#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00575 Uniform title: bhāvacūḍāmaṇi Commentator : vidyākaṇṭha Manuscript : Shri Ragunatha Temple MSS Library Jammu no: 5291 Description: Notes: Manuscript selected by Mark S.G. Dyczkowski. Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: October 9, 2021 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : United States #################################################### प्. १अ) ओं नमः शिवाय || समस्तसिद्धांतसुधासमुद्रसंप्लावनायेंदुकराभिरामाः जयंति वाचो भुवि रामकंठभट्टस्य विद्येश्वरतुल्यमूर्त्तेः | ततो वाप्तः श्रुतश्चैव ज्ञानरत्नविधानतः | भावचूडाभिदं वक्ष्ये विद्याकंठश्च संग्रहम् || इह हि पूर्वभगवतः स्वयंभुवः साक्षाच्छिप्येन मयेन यथा यश्च शिवाराधनादावुपायो मुनिभ्यः कथितस्तथा तच्छिष्यः स्वशिष्येभ्यः कथयति | पृष्ठे हिमवत् | इत्याद्येन हिमालयस्याग्रदेशे पादसमीपे स्थिता मुनयः मयमुपविष्टं दृष्टंवंतः | इति प्रक्रिया दर्शनाय सृष्टोपि श्लोको व्याख्यातः | वेतारं सर्वविद्यानाम् इति || चतुर्दशविद्यास्थानज्ञम् चतुर्दशविद्यस्थानानिः पुराणस्मृतिमीमांसधर्मशास्त्रांगमिश्रिताः वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशेतिः सर्वाणि शिल्पानि कलाकौशल विषेशास्तेषां प्रवर्त्तकम् | अनेनास्य विश्वकर्मत्वम् | शिवैकाहित चेतस्कं परममाहेश्वरम् | भक्तानुग्रह तत्परमितिः | अन्येषामपि गुरुं प्रबोधरोचिर्भिरिति श्रुतपाठाभ्यां तेजोयुक्तैर्हर्षव्याप्याकुलेक्षणा इति | अनेनानुमित शक्तिपाताः श्रद्धादमादिभिरात्यसंस्कारैः शोभायुक्तान्सतानाहेत्यादि | शास्त्रावतारकं भगवंतं श्रीकंठनाथं नमस्कृत्य स विश्वकर्मा तान् मरीच्यादीनित्याह | देव देवस्य यजनं साध्याद्यंगापेक्षयात् तदाधारानेकत्त्वेन च तत्र यजनांगानि समाधिर्धारणेति | समाधानं समाधिर्योगांग वैलक्षण्येन धारणा चेतसोभिमतप्रदेशो निरोधः | तथा च पतंजलिः || देशबंधश्चित्तस्य धारणेति | ध्यानमंतर्यागादनंतरं तदर्थं वा हृदाद्येकदेशे परमेश्वरादेकार चिंतनम् | तथा च शार्धशतत्रये श्रीमत्कालोत्तरे | ललाटे चेश्वरं ध्यायेदितिः | जप उपांशुर्मानस उच्यते | अनभिप्रेतसंख्यया मंत्रोच्चारणम् | भावः शुद्धात्मको भक्त्यादिः | प्. १ब्) तयांसि प्राणायामादीनि यदुच्यते | प्राणायामः परं तपः अथाधाराः स्वमूर्तावित्यादि | तत्र कृत सन्निधाविति पदं स्वमूर्तावित्याद्यानां चल इत्यंतानां प्रत्येकमभिसंबध्यते | तत्र सन्निधिकर्णपूर्वस्य यजनस्योक्त त्वात् | यजनं श्रेष्ठमेतेभ्यो लिंग एवेतिः एतेभ्यः प्रोक्तेभ्य आधारेभ्यः लिंगात्मके विशिष्टतरे आधारे यजनं शोभनमित्यर्थः | तथा च महाभारतादौ भगवान् व्यासमुनिः | सर्वरूपं भवं ज्ञात्वा लिंगे योर्चयते प्रभुम् | तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वज इति || किमात्मकमिति | किं प्रकृति किं कारणकम् | विधिभेदाश्च तद्गता इति लिंगविषयानि विधानांतराणि ब्रूहिति वक्षमाणेन संबंधः | आस्था प्रतिष्ठा शुभाशामास्थितमिति | इह शैवशास्त्रे पूर्वपश्चिमोत्तरैशानीनां चतसृणामेव दिशां शुभत्त्वं काम्ये स्वानुगमितिः | यथा कामनार्थानुगुणायां दिशि स्थितम् | यथा परसंताप चिकीर्षुराग्नेयदिगातं यायात् | मरणचिकीर्षुर्याम्य दिक्स्थं रोगादि विधित्सुर्नैनृत दिक्स्थमुच्चाटन कृद्वायव्य दिक्स्थमिति यावत् | अथाचार्ययलक्षणं | दैशिकोत्तमः | आर्यदेशसमुद्भूतः इति आर्यदेशः यत्र शास्त्रार्थ विचारः तस्य च सम्यगनुष्ठानं ततनुद्भवो यस्य तथा शुचिरिति परस्वादान निस्पृहः | तथा च स्मृति | योर्थे शुचिः संहि शुचिः न मृद्दारिशुचिः शुचिरिति | दक्ष इति | स्वकर्मणि दीक्षा व्याख्यानादौ सर्वत्र चतुरः | समाहित इति | श्रोत्रियोनुष्ठाना च चीर्णाचार्यय व्रत इति | आचार्ययाभिषेकादनंतरं शास्त्रांतरोक्तमाचरितमाचार्यव्रतं येन यथोक्तं श्रीमत्स्वायंभुवे || अथाचार्ययव्रतं श्रेष्ठं चरेदाचार्यय एव हि | पक्षद्वयमधः शायी नक्राशी चरुभुक् सदा || मौनीत्रिषवण स्नायी इत्यादि | विद्वानिति पंडितो न मूर्खः | यदुक्तमन्यत्र राज्ञोभ्राप्तुः स संदेहो गुरुर्भक्ति वर्जित | प्. २अ) इति | नक्षत्रे चंद्रतारादीत्यादि | प्रथमतृतीयषष्टसप्तमदशमैकादशस्थानस्थितत्त्वान्नक्षत्रस्य परिशुद्धिः | यदाहु ज्योतिः शास्त्रविदः | जन्माश्रितस्त्रिषष्टश्च सप्तमो दशमस्तथा | एकादशगतो नृणां चंद्रः सर्वार्थ साधक || इति ताराजन्म संपद्यानवताभ्यस्तृतीयापंचमीसप्तमीनां परित्यागान्नारापरिशुद्धिः आदिग्रहणद्योगपरिशुद्धेपि कालदंडादिभिरेकादशभिर्ना स्नाप्यशुभैर्वजिते | यदुत्कं श्रीमत्स्वायंभुवे || नाम्नै वा चोदितान्योगानेकादशपरित्यजेदिति | अनय प्लुत इति | विष्टि वृहद्व्यतीपातादिभिरवादिते दारुणोग्र चर इत्यादिना | दारुणानि आद्राश्लेषा ज्येष्ठामूलानिमारणादि कर्मसु | उग्राणिमघाभरणीति स्रश्च पूर्वा श्मशानवेतालादि सिद्धौ | चराणिस्वातिपुनर्वसुश्रवणधनिष्ठाशतभिषः उच्चानानादिषु | क्षिप्राणि हस्तः पुष्योऽभिजिदश्विनीक्षिप्रकार्ययसाधने | ध्रुवाणि रोहिणीति स्रश्चोत्तरा मोक्षादि कर्मसु | मृदूनि चित्रानूराधारेवतीमृगशिरांसि मृदुस्वरूपकार्ययायैव | लग्ने पूर्वोदयेत्यादि | मेषादि राशिनामेव लग्न व्यपदेशः तस्मिन् शीर्षोदये शीर्षोदयाः षट् मिथुनसिंहकन्यातुलकुंभवृश्चिकाः मेषवृषकर्कटधनिमकराः पंच पृष्ठोदयाः मीनस्तूभयोदयः भावास्तबुध न सहजा इत्याद्याः कालाख्य पुरुषस्यावयव स्थानीयाः तेषां समूहश्चक्रं | तस्मिन् शुद्धे तस्य च शुद्धिरित्थं यथा स्वमनुकूलस्थानेषु ग्रहाणामवस्थितिः | यदाहुः जीवः सप्तनवद्विपाक्रमगतो वक्रार्कजौ षट्त्रिगौ इति | सदैशिके इति नवांशकादि कल्पनया यस्य राशेर्यस्य नवांशकस्य शोभनता तद्युक्तो यथा मेषस्य प्रथमनवांशको मेषांशक एव कर्कटस्यैवमेव | प्रथमनवांशकर्कट संबंधी स च तस्य शोभना इति | स्वस्वामीतिः मेषादीनां द्वादशानां राशीनां क्रमेणाधिपाः अंगार शुक्र- प्. २ब्) बुधचंद्रार्क बुधशुक्रभौमगुरुसौरसौरगुरवः कुजशुक्रज्ञेंदुर्कज्ञ कुजजीव सौरयमगुरवोभेशाः | तेन दृष्टे ग्रहस्य च दर्शनमेवं | यस्मिन् स्थाने ग्रहो वर्तते | तस्माद्दशम तृतीये द्वे स्थाने दृष्टेश्चतुर्भागेन पश्यति | नवम पंचमे अर्ध दृष्ट्या | चतुर्थाष्टमे पादत्रयेण | सप्तमं समग्र दृष्ट्यै च | यदुक्तं तत्रैव दशम तृतीये नवपंचमे च चतुर्थाष्टमे कलत्रं च पश्यंति फलानि चैवं प्रयच्छंति इति | तत्सुहृदिति | तत्सुहृदाराशीश्वरमित्रेण वा दृष्ट इत्यर्थः | तत्सुहृदोग्ने वराहमिहरोक्त्यैवोक्ताः इह तु सामान्येनोच्यंते | सूर्यभौमगुरुचंद्राश्चंद्रस्य सूर्यबुधौभौमस्य गुरुचंद्रार्का बुधस्य रविशुक्रौ गुरोः सूर्ययेंदु भौमाः | शुक्रस्य बुधशनैश्चरौ सौरस्य शुक्रबुधावितिः | सौम्यवीक्षित इति | सौम्यग्रहा बुधशुक्रगुरवश्चंद्रस्तु शुक्लपक्षे बुधस्तु पापयोगात् पापः न पुनः स्वतः यदप्याहुः | क्षीणेंद्वर्कयमाराः पापास्तैः संयुतः सौम्य इति पुनरपि लग्नविशेषणं | वीर्ययवन्नर इति | वीर्ययवन्नरत्वं लग्नस्येत्थं | यदा स्वस्वामि योगः सोम्यग्रहदर्शनं च सौम्यग्रहेण वा योगः स्वस्वामि वीक्षणं च | यदुक्तं तत्रैव अधिपद्युतो दृष्टो वा बुधजीव निरीक्षितश्च यो राशिः स भवति बलवानिति | प्रसन्नमानसे त्र्यंशे इति | त्र्यंशोद्रेक्काणाभिधानात्मको ज्योतिः शास्त्रे दृष्टो देवता विशेषः स यस्य राशेः प्रहर्षितः | यदुक्तं वृहज्जातके | भूषितो वरुणवद्वहुरत्नोवद्धतूणकवचः स धनुष्कः नृत्तवादित कलासु च विद्वान् काव्यकृत्पियुनराशावसाने इति | अन्यच्च गौरी सुधौताग्रदुगूलहस्तासमुच्छ्रिता कुंभकटच्छ्रिस्ताः देवालयं स्त्री प्रयताः प्रवृत्ता वदंति कन्यांत्यगतस्त्रिभाग इति | तस्मिंस्तथा भूतेराशाविति | समानाधिकरण्येणैव सप्रमो व्याख्येया अप्रसन्नमान सा द्रेक्काणाश्च तत्रैव निर्दिष्टाः तेः ग्रंथगौरव भयान्न प्रहर्शिताः प्. ३अ) रत्नभांड समन्वितश्च कस्य चिद्राशेः संभवत्येव | यदुक्तं तत्रैव किन्नरोपमतनुः स कंबलस्तूण चापकवचैः समन्वितः कुंभमुद्वहति रत्नपूरितं सक्ंदगं मकरराशि पश्चिम इति | अन्यच्च | सुर्णभांड मुक्तामणि शंखमिश्रैर्व्याक्षिप्तहस्तः सविभूषणश्च भार्ययाविभूषाय महानिधानांनावं प्लव व्याधि गतो झषस्येति | तस्मिंस्तथा भूते द्रेक्काणेपि लग्न इति स्थितमेव उर्जित इति द्रेक्काणयुक्ते उर्जितश्चोक्त एव तत्र मनुष्यवक्त्रो श्वसमानकायो धनुर्विगृह्यायतमाश्रमस्थः क्रतूपयोज्यानि तपश्विनश्चररक्ष पूउर्वोधनुषस्त्रिभाग इति | किं च हयाकृतिः | पांडुरमाल्यशेखरोबिभर्त्ति कृष्णाजिनमंबरं नरः दुरासदः सिंहदुवान्नकार्मुकोनताग्ननासो मृगराजमध्यम || इति एवं विधोर्जित द्रेक्काणान् मम करलग्ना संभवे निर्विषा देवा वा शब्दाः पक्षांतरे | विषादरहित द्रेक्काणात्मके वा गच्छेदित्यर्थः | सविषादानामपि तत्रैव तत्र संभवात् | तथा च | मद्माश्रिता मूर्धनि भोगि युक्तास्त्रीकर्कशारण्यगताविरौति | शाखां पलाशस्य समाश्रिता च मध्य स्थितः कर्कटकस्य राशेरिति | अन्यच्च | उद्यान संस्थः कवचीधनुष्मान् शरास्त्रधारीगरुडाननश्च क्रीडात्मजालं करणार्थ चिंतां करोति मध्ये मिथुनस्य चायमिति | कृत्यनुगे पिवेति | कर्तव्य प्रयोजनानुरूपे वा सिद्धिरयमर्थः | अभिचारादि क्रूरकर्म निमित्तं तदर्थात्मक द्रेक्काणयुक्ते वा लग्ने तथा विधार्थसिद्धिर्भवत्येव तथा विधाश्च तत्रैवोद्दिष्टाः श्रुतांतिके सर्प विवेष्टितांगो वस्त्रैर्विहीनः पुरुषस्त्वटव्यां चौरानलव्याकुलितांतरात्मा व्याक्रोशतेंऽत्योपगतो झषस्येति | अन्यच्च | रोमचितोमकरोमपदंष्ट्रः सूकरकायसमानशरीरः योक्तृकजा- प्. ३ब्) लकबंधनधारी रौद्रमुखोमकरः प्रथमस्त्विति | किं च | विभीषयंस्तिष्ठति रत्नचित्रिते वने मृगान् कांचनतूणवर्मभृत् फलामिषैर्वानर रूपभृन्नरस्तुलावसाने यवनैरुदाहृत इति | अन्यच्च | शल्मलेरुपरिगृद्ध्रजंबुकौश्वानरश्च मलिनांबरान्वितः | रौतिमातृपितृविप्रयोजितः सिंहरूपमिदमयमुच्यते || इत्येवमात्मकैरेवं रूपायामेवार्थसिद्धौ याद्यादिति प्रकृतेन संबंध इति त्र्यंशायावां मुखीति राश्यर्धस्य होरेति संज्ञा व्यपदेशः तस्याच्चोर्ध्वमुखतिर्ययङ्मुधोमुखत्वेन त्रिप्रकारत्वं | यदाहुः ऊर्द्ध्वं तिर्ययञ्वानतास्या च होरेति | तत्रोर्द्ध्वमुखीयारविणोपभुक्ताया तु तदधिष्टिता सा तिर्ययङ्मुखी यातु तेनैव क्रमणीया साधो मुखी यदप्याहुः मुक्ता क्रांतानागता च क्रमेणेति तासां मध्यान्मुक्ति निमित्तमूर्द्ध्वमुखीहित्ता प्रशस्ताया संहितांतरेष्वंगारिणीत्युक्त्वा अभिचारार्यमधोमुखी या धूमेति तत्र प्रसिद्धा शाकुनोक्त्येति कपिंव्रलकोकिल मयूरादि प्रशस्त पक्षि विरत श्रुत्याहितमभिमत फलप्रदं शकुनं ज्ञात्वा श्रुतिरप्याह | भद्रं पुरस्तान्नोवद भद्रं पश्चात् कपिंजलेति | महाकविरपि कालिदासः वामश्चायं वदति मधुरं चातक इति | नोक्त्येति | अकस्मादेकजनसमुद्धोषित जयपुण्याह क्षेमाद्युक्त्यावेतिः | विकल्पार्थः या यादायम्य वा प्राणानिति | प्राणापानावायम्य दैर्घ्यं नीत्वानुभवेन वामदक्षिणनास्मरंध्राभ्यामन्यतमेन प्रवहण जिज्ञासया तज्जिज्ञासायाश्च प्रयोजनमेतत् | यदि वामरंध्रवाहिनः प्राणास्तदानुकूलाः प्रोक्त शकुना संभवेपि यायात् इत्यपि विकल्पार्थः अशांतिं विधाय गच्छेदिति प्रकृतेन संबंधः | अथ शिलापरिक्षा | स्निग्ध ध्वनिरिति | अव्यशब्दाः स्निग्धा अरूक्षासिताद्येति रक्तपीतवर्णास्तिस्रोपि प्. ४अ) ब्राह्मणस्य सितवर्णा तु ब्राह्मणस्य एवं क्षत्रियस्य पीतकृष्णवर्णे रक्ता तु क्षत्रियस्य वैश्यशुद्रा पेक्षयै चैतदवधारणं न तु ब्राह्मणस्येक्षया तस्य प्राक् तद्विषया या प्राप्ते रुक्तत्वात् | एवमपि कृष्णवर्णा वैश्यस्यै पीता तु वैश्यस्यैव कृष्णवर्णा तु शुद्रस्यैत्ययमत्रार्थः | उक्तं च श्रीमत्कामिके | एताश्चतस्रो विप्रस्य तिस्रो राज्ञ उभे दिशः | एकाशुद्रस्य नियमाच्छिलेति | गूढच्छायेति | गूढागंभीराचलाच्छाया शोभा यस्याः सिद्धावधोमुखीति | साधना लिंगचिकीर्षया बुध्नभागे मुखलक्ष्मकर्तव्यमित्यभिप्रायेण तत्र लांच्छनं कुर्यात् | मुक्तावूर्द्ध्वमुखी उत्तानमुखी ऊर्द्ध्व एव गमनं मुक्तिर्यतो हीनरेखा भवतीति हीनारेखाः सितवर्णाया यदि रक्ताः पीता वा कृष्णा वा यदि भवंति | तदा सा ब्राह्मणस्य नेष्टेति वक्ष्यमाणेन संबंधः | तथा च श्रीमत्पिंगलामते | हीनरेखोतमाहीनेति | रक्तवर्णायाः सितारेखा यदि भवति | तत्सा ब्राह्मण क्षत्रिययोः शस्येत इत्येवमन्यासामपि द्रष्टव्यम् | यदुक्तं तत्रैव हीनरेखोत्तमा शुभेतिः गौरेति स्फटिकानुकारा टंकादि लोहशिल्पि भांडक्षयंकरी च | उक्तं च पैतामहे | स्फटिकाभा भवेद्गौरा बहुलोहक्षयंकरी | कीलादृढां कुरु श्लेषा ऊर्मयः जलतरंगानुकारारेखासमूहाः पुटाशुक्ति पुटाकारा बिंदवो वर्णात्मकः | प्रागुक्तरेखा संबंधिनो भागैक देशाः विमलैः पाषाणात्मकैर्या चान्वितेति कीलादिनां प्रत्येकं योज्यम् दुष्टसत्वानां सर्पवानरमकरादीनामनुकारो यस्यास्तदातानि शकलानि खंडा यस्याः उदक्तस्या इति उत्तरस्यां तस्याः शिलाया दिशि स्थंडिले भूमानेव पूजितः शिवभट्टारको येनाचार्येण स तथा हुताग्निरिति कृताग्निकार्ययः साधारणेन मंत्रेणेति साधारणमंत्राः सप्त | यदुक्तं प्. ४ब्) संहितांतरे | प्रणवो मातृकाव्योमव्यापी षडक्षरः प्रसादो बहुरूपश्च सप्तसाधारणाः स्मृता | इति एभ्य एकेन सिद्ध्यर्थं साध्यमंत्रेण शिल्पिनः तत्कर्मजीविनः संश्रितव्रतानिति गृहीता ध्यवसायान् सहायानिति गुरुसंबंधिनः शिष्यान् नियत इति वाङ्मवसास्यामविचलेंद्रियः महेशं ध्यायन् | तथा स्वप्नमानवकं मंत्रं जपन् सुप्यात् | सर्वर्ययते इति | रात्र्यवसाने निश्चित्तं स्वप्नमिष्टामनिष्टं वा पश्यति | गर्तेति | यस्या देशांतरेषु दध्न इति दधिलाभस्तदभक्षणं च ते श्रेष्ठे | विष्टायाश्चेति | मूत्रादीनां मलानां लाभक्षणेन श्रेष्ठे विष्टावर्जम् व्यजनं तालवृंतादि विघ्नवर्जितमित्य संशयमेव विधिभंगायेति विधानविहतये कृतकृत्य इति निष्प्रयोजनः आकोटयेदिति | भागत्रय कल्पनया चिह्नलेखाभिर्लांछन पूर्वम् स्वल्पं हन्यात् ब्रह्मत इति ब्रह्मस्थानात् मुक्त्य पेक्षया भुक्त्य पेक्षया तु रुद्र स्थानात् यान इति शकटादौ तदधिष्टात्रीमिति | वृक्षाधिष्ठायि कामीश्वर शक्तिं विसृज्य सर्वत्र तस्याः सर्वदा च सन्निधानाद्यदुक्तमन्यत्र | नसालबहुला काचित् संतान द्वयवर्तिनी | व्याप्त्री शिवकला यस्यामधिष्ठात्री न विद्यते || इति | तां संवक्ष पूज्यवक्षमाणेन च मंत्रेण विसर्ज्य वृक्ष चिदात्मानं च निरोध्य स जीवस्यैव तस्योपयोगो पपत्तेः सारवदिति सारदारुतये हतस्य प्रसिद्धिः क्षीरद्रुमः पलाशादिः माधुर्यय गंधगुणवदित्यादि | माधुर्ययगुणयुक्ताज्जातं सौभाग्यदम् | गंधगुणयुक्ताद्वृक्षविशेषादुत्यादितं यत्तत्कीर्त्तिदमित्यर्थः | सुराह्वेति देवदारुशाकेति | शाकाभिधानो वृक्षविशेषः | देशांतरे प्रसिद्ध एव देवदार्वादिभिर्बिल्वांतैर्वृक्षैर्यानि क्रियंते तानि सर्वप्रदानीत्यर्थः | पिशाचवृक्षोविभीतकाभिधानः प्. ५अ) @@@@बहेदुकफलजनकः कोलाक्षिः पक्षि विशेषः तद्भूयिष्ठा ये ही च मूलेति | मूलवर्जिनाये | विवर्ति मूलाः अश्वत्थादयः कोटरेतिः कोटरः सुशिरात्मकः सारांशो येषां क्लिंन्नो वा स एव येषां घटसिक्ता इति | यत्नविवर्धित वल्मीकः पिपीलक निचितो मृद्राशिः ततो जातः | मधुपाक्षि कृतालया | इति | माक्षिक साधकैः पक्षिभिर्गणाभिधाना ये देशांतरे प्रसिद्धास्तैः कृत आलयो येषां | लोकानाम प्रसिद्धा इति | न केन चिज्ज्ञायते वेदाः श्रीकृतमिति चतुरश्र तां नीतं | मानोन्मानांदीति | मानं पार्श्व दिशा उन्मानमूर्द्ध्वमान आदिग्रहणात् प्रमाणमपि सर्वतोऽनोहात्मना * कैलमिति | तदभिप्सितं शैलं रूपं नवहस्तांतमुत्तमोत्तमम् | लिंगं च शब्दात् पार्थिवं शैलं प्रोक्तमानेनेवोन्नमोत्तमम् | निष्विति पुरुषविषयं हितम् | त्र्यंशोनमिति | अतः प्रोक्तमानान्नवहस्तात्मकात्त्र्यंशेनोनं दारुजं षड् हस्तमुत्तमोत्तममिति | वक्ष्यमाणेन संबंधः लोहमस्यार्धेनेति | अस्यानंतर प्रोक्तस्य षड् हस्तस्यार्धेन त्रिहस्तपरिमाणेन लोहमयमुत्तमोत्तमम् | तदप्यूनमिति | यदेतच्चतुष्प्रकृत्युन्नमोत्तमुक्तं तदपि प्रत्येका पेक्षया त्रिभागेनोनं मध्यममुत्तममिति | वक्ष्यमानेनाग्र्यशब्देनोत्तमशब्दप्रतिपादनं येन तेन शैलं षड् हस्तं मध्यमोत्तमं लोहं द्विहस्तं मध्यमोत्तममिति | यावत् तद्विखंडितमिति | चतुर्णामपि संबंधि मध्यमोत्तमं मानं द्विखंडितं कृत्त्वा काव्यावस्थया तदर्धमानतः काव्यसाग्र्यम् तेन शैलपार्थिवे द्वेत्रिहस्ते मध्यमोत्तमे दारुजं द्विहस्तं लोहं हस्तमित्यर्थः | त्रिभागैः स्वैरिति एतान्येव त्रीणि त्रीणि लिंगानि प्रतिप्रकृतियानि तानि स्वैः स्वैस्त्रिभागैः नवधा नवधाभिद्यंते | अयमर्थः | प्. ५ब्) उत्तमोत्तम लिंगापेक्षयामध्यमोत्तमस्य त्रिभागत्वं तत्त्रिभागानुमानपातत उत्तमोत्तममध्यमोत्तमकन्यमोत्तमेभ्यः अन्यलिंग षट्कं भवतीतिः | इत्थं स्वैस्त्रिभागैर्नवधाभेद उत्पद्यते | तेन शैलपार्थिवप्रकृतीनां हस्तात् प्रभृति नवहतां तं यावत् | नवनवस्थितान्येव दारुजस्योत्तमोत्तमान्माना षोडशांगुलानुपातेनांतरा मध्य कन्यसं यावच्चत्वारि लिंगानि भवंति | पूर्वेः सहेवं सप्तकन्यसाग्र्यादधो द्वेतद्वदेवान्ये एवं नवमृगेंद्रेपि दारुजं लिंगं पर्वभिः षोडषांगुलैरिति | एवमपि लोहस्याष्टांगुलानुपातेन | तत्राप्युक्तं | लोहं करोत्तमं भागैर्वसुसंख्यैरवांतरमिति | एवं हस्तमानलिंगान्युक्त्वा पूर्वनिष्पन्न प्रासादमानेनोच्यंते प्रासादगर्भमानादित्यादि | वक्ष्यमाणानां चतुर्हस्तादि षट्त्रिंशद्धस्तांतानां नवानां प्रासादानां प्रत्येकं गर्भमानाद् भवंति | इति विकल्पमानविधिः दशायि पंचवृद्धानां साधारत्वेन वक्ष्यमाणत्वदितदनुपयोगः एवं प्राकृताभि प्रेतप्रासादगर्भपंचभागत्रयेणोन्नमोत्तमं | तथा नवभागपंचकेन मध्यममध्यमं वक्ष्यमाणवांतर भेदश्रुतेः तथैव तदगर्भार्थेन कन्यसम् | तच्चतयैव श्रुत्या कन्यसकन्यसंभविष्यति | तदवांतरभेदेनेत्यादि | तेषां त्रयाणां ये अवांतरे मध्यप्रदेशे द्वौ तत्र भेदः सूत्रत्रयदा वादिना तेन षड् लिंगानि उत्तममध्यम उत्तमकन्यसमध्यमज्येष्ठामध्यमकन्य सकन्यसोत्तममध्यमाभिद्युनानि भवंतीत्येवं प्रतिप्रासादं गर्भमाना इवलिंगानि एष एवार्थः | श्रीमत्किरणादावुक्तः | गर्भवान् कन्यसंलिंगं पंचभागे कृते सति | त्रिभिःस्यादुत्तमं लिंगं नवधा भाजिते सति || प्. ६अ) पंचभिर्मध्यमं लिंगं भवेन्मध्यममध्यमम् | तदूर्ध्वाधो भवेद्गर्भो भाज्यांशैः स त्रिभिस्त्रिभिः || एवं गर्भे यथायोगं लिंगानि नवसंख्ययेति | ज्येष्ठज्येष्ठादिति प्रदिपादितयोपपत्या बहुत्त्वेपि लिंगानामिदं ज्येष्ठज्येष्ठं ज्येष्ठमध्यं ज्येष्ठकन्यसं मध्यमज्येष्ठमित्येवमात्मकेन भेदेन नवैवन बहूनि इत्यर्थः | ज्येष्ठादि व्यपदेश इति | योयं ज्येष्ठज्येष्ठादि व्यपदेशः स लिंगापेक्षया प्रासादाविषयोपि स्थित एव तत्र वक्षमाण चतुर्हस्तादि षटत्रिंशद्धस्तांतानां नवानां लिंगो यानेनैव वक्ष्यमाण युक्त्यापि सिद्धितः स्थितो यथा नवहस्तस्य लिंगस्य मानाधिक्यादुत्तमोत्तमस्य षट्त्रिंशद्धस्त उत्तमोत्तम एव प्रासादः एवं हस्तमानस्य कन्यसकन्यसस्य चतुर्हस्तः प्रासादः कन्यसकन्यसः स्थित एवेति सिद्धम् | गर्भमानलिंगापेक्षया तु प्रतिप्रासादं ज्येष्ठादि व्यपदेशो नवात्मकेपि निविष्ठः | अयमर्थः | योपि वक्ष्यमानेन प्रमाणेन षट्त्रिंशद्धस्तः प्रासादस्तस्यापि स्वगर्भमानात् कन्यसकन्यस लिंगाश्रयत्वेन कन्यसकन्यसत्वमेवमपि चतुर्हस्तस्य गर्भमानमुत्तमोत्तमलिंगाश्रयत्वेनोत्तमोत्तमत्वमित्यर्थ सिद्धम् | प्रासादेभ्यश्च लिंगानामिति | प्रागुक्तानुवादः पीठानां चेति | च शब्दात्पीठानामपि प्रासादेभ्यः ज्येष्ठादिव्यपदेशः तथा ते नैवार्थेन शब्द वैचित्र्यात् प्रासाद गर्भादेव पीठमानं प्रतिपादयति शरांश त्रितयेनाग्र्यमिति तयोर्मध्येनेति तयोरुत्तमोत्तमयोः कन्यसकन्यसयोर्मध्येन मध्यमप्रमाणेन मध्यमप्रमाणेन मध्यम प्. ६ब्) मध्यमं पीठं भवतीति वाक्यशेषः यल्लिंगविधावुक्तं नवांशैः पंचभिर्मध्यममिति | तदन्यानीति | तेभ्यः अन्यानि षट्लिंगवत् पीठानि यथापूर्वं लिंगत्रयमुक्त्वा तदवांतरभेदेनान्यानि षट् उत्पादितानि तथैव पीठानीत्यर्थः | लिंगायति प्रमाणानीति | यद्यपि शरांश त्रितयेनाग्र्यमिति | एतेन पीठमानं प्रतिपादितम् तथापि वक्ष्यमाण लिंगमानेन प्रसादविषयमिदं तत्रया लिंगस्यायतिर्दैर्घ्यं तत्प्रमाणेन विसृतम् पीठम् यावल्लिंगस्य दीर्घत्वं तावत्पीठस्य विस्तर इति उच्छ्रितोरग्रे वक्ष्यमाण त्वात् अव्यक्त मुखलिंगानां समं विप्ल्वंति कोच्छ्रयम् व्यक्तेश्चासदृशायामंतर्धोच्छ्राय विस्तरम् | इत्येतेन ज्येष्ठ मध्यादिक इति तुल्यफलत्वेन ज्येष्ठादि भेदो निःप्रयोजनः स्यात् फलभेद विवक्ष्यया तु ज्येष्ठमध्यादि भेदतः | यदुक्तं प्रतिष्ठा पारमेश्वरे || अंगभूयस्त्वयस्त्वतः प्रोक्तं फलभूयस्त्वमत्रत्विति | इहापि वक्ष्यते | प्रतिष्ठालिंगवेदिनां यावंतः परमाणवः तावद्वर्षसहस्राणि कर्तुभोगभुजः फलमिति | परापरे भुक्तिमुक्ती इति | पराभुक्तिः शुद्धविद्धा तु नवभोगः अपरा तु रसरसायनविवरसाधनादिका तथैव परामुक्तिः शिवसंमता अपरा तु विद्याविद्येशत्वं | तथा च तत्त्वसंग्रहे || गुरुः सद्यो ज्योतिर्विद्या विद्येशत्वं त्वपरामुक्तिः परेह शिव समतेति | ते परापरे भुक्तिमुक्ति फलं शस्त्रप्रमाणकम् | शास्त्रपरिदृष्टमित्यर्थः | महानीलेति | इंद्रनीलः वज्रं वज्रमणिः हेरुक इति प्रसिद्धिः एवमात्मके लिंगेन ज्येष्ठादि विभागः यो यस्मात् सर्वगुणानां प्रासादानां पीठानां साधारणमनुगुणं तदित्यर्थः | बाणलिंगे स्वयं व्यक्ते इत्यादि बाणलिंगस्य स्वयंभुवश्च सर्वपीठाश्रयत्वेपि प्. ७अ) विशेषांतरं साध्यपूर्वेति | साध्यार्धं संपूज्य पूर्वं तद्विसर्जनादनंत्तरं मंत्रांतरनिवेशनान्न कदाचिन्मंत्रसंकरदोषः स्वयं व्यक्तबाणलिंगविषयमेवैतद्वचनम् यतोन्यत्रमंत्रसंकरः संभाव्यते एव लिंगशब्देनेत्यादि | समस्तपदार्थानां सृष्टिसंहारकारणत्वेन चित्री करणहेतु यत्तल्लिंगशब्देन पंडिताः प्राहुः निरुक्तदशापि तेषामेव भावानां संहारे तत्रैव लयनात् सृष्टिसमयेऽत एवागमनं तस्माच्च तच्च पदं स्थानमव्ययमविनाशि न तु यथा प्राकृतैरन्यैलिंगशब्देन उच्यते | इत्थं तादृशस्य भगवतो या संज्ञा स तदीयः शब्दः अनंतरोदिते प्रतिपादिते वक्ष्यमाण प्रमाणरूपैः प्रतिपाद्यमाने च तस्या व्ययस्य पदस्य तत्रस्थ व्यक्ति स्थानता तया हेतुभूतया तदीय शब्दोभाक्त उपचरित इत्यर्थः | त्रिविधं तदिति वक्ष्यमाणप्रकारेण तत्त्रिप्रकारम् तयाधृति मुखलिंगं | लिंगायामेति || लिंगस्य यच्चिकीर्षित मायामोदैर्घ्यं तस्य षोडशभागकल्पनया चतुर्भिर्भूतसव्यैः पंचभिर्वारसैः षड्भिर्वा विष्कंभः पृथुत्वम् एष च विष्कंभः साधना लिंग वक्ष्यमाण लोकपाल लिंगात्मकं त्यक्त्वा तेषां प्रत्येकं स्वावसर एव तदुक्तैः इत्थं मायामविष्कंभयुक्ते तस्मिन्नर्थांश्च तावत्परिमाणके चतुर्दिक्षु परिणाहमाने सिद्धे अधोभागस्य ब्रह्मभागात्मनश्चतुरश्रतासिद्धैव मध्यमभागवर्तनार्थं तत्कर्णार्धेतरत्यागादिति | तदिति चतुरश्रपरामर्शः चतुरश्रस्य यत्कर्णकोण द्वयं सूत्रनिवेशनेन व्यज्यते | तदुक्तं चान्यत्र कोणात्कोणायतं सूत्रं कर्ण इत्यभिधीयते | इति तस्यार्धेन चतुरश्रोत्पादनसूत्राणां चतुर्दिक्षु स्थितानामष्टलांच्छनपातादितरार्ध त्यागादष्टास्रमुत्पादयेदिति शेषः अष्टाश्रतोत्पादनायापरोविधिः प्. ७ब्) तस्मिंश्चतुरश्रे मुनिभाजिते सप्तविभक्ते प्रतिकोणं भागमपरिहार्ययेत्यादि | भागद्वय परिवर्जनेन वा तदष्टाश्रं कुर्ययात् | तदूर्ध्वं अष्टाश्रादूर्ध्वयो रुद्रभागस्तं ब्रह्मस्थानान्मध्य प्रदेशात् परितो भ्रमेण वृत्ततां परिवर्तुलत्वं नयेत् | अश्रिलोप क्रमेण वृत्ततां नयेत् | वृत्ततोत् पादनायापि प्रकारांतरम् | अष्टा अस्यैव षोडशाश्रित्योत्पादनपूर्वं द्वात्रिंशदश्रिप्रदर्शन क्रमेण वा श्रिलोपक्रमो भवेत् तच्च शिरोवृत्त्या शिरो वर्तना प्रकारै च्छत्त्रादिभिरनेक विधम् छत्रस्यैव चतुर्विधत्वं काष्ठांशकस्य शिरसः यो सावष्टांश तस्मिन् काष्टांशके चतुर्भिर्भाजिते सतिः प्रथमद्वितीय तृतीयचतुर्थभाग भागविवर्तनतो यथ संख्यं पुंड्रकाद्याश्चत्वार छत्रभेदा भवंति | भिन्नफल प्राप्त्यर्थे | कुक्कुटांडं तु शिरसश्चतुर्थभाग परिवर्तनतः त्रपुसाकृति शिरस एव षड्भागवर्तनात् | तस्यैव मूर्ध्नस्त्रिभागवर्तनेन बालचंड संज्ञकम् | एत्येवं सप्तप्रकारायाः शिरोवर्तनायास्त्रिप्रकारेण विष्कंभभेदेन सहैक विंशति गुणितानि प्रागुक्तानि यानि प्रतिप्रासादं नवनवलिंगानि साधारणविधाविति | एतानि साधारणविधौ मोक्ष निमित्तमर्चयित्वा दैवप्रधानाः स्वं स्वमात्मीयमभिमतं स्थानं प्राप्ता इति | तथान्यतमेति | दशदिशामन्यत माया दिशः स्वाम्यसिद्धये लोकपालार्चितं शतॄणां वा स्तंभताप विद्वेशादि निमित्तं यल्लिंगमिति पूर्वेणैव संबंधः तत्कृणुत | अथ लोकपाललिंगानि चतुर्भिर्धेति | अर्धषड्भाग चतुष्टयेन विष्कंभोस्य ब्रह्मभागं एवमायामं द्वादशधा कृत्वा तत्त्रिभागेन स्थौल्यं शास्त्रांतरोक्त सर्वसमलिंगस्यैव | यदुक्तं श्रीमत्प्रतिष्ठापरमेश्वरे | स्थौल्यं दैर्घ्यं त्रिभागेन लिंगे स्यात् सर्वतः सम | प्. ८अ) इति | मध्यमष्टाश्रमादिवत् इति | मोक्षलिंगोक्तवदित्यर्थः | प्राग्वद्वृत्तं चेति वृत्तं रुद्रभागः प्राग्वदेव किंत्वे तल्लिंगमैंद्रं शत्रुमर्दनाभिधानात् | छत्रशिरः पूर्वपश्चिमयोर्द्वये तद्वयेन | सौम्ययाम्ययोरेकैकया | एवमश्रिष्ट्केन च समन्वितम् | पंचभिः स्वर्धेति | स्वार्धादेकादशविभक्तात् पंचभिरंशैश्चतुरश्रो विष्कंभं ब्रह्मभागादिति यावत् | मध्यं प्राग्वद्वृत्तं तु हौतशस्यात्मीयां दिशं सप्ताश्र्यलंकृतै तथैकादशभाजितम् तदेव वक्ष्यमाणोपपत्त्या कृत्वो भयोः पार्श्वयोः त्रिस्त्रिशातनेन शक्त्याकृतिं कुर्ययात् | नवांशैः पंचभिरिति अर्धशब्दोत्राप्यपेक्ष्यः याम्यलिंगदैर्घ्यार्धं नवधा विभज्यतदंशैः पंचभिः पृष्टं पंचभिः क्रोडमुरस्त्रिभिस्त्रिभिरंशैः पार्श्वद्वयम् | श्रीमत्पिंगलामते | नवांशार्धात्त्रिभिः पक्षौ पंचभिश्चोरुपृष्ठकमिति | इत्थं विष्कंभेन लक्षितो ब्रह्मभागः अष्टाश्रंतु नवषड्भागशातनात् | तत्र पृष्ठ क्रोडेन नवधा कृत्वा भागशातनं कुर्ययात् | पार्श्वद्वयं च षोद्वा कृत्वा भागशातनेनैव पृथुता क्रीडप्रदेशे व्यज्यते ऊनता च भुजयोरिति | भुजोपलक्षण स्थाने पार्श्वद्वये वृत्तं त्वश्रिलोपेन कुर्ययात् दशानामंशानां त्रयस्य त्रयस्य शातनाद्वक्षमाणवदर्धैत दंडाख्यमिति | एतच्च प्रतिष्टाय यमभट्टारकः | सर्वेषां संक्षय शक्तत्वं गतवान् | तथा सर्वज्ञत्व प्रदायकं योगमाप्तवान् | आग्नेय वच्येति ब्रह्मभागो द्वाविंशति भागकल्पनया पंचभिर्यथाग्नेयस्य मध्यं विष्णुभागोपि | तथैव वृत्तमस्यैवं वक्ष्यमाण लक्ष्यणाद्यद्वक्ष्यति | स्वगंशके सार्धभागमृतेरसिरिति | मूर्ध्नि सप्तांश भाजिते सार्धभाग परिहारेण खड्गाकारं ईशानदिश प्. ८ब्) आग्नेयदिशं यावत् | पंचवायुदिक्तो नैनृतदिशं च यावत् | पंचैव दशा श्रिमच्चास्य शिरो नैनृतस्य | एतेन चासौ परमेश पदे मोक्षाख्ये प्राप्तनिमित्तं बंधनता उपलक्षणं यस्य तत्तथा विधे योगं ज्ञानं चाप्तवान् | चतुर्भिरर्धेति अर्धात् सप्तांश चतुष्टयेन विष्कंभो वारुणो मध्यस्य तु लक्षणांतरा न विधानात् प्राग्वदिति | स्थितमेव शिरस्त्वस्य बालेंदुवन्मुर्ध्नस्त्रिभागवर्त्तनेन पाक्षं वै श्रवणपूजितं लिंगमेतेनाति दिशिति | याक्षमेव मेवेति | किंतु तद्याक्षं गुददरम् कुर्यादिति विशेषः पंचभक्ताच्छिरसः सपादांस त्यागात् | गदाशिरश्चैतद्भूत्यर्थं वारुणं पुनः शांत्यर्थं पुष्ट्यार्थं चेति | प्रसंगाद क्रमेणापि याक्षमंत्रोक्तं | सप्तभिः स्वार्धमासांशैरिति स्वार्धाद्द्वादशभाजितात् सप्तभिर्वायु पूजिते लिंगे विष्कंभो ब्रह्मभाग नवांशकल्पनया त्रिहानितोष्टाश्रिः विष्णुभाजितो भवति | रुद्रं वृत्तभगस्त्वादिवत् आदौ लिंगवर्त्तनायां यथोक्तं | शिरश्चास्य छत्रादन्यत्त्रयाणां कुक्कुटांदीनां मध्याद्यदति प्रीतं तत्कार्ययम् | शत्रूच्चाटनादौ तत् कुर्ययात् | षड्भिरेकादशार्धेति | एकादशभिरेव भाजितादर्धाः षड्भिर्भागैरीशान पूजिते विस्तृतिः विष्कंभो ब्रह्मभागः ततो भवसंक्षया एकादशधाभाज्यपक्षयोरिति | पार्श्वविषये भागे त्रयस्य त्यागतोऽष्टाश्रं कुर्ययात् | उत्तरे शिरः अग्ने पार्श्वयोरश्रित्रयेण भूषितमस्य कार्ययं शिरो ग्रहैर्नवभिस्त्र्यंशावशेषितैरुभयोः पार्श्वयोर्भाग षट्के पातनात् कुक्कुटांडा कृतिः एष च कुक्कुटाड शिरो वर्त्तनाया अपरः प्रकारः ज्ञनयोगौ तथा साम्राज्यं राजराजेशित्वं चैतेन सिद्ध्यति प्. ९अ) सरोजमुकुलाकारमिति | प्रजापति विष्णुपूजितयोः लिंगयोर्लक्षणांतराश्रयणतः प्रागुक्तलक्षणे नैवतं क्रियते | किंतु प्राजापत्यस्य पद्ममुकुलाकारं शिरः कुर्ययात् | वैष्णवस्य तु संख्य कृतिं चक्रपद्माभ्यां चिह्नितम् | अथ सहस्रलिंगलक्षणम् | तस्यैकादश भक्तेति | तस्येति सहस्रलिंगत्वेन् चिकीर्षितस्यार्चामेकादश भाजितामुच्छ्राय दिशा कृत्वानंतरं रूपमेकं पूर्वमवस्थाप्य तस्याग्रे ग्रहसंज्ञया नवसंख्यात्मकं निक्षिप्य एवमेक नवति संख्याकैर्भागैः पार्श्वदिशातामर्चां समं ततो भाजितां कुर्ययात् | इत्थं सहस्रमेकाद्मिकं लिंगानां भवति | विषमैः पादैरिति लिंगद्वयस्य मध्ये पृष्टभागे लिंगं न तु लिंगोपरिलिंगमेतेन न्यासेन तच्च य च चिह्नितं कुर्यात् नवेति यथारुचि | उक्तं च प्राप्नोति सर्वकामात्मकमस्य च भेदसंख्यया पूर्वोक्त लिंगसमैव | अथ पार्थिवलिंगचिह्नम् || समुद्रपुण्यस्रवतीति | मृद्विशेषाणि समुद्रजया तथा पुण्यस्रवंती पुण्यकृती गंगादिका | पुण्यक्षेत्रं च पुष्कर प्रभासादि | एतेभ्य उपहृतयामृदा संग्राहि पिच्छिल द्रव्याणि माषविल्वास्वत्यादीनि तैर्युक्तयाविरंचावस्थापि तया तत्संविधाय कृत्वेति वक्ष्यमाणेन संबंधः सितास्थयेति शिलापरीक्षा प्रकरणोक्त न्यायेनैव सितया मृदा ब्रह्मणस्यैवं यवत् कृष्णया शूद्रस्येत्यर्थः | तच्च यथा रुचि तमपक्वं वासुषुष्कं वज्रलेपेन सुधात्मकेनमक्वोलविशेषेण युक्तं कुर्यात् | पक्वं वायदितल्लिंगं कुर्वीत तदा सुरता गर्भमिति | सुवर्णं रजतं ताम्रं तस्य गर्भे तन्निवेश्यम् | एतेषां सुनामाद्यक्षरैः ग्रंथलाघवप्रदर्शनार्थं प्. ९ब्) संज्ञा एताः | हेमधारेति | हेमसुवर्णम् | तारो रजतं अरुणं ताम्रमुच्यते | पितलंरीतकंज्येयं कृष्णाय श्रीमरंविदुः तदुद्भवं वा शत्रु विनाशनाय याम्यलिंगलक्षणेन चार्थात् कुर्ययात् | त्रपुभवंत्रापुषम् नागात्सीसा ज्ञातमेते द्वे तत्रैवार्थे शत्रुक्षयाय | तथैव याम्यलिंगलक्षणयुक्ते कार्यये त्र्यादि लोहजमिति आदावुक्तं यल्लोहत्रयं सुवर्णरजत ताम्रात्मकं तदुद्भवं लिंगं मातृसिद्ध्यर्थं लिंगम् | गुह्यका यक्षास्तेषामन्यतमसाधनार्थं पुनस्त्र्यादि लोहजं सुवर्णरजतताम्रं विनाऽन्यत्रान्यस्यां लोहपंचकादेकस्यां सत्यां जातमुत्पन्नमिति यावत् | सप्तम्यां जनेरित् एवं लोहानि स्थिराण्युक्त्वा चलान्युच्यंते | तथा माधूकरमित्यादि तथेति लुहप्रकृति परामर्शाय मधुकराणां भ्रमराणां संबंधि वृत्तं चेष्टितम् | इतोन्यत्र गमिता स्थितायैः साधकैस्तपस्विभिर्देश देवतीर्थादि द्रष्टु कामैस्तेषां तल्लोहं चलं श्रेष्टं न केवलं तेभ्य एवैतद्धितम् | यावन्मंत्रसाधन निष्टा भवति | मंत्राराधनपराये मुमुक्षवश्च तेभ्योपि हितम् शस्तं गृहस्थानां गृहेषु च त्रपुसी सादृतेति लोहषट्कादेकेन कृतं भूतये भूत्यर्थं भवति | त्रपुसी सवर्जम् कांचन परमित्ये तदपेक्षया सुवर्णवर्जं लोहपंचक कृतानाम परविभूति विषयत्वमित्युक्तम् भवति | अथ रत्नलिंगानि || सर्वरत्नभवमित्यादि | वज्रमिति | हेरकाख्य रत्न भवं शत्रुक्षयाय पुष्पनीलादि मण्यंतराणि तत्परीक्षकेभ्य एव ज्ञायंते ज्योतीरसः स्फाटिक विशेषः तेजः प्राप्तये सूर्ययकांतजम् मृत्युविनाशनाय चंद्रकांताज्जातं सर्वे ये प्रोक्ताये प्. १०अ) चोच्यंते | तान् सर्वान् कामान् स्फटिकं प्रयच्छति शूलमणिश्च तथैव लोकसिद्धः अर्षमणिः अर्षाहराख्यः | पाषाणविशेषः | एताभ्यां यज्जातं लिंगमिति प्रकृतं तच्छत्रुक्षयाय तथैव च पुलक निर्मित्तं सस्यमणिं सस्य सिद्ध्यर्थं | भुजंगमणेश्च कृतं देव्यादेवानां संबंधिन्योयाः सिद्धयस्तदर्थं मरकतमयमारोग्यकामानांमिकृतमणिर्देशांतरप्रसिद्धः | तथा महावर्ताभिधानो रक्तायस्कां तश्च तद्धिद्म? एव बोधव्याः तज्जानि च एतानि क्षुद्रसिद्धि निमित्तं तन्मंत्रजातीति तासामेव क्षुद्रसिद्धीनां या मंत्रजातयस्ताभिरेव ये संस्कारांतराणि तैः संस्कृतं प्रतिष्ठितं तदिति गुणादूह्यमिति | पराया मणिजातयो नोक्तास्तासां गुणतः फलमनुमेयं सद्गुणयोगाच्छोभन फलमित्यर्थः वर्णाभिधानेति विशेषशब्दो वणोदीनां त्रयाणामभिसंबंध्यते | तेन वर्णविशेषाभिधान विशेषसंस्थान विशेषेभ्यश्च हेतुभ्योपि तद्विदा आचार्ययेण फलमूह्यं पृथक् पीठं सपीठं वेति | तच्च मणिरत्नजं नवांगुलादूर्द्ध्वं न कार्यं प्रतिष्टा समुच्चये तु द्वादशांगुलमिति भेदः | यदुक्तं रत्नजं स्फाटिकं वापि कुर्यादेकांगुलं बुधः | एकांगुलात् समारभ्य यावद् वै द्वादशांगुलम् || इति | तत्पृथक् पीठं तस्य त्रीण्यंगुलानि पीठिका गर्भे षट् चर्चायां यद्वक्ष्यति | भागद्वयेन तेष्टर्चा त्रिभागः पिंडिकावट | इति | तत्रास्युक्तं || पंचधा भाजितं लिंगं त्रिधावासं विभाजितम् | भागद्वयमथैकं शुभ्रं तस्य निवेशयेत् || भागद्वयं त्रयं वापि सुसुमं