ || युष्मद्गृहस्थश्वभ्योऽपि निकृष्टान्नोऽब्रवीद्भवान् || *अतः श्रुतीः सभामध्ये श्वभिश्चाध्यापयस्व भो || १०३ || इत्युक्तः कल्लिदेवोऽपि श्वानमाहूय सत्वरम् || कृपया तं समुद्वीक्ष्य भक्तस्मरणपूर्वकम् || १०४ || वेदानध्यापयामास पश्यत्सु ब्राह्मणेष्वथ || ततस्ते ब्राह्मणाः सर्वे चित्ते विगतकल्मषाः || १०५ || संस्तुत्य विविधैः स्तोत्रैः कल्लिदेवः ववंदिरे || ____________________________________________________ * पाठान्तरे अतः शुनाऽध्यापयस्व श्रुतिमस्मिन् सभांतरे || १०२ || एवमुक्तस्तु तैः सर्वैः शुनकाह्वानतत्परः || उच्छिष्टभोजिनं शंभोः प्रणवोदात्तयोगिनम् || १०३ || दिव्यागमोत्कृष्टधरमपुनर्भववर्तिनम् || धीरताश्चर्यभरितं महादुरितवर्जितम् || १०४ || श्वानमाहूतवान् योगी कल्लिदेवो महामतिः || तदाहूय समागत्य शुनकं प्रणनाम् तम् || १०५ || आगतं श्वानमाश्वास्य प्. १८०) सिद्धराममहाकालमुखशैवगृहांगणे || १०६ || सारमेयाश्च तिष्ठंति भक्तोच्छिष्टोपभोगिनः || स्वोच्छिष्टपूतैस्तैरेव बोधितोऽयं महात्मनः || १०७ || अधुना सारमेयास्ते सर्वलक्षणसंयुतान् || अध्यापयंति चतुरो वेदान् बिज्जलभूपते || १०८ || अतः किं बहुनोक्तेन शिवभक्तांगणस्थितान् || सारमेयान्निकृष्टा हि नृपैते ब्राह्मणाधमाः || १०९ || पराऽभूच्छिवचित्ताख्यः शिवभक्ताग्रणीर्महान् || चंडालो नैव चंडालः पुल्कसौ नैव पुल्कसः || ११० || _________________________________________________ प्राह तं भक्तसत्तमः || यत्र कुत्राऽपि वेदेषु कांडमुद्घाटयाधुना || १०६ || इत्युक्तः शुनकश्चर्मावृतरुद्रोऽतिभक्तितः || बद्धपद्मासनासीनः शिवं नीत्वा हृदम्बुजे || १०७ || आकुचनेनादिशक्तिं संधायानुभवेन च || नाडीनामनुसंधानं नासाग्रे दृष्टिसंस्थितम् || १०८ || कृत्वाऽकलंकमधुरमृदुसत्कलया युजा || तदा सुकरनादोक्तिविशुद्धेन स्वरेण च || १०९ || त्र्यक्षरं तद्बिंदुनादप्रयुक्तांचितवर्णकम् || कांडमुच्चारयामास चोंकारं प्. १८१) शिवेति वाचं यो वक्ति सह तेन वसेद्भुवि || वदेत्तेन सहात्यन्तं सह भुंजीत तेन वै || १११ || इमा हि श्रुतयः सर्वा वदन्ति परमार्थतः || अतो हि शिवभक्तेन येन केन महात्मना || ११२ || अधीतवेदवेदांगाः कृत्वनुष्ठानतत्पराः || शिवभक्तिविहीनाश्च कोटिशो नो समा द्बिजाः || ११३ || इति संस्थापयामास समक्षं प्रतिवादिनाम् || शास्त्रवादकथा चेयमास्तां श्रीशिवचित्तक || ११४ || प्रत्यक्षं दर्शयस्वाद्य ____________________________________________________ विप्रसंसदि || ११० || तदा ते ब्राह्मणाः सर्वे प्रणामं चक्रुरंजसा || उदात्तं चानुदात्तं च स्वरितं प्रचयं तथा || १११ || सांगमेवानुसंधाय पदक्रममनंतरम् || संहितां च जटां चैव चतुर्वेदेषु तत्वतः || ११२ || एकामेकामृचं तेषु पपाठ भषकस्तदा || ततस्तूर्णं समुत्थाय कल्लिदेवो महायशाः || ११३ || शृणुवत्सु सत्सु सर्वेषु प्रोवाचोच्चैरलं त्विति || एवमध्यापयामास ब्राह्मणानां सभांतरे || कल्लिदेवो महाभक्तः शुना वेदान् महत्तरः || ११४ || प्. १८२) महती भक्तिरस्ति चेत् || शिवचित्तस्त्वेवमुक्तः सभामध्ये द्विजोत्तमैः || ११५ || चंडाल शिवभक्तस्य समानीत्वा च पादुकाम् || तुलापात्रे विनिक्षिप्य तथाऽन्यस्मिन् द्विजान् बहून् || ११६ || तुलयामास सहसा शिवभक्ताननुस्मरन् || ततस्तु पादुकापात्रं गतमत्यन्तगौरवम् || ११७ || ब्राह्मणाधारपात्रं तु दौर्बल्यादूर्ध्वमुत्थितम् || तस्मादभक्ता भक्तानां समाः पादुकया नहि || ११८ || गोब्बुरिग्रामनिवसद्बिब्बबाचमहात्मनः || माहात्म्यं को नु वर्ण्येत तथाऽपि प्रोच्यते मया || ११९ || प्रसादं शिवभक्तानां लिंगमूर्तेर्महौजसः || उपभुंजंश्चचारास्मिन् भुवने मर्त्यसंवृते || १२० || अग्रहारेषु ये भक्ता योजनत्रितयान्तरे || वेदोक्तशैवमार्गस्थाः संति शैवव्रतोज्वलाः || १२१ || तेषां रम्यान् गृहान् गत्वा प्रसादग्रहणोत्सुकः || भक्तौघसत्पादरक्षाकल्पिताशेषभूषणः || १२२ || भस्मोद्धूलितसर्वांगो धृतरुद्राक्षमालिकः || वृषध्वजसमाकीर्णं किंकिणीजालसंवृतम् || १२३ || रुद्राक्षमालिकायुक्तं स्वर्णचामरभूषितम् || आनीयमानं वृषभैश्चतुर्भिर्धवलैः शुभैः || १२४ || प्. १८३) गृहीत्वा शकटं रम्यं चक्रे भक्तनमस्क्रियाम् || अतिसंतुष्टहृदयस्तत्प्रसादं महत्तरम् || १२५ || याचयामास सद्भक्त्या बिब्बिआचो महामतिः || प्रसादं भक्तराड्दत्तं निक्षिप्य शकटोदरे || १२६ || शिवभक्तांस्तुवन्बाचः स्वपुरीमाययौ ततः || कालत्रयेऽपि भुंजानः प्रसादं तस्थिवान् पुरे || १२७ || एतद्दृष्ट्वा बिब्बिबाचव्यापारं द्विजपुंगवाः || नानामुखसमुद्भूत भक्तोच्छिष्टस्य भोजनम् || १२८ || ब्राह्मणानामयुक्तं हि ब्राह्मण्यस्य विनाशकृत् || तेनेदं क्रियते कर्म ब्राह्मणेन दुरात्मना || १२९ || इति संचिंतयामसु. संभूय द्विजसत्तमाः || एतस्मिन्नंतरे कश्चिच्छिवभक्तोऽन्त्यजो महान् || १३० || भक्तानां भोजनं चक्रे गोब्बुरिपुरवासिनाम् || यथापूर्वं गृहीत्वाश्हु शकटं वृषभैर्युतम् || १३१ || चंडालभवनं गत्वा प्रसादं सोऽप्यथानयत् || गोब्बूरिपुरमार्गेण गायन् भक्तैः समाययौ || १३२ || आयान्तं ब्राह्मणाः सर्वे बिब्बिबाचं पुरौकसः || दृष्ट्वा विस्मयमापन्नाः प्रोचुः क्रोधसमन्विताः || १३३ || बिब्बबाच वदस्वाद्य सर्वोच्छिष्टमपावनम् || गृहीत्वा शकटेनैव पुरमार्गे चरस्यहो || १३४ || द्विजन्मनामयुक्तं हि चंडालोच्छिष्टभोजनम् || अतस्त्वमपि चंडालो प्. १८४) निर्गच्छाशु पुरोअढुना || १३५ || इति तैर्ब्राह्मणैरुक्तो बिब्बिबाचो जगाद तान् || दुर्मार्गवर्तिनो यूयं शैवद्वेषरताः सदा || १३६ || भक्तानामपि युष्माकं तारतम्यं हि वर्तते || क्व यूयं शिवभक्ताः क्व किं नः कलहकारणम् || १३७ || भक्तलिंगप्रसादान्नमुच्छिष्टमिति शंकया || विरुद्धभाषणरता गच्छध्वं नरकान् प्रति || १३८ || प्रभावं सत्प्रसादस्य न जानंति भवादृशाः || सुधेय शिवभक्तानामन्येषां विषमुल्बणम् || १३९ || असमर्थो मदग्रे तु संस्थातुं पापकर्मिणः || तिष्ठेयुर्यदि निर्भीकाः शलभानिव पावकः || १४० || दहिष्यामि महावेगात्सत्यं सत्यं मयोदितम् || इत्युक्ता ब्राह्मणास्तेन क्रोधकुलितचेतसः || १४१ || छेदितव्यो हि शकटस्ताडितव्यो वृषभध्वजः || रज्जवश्छेदितव्याश्च ताडितव्यो द्विजाधमः || १४२ || दिक्षु क्षिपत चोच्छिष्टमन्नं लोकविरर्हितम् || एवं संभाषमाणास्तु परिवार्य च तस्थिरे || १४३ || ततस्तु बिब्बिबाचोऽयं मंदं मंदं हसन् स्वयम् || प्रसादाच्छादकं वस्त्रमपसारितवांस्तदा || १४४ || ततो भक्तप्रसादोऽयं पावककृतिभीषणः || शिवभालाक्षजो वन्हिः पुरत्रयमिवोज्वलः || १४५ || प्. १८५) ददाह ब्राह्मणान् सर्वान् सुपुत्रान् सगृहान् क्षणात् || तद्दृष्ट्वा बिब्बिबाचस्य माहात्म्यमतिभीषणम् || १४६ || शिवभक्ता महात्मानो ननृतुर्विस्मितास्तदा || भययुक्तास्ततः सर्वे हतशेषाः पुरौकसः || १४७ || अब्रह्मण्यं ब्रुवन्तश्च बाचं तमिदमूचिरे || अनर्थान् दुष्टहृदयान् क्रूरकर्मरतान् पशून् || १४८ || शठान् विनष्टमनसो भ्रष्टान् मानलज्जापराङ्मुखान् || सन्मार्गदूषकन्निंद्यान् सदसज्ज्ञानवर्जितान् || १४९ || शिवभक्तप्रसादान्नमाहात्म्यज्ञानवर्जितान् || रक्ष रक्षेति सहसा गलबद्धाम्बरास्ततः || १५० || प्रणेमुर्विविधैः स्तोत्रैस्तुष्टुवुश्च सहस्रशः || ततः कृपाविष्टमना आश्वास्यैतान् द्विजाधमान् || १५१ || कृताञ्जलिपुटो भूत्वा तस्थौ तत्रातिभक्तिमान् || कृशानुभावमुत्सृज्य प्रसादान्नं महत्तरम् || १५२ || स्वस्वरूपं समास्थाय यथापूर्वमतोष्ठत | ततो हतान् ब्राह्मणांश्च जीवयामास तत्क्षणात् || १५३ || दग्धा गृहा यथापूर्वमतिष्ठन् शोभनास्ततः | अतो बिज्जलभूपाल् कितीटार्चितपादुक || १५४ || चंडालः शिवभक्तश्चेत्स एव ब्रह्मणोत्तमः || शिवभक्तिविहीनश्चेद्ब्राह्मणो ह्यन्त्यजः स्मृतः || १५५ || एवमेवैक कंठ्येन श्रुतयोऽपि वदन्ति हि || एतानवेहि प्. १८६) चंडालान् द्विजवेषधरान् प्रभो || १५६ || आकर्ण्य चैतद्वचनं महापातकनाशनम् || वेणुपात्रविनिर्मातुश्चन्नस्य भवने शिवः || १५७ || पपावत्यन्तसंप्रीत्या कांजीरमतिपावनम् || अतो भक्तांश्च चंडाला इति वक्तुं न शक्यते || १५८ || भक्तनिंदापरान् मूर्खान् शीघ्रं निर्यासय द्विजान् || पुरा मादरदूडाख्यः शिवभक्तः प्रतापवान् || १५९ || माहात्म्यं तस्य वक्ष्यामि शृणु बिज्जलभूपते || विदर्भविषये कश्चिद्ब्राह्मणो वेदपारगः || १६० || स कुष्ठरोगनिर्भिन्नशीर्यमाणकलेवरः || पशुसंरक्षणव्यग्रो ययौ विपिनमुल्बणम् || १६१ || आगच्छन् पशुभिः साकं दण्डपाणिर्यदृच्छया || मार्गं मादरदूडस्य मज्जनोदकसंप्लुतम् || १६२ || पस्पर्श पदभ्यां तत्पंकमेलनाच्चरणद्वयम् || विहीनं कुष्ठरोगेण जातं कमलसुंदरम् || १६३ || प्रातः परेद्युस्तद्दृष्ट्वा विस्मयाकुलमानसः || पुनर्गत्वा च तत्पंकदेशमत्यन्त भक्तिमान् || १६४ || अलुठत्सर्वमर्त्येषु पश्यत्सु द्विजपुंगवः || कुष्ठरोगस्तत्प्रभावात्क्षणेनैव शशाम सः || १६५ || ततो दिव्यतनुर्दूडभक्तं प्. १८७) सम्यङ्ननाम सः || मनोहराख्यभक्तस्य पादोदकनिषेवणात् || १६६ || कुष्ठरोगसमाक्रांतमादित्यस्य कलेवरम् || प्रपेदे रूपमतुलमिति वृद्धमुखाच्छ्रुतम् || १६७ || अद्य मादरदूडस्य दृष्टं माहात्म्यमुत्तमम् || प्रशंसुर्मानवाः सर्वे दूडभक्तं महोज्वलम् || १६८ || ये कुष्ठरोगदुःखार्तास्तिष्ठन्त्यत्र महीतले || तन्मज्जनाम्बुपंकेन रोगहीनाश्च तेऽभवन् || १६९ || एतत्त्वया न श्रुतं किं वद मे बिज्जल प्रभो || पुरा बाणसभिमाख्यः शिवभक्तो जितेंद्रियः || १७० || स्वपादरेणुभैषज्यात् सर्वेषां कुष्ठरोगिणाम् || शरीराणि चकाराशु रोगहीनान्यनेकशः || १७१ || श्वपचो नाम सद्भक्तः शिवभक्तार्चनोत्सुकः || नानाशाकरसोपेतं पाकं कुर्वन्नुवास् सः || १७२ || एतस्मिन्नंतरे कश्चित्सामवेदी द्विजोत्तमः || हठयोगाभिनिरतो ययौ गगनमार्गतः || १७३ || श्वपचोऽपि विदित्वैतद्गमनं सामवेदिनः || तच्छायासंक्रमभयात् पिदधे पाकभांडकान् || १७४ || पादत्राणैस्तु भक्तानां प्राचीनैर्नूतनैरपि || गच्छन्वियत्पथेनायं चुकोप द्विजपुम्गवः || १७५ || तत्कोपाद्भग्नयोगोऽयं देववासाद्वियत्पथात् || निपपातावनेर्मूर्ध्नि गच्छन् पंगुरिव क्षणात् || १७६ || तत उद्भूतसंस्कारः प्. १८८) श्वपचं प्रणनाम सः || तमाद्दीक्षां परां लब्ध्वा लिंगधारणसंयुताम् || १७७ || तत्प्रसादं च भुक्त्वाश्हु पादोदकपुरःसरम् || षट्त्रिशद्भिर्जनपदैः सह शैवपदं ययौ || १७८ || अतः पुरातनांस्त्यक्त्वा नायं मार्गः कृतोऽधुना || श्वपचः शिवभक्तश्चेत्स एव ब्राह्मणोत्तमः || ब्राह्मणो भक्तिहीनश्चेन्निकृष्टः श्वपचादपि || १७९ || ये पठन्त्येतदध्यायं भक्तमाहात्म्यवाचकम् || ते यान्ति परमं स्थानं पुनरावृत्तिवर्जितम् || १८० || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे स्कंदागस्त्यसंवादे सप्तत्रिंशोऽध्यायः || प्. १८९) अथ अष्टत्रिंशतितमोऽध्यायः अगस्त्यः || षडानन महाभाग भक्तमाहात्म्यमुत्तमम् || पुनश्च श्रोतुमिच्छामि कृपया वद मे प्रभो || १ || कुमारः || एवं बिज्जलभूपाय निरूप्य बसवः पुनः || शिवभक्तौघमाहात्म्यं वक्तुं समुपचक्रमे || २ || वल्लकीनामनगरे शिवभक्तनिषेविते || तत्रासीदुद्भटः कश्चिदाराध्यो भक्तसत्तमः || ३ || वरभोजमहीपालं दीक्षयामास शास्त्रतः || वेदशास्त्रपुराणौघैः सर्वान्निर्जित्य वादिनः || ४ || पारम्यं स्थापयामास शिवस्य परमात्मनः || चोम्मांबाख्यां तया तस्थौ यथासुखम् || ततस्तु ब्राह्मणाः सर्वे राजनमिदमब्रुवन् || ६ || उद्भटाराध्यनामाऽयं स्वगुरुः शास्त्रकोविदः || अकुलीनैश्च भक्तौघैः सहवासपरोऽभवत् || ७ || इति द्विजैर्बोध्यमानो राजाऽपि गुरुभक्तिमान् || तद्वाक्यान्यगणययेव यथापूर्वमवर्तत || ८ || ततश्च परमेशोऽपि सांबश्चंद्रार्धशेखरः || उद्भटाराध्यसद्भक्तिं प्रकटीकर्तुमिच्छया || ९ || उद्भटं मारयामास तपःशीलसमन्वितम् || प्. १९०) ततस्तद्वांधवाः सर्वे ददहुस्तत्कलेवरम् || १० || तस्य स्मशाननिकटे वटवृक्षो महानभूत् || संख्यातीताश्च वेताला न्यवसन्वटभूरुहे || ११ || तदंगधूमसंबंधात्संत्यज्य स्वपिशाचताम् || दिव्यदेहधराः सन्तो ह्यगमञ्च्छांभवं पदम् || १२ || तस्मिन् पिशाचसंघे तु कश्चिद्वेतालसत्तमः || अत्यंतदूरमाहारं ययौ संपादितुं स्वयम् || १३ || सोऽप्यागत्य पिशाचेशो न ददर्श स्वकाञ्जनान् || अतिदुःखसमाक्रान्तो रुरोदोच्चैरनाथवत् || १४ || श्रुत्वैतद्रोदनं भूपोऽप्याययौ विस्मितस्तदा || ततस्तं प्राह भूपालः किमर्थं रुदते भवान् || १५ || एवं ब्रुवन्तं राजानं पिशाचः पुनरब्रवीत् || सहस्रद्वादशाब्दानामवधीकृत्य भूपते || १६ || असंख्याताश्च वेताला न्यवसन्वटभूरुहे || उद्भाटाराध्यमरणं प्रतीक्षन्तो महीतले || १७ || आहारवांच्छया सोऽहं गतवान्विपिनान्तरम् || तदंगधूमसंपर्काच्छिष्टाः सर्वे गताः परम् || १८ || शिवस्य स्थानमतुलं कैलासाख्यं महोहरम् || बहुकालकृतो यत्नो ममाद्य विफलीकृतः || १९ || तरिष्यामि कथं वाऽहं दुःखसागरमुल्बणम् || मययस्ति चेद्दया राजन् काष्ठान्यानीय पावकम् || २० || प्. १९१) स्मशाने चोद्भटस्यास्य पुनः प्रज्वलितं कुरु || तदंगधूमसंपर्काद्वटं निर्भिद्य सत्वरम् || २१ || जनेष्वेते.उ पश्यत्सु यास्येऽहं शिवसन्निधिम् || पिशाचेनैवमुक्तस्तु राजा सर्वं तथाऽकरोत् || २२ || पिशाचो वटवृक्षेण जनैर्भूपपुरोगमैः || दिव्यं विमानमारुह्य कैलासं सहसा ययौ || २३ || एतदुद्भटमाहात्म्यं त्रिषु लोकेषु विश्रुतम् || किं त्वया न श्रुतं पूर्वं बिज्जल क्षोणिबल्लभ || २४ || त्रिलोचनस्य भक्तोऽभूत्कश्चिच्छैवार्चनोत्सुकः || प्राकृतानां च सर्वेषा. भविनां च महारिपुः || २५ || द्विजं पुराणवक्तारं समामंत्र्येदमब्रवीत् || पुराणभट्ट दुर्बुद्धे शिवो ब्रह्मकपालधृत् || २६ || सदा चरति भिक्षार्थमिति त्वं प्रतिभाषसे || विष्वक्सेनशिरश्छिन्नं शिवेनैव महात्मना || २७ || इति पौराणिकीं गाथां कदाऽपि न वदस्यहो || विष्णुश्च वामनो भूत्वा पादत्रयमितां भुवम् || २८ || याचयित्वा बलिं पद्भ्यां सप्तलोकानमानयत् || पादमूर्ध्वं प्रसार्यैकं बिभिदेऽजांडखर्परम् || २९ || एवं त्वं भाषसे नित्यं ततश्चंद्रार्धशेखरः || शिरश्चिच्छेद तस्येति कथां वा न वदस्यहो || ३० || वाराणस्यां च प्. १९२) व्यासोऽपि न दैवं केशवात्परम् || भुजमुद्यम्य सहसा इत्येवं भाषते भवान् || ३१ || समागत्य तदा नंदी भुजस्तम्भं चकार सः || ततस्तु लब्धविज्ञानो मुनीनां च सभांतरे || ३२ || पुनः प्रोवाच शांतात्मा न दैवं शंकरात् परम् || एवं प्रसिद्धामाद्यन्तकथां च न वदस्यहो || ३३ || दक्षप्रजापतिः पूर्वं परित्यज्य सदाशिवम् || क्रतोरधिपतिं विष्णुमकरोदिति भाषसे || ३४ || वोष्णोश्च यज्ञमूर्तेश्च सर्वेषां च दिवौकसाम् || छिन्नानि मस्तकानीति कथां वा न वदस्यहो || ३५ || नृसिंहरूपमास्थाय हिरण्याक्षं महाऽसुरम् || संजघानेति वदसि सर्वलोकैकभीषणम् || ३६ || ततः सदाशिवः साक्षाच्छारभं रूपमास्थितः || नृसिंहं संजघानेति कथां त्वं न वदस्यहो || ३७ || चराचरात्मकं पूर्णं सर्वं विष्णुमयं जगत् || एवं प्रलपसे नित्यं संहर्ता जगतः शिवः || ३८ || देवासुरानुविद्धस्य कथां च न वदस्यहो || जगतामपि सर्वेषां कर्ता नारायणः परः || ३९ || एवं संभाषसे नित्यं निर्भीतस्त्वं सभान्तरे || शिवो नारायणस्यास्य कर्तेति न वदस्यहो || ४० || अतः पुराणभट्ट त्वं पक्षपाती न सत्यवाक् || प्. १९३) इत्युक्त्वा श्रीकक्कभक्तः शिरच्छेद सत्वरम् || ४१ || एतत्द्विजादयः सर्वे किं न जानंति भो नृप || तथा केंबाविनगरे भोगाख्यो भक्तसत्तमः || ४२ || अर्चयामास सद्भक्तानन्नज्यापूपपायसैः || परीक्षितुं तस्य भक्तिं मृतगोवत्सभारभृत् || ४३ || शैववेषधरः शंभुस्तद्भक्तान्तिकमाययौ || प्रत्युत्थायाभिवाद्यैनं भोगभक्तोऽविशंकितः || ४४ || तत्स्कंधस्थं मृतं वत्सं गृहीत्वा गृहमानयत् || क्षणं विश्रम्य तद्भक्तो भोगं प्राहाविशंकितः || ४५ || अहमेकं तु गोवत्संभक्षयाम्यन्वहं परम् || मया प्रतिश्रुतं चैतद्व्रतं शैवामरद्रुमम् || ४६ || पाचयस्वाद्य गोवत्सं भोक्ष्येऽहं त्वद्गृहांतरे || तथेति भोगभक्तोऽपि नाना परिकरैः सह || ४७ || गोवत्सपललं पक्वं