#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00167 Uniform title: bhagavadgītā Main title: bhagavadgītā with commentary sarvatobhadra Commentator : ramakaṇṭha Editor : śāstrī kṛṣṇa Description: Photographic facsimiles from vol 64 of the Kashmir Series of Texts and Studies. Notes: Publisher : Research Department Jammu and Kashmir State Publication year : 1943 Publication city : Bombay Publication country : India #################################################### ओं काश्मीर संस्कृतग्रन्थावलिः | ग्रन्थाङ्कः ६४ श्रीमद्भगवद्गीता राजानकरामकण्ठविरचितसर्वतोभद्राख्यविवरणोपेता | श्रीराजराजेश्वर महाराजाधिराज काश्मीरनरेन्द्र श्रीहरिसिंहजी- बहादुराज्ञया रिसर्च कार्यालयाध्यक्ष- पण्डित मधुसूदनकौल शास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संशोधनादिसंस्करणोत्तरं संपाद्य मुम्बययां निर्णयसागर मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीता | संवत् २०००, काश्मीर श्रीनगर स्रैस्ताब्दः १९४३, (अस्य ग्रन्थस्य मुद्रापणाद्यधिकाराः प्रोक्तमहाराजचर्यैः स्वायत्तीकृताः सन्ति) श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः | काश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेशान् देशेऽन्यस्मिन्नदृष्टो घुसृणयिसरवत्सर्ववन्द्यत्वमाप || १ || तरत तरसा संसाराब्धिं विधत्त परे पदे पदमविचलं नित्यालोकप्रमोदसुनिर्भरे | विमृशत शिवादिष्टाद्वैतावबोधसुधारसं प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् || २ || अथ श्रीमद्भगवद्गीता | श्रीराजानकरामकण्ठविरचितविवरणोपेता | प्रथमोऽध्यायः | स्वज्योतिर्द्योतितानन्तनामरूपाय ते नमः | अनामरूपचिन्मात्रवपुषे परमात्मने || १ || प्रमातॄणामुद्यद्विविधरुचिभेदाच्छुरणया विचित्राभासत्वं स्फटिकतटवत्संश्रयति यत् | स्वरूपं (क्, ग्: स्वरूपं सर्वेशमिति पाठः |) सर्वेषां विगलितविकल्पाभ्रपटल- प्रसन्ने हृद्व्योम्नि स्फुरतु जगतां तत्स्ववपुषा || २ || यस्माद्व्योम्न इवाप्रमेयविमलाभोगाज्जगद्व्यक्तयो नानादर्शनवादविस्तरगिरः स्थातुं बहिर्न क्षमाः | तद्ब्रह्मैव परं पराशरसुतस्यैवं महर्षेर्मतं सन्तःसन्ततसन्निवेशितधियो ध्यायन्तु बन्धच्छिदे || ३ || सकलविबुधमध्ये केऽपि गीतापदानां विदितगुणविशेषा हन्तः सन्तः कृतार्थाः | कतिचिदलिषु लोके ते हि वल्गन्ति लक्ष्मी- करकमलमधूनां चर्वणे ये रसज्ञाः || ४ || प्रकृतिगुरुभिर्गाढोद्योगैरवन्ध्यसमाधिभि- र्बहुभिरमलप्रज्ञैरेताः कृताः किल वृत्तयः | प्. २) किमधिकमिह ब्रूयान्मादृक्किमत्र तु कुर्महे स्वमतिसुहृदो मुग्धानां नो यदत्र विडम्बकाः || ५ || प्रसन्नत्वादस्मिन्सुगम इति सर्वः प्रविशति प्रविष्टो गाम्भीर्यादनधिगतगाधोऽत्र पतति | तदेवं गीतार्थार्णवमवतितीर्षुं प्रति जनं विधास्ये वाक्यार्थान्वयमिषमिमं पोतमभयम् || ६ || नित्यान्योन्यविरुद्धदर्शनकथाक्षेपादिना कः क्षमः संमुग्धप्रतिकूलदुर्मदधियां प्रौढोऽपि संबोधने | तत्सिद्धान्ततयैव भक्त्यतिशयव्यक्तेश्वरानुग्रह- ग्रस्तप्रायसमग्रसंशयमलः कोऽप्यत्र बोध्यो जनः || ७ || इह खलु निखिलवेदवेदान्तसिद्धान्तरमृतीतिहासपुराणादिविविधशास्त्रविस्तरविप् रकीर्णं चतुर्वर्गोपदेशं कालापचितप्रज्ञाद्युपदेश्यपुरुषप्रतिपत्तिसौकर्याय सारतः संक्षिप्य, महाभारताख्यमितिहासं भगवान् कृष्णद्वैपायनो यदिवा तन्मूर्तिमाविष्टः परमेश्वर एव साक्षात् निबबन्ध | तत्रापिच अपवर्गस्य परपुरुषार्थत्वादुपादेयतमस्य मोक्षधर्मादिप्रकरणेषु विविधैः प्रकारभेदैः प्रतिपाद्यस्य अपि विनेयबुद्धिभिः सम्यक् प्रतिपत्तुमशक्यत्वमाशङ्कमानो मृदुतरमतीनामपि हृदयंगमेन प्रसन्नगम्भीरेण वाक्प्रबन्धेन इतिहासक्रमागतसुहृत्संवादकथारूपेण योग्याखिललोकोपदेशाय भगवद्वक्तृकमपवर्गप्रतिपादकं गीताख्यं प्रकरणं प्रतिपादयांचकार | यस्य अयं समस्ताध्यात्मशास्त्रोपनिषद्भूतः सिद्धान्तः आत्मैवेदं | सर्वमिति यतः परमर्षिरयमस्मिन्नेव महाभारते देहसंन्यासावसरसमाहृतनिरुत्तरसमाधिदशानुभूतपरमार्था मोदाधिवासितसुविमलमतिवचनगाङ्गेयगीतस्तवराजाभिधानभगव त्स्तोत्रद्धारेण तत्स्वरूपं समस्तव्यस्तमभिधाय अपि उपसंहारे प्. ३) यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः | यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः || इति श्लोकेन परमसारसंग्रहरूपं यमर्थमुद्दिष्टवान्, तमेव इह प्रकरणे गर्भीचकार | तथाच इमं श्लोकं परमार्थविवेचनविचक्षणा एवं व्याचक्षते- तस्मै यच्छब्दपञ्चकविशिष्टविशेषणप्रतिपाद्यस्वरूपाय सर्वात्मने नमः सर्वस्य आत्मने, सर्वमात्मा यस्य इति उभयथावृत्तिसमाश्रयणेन परमकारणस्य आत्मन एव परमेश्वरस्य वास्तवमद्वितीयत्वमसहायत्वं च अनेन पदेन प्रतिपादितम् | यदुक्तमिह यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || (६/३१) इति, सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || (६/३०) इत्यादि | कस्मै तस्मै नम इति एकत्वेऽपि सर्वज्ञत्वादिनिरतिशयैश्वर्यप्रतिपादकानि यच्छब्दविशिष्टानि विशेषणानि क्रमेण व्याख्यायन्ते | तत्र तस्मै भगवते नमो यस्मिन् सर्वम् इदमत्यन्तभिन्नानन्ताभासमयं भावजातं संवेद्यमानतामात्रनिबन्धनतत्तत्स्वात्मलाभं सत् सुखादिसर्वावस्थानुगतैकसंवेदितृत्वमात्रस्वभावे प्रकाशात्मनि यस्मिन् स्थितमिति शेषः, नानात्वमेव इदं यद्वशादित्थं परिस्फुरतीत्यर्थः | तस्मै नम इति संबन्धः | अनेन समस्तसंवेद्यपदार्थसार्थैकसंवेदकत्वप्रतिपादनपरेण विशेषणेन ईश्वरस्य आत्मनः सर्वज्ञत्वलक्षणो धर्मः शक्तिविशेषो वा प्रतिपादितः | तदेतदिहैव उक्तं सर्वज्ञत्वमेकमात्मानं (क्, ग्: सर्वज्ञमेकमिति पाठः) व्यपदिशता भगवता प्. ४) सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च | (१५/१५) इत्यादिना, तथा मत्स्थानि सर्वभूतानि ---------------- | (९/४) इत्यादिना च | एतेन च नानाज्ञातृत्ववादः, क्षणिके ज्ञाने एव ज्ञातृभ्रमवादः, तथा चैतन्यविशिष्टे शरीरे एव ज्ञातृत्ववादो निरस्तः | ननु अस्तु नाम कश्चिदेकः सर्वज्ञो येन संवेद्यमानमिदं सर्वमवतिष्ठते, किंतु यदिदं सर्वं तेन संवेद्यते, तत् कुतो जातं ? कस्तस्य कर्ता ? इति संशयनिरासाय तस्यैव सर्वकर्तृत्वप्रतिपादनार्थं विशेषणमाह यतः सर्वम् इति | यतो यस्मादेकस्मात् कर्तुः सर्वमिदं कार्यं प्रभवतीति शेषः | अनेन वक्ष्यमाणया युक्त्या एकस्य च उक्तस्य तत्त्वस्य सर्वकर्तृत्वं प्रतिपादितम् | तथाच इहैव उक्तं भगवता मया ततमिदं सर्वं जगदव्यक्तमूर्तिना | (९/४) इत्यादिना, तथा न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || (१०/३९) इत्यादिना च, तथाच भगवदनुग्रहोन्मिषितदिव्यदृग्दृष्टवैश्वरूप्यपरामर्शप्रथितपर वाचः सव्यसाचिनो वचनादपि नान्योऽस्ति कर्ता जगतस्त्वमेको धाता विधाता च विभुर्भवश्च || (११/४७) इत्यादिनापिच | एतेन सर्वज्ञस्य अकर्तृत्ववादोऽपि निरस्तः | ननु सर्वकर्ता यदिदं करोति, तत्किमुपादाय करोति, इत्याशंकां निरसितुं तस्या निरुपादानं सर्वकर्तृत्वं प्रतिपादयितुमन्यद्विशेषणमाह यः सर्वम् इति | सर्वत्वेन नानाभावभेदात्मना प्रसृतमपि इदं कार्यं य एव यत उक्तलक्षणात् वस्तुनो न व्यतिरिक्तमित्यर्थः, प्. ५) तस्मै नमः | अनेन स्वेच्छामात्रव्यतिरिक्तोपादानरूपवस्त्वन्तरनिरपेक्षत्वमस्य प्रतिपादितम् | उक्तं च एतदर्जुनोक्त्यैव इह कर्तासि सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव || (११/४८) इत्यादि | एतेन च मायाप्रकृत्याद्युपादानाधीनकर्तृत्ववादो निरस्तः | ननु भवतु नाम एवं निरुपादानमस्य कर्तृत्वं, किंतु यदिदं कार्यमित्थं परस्परविलक्षणभङ्गुरभावभेदात्मना अवभासते, तत् तस्य स्वरूपविक्रियां कस्मात् न करोतीत्याह सर्वतश्च यः इति | सर्वस्मिन् वेद्ये वस्तुनि य एव एकः स्फुरति, तस्मै नमः इति | अनेन तदीयाद्भुतमायाशक्तिजनितव्याव्यामोहावस्थायामेव सर्वमिदं कार्यं संसारिणा जनेन नानात्वेन प्रतिपद्यते, परमकारणानुग्रहशक्त्युन्मीलितविद्यात्मकदिव्यचक्षुषा तु प्रबुद्धेन निरूप्यमाणेऽस्मिन् सर्वस्मिन् कार्ये तदेकतत्त्वव्यतिरिक्तं न किञ्चित् प्रकाशते, इति प्रतिपादितम् | यथा तत्तदर्थक्रियाविशिष्टेन बालादिना लोकेन विलोक्यमानाः कटककुण्डलकेयूरादयो गुणीभूतकाञ्चनमयस्वभावाः परस्परभिन्नत्वेनैव प्रतिभासन्ते, उत्पन्नतत्प्रकृतिजिज्ञासैर्निरूप्यमाणेषु तेषु सर्वेषु गुणीभूतकटकादिभिन्नव्यक्तिकाञ्चनमयैकस्वरूपव्यतिरिक्तं परमाणुमात्रमपि न उपलभ्यते, तथैव मायादशायां भिन्नेष्वपि प्रबोधावस्थायां प्रत्यवमृश्यमानेषु कार्येषु सर्वभावेषु विशुद्धसंविन्मात्रस्वभावताव्यतिरिक्तं न किञ्चिदुपलभ्यते- इति वास्तवेन रूपेण इत्थमपि स्फुरदिदं सर्वं कार्यं कर्तुर्मनागपि स्वरूपविक्रियां न आवहतीति प्रतिपादितम् | तदेतदिहैव उक्तम् अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते | (२/२६) इत्यादिना | एतेन औपाधिकशङ्कासंपर्कवादोऽपि अपाकृतः | ननु प्. ६) एवं सत्यपि कार्ये निरुपाधिरयमात्मा भवतु नाम, यदा पुनरिदं कार्यं न आरभते, तदा अस्य किं रूपमित्याशङ्कानिराकरणाय सदा सर्वात्मकत्वप्रतिपादनार्थं विशेषणान्तरमाह यश्च सर्वमयो नित्यम् इति | पूर्वोक्तविशेषणप्रतिपादितेन प्रकारेण यो नित्यं सततमेव सर्वमयः सर्वात्मकः, तस्मै नम इति | अनेन स्फुरत्यपि तस्मिन् अनन्तदेवताद्भुतरूपे कार्यकलापे परनिर्मलसुसंपूर्णचिन्मात्रस्वरूपापरिच्युतेरीश्वरस्य आत्मनः प्रयोजनविचारवादोऽपि परिहृतः | यदुक्तं न मे पार्थास्ति कर्तव्यं ----------------| ----------------------प्रवर्तेऽथच कर्मणि || (३/२१) इति, तथा न मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि | इति मां योऽभिजानाति कर्मभिर्न स बध्यते || (४/१४) इत्याद्यपिच | सर्वमेकः सर्वज्ञः सर्वकर्ता निरुपादानो निरुपाधिर्नित्यं सर्वात्मकत्वेन अवभासते इति | अनेन श्लोकेन आत्मन एव परमेश्वरस्य स्वरूपं यत् तत्र परमर्षिणा प्रतिपादितम्, तदेव इह सिद्धान्ततया गर्भीकृतमिति वेदितव्यम् | तदयमेवंस्वभावो भगवानात्मा स्वेच्छामात्रोपकरणो योगीन्द्रसर्गवत् स्वप्नपदार्थवत् मनोराज्यविरच्यमानविचित्रभावाभासवद्वा अनन्यसाधारणनिरतिशयक्रीडामात्रप्रयोजनो यदिदमत्यद्भुतं जगच्चित्रमुल्लिखति, तत्र तदिच्छयैव नियमिता प्रक्रिया इयं प्रकरणेऽस्मिन् गर्भीकृतेत्यपि वेदितव्यम् | तथाहि स्वेच्छामात्राधीनकर्तृत्वात् तस्यैव परस्य तत्त्वस्य मुख्यया वृत्त्या वेद्यतावभासनमात्रेण जगतः कारणत्वं व्यवस्थितम् | यदाह भगवानेव बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | (७/१०) प्. ७) इत्यादि, तथा यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एवच विस्तारं ब्रह्म संपद्यते तदा || (१३/३१) इति, तथा ------------------अहं बीजप्रदः पिता | (१४/४) इति, तथा अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा || (७/६) इत्यादि | ततस्तदीय एव यथाप्रतिपादितः स्वभावो वेद्यत्वमात्रसामान्यलक्षणं जगत् जडचेतनविभक्तस्थूलसूक्ष्मप्रकृत्यात्मकतया द्विधा अवभासयति | यदाह भूमिरापोऽनलो वायुः खं मनो बुद्धिरेवच | अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् || (७/५) इति | एतयोश्च प्रकृत्योर्जडात्मको यः स्थूलो भेदस्तमपि कारणात्मना कार्यात्मना च द्विधा स एव भगवानाभासयति | तत्र सर्वस्य वेद्यस्य वस्तुनः सुखाद्यात्मना पर्यवसितस्वरूपत्वात् सत्त्वादिगुणत्रयमयमेकं सामान्यमनुगतत्वेन यदवस्थितं, तदवान्तरकारणतया अवभासयति | यच्च महदादिपृथिव्यन्तमनुगम्य कार्यकारणकलापात्मकशरीरभावेन शब्दादिविषयभावेन च परिणतं, तत् कार्यतया अवभासयति | यदुक्तं मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् || (९/११) इति | यश्च चेतनात्मको भेदस्तमपि आसुरसर्गतया दैवसर्गतया च द्विप्रकारं तावदवभासयति | यदुक्तं द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एवच || (१६/६) प्. ८) इत्यादि | तत्र आसुरसर्गोऽधमोत्तमभेदेन द्विप्रकारः | तयोरत्यन्तन्यग्भूतसत्त्वरजस्कतमोमात्रबहलो म्लेच्छादिरूपो निकृष्ट आसुरसर्गः, यं राक्षससंज्ञया वक्ष्यति | तदपेक्षया रजोलेशानुगततमःप्रधानो मनुष्यात्मकः किंचित्प्रकृष्टोऽपरः, यस्य एवं लक्षणमुक्तं प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः | न शौचं नापिचाचारो न सत्यं तेषु विद्यते || असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसंभूतमकिंचित्कमहेतुकम् || (१६/८) इत्यादि --------------------प्रद्विषन्तोऽभ्यसूयकाः | (१६/१८) इत्यन्तम् | स्वक्रीडामपि यद्विषयामेवमाह भगवान् तानहं द्विषतः क्रूरान्संसारेषु नराधमान् | क्षिपाम्यजस्रमशुभास्वासुरीष्वेव भूमिषु || आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि | मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् || (१६/२०) इति | एवं तावत् द्विप्रकार आसुरः सर्गः | दैवमपि सर्गं देवादिमनुष्यभेदेन द्विप्रकारं तावदवभासयति | तत्रापि देवाद्यात्मकः प्रकारो द्विविधः | एकः इन्द्रादिदेवताविशेषात्मको यस्तत्तदधिकारनिर्वर्तनावधिस्तासु तासु क्रियासु नियुक्तः स्वाधिकारावसानं कालमतिवाह्य स्वकारणे परिणमति | द्वितीयो मनुष्यत्वोपात्ततत्तद्यज्ञादिक्रियाफलभूतसुखमात्रानुभवमय. म् तेषु तेषु लोकान्तरेषु भोगमुपभुञ्जानः स्वकर्मफलावसानं कालमतिवाह्य पुनः पुनः कर्मभूमिं प्रतिपद्यते | उभयरूपोऽपि अयं सत्त्वगुणप्रधानः | एवं गुणविशेषस्य तारतम्यादानन्त्याच्च सर्वसर्गभेदानामानन्त्यमवसेयम् | मनुष्यरूपोऽपि दैवः सर्गो द्विविधः | तत्र एकः प्. ९) सत्त्वलेशानुगतरजोगुणप्रधानो यः प्रवृत्तिमार्गोन्मुखत्वात् तत्त्वज्ञानानुन्मेषे सति सत्त्वलेशानुगतरजोगुणवशात् त्रययादिशास्त्रचोदितयज्ञदानतपःप्रभृतिक्रियैकप्रधानः (क्, ग्: प्रवणः इति पाठः |) संसारमनुभवति | यस्य ज्ञानानर्हत्वादेवमुपक्रम्य लक्षणमुक्तं व्यवसायात्मिका बुद्धिरेकैव कुरुनन्दन | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः | वेदवादरताः पार्थ नान्यदस्तीतिवादिनः || कामात्मानः स्वर्गपरा जन्मकर्मफलेप्सवः | क्रियाविशेषबहुला भोगैश्वर्यगतीः प्रति || भोगैश्वर्यप्रसक्तानां तयापहतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते || (२/४५) इति | तथा क्रियामात्रनिर्दिष्टत्वमुद्दिश्य उक्तं त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् || ते तं भूक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते || (९/२२) इति | तथा तान्प्रति स्वक्रियाक्रीडामपि भगवाननेनैव आह यत ईश्वरेच्छयैव ते तथा संसारितां संप्रति अनुभवन्ति | द्वितीयो मनुष्यात्मको दैवः सर्गभेदो रजोलेशानुगतसत्त्वप्रधानो यः प्. १०) प्रबलविकल्पानिलनिश्चलत्वात् कुलशैलस्थैर्याभ्यां पुरःसरीभ्यां भक्तिश्रद्धाभ्यामुत्सार्यमाणसन्देहादिघोरविघ्नौघावरणत्वाद् अभिव्यञ्जितप्रत्यासन्नपरमेश्वरदर्शनमहोत्सव एव एवंकृतलक्षणतया इह निर्दिष्टः अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः | दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || अहिंसा सत्यमक्रोधस्त्यागोऽसक्तिरपैशुनम् | दया भूतेष्वलौल्यं च मार्दवं ह्रीरचापलम् || तेजः क्षमा धृतिस्तुष्टिरद्रोहोऽनभिमानिता | भवन्ति सम्पदं दैवीमभिजातस्य भारत || (१६/३) इत्यादिना | तथाविध एव हि प्रारब्धप्रकरणप्रतिपाद्यपरमरहस्योपदेशविषयतया इह परिगृहीतः | यदाह उपदेश्यं प्रति एवं विवस्वते योगं प्रोक्तवानहमव्ययम् || (४/१) इत्यादि उपक्रम्य स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | भक्तोऽसि मे सखा चेति रहस्यं चैतदुत्तमम् || (४/३) इत्यादि, तथा चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा || (७/१६) इत्यादि, तथा प्रकरणपरिसमाप्तौ सिद्धिं प्राप्तो यदा ब्रह्म समासेन निबोध मे | समासेन तु कौन्तेय निष्ठा ज्ञानस्य या परा || (१८/५०) इति उपक्रम्य समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् | भक्त्या मामभिजानाति सोऽहं यश्चास्मि तत्त्वतः || (१८/५५) इति, तथा श्रद्धादिविषयमपि आह प्. ११) श्रद्धावा/ल्लभते ज्ञानं संयतस्तत्परेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || (४/३९) इति, तथा श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते सर्वकिल्विषैः | (३/३१) इति, तथा श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः || (१३/२०) इत्यादि च | इत्थं सर्गभेदेषु अवस्थितेषु अयं समनन्तरप्रतिपादितो दैवसर्गभेदो मनुष्यात्मको यादृगस्य उपदेशस्य विषयत्वेन परिगृहीतः, तस्य तावत् स्वरूपमुपक्षिप्यते धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्षत्रसमागमे | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || १ || सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा | आचार्यमुपसंगम्य राजा वचनमब्रवीत् || २ || पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् | व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || ३ || अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | युयुधानो विराटश्च द्रुपदश्च महारथः || ४ || धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् | पुरुजित्कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः || ५ || युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः || ६ || अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते || ७ || प्. १२) सैन्ये महति ये सर्वे नेतारः शूरसंमताः | भवान्भीष्मश्च कर्णश्च कृपः शल्यो जयद्रथः || ८ || अश्वत्थामा विकर्णश्च सौमदत्तिश्च वीर्यवान् | अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः || ९ || नानाशस्त्रप्रहरणा नानायुद्धविशारदाः | अपर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् || १० || पर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् | अयनेषु च सर्वेषु यथाभागमवस्थिताः || ११ || भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि | तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः || १२ || सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान् | ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः || १३ || सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् | ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ || १४ || माधवः पाण्डवश्चैव दिव्यौ शंखौ प्रदध्मतुः | पांचजन्यं हृषीकेशो देवदत्तं धनंजयः || १५ || पौण्ड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः | अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः || १६ || नकुलः सहदेवश्च सुघोषमणिपुष्पकौ | काश्यश्च परमेष्वासः शिखण्डी च महारथः || १७ || धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः | पाञ्चालश्च महेष्वासो द्रौपदेयाश्च पंच ये || १८ || सौभद्रश्च महाबाहुः शंखान्दध्मुः पृथक् पृथक् | स घोषो धार्तराष्ट्राणां हृदयाणि व्यदारयत् || १९ || प्. १३) नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् | अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः || २० || प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः | हृषीकेशं तदा वाक्यमिदमाह महीपते || २१ || अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत | यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् || २२ || कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे | योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः || २३ || धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः | संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत || २४ || सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् | भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् || २५ || उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति | तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् || २६ || आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा | श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि || २७ || तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् | कृपया परयाविष्टः सीदमानोऽब्रवीदिदम् || २८ || अर्जुन उवाच दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान् | सीदन्ति मम गात्राणि मुखं च परिशुष्यति || २९ || वेपथुश्च शरीरे मे रोमहर्षश्च जायते | गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते || ३० || प्. १४) न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः | निमित्तानि च पश्यामि विपरीतानि केशव || ३१ || नच श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे | न कांक्षे विजयं कृष्ण नच राज्यं सुखानि च || ३२ || किं नो राज्येन गोविन्द किं भोगैर्जीवितेन किम् | येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च || ३३ || त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च | आचार्याः पितरः पुत्रास्तथैव च पितामहाः || ३४ || मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा | एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन || ३५ || अपि त्रैलोक्यराज्यस्य हेतोः किमु महीकृते | निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन || ३६ || पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः | तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्ववान्धवान् || ३७ || स्वजनं हि कथं हत्वा सुखिनः स्याम माधव | यद्यप्येते न पश्यन्ति लोभोपहतचेतसः || ३८ || कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् | कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् || ३९ || कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन | कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः || ४० || धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत | अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः || ४१ || स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः | संकरो नरकायैव कुलघ्नानां कुलस्य च || ४२ || प्. १५) पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः | दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः || ४३ || उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः | उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन || ४४ || नरके नियतं वासो भवतीत्यनुशुश्रुम | अहो बत महत्पापं कर्तुं व्यवसिता वयम् || ४५ || यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः | यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः || ४६ || धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् | संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् || ४७ || विसृज्य सशरं चापं शोकसंविग्नमानसः | इह खलु प्रतिपादितस्वरूपस्य सर्वकर्तुः परमेश्वरस्य सततं कर्तृत्वाविलोपात् क्रियाशक्तिनित्याविरहे सुव्यवस्थिते तन्मायावैभवोद्भावितभेदानामपि जीवानां परमार्थतस्तदात्मकत्वात् तद्वदेव क्रियाशक्त्यविरहः सर्वदैव स्थितः, इति सर्वात्मना कर्मणां परित्यागानुपपत्तेः शास्त्रचोदितानां तेषां बन्धकत्वशक्तिप्रतिष्टम्भहेतुवक्ष्यमाणज्ञानसंस्कृतानामधिक् आरिदेशकालावस्थाद्यपेक्षं मुख्यकल्पानुकल्पक्रमेण यथाशक्ति यथाविधि च अनुष्ठानमेव सकलस्य उपदेशविषयभूतस्य जनस्य परमार्थस्वरूपसमापत्तिलक्षणमोक्षाधिगमहेतुरित्ययमिह उपदेशो विवक्षितः | अतश्च कस्यचिदपि अधिकारिणः कस्यांचिदपि अवस्थायां घोरस्य अपि शास्त्रचोदितस्य कर्मणः परिहारानुपपत्तौ स्थितायां तादृशमेव घोरकर्माधिकृतमुक्तोपदेश्यलक्षणविशिष्टमर्जुनमुद्दिश्य भगवत्कर्तृकं रहस्यमिदमुपदेष्टुं मुनिपुङ्गवः प्रक्रमते | तत्र धर्मक्षेत्रे प्. १६) इत्यादि किमकुर्वत सञ्जय इत्यन्तं धृतराष्ट्रप्रश्नचोदितसंजयवाक्यानि | दृष्ट्वा तु पांडवानीकम् इत्यादीनि तुमुलो व्यनुनादयत् इत्यन्तानि परस्परवधाध्यवसायसंरब्धसकलकुरुपाण्डवसैन्यसमागतसु भटघोरसमरसंरम्भोद्योगसूचकत्वात् कर्मघोरत्वप्रतिपादनतात्पर्याणि निगदव्याख्यातानि | तथा अथ व्यवस्थितान्दृष्ट्वा इत्यादि उपक्रम्य संजयोक्तान्येव अर्जुनवाक्यानि सैन्यनिरूपणोपक्रमाणि उभयोः सेनयोर्मध्ये इत्यादीनि सुबोधानि | ततः संजयोक्तान्येव हृषीकेशवाक्यान्यपि स्फुटार्थान्येव | ततः तत्रापश्यत्स्थितान्पार्थः इत्यादि सीदमानोऽब्रवीत् इत्यन्तमर्जुनस्य पितृपितामहादिबन्धुवर्गदर्शनक्रियात्मकं संजयवाक्यमपि व्यक्तार्थम् | ततः प्रस्तुतोपदेशप्रतिषेध्यतत्त्वाज्ञानसमुद्भूतपितृपितामहादिबन्धुव् अधपर्यवसायिसङ्ग्रामकर्मविचिकित्सस्य करुणावेशविवशस्य अर्जुनस्य अधर्ममेव धर्मत्वेन व्यपदिशतो दृष्ट्वेमान्स्वजनान् कृष्ण इत्यादीनि तन्मे क्षेमतरं भवेत् इत्यन्तानि मनुष्यस्वभावसुलभमिथ्याज्ञानप्रतिपादकवाक्यानि निगदव्याख्यातान्येव | ततश्च एवमुक्त्वा हृषीकेशम् इत्यादि संजयवाक्यमपि गतार्थमेवेति तात्पर्यतः प्रथमोऽध्यायो व्याख्यातः, ननु गौरवभयात् प्रातिपद्येन | एवमयं प्रथमोऽध्यायो यथोपक्रान्त उपदेश्यभगवत्प्रवृत्तिहेत्वर्जुनविषादप्रतिपादनार्थः समाप्तः || १ || योग्यानुग्रहनीतिनाटकविधिप्रस्तावनेयं प्रभो- र्गीतासु प्रथमस्य या विरचनाध्यायस्य तां ध्यायताम् | दिव्यास्वादसुधार्द्रवस्तुविकसत्कौतूहलानां मनः सभ्यानामवधानमत्र निविडं वध्नातु बद्धादरम् || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे प्रथमोऽध्यायः || १ || अथ द्वितीयोऽध्यायः क्वचित् षड्भिः पादैः, द्वचिदर्धश्लोकेन मुनेर्वाक्यार्थपरिसमाप्तिस्तत्र तत्र इतिहासभागे दृश्यते | तदिह प्रकरणे तत्र तत्र तथैव अवगन्तव्यम् | अथ एवं व्यामोहवशविसंस्थुलमर्जुनं प्रति संजातानुजिपृक्षस्य भगवतः परमार्थोपदेशप्रक्रमपिशुनानि वाक्यानि उपक्षेप्तुं संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | सीदमानमिदं वाक्यमुवाच मधुसूदनः || १ || स्पष्टार्थः श्लोकः || १ || यदुवाच भगवांस्तदाह कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || २ || इदम् एवं विधप्रस्तुतावश्यकरणीयस्वकर्मकरणावसादकारणव्यामोहात्मक् अं कश्मलं पापं त्वा भवन्तं कुतः कस्मात् निमित्तात् विषमे संकटे उपस्थितम् उपागतम् अर्जुन | कीदृशं कश्मलम् | अनार्यजुष्टम् अशिष्टसेवितम्, अत एव अस्वर्ग्यं स्वर्गप्राप्तिप्रतिकूलम् अकीर्तिकरम् अपवादसंपादकमिति पदसंगतिः स्फुटैव | अर्थविशेषं तु इमं गर्भीकृत्य भगवानेतदाह अर्जुनशद्बोऽत्र न संज्ञिमात्रसम्बोधनार्थः, किंतु तद्गतप्रकृष्टाभिजनप्रज्ञापराक्रमादिगुणगरिमप्रत्यायनार्थः | त्वच्छब्दोऽपि परमार्थतो मोहादिमलविविक्तस्वभावस्य आत्मनः प्रत्यायकत्वेन प्रयुक्तः | तेन वस्तुतो यस्त्वं, तस्य अनेन व्यामोहकलङ्केन सम्बन्धः प्रकाशस्य तमसा इव अत्यन्तमसम्भाव्यः, इति कुतस्त्वामिदमुपस्थितमित्यनेन प्. १८) वाक्येन गर्भीकृतम् | अत एवच एतत्पापमनार्यैरतत्त्वविद्भिरसाधुभिः सेवितमित्यादि उक्तम् || २ || अनेनैव क्रमेण एतत् विशेषयितुमाह मा क्लैव्यं गच्छ कौन्तेय नैतत्त्वययुपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || ३ || हे परन्तप ! शत्रुजनज्वरजनक क्लैव्यं कापुरुषत्वं मा गाः, यतः त्वयि जगद्विख्यातविक्रमादिगुणमहिम्नि न एतत् एवंविधमल्पसत्त्वजनोचितम् उपपद्यते | तस्मात् क्षुद्रम् असारं हृदयदौर्बल्यम् आशयकार्श्यं विहाय उत्तिष्ठ स्वप्रस्तुते श्लाघ्ये संग्रामकर्मणि उद्यमं गृह्णीष्व | अत्रापि त्वच्छब्दस्य पूर्वोक्तार्थगर्भीकारेण प्रयोगो मन्तव्यः, क्लैव्यशब्दस्य च विवेकशून्यत्वगर्भीकारेण, इति | अन्यदपि विशेषणमेवं योजनीयमिति || ३ || अथ संप्रति अनाविर्भूतात्मानात्मस्वरूपविवेचनक्षमप्रज्ञत्वात् देहादिकमेव आत्मत्वेन प्रतिपद्यमानो गुर्वादिवधमहापातकपर्यवसायिसमरानुष्ठानं दोषोद्भावनेन प्रतिषेद्धुमर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन | इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन || ४ || मधुसूदन ! कथं केन शास्त्रोपपन्नेन प्रकारेण भीष्मं पितामहं गुरुं च द्रोणं ब्राह्मणं संगरे सायकैः प्रतीपं संप्रहारेण योजयिष्यामि | यदिवा प्रतिशब्दयोगे द्वितीया व्याख्येया | युधिश्च अकर्मक एव | परस्मैपदमत्र च्छान्दसम् | अन्यत्रापि एवं द्रष्टव्यम् | यतस्तौ विद्याभिधानधनप्रदानपरमोपकारिणौ प्राणैरपि परितोषणीयहृदयौ पूजनमेव अर्हतः | अत्र एतेन कथमितिप्रकारप्रश्नेन प्रस्तुतरणपरिजिहीर्षायाः कश्मलत्वं भगवता उपन्यस्तं धर्मविरोधादनुपपन्नमेवेति अभिप्रायः सूचितोऽर्जुनेन || ४ || प्. १९) अथ आह गुरूनहत्वा हि महानुभावान् श्रेयश्चर्तुं भैक्ष्यमपीह लोके | नत्वर्थकामस्तु गुरून्निहत्य भूञ्जीय भोगान् रुधिरप्रदिग्धान् || ५ || यस्मात् संग्रामपरिहारेण गुरूणां वधः परिहृतो भवति, तांश्च अहत्वा भिक्षान्नमपि अभ्यवहर्तुं प्रशस्यं स्यान्मम, न पुनरहं धर्मलिप्सुस्तान् व्यापाद्य तच्छोणितोपचितान् इष्टान् विषयान् समश्रीयाम् || ५ || किंच नैतद्विद्मः करतन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः | यानेव हत्वा न जिजीविषाम- स्ते नः स्थिताः प्रमुखे धार्तराष्ट्राः || ६ || एतत् एव न जानीमः द्वयोर्मध्यात् कतरत् वस्तु अस्माकं प्रयोजनवत्तया गरीयो गुरुतरं स्यात् | कयोस्तयोर्वस्तुनोरित्याह यदिवा वयं तान् प्रतिद्वन्द्विनो जयेम तिरस्कुर्वीमहि, यदिवा अस्मान् ते तिरस्कुर्वीरन् | एतयोरर्थयोरेकतरस्य गरीयस्त्वापरिज्ञाने कारणमाह- यस्मात् यान् कुरून् व्यापाद्य वयं बन्धुविरहात् प्राणानेव धारयितुं न इच्छामः ते धृतराष्ट्रपुत्रा भ्रातरोऽस्माकं पुरः स्थिताः | किमुक्तं भवति | यदि तावदस्माभिः कुरवो हताः स्युः, तदस्य पक्षस्य का गरीयस्ता दुःखमात्रफलत्वात् | एवंच अर्थादिदमुक्तं स्यात् यदि तेऽस्मान् जयेयुः, स पक्षो गरीयान् भवेदिति || ६ || अथ समरकर्मानुष्ठानं धर्मसुखबाधकत्वात् परिहार्यतया प्रतिपाद्य अपि, प्. २०) स्वात्मनि वैदुष्याभिमानदोषमाशङ्कमानो भगवति संशयानमात्मानमावेदयन् स आह कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः | यच्छ्रेयः स्यान्निश्रितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || ७ || हे भगवन्नहं कार्पण्यदोषेण बन्धुहिंसाजनितेन दैन्येन उपहतस्वभावः प्रध्वंसितक्षत्रधर्मा अत एव धर्मेषु शास्त्रोदितेषु आचारेषु संमूढचेताः संशयितमनस्को भवन्तं पृच्छामि | अतश्च यत् मे वस्तु श्रेयः प्रशस्यतरं स्यात्, तत् निश्चितं निःसन्देहमादिश | यतः शिष्यः शासनीयस्तव अहम् | एतेन प्रपन्नम् उपपन्नं सन्तं गुरुर्भूत्वा मां शाधि व्युत्पादयेति || ७ || किंच न तं प्रपश्यामि ममापनुद्यात् यः शोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपतमृद्धं राज्यं सुराणामपि चाधिपत्यम् || ८ || यस्मात् तम् अहं कंचित् त्वां वर्जयित्वा न तर्कयामि, यो मम शोकं शोचनमपसारयेत् | कीदृशम् | इन्द्रियाणां बाह्याभ्यन्तराणां करणानाम् उच्छोषणं सन्तापकम् | किं कृत्वा | निर्विपक्षं स्फीतं भूपालाधिपत्यं लब्ध्वा अपि | अथवा अत्यल्पमिदमुच्यते, देवानामपि ऐश्वर्यमधिगम्य मम कार्पण्यदोषोपहतस्वभावस्य शोचनमेव स्यात्, अतो मां शाधि, इति | एवं शोचनक्रियापेक्षमवाप्तिक्रियायाः पौर्वकाल्यमवसेयम्, नतु अपनोदनक्रियापेक्षम्; प्. २१) तथाहि सति भिन्नकर्तृकत्वात् शब्ददोषः समन्वयाभावाच्च अर्थदोषो दुर्निवारः स्यादिति || ८ || अथ युद्धनिषेधनिश्चितबुद्धित्वं धनञ्जयस्य प्रतिपादयितुं संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप | न योत्स्यामीति गोविन्दमुक्त्वा तूष्णीं बभूव ह || ९ || तमुवाच हृषीकेशः प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये सीदमानमिदं वचः || १० || श्लोकद्वयमेतत् गतार्थम्, किंतु हृषीकाणि इन्द्रियाणि तेषामीशो नियन्ता भगवान् | गुडाकां निद्रामाचक्षते, तस्या ईशस्तया अनभिभवनीय इति अर्जुनविशेषणं व्याख्येयमिति || १० || एवमविद्याव्यामोहपरित्यक्तसंग्रामाध्यवसायमर्जुनं सम्यक् ज्ञानोपदेशेन अत्र स्वकर्मणि प्रविवर्तयिषुः भगवानुवाच त्वं मानुष्येणोपहतान्तरात्मा विषादमोहाभिभवाद्विसंज्ञः | कृपागृहीतः समवेक्ष्य बन्धू- नभिप्रपन्नान्मुखमन्तकस्य || ११ || उपदेशाभावात् संप्रति अनुदितदैवसर्गोचितप्रज्ञः त्वं मानुष्येण मनुष्यभावेन संशयविपर्यज्ञानबहुलेन उपहतान्तरात्मा प्रत्यभिज्ञानाभावात् तिरस्कृतसत्यात्मस्वरूपो वर्तसे इति शेषः | यस्मात् विषादेन शोकजेन अनध्यवसायेन मोहेन च विपर्ययप्रत्ययहेतुना वैचित्त्येन यस्ते अभिभवः सामर्थ्यभंगः कृतः, तस्मात् हेतोः विसंज्ञः विगतवक्ष्यमाणसम्यग्ज्ञानोऽसि | कुत एतदवगतमित्याह यतस्त्वं दुर्निवारप्रसरस्य कृतान्तस्य वदने प्रविष्टान् प्. २२) बान्धवान् निरूप्य कृपागृहीतः गृहीतकृपः स्वीकृतकरुणः संवृत्तः | आहिताग्र्यादेराकृतिगणत्वात् गृहीतशब्दस्य पूर्वनिपाताभावोऽत्र अवसेयः | तेन बहुब्रीहिरेव अयं, न तत्पुरुषः, तस्मिन् सति भिन्नकर्तृकत्वप्रसङ्गः | अनेन श्लोकेन वक्ष्यमाणस्य आत्मज्ञानस्य प्रथमप्रतिपाद्यं शरीरशरीरिव्यतिरेकज्ञानमासूत्रितम् || ११ || यत एकान्तविनश्वरशरीरसंनिवेशविशेषबद्धबन्धुबुद्धित्वमिदं शरीरिस्वरूपापरामर्शनिबन्धनम्, अत एव आह अशोच्याननुशोचंस्त्वं प्राज्ञवन्नाभिभाषसे | गतासूनगतासूंश्च नानुशोचन्ति पंडिताः || १२ || त्वं ज्ञातिगुर्वादिवधपर्यवसायिनः समरव्यापारस्य अधर्म्यत्वदुःखोदर्कत्वादुपन्यस्यन् लोकद्वयबाधकत्वं प्राज्ञवत् बुद्धिमानिव न जल्पसि | नैषा नैष्ठिकी बुद्धिः, शरीरशरीरिविवेकज्ञानाभावजनिता विमतिरेव एषा | न हि एते गुर्वादयोऽवश्यं विनाशिशरीरमात्रात्मकाः, किंतु नित्याः शरीरिणः एते तद्व्यतिरिक्ताः | अत एव किं कुर्वन् त्वं प्राज्ञवन्नाभिभाषसे अशोच्यान् विनाशाभावात् परमार्थतश्च दुःखयोगाभावादशोचनीयान् परिदेवनस्य अविषयभूतान् अनुशोचन् शोकविषयत्वेन भावयन् | यतश्च एते नित्याः, अत एव तान् गतासून् तेभ्यस्तेभ्यः शरीरेभ्यः उत्क्रान्तप्राणान् मृतव्यपदेशभाजः, तथाच अगतासून् तेषु तेषु शरीरेषु अवस्थितप्राणत्वात् जीवद्व्यपदेशभाजः पण्डिताः विज्ञातपरमार्थाः न अनुशोचन्ति || १२ || तथाच जीवावस्थायामेव एषां तावत् नित्यत्वं प्रतिपादयितुमाह न ह्येवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्यामः सर्वे वयमितः परम् || १३ || प्. २३) यं मां वर्तमानं मन्यसेसः अहं न जातु न आसं नञ्द्वयेन पूर्वकालभावमेव प्रकृतं प्रतिपादयति नाहमभूत्वा भवामि, किंतु प्रागपि भूत्वा इदानीमपि भवामि | यथा अहं, तथा त्वमपि संप्रति वर्तमानत्वेन प्रतिभासमानः पूर्वमपि आसीरेव, नतु अभूत्वा भवसि | यथाच त्वं, एवमिमेऽपि वर्तमानत्वेन प्रतिभासमानाः सर्वे राजानः पूर्वमासन्नेव, न पुनरभूत्वा भाव एषाम् | न च सर्वे एव वयमितः परम् अस्मात् शरीरादनन्तरं न भविष्यामः भविष्याम एवेति | अनेन युष्मदस्मत्परभेदेन व्यवस्थितस्य जीवलोकस्य कालत्रयेऽपि सत्तासंभवात् नित्यत्वं प्रतिजानीते | आसम् इत्यादि तु भूतादिक्रियाकर्तृत्वव्यपदेशो विनाशधर्मकशरीरसामानाधिअकरण्यभ्रमकृतः, नतु नित्यस्य भूतादिव्यपदेश उपपद्यते इति || १३ || ननु देहनिष्ठस्य जीवस्य कर्तृत्वज्ञातृत्वाद्युपलम्भः तत् कथं तद्विनाशे तस्य नित्यत्वं स्यादिति दुराशंकां प्रत्यक्षोपलभ्यनिदर्शनप्रतिपादनेन परिहर्तुमाह देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || १४ || अस्मिन् वर्तमानबुद्ध्या परिगृहीते देहे यथा अस्य देहिनः तत्संवेदितुरात्मनः कौमारं कुमारभावो बाल्यं, तथा यौवनं तारुण्यं, तथा जरा वृद्धभावः इत्यवस्थात्रयमनित्यं तेन देहिना भूतादित्वेन अनुसन्धीयमानं सम्बध्यते, तथा तेनैव निदर्शनेन इतो देहादन्यस्य देहस्य प्राप्तिस्तस्य आत्मनो देहद्वयव्यापकस्य स्थितैव | तत्र अतत्त्वज्ञो मोहं गच्छति शरीरविनाशे शरीरिणमपि विनष्टं मन्यते, धीरस्तु पण्डितस्तत्त्ववित् तत्र न मुह्यति न तं प्. २४) शरीरविनाशे नष्टं मन्यते नित्यमेव तमवगच्छति | किमनेन उक्तं भवति | यथा बाल्याद्यवस्थाविनाशे न कश्चिदात्मविनाशं मन्यते प्रतिपत्तारमात्मानमेकं स्थितं मन्यते, तथैव नानादेहसम्बन्धमतीतानागतत्वेन अनुसन्दधानः किंतु सर्वः कश्चित् प्रतिपत्ता बाल्याद्यवस्था अतीतानागतत्वेन अनुसन्दधानः प्रबुद्धो नित्यमात्मानमवगच्छति | एताभिश्च स्थूलाभिः कौमाराद्यवस्थाभिस्तद्गताः सूक्ष्मा जागरादयोऽपि अवस्थाः प्रतिपादिता वेदितव्याः | तथाहि तासु अन्योन्यभिन्नरूपासु प्रवर्तमानासु उत्पादविनाशवतीषु उपलब्धृत्वेन एकेन लक्षणेन युक्तस्ताभ्योऽत्यन्तविलक्षणस्वभाव आत्मा सर्वस्य स्वसंवेदनसिद्धो व्यापकत्वेन व्यवस्थितः || १४ || तदनेन मायैकीकृतदेहदेहिव्यतिरेकोपपत्तिप्रतिपादनद्वारेण पारमार्थिकमात्माद्वैतमुपक्रम्य इदानीं यथाप्रतिपादिते आत्मस्वरूपे येन हेतुना सर्वजन्तवो मुह्यन्ति अन्यथैव तं प्रतिपद्यन्ते, तत्प्रतिपादनपूर्वं तत्प्रतिषेधोपायमपि उपदेष्टुमाह मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || १५ || मीयन्ते एताभिरिति कृत्वा देहित्वविशिष्टस्य प्रमातुः प्रमेयार्थपरिच्छेदसाधनं मात्रा इन्द्रियार्थशक्तय उच्यन्ते | स्पृश्यन्ते वेद्यतया परामृश्यन्ते इति स्पर्शाः इन्द्रियार्थाः | ते च द्विप्रकाराः श्रोत्रादिबाह्येन्द्रियस्पृश्यमानाः शब्दादिरूपाः, केवलान्तःकरणस्पृश्यमानाः सुखादिरूपाः | तुशब्दो व्यतिरेके | परमार्थतो नित्यस्य आत्मनो मात्रास्पर्शाः पुनः शीतोष्णसुखदुःखदाः इति सम्बन्धः | ते च शरीरेण सम्बध्यमानाः शीतमनुभवामि उष्णमनुभवामि, इति प्रत्ययं ददति; अन्तःकरणेन सम्बध्यमानाः प्. २५) सुखमनुभवामि दुःखमनुभवामि, इति प्रत्ययं ददति | ततश्च शीतोष्णसुखदुःखादिषु आत्मधर्मत्वमारोपयन्तः उत्पादविनाशस्वभावत्वात् अनित्याः आत्मनि अनित्यताभ्रममुत्पादयन्तः सर्वप्राणभृतो मोहयन्तीत्यर्थः | यतश्च ते परमार्थतः प्रतिक्षणविनाशिनः, ततः प्रोदितोपपत्त्या नित्यमात्मानं प्रत्यवमृशन् तान् तितिक्षस्व सहस्व तत्समर्पितेन अनित्यसुखादिस्पर्शमात्रेण नित्यनिर्विकारस्वात्मावष्टम्भप्रतिष्ठां मा त्याक्षीः | यथा त्रैलोक्यैकवीरेण त्वया दुर्वारदर्पोद्भुरमापतन्तः प्रतिद्वन्द्विनो निष्प्रकम्पनिजपौरुषपरिस्पन्दसुस्थितेन मानगपि अन्तरनुपजातविक्रियेण असकृत् सावज्ञमुद्व्यूढभरतया सोढाः, तथैव निसर्गनिर्विकारे स्वात्मनि अहङ्कारमारोप्य तेऽपि स्पर्शाख्याः प्रतिद्वन्द्विनः प्रकृतिनिस्सारतत्सरूपनिरूपणमात्रेण सह्यन्ताम् | यथास्थितवस्तुविमर्शाभावमात्रजनितोऽयं व्यामोहः यदात्मनि देहबुद्ध्यादिधर्मारोपेण कृशोऽहं पूर्णोऽहं सुखितोऽहं दुःखितोऽहम् इत्यादयः प्रत्ययास्तत्सामानाधिकरण्येन प्रादुर्भवन्ति, तत्त्वतः पुनस्ते स्वात्मैक्येन अवस्थिता बहिरन्तःकरणशक्तिभिः केवलं स्पृश्यन्ते, नतु तावता कांचिदपि आत्मनो विकारकणिकां सम्पादयितुं क्षमाः | स्फटिकदर्पणोपमो हि अयमात्मा नीलपीताद्याभासतुल्याभिः स्फुरन्तीभिरपि निकटसुखादिप्रतीतिभिर्न अन्यथाकर्तुं शक्यते | यदुक्तम् आसक्तिसामर्थ्यवशाद्विचित्राः पदार्थजातस्य विभान्ति भासः प्रपद्यतेऽन्तर्नतु (ख, ग, पु० प्रपद्यते तन्नत्विति पाठः |) जातु धीमान् विकारमादर्श इव(ख, ग, पु० इवाप्रसन्न इति पाठः |) प्रसन्नः || इति | अत एव मात्रास्पर्शशब्देन इन्द्रियार्थव्यपदेशः कृतः | प्. २६) तदनेन श्लोकेन सर्वसंवेद्यभङ्गुरस्वभावकौमारजागराद्यवस्थावत् सुखाद्यवस्थास्वपि सर्वप्राणिगतासु संवेदकत्वेनैव एकेन स्वभावेन युक्तो नित्यो व्यापक एक एव आत्मा प्रतिपादितः | नच एवतावता एकस्य सुखित्वादौ सति सर्वसुखित्वादिप्रसंगः, यतो मायोद्भावितान्योन्यभेदाभासा एव प्रमातारः सततं परस्परविभक्तमात्मानमवगच्छन्ति, नतु पारमार्थिकः परः प्रमाता | तत्र हि एकस्मिन् सर्वदा सर्वत्र सर्वथा निर्विशेषस्वभावे सर्वमिदं प्रतिबद्धम् | यथोक्तं --------------------तं प्रपद्ये प्रजासृजम् | इति उपक्रम्य यस्मिन्नित्ये तते तन्तौ दृढे संव्यवतिष्ठति | सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि || इति || १५ || तदेवंस्वभावे सत्ये स्वात्मनि सुव्यवस्थितमुक्तलक्षणमिति (क० ग० घ० गु० सुव्यवस्थितत्वं मुक्तलक्षमिति पाठः |) प्रतिपादयितुमाह यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ | समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || १६ || यं पुरुषम् उक्तलक्षणं ज्ञानैकताननिर्विकल्पकप्रज्ञतया मुमुक्ष्ववस्थायां वर्तमानम्, अत एव धीरं परिज्ञातसदसत्पदार्थपरमार्थम्, अत एवच समदुःखसुखं समे मनोवेद्यत्वमात्रेण एकेन रूपेण स्पृश्यमाने तुल्ये दुःखसुखे यस्य तथाविधं घटादिवत् वेद्यत्वमात्राविशिष्टरूपैः सुखादिभिरन्तरनुपजनितविकारं सन्तम् एते जन्मविनाशधर्मयोगादनित्याः सुखितोऽहम् इत्यादिविपर्ययप्रत्ययहेतवः स्पर्शशब्दाभिहिता विषयाः शब्दादयो न प्. २७) व्यथयन्ति तद्विविक्तवेदकैकस्वभावात् सत्यादात्मनो न प्रच्यावयन्ति, सः अमृतत्वाय परमात्मसमापत्तिवशादविनाशत्वाय कल्पते सम्पद्यते मुक्तो भवतीत्यर्थः || १६ || अथ उपपत्त्युपन्यासपूर्वमात्मनो वेदकैकस्वभावस्य पारमार्थिकीं सत्तां, तथा तत्प्रमेयस्वरूपस्य देहादेश्च जन्मविनाशवतस्तदभावं प्रतिपादयितुमाह नासतो विद्यते भावो नाभावो विद्यते सतः | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः || १७ || इह स्वभावादेव यदविद्यमानं वस्तु तस्य असतो भावः सत्ता न अस्ति तथैव स्वभावतः सतो नित्यस्य अभावो विनाशो न अस्ति एतयोः सदसतोः प्रकाशतमसोरिव अत्यन्तपरस्परविरोधात्; किंतु एतयोर्द्वयोरपि तत्त्वविद्भिः साक्षात्कृतपरमार्थैः अन्तो निष्ठा निश्चयो दृष्टो विज्ञातः, न तु अतत्त्वविद्भिः | ते हि अचिन्त्याद्भुतस्वभावपरमेश्वरमायाशक्त्युद्भावितविषयप्रत्ययत या सत्यमात्मानमप्रत्यवमृशन्त एव असदनित्यत्वादिना वास्तवसद्भावरहितं देहादिवस्तु इदन्तया संवेद्यमानत्वात् सत्त्वेन प्रतिपद्यन्ते, परमार्थतस्तु सत् नित्यमात्मतत्त्वमप्रत्यभिज्ञायमानत्वादसत्त्वेन प्रतिपद्यन्ते || १७ || ततश्च तत्त्वतः किं सत्, किमसदिति उपदेष्टुमाह अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | विनाशमव्यस्यास्य न कश्चित्कर्तुमर्हति || १८ || एतयोः सदसतोर्मध्यात् तदविनाशि विनाशधर्मरहितत्वात् परमार्थतः सत् विद्धि जानीहि | किं तत् | येन एकेन इदम् अन्योन्यभिन्नाभासमयं सर्वं चराचरं वस्तुजातं ततं कर्तृत्वविवक्षया विस्फारितम्, ज्ञातृत्वविवक्षया वा व्याप्तम् | एक एव प्. २८) हि परमार्थतः सर्वकर्ता सर्वज्ञः परमेश्वरः परमात्मा तदवभासितान्योन्यभेदानां तु क्षेत्रज्ञानां देहादिकमेव आत्मत्वेन प्रतिपद्यमानानां परिमितविषयं कर्तृत्वं ज्ञत्वं च न वास्तवम् | एवं अस्य आत्मतत्त्वाभिधानस्य वस्तुनः अव्ययस्य देशकालाद्यवच्छेदरहितत्वादक्षयस्वभावस्य, तद्विलक्षणः कर्यज्ञेयरूपो न कश्चिदर्थो विनाशम् अभावं कर्तुमर्हति | नहि नित्यस्य सर्वथानवच्छिन्नमहिम्नोऽर्थस्य अनित्योऽवच्छेद्यः पदार्थो विनाशाय प्रभवतीति || १८ || सत्त्वरूपं प्रतिपाद्य, असत्त्वरूपं प्रतिपादयितुमाह अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | विनाशिनोऽप्रमेयस्य तस्माद्युद्ध्यस्व भारत || १९ || सर्वशरीरेषु सर्वावस्थासु च अविलुप्तोपलब्धृत्वमात्रैकलक्षणत्वात् नित्यस्य अविनाशिनः, तथा देहादिभिरवच्छेत्तुमशक्यत्वात् अप्रमेयस्य इयत्तादिकलनाविषयभूतस्य शरीरिणः आत्मनः इमे देहास्तद्विलक्षणा अन्योन्यभिन्नागमापायधर्मकत्वात् विनाशिनो विनश्वरस्वभावत्वात्, तथा देशकालादिपरिच्छेद्यत्वात् अन्तवन्तः इयत्तादिकलनाविषयभूता वेद्यत्वमात्रेण सम्बद्धाः, इति देहरूपस्य वस्तुनः परमार्थविनश्वरस्य ज्ञेयत्वमात्रादिना हेतुना आत्मसम्बद्धस्य विनाशे सति आत्मनोऽपि विनाशप्रतिपत्तिरविद्याविजृम्भितम् | तच्च त्वयि न उपपन्नम् | अतो यथाप्रतिपादितात्मतत्त्वप्रतिष्ठाहंकारो वक्ष्यमाणया उपपत्त्या दुष्परिहरं स्वकर्म अनुतिष्ठन् युद्ध्यस्व प्रस्तुतं समरकर्म समाचरेति || १९ || अथ युद्धं नाम परहननरूपतया हिंसात्मकं कर्म, तत् कथमहं गुरुज्ञात्यादिवधलक्षणे घोरे कर्मणि प्रवर्तेय, इति तत् प्. २९) मन्यसे, तदेतदात्मस्वरूपानभिज्ञत्वजनितमोहविलसितमेव | यतः य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || २० || यो मायावशादत्यन्तनिर्विकारपरमार्थसन्तमात्मानमप्रत्यवमृशन् तद्विलक्षणं देहमेव आत्मत्वेन मन्यमानो हननादिदेहधर्माधिरोपणेन एनं सत्यमात्मानं हन्तारं हननक्रियाकर्तारं वेत्ति प्रतिपद्यते; यश्च एनमेव प्रतिपादितलक्षणमविनाशिनमात्मानं विनाशलक्षणदेहधर्माध्यारोपणेन हतं हिंसितं मन्यते; तौ उभौ अपि मोहवशादनात्मनि आत्माभिमानग्रहग्रस्तसम्यग्ज्ञानौ न जानीतः सत्यस्य आत्मनः स्वरूपं न बुद्ध्येते | यतः अयं परमात्मा सर्वमेव इदं परमनिर्विकारचिन्मात्रस्वभावः स्वात्मतया सर्वदा विमृशन् न हन्ति, नच हन्यते हन्तृतानिबन्धनं हननक्रियाकर्तृत्वं न प्रतिपद्यते, नापि हन्तव्यतानिबन्धनं हननक्रियायाः कर्मत्वम् || २० || एते हि विकल्पविपर्ययज्ञानात्मकव्यवहाराणां क्षेत्रज्ञानामेव सम्भवन्ति, न परमात्मनः न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || २१ || अयम् उक्तलक्षण आत्मा देशकालाकारावस्थाद्यवच्छेदरहितचिन्मात्रस्वरूपत्वात् न जायते उत्पद्यते नित्यमनुत्पन्नरूपत्वात् नापि म्रियते विनश्यति नापि जन्ममरणान्तरालवर्तिस्थित्यवस्थारूपं भावविकारमनुभवति | ते हि जन्मस्थितिविनाशात्मका अवस्थाभेदा देहाद्यनित्यभावाश्रयाः | ते हि भावा अभूतपूर्वधर्माविर्भावे प्. ३०) जाता इति उच्यन्ते, भूतपूर्वधर्मतिरोभावे च विनष्टा इति उच्यन्ते, तदन्तराले च तत्तत्प्रत्ययप्रवाहसादृश्यभ्रमात् स्थिता इति उच्यन्ते | स च तेषामपुनर्भावीभावः, आत्मनस्तु सदाभूतस्य न अभावसम्बन्धः | सच एकलक्षणाव्यभिचाराच्च न धमान्तराविर्भावतिरोभावावेति | जन्मस्थितिविनाशलक्षणावस्थात्रयप्रतिषेधोऽस्य अनेन श्लोकेन प्रतिपादितः | इदानीमेत एव भावविकारा विशेषणैरस्य (ख: विशेष्यस्य प्रतीति पाठः |) प्रतिषिध्यन्ते | तत्र अयम् आत्मा न जायते उक्तेन क्रमेण नोत्पद्यते इति अजः जन्मलक्षणानित्यभावविकाररहितः, तथा नित्यः सदैकस्वभावावियुक्त इत्यनेन अस्य प्रतिक्षणं धर्मान्तराविर्भावतिरोभावलक्षणो विपरिणामाख्यो विकारः प्रतिषिध्यते | शाश्वतः शश्वत् संपूर्णेन रूपेण युक्त इत्यनेन विवृद्धिलक्षणो विकारोऽस्य प्रतिषिध्यते | नहि अयमनित्यभाववत् पूर्वमपचितो भूत्वा उपचयरूपं विकारमापद्यते | तथा पुराणः पूर्वकोटेरसम्भवात् सततमेव चिरन्तन इत्यनेन अपक्षयलक्षणो विकारः प्रतिषिध्यते | नहि अयमुपचितो भूत्वा पुनरपचीयते देहादिभाववत् | तथा शरीरे हन्यमाने न अयमात्मा हन्यते शरीरस्यैव अनित्यत्वात् जन्माद्यवस्थाजुषो विनाशावस्थापि सम्भवति, नतु नित्यस्य आत्मन इत्यनेन विनाशलक्षणो विकारोऽस्य प्रतिषिद्धः | अस्तित्वलक्षणस्तु षष्ठो विकारः प्रागुक्तावस्थात्रयमध्ये भूत्वाभावशब्देन प्रतिपादितः इत्यधुना न उक्तः, यदिवा केचिदस्तित्वं विकारत्वेन नेच्छन्ति इति न उक्तः || २१ || एवं सकलभावविकाररहितं वेदाविनाशिनं नित्यं य एनमजमव्यम् | कथं स पुरुषः पार्थ हन्यते हन्ति वा कथम् || २२ || एनं प्रतिपादितस्वरूपं अविनाशिनम् आत्मानं यः पुरुषः प्. ३१) प्रमाता नित्यं सदैव जानाति, स तदभिन्नमात्मानं प्रतिपद्यमानः कथं केन प्रकारेण हन्यते विनाश्यते हन्ति वा कथम् परं विनाशयति | हननक्रियाकर्तृकर्मभावोऽयं शरीरमात्रप्रतिबद्धात्माभिमानेषु अप्रतिबुद्धेषु क्षेत्रज्ञेषु एव व्यवस्थितः || २२ || ननु हननादिना देहविनाशे सति चेतनधर्मानुपलम्भः, तदात्मनो देहविनाशे सति कथमविनाशित्वमवगम्यते इति व्यामोहव्यपोहाय दृष्टान्तनिदर्शनपूर्वं पुनरपि नित्यत्वं द्रढयितुमस्य आह वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही || २३ || यथा कश्चित् पुरुषो जीर्णानि उपभुक्तानि वस्त्राणि त्यक्त्वा स एव सन् अन्यानि नवानि उपभोगक्षमानि गृह्णाति उपादत्ते इत्यनेन जन्मादिविविधविकाराक्रान्तनानाशरीरसंयोगवियोगवशात् न अस्य तत्संवेदितृत्वमात्रैकलक्षणवियोग इति || २३ || नित्य एव अयमनित्यैः शरीरधर्मैर्मनागपि असंस्पृष्टः, यतः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | न चैनं क्लेदयन्त्यापो न शोषयति मारुतः || २४ || एनम् आत्मानं शस्त्राणि खड्गादीनि शरीरमिव न च्छिन्दन्ति द्विधा कुर्वन्ति, तथैव अग्निर्नैनं दहति न आपः क्लेदयन्ति नच मारुतः शोषमुपनयति || २४ || छेदादिभिर्विक्रियमाणे शरीरे न तस्य निसर्गनिर्विकारस्य विकारसंस्पर्शः | तथाहि अच्छेद्योऽयमदाह्योयमक्लेद्योऽशोष्य एवच | नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः || २५ || प्. ३२) अयमात्मा छेदादिक्रियाविकार्यो न भवति | पूर्वोक्तस्यैव निर्वचनमेतत् | तथा नित्यः इत्यादीनि विशेषणानि अविनाशित्वार्थानि परस्परसहायभूतानि प्रतिपत्तिदार्ढ्याय बहूनि प्रयुक्तानि वेदितव्यानि || २५ || तथाच अयम् अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते | तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || २६ || शब्दादिव्यक्तविषयाणां श्रोत्रादीनामिन्द्रियाणामविषयभूतत्वात् अयम् अव्यक्तः इति उच्यते; तथा वेदकैकस्वभावत्वादन्तःकरणेन अपि इदन्तया विषयीकर्तुमशक्य इति अचिन्त्यः चिन्तनक्रियाया अगोचरः; तथा सर्वथा चैतन्यमात्रातिरिक्तधर्मान्तरासंस्पर्शात् अविकार्यो विक्रियां नेतुमशक्यः | तस्मात् एवम् उक्तेन प्रकारेण सर्वतः सर्वेन्द्रियगोचरादर्थादत्यन्तव्यतिरिक्तं वेदकत्वेन सर्वार्थव्यापकम् एनम् आत्मानं बुद्ध्वा शरीरविनाशेन तद्विनाशभ्रमेण न अनुशोचितुमर्हसि || २६ || एवं त्वं मानुष्येण (२/११) इत्यादिग्रन्थेन वितत्य प्रतिपादितामपि सकलप्रकरणप्रतिपाद्यस्य ब्रह्माद्वैतज्ञानस्य शरीरशरीरिव्यतिरेकोपपत्तिप्रतिपादनरूपां प्रथमां भूमिकामपि सुसूक्ष्मनिर्मलप्रज्ञावधानविशेषावसेयत्वात् संप्रति अप्रतिपद्यमानमर्जुनं मन्वानो भगवान् सर्वपक्षान्तराक्षेपेण बोधयितुमाह अथवैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैनं शोचितुमर्हसि || २७ || अथवा मदुपदिष्टोपपत्तिक्रमेण यथोक्तमर्थमप्रतिपद्यमानः त्वम् एनम् आत्मानं नित्यजातं नित्यं वा मृतं मन्यसे तथापि प्. ३३) तेनापि प्रकारेण नैनं विनाशित्वेन शोचितुमर्हसि | इदमत्र तात्पर्यम्- आत्मविषया द्वयी प्रतिपत्तिः संभाव्यते नित्यो वा स्यादनित्यो वा, तृतीयः पक्षो न संभवति | तत्र नित्यत्वप्रतिपत्त्या यदि एनं नित्यजातमेव सदैव उत्पन्नं विनाशरहितं मन्यसे, तथापि अस्य अविनाशित्वात् शोकस्य कोऽवसरः | अथ विनाशित्वप्रतिपत्त्या नित्यमेव मृतं सत्तारहितमेनं मन्यसे, तथापि नित्यविनष्टत्वादस्य शोचनीयत्वाभावः | अन्ये तु एवं व्याचक्षते- यद्येनमात्मानं नित्यं सदैव जन्ममरणाभ्यामनुषक्तमनित्यत्वात् मन्यसे, तथापि एनं शोचितुं न अर्हसि || २७ || एतमेव जन्ममरणप्रवाहाविच्छेदं कैश्चिन्नित्यत्वेन (क० ग० पु० कैश्चिदनित्यत्वेन अवगम्यमानस्यापि आत्मन इति पाठः |) अवगम्य मानमस्य आत्मनः प्रतिपादयितुमाह जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || २८ || हिशब्दो हेतौ | यस्मात् जातस्य जन्मलक्षणविकारभाजो देहस्यैव आत्मत्वेन प्रतिपन्नस्य ध्रुवः अवश्यंभावी मृत्युः विनाशाख्यो विकारः; एवमेव मृतस्य विनष्टस्य जन्म अवश्यंभावीति कस्य एष जन्ममरणलक्षणविकारयोग इति तत्त्वमविचारयतोऽपि लोकस्य अयं प्रवादः स्थित एव जातो म्रियते, मृतो जायते इत्येवंविधः, तस्मात् लोकप्रवाददृष्ट्या अपि शोकस्य अनुपपत्तिरेव || २८ || अन्यमपि प्रकारं शोकपरिहाराय आह अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत | अव्यक्तनिधनान्येव तत्र का परिदेवना || २९ || प्. ३४) पृथिव्यादिभूतसंनिवेशविषयशरीरात्मकत्वात् सर्वप्राणभृतो भूतशब्देन अत्र उच्यन्ते | तानि एतानि भूतानि अव्यक्तादीनि अप्रत्यक्षपूर्वरूपाणि, तथैव अव्यक्तनिधनानि परोक्षपर्यन्तानि | नहि एतानि पूर्वमेवंविधानि आसन्, पुनश्च एवंविधानि भविष्यन्ति, इति ज्ञायते | ततो द्वयोरपि एतयोः काष्टयोस्तानि अशोच्यानि | यद्यपि व्यक्तमध्यानि व्यक्ता तेन तेन रूपेण वेद्यमाना मध्यावस्था जन्मविनाशान्तरालवर्तिनी दशा येषां, तथाविधान्यपि अशोच्यानि एव | व्यक्तावस्थायामेषां हि भ्रममात्रमेव स्थैर्यप्रतिपत्तिः | एतानि हि येन येन प्रकारेण कल्प्यन्ते, तेन तेन विनश्वराणि एव | क्षणिकानि वा भवन्तु, परिणामित्वादाविर्भवत्तिरोभवद्धर्माक्रान्तानि वा भवन्तु, सर्वथा विकल्प्यमानानि एकस्य स्थिरस्य रूपस्य असंभवादशोच्यानि एव, इति देहात्मकभूतसन्निवेशमात्रत्वेन प्रतिपन्नेषु शरीरेषु कः परिदेवनावसरः इति || २९ || इदानीं बहुप्रकारं प्रतिपाद्यमानोऽपि अयमर्थोऽतिगम्भीरत्वात् मनसि धारयितुमनुष्ठातुं च अशक्य इति अर्जुनस्य एतदर्थविषयमनध्यवसायं परिहर्तुं प्रकृष्टप्रयत्नप्रतिपत्तव्यतामस्य अर्थस्य दर्शयितुमाह आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यद्वदति तथैनमन्यः | आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् || ३० || एनम् आत्मानं यथाप्रतिपादितस्वरूपं कश्चित् मनुष्यसहस्रेषु मध्ये प्रकृष्टपुण्यपरिपाकवशात् बहूनां जन्मनामन्ते पश्यति तत्त्वतः प्रत्यभिज्ञानेन साक्षात्कुरुते | योऽपि पश्यति, स आश्चर्यवत् | प्. ३५) यथा आश्चर्यं कश्चिददृष्टपूर्वमद्भुतं कदाचित् कथंचित् क्षणमात्रं पश्यति, तद्वदेनं कश्चित् कृतपुण्यः क्षणमात्रं पश्यति | तथैव अद्भुतरूपमिव प्रतिभासमानं कश्चिदेव तथाविध एनं वदति परप्रबोधनाय आचष्टे | तथैव कश्चित् तादृश एव परेण प्रतिपाद्यमानं शृणोति अवधारयति | कश्चित् संप्रतिभगवदनुग्रहेण अनधिष्ठितत्वादविद्योपहतान्तःकरणः एनं यथाप्रतिपादितस्वरूपमात्मानं श्रुत्वापि कुतश्चित् तत्प्रतिपादनकुशलादाकर्ण्य अपि न वेद तत्त्वतो न जानाति | स च तथाविधोऽनुपदेश्य एव | त्वं पुनर्भक्तिश्रद्धादिगुणगणसूचितभगवदनुग्रहत्वात् पात्रमेव एतत्तत्त्वोपदेशस्येति अत्र उद्युक्तो भवेत्यर्थः | इदमत्र तात्पर्यम् अस्य आत्मनो गुरुशिष्यक्रमेण स्वयमनुभवेन वा सन्तु जातु केचित्पुण्यभाजः प्रतिपत्तारः, किंतु निरन्तराभ्यासपरिशीलनविशीर्णकल्पसकलविकल्पावरणतां विना अवैमल्येन सर्वकालमस्थिरतया च अस्य प्रतिपत्तिमात्रमिति विरलविरलो लक्षेषु एकः कश्चिदेव चरमजन्मा भवेदिति यथोक्तेन क्रमेण सम्यगवधारणीयं, नतु मन्दोत्साहेन अत्र योग्येन अपि भवता भाव्यम् || ३० || तदयमत्र निश्चय इत्याह देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || ३१ || अयं समनन्तरप्रतिपादितदेहादिसमस्तवेद्यपदार्थात्यन्तव्यतिरिक्तवेदकत्व् अमात्रैकलक्षणो देही देहस्य वेद्यत्वमात्रेण स्वस्य वेदकत्वमात्रेण स्वामी परः प्रमाता सर्वस्य देहमात्रमेव आत्मत्वेन अभिमन्यमानस्य मायीयस्य प्रमातुर्जन्तुजातस्य तत्र तत्र नानारूपे देहे शरीरे एक एव व्यापकतया तिष्ठन् नित्यं सततमेव प्. ३६) अवध्यो हन्तुं विनाशयितुमशक्यः | न हि आगमापायिधर्मकाणां नानाविधानां सर्वदा वेद्यत्वमात्रस्वभावानां शरीराणां विनाशे तद्व्यापकस्य एकस्य अनवच्छिन्नमहिम्नो वेदकत्वमात्राव्यभिचार्येकलक्षणस्य सत्यस्य आत्मनो विनाशः सम्भवति | यत एवमतस्तस्य अविनाशित्वेन नित्यस्य अनुशोच्यत्वं तावत् न अस्त्येव | तस्मात् विनाशैकस्वभावानि भूतानि पृथिव्यादिभूतसंनिवेशविशेषात्मकानि शरीराणि एव शरीरित्वेन प्रतिपन्नानि विनश्यन्ति पश्यन् अनुशोचितुं परिदेवितुं न अर्हसि नष्टस्य नाशे विवेकिनः कः शोकस्य अवसर इत्यर्थः || ३१ || अथ प्रतिपादितोपपत्त्या तात्त्विकमात्मस्वरूपं संप्रतिपत्तुमशक्तमर्जुनं मन्यमानो भगवान् क्षत्रियजात्युचिताभिमानोद्दीपनेन अवश्यानुष्ठेये स्वकर्मणि प्रवर्तयितुमाह स्वधर्ममपिचावेक्ष्य न विकम्पितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || ३२ || यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुकृतात्क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् || ३३ || अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | तथा स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || ३४ || अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | संभावितस्य चाकीर्तिर्मरणदतिरिच्यते || ३५ || भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || ३६ || अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः | निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् || ३७ || प्. ३७) हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः || ३८ || श्लोकसप्तकमेतत् निगदव्याख्यातम् || ३२-३८ || एवं स्वर्गाद्यनित्यफलहेतुप्रवृत्तिलक्षणधर्मसमाश्रयणेन अपि सर्वप्रकारं स्वकर्मापरित्यागे व्यवस्थिते, निरतिशयनित्यफलप्राप्तिहेतुनिवृत्तिलक्षणधर्मसमाश्रयणेन एतदपरित्यागे को दोष इति प्रकृतमेव ज्ञानोपदेशं पुनरपि सिद्धान्तीकुर्वन्नाह सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || ३९ || एवम् अनेन प्रकारेण वर्तमानः पापं ज्ञातिवधादितः सम्भाव्यमानं किल्विषं न अवाप्स्यसि न लप्स्यसे | कथं वर्तमानः | प्रथमं तावत् यथोपदिष्टार्थनिःसंशयप्रतिपत्तिप्ररूढनिष्प्रकम्पप्रज्ञाप्रत्यब् हिज्ञातसमस्तप्राणभृत्सर्वावस्थाव्यापकसामान्यसंविन्मात्रस्व भावे नित्यनिरुत्तरानन्दनिर्भरतया स्वरूपव्यतिरिक्तप्राप्यपदार्थान्तरप्रेप्साविरहिते सत्ये स्वामिनि अकृत्रिमात्माभिमानमास्थाय