पिंडिकोपसंसताविशेषः सपीठस्य त्र्यंगुल एवार्चा भागः प्रदर्शनीयः सिद्ध्यर्थं वाचणक प्रमाणमपि कुर्यात् तदधो न कुर्यात् | स्वस्थानमिति | प्. १०ब्) शोभनं सन्निवेशवत् | प्रदीप्तं दीप्त्यतिशययुक्तं च यदि भवति | तदाधिक्येपि न दोषहेतुः स्यात् इति विशेषः चणक प्रमाणकरणोपपत्तिमाहः | सूक्ष्म वैकार्था इति तस्मिन् सूक्ष्मे मणावेक एवं गुण एवं रूपो बलवान् भवति येन सत्ता सर्वदोषाभिभावितल्लिंगम् | तथा चोक्तम् | येन पाषाणखंडस्य मूल्यमल्यं च सुंधरा | अनस्तमितमानस्य तेजसस्तद्विजृंभितं || ब्रह्म? दध इति || पूर्वहस्तान्न च हस्तांतं यावच्छैललिंगान्युक्तानि तत्र हस्तादधः न कुत्र चिद्दृश्यते | किमर्थश्चायं |प्रतिषेधः हस्तादूनं यथा अत एवाकरणायैव यदि कदाचित्तेन प्रमाणेन कश्चिद्वक्ष्यमान द्वेष च ततो रौद्ध्रकृत्यकरणाय कुर्ययात् | तत्तस्य प्रसादादौ विषये निषेधः हस्ता दूनं यच्छैलं तत्प्रसादे स्थिरं बलंवान कार्ययम् | गृहस्थानां च गृहेषु श्रियः समृद्धेः सिद्धये तथैव न सस्यते तदेवमस्याकरणं प्राप्तं | अत आह रौद्रे तदिति || रौद्रं भयप्रदं रौद्रेष्वेवाभिचारादिषु कार्ययेषु यव चिह्नितं काययं पिंडिका तश्चाधिकं कुर्ययात् | नुक्ते पिंडिकाधिकत्वे कियता प्रमाणेन तत्स्यात् | अत एवाह | भागद्वयेन तेष्विति बहुवचन परामर्शात् एकवचनोपलक्षितेषु रौद्रकृत्य विहितेषु सर्वेष्वेव लिंगे स्वयंविधिः भागद्वयेनार्चा भागश्च पीठावटे गुहायां तदिति | तद्यवांकं हस्तादधो मानात्मकं गुहायां देशदेशाधियोत्सादनाय स्थाप्यम् वक्ष्यमाण विधिना क्षेत्रपरिग्रहे कृते सति न देव गृहौ शक्ति दंडाविति | लोकपालशिरो रक्त वर्तना सूत्राण्येतानि तत्प्रसंग एव पूर्वमपेक्ष्य व्याख्यातानि परेष्वर्थेष्विति | द्विप्रकारं यत्तत्कुक्कुयंडभुक्तं तदर्थमेतत् | पूर्वोक्तं यदैशानं तत्परेष्वर्थेषु मोक्षादिषु अनंतरोक्तं रौद्रं मतो या हीनामध्यमाश्च प्. ११अ) ताम्रहीनमध्यमसिद्धिषु कुर्ययात् इति विशेषः एकद्वित्रिक्रमादिति | लिंगमानात् कृत्यंशे शोडशांशे कृत्तीनां कार्ययाणां विकारमर्ययायात्मकत्वेन षोडशसंख्यात्मक त्वात् यदाहुः | सांख्याः षोडशकस्तु विकार इति तस्मिन् षद्भाजिते सति तेषां षोडशभाग षड्भागानां विनियोगः ब्रह्मभागात् प्रभृति | एकं ब्रह्मभागे द्वौविस्कंभभागे | रुद्रभागे त्रय एत्येवं वक्ष्यमाण ध्वजाद्याय दोषनिवारणायैवं सार्धमंगुलमधिकं हास्तैलिंगे दद्यात् निष्पत्त्यैघर्ष इत्यादि निष्पादनार्थं यद्वषेणंशाणादि व्यापारः तत्प्रसंगे मंजिष्टावर्णे गर्भे दर्दुरोमंडुको भवेदिति | क्रिया गोधा प्राणि विशेष कृकलासः किक्किषाणपर्ययायेण * ह्यप्रदिद्धः आखुः मूषकः नृपक्षि गरुडाकारात्मको जीवजीवेकादिः तदभ्यंतरे पृथगित्यर्थः संकीर्णरूपमित्यनेकाकारम् रूपनिष्पत्तौ घटनापरिसमाप्तौ धौते सिंधूर संगतेत्यादि आविदुग्धेन सिंधुरलेपं दत्वा परेह्नि क्षालनाद्यस्मिन् प्रदेशे सिंधूरं न चलति तत्र विद्यते | गर्भ इति समुदयार्थ आप्तोदितादि शास्त्रोक्तं काक्षीति कायुषं तालेति हरितालं हयाराति रित्यश्वमारकं करवीरमेव पथ्याहरीतकी पिशाचं बहिर्दुकं पूर्वमप्युक्तं वज्रं सुधाप्युक्तैव छंदं सूरणच्छदादि सुदर्शना चक्रांका अम्ल अंबिलिका फलानि रौद्री रुण्याजटा | भूतजटा आविकमिति गर्भिकानां संबंधि क्षिरम् वाष्यस्रुतिरूष्माप्रवाहः फेणः बुद्धुदसमूहः अंगबिंबनं वक्ष्यमाणानामाकार विशेषाणामवयवव्यक्तिः निष्पन्नावयव इति परिसमाप्तमूर्तौ शस्तं स्तुतं अथेतर दशस्तं वा लक्ष्मचिह्नमवलोकनीयं सारसः पक्षि विशेषः शक्राद्यमिंद्रधनुर्भगाद्याश्चेत्यादि शब्देनान्योययवयबोधः प्. ११ब्) स्वयमेव शुभो ज्ञायते | एते सर्वदेवशिद्धये शस्ता इत्यर्थः अथ तदितमणिक बंधकाकेति कबंधः शिरो वर्जितः पुरुषः कं कोपि पक्षि विशेषः अन्ये च ये विकृतां गास्ते नेष्टाः न शस्यं ते | आग्नेयाश्च वर्णारेफात्मका मारुताश्चेति वायव्यायकारात्मकानशस्ताः मंगला मंगलमिति | लोके चामंगलमिति | यत्प्रसिधं तु निष्ठविषये यच्च वा मंगलत्वे तत्सिद्धये ग्राह्यम् इत्थं रत्नलिंगैः ससंपंचप्रकृतिलिंगमव्यक्तमुक्ताऽनंतरमेतदुपसंहारपूर्वकं व्यक्तलिंगोपकर्मायाह | इति वः शैलेति तद्दुद्देशतः शब्दैरेव प्रोक्तं न लाघवार्थे चोद्देशशब्दः प्रयुज्यते अत्रच्चोद्देशत इति तमिः तृतीयार्थे व्याख्ये यः इति श्रीभावचूडामणौ अव्यक्तलिंगं पटलः अथ व्यक्तलक्षणम् त्रिविधोन्मानकमित्यादि | त्रिप्रकारमूर्ध्वमानमोवोन्मानम् | यदाहुः | ऊर्द्ध्वमानं किलांन्मानमिति तद्व्वक्तस्य त्रिविधमतो विशेषितम् त्रिविधोन्मानकं व्यक्तमयमिति | अंगुलमान प्रसाद द्वारमानहस्तमानै- स्त्रिविधं प्रतिष्ठा समुच्चयेति अंगुलद्वारहस्तानां मानेन प्रतिमा त्रिधेति | अंगुलमानमाह | वसुदिग्भ्य इति | शस्त्रांतरोक्तमानकादंगुलत्रयादन्यतमस्येयं व्यवस्था यदुक्तं प्रतिष्ठा पारमेश्वरे वित्तयैः समोदरस्थैः संपूशितैः शुभैः यवानामष्तके नैवमंगुलं ज्येष्ठमुच्यते | सप्ततिर्मध्यमं प्रोक्तं षड्भिः कन्यसमिष्यते | तत्र वसुसंख्यात्मकोंकः प्रथममवस्थाप्यः तस्याग्रे पुनः दिक्संख्याकात्मको निक्षिप्यते एवमष्टोत्तरशतसंख्यात्मकोंकः प्रयुज्यते तेभ्यो वसुदिग्भ्योरविक्षयात् द्वादशद्वादश पातनात् द्वयमन्यत् षण्नवति चतुरशीत्यात्मकं राशिद्वयमुत्पश्यं एवमात्मकेषु राशिषु प्. १२अ) प्रकृतिभुतेषु सत्सु प्राग्वदिति पूर्वं प्रसादगर्भमानेनाव्यक्त- लिंगप्रसरे वा गुराणि यथा षडुत्पादितानि तथैवेहापि इति अयमर्थः प्रथमप्रकृतिभूतादष्टोत्तरशतसंख्याकात् त्र्यंगुल त्र्यंगुलानुपाततः पंचाधिकशतप्रमाणमेकमुत्तममध्यमं- द्व्याधिकशतमुत्तम कन्यसं नवनवद्व्यंगुलमानात्मकं मध्यमोत्तममेव त्रीणि तथैव षण्नवत्यात्मकान्मानात् नवत्यंगुलं मध्यमकन्यसं नवत्यंगुलं कन्य सज्येष्ठे सप्ताशीत्यंगुलं कन्य समध्यममित्येवं प्रकृति स्थानीयेन त्रयेणावांतर षट्केन च समं नव अंगुलमानादनंतरं मानांतरं प्रासादमानत इति वक्ष्यमाण प्रकारेण प्रासादमानेन यद्वारं तस्मिन् वह्नि विभाजिते त्रिभक्तेत्यर्थः भागं परिहृत्य शिष्टभागद्वय परिमाणेन सपीठार्चा कन्यसकन्यसा वेदविभाजिते तस्मिन्नेव द्वारे तथैवभाग परित्यागादवशेषतो भागत्रयान्मध्यम मध्यमा राहुकेत्वाद्याग्रहानवतैर्विभाजिते द्वारे भागत्यागदवशिष्तैरष्टभिरुत्तमोत्तमा इत्येवं प्रासाद त्रय मुक्त्वा प्रासाद द्वारमानेन प्रतिमामानं त्रयाणामुत्तमानां वक्ष्यमाणाभिधानानां नायं विभागो ज्येष्ठे बुधामसुत्रिष्वित्ये तेन निषेधस्य वक्ष्यमाण त्वात् तद्वांतर भेदोपीति तदिति प्रकृति त्रय परामर्शः तासां तिसूणां यो सावतांतरभेदः सोपि मान षट्क प्रसिद्ध्या यथा मानषट्मंगुलमान प्रतिमा विषयत्व मुक्तं तत्प्रसिद्धित एवोत्पाद्यम् यथा प्रासादस्य वक्ष्यमान प्रमाणेन द्विहस्तद्वारमानतो भागत्रयाद्भागपरित्यागेन द्वात्रिंशदंगुलैरेका कन्यसकन्यसा प्रकृतिर्भवति | चतुर्भागमानतश्च भागत्यागात् | षट्त्रिशदंगुलामध्यममध्यमा प्. १२ब्) द्वितीया नवभागकल्पनयाभागाष्टकेनांगुल त्रिभागो न त्रिचत्वारिंशदंगुलाज्येष्ठज्येष्ठा तृतीया भवति | तत्र ज्येष्ठज्येष्ठाया अधो मध्यममध्यमायाश्चोर्ध्वं यदनंतरं तत्र सूत्रत्रयदानादिना ज्येष्ठकन्यसा मध्यमज्येष्ठेत्येतदभिधानात्मकं प्रतिमात्रयमुत्पाद्यं | ततो मध्यममध्यमाया अधः कन्यसकन्यसायाश्चोर्ध्वं यदंतरं तत्रापि तथैव सूत्रत्रयदानादिना मध्यम कन्यसाकन्यसज्येष्ठा कन्यसमध्यमेति त्रयमित्येवं तन्मान् षट्कं प्रकृत्युक्तांगकम् | प्रकृतीनां तिसृणां यान्युक्तान्यंगानि एवांगकानि राशयः पूर्वं प्रथमं ततोनुपात इति | त्रैराशिक प्रदर्शित क्रमेणेत्यर्थः | उत्सर्ग रूपेणाष्टादशानामपि प्रासादानाद्वार मानतः प्रतिमा मानस्य प्राप्तौ सत्यामघवादो मेर्वादि धामत्रयेणायं विभागो ज्येष्ठेषु धामषु त्रिष्विति | हस्तमानेन प्रतिमामानमाह | पंचकास्त्रय इति | त्रयः पंचकाः पंचदशहस्ता भवंति | हस्ता इत्यत्रैव वक्ष्यमाण त्वात् तत्प्रमाणा कन्यसकन्यसा प्रतिमेति माना क्षिप्तो नाम विभागः त एव पंचदशाद्विगुणास्त्रिशत् मध्यममध्यमात्रिगुणाश्च पंचचत्वारिंशत् ज्येष्ठज्येष्ठेत्येतास्तिस्रो हस्ताः प्रकृतिभूताः तास्वपि प्राग्दर्शितो विधिः अंगुलमानद्वारमान प्रतिमासु इवावांतर भेदेन पान षट्कोपादानात्मक इत्यर्थः | इदानिमुद्दिष्ट प्रतिमामानानामन्यतमस्य वयव संपत्तये अंगुल लक्षणमायामादित्यादि | याप्यसौ हस्तमानेन द्वारमानेन नवांगुलमानेनापि वा षण्नवतिरंगुलानि मध्यमोत्तमा तस्याः स्वोच्छ्रायादष्टोत्तरशतभाग कल्पनयांऽगुलं कल्पनीयं तेन च तस्या अवयवभागः नुक्तं च श्रीमत्किरणे यः कश्चित् प्रति- प्. १३अ) मायानो नवभागविभाजितः तेषामेकस्य भागस्य द्वादशांशोगुलं मतमिति | व्यवहारायांगुलादेः संज्ञातराणि विकलं तदिति | तस्यैव विकलमिति संज्ञाकलार्धमिति च अत एव तद्द्विगुणं कलापरिमाणम् कलैव गोलकं युग्ममिति | यावत् कलास्त्र्यंशस्तारकमित्युच्यते | तदपि द्विगुणं खंडं अंगुलद्वयात्त्रिभागद्वयात्मकं षड्युग्मनितालं नामतालादयस्तत् पर्ययायाः संप्रदायतो गुरुपारंपर्ययात् | देवः सदाशिव इत्यादि | उत्तममेव विरूपम् | तत्रोत्तमोत्तमं मानमर्हति सदाशिवो देवः अनंतेशाद्याविद्येशा उत्तममध्यमम् काम्यादन्यत्रभोगमोक्षार्थिनामेतत् | कामेत्वन्यथा मायाधिकार कलादौ योगिमंडल्यादयो विद्येशा मध्यमोत्तममानार्हाः ततोप्यन्य इति पिशाचादयः कन्यसज्येष्टार्हा अर्थत इति तेषां तदर्था पेक्षया कन्यसत्वात् कन्यसंवेति विकल्पतः कन्यसमध्यममित्यर्थः | ततोप्यंते दैत्यादित्योययथाध्वव्याप्तयेसुनि मनुष्य | इति यावत् | अनुषंगप्रतिष्टाष्विति | एतच्च मानमनुषंग प्रतिष्टासु सदाशिवभट्टारकस्यैते पुरः पार्श्वे पृष्ठ देशे च परिवारत्वेन प्रतिष्टाप्यतेन वेत्स्वतंत्रासु परिवारतामप्राप्तासु सर्वमेतन्मनं ज्येष्ठज्येष्ठमेव | यत आह | स्वभूमिजमिति | यस्य यावत्य ध्वनि व्याप्तिस्तत्रस्तस्य प्रधान त्वात् उत्तमोत्तमत्वं फलतः मौलिरष्टकल इति | अष्टौ कला उच्छ्रायो यस्यासौ षोडशांगुलो मौलिः | शिरोभूषणमेककोटिश्चेक चंद्रकोटिः | कार्यया | अत्र तु शिरः | तंत्र ते प्रतिष्ठा पारमेश्वरादि दृष्टायाः सुसिर प्. १३ब्) मध्यस्य मौले वांतर भावात् | पृथगुपादानम् | तथाप्यग्रे वक्ष्यति | कर्णांतरं सार्ध्वतालं भूसूर्त्रा द्विगुणं यदुरिति | अत्र तदुन्नतिरर्थाक्षिप्तैवा वदनमुखं षट्कलं द्वादशांगुलं त्रिक्षेत्रं त्रीणि ललाटनासा चिबुकप्रदोषात्मकानि क्षेत्राणि भागाः द्विकुलानि | यत आह | ललाटं द्विकलं तद्वन्नासावंशप्रभाषण इति | ततो ग्रीवां कंठः द्विगोलका चतुरंगुलास्वाग्रीवाया मूलाद्धृदयं च नाभिमंडलं चेत्येते | द्वे जठरं च नाभेरधोभागः इत्येतानि त्रीणि तालमानानि कार्ययाणीति शेषः ज्येष्ठायाः पराया विकृतिं स्थानाद्यव स्थिति वर्जयित्वा इत्थं तं त्रयोदश कलेषड्विंशत्यंगुले जानुपाल्ये द्वे द्वे गोलके जंघे च एकादशकले द्वाविंशत्यंगुले गुल्फे चतुरंगुले चेत्येवमष्टोत्तरशतप्रमाणात्मिका पराख्याप्रतिमा | यदाह | शतमष्टोत्तरं ह्येतदंगुलानां पराततुरिति | चित्रसूत्रे | द्वे तत्प्रमाणको हंसः इत्युक्त्वा पुनरुक्तम् द्व्यंगुलो नस्तु भद्रः स्यान्मालव्यश्चतुरंगुलः शशकोष्टांगुलैर्हीनो रुचको द्वादशांगुलैरिति तत्र तु किरणादौ विवोरु जंघोच्छ्रायोश्विभालकः इह तु जंघामानात् | कलामेकामुर्ध्वोच्छ्रायार्थमिति विशेष पार्श्वमानमाह | द्विकल वर्जिता इति | अंगुल चतुष्टय वर्जितः शंकुः त्रिभागः त्रिभागसहितोष्टावंगुलानि तिर्ययक् पार्श्वमानेनायतम् | तस्य ललाटस्य बुध्न देशे अंगुलेनासंस्पृष्टे भ्रुवौ त्र्यंगुले कार्यये स्थौल्याच्चांगुलमानेन मध्यप्रदेशे आद्यंत प्रदेशयोस्तु ततोपि पादमनेन हीनेय वार्धप्रमाणके अत एव शिते तीक्ष्णाग्रे नेत्रे अक्षिणीद्व्यंगुले पार्श्वतः द्व्यंगुलत्र्यंशेन वाततम् | तयोस्तथा सस्यराद्यवस्तद्वन्मुखे पूर्वापरांतो ययोरत एव मत्स्योदर निभत्वं च | तयोर्योगरूत्यर्ध रूपतो वक्ष्यमाणेन यवाष्टपृथुनी मध्य इत्यतः प्. १४अ) परिमाणात्र तारक प्रमाणात् पंचमांशेन ज्योतींषि इति तारांतरे हिते शस्ते | मध्यप्रदेशे तु यवाष्ट पृथुनी अंगुलप्रमाणके प्रकृत्या स्वभावतः सोम्यप्रतिमाविषयत्वात् | यदुक्तं चित्रसूत्रे | नेत्रे मत्स्योदराकारे निर्विकारस्य शस्यत | इति | अर्थभेदान्तु नेत्र भेदानाह | चापमुत्पल पत्रमित्यादिना त्रिषट्नवैकाभ्यदिकैरिति | नवानामेकाधिक्याद्दशभिरिति यावदेवं यथासंख्येन त्रिभिः सस्यैंदैर्यवैः कृतविस्तारं चापाभिधानं नेत्रं योगिनो विधेयं | यदुक्तं तत्रैव चापाकारं भवे नेत्रं योगभूति निरिक्षणमिति | षड्भिर्यवैरुत्पलपत्राभंकामिनां | यदुक्तम् | नेत्रमुत्पलपत्रं यत्र ज्ञेयं कामिनां सदेति | नवभिस्तु पद्माभं क्रुद्धस्य कार्ययम् | दशभिः | शारं नेत्रमिति | यदाहु | नवैकाभ्यधिकैर्दशभिरिति | यावत् चित्रसूत्रेप्युक्तं | शाराकृति च यन्नेत्रं तद्भवे तु यवादशेति | दृष्ट्यंतराण्याह | समासौम्येत्यादि | एतासां च लक्षणं नाट्यादि शास्त्रतो भरतादेर्जानीयात् | यदि वानुभवतो ज्ञात्वा यतो रसभावानुरूपेणैवासां प्रतिमाविषये विनियोगः | यदुक्तं विप्रसूत्रे समास्यान्निर्विकारस्य दुष्टादुष्टस्य नित्यश | रौद्री रौद्र स्वभावस्य ब्रह्मकाममुपेयुषः || सैवाविष्कृतकोपस्य विरक्तास्याद्दिशां पतेः | शांतस्याधेंदु संस्थानारूक्षासूयावतां मता || विदूरस्य परिग्लाना कामिनः शमविक्रमा | संतापिनः प्रकर्तव्या दृष्टिराकुंचितासदा || ध्यानासक्तस्य सतः कार्ययावप्रकुला कृतिः | मुकुलैव प्रमूढस्य प्रमन्तस्य तु विश्रुता || ईशश्च केकरः कार्ययः कृपणस्या कुलस्य च | सप्रहासा च हसतः साम्ना च रुदतः || सतः सैव कार्यया विपर्ययस्तताराजीवितमुज्जतः | गर्वितस्य च कर्तव्या दृष्टिः साची कृता सदा || कलुषा वेदनार्तस्य मंदायाङ्मा? हृतौजसः | सविस्मया विस्मयिनः प्रसन्नैव प्रसीदतः || स्निग्धासु स्निग्ध भावस्य विष्टम्रासंयतात्मनः | प्. १४ब्) सौम्यैव सर्वदेवानां सानुकंपा च शस्यते || सव्रीडाव्रीडितस्यैव सोत्कंठा पश्यतः प्रियाम् | कार्ययार्धदृष्टतारा दृग्विश्राम सुखभोजिनः || पर्ययंत रक्ता कर्तव्या सनिद्रैव च सुप्सुतः | सेर्ष्यस्य कातरा कार्ययादीनाकार्यया स्पृहावतः || नुल्लोलस्योर्द्ध्वगाकार्ययादीनाकार्यया तथैव च | दृष्टिः प्रसुप्ता दृप्तस्य मंडलेति | एतासां मध्यात् सोम्यानुकंपा चेति दृष्टि द्वयम् उक्ता देवता विषयेनान्याः कार्ययाः | यदुक्तं तत्रैव | श्रुतोर्द्ध्वाधो गतग्लान दीनपर्ययस्त तारकाः | रौद्ररूक्षव्यथा विष्टविनिह्मासु परिप्लुताः || मंदादुष्टा प्रभृत्तयो दृष्टयो या विगर्हिताः | क्षपामय भयोद्वेग दुर्भिक्षापात विभ्रमान् || कुर्ययुरेताः कृतामोहाद्देवतानाम शंसयम् | तस्मादेतान कर्त्तव्याः कथं चिदपि धीमतेति || इत्थं प्रासंगिकं दृष्टीनां लक्षणमुक्त्वा प्रकृतमभिधीयते | पुनः किलोच्छ्रितेति | पुरः अग्रे द्व्यंगुलोच्छ्रितानासाकार्यया पार्श्वद्वयप्रदेशे तु सैवकलायवाधिका | स्वमूले भ्रूनिकटदेशे तारकमानेन न्युनातयोः स्वमूलप्रांतयोरंतरनुपातक्रमेण न्यूना | नासापुटे तु मूलप्रदेशे ताराप्रमाणके कलात्रिभाग समंतादुर्द्ध्वं च ह्रासः | पूर्ववदेव क्रमतः अयांगमक्षिकर्णमध्यंते द्वे चतुरंगुलमानेन कर्णौ च शब्दाद्विगोलकौ चतुरंगुलौ दैर्घ्यात् | यवाधिकत्वं त्वपांगमानाद्विशेषः दैर्घ्यादर्धेन विस्तीर्णे श्रवणेतयोर्वत्री नुन्नतः | परिवेशोंऽगुलचर्तुर्भागेन शष्कुल्यौ च शब्दात्पादांगुली प्रमाणेन शष्कुली कर्णाभ्यंतरे सुशिर परिवेशः | खल्वं कर्णसुशिरस्य बहिःपरिवेशः अंगुलं चांगुले द्वे अंगुले खल्वमित्यर्थः खल्वाधनुन्नत प्रदेशः शकुनी शब्देनोच्यते | सांगुलार्धेन कार्यया खल्वस्यैव निकटे अपांग पर्ययंते प्. १५अ) खल्वं प्रविशन्निव लक्षयते | यो वयवः | सतुटकाख्यः तौ प्रत्येकमंगुलमंगुलं पाशौ यादृच्छकौ तयोः कर्णयोः परिमंडले पाशावित्युच्यते | तौ यथा शोभनौ भवेताम् | यथार्हेण च भूषणेन अलंकरणेन च व्याप्तौ कर्णस्य बुध्न प्रदेशाच्चिबुकाधो यदनंतरं तस्यहंनुरिति व्यपदेशः | तावुभौ | षडंगुलौ तयोर्हन्वोरेव संधानं संधिप्रदेशः स द्व्यंगुलो भवेत् | गंडयोर्यन्मंडलं तत्सार्वगोलकं द्व्यंगुलमानं तच्चानृतमीषन्नात्युन्नतं नापि नतमत एव सुशोभनं आस्यं प्रदेश चतुरंगुलं | तदष्टांशेनेत्यायाममानस्याष्टांशेनवांगुलेन विस्तृतम् | अव्यान्तमविकृतं व्यातं तत्त्र्यंगुलमधरो बुध्नोऽष्टांगुलम् | अंगुलार्धेनोत्तरौष्टः पादेनास्येन्यस्योत्तरोष्टमानस्य चतुर्भागेन गोजीनासाया उत्तरोष्टस्य च मध्ये गर्त्ताकारारट्येति प्रसिद्धा | सृक्विणी शब्देनास्य पर्ययंतावुच्यते | तत्र तदेवगोजी प्रमाणमेव | अधोगोजीया उत्तरौष्ठस्य मध्ये चिबुकाधर योर्मध्यप्रदेशः सागोजीप्रमाणतो द्विगुणामुखसूत्रमाह | सृक्विण्यो द्वे आस्य पर्ययंते तथा ज्योतिषी तारापंचाशेन तन्मध्य एकुमारिकेति ययोर्लोके प्रसिद्धिस्ते एते च समे सूत्रादानात् समसूत्रके कार्यये इत्यर्थः | कविरावक्षणोर्नासावंशनिकटे मूषकेतौ सार्धशर्षप प्रमाणेन तयोस्तथा नासापुटयोः समं सूत्रम् भूगर्भश्च नासिका प्रांतश्च चिबुकश्चास्याध अवयवोयः | ते त्रयः समसूत्रकाः कार्ययाः कर्णयोरंतरं मध्यं शिरो प्रतिमान दिशाष्टादशांगुलम् | एतदेव प्रमाणं द्विगुणं षट्त्रिंशदंगुला विभ्रूमध्यतः अवुटुः कृकाटिकाया गर्तेस्तत्पर्ययंतं यावग्रीवा विष्कंभमानेनाष्टांवंगुला विस्तीर्णानाहश्चास्यास्तालो द्विगुण इति चतुर्विंशत्यंगुलानि | तथा तदेवाग्रे स्फुटी करिष्यति | सर्वत्र त्रिगुणोनाह प्. १५ब्) इत्यादिना | स्कंधः | षडंगुलो दैर्घ्या तस्य स्कंधस्य प्रांते वेष्टनं दाहः | षोडश अंगुलानि | बाहूवसुकलौ | षोडशांगुलौ | उपबाहूचांककलौ चाष्टादशांगुलप्रमाणौ संधिश्च तयोरेव बाहूय बाह्वोरप्यंतरं प्रकोष्टकप्रदेशः | सोपि तद्वदिति तावत् परिमाणं | अंगुलमेव तत्वं हस्तमध्यं | तद्दैर्घ्यात् सप्तांगुलं तिर्ययक् च पार्श्वतः पंचागुलं मध्यात् तद्वदिति | मध्यमाया अंगुलिः सा पंचांगुलैव | तर्जन्यनामिके अंगुष्ठसमीपे या अंगुलिः सा तर्जनी मध्याकनिष्ठकयोर्मध्ये त्वनामिकाभे उभे तर्जन्यनामिके मध्यमायाः प्रमाणतो वांगुलेनोने सार्धचतुरंगुले ताभ्यां प्रमाणतोंगुलेनोना कन्यसा सार्धत्र्यंगुलेत्यर्थः तर्जनीमूलस्याधोंगुलत्रयेणांगुष्ठ उच्छ्रित इति स्थितकार्ययः | तर्जनी पर्वणश्च पादपदस्पर्शी चतुर्भागस्थानं यः स्पृशति स च पर्वद्वयलक्षितः पर्वमानान्याह | मध्यमायाः प्रथमं पर्वयवोंना कलायवोनमंगुलद्वयं | द्वियवोना सैव कलामध्यमम् | अपरं तृतीयं तृयवाधिकमंगुलमित्यर्थः तर्जन्यनामिकांगुल्योर्द्वयोः | प्रतिपर्वदशमांशं दशमांशवर्जयित्वा ते च तर्जन्यनामिके त्रिपर्वके इति पर्वत्रययुक्ते कनिष्ठकायाः पर्वाणित्रीण्येवांगुलसामान्यात् | तानि चानामा पर्वतानतश्चतुर्थांशेति नोनानि | प्रांतपर्वणामवस्थांतरगतानायाः कार्ययास्ते नैव क्रमेणांगुलीनां नाहमाह | मूले मध्यायानाहः | सार्धकलस्त्र्यंगुलः मध्ये च तस्यास्तावानेव किंत्वे केन यवेनोनः यवत्रय विवर्जितश्च प्रांते पर्ययंते | तदन्यासुखायत्युक्तः | अयमर्थः | यथा मध्यप्रमाणतो दशमांशेनोना आयतिस्तथैव च | दशमांशेन नाहोतर्जन्यनामिकयोः ताभ्यामप्यंगुलोना यथा कन्यासाया आयतिस्तथैव नाहोपि तद्गत्ततु न एवांगुष्ठस्य प्. १६अ) मूले | उत्पत्ति प्रदेशे षडंगुलौ नाहः | ततः पृष्ठे संधिप्रदेशे बुध्न पूर्वप्रारंभे पंचांगुलमस्यैव पर्वणो मध्ये चतुरंगुलः किंचित् कार्ययात् | यथा कस्य स पर्व द्वय संधौ य वापिकश्चतुरंगुलः तदगतो हीन इति | यथा क्रमं हीनः बाहुमूले स्कंधस्य बुध्नप्रदेशे यवोनास्तिस्रः कलाः षडंगुलानि विष्कंभः बाह्वंते उपबाहुसमीपे प्रागुक्तो विष्.कंभो यवत्रय हीनः पंचांगुलः उपबाहुसमीपे विष्.कंभः चतुरंगुलो मणिबंधप्रदेशे मध्ये क्रमेणानुन्नप्तः विष्कंभमानात्त्रिगुणाचावृत्तिः नाह एव कंठप्रदेशस्याधः | ऋतुकलौ द्वादशांगुलान्यति क्रम्य चूचकौस्तनमुखे सतदंतराविति | तयोरप्यंतरं षट्कलमेवैवं त्रिकोणाकारेण तत्र सूत्रप्रमाणं सिद्ध्यति | पक्षौ पार्श्वप्रदेशेषु षडंगुलौ चूचकयोर्मंडलं बहिर्द्वियवम् | उभयपार्श्वाभ्यां यव चतुष्केन मंडलमध्यं यव प्रमाणकमेवं विष्कंभो यव पंचात्मको भवत्येव नाडिप्रदेशे | विस्तारो विष्कंभ एवाष्टादशांगुलानि नाभेरध एकविंशत्यंगुलानि पूजननमुपस्थश्चत्वार्ययंगुलानि | तस्य प्रारंभाधो वृषणौ द्व्यंगुलौ कार्ययौ प्रजननस्य भूलप्रदेशे द्व्यंगुला विष्कंभः तस्य पुनरग्रे अंगुल त्रिभागसहितमंगुलं सर्वत्र त्रिगुण इत्यौत्सर्गिको विधिः कर्णपण्यादावपि उपसर्गप्राप्तस्य त्रिगुणनाहस्यापवादः कर्णपण्यादिकं विनेति अयरनासानखा विवक्षिताः कर्णादीनां नाहमानं नोपपद्यते इति | झूरूप्रागितिः प्रारंभस्य निद्वादशांगुल विष्कभो पलक्षितौ ततो न्यत्रानुपततोऽनुक्रमेण यावदूर्वंतं जानुमूलं तत्र विस्तारः षडंगुलः जंघामूले चलशब्दात् | जंघापृष्ठदेशे तालार्थेनैव विसृतिः | जानुग्रथि प्रदेशे एतदेव प्रमाणं | किंतु कलया आधिक्यं | अस्येतालार्धस्य तथांगुलपादेन यवद्वयात्मकेन चाधिक्यं प्. १६ब्) कार्ययमेव | तत्रांगुलान्यष्टौ यव द्वयं च विस्तृतेः | प्रमाणं त्रिगुणाप्रावृतिरिति पूर्वोक्तानुवादः | मध्ये जंघायालवाक् कराख्या यस्येह लोकप्रसिद्धिः | तत्र त्रयोदशकला षद्विंशतिरंगुलाप्रावृत्रिस्त्रिगुणा समंतपरिपरिणाहेनहितापुरर्जंघाया एव गुल्फप्रदेशे तदर्ध्येनेति | त्रयोदशभिरंगुलैस्तत्त्रिभाग इति | नाह त्रिभागेन विस्तृतिरिति स्थितमेव | चतुर्दशांगुलायामौ पादौ पार्ष्णी खुरिक इति ययोर्लोकः | ते चतुरंगुले विस्तारतः पादौ मूलप्रदेशे गुल्फ स्याधः पंचांगुल विस्तृतौ पुरः अंगुलीनामुत्पत्ति स्थानसमीपम् | षडंगुलौ हितौ | ततः ततः सपाद त्र्यंगुलः अंगुष्टः कार्ययः तन्निकटे अंगुलिः साप्रदेशिनीति प्रसिद्धा | साचार्धांगुलमाना अंगुनमानाद्यवाधिकाकार्यया तस्याः सकाशात्पादोञ्झिताश्चतुर्भागेन चतुर्भागेन उज्झिताः शेषा इति व्याचष्टे | तस्य च्यव चतुर्भागेन उज्झिताः सप्तयव प्रमाणाः कन्यसा भवंति | तदास्तां तावन्महापुरुषप्रतिमा | अस्मदादि चरणेष्वेवांगुल द्वयेनाधिकेन कन्यसा दृश्यते | अतः पूर्वेव व्याख्या युक्ता | उक्तं च | प्रतिष्ठा समुच्चये | किंचिद्दीर्घा प्रदेशिनी षोडशांश विहीनाः स्युरन्या इति पादांगुष्ठस्य मूलेनाहः | पंचांगुलानि | मध्ये त्वंगुलेन वर्जितास्तावानेव | अग्रे च सार्धानि चत्वार्ययंगुलानि यथायथं प्रांतपर्ययंतं | यावद्धीनः क्रमतश्च हीनतरः तर्जन्यानाहो मूले त्र्यंगुलः कंठनिकटे द्व्यंगुलः पुरश्चास्य यवाधिकमंगुलद्वयं | अन्यासामष्टपरिभागच्युतिः कार्यया | अयमर्थः तर्जनी प्रोक्तनाहमारभ्या न सांतिसृणां नाह वसुभाग वसुभाग परिक्षयः कार्ययः | नखामूले | उत्पत्तिस्थाने निम्नानताः शस्यंते | पुरतश्च किंचिदुन्नत अन्यच्चानुक्रमं गोपांगादि यत्तदपि यथा प्. १७अ) शोभं कुर्ययात् | यथोक्तं प्रतिष्ठा पारमेश्वरे | रोमाणि दंतकेशाश्च तथा दंतसमुन्नतिः | संधयश्चापि पत्राणि यथा शोभानि कारयेदिति | मानं विष्कंभलक्षणमुन्मानमूर्ध्वतः परिमाणं नाहात्मकं | अतः प्रकृतिः प्रोक्तान्मानतो हीनमधिकं वा न कुर्ययात् | यतस्त शोभनफलं भवेत् | ईषन्मानात्मनावृत्तशरीराणां तथार्धेन च परिवतित शरीराणां क्रियाविधौ काम्यविधानेनि विष्टानामुपविष्टनां | तथार्धोत्थितानां यन्मानं तदतात्त्विक तयेति | भोगमोक्ष सिद्धिष्वतात्त्विकमतो न तन्मानमिति | यथोक्तं तत्रैव | तत्प्रमाण संपन्न सर्वावयवसुंदरी | प्रशस्ता प्रतिमा ज्ञेया यतो न्यासा न शस्यते || रिज्वर्धगतरिज्वाख्यं साचीकृतकमेव च | छायागतं च सर्वाख्यं भित्तिकं चार्धभित्तिकम् || क्षिप्तकं च परावृत्तं स्थानकं नवधोदितमिति | अथ स्त्रीप्रतिमामाह || यवाधिकेत्यादि | सर्वासां प्रतिमानां परां प्रतिमांमधिकृत्य च योपचषौ कार्ययौ | यवाधिक इति | नासाया उत्सेधाद्व्यवं गृहीत्वा भ्रू वैपुल्य कृते तद्दद्यात् | मुखातिङ्मानदिशाकलामादाय तामेव मुखम्योर्ध्ये आधिक्यार्थं तथैव दद्यात् | त्रिभिर्यवैस्त्रिभागोनैरिति | वस्तुतो यवद्वयेनाधिके दैर्घ्याल्लोचने | तदर्धौधिक वैपुल्ये च तस्य यव द्वयस्यार्धमेकेन यवेनाधिकं वैपुल्यं ययोः स्कंध युग्मं कलया न्यूनं चतुरंगुलं कार्ययम् | पुंप्रतिमायां | निगोलकस्योक्त त्वात् ग्रीवायाविष्कंभादंगुलं गृहीत्वा तदेव यथानुरूपं पादयोः पृष्ठे स्फिग्विवृद्धेदेयं इत्थं स्त्रीप्रतिमायां तन्वंगिता व्यक्तिरपि भवति | श्रीमन्नंदिकेश्वरमतेपि || स्त्रियः कुर्या तु तन्वंग्य इति | अंगुल्यश्च सर्वाः | पुंप्रमाणतो विष्कंभा तथाप्यायासान्नाहतश्च सप्तभागेनोनाः कार्ययाः जंघायामत ऊर्बोराया मतश्चोभयष्णात्कलाविवर्जं | तथा कटिश्च विगत कला तस्याः पार्श्वं मध्यं चेति | प्. १७ब्) च शब्दाद्विगतकलंकयोनमुभयं | तत्पार्श्वमध्यात्मकं कार्ययं | एतेन कलात्रयेण तत्पुनर्द्वयं घनमिति मांसलं परिवर्तुलं कार्ययं | यदुक्तं तत्रैव | स्तनोरुजंघाजघनाधिक इति | अश्वत्थो वटवृक्षः तत्पत्राकृति गुह्यम् | सर्वशोभावच्च कृतम् | सदिष्टदं भवतीति शेषः | अथ वामनाः दोर्दंडेति | दोर्दंडौ बाहूपबाह्वात्मकौ ताभ्यां कलात्रयमपास्य वक्षः प्रदेशे तेन मानेन वैपुल्यमुत्पाद्यं | हस्तपादेभ्यो दैर्घ्यदिशा चतुर्थांशं गृहीत्वा तत्प्रमाणेन वृद्धिः शिरसि एषांते तथा हिताः जंघोर्वोर्दैर्घ्याद्व्यपेतं मुखयुग्मं वितस्ति द्वयं च येषाम् | उन्मानतो वर्धितनाभिस्फिजौ च तथा पार्श्वौ कटिदेशश्च यथानुसारेण येषां वामनवपुषाम् | अथ कुज्जाकृतयः || हृन्मानोद्धृतेत्यादि | हृदयमनायामात्कलाद्वयमपास्य वृद्धा वक्षसो देयम् | नाभिमुष्टयोर्मध्यात् कलामपास्य तेन मानेन कृतं पृष्टप्रदेशे समुद्गमं कुज्जा लांच्छनं येषां | एवं कुज्जा भवति | ये चान्ये इति | अन्ये च खंजादयो हीनाधिक वपुषुस्ताज्वलोकतो ज्ञात्वा कुर्ययादिति | अथ गुह्यकाः || कलार्धेनेत्यादि कलार्धमंगुलं | प्रत्येकस्मादूर्वादेर्गृहीत्वा | तेन विवर्धितः पार्श्वद्वय विष्कंभस्तथोरसि नाभौ च मनु द्वितयेनाष्टाविंशत्या विष्कंभो जठरे येषां | मनु शब्दस्य चतुर्दश संज्ञां वाचक त्वात् | एकविंशत्यंगुलविष्कंभजठरं रुद्रप्रतिमाया उक्तः | एतेषां तु अष्टाविंशत्यंगुलः गदीत्यादि | वै श्रवणो नृपानोनरवाहन इत्यर्थः | अथ वेतालः || जंघोर्विति जंघयो उर्वयोश्च तथा भुजयोर्विष्कंभमानात् षड्भागं गृहीत्वा तस्मिंस्तत् प्रदेशे एव तावत् परिमाणमेव दैर्घ्याद्देयम् | विकृतं चास्यं व्यातं तेषां कर्तव्यम् | अनुवर्तका इत्यनुचराः प्. १८अ) अथ भैरवप्रतिमालाक्षणम् || वक्त्रमित्यादि || सुखमष्टकलं षोडशांगुलानि मुखं समं ततश्चार नयनं च | सक्रोधतया यदुक्तं | चित्रसूत्रे | क्रुद्धस्य वेदनां तस्य शाराकारं तु लोचनमिति | शारेक्षणं चोक्तमेव | अन्यच्च प्रसृतास्यकम् | व्यान्तस्यम् | व्यान्तं चांगुलैस्त्रिभिः कुर्ययात् | यदुक्तं | त्र्यंगुलं व्यान्तमिति | मुंडैर्नर शिरोभिरहिना सर्पेण चंडेण चालंकृतमस्तकम् | भैरवनाथस्येति | प्रक्रितम् | वक्षश्चास्य प्रकृतान्मानात् षडंगुलाधिकम् | कटिरपि दशभिरंगुलैरधिका ऊर्वोर्वैपुल्यं चतुरंगुलाधिकम् | जानुपाल्यौयौ कुट्टकाविह प्रसिद्धिः | ते द्व्यंगुलाधिके कार्यये इति योज्यम् | जंघामध्यप्रदेशे ते द्व्यर्धकलावृद्धे इति | अंगुलविवर्धिते जंघाग्रे गुल्फनिकटे वृद्धिस्तत्त्रिभागत इत्थंगुलेनेत्यथः | पादौ किंचिदुच्चौस्तौकमुद्गतौ बाहूमूले स्कंधबुध्ने कलाधिकावंगुलद्वयाधिकावुपबाहू च शब्दतस्तावकावेव पर्ययंते मणिबंधप्रदेशे अनुपाततोऽनुक्रमेण संसिद्धौ प्रसिद्धौ | अंगुलमानेन दंष्ट्रे निर्ययाते चिते च तीक्ष्णे इत्थं तद्वपुः कुर्ययत् | महता शूलेन च समुत्क्षिप्तः महासुरो येन तादृक् | स्पष्ट मन्यत् | पंचमात्रेत्यादि | महेशाना विद्येश्वराहरवद्दशबाहव इति | सदाशिवभट्टारकस्य नोक्ताये दशबाहवस्तेप्यनेनैव विधायक वाक्येन कार्ययाः | विमान इति | गणागणेशाः स्कंद इत्यादि | शिखीमयूरः वृषो वक्ष्यमाण वृषभाकारस्तप्रक्षौ हि कार्ययः भृंगी अस्थि प्रायशरीरः सिंहारूढात्र्यक्ष गौरीगणेशः गणपतिः वामनाकारेण राजाननश्च | स्वदंष्ट्राधरोहित इत्यभिमतप्रदः अभयकर इति चतुर्थो हस्तो स्यात्तयाभिनयेन त्र्यक्षविद्यादि सृष्टम् | अंगुष्ठमात्रप्रमुखा विद्येश्वरास्तथा शतभवास्ते सर्वे एवानंते शादीनामष्टानां विद्यामहेश्वरादीनामनुकारेण कार्ययाः लोकपालगुणाधिका इति | तदधिष्टात्रेण सहस्राक्षेण | इंद्रोदेव प्. १८ब्) वृतः कार्ययः | मेषो दारुकस्तदा रूढो वह्निः | शक्तिहस्तः यमः शारनेत्रो दंडहस्तश्च कार्ययः | महिषारूढः पाशधारी कालस्तद्वदिति शारनेत्रः | शक्रोध त्वात् दिग्वासा नग्नः सपरिच्छद इति पितृपरिवृत्तः | ते च पितरदार्भविष्टरा एव पद्मास्तदासीनाः पिंडसहिताः | पात्र सहिताश्च कार्ययाः व्याधयश्च राजयक्ष्माद्याः कालसदृशरूपा एव कालस्य परिवारत्वेन क्रियंते करालास्य भीषण उग्र दर्शनश्च कार्ययोनिनृतिः पाशधारी वरुणो यादो वृत इति | कूर्मकछपमकरादयो येज्जलचरास्तैर्वृतः मृगासनः कुशहस्तश्च सदागतिरिति | वायुः कुटिलभ्रूयुगात्मा कार्ययः रुद्र सखेति | वैश्रवणः उक्त च पुर्गदी वै श्रवण इत्यादिना यक्षलक्षण प्रसंगसमये स च यक्षानुषंग इति यक्षपरिवारः नागोपवीतेति भगवान् कुद्रश्च विद्येशोक्तायुधभुजस्तदुक्तायुधेपि | नानागणसमावृत्त इति | अनेकाकार गणावृत इति | तथाह महाभारतादौ भगवान् व्यामुनिः | वामनाजटिलामुंडा ह्रस्वग्रीवामहोदराः | महोत्साहा माहाकाया महाकर्णास्तथापरे || आननैर्विकृतैः पादैः पार्थवेशैश्रवै कृतैः | ईदृशैश्च महादेवः पूज्यमानो गणैः सहेति || पद्मासन इति | पद्मासनस्य इति | वैकल्पिको भेदः कदाचिद्वृषभारूढोथवा पद्मासनस्थितः अर्धचंद्राख्येन वामनभेदेनावस्थितः पद्मार्धचंद्रासनलक्षणम् | श्रीमत्किरणे प्रोक्तं | न्यसोदूर्वोस्तथान्योन्यं पादमेकं तथेतरम् | पद्ममेकं समाख्यातमर्धचंद्रमतः परम् || तद्वत्पादतलं कृत्वा सुतलान्योन्य संस्थितम् | अर्धचंद्रं भवेदेवमिति | कूर्च इति | श्मश्रु कुशादि भृदित्यादि ग्रहणात् | पवित्राक्षसूत्रभृदिति ब्रह्माकार्ययः | श्रीकंठनाथो विद्येशोक्ताकारो वृषभ स्थितश्च अर्धनारीश्वर वपुर्वेति विकल्पार्थः अथवा दिग्वासाः नग्नः ऊर्द्ध्वलिंगधारीयो देवदारुवनं प्रविष्टः कृयत इत्याशयः यदि वा प्. १९अ) नाट्यस्थः क्रियते | तदानिं मुरजादि सर्ववाद्यप्ररिकरयुक्तश्च कार्ययः | यदि वा शंकरनारायणमूर्त्ति त्वेन कुर्ययात् | अथेत्यक्षसूत्रम् | उत्संगतोवेति | नारायण समवेतौ सहिता वुभौ सर्वकामाप्तये पूज्यावित्यर्थः विष्णुश्चात्रैक वक्त्रस्त्रिवक्त्रश्चतुर्वक्त्रो वा कार्ययः खगेशो गरुडस्तत्रस्थो जलशायी वा क्रियते तदानीं श्रियायुक्तो भोगिनि शेष भट्टारके तल्पभूत पर्ययंक कृत स्थितिः कार्ययः अन्यच्च नामित उक्तं यत्पद्मं तत्रारूढेन पितामहेन समन्वितः मत्स्य इति | कृत्यतः कार्ययादेशात्पुराण पुरुषो मत्स्यः कूर्मो वा वराहो वा भवति | यावत् कल्की वा भवति | तत्र च भागवतो लेशात् संक्षेप ततो लक्षणं प्राप्तावसरमुद्यते | नाम्ना प्रादुर्भावदशक गतेन यः सूचित महामद इत्यर्थः | अथ मत्स्य इति लक्षणम् | वेदाश्री कृतेत्यादि | चतुरश्र कृतेन स्वंशे समंतान् कृतप्रांशे सति मत्स्य वर्त्तना कार्यया | पृथुत्वेंशं परित्यवादिशत् | पृथुत्वविषये एकांशं लोपयेदित्यर्थः | अनंतरं स्वां यामेण दैर्घ्येण तुल्यम् | समं यत्सूत्रं स आयामः तस्यार्था यस्यां दिशि भागपरिहारेण कृतः तन्मानतुल्यनसूत्रेण द्वितीयान् परिवर्तयेत् | भागद्वितयादवधेस्तदायामसूत्रमधो यावत् परापतति | तत्राधोवस्याथार्ध चंद्रक्रमेण परिभ्रामयेन् मत्मत्स्याकारान्यथानुपत्या एव परपार्श्वात् परिवर्तयेत् | इत्यमुभयतो भागचतुष्टय वर्जनाद्भागत्रयस्य उमादिति यावत् | सप्तकसंबंधिनः शिष्टभागात् | भ्रमाद्भागत्रयस्येति | तदनुप्रतिपार्श्वं यौभागावुभौ सैव कलेति | तत्पार्श्वकलातन्मानात् तत्परिमाणकौ तनूजावुप कल्पयेत् इति | तनूजशब्दनुपलक्षणं | अन्यदपि प्रसिद्धमत्स्यानुकारिय तदपि मुखपुछादिकमनुकुर्ययादित्यर्थः | यथोक्तं तत्रैव | करांघ्रि च द्विरंशतः स रेखाविति तदनु च परिवर्तन रेखा द्वय संगमोत्थ प्. १९ब्) प्रदेशद्वये मुखं पुंछं च कुर्ययात् | अनंतरं मध्यसूत्रपाश्वसूत्र द्वयवर्जं शिरोविभागदर्शनसूत्रचर्जं शेषरेखालोचनान्मत्स्यव्यक्तिः | यच्चैतद्भगवतो विष्णोर्मत्स्य रूपमुपास्ते ससर्वभूतानामपि संक्षय समये असंहार्ययम् | अक्षयतामुपभुंक्ते | एतद्व्यकारश्च समाप्ति पत्रादवसेयः | अथ कूर्मवर्तना | व्यासार्धेति | व्यासस्य क्षेत्रविस्तारस्य यत्कर्ण कोणात् कोण सूत्रं तयो यदर्धं विशेषः क्षेत्राद्बाह्येन यतं | तस्य बाह्यनीतस्य त्र्यंशकल्पनया भागैक त्यागात् समंततो | भ्रमात् तथा पार्श्वदवविषये गोलकत्यागादिति | परिशिष्टभागद्वय प्रमाणेन तस्य वर्तुल तात्यागात् प्रवेश दृष्ट्या कूर्मो भवतीति शेषः कीदृगसौ अत आह | सांघ्रि चतुष्टय इति चतुरश्रस्य क्षेत्रस्य यत्कोणचतुष्टयं तत्प्रदेशे भ्रमरेखा बाह्ये पाद चतुष्टयेन संयुक्तः तेन च प्राक् सिद्धेन भागेन द्विगुण आयामो यस्याः कंधराया ग्रीवायास्तद्वदिति | तद्युक्तप्रमाणमेवास्य शिरोहितं | श्रुतिलोचनेति कर्णनेत्रादि सर्वमस्य यथोचित प्राणि विशेषात्मके कूर्मस्यानुकुर्ययादित्यर्थः | एष च स्वशक्तिस्थो नारायण सामर्थ्य स्थितो धरायां भूमाचाधारो वोढामंत्रैश्चार्चितः