कारयामास भक्तितः || ततस्तु भोजने जाते ब्राह्मणाः पुरवासिनः || ४८ || दृढदंडधराः सर्वे भोगभक्तजिघांसया || क्रोशन्तस्ताडयेत्युच्चैर्भोगं घातय सत्वरम् || ४९ || तद्गृहान् परिवार्याशु तस्थिरे क्रोधघूर्णिताः || तदन्तरे महादेवस्तूर्णमेव तिरोदधे || ५० || ततस्तु भोगभक्तोऽपि प्राहेदं ब्राह्मणाधमान् || युष्माकं प्. १९४) शिवभक्तानां गृहाः पुण्यतमा इमे || ५१ || न प्रवेष्टुं सदा योग्यं यज्ञशालाः शुनामिव || निंदन्ति शिवभक्तान् ये ते यान्ति नरकान् बहून् || ५२ || ये निंदन्ति महादेवं शिवभक्तान् विशेषतः || तेषां पंक्तौ न भुंजीत सहवासं च नाचरेत् || ५३ || एवं वदन्ति श्रुतयः पुराणैश्चागमैः सह || अतः संत्यज्य गच्छामो वयमेवाविशंकिताः || ५४ || एवमुक्त्वा भोगभक्तो निर्ययौ नगरात्स्वयम् || शिवालये तु तिष्ठंति यानि लिंगानि तत्पुरे || ५५ || पूजार्थमितरैश्चैव यानि तेषां गृहांतरे || तानि सर्वाणि लिंगानि तेन साकं विनिर्ययुः || ५६ || एवं विविधलिंगैश्च भोगः सन् परिवारितः || भक्तौघैर्गीयमानः सन् यदा भोगो विनिर्ययौ || ५७ || तदा पुरौकसां लक्ष्मीर्भक्तैः सह विनिर्ययौ || शून्यतामगमतुश्च चकंपे वसुधा ततः || ५८ || तदानीं पतितान्यासन्नक्षत्राणि महीतले || वृक्षाश्च भूमौ पतिता लताभिः परिवारिताः || ५९ || पुरं तदंधकारेण महता परिवारितम् || गृहस्थितं चान्नजातं बभूव कृमिसंकुलम् || ६० || वापीकूपतटाकाद्या जलशून्या बभुविरे || फलपुष्पविहीनाश्च गृहारामास्ततोऽभवन् || ६१ || प्. १९५) तद्राजधानीमध्ये तु रुरुद्र्श्च शिवा भृशम् || उल्काश्च पतितास्तत्र वन्हयः शमितास्तदा || ६२ || संजज्ञिरे महोत्पाता ह्येवमाद्याः सहस्रशः || एवं शून्यतमां दृष्ट्वा पुरीं तत्पुरवासिनः || ६३ || भोगभक्तांतिकं गत्वा साष्टांगं प्रणिपत्य तम् || सापराधांस्तथा चास्मांस्त्राहि त्राहीति चावदन् || ६४ || ततस्तु भोगभक्तोऽपि प्रार्थ्यमानः पुरस्थितैः || पुनः समाययौ तूर्णं दयारसपरिप्लुतः || ६५ || ततस्तु शिवलिंगानि तद्भक्तेन समाययौः || स्वल्पलिंगं तु विस्तीर्णे पीठे लिंगं महत्तरम् || ६६ || स्वल्पपीठे श्तितिं प्राप्य व्युत्क्रमेणाभवत्तदा || एतल्लिंगानि तत्साक्ष्यं सर्वेषां चक्रिरे भृशम् || ६७ || उत्पातनिचयस्तूर्णं शांतिमाप पुरे ततः || कर्तुं विश्वमकर्तुं वाऽप्यन्यथा कर्तुमेव वा || ६८ || समर्थाः शिवभक्ता हि सत्यं बिज्जलभूपते || कुलाकुलविचारोऽयं न कर्तव्यस्त्वया प्रभो || ६९ || राजन् पुरा गुणोपेतां गुड्डाम्बां लोकपावनीम् || शिवभक्तार्चनोत्कंठांनित्यलिंगार्चनोत्सुकाम् || ७० || एनां कुष्ठरुजाक्रान्तां शीर्यमाणकलेवराम् || आयान्तीं पुरमार्गेण ददृशुर्भाह्मणाधमाः || ७१ || भयमुत्सृज्य सहसा किमर्थं प्. १९६) ग्राममध्यतः || कथमायाति भवतीत्यूर्चुर्ब्राह्मणसत्तमाः || ७२ || शिवभक्ताऽपि तान् प्राह कोपप्रस्फुरिताधरा || अहं सौराष्ट्रसोमेशं गत्वा संपूज्य यत्नतः || ७३ || लभामहे पुनर्गात्रं सर्वावयवसुंदरम् || ततो विनिर्ययौ तूर्णं सौराष्ट्रनगरं प्रति || ७४ || मार्गे तस्याः पदद्वन्द्वृमासीच्चरितुमक्षमम् || ततस्तु जानुयुग्मेन ययौ सा भक्तितत्परा || ७५ || जानुयुग्मं तथैवासीद्गमनायाक्षमं परम् || ततो लुठन्ती वनिता गन्तुं समुपचक्रमे || ७६ || ततः शिवो दयाविष्टो दिव्यमूर्तिधरः परः || आगत्य तां च दिव्यांगीं चक्रे सौराष्ट्रनायकः || ७७ || अयि भक्तकुलोत्तुंगे वरं वरय सत्वरम् || इत्युक्त्वा सा च वनिता पुनः प्रोवाच शंकरम् || ७८ || विम्न्मयांग महाभाग देवदेव त्रिलोचन || त्वत्पादकमलं दृष्ट्वा संप्राप्ताऽस्मि कृतार्थताम् || ७९ || त्वमत्र तिष्ठ भोः स्वामिन्निदमेव वरो मम || ततः प्रभृति सोमेशः कालिंदीपुरसंस्थितः || ८० || तदारभ्य च गुड्डाम्बाकीर्तिलोकेषु विश्रुता || ये ब्रह्मणाः पुरा चैनामपहासं तु चक्रिरे || ८१ || तेषां गात्राणि सर्वाणि कुष्ठांगानि बभूविरे || अतो हि शिवभक्तानां प्. १९७) दौष्कुल्यं न विगण्यते || ८२ || शिलामेकां समादाय संस्करोति यथाविधि || संस्कारानंतरं साशील्लिंगं नासीच्छिला नृप || ८३ || तथैव दुष्कुलो मर्त्यः शिवसंस्कारसंस्कृतः || स्वकुलं च परित्यज्य भक्तो भवति निश्चयात् || ८४ || तस्मादेनं च चंडाल इति बुध्यस्व मा वृथा || कुलं हि शिवभक्तानां शीलं मा गणय प्रभो || ८५ || अतोऽस्मादधिकं पापं नास्ति नास्ति महीपते || कीटो हि भ्रमरासक्तो भ्रमरो भवति ध्रुवम् || ८६ || चंडालः शिवभक्तश्चेच्छिव एव न संशयः || यथा रसस्य संस्पर्शात्ताम्रं भवति कांचनम् || ८७ || तथेशदीक्षया मर्त्यः शिवो भवति निश्चयात् || यथैव कच्चरे वस्त्रे बद्धं रत्नं महत्तरम् || ८८ || न दुष्टभावं भजते न तेजस्त्यजति स्वयम् || तथैव शिवभक्तोऽपि चंडालभवने स्थितः || ८९ || पावित्र्यं न जहात्येव यथिअवाग्निर्यथाशुगः || यथा पंकोद्भवं पद्मं पंकवन्न हि निंद्यते || ९० || यथा काष्ठोद्भवो वन्हिः काष्ठभावं जहाति हि || तथैव शिवभक्तोऽपि स्वकुलं स्यज्ति स्वयम् || ९१ || ब्राह्मणानां गुरुर्जातो व्यासो धीवरजातमजः || वसिष्ठश्चोर्वशीपुत्रो जातो प्. १९८) ब्राहमणपुंगवः || ९२ || मातंगीगर्भसंभूतो मतंगोऽभून्महामुनिः || मंडूक शुकमुख्यानां ये तिरश्चां समुद्भवाः || ९३ || ते महामुनयो जाताः शिवभक्त्यैव बिज्जल || एवच्छ्रुत्वा बिज्जलोऽपि क्रोधघूर्णितलोचनः || ९४ || प्राह गंभीरया वाचा बसवं स्फुरिताधरः || एवं प्रलपसे नित्यमसंबद्धं सभान्तरे || ९५ || शिवभक्तांगसंभेदे क्षीरं किं स्रवते परम् || छिन्नेष्वितरदेहेषु रक्तं किं स्रवते परम् || ९६ || ततस्तु बिज्जलं प्राह बसवो भक्तसत्तमः || शिवद्रोहपरैरेतैर्भस्मोद्धूलनवर्जितैः || ९७ || त्यक्तपंचाक्षरीमंत्रैः शिवसंस्कारवर्जितैः || गौतमादिमहाशापनिर्दग्धैः क्रूरकर्मभिः || ९८ || विवादोऽभूत्सभामध्ये ममाद्य नृपपुंगव || एतद्दोषनिवृत्त्यर्थ त्वदुक्तेनैव वर्त्मना || ९९ || शिवनागस्य देहेऽस्मिन् दर्शयामि पयः परम् || दर्शनीयं जलं विप्रैः सोमयाजिकलेवरात् || १०० || नो चोदिमान् द्विजान् सर्वान् स्वपुरप्रान्तभूमिषु || शूलेषु निक्षिपाद्य त्वं दयादाक्षिण्यवर्जितः || १०१ || एवमुक्त्वा तु बसवः शिवनागकरं ततः || प्रहसन्न्सिना प्. १९९) तूर्णं चिच्छेदं शिवभक्तराट् || १०२ || तत्करात्प्रसृतं क्षीरं नदीरूपं जगाम तत् || यथा बसवभक्ताख्यकामधेनोःस्तनान्तरं || १०३ || निर्भिद्य संसृतं क्षीरं चतुर्दिक्षु प्रकाशते || तथैव शिवनागस्य करक्षीरं बभौतदा || १०४ || पुरेशः करिकालस्य स्वर्णवृष्टिं ददौ यथा || तथैव बसवेशस्य क्षीरवृष्टिं ददौ शिवः || १०५ || इति संतुष्टुवुः सर्वे बिज्जलास्थानवासिनः || मलत्रयविनिर्मुक्तशैवांगेषु स्थितं पयः || १०६ || अस्मत्प्राकृदेहेषु रक्तमेवावतिष्ठते || केचिदेवं तुष्टुवुस्ते सभायां ये विनिर्जिताः || १०७ || ततो बिज्जलभूपालो भक्तौघपरिवारितम् || शिवनागं ननामातिभक्त्या विनयतत्परः || १०८ || ततस्तु ब्राह्मणाः सर्वे बसवेशमथाब्रुवन् || अपराधसमाक्रांतान् सूक्ष्मदृष्टिविवर्जितान् || १०९ || अनेककालविभ्राजन्मोहाकुलितचेतसः || रक्ष रक्षेति सहसा प्रणेमुर्दऽडवद्भुवि || ११० || बसवः प्रहसन्मंदमनुगृह्य द्विजांस्तदा || शिवनागं गजारूढं कृत्वा स्वगृहमाययौ || १११ || वृत्तम् || एतच्चरित्रं शिवनागमस्य प्. २००) शृण्वंति भक्त्या ध्रुवचेतसो ये || भुक्त्वेह भोगान्सकलान्यथेच्छं ते यांति दिव्यं पदमीश्वरस्य || ११२ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे कुमारागस्त्यसंवादे शिवनागदेवकथावर्णनन्नामाष्टत्रिंशोऽध्यायः || प्. २०१) अथ एकोनचत्वारिंशोष्ध्यायः अगस्त्यः || एवं श्रुतं मया सर्वं भक्ताधिक्यं महत्तरम् || पुनश्च श्रोतुमिच्छामि तदेव वद मे प्रभो || १ || स्कंदः || ततः कल्याणनगरे बसवेश्वरमंदिरे || रुद्रतुल्या महात्मानो भक्ताश्चासन् महोहरे || २ || माचश्च मादिराजश्च बाचिराजो महत्तरः || श्रीमान् बडवरब्रह्मा किंनरब्रह्मपुंगवः || ३ || केशिराजाभिधो भक्तः कन्नदब्रह्मसत्तमः || कक्कः श्रीकल्लिदेवश्च