#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00277 Uniform title: bhāvacūḍāmaṇi Author : vidyākaṇṭha Manuscript : NGMCP 6/1748 reel number A 989/23 Description: Notes: Revision 0: December 16, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १अ) श्रीगुरुगणपतये नमः || यद्यपि नानाविधानि साधनोपायानि लिखितानि तथापि भावेन विना मंत्राअ न सिद्ध्यन्तीति भावचूडामणिर्लिख्यते || तंत्र चूडामणौ || श्रीभैरव उवाच || मातर्द्देवि महामाये वन्धमोक्ष प्रवर्त्तिनि | इदानीं श्रोतु मिछामि गुरुक्रम मनूत्तमं || श्रीदेव्युवाच || गुरु क्रमस्तु वहुधा मंत्राविस्तर गौरवात् | कालानामप्यनादित्वात् कथं तत् कथयामिते || नैव ज्ञात्वा गुरुकुलं नष्टमार्गो भविष्यति | नष्टमार्गात् महाविद्या न तादृक् फलगोचरा || गुरूणां शिष्यभूतानां नास्ति चेत्संतति क्रमः | तंत्र मंत्राश्च विद्याश्च निःफलाः नात्र संशयः || विंशति पुरुषान् वापि नव सप्तत्रयोपि वा | न ज्ञात्वा गुरुवंशानां शिष्यः स्यान्नष्ट संततिः || स्ववंशादधिकं ज्ञेयं गुरुवंशंभुनाशुभं | जनकादधिकं ज्ञेयं मंत्रादस्य महेश्वर || तस्मात् सर्वत्र देवेश संक्षेपा छृणुतान् गुरून् | आदौ सर्वत्र देवेश मंत्रदः परमो गुरुः || परापर गुरुस्त्वं हि परमेष्ठिरहं ततः | सर्व तंत्रेषु विद्यास्तु स्वयं प्रख्यात रूपिणी || ततः पुरुष रूपश्च तस्मात् स्वगुरुसंततिः | तेनैवाहं पदंशाश्च मद्भक्ताश्च विऽऽएषतः || प्. १ब्) सर्वमंत्रेष्ट प्रभवः सर्वत्र शुभदायकः | शिवः शैवाश्च ये विप्रास्तेपि सर्वत्र देशिकाः || गणेशो गाणपत्याश्च गणदीक्षा प्रभुर्मतः | सूरः सौरास्तथा वत्स विष्णुर्विष्णुपरायणः || दिव्यौघ गुरवोदेव सिद्धौघ गुरवस्तथा | मानवौघा समासेन कथयामि तवाग्रतः || सर्वतन्त्रेषु मंत्रेषु प्रोक्ता मंत्र चतुष्टयी | तत्रादौ कालिका देवी तस्याः शृणु गुरुक्रमं || महादेवि महाकालस्त्रिपुरश्चैव भैरवः | दिव्यौघ गुरवः प्रोक्ता सिद्धौघान् कथयामिते || ब्रह्मानन्दः पूर्णदेवश्चल वित्तश्चलाचलः | कुमारः क्रोधनश्चैव वरदः स्मरदीपनः || माया मायावती चैव मानवौघान् शृणु प्रियं | विमनः कृपणश्चैव भीमसेनः सुधाकरः || मीनोगोरक्षकश्चैव भोजदेवः प्रजापतिः | मूलदेवौरन्तिदेवो विघ्नेश्वर हुताशनौ || सोमपानन्द सहजौ कालिका गुरवः स्मृताः | अथ तारा गुरून् वक्ष्ये दृष्टादृष्ट फलप्रदान् || प्. २अ) ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः | दिव्यौघाः सिद्धिदा वत्स शृणुष्वावहितात्मना || वशिष्ठ कूर्मनाथश्च नीलनाथो महेश्वर | हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् || तारावती भानुमती जया विद्या महोदरी | मुखानन्दः परानन्दः पारिजातः कुलेश्वरः || विरूपाक्षौ भैरवी च कथितं तारिणी कुलं | सिद्धौघे मानवौघे च दिव्यौघे परमेश्वर || अक्षौभ्यः सर्वमूर्द्धन्यस्त्रिमूर्त्तिर्न्नाग रूपधृक् | अथ स्वप्नावती देवान् कथयामि तव प्रिये || परानन्दश्च पूर्णेशो देवदेवो जनार्दनः | पूर्णेशी सुन्दरी चैव मोहिनी रतिकामिके || पुलस्त्यो भावसंपन्नो वीराकर्षणकर्मिणः | सिद्धौघे च सती देवी भैरवश्चन्द्रशेखरः || मानवौघे सती देवी क्षमापूर्णा कलावती | महेशो विष्णुनामा च गंगेशः स्मरनायकः || प्. २ब्) कलानन्दः कुमारी च सर्वाश्च संस्कृतस्त्रियः | विदग्धाः सर्वजातीनां सर्वावस्था गताश्च या || वाला वा यौवनोन्मत्ता निःपतिर्वा स पुत्रिका | गुरुभावं परित्यज्य योषित्सु यदि साधकः || स्वप्नावती जयेद्वार्चा मनसा वपुषापि वा | सर्वदोषसमायुक्तः त्याज्योसौ कुलपांशनः || तस्मात् सर्वप्रयत्नेन विप्रियं परयोषिति | निजास्वपि च कामार्थं मदंशायोषितो यतः || अथ वक्ष्यामि ते वत्स षोडशीनां गुरुक्रमं | आनन्दनाथ देवश्च परप्रकाशकस्तथा || ततः परशिवो देवः परशक्तिस्ततः परं | कौलेश्वरः शक्तिदेवोऽकुलेशानश्च कामुकः || सुद्धौघान् कथयिष्यामि भोगक्षिन्नश्च भैरव | समयो देव सहजौ मानवौघान् शृणु प्रिय || गगनो विष्णु विमलौ सहजो भुवनस्तथा | नीलस्वादुप्रियः पश्चात् कथिता गुरुसत्तमाः || श्रीभैरव उवाच || विद्या चतुष्टयी प्रोक्ता दुर्गया सदृशी हुत | तां विहाय कथं तारा प्रोक्तां परम दुर्लभा || प्. ३अ) श्री भैरव उवाच || साधुपृष्टं त्वया वत्स सर्वप्राणि सुखा वह | यथा तारा तथा दुर्गा विस्मयो नास्ति यद्यपि || तथापि तत्प्रकाशाय भयं जातं पदे पदे | शृणु वत्स महादेवं गुरून् दुर्गा मनूद्भवान् || परमात्मा परानंदः परमेष्ठी शोभोदयः | कृष्णः कालो कलानाथो दिव्यौघा भैरवादिकाः || नारदः कश्यपः शंभुर्भार्गवः कुलकौलिकः | एते पंचमहादेव सिद्धौघा परिकीर्तिताः || रुद्राचार्यः क्षमाचार्यः पवनाशन संज्ञकः | कुमारीशः शक्तिधरो घनानंदः प्रकाशकः || हरिशर्मा विष्णुशर्मा दत्तात्रेयः प्रियंवदः | वहुला शाकिनी देवी चर्यानाथः प्रकीर्तितः || लोपामुद्रा गुरून् वक्ष्ये प्रसंगा छृणु भैरव | आदौ परेश्वरो देवः परमेशी ततः परं || मित्रीशश्चैव सज्जीशो उड्डीशो दिव्यसाधकाः | चर्यानाथो लोपामुद्रा अगस्त्यः कालदीपनः || मानवौघास्ततो वक्ष्ये धर्माचार्यास्ततः परं | मुक्तकेशीश्वरो देव दीपकोनाथ एव च || विष्णुः प्रभाकरश्चैव मनोज्ञस्तदनंतरं | प्. ३ब्) कल्याण देवरत्न देवौ श्रीरामानंद देवकः || आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः | अथ वा सर्वशास्त्रेषु गुरवः सर्वसूचिताः || कुलचूडामणौ देव शृणु देव महेश्वरा | येषु येषु च मंत्रेषु ये ये ऋषिगणः स्मृताः || ते ते पूज्याः स पूज्यादौ संक्षेपाद्गदितं मया | अज्ञानाद्गुरु नाम्नां वै गुरु त्रितयमर्च्चयेत् || चतुष्टयं वा सप्तो वा न कार्यश्च ततः परं | गुरून्परमगुरुंश्चैव परापर गुरूंस्ततः || परमेष्ठि गुरूंश्चैव कथिता गुरवस्तथा | गुरूपूजां विना वत्स यदि पूजां समाचरेत् || तद्दोष शमने वत्स कुलपूजां समाचरेत् | त्रिगुणं यत्र यद् वा स्यात् स गुणं कुलपूजनात् || कुलावलोकनं वेत्स्यात् कुतः प्रोक्षणमार्जनं | क्वस्तनिं क्व च वा छुद्धिः क्ववन्यास विशोधनं || दीक्षा प्रभुकुलीनश्चेत् कुलं वा वटुकेश्वर | तत् देहे गुरुमानीय त्वत् पादे स्मरणं चरेत् || न जानामि गुरोर्नाम न च शुद्धिं महेश्वर | त्वत् पादाम्वुजरेणूनां कृपया देहि दासतां || प्. ४अ) इति स्तवेन संस्तुत्य निजं कुलं गुरूं यदि | तन्नाम्ना पूजयेद् वत्स तेन पूजा गुरोर्भवेत् || स्वप्नावत्यास्तु पूजायां कुलरूपं गुरूं स्मरेत् | कुलं यथा गुरुस्तत्र न तथा कुलसाधकः || गुरुक्रमं च कथितं न ज्ञात्वा कुलपुष्करः | न देयं यत्र कुत्रापि यो पि चेष्टे च चुंवके || पशोरग्नेन चैवैषां नाम ग्राह्य कुलेश्वर | वैष्णवे शक्ति तंत्रे वा गाणपत्येथ वा पुनः || निजं गुरुं तदा ध्यात्वा ततो गुरु चतुष्टयं | पूजयित्वा जपेद् देवं न च संकोचमाचरेत् || श्रीभैरव उवाच || समयाचार संकेत भाव संकेतकं तथा | सूचितं तु महादेवि कथयस्वानुकंपया || सर्वमंत्रेषु विद्यासु भावसंकेतमेव च | तथापि शक्ति तंत्रेषु विशेषात् सर्वसिद्धिदं || श्रीदेव्युवाच || भावस्तु त्रिविधा देव दिव्यवीरपशु क्रमात् | गुरवस्तु त्रिधा चात्र तथैव मंत्र देवता || आद्य भावो महादेव श्रेयात् सर्व समृद्धिदः | द्वितीयो मध्यमश्चैव तृतीयः सर्वनिन्दितः || वहुजपात् तथा क्षेमात् कायक्लेशादि विस्तरैः | न भावेन विना देव तंत्र मंत्राः फलप्रदाः || किं वीर साधनैर्द्देव किं वा कृष्टि कुलाकुलैः | प्. ४ब्) किं पीठपूजने नैव किं कन्या भोजनादिभिः || स्वयोषित्प्रीतिदानेन किं परेषां तथैव च | किं जितेंद्रिय भावेन किं कृत्वाचार कर्मणा || यदि