सान्निध्यमागतोऽभिप्रेतादैश्वर्ययादविश्यावमपि नश्वरतां विदधत्ये च एतदाकारः | समाप्ति पत्रादवसेयः | अथ वराहवर्तना | मुखमिति दैर्घ्यं मुखस्य शोडशांगुलानि | तदूर्ध्वेहनू द्वेसप्तसप्तांगुल्यौ यतो द्वेद्वे सृक्विण्यौ | इत्यत्र वीप्सात् एव हनू सप्तांगुलाविति प्रतिपादितम् | प्राग्वदाननमिति | पूर्ववदेवमुखं त्रिभागकल्पनयास्य कर्त्त्वयं | ततो भागमानेन थालाप्रदेशं ललाटप्रतिनिधिं भागद्वयेन च घोणापृष्टं कुर्ययादित्यर्थः | नासापुटस्य यच्छिद्रं रंध्रं तस्मिन् कालेति | द्वे अंगुले परिमाणम् | श्रीपिंगलामतेपि प्. २०अ) द्व्यंगुलं नासिकाछिद्रमिति अंगुलत्रयेणोद्गते विनिर्ययाते दष्ट्रे च कार्ये रुद्रप्रतिमातोयवेनोने अक्षिणी तथा प्रारंभ स्थानात् किंचित् कुटिलाकारे यदा तदा हिते शोभने भवतः कर्णौ चत्वार्ययंगुनानि आयामेनोन्नत्या पार्श्वमानांतरा श्रवणादर्थान्तत्परिमाणकावेव | कणे मध्यमष्टांगुलानि तदुन्नतिरिति | कर्णमध्योन्नतिर्या अपरं वराहस्य यथेति तदययन्यन्मुखावयवकरणे लक्षणं नोक्तं तत्सूकरस्यैवाकार्ययम् | वारिनिधेर्नोद्धरणे दंष्ट्राग्रगातस्य भूमिर्हिता | अथ नृसिंहवर्तना || मुखमिति | तथा विपुलं यथा वराहमुखस्येत्यामः षोडशांगुलीनीत्यर्थः | आयतं तथैव तत्परिमाणेन समंततः सममिति यावत् क्रमेण सिद्धे द्वेद्वे अंगुले प्रमाणं यस्य अंगुलपरिमाणेन क्रममित्यर्थः | स्कंधौ द्वादशांगुलौ भ्रुवौ व्याकुंचिते प्रकर्षेण कुटिलं वक्त्रमित्यास्यं व्यान्तं विकसितं भीषणीय जिह्वं च समुद्भूताःनुद्भूषिताः वृत्तं तलं यस्य तथा भूतः परिवर्तुलः हस्त इत्युपलक्षणमन्येषामपि त्रयाणाम् | यत आह | पाणीचक्र गदाभृतौ महादैत्यवक्ष्यस्यन्यौ महासृजौस रुधिरावित्यर्थः | एवं चत्वारो हस्ताः प्रोक्तरूपाः अस्य परमन्यत् सर्वं भैरवोक्तमपि मानमंगप्रत्यंगविषयं | वनमाला प्रत्यग्रपत्रगुम्फिता | स्रजोस्य भगवते भूषणं च राम इति | कुठारः परशुः | स एवोपलक्षकत्वेन प्रथमस्य रामस्य | अन्योपीति | द्वितीयोजामदर्ग्न्याकार एव किंतु परशुनाविका सपरशुनाविका सपरशुरामः अयं दासारथिः तृतीय इति विजयदास्त्रयोपि | बुद्ध इत्यादि | बुद्धस्य प्रकर्षेण लंबौ श्रुतीकर्णौ तथा चीवरः परिवारविशेषो यस्य स तथा प्रागुक्त पद्माभिधान नेत्रानुकार कृच्च तथा पद्मचिह्ने हस्तपादविषये एष एव समाधिस्यो यदा क्रियते तदा महायोगं प्. २०ब्) प्रयछति कल्की इत्यादि | स्पष्टं | ब्रह्मेशेत्यादि | तदाधार इति | तदुक्त वाहनस्याः वाराही सूकरमुखी | यदुक्तं श्रीपिंगलामते | वाराहीसूकराननेति लंबिकालंबोदरी | भैरवो भीषणीय आकारो यस्याः सा तथा चामुण्डा चेति शब्दाच्चामुडापि भगवती भैरवेनोक्तरुपा भैरवाकारा परिमाणतः रूपतश्चेति | किंत्वंसौ शुष्कांगा | रविरित्यादि | अनूरुररुणः सोम इति अर्धचंद्राख्य आसनविशेषः प्रागुक्तः विलोहितोंगारकः आसन्नयौवनकालोबालः तत्प्रतिमाकारो बुधः जीवः बृहस्पतिः उदासीनः सौम्यमूर्त्तिः भृगुसुतः शुक्रः कांत इति सुदीप्तः हस्त्वाहः कांतः अक्ष्णाकोणः इति तदवशिष्टं काणशब्दार्थस्य कांतपर्ययायेणा प्रसिद्धेः | सौरिः शनैश्चरः सदादृग्भूमि निरीक्षणपरः कृशशरीश्च चंद्रं मृद्गातीति चंद्रमर्दनो राहुः बाहुल्येन मर्दन हेतुत्वात् | चंद्रमर्दन इत्युक्तः | अन्यथा चंद्रसूर्यययोरपि मर्दनतः धूमचिह्नो विरिंचजः | केतुः वामोर्विति | वामे ऊरौ स्थितं वामांगमुप वाह्वात्मकं येषां तथा दक्षिणहस्तेनोद्यतः प्रदर्शितो भयो यैस्तै | तथा मालेत्यादि स्पष्टं | पिशिताशनाः राक्षसाः दुर्गेत्यादि स्पष्टं | गौरी इति | कुमारिकारूपेति | कन्यकाकारा पंचवर्ष परिग्रहा इति तपस्यंती | वागीशी इत्यादि स्पष्टम् निष्कंप दृष्टिरं चलदृष्टिः ब्रह्मणि संस्थितः शांतरूपः उदासीना अनाकुलाः तेषु मध्याद्वसिष्टः सभार्ययो भवति | नारद इति योगी तथा विद्यां ललितां चाचंकामयते | ब्रह्मज्ञानं स्थिरं स नारद प्रतिष्ठं कुर्ययादित्याशयः | एवं सप्तर्षय इत्यादि स्पष्टं | रेवर्द इति | अधः रेवर्धो भगवान् अधो बुध्ने तु नाप्रतिहारेण संयुतः कार्ययः धान्वंतरिर्देवभिषक् | भेषजमौषधं तथाश्विनौ- प्. २१अ) धान्वंतरिरूपेणैव | स्रवंत्य इति चकारः समुच्चयार्थः | स्रवंत्यो न द्व्यश्च कार्ययाः | किं भूता अंबुजवत्यः | अत आह | जलमध्ये जलजानां यथा स्ववाहनानं च तथा जलज शब्दसामान्या पद्मापि वाहन प् र्ष्टेष्वपि आधारत्वेन कृतानां स्थिताः गंगेत्यादि सृष्टं | नानाकारागणाहसंतो नृत्यंतश्च | अन्याश्चालोक प्रकारा लीलाः कुर्वंतः सुराणेतिहासादि गीतं रूपमेतेषां बर्बरा आकुंचित मूर्धजावामनानुकाराः किंकराः स्रोतोंतरदृष्टाः परिवारार्थं गणविशेषास्ते च विस्तीर्ण जठरमंडलाः च शब्दात् क्षेत्रपाला अप्येवं विधाः कृताः संतस्तुमुक्तफलसाधका भवंति उभयत्रापि योज्यं | तदुक्तफलसाधकत्वं चेतेषां यथाहि किकराणां यथाभिमतसिद्धि संपादकत्वं क्षेत्रपालत्वमित्यर्थः | येषामेव देवतासमूहाना मनुक्तानामध्याद्यः कर्तुमभिप्रेतस्तस्य स्व्कल्पसिद्धं रूपमाराध्यं फलप्राप्तयेव पुरित्यादि स्पष्टं || || भावचूडामणौ प्रतिमालक्षणप्रकरणं द्वितीयं || अधुना पीठलक्षणम् || अथेति || बोधशक्त्यात्मनः प्रभोर्भगवतः परिग्रहवर्तिनी क्रियाशक्तिस्तदात्मकं पीठं चाधिष्टेयं | यतो लिंगाकार भगवतोऽधिष्ठातुरधिष्ठेयं क्रियात्मकमेव पीठम् | अत एव समस्तार्ध व्यापकत्वेन पीठं पूर्वं ध्यानादौ चित्यम् | यथोक्तं श्रीमत्किरणे || कल्पनीयं ततः पीठमशेषाध्व विनिर्मित्तमिति | तयोर्योग इति | तयोर्ज्ञानक्रियाशक्त्योर्यो योगस्तादात्मलक्षणः | संबंधस्तद्दृक्क्रियात्मकं तत्वं नृसिंह वदुभयात्मकमप्येकमेवेति साप्रतिष्टेति | य एवासौ तयोर्योगेऽसावेवप्रतिष्ठविशेषसन्निधाने च परमेश्वर वाचक मंत्रस्या कल्पं लिंगाद्याधारेव स्थापनं | यत एवं ततः करणात्पिठं ज्ञातव्यं किं च सामान्येतरेति | सामान्यं प्. २१ब्) भुक्तिमुक्ति | तदर्थं यत्क्रियते नामतो वक्ष्यमाणाद्मा पयोधरा पृथ्वीयक्षीत्यादिकां तां मानतश्चैवमेव वक्ष्यमाणाघ्नस्तादिनवावधिकात् | अर्थतः फलस्तथैव वक्ष्यमाणकादेवप्रासाद गर्भेति यदुक्तं प्राक् | प्रासादेभ्यश्च लिंगानां पीठानां चेति | ततः कर्तुमभिप्रेतात् प्रासादा गर्भमानेन लिंगवर्ज्येष्ठादि भेदेन नवप्रकारं यत्पीठं तत् मुख्यतः | सिद्धये भोगार्थं प्रोक्तं तदेव चानुषं ततो मोक्षार्था भवंति यत्प्रतिष्ठा कतृणा भोगावसाने मुक्तिः | श्रूयत एवेति | तथा चोक्तं रुरुसंहितायां | भुक्त्वा भोगान् सुचिर ममरस्त्री निकायै रुपेताः स्रस्तोत्कंठाः शिवपदपरैश्वर्य भाजो भवंति इति हस्तादीति | यानि तु हस्तात् प्रभृति लिंगमानेनापीठानि तानि मुक्त्यर्थं अनुषंगेण च भुक्तये भवंति | विधियोगतो हेतोर्मुमुक्षूणामपिता दृशाम् | पीठानां पिठादिषु श्रेयः प्राप्तिकामेनोपयाचितादि पूर्वं यागविधानाद्धेतोरभिलषितमवाप्यते एव व्यक्तेति व्यक्ता स्वर्चासुदैर्घ्यात् पीठं स्वायामेन समंतदर्धेन विस्तृतमुच्छ्रितं चैक एवेहार्चासु पीठायाम् उक्तोऽन्यत्र तु बहुप्रकारः | यदुक्तं प्रतिष्ठासमुच्चये || भ्रूनासाचिबुकस्कंध कक्ष्यहृन्नाभि गुह्यतः | जान्वंताश्च दशायामाः पीठस्योक्ताः स्वमान इति || किंविधं च तत्कार्ययं | अत आह वेदाश्रमिति | समग्रप्रासादानां तथा लिंगानां तदुभयरूपमपि विल्यतः | कुर्ययादित्युपसर्गवचनं | यस्तु सर्वप्रासादलिंगवदिति पाठभेदं कल्पयित्वा प्रासादमानाल्लिंगमाना द्वापीठं कुर्ययादिति व्याचष्टे तस्य प्रागुक्तेन प्रासादेभ्यश्च लिंगानां पीठानां च परस्परं | इत्यनेनैव गतार्थ त्वात् पुनरुक्त दोषः असत्पाठभेद प्रदर्शनम् | अज्ञानता दोषश्च तथा चोमस्मद्गुरुभिः | पाठभेदोत्र साधुर्वा तदन्योवान मूलतः किंत्वध्येत् भ्रमातेन तत्प्रदर्शनमज्ञता | प्. २२अ) अथैकः पुस्तकेभ्यो स्रौग्राह्यः पाठो विचार्ययचेत् | साधुरेव तु सग्राह्यः | साधूनामविगानत् इति | सर्वलिंगगमित्युपसंगतो लिंगसामान्यात् प्रतिमा स्वपि वर्तुल पिठप्राप्तौ सत्यामपवादः हितमिति | विनाशादि विधिं वर्जयित्वा प्रतिमासुवर्तुलं पीठं न कुर्ययात् | पृथ्वीति पृथ्व्याद्यानवैतापीठका भूतये सिद्ध्यर्थम् | ताश्च सिद्धयः प्रत्येकं पीठका नामतो लक्षणतोऽलक्षणश्चोक्त्वा प्रोच्यंते | यद्वक्ष्यति | चतुरश्रासमा पृथ्वी स्तंभादावित्यादि | अतोन्यायाः पद्याद्या अष्टौ ताः सामान्यं यत्फलं भागमोक्षाख्यं विशेषफलं च स्तंभतापादि तदर्थं भवंति | पृथ्वाद्यास्तु सिद्ध्यर्थमेव | पद्मेत्यादि | यक्षीपूर्णा रौद्राभिधानानां तिसृणां वर्तुलत्वे सामान्ये पूर्णायाः पंचमेखलाकृतो विशेषः रौद्रीति रौद्र्यास्तु शूलचिह्नकृतो विशेष इति ज्ञेयं कर्णस्य कोणात् कोणसूत्रस्य यदर्धं ततोष्टांश विच्युतेर्हेतोः क्रमाच्च वर्तुलेत्वं भवति | षड्भागेति || क्षेत्रस्य यद्ब्रह्म्सूत्रं तत्षड्भाग परिमाणेन बहिः पुरस्तात् पृष्ठश्च नीत्वा | ततो वर्धित भागातोऽवस्थाप्य सूत्रं च त सृषु विदिक्षु मत्स्य चतुष्टयेन सूत्रषट्कं दत्त्वा एवं नाभस्वती सभासमभूजा षडश्रा च षट्कोणत्वेन वज्रा च षड्गे मित्वेनापरः प्रकारोयं वज्रायाः पुरतो न्यस्य वक्ष्यमाणत्वात् आग्नेययुच्यते | वेदाश्रेति | चतुरश्रे सति तस्य यत् | समर्धं तस्यापि यत्कार्ययं तस्यांष्टांश परित्यागादुभ्यकोणगत क्रमात् तथा स्वक्षेत्रादिति | समस्तक्षेत्रादित्याशयस्तस्मात् | अष्टभागमानं पुरतो ब्रह्मसूत्रं नित्वा | तत्रोभय भ्रमपर्ययंत द्वये वर्धित सूत्र स्थानात् संगमं कुर्ययात् | कार्षाणवीत्याग्नेयी | याम्यामाह | अर्धादित्यादि चतुर्विंशति संख्यैन भोगेनोभयतजनात् क्षेत्रादवधेरर्ध परिक्रमाद्धेतोरसकलक्रमादित्युक्तं प्. २२ब्) भवति | अत एवार्धचंद्रप्रख्यायाम्या दक्षिणस्यां दिशि नगरात् स्थिता दर्पित शत्रुपरिग्रहार्थं कार्यया श्मशाने वा स्थिता | तन्नाशं विधत्त एव राक्षस्युच्यते | त्रिभागेत्यादि | चतुरश्रक्षेत्रे त्रिभागं ब्रह्मसूत्रमुभयोः पाश्वयोर्वधयित्वा विदिम्द्वयसमीपे मत्स्य द्वयं तथैक पार्श्ववर्धितभागांते तृतीयं मत्स्यमुत्पाद्यामित्थं त्र्यच्यरैषा | इत्थं पृथ्व्याद्यानव प्रागुक्ताः मानाभिधान फलैक्त्वा पद्माद्यानां तथैव तत्सर्वमाह | देहे पक्षेत्यादि | देहे पीठका क्षेत्रे पंचदशधा विभक्ते सति इति शेषः अत्र च त्र्यंशः खातो भवतीत्यासां षोडशांशश्च मेखलेति | वक्ष्यमाणादुत्सर्गवाक्यात् सर्वस्य पीठकाक्षेत्रस्योपरिष्ठात् षोडशांशं वर्जयित्वा शिष्टात् क्षेत्रादूर्ध्वदिशा तिर्ययग्दिशा यस्य यावंतो भागानुद्दिश्यंते | तावद्भिरेवतां चिह्नितां कुर्ययात् | श्रीमत्प्रतिष्ठापारमेश्वरे पयोधरलक्षणसमय एव लक्षणाष्टकसंयुक्तां वर्तयित्वा तु पिण्डिकां | वर्त्तये तोय पद्वं तु विस्तारेणोच्छ्रयेण च सप्तादशं तु तं भागं पिंडिकोर्ध्वे तु कल्पयेत् | तेन तत्तोय पट्टं तु कारयेद्विस्तरोच्छ्रयादिति | इत्थं पद्माया देहे उछ्रायात् पंचदशभाग चिह्निते | पार्श्वदिशा च वक्ष्यमाण वचनतो मध्ये लिंगाश्रये त्रिभाग वर्जं पार्श्वद्वयविषये पंचदशभिरेव चिह्निते | यदुक्तं तत्रैव | तिर्ययक्षोनुगतिर्भक्त्वा ब्रह्मपीठं तु पिंडिका | तयोस्तु पार्श्वयोर्भागादूर्ध्वं षोडशभिर्भजेत् || ब्रह्मभागस्य पार्श्वाभ्यां लिंगभागस्य पार्श्वतः | भागौ द्वौ द्वौ स्थितौ तत्र पार्श्वयोरुभयोरपि || एवं षोडशभिर्भागैर्भुंक्त्वोर्ध्वं तिर्ययगे वचेति | इहापीदमग्रे स्फुटिष्यति | मध्ये लिंगाश्रयं त्यक्त्वा रूपामेव सुभाजितत्| इत्यनेन चंद्रकला लक्षणसमये ततः | पदादीन्मेखला विशेषान्यथासंख्येन इंद्र संज्ञया प्. २३अ) तत्रेंदुरेको भवति | एवमादयश्च संज्ञाशब्दाः सुप्रसिद्धा एवातस्तयोक्तसंख्याः स्तांश्चतुर उद्गमादूर्ध्वोपगमाद्धेतोरंश- प्रवेशाच्च कुर्ययात् | कठोपरि च भागे कर्णिकाभिधानं निर्गमन दिशा द्वाभ्यां चाब्जाख्याभागेन च जलाधाराः | प्राग्वदत्रजलनिर्गमभागस्याधः कार्ययः पादाभिधान मेखलाया उपरिमेखला द्वयेंबुजाख्ये तथाज्य परकर्णिकोपरि अब्जाभिधानायामेव मेखलायां पूर्वापरमुखानि शुभानि पद्मानि कार्ययाणि पद्मायाः | इदानीं सकृल्लक्षणाभिधाना पयोधरा वाप्याख्य पीठिका द्वयमाह | षोडशांशे इत्यादि | अत्रापि देह | इति योज्यं | प्राक् प्रतिपादितोपपत्त्याभाज्यक्षेत्रं षोडशभिर्भागैस्तथैवोद्गमाद्भाग- भागप्रवेशतश्च | द्वादशभिर्भागैः पदादीन् कंठातान् पक्वा वयव विशेषान् कुर्ययात् | चतुर्भिर्निर्गमो वाप्या इति कंठादूर्ध्वं निर्गमाश्चतस्र एव पट्टिकाः कार्ययाः श्रीमत्किरणादौ तिस्र इति भेदः | यथैव वाप्यास्तथैव पयोत्र्याश्च शब्दतः समभुजेति | चतुरश्रावापी | व्यक्तलक्षणेति | व्यक्तप्रतिमास्वेव वापीत्यर्थः | अथ वज्रापीठोन्मान इत्यादि | उन्मान इत्यूर्ध्वमाने तावत् क्रम व्यवस्य यैव द्वादशभाजिते तथा पार्श्वमाने तयैवोपपत्त्या षोढाषोढा कृते सति | रूपेत्येकेन पदाभिधाना मेखलालोचन संज्ञया द्वयं तेन ग्रीवेति कंठः | भागेन चोत्तर वेदिः कठोपरिषडश्रा चेयं कार्यया साम्राज्यकामेन | अथ चंद्रकला || मध्य इत्यादि | लिंगरश्रयं मध्यत्यक्त्वा परिशिष्टक्षेत्रभागे दिग्द्वयेनाष्टाभिर्भाजिते सति यमसंज्ञया द्वयमेव तेन गल इति कंठः उद्गमादीत्यूर्ध्व गमात् द्वाभ्यां भागाभ्यां विनिर्गम इति कंठोपरिभागद्वयेन द्वे एव पट्टिके वारि निर्गमात् | समवस्थापित षोडशांशात्मिका तु तृतीयास्याः प्. २३ब्) पट्टिका भवत्येव | इयं च साश्रीस्तीक्ष्णमेखला चतुरश्रा च यदि भवति | तदा चंद्रकला अमृता पुनर्वर्तुलमेखला पुष्टिकामानाम् | अथ संवर्ता अर्धादित्यादि | अत्र च मध्ये लिंगाश्रयं त्यक्त्वेति स्थितम् | तेनोन्मानादर्धं षण्मेखलादि चिह्नितं भाग षट्कदर्शन तस्तथा स्यैवार्यस्य षण्मेखलत्वान्यथानुपपत्त्या पार्श्वावष्टभिरष्टभिर्भागैस्तिर्ययक् कुर्यात् | इत्थमध ऊर्ध्वं प्रवेश दिशा भागभागाति क्रमेण षण्मेखलं पादयेत् | कंठोंष्टांश इति | तदूर्ध्वं द्वितीयमर्धं पार्श्वयोश्चतुर्भिस्तथोन्मानाच्चतुर्भिभागैर्भुंक्त्वा एकभागोयः समस्तक्षेत्रा दंष्टांशस्तनमानेनास्याः कंठः कार्ययः शिष्टभागत्रयात् तिर्ययक् स्थिताद्भागभागाति क्रमेण निर्गमनस्तिस्रो मेखलाः परा इत्यन्याः कठोपरिजलनिर्गमनार्थं दत्त षोडशांशेन चतुर्थी क्रियते एव | नंदिकावर्ता पिंगलामता देवाभ्यूहा | यत्तस्तल्लक्षणं | एवाहनुदितं तच्च कासुचित् स्वस्तिकासु दृश्यतेन सर्वासु इत्यतोन विवृतम् | तथा चेह मूलग्रंथमध्यया तत्वाल्लेखकेन तन्मूलं लिख्यते | ऊर्ध्वे रसेत्यादि | इय दंतं ग्रंथभंगभयादन्योन्येत्यादि | परस्परभेदविमिश्रितायाः पीठिकास्ता बह्वोबहुत्वाच्चन नामतो निरुर्च्यंते कथ्यंते | त्र्यादि भेदेनोत्तममध्यमकन्यसादि संज्ञकेन प्रसिद्धाः भिन्नफलाप्तयेक्षुद्र सिद्ध्यर्थं चेति | त्र्यंश इत्यादि | आसांसर्वासामेव त्र्यंशेन परीमाणदिशा त्रिभागेनायातो यश्चंद्रकलालक्षणप्रतिपादनसमये सूचितो मध्यं लिंगाश्रयं त्यक्त्वे त्र्यनेतायः षडंगः पुनर्मेखला जलाधारिका | श्रीमत्पिंगलामतेपि || एकैकस्याः स्वस्वलक्षणसमय एव जलाधारार्थं षोडशंश विधानाय यदभिहितं प्. २४अ) तद्विक्षिप्तत्वादिहनप्रदर्शितमतस्तत एवावधार्ययम् खातश्च लिंगाश्रयाख्यः श्वभांतौ ब्रह्मशिलाप्रादेशं यावदुन्नेयः प्रणालोजलनिर्ययासप्रदेशो नाटकाख्यया यस्य प्रसिद्धिः सचार्चावदित्यर्चा समौदैर्घ्येण पार्श्वमानस्य वक्ष्यमाणत्वात् | उत्तर इत्युत्तर दिग्भागे पूर्वामुखपश्चिमामुखलिंगप्रासादयोः उक्तं च प्रतिष्ठापारमेश्वरे पूर्वामुखे तु प्रासादे अथवा पश्चिमामुखे प्रणालमुत्तरे कार्ययं विधिरेष सदैव हि | अन्यच्च | तथा तु लिंगं संस्थाप्यं तथा स्थाप्या च पिंडिका | यथा भवेत् पिंडिकाया उत्तरे तु प्रणातुकमिति || अथैतल्लक्षणं | स्वाग्रही न इत्यादि | प्रारंभ स्थानादेव नाग्ने प्रांते हीनस्तदर्धपरिमाणेनेत्यर्थः | एतदन्यत्रानुपातत इति | ह्राससूत्रक्रमेण कार्ययः | एतस्यैव खातप्रमाणमाह | पंचाशेत्यादि | मूलप्रेशात् पंचम भागद्वयं मध्यात् सप्तभागद्वयं प्रांताच्च दशभागद्वयं प्रमाणेन यथा भवतीत्यर्थः | तस्य प्रणालस्य खातो जलनिर्ययासमार्गोयः समूलान्मूलप्रदेशादग्ने गांभीर्ययेण द्विगुणः कार्ययः येन त्वरिततरं जलं सार्धंश इत्यादि | स्थानत्रयेपि सार्धांशेन मेखला तस्य पीठमित्यादि | तस्य सर्वस्य च देवताकारस्य पीठमधिकरणं साधुलक्षिटं यस्य यावत्येवाध्वनिव्याप्तिस्तावतैवाध्वनालक्षितं चिक्रितं यथा भगवतः परमशिवस्य षट्त्रिंशत्तत्त्वोपलक्षितं श्रीकंठदेवस्य गुणमस्तकावधिं ब्रह्मादीनां सुराणां ब्रह्मांडावधि चैवं विधाचार्ययेणव्याप्तिर्भाव्येति | पीठस्यापि गुणागुणा इत्यादि | गुणदोषालिंगवदुपलक्षणीयाः प्रोक्तेन न्यायेन शास्त्रोक्तेनलेपदानादिनेत्यर्थः || || इति भावचूडामणौ पीठिकाप्रकरणं समाप्तम् || शुभं || प्. २४ब्) अथेत्यादि | यतेत्प्रयत्नमाश्रयेत् | सा सर्व इत्यादि | असृग्रक्तं तद्वर्णास्वादुशब्देन मधुरमुच्यते | कषायं हरीतक्यादिक्षतजंशोणितं तद्गंधेत्यर्थः | बाणः शराः अमृतागुडीचीकाषादर्भविशेषास्तन्निचयेन व्याप्तं वासुर्धूलिर्यासां भूमीनां | उगदादि प्लव इत्यादि | ग्रहणात् प्राची गृह्यते | तथा च किरणादौ | प्रागुदक् स्तवति तेन पूर्वोत्तरनिम्नाया सिद्धास्ताः श्रेष्ठाः संकीर्णाः कलिकर्दमविष्टान्विता यास्तास्तथा फला इति | संकीर्णफला एव ब्यालबिलानि सर्पविवराणि वल्मीकाः प्रागुक्ताः ऊषराः सिकताकलिलं मञ्जापूति प्रधानं कर्दमम् | खातवारि दीपगुणाअश्च भूमयो यास्ताः शस्यंते | तत्र खातपरीक्षा | यथा खातस्य मृत्यूरणाद्यस्यां मृदधिका भवति | सोत्तमा समायस्यां सा मध्यमा ऊनात यस्यां साऽधमा | यदुक्तं किरणे | हस्तमात्रं पुराखंडपूरणादधिका शुभा | समाया मध्यमा ज्ञेया कन्यसायान पूरयेदिति | वारिजलं यस्यां शाघ्रंशमं याति सात्रा शोभनाचिरेण यस्यां सा श्रेष्टेति | वारिपरिक्षा | दीपपरीक्षा यथा | अपक्वघटो परिघृत पूर्णे तथाविध एव शरावके पूर्वादि दिक्क्रमेण वक्त्रमंत्रिताः श्वेतादि वर्तीश्च तत्रः प्रज्वाल्य यस्यांताश्च तस्रोपि चिरंज्वलंत्यस्तिष्ठंति सा शोभना | श्रीमत्पिंगलामतेप्ययमेवार्थ उदितः तौक्तं | तत्र आमकुंभो परिष्टादित्यादि | यदिदं पूर्वावर्जं यासां प्रशमस्तदा सापि श्रेष्टैव | अन्यथा त्वशुभा इत्येवं प्रकारेण | आसामित्यादि | आसां मध्यात् सर्वगुणासंभवे वा यैवाल्प दोषाऽधिक गुणा च भूमिः साशल्यदोष निवृत्यर्थं शाध्या | शोध्यक्षेत्र इत्यादि | शोभनीये क्षेत्रे मनोव्यापारेणवास्तोः शरीरं कल्पयित्वा तदंगगं शल्यं जानीयात् निमित्तत चिह्नात् | तदेवाह | पाप इत्यादि | प्. २५अ) पापाः प्रागुक्तास्तेषामन्यतमो ग्रहो होरा गतः सन् वास्तु शल्यं निवेदयति | कथयति | होराशब्देन मेषादिको लग्न इहोच्यते | यदि कदाचित् पापो लग्न गतो न भवति | तत्किंशल्यमस्ति नवेत्याह | केंद्रत्रिण इत्यादि | केंद्रशब्देन तत्कालादि ताच्चतुर्थसप्तमदशमस्यानानि | यदुक्तं सूक्ष्मजातके | केंद्रचतुष्टयं कंठकं च लग्नास्तदश चतुर्थानां संज्ञा इति | तत्रस्थो वा पापग्रहः शल्यं वास्तुगं निवेदयति | अथवा त्रिकोणसंस्थः स एवावेदयति | त्रिकोणशब्देन नवमपंचमे विवक्षिते | यदुक्तं तत्रैव || नवपंचमे त्रिकोण इति | यदि वा राशीश्वर विभूषितो युक्तां भवति | तदा तन्निदेवदयतीति संबंधः राशीश्वराः प्राक् प्रतिपादिताः इत्थं शल्या स्थित्वं ज्ञात्वा तद्विशेष ज्ञापनायाह द्रेक्काण इत्यादि | इदं श्लोकद्वयं | ग्रंथविस्तारसमये द्रेक्काणः सायुधो यद्युद्गछति | तल्लोहस्य विकारं लौहं शल्यं विजानीयात् | सुवर्णादयोऽष्ठौ लोहशब्देनोच्यंतो | सायुधद्रेक्काणश्चोक्तो वृहज्जातके वराहमिहिरे कट्यांसितवसु वेष्टितः कृष्णः शक्त इवाभि रक्षितुं रौद्रः परशुं समुद्यतं धत्ते | रक्तविलोचनः पुमानिति सार्गलेच द्रेक्काणे सति तदेव शल्यं निगडान्वितं तदेव साग्नौ च भस्मांगारौ वा | स पाशे च चर्मखंडात्मकं शल्यं स पाशोद्रेक्काणस्तत्रोक्तो यथा वस्त्रैर्विहीना भरणैश्च नारी महासमुद्रात् समुपैति कूलं | स्थानच्युतामर्ष निवेष्टितांगी मनोरमा वृश्चिकराशि पूर्वा इति | सदंडे दारुजं शल्यं विजानीयात् सदंडे दारुजं शल्यं विजानीयात् | सदंडश्च यवनेनोक्तो यथा | नीलांबरो नील वपुः प्रचंडो दंडायुधो नीलकिरीटमाली | बलीतरंगैश्च गवाक्षितांगो मेषस्तृतीयः कलिकालकल्प इति | रत्नहेमादि प्. २५ब्) युक्ते तत्कृतं रत्नहेमादिमयमेव शल्यमवगंतव्यं | आदि ग्रहणान्मणिमुक्ताहारा गृह्यंते | रत्नयुक्तश्चोक्त एव | पूर्वं भूषितो वरुण वह्वद्गरत्न इत्यादि | क्रव्याद इति | क्रव्यमपक्वं मांसं तदन्ति भक्षयति यः सतथा तस्मिन् सति | शल्यमस्थि संभवं बोद्धव्यं क्रव्यादोद्रेक्काणः सिंह जंबुकादिः सोपि दर्शित एवादौ सनिषादेवामारके हिंस्रे स च विषादयुक्तो यदि लग्ने दृश्यते | तथा चयवनः | हिंस्रो नरः कांचनवर्मधारी विले निधानेष्व हि योगवाज्वः रत्नस्वरूपार्थ विदेत्यदूरं स गुप्यते स्वैर्मुषितः सहायैरिति | तथान्येन प्रकारेण शल्यपरिज्ञानमाह | आयैरित्यादि | ध्वजो धूमस्तथा सिंहः श्वावृषः खग एव च | गजोध्वांक्षश्च शास्त्रज्ञैराया ज्ञेयाः स्थिगश्चरा इति | इति रायैर्वा बोद्धव्यं किं भूतैरत आह आदित्यगति निश्चितैस्तथा | प्रदीप्त धूमितादिक् स्थैरिति | आदित्या गत निश्चयमेतेषां बुद्धेत्यथवा किं बहुनोक्तेन नायैर्वेति श्लोकद्वयस्य सार्धस्य बाहुल्येन ज्योतिः शास्त्रानभिज्ञ त्वात् सत्यमर्थं न विद्मः श्वमृगादय इत्यादि | आदि ग्रहणान्मार्जारनकुलमूषकप्रायाः क्षुद्रप्राणिनो विंशतः क्षेत्रमित्यवगंतव्यं | पुनरपि शल्यपरिज्ञानंतरम् तदाशेत्यादि आचार्यय यजमानशिल्पिनामन्यत मे तदा शासंस्थित इति तस्य वास्तु पुरुषस्य आशादिक् दक्षिणा वामावा | तस्यां स्थिते सति | तस्मिन्न देहे शरीरे यत्तनोः स्वल्पं कंड्षणं ते मवाजानीयातदंगगंशल्यं | एतदेव स्फुटयितुमाह | मूर्ध्न इति | मूर्ध्नेवत्स्य वास्तुपुरुषस्य पुमर्धतः | किंचिदूनाद्धस्त द्वयादध इति वक्ष्यमाणे संबंधः प्. २६अ) अस्थि च शल्यं भवति | काष्ठमित्यादि | इदानीमास्ये कंडूयिते सति काष्ठं शल्यं हद्वेन खानि तेन ग्रीवेत्यादि | श्रिंखलैव शल्यं त्रिभिर्हस्तैः अथवा तत्रैव ग्रीवायां मार्जारस्य संबंधि पंजनं करंकं पुरुषार्धप्रमाणखातात् | प्रवालेत्यादि | श्रुति द्वये कर्णयुगले प्रवालकमिति विद्रुमं कांचनं वाथ रजतं शल्यं नरार्धात् | खानितात् | मौक्तिकमित्यादि | अक्ष्णोर्मौक्तिकं तद्वतिति | नरार्धप्रमाणादेव | वराहेत्यादि | पृष्ठभागे कंडूयित इति प्रकृतं वराहकूर्परमिति | सूकरस्य संबंधि जान्वाख्यमवयवः शल्यं त्रिहस्तात्त्विति वक्ष्यमाणकमुपेक्ष्यं घ्राण इत्यादि | घ्राण इति नासायां गंधवद्द्रव्यं शल्यं त्रिहस्तादेवभ्रुवौः का च प्रायं | त्रिहस्तात्त्वितीहोक्तं पूर्वोक्त द्वयस्याप्यपेक्षितमित्युक्तं | दशनेष्विति | दंत्तविकारे सत्यभ्रकं विजानीयात् | तथेति त्रिहस्तादेव | पुरुषसंबंधि बाह्वस्थि शल्यं कटिप्रमाणखातात् | क्रोडे वक्षसि पाशवमित्यस्थिमाराद्धस्तात्त्समुद्धरेत् | पार्श्व पार्श्वाष्ट्योवशल्यं हस्त द्वयात् | उरसि हृत्प्रदेश संभवमेवास्थि शल्यं हस्तार्धात् उद्धरेत् | हस्तादधः पर्ययंकाकमिति | खट्टावयवे शल्यकटिप्रदेशे विकारतः आवाममिति | चैमरं कीर्णं शंकुप्रख्यं शल्यमुद्धरेत् | त्रिहस्तात् | कृष्णलोहमिति | चैमरमेव शल्यं त्रिहस्ताल्लक्षयेत् | हस्तप्रमाण खातस्याधस्तात्त्रिलोहमिति | सुवर्णरजतताम्रमयं शल्यमुद्धरेत् स्फिजीति | कंट्याः पृष्ठभागा वयवः स्फिक् शब्देनोच्यते | तस्मिन् कंडूयितं पुरुषार्धप्रमाणस्वाताद्द्वंककमिति त्रपुप्रायं शल्यं | उरुद्वये सारं च तत्काष्ठं हस्तात् सार्धात् जान्वोः स्थूणाया एव स्थूणं काष्ठक्षुरादिवेति | नापित भांडं क्षुरं आदि ग्रहणाद्रायाराति कर्तरींवेति विकल्पतोहस्त- प्. २६ब्) स्याधस्तात् समुद्धरेतिति शेषः गुल्पे त्रिभागेनोनाद्धस्तात् तुरंगस्यायंतौरंगः पादस्तमादिशेज्जानीयात् | पादं द्वैरदं द्विरदस्य करिण इदं द्वैरदं दंतादि आदिग्रहणाद्राया गृर्हृते | एवं प्रायं शल्यं किंचिद्धस्तादधो लक्षयेत् | पादेकंडूयिते सतीति प्रकृती अंगुष्ठ इति | तस्य पादस्यैव प्रकृतत्वात् आरकूटमितिरीटि शल्यं | तथैति कंडूय न परामर्षाय पादोपयोगि वा चर्ममोचोटकादि शल्यमुद्धरेत् | हस्तेनोनेति | स्थितमेव यावन्नापवादः कनिष्ठाया विकृतौ सत्यां घोषमिति कांस्यशल्यं बोद्धव्यं मध्यमाविकृतावंगुष्ठो वदिति | यदंगुष्ठे शल्यं आरकूटाद्यौक्तं तदेव पादतले पद्यं चर्मशल्यं पादेहितं पद्यं | प्रोक्तानियान्यंगानि तेषामूर्ध्वाधोयान्यासन्नानि उपांगानि | तेषु कंडूयितेषु सत्सु तन्मयानिति प्रोक्तावयवोक्तान् शल्यप्रकारानुद्धरेत् | यद्वेवं सुवर्णरजतादीनां कथं शल्यं त्वमुक्तं पूर्वं तत्रोच्यते | शल्यानामनं तत्त्वादि यन्ना परिच्छेत्तुं न शक्यते | परमार्थ तस्तूक्तेषु प्रदेशेषु यद्यत्रोक्तं तत्तत्रैव शल्यं | इत्यत्रान्यद्विर्घमानमपि न दोषवदिति | रत्नहेमाटीनामेवायं नियमः तावन्मात्रमित्यादि | उक्तप्रमाणनिखाताद्यावत् एव शल्यदर्शनं भवति | तावन्मात्रं ततोनंतरं मही शोधयेत् | यद्वेति | पक्षांतराश्रयणं | पानीय दर्शन पर्ययंतं यावद्वेति विकल्पनार्थः तामश्मेत्यादि | तां महींकरो हस्तः पूर्ययते येन सकरापूरः तैस्तथा प्रमाणैरष्टभिरष्टांगुला मृदंतरां येषां तैः संसाध्येति | सुसमांतरसहां च निष्पाद्य | तथेष्टप्लवामिति | पूर्वोत्तर प्लवैव श्रेष्ठप्लवा सर्वसंहितासु कथिता यतः | तां तथा विधां कुर्ययात् | अनंतरं वक्ष्यमानोपपत्या वास्तुवर्तनायां स्थितान् वक्ष्यमाग्नाभिधानान् सुरान्यजेत् छायेत्यादि | गोलो मध्यप्रदेशे लांछन बिंबादिस्तत्रस्थो योसौ संकुस्तेन करणभूतेनानीतं प्.२७अ) यछाया लक्ष्मद्वयं पूर्वापर दिगुद्भूतं तस्माद् दिशं ज्ञात्वा | ध्रुववेधेनेति | श्लोकस्य तद्वदेव ज्योतिः शास्त्रसापेक्षत्वादर्थं सत्यं न विद्मः वस्तु स्वरूप परिज्ञानयोच्यते | प्रजानामित्यादि | चक्षुषोऽपत्यं चाक्षुषो ब्रह्मसुतः तदस्वास्थ्यमिति | भूतकृदित्युमापतिः जगद्धितो विश्वहितकारी | रज्ज्वेत्यादि रज्ज्वष्टकमेव महापाशस्तया वक्ष्यमणाभिधानं यद्वंशद्वितयं तेन तेन च वा पीडित शरीरं कृत्वासु स एव शंकरोनंतरं तच्चतुरश्रं कृतवान् | अत्र वक्ष्यमाणाभिधानां वृत्त षडश्राष्टाश्रादीनां प्रासादानां वास्तुदेवता पदविभागे पूजनादि कथमिति ये चोदयंति तेषामनेनैव श्लोकेनोत्तरं | यस्य कस्यचित् प्रासादस्य प्रथममुक्तं वास्तुदेहं संपूज्य ततश्चिकीर्षित प्रासादसंपादनम् | अन्यच्च | चतुरश्रादेव क्षेत्रात् क्षेत्रांतराणामभिव्यक्तिर्दृष्टा | तथा च श्रीमत्किरणे | सर्वेषा चतुरश्रं तु क्षेत्रं क्षेत्रं समंतत इति | तद्वपुरित्यादि | जागर्ती तीष्ठति | वास्तोरन्वर्थता प्रतिपादनायाह | देवेत्यादि | तद्वपुषियतो देवा अधिवसंति | ततो वस्तूच्यते | किं च वसत्यां गृहे नित्यमेव सन्निधानतोपि | इष्टेत्यादि | मर्माणां रक्षणादभिप्रेतगुणप्रथनार्थम रकषणाद्वेधात्त्वन्यथाभवति | तद्देहा इत्यादि यास्तच्छरीरे नाड्यो विंशतिः प्राणोवायुस्तद्देवता गृहवास्तोस्तस्यैव वा सत्यां सन्निधेरित्यनेन प्रथममपेक्षितत्त्वात् | ईरित इत्युदीरितः मनोरथेत्यादि | ताश्च मनोरथाद्याः शांत्यंतादशप्राच्य इति | पूर्वाननाः सोमभागादुत्तरायादिशः अंतकांतमिति | दक्षिणां दिशं यावदवस्थिताः हि भाद्याहिरतादशोत्तराननाः इत्येवं विंशतिः एताश्च पीडितानाम सदृशार्थ क्षय हेतवो भवंति | रक्षिता गुण्यां कार्ययं कुर्वंति | अग्नीषोमेति | आसां विंशति सांख्यातानां ये साध्या प्. २७ब्) इति मध्ये भवाः षडाड्यः तन्मध्यतः सुषुम्णा पूर्वाम्नाय नाडीदशकाढ्यद्यं नाडित्रयं यथोत्तराम्नायादाद्यं नाडित्रयमेवं षडीषान दिग्भागे दिशः प्रदेश एव वास्तोरीशमूर्धापवक्त्रक इति | वक्ष्यमाणवचनतः षट्ताः सौषुम्णाः वासभागे सप्तैड्यः दक्षिणभागे सप्तपैंगल्यः अन्यच्चाग्नेदुगे पुरादौ वास्त्वंतर प्रस्तारसमये स्फुटी करिष्यति | एकादश सिराभिन्ने सौषुम्णाः प्राग्वदुद्गताः | अष्टौ अष्टौ भवंत्यैडाः पिंगलाश्च महासिरा || इत्यनेन यस्त्वासां दशानां नाडीनां मध्यात् षट्सौषुंणाद्यः शिष्टं चतुष्टयमैडं पिंगलं च पुनरप्यासां दशानामेवेति | व्याचष्टे | तेनाध्यात्य स्वरूपानभिज्ञतया एकस्यैव वास्तु देहस्यांतः शरीरद्वयमिडा पिंगलांतरितं सुषुम्णाद्वयेनावेदितं भवति | वक्ष्यमाण वचसां चासगतार्थता प्रदर्शिता | अन्यच्च सांदशानामेवेति | प्रतिपादकं विशेषणं नास्ति केवलं नामतो नाडी विंशतिकमुक्त्वा सर्वासामेव संग्रहादासां मध्यात् | यत्युक्तं यत्सूत्रकृता | तद्देवानां प्रियो सौस्वरुचितमेवं व्याकरोतु | आसामित्यादि | असांविंशति संख्यातानां पटातिशय योगाद्भूयांसो बहुकाराविकारा वक्ष्यमाणाः संकोच इत्यादि | स्वल्पेपि वास्तौ यत्पदाल्पत्वे सत्य पित्र्यात्मकत्वमिति सुषुम्णेडापिंगलात्मकत्वं न निवर्तत इत्यर्थः | तिर्ययगिति | आग्नेय वायुकोण स्थितो दुर्जयनामावंशो द्वितीयस्त्वीशाननिनृतिकोणस्थ दूर्धरः ब्रह्मेत्यादि | यत्र कुत्रचिदित्ति | गेहे स्तंभ विन्यास देवगृहे ब्रह्मशिलाविन्यास्यादावणुनासर्पपमात्रेणाप्यंशेनावश्यमेव परिहर्तव्यं | उक्तं च श्रीमत्किरणे | एतज्ज्ञात्वा तु संश्लेषं सूत्राणां मर्म तद्भवेत् | ज्ञेयं मध्यगतं मर्म तस्माद्यत्नेन वर्जयेत् || प्. २८अ) कृत्त्वा तत्षोडशां तु तत्रैकं मर्म तत्पुनः | कृत्वा षोडशधास्योनं वर्जयेत् तत्सदेव तु || इति समस्तेत्यादि | सर्वनाडी सम्यक् पातैः सन्निवेश विशेषा भवंति | ते संधयः प्रोच्यंते | ते च वसताविति | वेश्मनिहताः संतः कर्तृस्थपति सूरीणां अन्यतमस्यांग संधीनां संकोचे निमित्तं संपद्यंते | सूरीणामित्याचार्ययाणां | वक्त्रेत्यादि | एतेषु प्रवक्त्राद्वेषु कीलक्याद्यं विवर्तां तं रज्जु चतुष्टयमवबोद्धव्यं हृदाद्येषु सद्भावाद्यं वक्ष्यंते चतुष्टयं | परा इति | प्रथमं याः प्रोक्तास्ताः स्त्रिपदाः पश्चात् प्रोक्ताः षट्पदा इति स्थितमेव | रज्ज्वित्यादि | संपात इति संघट्टः अष्टांगपंकजमित्यष्टावयवोपलक्षित पद्मलक्षणेनानुमेयं पद्मं | उपस्कृत इति पीडिते | त्रिशूलमित्यादिकौ प्रदेशेषु वंशनाडि द्वयेन चार्था देवार्धकात्रयोपलक्षितं त्रिशूलं | तदेवेत्यादि | तदेव त्रिशूलमुभयस्थितेर्वज्रं जानीयात् | कुड्याद्यैरिति प्रकृतिभिः वंशेत्यादि | वंशेन रज्ज्वा च कोणप्रदेशेष्वेव संगतमिति | त्रिकोणाकारासंगतिर्यस्य | तदर्धेत्यादि | संपुटार्धेन तुलाकारं मर्म भवेत् | पदेत्यादि | रज्जुभ्यामेव पदमध्ये चतुष्टयं तत्तत्स्वस्तिकाख्यं मर्मेत्यर्थः रज्जुवंशोक्तमित्यादि | तद्रूपमेव रज्जुवंशाभ्यामुत्थितं महास्वस्तिकमित्येतावाने विशेषः महाभयेत्यादि | शुद्धमिति | चतुष्कोणमेव यत्पदनिवासकृद्भवती मध्याह्नि यते स्वप्नांतेत्यादि | स्वप्नांते नाडीनां यः संपात तेन त्रिकटानाम मर्म भवति | यतः तत्त्र्यात्मकं त्रिशूलाकारादाकारांद्ध्ररेण प्रसूतेरिति प्रजायाः पंचात्मकमित्यादि | तदेवेति | त्रिकटयेव पंचात्मकं पंचावयव मणिबंधनाख्यं | कोशशब्देन गंत उच्यते | एतानीत्यादि प्. २८ब्) एतानीति महामर्मसंधि मर्मपंकज त्रिशूलवज्रसंपात हलस्वस्तिक महास्वस्तिक शुद्धपदत्रिकटमणिबंधनाख्यानि | द्वादशमर्माख्यानि | यदि कर्ता वर्जयेत् तत्कारकसहितो यथाभिलषितमाप्नोति | तस्येत्यादि | तस्य वस्तु देहस्य प्राग्भावं दक्षिणं | अययेमिति | पश्चिसमुद्भवमुत्तरं विष्टभ्येत्यधिष्ठाय प्राच्यामित्यादि | एकांशा यदि अपि वंश रज्जुभिः पदमर्धीकृतं | तथापि तत्सकलत्वमेवांश त्वेनैकस्य देवगृहस्य देवगृहवास्तोः देवानां केषांचिदर्ध पदानामर्धो शत्वेन वक्ष्यमाणत्वात् | बह्मामध्य इति | पर्ययंतकोष्टकावृत्त्यामीशाद्यवादिति पर्यंत देवाः द्वात्रिंशत् मध्ये तु ब्रह्मा मरीचीरित्यादि | अस्मादिति ब्रह्मण एव पूर्वस्यां दिशि मरीचिः षट्पद इति | वक्ष्यमाणेन संबंधः | मृत्युजिद्दक्षिणाशा आपवत्स इत्यादि नाभस्वत्यां राक्षयक्ष्मेत्यत्र पाठक्रमान पेक्ष आर्थः क्रमोनुष्ठेयः तेनेंद्रं प्रथमं नैनृतकोणे विन्यस्यानंतरं वायुकोणे राजयक्ष्मावित्यास्य इति | तद्वदेवेति यथापवत्सा द्वयो द्विपदास्तथैवा पाद्याश्चतुस्रो देवताः जयशूलिनाविति | इंद्र जयरुद्रदासौ तेभ्योनंतरा इत्यापवत्सादेव चतुष्कविन्यासादनंदरं शंकराद्विष्वेवा वशिष्टेषु पदेष्वेतान्यस्या इत्यर्थः चतस्र इत्यादि | वहिर्वास्तोरीशादि कोणेषु चतस्रो राक्षस्यः महांतमिति वृद्धम् | अर्बुकमिति बालम् | क्षेत्राश्रयाणां देवानां कियती संख्येत्याशंका निरासायाह क्षेत्रेत्यादि | पंचक इति पंचचत्वारिंशदित्यर्थः कथमिति चेत्तदेव द्वात्रिंशत्तावदीशाद्यादिति | पर्यंता ब्रह्ममरीचि विवस्वन्मित्र पृथवीधरा पापवत्ससवितृसावित्रेंद्रेंद्र जययरुद्र रुद्रदासा त्रयोदशेथं पंचचत्वारिंशद्भवंति | यत्र कुत्रचिदिति | सर्वेषां वक्ष्यमाण चतुःशालादि गृहाणां बाह्यस्थित चतुष्कद्व सहितास्त्रिपंचाश- प्. २९अ) देवस्तंभब्रह्मशिलेति | श्लोकः पूर्वोक्तानुवादः देवगृह वास्तुरुच्यते | नवप्राच्या इत्यादि | नवप्राच्या इति प्रातांतर्भाविताः इत्यन्यस्यां प्रांतमन्यासामंतर्भूतं तस्या अप्वन्यस्या इति यावत् | उक्तं चष्षष्टिपहानि क्षेत्रे संपद्यंते | सर्वेषु वक्ष्यमाणे मेर्वादि प्रासादेषु यदाह चतुष्षष्टिपदं क्षेत्रं समस्तसुरधामस्विति | तत्र चदितिश्चेशश्च खकृषाणू इत्यंतरिक्ष स्त्रीमृगश्च पितृनामा च रोगाढ्यश्च वायुश्चेत्यष्टौ कोणारसंश्रया इत्यर्धकोण स्थितयः शेषास्तु चतुर्विंशतिर्बाह्यावृत्त्यां