श्रीमान्मौलिगमादराट् || ४ || मुसुडीचमडस्तद्वच्छूलब्रह्मसंज्ञकः || तथैव सूर्यचमड आंध्रब्रह्माभिधो महान् || ५ || कलिकेतब्रह्मभक्तः शांतदेवो महामतिः || तथा तेल्गेशमसणस्तथैवैकांतरामयः || ६ || ऽ बोम्मः श्रीमान्भासवंतः ऽ केशाख्यो भक्तसत्तमः || उत्तमांगदकेशी च होन्ननामा तथैव च || ७ || गंडगत्तरिनाचाख्यः शृंगिबोम्मस्तथैव च || कालाग्निरुद्रश्च गुरुश्चंडनामा महत्तरः || ८ || श्रीमान् मुड्गिरिमल्लेशः संगमेशस्तथैव च || कद्रुरेम्मो महाकालः पदुमर्सस्तपोधनः || ९ || पुराणभट्टो वोप्रेंद्रस्तथा वरदरामकः || योगिदेवश्चिक्कदेवो मुंडब्रह्मा तथैव च || १० || तथैवोदयमर्सश्च होन्नो धवल एव च || तथैव बोंतादेवी च सारिनायस्तपोधनः || ११ || प्. २०१) श्रीमान सवरचिक्काख्यो भास्करो मुनिसत्तमः || श्रीमद्बासनभीमश्च गोणिमल्लस्तथैव च || १२ || शिवमुद्दकुले जातो देवनामाऽतिभक्तिमान् || शिवरात्रिवरतासक्तः संगमेशो दृढव्रतः || १३ || अतिमुक्ताख्यभक्तश्च नंदीशश्चारमस्तथा || खंडिदेवो मिंडसोमो गोग्गः कोटीशचामकः || १४ || हाटकेशकुलोद्भूतो ब्रह्मा चैव महाबलः || श्रीमान् धूर्जटी केशी च दुम्मनब्रह्मसंज्ञिकः || १५ || कपिलेशश्च विश्वेशोयमी संगस्तथैव च || नोणमिशान्वये जातश्चिक्कभक्तो महाम्तिः || १६ || गणदासान्वये जातो मादो भक्तिमतां वरः || कटमल्लो नुल्कचंद अल्लोमधुवयस्तथा || १७ || मुरुहाट्टकुले जातः केतनामातिभक्तिमान् || हल्लो गोड्डलमल्लश्च शिवनागस्तथैव च || १८ || तथा हिरियहल्लश्च लेंकब्रह्मातिनैष्ठिकः || गिरिगीटकुले जाता सिंगांबाऽत्यन्तपावनी || १९ || तथा गुडुबकालांबा हीलब्रह्माऽतिपावनः || तथा निमिषकेशी च बालब्रह्मा दृढव्रतः || २० || करवालब्रह्मनामा हिंडिब्रह्मा तथैव च || प्रतिहारी बाचिराजः कपिलो ब्रह्मसंज्ञिकः || २१ || अंकब्रह्मा मायिदेवो वीरकल्लस्तथैव च || श्रीमान्विमलदेवश्च वीरभासस्तथैव च || २२ || वीरनागो प्. २०३) वीरदेवो वीरब्रह्माऽतिभक्तिमान् || वीरलिंगो वीरमारश्चिब्रह्मा सुनिर्मलः || २३ || चिक्करब्रह्मभक्त श्रीगीशाख्यस्तथैव च || येलेशब्रह्मभक्तश्च शरणाख्यस्तपोधनः || २४ || मेलसब्रह्मदेवश्च वेदवेदांगपारगः || बंडिकारकुलोत्पन्नः कूल्लोऽत्यन्तविशुधधीः || २५ || तथा वकरकेताख्यो भक्तो निर्मलमानसः || निजलिंगश्चिक्कनामा तथा निर्लज्जशांतकः || २६ || निजभावस्तथा योगी नित्यनेमदमैलराट् || इलेयालब्रह्मनामा तथा संकदबंककः || २७ || अनिमेषोऽमृतः श्रीमान् शिवभक्तिविशारदः || एवमन्ये महात्मनो दृष्टप्रत्ययदर्शकाः || २८ || प्रसादभोगिनः सर्वे लिंगांगैक्यकलाविदः || शृण्वन्तो भक्तमाहात्म्यं भक्तालापैकतत्परा || २९ || पाषंडाननुगृण्हंतश्चिन्मयया शिवदीक्षया || वदन्तः शिवमाहात्म्यमन्योन्यं हृष्टचेतसः || ३० || सर्वे सुखेन न्यवसन् कल्याणनगरे शुभे || शिवद्विजाधमाः सर्वे प्राकृता लिंगवर्जिताः || ३१ || बिज्जलांतिकमासाद्य चुक्रुशुः क्रोधमूर्छिताः || राजंस्तव पुरे रम्ये महोत्पाता विजज्ञिरे || ३२ || श्रीकंठगौरीनाथौ च लोकेशाख्यश्च देवलः || त्रिलोकेशस्तथेशानो द्विजः शांतः शिवद्विजः || ३३ || बोधिता बसवेशेन संजाता लिंगधारिणः || प्. २०४) सर्वं शिवप्रसादान्नं स्वयं भुंजति केवलम् || ३४ || अस्माकमीषदपि ते सर्वदा न ददत्यहो || यथेयमागता वृत्तिरस्माकं बहुकालतः || ३५ || सत्यमेव प्रवक्ष्यामः शृणु बिज्जलभूपते || भूदेववंशजः श्रीमांश्चंडेशो भक्तसत्तमः || ३६ || पशुसंरक्षणव्यग्रो जगामविपिनांतरम् || स सैकतं लिंगमेकं कृत्वा जनमनोहरम् || ३७ || दुग्धैश्च सर्वधेनूनां स्नापयामास भक्तितः || एतद्दृष्ट्वा पिता तस्य लिंगं पादेन चि.क्षिपे || ३८ || चंडेशः सहसोत्थाय जघान पितरं ततः || तदा तस्य प्रसन्नोऽभूद्देवदेवस्त्रिलोचनः || ३९ || प्रसन्नं परमेशानं तुष्ट्वाव विविधैः स्तवैः || ततश्चंडेश्वरः श्रीमान् ययाचे वरमुत्तमम् || ४० || त्वदीयं पावनं शुद्धं प्रसादं परमेश्वर || दातुं त्वमर्हसि मम मयि कारुण्यमस्ति चेत् || ४१ || इति संप्रार्थितो देवस्तस्मै संप्रददौ वरम् || अस्माकं च ददौ चंडः प्रसादं शंकरस्य सः || ४२ || वीरमाहेश्वराः सर्वे बसवेशबलान्विताः || अस्माभिर्विवदन्त्यद्य प्रसादं न ददुर्नृप || ४३ || उद्धरास्मद्वृत्तिमेतां नो चेत् स्त्रीबालपूर्वकम् || प्रविशामोऽनलं क्षिप्रं ज्वलितं च त्वदन्तिके || ४४ || तेषां वचः समाकर्ण्य चंडजानां तदा नृपः || आह्वयामास् बसवं बिज्जलः प्. २०५) क्रोधमूर्छितः || ४५ || समागतं तं बसवं राजा वचनमब्रवीत् || प्रसादभोगिनः सर्वानुत्सृज्याधर्ममार्गतः || ४६ || किमित्यद्य प्रसादान्नं यूयं भुंजथ मे वद || एवमुक्तस्तु बसवो राजानं प्रत्यभाषत || ४७ || चंडदत्तमिति प्रोक्तमेतैस्तत्सत्यमेव हि || स्थावरेष्वेषु लिंगेषु तद्दत्तं शूलपाणिना || ४८ || बाणलिंगे स्फाटिके च रत्ने स्वायंभुवे तथा || चंडेशस्य न भागोऽस्तीत्येवमाहुर्मनीषिणः || ४९ || माहेश्वरप्रसादान्नं ये भुंजंति नराधमाः || ते यांति नरकान् घोरानित्याहुर्मुनिपुंगवाः || ५० || चरलिंगप्रसादेऽस्मिन् सर्वपातकनाशने || अत्यन्तपावने चैषां नाधिकारोऽस्ति तत्त्वतः || ५१ || चरप्रसादे भक्तानां भोक्तुं योग्येऽतिपावने || पापिनां नाधिकारोऽस्ति त्रिमलावृतदेहिनाम् || ५२ || चरलिंगप्रसादान्नमेतेषां पापकर्मिणाम् || दत्तं कदा वा केनापि पूर्वं विमृश भूपते || ५३ || पुनः प्रोचुर्दुरात्मानो निरस्ता अपि मंत्रिणा || वाराणस्यां गयायां च केदारे श्रीनगे तथा || ५४ || सौराष्ट्रे दक्षवाट्यां च वैजनाथेऽतिपावने || सेतौ च कुंभकोणे च गोकर्णे च चिदंबरे || ५५ || शिवप्रसादभागं नो दास्यन्ति प्. २०६) मुनिसत्तमाः || न ददाति भवानेकः प्रसादं बसवेश्वर || ५६ || युष्माभिस्तत्प्रसादो न दत्तश्चेदद्य तत्त्वतः || त्यक्ष्यामोऽसूंस्तव पुरः शिशुबालपुरः सरम् || ५७ || ततो देवलकान् प्राह प्रहसन् बसवेश्वरः || वातेन जीर्णपर्णानि भ्रश्यन्ते न हि पर्वताः || ५८ || भवद्वाक्यैर्वयं सर्वे नेष्यामो भयमुल्बणम् || हरिब्रह्मादयः सर्वे किं गृण्हन्ति परात्परम् || ५९ || भवादृशानां क्षुद्राणां का कथा दुर्बलात्मनाम् || अतश्चरप्रसादान्नं युष्माकं न तु दीयते || ६० || अस्ति चेद्भवतामिच्छा चरलिंगप्रसादके || क्षणं तिष्ठत दास्यामश्चरलिंगप्रसादकम् || ६१ || एवमुक्त्वा तु बसवः पुरस्तात्प्रतिवादिनाम् || सार्पं विषं कालकूटं वत्सनाभं महोज्वलम् || ६२ || विषवृक्षत्वचं चैव ब्रह्मपुत्रं हलाहलम् || अतिक्रूरविषाण्येवमादीन्यत्यन्तवेगतः || ६३ || आनयामास बसवः शिवभक्तैः समावृतः || पेषयामास वेगेन स्वभृत्यैर्बलदर्पितैः || ६४ || एतद्विषौघज्वालाभिरंशुमान्मंदतां गतः || त्रैलोक्य. कंपयामास् चराचरसमाकुलम् || ६५ || पक्षिणो विवृताः सर्वे क्रोशंतो दग्धपक्षकाः || सर्वेऽपि मूर्छिताः संतः पेतुर्नक्षत्रपंक्तयः || ६६ || ब्रह्माऽपि भयमापन्नो दिगीशाश्च चकंपिरे || पुनरुत्पन्नमभवत्कालकूटं प्. २०७) किमंबुधेः || ६७ || शिवेन वा किमुद्वांतमिति देवो जनार्दनः || परमां भीतिमगमदित्थं जाते विषानले || ६८ || निरीक्ष्य बसवेशोऽपि स्वभृत्यौघैः समन्वितः || एवंविधं विषं घोरं निक्षिप्य चषकांतरे || ६९ || हरद्विजान्समाहूय बभाषे बसवेश्वरः || युष्माकमेतद्दास्यामि स्वीकुरुध्वं द्विजाधमाः || ७० || ततस्ते बसवेशानं प्रोचुर्बिज्जलसन्निधौ || भक्ष्यभोज्यरसोपेतं प्रसादान्नं महोज्वलम् || ७१ || त्वं गृहीत्वा भक्तसंघैर्विषमत्यन्तमुल्बणम् || अस्माकं दास्यसे किंवा मारकं चातिभिषणम् || ७२ || यथा कथंचिज्जिवामः कृत्वा पार्वणभोजनम् || पपुर्विषं पुरा के वा शिवं हित्वा नराः सुराः || ७३ || अतस्त्वं भक्तसंघैश्च विषं भक्षय सत्वरम् || जीवितश्चेद्भवानद्य तूष्णीं यास्यामहे वरम् || ७४ || ततस्तु बसवेशोऽपि शिवभक्तः समावृतः || आज्ञप्तो बिज्जलेनापि तूर्यघोषपुरःसरम् || ७५ || पौरैः समावृतः सर्वैर्विषपात्रधरः स्वयम् || शिवालयं समासाद्य पुनः प्रोवाच बिज्जलम् || ७६ || शिवश्चेत्सर्वलोकानां सृष्टिस्थित्यंतकारणम् || भसिते चैव रुद्राक्षे माहात्म्यं