भावे विशुद्धात्मा न स्याद् भाव परायणः | भावेन लभते मुक्तिं भावेन कुलवर्द्धनं || भावेन कुलवृद्धिः स्याद् भावेन कायशोधनं | किं न्यास विस्तरेणैव किं भूतशुद्धि विस्तरैः || किं तथा पूजने नैव यदि भावो न जायते | केन ना पूज्यते विद्या न च केन च पूज्यते || फलाभावस्तु देवेश भावाभावात्प्रजायते | एतद् रहस्य कथने संकिते मन मानसं || त्रिलोकीमत्सरी प्रायः सर्वत्र तत्समागमः | नो वीक्ष्य निर्जनं देव कथं तत्कथयामिते || श्रीभैरव उवाच | त्वत्प्रसादान्मयादेवि विद्या स्वप्नविरोधिनी | सर्वमाया प्रपन्नानां दीक्षा दक्षाममाग्रणी || विद्यते देवि सर्वेषां भूतानां स्वापकारणं | करोमि कथयत्वं मा यदि पुत्रत्व भावता || श्रीदेव्युवाच || प्रथमं दिव्यभावस्तु कथ्यते शृणु सादरं | यद्वर्णा देवता यत्र तत्तेजः पुंजसंयुतं || तेजोमयं जगत्सर्वं विभाव्य मूर्तिकल्पितं | तत्तन्मूर्तिमयैर्मंत्रैः स्वेनास्वेनैव वा पुनः || आत्मानं तन्मयं दृष्ट्वा सर्वं भावं तथैव च | तत्सर्वं योषिति ध्यात्वा चिंतयेद् यत मानसः || प्. ५अ) अशेष कुलसंपन्ना नाना ज्योति समुद्भवा | माना देशोद्भवा वापि गुणलावन्यसंयुता || द्वितीय वत्सरा दूर्द्ध्वं यावत् स्याद् दशमाब्दकं | तावत् कुमारी विज्ञेया तंत्र मंत्र फलप्रदा || कुमारी पूजनाद्दैव कुमारी भोजनादपि | एकद्वित्र्यादि वीजानां फलदा नात्र संशयः || ताभ्यः पुष्पं फलं वापि अमुले पानुकं तथा | वालप्रियं च यद् द्रव्यं दत्वा नत्वा च पूजकः || ध्यात्वा तदंगे स्वात्मानं वाल भावविचेष्टितः | ताभिः प्रियकथालाप क्रीडा कौतूहलादिकं || यथा तथा तत्प्रिय कृत्कृत्वा सिद्धंश्वरो भवेत् | तस्मात् षोडशपर्यन्तं भवतीति प्रवक्ष्यते || तत्र भावप्रकाशं चेत् स भावः परमो मतः | चरणाश्चूल पर्यन्तं पीत्वापि च पुनः पिवेत् || तस्या नख मुखज्योत्स्ना खण्डितात् तस्तमो भवेत् | कामडी?खर्पराकारा प्रमदास्तन शोभया || स्निग्धान्तः करणो वीरो निर्विकारः सदा भवेत् | सुवृत्त जानुना चारु जंघोरु जघनाश्रयैः || नाभिरोमावलीं वक्ष स्थलैः पीनपयोधरैः | ग्रीवा नयन पर्यन्त केशाग्रैः प्रवरस्मितैः || यावन्मधुमदापूर्णैर्त्तसीमैभावलौलितैः | स्निग्धेन्द्रियः सन्संतुष्टश्चतुवर्गः समाश्रयः || प्. ५ब्) निवृत्तिकाले पुनस्तस्या भावपूर्णामृतैर्न्निजं | मुखविन्दु वदाकारं तदधः कुचयुग्मकं || सर्वविद्या मृता पूर्ण सर्ववाग्विभवप्रदं | सर्वार्थ साधकं देव सर्वरक्षणकारकं || तदधः स परार्द्धं च सुपरीकृत्य मंडलं | सर्वदेवादि भूतं तत् सर्वदेव नमस्कृतं || सर्व ह्ला *? संपूर्णं सर्वरक्षणकारकं | सर्वार्थसाधकं देव सर्ववश्य प्रवर्तकं || एतत् कामकला ध्यान सुगोप्यं साधकोत्तमैः | ध्यात्वा स्मृताथ वा दृष्ट्वा ध्यात्वा कामकलान्वितः || क्षणतत्व विमर्षेण जायते भाव संचय | कुलेषु तत्कलारूपं सकलं परिचिन्त्य च || कुलीनो जायते यस्मात् कथं तत्कथयापिते | कुले साक्षाद्यतस्तत्वं स्वयं चिंतति तत्वतः || तेन त्वत्कुलशास्त्रज्ञः पूजनीयः प्रयत्नतः | कुलदेवी वात्मदेवी निश्चला यस्य विद्यते || स धन्यः पुरुषो लोके निश्चयोदय एव च | यत्कुले कुलदीक्षा तु तस्या पापां स एव हि || अदीक्षित कुलाषंपात् सिद्धि हानिः प्रजायते | * * * * * * * * * * * ? गमनं यदि || प्. ६अ) सत्कुलीन कथं देव पूजयेत् परमेश्वरी | ग्रंथरूपा तु रूपेण * * * * * * * * ##? * * ? पितृ हृतं नाम वर्जनीयं प्रयत्नतः | परमोषाधि? ज्ञेयानि ज्ञापती प्रीति वर्द्धिनी || * *? तत्वा*?