पदिका इति | प्रकृतमिति | उक्तं च श्रीमत्किरणे || दितीशश्चांतरिक्षोग्निर्मृगश्च पितृसंज्ञकः | पाप यक्ष्मा च रोगश्च कोणावास्या दिवौकसः || पर्जन्यश्चेत् पाद्युक्ता एते त्वेक पदा ज्ञेया इति यावत् | कोणभृतोष्ठावित्यापवत्सादयौष्टौ बाह्यदेववदिति पर्जन्यादयो यथा पदिका इत्यर्थः | प्राग्वदेव मरीचाद्याः पूर्ववत् षट्पदा एव | किंतु स्थानचतुष्टय वैचित्र्येण पर्जन्याद्या वृत्त्यामधः पादचतुष्टयं तदधः पदद्वयमेवं रूपेण षट्पदो मरीचिरेवं विवस्वन्मित्र पयोधराः इत्थमपि कोणभृतोऽष्टौ पदिका भवंत्येव वंशौ वसुपदावित्यष्ट पदौ अर्थसिद्धौ चतुःषष्टिपदत्त्वेनैव वास्तोः | इदानीं देवभावस्थित्या रूपकेनानुमेयो वास्तु पुरुषो बोद्धव्यः इति तदर्थमुच्यते | ब्रह्मनाभिरित्यादि ब्रह्मनाभौ यस्य | उक्तं च | ब्रह्माचतुष्पदो मध्य इति नाभिश्च मध्यस्थानमेव | श्रीमत्किरणेपि || ब्रह्मानाभिगतः प्रोक्त इति | पितृपादिति नैनृतकोणस्थितः | पितृनामादेवस्तत्रास्य पादौ | श्रीमत्किरणेपि || नैनृते चरणद्वयमिति | ईशमूर्धेतीशानकोणे मूर्धाशिरो यस्य किरणेपि ईशानेस्य शिरोवास्तोरिति | अपि वत्सका इत्यापाभिधानो वक्त्रस्थानेऽर्था देवेशानकोणादधः प्. २९ब्) कोणस्थितेरस्य तद्वत्सकंधरा इत्यापवत्सकं धरा कंठो यस्य तेन युग्ममृदिति कोणद्वयधरावर्थतः प्रोक्तशिष्टौ सवितृसावित्रौ तथा रुद्र रुद्रदासौ च सव्यासव्यौपाणी | किरणेपि | सविताहस्तोस्येति | दितिपर्जन्यौशब्दार्था इति | दितिपर्जन्यौकर्णौ शब्दार्थः प्रयोजनं ययोः कर्णयोरेव जयादित्यं सयुग्मक इति जयाख्यः अदितिश्च तौ स्कंधौ यस्य ऋग्येंद्रादीति | ऋग्यादयश्च षट् तथेंद्रादयश्च षट् यथा संख्येनैव वामदक्षिणबाहु यस्य रक्षोदिक्स्थयुग्मेनेति | नैनृतदिक्स्थं यद्युग्मं कोणद्वयं तस्य यावीशौ तौ गुह्ये यस्य रोगपुयाख्येति | रोगाख्यश्च तथा पूषाख्यश्च जान्वंगे यस्य सरोग पूषाख्य जान्वर्थ इत्यर्थः मरीच्य वनिभृदिति | मरीचिस्तथा पृथिवीधर एतौस्तनौ यस्य मित्रो विवस्वानिति | मित्रस्तथा विवस्वान् रूरु प्रदेशो यस्य इत्थं वास्तुपुरुषोयमधोमुखो ज्ञेयः अस्यागे सव्यासव्य इति | अस्य वास्तोर्यत्सव्यमंगं दक्षिणं यच्चा सव्यं वामं तत्र स्ववस्थित इति | स्वदिग्भागा परित्यागेन सुष्टु कृत्वावस्थिता देवाः मर्मेत्यादि | सूक्ष्माणि यानि मर्मस्थानानि अनुक्तानि तानि स्वमर्मभ्यो विज्ञाय श्रेयस्कामो वर्जयेत् वास्त्वंतरमुच्यते | एकादशैकादशनाड्योस्य पूर्वोत्तरामुखाः प्राग्वदेव सौषुम्ण्यः प्राग्वदिति | षडेव च एकादशभ्यस्तिस्रस्तिस्रः सौषुम्ण्यः शिष्टा अष्टावष्टा वैडाः पैंगाश्चेत्येवं शतपदं क्षेत्रं भवतेव किं निमित्तमित्युच्यते | दुर्गपुराट्टालक भूमिष्विति | खेटकेति | ग्रामशब्दस्य स्वपदोपाक्षत्वाद्वली वर्दन्यायेन स्वल्पोग्रामः निवासादिष्वित्यादि ग्रहणाद्विहारारामबाह्यालि प्रभृतिष्वपि तत्र देवतान्यासः ग्रहाश्चतुष्प्रदा इति स्कंधाद्याश्चत्वारः पूर्ववदिति | दिक्ष्वेवेत्यर्थः किंतु बाह्यपंक्त्यंतरे रेष चान्य प्. ३०अ) वास्तोरस्य विशेषः पंचांशा भूतनायका इति | चरक्याद्याः कोणेषु पंचपदाः ब्रह्मादयस्तु देवगृह वास्तूक्तोंशाः रज्ज्वादय इत्यादि ग्रहणाद्वंशावपि | इत्थं बाह्यावृत्तिं ग्रहराक्षसी निमित्तं वर्जयित्वा | अंतर्यच्चतुःषष्टिपदं क्षेत्रं तत्सुरगृह वासूक्तविभागदेवः | इदानीं देश वास्तुरुच्यते चतुस्त्रिंशदित्यादि | चतुस्त्रिंशतासिराति पूर्वोत्तरामुखीति विरचिते क्षेत्रे सति नवतिरशीत्याचाशकानामाधिक्येनं | यदुक्तं | सहस्रमंशकानामेवोत्पद्यते इति प्रकृतमेव | तत्र देवताविन्यासायाह | तत्र सार्ध इत्यादि द्वेपंक्ती अर्धपंक्तिश्च किमर्थं तत्परित्यागश्चेदत आह रक्षोग्रहात्क इति | चरक्यादि स्कंदादि रक्षोग्रह संबंधिनी पदार्धांतरितैरिति | पंक्त्यर्धर्मंतरे प्रवेशार्थं परित्यज्य तदंतरितैर्नवभिर्भागैश्च परित्यक्तैरित्यध्याद्वियत्ते | ततो नवभिर्भागैस्त्रिगुणैरिति | सप्तविंशत्यागुणैरिति | तैरपि त्रिगुणितैरेतदेव विशेषयत्येकार्शतिपदो ब्रह्मेति कोणेशाः षट्कृतीश्वरा इति षण्णां च कृतिः | षड्गुणितत्वं अयमर्थः आपवत्सादयः पूर्वोक्तवास्तुनिर्देशात् कोणनाथाः षट्त्रिंशत्कोष्टकाधिपतयः चतुष्पंचाशदीशाना इति परीच्यादयस्तु चतुष्पंचाशदपि नाथाः नवधा परेति | अपर दिग्भृत ईशतोदिति पर्ययंताश्च ब्रह्मणोनंतरं पंक्ति षट्कं परित्यज्यानंतरं पंक्तिद्वयं यदवशिष्यते | तत्र प्रत्येकं नवधेति | नवकोष्ठकाधिष्ठातेत्यर्थः | दुर्गपुरादि वास्तोरस्य को विशेषो येन यथा तत्र स्कंदाद्याः क्षेत्रांतर एव प्रोक्तास्तथापीते तदाह | विशेषो व्याप्तिज इति नान्यत् किंचिद्विशेषास्ता एव यतो देवताः केवलं व्याप्ति कृत एवास्मिन् बहुपदभाजो देवास्तत्र त्वन्यथा | अथ चिता वास्तुर्विपन्नदीक्षितानां दाहस्थाने प्. ३०ब्) यत्क्रियते यद्वक्ष्यति | दीक्षितानां कृतावितिरिति किं भूतो तदर्थमाह | भूतवर्गेति | पंचविंशति कोष्टकोपलक्षिते | तत्र क्षेत्रे मध्ये पंचका इति | मध्ये भवं मध्यं | तस्मिन् पूर्वादिषु चतसृषु दिक्षु तथा सर्वमध्यकोष्टके चेत्यर्थः | तत्र क्ष्माभूमिः सकेति ब्रह्मणा सहवीत्यस्येदिति वाक्यभेदेन क्रियाध्याहारः चतुष्के नैनृत इति | निनृतेरिदं यन्नैनृतं चतुष्कं तत्र विष्णुसहितं वारीति वरुणं न्यसेत् स्वासयोरिति | या यास्य स्वकादिक्तद्वदिति | चतुष्क एव ईश रुद्र समाश्रितोविति | यथा संख्येन व्योमशंभोरितीशान्यांदिशि चतुष्कं शंभुना सहव्योम विन्यसेदित्यर्थः | वेदलक्षिते चतुःसंख्योपलक्षिते इंद्र यम वरुण सोमाः स्थिता इति | स्वदितस्थाने पदैकव्यापकत्वेनेत्यपि | यष्ट्वैवमिति | एवं दर्शितभागेन देवताव्यप्तौ सन्न्यां संपूज्य राष्ट्रस्य भूतानामिति षड्विधस्यापि भूतवर्गस्य विवृद्धिर्भवति | विकलास्तद्विपत्तय इति | तदकरणाद्विपत्तिः स्थितैव इदानीं सदोषभूशुद्ध एवास्त्वंतरमुच्यते | नवक इत्यादि | नवकेति नवकोष्टकांकिते क्षेत्रे ब्रह्मप्रधानानां लोकपालानां ब्रह्मस्थानतः प्रागीशांतं क्रमेण ब्रह्मादि लोकभृत्पूजने कृते भूमिरपदोषा भवति | स्वामिनश्चेष्टपदा भवतीत्यर्थः | अत्रैवार्थे विकल्पेन वास्तुद्वयं श्लोकेनाह | ग्रहानित्यादि आदित्यमुखात्केत्वं तान् ग्रहानेतेषु इति नवसुसंपूज्यभूमिः शुद्धाभवतीत्यर्थ वैतेष्वेव पदेषु च नवधा प्रत्येकं पदप्रविभक्त्या तानेव ग्रहान्मध्यात् प्रभृति प्राग्वत् पूर्वादीशांत क्रमेण श्रीपौष्करोक्त नवनाभयागवदित्यर्थः | अथ वास्तुयागः अथेत्यादि | कृत्वा भूमेः परिग्रहमिति | वास्तुपूजास्थानतः स्थानांतरे भूपरिग्रहमस्त्र प्. ३१अ) कलश वारिधाराविन्यासादिना कृत्वा शिवास्त्र कलशे संपूज्य | ततो मंडपवेदिकामध्ये इत्यक्त प्रदेशे शिवमंदलस्थं संपूज्य | मंत्रवदिति | प्रागुक्त स्वरूपो विद्वानेते | नान्यत्राप्युक्तं | नाज्ञों भ्रांतः ससंदेहो गुरुर्भाव विवर्जित इति | कृते चित्तार्पण इत्यग्नि कार्ययं होमं च मंत्र तर्पणार्थं कृत्वा छिद्रनिर्भरणाय च प्रायश्चित्त होममपि कृत्वा संहितायाः पूर्णाहुतिं प्रक्षिप्यानंतरं पूर्वोक्तविधानेन वास्तुदेहं नाडि विभागेन वर्तयेत् | तत्रेत्यादि | ईशानादि क्रमेणावाहनादि पूजनं कृत्वा बलिं यथा विभागेन वक्ष्यमाणं दद्यात् | आचार्यय एतेनाउष्टान क्रमेणेत्यर्थः ईशानदैवतैरिति | ईशानो देवता एषां तैरुपत्ति वाचकैर्मंत्रैरित्यर्थः सामान्यैरिति वैदिकैः इमा रुद्राय स्थिरधन्विनेकद्रुद्राय प्रचेतसै त्र्यंबकं यजामहे इत्येवमाद्यै ऋग्वेद पतैस्तथा रुद्राखुंते पशुं करोमीवमाद्यैर्वजुर्वेदपठितैरुद्रसामभिः सामवेद पठतैश्च अथ वेतरैः स्वे कल्पे ये विहितास्तैरित्यर्थः | घृताक्षता इति घृतं यवाश्च | पद्मेत्यादि | पद्मांष्विति | पद्ममंबु च घननाथाय पर्जन्याय वितानमित्यादि | वितानंकरक्तकं धूम्रं नीलकपिशं अंशवेरवये सन्यायेत्यादि | दानमुद्रयेति | प्रधानाभिमुखीकृत हस्तेन मध्वित्यादि | पलमपक्वं मांसं गंधानित्यादि | गंधानिति सर्वगंधान् जिह्वामित्यादि वैहगीमिति | पक्षि संबंधिनीम् मृगायेत्यादि | यवांकुराणि पितृभ्य इत्यादि | कृसरोदनमिति तिलकेन सराख्यासिद्धादौवारिक इत्यादि | दंतधावनं सुग्रीवेत्यादि | दर्भकमिति दर्भविष्टरं प्रचेतस इत्यादि | वारिरुहमिति पद्मं पूर्ववदिति | दानमुद्रयैव सुममिति | सुराप्रति वस्तुत्वेन नागकेसरचूर्णानि सुप्रसिद्धानि द्रव्यत्वेन फणिनेनागायाः भक्ष्याणीत्यादि प्. ३१ब्) भक्ष्याणीत्येनेकाकाराणि घृतपूरघरिकादीनि | भक्ष्यादि त्रयं यथासंख्येन मुख्यादिभ्यस्त्रिभ्यः मंत्रप्रयोगत इति पूर्वोक्तानुवादः ऋग्यायेत्यादि | शालूकमुत्पलमूलं तल्लोप्य इत्यादि लोप्यवा इति लोपिकाः | पूरिका इति पिष्टकृतो भोजनविशेष मोदकानित्यादि | रक्तचंदनं सुगंधद्रव्ययुक्तं हरितान्नमित्यादि हरिद्रामिश्र मंत्रं धौतमुद्गममिश्रान्नमित्यादि | मिश्रान्नमिति मिश्रैव | तज्जयायेतींद्रजयाय गुडौदनमित्यादि | मांसवदिति | तदेव सिद्धान्नं मांसयुक्तं रुद्रायराजयक्ष्मणे इति रुद्रदामाय | सामिषान्नमिति | मांसयुक्तमन्नं रुद्रस्य पुनर्घृतेन सहविश्लिष्टमिति विशेषः नाति संसिद्धानित्य पक्वान्याषान्वसुमतीभृते पृथिवीभृते पृथिवीभृते | ईशेत्यादि | आपापवत्साभ्यां यथासंख्येन दधिक्षीरेण किरणेप्युक्तं | पयोदधीशकोणेत्विति | पंचगव्येत्यादि | पुनरपि पयोदधिशब्दः समज्जवाचकः पित्तमित्यांतरो मांसखंडविशेषः बाह्यत इत्यादि | बाह्यतश्चरक्यादृष्टकस्य एव मुक्तेन क्रमेण बलिं दत्वा ततोन्यः सार्वकामिकः सर्वकामप्रदो बलिः मातृमंडलयुक्त गणेभ्यः प्रतिदिङ्मुखं दिव्यांतरिक्ष भौमनिवासिभ्यो नमः शब्दप्रयोगतः दातव्य इत्यर्तः होम इत्यादि | होमस्तु स्वाहा पदंतैर्मंत्रैरर्घो वषडंतैस्तद्वदिति | वौषट् पदांतैरेव माल्यादीत्यादि ग्रहणाद्वास्त्रालंकारास्तत् सर्वं नमस्कार योगेन जप इत्यादि | जप इत्यादि | पार्थववीजलकारस्थैः स्तंभन निमित्तं जपः कार्ययः चाटनमुच्चाटनं तन्निमित्तं यकारो वायुबीजः तत्रस्थैः सिध्यर्थं सहविसर्गेण विसर्जनीयेन ये वर्तते तैः सविसर्गैर्दीप्तामूर्ध्वाधोरेफसंयुक्तैः छेदननिमित्तं छगिति यत्पदं तत्प्रांतैः पुष्टिराप्यायनं तन्निमित्तं वकारो वरुणबीजं यतः अमृताक्षराणि रं रं रुं मृत्यु विजयायै तत् अक्षरगैः अथवा स्वे स्वे कल्पे विहिताया जातिस्तया कृतमुपपदनिमित्तं प्. ३२अ) लक्षणं येषां तैः एवमित्यादि अनिवारितमित्यविघ्नम् || भावचूडामणौ वास्तुपलश्चप्तर्थः || इदानीं कुंभप्रतिष्ठार्थमाह | अथेत्यादि | अगारं गृहं तन्निष्पत्तये चतुरश्र क्षेत्रविधिः | प्रथमं पूर्वापर दिशौरायतं सूत्रं प्रसार्ययमध्यचिह्नितं कृत्वा ततस्तस्य मध्यांकाद्बिंदुद्वयं पूर्वपश्चिम दिग्भागमेव व्यवस्थितं न्यसेत् | समांतरं च कृत्वेति क्रियाविशेषणं तदग्रेणेति | तद्बिन्दु द्वयमग्रे यस्योक्तं यथा तेनै तदुक्तं भवति | सूत्रद्वयेनोत्तर दक्षिण संपात द्वितयं मत्स्यद्वयमित्यर्थः | तेनोत्तर दक्षिणमत्स्य द्वयमार्गेण दक्षिणोत्तरायतं सूत्रं दद्यात् | अभिरुचितमानार्धेन च विदिक् प्रथः संपातो मत्स्य एव तेन लक्षित विभावितं सूत्रं कुर्यादिति | सूत्र चतुष्टयं | इत्थं समं ततश्चतुरश्रं तत्रेत्यादि | तत्र चतुरश्रे मर्म स्थानं वर्जयित्वा मध्यप्रदेशे किंचिदीशान दिग्भागं नीत्वा यदुक्तं परिहार्ययमवश्यं तदगुना | यत्र कुत्रचिदिति | विश्वस्तस्य समस्तस्याध्वन आधारभूतामनंताभिधानां शैवीमिति | विश्वस्याधिष्टेयां | अत एव विश्वकारणं समस्तजगतः कारणं अधिष्ठात् तयैवतां तथा भूतां न्यसेदाचार्ययः | तत इत्यादि | आधारशक्ति न्यासादनंतरं समस्तानामधो लोकनायकानां लोकभृतामीश्वरं | यदाह लोकभृत् कृत्यनियं तृत्वेनेति | तं लोकपालमेवानंतरं | अव्यमिति | ध्रुवं धैर्ययायेति संचिंत्य विन्यसेदित्यर्थः | कलशाधारमिति | स एव विशिष्यते कलशे आधार इत्यर्थः | विधिवदिति पाठक्रमेणापि त्वार्थेण क्रमेण यतनुद्देशादनंतरं वक्ष्यति वेदिमध्ये शिवं चेष्ट्वा इत्यादिना शक्तेरुपर्यनंत्ताख्ये कुंभं तन्मंत्रसंस्कृतं | शिवमंत्रं समुच्चार्य बुद्ध्यंत पदगर्भितम् स्वाहा प्रांतं लवर्णस्थं नमस्कारेण विन्यसेत् कस्यानेकशिलासंज्ञामैश्वरीं शक्तिमव्ययाम् | ततः प्राक्तः सुरेशादि कलशान् | भक्तिपूर्वैकम् सन्निधायारातिः स्वैः स्वैः शिलास्ताः क्रमतो न्यसेत् | इत्यंतेनानुष्ठानक्रमः तस्येत्यादि | शिलामिति | पादशिलेति यस्याः प्. ३२ब्) प्रसिद्धिः इह तु ब्रह्मशब्द सन्निकर्षाद्ब्रह्मशिलेयमुपच्चर्ययते स्वाध्याया प्रतिष्ठाकाले एव संस्कारलक्षणानां वक्ष्यमाणत्वात् | ब्रह्मपदप्रांतोध्वा बुद्धितत्वम् | यदुक्तं | श्रीमन्नंदीश्वर कारिकायासु | तन्मात्रे मनोहंकृद्बुद्धिर्देवः ब्रह्मा च देव मध्य परितः तामेव शिलां विशेषयति सर्वाविभक्तमूर्तीश इति | या वक्ष्यमाणाः क्ष्माद्यामूर्तयोः ऽष्टौ तदीशाश्च सर्वाद्यास्वावंत एव तथा तत्त्वानि तदीया ब्रह्मादयस्त्रयः एवमेतत् सर्वमविभागेन गर्ते यस्याः तत इत्यादि ततोष्टविग्रहं देवमिति क्ष्माद्युपलक्षित प्रागुक्तक्रमेण कुंभाष्टकन्यस्तलोकपालक्रियाशक्त्यधिष्टायकत्वेन शिलाष्टकं विन्यसेत् | तत्संस्कारेत्यादि | शिलाष्टकसंस्कार निष्पत्तये बाह्यावृतावित्यधिवास- मंडपे वेदिस्थंडिले | उदेशादनंतरं अनुष्ठानक्रमापादनायाह | वेदीत्यादि | ब्रह्मशिलामध्य इति | ब्रह्मशिलामध्ये प्रथमं या सामन्यासां | एतदेवा स्फुटी करोति | न्यसेत् प्राक्तस्तदुत्तरा इति | ता उत्तरमनंतरं पूर्वादि क्रमेण यस्याः तां ता इत्यादि | शक्रस्थानमिति | यत्रेंद्रोत्सवकृतस्तदस्ताद्यामृत् वल्मीकः पूर्वोक्तो मृद्राशिः गोभृदिति धेनुभर्ता ऋषभः विषाणशब्देन शृंगदंष्ट्रकशायां बुहरीतक्यादि विमिश्रं जलं सामात्यः प्रणवादिः मध्य इत्यादि | मध्यशिलायां त्रिखंडोध्वास्वमिति प्रागुक्त बुद्धितत्वाधिष्टातृ ब्रह्मणो यः आत्मीयो ध्वास त्रिप्रकारस्तमात्मतत्त्वादि भेदेनोपकल्पयेदिति | वक्ष्यमाणेन संबंधः | अत्रैव हेतुमाह | चिदचिच्चेति चिद्वर्गो मंत्रमंत्रेस्वरादिः अविद्वर्गो मलमायादिरेतत् सर्वमेव यतस्त्रितत्त्वात्मकम् अत्रैवाध्वप्रदर्शनायाह | तत्रेत्यादि | तन्मांत्रांतं यावद्दशतत्त्वान्यात्मतत्त्वन्यासः तत उर्द्ध्वं मनस्तत्त्वं प्. ३३अ) यावत् कर्मेंद्रिय बुद्धेंद्रियाख्य तत्त्वदर्शकेन सहैकादशतत्त्वानि विद्यातत्त्वन्यासः तृतीये पुनः शिवतत्त्वे गवौहंकारो बुद्धिश्च ते तदीशाश्च ब्रह्मादयस्तांश्चोप कल्पयेत् | भावाधर्मादयोष्टौ प्रत्ययाविपर्यययाद्याश्च पंचाशत् यदुक्तं | सांख्यै एष प्रत्यप्रसर्गो विपर्ययया शक्तितुष्टिसिद्ध्याख्याः गुणवैशस्य विमर्देन | तस्य भेदास्तु पंचाशत् पंचविपर्ययय भेदाभवंत्यशक्तिश्च कर्ण वैकल्पात् | अष्टाविंशति भेदा तुष्टिर्नवधाष्टधा सिद्धिरिति | शुभान्यपि विन्यस्य ब्रह्मविरित्वति पूर्वोक्तानुवादः तत इत्यादि तद्व्यापारमित्यात्प्रतत्त्वादि व्यापकं अनमयमित्यनपायि सुस्थिरमेव अंगुष्ठगभांतुरोधमुद्रा श्रीमद्रौरवादाबुक्तलक्षणा क्ष्मा वह्नीत्यादि | दित्यग्न्यात्मस्विति | क्ष्मा वह्नि यजमाना च स्थानेषु क शब्देन वरुणः धात्वित्यादि | धा भवो हरितालाद्याः एते च वक्ष्यमाणाभिधानाः एतद्गर्भा यथा विभवं सुवणादिकान् कलशान्न्यसेत् | तेष्वित्यादि | तेषु चानंतं मध्यकलशे सुरेश इंद्रलोकेशः पूर्वेः एवं क्रमेण स्व स्वपदे मंत्रयोगक्रमात् संपूज्याः धारणाश्रित इति | तदाकार चिंतननिबंधमानांस्तान् | लोकेशान्निरुंढ्यते सन्निधापयेत् मध्य इत्यादि | गुरुर्मध्यकुंडे अग्निं प्रज्वाल्यनवांशकल्पनया पूर्वादि दिगंशांस्तथैव दिगनस्थित मूर्तिपकुंडेषु हवनाय निक्षिपेदित्यर्थः | क्रियाछिद्रमित्यनुष्टानेन यत्र क्वचिदज्ञानात्मकमशुद्धिकृतमसामग्री जनितेवछिद्रमुत्पन्नं तन्निवार्ययेति तत्पूरणाय होमं कृतेत्यर्थः | उपस्थितांशक इति | प्रथमप्राप्ते तावदात्मतत्त्वभागे शतं सहस्रमर्धं वा इत्यादि | अयमर्थः | मूलमंत्रेण यथाशक्ति होमं कृत्त्वा तेनैव मंत्रेण शांतिघटं संपाताभिहुतं च हुत्वा प्. ३३ब्) दंत मूलेन शिलामूलं स्पृष्ट्वा शांतिघटेन ब्रह्मणोभिषेकोदेयः तदनुमूर्तीपसहितः शिवमूर्तीश मंत्राणामिति शिवस्य या मूर्तयः क्ष्मा वह्न्याद्याः तदीशाः शर्वादयः तन्मंत्रां च लं रं शं षं वं यं संहमिति | तेषां होमसममेव जपं कुर्ययात् | यत आह | यथा होमस्तपा जप इति | गंधादि दत्वा सान्निध्य मुद्रयेति | मुद्राचात्रा वाहनी पूर्वानिरोधमुद्रा तल्लक्षणं च रुरुसंहितादावुक्तं | उत्तानौ तु करौ कृत्वा हृद्देशे सुसमाहितः | अंगुष्टं च निपीड्येत मध्यतो विनतांगुलिः || आवाहने प्रयोक्तव्या देवदेवस्य चार्चने | निपीडये तथांगुष्टौ हस्तयोरुभयोरपि || स्तनौ चाभिमुखौ कुर्यानिष्टुरायास्तु दर्शना | इति | तस्मिन् कृते सति च शब्दान्निरोधेपि कृते सति अधरमिति | अधोभागमुत्तरेसं दध्यात् | संयोजयेत् | तमपि तद्वत् तृतीया इत्ययमत्रानुष्ठान क्रमः | यदाह | एवं त्रिष्वपि संपाद्यविधिं भागेष्विति भावशुद्धे स्थिरे लग्न इति भावाः प्रागुक्तास्तच्छुद्धियुक्ते स्थिरे लग्ने च चरस्थिर क्षिप्राणामपि तथैव प्रागुक्तानां मध्यात् स्थिरे तस्यैव प्रकरणानुगुणत्वं राजयोगे येवेति | तथा विधलग्नालाभे राजयोगे सति वा | अथ विन्यसेत् | इति पक्षांतराश्रयणं राजयोगाश्च ज्योतिः शास्त्रविद्भिरुपदिष्टाः | तद्यथा वराहमिहिरः वर्गोत्तमयुते लग्ने चंद्रे वा चंद्र वर्जिते | चतुराद्यैर्ग्रहैर्दृष्टे नृपाद्वा विंशतिः स्मृताः || अन्ये यवन जीव शर्माद्यैः बहव उक्तास्ते बहुत्वादेव न लिखिताः | शक्तेरुपरीति | शक्तेरुपर्ययनंत संज्ञं कलशं तन्मंत्र संयुतमिति | तस्यानंतस्य यो मंत्रं प्रणवादिस्तेन संयुतम् | कृतेत्यर्थः | शिवमंत्रं समुच्चार्ययेत्यादि | कारणत्याग क्रमेण परांतं यावन्मंत्रमुच्चारयेत् | तत्र चाविभागं प्. ३४अ) नीत्वा पुनरपि इच्छया ज्ञानशक्त्यावलोक्यान्यया शक्तयानादं विक्षोभ्य बुद्ध्यायवनि पर्ययंतं शुद्धाध्वानमवलोकयेद्यतस्तमेव मंत्रं विशेषयति | बुध्यंत पदगर्भितमिति | इत्थं बुद्धितत्त्वाध्वांतर्वर्तित्वेन मंत्र उच्चारितो भवति | तेन ओं लं ब्रह्मशिलायै स्वाहा नम इति प्रयोग पूर्वं शिला एव स्थापयेत् | क स्थाने ब्रह्मस्थाने यदुक्तं प्राक् शिला ब्रह्मशिला मध्य इति ऐश्वरीं शक्तिमिति | पूर्वोक्तानुवादः ततः पूर्वादि क्रमेण सुरेशाः आदौ एषां लोकेशानां तथा तेषां संबंधिनः कलशान् भक्तिपूर्वकं रचनापूर्वक सन्निधानायेति | सम्यग् विन्यस्य ताः शिलाः क्रमशो न्यसेदिति | अथैवानुभाषणं || संधायोर्ध्वं च वर्णेति चूलकप्रांतमध्वानं पुष्पैः संधाय ज्ञान दृष्टया व्योम्नि दशमं लोकेशं ब्रह्मणं संपूज्य क्ष्यमयेदित्यर्थः | तदनु च बलिं दत्त्वा वाचिककायिकमानसदोषशमनायातंडितो नालसितोस्त्र जपं कुर्ययात् | वाचिकादि दोषैः प्रत्यवायो यतः श्रूयते स्मृतिरपि | शारीरकैः कर्मदोषैर्याति स्थावरतां नरः वाचिकैः पक्षिमृगतां मानसैरंत्यजातितामिति | तत इत्यादि यतेदिति प्रयत्नमा तिष्ठेत् | अर्थव्यपेक्षयेति | धनादि शक्त्यनुस्वारेण प्रासादमानेन लिंग कदाचिधस्तमानेन यत् स्थितं | तत्र हस्तमानेन प्रासादानाह चतुर्हस्तादीत्यादि एकहस्ते लिंगं चतुर्हस्तो दशहस्तो वा प्रासादः अष्टानां वेद वृद्ध्या षट्त्रिंशद्धस्तांतिकादूर्ध्वं न कारयेदित्यर्थः | अथैतेषामेव गर्भभित्त्वादि विभागः प्रासादमानेन लिंगमानेन दर्शनं च वसुभक्त इत्यादि | कर्तुमभिप्रेते प्रासादक्षेत्रे समंततो वसुभक्त इत्यष्टविभक्ते सति ब्रह्मणः पदैरित्यादि | मध्योपलक्षण मध्यस्थाने चतुभिः पदैः पीठमिति | पीठस्थानं आपवस्तादिभिः ३४ब्) सूर्ययैरिति प्रागुक्त सुरगृहवास्तु निदर्शनैवाह | तत्र चतुष्पदं ब्रह्मा आपवत्सश्च ब्रह्मात्मक कोष्ठक चतुष्कस्य ईशानकोणे तदादिभीर्द्वादशसंख्याकैः गमः पीठपरिभ्रमोगर्भ एव | शेषैस्तु भित्तया इति | पंक्ति द्वयावस्थितकेष्टकैर्भित्तयः कार्यया इत्यर्थः | भित्तिशब्देन प्रासादविष्कंभमानतश्चाष्टभिरिति यावत् | तेषामेवोपयुक्त शिष्टत्वात् | भित्तितुल्ये भित्तिप्रमाणसमाछ्रायेण जंघाभित्युछ्राय एव एवमपि भवन चतुरश्रोत्पन्ना भवति | शिखरं द्विगुणत इति | जंघाया द्विगुणप्रामाणेन तदुपरि वक्ष्यमाण रचनाकारम || अथ शुकनासालक्षणम् || गर्भपृथ्वीशुकाघ्रेति गर्भप्रमाणेनैव पृथुला पार्श्वतः शिखरार्धांता चोछ्रायात् त्र्यंशेन निर्गतेति | प्र्ठुत्त्वात्त्रिभागेन निर्गता बहिः कार्ययाः | अथ प्रसंगाल्लिंगमाने प्रासादमानदर्शनं लिंगवदित्यादि | लिंगायाम प्रमाणेन पीठस्थानमवस्थाप्यतदर्धेन परिभ्रमे गर्भ एव | पीठवट्टारमिति | तत्प्रमाणेन पार्श्वमामानात् | उत्सेधातु द्विगुणं भित्तयः परा इति | पीठवदेव तत्समा इत्यर्थः | जंघादि पूर्वोक्तप्रासादवच्च वसुभक्ते भवेत् पीठमित्येतदेवविकल्पमानेनाह | षोडशांशेत्यादि | समंततश्चतुर्भिश्चतुर्भिर्वा विभक्ते क्ष्त्रे सति षोडशांश व्यक्तो सत्यां चतुर्भिर्मध्यकोष्ठकैर्गर्भ कुर्यादित्यर्थः | अतो गर्भादर्धेन समंपीठं च लिंगपीठं च ते लिंगद्वारे ते पीठसमे शुकाघ्रा पुनर्गर्भसमा बहिस्तस्या विनिर्गमः पीठकोणाद्गर्भकोणसमसूत्रेण | अथवा गर्भार्धेन मंडप रहिते | समंडपे तु चतुर्भागेन पंचमांशेन वा यदाह | वेदशरांशेन समंडप इति | अथ सांधारप्रसादानाह || बहिरित्यादि | वक्ष्यमाणवचन प्रामान्यात् प्रथमं समंततोष्टभाजिते क्षेत्रे सति भागेन बाह्यभित्तिः | सुशिरसंधारिकाभागेनैव अंतरभित्तिरपि प्. ३५अ) पदिकैव क्रोडं मध्यं चतुष्कोष्ठं भवेदित्यर्थः | सिद्धमेव || शुकाघ्रागर्भवत् प्रोक्तैव बहिरंतः पदोद्गतेति | गर्भभित्य विद्युक्ता पद प्रमाणेन निर्गता || एकैव सांधारस्यै भेदांतरम् | वसुभक्ते एवेत्यादि | पीठादि बाह्यभित्त्यंते षट्प्रमाणेनैव सर्वं शुकनासे द्वेतेनैवमानेन वहिर्निर्गता | बाह्यगर्भसमपृथुत्त्वद्बाह्य शुकनासा अंतरगर्भ समा अंतरनासा च | सशोभमंतरं मध्यं ययोस्ते | तथान्यदपि भेदांतरमेव मे भवेदिति | अत्र त्वेवमेवेति | पदिकप्रमाणपरामर्शनाय | अद्रिभाजित इति | समं ततः सप्तभागभाजितं क्षेत्रं कृत्वा पादेन पीठं भावयेदिति | क्रोडशब्देन मध्यं पीठपरिवेशः सोपि तन्मानेन भित्तयश्च या बहिः सापि च शब्दात् पादेनैव गर्भभित्तिस्तदर्धेनेति | पदार्धेन यत् स्थितं सुशिरं तदपि च शब्दादर्धेति पदार्धेनैव | एव सप्तानावेव पदानामुपयोगोनाधिकारान् | श्रीमत्पिंगलामतेप्यस्यैव प्रासादस्य विभागदर्शनार्थमुंगं लिंगं पीठसमं कृत्वा पीठमानात् परिभ्रमः पीठवच्च भवेद्भित्तिर्भित्तितुल्यांधकारिका पीठवद्बाह्यभित्तिः स्यादिति | यस्त्वेवमेवेति | पदं वसुभाजित इत्येतत् परामर्शकत्त्वेन व्याचष्टे | तस्य यथोद्दिष्ट प्रतिभागात् सप्तानामेव भागानामुपयुक्तत्वादष्टमभागस्य विनियोगा संभवादवशिष्टत्वेनातिव्याप्तिः | अन्यच्च लक्षणांतरव्यवहितस्यैवमेवेति परामर्शानुपपत्तिः | अथैतदभ्युगम्यते चेत्प्रतिष्ठा शास्त्रांतरेण श्रीमत्पिंगलामतेन सह विसंवादः तदलमुक्तमेवात्र साधुः सांधारप्रासादप्रकरणे कारणमाह | लिंगे चित्यादि | मणिहेमादि निर्मित्तेषु लिंगेषु बहुमूल्यत्वे चौरादेरपहरणाशंकयागुप्तिप्रधान्यं समीक्षणीयं तस्माद्धेत्तोर्वामविभागादिति | प्रासादांतर्भित्त्यंतरविरचनयायो धाम विभागस्तस्मादपि द्विः परिभ्रमो येषां ते तथोदिता | हेमादीन्यत्रादि ग्रहणाद्रत्नरजतनिर्मितेष्वपीति | लिंगशब्देन प्. ३५ब्) यद्यर्चा संगृहीता त्रिविधं लिंगमुद्दिष्टं व्यक्ताव्यक्तोपयाकृतीत्यनेन प्रागुक्तेन वचनात् तस्यप्यर्चासु चेति पुनरुक्तिः ब्रह्मविष्ण्विविंद्रादि प्रतिमा विषया तत्संहितासु लिंगशब्दस्याप्रसिद्धिर्यतो न दोषः अन्यदपि सांधारप्रासादलक्षणांत्तरं दशादि पंचवृद्धेस्वित्यादि | दशहस्तात् पंचपंचवृद्ध्या पंचाशद्धस्तांता येनवप्रासादास्तेश्चित्थं वक्ष्यमाणो विभागः | तेषां प्रत्येकं स्वसंख्यया यो यस्य हस्तराशिः सकराहत इति | द्विगुणः कार्ययः करशब्दः संज्ञातो द्विःसंज्ञा प्रतिपत्तेः तेन दशहस्तो विंशत्याभागैः पंचदशहस्तस्त्रिंशता एवमपि पंचाशद्धस्तः शतेन भाज्यो येन प्रतिहस्तं भागव्यक्तिरुत्पद्यतेः | ततः किमित्युचते | लिंगवत्पीठमिति | पीठस्थानत्वात्पीठशब्देन त देवोपचर्ययते | स्थानमेव पीठं तत्र तावद्दशहस्त एव प्रासाद उदह्रियते | तस्य हास्तिक लिंगमानेन पीठं भागद्वयेन मध्ये विंशतेः पीठार्थं मध्ये द्वयमवस्थाप्य पार्श्वावस्थितभागेन नवकस्य विनियोगायाह | अर्द्धेन सैकेनेति | अदूरविप्रकृष्टत्वात् पीठस्यैवार्धेन सह एकेन यदर्धं वर्तते | तेन भागद्वयेनेति यावत् | इत्थं ब्राह्मभित्ति परिवर्जं पीठपरिवेश गर्भातुरभित्ति बाह्यगर्भाख्यमुत्तरम् | एवमेकस्मात् तावत् पार्श्वादुपयुक्तः द्वाधिकेन बहित्तिरिति | तेनैव पीठार्धेन द्वयाधिकेन बाह्यभित्तिः उपयुक्त शिष्टानांत्रयाणामेवं विनियोगः एवमेव पंचदशहस्तस्य भागत्रिंशतो मध्ये द्विहास्तिक लिंगस्य पीठार्थं चतुवस्थाप्यः ततदर्धेनेति | भागद्वयेनेत्यक्तं भवति | सेकेनेति | यावत् त्त्रयेणांतरं त्रयमेवमेक पार्श्वात् पीठार्धेन सममेकोन चत्वारिंशत् संख्याता भागाःनुपयुक्ताः द्व्यधिकेनार्धेन बाह्यभित्तिरथादुपयुक्तशिष्टैः एकादशभिरेवं बाह्यभित्तिः पंचाशत् एवमेवानुदाहृतानामवसेयम् | शुकाघ्रादि यथा पुरेति | आदि ग्रहणाज्जंघोच्छ्राय शिखरोन्नतिरेतत्सर्वं प्रागुक्तवदित्यर्थः | अथ सांधारप्रसादानां प्. ३६अ) मंडपप्रमाणमाह | गर्भांतमित्यादि | गर्भाभ्यंतर प्रमाणेन सूत्रं परिगृह्य ततोर्धमर्धं प्रासादपार्श्वयोः कोणप्रदेशे दत्त्वा तेन मानेनैको मंडपः गर्भभित्त्यंतमिति | गर्भस्य या भित्तिस्तत्पर्ययंतमानेन तथैवोभयोरपि पार्श्वयोः सूत्रार्ध द्वयदानाद् द्वितीयः सुशिरसांधकारिका प्रागुक्ता तत्पर्ययंत मानेन तृतीयः बाह्यभित्तिपर्ययंतमानेन चतुर्थ इत्यर्थः | एष चैवं रूपो यो मंडपविभागयुक्तः सयवीय सोम्यत्रेति | कन्यसप्रसादादन्यत्र ज्येष्ठप्रासादेष्वन्यथा स्थितः यवीय स इत्येव दानमुपलक्षणार्थम् | वक्ष्यमाणवचनप्रामाण्याद्येकन्यसप्रसादात् तेषां ज्येष्ठप्रासादेषु कथमित्युच्यते | दैर्घ्यविंत्र्यंशविस्तृतिरिति | अयमर्थः | कन्यसप्रासादोक्त मंदपमानादैर्घ्यविषये त्रिभागवर्जं पार्श्वद्वयमानेन ज्येष्ठप्रासादानां मंडपेषु विस्तृतिं विस्तरोहित इति | प्रासादेत्यादि | यदेतत् मंडपमानं तत्प्रासादसमसंस्थानं यथा प्रासादावृत्त चतुरश्रादिना संस्थानेन तथैमंडपा अपीत्यर्थः इतीत्यादि | सामासिकमिति संज्ञिप्तं | सामान्यं च सर्वसमानं तलछंदकवर्तनायाह | यवीयसामित्यादि | कन्यसप्रासादानामष्टभागं क्षेत्राबाह्येतलछंदकवर्त्तनार्थं कृत्त्वा यथा रुचितरूपं विवर्तयेत् | विकारभागमिति | मध्यमप्रासादेभ्यः द्वादशभागः अन्येषां ज्येष्ठानां शोडशभागमित्यर्थः | संज्ञाभेद निबंधनमिति | नामभेदोपलक्षकम् | अथ प्रासादसंज्ञाः मेरुरित्यादि | समुद्रमंथानोमंदरः गृहेश्वरो गृहराजः षोडशैवेत्त्यवधारणम् प्रधानभूतानामेव षोडशसंख्यानि यमनाय यतो वक्ष्यमाणप्रासादभेदांत्तरैः | समं बहवो भविष्यंतीत्य दोषः सर्वतो भद्रक इत्यादि | सर्वतो भद्रः प्रासादः पंचप्रकारोपि भद्रसाधनः क्षेमहेतुरित्यर्थः | वृत्त इत्यादि | वृतश्चतुष्प्रकारोरोपि शत्रुसंवर्तनायेति | शत्रुनिर्नाशनायः संपूर्णेत्याति | श्रीवत्सश्चतुष्प्रकारोपि श्रीविवृद्ध्यर्थम् | प्. ३६ब्) गृहराद्रित्यादि | गृहराजार्ध गृहराजकुठिरास्त्रयोपि गृहश्रियः प्रसूत्यर्थं दारमयाः कार्ययाः तलछंदकवर्तनायाह | मेरुरित्यादि | मेरुप्रासादस्य क्षेत्रात् षोडशभागोयस्तिसृष्वपि दिक्षु बहिर्दत्तस्तं द्वादशाधिक शतभागोपलक्षितं कृत्वा बहिर्निर्गत तलछंदाकार दर्शनान्यथानुपपत्त्या पार्श्वविषये सूत्रपंचके च दत्ते सति कर्णगत्यागुणच्युतेरिति | कोणचतुष्कसूत्रदानां दिशा प्रतिकोणं बाह्यात् प्रवेश दर्शनेन कोष्ठक त्रय विलोपनान्नवभिः | कोष्ठकैरुभय पार्श्वावलंबीकोणबंधः अत एव कोणकोष्ठकेन मममुभय दिशा पंचभिर्भवत्येव ततोनवभिस्तथार्थैः | पंचभिर्धना अग्रस्त्रयः तत्संख्यातैश्च कोष्ठकैर्गतिर्गमनं पुनर्नवभिः सप्तभिस्त्रिभिवेशः प्रवेशः प्रवेशरूपेणकार्ययः | मध्ये द्वारप्रवेशे द्वादशभिस्तथा दिक् संख्यैर्दशभिः तथा रसाः षट्तैश्च प्रवेशः विचित्रकुहरोदर इति | विविधोत्कीर्णीकरणादिव्यापारेणखदा उदरे मध्ये यस्य भूतवेदेत्यादि | भूतसंख्याभिः पंचभिर्भूमिकाभिरेक आघाटो द्वितीयो वेदसंख्याभिस्तृतीयश्च गुणसंख्याभिस्तृसृभिश्चतुर्थ पंचमौ च द्विद्विभूमिकाविति | एवं जंघायाः पृष्ठात् प्रभृति शिखरांतं यावत् पंच आघाटा इति | शिखरावयवविशेषा यस्य भूमिकाश्चोपर्ययुपरिशिखरविभागरूपाः | विश्वार्केशेति | विश्वानि त्रयोदश तद्युतिर्द्विगुणत्वं षड्विंशतिसंख्या तथार्कयुतिश्चतुर्विंशतिसंख्या एवमीशयुतिर्द्वादशविंशतिसंख्या | एवमपि दिग्युतिर्विंशतिसंख्या | अंभोधि युतिश्चाष्टसंख्याः | एताभ्यः | षड्विंशशतिसंख्यया प्रथमे आघाटे शृंगोपलक्षितानि सूक्ष्मदेवगृहाणि यस्य | तथा चतुर्विंशति संख्यया द्वितीये यावदष्टसंख्यया पंचमे | यत आह | शृंगशतच्छदः शतशब्दः काकाक्षि प्. ३७अ) न्यायेनोभयत्रापि योज्यः शृंगशब्देनामलसारकान्युच्यंते | शिल्पिवाचो युक्त्या एतान्येव स्विक् खरकाणि संपूर्णमेरुरिति | यथा प्रतिपादितः पादमेरुर्दैर्घ्याद्धस्ताः पंचविंशतिः पार्श्वयोरुभयोः प्रत्येकं सार्धा द्वादशखंडमेरुश्च दैर्घ्याद्धस्ताः पंचाशत् पार्श्वयोः पंचविंशतिः अत एवाह | खंडमेरुरथायतः इति | एष च मेरुप्रासादोनेक प्राकारोपि | अर्चास्वेव व्यक्तदेहासु शस्य तेनाव्यक्तमुखलिंगेष्वित्यर्थः | सिद्ध्यर्थिनामपि तद्विषयमेव हितः | अथ मंदरवर्त्तना क्षेत्र इयादि | प्राग्वदधिक दत्तभागं चतुरशीत्यंशभाजितं दैर्घ्यात् कृत्वा पार्श्वप्रदेशे च तत्र सूत्रचतुष्टये दत्ते सति मध्ये द्वारप्रदेशे षद्वसुनिर्गम इति | बाह्यात् प्रथमं षड्भिस्ततोष्ठभिर्निर्गमो निर्गमरूपकेनतलछंदकमित्यर्थः | ततो बाह्यादेव षड्भिः कोष्ठकैस्तथा वेदैश्चतुर्भिर्लोपितैः प्रवेशः कार्ययः निर्गमश्चेति च शब्दाद्यावत् परिमाणकैः वेशस्तावद्भिरेव पुनर्निर्गमप्रवेशादित्यर्थः | यावत् कोणपदं प्राप्तमिति कोणे यत्पदं दद्यावत् प्राप्तं सस्यादग्निजलाश्रयैरिति | अग्नयश्च त्रयोजलाश्रयाश्च चत्वरस्तैः स भवेत् | एतेन पदशब्दस्योभयलिंगता प्रतिपादिता भवति | इत्त्थमर्थात् कोणकोष्ठकेन सममुभयदिशा प्रथमं पंचतदधस्तथैवान्ये पंचैव कोष्ठकाः कोपाबंधा इत्यर्थः | इह निर्गमनदिशा मेरु प्रासादस्य प्रवेशेनेत्यर्थः | चतुराशागमघ्राण इति मेरुवदस्यापि चतसृषु दिक्षुगमाः द्वाराणि घ्राणाश्च शुकनासाश्चतुराघाट निवृता इति | चतुर्षु आघाटेश्च निवृत्तानि निष्पादितानि देशो न शतसंख्यया प्राग्वदेव शिखरोपलक्षितानि सूक्ष्मदेवगृहाणि यस्य तानि देह विनियोग क्रमस्याश्रुतत्वात् | श्रीमत्पिंगलामतोक्तविभागेन यदुक्तं तत्र | त्रयोविंशैकविंशाश्च ऊनविंशद्वयं विनाशुकघ्ना प्. ३७ब्) शिखरैर्हीनान्यशितिः करिकल्पिता इति | सुरेशभूमिंरिति चतुर्दशभूमिकः पादाख्या इति मेरुप्रासाद इवात्रानुमेयं असावपि मंदरः अचोस्विति | पूर्वोक्तव्यक्तार्चा स्वेवहितः | अथ कैलासः | षट्त्रिंशदित्यादि प्राग्वदेवाधिक दत्तक्षेत्रे षट्त्रिंषड्भागैर्भाजिते पार्श्वतश्च सूत्रपंचके दत्ते सति मध्यप्रदेशे अष्टभि कोष्ठैर्विनिर्गमः पार्श्वयोस्त्रिचतुरिति तस्याष्टकोपलक्षितस्य यौ पार्श्वौ तयोर्विषये त्रिभिश्चतुर्भिस्त्रिभिश्च युगैरिति | चतुर्भिः संवेशश्च निर्गमश्च पुनरपि संवेशश्च निर्गमो यथा संख्यंते कार्यया इति कार्यया इति शेषः प्रतिप्रवेश इति संवेशस्य मध्ये यदंशं त्रयं तस्य संत्यागादिति लोपनेन तथा तस्यैधस्तिर्ययगिति | पार्श्वरेखालेपनक्रमेणय अशंकत्रयस्य संत्यागस्तस्मात् प्रतिप्रवेश इति | यथा खड्गमुष्टिरूपाकारव्यक्तिः इत्थं सिद्धं निष्पन्नं सस्थानमाकारो यस्य स कैलासः शंकरप्रिया इति | शिवविषय एवास्य विनियोगो नान्यत्र अशीति शृंगोर्ध्वभूमिका इति | प्रागुक्तरूपाणां शृंगाणामशीतिर्द्वाशसुभूमिकासु यथायथं यस्य तथा आघाटाश्चत्वारः | अथ भद्रः | चतुरश्रीत्यादि | चतसृष्वपि दिक्षुपरिपाट्यागतभागाधिकदानाच्चतुरश्रतांनीत इत्ययं विधिः सर्वसामान्यो यत्र यत्र नोक्तस्तत्रानुमेयः चतुसप्तकभागिक इत्यष्टाविंशतिभागांकिते पार्श्वविषये च सूत्रपंचके दत्ते कर्णगत्येति मेरुवर्तनायामिव कर्णगत्यैव त्रयं त्रयं त्यक्त्वा प्रतिकोणं त्रिभिः कोणचतुष्टयमिति | कोणकोष्टकेन समंपंचभिरुभ्यपार्श्वावष्टभीकोणबंधः | इत्थं चतुष्टयं निष्पादयेदिति | शेषः तदनंतरमेकैककोष्ठक निर्गमनतः प्रथमो भद्रक इति | निष्कामो द्वाभ्यां प्. ३८अ) द्वितीयस्त्रिभिस्तृतीयस्तूभयदिक् संस्थेन रमाः षड्भिरिति यावत् | सांधार इति | सर्वदा ततः संधारः कर्तव्यः चतुर्ग्राम इत्येतेन चतुर्द्वारत्वमप्यर्था क्षिप्तं | अथ भद्रस्यैव भेदांतरम् | शिखरै रेषभूयोभिरिति | एष एव भद्रो बहुभिः शिखरैः प्रागुक्तस्वरूपैर्युक्तो यदा च्छ्रियते | तदा सर्वतोभद्र उच्यते | पुनरप्यन्यद्भद्रांतरं | यवीया नित्यादि क्षेत्रस्य विस्तारे सर्वस्मिन् क्षेत्रमाने सप्तभाजिते सति | पार्श्वयोरिति वचनं कोणचतुष्टयो पलक्षणार्थं तेन प्रतिकोणं लोचनत्यागादिति द्वयं लोपनात्र्यंशकात्मको मध्येरथकाभिधानो निष्कामः प्रतिदिशं यस्य एवं काणकोष्टकेन सममुभय भद्रपार्श्वाभ्यामन्यद्द्वयं प्रतिकोणं त्रययस्य लोपनमवधार्ययम् | यवीयान् | भद्र एवेत्यवधारणं | यवीयः | शब्दोपपदात् | अन्यप्रासादशंकानिरासार्थमाह | एतल्लक्ष्यमानेन