मायाव्यामोहजनितदेहाद्यनात्मभूतभावात्मप्रत्ययलक्षणविपर् ययज्ञानैः सर्वप्राणिभिरुपादेयतया हेयतया च परिकल्पितभेदे प्रतिक्षणविनश्वरे सुखदुःखे हर्षविषादौ समे द्रष्टरि आत्मनि दृश्यतामात्रेण सम्बद्धत्वादनुपजनितविशेषात्मकविकारतया निर्विशेषे कृत्वा सम्यक् प्रतिपत्त्या सम्पाद्य, एवमेव तद्धेतुभूतौ राज्यादिलिप्सितार्थलाभालाभौ, तयोरपि हेतुभूतौ जयपराजयौ तथैव समौ निर्विशेषौ सम्पाद्य तत्त्वतो यथावस्थितेन रूपेण निश्चित्येत्यर्थः | एते हि सुखदुःखादयो वेद्यत्वमात्रेण संबद्धा वेदकस्य आत्मनो न कंचित् विकारलेशमर्पयितुं क्षमाः | यथा नीलपीतादयः प्रकाश्यत्वमात्रेण सम्बद्धाः प्रकाशकस्य आलोकस्य प्. ३८) न कंचिद्विशेषं नीलपीतादिकमुन्मेषयितुं शक्ताः, केवलं प्रकाश्यत्वमात्रेण एकेन रूपेण तत्र सम्बद्धाः | तदेतत् सुखादीनां वेद्यत्वमात्ररूपं साम्यम् | एवं सुखादीनि समीकृत्य ततः एतत्समाधिप्रतिपत्तेरनन्तरमेतत्समाधिसुप्रतिष्ठितमतिर्युद्धशब्दोप लक्षिताय (ख० ग० पु० युद्धधर्मोपलक्षितेति पाठः |) स्वकर्मणे युज्यस्व संबध्यस्व यथोक्तज्ञाननिष्ठतया स्वकर्म अनुतिष्ठेत्यर्थः || ३९ || एवं ज्ञानक्रियासमुच्चयमेव उपदेश्यतया विनिश्चित्य, ज्ञानविषयां मतिमुक्तकल्पां मत्वा, तां क्रियाविषयां वक्तुमुपक्रममाणस्त एव ज्ञानकर्मणी सांख्ययोगशब्दाभ्यां व्यवहरन्नाह एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि || ४० || इदमात्मादि सत्, इदं देहादि असत् इति हेयोपादेयपदार्थपरिगणना संख्या | तामधिकृत्य कृतं शास्त्रमन्वर्थतया मुख्यं सांख्यमिह उच्यते, तद्धेतुकं ज्ञानमपि सांख्यं नतु कपिलादिप्रणीतं तस्य नानात्मवादपरमार्थत्वात् | तस्मिन् सांख्ये विषये एषा प्रबन्धेन प्रतिपादिता बुद्धिः प्रज्ञा तव उपदिष्टा, यया प्रज्ञया तत् सांख्यं सम्यक् युज्यते बुध्यते वा | उक्तज्ञानसमधिगम्येन परमार्थलक्षणेन अर्थेन सम्बन्धो योगः, तद्धेतुकत्वात् कर्मैव इह योगशब्देन उक्तम् | नहि केवलस्य ज्ञानस्य योगार्थसम्बन्धहेतुत्वं संभवति, किंतु तदनुगतस्य कर्मण एवेति प्रबन्धेन वक्ष्यते | इत्येवंविधे योगे कर्मणि इमां वक्ष्यमाणां बुद्धिं शृणु अवधारय यया (ख० पु० यया किं कर्म किमकर्मेति कर्मतत्त्वं मोक्षकारणतया विज्ञायत इति पाठः |) कर्मैव तत्त्वतो मोक्षकारणतया विज्ञायते | अत एव आह यया वक्ष्यमाणया बुद्ध्या युक्तः सम्बद्धस्त्वं कर्मकृतं प्. ३९) ज्ञानशून्यजनविषयं बन्धमस्वातन्त्र्यं प्रहास्यसि त्यक्ष्यसि | तादृशं हि कर्मानुष्ठानमिह उपदेक्ष्यते, येन सकलसंमूढजनबन्धहेतोरपि कर्मणो मोक्षहेतुत्वमेव पर्यवस्यति || ४० || अत एव अस्य कर्मयोगस्य चित्तवृत्तिनिरोधलक्षणयोगातिरिक्तशक्तितां प्रतिपादयितुमाह नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || ४१ || इह वक्तुं प्रक्रान्ते कर्मयोगे चित्तवृत्तिनिरोधलक्षणयोगवत् अतिक्रमनाशो नास्ति | स हि यथोपदिष्टक्रमस्वभ्यस्तसमस्तभूमिकाभिर्निर्वर्त्यस्वरूपत्वात् पूर्वपूर्वभूमिकानामनवाप्तावुत्तरोत्तरभूमिकारोहणरूपक्रम् ओल्लंघनलक्षणेऽतिक्रमे सति विनश्यति स्वरूपमेव न लभते | स तादृशो विनाश इह योगे समनन्तरवक्ष्यमाणोपपत्त्या न विद्यते | तथा तत्र तत्तदंगवैकल्यादसम्यगनुष्ठिते व्याध्यादिर्वर्तमानशरीरानुभवनीयः पुनर्गर्भवासदुःखादिर्भविष्यच्छरीरानुभवनीयः प्रत्यवायः अनिष्टयोगः संभवति, इह तु पूर्ववत् सोऽपि न विद्यते यतः अस्य धर्मस्य यथोक्तज्ञानपूर्वतया शास्त्रचोदितस्वकर्मानुष्ठानसमाधिरूपस्य सदाचारविशेषस्य सम्बन्धि स्वल्पमपि परिमितकाललवानुभूतस्वरूपं महतः समस्तभवहेनोरनात्मन्यात्मप्रत्ययलक्षणात् भयात् साध्वसादनुष्ठातारं योगिनं त्रायते परिरक्षति पुनस्तत्सम्बन्धं तिरस्करोतीत्यर्थः | अत्र हि धर्मे सततमनस्तमितसमस्तवस्तुप्रथैकहेतुसामान्यसंविद्रूपपरप्रकाऽऽ सैकलक्षणस्वात्मप्रत्यवमर्शो निरुत्तरः समाधिः सकृद्विभातत्वेनैव निर्वर्त्यसंपूर्णस्वरूपो विधीयते | सच विभातमात्रः संपूर्णं फलं सम्पादयति | तथाच वक्ष्यति स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति | (२/७४) प्. ४०) इति | ततोऽस्मिन् पूर्वापरक्रमाभ्यस्तभूमिकासंपाद्यचित्तवृत्तिनिरोधलक्षणयोगव् अत् विनाशप्रत्यवायौ न सम्भवतः | नच अस्य प्रस्तुतस्य कर्मयोगलक्षणस्य धर्मस्य प्रकर्षप्रतिपादनान् निरोधयोगस्य इह सर्वात्मना परिहारोऽवगन्तव्यः | स हि अत्र ततत्स्नानादिक्रियाविशेषवत् (ख्: तत्तत्स्थानादीति पाठः) पूर्वापररात्रादिनियतकालानुष्ठेयतया नियतेतिकर्तव्यताकोऽन्तर्भवत्येव || ४१ || अस्मिंश्च विशुद्धभक्तिश्रद्धादिगुणव्यक्तिसूचितविवेकज्ञानाविर्भावो भवादृशोऽधिकृतः, न सर्वः कश्चिदिति प्रतिपादयितुमाह व्यवसायात्मिका बुद्धिरेकैव कुरुनन्दन | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || ४२ || व्यवसायो निश्चयः, स आत्मा स्वरूपं यस्याः, सा तथारूपा स्वभावतो बुद्धिरेकलक्षणैव | निश्चयः आत्मादिसदर्थविषयोऽपि संभवति, देहाद्यसदर्थविषयोऽपि संभवति | तत्र योऽसदर्थत्रिषयः, स निश्चयाभासो निश्चय एव न संभवति | अतः सदर्थविषयमुख्यव्यवसायरहितानाम् अव्यवसायिनां बुद्ध्यो बहुशाखाः एकस्मिन्नपि अर्थे नानाविकल्पजालाकुला अपर्यवसिताश्च | यतः सर्वाभिकांक्षापरिक्षयैकहेतौ परमार्थसत्यात्मनि अलब्धबुद्धिप्रतिष्ठा इदं प्राप्तमिदं प्राप्यमिति अनित्यमर्थं प्राप्यतया आलम्बमाना न कचित् विश्रान्तिं लभन्ते इति || ४२ || एवंविधानां पुरुषाणां स्वर्गादिभोगमात्रपरत्वेन प्रतिपन्नानां या बुद्धिः, सा वक्तुं प्रक्रान्ते परस्मिन् धर्मे न नियुज्यते इत्याह यमिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः | वेदवादपराः पार्थ नान्यदस्तीतिवादिनः || ४३ || प्. ४१) कामात्मानः स्वर्गपरा जन्मकर्मफलेप्सवः | क्रियाविशेषबहुला भोगैश्वर्यगतीः प्रति || ४४ || भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते || ४५ || सैषा व्यवसायात्मिका निश्चयस्वभावा बुद्धिर्भोगैश्वर्यप्रसक्तानां पुंसां समाधौ आत्मलक्षणपरमार्थसतत्त्वविषये प्रणिधाने न विधीयते न अनुशिष्यते तस्यास्तदर्थप्रतिपत्तियोग्यताभावात् | ये हि भोगानामिष्टानां विषयाणामैश्वर्ये स्वाम्ये प्रकर्षेण वस्त्वन्तरपरिहाररूपेण अतिशयेन आसक्तास्तत्परा एव, तेषां भोगात्मकानित्यवस्तुविषया व्यवसायात्मिका बुद्धिः समाधिविषयं व्यवसायं न अवलम्बते एव | कीदृशानां तेषां भोगैश्वर्यप्रसक्तानां समाधौ बुद्धिर्न विधीयते | तया वाचा अपहृतचेतसां स्वीकृतमानसाम् | कया वाचा | यामिमां पुष्पितां परमार्थबोधलक्षणफलरहितत्वात् भोगरूपपुष्पमात्रसंयुक्तां प्रसिद्धां वाचं वेदवादपरा अविपश्चितो वदन्ति व्याचक्षते | वेदशब्दोऽत्र ज्ञानशून्यक्रियामात्रविधायकवेदैकदेशवचनोऽवगन्तव्यः | तस्य तथाविधस्य वेदस्य वादोऽभिधानं परं प्रकृष्टं तदेव तत्त्वं येषां ते तथोक्ताः | अत एव नान्यदस्तीतिवादिनः स्वर्गादिफलप्राप्तिहेतुभूतानां क्रियाविशेषाणां विधायकात् वेदादृतेऽन्यत् शास्त्रं नास्त्येवेति वदनशीलाः | अत एव अविपश्चितः यज्ञादिक्रियाफलभूतानित्याशुचिसातिशयभोगमात्ररूपमर्थं पुरुषार्थफलत्वेन प्रतिपन्नाः सन्तो न विद्वांसः | ये हि अविनाशिविशुद्धनिरतिशयमात्मतत्त्वलक्षणमेतद्विपरीतमर्थं फलत्वेन प्रतिपद्यन्ते, ते विपश्चित्त्वं भजन्ते | अत एव अविपश्चित्त्वप्रतिपादकानि तेषां विशेषणानि आह | अथाच कामात्मानः कामाः प्रियाः शब्दादयः प्. ४२) सर्वस्वभूतत्वादात्मा येषाम्, अत एव कामात्मकत्वात् स्वर्गपराः उत्तमभोगाधिकरणं स्वर्गः प्राप्यतया परः प्रकृष्टो येषां ते तथाविधाः, तथा जन्मकर्मफलेप्सवः भोगप्रक्षये अवश्यंभावि जन्म क्वचिदपि योन्यन्तरे सम्भवति, तस्मिंश्च सति धर्माधर्मात्मकं कर्म, तस्मिंश्च सति सुखादिलक्षणं फलमित्येतानि आप्तुमिच्छवः | अत एव भोगैश्वर्यस्य इष्टविषयाधिपत्यस्य गतीर्विविधमार्गान् (क० ग० पु० मार्गान्फलभूतान्प्रतीति पाठः |) प्रति साधनभूताः क्रियाविशेषा नानाविधा यज्ञदानतपःप्रभृतयः कर्मभेदा बहुला भूयांसो येषाम् | न केवलं नित्यनैमित्तिकक्रियामात्रसक्ताः, यावत् काम्यानपि क्रियाविशेषान् विस्तारयन्तः इति एवंविधाः प्रवक्तारो यां वाचं वदन्ति, तया आवर्जितचित्तानां भोगासक्तानां बुद्धिः समाधौ न विधीयते इति सम्बन्धः | इदमत्र तात्पर्यम्- ये स्वयमेव प्रबोधशून्यत्वात् भोगमात्रपराः, तेऽन्यैस्तथाविधैरेव तमेव अर्थं प्रशंसद्भिः परिपोष्यमाणतादृक्संकल्पाः परमार्थप्राप्तिव्यवसायात् दूरमपाकृष्यन्ते इति तथाविधानां बुद्धिः कथं समाधौ विधेयतामर्हति || ४५ || अतश्च स्वभावतः प्रस्तुतविज्ञानोपदेशपात्रभूतस्त्वमविपश्चित्प्ररोचनावचनवह्नय मानचित्ततां (ख० पु० वचनवश्यमानचित्ततामिति पाठः |) विहाय यथोपदिष्टविज्ञाननिष्ठो भवेत्याह त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || ४६ || सत्त्वरजस्तमांसि त्रयो गुणा एव त्रैगुण्यम् | सुखदुःखमोहमयबुद्धिमयत्वात् त्रैगुण्यं विषय आश्रयो यस्य स त्रैगुण्यविषयः | संसारिपुरुषवर्गः उपचारात् त्रैगुण्यशब्देन अत्र उच्यते | तदेवंविधं प्. ४३) त्रैगुण्यं विषयो गोचरो येषां, ते तथाभूता वेदाः | ये हि सुखाद्यर्थिनः, ते तत्प्राप्तिहेतुषु क्रियाविशेषेषु वेदैर्नियुज्यन्ते | यतस्तैः सर्वतोव्यतिरिक्तस्वरूपः सर्वगत एको यथोक्तविशेषणः सत्य आत्मा आत्मत्वेन न प्रतिपद्यते, ततस्तेषां सन्नेव आत्मा नास्ति | त्वं तु निस्त्रैगुण्यः सन्नात्मवान् भव निष्क्रान्तस्त्रैगुण्यात् निस्त्रैगुण्यो गुणत्रयातीतो वेद्यत्वमात्रेण सुखाद्यात्मभिर्गुणैर्वेदकैकस्वभावः संबन्धी, नतु तद्धर्मको गुणेभ्योऽत्यन्तविविक्तस्वभावः परमार्थतोऽयमात्मा तमीदृशमात्मत्वेन प्रत्यवमृशन् आत्मवान् भव परमार्थसन्तमेव आत्मानमुक्तोपदेशप्रतिपत्तिशैथिल्यादसन्तमिव मा कार्षीरित्यर्थः | यदाच गुणत्रयातीतस्वभावमात्मानमात्मतया प्रतिपद्यसे, तदा निर्द्वन्द्वो द्वन्द्वेभ्यः सुखदुःखतृष्णाजरामरणादिभ्यः क्लेशेभ्यो निष्क्रान्तो भव | एतानि हि द्वन्द्वानि अनात्मनि त्रिगुणे देहादावात्मप्रत्ययनिबन्धनानि | यतश्च निर्द्वन्द्वः, ततो नित्यसत्त्वस्थः अपि भव नित्यमविनाशि यत् सत्त्वं सद्भावस्तत्र स्थित उपलब्धप्रतिष्ठः | तादृशः सन् निर्योगक्षेमोऽपि भव अप्राप्तस्य प्राप्यस्य वस्तुनः प्राप्तिर्योगः, प्राप्तस्य परिरक्षणं क्षेमः, निष्क्रान्तस्ताभ्यां निर्योमक्षेमः, तथाविधो भव | नहि नित्यसंपूर्णत्वात् सर्वतो निरभिलाषात्मनः प्राप्यं किंचित् सम्भवति | न च अपूर्वतया प्राप्तस्य कस्यचिदर्थस्य विनाशाशंकया परिरक्षणम् | अतो विपर्ययप्रत्ययगृहीतात्माभासदेहादिनिबन्धने एव योगक्षेमे इति ततो व्यावृत्तात्मप्रत्ययतया सत्यात्मप्रत्यवमर्शादात्मवान् भव || ४६ || नच भोगैश्वर्यप्रसक्तत्वात् प्रवृत्तिधर्मानुष्ठानैकनिष्ठोपदेश्यपुरुषविषयत्वेन विधीयमानक्रियाविशेषेतिकर्तव्यतोपदेशशतसंकुले प्. ४४) कुले वेदशास्त्रे सर्वमनुष्ठेयतया अवगन्तव्यम्, किंतु यावता परमार्थबोधलक्षणस्वाभिप्रेतार्थक्रियासिद्धिर्भवति, तावदेव ततः प्रतिपत्तव्यमुपादेयतया बुधेनेत्याह यावानर्थ उदपाने सर्वतः संप्लुतोदके | तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः || ४७ || सर्वतः सर्वासु दिक्षु संप्लुतोदके समृद्धसलिले उदपाने ह्रदप्रस्रवणादावर्थिनो यावानर्थः यावन्मात्रमेकदेशात् तृष्णाप्रशमनाद्यर्थक्रियासमर्थसलिललवोपयोगमात्रं प्रयोजनं, तावान् एव विजानतो विज्ञानवतो ब्राह्मणस्य ब्रह्मवेदिनः सर्वेषु निखिलेषु सरहस्येषु वेदेषु अर्थः प्रयोजनम् | यावता शास्त्रैकदेशेन परमार्थोपलब्धिलक्षणार्थक्रियानिर्वृत्तिर्भवति, तावदेव तेन ततो विधिसहस्रसंकुलादपि उपादातव्यम् | किमुक्तं भवति | यथा तृषितेन अर्थिना सुसंपूर्णात् समुद्रकल्पादपि जलाशयात् स्वार्थक्रियासंपत्तिमात्रक्षममुदकं स्तोकं समुपादीयते, न सर्वो जलाशयः | एवं ज्ञानक्रियाविषयविविधार्थसार्थसंपूर्णादपि वेदशास्त्रात् तत्त्वजिज्ञासुना तदवगममात्रोपयोगी एव अर्थः उपादातव्यः, नतु सर्वमेव वेदशास्त्रमिति || ४७ || अथ विजानता सर्वशास्त्रेभ्यो यदुपादेयं, तदर्जुनं पुरस्कृत्य उपदेष्टुमाह कर्मण्यस्त्वधिकारस्ते मा फलेषु कदाचन | मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि || ४८ || तव संप्रत्येव उपदिष्टतत्त्वज्ञानोपपत्तिप्ररूढदृढप्रतिपत्तिवशादनित्येभ्यो देहादिभ्यो व्यावर्तमानात्मप्रत्ययत्वे सति अद्वैतचिन्मयज्योतीरूपं परं तत्त्वमहमिति आत्मत्वेन प्रतिपद्यमानस्य सतः कर्मण्यधिकारोऽस्तु यत् कर्म कायवाङ्मनोभिर्निर्वर्त्यव्यापारविशेषात्मकं प्. ४५) वर्णाश्रमविभागेन देशकालावस्थापेक्षमुख्यगौणविविधेतिकर्तव्यताकलापेन नित्यादिभेदेन अवश्यकर्तव्यतया शास्त्रेषु विहितं, तस्मिन्नधिकारः कर्तृत्वं भवति; तदधिकृतः स्वार्थसिद्धये प्रवर्तस्वेत्यर्थः | यतः कर्म तावत् शरीरत्वाव्यभिचारि न केनचित् त्यक्तुं शक्यम् | अथ यत्याद्यवस्थायां कश्चित् नियमविशेषोऽवलम्बनीय एव, ततश्च स एव कर्मविशेषतां प्राप्नोति आश्रमान्तरकर्मनियमवत्; इत्थमशक्यः सर्वात्मना कर्मत्यागः | किंच गृह्यतां नाम अत्यागोऽपि त्यागाभिधानः | स तु तत्त्वज्ञानबाह्यतामेव आविष्करोति तथाविधस्य | यतो द्वेष्यतां विना द्वेष्यता संभवति, इति कर्मत्यागाभिधाने रागद्वेषप्रसंगो दुर्निवारः | यदिच तत्त्वस्य एकत्वात् कर्मणां यथेष्टमनियमेन अनुष्ठानमेव त्यागत्वेन अभिमतम्, तथापि पूर्ववद्रागद्वेषान्यथानुपपत्त्या सोऽपि अतत्त्वज्ञतामेव अनुष्ठातुरभिव्यनक्ति, इति अकर्मता वा अविरुद्धकर्मता वा निरुत्तरानन्तनिजानन्दनिर्भरं परं तत्त्वमात्मत्वेन प्रतिपद्यमानस्य सर्वसाम्यलक्षणं परमं समाधिमधिरुरुक्षतस्तत्त्वज्ञानाभिनिवेशिनो योगिनो द्वयमपि अनुपपन्नमिति तथाविधस्य तव कर्मण्येव अधिकारोऽस्तु, किंतु तेषां कर्मणामनात्मज्ञजनसमुचितनानाभिसन्धानप्रार्थितेषु दृष्टानुश्रविकविविधभोगात्मकेषु बन्धहेतुषु फलेषु अधिकारो मा भूत् | ये हि अतत्त्वज्ञतया फलानि अधिकृत्य तेषु तेषु कर्मसु प्रवर्तन्ते, तेषां तानि क्रियमाणानि एव कर्माणि वासनारूपतया अन्तःकरणभूमौ बीजभूतान्येव तिष्ठन्ते, अतश्च अनित्यक्रियाफलोपभोगप्रक्षये विविधवासनारूपस्य तेषु तेषु योन्यन्तरेषु तस्य तस्य जन्मनः पुनः पुनः कारणतां प्रतिपद्यन्ते, जन्म च तस्य तस्य कर्मणः, कर्म च प्. ४६) तस्य तस्य फलस्य हेतुत्वं भजते इति वासनाजन्मकर्मफलचक्रमेतदनिशमावर्तमानमज्ञानां बन्धाय कल्पते इति त्वमपि सामान्यपुरुषवत् कर्मफलहेतुर्मा भूः उक्तया प्रक्रियया कर्मणां शुभाशुभानां फलानि सुखाद्यात्मकानि हेतुर्जन्मनो निमित्तं यस्य स तथाविधो यथा न भवसि उक्तज्ञाननिष्ठः सन् कुर्वन्नेव कर्माणि तेन ज्ञानाग्निना दग्धबीजतामापादयन् परमेश्वरस्वभावसमापत्तिलक्षणं मोक्षमवाप्नुहीत्यर्थः | अन्यच्च कस्यांचिदवस्थायां प्रस्तुतस्य कर्मपरिहारस्य विधीयमानत्वात् यदकर्मेति मन्यसे, तत्र तादृशेऽपि अकर्मणि ते तव सङ्गः माभूत् | तत्रापि हि सङ्गः कर्मान्तरवत् बन्धहेतुरेवेति उक्तमेव प्राक् || ४८ || यत एवम्, अतः योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते || ४९ || इह शास्त्रविहितानां कर्मणामनुष्ठाने यथोक्तात्माद्वैतज्ञाननिष्ठत्वलक्षणः समाधिर्योग उच्यते | यथा कपिलादिप्रणीतस्य सांख्यसंज्ञकस्य ज्ञानस्य पातञ्जलादिप्रणीते चित्तवृत्तिनिरोधलक्षणे योगे निष्ठा, तथा इह उपदिष्टस्य आत्माद्वयज्ञानस्य कर्मानुष्ठानसमाधौ निष्ठा, इति योगशब्देन सोऽपि उक्तः | तत्र तादृशे योगे स्थितः आश्रमान्तरपरिहारेण कृतप्रतिष्ठः सन् यथोक्तानि कर्माणि अनुतिष्ठ | कथम् | सङ्गं तत्तदभिसंहितफलप्राप्तिहेतुत्वप्रतिपत्त्या तावन्मात्रोपायलीनचित्तत्त्वं परिहृत्य, अत एव सिद्धौ फलसम्पत्तौ, असिद्धौ च तद्विघाते द्वयोरपि निर्विकारत्वात् समो निर्विशेषो भूत्वा यथोक्तज्ञाननिष्ठत्वात् नित्यपरिपूर्णयथोक्तात्मतत्त्वप्रत्यवमर्शजनितानन्दतृप्तस्य कर्मणः फलेन अनित्येन सिद्धेन असिद्धेन वा न कश्चित् सुखदुःखात्मको विशेष इति सर्वसाम्यदशाधिरूढो प्. ४७) भूत्वा यथोक्तयोगनिष्ठो भव | यतः समत्वं सर्वासु अवस्थासु विकारलेशासंस्पृष्टत्वमेव योग उच्यते साम्यप्राप्तिरेव अस्य निष्ठेत्यर्थः || ४९ || अत एव एतद्योगनिष्ठस्य योगिनो लक्षणमाह यस्य सर्वे समारम्भा निराशीर्बन्धनास्त्विह | त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् || ५० || यस्य यथोक्तयोगाधिकारिणः पुरुषस्य सर्वे समारम्भाः सर्वासु क्रियासु प्रवृत्तयोऽवश्यंभाविनोऽपि निराशीर्बन्धनाः भवन्ति, स त्यागी इति सम्बन्धः | आशीरनित्यभोगविषया आकांक्षा, तदेव बन्धनं संसारहेतुत्वादस्वातन्त्र्यमाशीर्बन्धनम्, निष्क्रान्ता आशीर्बन्धनात् निराशीर्बन्धना भोगात्मकबन्धरहिता इत्यर्थः | अत एव अवश्यानुष्ठेयकर्मरूपं सर्वं शुभमशुभं च त्यागे फलाशासंन्यासे हुतम् अग्राविव बीजजातं फलप्रसवसामर्थ्यविनाशाय निक्षिप्तं, स एवंविधो नित्यकर्मानुष्ठातैव त्यागी त्यागवान्, न पुनः क्लेशभीरुत्वादिना कर्माणि एव त्यजन् त्यागी भवति इति | युक्तिरत्र प्रागेव उक्ता | स एवच एवंविधः प्रशस्यज्ञानयुक्तः, नतु यः कर्मत्यागादिमात्रं ज्ञानं मन्यते || ५० || अत एवंविधोत्कृष्टबुद्धियुक्तं कर्म समाचरेत्, न केवलमिति आह दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः || ५१ || यस्मात् बुद्धियोगात् यथोक्तज्ञानसमाधानात् दूरेण अतिशयेन केवलं तद्विरहितं कर्म अवरं निकृष्टं ज्ञानशून्यं कर्म संसारहेतुत्वात् ततोऽत्यन्ताधममित्यर्थः | अतश्च बुद्धौ यथोक्ते सम्यग्ज्ञाने शरणम् आश्रयम् अन्विच्छ अभिकाङ्क्षितामेव उपायतया अवलम्बस्वेत्यर्थः | प्. ४८) यतो ये फलहेतवः अनित्यं भोगलक्षणं फलमेव हेतुस्तत्साधनभूतासु क्रियासु प्रयोजकं कारणं येषां, ते ज्ञानशून्यकर्ममात्रानुष्ठायिनः कृपणाः तुच्छफलार्थित्वात् दीनास्तत्तज्जातिशरीराद्यभिमानावच्छिन्नम्, अत एव अनित्यभोगात्मकफलतृष्णातुरमात्मानं मन्यमानाः सन्तो दुराचाराः || ५१ || अत एव तद्विलक्षणस्य ज्ञानिनः स्वरूपं प्रतिपादयितुमाह बुद्धियुक्तो जहातीह उमे सुकृतदुष्कृते | तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् || ५२ || इह आत्मैव परमेश्वर एकं तत्त्वम् | स एवच स्वमायामहिम्ना ज्ञेयभावापादनेन सर्वस्य कार्यजातस्य एकः कर्ता पारमार्थिकः, विचित्रं च इदं कार्यं निर्मिमाणः स्वेच्छामात्रव्यतिरिक्तं न तस्य उपादानमपेक्षते, नापि सहकारिणम् | नच इदमित्थमवभासमानमपि कार्यं चिन्मात्रस्वरूपत्वादतिरिक्तं विकारलेशं कंचिदर्पयितुं प्रभवति | तदेवंविधनित्यनिरतिशयैश्वर्ययुक्तमेकं तत्त्वमात्मत्वेन निष्प्रकम्पया प्रतिपत्त्या यः प्रत्यवमृशति, स बुद्ध्या परमेण प्रबोधेन सम्यग्ज्ञानेन युक्तः संबद्धः इह उच्यते | सच एवंविध इह उपदिश्यमाने कर्मयोगेऽधिकृतः कुर्वन्नपि कर्माणि ईश्वरभावानुप्रवेशात् सर्वं समत्वेन पश्यन्, इदं स्वर्गादिसुखफलहेतुत्वात् सुकृतं सत्कर्म, इदं दुःखहेतुत्वात् दुष्कृतं दुष्टकर्म, इति अनुत्पन्नविवेकज्ञानैर्विषमदर्शिभिः परिकल्पितभेदे सुकृतदुष्कृते द्वे अपि जहाति त्यजति न तस्य योगिनः सर्वसमत्वसमाहितस्य क्रियमाणमपि कर्म सुकृतदुष्कृतलक्षणं भेदं भजतीत्यर्थः | एवमनेन श्लोकार्धेन तत्त्वज्ञानवान् नियतं कर्म कुर्यादेव, नच तत्र अपारमार्थिकं सदसद्विकल्पमारोपयेदिति उपदिष्टं भवति | यत एवं तस्मात्त्वं यथोक्ततत्त्वज्ञानाभिनिविष्टः सन् योगाय प्. ४९) समाधये युज्यस्व कर्मानुष्ठानद्वारेण युक्तो भव, यतः कर्मसु क्रियमाणेषु यत् कौशलम् उक्तज्ञाननिष्ठत्वेन साधुकारित्वं तदेव योगः समाधिरिह, न अन्यः || ५२ || एतमेव अर्थं हेतूपन्यासपूर्वं विवरीतुमाह कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् || ५३ || यतः कर्मजम् अतत्त्वज्ञैः क्रियमाणात् कर्मणोऽवश्यम्भावि सुखाद्यात्मकं फलं सर्वदा सर्वतो निरभिकांक्षस्य आत्मनिष्ठत्वादनभिसन्धानेन त्यक्त्वा विहाय फलाभिसन्ध्यनुष्ठीयमानकर्म(ख० भ० पु० प्रतिबद्धाज्जन्मन इति पाठः |)प्रतिबद्धत्वात् जन्मनः पुनर्भवलक्षणात् बन्धनादस्वातन्त्र्यात् निर्मुक्ताः सन्तो निर्विघ्नतया अनामयम् अनित्यसुखादिसंकल्पदोषरहितं पदं पारमार्थिकस्वरूपप्रतिष्ठात्मकं धाम गच्छन्ति प्राप्नुवन्ति | अतस्त्वं बुद्धियुक्तो योगाय युज्यस्वेति पूर्वेण सम्बन्धः || ५३ || यदाच एतत् परमदुरवगाहं तत्त्वज्ञानमुक्तमपि झगिति मनसि प्रतिष्ठां न निबध्नाति, तदा त्वया अत्र शिथिलोत्साहेन न भवितव्यं यतः क्रमेण एतत् ज्ञास्यसे, इत्याह यदास्य मोहकलिलं बुद्ध्या व्यतितरिष्यसि | तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || ५४ || श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चिता | समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || ५५ || यदा यस्मिन् काले त्वम् अस्य उपदिष्टस्य ज्ञानस्य उपपन्नत्वमात्रप्रतिपत्त्या मोहकलिलं अनादिजन्माभ्यस्तदेहाद्यात्मप्रत्ययस्वरूपमज्ञानकर्दमं व्यतितरिष्यसि विपर्ययत्वप्रतिपत्त्या लङ्घयिष्यसि तदा इदं श्रुतम्, इदं श्रोतव्यमितिसंशयाविष्टजनोचितयोर्नानाशास्त्रविषययोः श्रोतव्यश्रुतयोः निर्वेदं विरागं प्. ५०) गमिष्यसि || ततश्च निश्चयाभावात्, इदं श्रुतम्, इदं श्रोतव्यमितिविचिकित्साविष्टतया या श्रुतिर्नानाशास्त्रश्रवणं, तस्या अनुपादेयत्वात् विप्रतिपन्ना प्रतिकूला सती तव मतिः निश्चिता यथोक्तात्मज्ञाननिवृत्तसंदेहा, अत एव अचला विकल्पैर्बलवद्भिरपि अप्रकम्प्या सती यदा स्थास्यति अस्मिन् समाधौ स्थितिं प्रतिष्ठां लप्स्यते तदा अनेन क्रमेण यथोक्तं योगं कर्मसमाधिलक्षणम् अवाप्स्यसि प्रतिपत्स्यसे || ५५ || अथ ते तदा मतिः स्थास्यति इति भगवद्वचनं श्रुत्वा, स्थितप्रज्ञत्वस्य सम्यक् तत्त्वमनवगच्छन् अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थितधीः किं प्रभाषेत किमासीत व्रजेच्च किम् || ५६ || हे भगवन् केशव ! कर्मसु किल कौशलं योग उक्तः, निश्चलप्रज्ञता च स्थितप्रज्ञता | तदेवंविधस्य अस्य स्थितप्रज्ञस्य का भाषा कथमसौ भाषते, किमस्य व्याख्यानं ? विरुद्धमिव अस्य चेष्टितं यतो वाङ्मनःकायैस्त्रिभिर्व्यापारणं कर्म उच्यते तास्तिस्रोऽपि चेष्टा न अस्य उपपद्यन्ते | किम् असौ प्रभाषेत ! भाषणक्रियां च अनुतिष्ठेत्, नहि अस्य एकतत्त्वनिश्चलप्रज्ञत्वात् भाषणं वचनकर्म उपपद्यते | किमसौ व्रजेत् गमनक्रियोपलक्षितं कायव्यापारमाचरेत्, सोऽपि अस्य पूर्ववत् न उपपद्यते | किमासीत वाङ्मनसप्रचारपरिहारेण आन्तर्यैव वृत्त्या तिष्ठेत्, सापि अस्य कर्मकौशललक्षणे योगे वर्तमानस्य उभयकर्मवृत्त्यात्मिका न उपपद्यते- इति स्वरूपानवधारणात् का अस्य भाषेति उक्तम् | एतच्च प्रश्नत्रयमविवक्षितकर्मकक्रियामात्रविषयं वेदितव्यम् || ५६ || अथ यस्य सर्वे समारम्भाः------------------ | (५०) प्. ५१) इत्यादौ बुद्धिमच्छब्देन उक्तस्य स्थितप्रज्ञस्य स्वरूपमुक्तप्रायमपि दुरधिगमत्वात् सम्यगनवधारितम्, इदानीं केनापि अंशेन विशेष्य पुनरुच्यमानमवधारयेति अर्जुनं बोधयितुं भगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते || ५७ || इह खलु सर्वरहस्यानामुपनिषद्भूतेऽस्मिन् विज्ञाने कश्चिदेव लक्षेषु एको जन्मसहस्रपरिशीलितपर्यवभातैकात्मतापरामृष्टरजस्तमोमयमल तया सत्त्वमात्रशेषत्वे सति, समुपजातस्वरूपप्रत्यवमर्शयोग्यप्रज्ञश्चरमजन्मा पुरुषातिशयोऽधिकारी यस्तथाविधावसरोपजातानुजिघृक्षपरमेश्वरप्रेषिताभ्यां सततसहचरीभ्यां भक्तिश्रद्धाभ्यां दत्तदृढहस्तावलम्बो यथोक्तज्ञाननिःश्रेणीस्थिरनिवेशितपदः परमकारणसमापत्तिप्रतिबिम्बरूपं परमं धाम अधिरोढुमध्यवसितः, यमुद्दिश्य आत्मतत्त्वमेव अहन्तया व्यपदिशन् वक्ष्यति मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः || (७/३) इति, तथा बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते | (७/१९) इत्यादि | तादृशश्च सन् यदा इदमाचरति तदा स्थितप्रज्ञोभवति | किमाचरति | यदा मनोगतान् संकल्पवर्तिनः कामान् अतत्त्वज्ञानुष्ठेयकर्मफलभूतान् सुखादीन् प्रजहाति प्रकर्षेण त्यजति मनागपि तान् न संकल्पयति, नतु कर्माणि प्रजहाति | कथमेतत् संभवति कर्माणि च करोति फलं च प्रजहाति, इति | एतदुपपादयितुं विशेषणमाह आत्मन्येवात्मना तुष्टः इति | न सर्वः कश्चित् स्वसंविदधिकरणं तोषं प्रीतिमनुभवति, किंतु अप्राप्तपूर्वेण केनचिदनित्येन प्राप्येन सुखसाधनभूतेन वस्तुना प्राप्तेन अनित्यमेव प्. ५२) तोषं प्राप्नोति | अयं तु योगी सततसन्निहितानस्तमितचित्प्रकाशात्मना परामर्शाभावमात्रात् व्यवधानमिव प्राप्तेन सर्वदा सुसंपूर्णस्वमहिमत्वादखिलवस्तुस्पृहाविच्छेदकारिणा स्वयंनिहितविस्मृतेन महानिधानेन इव पुनः प्रत्युदितस्मृतिवशात् प्रतिलब्धेन आत्मनैव सत्येन स्वभावेन निरुत्तरेण लाभेन लब्धसहजानन्दः | एवंविधश्च अयं कृपणप्रार्थनीयानुत्पादविनाशधर्मकान् कामान् कथं न प्रजह्यात् || ५७ || यदाच इत्थंभूतः सन् सर्वकर्माणि कुर्वन्नपि कामान् प्रजहाति, तदा स्थितप्रज्ञो यथोक्तस्वभावलब्धप्रतिष्ठबुद्धिर्भवति, इति सामान्येन स्थितप्रज्ञलक्षणमुक्त्वा तदेव विशेषतो वक्तुमाह दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः | वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते || ५८ || इह कर्मफलभूते सुखदुःखे प्राप्स्यमाने प्राप्ते च द्विप्रकारतया सर्वप्राणिनां विकारहेतुत्वमापद्येते | अयं तु उक्तलक्षणः स्थितप्रज्ञः प्राप्स्यमानेषु सत्सु दुःखेषु अनुद्विग्नमनाः निर्भयचित्त एव भवति, यथोक्तपरिपूर्णात्मस्वरूपलब्धप्रतिष्ठत्वात् सर्वसाम्यसमाधिमापन्नः, तथा भयं सुखप्रतीघातहेतोरशक्यप्रतीकारात् सन्त्रासः, तथा क्रोधः शक्यप्रतीकारं तथाविधं प्रति रोषः, एते वीता विगता यस्य, स तथाविधः स्थितप्रज्ञः उच्यते || ५८ || एवं प्राप्स्यमानसुखदुःखनिर्विकारतया स्थितप्रज्ञस्य लक्षणविशेषमुक्त्वा, प्राप्तसुखदुःखस्य निर्विकारतया तं प्रतिपादयितुमाह यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || ५९ || योगी तत्तत् अनन्तभेदं सुखसाधनभूतं दुःखसाधनभूतं वा प्. ५३) सुखात्मकं दुःखात्मकमेव वा शुभाशुभं प्राप्य नाभिनन्दति न अपूर्वक्षणिकहर्षलक्षणं क्षोभं श्रयति, यतः सर्वस्मिन् वस्तुनि अनभिस्नेहः इदं मम सर्वस्वम्, एतेन विना मम सर्वमन्यत् दुःखकारणमिति अभीष्ठेषु वस्तुषु अनुरागोऽभिस्नेहः, स यस्य नास्ति, स तथोक्तः | तथा न द्वेष्टि न तत्प्रतिषेधप्रयत्नलक्षणं क्षोभमुपयाति | य एवंविधः प्राप्तयोरपि प्रियाप्रिययोर्नित्यनिर्विकारस्वात्ममात्रसुव्यस्थितबुद्धिः, तस्य प्रतिष्ठिता प्रज्ञा उच्यते || ५९ || एवं प्रतिष्ठितप्रज्ञत्वं येन कर्मणा उपायभूतेन निष्पद्यते, तद्वानपि स्थितप्रज्ञ एवेति प्रतिपादयितुमाह यदा संहरते चायं कूर्मोऽङ्गानीव सर्वतः | इन्द्रियाणीन्द्रियार्थेभ्यः स्थितप्रज्ञस्तदोच्यते || ६० || चशब्दो व्यतिरेके | यदा पुनरयं योगी सर्वतः सर्वेभ्य इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते व्यतिरेचयति स्वभावतश्चिदर्करश्मिरूपाणि तन्निष्ठान्येव करोति | कथम् | कूर्मः कच्छपो यथा स्वावयवान् स्वशरीरनिष्ठानेव करोति | तदा असौ स्थितप्रज्ञ इति उच्यते || ६० || अथो विषयेभ्य इन्द्रियसंहारः किं शब्दाद्यग्रहणेन, किंवा गृह्यमाणेषु अपि शब्दादिषु निर्विकारत्वेन अत्र उक्तः, इति पक्षद्वयसम्भावनायां पूर्वपक्षस्थैर्यप्रतिपादनपूर्वमुत्तरमेव पक्षं समर्थयितुमाह विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || ६१ || अभ्युपगम्य इदमुच्यते अस्त्येतत् निराहारस्य शास्त्रविहितानपि शब्दादीननाहरतस्तान् दूरतः परिहरतो विषयाः इष्टाः शब्दादयो विनिवर्तन्ते प्रत्यासत्त्यभावात् स्वकार्यं रागादिकं न आरभन्ते, किंतु रसवर्जं तद्विषयं रसमभिलाषं रागाख्यं क्लेशं प्.