वर्तते यदि || ७७ || लिंगार्पितानि वस्तू प्. २०८) नि संत्यक्त्वैव स्ववस्तुताम् || गच्छंति नः प्रसादत्वम् परमानंदकारणम् || ७८ || असंदिग्ध स्वयं स्याच्चेच्छिवभक्तिपरायणः || शिवार्पितं विषं चैतत्सुधाभावं समश्नुते || ७९ || एवमुक्त्वा तु बसवो गृहीत्वा दारुणं विषं || न्यवेदयत्स्वभक्तानामाचार्याणां महात्मनाम् || ८० || ततस्ते स्वीयलिंगानां विनिवेद्यातिभक्तितः || विषं तद्भोजयामासुर्माचिदेवपुरोगमाः || ८१ || गायन्तो नर्तयन्तश्च भाषयन्तः परस्परम् || यावत्स्वोदरपूर्तिः स्यात्तावद्घोरं विषं पपुः || ८२ || ततः स्वभृत्यवर्गस्य गजानां वाजिनां तथा || स्वांतःपुरस्थितानां च दापयामास् तद्विषम् || ८३ || ततः पीतविषाः सर्वे दिव्यदेहा बभूविरे || एतदत्यद्भुतं कर्म ब्रह्मविष्ण्वादि देवताः || ८४ || दृष्ट्वा विस्मयमापन्नाः पुष्पवृष्टिं ववर्षिरे || देवदंदुभयो नेदुर्ननृतुश्चाप्सरो गणाः || ८५ || विद्याधराः किन्नराश्च तुष्टुवुर्बसवेश्वरम् || वसिष्ठवामदेवद्या मुनयो विस्मयं गताः || ८६ || ततो बिज्जलराजोऽयमागत्य बसवांतिकम् || ननाम दण्डवद्भूमौ सामोक्त्या बसवेश्वरम् || ८७ || संसाराख्यमहावल्लीलवित्रात्यन्तपावन || शैवसंस्तुत्य- प्. २०९) मानोद्यच्चरित्रोद्भासितव्रत || ८८ || अतिनिर्मलगात्रार्य सत्प्रसादैकभाजन || अद्वैतोद्घतमत्तेभकुंभोद्भेदमृगाधिप || ८९ || पांचरात्राख्यनीहार समुन्मूलनभास्कर || अशेषशैवसमयप्रवर्तनविचक्षण || ९० || श्रीमत्पंचाक्षरीमंत्ररहस्यज्ञानदीपक || पाषंडभूधरपवे परतत्त्वविशारद || ९१ || शिवाद्वैतमताभिज्ञ शैवागमविशोधक || पुरा सिंधुसमुद्भूत. कालकूल्त्ं महोज्वलम् || ९२ || ग्रसितु. चाक्षमः शंभुः स्वकंठेऽस्थापयत्प्रभुः || त्वयाऽतिदारुणं घोरं कालकूटोपमं परम् || ९३ || निपीतं भक्तसंघैश्च बसवेश महामत् || अतस्तवाद्य माहात्म्यं वर्णितुं कः पुमान् प्रभुः || ९४ || इति पौरजनाः सर्वे तुष्टुवुर्बसवेश्वरम् || ततस्ते देवलाः सर्वेऽप्यागत्य बसवेश्वरम् || ९५ || साष्टांगं प्रणिपत्याशु प्रोचुरंजलिसंयुताः || बसवेश महाभाग भक्तामरमहीरुह || ९६ || अस्माकं ज्ञानहीनानामभयं दारुमर्हसि || दुर्जनानां च संसर्गाद्विरोधोऽपि महात्मभिः || ९७ || अतिश्रेयस्करः प्रोक्तो व्यासाद्यैस्तत्वदर्शिभिः || सर्वेषां प्. २१०) गतिरस्माकं भवनेव कृपानिधिः || ९८ || वृत्तम् || एवं स्तुतो बसवमंत्रिवरो जनौघैर्दत्वाऽभयं स्तुतिमतां च हरद्विजानाम् || आशान्तरप्रसृतकीर्तियुतः स्वगेहान् सद्भक्तसंघकलितः प्रविवेश दिव्यान् || ९९ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे कुमारागस्त्यसंवादे नामैकोनचत्वारिंशोऽध्यायः || प्. २११) अथ चत्वारिंशोऽध्यायः अगस्त्यः || एवं कृत्वा विषक्रीडां बसवेशोऽतिभक्तिमान् || किं चकार स्वभक्तौघैस्तन्मे ब्रूहि षदाननन् || १ || कुमारः || भूयोऽपि तव वक्ष्येऽहं माहात्म्यं बसवेशितुः || यस्य श्रवणमात्रेण मर्त्यो मुच्येत बंधनात् || २ || कल्याणनगरे रम्ये भक्तसंघसमाकुले || जगदेवो नाम मंत्री शिवभक्तार्चनोत्सुकः || ३ || स कदाचिन्महाभागमासाद्य बसवेश्वरम् || अनादररेण्स शाठ्येन यो ददात्योदनं तव || ४ || स संतरति संसारं नात्र कार्या विचारणा || अतोऽहं याचयिष्यामि भक्तं त्वां भक्तवत्सलम् || ५ || भुक्त्वा त्वमद्य मद्गेहष्वनुगृण्हीष्व मां प्रभो || इति संप्रार्थितस्तेन तथेत्यंगीचकार सः || ६ || अशेषशिवभक्तानां यत्नं संतर्पणक्षमम् || कारयित्वा च मध्यान्हे श्राद्धकर्मकसोऽभवत् || ७ || आहूय ब्राह्मणान् भोक्तुमर्चयंस्तिलदर्भकैः || अपसव्योपवीतः सन् तस्थु स्वभवनांतरे || ८ || ततस्तु बसवेशोऽपि प्रेषयामास किंकरान् || ते दृष्ट्वा तस्य तत्कर्म प्रेतयोग्यं जुगुप्सितम् || ९ || शशंसुर्बसवेशाय यथा दृष्टं स्वलोचनैः || प्. २१२) तच्छ्रुत्वा क्रोधताम्राक्षो बसवेशो महामतिः || १० || बुद्धिं चक्रे तदा सोऽयं नागन्तुं तद्गृहान्तिकम् || ज्ञात्वैतज्जगदेवोऽपि बसवेशं पुनर्ययौ || ११ || आगच्छन्तं दूतमुखाच्छ्रुत्वा श्रीबसवेश्वरः || न योग्यं प्रेक्षितुं सोऽयमिति निश्चित्य चेतसा || १२ || बंधयित्वा यवनिकां दुरात्मानमुवाच तम् || त्वं भक्तसंघमध्येऽद्य न योग्यः स्थातुमत्र हि || १३ || शिवलिंगे स्थिते हस्ते सर्वाभीष्टफलप्रदे || क्षुद्रदेवान् किमर्थं त्वम् संपूजयसि मे वद || १४ || चिंतामणौ स्थिते भक्तिनाम्नि सर्वफलप्रदे || वंध्यविंध्योपलग्राही किमर्थं जायते भवान् || १५ || लिंगार्चकानां सर्वेषां पूजनं त्वं विहाय च || कृतवानधमं क्षुद्रधरादेवार्चनं सदा || १६ || पतिव्रतानां नारीणामन्यपुंसंगमो यथा || लिंगार्चकानां सर्वेषां क्षुद्रदेवार्चनं तथा || १७ || न युक्तमिति संप्राहुर्वेदागमविशारदाः || लिंगाभिषेकसलिलसेकसंशुद्धमस्तकः || १८ || द्विजाधमांघ्रिसलिलं किं धारयति मस्तके || लिंगाभिषेकयोग्येन करद्वन्द्वेन सांप्रतं || १९ || किमर्थमकरोतस्त्वं हि क्षुद्रपादाभिषेचनम् || महतां शिवभक्तानां लिंगपूजारतात्मनाम् || २० || प्. २१३) द्विजाधमपदद्वन्द्वं सकृद्वा नार्चितुं क्षमम् || स्वपत्नीभिः स्वपुत्रैश्च तथैकोदरजन्मभिः || २१ || लिंगधारणदीक्षाभिर्युक्तैरत्यन्तपावनैः || सहवासं चरेद्विद्वान् लिंगधारणसंयुतः || २२ || दीक्षापराङ्मुखानेतान् संत्यजेदविचारयन् || विषप्लुतं यथैवानां स्वस्यानर्थकरं स्मृतम् || २३ || बंधवोऽदीक्षतास्तद्वत्स्वस्य नारकदाः खलु || इत्याहुरीश्वरप्रोक्ताः कामिकाद्यागमाः परे || २४ || किमुक्तैर्युक्तिशून्यैश्च महतो लिंगधारिणः || पूर्वशैवस्य संसर्गं विनिंदन्ति शिवागमाः || २५ || अतस्त्वं भक्तिहीनानां शिवनिंदारतात्मनाम् || अर्चनं किंनु कुरुषे दुर्जनानामिदं द्विजैः || २६ || संपर्कं सहवासं वा स्पर्शनं सहभोजनम् || संभाषणं वा मोहेन ये कुर्वन्ति महेश्वराः || २७ || ते यांति नरकान् घोरान् महारौरवसंज्ञकान् || यो दानं कुरुते मोहाद्भविने प्राकृतात्मने || २८ || तद्दानं निष्फलं ज्ञेयं दाता भवति किल्बिषी || विनिंद्य भविपक्वान्नं भक्ता भुंजंति ये भुवि || २९ || ते यांति नरकान् घोरान् नात्र कार्या विचारणा || अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् || ३० || प्. २१४) || एलेशकेतार्यकथा || पुरैलेश्वरकेताख्यः शिवभक्तो महानभूत् || भविसंदर्शनालापस्पर्शनादिपराङ्मुखः || ३१ || गृहस्थतिर्यग्जातीनां पश्वादीनां महीयसां || स्वयं चक्रे प्राणलिंगधारणं च यथाविधि || ३२ || ततस्ते चिन्तयामासुर्भविनः प्रतिवादिनः || न भाष्यत्ययमस्माभिर्न पश्यति न याचते || ३३ || संगृहीतानि भविभिर्बीजान्यावपते न हि || एवंविधं व्रतं सम्यगुवास स चरन् व्रती || ३४ || संभूयास्माभिरधुना व्रतलोपो यथा भवेत् || तथैव यत्नः कर्तव्यश्चेति ते तु द्विजाधमाः || ३५ || व्रतभ्रंशकरोपायान् बहुधा चक्रिरे भृशम् || एलेशकेतस्तान् सर्वान् गणयामास मा भृशम् || ३६ || ततः पापरताः सर्वे बीजोलूकलसंचयम् || अलातपाणयस्तूर्णं ददुहुः पापबुद्धयः || ३७ || प्रातरेलेकेतोऽपि विकृतं च परैः कृतम् || मंदस्मितमुखो भूत्वा दृष्ट्वाशीनिश्चलः स्वयम् || ३८ || ततः स्वकर्षकान् भृत्यानाहूयात्यन्तधैर्यवान् || तद्बीजभस्म चानीय ददावावपितुं ततः || ३९ || उर्वरा फलिता चासीदुप्तबीजेव सत्वरम् || पूर्वं पिल्लालब्रह्माऽपि शिवभक्ताग्रणीः परः || ४० || अनवात्यैव भस्मापि चक्रे भूमिं प्. २१५) फलोज्वलाम् || अतो हि शिवभक्तानां माहात्म्यं केन वर्ण्यते || ४१ || एवं संतुष्टुवुः सर्वे जनास्तद्देशवासिनः || तथाऽप्यसह्यभावेन कलिता ग्रामवासिनः || ४२ || आमंत्र्य तस्करैर्दृप्तैस्तदीयं गोकुलं परम् || प्रेषयामासुरत्यन्तदूरं कीचकपालितम् || ४३ || देशमाहारशिखरनिरुद्धार्ककरं परम् || तत्प्राणलिंगनिचयः स्थितो भक्तगृहे तदा || ४४ || क्षेत्रेषु पन्कसस्येषु समृद्धतृणभूमिषु || स्थिता न खादयामासुर्न पपुः शीतलं जलम् || ४५ || ततः सप्त दिनान्येव व्यतीयुर्गोकुलस्य च || दृष्ट्वा तद्धेनुवृतान्तं चोराश्चिन्तां प्रपेदिरे || ४६ || लोके हि पशवः सर्वे तृणनीरविवर्जिताः || द्वित्रेष्वहस्सु मरणं प्रपद्यन्ते न संशयः || ४७ || बहुष्वपि दिनेष्वेवं गच्छत्स्वपि गवां कुलम् || नाऽयाति नाशं शौष्क्यं वा विचित्रं दृष्टमीदृशम् || ४८ || इति संचिन्त्य ते चोरा गा निन्युर्भक्तमंदिरम् || दृष्ट्वा तदेलेशकेतो भविस्पृष्टं तु गोकुलम् || ४९ || नांगीचकार मतिमान् व्रतभ्रष्टमिदं त्विति || ततस्तु गोकुलं सर्वं स्थितं गोष्ठान्तिके तथा || ५० || न स्वीचक्रे जलं पेयं तृणं दत्तं परैर्जनैः || एतद् दृष्ट्वा पौरजना विस्मयं प्. २१६) प्रतिपेदिरे || ५१ || स्वयोगदृष्ट्या धेनूनां व्रताभ्रंशं समीक्ष्य सः || गृहीतवान् यथापूर्वं गोकुलं स्वांगणस्थितम् || ५२ || एलेशकेतुमाहात्म्यं सर्वेषां विस्मयावहम् || येन विज्ञानहीनाश्च पशवस्तृणखादिनः || ५३ || मनुष्या इव शास्त्रज्ञाः पालयन्ति व्रतं स्वकम् || शिवभक्तौघमाहात्म्यवर्णने कः क्षमो भवेत् || ५४ || विशिष्य तस्य माहात्म्यं वर्णितुं चतुराननः || फणीन्द्रोऽप्यसमर्थोऽभूदितरेषां तु का कथा || ५५ || यदीयं गोकुलं सर्वं क्षुधया परिपीडितम् || आनीयमानं भविभिर्न गृह्णाति तृण्सं वनम् || ५६ || मातॄणां व्रतलोपोष्भूदिति संशयसंवृताः || श्रुत्वाऽऽक्रोशं च मातॄणां नाक्रोशंति पुनः स्वयम् || ५७ || नेच्छंति मातृस्तन्यं च गोवत्साश्च क्षुधार्दिताः || इति प्रशंसिरे सर्वे जना विस्मयतत्पराः || ५८ || || नाचिदेवकथा || सौरदान्वयसंभूतो नाचाख्यो भक्तसत्तमः || कदाचित्तस्य भार्याऽभूद्गर्भलक्षणसंयुता || ५९ || गर्भस्थस्य शिशोर्दीक्षां कृत्वा नाचो यथाविधि || प्. २१७) जायांगे बंधयामास शिशोर्लिंगं महत्तरम् || ६० || संप्राप्ते दशमे मासे प्रसूता तनयद्वयम् || अग्रे जातस्य पुत्रस्य कृत्वा लिंगस्य धारणम् || ६१ || ततो भर्तारमवदत्सूतिका वरवर्णिनी || एक एव हि मद्गर्भे शिशुरस्तीति शंकया || ६२ || मदंगे लिंगमेवैकं त्वया बद्धमनामयम् || इदानीमपरः पुत्रो जातः किं करवाण्यहम् || ६३ || इति प्रोक्तस्तया साध्व्या तामुवाच तपोधनः || लिंगधारणहीनोऽयं द्वितीयस्तनयः प्रिये || ६४ || तमाशु त्यज सुश्रोणि पापं दीक्षाविवर्जितम् || एवं भर्त्रा समादिष्टा पुत्रं तत्याज सुंदरी || ६५ || एवं वृद्धमुखोद्गीताः कथाः किं न श्रुतास्त्वया || जगदेवाख्य मंत्रीश दृष्ट्वा शैवागमान् बहून् || ६६ || वृद्धाचारं परीक्ष्यापि सर्वशिष्टादृतं परम् || अत्यन्तनिंदितं कर्म किमर्थं कृतवानसि || ६७ || शिवार्थपुष्पग्रहणपुष्पपाणिर्द्विजोत्तमः || पुरा चिच्छेद चोडाम्बानासिकामतिसुंदराम् || ६८ || दुष्कर्मावृतचित्तेषु मलत्रययुतेषु च || न तिष्ठति महादेवः शिवभक्तेषु तिष्ठति || ६९ || शैवाचारस्य माहात्म्यं किं जानंति हि पापिनः || दृष्टिहीनस्तु पंथानं कर्णहीनस्तु प्. २१८) गीतिकाम् || ७० || पित्तरोगसमाक्रांतः क्षीरमाधुर्यमुत्तमम् || गंभीर्यमुदधेर्भेको वानरो रत्नदीधितिम् || ७१ || सारमेयो हविः पुण्यं गृध्रः पुष्परसं परम् || कौशिको रवितेजश्च न जानाति यथा भुवि || ७२ || तथैवाज्ञानजीवाश्च बहुकर्मभिरावृताः || शिवभक्तिं न जानंति सर्ववेदान्तबोधिताम् || ७३ || शिवभक्तिस्तु सर्वेषां भक्तानां तु निधिः स्मृता || अंगणस्थः सुरतरुः कामधेनुर्गृहस्थिता || ७४ || चिंतामणिः करगतो वांधितार्थफलप्रदः || शिवभक्तिं समुत्सृज्य दुष्टमार्गेषु यश्चरेत् || ७५ || स पिडितो यमभटैर्नरकेषु वसेच्चिरम् || एवं संबोध्यमानोऽपि जाड्यंन त्यजते भवान् || ७६ || बद्धोऽपि च शुनः पुच्छः किं वा त्यजति वक्रताम् || गोघृतं तु परित्यज्य मूत्रं पिबति किं नरः || ७७ || रुद्रपिंडोद्भवत्वेन पिता रुद्रो द्विजन्मनाम् || शिवद्वेषी महापापी तातं वेश्यासुतो यथा || ७८ || शैवव्रतानि संत्यज्य योऽन्यव्रतपरो भवेत् || स तु भागीरथीं त्यक्त्वा कांक्षते मृगतृष्णिकाम् || ७९ || भक्त एव शिवः साक्षाच्छिवो भक्तेति कथ्यते || शिवं संत्यज्य मोहेन यऽन्यदैवं प्रपूजयेत् || ८० || त्यक्त्वा स्वपुरुषं कान्ता गच्छेच्चेत्पुरुषान्तरम् || सर्वैर्जनैश्च सा प्. २१९) कान्ता पुंश्चलीति निषिध्यते || ८१ || पीत्वा गोक्षीरममलं सर्पः क्रूरो भयंकरः || हालाहलं तु वमते सर्वप्राणिभयानकम् || ८२ || कृतालवालः कस्तूर्या चोशीरजलसंप्लुतः || जहाति किं निंबतरुस्तिक्ततां लोकगर्हिताम् || ८३ || अनावृष्टिभये घोरे द्वादशाब्दावधौ परे || अनेकद्विजसंघानामन्नं दत्त्वा च गौतमः || ८४ || होगत्यामतुलां लेभे नैतत्किं विदितं त्वया || बलिर्नाम महाराजो द्विजार्चनपरायणः || ८५ || पाताले बंधनं प्राप नैतत्किं विदितं त्वया || निहत्य क्षत्रियान् सर्वानेकविंशतिवारतः || ८६ || ददौ महीं ब्राह्मणानां चतुरर्णवमेखलाम् || ततः किं फलमापेदे रामः किं न श्रुतं त्वया || ८७ || जगदेवो महामंत्री श्रुत्वा बसवभाषितम् || शोकगद्गदकंठः सन् बाष्पपूरितलोचनः || ८८ || कृतांजलिपुटो भूत्वा भक्तान शैवान्ननाम सः || क्रूरं दुष्टतमं लुब्धं कार्याकार्याविवेकिनम् || ८९ || संशयाविष्टमनसं भक्ता मां रक्षताधुना || कर्मणो म्तकृतस्यास्य प्रायश्चित्तं भवेन्मम || ९० || अनुगृह्णन्तु मां सर्वे शिवभक्ताः सहस्रशः || तेनैवमुक्तो बसवो भक्तैरनुमतस्तदा || ९१ || जगदेवं महाभक्तं प्रत्युवाच प्. २२०) सभांतरे || बहुकाले व्यतीते तु शिवद्रोहो भविष्यति || ९२ || तं शिवद्रोहिणं त्वं हि चावधीर्यदि सत्वरम् || शिवस्तव प्रसन्नः स्यात्तव शुद्धिर्भविष्यति || ९३ || इति श्रुत्वा शिवगणा बसवेंद्रस्य निर्णयम् || संतुष्टहृदयाः सर्वे तुष्ट्वैनं मंत्रिसत्तमम् || ९४ || भूमौ निपतितं हस्तैरुत्थाप्योद्धतमादरात् || अतिप्रेम्णा च ममृजुर्गात्रलग्नं च भूरजः || ९५ || सर्वैर्भक्तगणैः सार्धं बसवो भक्तवत्सलः || जगदेवगृहं गत्वा सर्वसंप्त्समृद्धिमत् || ९६ || परिषद्दक्षिणां पूर्वं भूतितांबूलमगृहीत् || ततो भक्तजनैः साकं चक्रे लिंगार्चनं स्वयम् || ९७ || ततः स्वभवनं प्राप्य बसवो भक्तसत्तमः || न्यवसद्भक्तसंघैश्च संतुष्टात्मा यथासुखम् || ९८ || ये पठंतीममध्यायं शृण्वन्ति श्रद्धयान्विताः || इह भुक्त्वाऽखिलान् भोगान् व्रजन्त्यन्ते परं पदम् || ९९ || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्कंदागस्त्यसंवादे चत्वारिंशोऽध्यायः || प्. २२१) अथ एकचत्वारिंशोऽध्यायः अगस्त्यः || अनुगृह्य जगद्देवं सर्वभक्तसमन्विते || बसवेशे गृहं प्राप्ते किमभूत्तद्वदस्व मे || १ || कुमारः || अल्लाख्यो मधुपाख्यश्च तावुभौ भक्तसत्तमौ || सदा लिंगार्चनोत्कंठौ नित्यं भक्तार्चनोत्सुकौ || २ || शैवाचारपथासक्तौ भविसंसर्गवर्जितौ || कल्याणनगरं प्राप्य बसवेशगृहान्तरे || ३ || साकं श्रीबसवेशेन तावुभौ तस्थतुस्तदा || महीपालो बिज्जलाख्यो विधिना चोदितः परम् || ४ || अनालोच्यैव सहसा बसवेन महात्मना || तन्माहात्म्यपरिज्ञानजृंभितः कालचोदितः || ५ || अल्लमं मधुपं चैव स्वांतिकं दुष्टसंकुलम् || प्रापयित्वा लोचनानि तयोरागोविहीनयोः || ६ || शस्त्रेणोत्पाडयामास स्वविनाशय केवलम् || तदा पौरजनाः सर्वे भयकंपितमानसाः || ७ || राज्ञो विनाशकालोऽयमिति चुक्रुशुरञ्जसा || क्रुध्यत्सु शिवभक्तेषु सर्वं नाशमवाप्स्यति || ८ || इत्यविज्ञाय भूपालो ह्यकृतं कृतवानिति || पौराः संभूय सर्वेऽपि रुरुदुश्च स्वयं ततः || ९ || ततस्तु बसवेशाद्याः कल्याणपुरवासिनः || भक्ताश्चात्यन्त- प्. २२२) कुपिताः प्रासपट्टसपाणयः || १० || अल्लस्य मधुपस्यास्य नेत्राणि सहसा तदा || ददुस्ते स्वप्रभावेन क्षणेनैवाविशंकिताः || ११ || ततस्तु बसवेशाद्याः शिवभक्ता महौजसः || जगदेवमथामंत्र्य प्रोचुः संभूय सत्वरम् || १२ || जगदेव महाभाग प्रायश्चित्तचिकीर्षया || सर्वैर्भक्तैः समादिष्टो हन्तुं शैवापराधिनम् || १३ || त्वयैवमाश्रितं पूर्वं बसवेश्वरसन्निधौ || कालोऽयमागतस्तस्य त्वमत्यन्ताविशंकितः || १४ || बिज्जलं नृपशार्दूलं हन त्वमतिसाहसात् || विधिना राजनिटिले लिखिताक्षरमालिका || १५ || इतः परं न तस्यास्ति बिज्जलस्य महीपतेः || ततः कल्याणनगरं जनशून्यं भविष्यति || १६ || मृतिमेष्यति राजाऽयं मृत्युपाशवशं गतः || शापं दत्वा च ते भक्ता बिज्जलप्रभवे तदा || १७ || रजको माचभक्तश्च चमडार्यस्तथैव च || एकांतरामभक्तश्च किन्नरब्रह्मभक्तराट् || १८ || किशिराजाख्यभक्तोऽपि कन्नदब्रह्मसत्तमः || कक्कश्च मादिराजश्च मसणोऽपि महत्तरः || १९ || एवमाद्या महात्मानः कल्याणपुरवासिनः || विनिर्ययुस्तदा तूर्णं स्वस्वदेशान्यथागतम् || २० || अनेकभक्तसंघैश्च बसवः परिवारितः || रम्यं श्रीकूडलिपुरं संगमेशालयं ययौ || २१ || एवं शेईकंठभक्तेषु प्. २२३) प्रयातेषु यथा यथा || कल्याणनगरे लक्ष्मीर्ययौ क्षीरार्णवं प्रति || २२ || आसीन्निशीथे काकानां रुतान्यतिभयति वै || उल्कापाताश्च संजाताः शृगाला अपि चुक्रुशुः || २३ || ततः पुरप्रांतदेशे स्वभटैः परिवारितः || आतुह्य महिषं दृप्तं स्वायुधैरुपलक्षितः || २४ || अत्यन्तभीषणाकारो ददृशे पुरसंस्थितैः || प्रसारयन् यमः पाशान् जनेषु पुरवासिषु || २५ || कबंधं बिज्जलो राजा ददर्श स्वपुरस्थितम् || ततो गृहागतं माता नगदेवं निरीक्ष्य च || २६ || प्राह गंभीरया वाचा तनयं भक्तसत्तमम् || जगदेव महाभाग भक्तानां सन्निधौ त्वया || २७ || हनिष्यामि महीपाल्मेवमंगीकृतं खलु || अतस्त्वं सहसा गत्वा हन बिज्जलभूपतिम् || २८ || नोचेत्त्वं वा मृतिं गच्छ कर्त्व्यं द्वयमेव ते || अयमेव हि सन्मार्गो भक्तानां श्रुतिचोदितः || २९ || शिवभक्तं समुत्सृज्य पंचयज्ञरतस्य च || शिवद्रोहे तु संप्राप्ते जीवितुं यत्नतस्तथा || ३० || न प्रसीदति सर्वेशः सांबः सत्यादिलक्षणः || बसवेशादयो भक्ताः कार्यमेतन्महत्तरम् || ३१ || सर्वे चागणयन्तस्ते निर्ययुः कूडलीपुरम् || त्वया समस्तभक्तानां सन्निधौ च महात्मनाम् || ३२ || किं विचार्यासमर्थेन कार्यमेतत्प्रतिश्रुतम् || प्. २२४) भक्तश्चेत्त्वं कुरुष्वेदं प्राणान वा सहसा त्यज || ३३ || शिवभक्तेष्वेकतमः प्रकोपं कुरुते यदि || भस्मसात्कुरुते लोकानशेषानपि तत्क्षणात् || ३४ || पुरा दक्षाध्वरे गौरी कोपाकुलितमानसा || शिवद्रोहरतं तातं सा हि शासितुमक्षमा || ३५ || योगाग्निना ददाह स्वं शरीरमतिकोमलम् || उपमन्युर्मुनिवरः शिवनिंदारतं परं || ३६ || शापाग्निना ददाहाशु दक्षं शिक्षितुमक्षमः || अतस्त्वं सहसोत्थाय शिवद्रोहकरं नृपम् || ३७ || हत्वा तं शीघ्रमागच्छ सर्वं स्वस्थं भविष्यति || भक्ताज्ञोल्लंघनकरः सारमेयो नरो भवेत् || ३८ || अतस्तवान्नं दास्यामि शुनामुच्छिष्टपात्रके || जगदेवो महाभक्तः स्वमातुः साहसं स्मरन् || ३९ || हृदि संचिंतयन् सांबं तस्थौ स्वभवनांतरे || ततोअर्धरात्रे संप्राप्ते मल्लब्रह्माभिधावुभौ || ४० || कुंतासिपाशकलितौ धृतखड्गौ समागतौ || युक्तस्ताभ्यां खड्गधरो जगदेवोऽतिधैर्यवान् || ४१ || सभामध्योपविष्टं तं स्वभृत्यसचिवैर्युतम् || **निजघान् समागत्य बिज्जलं नृपपुंगवम् || ४२ || विदार्यांगानि तस्याशु प्. २२५) चतुर्दिक्षु च चिक्षिपुः || ततः सभासदः सर्वे केचिदापुर्महाभयम् || ४३ || केचिदुद्विग्नमनसः कांदिशीका बभूविरे || अब्रह्मण्यं याचयन्तो ब्राह्मणास्तस्थिरे तदा || ४४ || केचिद्बद्धांजलिपुटाः प्रणेमुर्दण्डवद्भुवि || यमस्त्रैविध्यमापन्नः सभामेतां किमागतः || ४५ || निमीलिताक्षपक्ष्माणः स्विन्नांगास्तस्थिरेऽपरे || चक्रुशुर्वनिताः सर्वास्तदन्तःपुरसंस्थिताः || ४६ || बिज्जलो निहतोऽस्माभिः शैवद्रोहैकतत्परः || इयं गतिर्हि सर्वेषां शिवद्रोहरतात्मनाम् || ४७ || असाध्यं शिवभक्तानां त्रैलोक्ये न हि विद्यते || इत्युच्चैर्भाषयन्तस्ते स्वगृहं पुनराययुः || ४८ || ततः स्वजननीं प्राप्य दण्डवत्प्रणनाम सः || सर्वं विज्ञापयामास मरणं बिज्जलप्रभोः || ४९ || तत्प्रसादं ततो लब्ध्वा जगदेवो महामतिः || बसवेशादिष्टकार्यं विलंबेन कृतं मया || ५० || एतत्पापनिवृत्यर्थं प्रायश्चित्तं महत्तरम् || कर्त्व्यमिति निश्चित्य खड्गमुद्धृत्य कोशतः || ५१ || बभूव छत्तुमुद्युक्तः स्वशिरोऽत्यन्तसाहसात् एतस्मिन्नंतरे दिव्यं चतुर्भिर्वृषभैर्युतम् || ५२ || प्. २२६) किंकिणीजालसंयुक्तं कैलासशिखरोपमम् || विमानं सूर्यसंकाशं जगदेवो ददर्श सः || ५३ || सपुत्रपौत्रभृत्यौघः सपत्नीकः समातृकः || विमानं तत्समारुह्य ययौ शैवं परं पदम् || ५४ || कल्याणवासिनो भक्ता ययुः सर्वे यथायथम् || परराष्ट्रमहीपालैराक्रान्तोऽखिलमंडलः || ५५ || बिज्जलस्य सुताः सर्वे मृतिमापेदिरे ततः || पुरौकसो जनाः सर्वे वांतरक्ता मृतिं गताः || ५६ || मातंगान् वाजिनश्चोष्ट्रान् कृशानुः स्वयमुत्थितः || ज्वालावृतो ददाहाशु पूर्वं लंकापुरीमिव || ५७ || अमात्यादिभटाः सर्वे युद्धं कृत्वा परस्परम् || मृतिं प्रपेदिरे सद्यो बसवेश्वरशापतः || ५८ || कल्याणनगरं सर्वं विनाशं प्राप तत्क्षणात् || एतत्सर्वं समाकर्ण्य प्रभोर्वृत्तान्तमिदृशम् || ५९ || ययौ गंगांबया साकं स्वस्रा नागांबया सह || कूडलीसंगमेशस्य स्वगुरोः सन्निधिं परम् || ६० || ततो भक्तगणैः साकं तस्थौ संगमसन्निधौ || पूजयित्वा संगमेशं बसवेशोऽतिभक्तिमान् || ६१ || स्ववैश्च विविधैरीशं स्तोतुं समुपचक्रमे || संगमेश महाभाग कोटिसूर्यसमद्युते || ६२ || अशेषवेदवेतान्तविज्ञेयाय नमोऽस्तु ते || प्. २२७) यदाज्ञया जगत्सर्वं विश्व सृजति विश्वसृट् || ६३ || सर्वं नारायणः पाति रुद्रः संहरति स्वयम् || त्वयि स्थिता जगन्माता चिच्छक्तिः परमेश्वरी || ६४ || यद्दृष्टिपातसंक्षुब्धा पराशक्तिर्बभूव हि || पराशक्तियुतस्त्वं हि बभूव च सदाशिवः || ६५ || तस्माद्वियत्समुत्पन्नं शब्दतन्मात्रपूर्वकम् || प्रादुर्भूता पराशक्तिरादिशक्तिरभूत्ततः || ६६ || वायुतत्त्वं समुत्पन्नं स्पर्शतन्मात्रपूर्वकम् || आदिशक्तिसहस्रांशादिच्छाशक्तिर्महत्यभूत् || ६७ || तया संवलितो देवो रुद्रः संहारकृत्पुनः || ततस्तेजः समुत्पन्नं रूपतन्मात्रपूर्वकम् || ६८ || ज्ञानशक्तिः समुत्पन्ना तया संवलितः प्रभुः || विष्णुर्नारायणो जातो जलतत्वं ततो महत् || ६९ || बभूव विमलं दिव्यं रसतन्मात्रपूर्वकम् || ज्ञानशक्तेः क्रियाशक्तिः सर्वविश्वस्वरूपिणी || ७० || तद्योगाद्वैष्णवांशस्तु जातो ब्रह्मा चतुर्मुखः || तस्माच्च पृथिवी जाता गंधतन्मात्रपूर्वकम् || ७१ || मलिनामलिनादर्शपश्चात्प्राग्भागतुल्ययोः || क्रियाशक्तिज्ञ्नानशक्त्योरन्तःकरणभागयोः || ७२ || प्. २२८) प्रतिबिंबे स्फुरन्नीशः कर्ता ज्ञातेति कथ्यते || स एव जीवो विख्यातः सर्वसंसारलक्षणः || ७३ || कर्मणामप्यदीनां वासनाभिः समन्वितः || एवं सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् || ७४ || सर्वभूतेंद्रियैः साकं पुरस्तात्संप्रसूयते || सर्वेषां कारणानां त्वं कारणं परमेश्वर || ७५ || न संप्रसूयसेऽन्यस्मात्कुतश्चन कदाचन || तस्मै सर्वाधिपतये तस्मै नित्यं नमोऽस्तु ते || ७६ || भवद्भक्तप्रसादेन जीवितोऽहं कृपानिधे || गतिस्त्वमेव देवेश मनोवाक्कायकर्मभिः || ७७ || भवदाज्ञां गृहीत्वैव जातो मर्त्येष्वहं प्रभो || भवन्नियुक्तकार्याणि सर्वाण्यपि कृपानि हि || ७८ || पूर्वरूपं समास्थाय प्रत्यक्षो भव शंकर || अनन्यलब्धकैवल्यं देहि मे करुणानिधे || ७९ || इत्युक्तो बसवेशेन संगमेशो दयार्द्रधीः || गुरुस्वरूपमास्थाय बसवेशमथागमत् || ८० || स्वगुरुं पुरतो दृष्ट्वा ननाम चरणांबुजे || आनंदाश्रुकणैः शितैः सिक्तं पादद्वयं तदा || ८१ || रोमांचांकितसर्वांगं दृष्ट्वा श्रीबसवेश्वरम् || समुत्थाप्य महादेवो दोर्भ्यामालिंग्य सत्वरम् || ८२ || प्. २२९) विवेश चालयं स्वीयं संगमेशो महामतिः || न दृष्टौ गुरुशिष्यौ द्वौ भक्तैर्माचादिभिस्तदा || ८३ || देवदंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः || पपात पुऽपवृष्टिश्च गायका गानमाचरन् || ८४ || केचिद्भक्तवरास्तत्र जयध्वनिमथाचरन् || मादिराजमुखा भक्ताः प्रशशंसुः परस्परम् || ८५ || उत्पत्तिस्थितिनाशास्तु बसवेशस्य धीमतः || न संति प्राकृतस्येव संसाररहितस्य च || ८६ || यथोर्मयः समुद्रस्य समुद्र इव वल्गिरे || वायुमध्ये यथा वायुर्विस्फुलिंगा इवानले || ८७ || क्षीरे क्षीरमिव व्यस्तं घटाकाश इवाम्बरे || संगमेश्वरगर्भेऽस्मिन् विवेश