त कुर्याल्लीलाद्योगात्स्वलीलया | तस्मादुत्थाय हस्ताग्रे धृत्वा? सेवेतं स्वात्मवत् || वामभागे समासीना स्ववर्णां कामरूपिणीं | ध्यात्वा कामकलां तत्र विन्द्वादि पूर्णविग्रहां || केशविन्यास तिलकं हारकेयूरयावकां | सर्वाकलां विधायादौ कुलद्रव्या नियोजयेत् || हेतु युक्तं सतां हूलं? दत्वा भुक्त्वान्न साधकः | पृछेत् कुल कथां तस्यां लौकिकाऽलौकिकादि किं || न पंचोद्भवपुष्पानि कीर्तितानि कुलादिषु | न कलाति कुलाभिज्ञो ध्रुवं सिद्धोपि नश्यति || दृष्ट्वा दोषादिकं तत्र स्नेहा विःकृत शिक्षया | भावयेन्न कटुर्युक्त्या विकृते निःफलं भवेत् || कुलशास्त्र रहस्यं तु कुलमूलं यतः प्रभो | वरं कुलमतस्त्यागो वरं कुलगुरोरपि || न त्यागयोग्यं स्वकुलं दृष्टदोषादपि प्रिय | कुलवृक्षे स्थिता साहं स्वकुलं पोषयाम्यहं || प्. ६ब्) तेन सर्वप्रयत्नेन रक्षणीयं प्रयत्नतः | सुकुले कुल वाहुल्यं यदि स्यात् भाग्ययोगतः || सर्वरूपं विधातव्यं वैपरीत्य परित्यजेत् | पृथक् स्थानं पृथक् ध्यानं पृथक् पूजा पृथक् स्तुतिः || न कर्तव्या प्रयत्नेन किमेभिर्वहु जल्पितैः | कुले तिष्ठानि देवेश नात्र कार्या विचारणा || तासां विश्वास योगेन तद्देशाधिः प्रणश्यति | प्रमोदादमृतस्नानं ममस्यान्नात्र संशयः || कुलजाहं महायुद्धे वीरास्फालननादिनी | न ज्ञेयमत्रयछामि पालयानियतो जगत् || मौखर्यं पतिविद्वेषः कटूक्तिकलहादिकं | नीवादि गमनाच्चैव नाहमीषन्तरप्रिया || ब्रह्माण्ड भाण्ड संभेदात् तेन जीवे स सिद्धियुक् | विनाकुले न मत्सिद्धिर्न्न कुत्र प्रतिपद्यते || श्रीभैरव उवाच | चतुराश्र मिमां देवि मोक्षदात्वं सदा कथं | कुलभाव विवोधित्वात् संशयं मम पूरय || श्री देव्युवाच || मोक्षद्धारस्तु बहुधा * * * * * * * * ##? केवलं कुलयोगेन प्रसीदामिन संशयः || प्. ७अ) चतुर्था श्रमिणा देव अवधूताश्रमो महान् | तत्राहं कुलयोगेन प्रसन्ना मोक्षदायिनी || यदि न स्यात् तथा यत् तत् शृणु तत्कथयामि ते | ज्ञानभावे समुत्पन्ने संप्रार्थ्य निज कौलिकीं || तस्मान्नयामि मुक्तिः स्यात् ताः संपूज्य कुलान्तरे | कुण्डली शक्ति विवरे तदा योगं समभ्यसेत् || निर्द्वन्द्वो निरहंकारः शुद्धनाडी गणो व्रती | मृद्वासने समासीनः खगसंयमने रतः || मेरुदण्डवहिः पार्श्वे चन्द्रसूर्यात्मिके शिव | मध्ये सुषुम्ना संदिष्टा तन्मध्ये चित्ररूपिणी || तेनैव ग्रंथितं पद्मं मूलादि पथ पंचकं | कालिका कालरूपेण डाकिन्या द्यव लंवितं || मूलद्वारं समासाद्य स्थिता सा नागरूपिणी | वायुनाभिद्यतयुक्तं दृढविद्रावयेत् ततः || तच्छ्वासोज्ज्वलकामस्य शिक्खायानिशमुज्ज्वेरा ? | प्रति वक्त्रं प्रबुद्धासौ जीवात्मानं परे कुते || नियोजयति तद्योगाद्यात्येव ममृतं परं | वेगात्प्रेद्भिद्य नासान्तं गतौचंद्रदिवाकरौ || अधोचक्रं महापद्मं क्रोडी कृत्य सुषुम्नया | व्याघूद्यनासिका मध्यं गता चित्रांगसंगता || प्. ७ब्) ऊर्ध्वं भित्वात्तलिंगं वै इतरं पुष्करं ततः | वहीरत्नमनाकांक्षी साक्षिणी मोक्षदायिनी || जीवेनादृष्टसंरुद्धा स्थिता सा पर संनिधौ | एतद्भेदं विजानाति भित्वा याति परं पदं || अदृष्ट धातु जीवो सौ वहिर्याति दिने दिने | दिने शाङ्गुलिमानेन तदर्द्धश्चापरास्ततः || द्विगुणं प्रीति काले स्यात् त्रिगुणं भोजनाद् वहिः | ऊर्ध्वं वहिर्देव दिनं त्रिदिनं यदि भैरव || न्यूनं वा तदधः प्राणः शरीरं परिमुंचति | शरीरं समतां नीत्वा न्यूनं वा वटुकेश्वर || कुंभयित्वा अधो वायुं कुण्डली मुखवर्त्मनि | योजयित्वा ततो जीवं नीत्वा नादावसानकं || गमागमं कारयित्वा सिद्धो भवति मानवः | पीयते खाद्यते यत्तस्तत्सर्वं कुण्डली मुखे || हुत्वा सिद्धि मवाप्नोति न स बंधेन बुध्यते | भित्वा कार्या न चत्वार्यं कुण्डलिन्या कृते पुनः || हेमातर्द्देहिमे भिक्षां कुण्डली तर्पयाम्यहं | अवधूताम्र मे स्थित्वा भैरवानंद तत्परः || भैरवोहं न चान्योस्मिन् न देवोमत्परः क्वचित् | मंत्र तत्रार्द्ध न सर्वमयिजातं न चान्यथा || प्. ८अ) शिवोहं भैरवोहं नादो मंत्रोह कुलनायकः | रक्तचन्दनदिग्धां