प्रासादांतरमाह | हित इति | अयमेव बाह्यप्रदेशेनालयुगिति स्तंभयुक्तोनलिननामा भवति | पुनरस्यैव विशेषः श्रीवत्स इत्यादि वा शब्दात् कदाचिदयमेव वक्ष्यमाण श्रीवत्सशिखरान्वितो भवति | तदानंदनाभिधानो नंदनश्च परममत्त्यर्थं कर्तुस्तुष्टिकर इत्यर्थः | अथ गजप्रसादलक्षणम् || विपंचेत्यादि | क्षेत्रात्कर्णार्धपंचभागपरिहारेण पृष्ठभागे पाश्चात्ये अर्ध एव परिभ्रमणे भवंतितो वर्तनया निष्पादित इत्यर्थः | पुनः प्राग्वदिति | चतुरश्रत्वेनैव प्रोतुंग्रघ्न इति | प्रकर्षेणोन्नता शुकनासा प्रागुक्तमानादपि गजस्येत्यर्थः | विमानाख्यमाह | चतुरश्र इत्यादि | प्राग्वधिकदत्तक्षेत्रमानेन चतुरश्रे क्षेत्रे स्थिते सत्यनंतरमेकविंशत्याभागैर्विभाजिते पार्श्वदिशि च सूत्रत्रये दत्ते मध्ये निर्गमः पंचांशः तत्पार्श्वयोरुभयोस्तु प्. ३८ब्) चतुर्भिर्वेशः प्रवेशः ततोंशप्रमाणेन स्तंभः अंशं च परिहृत्यं कोणंशेन सममुभयदिशाद्वाभ्यांद्वाभ्यां कोणो विमानप्रासादस्येत्थं त्रयेण पार्श्वद्वयमध्य विनिर्गमाद्धेतोर्भवति | अथ विमानभेदः | तथेत्यादि | अयं विमानस्तथा विभक्तः कोणप्रदेशेष्वंशत्रयविलोपनात् पूतिकोणमुभयपार्श्वाभ्यां महपंचविलोपनात् पूर्वोक्तेभ्यः प्रवेशनिर्गमेभ्यः अन्यथा प्रकारांतरेण प्रवेशनिर्गमकारणां तथा स्तंभपरिवर्जना च सिद्ध्यर्थिनां सहार्थत्वेन म महाविमानोयं पंडितैरुक्तः | त्रिमध्यक इति | त्रयो मध्यकानिष्का सदृशे दृशेत्यर्थः | केसरीप्रासाद उच्यते | चतुरश्रेत्यादि | केवलमस्य चतुरश्रक्षेत्रस्य चतुदिक्षु शुकनासावर्तनं कर्तव्यं द्विपमस्तक निर्भेद इति | हस्तिकुंभसंलग्नाये सिंहास्ते शुकाघ्नस्य भूषणत्वेन चास्य कर्तव्याः दैत्यकुलनाशाप्रवृद्धं यशो यस्य हरेस्तस्यायं प्रियोऽत एव सर्वदा भगवतो विष्णोः कर्तव्यः | हंसप्रासादमाह | चतुरश्रेत्यादि | चतुरश्रक्षेत्रे चतुर्भाजिते षोडशकोष्ठकोपलक्षणेन पार्श्व विषये च सूर्ययोजित इति द्वादशद्वादशकोष्ठक योजिते चतुष्कचतुष्कत्रयसंयोजनान्यायेनैव मायात चतुरश्र क्षेत्रं व्यज्यते | स्वयंभुवः स्थानमिति | ब्रह्मणः प्रासादः वृत्तश्च परिवर्तुलः क्रोडो यस्य तथा पद्मचिह्नितपीठः तत्र श्रीवत्सयोः संबंधिभिः शिखरैर्युक्तः पक्षयोः पार्श्वयोर्यौ भागराशी तयोर्यौग भावभ्यंतरे तत्र हरनारायणौ च यस्य | अथ श्रीवत्सः | दिगंशेत्यादि | प्राग्वधिक दत्तक्षेत्रमात्रं दशध कृत्वा पार्श्वयोश्च सूत्रत्रय च दत्वा कोणप्रदेशे भागद्वितयं परिलोप्यैव भागचतुष्टय लोपनाद्भागषट्कं यदवशिष्यते | ततस्त्रिभागात्मको प्. ३९अ) मध्ये रथकाभिधानो योनिर्गमस्तदा सक्ते सलग्ने सार्धभागपरिमाणके रथकस्य च भागमानादधः प्रदेशस्थितावुपनिर्गमे यस्य | एष एव च वर्धमानसंज्ञः | श्रीकामानाम् | अतः संपूर्णशालः तथेत्यादि | क्षेत्रविस्तारं द्वादशधा कृत्वास्य भागद्वयेनार्धभागांतरितेन रथकस्य कार्ययौ उपकपोलकौ | यदाह | भागार्धासक्त दृक् तुल्य निर्गतोपकपोलका इति | दृक् तुल्यत्वेन च भागद्वयमेव श्रीवत्सादस्यैतदेतावानेव विशेषः | अत एवोक्तं तथा कोणस्तथा मध्य इति | खंडशालाख्यमाह तरंतदित्येत्यादि | एतयोः पूर्वोक्तयोरुभयोरपि || तलछंदवर्त्तनाक्षेपे सति खंडशालो भवतीति वाक्यविशेषः अस्य तु संपूर्ण शालवछैल संस्थानात्यथानुपपत्त्या भागैरेकादभिः क्षेत्रं विभाजयेत् दशानां द्वादशानां चांतरमेकादशैव इत्थं सार्धएन भागेन तथा भागार्धासक्तावर्तभागांतरितावुपनिर्गमम् | भवेतां संपूर्णशालवछैल संस्थाने व्यक्तिश्च भवेत् | शत्रुनिर्नाशकश्चायं | अथ श्रीवत्सोपलक्षणोयंदिवर्धन संज्ञः चतुर्गम इत्यादि | वक्ष्यमाणोपपत्त्या क्षेत्रस्याधिक्ये षोडशांशे पार्श्वतः सूत्रद्वय * * *? दानाद्वर्तना चतुर्भिर्मध्ये गमोनिर्गमनं यस्य त्रिकोणंश इति व्यवहित समासेनायमर्थो यथा त्रिभिरेशैश्च कोणो यस्य विलोपितैः ततः सार्धेन भागेनोपनिर्गमोपि | यस्य तथांतर इति | यत्प्रमाण उपनिर्गमस्तत्प्रमाण एव गमोपनिर्गमयोरंतरं मध्यं यस्य सार्धाभागेनेत्यर्थः | गरुडप्रासादमाह | गर्भेत्यादि | चतुरश्र क्षेत्रस्यैव यो गर्भस्तं चतुर्भक्तं कृत्वा तेन भागमानेन पार्श्वप्रदेशे शोभनौपक्षो पश्चात्यप्रदेशौ यस्य तन्मान एव पुछो यस्य अग्रतस्तु गर्भमानेन प्. ३९ब्) वक्त्रोपलक्षिका शुकाघ्रा यस्य षडश्रक्रोड इति मध्यं गर्भांतरं षडश्रि चास्य पक्षाग्रयोश्र विनिवेशितौ वहितावहि निसूदनौ गरुडौ | एवोपलक्षकत्वेनेत्येवं रूपः | अथ वलभी वस्वंशेत्यादि | अष्टांशभाजिते क्षेत्रे सति षोडशत्यागादित्यष्टकात्मक पंक्तिद्वयलोपनं पूर्वं कृत्वानंतरमुभयपार्श्वयोस्त्रिकद्वयद्विक द्वययोजनया वर्धित आयति दीर्घत्वं यस्य ततः षोडशभ्यो द्वादशसंग्रहादवशिष्टाश्चत्वारो येतैः पुरोदानान्निष्पन्न शुकनासोवलभ्यभिधानः एष चैवमायातश्चतुरश्रो व्यक्तलिंगेष्विति | प्रतिमास्वेव हितोनाव्यक्तेष्वित्याचार्ययैरुदितो गदितः कांसादि कृत संवृतिरिति | कांसादिभिः शिखरखटनाप्राकारै वृंतासंवृतिर्वर्तना यस्य | यदुक्तं श्रीमत्पिंगलामते | भेरी संवतनैः फांसैर्नंद्या वर्तैस्तु स्वस्तिकैः कर्तव्यस्तु यथा शोभं प्रासादो वलिभिरिति | फांसाद्याश्च शिल्पिन एव जानते भित्तिमानं चास्य विकल्पेनाह | पादैकमार्ध भित्तिर्वेति सार्धेनैकेन पादेन भित्तिरस्य | तथा सपाद द्विगुणा आयतिरुन्नतिर्यस्य अंबिकादीनां प्रतिमाविशेषाणां विशेषण सन्निधान हेतुश्च चतुरश्र प्रासादमाह | चतुरश्र इत्यादि | स्वसंज्ञोक्तश्चतुरश्र एव नान्योस्ति कश्चिद्विशेषः किं तु पट्विकैर्वितस्त्य (व्यक्त्या अष्टाश्रः अयमर्थः?) वर्धितस्ति प्रमाणकैः समलंकृतः शोभार्थं वेष्टित इत्यर्थः | अष्टाष्टाश्रः कर्णेत्यदि क्षेत्रस्य यत्करणार्धं ततोष्टभागत्यागाद्दिक्षु सर्वासुमत्स्य वक्त्या अष्टाश्रः अयमर्थः कर्णात् षोडशांश परित्यागतो यन्मानं तन्मानेन प्रतिकोणं सूत्रमवस्थाप्यदिग्वये मत्स्य संपादन पूर्वं सूत्रचतुष्टयं दद्यादेवमष्टाश्रः प्रासादो भवति | अथ भूदतिद इति | अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशत्वं वशित्वं च यस्य कमावसायित्वं चेत्यष्टौ या विभूतयस्ताः प्रतिष्ठिते भवंति षोडशाश्रमाह | मध्यांत इत्यादि | अष्टाश्रादेव षोडशाश्रोत्पादन बुद्ध्याप्राह प्. ४०अ) अष्टाश्रत्वेन यत्क्षेत्र द्वयमवस्थितं तस्ययो ब्रह्मसूत्रात्मक मध्ये सूत्रचतुष्टयं तस्य प्रत्येकं सूत्रस्य पर्ययंतमान ग्रहणमेक पार्श्वेवस्थाप्य परपार्श्वतः खटिका सहितं सूत्रं कृत्वानंतरं बाह्यकोणमध्ये मत्स्य प्रभवाय लांछने द्वे कार्यये इत्थमष्टस्वपि कोणांतरेषु मत्स्याः प्रभवंत्ये च तैर्मध्यांत प्रभवैर्मत्स्यैर्द्विगुण इति षोडशाश्रः द्वाश्रिलंघनात् द्वे द्वे अश्रे विलंघ्य सूत्रास्फालनं कर्तव्यं अष्टाश्रोत्पादने एकाश्रिलंघनेन सूत्राणि दत्तानीह तु द्विगुण इत्युक्तेः | द्व्यश्रिलंघनेन देयानि | अथ भद्रस्यैव भेदांतरम् | नलिनपययोयं नलिनस्तथेति यः प्रागुक्तोद्देशसूत्रेभिहितः पद्मप्रासादस्तल्लक्षण इत्यर्थः एवमित्यादि | अष्टाश्रि संपादनाय ये भागाः प्रदर्शिताः कर्णावस्थाष्टौतैरिव त्रिगुणितैः सद्भिरेवमिति | षोडशाश्रितोत्पादनं प्रकारांतरेण यथाष्टाश्राः षोडशाश्रो मध्यांत प्रभवैर्मत्स्यैरुत्पादित एव अयमभिप्रायः तथा ह्यष्टाश्रि साधकभाग त्रिभागकरणाद्भागैकत्यागाद्यन्मानं तेन मानेन तथैव चाष्ट स्वपि स्थानेषु कोणाष्टक मत्स्य प्रभवाय लांछन द्वयं दत्वा तथैवा श्रिद्वयलंघनपूर्वम् सूत्रपातनं कृत्वा मध्यस्थित प्रधानसूत्र सूत्रांतराणि परिलुंपेत् | एवं संकोटय इति तीक्ष्णप्रांताः दलाकारा येषांत एव भूयांस इति वृत्ता एव ज?र पद्मदलानुकारेण एष गुर्वागमः वा शब्दश्चात्र भिन्नक्रमः समंभूयस्त्वे चाक्षिप्तं पद्माभत्वं यदाह | पद्माभा इति पद्मरूपाः प्रागुक्त षोडशाश्रादयमेतेषां विशेषो यत्कणादष्ट चत्वारिशद्भागकरण पूर्वं भागैकत्यागाद्व्यन्मानं तन्मानेन बाह्ये मत्स्य द्वय संपादनं | तस्य तु भागसूत्रेभ्यः पर्ययंतमानग्रहणा तन्मानेन गृहराजप्रसादमाह | त्रिभूमिक इत्यादि सगृहराजस्त्रिभूमिका युक्तो दारुमयश्च सर्वदा कार्ययः सभद्रश्चेति निष्.कासदिशा भद्राख्यानि च रूपकानि यस्य परिभ्रमश्चेतिति सृष्वपि भूमिकासु परिभ्रमाः प्रदक्षिणमार्गा यस्य प्रागुद्दिष्टस्य गृहेश्वरस्य प्. ४१ब्) भेदांतरम् विनेत्यादि | अर्धगृहसंज्ञको भद्रैर्विरहितः अग्रे च पट्वाकारशालयावीथिकयैवयुक्तः | पुनरन्यद्भेदांतरं तद्विहीन इत्यादि कुटीराख्यस्तृतीयो गृहेश्वरस्य भेदः सतद्विहीन इति | पट्वशालारहितः | एकद्विभूमिक इति विकल्पतः कदाचिदेक भूमिको द्विपुर इत्यर्थः | एते त्रयोपि प्रागुक्ताद्वचनतो दाननिर्मिताः कार्ययाः | यदुक्तं | गृहश्रियः प्रसूतिहेतवोथ वृत्तभेदाः कुंभाभकलशः कुंभ इति कुंभाख्यो यो वृत्तभेदः सकुंभाकारः कलश आमलसारकस्तस्य कार्यय इत्यर्थः | यथोक्तमार्ययकेशे उद्बद्वांघ्रिः कलशः कलसामलसारकश्च स्यादिति | उद्धद्ध जंघक इति | शिखरनिकटं यावत् तद्रूपया जंघयैव जंघयाचितः पुनरन्यो वृत्तभेदः साघ्रोग्रे इत्यादि | वृषभिधान प्रासादस्य वृत्तत्वमर्था क्षिप्तम् | वृत्तभेदसामान्याच्चतुरश्रोंत इति | श्रुतितोपि परिवर्तुल क्षेत्रांतश्चतुरश्र प्रदर्शनं वृषस्य कार्ययम् | अग्ने पुरः सशुकनासश्च एतेन वृत्तकुंभौ शुकनासाविरहिता वित्यावेदितं भवति | किं च चतुरश्र प्रासादेयन्द्व?त्पट्वकाः प्रोक्तास्तथैहापि वृत्तस्येव भेदांतरम् | ग्रावृक्ष इत्यादि | वृत्तभेद सामान्याद्वा वृक्षश्च वृत्त एवेत्यर्थः | वृष इत्यादि | प्रोक्तरूपोयो वृषप्रासादः सनस्थाद्वरावृत? इति | शिवविषय एवास्य कारणं नान्यविषयमित्यर्थः | प्रतिपादित प्रासादान् संहरति | एवमित्यादि | यथोद्दिष्टं कृत्वा मुख्यभेदप्रयोजना एते एव मित्येतावंतोष्टाविंशति संख्या?कान बहवो यतः परस्परभेद प्रभेद दिशाबहुत्वमेतेषां तस्मात् कारणान्न प्रदर्शिताः मुख्यभेद प्रयोजना इत्येतेभ्यः केचिन्मुख्यप्रजनामोख्य हेतवः केचिच्च मोख्याद् भेदेन भोगसाधकत्वेन प्रयोजनं येषांत इत्यर्थः | इदानीमेतेषामेव क्षेत्रमानान्याह | मेर्वित्यादि मेर्वादयोविमानांताः पंचप्रासादाः पंचाशतो हस्तेभ्यः प्रभृति पंचानां पंचानां प्. ४१अ) हानितस्त्रिंशद्धस्ता भवंतीति वाक्यशेषः कैलाशः करी कैलाशपरिमाणेन गज इत्यर्थः | नंदिन इत्यादि | स्पष्टं अष्टाश्र इत्यादि | सुपर्ण इति गरुडः धामराज इत्यादि | गृहराजः पंचदशश्येन परमु? सितछदेत्यादि | सितछद इति हंसः अंभोभृदिति प्राग्वृत्तत्त्वं भेदत्वेनोक्तः कुंभः द्विषट्कादित्यादि | द्विषट्कादिति | द्वादशभ्यः सिंहेत्यादि | सिंहाद्याश्च चतुरश्रांताश्चत्वारः अष्टाभ्योधिकान भवंतीति | महाभद्र इत्यादि | लिंगप्रमाणतो वापीति | पूर्वोक्तानुवादः भवंति न चतुष्करादित्यत्र ड इत्यनुयोज्यमेव | चतुर्हस्तादधः प्रासादान भवंतीत्या वैदितं भवति | मानादध इति | अध इत्युपलक्षणम् | ऊर्ध्वमपि मानादित्यस्य शब्दस्य तेनायमर्थः | पंचाशद्धस्तान्मानादूर्ध्वं चतुर्हस्ताच्चाधो यत् क्रियते तन्नराणाम लक्ष्मी हेत्वर्थं भवंत्यतो भूतानायक्षराक्षसात्मकानां संश्रय इति स्थानानि चतुर्हस्तप्रासादस्य त्यंत स्वल्पगर्भत्वात् स्नानपूजनादि देवस्य नोपद्यते इति तदर्थमाह | लघीयसीत्यादि | तत्र व्यवहारान्यथानुपपत्त्या प्रतिदिशं पीठस्यैत्तद्दोषानुपपतिः प्रणालमित्योरसंयोगश्च | अथैतदुच्यते | प्रासादभित्ति परिहार्यया प्रासादन्यूनवेति | तदस्तु यत आह न संकोचोस्त्रिपीठस्येति | पीठलिंगयोर्न कदाचित् संकोचलघुते भवत इत्यर्थः | इदानी शिखरवर्तनामाह | शिखरेति | जंघामानतोय द्विगुणं शिखरमुक्तं भित्तितुल्याभवेज्जंघाशिखरं द्विगुणं तत इत्येतेन तस्मिंश्चतुर्विभक्ते दैर्घ्यदिशैव | पार्श्वदिशिभाग करणस्य वक्ष्यमाणत्वात् | परस्येति द्विगुण शिखरस्य अन्यस्येति द्यवर्धभागप्रमाणशिखरस्य गुणैरिति त्रिभिः शिखरं विभाजयेत् | भागात्तथेति प्रथद्दिष्टस्योपरितनाच्चतुर्थमानाद्वक्ष्यमानविभागोपपत्या चतुर्भिरेव विभाजितात् इंद्वित्येको गृगिति लोचनद्वयं चंद्रश्चैक एवमेतैर्यथासंख्यं कंठामलक चूडाख्याः अवयवाः अन्यस्य पुनः सार्धभागात्मका शिखरस्य तथैवोपरिमनमेव तृतीयभागं प्. ४१ब्) चतुर्धा कृत्वा भागात् कंठो द्वाभ्यामामलकसारकं भागेन चूडाचूडा च किं भूता किं स्थानेति घटानुकारा तथैव पूर्वासंस्थाना तथाब्जेन भूषिता | पूर्णकोशो मातुलंगस्तत्संस्थाना पद्मभूषणा च अथवा पूर्णकोशं यदब्जं तदेव विभूषणमुपलक्षकत्वेन यत्र | अथैतेषां देहसंवृतिः || त्रिगुणेत्यादि | जंघोच्छ्रायेण तथा शिखरद्विगुणमानेन त्रिगुणैव चूडाशिखराकृतिर्येषां तेषां तिर्ययगितिति | श्रीनंभित्त्युच्छ्रायातदवधेरुभय पार्श्वयोश्चतुर्गुणं सूत्रं प्रसार्यय ततः स्थानात् सूत्रेण खटिकया च समं वक्ष्यमानाभिधान वेदिकाया एकपार्श्वे हस्तमवस्थाप्य जंघोर्ध्वं यावद्भ्रमानुस्मरेणोभयदिशापि पार्श्वयोर्देहमिति शिखरस्य पृष्ठं वर्तयेत् | सार्धदृक्के तथा गुणमिति | तथैव जंघया समं सार्धभागद्वय शिखरात्मनः सार्धदृग्द्वयत्वं भवत्येव | तस्मिन् सर्वदृक्के तथा गुणमिति | सर्वभागद्वयात्मकमेव सूत्रं प्रसार्यय तथैव पार्श्वद्वयाद्वेदि पर्ययांताभ्यां भ्रमानुसारेणैव देहं वर्तयेदिति | अथान्येन प्रकारेण देहं वर्त्तयेत् तदर्थमाह | संहार्ययेति | इष्टान् स्थाप्यत्वेनाद्यांश्च संहार्ययत्वेन भागान् संकलप्यति | बुद्ध्याविनिश्चित्य संहाययन्विभाजयेदिति | क्रमानुसारेण संवर्तयेत् कथमिति | तदर्थमाह | हान्यांशमिति | क्रियाविशेषणमेतत्पदं हान्यांशं कृत्त्वा विलोपनपथानुसारेणेत्यर्थः | अन्यदपि प्रकारांतरमाह | दशेत्यादि | कंठादधो वक्ष्यमाणाभिधानो वेदीबंधप्रदेशः स्कंदशब्देनोद्दिश्यते | तस्मिन् दशसुगी कृते सति यमभागिकी | फानिरिति मध्यभाग षट्क वर्जं पार्श्वद्वयाद्भागद्वयभागद्वयावधेः सूत्रं कृत्वा जंघापृष्टं यावद् भ्रासानुसारेण हानिरित्यर्थः | पुनरन्यः प्रकारः संहृत्येत्यादि | तस्मिन् स्कंधबंधे त्रिराशि विधितो भागी कृतेन वांश संख्यया द्वादशाष्टादशसंख्यया प्. ४२अ) वा भागीकृत्य मध्यत्रिभागांश समूहसंहारेणोभय पार्श्वशिष्टभागद्वयहाव्यावा वर्तयेत् | पुनरपि लक्षणांतरम् | पंचेत्यादि | प्रागुक्त दशभागकृतमेवानूद्यते | तत्र दशकरणाद्भागद्वय भागद्वय हानिरिति युक्ता इह तु पंचभागकरणाद्भाग हानिरित्ययं विशेषः संवृत्तिर्मंजरी चेह निष्पादनं शिखरशरीरे कदाचिदे तेन विधिना यथा वा तुष्टिमावहेदिति | कदाचिदेवं कदाचित् पूर्वोक्तविधिनेत्यर्थः | समेत्यादि | यद्यपि इह विषमाश्रिप्रासादानोक्तास्तथापि संहितांतर प्रोक्तानां त्र्यश्र षडश्रादीनां देव गृहाणां जंघा पर्ययतं यथोद्दिष्ट रूपविरचनं तदूर्ध्व प्रागुक्तनयेन पार्श्वद्वये सार्धभागभागद्वयमानेन सूत्रप्रसारणपूर्वं मंजरी देह संवृतिः कर्तव्या एवं रूपाश्च देशांतरेषु कुरु क्षेत्रादिषु | सुरालया दृष्टा दृश्यंते च | एतदेव स्फुटीकरणाह | गजेत्यादि | विपंचभाग करणार्ध परिभ्रमणेत्यादिना गजस्य क्षेत्र वर्तना जंघां तं च यावत् तथा रूपत्वं चोक्त्वेदानीं शिखर संवर्तनार्थं तदुछ्रये पूर्वोदितोपपत्त्या चतुर्भागवर्जं नवच्छिन्ने समंततः कृते सति कंठाधोभागावस्थापनपूर्वमुभयोः पार्श्वयोर्भागस्य परिलोपनात् | फांसैर्वर्तवा प्रकारविशेषैः शुकनासा निष्पत्तिवत्संवरणं निष्पादसमेव कार्ययमित्यर्थः | तदनुमध्यभागोपरिकंठामलकसारकचूडाः कार्ययाः प्रसंगादेव वलभ्यांशिखरऽवर्तनमाह | संहृत्येत्यादि | तद्वदेवेति गजोच्छ्राय विच्छेद संख्ययैव विभाजिते च लभ्याः संबंधिनि शिखरावर्तनास्थाने फांसैरेव संवरणं निष्पादनमन्यैर्वा बुद्धिपरिगृहीतैः प्रकारांतरैः कार्यम् | पूर्वोद्दिष्टानां कंठमलसारक चूडानां पार्श्वमानमाह | वेद्यर्धेति | वक्ष्यमाण भागसंख्या क्षिप्तभाग षट्क स्थित्या वेदिं विभज्य त्रिभिर्भागैः परिमाणेनोपरिकंथः तथांशब्दयाधिकः प्. ४२ब्) पंचभागमानकः सारक इत्यामलकसारकः गलविस्ताराच्चार्धभाग वर्जं चूलकः सार्धदृग्गुण इति | देघ्यशेष विधानायाह | पंचेत्यादि | प्रागुक्तनयेन वेद्याः षड्भक्तायाः षष्ठो भागः पंचघ्र इति पंचधा कृतः | तस्य दलमर्धे तेन मानेन वेद्याः संबंधिना षष्ठिभागेनेति यावत् तावन्मात्रकेनायामेनं दैर्घ्यविशेषेण चोपलक्षितं पुनरपि पार्श्वमान विशेषायाह | तत्र्यंशेत्यादि | तदिति वेदि षड्भागपंचाशपरामर्षाय तस्य पंचमभागस्य यस्त्र्यंशस्तन्मानेन विस्तृतिः प्रतिपादितमानेन मानांतरमधिकमित्यर्थः | किंचिदभ्यधिको पिवेति प्रागुक्त चतुर्भागमानोछ्रायात् तथा सार्धद्वयभागात्मकात् पार्श्वमानात् किंचिदिति | मनागभ्यधिको वा कार्ययो भागांतर कष्टकल्पनामंतरेणेत्युक्तं भवति | सवालिंग समः कार्ययः चतुरश्रादि भागत्रयांकित इत्यर्थः | श्रीमत्पिंगलामतेपि | चूलक चतुरष्टाश्र वृत्तैस्तं विभक्तं कारयेत् सममिति | अतः समशब्दोत्रसादृश्ये व्याख्येय इति विकल्पितस्तृतीयः प्राकारः तत्र तस्य चाकाशलिंगमित्यभिधानं काम्येत्यादि | स्तंभता पादौलोकेशानामिंद्रानीनाहेतय आयुधानि वज्रादीनि तेभ्यः कामनानुगुजं तत्र कुर्ययात् | आकाशलिंगस्याकारांतरभिधानायाह | विश्वंशेति मध्यभागे कुंभाकारोयः पद्मस्तदाकारः कार्ययः पूर्णकोशः प्रागुक्तोमातुलुंगः तत्सदृशो वेति विकल्पः गृहेत्यादि | गृहराजप्रासादेषु कुटीरेषु च तद्भेदत्वेन प्रागुक्तेषु चूलकः कलशाकारः कार्ययः तस्य कलशा कृतित्व एवोपपत्तिमाह प्रांगतेत्यादि | हि शब्दो यस्मादर्थे यत् प्राक् कोटौ प्रथम समये पादप्रतिष्ठायां कुंभरूपतया आधारशक्त्यात्मक स उक्तः | इदानीं पुनरंतकोटौ सकलप्रासाद निष्पत्तौ तन्मूर्ध्नि सकलशात्मक प्. ४३अ) एव प्रकृष्टशक्तिरूपपरानंदनिर्भराकृतिः कार्ययः उपक्रमोपसंहारलक्षणयोः पर्ययंतयोः कलाशात्मक प्रासादस्याधार पररूपे शक्ती स्थिते इत्यर्थः दारुज इत्यादि | यथा त्रिप्रकारो गृहराजो दारुमयः यदुक्तं | गृहराजोर्ध्वसंज्ञश्च कुटीरश्च गृहप्रियः प्रसूति हेतवो ज्ञेयास्त्रयोदारु विनिर्मिता इति | सललशाकारश्चूलकोपि तथा भूतोदारुज एव कार्ययः तच्च त्रयाणामपि दारुजत्वेन तथा विधचूलक प्राप्तौ संत्यायः कुटीरवर्जं द्वयोरर्थयोः कलशाकार दारुजचूलके करणं नियम्यते तत्कुटिरस्य पाषाणपक्वेष्टकादि मयत्वाद्युपज्ञानार्थं तत्तद्द्रव्यमय कलशाकृति चूलककर्णार्थं च स च प्रासादानां चूलकः प्रतिष्ठायां वक्ष्यमाण मूलप्रतिष्ठावन्त्रिखण्डवर्मेत्यादित्म तत्त्वादि त्रितत्वमयस्तथा | मूर्तीशादिमयश्चेति | यत आह | त्रिखंडवर्ममूर्तीश शिवधाममयोमृत इति | तदानीं को देवो देवता वा कस्मिन् प्रासादे प्रतिस्ठेप्येत्याह | वलभ्यामित्यादि | सवितुः कलशोथवेति | यतस्तस्य कुटिप्रासादः पूर्वमुक्त इत्यर्थः | अन्येषां तु देवानामित्येतत् काम्ये लोकेशहेति वदित्यनेनैकस्यार्थस्यामुभाषणम् | स्वचिह्नमपरं यद्वेति | अथ वायस्य देवस्य यदपरं स्वचिह्नं किंचिदथ स्वकल्प एवय चिह्नमुक्तं तच्छिखरमूर्धनिकर्तव्यं स्वयुधंवेत्यर्थः | श्रीमत्पिंगलामतेष्युक्तम् | तदूर्ध्वं स्वकायुधमिति | चूडायाः स्वरूपमाह | यदित्यादि | समस्तार्ध्वमूर्ध्नि यदुत्पत्ति स्थिति विनाशहेतुरत एव विश्वतोंतुगंलिंगवद्भगवतोधिष्टेयमाधारांतरं भाति शोभते सा चूडेति प्रकृतं ध्वजाधार करण स्थानमाह कंठाध इत्यादि | ज्येष्ठप्रासादानां कंठादधः शिखरं चतुर्धा भंक्त्वोपरितने चतुर्थभागारंभे ध्वजाधारः कार्ययः अथवा पंचमे यथोक्तं तत्रैव पंचमे वाथ तुंगिनः ध्वजाधार इति गवाक्ष इत्यादि | प्. ४३ब्) समग्र प्रासादाश्चत्वारिंशद्भागपरिमाणतो द्विप्रकाराणामपि ज्येष्ठकनीयसां प्रासादानांगवाक्षाश्चंद्रशालिका देशांतरप्रसिद्धाः कार्ययाः दिग्देवतास्थान विधानायाह भित्र्यष्टमांशमित्यादि | दिग्देवताः पार्श्वदेवतास्तासां प्रासाददेहस्यैव तिसृषुभिक्षुभित्त्यष्टमांश परिमाणेन सुचिरमिति | गंभीरता विस्तृतं द्विरिति प्रागुक्त गंभीरमानादेव द्विगुणं विस्तारात् द्विरुन्नतमिति | ततो विस्तारमानादेव द्विगुणमुन्नतं | विमर्दक इति प्रागुक्त मध्यमर्मरहित इत्यर्थः प्रासादमानेन द्वारमानमाह | महतामित्यादि | मुख्यप्रतिष्ठा देवानां गर्भोर्धेन द्वारस्योन्नति रुन्नत्यर्धेन विंशाभ्यां तदुदुंबन्निति शाखाधरोनि कामाख्यया क्वापि यस्य प्रसिद्धिः | तस्याधोदुंबरस्याष्टांश वर्जमुर्ध्वे शाखयोः पृष्ठे दीयते यत्सिद्धि प्रोक्तं प्रमाणमित्यर्थः चतुर्थांशेत्यादि | शाखयोरधोभागे चतुर्थे कालश्चेति | महाकालः मध्यभामाभामेति वत् अर्कतनयायमुना युग्ममिति | किं पुरुषाणां धृतवारिधी गृहीत पूर्णाकलशौ मालाविध्याधरावग्र इति | गृगीतमुंडमालकौ विध्याधरौगो द्वयमिति वृषभयुगलं ततश्च फणिनायकाविति पाठक्रमोक्त एतैतेयां नवानां विधानक्रम इत्यर्थः | फणिनायक विशेषणं शेषवासुकी इति | येनाह | फणिचक्रकृताटोपाविति | इत्येषनवसंख्यात्मको विनियोगो | महति नवशाख इति नवावयवे द्वारे तदन्यदित्यादि | निर्दिष्टाकार विधानाद्यदन्यद्विविक्तं स्थानं तस्यार्धेन बाहुल्यमिति स्थौल्यं कल्पयेत् | लिंगमानेन द्वारमाह | विस्तारादित्यादि | लिंगमानं विस्तारादथवा लिंगस्य यः षोडशांशस्तेनोनं चाभिधेयं | पीठन्यूनाधिकं वेति | पूर्वोक्तस्य लिंगद्वारे पीठतुल्ये इत्येतस्यवानुवादः | इदानीमंगुलमानेन द्वारान्याह | ज्येष्टेत्यादि | प्. ४४अ) स्वशब्देन शून्यं मनुशब्देन चतुर्दशसंख्या प्रागुक्तैव शून्यं प्रथममवस्थाप्यानंतरं तस्याग्रे चतुर्दशनिक्षिपेदेवं चत्वारेंशदधिकशतस्यांकः प्रसज्यते | तावत् परिमाणैरंगुलैर्विस्ताराज्ज्येष्ठज्येष्ठं द्वारं अतो दशदशहानितोनिद्वारं सन्तकं यावत् कन्यस मध्यमम् | लघुतरमिति | कन्यसकन्यसं तत्त्वभूत षट्कैरित्यनेनैवांक विन्यास क्रमेण प्रथमं भूतसंख्यया पंचतदनुषडित्येवं पंचषष्टि संख्यात्मकेन लघुतरमित्थं नवैतानि द्वाराणि दशादि पंचवृद्धप्रासादेष्वेव न चतुर्हस्तादि षट्त्रिंशदंतिकेष्वननुमत्वादिति | ज्ञेयं द्वारस्योर्ध्वेदुंबरे क्रमेणोर्ध्वोर्ध्वं गणपत्यादीनां विधानमाह | गणेशेत्यादि | लक्ष्मीशब्देनात्र श्रीरुच्यते हरिरिति नारायणः ईशश्च शंकरभट्टारकः तत्राप्युक्तं हरिशंकराविति | वाणीपाव्याख्योद्यताः मातरश्चैत्यत्र चकारो भिन्नसमुच्चयार्थो यक्षिण्योमातरश्चेत्यर्थः | द्वाराग्रेत्यादि || द्वारस्याग्रे तद्विस्तारचतुर्थांश वर्जं भ्रमादर्धचंद्राकारेणैव चंद्रिका कार्यया कपित्थाकावित्यादि | द्वारविस्तारादेव सड्भागपरिमाणेन द्वारिकयोरधः कपित्थकौ चतुरश्राकारेण रूपविशेषौ कुंभादन्यत्रेति कपित्थकस्थाने कदाचित् कुंभद्वयं शोभायुक्तं कदाचित् कुंभादन्यत्र कपित्थकावित्यर्थः | साचरार्धेति | द्वारिकाया बाहुल्यमानायदर्धं | तस्या एवोछ्रायाश्च तदर्धं तेन हेतु भूतेनार्गला स्थानं ताटकप्रवेशः बाहुल्यार्धकरणहेतोः शाखासक्तमिति द्वारिकासंलग्नं भवत्येव प्रशस्तमित्यादि | एतद्यदेवं प्रकारैरुक्तं द्वारं तछुद्धायमिति | शोभनेनायेन युक्तं शत्प्रशस्तं आयाश्च प्रागुक्तध्वजादिभिरष्टाभिः सहान्ये स्वर भूताग्नि संख्यकास्त्रिप्रकाराः सहचतुर्विधः ते च प्रत्येक स्मात् समूहात् | स्वसंख्याकल्पनया भागभागापहारतोये अवशिष्यंते ते शोभनफलायायांत्यत आया इत्येषामन्वर्थ प्रतिपादनं प्. ४४ब्) लिंगाचाद्वारपीठानामिति | एतेषां लिंगादीनां भागाधिक्यमथोरुता वायमानदोषाय यत आयशुद्धि निमित्तंसेत्यर्थः | ते स्ववर्गात् स्वभाजित इति | यद्येक स्मादाय योगाछोभनाय योगो भवति | तत्स एव योज्यः | अथा शोभनयोयस्ततोन्योवर्गः प्रयोज्यः तदित्यादि | तच्च द्वारं द्वारांतरेणाक्रांतं न कुर्ययात् | तथा दिग्भ्रांतं किंचिद्विदिङ्मुखं यत् तथा विधमपि न कुर्ययात् | विनतं बहिरंतर्वेति बहिरंतर्वायद्विनतं पतदिवयद्वक्ष्यमाणं शिथिलमिति | विश्लिष्टसंधिबंधमेव | स्वयमुद्गतमित्य यत्नेन संश्लिष्यत्कवाटमित्यर्थः | अत एवाह कूजदित्यादि | सशब्दाभ्यां कवाटाभ्यां यत्पिधीयते तछ्रेयोर्थम् | क्षुद्रसिद्ध्यर्थं तु स्वयमुद्गत इत्युक्तं भवति | षष्ठीत्यादि | इष्टिविंदूयष्टिः कोणो गृहादि निर्माणस्य अश्रिर्भ्रमोजलकर्दमादि निर्गमनमार्गः ध्वजश्चक्रत्रिशूलाद्यात्मकः गोपुरमिति | पुरद्वारं कृपाभिरित्यादि | ग्रहणादारघट्वाद्याः प्राक् सांधारप्रासादानां गर्भातगंगर्भभित्त्यंतमित्यादिना मंडपमानमुक्तमिदानीं निरंधारणामुच्यते | पार्श्वत इत्यादि | शुकनासायाः पार्श्वयोर्वक्ष्यमाण प्रमाणेन प्राग्वत् सूत्रं प्रसार्यय मंडप षट्कं विकल्पमानेन कर्तव्यं कियताप्रमाणेनेत्याह | गर्भसूत्रेणेति | प्रसादगर्भ समसूत्रैणैकः द्वितीयस्तु शुकनासा गर्भसमसूत्रेण अनेनैव प्रसंगेन शुकनासा भित्ति प्रमाणमाह | शुकाघ्नेति | शुकाघ्नाया यद्ब्रह्मसूत्रं ताभ्यामेवापरावुभौ | एतदुक्तं भवति | प्रथमं यत्तत्समस्तमानादिदं पुनर्था ताभ्यां शुकाघ्ना गर्भ प्रसाद ब्रह्मसूत्राभ्यां तयोरित्यादि | तयोर्गर्भशुकाघ्नाक्रोडयोर्यत्कर्णसूत्रद्वयं तन्मानेनान्यद्द्वयमेवं षट् तावत् पार्श्वमंडपानुक्त्वा मुखमंडपा अन्ये चत्वारो येन मानेन भवंति | तदाह | चत्वारोन्येतदग्रकेन प्रमाणेनेत्याह | प्. ४५अ) गर्भार्धेत्यादिन सा शब्देन शुकनासैव तस्या गर्भार्धेण सूत्रेणेति प्रकृतमेवं द्वयं शेषसूत्रेण तयोरेव शुकाघ्नाक्रोडप्रासादगर्भयोः समसूत्रपरिमाणेनान्यद्वयमेवं चत्वारोभवंत्येव | तदग्नेत्यादि | तययाः शुकनासायाः पुरश्चतुर्णामेकतमस्याग्रे वृषभस्य वक्ष्यमाण लक्षणस्य स्थानमित्यर्थः | मंडपस्य चतुर्थांश इति || योसौ कृतोमंडपस्तच्चतुर्थोशव्यवहिता न संश्लिष्टेत्युक्तं भवति | विकल्पेन निर्मानांतरमाह | त्रिगुणादित्यादि | अथवा तत एव मंडपात्त्रिगुणमानतो ध्वज यष्टिः कार्यया अथवा युधमिति | अत्रैव प्रतिष्ठितस्य देवस्य यदा युधं ध्वजयष्ट्यां मूर्ध्नि वृषादयो मूलायतन देवांकावा कार्ययाः तदधो बलिभुजां कृते बलि पीठं कर्तव्यं | जगतीत्यादि | पुर इति प्रासादस्यैव पुरस्ता कदाचिज्जगती बंधकाख्यो निर्माणविशेषः कदाचिन्मुखमंडपस्यापि पुरोहित इत्यर्थः | श्रीमन्मृगेन्द्रेपि || मंडपाश्चैव सूत्रेण पुरस्ताज्जगतीहितेति | शिखाशिखरंत चतुर्थांश समां प्रदक्षिणामिति प्रासाददेहस्याधोलग्नां परिभ्रामणिकां कथयंति | इति शेषः प्रासादपीठमपि यस्याः प्रसिद्धिस्तां तस्या इत्यादि | तस्याः प्रदक्षिणाय बहिरिति पर्ययंत एव निलीना मूलप्रासद चतुर्भागमानेन दिग्देवानां प्रासादास्तदभिमुखाः कार्ययाः प्रचीत्यादि वलभ्यां वा पितामहमिति | वलभ्यभिधानप्रासादे ब्रह्माणं वा पूर्वस्यांदिशि प्रतिष्ठाय येदित्यध्याहार्ययम् | अर्धाबलातनुमिति | अर्धनारीश्वरम् प्राग्वच्चेति पूर्वोक्तलक्षणम् | मातृमंडलमिति | मातृचक्रं | राक्षसायामिति | नैनृत्यांदिशि | चंद्रखंडासनमिति | अर्धचंद्राख्येनासनेन स्थितं तमेव च योगिनं योगो यारूढं मृत्युजितमेव वारुण्यामित्यर्थः | क्रांचसूदनः कुमारः यदि दिक्प्रासादेषु न क्रियंते तत्प्रासाददेशेप्येतेषामवस्थानं प्. ४५ब्) विधेयमिति यावत् पुरीत्यादि | अथवा देवायस्यापुरे गर्भे सा देव गर्भापूः तस्यामपि वा शब्दतः उद्दिष्टदेवानां तथैवावस्थानमित्यर्थः | अथ तस्या एव विनिवेशो निर्माणात्मक उच्यते | मतेत्यादि | यदेव विष्कंभमानं विस्तारमानमभिप्रेतं तेन कृतसीम्रीति कृतपरिछेदे भूतले सति शंक्वादिनेत्यादि | ग्रहणाद्ध्रुववेधेनोदीचीं प्राचीं वध्रुवतारयेत्यात्मकेन प्रागुद्दिष्टेनापीत्यर्थः | अनंतरमीश पदात् प्रभृति ग्रहाणि प्रकल्पयेत् | तत्रेत्यादि | तत्रेति गृहसमूहे ईशपदात्मके स्थाने जपहेमार्चाधामकर्तव्यम् उपकरणान्वितमिति | यद्यत्रोपकरणम् | तत्र जपस्याक्ष सूत्रादि होस्याज्यादि | अर्चनस्यदूत्यर्धपात्रादि च तदन्वितमित्यर्थः | पर्जन्य इत्यादि | सर्ववाद्यानीति | ततावनद्ध सुशिरघनसंज्ञक चतुर्विधातोद्योद्दिष्टानिचि पश्चिता आचार्ययेण स्नानेत्यादि | जयंत इति जयं तपदेयद्गृहं तत्र मरुभृदित्यादि | मरुभृदिंडस्तदाद्येत्रये इंद्ररवि सत्यकाख्य इति यावत् | प्रतोतोली किं भिधेत्याह | सद्वारकवाटपट्वार्गलशोभिता | सद्वारपातथा सत्कवाट पट्वाभ्यां सदर्गलेन च शोभायुक्तेत्यर्थः | मंडपाश्चेति | तस्यामेव प्रतोल्यां चतुश्रायतभद्रसुविष्टपाभिधानानां त्रयाणामन्यतमोगेवनाट्यादि सिद्ध्यर्थं वक्ष्यमाणलक्षणो मंडपो ज्ञेयः आद्यग्रहणाद्वाद्य सिद्ध्येपि अथ तल्लक्षणम् चतुष्षष्टीत्यादि | चतुष्षष्टिपदचिह्नितात् क्षेत्रादष्टिव्यपाय इति षोडशविलोपने कृते | अष्टिशब्देन षोडशाक्षरं छंदोभिधीयते | यत इत्थमष्टपदात्मक पंक्त्यष्टकादर्थापत्त्यैव पूर्वापरदिशोः पंक्तिद्वयलोपने कृते पंक्ति षट्कं यदवशिष्यते | तत्र दैर्घ्यं निमित्तं दक्षिण वाम पार्श्वयोर्न्यसेत् | अवशिष्यंते ये चत्वारः कोष्टकास्तान् | पार्श्वयोरेवमतवारण कृते न्यसेत् | प्. ४६अ) यदाह | श्रुतयः स्युरषाश्रयाः चतुरश्रायतो ह्येवमिति | एवं प्रतिपादितोपपत्त्या चतुरश्रायतो भवत्येव न केवलं नाम्ना सन्निवेश विशेषेणापि | अथ भद्रोमंडपः चतुरश्रक्षेत्रं प्रतिदिशं षोडशधा भक्त्वा प्रतिकोणं श्रुतिच्युतेरिति कोष्टकचतुष्कलोपनांत एव षोडश चतसृषु दिक्षुमत्त वारणार्थं चत्वारश्चत्वारो देयाः यदा च प्रतिको चतुष्कलोपनं कृतं | ततो हेतोर्द्विसूर्ययेति | चतुर्विंशति चतसृष्वप्याशासु कोष्ठका यस्य सद्विसूर्ययचतुरांशकः तदेव द्वादशकोष्ठात्मकं पंक्तिद्वयं प्रतिदिशं भित्त्यर्थं त्यक्तामध्ये षड्नार्धशतमिति | चतुश्चत्वारिंश तावद्भिरुपेतं भागं भागानां परिभ्रम इति गर्भः? कथमिति चेतदित्थं गणनयाकोणचतुष्टयान् षोडशलोपनेनभित्यर्थं षण्नवत्यवस्थापनेन चोभयथा द्वादशाधिक शतपातनेन षट्पंचाशदधिक शतपातनेन षट्पंचाशदधिक शतद्वयाच्चतुश्चत्वारिंशदधिकं भवत्येव अस्य च कोणेषु भित्यभावाद्वेदसरक्षणार्थं अर्थवशाद्भाग प्रमाणकोभित्ति सन्निवेशोंतर्बहिवानुक्तोपि परिवर्जनीयः | अथ सुविष्टयाख्यः || वस्वंशेत्यादि | क्षेत्रेवस्वंश इति अष्टाभिरष्टाभिश्चिह्नितं दिग्द्वयान् षोडशलोपनेन चतुसृषुदिक्षु चतुष्कचतुष्कदानाद्विनिर्गमामत्तवारणा यस्य तथा षण्णां भागामुभय पार्श्वयोर्वामदक्षिणयोः संवेशः परिलोपनेन यस्य | एवं दैर्घ्यान् भाग षट्कप्रमाणकोस्य गर्भ इत्यर्थः मनः षष्टानींद्रियाणि षड्वर्गः तद्रसिकाविषयाशक्तास्तेषां षड्रसिकानां प्रेक्षकाणां स्थितिः स्नानं स्तंभादित्यादि ग्रहणाद्वितान किंकिणीभिश्चेत्यर्थः | अथ स्तंभा | स्तंभ इत्यादि | षोढेति षट्प्रप्रकारः रुचक इत्यादि | तत्र रुचकाख्यो यः स चतुरश्रः वज्राभिधानोष्टाश्रः द्विवज्राभिधानः षोडशाश्रिरर्थापत्त्यैव द्विगणाश्रिरित्यादि प्रलीन वृत्तौ या बुद्दिष्टौ तयोः प्रलीननामा द्वाश्रिंशदश्रिः वृत्तस्त्वनश्रिरेव वृत्तत्त्वान्नामतोपि षष्ठो यो हीनमंडलाख्यः स संवलितेर्हीनकैर्मण्यनुकारैरुपलक्षित प्. ४६ब्) इत्यर्थः | साधारेत्यादि | साधारशिरस इत्याधारेण शिरसा च सह यत्र कुत्र चिद्योज्याः | कुंभेत्यादि | एवां कुंभोपंकुंभ विष्कंभ स्थिराख्याश्चत्वारः स्तंभव्यपाश्रयाः स्तंभाकाराः विकारीदि चतुहोन्येति | ज्येष्ठमध्यकनीयसां प्रासानां क्रमेण स्वस्वदैर्घ्यमानान् स्तंभसंबंधिनो विकारेति षोडश द्वादशाष्टभागादाधाराः कार्ययाः एतदुक्तं भवति | ज्येष्ठ प्रासादानां ये स्तंभास्तेषां स्वदैर्घ्यमानतः षोडशांशात् | मध्यानां द्वादशांशात् कनीयसामष्टभागात् | इति यावत् | मूर्धा न इत्यादि | ततोनंदिकावर्त जगत्त्रिवलिसु स्थिराख्याश्चत्वारो मूर्धानः शिरांसि स्तंभाधार समा एवेति | यदेवाधारणां पार्श्वादौ प्रमाणं तदेवेषामित्यर्थः | तत्र कुंभाख्यः कुंभाधारस्तावत् वस्वंशेत्यादि | आधारक्षेत्रेवस्वं शत्यष्टभक्तो खुरिकावर्ताख्यो रूपको दृक् संख्यया द्वाभ्यां भागाभ्यां कर्तव्यः वृत्ताख्य इंदुनेत्येकै नैव कंठश्च दहनैः स्थितिः इत्थमुपयुक्तशिष्टभागद्वयस्योर्ध्वं निर्गमश्चैकैकेन पार्श्वप्रदेशतो यस्यं | तथेत्यादि | उपकुंभस्य लक्षणंतरानभिधानादेवं रूपत्वमेव | यत आह | किंत्वेष चतुर्व्याडव्यपाश्रयः चत्वारोव्याडाः संलग्ना अस्य कार्याः नृसिंहा वा वजिनोवायवा पद्मचिह्नाः कार्ययाः विष्कंभ इत्यादि | विष्कंभाख्य आधारः कुंभवदेव किंतु नवांशकल्पन वागत्रयेणाधः खुरिकाख्यो यः कुंभे तदेवास्य पीठत्वेन व्यपदिश्यते | तदाह | सिद्धपीठः | सिद्धं विष्पन्नं पीठं यस्येत्यर्थः | चतुर्थः स्थिराख्यो यः स स्तंभान गत संस्थितिरित्युपरिनिरिष्ट स्तंभानुकारेण वृत्तचतुरश्रादिनेत्यर्थः | अथ सिरांसि | त्रिविभक्तेत्यादि | न केष्टकांकिते शिरसः क्षेत्रे सत्यधः पंक्त्यामध्यकोष्टक पार्श्वयोरंशेनांशेनमकरोद्गमा इति | मकराकारा यस्य सनंद्यावर्त उच्यते | गत इत्यादि | गद्रास्यस्य शिरसो भाग वर्तनानभिधानादेष एव निर्माणाविधिः किंत्ययं गजमुखद्वयेनोदगग्रेण प्. ४७अ) पार्श्वद्वये मकर स्थाने विभूषित इति विशेषः अध इत्यादि | त्रिवलिनाप्तः शिरसः अधः प्रदेशे यत्रैतयोर्मकरगजमुखे निर्मिते तत्राधार विवर्तनायैको ग्रंथिरन्यावुपरितनभागद्वये द्वावित्येवं त्रिग्रंथि संयुक्तः सन् व्यश्रमेखलात्रय युक्त्या त्रिवलिरुक्तः | त्र्यंशादित्यादि | सुस्थिराख्यस्य तथैव त्र्यंशकल्पनयो परितनत्र्यंशात् पद्मदलैः कृतभूषणो यः स सुस्थिरः अधभागद्वये पीठिकायोगाच्च पद्मदलवर्तनार्थं मूर्ध्नि यो भाग उपकल्पितस्तदेव क्षेत्रं तदष्टांशकल्पनेन एतदुक्तं भवति | अष्टौदलानि अथेत्यादि | शाधारशिरः स्तंभलक्षणादनंतरं तेषूपरितुलोपतुलाख्यकाष्टकाभ्यां सहितो दारुरुपट्वो विन्यास्यो दारुनिर्माणादौ शैले तु शैलमेव प्रकृतं प्रतोलीमंडपादि स्तंभपर्ययंतम् प्रासंगिकमुक्त्वा प्रकृतमभिधीयते | दृशेत्यादि | दृशांरिक्षशप्ताचिः