बसवेश्वरः || इत्युक्त्वा प्रमथाः सर्वे गताः स्वस्वगृहान् प्रति || ८८ || वृत्तम् || अवतीर्य जगद्धिताय भूमौ वृषभेशो बसवेशरूपधारी || विमतानखिलान् प्रशास्य शैवं स्व्गुरोर्गर्भमवाप चावसाने || ८९ || यो वा पठत्यनुदिनं नियतांतरात्मा भक्त्या श्रुणोति शिवभक्तगणैः समेतः || प्. २३०) प्राप्नोतिसर्व मुनिचित्तविमृग्यमिड्यं शैवं पदं स पुनरागमेन हीनम् || ९० || इति श्रीबादरायणमहर्षिप्रणीते बसवपुराणे स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे एकचत्वारिंशोऽध्यायः || प्. २३१) अथ द्विचत्वारिंशोऽध्यायः अगस्त्यः || षडानन महाभाग सर्वज्ञात्मज सुंदर || स्वाश्रिताश्रयसंलग्नसंशयोन्मूलनक्षम || १ || भूतभाव्यादिसंभिन्न कलोपाधिविदांवर || एवं याते लिंगगर्भं बसवेशे महात्मनि || २ || कलौ युगे महाघोरे दोषाणामेकभाजने || भक्तिं संवर्धितुं शंभोः कः पुमान् प्रभविष्यति || ३ || शिवभक्तार्चनासक्तो भक्ताभीष्टफलप्रदः || एतत्सर्वं महासेन समासेन वदस्व मे || ४ || इति तद्वचनं श्रुत्वा कुंभयोनेर्महौजसः || मंदस्मितमुखः श्रीमांच्छरजन्माऽऽह कुंभजम् || ५ || स्कंदः || कृष्णागोदावरीमध्ये विषयेऽत्यन्तपावने || विद्वज्जनसमाकीर्णं नानासंपत्समृद्धिमत् || ६ || हेलापुरं महारम्यं प्रासादशतसंकुलम् || तस्मिन् वै पत्तने रम्ये परलिंगाभिधो महान् || ७ || भविष्यति महाप्राज्ञो नीतिशास्त्रविशारदः || लिंगधारणसंयुक्तो लिंगार्चनपरायणः || ८ || षषंगलिंगसाहित्यसंधानासक्तमानसः || प्. २३२) शैवव्रतसहाचारनिष्ठावान् भक्तितत्परः || ९ || तस्य जाय भवेत्साध्वी वीरांबा वरवर्णिनी || तस्याममृतलिंगाख्यो जायमानो महामतिः || १० || करिष्यति तपः सोऽथ श्रीनगे सिद्धिदायके || तत्तपोयोगसंतुष्टः कर्ता श्रीमल्लिकार्जुनः || ११ || स्वयं पुत्रस्वरूपेण जायते मल्लिकार्जुनः || दातृत्वाधः कृतामर्त्यवृक्षचिंतामणिर्वशी || १२ || भक्ताभीष्टप्रदः श्रीमांच्छिवलिंगार्पणोत्सुकः || लिंगांगस्थलतत्वज्ञो लिंगतत्वस्वरूपवित् || १३ || लिंगाभिमानकलितो धीरोदात्तः प्रतापवान् || सर्वराजन्यनिवहनीराजितपदांबुजः || १४ || भवेत्तस्याग्रमहिषी गुर्वाम्बाख्या पतिव्रता || तयोः संजायते पुत्रो नीरलिंगाभिधो महान् || १५ || ततस्त्वमृतलिंगाख्यस्ततो वीरेश्वरो महान् || श्रीसाल्वेशाभिधः श्रीमान्मूर्तिराजो महत्तरः || १६ || ततः कूडलिसंगाख्यो मल्लिकार्जुनधीमणेः || स्वप्ने पालंकवंशोत्थसदाशिवगुरूपधीः || १७ || देवदेवः समागत्य पवदेत्तं घृणारसात् || मल्लिकार्जुन सर्वज्ञ सर्वभूपालवंदित || १८ || प्. २३३) शुक्तेर्मुक्तामणिरिव त्वद्भार्यागर्भकोटरात् || जायते बसवांशेन तनूजः सर्वभाग्यवान् || १९ || ततो महोत्सवं कृत्वा पुत्रं त्रैलोक्यसुंदरम् || बसवेश्वरनामानं विधाय परया मुदा || २० || मया सदाशिवाख्येन गुरुणा लिंगधारणम् || कारयित्वा तु तत्पुत्रैः षड्भिः संभूय मोदय || २१ || इत्युक्त्वा शंकरो गच्छेत्ततश्चोत्थाय संभ्रमात् || तत्स्वप्नं निजभार्यायै संवदेन्मल्लिकार्जुनः || २२ || साऽपि संतोषमापन्ना किंचित्कालं विहृत्य च || भर्त्रा सा हि तनूजातं सूयते सूयते शुभवासरे || २३ || सदाशिवाख्यमाहूय सद्भक्त्याअ गुरुसत्तमम् || कारयिष्यति पुत्रस्य धारणं मल्लिकार्जुनः || २४ || बसवेश्वर एवायं जायते बसवेश्वरः || भक्ताभीष्टप्रदः श्रीमान् गांभीर्याल्पिकृतोदधिः || २५ || हिमवत्प्रतिमो धैर्य सदा सत्यपरायणः || सर्वशास्त्रार्थतत्वज्ञः पुत्रसंपद्विराजितः || २६ || रूपार्पणपरो नित्यं स्वेष्टलिंगे महत्तरे || रुच्यर्पणपरः प्राणलिंगे नित्यमतंद्रितः || २७ || तृप्तिसंधाननिपुणो भावलिंगेऽन्वहं सुधीः || अवरोहणमार्गेण प्. २३४) भावप्राणेष्टभेदतः || २८ || उत्पन्नानां च लिंगानां देशिकानुग्रहात्परात् || आरोहणक्रमेणैव शिवध्यानैकतत्परः || २९ || लिंगधारणसंपन्नः शैवाभीष्टफलप्रदः || अनेकगुणरत्नौघनीरधिः शुद्धमानसः || ३० || अनेकनृपमौलिस्थरत्ननीराजितांघ्रिभूः || कटाक्षवीक्षणासारधनपूजितपंडितः || ३१ || राजीवनयनः श्रीमान्राकाचंद्रनिभाननः || पद्मातपत्रकुलिशशंखांकितपदद्वयः || ३२ || विद्वच्छैवेष्टफलदो ब्रह्मध्यानपरायणः || कंदूकरिकुले रम्ये जाते श्रीबसवेश्वरे || ३३ || गंगांबा तस्य महिषी सर्वलक्षणलक्षिता || पतिव्रतानां सर्वासामग्रगण्या शुचिस्मिता || विरांबेति च विख्याता तस्य पत्नि भविष्यति || ३४ || वृत्तम् || गौरीशंकरयोरिवातिशुभदो लक्ष्मीहृषीकेशयोर्वाणीपद्मजयोरिस्वातिविमलः स्वाहाकृशानोरिव || छायाभास्करयोरिवाखिलजनैराशास्यमानः परो वीरांबा- प्. २३५) बसवेशयोरपि सदा योगो भवेच्छाश्वतः || ३५ || इति श्रीबादरायणमहर्षिप्रणीते बसवेश्वरपुराणे स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे द्विचत्वारिंशोऽध्यायः || प्. २३६) अथ त्रिचत्वारिंशोऽध्यायः एतच्छ्रुत्वा महानंदसुधासंतृप्तमानसम् || दृष्ट्वा कुंभोद्भवमुनिं पुनः प्राह षडाननः || १ || पुरातनैर्मुनिवरैः शिष्यैः सूतादिभिः सह || कृष्णद्वैपायनो योगी शिवसंदर्शनेच्छया || २ || अनेकमणितेजोभिर्व्याप्ताजाण्डोर्ध्वकर्परम् || छायासु कल्पवृक्षाणां निषण्णं गणसंकुलम् || ३ || श्रीमत्पंचाक्षरीमंत्रजपासक्तमुनीश्वरम् || हठयोगादिनिरतयोगिवृंदनिषेवितम् || ४ || शुकैः शिवशिवेत्युच्चैर्वदद्भिरतिसुंदरम् || युगपदृतुषट्केन सेव्यमानवनांतरम् || ५ || ययौ कैलासनगरं नानाशुकपिकोज्ज्वलम् || शातकुंभस्तंभसंघैरत्नभित्तिभिरावृते || ६ || कैलासनगरे रम्ये दिव्यसिंहासने परे || समासीनमुदारांगं मुखपंकजदीपितम् || ७ || विशुद्धस्फटिकाकारं दशबाहुं त्रिलोचनम् || नीलकंठं शिवं दृष्ट्वा नत्वा तुष्टाव भक्तितः || ८ || शिवहस्ताब्जनिर्दिष्टे उपविष्टः स्थले परे || शिवं प्राहातिगंभीरवाचा सन्न्दयन् सभाम् || ९ || देवदेव महाभाग मयि ते करुणा प्. २३७) यदि || प्रश्नस्य मत्कृतस्यास्य देहि देव सदुत्तरम् || १० || अस्मिन् कैलासशिखरे कल्पछायासु संस्थिताः || पठंति प्रमथाः सर्वे प्रमोदाश्रुविलोचनाः || ११ || बसवेश्वरमाहात्म्यसंयुतं चरितं परम् || सर्वाण्यपि पुराणानि महान्त्यष्टादश प्रभो || १२ || तथैवोपपुराणानि कथितानि मुनीश्वरैः || छंदांसि कल्पसूत्राणि स्मृतयोऽष्टादशापि च || १३ || त्वया समस्तविद्यानामीशानेन महात्मना || कृता महामुनीनां च उपदिष्टा बभूविरे || १४ || हित्वा तानि समस्तानि पुराणादीनि ते गणाः || भक्तमाहात्म्यमात्रस्य पुराणं प्रतिपादकम् || १५ || एवं पृष्टो महादेवः पाराशर्यतपस्विना || असारबुद्धिरेतस्य संजाताशीत्तपस्विनः || १६ || इति संचिन्त्य मनसा व्यासगर्वं निरासितुम् || सस्मार विश्वकर्माणं सर्वशिल्पविशारदम् || १७ || सहसा विश्वकर्माऽपि शिवसन्निधिमाययौ || प्रणिपत्य च तं स्तुत्वा चाज्ञप्तव्यं किमस्ति भो || १८ || इत्युक्त्वा प्राञ्जलिस्तथौ विनयानतमस्तकः || तुलादण्डं कुरुष्वेति चादिदेश वृषध्वजः || १९ || अकरोद्विश्वकर्माऽपि तुलादण्डं महत्तरम् || कालचक्रे तुलादण्डं तत्पात्रद्वयमुत्तमम् || २० || धर्मार्थावेव संगृह्य प्. २३८) विश्वकर्माऽकरोत्ततः || मध्यसूत्रं ततश्चक्रे ज्ञानमादाय सत्वरम् || २१ || षष्तुलापात्रसुत्राणि कामक्रोधाचिषड्गुणान् || कल्पसुत्रादिकर्माणि भारतं च महत्तरम् || २२ || तुलापात्रे तथैकस्मिन् निक्षिप्य शिवसंमतम् || बसवेशपुराणं तदन्यस्मिन् पात्रस्त्तमे || २३ || निक्षिप्य तुल्यामास विश्वकर्मा शिवाग्रतः || वैययासिकीनां सर्वासां कृतीनामुज्ज्वलात्मनाम् || २४ || पुराणमेतत्सारेण सर्वोत्तममभून्महत् || दृष्ट्वा विस्मयमापन्नो व्यासः शंभोश्च सन्निधौ || सर्वेष्वपि पुराणेषु श्रेष्ठोऽयमिति चाब्रवीत् || २५ || वृत्तम् || व्यासस्ततः शिवसभांतरमध्यदेशान्नानामुनिप्रमथदैवतसंघजुष्टात् || व्रीडावनम्रवदनः परमेश्वरेणाज्ञप्तो ययौ सकलशिष्यगणैः समेतः || २६ || ओम् इति श्रीबादरायणमहर्षिप्रणीते श्रीबसवेश्वरपुराणे स्वरूपग्रंथे परमरहस्ये स्कंदागस्त्यसंवादे त्रिचत्वारिंशोऽध्यायः श्रीबसवेश्वरपुराणं संपूर्णं || ########### END OF FILE #######