परिक्तकौपीनभूषितः || रक्तमाल्याम्वरधरोहेतु युक्तः सम्भवेत्(?) | एवं भिक्षां व्रजन् भिक्षुः भैरवाचार तत्परः || लिप्यते न च पापेन वध्यते न तु जंतुना | यत्र द्वेषे त्वयं याति संदेशः क्षिति नायकः || तंत्र निन्दा परा ये तु ते नश्यंति क्षणात् प्रभो | तस्माद्यत्रात् पूजितव्यो न तिरस्कार एव च || यतेछा विद्यते तस्य तत्कार्यं प्रियमप्रियं | तदन्ये देवदेवेश विलोपाचारविस्तरं || पूजयन्ति महादेवी कुलांग दृष्टिमात्रतः | पुष्पंगंधं च तांवूलं नैवेद्यं यत्र तद्भवेत् || मनसा तत्समुत्सृज्य वाह्यतो कुलवारिणा | आत्मनै तत्समायोज्य देवी रूपं कुलेश्वर || न पूजां नार्पितं न्यास न निष्ठा न व्रतादिकं | पूर्णोहं भैरवश्चाहं नित्यानंदोहमव्ययः || निरंजन स्वरूपोहं निरंकारस्त्वहं प्रभुः | सर्वशास्त्रादि युक्तोहं सर्वमंत्रार्थ पारगः || नात्मात्परतरो देवो न जातो न जनिष्यति | आनन्दरूपवान् भूत्वा सर्वेषां प्रियकारकः || प्. ८ब्) मुक्तदुर्गंध मत्स्यादि त्याज्यं दिव्यवलिं प्रिय | नानासुगंधसंयुक्तं मांसादि भोजनं चरेत् || सुगंधामलतैलाद्यैर्नानागंधांगविस्तरैः | स्नानं कार्यं चाति मुद्धिं सूक्ष्मां वासोभिधापयेत् || सुगंधि पुष्पमालाभिर्मुक्तालंकारभूषणैः | स्निग्धं सुमधुरं देहं कामरूपं मनोहरं || कृत्वा तु मंगलं देहं मृदुभाषण तत्पर | कुलालापानु संधायीं कुलरूपं विचिन्त्य च || विहरेद् दिवसे चैव रात्रा वा हृष्टि तत्परः | आनीय योषितः सर्वाजात्यष्टक समुद्भवाः || गंधानुक्रमनाद्देव नाम कुर्यान्महेश्वर | या स्यात् प्रथम शक्तिस्तु शुद्धान्तः करणा द्विजा || शुद्धापि मलमत्तांगी दिव्यगंधा मनोरमा | सा हि स्वप्नावती देवी तन्मंत्रं तत्र योजयेत् || शुद्ध पुष्पैश्च नैवेद्यैर्ल्लवणैर्मधुसंयुतैः | पूजयित्वा यथा पूर्वं साधयेन्निज साधनं || या कृष्णा नील कृष्णाभा मधु पिंगललोचना | साधकानां *? हृदयायुगला नित्यगंधिका || तस्यां काली समायोन्या सा काली परिकीर्तिता | तत्पुष्पे नैव तां काली तत्रै वेद्यैश्च पूजयेत् || प्. ९अ) या स्यात् तृतीयगौरांगीषु सुगंधानु लोचना | त्रिपुरा नाम सा देवी रक्तपुष्पेण पूजयेत् || मदगंधा तु या नारी मदस्फालनमन्धला | मुक्ता आमिषगंधेन महिषासुरमर्दिनी || मद्य गंधा तु या नारी रक्त नेत्रा विनिस्थुला | सोग्रतारेति संप्रोक्ता पत्युः पापविनाशिनी || अश्वगंधा तु या नारी दीर्घाजंघामनोहरा | सास्याच्चकित लोलाक्षी अश्वारूढावरप्रदा || आमगंधा च वदने पूतिगंधा च संधिषु | नीलवर्वरकेशीं या विद्यादुर्गामहोत्सुखी || सर्वलक्षणसंयुक्ता नानागंधसमागता | सुदती चारूकेशी या दीर्घनेत्रामनोहरा || नानाविलास कुशला कुलशास्त्रविचारिणी | गुरुवक्षस्थलाक्रांत मध्याविरलदर्शिनी || सुदती सा भवेद्गौरी सर्वकार्यप्रवर्द्धिनी | एतद् गणैः समायुक्ता नाना वा एकजातया || रूपगंधसमायुक्ता नामतः परिकीर्तिता | रक्षितव्या प्रयत्नेन अक्षतास्ता यथा भवेत् || स्वयं कामेश्वरो नाम्ना भूत्वा कामपरायणः | प्. ९ब्) भाववृद्धिं विधायैव मूलयोगं समाचरेत् | मूलयोगे कृते तत्र सप्ताहात् मरणं भवेत् || न विष्णुर्न हरिः शंभुर्न्न देवी न च षोडशी | न च मृत्युंजयो वापि न न्यासो नापि भावना || तस्य मृत्युक्षयो देव प्रभवंति न देवताः | सा नारी मूलयोगेन नागदंष्टु विधेन वा || वज्रेणाभिद्यगर्भे च महाव्याधि वशादपि | म्रियते तेन पापेन महादेव सुनिश्चितं || देवकृत्या तु वहुधा दृष्टादृष्टविभेदतः | विशेषतोस्त्रादेवेश किमन्यद् वहुजल्पितैः || माययाछाद्य चात्मानं निजस्त्री रूपधारिणी | आगत्य रमते नित्यं तेनैव नश्यते ध्रुवं || तस्मात् स्वदेशे नैव तत्कर्तव्यं सिद्धिवांछया | किं वा कामविलोपार्थं यतितव्यं सुरेश्वरे || कर्मदण्डं समादाय शिवसाम्यं निधाय च | तत्पात्रं चक्र सूत्रेण