५४) वर्जयित्वा, स हि तदानीं प्रसुप्तस्तनुर्वा वर्तते | यदिवा परमनैष्ठिकस्य रसोऽपि निवर्तते नाम परं प्रकृष्टं समाध्युपेयं वस्तु दृष्ट्वा साक्षात्कृत्य | यदिवा एष योगी यदा परं तत्त्वं विषयपरिहारसमाधिक्रमेण पश्यति, तदा तत् दृष्टवतस्तस्य रसोऽपि जातु निवर्तते इति कत्वान्तं निष्ठार्थत्वेन व्याख्येयम् || ६१ || एवं विषयपरिहारपरमसमाधेः परामपि काष्ठां प्राप्तस्य सच्छलत्वं प्रतिपादयन्, यथोक्तज्ञानपूर्वमनिषिद्धविषयसेवात्मकमच्छलं समाधिं सिद्धान्तीकुर्वन्नाह यत्तस्यापि हि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः || ६२ || तानि संयम्य मनसा युक्त आसीत तत्परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || ६३ || यत् यस्मात् तस्यापि विषयानाहरणसमाहितस्य परतत्त्वदर्शनयोग्यतामपि प्राप्तस्य विदुषो विपश्चितः ज्ञानविघातजागरूकत्वात् छिद्रान्वेषणपराणि प्रमथनशीलानि इन्द्रियाणि प्रसभं प्रसह्यैव कंचिदवकाशलेशं लब्ध्वा मनः चित्तं हरन्ति लब्धादपि समाधिफलात् व्यपकर्षन्ति विषयाभिमुखतां नयन्ति | श्रूयन्ते हि तथाविधा विषयप्रतिषेधयोगनिष्ठा योगिनश्चिरादपि इन्द्रियैः कामान् प्रति प्रवर्तनेन प्रमथितचित्ताः | यत एवमयं यथोक्तज्ञाननिष्ठेन चेतसा संयम्य आत्मवशानि कृत्वा युक्तो यथोक्तलक्षणे स्वात्मतत्त्वे समाहितः सर्वासु अवस्थासु तदेकनिष्ठः सन् तत्परः शास्त्रानिषिद्धशब्दादिग्रहणप्रवृत्तेन्द्रियनिष्ठ एव आसीत | यस्मात् यथोक्तेन क्रमेण यस्य योगिन इन्द्रियाणि वशे विधेयत्वे वर्तन्ते, तस्य प्रतिष्ठितालब्धनिश्चलस्थितिः प्रज्ञा उच्यते | अत्र अयं प्. ५५) दृष्टान्तः कश्चित् गारुडिकस्तादृशः संभवति यो मन्त्रप्रभावेण भुजगान् प्रतिषेद्धुमलम् | स यदा तादृङ्मन्त्रोपासनशैथिल्यलक्षणं प्रमादमातिष्ठति, तदा ते च्छिद्रान्वेषिणो भुजगास्तं व्यापादयन्ति एव | कश्चित्तु गारुडशास्त्ररहस्यवेदित्वात् तादृशातिशययुक्तो भवति येन तैरेव भुजगैः सार्धं स्रग्दामभिरिव क्रीडति, तं च ते न कदाचिदपि अभिभवितुं प्रभवन्ति | एवं यो योगी कयाचित् युक्त्या कंचित्कालं विषयान् परिहृत्य समाधिमभ्यस्यति, तस्य मनागपि अवधानविच्छेदात् ते लब्धावकाशा विषयाश्चित्तं प्रमथ्नन्ति एव | यस्तु यथोक्ते पारमार्थिके स्वात्मनि एव सदा सुव्यवस्थिताः, स विषयैः क्रीडन्नपि न कथंचित् बाधितुं शक्यः | यथोक्तं वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् | संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि || इति || ६३ || अथ कूर्मोऽङ्गानीव इति उपमाननिर्देशात् विषयेभ्योऽत्यन्तव्यावर्तनमेव इन्द्रियाणां संहारः संयमो यस्तेभ्योऽन्यथैव (तेभ्यो विषयेभ्यः, तमिन्द्रियाणां संहारम्, अन्यथा अन्येन प्रकारेण प्रतिपादयन्, रागद्वेषविमुक्तेन्द्रियाणां प्रवृत्तिरेव संहार इत्यन्यथात्वमित्यर्थः |) तं प्रतिपादयन् प्रतिष्ठितप्रज्ञत्वस्य श्लोकपञ्चकेन मुख्यं लक्षणमाह ध्यायतो विषयान्पुंसः संगस्तेषूपजायते | संगात्संजायते कामः कामात्क्रोधोऽभिजायते || ६४ || क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः | स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || ६५ || इह खलु अचिन्त्यपरमेश्वरमायामुषितसम्यग्ज्ञानतया शरीरमात्रमात्मत्वेन प्रतिपन्नस्य संसारिणः सतः पुंसः सन्निहितमपि मुख्यमव्ययं निरुपमानन्तनिजानन्दसुधासागरं सत्यं स्वात्मानमविमृशतो दुःखैकपरिणामानित्यकृत्त्रिमसुखसाधनस्पृहतया शब्दादीन् विषयान् प्. ५६) ध्यायतः सततं चिन्तयतः तेषु सङ्गो निविडनिमग्नमानसत्वम् उपजायते उत्पद्यते | तस्मात् तथाविधात् सङ्गात् कामः तद्विषयोऽभिलाषो रागाख्यः क्लेशः संजायते समुद्भवति | तस्माच्च तत्प्रतिकूलेषु वस्तुषु क्रोधः द्वेषाख्यः क्लेशप्रकारः अभिजायते प्रभवति | ततश्च संमोहः आत्मानात्मादिवस्तुविवेकविरहात्मकमज्ञानं प्रभवति मोहाख्यः क्लेशः उन्मज्जतीत्यर्थः | ततश्च स्मृतिर्विभ्राम्यति- सत्यं स्मर्तव्यमात्मानमस्पृशन्ती स्वरूपलोपमिव आप्नोति | तादृशाच्च तस्मात् स्मृतिभ्रंशात् बुद्धिः परमार्थनिश्चयात्मकं ज्ञानं नश्यति तिरोभवति | तस्माच्च हेतोः पुरुषः सत्यस्वरूपप्रतिष्ठाभावलक्षणं नाशमुपगच्छतीति || ६४-६५ || संसारिणं पुरुषमुद्दिश्य अप्रतिष्ठितबुद्धित्वस्य हेतुपरम्परां प्रतिपाद्य, इदानीमनुजिघृक्षाक्षणाक्षिप्यमाणसन्देहतिरस्करिणीतिरोधानतया प्रकाशमानयथोक्तस्वस्वभावप्रकाशस्य प्राप्तप्रबोधस्य मुमुक्षोः पुंसः प्रतिष्ठितप्रज्ञत्वस्य कारणक्रमं प्रतिपादयितुमाह रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || ६६ || प्रसादे सर्वदुःखानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते || ६७ || नास्ति बुद्धिरयुक्तस्य नचायुक्तस्य भावना | न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् || ६८ || इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || ६९ || विधेयात्मा प्रत्यवमर्शविषयभूतत्वात् स्वाधीन आत्मा स्वभावो यस्य स तादृशः पुरुष आत्मवश्यैः तादृशस्य सत्यस्य आत्मनः प्. ५७) स्वशक्तितया प्रतिपाद्यमानत्वात् विधेयैस्तदधीनप्रवृत्तिस्थितिसंहृतिभिर्बाह्यन्तरैः इन्द्रियैः करणै किरणैरिव अर्कः पदार्थान् विषयान् चरन् गच्छन् प्रसादं सुखादिकलङ्कसम्पर्काभावरूपं वैषद्यम् अधिगच्छति प्रतिलभते | अत एव कीदृशैरिन्द्रियैर्विषयांश्चरन् | रागद्वेषविमुक्तैः रागद्वेषौ हि विषयमात्रध्यानसंप्रसक्तस्य विस्मृतस्यात्मनः पुंसो विषयान् प्रति प्रवर्तमानेषु इन्द्रियेषु परिस्फुरतः | यस्य तु सर्वतःपरिपूर्णत्वात् नित्यनिरभिलाषस्वरूपप्रत्यवमर्शपूर्वकः सर्वज्ञानक्रियाव्यवहारः, स्यत रागद्वेषाभ्यां विमुक्तानि इन्द्रियाणि स्वं स्वं विषयमभिप्रवर्तन्ते इति तादृशैरिन्द्रियैर्विषयांश्चरन् प्रसादमधिगच्छति, इति उक्तम् | एवंविधे च निसर्गनिर्मलस्वरूपाभिव्यक्तिलक्षणे प्रसादे सति रागादिक्लेशनिबन्धनानां सर्वेषामाध्यात्मिकादिदैविकाधिभौतिकानां दुःखानां हानिः परिक्षयः अस्य पुंसः उपजायते | यतो यथोक्तेन प्रकारेण प्रसन्नं नीरागद्वेषकलङ्कं चेतो यस्य तादृशस्य पुंसः आशु प्रसादसमनन्तरमेव बुद्धिः प्रज्ञा पर्यवतिष्ठते परितः समन्तात् सत्ये स्वात्मनि निर्विप्लवां प्रतिष्ठां लभते || ६६-६९ || यत एवं तस्माद्यस्य महाबाहो निगृहीतानि सर्वतः | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || ७० || तस्मात् कारणात् यस्य पुरुषस्य सर्वतः सर्वेभ्यः सुखहेतुभ्यो दुःखहेतुभ्यश्च इन्द्रियार्थोभ्यः विषयेभ्यो दुःखहेतुष्वपि द्वेषविरहितत्वेन सुखहेतुष्वपि नीरागतया अप्रसृतान्येव निगृहीतानि नियमितानि बाह्याभ्यन्तराणि इन्द्रियाणि तस्य तथाविधस्य प्रत्यासन्नपरमेश्वरसायुज्यस्य प्रज्ञा बुद्धिः प्रतिष्ठिता स्वात्मनि लब्धस्थितिः, नतु अन्यस्य यः प्रतनुप्रयत्नलक्षणसमाधिनिरुद्धानि प्. ५८) अनुत्खातरागद्वेषमयमूलत्वात् प्रसृतानि कार्यकराण्येव निगृहीतानि इन्द्रियाणि मन्यते || ६८ || अत एव समस्तसंसारिपुरुषविलक्षणां प्रबुद्धस्य वृत्तिं प्रतिपादयितुमाह या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः || ७१ || सर्ववस्तुप्रकाशकस्वरूपप्रकाशनिरूपणरूपा वृत्तिरेव इह संसारिणः प्रति निशाशब्देन उक्ता, तद्विषयत्वेन हि सर्वभूतानि अनुन्मिषितदृक्शक्तित्वात् प्रसुप्तानि तिष्ठन्ति | एवंविधा या सर्वभूतानां निशा तस्यां तद्विषये संयमी यथोक्तप्रकारेण निगृहीतसर्वेन्द्रियः प्रबुद्धो जागर्ति प्रविकसितस्वभावनिर्मलविज्ञानमयविलोचनविभाव्यमानां तामेव अविमुञ्चन् विगतमोहनिद्र आस्ते | यस्यां तु प्रतिक्षणविनश्वरसुखदुःखसाधनभूतविषयग्रहणोत्सर्गमात्रव् यग्रसमग्रेन्द्रियग्रामायां संसारव्यवहारवृत्तौ सर्वभूतानि समस्तप्राणभृतो जाग्रति तावन्मात्रावहितत्वात् विनिद्रतामिव अनुभवन्ति, सा तादृशी वृत्तिः पश्यतः सदसत्पदार्थसार्थपरमार्थमालोकयतो मुनेः संयमिनः प्रबुद्धस्य रात्रिः निशा तां प्रति तस्य निरवधानत्वात् || ७१ || एवं सततमनस्तमितसामान्यसंवित्प्रकाशात्मनि स्वभावे सुव्यवस्थितप्रसन्नबुद्धिः प्रबुद्धः पवन इव सदसदामोदैर्विविधैः पदार्थैः परिचयमुपगच्छन्नपि तत्संपर्कसंजातैः सुखादिभिर्मनागपि न विकृतिं नीयते इति उपमाननिदर्शनेन स्फुटतरं तत्स्वरूपं प्रतिपादयितुमाह आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | प्. ५९) तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || ७२ || स प्रबुद्धः पुरुषातिशयः शान्तिं सकलविकल्पकल्लोलक्षोभपरिक्षयात् निस्तिमितचित्तवृत्तिताम् आप्नोति अधिगच्छति | कोऽसौ | यं कामाः विषयाः तद्वत् प्रविशन्ति निरभिलाषमेव अवगाहन्ते | कथम् | यथा समुद्रं नानादिगन्तरागतसरिद्रुपा आपः | कीदृशम् | ताभिः आपूर्यमाणं भ्रियमाणमपि अचलप्रतिष्ठं निष्प्रकम्पापारगम्भीरनिजावस्थानम् | अनेन उपमानेन प्रत्यासत्तिसामर्थ्यात् सम्बध्यमानैरपि सुखादिहेतुभिः शब्दादिभिर्यः क्षोभं नेतुं न शक्यते, स एव शान्त इति उच्यते, नतु यस्तेषु सन्निहितेषु अशान्तः | यथोक्तं विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः | (कु० सं० १/५८) इति | अत एव आह न कामकामी शान्तिमाप्नोति इति || ७२ || मनसा कामान् सुखसाधनभूतान् विषयान् कामयमानोऽभिलष्यन्नेव इन्द्रियव्यापारपरिहारमात्रेण न शममाप्नोति, इत्येवमभिप्रायं प्रकटयितुमाह विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः | निर्ममो निरहंकारः स शान्तिमधिगच्छति || ७३ || यः सर्वान् अशेषान् कामान् इष्टान् शब्दादिविषयानभिलाषान् मनसैव विहाय परित्यज्य इन्द्रियैर्विषयान् चरति अवगाहते स शान्तिम् उक्तरूपाम् अधिगच्छति प्राप्नोति | कीदृशः सन् | नित्यतृप्ताद्वयचिन्मात्रप्रतिलब्धात्मप्रत्ययत्वात् निःस्पृहः स्पृहातो विषयसुखलोलुपताया निष्क्रान्तः, तथा निर्ममः प्रतिनियतेषु देहेन्द्रियविषयादिषु भावेषु ममैव इदमिति ममत्वाभिमानात् निष्क्रान्तः, तथा निरहंकारः देहबुद्धिप्राणादिषु आत्मप्रत्ययरूपादवच्छिन्नादहंकारादपि निष्क्रान्तः इति || ७३ || प्. ६०) एतदन्तेन ग्रन्थेन अपवर्गमार्गप्रवणस्य पुंसः प्रथममेव सहजभक्त्याद्यव्यभिचारिचिह्नसूचितोपदेशयोग्यबुद्धितया सद्गुरूपदिष्टदेहदेहिव्यतिरेकज्ञाननिरन्तराभ्यासवशात् देहादिवर्गव्यावर्तमानात्मप्रत्ययस्य अद्वैतसामान्यसंवित्प्ररोहादहंप्रतीतेश्चिदर्करश्मिरूपाणामन्त र्बहिष्करणशक्तीनां शास्त्रचोदितेषु विषयेषु विसृष्टत्वमेव निग्रहं निरुत्तरपदप्राप्तिहेतुं सिद्धान्तीकृत्य सप्तदशाध्यायप्रदर्शितपरमरहस्योपदेशप्राणभूतार्थप्रतिपा दकं द्वितीयमध्यायमुपसंहरन्नाह एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति || ७४ || एषा विहाय कामान्यः सर्वान् इत्यन्तेन ग्रन्थेन प्रतिपादिता, ब्रह्मणः परस्य तत्त्वस्य परमात्मसंज्ञकस्य सम्बन्धिनी स्थितिः | एतया ब्रह्मणि स्थीयते इति विषयान्तरनिवृत्तगतितया प्रतिष्ठा क्रियते | अत एव एनां प्राप्य यथोक्तेन क्रमेण स्वात्मीकारेण स्वीकृत्य अभियुक्तो न मुह्यति देहादिषु आत्मप्रत्ययरूपं वैचित्त्यं न भजते, यतः अस्याम् अन्तकालेऽपि उपरमसमयेऽपि स्थित्वा विश्रम्य निर्वाणं नानाविकल्पक्षोभप्रत्ययात् प्रशान्तं ब्रह्म परं तत्त्वं स्वं स्वभावमयम् ऋच्छति गच्छति तदैकात्म्यमापद्यते इति || ७२ || द्वितीयेऽध्यायेऽस्मिन् हृदय इव गम्भीरविमले गृहीते गीतानां विवुधदयितानां प्रणयतः | तदाश्लेषानन्दामृतरसमपूर्वं रसयतां सदा वः पुम्भावो भवतु कृतकृत्यः कृतधियाम् || इति श्रीमद्राजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे द्वितीयोऽध्यायः || २ || अथ तृतीयोऽध्यायः अथ ज्ञानस्य कर्मणश्च भगवद्भाषितानि पृथक् प्रशंसावचनानि अनुविमृशन् सम्यक् समुच्चयार्थमनवधार्य किमेतयोरुपादेयतरं स्यादिति संशयानो भगवन्तमर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव || १ || व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || २ || दूरेण ह्यवरं कर्म बुद्धियोगात् ---------- | (२/५१) इत्यादि वदतस्तव कर्मणः सकाशात् यदि बुद्धिर्ज्यायसी मता ज्ञानं प्रकृष्टतरत्वेन अभिप्रेतं, तत् किं केन हेतुना बन्धहेतुत्वात् सर्वस्मिन् कर्मणि दारुणविपाकत्वात् घोरे विशेषतोऽस्मिन् गुरुज्ञातिघातादिमहापातकहेतौ संग्रामरूपे मां कर्मण्यस्त्वधिकारस्ते----------------| (२/४८) इत्यादिना नियोजयसि प्रवर्तयसि | इत्थंच परस्परविरुद्धज्ञानकर्मप्रशंसारूपत्वात् व्यामिश्रेण संकीर्णेन वाक्येन मम बुद्धिं प्रज्ञां मोहयसीव निश्चयोपदेशेन प्रबोधनमिच्छन् संशयापादकवचनप्रणयनात् वैचित्त्यमिव मां प्रापयसीत्यर्थः | तस्मात् कारणादेतयोर्ज्ञानकर्मणोर्मध्यात् एकं ज्ञानं कर्म वा इदमेव अनुष्ठेयमिति निश्चित्य निर्णीय ब्रूहि, येन एकतरेण सुगृहीतेन सता श्रेयः अपवर्गलक्षणमभ्युदयम् अहं प्राप्नुयां लभेयेति || १-२ || प्. ६२) अथ अन्यथैव मयोक्तमन्यथैव त्वया प्रतिपन्नमिति अर्जुनं प्रति उपालम्भमिव आविष्कुर्वन् तत्संशयव्युदासाय भगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् || ३ || संख्या यथाप्रतिपादितलक्षणशरीरिशरीराद्युपादेयहेयपदार्थसंख्यान. म्, तद्विदो मुख्यतया सांख्या उच्यन्ते | योगो यथोक्तसांख्यनिश्चितार्थसाक्षात्कारकरणं क्रियाविशेषः, स विद्यते येषां, तेऽपि मुख्यतया योगिनः, कपिलादयो हैरण्यगर्भादयश्च गौण्या वृत्त्या सांख्या योगिनश्च उच्यन्ते | यथोक्तलक्षणस्य आत्मादेरर्थस्य तेषामनिश्चयादसाक्षात्काराच्च तदेवंविधानां सांख्यानां योगिनां च पुरा अस्मादध्यायात् पूर्वं द्वितीयेऽध्याये मया एकैव निष्ठा उक्ता निश्चयसिद्धान्तः प्रतिपादितः | कीदृशी निष्ठा | द्विविधा द्वे एकानुष्ठातृपुरुषनिष्ठे युगपत्प्रयोज्ये विधे विधाने प्रकारौ यस्याः, सा तथोक्ता | केन प्रकारेण द्विविधा, इत्याह ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् इति | यथाप्रतिपादिताद्वयचिन्मात्रस्वरूपस्य आत्मतत्त्वस्य प्रत्यभिज्ञानलक्षणा प्रतिपत्तिरिह ज्ञानमुच्यते, तद्विषयो योगः समाधिः कर्मण्यपि सति यथोक्तस्वरूपाप्रच्युतिलक्षणं प्रणिधानम् | तेन ज्ञानयोगेन यथोक्तानां मुख्यानां सांख्यानां निष्ठा मया उक्ता | ते हि नैष्ठिकाः सांख्या येषां कर्मणि प्रवृत्तानामपि यथोक्तात्मज्ञानविषयः समाधिरविप्लुतः | कर्म यथावर्णं यथाश्रमं शास्त्रचोदिता सा सा क्रिया, तत्र योगः समाधिर्यथोक्तज्ञानापरित्यागेन तदनुष्ठाननिष्ठता | तेन कर्मयोगेन मुख्यानां योगिनां निष्ठा उक्ता | एवं ज्ञानयोगस्य कर्माविनाभावात् कर्मयोगस्य च ज्ञानाविनाभावादेकैव प्रकारद्वयनिर्वर्त्या प्. ६३) निष्ठा मया पूर्वमुक्ता | तत्प्रतिपादकश्च ग्रन्थस्तत्र उक्तः कथं विस्मृतो भवतः | तथाच दूरेण ह्यवरं कर्म------------------| (२/५१) इत्यादिना ज्ञानस्य प्रकर्षप्रतिपादनमुपक्रम्य तत्समाधिप्रतिपादनाय उक्तं तस्माद्योगाय युज्यस्व कर्मनिष्ठो भव यतः कर्मसु यो योगस्तत् कौशलं सा बुद्धिमत्ता ज्ञानित्वमिति | अनेन ज्ञानयोगेन सांख्यानां निष्ठेति तत्र उक्तम् | तथा कर्मण्यस्त्वधिकारस्ते तस्माद्योगाय युज्यस्व इत्यादिना कर्मणोऽवश्यकरणीयत्वं व्यवस्थाप्य तत्समाधिप्रतिपादनाय उक्तं कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | कर्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् || (२/५३) तथा रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || (२/६६) इति | अनेनापि कर्मयोगेन योगिनां निष्ठा तत्र उक्ता | किं बहुना दूरेण ह्यवरं कर्म-----------------| (२/५१) इत्यतः प्रभृति अध्यायपरिसमाप्तिं यावदेकपुरुषानुष्ठेयद्विविधनिष्ठाप्रतिपादनपरत्वेन सर्वो ग्रन्थस्तत्र व्याख्यातः | तत् का मे व्यामिश्रवचनता यया एवं ते बुद्धिमोह उत्पन्नः || ३ || अथ मन्यसे यथोक्तात्मलक्षणैकार्थावहितत्वं ज्ञानमिति उक्तम्, कर्म च नानाविषयहानादानरूपव्यापारात्मकं; तदेतयोर्ज्ञानकर्मणोः परस्परविरुद्धयोर्युगपदेकपुरुषानुष्ठेयत्वं कथमुपपद्यते इति | अत्र उच्यते सम्यगनवधारिता ज्ञानकर्मानुष्ठाननिष्ठा तव प्. ६४) एवंविधबुद्धिमोहकारणम् | अतस्तां पुनरुच्यमानामवधारय, इति मनसि कृत्वा आह न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्रुते | नच संन्यसनादेव सिद्धिं समधिगच्छति || ४ || अगृहीतयथाप्रतिपादितसमुचितसमुच्चयार्थनिश्चयत्वात् सर्वथा कर्मणां ज्ञानविरोधित्वं मन्वानस्य तव यदेतत् नैष्कर्म्यम् अविद्यमानकर्मत्वं सिद्धिहेतुत्वेन प्रतिभाति, तत् सिद्धिकामः पुरुषः कर्मणां सर्वक्रियाणाम् अनारम्भात् अननुष्ठानात् न अश्नुते न प्राप्नोति वक्ष्यमाणया युक्त्या शरीरित्वाव्यभिचारिणां शास्त्रीयाणां च कर्मणां दुष्परिहरत्वात् | अतो न कर्मणामेषामकरणमात्रमभावत्वेन इह विवक्षितम्, किन्तु बन्धलक्षणस्वकार्यसम्पादनसामर्थ्यभङ्गेन एषामभावापादनमिह अभिप्रेतम् | अथ विहितकर्माननुष्ठानमात्रं कर्मत्यागः संन्यासेऽभिमतः | तदेवंविधात् संन्यसनमात्रादेव केवलात् यथाप्रतिपादितज्ञानशून्यात् न पुरुषः सिद्धिम् अपवर्गलक्षणां सम्पत्तिं समधिगच्छति समासादयति || यदि इह ज्ञानरहितान् विहितकर्मपरिहारमात्रात् मोहलक्षणफलावाप्तिः स्यात्, तत् सुषुप्तादयो मोहात्मकत्वात् नैष्कर्म्यमावहन्तोऽवस्थाविशेषाः सिद्धिहेतवः स्युः, नच विहितकर्मानारम्भमात्रात् नैष्कर्म्यसिद्धिरिति यदुक्तं, तत्र हेतुमाह नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः || ५ || हिशब्दो हेतौ | यस्मात् कश्चित् देही जातु कदाचित् तत्तदवस्थाविशिष्टे कस्मिंश्चिदपि काले न क्षणमपि सुसूक्ष्मपि कालं तदवयवम् अकर्मकृत् तिष्ठति कर्म अकुर्वाणः स्थितिमनुभवति वर्तते इत्यर्थः | तथाच बाल्ययौवनवार्धकरूपासु स्थूलासु अवस्थासु मनोवाक्कायैः प्. ६५) सर्वः कश्चिदेही कर्म कुर्वन्नास्ते इति सुव्यक्तमेव तदन्तर्गतासु च जागरस्वप्नसुषुप्तरूपासु सूक्ष्मासु अवस्थासु न कश्चिदकर्मकृत् | यतो जागरावस्थायां शब्दादिविषयग्रहणव्यग्रेन्द्रियव्यापाररूपायां सर्वस्य तत्कर्मनिष्ठत्वं स्फुटमेव, स्वप्नावस्थायामपि विषयग्रहणाविलोपात् न कस्यचिदकर्मत्वेन स्थितिः, सुषुप्तावस्थायां तु तत्कालव्यतिरिक्तविषयसंवेदनाभावेऽपि प्रतिबोधकाले सुखदुःखमोहरूपानुभूतविषयप्रत्यवमर्शान्यथानुपपत्त्या मानसं कर्म विद्यते एव | या अपि योगिविषया एता जागरादयोऽवस्थाः, तास्वपि एषैव वार्ता | यतो जागरस्वप्नयोर्ग्राह्यग्रगीत्रादिविकल्पानुपरमात्, सुषुप्तावस्थायामपि तत्कालं ग्राह्यग्रहणग्रहीतृभेदसंवेदनाभावे सत्यपि व्युत्थाने तथाविधसमाध्यवस्थाप्रत्यवमर्शान्यथानुपपत्तिरिति तिसृष्वपि योग्यवस्थासु न कश्चिदकर्मकृत् वर्तितुमर्हति, इति विहितकर्मानारम्भमात्रात् न नैष्कर्म्यसिद्धिरिति पूर्वेण सम्बन्धः | इत्थं सर्वकर्माभावस्य अनुपपत्तौ हेतुमाह कार्यते इति | हिशब्दो हेतौ | यस्मात् सर्वः कश्चिद्देहभृत् अवशः परतन्त्र एव सन् प्रकृतिजैः प्रधानभवैः गुणैः सत्त्वादिभिः कर्म शास्त्रविहितं शरीरित्वाव्यभिचारि च प्राह्यतेऽनुष्ठाप्यते | इह हि परमेश्वरेच्छापरिकल्पितकारणभावं प्रकृत्याख्यं तत्त्वमन्योन्यगुणप्रधानभावपरिणतसत्त्वादिगुणमयं तत्तच्छरीरमशेषशरीरिणामारभते, गुणाश्च अन्योन्याविनाभाववृत्तित्वात् रजोगुणानुगतत्वे सति सर्वं कंचिच्छरीरिणं सात्त्विकादिकर्माधिकृतं कुर्वते इति प्रकृतिजैर्गुणैः सर्वः कर्म कार्यते इति उक्तम् || ५ || एवंच सर्वदेहिनां सर्वावस्थासु सर्वकर्मोच्छेदानुपपत्तौ स्थितायां विहितानां कर्मणामनारम्भमात्रेण नैष्कर्म्याभिमानिनो योगिनः शरीरित्वाव्यभिचारिदुष्परिहरकर्मान्तरसद्भावात् कैवल्यलक्षणसिद्ध्यभावः प्. ६६) प्रसक्तः इति तथाविधस्य प्रायेण अयोगित्वप्रतिपादनार्थमाह कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते || ६ || उक्तया उपपत्त्या मानसस्य कर्मणः उपरमाभावात् यो योगी मनसा अन्तःकरणेन इन्द्रियार्थान् शब्दादीन् स्मरन् चिन्तयन् आस्ते नैष्कर्म्यबुद्धिमालम्ब्य अवतिष्ठते स मिथ्याचार उच्यते तादृशं योगाचरणं फलविसंवादात् वृथैवेत्यर्थः | यतः कर्मेन्द्रियाणि कर्मेन्द्रियशब्देन इह बहिष्करणानि श्रोत्रादीनि वागादीनि च गृह्यन्ते, तेन शब्दादिग्रहणव्यापाराधिकृतानि श्रोत्रादीनि अक्षाणि नियम्य प्रयत्नविशेषेण स्वव्यापारात् प्रतिषिध्य असौ कंचित् कालं तथा आस्ते, नतु तावता सर्वात्मना सर्वक्लेशोच्छेदलक्षणकैवल्यफलप्राप्तिः | यतस्तथाविधायां समाध्यवस्थायां यदि परं क्लेशाः प्रसुप्ता भवेयुः, तथापि तेषां व्युत्थाने पुनः प्रबोधादनुच्छेदो गम्यते || ६ || यस्मिंस्तु समाधौ दग्धबीजकल्पतामापाद्यमानास्ते क्लेशाः सति अपि आलम्बने प्ररोहसामर्थ्यं न भजन्ते, तदधिकृतस्य इह विवक्षितस्य योगिनः पूर्वस्मात् विशेषं रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | (२/६६) इत्यादिना पूर्वोक्तमपि स्मारयन् पुनराह यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते || ७ || तुशब्दो व्यतिरेके | स पुनः असक्तः संगरहितो योगी पूर्वस्मात् योगिनो विशिष्यते प्रकर्षत्वेन व्यतिरिच्यते | कोऽसौ | यो मनसा यथाप्रतिपादितलक्षणसत्यात्मलब्धप्रतिष्ठत्वात् सर्वसाम्यदशाधिरूढेण प्. ६७) अन्तःकरणेन बुद्ध्या श्रोत्रादीनि नियम्य रागादिदोषसंस्पर्शात्, नतु शब्दादेर्विषयात्, प्रतिषिध्य एवंविधैः रागादिस्पर्शशून्यैः कर्मेन्द्रियैः कर्मसु शब्दादिग्रहणरूपेषु व्यापारेषु अधिकृतैरक्षैः कर्मयोगमारभते कर्मणा शास्त्रचोदितशब्दादिग्रहणरूपया क्रियया योगं सम्बन्धमारभते प्रस्तौति || ७ || रागद्वेषपरिहारः प्रकरणप्रतिपाद्यसिद्धिसाधनं, नतु कर्मणामनारम्भः | तस्मात् नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः | शरीरयात्रापि च ते न प्रसिध्येदकर्मणः || ८ || नियतं वर्णविभागेन आश्रमविभागेन च शास्त्रेण नियन्त्रितं कर्म तां तां क्रियां कुरु अनुतिष्ठ मा कदाचन त्याक्षीः | यतः अकर्मणः कर्माभावात् क्रियात्यागात् कर्म विहितक्रियानुष्ठानं ज्यायः श्रेष्ठं यतः केषांचिदेव कर्मणामनारम्भे कर्माभावभ्रमो न सिद्धिहेतुः क्लेशानामनुच्छेदात् | यथोक्तेन समाधिना तु अनुष्ठीयमानं कर्म व्युत्थानहेतुषु विषयेषु सत्सु अपि क्लेशोन्मेषाभावाय पर्यवस्यत् प्रशस्यतरम् | नच शरीरित्वे सति सर्वकर्माभाव उपपद्यते यतस्तव अकर्मणः सर्वात्मना कर्मरहितस्य स्थाणुकल्पस्य शरीरयात्रापि देहवृत्तिरपि न प्रसिध्येत् न घटेत | नच पानाशनशयनासनागमनाकुञ्चनकण्डूयनादिक्रियाकलापमन्त रेण केनचित् वर्तितुं शक्यम् || ८ || इत्थं च कर्मणः सर्वथा अभावानुपपत्तौ स्थितायां न सर्वं नाम कर्म अनुष्ठीयमानं सिद्धये कल्पते इत्याह यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर || ९ || यज्ञो यजनं मुख्यया वृत्त्या दैवतपूजनं; दैवतमपि प्. ६८) यस्मिन्सर्वं यतः सर्वं-------------| इत्यादिश्लोकव्याख्यातस्वरूपः परमेश्वरः परमात्मैव एकं तत्त्वमिह अभिप्रेतम्, तस्य पूजनमपि यथाप्रतिपादितविज्ञानपरिशीलनविशुद्धया संविदा स्वभावत्वेन परामर्शलक्षणमाराधनम् ; सोऽर्थः प्रयोजनं यस्य तादृशं यत् कर्म, तस्मात् तथाविधात् कर्मणोऽन्यत्र तादृशं कर्म वर्जयित्वा अन्यादृशं कर्म कुर्वाणः सर्वः अयं लोकः कर्मबन्धनः भवति कर्म शास्त्रचोदितमपि अनुष्ठानं बन्धनं संसारदायित्वात् पारतन्त्र्यहेतुर्यस्य, स तथा | यथोक्तात्मतत्त्वज्ञानशून्यतया विधिवदनुष्ठीयमानं शास्त्रीयमपि कर्म बन्धनायैव कल्पते, यथाप्रतिपादितविज्ञाननिष्ठतया अनुष्ठीयमानं तु परमेश्वराराधनमुख्ययागहेतुत्वात् परसिद्धिदं भवतीत्यर्थः | तथा च वक्ष्यति यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमेवार्च्य सिद्धिं विन्दति मानवः || (१८/४६) इति | यत एवं, ततस्त्वं तदर्थं तादृशस्य यज्ञस्य सम्पत्तये कर्मशास्त्रचोदितां क्रियां समाचर सम्यक् कुरु इत्यर्थः | कीदृशस्तस्य सम्यक्करणेऽधिकृत इति विशेषणमाह मुक्तसंगः इति मुक्त असंकल्पात् परिहृतः संगो रागद्वेषादिदोषहेतुविषयेषु निमज्जनं तदेकनिमग्नचित्तत्वं येन, स तथाविधः सन्निति | अनेन मुमुक्षोस्तावत् कर्मापरित्यागः प्रतिपादितः || ९ || इदानीं कश्चित् प्रवृत्तिलक्षणधर्माधिकृतः, कश्चित् निवृत्तिलक्षणधर्माधिकृतः इति द्विविधशास्त्रोपदेशविषयभूते लोके न कस्यचिदपि कर्मपरित्याग उपपद्यते इति क्रमेण प्रतिपादयितुं प्रवृत्तिधर्माधिकृतस्यैव तावदागमोपन्यासपूर्वं कर्मापरित्यागमुपपादयितुमाह प्. ६९) सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | प्रजाशब्देन अत्र कर्मभूमिजन्मानः परज्ञानरहिताः स्वर्गादिगार्थिनो मनुष्या एव गृह्यन्ते तेषामेव प्रक्रान्तप्रजापत्युपदेशषयत्वोपपत्तेः | तेन प्रजापतिः परमेश्वरेच्छाकल्पितसर्गलक्षणर्माधिकारो देवताविशेषो यथोक्ताः प्रजाः सहयज्ञाः यज्ञेन नादेवतायजनात्मकेन विधिविशेषेण सह सार्धं सृष्ट्वा निर्माय वाच उपदिदेश || किमुवाच, इत्याह अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || १० || देवान्भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || ११ || इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः | तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः || १२ || अनेन सहजन्मना यज्ञेन क्रियमाणेन यूयं प्रसविष्यध्वं सवं सन्तानमवाप्स्यथ वृद्धिं गमिष्यथेत्यर्थः | प्रसविष्यध्वतिप्रयोगश्छान्दसः, अन्यत्रापि एवं द्रष्टव्यः | एष च युष्माकनुष्ठीयमानः सन् इष्टकामधुक् भवतु क्रियाफलत्वेन अभिमतान् पुमान् स्वर्गादिभोगान् दुग्धां पूरयतु | किमनेन कुर्म इत्याह मनेन देवान् इन्द्रप्रभृतीन् भावयत शास्त्रोपदिष्टेतिकर्तव्यताविष्टेन यज्ञेन तर्पितान् सतस्तृप्तिलक्षणां सत्तां लम्बयतेत्यर्थः | ? च एवं भवद्भिरिष्टत्वात् तृप्ताः सन्तो युष्मान् भावयन्तु वर्धन्तु नरकतिर्यक्त्वादिपतनलक्षणादभावादुत्तारयन्तु वा | एवम्योन्यभावनपराः सन्तः परं श्रेयः यथाभिमतमभ्युदयम् अवाप्स्यथ लप्स्यध्वे | यस्मात् यज्ञेन यागेन भाविताः सन्तो देवाष्टान्? अभिप्रेतान् कामान् भोगान् युष्मभ्यं दास्यन्ते प्. ७०) प्रतिपादयिष्यन्ति | एवं तैः देवैः दत्तान् भोगान् एभ्यः देवेभ्यो यज्ञविधिना अनुपहृत्य यः तान् कामानश्नाति, स स्तेनः चौर एव देवद्रव्यापहारिप्रत्यवायेन युज्यते इत्यर्थः | एतदन्तं प्रजापतिवचनम्, अतः परं भगवद्वाक्यम् || १२ || यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः | भुञ्जते ते त्वधं पापा ये पचन्त्यात्मकारणात् || १३ || इत्थं प्रजापतिनियममनतिक्रमन्तो यथोक्तात् यज्ञादनुष्ठितात् शिष्टं विघससंज्ञमन्नमश्नन्तो भुञ्जानाः सर्वैः समस्तैर्नित्यादियज्ञाननुष्ठानसम्भवैः किल्विषैः पापैः मुच्यन्ते त्यज्यन्ते न ते स्तेना भवन्तीत्यर्थः | ते पुनः पापाः पापिनः अघं पापमेव भुञ्जते ये आत्मकारणात् स्वहेतोर्नतु देवाद्यर्थं पचन्ति पक्तिं साधयन्ति, ते त्यक्तशास्त्रीयक्रियाः सन्तो निरयमेव प्राप्नुवन्तीत्यर्थः || १३ || यस्मात् सर्वमेतदक्षरसंज्ञात् परस्मात् ब्रह्मणः प्रवृत्तम्, तस्मादनतिक्रमणीयमेवेति क्रममाह अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः | यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || १४ || कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || १५ || अन्नात् प्राणसन्धारणहेतोरोदनादेरभ्यवहार्यात् भूतानि सर्वप्राणभृतो भवन्ति सत्तां लभन्ते | प्राणवृत्तिनिबन्धनं हि भूतानां जीवितम्, अन्ननिबन्धना च प्राणवृत्तिः | तदेवंविधस्य अन्नस्य पर्जन्यात् मेघात् सम्भवः | स च एवंविधः पर्जन्यो यज्ञात् सोमार्काग्नीन्द्रादिदेवतायजनात्मकात् विधिविशेषात् भवति | यज्ञे हि तर्पिता देवता व्रीह्यादिसम्पत्तये पर्जन्यं नियुञ्जते | स च काले वर्षादिना ब्रीहीन् सम्पादयति | यथोक्तम् प्. ७१) अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते | आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः || (म० स्मृ० ३/७६) इति | ईदृशश्च यज्ञः कर्मसमुद्भवः कर्मणो विशिष्टेतिकर्तव्यतारूपात् विधानात् सम्भवो यस्य तथाविधः | तच्च ईदृशं कर्म ब्रह्मोद्भवं ब्रह्मणः शास्त्ररूपादुद्भवो यस्य तत् तथाविधम् | अपरेण शब्दात्मकेन वेदादिशास्त्ररूपेण ब्रह्मणा यज्ञसम्पादनसाधकं कर्म उपदिश्यते | तच्च इत्थंभूतं शब्दात्मकं ब्रह्म अक्षरसमुद्भवम् न क्षरति संचलति, न स्वरूपात् च्यवते इति अक्षरं परं ब्रह्म परमकारणं, तस्मादुद्भवो यस्य, तत् तादृशम् | परस्माद्धि ब्रह्मणः परमकारणात् स्वरूपमजहत एव शास्त्रं वस्तुस्थित्या चित्स्वरूपतामव्यभिचरत् सूर्यादिव प्रकाशो व्यपदेशमात्रभिन्नस्वरूपं प्रसरति, अत एव तदपि ब्रह्मशब्देन उक्तम् | यत एवंविधा इयं प्रक्रिया प्रवृत्ता, ततः परं ब्रह्म सर्वगतत्वेन समस्तवस्तुव्यापकत्वेन व्यवस्थितं सत् नित्यं सदैव यथोक्तस्वरूपे यज्ञे प्रतिष्ठितम् यदर्थमेव प्रसृतम्, तस्य अर्थस्य यज्ञे किल प्रतिष्ठा स्थितिः || १५ || यत एवम्, अतः एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || १६ || एवं यथोक्तेन प्रकारेण परब्रह्मस्वरूपेण परमेश्वरेणैव जगत्क्रीडास्थितये प्रवर्तितं प्रवृत्तिलक्षणधर्मनिष्ठतया आविष्कृतं चक्रं शास्त्रादिपदार्थसमूहं य इह लोके नानुवर्तयति स्वयं च यथाशास्त्रमननुवर्तमानोऽन्यानपि जनान् न अनुष्ठापयति, स तादृशः परमेश्वरप्रवर्तितप्रक्रियाव्युत्थापकत्वात् अघायुः पापायैव आयुर्जीवितं यस्य, स तादृशः सन् मोघं निष्फलं जीवति तादृशस्य हि तत्त्वज्ञानशून्यत्वादपवर्गलक्षणोत्तमफलाभावादीश्वरव्यवस्त् हापितनियमातिक्रमाच्च प्. ७२) स्वर्गादिभोगलक्षणावरफलाभावादपि निष्फलमेव जीवितम् || १६ || एवं प्रवृत्तिलक्षणधर्माधिकृतस्य उपदेश्यस्य संसारिणः शास्त्रोक्तकर्मपरिहारानुपपत्तिं प्रतिपाद्य, इदानीं निवृत्तिलक्षणधर्मानुष्ठानप्रतिष्ठितबुद्धेरपि मुमुक्षोस्तां प्रतिपादयितुमाह यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || १७ || नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः || १८ || तस्मादसक्तः सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः || १९ || इह सर्वस्य कस्यचित् जन्तोरप्राप्तं सुखं