संज्ञके त्रितये पूष्णीत्यादि | संयमिनामिति | संयमितात्मनां तपस्वि विशेषाणाम् आत्मालोचनसिद्धय इत्यात्मस्वरूपज्ञान निष्पत्तये | गंधर्व इत्यादि | कोण इति पितृस्थाने विकल्पतो वा गृहक्षतयमगंधर्व भृगांह्व चतुष्टये यत्प्रागुक्तं तत् कुर्ययात् | मठं वा विकल्पतः कुर्ययात् तांबूलेत्यादि | रुजीतिरोगस्थाने | गंधवह इति वायुस्थाने | पुष्पायनमिति | पुष्पगृहम् अहि त्रय इति नागमुख्यभल्लाटाख्ये सोम ऋग्याख्ये कोशगृहमिति भांडागारं अदिति द्वय इति अदिति दित्याख्ये अंतर्मध्ये ब्रह्मादिषु पदेषु देवगृहगर्भोमंडपः कार्ययः प्रागुद्दिष्टायाः पुरोन्यनिर्मार्माणांतरं चिह्नसंश्रयमिति | ध्वजधाम | वर्मेत्यादि | वर्वेत्यादि | वर्वेत्यादि | वर्मधामेति सत्रहन गृहम् कांचनं कृताकृतमिति | घटिता घटितं सुवर्णं सत्येत्यादि | भिषजामिति | वैद्यानां व्योमेति | अनुतांबूलादिति | पितृपदादनंतरं दौचारिकपद इत्यर्थः | अवरोधयधूमहन्तरिकाद्याः पालका अंतःपुररक्षिणः स्त्रिनियंतारो महन्तरकाः ते च शब्दतः पुष्पदंतपद इत्यर्थः | तत इत्यादि | तत पद द्वये असुरशोषाख्ये बलवति मंत्रिणां प्. ४७ब्) स्थाने रुजिरोगपदे आरोग्यपदमित्यौषधस्थानं वायाविति वायुपदे गंधोवजीविनां नृतोपजीविनां च स्थानम् स्थानमित्यादि | फणभृतीतिनागेमणितत्वविदां स्थानं पुष्पायनवां मुख्येत्यादि | तदग्रत इति भल्लाटादनंतरं सोमपद इत्यर्थः | गवादि गृहसंयुक्तमित्यत्र देवतानामित्यभिधानात् तदग्रत इत्यनुमंतव्यं तेनायमर्थो यथा सोमपदादग्रतो ऋग्याक्षे गवादि संयुक्तमित्यादि ग्रहणान्मेषाज महिषरक्षकाणां गृहम् | अदितावित्यादि | तत्सारकालयमिति मंत्रचर्चागृहं याष्टीकानां वा गृहं | अथ षट्पददेवस्थान विनियोगः || वेवस्वतेत्यादि | राजवेश्मनौ दक्षिणस्यां दिश्या स्थान गृहमित्यर्थः | शयनं यम इति | पूर्वोक्तानुवादः यतः पूर्वं तत्रांतः पुरमुक्तमिदानीं शयनं तद संगमेव अर्ययमाभिधाने मरीचाचेव गुरूणां समागमस्थानं पृथ्वीभृतीत्यादि | वामदिक्स्थ पृथ्वीधराख्ये वरवार्ताकरणस्थानमित्यर्थः | रफ इत्यादि | शेषाणि यानि कोणभृतामापादीनां स्थानानि तानि रफसिनिमित्तं रहस्याणीत्यर्थः | यस्यामित्यादि पूर्वद्वारायाः पुर एष विधिः दिगंतर द्वारायाः क इति तदर्थमेतत् | यस्यां दिशि पुरोद्वारमित्यादि तस्याः पुरः यस्यामेव दिशिद्वारं भवेत् | तां प्रांची परिकल्प प्रागुक्तोय ईशादितो न्यासः सतदवस्थ एव कार्ययः आस्थानशयनेन्यथेति तद्विषयो यो न्यासः सोन्यथेति | न तस्य द्वाराधनुरोधात् परिवर्तनमपित्वा स्थान शयनं स्वस्थान एव कार्ययं पूर्वद्वारा यः पुरो निर्माण विनियोगो यथोक्तं वैवस्वते पदे | कुर्ययादा स्थानं शयनं यम इति तयोर्विनियोगो दिगंतर द्वाराणामपि निर्माणानां तत्रेत्यर्थः | चतुःशालामित्यादि | कुर्ययाद्वेधसितद्गृहमिति | यदुक्तं | तद्विशेषणं चतुःशालं गृहराक्ष् इति | चतसृष्वपि दिक्षुशाला चतुष्टेनोपलक्षितं यच्चतुःशालं प्राच्याशालयाविरहितमुदिच्याचात्रिशालं श्रीमत्किरणेशस्तं हिरण्यनाभाख्यं हीनमुत्तरशालया | सुखेत्रं पूर्वयाहीनं शालया वृद्धिदं मतमिति | दक्षिणया पश्चिमया वा विरहितं कार्ययमित्यर्थः | यदुक्तं | तत्रैव प्. ४८अ) चुल्लिदक्षिणया हीनाधनार्थ प्राणनाश कृत् यच्चाप्यपरयाहीनं पक्षघ्नं तत्सुतांत कृदिति | तदुक्तितं विशालं वेत्यत्र | तदिति | पूर्वोत्तर परामर्शाय यदि कदाचिद् विशालं तत्पूर्वोत्तरशालाद्वयवर्जं दक्षिणपश्चिमशाखाद्वयोपलक्षितमेवेत्युक्तं भवति | यदुक्तं तत्रैव | सिद्धार्थं तद्भवेछुद्धं याम्या परयुतं यदि | पश्चिमोत्तर संयुक्तं यम श्रूर्पं तु मृत्युदम् || उदक्पूर्वयुतं यत् स्याद् दंडाख्यं दंडकारकम् | पूर्वयाम्ययुतं ज्ञेयं वाताख्यं कलहप्रियम् || पूर्वायुपयुतं गेहं चुल्लिनामार्थ नाश कृत् | दक्षिणोत्तर संयुक्तमत्यर्थं तद्विरोधकृतदति || तत्रैव मध्ये विकल्पितोऽन्यदपि राजगृहमाह | धामानीत्यादि | यस्मिन्नवगृहाणि तन्नंद्यावर्ताभिधानमन्यद्ग्रहमंडलं तथं तत्कार्यमिति | तदर्थमाह | भूतेत्यादि | पंचकोष्ठकांकिते सति मध्यानंतर विच्युतेरिति | प्रतिदिश्मेको यो मध्यकोष्ठकोष्टकांकिते तस्य ये अनंतराः संसक्तास्तद्विच्युतेः | प्रतिलोपनादेवं कोनकोष्टकचतुष्टयेन तथा मध्यप्राग्दक्षिणोत्तर पंचमकोष्ठकपंचकेन दशमं न वा शिष्यते | तान्येव नवधामानीत्यर्थः | तत्र यन्मध्ये प्रागाननमुत्तराननं वामदक्षिण पश्चिममित्युक्तं भवति | सर्ववीथिकमिति | चतसृष्वपि दिक्षुवीथिका परिभ्रम संस्थानानि क्वापि पिंडिकेति यासां प्रसिद्धिः यस्य तत् स्वस्तिकाख्यं तत्राप्युक्तं | समंताद्यदि जातासासुस्थितमुद्यत इति तदितराणि शेषाणीति | तदानीं मध्यगृहादितराणां शिष्टानां योर्थः प्रयोजनं तदुच्यते | देवागार इत्यादि | यंत्र प्रमुखोपस्कराश्रय इति | यस्योपस्करणस्योपकरण भांडसमूह यंत्रमेधयाख्यस्य भोजनविशेषस्य कारणमथवा तच्चक्रिका प्रधानमित्यर्थः | राज्ञ इत्यादि | मध्यगृहं राज्ञः अष्टोत्तरशतं हस्तानां परमिति प्रकृष्ठं ततोधिकमन्यत्र कार्ययमित्यर्थः | अतोमानात्पाद पादनवर्धितायामोदैर्घ्यं यस्य इत्थं पंचत्रिंशदधिकं शतं दैर्घ्यात् अतोष्टहान्याविस्तरदैर्घ्यदिशोर्दिक्षु चतुष्टयं कोणाश्रयास्तदर्धेनेति | मध्यगृहप्रमाणादर्धतः द्विसप्ततेरित्यादि | गञ्जपालस्य मध्यगृहं द्विसप्तति हस्तं विस्तारा तथैवै तन्मानात्याधेनाब्द्धिकं प्. ४८ब्) दैर्घ्यात् सप्तपरिक्षयाद्दिक्षुचत्वारि तद्वदेवमध्यादर्धेन कोणेषु अष्टेत्यादि | पृतनापतेस्तंत्रपालस्य चतुष्षष्टिहस्तं मध्ये तद्वदायामवृद्धित इत्येत यधिकारं न्यायेन स्थितं यावद् गृहलक्षणोद् देशः रसापाय इति | षट्परिलोपने सति षडित्यादि | वा शब्दोत्र समुच्चयार्थः युवराजस्य च मध्यगृहमशीति हस्तं षडपायाद्दिक्षु विद्दिक्षु च | तन्मध्यादने तेष्वेवार्थेष्विति देवागार इत्यादिनोक्तेषु | अतो परम् षष्टेरित्यादि | अर्ते युवराजभवनादपरं गृहादि मंत्रिणः षष्टिहस्तं मध्यगृहं चतुरपायेन दिक्षुचत्वार एवमस्य पंचैवसुकोशेत्यादि | अन्येषां राजभृत्यानां स्वकस्वकधनानुसारेण अथवा यथात्मनस्तुष्टिर्भवति | द्वात्रिंशत इत्यादि अग्रजन्मनो ब्राह्मस्य प्रधानगृहं द्वात्रिंशद्धस्तः ततो द्वात्रिंशतश्चतुर्हान्येति चतुरचतुरपायेचान्यानि चत्वारि एवं पंचगृहाणि ब्राह्मणस्य द्वात्रिंशदष्टाविंशति चतुर्विंशति विंशति षोडशहस्तात्मकानि अस्त्राभानि तेभ्यो यदृक्षया यद्यदा करोति | अतो द्वितीयमष्टाविंशतिहस्तं यत् क्षत्रियस्य प्रधानम् तृतीयं यच्चतुर्विंशति हस्तं तद्वैश्यस्य चतुर्थं यद्विंशति हस्तं यत्तच्छूद्रस्य यावत् क्षत्रियादीनां पंचपंचप्रतिपादयति त्रिद्व्येकहानित इति अष्टाविंशतिहस्तात्त्रिपरिहानितः पंचविंशतिद्वाविंशति एकोनविंशति षोडशहस्तानि भवंति | पंचक्षत्रियस्येवं द्विपरिहार्ययाणि भवंति वैश्यस्य चतुर्विंशतिहस्ता द्वाविंशति विंशति अष्टादशषोषशहस्तानि पंचैव | एवमपि विंशतिहस्तादेक परिहानित एकोनविंशत्यष्टादशसप्तादशषोडशहस्तान्येव पंचशूद्रस्येत्यर्थः | एतदेवाग्रे स्फुटीकरोति | षोडशहास्तिकान्मानादधो न शालास्ति विनाभूति परिक्षु क्षयादित्ये तेन ततो धोयाःशालागृहाणि वा क्रियंते | ते च भूतिपरिक्षयं कुर्वंति | स्वपादवर्धितायाम इति पूर्वोक्तानुवादः उदगित्यादि | राजन्या एवोत्तरादिषु चतसृषुदिक्षु ब्राह्मणाद्यावसेयुरित्यर्थः | भृतका इति भृत्याः ग्रहेत्यादि | बाह्ये चरक्यादि स्कंदादि प्रदेशेष्वंत्यजातयश्चर्मकारधावक प्रभृतयो वसेयुः चंडालेत्यादि || प्. ४९अ) मौष्टिका इति श्वपचानै नृत्यां तु विशेषत इति अंत्यजानां नैनृत्यां दिशि विशेषाद्गृहाणि कारयितव्यानि अथेत्यादि | अमरालयाः प्रासादास्तेषां पुरोग्रे पूर्वोक्तमानकामंडपास्ते स्तंभसंख्यया प्रत्येकं संज्ञाभेदेन भवंति | सत्सूत्र इत्यादि | तत्सूत्राद्या वृद्यंता नवमंडपा यवीयांस इति कन्यसाः कन्यसेष्वेव प्रासादेषु द्वादश अष्टाविंशति स्तंभांतं यावद्भवंति | अत एवाह | चतुर्गुणमुनि प्रांतैरिति | तेन सत्सूत्रमंडपो द्वादशभिः स्तंभैः चतुर्दशभिः अभद्र एवं द्वाभ्यां द्वाभ्यां विवृद्ध्या यावदष्टाविंशतिसंख्यया वृद्धिभिः संज्ञक इत्यर्थः | तथेत्यादि तेभ्योनंतरं नंदनाध्यः? संवर्धनांतानवैव द्विद्विवृद्ध्यैव त्रिशत ऊर्ध्वं षट्चत्वारिंशदंदिका मध्यमा मध्यमानामेव प्रासादानां मध्यकृत्येष्विति भोगप्रायेषु ज्यायांस इत्यादि | श्रीवत्साद्याः पुष्पकांता नवज्येष्ठप्रासादानां तथैव द्विवूज्या? षट्चत्वारिंशदत ऊर्ध्वं चतुष्षष्ट्यंतानवैवेत्यर्थः | दशेत्यादि | दशभिरष्टभिः षड्भिश्चतुर्भिर्वा युक्तामंडपायेते मिश्रकसंज्ञाः कार्ययाः यवीय सामेव प्रासादानां विनियुज्यंते | मिश्रावाप्त्यै इति क्षुद्रसाधनायेत्यर्थः | द्वाभ्यामित्यादि द्वाभ्यांस्तंभाभ्यां शुकनासायाः पुरः पादमंडपे विज्ञेयः निष्टेत्यादि | निष्टासिद्धिरिति | सौख्यप्राप्तिः क्षुद्रसंसाधनाय चेति रौद्र सिद्ध्यर्थम् | इतीत्यादि | विचित्राश्चेति | नामारूपाः मंत्रवद्यद्विधानं तद्योगादि? चित्रं यथाभिलषितमर्प्यं साधयतीत्यर्थः || भावचूडामणे प्रासादरचनं नाम पंचमः पटलः || इदानीमधिवास उच्यते || अथेत्यादि | अन्ये*?र्यागोपक्रमोधिवासः आमंत्रणमेव धाम्नः पुरस्तात् इति प्रासादस्य पुरतो मंडपे वक्ष्यमाणोपपत्त्या शुभलक्षणे च कार्ययः तत्प्रमाणमाह | हस्ताअदीत्यादि | हस्तमात्रस्य लिंगस्य प्रतिष्ठायामष्टभि द्विहस्तस्यार्क प्रमाणेन त्रिहस्तस्य दिक् प्रमाणेनेति दशभिरसौ मंडपः कार्ययः यमेत्यादि | चतुर्हस्तान्नवहस्तांतं यावत् प्रत्येकं यमवृद्ध्येति हस्तद्वयवृद्ध्या कार्ययाः | इत्थं नवहस्तस्य द्वाविंशतिहस्तोमंडपः विकल्पेनमानांतरमाह | तदित्यादि | तत्प्रमाणं हस्तादिकमादौ कृत्वा प्. ४९ब्) अर्कादितो द्वादश आदौ आदितस्तेन हस्तमात्रस्य द्वादशहस्ताद्द्विहस्तस्य चतुर्दश यावन्नवहस्तस्याष्टाविंशति हस्ता इत्यर्थः | अत्र तु वृद्ध्यंतराश्रवणाद्यम वृद्धिरेव | तदर्धेनेति | तन्मंडपार्धमानेनेशानदिशि प्राच्यांदिशि वा स्नानार्थं मंडपः मंडपः कार्ययः सोपीत्यादि | अत्रापि शब्दतो मंडपद्वयमपि न दिग्भ्रांतमिति | सूत्रैः सम्यक्मातदिगवष्टंभेन कार्ययं तोरणाद्यन्वित इत्यधिंवासमंडपस्तोरणाद्यन्वित इति व्यवहितेन संबंधः आदिग्रहणाद्वितानकपताक प्रायं वक्ष्यमानकमुनमेयम् | मंडपस्वरूपमाह | मंडप इत्यादि | शंकरस्य भगवतः सदाशिवस्यैव तेजः स्थानं वासोमंडपो न तु वेश्मसामान्येन रूपकयति मंडपं तेजश्च निवृत्याद्याश्चतस्रो याः शक्तयो यथा सद्योजातवामदेवा घोर तत्पुरुष भट्टारकाधिष्ठेयास्ता मुखानि यस्य तेजसः पंचमायास्तदुपरिवर्तित्वेन प्रकृत्यार्थानुपयोगादग्रहणं नाव्याप्तेः शांतीत्यादि मंडपस्य तु तत्संख्यया तोरणानि चत्वारीत्यर्थः | अन्यच्च | पताकाभिः शक्तिसंख्याभिर्नवभिर्लक्षितं चिह्नितं भगवत्तेजसश्च वामाद्या यतो नवाद्याः शक्तयः शांत्यादि संज्ञयाक्षीरवृक्ष समुद्भवानि वक्ष्यमाणोपपत्या लक्षणावंति चत्वारि तोरणानि | एतेष्वेवोछ्रायमाह | पंचेत्यादि | कन्यसानामिति हस्तात्प्रभृति त्रिहस्तं यावत् क्रमेण पंचहस्तानि तोरन्णानि हास्तिकस्य षद्ग्रस्तानि द्विहास्तिकस्य सप्तहस्तानि त्रिहास्तिकस्य यावत् | वसुदेवांगुलाग्राणीति | एषामिति | परेषां मध्यमानां ज्येष्ठानां च तत्र सप्तहस्तप्रमाण्येव वस्वंगुलाग्राणि प्रत्येकं मध्यमानात् तेनाष्टांगुलाधिकानि सप्तहस्तानि तोरणानि चतुर्हस्तस्य षोडशांगुलाधिक सप्तहस्तानि पंचहस्तस्याष्टहस्तानि अष्टहस्तानि षड् हस्तस्येति यावत् | एवं ज्येष्ठानां वेदांगुलाग्राणि ततश्चतुर्दशाधिका अष्टौहस्ताः सप्तहस्तस्य तोरणानि | अष्टहस्तस्यांगुलाधिकानि नवहस्तस्य तु सार्धाष्टहस्तप्रमाणनीत्यर्थः | यदुक्तं तत्र | त्रिहस्तांतात्तु हस्तैकवृद्धिर् ऊर्ध्वं षडंतिकम् वस्वंगुलानवांताया वृद्धिः सा चतुरंगुलेति प्. ५०अ) यः पुनर्हस्तादि त्रिहस्तांतानामिव चतुर्हस्तादि नवहस्तांतानामपि चतुर्हस्तादि नवहस्तानामपि तथैव वसुवृद्धिर्वसुवेदांगुलवृद्धिश्चेति | व्याचेष्टे तदयुक्तं | तदर्थान्मनोवचनस्याश्रवणात् | प्रतिष्ठाशास्त्रांतरेण एकवाक्यतां संभवाच्च तथा वक्ष्यमाणानां चतुर्हस्तादि द्वादशहस्तांतानां नवानां वेदीनां प्रत्येकस्य वेद्यास्तोरण स्यात्युन्नत्तत्वात्तथा शखोछ्राय समांतरत्वेन पार्श्वाभ्यां वेदिमानाद्विस्तृतेश्चासमंजसता अन्यच्चानंतरमेव | वक्ष्यमाणखार्थ प्रमाणवाक्यस्यार्थाननुगुणचोद्यत्वेनाप्ययुक्तमेवानुक्तमेव साधु तेष्वित्यादि | तेष्विति हस्तादिषु त्रिषुतावत्यरामर्षः खातस्तोरणानां शाखाप्रवेशायाधः क्रियते | स तेषु त्रिष्वपि हस्तमानेन पर इति ततो हस्तमानात् खातश्चतुर्हस्तादि नवहस्तानां परः स्वकायाः स्वकाया वृद्धेरर्धेनोपलक्षितः | इत्थं चतुर्हस्तस्य चतुरंगुलादिके हस्तस्याष्टांगुलाधिको यावन्नवहस्तस्यांगुलाधिक इत्यर्थः | शाखयोरित्यादि उछ्राय सममेवांतरं तोरणानां पार्श्वमानमित्युक्तं भवति | अन्यथा क्षय इति कामनाविषयमन्यथा प्रमाणमित्यर्थः | शल्यमित्यादि | शाखोपरियछिखारूपं तत्पंचहस्ततोरणानामष्टाभ्योंगुलेभ्योधो न कुर्ययात् | नवहस्तस्य यानि तोरणानि तेषां षोडशांगुलात् परं वा शब्दश्चैवांतरविभागोत्रैति द्विहस्तादीनामष्टहस्तांतानां यो विभागानुसारेण भागकल्पनासाखबुद्ध्यैव ज्ञातव्या किं बहुनांगुलाधिक्येनानु च | श्रीमत्पिंगलामते | एकांगुला च सर्वेषां शल्यवृद्धिः प्रकीर्तिता | पूर्वाह्यष्टांगुलमानादिति | तत्पक्षेत्यादि | तेषामेव तोरणानामुपरिपार्श्वयोर्यानिशृंगशूलानितानि विस्तारात् पंचमभागेन तान्यस्त्रेत्यादि | सामान्येन प्रणवेन इतरेणेति | साध्यमंत्रेण तत इत्यादि | निशाकरमुखोवृषः दारशब्दोबालाभिधायकत्वात्कार्तिकेय वाचकः अमित इति चंडीशः यतो गणेश्वराणामेव प्रतीहारत्वेन श्रुतिः तद्बाणान् स्मरन्निति | तेषां प्रत्येकं ये यस्य गुणाः स्वस्वव्याप्त्यादयः ततोष्टावित्यादि | प्रशांताद्याश्चैशांता अष्टौ कलशानां संज्ञाः न्यग्रोधेति | प्. ५०ब्) धारिका अधिवासमंडपवेद्याः कोणकोष्ठानि | हिमेंद्रेत्यादि | हिमेंद्रायुधबंधूककृष्णनीलघनोपमा इत्यत्रोपमाशब्दो हिमादीनां षणां प्रत्येकमभिसंबध्यते | हिमोपमा इंद्रायुधोपमा बंधूकोपमा कृष्णोपमा नीलोपमा घनोपमा इति शार्वादितीशानदिक्त एतासां न्यासः मध्ये श्वेताथवा चित्रेति अत्र श्वेतशब्दस्य हिमोपमेत्युक्त्वा पुनरुक्तिः शंखदुग्धकुंददंतपर्ययायैः श्वेतवर्णस्य युक्तत्वाददोषः वारुणी या घनोपमा प्रोक्ता सा विकल्पेन धवलाकार्ययाः भवंत्याश यत इति काम्यादि भेदेन स्वस्वकार्ययानुपरूपेण भवंति इत्यर्थः | अष्टांगुलेत्यादि | मध्यप्रदेशे अष्टावंगुलानि उछ्रिता स्थलिका धारिकाभिधानानि काष्ठानि चतुर्हस्तानि यस्याः सा तथा हास्तिके लिंगे द्विहस्तादीनां नवहस्तानां हस्तस्य वृद्ध्यैव काष्ठानि स्थलिकायां त्वंगुलेनांगुलेन वृद्धिः हस्तेत्यादि हस्तमानादिनान्येनापि मानेन यत्कन्यसकन्यसं द्व्यंगुलोत्तरावृद्धिः तावद्यावन्नवहस्तप्रमाण परिगतस्तृतीयांशो दृक् करस्य द्वितीयहस्तस्यैवं षोडशांगुलाधिको हस्त इत्यर्थः | वेदीत्यादि | वेदीति चतुरश्रं | भगशब्देन योन्याकारम् मंडपस्येत्यादि एतत् कुंडाष्टकं पूर्वादि दिक् क्रमेण अधिवासमंडप वेद्या बहिःप्रासादस्य वा वहिर्भवेदिति संबंधः ततोन्यद्वेद्या मूर्धनीति शिवेशयोर्मध्ये यद्भवति | तन्नवं पंचेत्यादि | वक्ष्यमाण न येन ब्रह्मभिः पृथिव्यादि भिर्वापंचभिर्योन्यासस्तस्मिञ्चत्वारि चतुदिक्षु मध्ये शिवेशयोस्तथैव पंचमं आशयादितराणि वेति कामनातस्तथा तथा तु पाणीत्यर्थः तदाकारेण चोष्टेन मेखलाभ्यंतरे भूमेर्भागात्मनायोगो येषां चतुरश्रयोन्यादि नैवम् ओष्ठमित्यादि | कुंडे चतुर्विंशतिभागेनोष्टः कर्तव्यः अत एव हास्तिके एकांगुलमानेन कुंडेत्यादि नाभिः सर्वकुंडानां तथैव स्वमानादर्धेन त्रिभागेन वाहिता सर्वेषां चाश्वत्थपत्राकारेण एकरूपैवमेखलापि कुंडाकारोहस्तमाने कुंडे यद्येकामेखला तत्सा षड्भिरंगुलैः | अथ भिस्रस्तश्चतुर्भिस्त्रिभिर्द्वाभ्यां क्रमेणांगुलाभ्यांत प्. ५१अ) तन्यत्र इष्टेनुपाततः इत्येष एवार्थोनुमंतव्यः शेषमधमधः खनेदिति | मेखलामानस्याधः खातोहास्तिकस्य पंचदशांगुलोनुपातत इत्यर्थः द्विगुणमित्यादि | लिंगस्य यो ब्रह्मभागः ततो द्विगुणविस्तृति भद्रासनं भद्रपीठम् | भद्रमिति शोभनं | अथ स्रुक्स्रुवलक्षणं || स्रुक्स्रुवावित्यादि | किं शुकः पलाशः श्रीपर्णीवृक्ष एव प्रोक्ताभिधानेद्योत्येयो पाक्षिकः कश्चिद्वृक्षस्ततो वा कुर्ययात् | क्वाप्रत्य भो पिबेति क्वचित् कामनाविषये अयाज्ञिकादपि वृक्षादित्याशयः स्रुक् तावत् वह्वायामेति बह्वायामेति षड्त्रिंशदंगुलादैर्घ्यात् रसागाष्टवेदिकेति कन्यसादिलिंगापेक्षयै तत् अयमर्थः तत्प्रमाणांगुल वेदिका स्रुक् कन्यसानाम् युगाः सप्ततत्संख्यांगुलमेदिर्मध्यानाम् अष्टांगुलवेदिका ज्येष्ठानां अंगुलमानेन च तासां कंठस्त्र्यंगुलश्च गांभीर्येण सर्वासामाज्याधारोनंतरमेव वक्ष्यमाणाभिधानमवटमंडलं यतश्च त्रीणिचत्वारि पंचचांगुलानि वा विस्तृतं परिवर्तुलत्वात् एव एव तस्याः संहितांतर दृष्टलक्षणया विशेषोन्यद्दैर्घ्यादि सर्वं सदृशं | श्रीमत्किरणे | तद्विस्तृतिमानं सडंगुलं यदुक्तं तत्रैव षद्वृत्तं पुष्कर भ्रमादिति | कंठपार्श्वान्मुखांतं यावत् सप्तांगुला मुखप्रदेशे अर्थैर्विभज्य मध्यपंचमभाग वर्जं प्रतिपार्श्वं भागद्वयाद्ध्रासो वेणिकेणः त्रयोपरिकंथस्य पृष्टपार्श्वप्रातावधिर्यस्याः तथा कनिष्ठाप्रमाणेन पृथुः प्रारंभश्च प्रांतावधिः यथायथं निम्न आज्यनिर्गमः अवटमंडलात् कंठमध्यमार्गेण मुखांतं यावद्यस्याः कलशादुद्गतः षडंगुलप्रमाणो यो दंडस्तदग्रे प्रातवेदिकाधः श्रुतिसांख्यैश्चतुर्भिरंगुलैरन्या सूक्ष्मा च वेदिर्यस्याः उक्तं च मृत्युजिद्विधाने षडंश परिणाहेन दंडः कुंभसमुत्थित इति इत्थं दीर्घसमासैर्व्यवहितसंबंधिपदैश्च स्रुगेवविवक्षिता | स्रुव इत्यादि | तद्योनिरिति | समानजातीय एव अंगुष्ठवत् स्थूलदंडः कर्षप्रमाणस्याज्यस्याधारोवक्ष्यमाणभिधानस्य पुष्करस्या वटोगांभीर्ययं यस्य दंडमूले प्रारंभे आहिता विनिर्मिता गंडिका आमलसारानुकृतिर्यस्य द्व्यंगुलोज्जित दैर्घ्योवेति | हस्तमानोथवा प्. ५१ब्) द्वाविंशत्या अंगुलानां गोपदाभाग्रपुष्कर इति गोपदप्रतिबिंबानुकारो मध्ये शिखांतं यावत् सृष्टयोन्ततरेखयायुक्तः तत्पार्श्वादीशद्गंभीरे यस्य पुष्करस्य पृष्ठे बहिः कुंभद्वयेन च युक्तः एवं रूपः स्रुवोथवा स्वतंत्रे स्वकल्पे यथोक्तः एतयोरप्याकारः समप्तिपत्रादवसेयः समिध इति | यज्ञ वृक्षा अश्वत्थादयः स्थैल्यमानेन कनिष्ठायाः यानाधिकाः अष्टाश्र इत्यादि चरु कृतेया स्थाली सा औडंबरी ताम्रमयी तथा प्रतिसरा इत्येक हस्तवृद्धैव लिंगस्य ब्रह्मादि भाग प्रदर्शन स्रग्दामानि रक्षा कुंभा निद्रा कलशाः अथेत्यादि | सबाह्याभ्यंतरमिति | यथैव बाह्ये करन्यासादि कृतं तथैवाभ्यांतरे पुर्ययष्टकाख्येपीत्यर्थः परांवृत्तिमास्थायेति सकलक्षोभोपसंहारद्वारेण स्वरूपावस्थितेः | शांतरूपात्मिकैव परावृतिः | तां समाश्रित्य सहज शुद्ध्यपहत सामर्थ्यत्वेन ह्यात्मनः क्षोभोन्मुखत्वाद्विमूढता तद्विलयाच्च तत् पदाभिर्भावः | तदुक्तं स्पंदकरिकासुगुरुभिः | निजाशुद्ध्यसमर्थस्य कर्तव्येषुभिलाषिणः | यदा क्षोभः प्रलीयेत तदा स्पंदर संपदम् || तदा स्यात् कृत्रिमो धर्मो ज्ञत्व कर्तृत्व लक्षणः | यतस्तदीप्सितं सर्वं जानाति च करोति च || कर्माख्यं विधाय करमिति | संहितांतर परिदृष्टविधिना यथोक्तं रुरुसंहितायां | सर्वां प्रक्षाल्य हस्तं तु कृत्वा गंधाद्यलंकृतम् | न्यसेद्ब्रह्मणि शाखासु पंचपंचस्वनुक्रमात् || गंधमंडलकं कृत्वा वामांगुष्ठेन मध्यतः | विन्यसेत् तत्र देवेशं विद्याराजं परंशिवं || पूजयेच्चार्घपाद्यैस्तु गंधधूपपवित्रकैरिति | अथवा स्वतंत्रविधाना विन्यस्त संपूजितश्च शिवभट्टारको यत्र तं कृत्वा उक्त वदिति प्रागुक्तनयेन सर्वाधरशिर इति शिस्त्रसंज्ञितं कलशद्वयमीशानदिशि विन्यसेदित्यर्थः | मंडपस्येत्यादि | पूर्वोत्तरैशानपश्चिमेभ्यः अन्यतमे न वसुकेष्टकेषु मध्यात् प्रागाटीशांतं क्रमेण शिव सदाशिव ईश्वर विद्यामायाकाल नियति पुरुषप्रकृत्याख्यानि नवैव तत्वानि विन्यस्तानि यस्मिन् कारकाणीत्युपयोगद्रव्याणि सुप्रतिष्ठादीनि रत्नानि पंचाभिधानानिर्विन्यस्तेषु पंचसु पात्रेषु पवित्राद्यैरिति ब्रह्मभिरादि ग्रहणादंगैः कदाचित् प्. ५२अ) यदुक्तं श्रीमत्पिंगलामते | तद्वक्त्रैश्च हृदाद्यैर्वेति भ्रह्मभिश्च सद्योजातादि क्रमेण गो सूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकानि क्रमादजादिभिः कुर्यादिति | सद्गोमयमित्यादि | सद्गोमयमित्य पतितं भूमौ यत् हैममुपस्करमिति | सौवर्णं गृहोपकरणभांडप्रायम् सर्वाभरणजातं चेति सौवर्णमेवाभरणवृंदं प्रकृतावित्यादि | प्रकृतितत्वस्थाने कुंकुमादिकमिति | आदिग्रहणात् कर्पूरशब्देन मृद इत्यादि गहन इति मायायां नराजनंनेवद्भभकख्यया यत्प्रसिद्धं न दुंबरेत्यादि न दुंबरादि वृक्षसंभवं त्वक् संग्रहम् कषाय संग्रहं हरीतक्यामलकक्षीरवृक्षशकलपरिपाकोत्पादितं गंधानिति | पूर्वोद्दिष्टान्मृगमदादीनन्यांश्च स्वस्वरतीन् नियताविति नियति तत्त्वप्रदेशे ततोष्टावित्यादि | तद्बाह्येष्ट सुदिक्षु कलशाष्टकं तद्विशेषणं श्वेतो मलो गंधगर्भ इति | श्वेतचंदनवारिगर्भः अमलोगंगादि सलिलगर्भः एवं यावदेथ विमिश्र संलिलगर्भः ते च क्षारादयो गर्भोदाख्य समुद्रांताः अष्टावष्टसुखनामभिश्चतुर्थ्यं तैरिति | या अस्य निजामूर्तयः यथा भगवतः परमशिवस्यात्ममूर्तिर्विद्यामूर्तिः शक्तिमूर्तिश्चेति तिस्रः तत्रात्ममूर्ति ब्रह्मभिः विद्यामूर्तिर्विद्यांगैरथव्याकरणप्रस्थानेनाष्टाभिर्मातृकापर्वभिन- वमेनकूटाभिधानेन क्षकारेण पूजादि देवस्य शक्तिमूर्त्तिस्तु वामाद्याभिरष्टाभिर्मनोन्मनीवर्जं विभ्याद्याश्चाष्टावेव रौद्री वर्जं तासामभिधानानि | श्रीमद्रौरवेभिहितानि यदुक्तं || विभुज्ञानक्रिये वाक् च वागीशी ज्वालिनी तथा | वामाज्येष्ठा च रौद्री च परमनवशक्तयः || इत्यनेन उमापत्त्यादेस्तु क्ष्मावद्मादिभिश्च शास्त्रप्रोक्ताभिः | यदुक्तम् || भूमिराषोग्निरनिलंखमात्मा चंद्रभास्करौ देवदेवस्य कथिता मूर्तयोष्टौ स्वमानत इति | एतेषां यस्यात्मीया मूर्तयस्तन्नामभिश्चतुर्थ्यंते स्ते कलशा आलब्धाः कार्ययाः | एतच्च मूर्ति मूर्तीशादि स्वरूपमग्ने पाददेशे भानुः स्थित्वा मुर्त्तिन्यासं गुरुत्तमः | कुर्ययादित्यादिना स्फुटमभिधास्यति इह तु प्रसंगात्किंचिद्यवाकृतं बहिर्न्यसेत् तेषां कलशान परानपि महाप्रतिमासु बहुजल स्नाना पेक्षया प्. ५२ब्) मंडपस्येत्यादि कषायवर्गेणेति | तदनंतरमेव | पूर्वोदिताभिधानवृक्षसमुद्भवेन त्वक् कल्केन | तथा च श्रीमत्पिंगलामते || कषायैः क्षीरवृक्षोत्थैस्त्वक् कलकैस्तदनंतरमिति | अथ लक्षणोद्धारः | विन्यस्येत्यादि | लक्ष्मावभासयेदित्यनेन पूजाभागमेव ब्रह्मरेखा चिह्नितं नवधा भोज्यं तत्रैव लक्षणोपपत्तेः | श्रीमन्नंदिकेश्वरमते तु || स्फुटमेतद्युक्तं | पूजाभागं त्रिधाभाज्येति | श्रीमत्किरणेपि || ऊर्ध्वभागं त्रिधाभंक्त्वेति त्रिभागनवभागकरणात्मक एवात्रभेदः | भागत्रयेत्यादि | उपरितनभागत्रयादधोलंवनमिति लक्षणात्मक रेखा द्वयमवतारणीयं तत्राप्युक्तं लक्षणं स्यात् त्रिभागिकमिति | श्रीमन्नंदिकेश्वमतेपि || द्विभागालक्षणं भवेदिति | लक्षणरेखयोर्मध्यप्रमाणमाह | लिंगायामेत्यादि | अधुनासम भवेदिति | अधुना समग्रस्य लिंगस्य यश्रायामो दैर्घ्यं तत्षोडशभागे कृते सति भागैक त्यागाद् भागाद्वयमानेन लक्ष्मदेहस्येति | लक्षणा कृते विष्कंभो व्यवधानात्मकमंतरमित्यर्थः | इत्थं सर्वलिंगस्य चतुर्विंशतिभागेनार्थापत्न्यालक्षण वैपुल्यं अतोन्यो विष्कंभ ऊनोधिको वा भवति | किं त्व सावुपद्रवो क्षुद्रसिद्धिनिमित्तलक्षणरेखा स्थौल्यमानमाह | रेखेत्यादि | उत्तमोत्तमलिंगेष्टयवपृथुला तत्प्रमाणेन गंभीरा लक्ष्मरेखा अन्योन्येष्वित्युत्त्ममध्यमादिषु कन्यसकन्यसां तेषु त्रैराशिकाद्गणनाप्रकारान् परिकल्पयेत् | नवगुणितानामष्टानां यवानां द्वासप्तति भागसंख्योपलक्षितानामष्टाष्टभागापहारतोष्टावेवभागाः कन्यसकन्यसस्यायांति नवभागोनमेकयवप्रमाणमिति यावत् || तथाचोक्तं श्रीमत्किरणे || ज्येष्ठलिंगस्याया रेखा द्विरष्टावयवा भवेत् | इतरेषां तु ह्रासः स्याद्भागाद्भागं नवक्रमात् || तद्वामप्रतिभागेन भवेद्यद्वान्यथा कुरु यवाष्टकं | यदुक्तं | तन्नवभागविभाजितम् | एकैक ह्रासतो रेखा ज्येष्ठलिंगक्रमादिति | पक्षसूत्रयोरुद्भवस्थानमाह | भागत्रयादित्यादि | नवभ्यो भागेभ्यो भागत्रयादधोये लंबनरेखे स्थिते तेपि पुनर्भागत्रयादधो यं लंबनरेखे स्थिते तेपि पुनर्भागत्रयादधः पक्षसूत्रविनिर्गमः प्. ५३अ) श्रेष्ठोलंवनरेखा वा नित्यर्थः | श्रीमत्पिंगलामतेपि || लंबसूत्रार्धमाना तु पक्षसूत्रावतारणम् | इति | तस्य च सूत्र सूत्रस्य यत् क्वचिदूर्ध्वं क्वचिच्चाधः अर्थव्यपाश्रयात् कामनावशात् प्रथमं पक्षसूत्रविनिर्गमं सामान्यनाभिधाय पुनर्विस्तरणेणाह | पक्षेत्यादि || तस्मिन् पक्ष सूत्रव्यक्ति स्थानात्मके पूजाभागादधः स्थे त्रिभागे पक्षसूत्रे अष्टविभक्ते सत्यधोभागद्वय वर्जं षणां भागानां पक्षसूत्रोत्पादनपूर्वं परिवर्तनम् | तदुक्तं तत्रैव || तदर्धमष्टधा भंक्त्वा षड्भ्रमान् पृष्ठतो युतम् | इति | अत्रैव विकल्पेन लक्षणांतरं नवेत्यादि | तस्मिन् पक्षसूत्रे नवभक्ते सति सप्तभागानां परिग्रहणात् सकलकामदं लक्षणं अत्रैव तृतीयः प्रकारः भागेत्यादि | त्रिभिर्विभाजिते तस्मिन्नेव पक्षक्षेत्रे भागद्वनसार्धेन विवर्जितं वा लक्ष्म अयमर्थः | तस्मिन् पक्षक्षेत्रे त्रिभाजिते अधोभागार्धवर्जं सार्धभागद्वयात् पक्षसूत्राभ्यां विवर्तितं लक्ष्म संततिमीप्सतां रात्र्यकामानां च | तदुक्तं तत्रैव | लंघार्धं गुणवत् कृत्प्रभ्रमाद्भागद्वयस्य तु सार्धस्यै तत् स्मृतं भोगमोक्षार्थं भावितात्मनामिति | पुनस्तत्रैव चतुर्भेदोपलक्षितश्चतुर्थः प्रकारः विकारेत्यादि | तस्मिन्नेव प्रदेशे षोडशभाजिते सति प्राग्वदधोभागद्वयवर्जं तत एवाधः अभृत्यूर्ध्वं क्रमेण शरसंख्यैः पंचभिर्भागैः पत्रसूत्रद्वयमुभाभ्यां पार्श्वाभ्यामवतारणीयं | तथैव भागद्वयवर्जं नवभिर्भागेनन्यत् | भानुभिरिति | द्वादशभिस्तद्वदन्यत् | शक्रैरिति | चतुर्दशभिश्चतुर्थमन्यद्भेदांतरम् | अंशक्रमेण वेति | तिर्ययग्रेखाभिर् ऊर्ध्वरेखाभिश्च तत्क्षेत्रं विभज्य कोष्ठक व्यक्तेः प्रतिकोष्ठकं कर्णगत्यनुसारेण वा पक्षाविति | पक्षसूत्रे अवतारणीये पृष्ठ इत्यादि | तयोर्द्वयोः पक्षसूत्रयो लिंगस्य पृष्ठतो यद्ब्रह्म तत्पर्ययंतं यावत् संगमः कार्ययः सर्वसाधारणः इति | सर्वप्रकाराणां लक्षणानामधोभागद्वयवर्जनन्या येन पक्षसूत्रद्वयं यत्नेन पृष्ठं ब्रह्मसूत्रांतरं नयेत् | उक्त च श्रीमन्नंदिकेश्वरमते || संगमः पक्षसूत्राणां द्विभात्पृष्टतो भवेत् | प्. ५३ब्) ब्रह्मसूत्रागमं स्थानं कार्ययं यत्नाद्विपश्चिते || भोगकामानामन्यदपि लक्षणांतरम् | षष्टेत्यादि अधः | अभृत्यूर्ध्वगणनयायः षष्ठस्तस्मिंल्लक्षणस्य मूर्धनीति यावत् | तत्र यव मुखाकृति वा तल्लक्ष्मभागसिद्धमिति | ष्ष्ठभागांतात् पंचमभागांतिकं यावत् पार्श्वह्रास विधिनेत्यर्थः | तत्रैवेत्यादि | तस्मिन् प्रदेशे अत ऊर्ध्वं च तीक्ष्णाश्रं यवाकारानुकारेण तच्च तथा भूतं भुक्तिनिमित्तं क्रियते पक्षसूत्रवर्जं प्रथमं पक्षसूत्रयुक्तं यदुक्तं तन्मुक्ति निमित्तं तिर्ययगित्यादि | स्तंभादि निमित्तं यत् क्रियते तत् सप्तमभागे तिर्ययगितितिरश्चीनं स्थित्वेत्यानतयवाकारे दर्शितः तथा संस्थानेन हस्तिनेत्रं सप्तमभागे लक्षणपृष्टे पार्श्वद्वयावष्टंभेन कार्ययमित्यर्थः | तस्येत्यादि | तस्य गजाख्यस्य तु तथा रूपस्यैकैवरेखा अधो भवति | ब्रह्मसूत्रन्यायेन लंबसूत्रांतरे पक्षसूत्रे च भवतस्तस्य रेखा भवत्येकेति | श्रुत्या प्रगुणेति | सुस्पष्टा | हरिवारितेति विष्णुभागावधिनत्वधोवस्थितभागांतं यावदित्युक्तं भवति | लोकपाललिंगानां सामान्येन पक्षसूत्रविनिर्गममाह | तथा भागेत्यादि | अन्येषां यत्पक्षसूत्रं क्षेत्रं तदेव पूर्वोभागस्तत्रत्रिभाग दिशामध्यभागे तत्सूत्र विनर्गम इति यावत् | तदैद्रेत्यादि | तदुक्तरूपलक्षणमिंद्रपूजिते लिंगे वज्रसंबंधिना संस्थानेन तत्संस्थानच्युत्पत्त्यनभिधानाच्छब्देना वेदयति | तीक्षणाग्रं तस्यैव शिरोवर्तनावत्कृशं च | मध्यदेशात् किंचिदुत्करितव्यं | शक्त्येत्यादि | शक्तिसंस्थलिंगं संस्थत्वादपि लक्षणं शक्त्याह्वम् | अधविष्कंभश्च्युतमिति | लक्षण विष्कंभोर्धादुभय पार्श्वविषयेच्युरिति ह्रासो यस्यात एवोन्नतमस्तकं तद्भवति | याम्येत्यादि क पूजिते वारुणे पाशस्याग्रं शिरस्तदाभं तस्यापि शिर इत्यर्थः नैशा चरेत्यादि नैनृते असि जिह्वा प्. ५४अ) खड्गप्रांतशिखा सा अग्ने यस्य तत् | सामान्येष्वित्यादि लोकपाललिंगेभ्यो यानि न्यानि तानि सामान्यानि भोक्षनिमित्तं तेषु यथा छत्रादि भेदेन शिरोवर्तना कृता | तेनैवाकारेण लक्षितं लक्षणमपीत्युक्तं भवति | नैतदित्यादि | न लौहेपि चले इति | स्थिर लौहे कर्तव्यमित्यर्थः | न बाणलिंग इति | स्वोलिंगात्मक आकार एव बाणलिंगरोहनदीप्रस्रवणोद्भवानां लक्षणमेतो नित्यसन्निहितत्वेन लक्षणोद्धारा पेक्षापुरस्तादपि वक्षयति | बाणलिंगं पुरासिद्धैः संस्कृतं नित्यसन्निधि | इति | रोह इति स्वयं व्यक्तेनदीप्रस्रवणोद्भव इति न परं नर्मदाप्रवाहादुद्भवो यस्य तस्मिन् यावदन्यतोपि कुतश्चिन्नदीप्रवाहात् | रत्नलिंगानां भास्वरं तेज एव तद्धेतुरित्युक्तं भवति | दृगुन्मीलनमिति | नेत्रविकासः लक्षणमाहात्म्यमाह | लक्ष्मेत्यादि | ज्ञानक्रियात्मकं यत् पारमेशं धामतेजस्तल्लक्ष्मरूपत्वेनात एव तेन विना लिंगेषु कदाचित् सान्निध्यं तदेव विशेषयति | मानोन्मानादितेत्यादि | मानादि रहिते लिंगे यद्युदितं यथा प्रतिपादितं लल्म अस्ति तत्रत्रावश्यमेव देवता सन्निधानमायाति | पूर्ययेत्यादि | मृत्युजिता | एतेन रक्षोघ्नाः सिद्धार्थाः नैराजनं प्रागुक्तमेव अपि च शीतलकमित्यपरा यस्य प्रसिद्धिः यत्र पिष्टकृतः सर्पिस्तथा दीपदूर्वाक्षतकांचिक पिंडादि रुच्यते सुमनः शब्देन यानि कानि चित्पुष्पाणि रत्नकरंबकमिति मुक्तामणि रत्नकनकप्रायंधनं | ततो वेद्यामिति | वेदिमध्ये वालुकारचितस्थालिकायां कुशं युक्ते प्रस्तरणे स्वापार्श्वं शययां परिकल्पयेत् | यदुक्तं श्रीमत्किरणे || वालुकापूरितं पीठे तन्मध्येस्तरणं कुशैः | प्राक्शिरः स्वापयेल्लिंगमिति | आसनमंत्रैः स्वैरिति | आसनमंत्राः स्वक स्वकसंहितादि परिदृष्टाः षट् तत्र तावद्धर्मादीनां चत्वारः अनंतस्य पारमेश्वर्यया अधिष्टातृ शक्तेश्च द्वाविभितैः प्. ५४ब्) समुदायत एवेति | प्रणवेनैवेत्यर्थः गुणाधिका इति | मृण्मयस्य या अन्यागुणाधिका तेन कृष्णचिह्न वर्जितं स्वाकृति चान्वेष्यं | यदुक्तं | यत्राकृतिस्तत्र गुणावसंतीति | शतालब्धमिति | शतानि मंत्रितं शिरः समीपे निद्राकलशं तमसिनेत्यस्त्रेण न्यसेत् | उपाधानं शिरोधारणं | पिधानकमिति | तस्या एवस्थाल्यामुगस्थगनं शिलामिति भेषभाजनं पाषाणात्मकं | पात्रमिति | भोजनकृते तदाधारः | गृहोपस्करणानि यानि चेति स्थाल्यादीन्युक्तानि यानि चाप्यनुक्तान्यपीत्यर्थः | पुष्यप्रतिसरानीति | अछादनपटस्योपरिपूर्वोक्तनयेन ब्रह्मादिभागप्रदर्शकान् पुष्पस्रग्दामादीन् भूतिर्भस्मप्रकारानिति स्वापस्थाने सर्वं यथोक्तं विनिवेद्यतां पश्चात् परिखान्यायेन परिकल्पयेत् लोकेशानस्त्रसंयुक्तानिति | अत्र क्रियांतरा श्रवणात् परिकल्पयेदित्येव क्रिया शिवाज्ञा प्रतिबोधितानिति | शिवसंबंधि यदाज्ञापदं तेन बोधितानेवं भवंतस्तिष्टंत्त्वित्याज्ञापदम् | पाददेशेत्यादि | सगदितः पूर्वमित्यादि | कुंभप्रतिष्ठाविधि समये क्ष्मा वह्नि यजमानार्क जलानिलेत्पादिना स मूर्तिन्यासो गदितः पुनरिह प्रसंगात् कथ्यंते भोगिन इत्येते क्ष्मावह्न्याद्याः स्वक स्वकेश सहिता मूर्तयो भोगार्थिनः प्रतिष्ठायां | अन्यच्च | भोगिन एवानंतादयो मंत्रनायकाः शुद्धे मार्ग इति मायोर्ध्वं | सदाशिवतत्त्वावधिभोगकामानां या प्रतिष्ठा तत्रानंतादयो यवांगुष्ठप्रतिष्ठायामन्येवेत्यसितांगादयो भैरवाख्या मंत्रेश्वरा एव | यथोक्तं श्रीमत्पिंगलामते | भैरवान् क्षुद्रकर्मणि | असितांगो रुरुश्चंडः क्रोध उन्मुत्तकस्तथा कपाली भीषणश्चैव संहारो भैरवेश्वरा इति | भैरवाश्च ते ईश्वराश्च मंत्राणामपीत्यर्थः | क्वचिल्लोकभृतो पिबेति | तत्रैव शुद्धा शुद्धाध्वरोक्वापि स्तोकेशा मूर्तीशा इति | अन्ये तु शुद्धाशुद्धाध्वर इति | सितासितप्रतिष्ठायां शैववेदमंत्रविहितायामिति व्याकुर्वते | तदयुक्तं प्. ५५अ) सर्वस्याः प्रतिष्ठायास्तथारूपत्वात् || धारिकेत्यादि || योषार्चा स्थापना इति | स्त्रीप्रतिमा प्रतिष्ठायां धारिकादीप्तिमत्याद्या अष्टौमूर्त्तिशक्तय एव नृत्तमूर्तीश्वराः | पंचेत्यादि | भोगकामस्य सदाशिव प्रतिष्ठायां क्ष्माद्या आकाशपर्ययंताः पंचमूर्तयोर्मूर्तीशाश्च ब्रह्मविष्ण्वादय आदिशब्दाद्गद्रेश्वर सदाशिवांताः पंचमुमुक्षोस्तु तत्प्रतिष्ठायां निवृत्ति प्रतिष्ठाविद्याशांताशांत्यतीताख्याः पंचमूर्त्तयो यथा संख्यं सद्योजाताख्याः पंचमूर्तीशाः हदाह | सद्योजातादि देवत इति अन्ये तु पंचमूर्त्यात्मके न्यास इति मंगलप्रासादा इत्याहुः | अन्यच्च मुमुक्षोरेव स्त्रीप्रतिमा प्रतिष्ठायां वामाज्येष्ठाक्रियाज्ञानी इच्छा इत्याख्यायासांताः पंच ईश्वरा इति मूर्तशक्त एव क्षुद्रकर्मनिमित्तं यानुग्रा अर्चाः