वेष्टनं सप्तधा कृतं || पाशत्वं सर्वभूतानां रक्षणायस्वयंभुद्दा? | निर्जितोसि महाभाग उग्रवंधविधीयतां || एव मा मंत्र्य तत्सूत्रं शिवाङ्गे सप्तवेष्ठितं | जाग्रद्दृशां समासाद्य स्वापमंत्रं ततो जपेत् || प्. १०अ) संहार स्वप्नतोधिन्या पुटितं प्रणव द्वयं | स्वप्नमंत्रसमाख्यातः स्वापदः सर्वजंतुषु || एवं कृत्वा स्वयं देवो महेशादिक्य एव च | कुलं यदि स्याद् योगेश यश्च संस्मरलोलुप || तदापेक्षा विधातव्या कार्याश्च कर्हिचिद्बुधैः | वराङ्ग शृणु मद्वाक्यमावय शुभहेतुकं || एतत्कार्यसमासाद्य कर्तव्यं तववेष्ठितं | एवमुक्ता निजं कार्यं विधाय साधकोत्तमैः || वक्तव्यं न च कर्तव्यं कुलयोगं महेश्वरः | वीरपत्नीवीरकन्या वीरांगजवरांगना || नाहृष्यासाधकैः पूर्वं यावत् स्यात् मम संस्थितिः | मनः क्षोभे तत्र याते मूलयोगेन यत्फलं || तत्फलं जायते देव सत्यं सत्यं न चान्यथा | वीरपत्नी तु परमास्वयमेव महेश्वरी || तत्सुताकुल विद्यानामाद्यावैति पुरातनी | तद्वधू भुवनेशानी सर्वमंत्रप्रबोधनी || न्यायतोऽन्यायतो वापि वीरपत्नी गुरूर्यदि | वीक्षणादेव सर्वार्थं * * * साधको भवेत् || यदि भाग्यं वशाद्देव वीरपत्नी तु लभ्यते | प्. १०ब्) फलपाकं तत्र कृत्वा किन्नसिद्ध्यंति भूतले || फलपाकविधानं तु सर्वदेव नमस्कृतं | कथयामि महादेव न प्रकाश्यं कथंचन || दृष्टादृष्ट कुलं देव देवगंधर्वकिंनराः | आयांति फलपाकार्थं तस्माद्यत्नविचिंतयेत् || विसर्जनं विधातव्यं गोपनं भावशांतिकं | तत्तत्कार्यविधानेन कुलं कुर्यात् सुशिक्षितं || मातः प्रतिदुना धर्मा धर्मो न हि जगत् त्रये | पतिः प्राणपरोनित्यं पतिरेव परागतिः || पतिरेव परं ब्रह्मपतिः प्राणाधिकः प्रभुः | सर्वतीर्थमयः स्वामि सर्वदेवसमःपतिः || सर्वदेव मयञ्चैव पतिरेव महागुरुः | आगत्योपि विशेत्पार्श्वं मुखं वीक्ष्यस्थिता भवेत् || पतिभावेंगिते दक्षा कृष्णास्यात्पतिदर्शने | उत्तरेणोत्तरं दद्यात् पाहरेद्दूरकर्मणि || सर्वदेवमयं हित्वा या नारीपरगोचरा | शूकरीगर्द्दभीकाकीशृगाली जायते ध्रुवं || अहं तु पुत्रवद् देवि नमेभ्रीतिर्न चेत्रया | तव संगे यो हि याति पति रूपधरः क्वचित् || प्. ११अ) मूलमंत्र जपन्तोयं तद्गात्रे देयमीश्वरी | तया यदि वहिर्न स्यात् तदा स्वपतिरेव च || इतोपि शिष्य या कार्या शिक्षिता कुलयोषिता | रक्षाकार्या विधानेन पूर्वोक्ते नैव चात्मना || योगिनीनां महापूजां वटुकानां च भैरवं | कार्याविघ्नविनाशार्थ कुलवारर्क्षयोगतः || यासां मूलतरोर्मूले मूलविद्या तु कामिका | लिखित्वानेक कालेषु ततो विघ्नैर्न्न लिप्यते || वीरपत्न्यामूलदेशेन कालं मंत्रयोजनं | विसर्जनविधौ देव यदीछेत्फलपातनं || यत्र ये प्रीति रेतस्य कुलस्य कुलवित्तम | तद्रूपं विग्रहं कृत्वा भैरवा वटुकादयः || तत्र वीरार्पणं कृत्वा कुर्वंति फललक्षणं | लिङ्गैर्वाक्यैः पदैर्देव ज्ञात्वा फलसमुद्भवं || देवैर्जातं नरैर्जातं यथार्थज्ञानशास्त्रतः | ज्ञात्वा फलविभागं तु पंचमात् परतः प्रभो || सप्तमाष्टममासाद्वा वृक्षमध्ये सरोवरे | हस्तो दत्तं पादुकाभ्यां विद्यासंहारयोगतः || जपेदष्ट सहस्रं वै स्वयं विक्षात्पतिष्पति | एवं कृते यत्पतति तत्फलं देवनिर्मितं || प्. ११ब्) अश्वामिकं च पतति वैपरीत्यगमागमात् | एतल्लिंगं फलं ज्ञात्वा आनीयक्षालयेत् ततः || दोषभागं परित्यज्य फलवृक्षं प्रणम्य च | ताम्रपात्रे महारण्ये फलपाकं समाचरेत् || रक्षादिकं विधायैव वदुन्नय समन्वितं | नानासुगंधि संमिश्रं सिद्धं ज्ञात्वा विचक्षणः || संस्तुतानलमध्ये तु अघोरं होमयेत् ततः | हेतु मुद्रां मृती कृत्य होमं कुर्यादलक्षितः || रात्रावेवं विधायैव यज्ञशेषं भजेत् ततः | भुक्तमात्रे तु तस्मिन् वै चिरंजीवीक्षितौ भवेत् || सद्यो मधुमती सिद्धिः करस्थाः