प्राप्तुमिच्छतस्तत्साधनभूते शब्दादौ विषये रतिः रागोऽभिलाषो जायते, ततः प्रयत्न विशेषेण तस्मिन् प्राप्ते सति तृप्तिः सम्पूर्णोच्छता, ततः सन्तोषोऽभिकांक्षानिवृत्तिरिति एते रतितृप्तिसन्तोषाः सदा सन्निहिते निरुत्तरानन्दनिर्भरे स्वात्मनि एव प्रतिष्ठिताः | तस्य तद्व्यतिरिक्तप्रापणीयवस्त्वन्तरनिरपेक्षणीयस्य अप्राप्तस्वार्थसाधनभूतं कार्यं करणीयं न विद्यते न सम्भवति | यतः सदा कृतकृत्यत्वात् तस्य नैव कश्चिन् कृतेन प्रागकृतत्वादुपादेयतया इदानीं निर्वर्तितेन प्रयोजनं नापि अकृतेन हेयत्वात् परिहृतेन कश्चिन् अर्थः प्रयोजनम् | अत एव अस्य एवंविधस्य स्वात्मप्रतिष्ठितबुद्धेर्योगिनः सर्वभूतेषु समस्तेषु स्थावरेषु जंगमेषु च सत्त्वेषु मध्ये न कश्चिदर्थव्यपाश्रयः अर्थस्य प्राप्यस्य वस्तुनो व्यपाश्रय आलम्बनम् | इदमत्र तात्पर्यम् प्राक्प्रतिपादितस्थिरबुद्धित्वदशामधिरूढस्य योगिनः फललिप्सया ममैवेदमिति असाधारणतया प्. ७३) कार्यं साध्यं वस्तु न किञ्चन विद्यते, सर्ववर्णाश्रमसाधारणं च शास्त्रचोदितं कार्यं तत्तन्नियतकरणीयं प्रतिपादितविज्ञाननिष्ठस्य विद्यत एव | यत एवं, तस्मात् कारणम् मुमुक्षुः सन् स्वं कार्यं कर्म शास्त्रविहितत्वादवश्यानुष्ठेयं युद्धादितविज्ञाननिष्ठस्य विद्यत एव | यत एवं, तस्मात् कारणात् मुमुक्षुः सन् स्वं कार्यं कर्म शास्त्रविहितत्वादवश्यानुष्ठेयं युद्धादिव्यापारम् असक्तः क्षणिकसुखलवसाधनभूतेषु विषयेषु अनिमग्नचित्त वृत्तिः सन् समाचर सम्यक् यथाप्रतिपादितात्मतत्त्वप्रतिष्ठितबुद्धित्वे मनागपि अप्रमत्ततया आचर अनुतिष्ठ | यस्मात् पुरुषो मुमुक्षुः संसारासक्तो मुक्तसंगः सन् शास्त्रनियंत्रितं कर्म आचरन् कुर्वन् परं प्रकृष्टमपवर्गलक्षणं प्राप्यं वस्तु आप्नोति लभते, नतु कर्मत्यागात् सिद्धिः कस्यचिदस्ति सर्वकर्मत्यागानुपपत्तेः प्रागेव प्रतिपादितत्वात् कस्यचिद्वा कर्मणस्त्यागे सर्वकर्मत्यागाभिमानग्रहात् रागद्वेषादिदोषाविर्भावस्य दुर्निवारत्वात् || १९ || अत्रैव उदाहरणमाह कर्मणैव हि संसिद्धिमास्थिता जनकादयः | इह लोके जनकादयः राजर्षयः श्रुतिस्मृतीतिहासपुराणादिप्रसिद्धाः कर्मणैव स्ववर्णाश्रमनियतेन क्रियाविशेषेण प्रजापालनादिना संसिद्धिं निरुत्तरपुरुषार्थप्राप्तिलक्षणं फलम् आस्थिताः स्वीकृतवन्तः | तथाच मोक्षधर्मेषु एकस्मिन्नप्यधिष्ठाने संवादः श्रूयतामयम् | छत्रादिषु च मुक्तस्य मुक्तायाश्च त्रिदंडकः || इति उपक्रान्ते सुलभाजनकसंवादे जनकवाक्यानि सुखी सोऽहमवाप्तार्थः समलोष्टाश्मकाञ्चनः | मुक्तसंगः स्थितो राज्ये विशिष्टोऽन्यैस्त्रिदंडिभिः || मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महात्मभिः | ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् || प्. ७४) ज्ञाननिष्ठां वदन्त्येवं मोक्षशास्त्रविधो जनाः | कर्मनिष्ठां तथैवान्ये मुनयः सूक्ष्मदर्शिनः || वाग्दंडोऽथ मनोदंडः कायदंडस्तथैव च | यस्यैते नियता दंडाः स त्रिदंडीति कीर्तितः || प्रहायोभयमप्येतज्ज्ञानं कर्म च केवलम् | तृतीयेयं समाख्याता निष्ठा तेन महात्मना || इति तृतीया समुच्चयरूपेत्यर्थः, तथा अन्यत्र अकैञ्चन्ये न मोक्षोऽस्ति कैञ्चन्ये नास्ति बन्धनम् | कैञ्चन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते || (म० भा० शा० प० ३२५ अ०) इति || अथ तत्त्वविदोऽपि अन्यं कर्मापरित्यागहेतुमाह लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि || २० || यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || २१ || लोकशब्देन त्रिवर्गमात्रोपदेशविषयभूतो जनोऽत्र विवक्षितः, तस्य संग्रहः शास्त्रार्थानुष्ठातृलक्षणस्वपक्षस्वीकारः | तं वक्ष्यमाणहेतुना अवश्यकरणीयतया संपश्यन् सम्यक् बुध्यमानस्त्वं कर्तुं शास्त्रविहितानि कर्माणि आचरितुम् अर्हसि | अतः श्रेष्ठः कुलविद्यावृत्तादिभिर्ज्यायान् जनो यद्यत् किञ्चित् कर्म आचरति अनुतिष्ठति तत्तदेव नान्यत् इतरो जनः स्वयं कार्याकार्यविवेकशून्यमतिर्लोकोऽनुतिष्ठति | यतः स श्रेष्ठो जनो यत् वस्तु प्रमाणं कुरुते स्वयमनुष्ठानादुपपन्नत्वेन व्यवस्थापयति तत् लोकः अनुवर्तते अनुसरति | तस्मात् परमार्थज्ञेन अपि लोकसंग्रहार्थं शास्त्रचोदितं कर्म सर्वथा अनुष्ठेयमिति || २१ || प्. ७५) अत्र आत्मानमेव उदाहरणं कुर्वन्नाह न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन | नानवाप्तमवाप्तव्यं प्रवर्तेऽथच कर्मणि || २२ || हे पार्थ मम स्वार्थसाधनतया कर्तव्यं कार्यं न किञ्चित् अस्ति यस्मात् त्रिषु लोकेषु समस्ते जगति अनवाप्तं पूर्वमनासादितमिदानीम् अवाप्तव्यं स्वेच्छापूरणाय लब्धव्यं न किञ्चिदस्ति | अलब्धलाभार्थे हि सर्वः कश्चित् स्वकार्यमारभते, मम तु यथाप्रतिपादिततत्त्वज्ञाननिष्ठाप्रतिष्ठितप्रज्ञस्य न किञ्चित् प्राप्यमस्ति | अतश्च तादृशोऽपि सन् लोकवत् कर्मणि शास्त्रविहिते प्रवर्ते सततमुद्युक्तो भवामि | अनेन यस्त्वात्मरतिरेव स्यात् ----------------| ------------तस्य कार्यं न विद्यते | (३/१७) इति उपक्रम्य तस्मादसक्तः सततं कार्यं कर्म समाचर || (३/१९) इति यत् प्रागुक्तं, तदेकानुष्ठातृपुरुषविषयमेवेति निःसंशयतया प्रतिपादितवान् || २२ || अथ तत्त्वज्ञोऽपि सन् भगवान् लोकवत् कर्मणि प्रवर्तते इत्याह यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः | मम वर्त्मानुवर्तेरन्मनुष्याः पार्थ सर्वशः || २३ || यदि अहं वर्णाश्रमोचिते कर्मणि अतन्द्रितः असंजातालस्यः सन् कदाचिदपि न वर्तेयं न तिष्ठेयम् | तत् सर्व एव मनुष्याः कर्मणि अधिकृताः मानवाः प्रमाणभूतचरितस्य मम वर्त्म मार्गमाचारम् अनुवर्तेरन् अनुसरेयुः || २३ || प्. ७६) किंच अत इत्याह उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् | संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः || २४ || यदि अहं लोकवत् शास्त्रचोदितं कर्म न आचरेयम्, तदमी लोकाः समस्तानि भुवनानि संसारिपुरुषोचिततत्तत्स्वकर्मफलोपभोगाधिकरणभूतानि उत्सीदेयुः उत्सादं विनाशं भजेयुः | कर्मनिबन्दना हि लोकानां स्थितिः | किंच तथाविधं कर्म अकुर्वन् संकरस्य वर्णविभागमिश्रीमावस्य कर्ता प्रवर्तको भवेयम् | सर्वे हि पुरुषा मां शास्त्रीयं कर्म अकुर्वाणमनुवर्तमानाः स्वं स्वं तत्तज्जातिविहितं कर्म यथेष्टमन्यजातिविहितत्वादिना विरोधेन अपि आचरन्तः संकीर्णवर्णतामाप्नुयुः | अतोऽहमेव वर्णसंकरदोषस्य कर्ता स्याम् | किंच अतः इमाः प्रजाः एतान् कर्मभूमिजन्मनः शास्त्रचोदितकर्माधिकृतान् सर्वान् संसारिणः पुरुषान् उपहन्याम् उपघातेन विनाशेन योजयेयम् | एता हि प्रजाः यथाविहितं कर्म अनाचरन्त्यः स्वर्गादिप्राप्तेरपेता निसर्गतस्तत्त्वज्ञानशून्यत्वात् कैवल्यलक्षणादुत्तमात् पुरुषार्थात् दूरबहिष्कृता नर्यकतिर्यग्भावप्राप्तिलक्षणं विनाशमाप्नुयुः | तदित्थं परमेश्वरेच्छापरिकल्पितजगत्क्रीडानियमव्युत्थापकत्वं मयैव आचरितं भवेत् || २४ || अतः सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || २५ || यथा येन प्रकारेण अविद्वांसः यथोक्तात्मतत्त्वज्ञानशून्यत्वात् मुख्यया विद्वत्तया रहिताः पुरुषाः कर्मणि क्षणिकसुखसाधनभूते यज्ञादिक्रियात्मके व्यापारे सक्ताः तदेव परत्वेन मन्यमानास्तावन्मात्रपरिसमाप्तपुरुषार्थाः सन्तः कुर्वन्ति विहितानि प्. ७७) कर्माणि आचरन्ति, तथैव तेनैव प्रकारेण सामान्यजनदुर्लक्ष्यस्वहृदयसंवेद्यतत्त्वज्ञाननिष्ठत्वात् तादृशाभियोगरूपेण विद्वान् परमार्थपंडितः कुर्यात् कर्माणि आचरेत् | कीदृशः सन् | असक्तः निरुत्तरानन्दामृतास्वादसततपरितृप्तत्वात् लोकवत् स्वर्गादिभोगविषयेन तत्तत्कर्मफलसंगेन रहितः | किमर्थमेवं कुर्यादिति हेतुगर्भं विषेषणमाह चिकीर्षुर्लोकसंग्रहम् लोकस्य अबुद्धस्य जगस्य संग्रहं पूर्वोक्तं चिदीर्षुः सम्पिपादयिषुः | विदितवेद्येन हि विदुषा तत्त्वज्ञानोपदेशयोग्यताशून्यं लोकं नरकपातादिदुःखादुज्जिहीर्षुणा तथा कर्म आचरणीयं, यथा लोकस्तदनुवर्तमानः स्वकर्मानुष्ठानात् स्वर्गादेरपि फलात् न व्यपैति || २५ || अयोग्यस्य तत्त्वज्ञानोपदेशो विनाशाय एव पर्यवस्येदिति आह न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् | जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् || २६ || विद्वान् प्रबुद्धो युक्तः यथोक्तात्मज्ञानसहितः सन् सम्यक् यथाशास्त्रं जात्यादिनियतानि कर्माणि आचरन्ननुतिष्ठन् अज्ञानां स्वभावत एव सम्प्रति परमेश्वरेच्छाननुगृहीतत्वादनाविर्भूतविवेकज्ञानानामत एव कर्मसु यज्ञादिसाधनभूतेषु भोगैश्वर्यप्रसक्तत्वादिना हेतुना संगिनां तत्रैव सक्तानां बुद्धेः प्रज्ञाया भेदं तादृशात् संगात् प्रच्यावनं न उत्पादयेत् | ते हि अज्ञाः सन्तो यदि तत्त्वज्ञाने कर्मत्यागमात्रेण व्युत्पाद्यन्ते, तत् तेषामज्ञत्वादेव तत्त्वज्ञाने प्रतिष्ठामलभमानानां स्वर्गादिहेतोश्च कर्मसंगात् प्रच्युतेर्बुद्धिर्भेदं प्राप्ता सती उभयभ्रंशायैव पर्यवस्येत् | अतस्तान् तथाविधानज्ञान् सर्वाणि कर्माणि, येषु हि ते गृहीतासंगाः, तानि जोषयेत् प्रीत्या सेवयेत् स्वयं तदनुष्ठानप्रख्यापनेन || २६ || प्. ७८) इत्थं परमेश्वरेच्छानियमितजगद्व्यवस्थाव्युत्थानविच्छेदाय स्वस्मिन् स्वस्मिन् कर्मणि लोकमप्रबुद्धं प्रवर्तयितुं प्रबुद्धस्य अपि लोकवत् विहितानां कर्मणामवश्यमनुष्ठानमुपपादितम् | अतश्च प्रबुद्धाप्रबुद्धयोस्तुल्यमेव कर्तृत्वं, तुल्यानि एवच कर्माणि, असक्तत्वकृतस्तु फलभेदः इति स्थिते तुल्ये कर्तृत्वे तुल्येषु च कर्मसु क्रियमाणेषु कथं फलभेद इति अनवधारितप्रबुद्धाप्रबुद्धविशेषस्य अर्जुनस्य संशयमाशंकमानः संसारिणो योगिनश्च समानेऽपि हि व्यापारे यथा फलभेदोपपत्तिः, तथा विभज्य विशेषं प्रतिपादयितुमाह प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः | अहंकारविमूढात्मा कर्ताहमिति मन्यते || २७ || तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः | गुणा गुणार्थे वर्तन्ते इति मत्वा न सज्जते || २८ || इह यत् किञ्चित् शारीरं वाचिकं मानसं वा शास्त्रोक्तमशास्त्रोक्तं वा कर्म येन केनचित् कर्त्रा क्रियते, तत्र न असौ केवलः कारणं; किन्तु अधिष्ठानं तथा कर्ता -------------| (१८/१४) इत्यादिना वक्ष्यमाणाः पंच पदार्थाः कारणम् | ते च सर्व एव सत्त्वरजस्तमोलक्षणप्राकृतगुणमया एवेति वक्ष्यति | अतः प्रकृतेः सम्बन्धिभिः गुणैः क्रियमाणानि सर्वाणि कर्माणि व्यवस्थितानि | कथम् | भागशः सात्त्विकमधिष्ठानादि कारणं सात्त्विकं कर्म आरभते, रजोमयं राजसं, तमोमयं तामसमिति विभागेन | इत्थं कर्तुरपि मुक्तसंगोऽनहंवादी--------------------| (१८/२६) इत्यादिना त्रैगुण्यस्य वक्ष्यमाणत्वात् गुणानामेव कर्तृत्वे पर्यवसिते अहंकारेण शरीरादिषु आत्मप्रत्ययेन विमूढात्मा अप्रबुद्धस्वभावः प्. ७९) संसारी अहम् एव केवलः कर्ता इति अधिष्ठानादिकारणान्तरनिरपेक्षं कर्तृत्वं शरीरादिरूपे कृत्रिमे स्वात्मनि आरोपयति | स च गुणपरतन्त्रे तादृशि आत्मनि अहंकारमारोपयन् गुणेषु एव सक्तो न कदाचित् संसारबन्धहेतुभ्यो विमुच्यते | गुणविभागस्य कर्मविभागस्य च तत्त्ववित् परमार्थवेदी योगी पुनः गुणाः सत्त्वदयः गुणार्थे स्वप्रयोजने देहेन्द्रियविषयाद्यात्मके वर्तन्ते तत्रैव तिष्ठन्ति, न आत्मनः सर्वदा स्वतन्त्रसुप्रसन्नसंविन्मात्रस्वभावस्य स्वोपरागमर्पयितुं प्रभवन्ति, इति सर्वदा सत्यात्मप्रतिष्ठतया न गुणेषु न कर्मसु सज्जते अहंकारममकारौ तेषु न करोतीत्यर्थः | अथ कीदृशो गुणानां विभागः, कीदृशश्च कर्मणां, किंच अत्र तत्त्वमिति व्याख्यायते | इह परमेश्वरेण अचिन्त्यस्वेच्छाविलसितस्वभावात्मकसकलजगत्प्रपंचकारणत्वेन अवभासितया पारमार्थिकात्मतत्त्वाभेदाख्यातिमात्रशरीरया, अत एव भिन्नार्थविषयज्ञानक्रियानियमात्मकसत्त्वादिगुणमयया प्रकृत्याख्यया अनाद्यविद्याप्रबन्धसम्बद्धानामीश्वरेच्छयैव अन्योन्यभेदेन अवभासमानानां जीवानां गुणैरेव आरब्धतनुकरणभुवनभोगादिकलापत्वात् सर्वमेव गुणाधीनमिति प्रायेण गुणा एव तेषां कर्तारः इति अयं क्षेत्रज्ञविषयत्वेन गुणविभागः | तथाविधाश्च ते जीवा यानि कर्माणि आरभन्ते ते तेषु विषयसुखतृष्णातुरतया सज्जन्ति तद्बाधकभूतेषु अन्येषु द्वेषेण पराभवन्तीति एतावन्मात्रनियतचित्तवृत्तित्वात् विमूढा भवन्ति, इति तद्विषयत्वेन सर्वकर्माणि रागद्वेषमोहात्मकत्वात् संसारबन्धकारणतया पर्यवस्यन्तीति अयं तेषां कर्मविभागः | सत्यात्मतत्त्वप्रतिष्ठितबुद्धीनां तु योगिनामन्यथा गुणानां कर्मणां च विभागः | तथाहि ते गुणाः सत्त्वादयो गुणानामेव अर्थे प्रयोजने प्. ८०) संसारिविषयत्वेन जगत्प्रपञ्चविरचनारूपेण वर्तन्ते, न अस्माद्विषयत्वेन, एषां सर्वदानस्तमितसंवित्प्रकाशमात्रव्यतिरिक्तं किञ्चित् रूपान्तरं न भवतीति मन्वाना नित्यनिरतिशयनिजानन्दनवसुधास्वादनैकनिरताः कथं तेषु रागादिविषमविषरसमयेषु सज्जन्तीति योगिविषयत्वेन गुणा न गुणत्वेन स्फुरन्तीत्ययं योगिविषयो गुणविभागः | एवंविधाश्च एते यानि कर्माणि आरभन्ते, तानि क्रियमाणान्येव यथोक्तज्ञानाग्निदग्धत्वात् न संसारकारणतामापादयितुमेषां प्रभवन्ति, इत्ययं योगिविषयः कर्मविभागः | तादृशो योगी गुणातीतः उच्यते | उद्वक्ष्यति न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति | उदासीनवदासीनो गुणातीतः स उच्यते || (१४/२५) इति | तत्त्वमपि एतयोर्गुणकर्मविभागयोरेतद्व्याख्यानेनैव व्याख्यातम् || २८ || एवं प्रबुद्धाप्रबुद्धयोस्तुल्येषु कर्मसु क्रियमाणेषु मोक्षसंसारबन्धलक्षणं फलभेदमुपपाद्य, इदानीं प्रबुद्धस्य यथाप्रतिपादितज्ञानकर्मसमुच्चयानुष्ठानपरिनिश्चितबुद्धेर्लोकवि. सयमात्मविषयं च व्यवहारं नियमयितुमाह प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु | तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् || २९ || प्रकृतेः उक्तलक्षणायाः सम्बन्धिभिर्गुणैः सत्त्वादिभिरनादिसम्बन्धपरिचितत्वात् वासनारूपतया शरीराद्यारम्भकतया च व्यतिरिक्तत्वेन अवस्थितैः सम्मूढास्तादृशगुणमया एव शरीरादावात्मप्रत्ययलक्षणं संमोहमापन्नाः संसारिणो गुणमयेषु एव कर्मसु स्वर्गिमर्त्यभावतिर्यक्त्वादिफलहेतुषुसज्जन्तेविवेकजज्ञानाभावात् तान्येव परत्वेन मन्यमानास्तेषु निमज्जन्ति | अतः तान्कृत्स्नविदः प्. ८१) गुणपरिस्पन्दपरिमितीकृतज्ञानत्वात् सर्वं हेयोपादेयरूपं ज्ञेयजातमजानानान्, अत एव मन्दान् अल्पधियः कृत्स्नवित् समस्तज्ञेयतत्त्ववेदी न विचालयेत् यत्रैव गुणात्मके कर्मणि फले च आसक्ताः, ततो न प्रच्यावयेत् तेषां बुद्धिद्वैधपरिहाराय सर्वं विहितं कर्म अनुतिष्ठेदिति || २९ || लोकसंग्रहापेक्षया अनुष्ठीयमानमपि कर्म योगिनो यथा कैवल्याय पर्यवस्यति, तथा तस्य प्रगुक्तमपि ज्ञाननिष्ठत्वेन कर्मानुष्ठानमर्जुनमुखेन निश्चिन्वन्नाह मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः || ३० || सर्वाणि शास्त्रविहितानि यज्ञदानतपःप्रभृतीनि कर्माणि अध्यात्मचेतसा यथाप्रतिपादितस्वरूपात्मनिष्ठेन मनसा मयि परमकारणे परमगुरौ संन्यस्य सम्यक् समर्प्य एक एव परमेश्वरः प्रथममेव प्रतिपादितस्वरूपः सर्वप्राणिभिः क्रियमाणानां सर्वकर्मणां कर्ता स्वेच्छामात्रेण स्वशक्तिविभवरूपाणां निर्माता | न तद्व्यतिरेकेण क्वचिदपि कर्तृत्वं पारमार्थिकमस्ति, गुणपरतन्त्रतया तु देहादौ तदभिमानो मायाविलसितमेवेत्यनया भावनया संन्यासविधिं सम्पाद्य, अत एव आशंसनीयवस्तुविरहात् निराशीः आशीर्भ्यः प्रार्थनाभ्यो निष्क्रान्तः, अत एव सर्वभावेषु परिग्रहाभावात् निर्ममः ममेदमिति संसारिपुरुषोचितायाः प्रतिपत्तेः निष्क्रान्तो भूत्वा विगतज्वरः यथोक्तविज्ञानामृतावहाहनात् निवृत्तसन्देहादिसमस्तसन्तापः सन् युध्यस्व समरात्मकमवसरोपनतमवश्यकार्यं स्वकर्म अनुतिष्ठेति || ३० || एतावता ग्रन्थेन प्रायः परिसमाप्तोऽयं ज्ञानकर्मसमुच्चयानुष्ठानात्मक उपदेशसारो यतः प्रथमे तावत् प्रस्तावना अस्य प्रतिपादिता, प्. ८२) द्वितीये विज्ञानस्वरूपं परिघटितम्, तृतीये तत्संस्कृतस्य कर्मणोऽवश्यानुष्ठेयतेति मन्यमानो भगवानस्य परमरहस्य भूतस्य स्वमतस्य प्रभावप्रतिपादनार्थं बोधाबोधयोः फलमाह ये मे मतमिदं नित्यमनुवर्तन्ति मानवाः | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते सर्वकिल्विषैः || ३१ || ये त्वेतदभ्यसूयन्तो नानुवर्तन्ति मे मतम् | सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः || ३२ || इत्थं मया उपन्यस्तं मतं मदीयं सर्वशास्त्रसर्वस्वभूतमभिप्रायं नित्यं सर्वकालं ये मानवाः शास्त्राधिकृता मनुष्या अनुवर्तन्ति सम्यगवगम्य अनुतिष्ठन्ति ते सर्वकिल्विषैः अविद्याप्रभवरागद्वेषादिक्लेशमूलैर्घोरसंसारदुःखदायिभिः कुकर्माचरणजनितैः किल्विषैः पापैः मुच्यन्ते न पुनर्वध्यन्ते | कीदृशाः सन्तः | श्रद्धावन्तः यथाप्रतिपादितमन्मतप्ररूढनिर्विकल्पप्रतिपत्तिजनितयथोक्तफलसम्ब् हावनात्मिकया श्रद्धया युक्ताः, अत एव एतन्मतविषयामसूयामतत्त्वज्ञजनोचितामकुर्वन्तः | ये पुनः एतत् एवंविधं मन्मतमभ्यसूयन्तो मोहतिमिरतिरस्कृतसम्यग्ज्ञानत्वात् दोषाधिरोपणादिना विगर्हन्तो नानुवर्तन्ति न अनुचरन्ति, तान् सर्वेषु समस्तेषु हेयोपादेयनिश्चयविषयेषु ज्ञानेषु शास्त्ररूपेषु विमूढान् विपर्ययप्रत्ययान् विशेषेण मूढान् विचित्तान् विनष्टान् विद्धि भोगापवर्गलक्षणादुभयतोऽपि फलात्, प्रच्युतान् सतो दुर्गतिप्राप्तिलक्षणं विनाशं प्राप्तान् जानीहि यतस्तेषां चेतोऽन्तःकरणसम्यग्दर्शित्वात् सदपि नास्त्येव || ३२ || इदानीमुक्तमेव अर्थं सुदृढप्रतिपत्तये विनेयोपकाराय उक्तिभेदैर्नानारूपैः प्रतिपादयन् कर्मणां त्यागानुपपत्तिमेव द्रढयितुमाह प्. ८३) सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || ३३ || इह सर्वः कश्चित् देहवाननादिप्रबन्धप्रवृत्तया प्रकृत्या सम्बद्धः | यतः सर्वस्य शरीरेन्द्रियविषयादिकं सर्वमेव त्रिगुणम्, अतो ज्ञानवानपि आविर्भूतदेहदेहिविवेकप्रज्ञोऽपि पुरुषः स्वस्याः तेन तेन प्रकारेण शरीराद्यारम्भकतया परिणतत्वादात्मीयत्वमापन्नायाः प्रकृतेः ईश्वरेच्छया जगत्कारणभावेन उद्भाविताया गुणत्रयात्मिकाया अविद्यायाः सदृशम् अनुरूपं चेष्टते व्यवहरति | किमनेन उक्तं भवति | दृष्टतत्त्वोऽपि प्रकृत्यारब्धशरीरादित्वात् मनोवाक्कायैर्यत् किंचित् कर्म आचरति, तत् त्रिगुणमेव उपपद्यते | तथाविधं च तत्कर्म ज्ञानवता अपि अशक्यपरिहारमिति प्रागपि प्रतिपादितम् | इत्थं सर्वभूतानि प्रकृतिं स्वस्वभावं यान्ति सर्वथा तामेव आश्रयन्ते, नतु तद्व्यतिरिक्तत्वेन श्वसितुं, स्पन्दितुं वापि उत्सहन्ते | ततो निग्रहः नेदं स्वजातिविहितं कर्म अहं करिष्यामीति नियमः किं करिष्यति इति प्राक्प्रतिपादितप्रकारेण सर्वकर्मप्रतिषेधस्य अशक्यत्वादकिंचित्कर एव भविष्यति, यदिवा निग्रहोऽपि कर्मैव, अतश्च हानोपादाननिबन्धनत्वात् रागद्वेषानुविद्धं सत् गुणात्मकत्वात् प्राकृतमेव सम्पद्यते, इत्येवमपि अकिञ्चित्करो निग्रहः || ३३ || इत्थमपरिहार्ये कर्मणि ज्ञानवान् मुमुक्षुः किं कुर्यादित्याह इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ | तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ || ३४ || यो यस्य इन्द्रियस्य अर्थो विषयः श्रोत्रादेः शब्दादिः, तत्र तत्र अर्थे रागद्वेषौ व्यवस्थितौ | यदाहि शब्दादिविषयं सुखसाधनत्वेन श्रोत्रादिना इन्द्रियेण पुमानुपादत्ते, तदा तस्य तस्मिन् प्. ८४) रागो व्यवतिष्ठते; यदा तु दुःखकारणत्वेन तमेव विषयं हेयत्वेन प्रतिपद्यते, तदा तस्मिन् इन्द्रियेण परिह्रियमाणे द्वेषोऽस्य व्यवतिष्ठते इति सर्वस्मिन् विषये रागद्वेषौ व्यवस्थितौ | ज्ञानवानाविर्भूतविवेकज्ञानः तयोर्वशं विधेयतामज्ञवत् न आगच्छेत् यतः अस्य ज्ञानवतः तौ रागद्वेषौ परिपन्थिनौ विरोधिनौ शत्रू | ततस्तावेव सर्वत्यागेन परिहार्यौ, नतु विषयाः | नहि तयोरपरिजितयोर्विषयपराजयः कृतो भवति | तौ हि यथोक्तज्ञानासिना यावत् न क्षतविक्षतत्वमापादितौ, तावत् परिवर्जितेऽपि विषयेऽन्तर्विजृम्भमाणौ पुरुषं वशीकर्तुं प्रभवत एव || ३४ || तदेवंगुणोपपत्तिवशात् सर्वस्मिन् कर्मणि प्रबुद्धस्य अप्रबुद्धस्य वा सर्वस्य कस्यचिदशक्यप्रतिषेधे स्थिते स्वकर्मानुष्ठानलक्षणो धर्मः प्रबुद्धेन अपि आचरणीयः इत्याह श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मोदयादपि || ३५ || यो यस्य वर्णाश्रमनैयत्येन शास्त्रविहितो धर्मः सदाचारः स्वत्वेन व्यवस्थितः, स कुतश्चित् कारणात् मुख्येन कल्पेन अनुष्ठीयमानत्वात् विगुणः अपि स्वैर्गुणैर्विरहितोऽपि सन् स्वनुष्ठितात् सुष्ठु सम्पूर्णसंविधानतया अनुष्ठितादाचरितात् परधर्मात् विजातीयसमाचारात् श्रेयान् प्रशस्यतरः शास्त्रविहितातिक्रमविहिताननुष्ठानजप्रत्यवायदोषस्य अभावात् | यत एवं स्वधर्मेऽनुष्ठीयमाने पारलौकिकशुभफलाप्तिः, अतस्तस्मिन् स्वधर्मे सति निधनं मरणमपि यत्, तत् श्रेयः प्रशस्यतरं तत् स्यात् परसम्बन्धिनो धर्मात् स्वनुष्ठितात् सतः य उदयो राज्यलाभादिस्तस्मादपि तस्य लोकान्तरे विरुद्धफलहेतुत्वात् || ३५ || प्. ८५) एवमात्मज्ञाननिष्ठतया शास्त्रचोदितस्वकर्मानुष्ठानमपवर्गलक्षणसिद्धिहेतुरिति भगवत्प्रतिपादितसकलप्रकरणसिद्धान्तं श्रुत्वा प्रतिपादितस्वरूपस्य आत्मनः पारतन्त्र्यमेवंविधमनुपपन्नं मन्यमानोऽर्जुन उवाच अथ केन प्रयोक्तोऽयं पापं चरति पूरुषः | अनिच्छमानोऽपि बलादाक्रम्येव नियोजितः || ३६ || अथ एवं भगवता प्रतिपादितलक्षणः अयम् आत्मा केन स्वामिना इव भृत्यः प्रयुक्तः प्रेरितः सन् कुकर्मरूपं पापं दुर्गतिफलं किल्विषमनिच्छन्ननभिलष्यन्नपि बलादाक्रम्य हठादिष्टविषयप्रवृत्तिं निवार्य नियोजितः व्यापारित इव आचरति अनुतिष्ठति || ३६ || अत्र उत्तरं भगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः | महाशनो महापाप्मा विद्धयेनमिह वैरिणम् || ३७ || येन प्रयुक्तोऽयमुक्तस्वरूपानाद्यविद्यादिक्लेशपाशपरवशः पुरुषः *?पमाचरति, स एष कामः परिणामविरसक्षणिकसुखलवसा*?नभूतविषयोन्मुखः संकल्पः, एष एव चेतनाचेतनरूपप्रतिपक्ष*?तिहन्यमानत्वात् क्रोधः तदुपघातप्रवृत्तिहेतुर्द्वेषः सम्पद्यते | तो?ऽयमिच्छाद्वेषात्मको दोषो रजोगुणसमुद्भवः रजोगुणात् विषयसुखाभिलाषात्मकरागद्वेषहेतोः प्रकृतिधर्मात् समुद्भवति, अत एव महाशनः उत्तरोत्तरविवर्धमानगर्वत्वात् महदपर्यवसितमशनं विषयहरणलक्षणोऽभ्यवहारो यस्य स तथा; ततश्च सर्वस्य तस्य भोगस्य दुःखैकविपाकत्वात् महापाप्मा गुरुतरपाकमयो दुर्गतिहेतुत्वात् | तदेवंविधम् इह संसारे वैरिणं प्. ८६) दुरुत्तरदारुणदुःखदायित्वादाततायिनं विद्धि जानीहि | तेन प्रयुक्तोऽयं पुरुषः पापमाचरति || ३७ || अथ तस्य वैतत्येन स्वरूपं जिज्ञासुरर्जुन उवाच भवत्येष कथं कृष्ण कथंचैव विवर्धते | किमात्मकः किमाचारस्तन्ममाचक्ष्व पृच्छतः || ३८ || एष वैरित्वेन प्रतिपादितः कामाद्यात्मको दोषः कथं भवति केन प्रकारेण स्थितिलक्षणां सत्तामनुभवति, केन प्रकारेण विवर्धते प्रसरति | कश्च अस्य आत्मा स्वरूपं, कश्च अस्य आचारः किमाचरतीति | तत् सर्वं मम संशयं पृच्छतः ब्रूहि || ३८ || अत्र प्रश्नचतुष्टये क्रमेण उत्तरं भगवानुवाच एष सूक्ष्मः परः शत्रुर्देहिनामिन्द्रियैः सह | सुखतन्त्र इवासीनो मोहयन्पार्थ तिष्ठति || ३९ || कामक्रोधमयो घोरः स्तम्भहर्षसमुद्भवः | अहंकारोऽभिमानात्मा दुस्तरः पापकर्मभिः || ४० || हर्षमस्य निवर्त्यैष शोकमस्य ददाति च | भयं चास्य करोत्येष मोहयंस्तु मुहुर्मुहुः || ४१ || एष रजोगुणप्रभवः कामक्रोधरूपतया प्रसृतो दोषः शरीरिणामतिप्रत्यासन्नत्वेऽपि दुर्लक्ष्यत्वात् परः सूक्ष्मः शंत्रुः | स च अहंकार एव पर्यवस्यति | यतः इन्द्रियाणि पराण्याहुः-------------| (३/४७) इत्यादिना तस्यैव परमसूक्ष्मत्वं प्रतिपादयिष्यति | किमात्मक इति प्रश्ने किमात्मकत्वमेव अस्य अधुनैव अभिधत्ते | स च एवंविधः शत्रुः परिवारभूतैः इन्द्रियैः सहितः कामक्रोधादिनिष्णातशस्त्रप्रहारिभिः | तैरेव अयं सर्वप्राणिनो विशसति | तस्य दुर्जयत्वप्रतिपादनार्थं सर्वशत्रुविलक्षणमवस्थानमाह सर्वदुःखहेतुत्वे प्. ८७) सति सुखतन्त्रे सुखात्मके वर्गे इवासीनः उपविष्टोऽत एव मोहयन् तिष्ठति देहाद्यात्मप्रत्ययलक्षणं विपर्ययज्ञानमारोपयन् स्थितिमनुभवतीति भवत्येष कथम् इत्यस्य प्रश्नोत्तरमेतत् व्याख्यातम्, अथ कथं विवर्धते इत्यस्य व्याख्यायते कामक्रोधमयः कामक्रोधावुक्तरूपौ प्रकृतिर्यस्य, स तथाविधः | स्तम्भस्य गर्वस्य, तथा हर्षस्य विषादपरिणामस्य प्रमोदस्य समुद्भव उत्पत्तिस्थानम्; अत एव घोरः दारुण एव कामक्रोधस्तम्भहर्षादिदोषात्मना विवर्धते उच्छ्रायं भजतीति उक्तं भवति | अथ किमात्मकः इति प्रश्नोत्तरं व्याख्यायते एष सर्वदेहिनां शत्रुरहंकारसंज्ञः अभिमानात्मा अभिमानो जात्याद्यवच्छेदभाजि गुणत्रयमयत्वादनित्यत्वादिदोषैकसमाश्रये शरीरादावहं ब्राह्मणोऽहं देवदत्तोऽहमभिजनवानहं वपुष्मानहं विदग्धोऽहमाढ्यः इत्येवमादि अनात्मन्यात्मप्रतिपत्तिनिबन्धनं मिथ्याज्ञानं स आत्मा स्वभावो यस्य, तादृशः | अत एव पापकर्मभिर्दुस्तरः सम्यग्ज्ञानाभावात् हेयोपादेयविवेकशून्यत्वे सति पापमघमयं घोरं संसारनिरयनिपातनिमित्तभूतं कर्म चेष्टितं येषां, तादृशैरासुरं सर्गं भजद्भिः पुरुषैर्दुरतिक्रमः | अथ किमाचारः इत्यत्र उत्तरं व्याख्यायते अस्य क्षेत्रज्ञस्य एषः अहंकाराख्यः शत्रुः हर्षं सत्यात्मसंविदुपलभ्यमानानन्दं निवर्त्य अपसार्य शोकं शोचनं ददाति समर्पयति | अनेन हि शत्रुणा व्यामोहितः शरीरादि आत्मत्वेन प्रतिपन्नं व्याधिप्रियविप्रयोगाद्युपद्रवोपहन्यमानमनुशोचति कष्टं विनष्टोस्मि, इति परिदेवते | अत एव अस्य एष शत्रुः भयमपि करोति इष्टविषयोपघातहेतुभ्यः सन्त्रासमुत्पादयति | किं कुर्वन्नेवमाचरति | प्रतिक्षणं मोहयन् यथाप्रतिपादितविपर्ययलक्षणं वैचित्त्यमावहन्निति | अनेन अहंकाराख्येन प्. ८८) शत्रुणा इन्द्रियपरिवारेण सुखिवद्व्यवस्थितेन कामक्रोधस्तम्भहर्षादिदोषात्मना विवर्धमानेन हर्षापहारादिकमाचरता प्रयुक्तः सन् क्षेत्रज्ञः पापमाचरति || ४१ || अर्जुनप्रश्नं विनिर्णीय तस्यैव अहंकारस्य वितत्य स्वरूपं प्रतिपादयितुमाह स एष कलुषः क्षुद्रश्छिद्रप्रेक्षी धनञ्जय | रजःप्रवृत्तो मोहात्मा मनुष्याणामुपद्रवः || ४२ || स एष यथाप्रतिपादितस्वरूपोऽहंकारः समस्तमर्त्यानाम् उपद्रवः सर्वदोषनिधानसंसारहेतुत्वात् यतः कलुषः गुणत्रयात्मकत्वात् नित्यमलिनः, तत एवच अनित्यत्वात् क्षुद्रः भंगुरस्तथा च्छिद्रप्रेक्षी बाधावकाशजागरूकः | शिष्टं स्पष्टार्थम् || ४२ || तेन अस्य क्षेत्रज्ञस्य किं कृतमित्याह धूमेनाव्रियते वह्निर्यथादर्शो मलेन च | यथोल्वेनावृतो गर्भस्तथानेनायमावृतः || ४३ || एतेन अहंकारेण अयं संसारिपुरुषाणामात्मा तथावृतो निरुद्धशक्तित्वमापादितः | उपमानेन एतत् प्रकटयति | कथमावृतः | यथा आर्द्रेन्धनत्वादिदोषजन्मना कलंकेन धूमाख्येन वह्निः अग्निः आव्रियते निरुद्धभास्वरशक्तिः सम्पाद्यते, तथैव अयमात्मा मायाप्रभवेण अनेनैव अहंकारात्मना दोषेण निरुद्धस्वस्वरूपप्रत्यवमर्शात्मकस्वशक्तिः क्रियते | तथा यथा आदर्शो दर्पणो रजोनिःश्वासादिसम्बन्धजन्मना मलेन आव्रियते निरुद्धयथावस्थितभावस्फुरणलक्षणस्वशक्तिः क्रियते | तथा यथा आदर्शो दर्पणो रजोनिःश्वासादिसम्बन्धजन्मना मलेन आव्रियते निरुद्धयथावस्थ्तिअभावस्फुरणलक्षणस्वशक्तिः क्रियते, तथैव अयमात्मा अनेन आव्रियते निरुद्धजगत्पदार्थपरमार्थप्रथनसामर्थ्यः क्रियते | यथा गर्भः जननीकोष्ठवर्ती जीवः उल्वेन गर्भशययया आव्रियते प्. ८९) निरुद्धसर्वेन्द्रियपरिस्पन्दनशक्तिः क्रियते, तथैव अयमात्मा अनेन निरुद्धसर्वकर्तृत्वलक्षणस्वशक्तिः क्रियते इति | अनेन उपमानत्रयेण अहंकारस्य आत्मानं प्रति स्वभावसर्वज्ञत्वसर्वकर्तृत्वलक्षणस्वधर्मत्रयनिरोधकत्वं प्रतिपादितम् || ४३ || यद्यपि सर्वशक्तिनिरोधकोऽयमात्मनोऽहंकाराख्यो दोषस्तथापि ज्ञानस्य प्राधान्यविवक्षया इदमाह आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च || ४४ || एतेन यथाप्रतिपादितेन देहाद्यात्मप्रत्ययलक्षणेन शत्रुणा ज्ञानिनः स्वात्मसंवेदनलक्षणमुख्यज्ञानवतश्चेतनस्य तादृशं मुख्यं ज्ञानमावृतं निरुद्धं यतः कामो बाह्यार्थनिबन्धनोऽभिलाषो रूपं यस्य, अत एव असौ दुष्पूरो न केनचित् विषयेण प्राप्तेन सता पूरयितुं शक्यः | यतोऽस्य आह्रियमाणा विषया रागं विवर्धयन्त इन्द्रियाणां च उत्तरोत्तरविशिष्टतरविषयरसज्ञतां पुष्णन्तस्तेभ्यो विरतिमापादयन्ति | अत एव अनलः न अस्य अलंभावो विषयेभ्यो निवारणमस्तीति | एवंविधेन अनेन स्वभावसंवेदनलक्षणं मुख्यं ज्ञानमावृतं, तस्मिंश्च आवृते सर्वाः शक्तयोऽस्य आवृता इति तात्पर्यम् || ४४ || अथ किमधिष्ठाय अयं ज्ञानमस्य आवृणोतीत्याह इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते | एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् || ४५ || अस्य अहंकारस्य प्रतिपादितस्वरूपस्थितिविवृद्धिविचेष्टितलक्षणचतुष्टयस्य इन्द्रियाणि चक्षुरादिवागादीनि तथा मनः