कालसंकर्षिण्याद्यास्तासु महामोहाद्याः पंच यावत् | त्रिखंडादनुवर्मेति | त्रिप्रकारो मंत्रमार्ग तस्मात्त्रिखंडदनुवर्त्मनो मंत्रमंत्रमहेश्वरात्मकं स्वेवाकल्पेयाः संसिद्धा अत एवोक्तं चानंतादयः शुद्धे मार्गे मंडलिनोपि वा | मुसुक्षुर्वा निवृत्त्याद्याः सद्योजातादि देवता इत्यादिना इत्थमनुरूपतयासेश्वरा अष्टावुक्तनयेन मूर्तयोथवा पंचविन्यस्यास्त्रिपदस्पृश इति ब्रह्मभागादिषु त्रिष्वपि पदेषु युगपदेव न तु पिंगलामत इव मूर्तितच्छक्तिर्मूतीशानां क्रमेण ब्रह्मभागापिको न्यासः साधारेणेति प्रणवेन प्रागुक्तयोपत्यात्तस्यापि साधारणत्त्वात् | यदुक्तं तत्रैव || मूर्तिमंत्रास्तथान्येवा एकोवाथाक्षरोव्यय इति तद्व्यापकं महेशानमिति | निर्द्दिष्टानेकप्रकार मूतिवर्गेभ्योन्यतमवर्गाद्या विन्यस्ता सांद्व्यापकं महेशानमित्यत एवताभ्यो महांश्चैशानश्च सर्वतोमुखशक्तिकमिति | स्वस्वाध्वव्याप्या पेक्षया व्याप्यस्यार्थ जातस्य वांच्छक्ति समूहस्त्वेन प्रोतं तदंतरात्मत्वेन प्रकाशमानं अत एव च सर्वाकारं तुष्ट्याधिष्ठेयस्य य आकारः स सर्वस्तस्यात्मनि तम् | श्रसंभिन्नमिति कारणगत्या क्रमेणोर्ध्वं द्वादशांतं यावन्नादोच्चार पूर्वम् पुनः || प्. ५५ब्) शक्त्यंतरप्रवेशादिति यावत् भिन्नं वा स्वाणुनेति स्वमंत्रेणाक्षरसमूहात्मकेन भिन्नमिति समस्तद्व्यस्ततां प्राप्तं वा न्यसेत् | नाडीसंधानमिति | तेषां दिग्विन्यस्तानां मूर्तीशानामन्वंतरत्वेनभिन्नचितां प्रतिष्ठेय नाड्यांतन्नाडियोजनात्मकं येन एकनाडि प्रोतं समस्तमूर्तिमूर्तीश जातमवभासयेत् | अभिन्नचितां तु शिवात्मब्रह्मणां मूर्तीशत्वेनात्रविभागेन विन्यस्तानां पुनरथवयविनोयानाडी तस्यामुक्तप्रकारेण संयोजनमेव | अभिन्नचिन्मूर्तिपानां | जपनिमित्तं दिग्विभागाविन्यासादिनैतदेव प्रकटयति | प्राचितत्पुरुषमित्यादिनां विष्ण्वंबिकेति अंबिकापदमत्र समस्तानां स्त्रीप्रतिमानामुपलक्षणं सहस्रांशुः सूर्ययः सर्वास्वित्यादि कदाचित् प्रत्येकं मूर्तिधरेभयः प्रत्येकं दिश्यथवा सर्वे समूहेनावस्थिताः प्रतिदिशमित्यर्थः | शिव एकादसिकेति | शिवतदंगब्रह्मभेदेन नेत्रस्यांगत्वेपि संख्यात्रिरेकान्न सर्वसंहितां सुतदुद्धारो दृश्यते | तदस्तदनुपादानं नाव्याप्तेः यत्रापि क्वचिदृश्यते | तत्र तस्य पृथग्विनियोगः तथा सार्धशतत्रये श्रीमत्कालोत्तरे हृदादिविन्यासादनंतरमाह नेत्रं दत्त्वा तदा बाह्यो देवदेवः सदाशिव इति विधिपोषणादिति शास्त्रविहितं यद्विधानमेव विधिः पूजाहोमजपात्मकस्तत्पोषणाद्धेतो मूर्तीशानां सान्निध्यं भवत्येव तथेत्यादि | ब्रह्मशब्देन कारणं वाक्तत्त्वं तस्य परापरसूक्ष्मस्थूलचतुष्टयविभागात्मकावस्थानविदः पंडिता एव | तथा च श्रुतिः | चत्वारिवाक् परिमिता पदानि तानि विदुर्ब्राह्मणाये मणीषिण इति | वेदो नैष्टिक इति वेदार्थानुष्ठानपराः न पुनरधिगत शैवार्थत्वेनानपेक्षित वेदाचाराः पठंतो देवतालिंगान्मंत्रानिति देवतालिंगं चिह्नं वश्यत्वेन येषां मंत्राणां तान् पठंतो नत्वौदासीन्यमाश्रिताः संस्कृताः शिवशंबरैरिति | शैवमंत्रैः कृतदेवन्यासादिकाः बहिर्बार्स्त्रा इति | यागस्थानाद्बाह्येस्तावकानणूनिति प्. ५६अ) स्तोत्रमंत्रानिति | विधिवीर्ययप्ररोचनादिति | विधिना शास्त्रीयक्रमानुष्ठानेन शक्त्युतेजनतो विघ्नौघ विनाशाय पर्ययाप्ता भवंतीत्यध्याहारः मूर्तिस्वरूपमाह | नैष्टिका इत्यादि | नैष्टिका भौतिकाश्च मूर्तिपाः कार्ययाः नैष्ठिकानां लक्षणं जतिलिप्रांगाः भौतिकास्तु तद्वर्जिताः | एतेषामेव प्रयोजनांतरम् | स्वमूर्तीत्यादि | स्वस्यामूर्तेर्यद्रूपं त्रिनेत्रचतुर्भुजाद्यात्मकं सामर्थ्ये च दृक्क्रियात्मकं व्याप्तिश्च तत्त्वभुवनाख्ये ध्वनि तथा संधानं नाडीनामेव यत्प्रागुक्तमेतेषु | स्वमूर्त्तिरूपादिषु विषये विनियोगः एकाग्रता येषां ते तदर्थं सावधाना इत्यर्थः | सर्वसंधानयोगकृदिति | एकैकां मूर्त्तिव्यक्तत्त्वेनोक्तानामेतेषां समस्तत्व योगसंधानकारी दैशिकश्रेष्ठः लिंगेत्यादि | वेदीपीठिकैवत् क्रियाख्या पीठविग्रहेति | पूर्वोक्तस्याथ क्रियात्मकं पीठमित्येवमादेरनुवादः रंध्रे गर्भे भगाकारेणोत्कीर्णं लक्षणं यस्या निरोधयेदिति | लिंगवत्तद्वामभागे पृथक् प्रस्तरणे प्रस्वापयेत् ब्रह्मशिलालक्षणं गभेत्यादि | प्रासादगर्भस्य यश्चतुर्थांशस्तन्मानेनेत्यर्थः | श्रीमत्किरणेपि || कोणात्कोणा च तं सूत्रं गर्भमानस्य यद्भवेदिति | श्रीमद्दिव्यामते तु हस्तमात्रस्य विस्ताराद्यवंगुलाधिका तदन्येषां तु लिंगानां क्रमेणैकांगुलाधिकेति | विशेषविश्वाधारामिति | वक्ष्यमाणदीप्तिशक्त्यादि भिर्विश्वाधारकैः शक्त्यंतरैर्निचितां अग्ने तु वक्ष्यत्याधारधर्मिणीमिति | लिंगमूले निवेशयेदिति स्वापायैव पृथक् शययास्तरणे पीठिकावत् समस्तमूर्ति मूर्तीशेति मूर्तिमूर्तीश विन्याशाद्यं तस्या अपि कर्तव्यं तत्त्वात्मकं च यत् स्कंधत्रय मर्मविद्या शिवसंज्ञितं तदन्वितां तथा नवगर्ताः रत्नादि विन्यासस्थनानि यस्यास्तां तथा भूतां न्यसेत् | क्लिप्तामिति चंदनादिनाविलेपनेन चार्चितां समावृतामिति | सद्वस्त्रादिभिः स्वमंत्रैरित्यादि | ये यत्र वाच्यवाचकयोगेन व्यवस्थिताः तैः अत एवाचार्ययविशेषणं विधिशास्त्रविदिति विधिः शास्त्रोक्रं यद्विधानं शास्त्रं च मंत्रप्रयोगादिति | ते उभे यो जानाति स एवैतेषां स्वैर्मंत्रैः प्. ५६ब्) पूजनं निर्वतयति | रत्नादि विन्यासस्थानानि यस्यास्तां रत्नादि हेमतन्मूल इति वचनमुद्देशार्थमेतस्याग्रे विनियोगः | रोचनाय रुचेरिति | दीप्ति संधुक्षणाय ततः प्राग्वदित्यादि | प्राग्वदिति | कुंभप्रतिष्ठायामिवन्यस्तासनेषु तन्मंत्रा नित्यादि आचार्ययो मध्यांशेन समंदिगंशेषु स्थंडिलाद्यधिकरण एवासन विन्यास पूर्वं पूजां करोति | तेनैव क्रमेणाग्नौ मंत्रोपस्थानादिको होमो नवधैवाष्टभिर्मुर्तिधरैः सहित आचरेत् व्यक्तप्राकाम्ययोगवदिति | व्यक्तं प्रकटं यत्प्राकाम्यं व्यापकत्वं तस्य योगस्तादात्म्येनावस्थानं तत्राभिज्ञ इत्यर्थः | एतदुक्तं भवति | मूर्तिपाः स्वव्याप्त्या होमं कुर्वंति दैशिकः सर्वव्याप्त्येति | प्रागप्येतदुक्तं | सर्वसंधानयोगकृद्दैशिकोत्तम इत्यत्र मंत्रसंपात संस्कृतानिति घृतहोमेन स्वेत्यग्नौहेति स्रुवमुखेन विंदुविन्यासात्मकसंस्कारः कृतो येषां शांतमित्यनभिव्यक्तत्वेनांतर्भूत सन्निधानशक्ति | यदाह | तद्वारिसान्निध्यकरणमिति | आत्मादि तत्त्वत्रयव्याप्तिमाह | मायेत्याइ | मायातत्त्वावधिरात्मतत्त्वव्याप्तिः सदाशिवतत्त्वावधिर्विद्यातत्त्वव्याप्तिः शिवतत्त्वावधिस्तु शिवतत्त्वस्येति | लिंगविषयमेतत् पीठविषयं तु वक्ष्यमाणोपपत्त्या तथा पीठं क्रियाव्याप्त्येवमात्मिका भगवतः परिग्रहवर्तिनीया क्रियाशक्तिस्तदधः शिवव्याप्तिरित्यूह्यं ब्रह्मशिलायास्त्वाधारधर्मिणीमित्याधिकाद्वक्ष्यमानवाक्यादनंत मूर्तित्वं भगवदधिष्टातृशक्तिसमधिष्ठिताया यतस्तस्या विश्वाधारणक्षमत्वं तेन तद्रूपिकायास्तस्याः शुद्धविद्यावधिरेव तत्त्वत्रयस्य व्याप्तिर्भाव्या इत्थं ताः सर्वाव्याप्तीः संशोध्यानुक्रमेण ततः सर्वे संभूय यथा स्वं मंत्राज्जपेषुः दर्भस्पृश इति दर्भाग्रेण तं तं भागं स्पृशं तच्च जपेयुरित्यर्थः | तं तं भागमनेन शुद्धं संतंसेश्वरपित्यात्मतत्त्वेश्वरो ब्रह्मा विद्यातत्त्वेश्वरो विष्णुर्विष्ण्वधिष्टाधिका पारमैरीशक्तिः शिवतत्त्वे रुद्राधिष्ठापि केति ज्ञेयं | ईथं सेश्वरं यथा स्वमीश्वरेण सहितं परत्रतमुपस्थाप्येति आत्मतत्त्वादनंतरं परस्मिन् परत्र विद्यातत्त्वे तदात्मतत्त्वमुपस्थाप्यते योजयित्वा प्. ५७अ) सर्व एव मूर्धिधराः तदनंतरं तेनैव विधानेनापरे शोधयेयुः यावच्छिव तत्त्वं इत्थं तत्त्वत्रययोगः मूलाणि?दत्यादि | शांति कुंभादस्त्रमंत्रेणकरणभूतेनाथ वा मूलमंत्रेण प्रोक्षणात्मकं कर्मप्रायश्चित्तार्थं यो विधिस्तत्पर्ययंते जपहोमात्मकं कर्मगुरूत्तमैस्तथैवोकं होमसमश्च जप एव कार्ययः तथेत्यादि | पीठस्यात्मतत्त्वादि भागत्रयं तथेति | लिंगवन्संशोध्यं शिलां तथेति | तेनैव संस्कारेण ब्रह्मशिलामपि | तथा च श्रीमन्मृगेंद्रे लिंगे य उक्तः संस्कारः सोपि कार्ययस्तयोरपीति | आधारधर्मिणीमिति | पूर्वोक्तानुवादः अध्वनो मूर्तीनां यः संदोहः सामर्थ्यं तल्लक्षणं एतदुक्तं भवति | परमेश्वरस्य समस्ताध्व मूर्तिव्यापकलक्षणां शक्तिमेव | तदेवाअह | इछेत्यादि | तत्त्वदर्शिनः परमार्थ विदो ये भगवत एवेछाज्ञानक्रियाशक्ति त्रयरूपां कथयंति | आत्मादि संज्ञया यस्या इति यस्याश्च क्रियाशक्यात्मकोशः आत्मतत्त्वमित्युच्यते ज्ञानशक्यात्मकं विद्यातत्त्वं | इच्छाशक्त्यकं शिवतत्वं एतच्च पीठिकायामपि द्रष्टव्यं शुद्धेत्यादि | लिंगपीठिका ब्रह्मशिलात्मके त्रितयेस्मिंच्छुद्धे सति तदात्मकस्य विधेः पूरणनिमित्तं होमः कर्तव्यः कथमुपविष्टैरितीहनोक्तत्त्वात्मविधिः संहितांतरादपेक्ष्यः यतस्तुदुक्तं | श्रीमत्प्रतिष्ठापारमेश्वरे | पूर्वस्थितेग्निकुंडे तु आग्नेये दक्षिणे तथा | उदङ्मुखैस्तु होतव्यमाचार्ययैर्मूर्तिधारकैः || नैनृते वारुणे कुंडे वायव्युत्तर ईशगे | पूर्वमुखैस्तु होतव्यमाचार्ययैर्मूर्ति धारकैः || मध्यमे चाग्निकुंडे तु यागमंडपसंक्षितेः | उदङ्मुखेन कर्तव्यं होमं तु गुरुणा सदेति || केन मंत्रेण भूर्भुवः पदैरिति | एतैः पदैर्व्यस्तैः पृथक् पृथक् अथवा शक्त्यनुसारेण समस्तैरपि व्याहृति प्रयोगेणेत्यर्थः | तत इत्यादि | श्रोत्राभ्यांस इति कर्णनिकटे मनोवृत्त्येति ज्ञानशक्त्या | यदुक्तं | श्रीमत्पिम्गलामते || दक्षिणश्रवेणे त्विदं निर्वर्तितविधानं च ज्ञानशक्त्या समर्पयेदिति | निरुद्ध्येति | तत्कर्म शिवसमर्पितं कृत्वा स्वभास्वरमिति | पाशुपतास्त्रं तस्यैवाति भास्वरम् || तेन च हूं फडंतेन प्रासादगर्भाद्विघ्नानुत्सादयेत् | कर्णेत्यादि | स्वयंभुवो ब्रह्मणः स्थानं मध्यमं तत्कर्णसंपातात्कोण सूत्रदानात् निश्चित्य ज्ञात्वा द्वाः शब्देन द्वारम् | तस्य षड्विंशत्यधिक शतभागेन तद्ब्रह्मस्थानं प्. ५७ब्) परित्यज्योत्तरस्यांदिशि किंचिन्नात्वा ब्रह्मशिलां न्यसेदित्यर्थः | विन्याससमये च मंत्रप्रयोगापाह | प्रणवमित्यादि | ओं नमो व्यापिनि स्थिरे अचले ध्रुवे ह्रीं लं ह्रीं स्वाहा | वर्ण १८ || इत्येतेनाष्टाक्षरमंत्रेण स्थैर्ययं सर्वगतं स्मरन्निति | परमेश्वरशक्त्यधिष्ठानात्मकं | वर्त्माखिलं तदारूढमिति | प्रतिष्ठेय लिंगपीठात्मकं सावष्टंभं निरोध्यतामिति | ज्ञानशक्त्यावलोक्य | एवं भगवतः परमाशक्तिरसि | तदाज्ञया चेह स्थीयतामिति | अनेनैव क्रमेण | तदुक्तं | प्रतिष्ठासमुच्चये | ततो विज्ञापयेद् देवीमाचार्ययः पूजितांसतीम् | त्वमेव परमाशक्तिस्त्वमेवासनधारिका || शिवाज्ञया देवित्वया स्थातव्यमिव सर्वदेति निरोध्य च वक्ष्यमाणाभिधानानि रत्नादीनि विन्यसेद् वज्रमिति | हेरकं अर्केष्टः सूर्ययकांतः अति नीलं महानीलं पुष्पकः पुष्परागः अब्जरागः पद्मरागः दीप्तिशक्तिः समस्तदीप्त्यधिष्ठायिकाया पारमेश्वरी शक्तिः हेमसुवर्णमुक्तमेव | अरुणं ताम्रश्रयश्वीमरम् वङ्काअ हूं च फुत्तारं रुप्यं आराख्यंरीति | ध्वनिः कांस्यं पत्रगः सीसः | तेषां हेमादीनां अभिधानानि प्राक्शासना लिंगविधानसमये प्रतिपादितानि तत्पुनरिहानुभाषणं तदप्यतेता प्रसिद्धाभिधानानामविस्मरणाय न तु पुनरुक्तत्वादति व्याप्तिर्भाव्या प्राक्त इति | प्रत्यष्टकमष्टा सुदिक्षु प्रत्येकं यद्गर्भं क्षिप्तं तान्येव समस्तानि मध्यगर्त इत्येव कारेण भिन्नक्रमेण व्याख्येयः देहशक्तिमिति | देहात्मकं सामर्थ्यं शिलेति मनः शिलाक्वचिच्च शिलां जनाख्यया सैवं काक्षेतिकासीसंताप्येति हेममाक्षीकं सूताख्यं पारतं अग्निगैरिजं सुवर्णगैरिकं धातूनित्येतान्विजानीयात्सगंधेति | गंधपाषाणाभिधानेन यु तु विशेषेण सह भृंगोभ्रकाख्यः स्मृतिवीर्ययात्मकानिति | स्मृतेर्वीर्ययमनुसंधानात्मिकाया शक्तिस्तत्कराणाकान् तथेति | पूर्वक्रमेणेत्यर्थः | अच्युतक्रांता विष्णुक्रक्रांता चंदनंशोणमिति | रक्तचंदनं शांतवारमिति | सितचंदनम् | शंखिका शंखपुष्पिका | आरोग्यशक्ति प्. ५८अ) संध्यायेत्यारोगिता हेतोः शक्तिरधिष्ठेया एता इत्यनुसंधायेत्यर्थः | ब्रीहीशब्देन धान्यं अंतरेखिलानिति | पूर्वोक्तानुवादः तृप्त्यात्मकानेतानिति | आप्यायनशक्त्यधिष्ठेयान् अत एव विश्वधारणा अनेकशक्त्यधिष्ठानाद्विश्वाधारामेव | यदुक्तं | विश्वाधारामभिध्यायेति | एतानिवलोकेश वाचकैर्मंत्रैः पूर्वप्रतिपादितै न्यसेत् | दिव्यामते तु | प्रणवेन हृन्मंत्रेण वापीति विशेषः | यदुक्तं | यस्य यो विहितो मंत्रो रत्नादीना निवेशने न्यसेत् तत् तेन मंत्रेण अथवा प्रणवेन तु स्वदिगीशेन मंत्रेण हृदये नाथ वा गुरुरिति | मध्यगर्भे तु हैमं कूर्मं तथा पृथ्वीमिति | सौवर्णं कूर्मं तथेति | सौवर्णेव पृथ्वी देवीति तद्विशेषणमिव व्यवहित पदेन वृसौ वृषभः सौवर्णमेव | श्रीमन्मृगेद्रेपि || हेमकूर्ममहीवृषा इत्यत्र हेमशब्दस्त्रयाणामपि विशेषकः श्रीमन्नंदिकेश्वरमते तु कूर्मं ताम्रेण कारयेत् | पृथिवी राजता कार्यया वृषं वै कांचनात्मकमिति भेदाः लक्षणाशंखपुष्पिकैव तत्सहितासहदेवाभिधाना ओषधिः अनंतमनुना चेत्यनंत वाचकमंत्रेणै तन्मध्ये न्यसेत् | रत्नादीनामेतेषामलाभे वैकल्पिको विधिः | वज्रमित्यादि | लोहानामलाभे अग्निदैवतमिति | मृगम् वरा एका एवौषढिः सह देवाख्या शिवशास्त्रे एतानि च सर्वगर्तेष्ठ न्यासं भवे इति | यदुक्तं | श्रीमत्किरणे || न्यसेद्वज्रं यवान् हेम सहांचासंभवो यदि | यदुक्तं | श्रीमत्किरणे || न्यसेद्वज्रं यवान् हेम सहांचासंभवो यदि | ततो रसोत्तमं पारतं पूर्वोक्तस्यैव विधानाय वीजानि च सप्तानीति | उक्तं यद्विधानांतरं तस्मादृते समस्तबीजानि च स्वल्पानि तानि बीजगाढ दोषपरिहारायेत्यर्थः | यदुक्तं तत्रैवः || बीजगाढं न कर्तव्यं गाढे दोषो महान् भवेत् | श्वभ्रं कृत्वा पयवृत्तमिति | लिंगस्य ब्रह्मभागमानेन ब्रह्मशिलायां नवखातोपलक्षितं ख्यातं शुभ्रमुच्यते | उक्तं च प्रतिष्ठा समुच्चये | ब्रह्मभागविशेषस्य प्रमाणेन गभीरकम् | ख्यातं मध्ये तथान्यानि नवखातानि कारयेदिति || वर्मणास्त्रेण संरक्ष्येति | वर्मास्त्राभ्यां संरक्ष्य दिक् पतिभ्यो बलिं क्षिपेत् कृत प्. ५८ब्) न्यास इति | बलिपक्ष्ये पादनंतरं करन्यासादि कृत्वास्त्रमंत्रेण शतसंख्यं होमं कुर्ययात् | एतत्प्रयोजनमाह | शिलासूत्रच्युति छिद्र निषेधायेति ब्रह्मशिलायाः सूत्रच्युति तोय छिद्रं विघ्नप्रभवावकाशस्तन्निवारणायासिनेत्य वा शिवभट्टारकेणैव होमः अस्त्रेण वास्तुपते ब्रह्मणो होमं कृत्वा तदनंतरं गुरुर्वक्ष्यमाणकं कर्मारभेत मुहूर्ते सद्गुण इति | मुहूर्तः पंअचदशांशो दिवसस्य रात्रेश्च तेन शिवादयस्त्रिशन्मुहूर्ताः अहोरात्रमध्ये भवंति शिवभुजगमित्रपितृवसुजलविश्वविरिंच पंकजप्रभवाः इंद्राग्नीं इनिशाचर वरुणार्पमयोन पश्चाह्नि भद्राजाहि बुध्नाः पूषादस्रांतकाग्निधातारः इद्वंदिति गुरुहरिरवित्वष्टानिलसंज्ञकाः क्षणाः रात्रौ अह्रः पंचदशांशो रात्रेश्चैवं मुहूर्त इति संज्ञे तु एते तु यजुर्वेदानुवाक पठित नक्षत्र देवता संज्ञयैव निबद्धाः अग्निर्देवता कृत्रिकानक्षत्रमित्यादिकयां तेषां मध्यायः संगुणः किं च यजमानानुकूलेंदाविति | आनुकूलमिंदोर्यथा तत्पूर्वं प्रतिपादितं तथा संतारत्वं निरुपद्रवे चेंदाविति प्रकृतं इंद्रोरुपग्रहः पापग्रहयोगः तद्रहितं ध्रुवमार्दवेति | ध्रुवमार्दव नक्षत्रस्वरूपात्मके भोगमोक्ष प्रतिष्ठाविषयमेतत् उच्चाटन कर्मणि चतुरात्मके विप्रकार्यय निमित्तं क्षिप्रात्मके स्थिरे पिवेति ध्रुवविषय एवैषु पर्ययायः उग्रकर्मनिमित्तं मघायुक्ते दारुणनिमित्तं त्वाद्रामूलयोरन्यंतरेण संयुक्त इति यावत् स्वकामानुगते पिबेति प्राग्यथोक्तं दारुणोचरक्षिप्रध्रुवसाधारणात्मके तदात्मकार्थसंसिद्ध्ये इति नुदङ्मार्गस्थिते सूर्यय इति भोगाद्यभिलाषविषय एव नियमः तनुमुमुक्षुविषयो यतस्तस्य सर्वदा सौकार्यया | उक्तं च प्रतिष्ठा समुच्चये | यत्र वा तत्र वा कालै प्रतिष्ठा क्रियते विभोः | मुक्तये नियमो नास्ति सिद्ध्यै तु सनिगद्यते | इति | सिद्ध्यर्थिनस्तूत्तरायणं विनान्यदा | यदुक्तं तत्रैव | उत्तरे ह्यवने लिंगं स्थापितं पूज्यते सदा | सुभिक्षं क्षेममारोग्यं देहिनां कुनते सदेति || निरुत्यात इति | उल्काभूकंप दिग्दाहादि वर्जिते | बलीयसीति प्. ५९अ) बलीयस्त्वं राशेर्यथा भवति | तदपि पूर्वं प्रतिपादितमधिपयुतो दृष्टो वेत्यादिना भौमादिषु सुहृत्स्वर्क्ष त्रिकोणोच्च स्थितेष्विति | मुहूर्तविशेषणमिदं मुहूर्तस्य भौमादयः पापाः सुहृत्स्थाननिवासिनो यदि भवंति तेषां च मित्रामित्रभावो वराहमिहिरोक्त्यैवाधिगंतव्यो यदाह बृहज्वातके शत्रूमंदसितौ समश्च शशिजोमित्राणि शेषारवेस्तीक्ष्णाअंशुर्हिमश्मिजाश्च सुहृदो शेषाः समाः शीतगोः जीवेदूष्णकराः कुजस्य सुहृदोज्ञोरिः सितार्की समौमित्रे सूर्ययसितौ बुधस्य हिमगुः समाश्चापरे सूरैः सौम्यसितावरी रविसुतो मध्यः परेत्वन्यथा | सौम्याकी सुहृदौ समः सुरगुरुः सौरस्य चान्येरयः इति | अत्र भौमादिष्विति पापग्रहसंग्रहायान्यथा सामान्येन ग्रहसंग्रहो विवक्षितो यदि भवेत् तदा सूर्ययादिष्विति वचनं भवेत् | अथ सूर्यस्यापि पापत्वं तत्र सर्वत्र केवलं वराहमिहिरमत एव | इत्थं बहुवचनानुपत्तिरिति चेत् नक्षीणेंदुपापसंयुत पापापेक्षयातदुपपत्तेः | यदाहुः | क्षीणैद्वर्कयमाराः पापास्तैः संयुतः सौम्य इति एवमप्येतेषु स्व ऋक्षस्थितेषु वा ऋक्षशब्देनात्र राशिर्विवक्षितः | यदाहुः | राशिक्षेत्र गृहक्षंभानि भुवनं चैकाक्त संप्रत्यय एव तेन स्वराशिस्थ इति यावत् | ग्रहाणां च राशयो यथास्वं पूर्वमभिहिताः अथवा तेष्वेव त्रिकोण स्थितेषु त्रिकोणानि च अर्कस्य सिंहः चंद्रस्य वृषः भौमस्य मेषः बुधस्य कन्या गुरोर्धन्वी शुक्रस्य तुला शनैश्चरस्य कुंभः | यदुक्तं | सूक्ष्मजातके | अर्कादीनां त्रिकोणसंज्ञानि सिंहवृषाजप्रमदाः कार्मुकभृत्तौलि कुंभधरा इति | अथोच्च स्थितेषु प्रत्येकं यदुच्च स्थानं तत्र सूर्यस्य मेषराशिरुच्चस्थानं चंद्रस्य वृषः यस्त्रिकोणस्तस्य पूर्वमुक्तः भौमस्य मकरः बुधस्य कन्याया तस्यैव त्रिकोणमुक्तः बृहस्प्तेः कर्किः शुक्रस्य मिना शनैश्चरस्य तुला | यदुक्तं तत्रैव | अजवृषमृगांगनाः कर्किमीनवणिजांशकेष्विनाद्युचा इति | एतेषु भौमादिषु पापेषूद्दिष्टस्थानानामन्यतमस्थानावस्थितेषु लग्नादेः शोभनत्वमित्युक्तं भवति | हृदोत्तिष्ठेति प्. ५९ब्) चोत्थाप्येति हृन्मंत्रेणोत्तिष्ठ भगवन्नित्यामंत्रणविज्ञप्तिकयोत्थाप्याथ ऋग्वेद पठिते नोत्तिष्ट ब्रह्मणस्पते | देवेत्यादिना समुत्थाप्यार्घयित्वा च तत्रैव तदनु ततः प्रदेशाच्चालयेत् अस्पृष्ट्वा चोर्ध्वशाखकमित्यत एव प्रतिष्ठातोनंतरं द्वार निर्वर्तननिपुणाः केचिदिच्छंति | अन्यथा स्पृष्ट्वाध ऊर्ध्वशाखकः प्रवेशः क्लेशनिष्पाद्यो भवति | उक्तं च प्रतिष्ठासमुच्चये | द्वारबंधं विना लिंग द्वारेणैव प्रवेशयेत् | द्वारबंधे कृते लिंगमाकाशेन प्रवेशयेदिति || श्वभ्रं ब्रह्मशिलातः पूर्वोदितः तस्य तथा द्वारस्यानंतरावस्थापितें भद्रपीठे तावत् तत्क्षणं निवेशयेत् | स्थिरो भवेत्यथेति | प्रासादप्रवेशसमय एवोपश्रुति संपादनाय स्थिरो भवेति च शब्दमुत्पाद्यानंतरं श्वभ्रमस्त्रेणोद्घाट्य रेचयेदिति | संस्करांतर प्रदर्शनं | यंत्रेण विधृतमिति धारणार्थं दृढकाष्ठादि विन्यासे प्रयत्नविशेषो यंत्रमिति | प्रसिद्दिः तेन विधृतैस्तथा लंबनमानैः सूत्रैः सम्यक् प्रगुणीकृतं सुस्पष्टतां नीतं गुरुर्मूर्तिपसहितस्तं भगवतं श्वभ्रमवतारयेत् कथमिति | तदथमाह | शक्तीत्यादि | शक्तिर्यापीठ ब्रह्मशिलात्मकेन रूपद्वयेनाव स्थिता ततस्तावत् प्रथममाधारभूताया ब्रह्मशिलाख्यायाः क्रियाशक्तेः शक्तिमतश्च लिंगाकारस्य वीधशक्त्यात्मनस्तदानीं संयोगजमभेदं नानारूपावस्थिति प्रविलयलक्षणं ध्यापत्यतो धर्मधर्मिभावस्तयोः धर्मधर्मिणो भगवतः शक्तिः साधर्म एवतयोः सहावस्थानात्मकमिति | यावत् | अत एव प्रतिष्ठा प्रतिष्ठानं शिवशक्त्योराति मुख्येनावस्थितिः लयां तं मंत्रमुच्चार्ययेति बिंद्वंत क्षोभपूर्वं नादोच्चारणपथा प्राणशक्तिप्रेरण सामर्थ्य पर्ययंतमित्यर्थः | एतेन सृष्टिमार्गेण विन्यस्येदवतारयेत् | पीठेत्यादि | ततस्तयोर्ब्रह्मशिलालिंगयोः संयोगात्मकपीठबंधं कृत्वा देवीं पीठीका विग्रहां क्रियाख्यामुद्बोधयेत् प्रतिबोधयेत् तां च लिंगवत्सूत्रैरेव प्रगुणीकृत्य क्रियामंत्रेण चतुर्थ्यं तेन ओं क्रियाशक्त्यै पीठिकाख्यायै नम प्. ६०अ) इत्येवमात्मकेन सन्निवेशये तस्मिन् बोधशक्त्यात्मक इति ज्ञानशक्त्यात्मके लिंगे यत्क्रियाशक्ति समर्पणमिति सन्निवेशनं प्रतिष्ठायेनेति | येनानेना संयोगेन कृतेन सता प्रतिष्ठा भवति | दृक्क्रियात्मकं तत्त्वं संपृक्तं भवतीत्यर्थः | प्राक् पीठिकालक्षणारंभेप्येतदावेदितमथ क्रियात्मकं पीठं बोधशक्त्यात्मनः प्रभोरधिष्ठेयं तयोर्योगस्तत्तत्वं दृक्क्रियात्मकमित्यादिना सा न चेदित्यादि सा पीठिकाय दिनप्रगुणा तत्तदाचालनादिना प्रगुणीकार्यया चालने च तस्याहोमं यथा कुर्याच्छिवेनाथ वास्त्रेण ततः पीठलिंगयोः संधिपूरणार्थं वज्रलेपविधानाह | सर्जेत्यादि | सर्जाख्यया कुंदूरुवृक्ष निर्यासोलारासर्जर सा पराभिधानः लोहमलः कोडाख्यः चैमरोद्भवसमये यस्योत्पत्तिः शंखचूर्णं शंखादे च चूर्णितात् एतैर्विशेष पाचितैश्च तैलेनयाराभिधानेन वृक्षनिर्ययांसेन तस्यैव सलतैलत्वेन क्वचित्प्रसिद्धेः | श्रीमत्पिंगलामतेपि || श्वभ्रसंधी ततः पूर्यसर्जलोहमलादिभिः | लारातैलविपक्वैस्तु शंखचूर्णसमन्वितैरिति || तत इत्यादि पूर्वं लिंगे पीठे ब्रह्मशिलायां च प्रत्येकं तत्त्वत्रय न्यासः कृतः | इदानीमैक्ये त्रयाणां वक्ष्यमाण चदेकैक त्रिस्कंधं वर्माधानं तदेव विशेषयति पीठेत्यादि | ततस्तस्मादेव ध्वनः ये पीठमंत्रा विद्याविद्येशास्त एव पीठमंत्रत्वेन यतो व्यपदिश्यते तान्पीठे विद्यातत्त्वेन सममित्यर्थः मूर्तिः संहितातर दृष्टोष्टात्रिंशत्कला कलितः कायस्तदादीन् मूर्तिमंत्रान् ब्रह्मात्मकान् परंतत्त्वमिति | तस्यामूर्तेर्जीववत्सारभूतं यतत्सु शुद्धज्ञानकिर्यात्मकं तस्य चांगानि रूपकोपदेशाय शिरः शिखादयः अचयवाः शक्ता एव चिच्छक्तिं चेति सकलोपाधि विरहान्निस्तरंग तया शांतविज्ञानात्मिकां शिवत्तत्त्वेन समम् क्रियामध इति पीठाधो गणेशलोकेशादीन् | ब्रह्मशिलायामात्मतत्त्वेन सममित्यं त्रिस्कंधं वर्मभागत्रये ब्रह्मलिलापीठ लिंगात्मके विन्यस्तं भवति | गणेश लोकेशानां च क्रियाशक्त्यधिष्ठेयत्वमेव प्. ६०ब्) प्रतिष्ठा समुच्चयेप्येवमेव विन्यासः | तदुक्तं तत्र | लिंगमूरर्धनि देवेशमंगैर्ब्रह्मभिरन्वितं | तदधः शक्तिसंलीनान् पूजयेच्चक्र वर्तिनः || गणेशलोकपालांश्च लिंअगमूलेप्रपूजयेदिति | निरोध्य विधिवदिति | यथा शास्त्रपरिदृष्ठयांगुष्ठगर्भया निरोधमुद्रया निरोध्येति आकल्पमनुग्रह कृत्वेन भगवन्सन्निधानं क्रियतामिति | विज्ञप्तिं विधायेति यावत् उक्तं च प्रतिष्ठा समुच्चये | ततो विज्ञापयेत् प्रभुं | मंत्रमंत्रेशसंयुक्तो लोकानुग्रहकाम्यया | अत्र लिंगे महादेव सन्निधी भव सर्वदा || यावच्चंद्रश्च सूर्यश्च यावतिष्ठति मेदिनी | तावत्त्वयात्र देवेश स्थातव्यं स्वेच्छया विभो || ततो निरोधनं कुर्ययादिति | धूपमर्घं वषट् कृतमिति | वास्तुदेवतापूजाप्रकरणोक्तस्य विधेरनुवादः प्रणिपत्यक्षमापयेदिति | यथोक्तं प्रतिष्ठासमुच्चय एव | ततो मूर्तिधरैः सार्धं कृत्वा चैव प्रदक्षिणं | प्रणिपत्य यथा न्यायमिदं विज्ञापयेच्छिवम् || ज्ञानतोज्ञानतो वापि शास्त्रोक्तं न कृतं च यत् | तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादान् महेश्वरेति || श्रीमत्पराख्येपि || ततो विज्ञापयेत् प्रभुमिति | भवंतु सिद्धयः सर्वाः साधकस्य तवेच्छया | याः काश्चिदीतयो लोके नाशं गच्छंतुताः प्रभोः || स्वास्थ्यं भवतु लोकस्य नृपति श्रीरनुत्तमा | एवं विज्ञप्य देवेशं क्षम्यतामिति | वै वदेत् इति | एवमित्यादि | पूजाहोमजपादि सर्वं प्रथमदिन एव चतुर्ष्वपि दिनेषु विधेयम् | उक्तं च श्रीमत्पिंगलामते || वस्त्रधूपान्विशेषेण गंधपुष्पविलेपनं | पूजानैवेद्यदानं च यावद्दिन चतुष्टयम् || इति चंडीशस्य यागादि न कृतं तावन्नैवेद्यादि कस्य भक्षणाद्वावपि न दोषः चतुर्थेत्यादि | विधानविदिति | पठक्रमानपेक्षयार्थेन क्रमेण अनुष्ठानात्मकं विधानं योजानाति नैवेद्यापनयनपूर्वं चतुर्थं दिवसे स्नानादि कार्ययं | अयमत्रानुष्ठानक्रमः साध्याणुं स्वं विसर्ज्य चेति | साधकाभिप्रायेणेदं यतो यः प्रतिष्ठितो मंत्रः स साधकस्यैव साध्यः तं विशिष्ठतर सन्निधानद्वारेण क्षणमेकं चंडेशपूजना चधि विसर्ज्य न तु विशिष्ट सन्निधानद्वारेण तस्या प्रतिष्ठित त्वात् ज्ञानशक्तिपद इति | लिंगमूर्ता चेवमत्रैरिति संहितांत दृष्टैश्चंडेश प्. ६१अ) वाचकैश्च हुं फडंतैश्च शिवभट्टारकस्यैव अंगात्मक शिवशक्त्यंतरं चंडेश्वरं प्राग्वदिति | यथैव प्रथमदिने पूजां कृत्वा तद्वदेवतं तदा यजेत् | उक्तं च श्रीमत्पिंगलामते || नैवेद्यापनयं कृत्वा चिद्विशेषं विसर्ज्य च | न्यस्य चंडेश्वरं मूर्तौ क्रोधं दैवाद्विनिर्गतम् || यजेदिति | संहितांतरे पराख्येपि | चंडं तत्कमलेभ्यर्च्यं पूर्ववन्नामशंभरैरिति | जप्त्वावेद्येति | तन्मंत्रैरेव यथाशक्ति जपं कृत्वा तमाप्या वेद्य यथोक्तं | रुरु संहितायां || गुह्याति गुह्यगोप्तात्वं गृहाणास्मत्कृतं | जपम् सिद्ध्यै भवतु मे येन त्वत् प्रासादात्त्वयि स्थितमित्येतेन विधिना ततस्तधानं कणिकं कणमिति | सर्पकटककेयूरादि भूषितम् टंकोद्यतकरमिति | परशुव्यापृतहस्तं प्राणयथात्मस्थमिति | पूरकरेचक प्रसरसंस्थं मंत्रं कृत्वेत्यर्थः | आधारशक्त्यात्मके कमले अधिकरणभूते ऐशान्यांदिशि निवेशयेत् | श्रीमत्पिंगलामतेपि || तन्निवेशयसमुत्कील्य लिंगादीशे निवेशयेत् | प्रागाधारा तु या शक्तिः सा चलाचलरूपिणी || तदासनं प्रकल्प्यादौ तत्र चंडं निवेशयेदिति | समयादि नियामकमित्यादि | ग्रहणान्निर्माल्यस्य लंघण भक्षणाद्यपि नियमयतीत्यर्थः | अत एव विशेष इति | शिवारूढा नैवेद्य भक्षणे लंघने स्रजः | दाने वा दीक्षितस्यापि निरोधकमवारितमेव || कृत्वा निरोधकमित्यर्थः | उक्तं च श्रीमत्पराख्ये || चंडरूपः स्वयं रुद्रो बध्नाति समयक्षतानिति | प्रागत एवोद्दिष्टं एवं दिनानि चत्वारि नार्चारूढस्य वस्तु न इत्यादिना तत इत्यादि ततश्चंडेशपूजनादनंतरं तस्य स्नानादि कृत्वा साधारविधा विधाविति | सकलजगदनुग्रहकृत्वेन प्रतिष्ठितं यद्भगवतो रूपं तत्प्रत्यहमभिमत फलाय पूजयेत् | अथ चललिंगप्रतिष्ठामाह | चलेत्यादि | यच्चललिंगं पृथक् पीठं तत्संस्कृतमिति स्थिरं लिंगप्रतिष्ठासंस्कारविधिनैव यद्वक्ष्यति | पूर्ववच्च कृतस्नानं न्यस्ताणुमभिवासितमिति || अत्र वक्ष्यमाणवचन निशेधतश्चंडकल्पनावर्जमन्यत्सर्वमेवपेक्षणीयं | यदाह | पृथक्पीठ लिंगप्रतिष्ठाविधानसमये प्राग्वन्मंत्राध्व विन्यासः कार्ययश्चंडेश्वरा दृते इति संस्कृते न्यसेदिति पीठ इत्यर्थः | अथ पृथक्पीठवि षयमेतत् अभेदेन संस्कृतमिति अनादि संयुक्तत्वात् पूर्णेत्यादि | प्रतिष्ठादि वसात् प्रभृति पूर्णाहुत्यं तं भोगाय प्. ६१ब्) देशांतरे पूजितो यः स्वमंत्रस्तं तदानिं विसर्ज्य आचार्यय आरोपितं प्रतिष्ठितं यजेदित्यर्थः | अभिन्नेत्यादि शैलम पृथक् पीठं यच्चललिंगं तन्मनः शिवमित्याहुः | तदभिधानायोपपत्तिः मन इत्येषयो धातुरिति | मनु अवबोधन इति यो धातुरसौ विज्ञानवाचको यतः तेन तल्लिंगं वक्ष्यमाणोपपत्त्या मुमुक्षुणा पुत्रकेनैव बोधमात्र एव चित्त स्थैर्यय निमित्तमदनीयं नान्येनाचार्ययादिना | यत आह | न तत्रास्ति विशेषाध्व क्रियान्यासोपि वै द्विजाः | तत्रार्चणीयं गुरुणा सिद्ध्यर्थं साधकेनवेति | विशेषाध्व क्रियान्यासश्च प्रथमं यथा प्रतिष्ठायां व्यस्तत्वेन दर्शितस्तथा तत्र न कार्ययः किं तु समस्ताध्व व्यापकत्वेन ज्ञानशक्त्यात्मकमेदित्युक्तं भवति | रौद्रमित्यादि | इदमन्यत् क्षुद्रसिद्ध्यर्थं यतोतो रौद्रं नवभासंख्यया शिरः प्रभृति भागत्रयादधोभागे यवकमेव चिह्नो यस्य तथा पीठाधिष्टानलांशकमिति | पीठिकायामाविष्टौतर्भूतोनलांशकस्त्रिभागो यस्य तत् एवं च भगद्वयेनार्चापीठे च भाग इत्यर्थैः | प्रागप्यस्य लोकपाललिंगविधानसमये लक्षणमुद्दिष्टं रौद्रं रौद्रेषु कृत्येषु यवांकंव्यंकमेव चाभागत्रयेण तस्यार्चा त्रिभागः पिंडिकावट इत्यादिना लक्षणोद्धारसमये च षष्टियवाननंवास्यादित्यभिधाय तत्रैव वायवाकारं पक्षद्वय विवर्जितमित्यर्थः | सुरालय इति प्रासादे हितकामैस्तत्तथा विधगृहेपि न स्थाप्यम् | अत्रावकाशक इति निरवकाशे श्मशाने निरावर्ण इत्यर्थः | बाणलिंगविषयं प्रतिष्ठाया विहितसंस्काराकरणे हेतुमाह | ब्राणेत्यादि | पूर्वमेव यतस्तत्सिद्धैस्त्रिपुरवासिजनांतरैः संस्कृतमधो नित्य सन्निधानेन नित्यसंस्कारावक्ष्यमाणास्तस्य क्रियंते न वा क्रियंते यत आह | तत्राध्व मूर्तिमूर्तीश कल्पना क्रियते नवेति | तदुद्भवस्थानान्याह | प्रसिद्धमित्यादि | पुण्यशैलाः श्रीपर्वतपारियात्रादयः सिद्धक्षेत्राणि च पुष्करकेदारकर्खलप्रभृतीनि | पुण्यनद्यश्च गंगानर्मदासरस्वती देवीकाद्याः पूर्वमप्युक्ताः | एवमेतेषु प्रदेशेषूद्भवो यस्य यतस्तत्र तत्पूर्वं त्रिपुरदाहसमये तद्वासिजनार्चित लिंगनिपाताः शिवबाणसंजाता इति पौराणिकाः व तु नर्मदात इति लोका प्. ६२अ) यथा तत्र बाणेन पार्थिवलिंगानां प्रराहितत्त्वा तान्येवैतानि तेषां पार्थिवत्त्वे नदिजलांतः प्रवाहितत्त्वेन तत्काल एव विशरणसंभावनया कलांतर स्थित्यनुप्ततेः केवलं प्रसिद्धिमात्रमेवै तत् नोत्किरेत्तत्र लक्षणमिति | न वाणलिंगे रोह इत्येतस्यानुवादः स्वसंस्थानं विसंस्थानमिति | सर्वमेव लिंगाकारं विसंस्थानमित्येक देश एव लिंगाकारेणान्यत्र घटितापाषाणा कृतीत्यर्थः | तत्तथा विधमपि सर्वप्रासादलिंगगं कुर्ययादेतदपि बाणलिंगे स्वयं व्यक्ते सर्वपीठगृहाश्रय इत्येतस्यानुभाषणम् विकल्पाहं न जात्वे तदपि भोगार्थमेतत् स्यान्मोक्षार्थं वेति | एवं विकल्पयोग्यं च तन्न कदाचिद्यतः सर्वकामार्थसाधकं पूर्वानुगृहीतत्वत एव होमोपि तावत् संख्य उक्तः सभूतिकामैस्तावत् कार्ययो न वा कार्ययः चंडकल्पना तु न क्रियत एव मंत्रसंकरो जातु सामान्येतर योगत इत्येतत्साध्यपूर्वनिविष्टाणु संकरोपि न जातु चिदित्यस्यानुभाषणम् पुष्पेत्यादि | यः प्रागुक्तः स्थंडिले महेशाराधनोपायस्तदर्थमेतत्पुष्पादि कल्पिते पीठ इति तस्मिन् स्थंडिले शिवयागार्थं पुष्पादिनाकल्पिते पीठ इत्याधारे आदिग्रहणाद्गंधैः सिद्धार्थकैवारजोभिः कल्पिते मन इत्यादि | अथवेति पक्षांतरे अथवा तस्मिन्नेव स्थंडिले पुष्पादेर संभवान्मनसा कल्पिते आधारेसु विशुद्धायां भूमावित्यर्थः | किं च स्वमूर्तीत्यादि | मनोयागविधिना एतेषां पुष्पादि कल्पितानां स्वमूर्तौ च पूजितानामन्यतमेतात्कालिंगरूद्दिश्चल इत्यर्थो यागावधिमंत्रावाहन विसर्जनं न तु स्थिर प्रतिष्ठितानामिव विशेष सन्निधानमात्र विसर्जनमप्येतदुक्तं भवति | सिद्धिरभिप्रेतस्य शिवयागस्य निष्पतिः बाणेछिद्र विवर्जित इति बाणलिंगं पुरासिद्धैः संस्कृतं नित्यसन्निधीति उत्कर्षवचनतः पूर्वोदितान्सछिद्रेपि सिद्धिरित्ये तदा शंकानिरामायैतदित्यर्थः | चलमित्यादि | न केवलं छिद्रयुक्ते बाणेन सिद्धिर्यावदन्यदपि चलंधस्तमित्युपघातादि नात्रस्तं तत्र क्वचित् स्थिरतामिति | पुज्यतां न ये यद्वा कृति वैपुल्येन सन्निधानाद्य संभवात् | नाचेंत्यादि | भद्रपीठ पुष्प वस्त्राद्याधारे तदर्चनीयं न तु भूमौ इत्युक्तं भवति | श्रीमत्पिंगलामतेपि || प्रागासनम् प्रतिष्ठाप्य पुष्पपत्रैर्यथाहितं | प्. ६२ब्) तस्योपरि यजेल्लिंगं न तु भूमौ कदाचन || अभावाद्वाथ वस्त्रोर्ध्वे स्थितं वाथ करंडके | इति | साध्येत्यादि | सिद्धमंत्रसेवितम् न सर्वेषां दृष्टिपथं नयेत् | सामान्यमिति | चंडीशयागं विना प्रतिमामिव यो विधिरुक्तः स सर्व एव पीठिका स्थापनमन्यथानुपपत्त्या रत्नाद्यस्य च धातु लोहौषधि बीजां तस्य पंचकस्य तथा कूर्मं पद्म वृष पृथिव्यभिधानस्य चतुष्टयस्य तदूर्ध्वमिति | पीठिका विन्यासादूर्ध्वं पीठिकागर्भ एव न्यासः ब्रह्मपीठ इति | ब्रह्मशिलाययं नदीत्यादि | यदि कदाचिल्लिंगार्चन श्रद्धालुभिर्नदी प्रवाहाल्लिंगाकाराणि अश्मबिंबानि प्रतिष्ठाप्यंते तत्तेषां पृथक्पीठ चललिंगानां प्रतिष्ठासमये यो विधिरुक्तस्ते चैव सान्निध्यार्थं पीठे स्थानमिति प्रतिष्ठासु मंत्रैरित्यादि | स्वाध्व पंकज इति यस्य यावत्य ध्वनिव्याप्तिस्तावदेवात्मविद्याशिवात्मकस्त्रिखंडो धामन पंकजमधिष्ठेय त्वात् तथातावत्येवाध्वनियानि तत्त्वानि ये यथामूर्तीशाः | यथोक्तं | शुद्धाशुद्धाध्वरेत्येवा क्वचिल्लोक भृतोपि वा | तैः संयुक्तं स्थापनं साध्येत्यादि | साध्यानामजनलोकनिवासिनो देवविशेषाः सिद्धाश्च ज्ञानयोगाभ्यासात् प्राप्ताणिमाद्याः देवशया एव अहिमुख्याः प्रतिमालक्षणेनाभ्यधोभुजगाकाराः फणालंकृतमस्तकाः | नागः शेषादय इत्येतेन यथोद्दिष्टाः ऋषीणामित्येवं महर्षयोन्येपि शिवाधिष्ठानतां गता इत्येतेन तत्रैवोद्दिष्टाः तेषामथवा उदासीनाः सोपवीताः कमंडल्वसूत्रिणः सप्तर्षय इत्येतेन यन्नुद्दिष्टास्तेषां सरितश्च गंगायमुनाद्याः स्रवंत्यश्च जलेन जलस्थिताः इत्येतेन यथोद्दिष्टास्तासां एतेषां पिशाचांतानां पृथिवीतत्त्वान्न परमध्वनि व्याप्तिरित्यर्थः | परेषां भुवनेशानामित्ये तत् स्वमंत्रैरन्यदेवानां स्थापनमेतस्यानुभाषणं पटपतिष्ठामाह | यथोक्तेत्यादि | प्रतिपादितमाणाविरहित रूपयुक्तां पटे स्थितां पूजयेत् | संस्कृतां विधिवन्मंत्रैरिति | प्रतिष्ठा समयेनोक्तेन प्. ६३अ) विधिना