भोगदायिनी | दिव्यभावः साधकेंद्रमर्त्य शक्रसमो भवेत् || देवानां प्रियकारित्वात् मोक्षं दत्वा महेश्वर | साधकानां कुलज्ञानां न दोषो कल्पपातने || एतत्फलनिपातार्थ फलवत्पापदे पदे | विघ्नं करोति सर्वत्र निजसंकोच कारणात् || फलवृक्षोपरि तथा विघ्नंमाचरति ध्रुवं | फलवृक्षस्य हानिश्चेत् कदाचिद्दैव योगतः || साधकोपि तथा देव भवेन्नात्र विकल्पनं | प्. १२अ) वाचाव्य? मनसा वापि कायाद्वा यदि वाध्यते || फलवृक्षस्तदा देवो नश्यति स्मरसासनं | वाध्यते कुलवृक्षाश्चेत् साधकस्य कृते प्रभो || तावन्न कुल पूजा स्याद् यावन्त निसृतिर्भवेत् | तावन्निजकुलालापो वर्जनीयः प्रयत्नतः || एतत्कार्य विधाने तु योग्यं नास्ति महीतले | अतिदूरांतरे देशे नामवर्णविवर्जितः || करोति यदि भद्रं स्याद् विघ्नं वा फलसाधनं | न दोषस्तत्र वाध्यन्ते साधकाः कुलदेवता || विघ्नप्रधानमेतत् तु कदा चित्फलसाधनं | सफलं समनुप्राप्य क्रियते यदि पामरः || फलं भवति देवेशि पापेन वध्यते ध्रुवं | निन्दा मधुमती तत्र जायते नात्र संशयः || मधुमत्याफलं देव कथयामि शृणुष्वमे | सुधाधारधरावानी वक्त्रान्तस्य प्रजायते || सर्वज्ञ सर्वशास्त्राणां मधिपः कुलनायकः | चन्द्रसूर्यावधिपृष्ट्यां विभूति वहुलं सुखं || देवकन्याप्सरोभिस्तु दिव्यगंधर्वचारणैः | अमृतार्थे प्रीतिकरैर्देवभोग्यैः सुदुल्लभैः || देवकन्या हस्तगतैः रथमारूह्य सोत्सुका | प्. १२ब्) आयाति साधकाकांक्ष हृदया परमेश्वर || यत्र कामेश्वरो देवश्चिंतावशमुपागतः | तत्रैव यांति सततं देवकन्याः सहस्रशः || इन्द्रयोग्यपुरी कृत्वा रमते साधकैः समं | ततो पागतमुक्तात् स मुक्ता तु वहुधा सुखं || चिरकालं भुवि स्थित्वा चांते मुक्ति मवाप्नुयात् | एषतो कथितो देव दिव्यं भावः सुखावहः || न देवो यस्य कस्यापि पशौ गोप्यः प्रयत्नतः | वीरभावो महादेव कथ्यते गुरुभैरव || निर्द्वन्द्व मानसो भूत्वा हृदि कामकलातनुः | निशापूजासु प्रवरोहे तु युक्तः सदैव हि || निजकुलं समादाय स्वयं भैरव रूपधृक् | कुलं च भैरवी रूपं तद्गात्रे न्यास विस्तरं || विन्यस्य सकलं न्यासं नवयोन्यात्मकं तथा | प्रसून तूलिका मध्ये पुष्पे प्रकरसंकुले || नानागंध समाकीर्णे कुलद्रव्ये न यंत्रकं | लिखित्वा पूजयेछंखं घटस्थापनपूर्वहं || स्ववामभागे षट्कोणं तन्मध्ये ब्रह्मरंध्रकं | लिखित्वा तत्र कुंभं वै सौवर्णे राजतं च * *? || प्. १३अ) ताम्रं भूमि मयं चापि यद्वा लोह विवर्जितं | स्थापयेत् कलया देव कुंभं गंधसुवासितं || हेतु द्रव्यं ब्राह्मणादि * * ? भेदेन पूजयेत् | तत्र मंत्रं विलिख्यादौ यद्यत्कुल समुद्भवं || ध्यात्जेष्ट (?) देवतां तत्र जपेदष्टोत्तरं शतं | धेनुमुद्रां प्रदर्श्याय अमृतं तद्विचिंतयन् || दृष्ट्वार्घस्य च पात्रं वै लोलुपाः सर्वदेवताः | नृत्यंति भैरवाः सर्वे नृत्यंति मातरो गणाः || इन्द्रादयः सुराः सर्वे नृत्यंति मधुलोलुपाः | ब्रह्माविष्णुमहेशाद्या नृत्यंति हर्षतत्परा || अर्घभाण्डं द्विधा कृत्वा गुरवे चैकभागकं | एवं कुलापदत्वा वै एकेन देवतर्पणं || पीत्वा कुल रसं देव नानालंकार भूषितः | साक्षायदि गुरूर्न स्यात् तदातोये विसर्जयेत् || आनन्दरूपवान् भूत्वा पूजयेत् परमेश्वरीं | तत्तत्कल्पोक्त विधिना तत्तद्यंत्रे प्रपूज्य च || विसर्जनं विधायाथ स्वकुले योजयेत् ततः | तद्विश्वर स पानेन अमृतं भुज्यते मया || तच्चकोणरसास्वादैः सप्यतु ससजायते | तत्फलग्रहणादेव सुमेरू शृंगरोहणं || प्. १३ब्) लतालिंग न मात्रेण सुधाधौत कलेवरा | मूलयोगे कृते तत्र जपेदष्ट सहसुकं || जपपूतं हवि द्रव्यं गृहीत्वा तर्पयेत् ततः | विधाय तर्पणं देव प्रदक्षिण मनुव्रजन् || प्रणम्य स्तुत्वा कल्पोक्तस्तवेन तोयं येत्ततः | इदं वीर कुलं देव सुंदरं सुमनोहरं || यद्देशे विद्यते