संकल्पात्मकं बुद्धिः अध्यवसायात्मिका अधिष्ठानम् | एतेषु हि कृतस्थितिरयं यथोक्तं ज्ञानमावृत्य देहिनं क्षेत्रज्ञं मोहयति प्. ९०) स्वरूपानभिज्ञत्वकिञ्चिज्ज्ञत्वकिञ्चित्कर्तृत्वकारिणा मोहेन अज्ञानेन युनक्तिः || ४५ || तदयमेवंविधः शत्रुः कथं तिरस्कार्यः इत्याह तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ | पाप्मानं प्रजहीह्येनं ज्ञानविज्ञाननाशिनम् || ४६ || यत एवंविधोऽसौ, ततोऽस्य अधिष्ठानभूतानि मनोबुद्धिसहितानि बुद्धीन्द्रियकर्मेन्द्रियाणि सर्वाण्येव प्रथमं नियम्य यथोक्तसत्यात्मस्वरूपप्रतिष्ठात्मप्रत्ययतया रागद्वेषादिदोषोन्मेषनिषेधेन निगृह्य एनं पाप्मानम् अज्ञानमयं महाकिल्विषवपुषम्, अत एव ज्ञानस्य शास्त्रादिद्वारेण परमार्थबोधस्य तथा विज्ञानस्य स्वात्मसाक्षात्कारलक्षणस्य विशिष्टस्य ज्ञानस्य नाशिनं तिरस्कारिणं परमं वैरिणं प्रजहीहि तिरस्कुरु || ४६ || एष च परमसूक्ष्मत्वात् परेण उद्योगेन अप्रमादादिना च पराजययः शत्रुरिति अस्य तां सूक्ष्मतां प्रतिपादयितुमाह इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः | मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः || ४७ || विषयाः शब्दादयस्तावदिन्द्रियद्वारेण सर्वस्य कस्यचिदुपलभ्यतामुपगच्छन्ति, अतस्तदपेक्षया इन्द्रियाणि पराणि तेभ्यः सूक्ष्माणि आहुः कथयन्ति तत्त्वविदः | नहि इन्द्रियाणि शब्दादिवदुपलभ्यानि साक्षात् कस्यचित् | तेभ्यस्तथाविधेभ्यः सूक्ष्मेभ्यः इन्द्रिभ्यो मनः तत्प्रवृत्तिनिवृत्तिकारणं सूक्ष्मतरम् | यथा इन्द्रियाणि कथंचित् गम्यन्ते, न तथा अतिचंचलं मनः | अथाविधात् च मनसो बुद्धिः परा सूक्ष्मेत्यर्थः | यथाहि मनः कथंचित् गम्यते, न तथा निर्विकल्पकप्रत्यक्षक्षणवर्त्यध्यवसायात्मिका बुद्धिः | तस्याश्च एवंविधाया बुद्धेर्यः परतः परमसूक्ष्मत्वेन स्थितः, प्. ९१) सः पूर्वोक्तोऽहंकाराख्यः शत्रुः | यथाहि बुद्धिः कथंचिदभियुक्तैर्गम्यते, न तथा अयमविद्याप्रथमांकुरः केनचिदनुन्मिषितपरमेश्वरानुग्रहप्रभवज्ञानचक्षुषा लक्ष्यीकर्तुमपि शक्यते || तस्मात् एवं बुद्धेः परं बुद्धा संस्तभ्यात्मानमात्मना | जहि शत्रुं महाबाहो कामरूपं दुरासदम् || ४८ || एवं यथोक्तप्रकारेण बुद्धेः परम् एनं शत्रुं बुद्ध्वा सुदुर्लक्ष्यत्वात् परमदुर्जयं मत्वा अत एव आत्मनैव आत्मानं संस्तभ्य धैर्यं लम्बयित्वा दुरासदं दुःखेन आसादयितुं परिभवितुं शक्यमेनं जहि घातय | कीदृशम् | कामरूपं कामो विषयेषु अभिलाषो रूपं यस्य, स तथाविधः | पूर्वं हि कामक्रोधाद्यात्मना अस्य अवस्थितिरुक्ता | तेन यद्यपि अयं सुसूक्ष्मत्वात् दुर्जयः, तथापि अस्य पूर्वोक्तेन प्रकारेण कामात्मिकामवस्थितिं निघ्नन् तद्विहनने समर्थो भविष्यस्येवेत्यर्थः | एवं भगवता क्षत्रियोचितेनैव प्रकारेण अर्जुनः प्रस्तुतोपदेशफलप्राप्तिप्रतिद्वन्द्विनोऽहंकारस्य निवर्हणे समुत्साहितः | त्वया हि महेन्द्रेण अपि दुर्जया वहवः शत्रवः सहायनिरपेक्षेण बहुशो निपातिताः, तदेनमपि शत्रुमात्मैकसहायो निपातयितुमर्हसीति ओम् || ४८ || विज्ञानतत्त्वतपनीयगुणप्रकर्ष- प्रख्यापनैकनिकषो निजकर्मयोगः | अस्मिन्नृणां प्रकटितः परमार्थसिद्ध्यै सोऽध्याय एष विवृतो विधिवत्तृतीयः || इति श्रीमद्राजानकरामकण्ठविरचिते सर्वतोभद्रनाम्नि वाक्यार्थान्वयमात्रे गीताविवरणे तृतीयोऽध्यायः || ३ || अथ चतुर्थोऽध्यायः | एवमस्य समस्ताध्यात्मशास्त्रसर्वस्वभूतार्थगर्भस्य प्रकरणस्य ज्ञानकर्मसमुच्चयलक्षणमभिधेयं परमात्मसमापत्तिलक्षणं च प्रयोजनं प्रतिपाद्य इदानीं सम्बन्धविषययोः प्रतिपादनद्वारेण अर्जुनस्य आत्मनि पुरुषत्वमात्रप्रतिपत्तिव्यामोहनिवृत्तये परमकारणतामाविष्कुर्वन् भगवानुवाच एवं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || १ || एवं परम्पराख्यातमिमं राजर्षयो विदुः | स कालेनैव महता योगो नष्टः परन्तपः || २ || स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् || ३ || एवम् अनेन प्रकारेणैव यथा तुभ्यं प्रोक्तो यो योगस्तथैव विवस्वते महायोगीश्वराय सवित्रे योगम् एनम् अहं परमेश्वर एव कस्मिंश्चित् काले निजयोगैश्वर्यपरिकल्पितनिरतिशयप्रभावमयविग्रहः प्रोक्तवान् उपदिष्टवान् | कीदृशं योगम् | अव्ययं परमकारणवत् न कदाचित् व्येति क्षीयते यः | स हि जगत्सर्गादिलक्षणं कर्म अनुतिष्ठन्नपि परमेश्वरः प्राक्प्रतिपादिताद्वयचिन्मात्रैकलक्षणस्वभावविमर्शैकनिष्ठतया ज्ञानकर्मसमुच्चयानुष्ठानात्मकस्य अस्य योगस्य प्रथमोऽनुष्ठाता, इति तद्वत् योगस्य प्राधान्येन सम्बन्धमुक्त्वा क्रमेण अनुष्ठानसम्प्रदायतया तमेव सम्बन्धं विवृणोति विवस्वान्मनवे प्राह इति स विवस्वान् पुत्राय मनुसंज्ञाय आदिराजाय प्राह प्रोवाच | प्राहेति लिटश्छान्दस आहादेशः | सोऽपि मनुरिक्ष्वाकुसंज्ञाय पुत्रायैव अव्रवीत् | एवं प्. ९३) परमेश्वरादेव प्रभृति परम्परया योग्यपुत्रादिशिष्यरूपप्रबन्धप्रवृत्त्या ख्यातं लोके प्रथितं सन्तमन्ये जनकप्रभृतयो राजर्षयो राज्यलक्षणं कर्म कुर्वाणा अपि यथोक्तज्ञाननिष्ठत्वादृषयो मुनयः इमं यथोक्तं विदुः विदांचक्रुरिति अस्मिन्नर्थे च्छान्दसः प्रयोगः | महता कालेन युगसहस्रादिसंख्येन लोकस्य क्रमापचीयमानप्रज्ञादिसर्वगुणत्वात् योग्यप्रतिपत्त्रभावात् नष्टः अन्तर्धानमागतः परमकारणे एव व्यवस्थितः इत्यर्थः | स एव अभ्रष्टस्वरूपः अद्य अस्मिन् काले मया परमेश्वरेणैव जगदुपकाराय यादवकुलावतीर्णेन ते तुभ्यं पुरातनो नित्यो योगः प्रोक्तः यतो मम भक्तोऽसि शुश्रूषुस्त्वं तथा सखा सुहृत् | अतो भक्तिसौहार्दलक्षणमुख्यशिष्यगुणसम्पन्नाय मया तुभ्यपदिष्टम् | यत उत्तमं सर्वरहस्यानां प्रकृष्टमेतद्रहस्यम् || ३ || एवमनेन अस्य शास्त्रस्य सम्बन्धविषयावपि प्रतिपादितौ | निरुत्तरविज्ञानमयदिव्यचक्षुर्दानेन पुरस्तात्प्रत्यक्षीकरिष्यमाणपारमार्थिकस्वरूपस्य अर्जुनस्य स्वात्मनि यदुकुलोद्भूतमनुष्यमात्रप्रतिपत्तिनिराकरणद्वारेण भगवता पारमैश्वर्यमात्मनः कथयितुं च प्रस्तुतम् | अत एव संजातसंशयोऽर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः | कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || ४ || भवतः तव अस्मिन् कलिद्वापरसन्धौ सम्भूतत्वात् अपरम् अपकृष्टं जन्म उत्पत्तिः विवस्वतः आसर्गात् व्यवस्थितस्य परं प्रकृष्टमित्थं कथमेतत् बुध्येय त्वमैदंयुगीनजन्मा सुचिरातीतकालजन्मनेऽपि अस्मै सूर्याय एनं योगं प्रोक्तवानिति || ४ || प्. ९४) अत्र भगवानुत्तरमुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || ५ || सत्यं मम तव च अपरिसंख्येयानि जन्मानि तत्तच्छरीरपरिग्रहेण व्यतीतानि अतिक्रान्तानि | तानि पुनस्तव च आत्मनश्च समस्तान्येव अहं वेद जानामि त्वं तु मम आत्मनश्च तानि न जानासि || ५ || अतोऽहम् अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् | प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया || ६ || अजोऽव्ययात्मा नित्यत्वात् जन्मविनाशरहितोऽपि तथा सर्वभूतानां स्थावरजंगमानां स्थितिविनाशादिषु यथेष्टकर्तृत्वात् ईश्वरः प्रभुरपि सन् स्वां प्रकृतिम् आत्मीयं परं स्वभावमद्वयचिन्मात्रलक्षणम् अधिष्ठाय तत्रैव स्थित्वा तस्मात् स्वभावादप्रच्युतः स्वमायया स्वया स्वात्माधीनया मायया द्वैतावभासनमात्रप्राणेन शक्तिविशेषेण हेतुभूतेन सम्भवामि जन्मादिसत्तां परिगृह्णामि | अतो नित्यत्वादीश्वरत्वाच्च स्वेच्छापरिगृहीतत्वाच्च स्वप्रादुर्भावान् त्वादृशां च सर्वदेहिनां भूतान् भाविनो वर्तमानांश्व जन्मादिविकारान् सततमविप्लुतसर्वज्ञत्वशक्तिरहमेव जानामि || ६ || इत्थं स्वजन्मपरिग्रहस्य प्रयोजनमाह यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | अभ्युत्थानमधर्मस्य तदात्मांशं सृजाम्यहम् || ७ || परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय संभवामि युगे युगे || ८ || यदा यदा यत्र यत्र काले धर्मस्य वर्णाश्रमनियमविभक्तस्य प्. ९५) सदाचारस्य ग्लानिः उपक्षयो भवति ततश्च तद्विपरीतस्य अधर्मस्य वर्णादिव्यवस्थाव्युत्थानहेतोर्दुष्टाचारस्य अभ्युत्थानम् उद्भवो भवति, तदा तत्र तत्र काले अहं परमकारणभूतस्य आत्मनः कंचित् कंचिदंशं शक्तिलेशं स्वेच्छापरिकल्पितजगत्क्रीडापरिरक्षणाय सृजामि उत्पादयामि | अतो देवासुरसर्गविभेदेन स्वयमवभासिते जगति दैवसर्गभाजां शास्त्रोपदेशविषयभूतानां साधूनां सत्त्वगुणोत्कर्षनिर्मलप्रज्ञानां परित्राणाय सत्क्रियाविघातहेतुभ्यो विघ्नेभ्यो रक्षणाय तथा दुष्कृतां शास्त्रीयनियमातिक्रमात् जगत्स्थितिविप्लावकदुष्टकर्मकारिणामसतां विनाशाय प्रध्वंसाय, अत एव धर्मस्य जातिदेशकालादिप्रविभक्तविशेषस्य सदाचारस्य संस्थापनार्थाय सम्यक्प्ररोपणाय प्रतियुगं तेन तेन आकारेण समुद्भवामि उत्पत्तिमत्तां दर्शयामि, नतु वस्तुतोऽहं जन्मविनाशादिभावविकारकलंकस्पर्शमनुभवामि || अत एव जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन || ९ || एवम् उक्तेन प्रकारेण जन्म कर्म च यः प्रबुद्धो मे तत्त्वतः परमार्थतो जानाति यत्र शरीरित्वेऽपि सति यथोक्तात् परतः स्वभावादप्रच्युतिः, यत्र तत्तत्क्रियाफलासंस्पर्शश्च अत एव दिव्यम् अलोकसामान्यं, स तादृशो यथोक्तविज्ञाननिष्णातमतिः देहं त्यक्त्वा देहेऽहंप्रतिपत्तिमृत्सृज्य जन्म नैति नित्यस्वभावाभिव्यक्ते जन्मविनाशवत्त्वव्यामोहं जहाति, अतो मामेति मत्स्वभावमापद्यते || ९ || यत एतेन वीतरागभयक्रोधा मन्मया मद्व्यपाश्रयाः | बहवो ज्ञानतपसा पूता मद्भावमागताः || १० || प्. ९६) यथोक्तज्ञानलक्षणेन निरतिशयशुद्धिहेतुना व्रतविशेषेण पूताः पवित्राः सन्तो बहवो योगिनो मद्भावं मामिकां सत्ताम् आगताः मदभेदं प्राप्ता इत्यर्थः | यतो विज्ञानपरिशीलनात् वीतरागभयक्रोधाः रागो विषयेषु अभिलाषः, तथा तद्विघातहेतुभ्योऽशक्यप्रतीकारेभ्यो भयं त्रासः, तथा शक्यप्रतीकारेषु क्रोधः इति | एते संसारदुर्गदुरुच्छेदनिगडभूता दोषा वीता विगतास्त्रुटिता येषां ते, अत एव मन्मयाः मदेकस्वभावाः मद्व्यपाश्रयाः अहमेव व्यपाश्रयो निरपायत्वात् विशिष्टोऽपाश्रयः स्थितिहेतुर्येषां, ते तथाविधाः || १० || ननु प्रबन्धतो भगवता एकमेव तत्त्वं यथाप्रतिपादितविशेषणविशिष्टं परमार्थसत्त्वेन प्रतिपादितं, तदेवच इदानीमहन्तया व्यपदिश्यते | तत् कथं केचिदेव मद्भावमागता इति उच्यते इति अर्जुनस्य सम्यगगृहीतपारमेश्वरक्रीडाविधेर्विकल्पमाशंक्य आह ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ११ || सत्यमेव अहं समस्तानामन्योन्यभिन्ननानाविधस्वरूपाणां फेनबुद्बुदकल्लोलकलापानामुदधिरिव उदयास्तमयनिलय एक एव | तादृशेन च मया निजमायाशक्त्या तत्तन्नियतसामर्थ्यावच्छिन्नदेहादिप्रतिष्ठिताहंकारत्वेन नानारूपा ये क्षेत्रज्ञा अवभासिताः, तेषु मध्ये यथा येन प्रकारेण यादृशेन संकल्पेन ये केचन मां प्रपद्यन्ते मां प्रार्थयन्ते तत्कालं मत्समापन्ना भवन्ति, तानहं तथैव तत्तत्संकल्पोचितफलदानरूपेण प्रकारेण भजामि संश्रयामि | यतः सर्व एव मनुष्याः तत्तदर्थक्रियासम्पादनार्थितावसरे मम सर्वेभ्यः सर्वमनोरथप्रसाधनैकचिन्तामणेः वर्त्म प्राप्तिहेतुं निर्विकल्पोत्साहलक्षणं पंथानम् अनुवर्तन्ते अनुकुर्वन्ति | यथा अहं प्. ९७) परेण उत्साहेन एक एव सर्वं करोमि, जानामि च; तथा ते प्रतिनियतं कार्यं ज्ञेयं च कुर्वन्तो जानन्तश्च मत्समापत्तिसंवेदनशक्तिशून्यत्वादहं करोम्यहं जानामीति किञ्चित्कर्तरि, किंचिज्ज्ञे च तादृशे स्वात्मनि कर्तृत्वादिकं मन्यन्ते | किमनेन उक्तं भवति | यथा अर्कालोकेन अनुगृहीतदृष्टयस्तिर्यञ्चो बालादयश्च तत्तदर्थक्रियानिष्ठास्ते ते स्वं स्वं विषयं पश्यन्ति, नच तत्र अर्कालोकं कारणत्वेन मन्यन्ते मूढत्वात् यतस्तादृशेन व्यवहारेण व्युत्पन्नाः तथैव सर्वे क्षेत्रज्ञास्तत्तदर्थक्रियार्थिनो मयैव तत्क्षणप्रार्तितेन स्वप्रकाशानुगृहीतसंविदो दृष्टप्रयोजनमदृष्टप्रयोजनं वा सर्वं कुर्वन्ति जानन्ति च मायाविमोहितत्वादात्मानं तत्र कारणत्वेन मन्यन्ते, नच मां तत्र कारणत्वेन मन्यन्ते || ११ || अत एव किं वाञ्छन्तस्ते मम वर्त्म अनुवर्तन्ते इत्याह काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || १२ || दृष्टप्रयोजनेन कर्मणां तत्तदभिमतप्राप्तिलक्षणां सिद्धिं कर्मफलं प्रार्थयमानाः, तथा अदृष्टप्रयोजनेन यज्ञादिना तत्तल्लोकान्तरभोग्यसुखप्राप्तिलक्षणफलाभिलाषिणः सन्तो देवताः इन्द्रादिरूपा यजन्तः हविर्दानादिना पूजयन्तः | किमत्र तात्पर्यम् | आ ब्रह्मणः कीटपर्यन्तं यो यः कश्चित् येन येन अभिसन्धिना यद्यत् किञ्चन चिकीर्षति जिज्ञासते वा, तत्तत्फलसम्पत्तेस्तत्कालवश्यम्भाविनी असंचेत्यमाना मत्समापत्तिरेव एकं कारणं यस्मादस्मिन् मानुषे लोके सर्वस्य प्रत्यक्षभूते कर्मजा तत्तत्संकल्पमूलव्यापारसमुत्था सिद्धिः फलप्राप्तिः क्षिप्रं तत्कालमेव मत्समापत्तिबलादेव सम्पद्यते परमार्थतः कर्तुर्ज्ञातुर्वा अन्यस्य असम्भवात् || १२ || प्. ९८) ननु त्वमेव चेदेकः कर्ता, तत् क्षेत्रज्ञभावेन कृतैः कर्मभिस्त्वमेव तत्फलेन सम्बध्यसे, ततश्च क्षेत्रज्ञवत् सुखादिसम्बन्धस्तव अपि प्रसक्त इति अर्जुनशंकां परिहर्तुकाम आह चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागतः | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || १३ || सत्यं गुणविभागेन अयं सात्त्विकोऽयं राजसोऽयं तामस इत्येवंरूपेण सर्गभेदमूलेन तथा कर्मविभागेन ब्राह्मणेन अध्येतव्यं यष्टव्यं दातव्यमित्येवमादिरूपेण मया यथोक्तस्वरूपेण एकेन कर्त्रा चातुर्वर्ण्यं सृष्टं चत्वारो वर्णा ब्राह्मणादयो निर्मिताः | तस्य एवंविधस्य चातुर्वर्ण्यस्य स्वगुणकर्मविभागसमुचितकर्मानुरूपतत्तत्फलभाजः कर्तारं निर्मातारमपि मामकर्तारं तद्वत् तादृक्कर्मफलसम्बन्धाभावात् कर्तृधर्मरहितं जानीहि | कुत इति हेतुगर्भं विशेषणमाह कीदृशं सन्तमकर्तारं विद्धि | अव्ययं नित्यमेकस्मात् स्वरूपात् यतोऽहं न व्येमि न व्यपगच्छामि अद्वयचिन्मात्रस्वभावतामेव न जहामि | एवंच अव्ययं सन्तं मामकर्तारं विद्धि | क्षेत्रज्ञा हि मन्मायोद्भावितानित्यदेहाद्यहंकारमयास्त्रिगुणाः संकल्पकारिणः सुखादिभिः फलैर्युज्यन्ते, नतु अहं गुणातीतस्वभावस्तैर्जातु युज्ये || १३ || ततश्च न मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि | इति मां योऽभिजानाति कर्मभिर्न स बध्यते || १४ || कर्माणि पुण्यापुण्यलक्षणाः क्रियाः न मां लिम्पन्ति सुखदुःखादिलक्षणस्वफलरूपेण कलंकेन न मलिनयन्ति यतो नित्यनिजानन्दतृप्तस्य मम कर्मणां फलेषु तत्तदुत्तरोत्तरप्रकृष्टस्वरूपेषु अपि न कामः न अभिलाषो यथाप्रतिपादितस्वरूपैकमयत्वेन प्. ९९) सर्वमिदमनुपश्यतः | यश्च यथोक्तेन ज्ञानामृतनिर्झरेण निर्धौतसकलविकल्पकलंकत्वात् निर्मलप्रज्ञो योगी ऽइतिऽ एवं यथोक्तस्वरूपं ऽमामभिजानातिऽ प्रतिपद्यते शऽ मद्वत् क्रियमाणैः ऽकर्मभिर्न बध्यतेऽ न रागादिक्लेशपाशनियन्त्रितः क्रियते || १४ || किंच एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः | कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् || १५ || एवं यथाप्रतिपादिते कर्मत्वेऽपि अकर्मत्वपर्यवसायित्वात् तत्त्वं ज्ञात्वा अधिगम्य पूर्वैरपि मन्वादिभिः मुमुक्षुभिः कर्म शास्त्रचोदितं कृतम् अनुष्ठितम् | तस्मात् त्वमपि यथोक्तज्ञाननिष्ठत्वेन कर्मैव स्वजातिविहितं युद्धादिव्यापारमेव अनुतिष्ठ | पूर्वैः अतीतविप्रकृष्टकालजन्मभिस्तैस्तैः पूर्वतरम् आदितरमनुष्ठितम् || १५ || किन्तु किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः | तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || १६ || किं कर्म अनुष्ठेयं किं च अकर्म परिहार्यमित्यत्र प्रविभागज्ञाने कवयोऽपि द्रष्टारोऽपि मुनयो मोहिताः तेऽपि सम्यगेतयोर्न विभागं जानते | तस्मादकर्मपरिहारेण तत् अनुष्ठेयं कर्म तुभ्यं प्रकर्षेण इदानीं कथयिष्यामि, यत् विदित्वा संसारबन्धलक्षणात् अशुभात् अकल्याणात् मोक्ष्यसे मुक्तो भविष्यसि || १६ || यतः कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः || १७ || सामान्येन अनुष्ठेयतया उपदिष्टस्य कर्मणो बोद्धव्यं विशेषात्मकं प्. १००) वस्तु विद्यते, अकर्मणश्च कर्मपरिहारस्य अपि बोद्धव्यं विद्यते विकर्मणश्च विरुद्धस्य अपि कर्मणस्तथैव बोद्धव्यं विद्यते यतोऽस्य त्रिप्रकारत्वे व्यवस्थितस्य कर्मणो गहना दुरवधारतत्त्वा गतिः व्याप्तिः || १७ || सा च यथा अवधार्यते, तथा प्रतिपादयितुमाह कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः | स बुद्धिमान्मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् || १८ || यथोक्तज्ञाननिष्ठतया अनुष्ठीयमाने शास्त्रचोदितस्वव्यापारे यः तत्त्ववित् अकर्म कर्माभावं संसारबन्धलक्षणकर्मकार्याकरणात् पुत्रेऽपि अपुत्रवत् पश्यति, तथा अकर्मणि यथाविहितकर्मप्रतिषेधे पूर्वोक्तोपपत्त्या रागादिदोषानुषङ्गस्य दुरुच्छेदत्वात् बन्धलक्षणकर्मकार्यकरणात् कर्मत्वं पश्यति ज्ञानदृष्ट्या निश्चिनोति स मनुष्येषु मध्ये प्रशस्यया बुद्ध्या युक्तः | स एवच सम्पूर्णपुरुषार्थसम्पादकत्वात् कृत्स्नस्य अविकलस्य कर्मणः कर्ता अनुष्ठाता उच्यते | भोगमात्रफलं हि कर्म कृत्स्नमविकलांगमपि अनुष्ठितमपवर्गलक्षणफलं प्रति अहेतुत्वात् न कृत्स्नं भवति, अतस्तदनुष्ठाता न कृत्स्नकर्मकृदित्यर्थः | एवमनेन श्लोकेन कर्मणश्च अकर्मणश्च बोद्धव्यमस्ति, - इत्येतत् व्याख्यातम् || १८ || अथ कर्मैव अकर्म भवतीत्येतत् पूर्वमुक्तमपि दृढप्रतिपत्तये स्मारयन् विवृणोति यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः || १९ || काम्यन्ते इति कामाः कर्मफलत्वेन प्रार्थ्यमानास्ते ते भोगास्तेषु संकल्प इच्छा तेन रहिताः सर्वे समस्ता दृष्टानुश्रविकविषयनिष्ठाः समारम्भाः कर्मप्रवृत्तयो यस्य तं यथोदितं यथोक्तात्मतत्त्वज्ञानरूपेण प्. १०१) अनलेन दग्धकर्माणं दग्धानि संसारांकुरप्रसवसामर्थ्यहरणात् भस्मीकृतानि बीजानि येन तं तादृशं पण्डितं विद्वांसम् आहुः परमार्थविदः, यतः सर्वात्मना कृतकृत्यत्वपर्यवसायिनी विद्वत्ता, सा च यथोक्तज्ञानवत् एव संभवति || १९ || एवं कर्मण्येव अकर्म विद्वान् पश्यतीति व्याख्यातम् | तदेव विशिनष्टि यतः त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रयः | कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः || २० || सः एवंविधो योगी परमानन्दमयपरमस्वभावसुव्यवस्थितबुद्धिः नित्यतृप्तः सकलबाह्यविषयरसपरिक्षीणाकांक्षोऽत एव निराश्रयः स्वरूपव्यतिरिक्तात् बाह्यादालम्बनात् निष्क्रान्तः कर्मफलासंगं कर्मणां यज्ञदानतपः प्रभृतीनां फलं स्वर्गादिभोगलक्षणमासंगमासक्तिं तदेव प्रकृष्टं फलमिति तत्र लीनचित्तत्वं त्यक्त्वा सहजे कर्मणि अभिप्रवृत्तः अनुष्ठाने व्यवसितोऽपि नैव किञ्चित् करोति तथाविधस्य योगिनः सर्वस्य कर्मणो बन्धलक्षणस्वकार्यसम्पादनासामर्थ्यात् || २० || यथोक्तस्य योगिनः प्रशंसार्थमेव आह निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम् || २१ || यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धावसिद्धौ च कृत्वापि न निबद्ध्यते || २२ || प्रागेव व्याख्यातमेतत् | यद्यपि कर्माकर्मणोरेव बोद्धव्यं वस्तु व्याख्यातम्, तथापि विकर्मणोऽपि बोद्धव्यमित्येतद्व्याख्यानेनैव व्याख्यातम् | यतः कर्मपरिहारस्य ज्ञानशून्यस्य सतो यत्र बन्धकत्वमुक्तम्, तत्र वर्णाश्रमसमयविरुद्धस्य कर्मणो बन्धकत्वे प्. १०२) का भ्रान्तिरिति तस्य अपि सर्वात्मना परिहार्यत्वलक्षणं बोद्धव्यं वस्तु व्याख्यातमेव || २२ || इदानीं कर्म सर्वथा कर्तव्यमिति सामान्येन कर्ममात्रमनुष्ठेयत्वेन उपदिष्टं प्राक् तस्य यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | (३|९) इत्यनेन सूचितां यज्ञलक्षणविशिष्टरूपतां मोक्षैकफलत्वं च योगिस्वरूपप्रतिपादनद्वारेणैव प्रस्तावयन्नाह गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः | यज्ञायारभतः कर्म समग्रं प्रविलीयते || २३ || यथोक्ते ज्ञानेऽवस्थितचेतसः प्रतिलब्धप्रतिष्ठप्रज्ञस्य अत एव निवृत्तविषयाभ्यासंगस्य ततश्च मुक्तस्य आत्मानात्मविवेकसमाधिसिद्धिलाभात् देहाद्यात्मप्रत्ययरूपात् महतो बन्धनात् निष्क्रान्तस्य सतो वक्ष्यमाणप्रभेदाय यज्ञाय यजनाय तदर्थं कर्म शास्त्रविहितां क्रियामारभमाणस्य कुर्वत एव समग्रं कायिकवाचिकमानसिकभेदेन संग्रहात् त्रिप्रकारमवान्तरभेदेन तु अपरिसंख्येयं विलीयते विगलति ब्रह्मप्राप्तिहेतुत्वात् विनश्वरफलारम्भकत्वलक्षणं स्वरूपमस्य नश्यतीत्यर्थः || २३ || कथं क्रियमाणमेव कर्म प्रविलीयते, - इति विवेकसमाधिसिद्धिनान्तरीयिकां ब्रह्माद्वैतसिद्धिं कर्मप्रविलयकारणभूतां प्रतिपादयितुमाह ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || २४ || तेन गतसंगादिविशेषणविशिष्टेन योगिना ब्रह्मैव गन्तव्यम् अतः समग्रं तस्य कर्म प्रविलीयते इति सम्बन्धः | तदेतत् व्याख्यायते | तेन योगिना बृहत्त्वादिधर्मयोगात् ब्रह्मशब्दवाच्यं प्. १०३) परमार्थतत्त्वमेव योग्यतावशात् निर्विकल्पतया प्रकाशमानं गन्तव्यं सम्प्रदानत्वेन उपस्थातव्यम् | नहि तथाविधस्य योगिनस्तत्तत्फलाभिसंधिना तत्तत् देवतान्तरं सम्प्रदानतया गन्तव्यत्वमर्हति | कीदृशेन तेन ब्रह्मैव गन्तव्यम् | ब्रह्मकर्मसमाधिना समुन्मिषिते विज्ञानात्मके दिव्ये चक्षुषि यथोक्तब्रह्माभेदेन प्रथमानं कर्म ब्रह्मकर्म, तदेव समाधिर्निरुत्तरो योगो यस्य तेन तादृशेन | कीदृशं ब्रह्म गन्तव्यम् | ब्रह्मणा ब्रह्माभिन्नस्वरूपतया स्वात्मानं मन्यमानेन यजमानेन हुतं तर्पितं ब्रह्मरूपतया प्रतिपन्नेऽग्नौ जातवेदसि | अन्यच्च कीदृशं ब्रह्म | ब्रह्मार्पणं ब्रह्मरूपतयैव प्रतीयमानमर्पणमाज्यपयःसोमादियागद्रव्योपकरणसाधनं हस्तादि यत्र, तत् तादृशम्; तथा ब्रह्महविः ब्रह्मत्वेनैव प्रतिपद्यमानं हविर्हूयमानमाज्यादि द्रव्यं यत्र, तत् तथाविधम् | इदमनेन प्रतिपादितम् -यद्यत् वस्तु यथा यथा प्रकाशते, तत्तत् प्रकाशमानत्वादेव प्रकाशादभिन्नस्वरूपमतः परमात्मव्यतिरिक्तं परमार्थतः पदार्थजातं न किञ्चित् सम्भवतीति तत्त्वविद्भिः स्वसंवेदनसंवेद्यत्वात् निष्प्रकम्पोपपत्त्युपलब्धिप्रदर्शनक्रमेण व्यवस्थापितोऽपि अयमात्मैश्वर्याद्वयनयो न यस्य कस्यचित् प्रतिपत्तिगोचरतामुपगच्छति परमेश्वरेणैव विहितनियमत्वात् | तदयमैश्वरो नियमः स्वेच्छावभासितान्योन्यभिन्नस्वरूपेषु अपि अपरिसंख्येयेषु प्रमातृषु कंचिदेव स्वेच्छावशादसावनुगृह्णाति | तस्य च अनुगृहीतमात्रस्य तत्त्वावलोकव्यवधायकसन्देहमहागिरीन्द्रनिर्दलनदम्भोलिधारा भक्तिरुन्मिषति | तत्प्रभावाच्च यथोक्तं तत्त्वज्ञानं शास्त्रात्मकमाप्तोपदेशादिना उपनमति | तस्मिंश्च विशुद्धश्रद्धासिद्धसिन्धुनिर्धौतनिखिलविकल्पकलंकया परमया प्रज्ञया निरन्तरमनुशील्यमाने देहदेहिविवेकज्ञानलक्षणमद्वैतपुरद्वारमपावृतं भवति | तत्र लब्धप्रवेशोऽस्मिन् प्. १०४) ब्रह्मार्पणविधानेऽधिकृतो योगी भवति, - इत्यत उक्तं गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतसः | यज्ञायारभतः कर्म समग्रं प्रविलीयते || (४|२३) तेन च ब्रह्मैव गन्तव्यमिति | यज्ञाख्यस्य कर्मणः प्राधान्यात् दृष्टादृष्टविषयसकलक्रियोपलक्षणार्थत्वेन ग्रहणमिह वेदितव्यं यतः पश्यञ्शृण्वन्स्पृशञ्जिघ्रन् -------------------------- | (५|८) इत्यादिना सर्वासु क्रियासु एतां ब्रह्माद्वैतभावनामभिधास्यत्येव || इदानीं वर्णाश्रमविभक्ताधिकार्यवस्थादिविभेदात् येषु येषु यज्ञप्रभेदेषु एषा भावना योगिना विधातव्या अनुष्ठातृमुखेन, तां प्रतिपादयंस्तेषां तावत् बाह्याभ्यन्तरसाधनप्राधान्येन प्रकारद्वयं तस्यैव ज्ञानयज्ञकारणभूतप्रकारद्वयसहितं श्लोकत्रयेण आह दैवमेवापरे यज्ञं योगिनः समुपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || २५ || श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || २६ || सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्रौ जुह्वति ज्ञानदीपिते || २७ || अपरे केचित् योगिनः सम्प्रति अनुत्पन्नयथोक्ततत्त्वज्ञानत्वात् क्रियामात्रसमाहिता दैवमेव यज्ञं समुपासते देवानामग्नीषोमप्रजापतीन्द्रादित्यादीनां प्राधान्येन इज्यमानत्वात् देवसम्बन्धिनं यागमनुष्ठानेन भजन्ते, न अन्यं यत्र ऋत्विगाज्यपयःसोमादि चेतनाचेतनं बाह्यं द्रव्यमुपकरणम् | अपरे तेभ्योऽपि अन्ये तत्त्व विदस्तेनैव यज्ञेन तत्तदुपकरणभावावस्थितात्ममयेन यज्ञम् आत्मानमेव उपजुह्वति प्रीणन्ति | क्व | ब्रह्माग्नौ ब्रह्म तत्त्वज्ञानं, स एव परप्रकाशात्मकत्वात् सकलशुभाशुभकर्मफलदाहहेतुत्वात् च अग्निस्तस्मिन् | प्. १०५) एतदुक्तं भवति-ब्रह्मार्पणविधानविदो दैवमेव यज्ञं ज्ञानयज्ञत्वमापादयन्ति || अथ अन्ये केचन योगिनश्चित्तवृत्तिनिरोधनलक्षणसमाधिनिष्ठा अबहिःसाधनसाध्यं यज्ञमनुतिष्ठन्तः श्रोत्रादीनि अक्षाणि तत्तद्ध्येयार्थसमाधिरूपेषु संयमेषु एव अग्निषु जुह्वति विषयेभ्यः प्रत्याहृत्य तेषु तेषु समाधिषु आलीनानीन्द्रियाणि कुर्वन्तो यज्ञसम्पत्तिमभिमन्यन्ते इत्यर्थः | अन्ये पुनः शब्दादीन् विषयान् योगिनः परिहारेण श्रोत्रादिषु इन्द्रियेषु जुह्वति निषिद्धबहिष्प्रसरासु इन्द्रियवृत्तिष्वेव लब्धसंयमे चेतसि शब्दादीनामग्रहणमेव इन्द्रियेषु अग्निकल्पेषु हवनं मन्यमानास्तथाविधं यज्ञमनुतिष्ठन्तीत्यर्थः || अपरे केचन एवंविधस्य योगयज्ञस्य ज्ञानयज्ञत्वसम्पत्तये सर्वाणि अशेषाणि बाह्यानामान्तराणां च इन्द्रियाणां कर्माणि प्राणस्य च सामान्यरूपस्य एकस्य प्राणापाणसमानोदानव्यानादिभेदप्रवृत्तानि समस्तानि कर्माणि आत्मसंयमयोगाग्नौ जुह्वति आत्मनि प्रतिपादितलक्षणे परस्मिन् कारणे यः संयमः सम्यक् चित्तस्य निबन्धनं, तदात्मको यो योगः समाधिः, स एव अग्निस्तत्र तानि निलीनानि कुर्वते | कीदृशे | ज्ञानदीपिते आत्माद्वयलक्षणेन ज्ञानेन बोधेन दीपिते द्योतिते | किमुक्तं भवति | तेषु तेषु नानाविधेषु योगेषु मनःप्राणयोर्व्यापारान् हविर्वदात्मनिष्ठे समाध्यग्नौ निक्षिपन्तस्तादृशस्य योगज्ञानस्य ज्ञानयज्ञत्वमापादयन्तीत्यर्थः || २७ || एवं यज्ञानां व्यापारभेदेन चतुर्विधत्वं प्रतिपाद्य इदानीमाश्रमभेदप्रतिपादनद्वारेण यज्ञभेदान् प्रतिपादयितुं श्लोकद्वयं सार्धमाह द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे | स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः || २८ || प्. १०६) अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे | प्राणापानगती रुद्धा प्राणायामपरायणाः || २९ || अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति | द्रव्येण हविरादिना यज्ञः पाकयज्ञादिर्यागविधिर्येषां, ते द्रव्ययज्ञाः तत्तद्देवतायजनप्रधानक्रतुक्रियानुष्ठायिनः सम्भवन्तीति शेषः | ते च गार्हस्थ्याश्रमवर्तिनः प्राधान्येन अत्र अभिप्रेताः, यतो गृहस्थानामेव द्रव्यसाधने देवयज्ञे मुख्यतया अधिकारः | तत्र पाकयज्ञाः सर्ववर्णसाधारणा यतः शूद्रस्य अपि पाकयज्ञैः स्वयं यजेत् | इति विहितोऽस्य नमस्कारो मन्त्र --------------------- | इत्यादिना तेषु अधिकारो विहितः | तथा अन्ये तपोयज्ञाः तपसा तेन तेन वर्णविशेषविभक्तेन नियमेन यज्ञो यागविधिर्येषां ते प्राधान्येन वानप्रस्थाश्रमिणोऽत्र गृह्यन्ते तेषामेव मुख्यतया तपोनिष्ठत्वात् | आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् | इत्यादिना शूद्रस्य अपि अत्र अधिकारात् तपोयज्ञेषु अधिकारः | तथा अन्ये योगयज्ञाः योगेन यमनियमाद्यंगनिर्वर्त्येन सबीजनिर्बीजरूपेण चित्तवृत्तिनिरोधैकलक्षणेन समाधिना यज्ञो येषां, ते योगयज्ञाः प्राधान्येन चतुर्थाश्रमिणस्तेषामेव प्राधान्येन योगपरत्वात् | अत्रापि शूद्रस्य अधिकारो विहितो यतो भगवता व्यासमुनिनैव चतुर्वर्णसाधारणान् धर्मान् निर्दिशता तन्मध्ये आत्मज्ञानमुक्तम् | तथाच जनकपराशरसंवादे विशेषधर्मान् वर्णानां प्रब्रूहि भगवन्मम | तथा सामान्यधर्माश्च सर्वत्र कुशलो ह्यसि || प्. १०७) इति प्रश्ने विशेषधर्मानुक्त्वा भगवान् पराशरः आनृशंस्यमहिंसा चाप्रमादः संविभागिता | श्राद्धकर्मातिथेयं च सत्यमक्रोध एवच || स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता | आत्मज्ञानं तितिक्षा च धर्मः साधारणो नृप || अत्रैव अन्यत्र नचापि शूद्रः पततीति निश्चयो नचापि संस्कारमिहार्हतीति वा | श्रुतिप्रवृत्तं नच धर्ममश्नुते नचास्य धर्मप्रतिषेधनं कृतम् || अत्रैव अन्यत्र अपि सर्वे वर्णा धर्मकार्याणि सम्यक् कृत्वा राजन् सत्यवाक्यानि चोक्त्वा | त्यक्त्वाधर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः || (म०भा०शा०प० ३०२ अ०) इति | स्वाध्यायज्ञानयज्ञाश्चापरे स्वाध्यायो वेदवेदांगस्मृतीतिहासपुराणतर्कदंडनीतिवार्तादेर्यथास्वं स्वस्य शास्त्रस्य अध्ययनम् | तत्र प्राधान्येन ब्रह्मचर्याश्रमिणोऽधिकृता यतो मुख्यतया तेषां स्वाध्यायनिष्ठत्वं व्यवस्थितम् | तत्र च कस्मिंश्चिदंशे कथञ्चित् शूद्रस्यापि