मंत्रैश्च कारणभूतैराचार्ययेण कर्त्रा संस्कृतामिति मेत्रविन्यासादिना सन्निधिं प्रापितां तथा विधां पूजयेत् तदभीप्सितं प्राप्नोति पूजनं तु तत्र धूपमात्रमदोषाय पुष्पदिभिरादि ग्रहणात् स्नानार्घ विलेपनानि तैश्च रूपविनाशभयाद्भू स्थित आदशं प्रतिबिंभे पूजाकार्यया न विग्रहे | उक्तं च प्रतिष्ठासमुच्चये || लेपचित्र गतानां च धारणाभिर्विशोधनं | स्नानादिमानसं कार्ययं तथा रत्नशिलादिकं || नेत्रोन्मीलनमत्रापि आसनादि विधिः पुनः | निरंवु कुसुमैः कार्ययो यथाचित्रं न नश्यति || इति | द्वारप्रतिष्ठामाह | द्वारेत्यादि | शाखाद्वयमूर्ध्वाध्व उदुंभरे च एवं चत्वारि यानि द्वारांगानि तानि कषाय हरीतक्यामलकशकलानितैरादि ग्रहणान् मृद्भस्म पंचगव्यैरन्यैश्वमुख्यप्रतिष्ठा स्नानोपयोगिभिः | प्लुतानीति स्नपितानि वासोभिराछाद्यशयने निक्षिप्यमार्ग इति तत्त्वत्रयाख्ये अनुरूपान्मूर्तिमंत्रान् विनिवेशयेत् | यतदुक्तं | ते च नंतादयः शुद्धे मार्गे मंडलिनोपी वा शुद्धाशुद्धाध्वरेन्येवा क्वचिल्लोक भृते पिबेति | तत आत्मतत्त्वादि त्रये प्रतिभागं यथाशक्तिहोमं कृत्वा वास्तोष्पतिं यजेत् | अध इति द्वारावयवस्याधः चतुर्थस्योर्ध्वोदुंभराख्यस्याधोद्रव्य प्रक्षेपस्थाना संभवात् | अनंतचिता अनंतवाचकमंत्रेण रत्नादि पंचकं धातुरत्नौषधी लोहधीजात्मकं प्रागुक्तं क्रांताविष्णुक्रांता वृत्त्रिः? ऋद्धाख्ये औषधी प्रागुक्ते मोहनवृहत्पत्रिकाख्यया बहिर्देशेषु प्रसिद्धा गोमृदिति | वृषभशृंग समुद्भूता मृत्तिकादरदाख्यया शुंगुरुकेती हयस्य प्रसिद्धिः देषांतरेषु हिंगुलुकाख्यया रोगेंद्रः कुष्टः औरग्वध औषधविशेषः लक्षणा कुमारी औषधिरेव समुद्धरेदिति | ततः शययास्थानात् प्रतिष्ठास्थानमानयेत् | ततः प्रणवेकमल इति प्रणवात्मक मात्रा त्रयाधिष्ठित तत्त्वत्रयरूपिणि कमले स विद्वानाचार्ययस्तद्विन्यसेत् | एतदेवाह | मायातत्त्वं ततोधस्तादित्यादिना | अधोदुंबर व्यापकत्वेन च विन्यसेत् | तदनंतरं क्रियाजातमित्यनुष्ठानादुत्पन्नं प्. ६३ब्) सूत्रचालद्वाजातं यत्क्रियामिति प्रायश्चित्तं होमेनास्त्र युक्तेन शमयित्वा दक्षिणादिना दीक्षितमित्याचार्ययादीन्मूर्तिधरान् कलशधरानन्यानपि दीक्षितान्यरितोषयित्वाभियाचिताः प्रार्थिताः संतः संब्रूयुरिति द्वारप्रतिष्ठा अथेत्यादि | प्रासद देह स्यात्मनि संबंधविधिर्हृदावरणप्रतिष्ठाख्यश्च स एव | उक्तं च प्रतिष्ठासमुच्चये || हृत्प्रतिष्ठेति चौच्यते इति | शुकनासानिष्पत्तौ शिखरार्ध समाप्तावित्यर्थः | यत उक्तं प्राक् | शिखरार्धगाशुकाचेति | अत एवाह | प्राग्वेदीगर्भमस्तक इति प्रथम्या भूमिकाया यो गर्भस्तन्यस्तके द्वितीय वेदिका प्रारंभ इति यावत् | तत्र प्रणवेनाधार आसनं यस्य शाक्तस्य पद्मस्य तस्मिन् मूर्ति स्थानीयं घटं न्यसेत् | भूतपेक्षयेति विभवानुसारेण कृतरक्षं विधायेत्यस्त्रवर्माभ्यां संरक्षितावेष्टितं कृत्वा अणुतत्त्वमावाह्य पयभ्यंतरे योजयेत् | तद्विधानमुपादानमिति | तदित्यात्मतत्त्वमेव विशेष्यते विधानमिति | विधते कर्मादिकं निर्मिणोतीति विधानम् उपादानमिति | सविकल्प निर्विकल्प परामर्शानामुत्पत्ति हेतुरत उपचरितोयं उपादानशब्दोन्यथापरिणामिता प्रसंगः आपतेराचैतन्यादस्य | तथा च श्रीमत्किरणे || परिणामो चेतनस्य न युज्यते इति | व्यक्तिस्थानमिति | व्यक्ते प्राकाशाख्यायाः स्थानमाश्रयः प्रकाशः स्वभावत्वादेव यादाहुः | त्रयः प्रकाशाः स्वपरप्रकाशाः तद्यथा | अयं जातवेदाः यश्च पुरुषेष्वांतरः प्रकाश इति | परापरमिति | शुद्धाशुद्धरूपद्वयात्म सर्वात्मनामभिन्नं तदित्यनादि मध्यांतानामात्मनाम विशेषश्रुतेः | तस्मिन् हि विन्यस्ते सर्वात्मनां प्रत्यविशेषांते सर्व एव विन्यस्ता भवंतीत्यर्थः | संधायेत्येवं संचित्य अणुचिदं शकमिति अणुश्च चिदंशकश्चेत्येवं संधाय तदनुप्राणशक्त्यैव वायुप्रेरणदिशा आचार्ययः शिवाज्ञां संप्रबोधयन्निति शिवप्रणीतैः प्रयोगमंत्रै व्यवहन् संहृत्य कुंभकं कृत्वेति ज्ञानदृष्ट्या स पुष्पमुष्टिना संपुटीकृत्य कुंभवस्थया निस्तरंगस्वरूपेण स्थिता | यदाह || किंचितचिंतक इति यतस्तयैव प्. ६४अ) प्राणशक्त्या हुं फडंतावस्थमिति | हुं फडंति संपुटस्थं तदुत्कीययेत्याहृत्य स्फुरंतीयातारातनुस्तया यत्तदुपमीयते संपंडितत्त्वत आहृत्त्य द्वादशांते नीत्वा ततो रेचक प्रयोगेन घटे न्यसे तत्त्वातिवाहिकमिति | तस्मिन् वक्ष्यमाण लक्षणं पुर्ययष्टकाख्यं न्यसेत् | तद्गणबोधकमिति | तछिदभिव्यक्ति कारणं कलादिधरणि प्रांतमित्याति वाहिक स्वरूपम् सेश्वरं स्वपदाणुभिरिति | यस्य तत्त्वस्य य ईश्वरो यच्च नामपदं यच्चाणुर्मंत्रस्तैरत्रैव प्रयोगाय ओं कलायै नम इति | अनयादिशा तत्त्वदर्शिना आचार्ययेण समस्तार्थ विनियोगः कर्तव्यः धीव्रज इति | बुद्धिकर्मणां संघः विकारा पूरकत्वेन माया योज्याः प्रकृतित्त्वेन तस्याः प्रसिद्धेः अकृतस्य करणं भूतस्य परिवर्धनं प्रतिकर्मयतः कालस्य स्वसाध्यं कलनादि तत्साधकत्वेन सकलो योज्यः नियामकशब्देन नियतितत्त्वम् तस्य स्वसाध्यं कर्मफलभोगनियमः तत्साधनत्त्वेन तद्योज्यं एतेन तत्त्वानां प्रेरकत्त्वेअ मंत्रपाः सहमंत्रैर्योज्याः देवमिति | मूलमंत्रवाच्यं सांगं व्यापंकत्वेनेति | आत्मतत्वमूर्त्त्यादि व्यापकत्वेन संयोज्य सर्वानेतान् प्रागुक्तया निरोधमुद्रया निरोधयेत् | श्रीमत्पिंगलामतेप्युक्तं || सर्वभूतात्मवृत्तिस्थं व्यापदं च दिगीश्वरं | तत्कर्मानुग्रहात्मत्वे अविकारमखान्वितं || मायाप्रकृति संयुक्तं न्यसित्वेवं निरोधयेद् इति | तर्पणहोममेतेषां कृत्वेत्यर्थः | यतः संतर्पिता मंत्राः सन्निहिता भवंति | विधिछिद्रमिति | विधानानुष्ठानादपर्ययाप्ते वाजातं यच्छिद्रं विघ्नादि प्रभवाकाशः निर्वर्तयेदिति | त प्रतिपूरणाय होमं कृत्वेत्युक्तं भवति | विसर्ज्याणुं क्षमस्वेति मंडले कुंडे च यः पूजितो मंत्रस्तं क्षमस्वभगवन्निति प्रयोगदिशा विसर्ज्य द्विजान् भजेदिति | दक्षिणाभोजनादिनासुपरितुष्टान् कुर्याद्येन शंबूयुरमियाचिताः प्रागुक्तवत् | ततश्चेत्यादि तदनु च वेदिका बंधं संपद्येत कंठं वा मलसारकमपि संपाद्य चूडाख्ये आकाशलिंगे प्रागुक्तलिंगप्रतिष्ठायां यदुक्तं | तत्सर्वं लक्षणोद्धार चतुर्थी होमचंडयागवर्जमाचरेत् | तस्याश्च चूडायाः संवेशः प्रवेशः स्वाधारे पिंडिका प्रतिनिधायाअलकोपरिब्रह्मणोर्धेनेति | प्. ६४ब्) स्वायामषद्भागेनेति यावत् इत्थं तस्याः स्थैर्ययं सिद्ध्यन्यथाकाशलिंगाभिधानानुरोधेन निरवकाशावस्थित्यावातादित्या स्थैर्यय संभवति | स च शंवेश एव प्रतिष्ठाविधिरन्यच्च मूर्त्ति वक्त्रांग विन्यास विशेषाध्वक्रियाय उज्जितश्चासौ कार्ययः न तत्र मूर्ति विन्यास क्रिया न च विशेषाध्व क्रिया कार्यया यदि चूडाप्रतिष्ठायां मूर्तिन्यास लक्षणोद्धरादि न क्रियते | कथं तर्हि लिंगोक्तं सर्वमाचरितं भवेत् | एतद्वर्जं गर्भं शुद्धितश्चिह्न प्रामाणादिकमाकलयय तदुक्तमित्यदोषः तदियता हृत्प्रतिष्ठा संहितांतरोक्त संचरणप्रतिष्ठापराभिधानामुक्त्वा प्रासादप्रतिष्ठामाह | प्रासादेत्यादि | यदा प्रासाद सकलदेहनिष्पत्तिः संपन्ना तदानीमसौ कार्ययेत्युक्तं भवति | कथमित्यत आह | जंघामर्धोमध्योतराध्वस्विति प्रासादजंघाप्रांतमात्मतत्त्वन्यासः | तदुपरिमध्ये प्रांते वेदि पर्ययंते विद्या तत्वस्य उत्तराध्वा कंठामलक सारकस्तत्र शिवतत्त्वन्यासः इत्यर्थः | मूर्तिसहितानिति | एतान् प्रागुक्त क्ष्मावह्न्यादि मूर्ति सहिताञ्वेते सा स्मरन्निति | लिंगप्रतिष्ठायां मंत्रविन्यासात्मकेन प्रयोगेन प्रासादप्रतिष्ठायां तु चेतसा स्मरन्निति विशेषः सान्निध्यहोमादि च समानं अन्ये व्यापकं परं न्यसेदिति | आत्मादि तत्त्वत्रयातं भावेन समस्ततत्त्वविन्यासमभिसंधाय तदनु परमेश्वरं सर्वव्यापकत्वेन विन्यसेदित्येष संहितांतरेभ्यो भेदः यतस्तत्र सर्वतत्त्वमयत्त्वेन प्रासाद उच्यते | यदुक्तं श्रीमत्पिंगलामते पराख्ये च || सर्वतत्त्वमयो यस्मात् प्रासादः परमेश्वरः | यद्यथावस्थितं तत्र तत्तथा कथ्यते ततः || धारकत्वे स्थिता पृथ्वी अपोस्याश्मादि संग्रहे | तत्पाकेवस्थितं तेजः पवने स्पर्शने तथा || आकाशं सुशिरेष्वत्र शब्दः प्रासाद नामनि | स्पर्शः कार्कश्य संस्थोस्य रूपं शुक्लादिषु स्थितं || रशस्तु स्पर्शना ह्लादे गंधो धूमादिषु स्थितः | इत्यादयः | सर्वेश्लोकाग्रंथगौरवापेक्षया न लिखिताः || अथ ध्वजप्रतिष्ठा | तत इत्यादि भूतिगुप्तये इति | फलसमृद्धिरक्षणार्थम् | प्. ६५अ) एतच्च विशेषयति क्षेत्रचंद्रक्षणमित्यादिना | अति समृद्धायाः फलश्रियो यथा क्षेत्रे संरक्षणं क्रियते | तथेहापि भोगमोक्षात्मिकायाः फलश्रियो महाध्वजारोहूः कर्तव्यः | प्रोक्तं च श्रीमत्पिंगलामते || यथासुरोपितं क्षेत्रं विफलं रक्षणं विना | ध्वजंविना तथा प्रोक्ता प्रतिष्ठा नायिका वृतेति || प्रतिष्ठासमुच्चयेपि | प्रासादे ध्वजनिर्मुक्ते पूजाहोमजपादिकम् | विघ्नैर्विलोप्यते यस्मात् तस्यात् कायो ध्वजोछ्रय | इति | इहापि वक्ष्यति | विघ्नसंघातनाशनमित्यनेन तत्प्रमाणमाह | प्रासादायति लक्षितमिति | प्रासादाच्छ्राय प्रमाणेनेत्यर्थः | अस्यैवमानविकल्पः जंघाबलंवीति ध्वजशब्देन दुगूलादि रुच्यते | स च पृष्ठतः प्रभृति जंघापर्ययंतं यावत् अथवा जंघाया यत्प्रमाणं तेन प्रमाणेन दंढेन तावतेति | तत्प्रमाणकेनैव चंडंडेन युक्तो नान्यथा हितः इत्युक्तात् प्रमाणादथवा शोभापेक्षप्रमाणाद्वा अन्यादृशो न कार्ययाः मृदु स्निग्ध दृढ इति यो मृदुः श्लक्ष्णस्तथा स्निग्ध अरूक्षस्पर्शस्तथारूढः प्रद्ध्वं?च वाताहति सहः समृदु स्निग्ध दृढ इत्यर्थः | अन्यच्च सर्वदावदोषविवर्जितः | अन्येपि ये सर्वे दारुदोषास्तैर्विवर्जिता यः सवेणुतः अन्यस्मादपि दारुतः सद्वयमेतदिति दुगूलदंडात्मकं घनावृतमिति | कवचमंत्रेण पटाछादितं न्यसेदुत्तरत इति अधिवास दिवसे देवं संपूज्य तस्योत्तर दिग्भागे मृदुवसावृतायां शययायां न्यसेत्त्रिखंडवर्मेति ततस्तस्मिन् दंडदुगूलत्मके द्वये त्रिप्रकार आत्मविद्या शिवात्मको न्यासः | यथोक्तं प्रतिष्ठा समुच्चये | आत्मविद्ये न्यसेद् दंडे शिवतत्वं ध्वजे स्थितम् | इति तथा मूर्तीश न्यासोपि तस्मिन्नेव कार्ययः होमादि पूर्ववदिति होम आदि ग्रहणा रत्नस्नानन्यासस्नानविलेपनानि | किंत्वस्त्रेण जप इति वक्ष्यमाणानां त्रयाणां मध्यादन्यतमेन च जप इति पुनः पुनश्च प्रोक्षणम् | शुद्धे ध्वनिध्वजाधार इति | हेमजपाभ्यामध्व शुद्धिं कृत्त्वा ततः प्रागुक्तो यो ध्वजाधारः कंठाधः पादमानेनेत्यनेन सविशेषमुक्तं | प्रतिष्ठासमुच्चयेपि | ध्वज यष्टिर्गृहपृष्ठे एशानेवायवे क्वचित् | प्. ६५ब्) शिखरस्य तृतीयांशे कन्यसानांत दिष्यते || चतुर्थे मध्यमानां तु ज्येष्ठानां चैव पंचमे | इति | तत्राधारशक्त्यात्मकं पद्मं न्यसेत् | तत्र तु मूर्ध्नि स्थानीयं दंडमस्त्रांगैरेव कृत सकलीकरणं तत इति | ध्वजमपीति | दुगुलात्मकमस्त्रमंत्रेण निष्कलवाच्येन योजयित्वा | यथोक्तं | तत्रैव सकलं विन्यसेद् दंडे निष्कलं तु ध्वजे न्यसेदिति | तदनु न्यसेत् | अघोरमथवेति | अघोरस्येदमाघोरम् | अथवा शिवसंबंधि यत् पाशुपतास्त्रं परमिति | तविशेषणमेव ब्रह्मशिरसेति शिरोमंत्रेण विद्याधिपेनेति | हृदयेन पुरष्टुतं कवचं | अथ ध्वजदेवता ध्यानं || मुखकंदरमित्यास्यं तडिल्लताजिह्वमिति | तदाकारया जिह्वयोपलक्षित ईथं ध्यात्वा तस्यारोहणं तत्र कुर्ययादुपचारं चेत्यारोपितस्य स्नानेपि लेपनाभरणपूजा तत्त्वेश्वर न्यासात्मकं तत्राप्युक्तं | शेषमस्य यथा पूर्वमतिरिक्तं तु कथ्यते | निस्तानि यानि तत्त्वानि तेषु तत्त्वेश्वराश्चये || आणवाः शांभवाः शाक्ताः स्वायुधव्यग्रपाणयः | ध्यात्वा न्यस्यास्तुते सर्वे विघ्ननाशाय सिद्धय || इति | मंत्रैः फडंतैः शार्वैर्वेति कदाचिदस्त्रमंत्रैः कदाचिच्छिन्नमंत्रैः फट्कारांतैरिति शेषः न परागमविप्रम इति परेशां शत्रूणामागमनाद्यो विभ्रमः सन बह्वति | तस्मिन् राष्ट्रे स्वकालवर्षी पर्जन्य इति शांतानीति शमनिरताः पयोभृतोगावः पयस्विन्व इति बहुक्षीरावृत्तिभाजः शिल्पि प्रभृतान् भृत्यां वृत्तिं वेतनमुपजीवितोपि तारयेत् रुद्रा इति मृताः संतो रुद्राणवो भवंतीत्यर्थः | जीर्णेत्यादि | न केवलमिदानीं प्रतिष्ठित एव तत्पुण्यं यावज्जिर्णेपि संस्कृत इति शीणं प्रायेपि तस्मात् प्रतिष्ठासममेव जीर्णसंस्करणात् पुण्यं तस्मात् कारणाज्जिर्णयोजन निमित्तं यत्नमातिष्ठेत् जीर्णोद्धारमाह | जीर्णं यद्बहुनाकालेन जर्जरितप्रायमनंगमंगविकलं स गर्भं च यस्य घटनासमये सर्वप्रकारैरपि गर्भो न ज्ञातः कालांतरेण तु सव्यक्तीभूतस्तद्युक्तं व्रणदूषितं छिद्रं नीतेन तन्मानेनोर्ध्वमानेन तेनैवाधिकेन यद्युक्तं तथैवमानेन निष्कंपात्मकेन नीनाधिकेन वा युक्तं तत् स्वकृत्यानुगतं प्. ६६अ) च यदिति स्वकृत्यस्य स्तंभता पादेरनुगृहीतं तदर्थं यन्मापितं तन्मंत्रांतर साधकेन नाराध्यं शीर्णाद्यात्मनो यतो मंत्रः सन्निधानं करोति | पिशाचादीनामाश्रयतां च यात्यतस्तन्नाराध्यं तच्चोद्धृत्यान्यन्निवेशयेत् | उक्तं च | श्रीमन्नंदिकेश्वरमते पैतामहे च | शीर्णं दग्धं यथा देहीत्यक्त्वान्यत् प्रतिपद्यते | एवं त्रिशूलं चलितं स्थानं त्यजति देवताशून्यं दृष्ट्वा तु तं स्थानं पिशाचग्रहराक्षसाः प्रेतवेतालभूतानि आश्रयंति न संशयः तस्मादुद्धरणं कार्ययं विधिवन्मंत्रपूर्वकम् | तथं तत्कार्यमित्यत आह | बहिरित्यादि | अत्र प्रतिष्ठाशास्त्रांतरोक्तं प्रारंभकाले ब्राह्मणादीनां भोजनं दक्षिणादि च देयमित्य पेक्ष्यं | यथोक्तं तत्रैय || तस्मादुद्धरणं कार्ययं विधिवन्मंत्रपूर्वकम् | ब्राह्मणान् भोजयित्यादौ पायसेन घृतेन च || शक्त्या च दक्षिणां दत्त्वा शांतिर्वश्या यथाविधिः | पश्चादुद्धरणं कार्ययं गुरुणा सर्ववेदिना || उद्धृतं त्वविधानेन मंत्रहीनैस्तु दैशिकैः | व्याधिना कलहे नापि हन्याद्राष्ट्रं स पार्थिवम् | इति | तदपरे प्रासादा दक्षिणदिग्भागे दिक्पतीनित्मुपलक्षणं प्रकृति योगादेस्तैन शिवमादौ संपूज्य | यथोक्तं प्रतिष्ठासमुच्चये || दक्षिणायामतो मूर्तौ स्थंडिलस्थं शिवं यजेदिति | ततोपि दिक्पतीस्तथा वास्तुदेहावस्थितान् ब्रह्मादीन् बहिः स्थितांश्च चरकीस्कंदांदिन् प्रासादाधः संश्रयानेवात्र ज्ञानदृष्ट्याभिसंधाय संपूज्य च बलिनैवेद्यात्मकं बलिं किंरेन्निक्षिपेत् | ततश्चाग्नि जननं पूर्वं मंत्रतर्पणं कृत्वा भागभाग इति | ब्रह्मभागादि त्रये यथा शक्त्येत्युक्तान्प्रमाणतोनन्यूनेन | यदुक्तं श्रीमन्नंदिकेश्वरमते || सहस्रेण तु चालनमिति | प्रतिष्ठासमुच्चयेपि | लिंगसंचालनार्थं च सहस्रं जुहुयाद्गुराः | पुनः संस्थापनार्थं तु शतहोमो विधीयते || इति | तत्रास्त्रमंत्रहोमं कृत्वा तदनुकुशैः स्पर्शं कुर्वन्नस्त्रमेव जपेत् ततः शांति कुंभांबुनासमभ्युक्ष्य विलोमेनार्घं दत्त्वेति संहारक्रमेण संहितयार्घयित्वा तथैव शास्त्रांतरोक्तवत्प्रणति विज्ञप्तिकां कृत्वा | यथोक्तं प्रतिष्ठासमुच्चये || शिवे विज्ञापयेत् ततः जीर्णं लिंगमिदं देव सर्वदोषावहं नॄणाम् | अस्योद्धारे कृते शांतिरित्येवं भाषितं त्वया || तत्त्वयाधिष्ठितं देव प्. ६६ब्) उद्धरामित वाज्ञयेति | ततो विसृजेदिति विसर्जयेत् मूर्ति मूर्तिपादीन् स दृक्क्रियानिति पीठस्थान् न केवलं तान्विसर्जयेत् | यावत् पीठे वृत्तिर्वर्त्तनं येषामणूनां तथा वृत्तभागस्थितानिनि लिंगसमाश्रित नणून् | मंत्रात्मांगं शिवमपि तथा त्रिखंडेनाध्वना सह तत्पतीनपि चंडेशं चेत्ये तत्यर्घ्यं तं सर्वं यत्प्रागावाहितं जातं तद्विसर्ज्य तदनु खनित्रेणहैमेनेति लांगलेन सौवर्णेनास्त्र युजेति न्यास्तास्त्र मंत्रेण वृषस्कंद युजारज्ज्वेति वृषभक कुदबद्धयागोवलकृतया | यदुक्तं श्रीमन्नंदिकेश्वरमते || ततस्तु खानयेल्लिंगं सौवर्णै लांगलैः शुभैः | वृषस्य ककुदेवद्फा? बालरज्ज्वसुयंत्रितम् || इति | कृतः सौवर्णः पाशो ग्रथन प्रदेशो यस्याः नयेत् ततो बहिर्भागमिति | तस्मात् पीठबंधस्यानाद्विहिर्भागं शिवं पठं च तदेव यत्र मंत्रतर्पणादि कृतं मंडलाग्न्यगाराधिकमित्यर्थः | तत्र तस्य वक्ष्यमाणात्मकोनुरूपो विनियोगः | यदाहः क्षिपेदित्यादि | सुवर्णरजतादिना कृतं यत्तत्समग्रमिति | पूर्ववत्पुनर्नवं कृत्वा वास्तोष्पतिं संपूज्य दिक्पतिबलिपर्ययंतां शांति कृत्वा प्रायश्चित्त विशुद्धये होमं कृत्वा पूर्णाहुतिं च दत्त्वा कृतं यत्तन्मंडलस्थाप शिवाय विनिवेदयेत् | यदुक्तं श्रीमत्प्रतिष्ठापारमेश्वरे || ततो पूर्णाहुतिं दद्यात् प्रायश्चित विशुद्धये | निवेदयेत् ततोगत्वा शिवाय विहितं तु यत् || विधिच्छिद्रं तु यत्किंचित् छिद्रं प्रद्रं प्रजायताम् | राज्ञः कर्तुः प्रजानां च शांतिर्भवतु सर्वदा || अस्माकं सुमहायानं सुप्रीतो भव सर्वदे | पीठेत्यादि | सगुणालिंगे पीठं यदि वा गुणं भवे तदानीं तदुद्धृत्यान्यन्निवेशयेत् | न तु लिंगोद्धारः कार्ययो विगुणं तु लिंगे उद्धृत्य येनेति प्रागुक्त वैधर्म्येणोम्भयमप्युद्धृतं सगुणमन्यन्निवेशयेत् | न तु सगुणमपि लिंगमुद्धृत्य विगुणपीठोद्धार इति व्यत्यय शब्दस्यार्थः | एवमित्यादि | चूलकः चूलाप्रागुक्ताया मलसारको परिवर्तिनी धामप्रासादः एतद्विषय एव विधि जीर्णोद्धारो मंत्र विसर्जन पूर्वः कृतश्चूलका तु ये मंत्रास्तान मले निष्कलंके खड्गे विन्यस्तान् प्रासाद परिसमाप्तिं यावत् तत्रतानर्चयेत् लिंगं च रक्षितमिति प्रासादापसनात्त्त्रिरवकाशेमामवत्त्विति | अभ्यप्रायतो दार्वादि परिष्कृत्या प्. ६७अ) रक्षितं कार्यमित्युक्तं भर्पडि समाप्तौ मंत्रसंयोग इति | तस्मिन् प्रासादे स्माप्ते सति मंत्रसंयोगनिमित्तं सामुदायिके क्रियतेत्र तिष्ठा सा तथा विधाकार्याच्चूलकध्वजधान्नामित्यर्थः | एवमुक्त क्रियायोगमिति| उक्त प्रकारया क्रिययायोगपूर्वसाध्वकोलिंगमासेवमानोऽतुलमेश्वर्यमिति | वांच्छितार्थ सिद्धिफलात्मकं प्राप्नोति मोक्षार्थी मोक्षमक्षयं वाप्नोति | उक्तं च श्रीमत्किरणे || एतेन शक्रश्च हुताशनश्च स्कंधे द्वसूर्यय विविधाश्च सिद्धाः विष्णुः प्रजानामधिपो यमश्च ये चापरे भक्तिमतां वरिष्टाः लिंगं समासाद्य महापवित्रे निर्माणमुख्यं शिवभक्तियुतः सोपांश्च भुंक्त्वादि विदेव पूर्वे ततः परंधाम समाश्रयंतीति | आ देहपातमर्यादमिति | लिं आमरणांतं लिंगार्चनरतानं सुलभः दैशिक इत्यादि | अविज्ञातानुविषयमिदं जीर्णलिंगप्रतिष्ठितो मंत्रो यदि कदाचिन्न ज्ञायते तत्साधारणमिति लोकसामान्यं प्रणवाख्यम् एतदेवाग्रे विशेषविष्यत्ति | तदन्येषु भवं योज्यमित्यादिना पूर्वं स्वयंभु बाणलिंगानां सर्वपीठगृहाश्रव प्रतिपादनं प्रसंगैन तद्विषय एव मंत्रं संकरनिषेध उक्तः अनेन तु प्रसंगात् तेषु तेषु चोच्यते | प्राक् स्थित इत्यादि | प्राक्सितं यस्य वर्षशतानि बहूनि प्रतिष्ठितस्य यस्य वा सा प्रतिष्ठा सोपि नस्पर्यंते | तस्मिंस्तथा सिद्धैः प्राप्तान्यणिमादि योगैश्वर्यं च पद्ध्य तिष्ट्तितं विकल्पवासनातीतैरिति | रागादि दोषनिर्मुक्तैर्ये निवेशिता मंत्रास्ते तु सर्वाथत्वाद्धेतोर्न मंत्रसंकरः यतस्तैः सर्वहितकारिभिः सर्वाथाः साधारणा एव तत्र मंत्रा निवेशिताः मानोन्मान इत्यादि | एतोभ्योऽनुमानाद्यदि लक्षितं तत्तज्ज्ञानमिति | तस्यैव लिंगस्य आधेयत्वेन यो मंत्र एवं तत विन्यस्तशकां विनैव स्वमंत्रमर्चयेत् | अयमर्थः | ऐंद्रादि मंत्रसाधकाः ऐंद्रादि लिंगलक्षण वज्रादि युक्तंषु ऐंद्रादीन्नेव पूजयेत् | प्रासिकमुक्त्वा प्रकृतमेव जीर्णोद्धारात्मकमाह | विज्ञात इत्यादि | यत्र प्रतिष्ठिता मंत्रा विज्ञायंते तत्रगानुद्दृत्येति विसर्ज्य पूर्वोक्तेनैव विधिनेति पदं काकाक्षि न्यायेन उभयत्रापि व्याख्यायते स्वमर्चयेत् पूर्वप्रतिष्ठितमेव | पूर्वोक्तेन विधिना प्रतिष्ठा प्. ६७ब्) समयोक्तेनेत्यथः | तदित्यादि | भवमिति प्रणवं भवापराभिधान्यस्य प्रणवस्य पूर्वोक्तया साधारणव्याख्यया उपपत्तिः सर्वमंत्राध्व विग्रहमिति | यावंतो मंत्रायावंतश्चाध्वानः स्वायंभुवादौ तत्त्वाध्वा च पदाध्वा चेत्येवमादिनोदिष्टाः ते सर्व एवास्य विग्रहे | उक्तं च रुरुसंहितामंत्रवातिके | ओं मित्येकाक्षरं ब्रह्म मंत्रतेत्रादिलक्षितम् | महदादि विशेषांतं व्यापकं पदमव्ययं || ओं त प्रोतं जगतेन मात्राभिः सर्वते भृशमिति | तं तत्र संवोज्य संपूज्य तदनुहृन्मंत्रेण संहारमुद्रया समादाय परतत्त्वमिति | वाच्यवाचक संयोगं नीत्वातदनुस्वमणुं | मित्यभिप्रेतं मंत्रं न्यसेत् वत्सर इत्यादि | षट्मासाः अपूजनं यस्य जातं तदपि च स्वमंत्रेण योजयेत् | श्रियै भोगावरत्नजं वाग्नि संस्पृष्ठमिति | रत्नलिंगं दैवान्मानुषाद्वाप्रतिदग्निना स्पृष्टं स्वतेजसा चेन्न कृष्टं तत् तदपि स्वमंत्रेण योज्यम् | अथ साधकस्य नियमाति वाहनाय क्षेत्र परिग्रह विचारो यत्र सामचतुष्टयं संयमेन नयति | यथोक्तं श्रीमत्किरणे || चतुरो वार्षिकान्मासान्नियमेन नयेदिति | परिगृह्येति काले पुण्य इति संक्रांति षडशीति मुखत्र्यह स्पृग्विलंबितव्यती पादाद्युपलक्षिते शुभे लक्षण इति लग्ने पुण्यदेशानां ये गुणाकृष्णमृगसंचार प्राणि वैरत्यागादयस्तैर्व्याप्तं क्षेत्रमेव वक्ष्यमाण निषेधभ्यो ये दोषा व्यालबिंलां?धकूप भस्मोषरतुषांणरात्मकास्तैर्वर्जितमेवं विधं ग्राह्यं | अग्राद्यमाह | दूरोदकेत्यादि || उदकं समिधः पुष्पाणि च यस्य दूरे तथा अमनोज्ञं नमन तुष्टिकारि असद्रूपमित्य याज्ञिकं वृक्षं चापूष्पफल वृक्षं वा गणेशादिर्यत्कीलितं चिह्नितं उपर्ययुपरिलिंगं वेति न यत्र बहूनि लिंगानि एकलिंगाधिष्ठितं वक्ष्यमाणयोपपत्त्यापीत्यर्थः साधकांतरपालितमित्यन्येन साधकेनाश्रितं | किं च दक्षिणदिग्द्वारेण देवगृहोत्तर दिग्द्वारेण वायद्युक्तं दुष्टानि सत्त्वानि सिंह व्याघ्रा जगरादीनि तद्वदिति तद्युक्तं | यत् आगामि प्रतिषेधकमिति | भविष्यतामपि विघ्नानां निवारणं तदंबु प्रोक्षितं धामेति | गृहमदोषवत्तथा प्. ६८अ) वेदीपीठिका गर्भं च प्रासादस्यादि ग्रहणात् प्रासादं तद्बाह्यांगनं अप्यदोषवत् कृत्वा येन प्रासादरूपिणश्चान्ये शिवाश्रयाः वेदिकारूपिणो येन्ये शोध्यास्तेभ्यस्त्रयः जचादिति | ततः सांगेन सास्त्रेण जुहुयात् तदनु समित्कुशादि आहरणाय स्नानादि गमना पेक्षया च यावत् क्षेत्रं परिग्राह्यं तावदस्त्र तेजसा परिपूरितं भावयेत् | तथा तत् तेजसैव निर्दग्ध विघ्नसंघमत एवानामयं निर्दोषं हुत्वा छिद्रमिति प्राक् प्रतिपादितमेव ततः शास्त्रलोकेश मंत्रान् शंकृन् प्राग्दिग्ध इति पूर्वादि दिक्क्रमेण निवेशयेदितो बाह्येन निष्क्रमेदिति | संज्ञार्थं चर्म जप्तेनेति कवच मंत्राभिमंत्रितेन संधायेत्येकी कृत्य बहिस्तद्बाह्ये बीजानिकिरेन्निक्षिपेत् | शस्त्रजजप्तानीत्यस्त्र जप्तानि सूत्रचर्मनेति शंकुसंधायक सूत्रमार्गेण ततश्च भस्मनाबहिर्दीप्तं प्राकारमंडलं कूर्ययात् | अंतश्चाभ्यंतरे य चान्विस्तितैः कवचमिति कवचमंत्रप्रयोगेन कुर्ययात् | पुष्पमूलानुलक्षितमित्येतत्प्रायं राक्षस्यामिति | नैनृत्यां क्षेत्रपालाय बलिं दद्यात् | धामनेति | देवगृहे वास्तुदेवेभ्यो बलिर्देयः उदकांतरमिति | प्रतिवस्तु जलेन स्नानम् गोशकृताचेति | गोमयेन क्षौद्रमिति | माक्षिकं स्वमंत्रेण समालभ्येति पूर्वप्रतिष्ठितेन तदज्ञानात् प्रणवेनेति प्रागप्युक्तं तत इत्यादि | प्राक् प्रतिष्ठित समस्तमंत्रसंयोगं कृत्वा विशोध्यमिति | विसर्जितमंत्रव्रातं ससाधकः प्राग्वदिति विधिवत् समारोप्य निवेदयेत् | सिद्ध्यर्थं पीठमंत्राश्रयानपि मंत्रान्यथा योगं विन्यस्य ताथा ज्ञानक्रिये प्रागुक्तक्रमेणैव विन्यस्ये | अथ हुतकर्मछिद्र इति चतुर्विधं यत्कर्म छिद्र मूनकरणादधिककरणादन्यथाच्चेत्यस्मिन्प्रायश्चिते तस्मिन् होमविधिना निष्पादित इत्यर्थः पुनर्भजेत् स्नानमिति | प्रथममेकस्य पुनरन्यत् स्नानं पुनः शब्दोव्यवहितोपि संयोज्यः मंत्रसान्निध्यकारणं तत इत्यादि पूर्वादिकरणपूर्वं मत्तसान्निध्यनिमित्तं जपं यथाशक्ति कृत्वा निवेद्य च त प्रागुक्तेनैव विधिना सन्निध्यं प्रार्थयेदिति | यथाभिलषित सिद्धिनिमित्तं नियसमाप्तिपर्ययंतमस्मिंल्लिंगेभगवन्सन्निहितो भवेत्येवं विक्षप्तिकयालब्धेभितश्च प्.६८ब्) सान्निध्यं प्राप्तं विभाव्येत्यर्थः भूतेभ्यः स्वानुगेश्चेति | स्वस्वस्थानचरेभ्य भूतेभ्यो बलिं किरेत् क्षेत्रेत्यादि | यथैव समस्तक्षेत्रे लोकेशास्त्रादि कल्पना कृता तद्वत्साधनाकार्यये स्वमठिकायां प्रदोषे बलिपूजादीति क्षेत्त्रनेम्यां शंकुदशकेनोत्यादितायां पर्वसु वक्ष्यमाणकेषु बलिपूजा प्रदोषे कार्यया देव विषयं तु प्रत्यहं प्रभातमध्याह्न प्रदोषनिशार्धात्मकेवरचतुष्टये समानगुणवत्सस्व इति तुल्यगुणैर्ययुक्तो विशेषपूजादिवसानाह | चतुर्दश्यामित्यादि | पक्षयोरित्युभयपक्षविषयो यो विधिर्मासवृद्धि दिनध्वंसे इति | मासमध्ये यौ दिनवृद्धि ध्वंसौ व्यतीपातो विष्ट्यादिकः अन्येपि ये युगादि षडशीति मुखसंक्रांति प्रभृतयः पुण्यकालाः क्षेत्रेत्यादि स्नानपूजादौ यदुपयुज्यते | तत्परिगृहीते क्षेत्रे यदि नास्ति तदूरतः संख्यासमाहृतं भजेत् | तत्त्वात्मना ततो बहिर्गछेत् विघ्नाप्रदर्शन संभवात् | जातीत्यादि | स्वचर्ययविहितवृत्त्यनुष्ठानं जातिव्यतिकरस्तस्मिन्विधि स्थितमिति शास्त्रपरिदृष्टं स्वचर्ययेत्यादि | जातिव्यतिक्षरे कुर्ययात् प्रायश्चितमिति | यदुक्तं | तदेतेन विशेषयति अणुसेविनः साधकस्य स्वचर्याविहिता वृत्तिस्तामाश्रितस्य मात्राः शक्त्यो विभांति विजृंभंते जगद्व्याप्य चतुर्विधं भूतसर्गमधिष्ठाय एतदुक्तं भवति तथाविधे जगति यत्र यत्र यदभिलाषे साधको मंत्रान् प्रयुंक्ते तदवश्यं प्राप्नोति | उक्तं च श्रीमज्ज्ञानोत्तरे || विश्वरूपधरा मंत्रा यजमानेच्छया स्थिताः | सर्वान् कामान् प्रयच्छंति त्रैलोक्ये दुर्लभानपि || मंत्रीति साधक एव विधिलंघने विधिप्रकरणे प्राप्तं प्रायश्चित्तमनाचरन् | सिद्धिभ्रंशमवाप्नोति दैशिकस्त्वाचार्ययो रोगभागिति विघ्नितदीघाफलभाग्वतीत्यर्थः | तन्निवृत्त्यायेत्यादि | तस्य विधिलंघन प्रत्यवायस्य निवृत्त्यै विधिर्वक्ष्यमाणः पवित्रकाख्यः परमेशानेति | शास्त्रगौरवापेक्षयोद्युक्त क्रियात्मना ईश्वरभट्टारकेन वेधस इति परप्रजापतये अनंतेशाय तस्या एवात्र शास्त्रावतारादौ प्रधानगुरुत्वं न तु वेधसोभिधायकस्य शब्दस्य प्. ६९अ) सामान्यात् पद्मजन्मन इति व्यख्येयं यतौ सौ प्रजापतिः सर्वजगत्पतित्वेन संहितांतरेप्युक्तः | एष सर्वानिमां लोकान् परशक्त्युपबृहितः | उत्सादयति संधत्ते निरुण द्विजगत्पतिरिति || स्कंदायतीक्ष्णभासे चेति | शास्त्रावतारगुरुप्रदर्शनार्थमेतत् | जगतां प्रारणप्रोक्तमनंतेशं परं गुरुं | तेनोक्तं परमेशेन श्रीकंठाय महात्मने || सुरासुराणां गुरुणा देव्यै सर्वमुदाहृतं | देवी च प्राहनंदीश स्कंदयोरित्यादि | समासान्निबोधतेति संक्षेपस्तं पवित्राख्यं शृणुतेत्यर्थः | अथ तदुच्यते | नभस्येत्यादि | नभस्य नभसोर्मासोरिति | भाद्रपद श्रावणमासोरित्यर्थः | पद्मन्नुमः कृत्रिश शत्रिभ्यो द्वे पुत्रे मासशब्दस्य विहितत्वान्मासोरिति षष्ठी द्विवचनमुपपन्नं अन्यथामासयोरिति वक्तव्यं स्यात् आषाढ्यामिति | आषाढशुक्लपंचदशी पूर्वाषाढायुक्ता आषाढेति देशभाषाप्रसिद्धा तस्यामादि मेह्नि | उद्दिष्टदिनानां प्रत्येकमाद्यदिन इत्यपि वासा पेक्षया वा ग्रहणं तेन सप्तमी त्रयोदशाख्यं दिनद्वयं विहितं ज्ञेयं | उक्तं च श्रीमत्किरणे || सत्पम्यां त्रयोदश्यामथापि वा पूजां कृत्वा तद्देशे शिवमामंत्र्यतद्दिन इति | तथा आषाढशुकलचतुर्दश्यपि विहिता अन्याशां स्वपदोपात्तत्त्वादव्याविद्धमित्यनाकुलान्वितं बलकलशब्देन वृक्षत्वगुच्यते | तत उद्भूतं त्रिगुणमित्यादि | नवभिस्तंतुभिरेव तंतुं कृत्वा समग्रंथीति वक्ष्यमाणयोपपत्त्या यथा गममिति शास्त्रांतरदृष्टं विधानमनति क्रम्य आपाद्येति प्रतिपाद्य पावनं परमिति पवित्रकाख्यायामुपपत्तिर्विहिताननुष्ठानात्प्रत्यवायात्मनः पापाद्यतः पावपत्यतः पवित्रं एतदेव स्फुटीकरोति वार्षिकान्मुच्यते कृत्यविप्लवात् पूरणाद्विधेरिति | एतस्मादेव विधिपूरणात् पवित्रक प्रतिपादनाख्यादनुष्ठितात्सतो वार्षिकादिति | संवत्सर कृतात् क्रियाविप्लवान् मुच्यते | विशुद्धिं प्राप्नोतीत्यथः | द्विगुण इत्यादि हरय इंद्राश्चतुर्दश द्विगुणा अष्टाविंशतिस्तंतूनां कन्यसकन्यसेतते ततो द्विहास्तिक त्रिहास्तिकादिकमतो दशदशवृद्ध्या उत्तमोत्तमं यावदष्टोरं शतं तंतूनां भवत्येव प्. ६९ब्) एषविधिर्भोगार्थिनां द्वादशेत्यादि वा शब्दोत्र पुनः शब्दस्यार्थः कन्यसादिषु सिद्धिष्विति तन्निमित्तं द्वादशभ्यस्तं तुभ्य ऊर्ध्वं द्वादशानां द्वादशानां वृद्ध्या यावदष्टोत्तरशतं तत्त्वंतिका वृद्धिरित्यर्थः | यवीय सोमित्यादि कन्यसानां लिंगानां मोक्षार्थिभिः कलासंख्यागुरवः अष्टात्रिंशतं तवः कार्ययाः तारासुताराद्या अष्टात्रिंशदेवकलायतः मध्यानां वर्णलक्षिताः पंचाशतं तव इत्युक्तं भवति वर्णानां मात्राक्षराणां पंचाशत एव प्रसिद्धेः ज्येष्ठानां पदसंख्याताः एकाशीतिरिति यावत् ग्रंथय इत्यादि यावंतस्तं तव स्रावंत एव ग्रंथयः तुल्यांतरा इति यावत् परिमाणको ग्रंथिस्तावत्परिमाणं व्यवधानं कृत्वा परोग्रंथिः समा इति न्यूनाधिकत्व रहिताः प्रागप्युद्दिष्ट समग्रंथीत्येतेन काश्मीरकाख्यया कुंकुमंगैरिकाद्यरुण इति गैरिकाख्यया धतु विशेषः आदिशब्दाद्गोरचनयापि | यदुक्तं श्रीमत्किरणे || गोरोचना कृता सर्वे ग्रंथयो धातुनां पिवेति | दृढा इत्यविश्लथाः त्रितयमित्यादि | भोगमोक्षापेक्षया सृष्टिसंहारक्रमेण मूर्ध्नी आर्चाभागे आत्मविद्या शिवात्मकं पवित्रत्रितयं कर्तव्यं पीठिकासंसृष्टि पुनश्चतुर्थम् सार्वदैवतमिति यच्चतुर्थं पवित्रकं तन्मूर्त्याश्रय पिंडिकाश्रय देवतार्थत्त्वेन सार्वदैवकं आजान्वित्यादि | प्रतिमास्वाजानुपर्ययंतं त्रिपूर्वं तद्वदेव आत्मविद्या शिवात्मक पवित्रक त्रितय पूर्वकं स्वेष्टतंतु युक् च यथारुचिसंख्यात्तत्रं तु युक्तं चलेष्वित्यादि चललिंगानामपि स्वेष्टतंतु युक्तं कर्तव्यमित्यर्थः सिद्ध्यैसमग्रंथीति पूर्वोक्तस्य द्वादशोत्तरं वृद्धेत्याद्यस्यानुवादः विद्येत्यादि विद्यापीठेति पुस्तकादावेव एवमेव सर्वात्मकमिति | सर्वव्यापकत्त्वेन विवेष्टन पर्ययंतं तथैव सर्वात्मकं यथा रुचितं तु युक् त्वशृंगात् पृष्ठमेकं वक्ष्यमाणे वृषे तथा च ग्रीवाधः प्रभृति खुरस्पर्शि द्वितीयं शिवाग्नावित्यादि स्विष्ट कृदाख्यं कर्म इह बलिहोमः तत्पर्ययंते होमव्यापारे कृतेसतीत्यस्मद्गुरवः अन्ये तु स्वेष्टकृत्प्रांत इति पाठे प्राते कृते कर्मणि प्रतिपाद्यम् प्. ७०अ) होमसमाप्तावित्यर्थः किं भूतं पवित्रकं स्वेष्टकृदिति स्वस्यात्मन इष्टमभिलषितं करोति यदेव व्याचक्षतेः लिंगवदिति शिवाग्ना चपि पवित्रक चतुष्टयविधानायाति देशः तद्विधानमाह त्रीणीत्यादि लिंगस्यादौ विभागेन त्रीण्यात्मविद्या शिवात्मकानि भोगमोक्षापेक्षया येन क्रमेण प्रतिपादितानि चतुर्थं देवतात्वेन सर्वतत्वनिमित्तं भगवतः कालाग्नि रुद्रतः प्रभृति परमशिव पर्ययंतमथ वा परमशिवात् कालानल सृष्टिपर्ययंत क्रमेण तथैव व्याख्येयं प्रतिष्ठायां दृष्टं फलमाह | न कालमृत्युरित्यादिनायत्रेशः सवृषः स्थित इति सर्वथा वृषप्रतिष्ठा विना कृता लिंग प्रतिष्ठा न कार्ययेत्युक्तं भवति | वृषस्वरूपमाह | वृषोधर्म इत्यादि मेदयति पुरुषान् गुरुफलैर्दुःखदाहशमनैराह्लादयत्यतो भगवतः संबंधी धर्मो धात्वर्थतोपि निरुक्त दृशापि देवस्यासौ ज्ञानक्रियात्मको गुणो यस्माद् गुणातिशयात् सदिदं विद्धे तु चेतनाचेतन वर्गं प्रागुक्तं सर्वं धारयत्याधारशक्त्यात्मना तथा धिष्टातृशक्त्यात्मना च | उक्तं च श्रीमत्स्वायंभुवे || धातुलोकानिमान्सर्वान् प्रीतिं च पुरुषात् परात् | धर्मस्तेनोच्यत इति | इतीशाराधनोपाय इति यत्प्राग्यागाधिकरणोद्देश समये युक्तं यजनं श्रेष्ठमेतेभ्यो लिंग एवेति तदनेनोपे संहरति | येन चानेनोपायेन साध्येन ब्रह्मादयः | स प्रजाकृतः अद्भुतमाश्चर्ययभूतं सर्वाति शायित्वात्परमैश्वर्ययं प्राप्ताः अनुकल्पः प्रवृतोपीति | अनुकल्पो गौणीकल्पना तया प्रवृत्तेपि पुरुषे रुद्रपदप्राप्ते श्रुतेर्यदुक्तं प्राक् तेपि रुद्रान संशयः शिल्पिनो गायनान् भृत्यान्वृत्तिभाजोपि तारयेदिति | को नामविद्वानत्र श्रद्धां न कुर्ययादपि तु सर्व एव कुर्वंति | अन्यस्तिरोहित इति योप्यन्योमलोपरुद्धश्रेयो दृक् मूलप्रायो यावदित्यर्थः | यजनांगत्वेन भावो यः शुद्धात्मक उक्तस्तदर्थमाह | मृदभस्मगोशकृत्पिंडेत्यादि | शूद्धावान् मृत्पिंडादि निर्मितमपि लिंगसंपूजयन् प्रतिष्ठात्मकं फलं प्राप्नोति स्थंडिलेपि यजेन्मंत्रानिति प्.७०ब्) तदाश्वेवाभीप्सितं फलं प्राप्नोति इत्यर्थः | शस्त्रावतारसंबंधानाह | एतत्स्वयंभुर्भगवां नित्यादिना ज्ञानावृत्तोत्ततममिति | ज्ञानं च वृत्तोत्तमं चतुरमुक्ति प्राप्ति हेतुत्वाद्धृतमिति वत् तदेकदेशमिति द्वादशसहस्रान् सहस्रेणेत्यर्थः | इष्टार्थ सिद्धयोगसमाकुल इति इष्टेनार्थेनाभिलषणीयेन प्रतिष्ठा शास्त्रेभ्योप्यतिशयता सिद्धानामुक्तस्वरूपाणां स्थिर चेतसां विदुषां वीतरागाणां जगत्तृणमिवेक्षतामित्यनेन तेषां यो योगः समाधि ध्येयाकारेण वासनंत्मरंति | ताभ्यामिष्टार्थसिद्धयोगाभ्यां समाकुलं व्याप्तम् नोस्माकं शिवमस्तु श्रेयो भवतु | प्रारब्धायरतागुरोर्नियमतस्तस्यैव नोचो फलाच्छश्चच्चित्ततः समाप्ति मधुनानीतासमापात्रकात् | सोयं चंद्रकलाधरस्य दयया सर्वत्र सर्वात्मनां भक्तानां एकदार्थबोध्वविषयैर्भूयात् सदावल्लभः || || इति श्रीमहामहेश्वरेणकृतं भावचूडामणीं नाम तंत्रं समाप्तम् || संपूर्णं समाप्तम् || शुभमस्तु || शुभमस्तु || ########### END OF FILE #######