वीरस्तत्कुलं वापि भैरव | वनमाली भयं तत्र न च राजभयादिकं || सुमंगलं सदा तत्र धन पुत्र विवर्द्धनं | लक्ष्मीस्तत्र महादेव सुस्थिरा सर्वदा भवेत् || मंत्रं स्वप्न प्रवोधिन्या अवश्यं वृक्षमूलके | योजनीयं प्रयत्नेन न च विघ्नं प्रजायते || नान्यवीरेण तद्योगाद्ग्रहणे दैविकैरपि | योगिनीभिस्तु युक्तं तु न च पापैर्न्न युज्यते || यत्र तत्र कुजेवारे श्मशाने गमने कृते | पूजाफलं भवेत् तत्र सप्तवासरसंमितं || चतुर्दश्या गते तत्र पक्षपूजाफलं लभेत् | नागतेनार्चिते स्थाने पशुरेव न संशयः || नान्यस्यादधिको देव इति चिंतापरायण | साधको क्षोभमापन्नेमपि क्षोभ? प्रजायते || प्. १४अ) तस्याद्यत्नाद्भोग्रयुतो भवेद्वीरवरः सुखी | भोगेन मोक्षमाप्नोति भोगेन कुलसाधनं || विना हेतु समासाद्य क्षोभयुक्त महेश्वर | न पूजा मम संकुर्यान्न च ध्यन न चिंतनं || तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरं | न क्रमद्युति दोषोस्ति नाचारादविदूषणं || यद्यद्गदति निद्राति यत्करोति यदर्घति | तत्सर्वं कुलरूपं तु ध्यात्वा च विहरेत् सुखी || एकाकी निर्जने देशे श्मशाने पर्वते वने | शून्यागारे नदीतीरे निःसंगे विहरेत् सदा || वीराणां जपकारस्तु सर्वकाल प्रशस्यते | सर्वदेशे सर्वपीठे कर्तव्यं न च संशयः || यदि विप्रो भवेद् भ्रष्टः कुलद्रव्यं परायणः | तदानेन विधानेन कर्तव्यं कुलतोषणं || अपरापुष्पगर्भे तु कुलस्थानं मनोहरं | सर्वदेव मुखं तत्र महाकामकलात्मकं || हयाऽरि कुसुमे देव स्वयमस्ति सदाशिव | तन्मध्ये न घुमादाय पुष्पमध्ये तु चंदनं || रक्तं युक्तमरागं वा दत्वा तत्र शिवात्मकं | योजयेत् शिव शक्त्या तु ऐक्यं संभावयन्धिया || प्. १४ब्) क्षणं तत्रैव संपूज्य निश्चित्य परमेश्वरी | जप्त्वा तदेव कुण्डोस्थं द्रव्यं परमदुर्लभं || अमृतादधिकं ज्ञेयमेतद्रव्यं सुदुर्लभं | यत्रा पराजिता पुष्पं जवा पुष्पं च भैरव || करवीरे रक्त मुक्तै द्रोणं वा तत्र तिष्ठति | तत्र देवी वसेन्नित्यं तदन्ते पूजनं मम || दत्तैकैकज वा पुष्पं पट्टवस्त्रफलं लभेत् | ब्रह्महत्यादिकं पापं क्षणान्नश्यति निश्चितं || अपरा या तु माहात्म्यं च वक्तुं न हि महेश्वर | वीर साधन कार्ये तु कर्तव्यं वीर पुरुषैः || दिव्यैरपि च कर्तव्यं पशुभिर्न्न च पानरैः | वरं पामर कार्यं तु न पशौ चेति निश्चयः || यद्यद्यदा पुराप्रोक्तं शक्तेन मंत्रसाधनं | अंजनं गुटिकादींश्च कुर्याद् वीरो महाबलः || दिव्ये वीरेण भेदो स्त्रियो भेदः स च कथ्यते | सन्तो विन्प्रतो(?) मधुरः कलालावन्य संस्थितः || दिव्यस्तु देववत्प्रायो वीरश्चोर्द्धत मानसः | विभूति भूषणं वापि चन्दनैर्वा विलेपितं || आकारगोपनं वापि व्यक्तो वा कुलभैरव | रक्तचंदनदिग्धो वा वैष्णवो वाप्य वैष्णवः || प्. १५अ) असंस्कृते संस्कृतो वा नित्ययुक्त कुलेश्वर | अपमाने च पूजायां हृष्टः पुष्टः सदा भवेत् || देवनिन्दा परो वापि तत्पूजादि परोपि वा | पूजारतस्तद्रहितः कुलीनमतते स्थिताः || निजभावसमायुक्तो देववद्विहरत्क्षितो | स्वकुलान्तं पुरश्चर्या कार्य रात्रौ चान्यथा || वेदहीने द्विजे देव यथा न श्रुति संस्क्रिया | विष्णु भक्तिनिवादेव भक्तिर्न प्रभवेद् यथा || शाक्तज्ञानं विना मुक्ति यथा हास्याय कल्प्यते | गुरुं विनायथा तंत्रे नाधिकारः कथंचन || पतिहीना च या नारी सर्वकर्मविवर्जिता | कुलं विना तथा देवो वीरो वा मम साधकः || नाधिकारीति कौलेय तस्माद् भाव परोभवा | अविनीतं कुलं यस्य स कथं मम पूजक || तस्माद् यत्नात् तथा कार्यं यथा स्याद् विनयान्वितं | भावाभाव कुले शास्त्रे नाधिकारः कथंचन || तेन भाव विशुद्धस्तु साधकः कौलिको भवेत् | श्रीदेव्युवाच || पशुभावं प्रवक्ष्यामि शृणु वत्स समाहितः | यथाविधि पशोर्द्दां ########### END OF FILE #######