अधिकारो यतः स्वयं यजेत् इति पाकयज्ञेषु तस्य अपि अधिकाराभ्युपगमात् तदितिकर्तव्यताज्ञानहेतोः कस्यचित् शास्त्रावयवस्य केनचित् प्रकारेण अध्ययनमवश्यमेव प्रसक्तम् | तथा ज्ञानयज्ञा ज्ञानेन प्रबन्धप्रतिपादितात्माद्वैतबोधात्मना यज्ञो यागविधिर्येषाम् | तत्र सर्ववर्णाः सर्वाश्रमिणो प्. १०८) गृह्यन्ते | ततः शूद्रस्य अपि अधिकारः | तथाच उक्तमिहैव परब्रह्मस्वरूपमात्मानं व्यपदिशता भगवता मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः | स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यांति परां गतिम् || (९|३३) इति | नच अतिशयोक्तिमात्रमेतत् यतो मुनिनैव मोक्षधर्मेषु पिंगलासुलभाद्याः स्त्रियः, तुलाधराद्याश्च वैश्याः, धर्मव्याधादयः शूद्रा आविर्भूततत्त्वज्ञानास्तत्र तत्र उदाहृताः | तदनेन ज्ञानयज्ञेन पूर्वोक्ता यज्ञभेदा ज्ञानयज्ञतामाप्नुवन्तीति उक्तं भवति संशितव्रताः इति विशेषणं स्वाध्याययज्ञानामत्यन्तनियमपरत्वात् ज्ञानयज्ञानां च परमार्थनिष्ठत्वात् मुख्ययतिलक्षणयोगात् वेदितव्यम् | अथ प्राणायामयज्ञस्य साधारण्यात् पृथक् स्वरूपं प्रतिपादयन्नाह- अपरे केचित् योगिनः अपाने पूरकवृत्तिव्यवस्थिते शारीरे मरुति प्राणं रेचकवृत्तिव्यवस्थितवायुं जुह्वति प्राणाख्यं वायुं हविर्भावेन कल्पयित्वा अपानं च अग्नित्वेन यागविधिमनुतिष्ठन्तीत्यर्थः | रेचितः प्राणो यदा अपानवृत्त्यात्मना परावर्तमानः स्वरूपं जहाति, तदा असावपाने हुतो भवतीति कृत्वा अपाने जुह्वति प्राणम् इति उक्तम् | अनेनैव क्रमेण प्राणे अग्निभावेन परिकल्पिते अपानं हविर्भूतमन्ये जुह्वति इति | रेचकवृत्तिपूर्वकत्वेन पूरकवृत्तिविश्रान्तिरूपतया पूरकवृत्तिपूर्वकत्वेन च रेचकवृत्तिविश्रान्तिरूपं प्राणायामक्रमद्वयं प्रतिपाद्य कुम्भकवृत्तिरूपं क्रमं प्रतिपादयितुमाह अपरे अन्ये प्राणापानयोर्द्वयोरपि गती व्यापारौ रुद्ध्वा स्तम्भयित्वा यावच्छक्ति प्राणायामपरायणाः तथाविधानां रुद्धानां प्राणानामायामश्चिरकालावस्थानात् दीर्घीकरणं परायणं निष्ठा येषां, ते तादृशाः प्राणायामपरायणाः | अनेन रेचकपूरकवृत्त्योरपि प्राणानामायाम प्. १०९) एव उक्तो वेदितव्यः | ते च एवंविधा नियताहाराः मात्राकालावच्छिन्नहितपवित्राशिनः सन्तः प्राणान् नानानाडीवाहिनो वायूनाज्यभूतान् मध्यमेषु प्राणेषु अग्निभूतेषु जुह्वति तत्र लीनान् कुर्वते मध्यमप्राणवृत्त्यवलम्बिनस्तिष्ठन्ति | अयं प्राणयज्ञक्रमः प्रतिपादितः | एषोऽपि पूर्वोक्तज्ञाननिष्ठतया अनुष्ठीयमानो ज्ञानयज्ञत्वमापद्यते यतः पूर्वयोर्द्वयोः प्रकारयोः प्राणोदयास्तमयसन्धिसमाहितत्वेन परमात्मसमापत्तिहेतुतामापद्यमानयोर्विज्ञानयज्ञता जायते | तृतीयेऽपि क्रमे मध्यमप्राणपरिणतचित्ततया असौ जायते | अस्य च प्राणायमक्रमस्य योगांगत्वेन व्यवस्थितस्य अपि पुनर्वचनं केवलस्यैव यज्ञविशेषप्रतिपादनार्थं वेदितव्यम् || २९ || एवमनुष्ठातृभेदेन यज्ञभेदान् प्रतिपाद्य सर्वेषामपवर्गफलत्वं यथाभवति, तथा प्रतिपादयितुमाह सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः || ३० || यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | एते यथोक्तविविधयज्ञानुष्ठातारः सर्वेऽपि समस्ता एव निर्विशेषतया सनातनं नित्यमक्षयं ब्रह्म परमात्मतत्त्वं यान्ति गच्छन्ति तदेव सम्पद्यन्ते इत्यर्थः | कीदृशाः | यज्ञविदः सन्तो यदि यथाप्रतिपादितब्रह्मार्पणविधानक्रमेण यज्ञं यथोक्तं नानारूपं यागं जानन्ति निर्विकल्पतया प्रतिपद्यन्ते, ततस्तथाभूतेन यज्ञविधिना क्षपितकल्मषाः विनाशिताज्ञानलक्षणमुख्यमहापातकाः सन्तः, तथा अनुष्ठितात् यज्ञात् शिष्टं तादृग्यागविधानानन्तरमाहरणीयं यत्, तदेव ब्रह्मार्पणविधानदृष्ट्या ब्रह्ममयत्वादमृतमनुत्तरानन्दास्वादसुन्दरं सुधारसं भुञ्जते परसंविन्मयस्वात्मपरिपोषय चर्वयन्ति ये, तथाविधाः सन्तो यथोक्तं ब्रह्मलक्षणं प्. ११०) पदं प्राप्नुवन्तीत्यर्थः | ब्रह्मार्पणज्ञानव्यतिरेकेण एतान् यागविशेषाननुतिष्ठन्तस्तेभ्यस्तत्तत् नानारूपं परिमितं फलं प्राप्नुवन्तीति अर्थात् प्रतिपादितं भवति || यस्तु केवलेन क्रियामात्रेण ज्ञानक्रियासमुच्चयेन वा अनयोरेकतमेन अपि विधिना यज्ञं न कञ्चिदनुतिष्ठति, तस्य नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम || ३१ || अयज्ञस्य उभयरूपतया अपि यज्ञरहितस्य अयं लोकः दृष्ट एव नास्तिकत्वात् सर्वजनद्वेष्यस्य सतो नास्ति | यदुक्तं सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव | नास्तिकोऽपि ह्युद्विजते जनः किं पुनरास्तिकः || इति तस्य एवंविधस्य पापशीलस्य कुतोऽन्यः एतस्मात् लोकात् परः स्वर्गापवर्गात्मकफलभोगास्पदमदृष्टसंज्ञो भवति || ३१ || अथ एतेषां सर्वयज्ञानां कर्मजत्वप्रतिपादनेन ज्ञानयज्ञत्वापत्तिं प्रतिपादयितुमाह एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || ३२ || एवं यथोक्तेन प्रकारेण भूरिप्रकाराः यज्ञाः ब्रह्मणः वेदादेः शास्त्रस्य मुखे तद्द्वारेणेत्यर्थः वितताः स्वगतिविशेषप्रतिपादनक्रमेण विस्तारिताः | तांश्च सर्वान्कर्मजान् वाङ्मनःकायव्यापारनिर्वर्त्यत्वात् क्रियासमुद्भवान् विद्धि न अन्यथा एषामात्मलाभोपपत्तिरिति निश्चिनु | येऽपि हि बुद्धिमात्रसाधना यज्ञास्तेषु तादृक्सूक्ष्मबुद्धिव्यापाराव्यभिचारः स्थित एव | ततः सहसृष्टत्वादशक्यपरिहाराणां कर्मात्मकानां यज्ञानां यथोक्तज्ञाननिष्ठतया अनुष्ठानमपवर्गसिद्धिरिति | एवं ज्ञात्वा सम्यक् प्रतिपद्य विमोक्ष्यसे स्वयमेव केवलीभविष्यसि न निमित्तान्तरमपेक्षिष्यसे प्. १११) इति समुच्चयज्ञानस्य मोक्षं प्रति सौकर्यप्रतिपादनाय विमोक्ष्यसे इति कर्मकर्तरि प्रयोगः || ३२ || अथ एतस्य ज्ञानप्रशंसार्थमाह श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || २३ || द्रव्यमयाद्यज्ञात् इति यथोक्तप्रतिपादितप्रभेदयज्ञोपलक्षणार्थं वेदितव्यम् | तेन सर्वेभ्यो यज्ञेभ्यो ज्ञानयज्ञः श्रेयान् प्रशस्यतरः | ज्ञानमयो हि यज्ञः सर्वान् द्रव्ययज्ञादीन् मोक्षफलान् सम्पादयति, तेन ज्ञाने सति सर्वयज्ञा एव भवन्तीति उक्तं भवति | सर्वयज्ञनिष्ठत्वेन हि ज्ञानस्य ज्ञानयज्ञत्वं, मोक्षफलं ज्ञानं नतु पृथक् यस्मात् यथोके ज्ञाने द्रव्ययज्ञादिविभागेन सर्वं समस्तं कर्माखिलं स्वगतिविशेषापेक्षया समग्रं ज्ञाने परिसमाप्यते प्रविलयं गच्छति कृतमपि दग्धबीजवत् स्वफलप्रसवसामर्थ्यं न भजते || ३३ || एवंविधं च तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः || ३४ || तत् ज्ञानं तुभ्यं ज्ञानिनः परमात्मसमापत्तिलक्षणनिरुत्तरफलप्राप्त्युपायभूतबोधयुक्ता गुरव उपदेक्ष्यन्ति प्रतिपादयिष्यन्ति | किं शास्त्रमात्रज्ञाः | नेति आह तत्त्वदर्शिनः यथाप्रतिपादितस्य प्रमार्थस्य स्वसंवेदनेन द्रष्टारः | केन हेतुना उपदेक्ष्यन्ति | प्रणिपातेन पादप्रणामपूर्वेण सर्वात्मना प्रह्वत्वेन, तथा परिप्रश्नेन परितः समन्तात् सर्वसंशयच्छेदार्थ यः प्रश्नः पुन्ः पुनः प्रार्थनापूर्वमनुयोगः, तेन, तथा सेवया आसन्नस्वसमर्पणात् सर्वत्र प्. ११२) निर्विकल्पया शुश्रूषया | निर्व्याजभक्तिश्रद्धाराधिता गुरव एवंविधं महोदयमर्थमुपदिशन्तीति विद्धि निश्चयेन जानीहि || ३४ || कीदृशं तत् ज्ञानमिति आह यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पांडव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || ३५ || यज्ज्ञात्वा सम्यक् प्रतिपद्य पुनः तत्प्रतिपत्तेरुत्तरकालम् एवम् अवश्यानुष्ठेये वैरिवधलक्षणे स्वधर्मे एव अधर्मप्रतिपत्तिरूपेण प्रकारेण मोहं विपर्ययलक्षणमज्ञानं न प्राप्यसि; येन च ज्ञानेन करणभूतेन सर्वभूतानि चराचरप्राणभृतो मयि परमकारणे, तथा आत्मनि स्थितानि द्रक्ष्यसि | किमुक्तं भवति | परमकारणाभिन्नात् स्वात्मनः सर्वभूतानां वास्तवमभेदमनेन ज्ञानेन साक्षात्करिष्यसि | अत्र स्वयं ज्ञानमुपदिशन्नपि ज्ञानिनस्ते ज्ञानमुपदेक्ष्यन्ति इति भगवान् यदाह, तत्र साक्षात्तत्त्वानुभवलक्षणे विशेषज्ञाने अर्जुनस्य अभिकांक्षोत्पादनं प्रयोजनम् | यतः क्रमेण उत्पन्नविशेषज्ञानजिज्ञासातिशयं भगवांस्तत्त्वमनुभावयिष्यत्येव || ३५ || युद्धलक्षणे स्वधर्मेऽनुष्ठीयमाने कुत एव ते पापसम्बन्धो यतोऽस्य ज्ञानस्य अयं प्रभावः अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि || ३६ || अपि चेदसि यद्यपि सर्वेभ्यः पापेभ्यः समस्तेभ्यः पातकिभ्यो ज्ञातिगुर्वादिवधादिदुष्कृतकारित्वात् पापकृत्तमः तदपेक्षया अतिशयेन दुष्टकर्मकारी तथापि अस्य ज्ञात्रादिवधलक्षणस्य कर्मणः स्वधर्मत्वे सति वृजिनं तज्जं पापं समस्तं सागरमिव दुर्लंघ्यं यथोक्तज्ञानलक्षणेन प्लवेन यानपात्रेण लंघयिष्यसि || ३६ || प्. ११३) यतः यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन | ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा || ३७ || यथा काष्ठानि दीप्ततरोऽनलो भूतिमात्रशेषाणि करोति, तथा तेनैव प्रकारेण सर्वाणि निःशेषाणि कर्माणि पुनः फलदानसामर्थ्यक्षपणात् ज्ञानं निर्दहति | अनेन स्वधर्मत्वेन अवस्थितानां परमघोराणामपि सर्वेषां कर्मणां नैष्पल्यापादनसमर्थं ज्ञानमेतदिति उक्तम्, नतु शास्त्रविहितानाम् | यथोक्तं प्राक् श्रेयान्स्वधर्मो विगुणः ---------------------------- | (३|३५) इत्यादिना || ३७ || किंच घोरस्य अपि कर्मणो मोक्षलक्षणोत्तमफलप्राप्तिपर्यवसायिना अनेन नहि ज्ञानेन सदृशं पवित्रमिह विद्यते | तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति || ३८ || यस्मात् ज्ञानेन तुल्यं पावकमन्यत् वस्तु जगति न सम्भवति तत् च अस्य पावनत्वं योगसंसिद्धः ज्ञानसंस्कृतेन यथोक्तेन कर्मसमाधिना सम्यक्सिद्धः प्राप्तपरमात्मसमापत्तिलक्षणप्रकृष्टफलः सन् योगी कालेन अभ्यासतीव्रत्वातीव्रत्वानुसारिणा शीघ्रेण चिरेण वा स्वयमेव आत्मनैव लभते स्वीकरोति || ३८ || तस्य च एवंप्रभावस्य ज्ञानस्य लाभक्रममाह - श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ३९ || श्रद्धा आप्तोपदिष्टेऽर्थे निर्विकल्पफलसंभावना, यद्वशात् प्राप्तफलस्यैव चेतसः संप्रसाद उत्पद्यते | सा च परमेश्वरप्रसादसुरपादपप्रथममंजर्या प्. ११४) भक्त्या सहैव उत्पद्यते | तद्वान् तया युक्तः संशयात्मकघोरविघ्नविनाशात्, तत्परः नान्यचेताः तथा संयतेन्द्रियः प्राक्प्रतिपादितेन क्रमेण वशीकृतसकलाक्षवर्गः परमपावनं ज्ञानम् अभियुक्तः कुतश्चित् परमेश्वरेच्छाप्रेरितात् साक्षात्कृतपरमार्थादवाप्नोति | तच्च प्राप्य नित्याभ्यासपरिशीलनात् सुदृढप्रतिपत्त्या स्वीकृत्य अचिरेण अल्पीयत्मैव कालेन परां निरुत्तरां शान्तिं सकलविकल्पविप्लवविनाशनिश्चलं शमं स्वात्मोपलब्धिजनितां निर्वृतिम् अधिगच्छति प्राप्नोति || ३९ || एतद्गुणविहीनस्तु ---------------------- अज्ञश्चाश्रद्दधानश्च संशयात्मा विनस्यति | नायं लोकोऽस्ति न परो न सुखं संशयात्मनः || ४० || अज्ञः ज्ञानरहितो नश्यति परापरफलप्राप्त्यभावात् संसार एव निमज्जति | कीदृशः स विनश्यति | अश्रद्दधानः यः परमेश्वरानुग्रहाद्विना न किञ्चित् श्रद्दधाति सम्भावयति यतः श्रद्धाविरहात् संशयात्मा सर्वत्र निश्चयप्रतिपत्त्यभावात् सन्देहमयबुद्धिः | अतश्च तहाविधस्य सर्वत्र सन्दिग्धबुद्धेः नायं दृष्ट एव लोकोऽस्ति, नच परः स्वर्गापवर्गलक्षणोऽदृष्टः | ततश्च सुखमपि तस्य नास्ति | संशयितस्य हि वैद्यादिना आप्तेन उक्ते व्याध्यादिप्रतीकारहेतौ भेषजादौ सन्दिह्यमानमतेर्व्याध्यादिनाशाभावादयमेव लोको नास्ति, कुतः परः, सुखं वा लोकद्वयोपभोग्यमिष्टफलं भविष्यति || ४० || यः पुनरेतद्व्यतिरिक्तलक्षणस्तं योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || ४१ || योगेन यथोक्तेन ज्ञानसंस्कृतकर्मसमाधिना संन्यस्तानि अनित्यसुखात्मकफलाभिसन्धिविरहात् त्यक्तानि क्रियमाणानि एव प्. ११५) तिरस्कृतानि कर्माणि येन तादृशं, तथा ज्ञानेन सदसत्पदार्थनिश्चयप्रतिपत्तिरूपेण यथोक्तेन बोधेन संच्छिन्नो निकृत्तमूलः संशयः सन्देहो येन तं तादृशम्, अत एव सत्यात्मप्रतिपत्तिवशात् आत्मवन्तं न कर्माणि शुभाशुभानि निबध्नन्ति सुखदुःखलक्षणफलदानेन न स्वतस्त्रीकुर्वन्ति || ४१ || यत एवं तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः | छित्त्वैवं संशयं योगमातिष्ठोत्तिष्ठ भारत || ४२ || तस्मात् प्रबन्धप्रतिपादितात् कारणात् योगं शास्त्रविहितेषु कर्मसु यथोक्तज्ञानसंस्कृतेषु समाधिं यथोक्तम् आतिष्ठ समाचर अत्र उत्तिष्ठ प्रोद्युक्तो भव | किं कृत्वा | एवं सर्वदोषैकहेतुं संशयं यथोक्तेन ज्ञानखड्गेन च्छित्त्वा मूलादेव निपाट्य | कीदृशं संशयम् | हृत्स्थं हृदयगतम् अज्ञानसम्भूतं मोहप्रभवम् | अनेन हृदयगतत्वेन मोहप्रभवत्वेन च अदूरवर्तित्वमसारमूलत्वं च सुच्छेदत्वप्रतिपादनार्थमुक्तमिति ओम् || ४२ || कल्याणैकनिकेतनस्य जगतां घोराघविध्वंसिनो धर्मस्यास्य सुरापगाम्भस इव ब्रह्मात्मकस्योद्भवम् | आख्यायात्मन एव यत्र भगवान् पार्थाय सर्वातिगं स्वं माहात्म्यमसूचयत्स विवृतोऽध्यायश्चतुर्थः क्रमात् || इति श्रीमद्राजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे चतुर्थोऽध्यायः || ४ || अथ पञ्चमोऽध्यायः | अथ द्वितीयाध्यायपरिसमाप्तौ बुद्धिप्रशंसावाक्यानि प्राक् च कर्मयोगवचनानि श्रुत्वा तेषां च परस्परविरुद्धत्वं मन्यमानेन अर्जुनेन ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन (३|१) इत्यादिना प्रश्नो यः कृतोऽभूत्, स भगवता यद्यपि निर्णीत एव तृतीये; तथापि चतुर्थाध्यायपरिसमाप्तौ योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् (४ | ४१) इत्यत्र योगसंन्यासशब्दौ श्रुत्वा संन्यासं त्यागं मन्यमानः पुनरुत्पन्नसंशयोर्ऽजुन उवाच - संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि | यः श्रेयानेतयोरेकस्तं मे ब्रूहि विनिश्चितम् || १ || हे कृष्ण कर्मणां त्यागं प्रशंससि स्तौषि, पुनश्च तेषामेव योगम् अनुष्ठानेन स्वीकारं स्तौषि | तदेतयोर्विरुद्धयोः कर्मत्यागस्वीकारयोः संन्यासयोगशब्देन उक्तयोर्यौगपद्येन अनुष्ठानं तावत् न संभवति | अतो द्वयोर्मध्यात् एकः संन्यासो वा योगो वा यः एव श्रेयान् प्रशस्यतरः तं मे निःसन्देहतया ब्रूहि || १ || अथ शब्दविशेषमात्रजनितं संशयमर्जुनस्य परिहर्तुं भगवानुवाच - संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ | तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते || २ || सत्यं द्वावपि एतौ कर्मणां संन्यासयोगौ त्यागस्वीकारौ भिन्नानुष्ठातृपुरुषानुष्ठीयमानापवर्गलक्षणाभ्युदयसंपाद् अकौ भवतः | यथः प्. ११७) केवलज्ञानवादिनः सर्वात्मना कर्मणां त्यागेन अपवर्गमिच्छन्ति, समुच्चयवादिनस्तु कर्मणामत्यागेन अनुष्ठानेनेति द्वयोरपि फलश्रुतिरस्ति; किन्तु तयोः संन्यासयोगयोर्मध्यात् संन्यासात् त्यागात् तमपेक्ष्य कर्मयोगो विहितकर्माचरणं विशिष्यते उक्तवक्ष्यमाणहेतुपर्यालोचनया प्रकृष्यते || २ || यथा विशिष्यते, तथा आह - ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति | निर्द्वन्द्वो हि महाबाहो सुखं बन्धाद्विमुच्यते || ३ || समुच्चयानुष्ठाता कुर्वन्नपि कर्माणि नित्यं संन्यासी सदात्यक्तकर्मा बोद्धव्यः | कोऽसौ | यो न किञ्चित् द्वेष्टि न किञ्चित् काङ्क्षति | कस्मात् स नित्यसंन्यासीत्याह यस्मात् निर्द्वन्द्वः द्वेषाकाङ्क्षाशब्दप्रतिपादितात् द्वेषरागलक्षणात् द्वन्द्वात् निष्क्रान्तः कर्माण्यपि कुर्वन् सुखम् अक्लेशं बन्धात् संसारलक्षणात् दुर्गात् मुच्यते स्वयमेव मोक्षामाप्नोति | तदिदमत्र तात्पर्यम् - संसारकाराकुहरस्थानां रागद्वेषावेव दुरुच्छेदौ बन्धनपाशौ; तावेव यथोक्तात्मज्ञानासिना येन च्छिनौ, तस्य क्रियमाणान्यपि कर्माणि अकृतकल्पानि, - इत्यसौ नित्यसंन्यासीति उक्तः, यस्तु परिहरन्नपि कर्माणि रागद्वेषौ च्छेत्तुं न प्रभवति, स संन्यस्तकर्मा अपि कर्मदृदेव तत्कृतस्य तत्फलस्य बन्धस्य अविरामात् | यथाच सर्वकर्मणां परित्यागानुपपत्तिः केषांचन वा परित्यागे बन्धकारणभूतरागद्वेषानुपरमस्तथा प्रागेव प्रतिपादितं, प्रतिपादयिष्यते च || ३ || इत्थं च समुच्चिते ज्ञानकर्मणी प्राक् सङ्ख्ययोगशब्दाभ्यां ये प्रतिपादिते, त एव संन्यासयोगशब्दाभ्यामुक्ते | ततः किं ते संशयकारणमित्याह - प्. ११८) सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः | एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् || ४ || साङ्ख्यं यथाप्रतिपादितात्मतत्त्वज्ञानम् | योगस्तदविरहविधानविहितबन्धसामर्थ्यानां विहितानां कर्मणामनुष्ठानम् | तौ नित्यमन्योन्यावियोगप्रतिलभ्यसंपूर्णस्वरूपत्वादभिन्नौ | बालाः तत्त्वज्ञानव्यवहारव्युत्पत्तिरहितत्वात् बालिशाः पृथक् भिन्नपुरुषानुष्ठेयतया विविक्तावस्थानौ प्रवदन्ति व्याचक्षते नतु पण्डिताः परमार्थविदः | यत एकमपि सांख्यं योगं वा सम्यक् यथाप्रतिपादितेन रूपेण आस्तितः समाश्रितः सन् उभयोः द्वयोरपि साङ्ख्ययोगयोः फलं कैवल्यलक्ष्णं विन्दते लभते | किमुक्तं भवति | यथा उक्तसाङ्ख्यापरसंज्ञविज्ञानरूपं योगमन्तरेण फलपर्यवसायि न भवत्येव, योगोऽपि साङ्ख्यरहितस्तथैवेति || ४ || तदेव इह द्रढयितुमाह - यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरनुगम्यते | एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति || ५ || साङ्ख्येन ज्ञानेन संबद्धाः पुरुषा लक्षणया साङ्ख्या इति उक्ताः; तद्वत् योगसंबन्धात् योगाः | तैरेवंविधैः साङ्ख्यैर्यथोक्तज्ञानवद्भिः यत् स्थानं विश्रान्तिपदं प्राप्यते निरुत्तरोपेयतया समाश्रियेत्, तत् एव योगैरनुगम्यते पश्चात्कालतया स्वीक्रियते | ज्ञानपूर्वत्वादनुष्ठानस्य यत् सांखैः प्राप्यते, तद्योगैरनुगम्यते इत्युक्तं; न पुनः कैवल्यलक्षणिकफलसंपादने तुल्यहेतुत्वात् तयोर्भेदोऽस्ति | ततः साङ्ख्यं योगं चैकमेव यः पश्यति जानाति स एव पश्यति तस्यैव सज्ज्ञानात्मिका दर्शनशक्तिः, नतु यो ज्ञानेन केवलेनैव मोक्षः, कर्मयोगेन सर्वेण अपि बन्ध इति पश्यति || ५ || प्. ११९) तदाह - संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति || ६ || अयोगतः योगात् यथोक्तनीत्या कर्मानुष्ठानसमाधानात् विना संन्यासः पुनर्बन्धसंबन्धाभावफलः कर्मत्यागः प्राप्तुमासादयितुं दुःखं कृच्छ्रेण आप्यत इत्यर्थः | यस्मात् योगयुक्तः योगे कर्मसमाधौ युक्तो यथोक्तज्ञानैकतानतया नित्यसंबद्धः सन् मुनिः भूत्वा शीघ्रमेव ब्रह्म परमात्मलक्षणं परं तत्त्वम् अधिगच्छति आत्मतया समासादयति | किमुक्तं भवति | ज्ञाननिष्टत्वेन स्वकर्मानुष्ठानं मुनित्वकारणं ब्रह्मप्राप्तिलक्षणस्य फलस्य अच्छलाविसंवाद्युपायभूतत्वात्, नतु केवलं ज्ञानमात्रं सर्वात्मना कर्मत्यागानुपपत्तेस्तस्य अनुपायत्वादिति || ६ || कस्मात् योगयुक्तस्यैव ब्रह्म सुप्रापमित्याह योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || ७ || यतो योगयुक्तः कुर्वन्नपि कर्माणि न लिप्यते ततो न चिरेण ब्रह्म अधिगच्छतीति संबन्धः | तदेतत् व्याख्यायते -योगे ज्ञानकर्मसमुच्चयानुष्ठानसमाधौ युक्तस्तत्परतया नित्यसमाहितो योगी संसारिपुरुषाविशेषेण समाचरन्नपि स्वकर्म बन्धहेतुना तत्फलेन सुखाद्यात्मना न लिप्यते न मलिनात्मतां नीयते | यतोऽसौ विशुद्धात्मा अहंप्रत्ययैकलक्षणो यो निसर्गनिर्मलचिन्मात्रस्वरूप आत्मा तस्य तावती अशुद्धिर्यदनाद्यविद्यावशात् वेद्यैकस्वरूपे जात्यादिविविधावच्छेदभाजि प्रतिनियते देहमात्रे स्वात्मप्रतिपत्तिः, तदभावमात्रमेव अस्य विशुद्धिः, इत्थं विशुद्ध आत्मा यस्य, स तथाविधः सत्यस्वभावप्रतिष्ठिताहंभावतया प्राप्तस्वाभाविकप्रसाद इत्यर्थः | प्. १२०) ततश्च विजितात्मा जितेन्द्रियश्च अत्र आत्मेन्द्रियशब्दाभ्यां ज्ञानक्रियाप्रपञ्चो विवक्षितः | स उभयात्मापि विजितः स्वशक्तित्वेन स्वेच्छाविधेयप्रवृत्तिनिवृत्तित्वात् वशीकृतो येन, स पदद्वयेन तथोक्तः | एवं हि योगयुक्तः कर्मयोगी शुद्धात्मा सन् क्रियासु प्रवर्तमानोऽपि मन्यते - या इयमकृत्रिमप्रकाशात्मकस्वभावपरामर्शैकरूपा मम अव्यतिरिक्ता शक्तिः, स एव स्वेच्छानिर्मितज्ञेयकार्यस्वभावविषयप्रकाशनाय प्रसरन्ती ज्ञानक्रियाभेदेन द्विप्रकारतया अवभासते | तस्याश्च ज्ञानरूपो यो भेदः, सोऽन्तःकरणवर्गः, यः क्रियारूपः, स बहिष्करणवर्ग इति | सूर्यस्य यथा प्रभारूपा शक्तिः करणचक्रात्मना अवभासते, तथैव इयं मम स्वशक्तिरेव अन्तःकरणबहिष्करणभावेन विजृम्भते | नच प्रकाशमानत्वेन संबद्धैराभ्यन्तरबाह्यरूपैर्विषयैरेषा कलुषीकर्तुं पार्यते | नहि दिनकरकिरणाः प्रकाश्यैर्नीलपीतादिभिर्भावभेदैः स्वाभासेन उपरञ्जयितुं शक्यन्ते, स्वतन्त्रा एव तान् प्रकाशयन्ति | तथैव एतेऽपि अन्तःकरणबहिष्करणरूपाः शक्तिभेदा ममेति, एवं विजितात्मा जितेन्द्रियश्च | ननु एवमपि विशुद्धात्मतादिव्याख्यातविशेषणविशिष्टत्वं न उपद्यते कर्मयोगिनः | यतो विषयेषु प्रवृत्तिस्तेभ्यश्च निवृत्तिरुपादेयत्वं हेयत्वं च विना न संभवति, तत्संभवे च रागद्वेषकलङ्को दुर्निवारः, तस्मिन् सति कुतो विशुद्धात्मत्वादीति | अत्र परिहारार्थं हेतुगर्भं विशेषणमाह सर्वभूतात्मभूतात्मा इति सर्वाणि भूतानि अशेषाः स्थावरजङ्गमा विषयभावमापन्नाः पदार्थास्तेषामात्मभूतस्तत्स्वरूपत्वं प्राप्त आत्मा स्वभावो यस्य, स तथाविधः | किमत्र तात्पर्यम् | कर्मयोगी किल येषु विषयेषु अन्तर्बहिष्करणवृत्तिद्वारेण प्रवृत्तिनिवृत्ती भजते, तेषु तस्य यथोक्तज्ञाननिष्णातप्रज्ञत्वादेवंविधा प्. १२१) सुरस्थिर प्रतिपत्तिर्यथा य इमे चेतनाचेतनरूपाः पदार्था विषयभावमापन्नास्ते संवेद्यमानताव्यतिरेकेण न तत्तत्स्वरूपं प्रतिलभन्ते, ततः स्वसंविदेव तेन तेन रूपेण अवभासते, तत्त्वतो न एतत् वस्त्वन्तरं किञ्चिदिति परमेश्वरप्रसादापनीतमायातिमिरत्वादेकस्मिन् परमार्थसति आत्मतत्त्वे निर्वृत्ते निवृत्तद्वित्वावभासविभ्रमया सम्यग्दृशा सर्वमन्तःकरणवहिष्करणविषयात्मकं पदार्थजातं परमात्मस्वरूपादत्यन्तमभिन्नतया निभालयन् योगयुक्तः सहजासु शास्त्रविहितासु क्रियासु प्रवर्तमानो न शुद्धात्मत्वादिविशेषणव्यभिचारं भजते || ७ || तमेतं कर्मयोगिनः समाधिमासनप्राणजयप्रत्याहाराद्यभ्यासपरिकर्मनिरपेक्षं यथोपस्थितविषयसंस्पर्शेऽपि अविलुप्तपरवैराग्यं सर्वदा सर्वथा सर्वस्य सुलभपरमात्मप्रतिष्ठालाभलक्षणं निरतिशयरूपं फलं वितत्य प्रतिपादयितुमाह - नैव किञ्चित्करोमीति योक्तो मन्येत तत्त्ववित् | पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छञ्श्वसन्स्वपन् || ८ || प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || ९ || अतोऽसौ युक्तो व्याख्यातस्वरूपः कर्मयोगसमाहितः कुर्वन्नपि न लिप्यते | यतो नैव किञ्चित्करोमीति मन्यते सर्वासु क्रियासु लोकवत् वर्तमानोऽपि नैष्कर्म्यफलमेव प्रतिपद्यते इति संबन्धः | किं कुर्वन्नेवं मन्यते | पश्यन् इत्यादिना सर्वेन्द्रियवृत्तीः प्राणवृत्तीश्च प्रवर्तयन्नपि | इति धारयन् एवंविधामस्य कर्मयोगस्य यथोक्तफलप्रात्युपायभूतां धारणामुद्वहन् | कथं धारयन् | दर्शनादिक्रियासु प्रवृत्तान्यपि इन्द्रियाणि प्राणाश्च इन्द्रियार्थेषु स्वेषु स्वेषु विषयेषु वर्तन्ते संबन्धमात्रं तैरनुभवन्ति, नतु तेषु स्वविषयसंबद्धेषु नित्यनिरतिशयचित्प्रकाशस्वभावस्य प्. १२२) मम लोकवत् रागादिकलङ्कस्पर्शोऽन्तः संभवतीति | पश्यन् इत्यादिना निमिषन् इत्यन्तेन ग्रन्थेन सर्वेन्द्रियप्राणवृत्तयः संगृहीताः | तथाच बुद्धीन्द्रियवृतयः श्रवणस्पर्शनदर्शनरसनजिघ्रणरूपाः क्रममनपेक्षय पश्यन् इत्यादिना अश्नन् इत्यन्तेन पदपन्चकेन प्रतिपादिताः | एवमेव वचनग्रहणगमनविसर्गप्रजननरूपाः कर्मेन्द्रियवृत्तयः प्रलपन् गृह्णन् गच्छन् विसृजन् इति पदचतुष्टयेन प्रतिपादिताः | यतो विसृजन्निति पदेन विसर्गप्रजननरूपे द्वे वृत्ती प्रतिपादिते; स्वपन्नित्यनेन मनोवृत्तिः प्रतिपादिता, स्वापावस्थायां हि मन एव वृत्तिमनुभवति, नेन्द्रियाणि; उन्मिषन्निमिषन्नितिपदद्वयेन बुद्धिवृत्तिः प्रतिपादिता, निश्चयात्मिका हि बुद्धिवृत्तिरिति सा भावविषयत्वेन भवन्ती उन्मेषशब्देन उक्ता, अभावविषयत्वेन भवन्ती निमेषशब्देन | भावाभावौ हि बुद्धिवृत्तिरेव निश्चिनुते | अहङ्काररूपा तु वृत्तिः पश्यञ्शृण्वन्निति कर्तृतया व्यपदिष्टे पुरुषे एव वर्तते इति | एता अन्तर्बहिष्करणवृत्तयः | श्वसन्नित्यनेन प्राणवृत्तिः प्रतिपादिता | प्राणधारणमेव हि श्वसनमिति | तदिदमस्य वाक्यस्य तात्पर्यम् - यश्मिन् सर्वं --------------------------------- | ------------------------------------------------------ || इति व्याख्यातस्वरूपस्य परस्य तत्त्वस्य आत्मन एव परमेश्वरस्य तादृक्स्वभावपरामर्शमात्रात्मिका या शक्तिरव्यतिरिक्ता, सैव तदिच्छावभासितज्ञेयकार्यात्मकजगत्क्रीडनकविषयत्वेन प्रसरन्ती तन्मायाजनितविपर्ययदर्शनानां सांसारिकप्रुषाणां संग्रहेण ज्ञानक्रियारूपा अपि अन्तर्बहिष्करणप्राणवृत्तिभेदेन चतुर्दशमार्गप्रसृतत्वेन अवभासमाना संसारबन्धहेतुत्वेन पर्यवस्यति; प्. १२३) परमेश्वरानुग्रहादेव तु उन्मिषितपरिमृष्टद्वैतकलङ्कनिर्मलनिजज्ञानचक्षुषां सर्वव्यवहारव्यापृतानामपि यथोक्तस्वभावमात्रपरामर्शैकरूपतया यथोक्तकर्मयोगिनामवभासमाना परमात्मसमापत्तिलक्षणमोक्षफलप्राप्त्यर्थमेव कल्पते इति | अतो युक्तो नैव किञ्चित्करोमीति मन्यते इत्यादि उक्तम् || ९ || इदानीमेतदेव प्रकटयितुमाह - ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || १० || ब्रह्मणि परमात्मनि सर्वाणि क्रियमाणानि कर्माणि आधाय तच्छक्तित्वेन विनिवेश्य अत एव सङ्गं स्वरूपव्यतिरिक्तत्वेन अवभासमानेषु विषयेषु निमग्नचित्तत्वं लौकिकं त्यक्त्वा यथोक्तया ज्ञानदृशा परमेश्वरभावानुप्रविष्टो यः करोति सर्वाः क्रियाः समाचरति स लौकिकवत् पापेन कर्मफलरूपेण सुखाद्यात्मना न लिप्यते न कलुषीक्रियते अम्भसा सलिलेन निर्व्यवधानतया सुसंश्लिष्टमपि कमलदलमिव || १० || यत एवमतः - कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मसिद्धये || ११ || कायग्रहणेन कर्मेन्द्रियाणि, मनोबुद्धिग्रहणेन बुद्धीन्द्रियाणि अत्र गृह्यन्ते | एतैः केवलैः तद्विषयादहङ्काराद्यपरिग्रहात् विशुद्धैः पृथग्भूतैर्वा कर्मयथास्वं व्यापारं शास्त्रचोदनया शरीराद्यव्यभिचारितया च दुस्त्यजं योगिनः कर्मयोगसमाहिताः कुर्वन्ति अनुतिष्ठन्त्येव, किन्तु यथोक्तस्य सत्यस्य आत्मनः सिद्धयेऽहन्ताप्रतीतिनिष्पत्तये सङ्गं त्यक्त्वा कुर्वन्ति | किमुक्तं भवति | सङ्गत्याग एव संन्यासः, न कर्मत्यागः || ११ || प्. १२४) स च सङ्गत्यागः कर्मफलत्यागात् प्रबन्धप्रतिपादितात् भवतीत्याह - युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् | अयुक्तः कामकारेण फले सक्तो निबध्यते || १२ || यो ज्ञाननिष्ठतया कर्मणि युक्तः सन्ननभिसन्धानेन कर्मफलं त्यक्त्वा नैष्ठिकीं निष्ठायां परस्यां काष्ठायां स्थितां शान्तिं द्वैतप्रत्ययलक्षणक्षोभरहितसत्यात्मस्वरूपविश्रमात्मकं प्रशमं समधिगच्छति, यस्तु निसर्गदुस्त्यजे कर्मणि सर्वदा प्रवृत्तः सन् युक्तो न भवति यथोक्तेन क्रमेण समाहितो न भवति, सोऽवश्यमेव फलसङ्गित्वात् बध्यते संसारे नियम्यते || १२ || अथ एवंविधयोः कर्मयोगसंन्यासयोरध्यायेऽस्मिन् प्रबन्धेन प्रतिपादितयोरुपसंहारावसरे स्वरूपानुवादपूर्वं तदनुष्ठातुर्नैष्ठिकीं फलसिद्धिं स्फुटीकर्तुमाह - सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || १३ || इह मनःशब्देन बुद्धिरेव विवक्षिता | तत् च द्विविधं मनः लौकिकं, यिगिसंबन्धि च | तत्र अचिन्त्येश्वरमायाशक्तिवशादुद्भूतद्वैतप्रत्ययतिमिरमयं लौकिकं येन लोक एकमेव परमार्थसत्तत्त्वं नानात्वेन मन्यते, योगिसंबन्धि तु येन भगवदनुग्रहाविर्भावित विद्याशक्तिविमलीकृतेन योगिनः सर्वभावान् यथोक्तपरमात्मैकरूपतया मन्यन्ते | तदेवंविधमुभयात्मकत्वं मनसो मुनिनैव अनुगीतासु भगवद्वचसैव अर्जुनबोधायैव इतिवृत्तविरचनक्रमेण प्रदर्शितम् | यदाह - उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् | आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो || प्. १२५) मन इत्येव भगवांस्तदा प्राह सरस्वतीम् | अहं कामदुघा तुभ्यमिति तं प्राह वागथ || स तामाह - स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम | स्थावरं मत्सकाशे वै जङ्गमं विषये तव || इति | एवंविधेन सुस्थिरपरमात्मस्वरूपमननैकनिष्ठत्वात् स्थिरतया स्थावरशब्दोक्तेन परमेश्वराभ्याशवर्तिना मनसा अन्तःकरणेन सर्वकर्माणि चित्तवाक्कायनिर्वर्त्याः सर्वाः क्रियाः शास्त्रचोदिताः शरीराव्यभिचारिणीश्च संन्यस्य बन्धहेतुनानाफलाभिसन्धित्यागात् ब्रह्मण्येव निक्षिप्य तेनैव क्रमेण वशी जितात्मा स्वीकृतस्वभावः सन् कर्मयोगी सुखमास्ते जोषमवतिष्ठते निसर्गनिवृत्तनिखिलक्लेशसंपर्कनिरुत्तरानन्दमये स्वात्मनि विश्राम्यतीत्यर्थः | कीदृशः सन्नास्ते | अस्मिन्नेव पुरे देहे एव अधिष्ठानसामान्यात् गृहत्वेन निरूपिते, अत एव कीदृशे | नवद्वारे चक्षुः श्रोत्रघ्राणच्छिद्राणि षट्द्वाराणि दर्शनश्रवणजिघ्रणक्रियाप्रवृत्तिवर्त्मानि, तथा मुखपायूपस्थानि त्रीणि रसनविसर्गक्रियाप्रवृत्तिवर्त्मानीति नव द्वाराणि यस्मिंस्तत्र | अद्वयचिन्मात्रपरमात्मस्वभावविश्रान्तत्वात् सर्वाः क्रियाः सर्वाणि कार्याणि स्वरूपमात्रत्वेन प्रतिपद्यमानो न कुर्वन् इतरशरीरिवत् कर्माभिमानमननुभवन् | केचित् किल् प्रतिशरीरं भिन्नान् शरीरिणः स्वाभाविकेन प्रतिनियतेन कर्तृत्वेन युक्तान् मन्यन्ते, तथा न कारयन् न अन्यान् प्रयोजयन् | अपरे हि केचन सण्निधिमात्रेण जडायाः प्रकृतेः क्रियाप्रवृत्तौ प्रयोजकमात्मानं मन्यन्ते, अस्य तु उभयथा अपि कर्तृत्वं प्रतिषिध्यते | अयं हि परमात्मसमापन्नत्वात् न करोति न कारयति || १३ || प्. १२६) अत एव परमात्मस्वरूपं स्मारयन्नाह - नकर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || १४ || यस्मादद्वयचिनमात्रैकस्वभावप्रतिष्ठत्वात् प्रभुः ईश्वरः परमात्मा वास्तवेन रूपेण लोकस्य तन्मायामहिमोद्भावितपरस्परभेदस्य जीववर्गस्य न कर्तृत्वं तासु तासु क्रियासु प्रतिनियतासु प्रतिनियतफलासु नौष्ठातृत्वं सृजति नापि पुण्यपालक्षणानि कर्माणि असुअ कस्यचित् सृजति, नच सुखाद्यात्मकैस्तत्फलैः संबन्धम् | अतस्तत्स्वरूपसमापन्नः कर्मयोगी तादृश एव भवतीति पूर्वश्लोकेन संगतिः | ननु यद्येवं यथोक्तस्वरूपमात्रनिष्ठत्वादीश्वरो न करोति, न कारयति; तत् कुतोऽयं जग्द्व्यवहार इत्याह स्वभावस्तु प्रवर्तते इति स्वभावशब्देन प्रकृत्यप्रपर्याया मायाशक्तिरेव अचिन्त्यस्वरूपा उच्यते, सा प्रवर्तते अनन्तभावभेदोद्भूतविचित्रजगद्गन्धर्वनगरावभासनाय प्रसरति | सा हि वास्तवसर्वभावाभेदाख्यातिमात्रजीविता प्राक्प्रतिपादितया नियत्या सर्वमिदमाभासयति || १४ || एवमवभासमानमपि एतत् तत्त्वज्ञानदृशा परामृश्यमानं यथोक्तपरमात्मस्वरूपात् न व्यतिरिच्यते | ततः परमेश्वरस्य प्रतिनियतकार्यकर्तृत्वादिर्न वास्तवो धर्मः | तस्मात् मायाकृत एव बन्धमोक्षविभ्रमोऽयमिति प्रतिपादयितुमाह - नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः || १५ || ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः | तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || १६ || प्. १२७) विभुः यथाप्रतिपादितस्वरूप ईश्वरो न कस्यचित् जन्तोः परमार्थतः पापं बन्धकारणभूतं कल्मषम् आदत्ते अपहरति येन असौ जन्तुस्तदपहरणादपवर्गलक्षणम् श्रेयः प्राप्नोति | नच मोक्षकारणं सुकृतं कस्यचिदादत्ते येन असौ तदादानात् संसारबन्धलक्षणमश्रेयः प्राप्नोति | कस्तर्हि बन्धहेतुर्जन्तूनां मोक्षहेतुर्वेत्याह अज्ञानेन परमार्थिकपरमात्माभेदाप्रथनमात्रस्वरूपेण ज्ञानाभावेन मिथ्याज्ञानेन संतमसेन इव पदार्थस्वरूपं ज्ञानं यथाप्रतिपादिततत्त्वप्रथनात्मन्को बोध आवृत्तं संप्रति तिरस्कृतम् | तेन हेतुना सर्वप्राणिनः मुह्यन्ति शरीरादावात्मप्रतिपत्तिग्रहणलक्षणविपर्ययज्ञानमयदृष्टयो बन्धमनुभवन्ति || येषां पुनः तत् यथाप्रतिपादितम् अज्ञानं यथोक्तेन आत्मनः ज्ञेयस्य तत्त्वस्य ज्ञानेन नाशितम् अपध्वंसितं, तेषां परमेश्वरानुग्रहात् यथोक्तकर्मयोगसंन्यासानुष्ठानाधिकृतानां योगिनां तत् ज्ञानं परं प्रकृष्टमुपेयं परमात्मस्वरूपलक्षणं वस्तु प्रकाशयति प्रथयति | कथम् | आदित्यवत् यथा आदित्यो भगवान् समयाभुदितः सन् दुर्निवारमपि सान्द्रमन्धकारं प्रभामात्रेण पर्यस्य दृश्यं वस्तु सर्वं निःसंशयतया प्रकटीकरोति, तथैव ज्ञानमीश्वरानुग्रहेच्छावसरोन्मिषितं सत् स्वरूपतिरोधानकारणमज्ञानं तिरस्करोतीति उपमानार्थः || १५, १६ || तदेवंविधं यत् परवस्तुप्रकाशकमज्ञानप्रध्वंसकं च ज्ञानं, तदभ्यासफलप्रतिपादनाय आह- तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धौतकल्मषाः || १७ || बुद्धिर्नानाभूतबोध्यवस्तुसाधनभूतं कारणं प्राधान्यात्, तया प्. १२८) समस्तः करणवर्ग उपलक्षितो बोद्धव्यः, आत्मशब्देन च बोद्धा पुरुष उच्यते इति | तत्र यथोक्ते ज्ञाने एव पर्यवसिता बुद्धिर्येषां, ते तद्बुद्धयः तथा तत्रैव ज्ञाने आत्मा येषां, ते तदात्मानो यथोक्तज्ञाननिष्ठाहंप्रतीतय इति सकललोकव्यवहारनिबन्धनं बुद्ध्यात्मलक्षणं द्वयमद्वैतज्ञानमयं येषां, ते तथाविधाः | तथा निष्ठाशब्देन परमोपेयवस्तुसीमा अत्र उच्यते, परायणशब्देन च तत्प्राप्त्युपायो विवक्षितस्तत् परोऽययते येनेति | तत् ज्ञानं यथोक्तं निष्ठा येषां, ते तन्निष्ठाः तदेव परायणं येषां, ते तत्परायणाः इति उपेयोपायलक्षणद्वयं योगिव्यवहारविषयं यथोक्तज्ञानात्मकमेव येषां, ते एवंविधास्तत्त्वज्ञाननिबन्धनसकलसंसारापवर्गविषयपदार्थस् आर्थाः, अत एवंविधेन ज्ञानेन निर्धौतं निःशेषेण प्रक्षालितमज्ञानरूपं कल्मषं पापं येषां, ते तथाविधा योगिनः अपुनरावृत्तिं गच्छन्ति अभूयःसंभवं मोक्षमाप्नुवन्तीत्यर्थः || १७ || अथ ईदृशानां योगिनां सकललोकविलक्षणां चित्तवृत्तिं प्रतिपादयितुमाह - विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || १८ || विद्याशास्त्रं, विनयस्तदर्थानुष्ठानविषयो नियमविशेषस्ताभ्यां सपन्नः संबद्धो यो ब्राह्मणस्तस्मिंस्तथा गवादिषु तिर्यक्षु भयाहारमैथुनमात्रपर्यवसितसर्ववृत्तिषु तथा श्वपाके मनुष्यभावेऽपि तिर्यक्प्राये पण्डिताः यथोक्ततत्त्वज्ञानप्रबुद्धाः समदर्शिनः समं सामान्यमेकमशेषविशेषणासंस्पृष्टस्वभावं चिन्मात्रं द्रष्टुं प्रतिपत्तुं शीलं येषां, ते तथाविधाः | किमनेन उक्तं भवति | ये समुज्जृम्भितदिव्यज्ञानचक्षुषस्ते मायोपहतदृष्टिभिर्नानात्वेन प्. १२९) परिदृश्यमानं समस्तं भावजातं ब्रह्मैकरूपतया नित्यमालोकयन्ति | नच एवं मन्तव्यं, यथा ते ब्राह्मणादौ विहितं समाचारं श्वपचादिषु प्रयुञ्जते, श्वपचादिषु विहितं ब्राह्मणादिष्विति विकर्मणि स्थिताः सन्तः पारमेश्वरीं जगद्व्यवस्थां व्युत्थापयन्ति | ते हि यथा स्थितमेव जगद्भावविस्तारं ब्रह्मात्मकं पश्यन्ति, नतु व्युत्थानमाचरन्तीति || १८ || तामेव समदर्शितां विवृणोति - न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः || १९ || यो ब्रह्मवित् आगमतो यथोक्तब्रह्मतत्त्ववेदी स्थिरबुद्धिः प्रबलैरपि विकल्पैरप्रकम्प्यमतिरत एव असंमूढः हेयोपादेयवस्तुनोरसन्दिग्धबुद्धिः सन् तस्मिन् शास्त्राधिगते ब्रह्मणि परमात्मनि स्थितं सततपरिशीलनात् विश्रान्तः, स प्रियाप्रियप्राप्त्या प्रहर्षोद्वेगौ विषमदर्शित्वपिशुनौ संसारिपुरुषोचितौ न भजते | ततो ब्राह्मणगवादिषु पण्डिताः समदर्शिन इति उक्तम् || १९ || ईदृशे च ब्रह्मणि स्थितिः सर्वथा बाह्यविषयपरिहारेणैव भवतीति केवलज्ञानवादिनां पक्षः | स पूर्वोक्तोपपत्त्या न संभवति, कथंचित् वा संभवन्नपि सच्छूल इति शास्त्रविहितविषयतयैव ब्रह्मणि स्थित्र्निर्विप्लवेति समुच्चयपक्षमेव निर्वाहयितुमाह - बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यः सुखम् | स ब्रह्म योगयुक्तात्मा सुखमव्ययमश्नुते || २० || आत्मनि परस्मिन् तत्त्वे स्वभावसिद्धं यत् सुखं नित्यानन्दलक्षणो धर्मस्तत् बाह्यस्पर्शेषु इदन्तावधार्येषु शब्दादिषु अविरुद्धेषु असक्तात्मा सम्यग्ज्ञानवशादात्मैकनिष्ठत्वे सति अनिमग्नान्तः करणो यो योगी विन्दति उपलभते स योगयुक्तात्मा योगे कर्मसमाधौ युक्तात्मा प्. १३०) ज्ञाननिष्ठतया नित्यावहितान्तःकरणः सुखम् अक्लेशेन अव्ययम् विच्छिन्नं कृत्वा ब्रह्म परमकारणम् अश्नुते स्वात्मतया व्याप्नोति || २० || कथं बाह्यस्पर्शेषु आत्मवर्ति सुखं योगी न विन्दतीति प्रतिपादयितुमाह - ये हि संस्पर्शजा भोगा दुःखयोनय एव ते | आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः || २१ || हिशब्दो हेतौ | यस्मात् ये संस्पर्शजाः शब्दादिविषयसंपर्कजन्मानो भोगाः कामाः ते जन्मविनाशयक्तत्वादनित्याः सन्तः प्राप्तेषु सत्सु वियोगजस्य दुःखस्य अव्यभिचारादप्राप्तेषु च प्रार्थनात्मकस्य दुःखस्य अव्यभिचारात् दुःखयोनय एव दुःखमेव ते जनयन्ति | ततः तेषु भोगेषु बुधः ज्ञानवान् न रमते न प्रीतिमनुभवति | किमनेन उक्तं भवति | कर्मयोगी सत्यं संसारिपुरुषवदिन्द्रियैर्विषयान् भजते नतु तज्जनितेन सुखेन असौ सुखितो भवति | स हि स्वाभाविकमात्मवर्ति सुखमनुभवतीति || २१ || बुधस्य एवंविधस्य एव योगित्वं च सुखित्वं च प्रतिपादयितुमाह - शक्नोतीहैव यः सोढुं प्राक् शरीरविमोचनात् | कामक्रोधोद्भवं वेगं स योगी स सुखी मतः || २२ || य इहैव अस्मिन् शरीरे तिष्ठन् तदव्यभिचारविषयसंबन्धवशात् रागद्वेषादिजं संरम्भमात्मैकनिष्ठतया सोढुम् अवधारयितुं देहत्यागादर्वागेव शक्नोति प्रभवति स योगी समाहितः | स च सुखी निरुत्तरानन्दलक्षणसमाधिफलवान् | यतस्तत्त्वविदोऽन्ये हि केवलज्ञानवादिनो विषयेभ्यः पलायमाना योगमभ्यस्यन्ति | तेषामन्तरप्रेप्सुषु तेषु आततायिषु सत्सु इहैव देहे दुर्लभो प्. १३१) योगस्तत्फलं चेति यदि परं ते देहत्यागे तदवाप्स्यन्ति | यस्तु कर्मयोगी सत्सु एव विषयेषु अविलुप्तात्मस्थितिः; स जीवन्नेव मुक्त इति स एव योगी, स एव सुखीति उक्तम् || २२ || अत एव तत्स्वरूपमाह - अन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः | स पार्थ परमं योगं ब्रह्मभूतोऽधिगच्छति || २३ || सुखं तत्तत्क्रियाफलभूता निर्वृतिः, आरम्यतेऽस्मिन्निति आरामः सुखानुभवाधिकरणं, ज्योतिस्तदुभयव्यक्तिहेतुः प्रकाशः, तत् त्रितयमपि अन्तरात्मनि एव यस्य स तादृशः सर्वत्र संवेद्यमाने वस्तुनि विगलितानात्मप्रत्ययोऽत एव ब्रह्मभूतो ब्रह्मपरमात्मस्वरूपं प्राप्तः परमं योगं निरुत्तरं समाधिम् अधिगच्छति प्राप्नोति || २३ || यस्मात् - लभन्ते ब्रह्म निर्वाणमृषयः क्षीणकल्मषाः | छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः || २४ || ये महात्मानः छिन्नद्वैधाः त्रुटितद्वैतप्रत्ययात्मकसंसारबन्धशृङ्खला यतः क्षीणकल्मषाः विनष्टाखिलाज्ञानमयमहापातका ऋषयः सम्यग्दर्शिनः, अत एव स्वरूपव्यतिरिक्तं वस्तुजातमपश्यन्तः, सर्वभूतानामात्मन इव हितेऽनुकूले वस्तुनि रताः अभिनिविष्टास्ते निर्वाणं तापत्रयेण असंस्पृष्टत्वात् प्रशान्तं ब्रह्मपरं तत्त्वं लभन्ते प्राप्नुवन्ति, नतु ये व्यतिरिक्तत्वेन विषयान् मन्यमानास्तेभ्यः पलायन्ते | ते हि द्वैतबन्धादनिर्मुक्ता एव || २४ || एतदेव विशिनष्टि - कामक्रोधविमुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनाम् || २५ || प्. १३२) ये रागद्वेषादिदोषरहितत्वेन यतचेतसो निगृहीतान्तःकरणाः, नतु विषयवियुक्तत्वेन; तेषां विदितात्मनां विज्ञातपरमकारणस्वरूपाणां मुख्यलक्षणयुक्तानां यतीनां परमयोगिनां यथोक्तं निर्वाणं ब्रह्म अभितः सांमुख्येन वर्तते || २५ || ततो नैष्कर्म्ययोगिनः सकाशात् कर्मयोगिनो विशेषं प्रतिपादयितुमाह - स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || २६ || यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः | विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः || २७ || यः एवंविधो मुनिः यतिः सन् मोक्षपरायणः मोक्षं परमेति तत्प्राप्तिकामः, नतु मुक्तो हेयोपादेयवस्त्वालम्बनचित्ततया रागद्वेषादिदोषावियोगात्; यस्य तु इच्छाभयक्रोधाः पूर्वव्याख्याता दुर्वाराश्चित्तदोषाः सदा नित्यमेव निसर्गनिर्दोषस्वात्ममात्रप्रतिष्ठत्वात् विशेषेण अपुनरावृत्तिलक्षणेन गताः प्रध्वस्ताः, स तादृशः कर्मयोगी मुक्त एव यतोऽस्य आत्मनः सामान्यसंविल्लक्षणा स्वभावशुद्धा शक्तिर्यदा मायावशात् स्वरूपाविमर्शिनी सती नादेहाद्यहंप्रत्ययनिरुद्धा हेयोपादेयवस्त्वनुसारिणी विषयित्वमनुभवति, तदा रागादिदोषोपरक्तं चित्तमिति सैव उच्यते; यदा तु तैर्दोषैर्विद्यावशात् वियुज्यते, तदा नित्यानन्तनिरुपमनैर्मल्यैकलक्षणं स्वरूपं प्रतिपद्यमाना संविन्मात्ररूपैव अवशिष्यते | तदुक्तं चित्तमेव हि संसारो रागादिक्लेशदूषितम् | तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते || इति | तदेवं सत्स्वेव विषयेषु रागादिदोषोन्मेषशून्यत्वात् परमात्मसमापन्नः कर्मयोगी जीवन्नेव मुक्तः | यस्तु एतद्व्यतिरिक्तलक्षण प्. १३३) एवंविधो योगी, स यदि परं मोक्षप्रवण एव; नतु मुक्तः | कीदृशः यतेन्द्रियमनोबुद्धिः यतानि निगृहीतानि इन्द्रियाणि करणानि मनश्चित्तं संकल्पात्मकं बुद्धिरध्यवसायात्मिका येन स तादृशः | किं कृत्वा एवंविधः | बाह्यान् ग्राह्यत्वेन व्यतिरिक्तान् शब्दादीन् स्पर्शान् इन्द्रियैः स्पृश्यमानत्वात् स्पर्शशब्दवाच्यान् विषयान् बहिः कृत्वा | इन्द्रियैरग्रहणेन चेतसो व्यतिरिच्येत्यनेन विशेषणेन इन्द्रियाणां विषयेभ्यः प्रत्याहारलक्षणं योगाङ्गं प्रतिपादितम् | तेन च पूर्वभावीनि आसनप्राणजयदीनि अङ्गानि आक्षिप्तानि | अन्यत् किं कृत्वा | भ्रुवोरन्तरे भ्रूमध्ये चक्षुः दर्शनशक्तिं कृत्वेत्यनेनापि धारणालक्षणं योगाङ्गमुक्तम् | भ्रूमध्यलक्षणे देशे तेजोमात्रालम्बनतया चित्तस्य बन्धो हि अनेन उक्तः | किंच नासाभ्यन्तरचारिणौ नासायाः सव्यापसव्यनाडीद्वयात्मकस्य मुखावयवस्य अभ्यन्तरे चरितुं शीलं ययोस्तौ तथाविधौ प्राणापानसंज्ञौ शारीरौ मारुतौ समौ यौगपद्येन तुल्यरूपतया वहनात् समानौ संपाद्येत्यएन एकाग्रबुद्धिसंपाद्यं ध्यानलक्षणं योगाङ्गमुक्तम् | एकवस्त्वालम्बने हि अन्तःकरणे ध्यानसंपत्तिः, तद्बलात् विषुवद्गतिं प्राणापानौ समाश्रयत इति त्रिविधेन कर्मणा यतेन्द्रियमनोबुद्धिर्योगी प्रत्याहारधारणाध्यानपर्यन्तं योगाङ्गं कर्म प्राप्तो भवति, नतु बुद्धेरत्यन्ततिरोधानाभावात् समाधिमसावधिरूढः | स हि अस्य देहविमुक्तिं विना न सिध्यति आदेहस्थितेर्बुद्धिवृत्तिसंस्कारशेषस्य सत्त्वाभ्युपगमात् | एवं चित्तवृत्तिनिरोधलक्षणयोगाभ्यासनिष्ठस्य योगिनः सकाशात् सदा स्वरूपप्रतिष्ठसंवित्कर्मयोगी विशिष्टः प्रतिपादितः || २७ || स हि - भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || २८ || प्. १३४) मां निर्वाणं ब्रह्मशब्देन उक्तमनुत्तरमुपेयं परमात्मानं ज्ञात्वा आत्मत्वेन प्रतिपद्य शान्तिं निःशेषविकल्पक्षोभविरतिलक्षणां निर्वृतिम् ऋच्छति गच्छति मत्स्वरूपज्ञानादेव मुच्यत इत्यर्थः | कीदृशं मां ज्ञात्वा | यज्ञतपसां भोक्तारम् इह नानायज्ञतपः प्रभृतयः क्रियाः शास्त्रेण अनुष्ठेयतया चोदिताः | तासामज्ञानमोहिता अनुष्ठातारः परस्परभिन्नमात्मानं तत्तत्फलभोक्तारं मन्यन्ते, परमार्थविदस्तु कर्तृभेदाभावात् सर्वक्रियाफलानामहमेवैकः कर्ता च भोक्ता चेति यज्ञतपसां भोक्तार्म् | तथा सर्वलोकमहेश्वरं सर्वस्य कस्यचित् जन्तुजातस्य क्रीडामात्रप्रयोजनतया स्वेच्छामात्रेणैव नानात्वेन अवभासितस्य मेह्श्वरं तासु तासु क्रियासु एकविनियोक्तृत्वात् परमं प्रभुं, तथा परमार्थतो भेदाभावात् सर्वेषां भूतानां सुहृदं सर्वदा निसर्गनिर्दोषस्वात्ममात्रप्रतिष्ठितत्वात् न कस्यचित् द्विष्टं, नापि अनुरक्तम् | एवंविधं मां ज्ञात्वा मद्वदेव कर्मसु प्रवर्तमानः कर्मयोगी शान्तिं मुक्तिमाप्नोतीति पूर्वस्मात् योगिनो विशिष्टत्वमेव अस्य प्रतिपादितमिति || २८ || यत्रैकतां यमुनया गगनापगेव संन्यासधीरुपगता सह योगबुद्ध्या | अध्यायमेनमभिगच्छत सर्वतीर्थ- सारं प्रयागमिव पञ्चममात्मसिद्ध्यै || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे पञ्चमोऽध्यायः || ५ || अथ षष्ठोऽध्यायः | आत्मज्ञानविहितकर्मसमुच्चयानुष्ठानरूपस्य सकलप्रकरणसिद्धान्तस्य प्रथमेन अध्यायेन प्रस्तावनामात्रमुपक्रान्तं, द्वितीयेन ज्ञानकर्मणोः स्वरूपमुपदर्शितं, तृतीयेन तयोरेव ज्ञानकर्मणोर्भिन्ननुष्ठातृविषयत्वभ्रान्तिरपाकृता, चतुर्थेन एवंविधसमुच्चयानुष्ठानरूपस्य योगस्य परस्मात् कारणात् प्रवृत्तिरुपदर्शिता, कर्मणश्च नानारूपत्वं; पञ्चमेन ते एव ज्ञानकर्मणी संन्यासयोगाविति प्रदर्शितम् | इदानीं तयोर्ज्ञानकर्मणोः समुच्चयेन अनुष्ठातव्यतया उपदिष्टयोः किं सर्ववर्णाः सर्वाश्रमिणश्च अधिक्रियन्ते, उत नियताः केचनेति संशयनिरासार्थं सर्वसाधारण्यमस्य प्रतिपादयितुमध्यायान्तरेण आह - श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | स संन्यासी च योगी च न निरग्निर्न चाक्रियः || १ || कर्मफलं तस्य तस्य कर्मणो यज्ञादेः क्रियमाणस्य फलं स्वर्गादिभोगात्मकम् अनाश्रितः अनभिसन्धानादनालम्बितः सन् यः पुमान् कार्यं शास्त्रेण कर्तव्यमिति वर्णाश्रमनियमेन चोदितं कर्म करोति अनुतिष्ठति स संन्यासी त्यागवान् योगी च समाहित उच्यते | तेन सर्ववर्णाः सर्वाश्रमिणश्च अत्र मोक्षफलसमुच्चयानुष्ठानेऽधिकृता इति उक्तम् | कर्मफलानभिसन्धानमात्रं च संन्यासलक्षणं, तद्वच्च विहितकर्मानुष्ठानं च योग इति संग्रहेण सकलप्रकरणप्रतिपाद्योऽर्थः सिद्धान्तीकृतः | ततश्च यथाप्रतिपादितात्मज्ञानैकतानान्तःकरणतया व्यतिरिक्तसुखात्मकफलनिरभिकाङ्क्षः सन् रागादिदोषनिर्मुक्तस्वभावत्वादधिकारकालात् प्. १३६) प्रभृति प्रस्तुतं कर्म योऽनुतिष्ठति, स ब्राह्मणोऽस्तु क्षत्त्रियो वैश्यः शूद्रो वा ब्रह्मचारी गृहस्थो वानप्रस्थो यतिर्वा, स एव संन्यासी योगी च भवति; न पुनः निरग्निः एव अक्रियः एव वा | निरग्न्यक्रियशब्दाभ्यां ब्रह्मचारी यतिश्च लक्ष्यते | यतः केचित् अनयोरेव आश्रमयोरपर्यालोचितपरमार्थत्वात् नैष्कर्म्याभिमानिनो हेतुत्वं मन्यमाना ब्रह्मचारियत्योरेव संन्यासितां योगितां च प्रतिजानते | यो हि ब्रह्मचर्यादेव परिव्राजकधर्ममाश्रितः, स दारपरिग्रहाभावादनाहिताग्निः सन् मूलादेव परिहृतयज्ञादिक्रियो ब्रह्मचारी एकः संन्यासी च योगी च तेषां मतः; यो वा आश्रमत्रयानुष्ठिताः स्वाध्याययागदानाध्यापनयाजनप्रतिग्रहादिकाः सकलाः क्रियाः परित्यज्य निराशिषमाश्रममाश्रितः, स यतिर्द्वितीयः संन्यासी योगी च तेषां मतो द्वयोरपि अनयोरेव बन्धहेतूनां क्रियाणां त्यागे सति मोक्षफलभागित्वात् || १ || तदेतत् केवलज्ञानवादिमतमनुपपन्नमेवेति प्रतिपादयितुमाह - यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन || २ || एते ज्ञानमात्रवादिनः संन्याससंज्ञया नैष्कर्म्यरूपं यम् अर्थं कथयन्ति तंयोगं कर्मानुष्ठानमेव त्वं जानीहि | यस्मात् संन्यासं विना योगस्तेषु नास्ति, किन्तु स संन्यासः संकल्पस्य फलाभिलाषस्य एव उपपद्यते, नतु कर्मणः सर्ववर्णेषु सर्वाश्रमेषु च कर्माविरहात् | यौ किल यतिब्रह्मचारिणौ परित्राजकौ कर्मत्यागित्वेन अभिमतौ, तौ गृहस्थवानप्रस्थोचितं कर्म त्यजतः; स्वं तु यतित्वादिसिद्धिकारणं कंचित् कर्मविशेषमनुतिष्ठत एव | यथेष्टाचरणे हि तयोर्विकर्मस्थतैव पर्यवस्यति | तस्मात् संकल्पमात्रसंन्यासित्वात् संन्यासित्वं सिध्यतीति योगी यः सर्वदा सर्वथा स्वानन्दामृतनित्यतृप्तपरमात्मलक्षणे प्. १३७) ब्रह्मणि प्ररूढाहंप्रत्ययतया संन्यस्तकर्मफलसंकल्पः, स योगी कर्मणि समाधिमान् भवति, न अन्य इति || यथोक्तयोः संन्यासयोगयोरेकपुरुषानुष्ठातृनिष्ठयोः सर्वे वर्णाः सर्वाश्रमिणश्च अधिकृता अनेन श्लोकेन प्रतिपादिताः, किन्तु अनुष्ठातुर्यथोक्तयोगविषया आरुरुक्षावस्था च संभवतीति तत्कृतं तस्य भेदं प्रतिपादयितुमाह - आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यते || ३ || मुनेः झगिति प्राप्तमात्रज्ञानत्वात् मनननिष्ठस्य अनुष्ठातुर्यथोक्तं योगमारुरुक्षोः आरोढुकामस्य तत्र निर्विप्लवां प्रतिष्ठां लिप्समानस्य कर्म वर्णाश्रमक्रमागता सा सा क्रिया कारणं योगारोहहेतुः | तस्यैव तथाविधस्यैव कारणभूतं कर्म अजहत एव पश्यञ्शृण्वन् स्पृशञ्जिघ्रन् ----------------------- | (५|८) इत्यादिना पूर्वोपदिष्टनिर्व्यवधाननित्याभ्यासवशात् योगारूढस्य योगे लब्धप्रतिष्ठचित्तत्वे परमात्मसमापन्नस्य शमः संकल्पविकल्पक्षोभक्षयः कारणं प्रयोजकं निमित्तम् | किमुक्तं भवति | आगममात्रेण प्राप्तोपदेशस्य प्राथमकल्पिकस्य योगिनो योगप्रतिष्ठालाभोत्सुकस्य अपि तत्प्राप्तिकारणं कर्मैव उपेयतया वर्तते | तस्मिंश्च श्रद्धादराभ्यां सम्यगनुष्ठिते, ज्ञाने च प्रसादकाष्ठां प्राप्ते तत्कर्म अत्यजत एव शमः परमोपेयत्वात् कारणं संपद्यते || ३ || अत एव प्रशान्तस्य योगारूढस्य लक्षणमाह - यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते | सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते || ४ || यदा हि यस्यामेव अवस्थायां इन्द्रियार्थेषु अविरुद्धेषु विषयेषु इन्द्रियैः स्पृश्यमानेषु अपि कर्मसु वा तत्प्राप्तिहेतुषु यज्ञतपः प्रभृतिषु प्. १३८) क्रियमाणेषु अपि नानुषज्जते सहजानन्दतृप्तत्वात् न आसक्तिं भजते, केवलं पवन इव पदार्थजातं स्पृशन्नपि स्वभावव्योमप्रतिष्ठ एव भवति; तदा सर्वेषां संकल्पानां फलाभिसन्धीनां संन्यासित्वात् त्यागित्वात् योगारूढः योगे कर्मसमाधावारूढो लब्धप्रतिष्ठः उच्यते | तदेवंविधस्य परमप्रशान्तब्रह्मसमापत्तिकारणस्य योगारूढत्वस्य न आत्मव्यतिरेकेण बाह्यं किञ्चित् साधनं भवितुमर्हति || ४ || अतः - उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || ५ || बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः | अजितात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् || ६ || जितात्मनः प्रशान्तस्य परात्मसु समा मतिः | शीतोष्णसुखदुःखेषु तथा मानावमानयोः || ७ || दुर्वारद्वैतप्रत्ययपवनपरिक्षोभितभीषणविकल्पकल्लोलसहस्र संकुलापारगम्भीरभवसागरनिमग्नम् आत्मानं स्वभावम् आत्मनैव यथोक्तज्ञानोपदेशप्रत्युदितोत्साहेन उद्धरेत् यथोक्तयोगलक्षणं तीरदेशमारोपयेत्, नतु एनं विस्मृतस्वबलतया उपेक्षितं तत्रैव अवसादयेत् मज्जयेत् | यतोऽस्य उद्धरणावसादहेतुतया उपकारी प्रतिकूलश्च आत्मैव न अन्यः | कथमित्याह तस्य पुरुषस्य संबन्धिनः आत्मनः आत्मैव स्वभाव एव बन्धुः सर्वापत्प्रतीकारकृत् स्वजनः | यदुक्तं आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् | कोऽन्यो हिततरस्तस्माद्य एनं वारयिष्यति || इति | कस्य आत्मैव बन्धुः | येन पुरुषेण स आत्मा स्वस्वभावः प्. १३९) आत्मनैव ज्ञानामृताभ्यवहाराभ्यासलब्धबलेन जितः प्रविमर्शगोचरापादानात् वशीकृतः | येन तु असावात्मा प्रमातृपरेण सता उपेक्षितः सन् न जितो न वशीकृतः, तस्य तथाविधस्य अयं शत्रुत्वे सर्वेच्छाव्याघातकारित्वे वर्तते | तथा च उक्तं न तत्कुर्यादसिस्तीक्ष्णः सर्पो वाथ विषोल्वणः | अरिर्वा नित्यसंक्रुद्धो यदात्मा दुरधिष्ठितः || इति | यथोक्तस्य आत्मजयस्य फलमाह - जितो यथोक्तेन प्रकारेण वशीकृत आत्मा येन तस्य जितात्मनः अत एव प्रशान्तस्य स्वस्वभावनिर्दोषपरमात्मसमापत्तिवशात् निवृत्तविकल्पविप्लवस्य परेषु व्यतिरिक्तत्वेन प्रतिपन्नेषु सर्वदेहिषु तथा आत्मनि अहन्ताप्रतीयमाने तुल्या सामान्यसंविदेकस्वरूपग्राहिणी मतिः भवति, तथा शीतोष्णसुखदुःखादिषु बाह्याभ्यन्तरनिमित्तजेषु द्वन्द्वोपप्लवेषु, तथा परेण प्रयुज्यमाने माने पूजायां, तथा अवमाने पराभवे तथैव समाना मतिर्भवति | न तस्य सर्वगतादेकस्मात् स्वभावनिर्विकारात् परमात्मनोऽहंप्रतीतिर्व्यतिरिच्यते, नानाविधेषु विकारकारणेषु उपस्थितेषु अपि तस्य सत्ये स्वात्मनि अनुसन्धानं लोकवत् न विच्छिद्यते इत्यर्थः || ७ || स च एवंविधो योगारूढ उच्यते इत्याह - ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः | युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः || ज्ञानं शास्त्रतः स्वरूपावगममात्रं, विज्ञानं शास्त्रावगतस्य तत्त्वस्य, साक्षात्कारः, ताभ्यां तृप्तो निराकाङ्क्षः आत्मा स्वभावो यस्य स तथा, अत एव कूटस्थः प्राप्तपरमार्थसत्त्वनित्यात्मप्रत्ययत्वात् कूटस्थः शैलादिवत् निष्प्रकम्पो यतो विजितेन्द्रियः वशीकृतबाह्यान्तःकरणः, नतु तद्वशः; एवं लोभादिदोषरहितत्वात् प्. १४०) समौ लोष्टाश्मानौ मृत्पिण्डपाषाणौ काञ्चनं च हेम यस्य, स तथाविधो युक्तः योगारूढ उच्यते || ८ || सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ९ || यस्य सुहृदरिप्रभृतिषु प्रीतिद्वेषहेतुषु नानाविधेषु अन्योन्यभिन्नरूपेषु जन्तुषु समा ब्रह्मलक्षणनिर्विशेषैकतत्त्वदर्शित्वादेकरूपा बुद्धिः, स विशिष्यते नैष्कर्म्ययोगिनः सकाशात् प्रकर्षं लभते | स हि यत् वस्तु समाधिप्रतिपक्षत्वात् परिहरति, यच्च तदानुगुण्यात् स्वीकुरुते, ताभ्यां द्वेषप्रियाभ्यां द्वेषरागदोषै प्रकाश्येते | यस्तु सर्वसाम्यं प्राप्तः, स क्रियासु वर्तमानोऽपि समबुद्धित्वात् ब्रह्मभूत एवेति विशिष्यत इति उक्तम् | सुहृदादीनां भेदो व्याख्यायते- सुहृत् यः स्वभावतः शोभनहृदयः, मित्रं मैत्रीकरणनिर्वृत्तसौहृदम्, अरिः शत्रुः कारणवशात् द्वेष्टा, द्वेष्यस्तु विनापि कारणमप्रियः, उदासीनः न मित्रं न शत्रुः, मध्यस्थो यः केनापि प्रकारेण मित्रत्वममित्रत्वं च आश्रयितुमर्हति, बन्धवो ज्ञातयः, साधवः शास्त्रोदितसदाचारनियताः, पापास्तद्विपरीता दुष्टाचारसंकल्पाः | तेषु सर्वेषु समबुद्धित्वमस्य कर्मयोगिन एव बोद्धव्यम् - यत् शत्रुभावं प्रतिपन्नेषु शास्त्रचोदितत्वात् न्याययवधादिकर्मप्रवृत्तावपि निर्विकारैकात्मनिष्ठत्वम्, नतु शत्रौ शास्त्राविहितत्वादन्यायया मित्रप्रवृत्तिः | यद्येवमभविष्यत्, तत् तत्र आत्मज्ञानमर्जुनस्य उपदिश्य तस्माद्युध्यस्व इति उपसंहारे न अभ्यधास्यत | तस्मात् कर्मयोगिनस्तत्र तद्वर्णाश्रमक्रमागतां तां तां शास्त्रचोदितां क्रियामनतिक्रमत एव सर्वभावसाम्यभावना अत्र विवक्षिता || ९ || अत एव आह - इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः || १० || प्. १४१) इहैव अस्मिन्नेवंविधक्रियाकारिणि शरीरे वर्तमानैः तैः सर्गः पुनर्भवो जितः अधःकृतः, येषां यथाप्रतिपादिते साम्ये सर्वभावाभेदे मनः चित्तं स्थितं लब्धप्रतिष्ठम् | ब्रह्म एकं हि वैषम्यकारणभूतरागादिरहितत्वात् निर्दोषम् अतस्तदेव समं सर्वथा सर्वदा सर्वत्र विशुद्धसंविन्मात्रैकस्वरूपम् | तस्मात् ये साम्ये स्थिताः ते ब्रह्मणि एव स्थिताः इति उक्तम् || १० || यथोक्तसाम्यानतिक्रमसमाहितस्य चित्तवृत्तिनिरोधलक्षणमपि योगमितरक्रियावदहोरात्रम्ध्ये व्यवस्थिताभ्यासकालं विशिष्टेतिकर्तव्यतान्वितमपि कर्मयोगिनः श्लोकषट्केन अभ्यनुजानन्नाह - योगी युञ्जीत सततमात्मानं रहसि स्थितः | एकाकी यतचित्तात्मा निराशीरपरिग्रहः || ११ || शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || १२ || तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || १३ || समं कायशिरोग्रीवं धारयन्नचलः स्थिरः | संपश्यन् नासिकाग्रं स्वं दिशश्चानवलोकयन् || १४ || प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः | मनः संयम्य मच्चित्तो युक्त आसीत मत्परः || १५ || युञ्जन्नेवं सदात्मानं मद्भक्तोऽनन्यमानसः | शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति || १६ || क्रमेण एतत् व्याख्यायते | योगी प्रबन्धप्रतिपादितप्रतिपादयिष्यमाणस्वरूपेण प्रस्तुतव्याख्यानयोगान्तरविलक्षणपरिकर्मणार्व कालदेशाविरोधिना समाधिविशेषनिरपेक्षेण समस्तान्तर्बहिष्करणप्राणवृत्तिषु प्. १४२) अपि अनिरुद्धप्रसरेण कर्मयोगेन योगवान् शास्त्रविहितत्वात् आत्मानम् अन्तःकरणं जीवात्मानं वा सततं प्रत्यहं व्यवस्थापितनियतकालानतिक्रमेण रहसि ऐकाग्र्यबाधकरहिते देशे स्थितः यत एकाकी केवलः यतचित्तात्मा यतं विनिगृहीतं चित्तं मनो येन तादृश आत्मा क्षेत्रज्ञो यस्य, स तथाविधः सन् परमात्मनि समादधीत चित्तवृत्तिनिरोधलक्षणमपि योगमनुतिष्ठेदित्यर्थः; किन्तु इराशीः आशिषः फलाशंसातो निष्क्रान्तो मोक्षलक्षणोऽपि फले प्रार्थना दैन्यरहितः, तथा अपरिग्रहः सर्वत्र ममत्वाभिमानरहितः, तथा मच्चित्तत्वादिवक्ष्यमाणधर्मयुक्तो युञ्जीत इत्यनेन कर्मयोगसमाधानाप्रमत्तेन अयं योगोऽभ्यसनीय इति उक्तम् | अस्य इदानीं परिकर्म अभिधीयते | किं कृत्वा युञ्ज्यात् | आत्मनः शुचौ देशे यत्याद्यपेक्षया पुण्यसरित्परिसरगिरिगुहादौ, गृहस्थापेक्षया सूपलिप्तविविक्तसदनादौ विशुद्धे स्थाने आसनं समाधिविष्टरं प्रतिष्ठाप्य स्थितिं प्रापयय | कीदृशम् | स्थिरं निश्चलं तथा सुखित्वार्थमुच्छ्रायनिम्नत्वातिशयरहितं, तथा चैलं वस्त्रं, अजिनं मृगादिचर्म, कुशा दर्भाः, तदुत्तरं तत्प्रधानम् | तेन गृहस्थस्य चैलाजिनोत्तरम्, यत्यादेः कुशोत्तरम्, एवं तत्र स्थिरसुखे आसन उपविश्य एकाग्रं ध्येयत्वेन परिगृहीतैकवस्तुनिष्ठं मनः चित्तं कृत्वा अत एव यतचित्तेन्द्रियक्रियः यता निषिद्धबहिष्प्रसराश्चित्तेन्द्रियाणां मनसोऽक्षाणां च क्रियाः संकल्पविकल्पशब्दादिग्रहणरूपाणि कर्माणि येन, तथाविधः सन्; योगं चित्तवृत्तिनिरोधात्मकं युञ्ज्यात् समादधीत | किमर्थम् | आत्मविशुद्धये आत्मनोऽन्तःकरणस्य बाह्योपरागलक्षणमलक्षालनाय क्षेत्रज्ञस्य वा देहाद्यहंप्रत्ययरूपकलङ्कपरिमार्जनाय | एवं चित्तसमाधानमभिधाय प्. १४३) तत्साधनभूतं कायसंस्थानमाह | कायः कण्ठादधः शरीरं शिरो मूर्धा ग्रीवा कन्धरा कायशिरोग्रीवं तत् समम् अवक्त्रमृजु धारयन् बिभ्रत्, तथारूपोऽपि अचलः निष्प्रकम्पोऽङ्गमेजयत्वादिचित्तविक्षेपकारणरहितः स्थिरः तथा स्वंनासिकाग्रं घ्राणप्रान्तं संपश्यन् अत एवच दिशः काष्ठा अनवलोकयन् अप्रेक्षमाणः | दिक्षु दृग्विक्षेपपरिहारार्थं नासिकाग्रसंदर्शनमुक्तम्, नतु तत् लक्ष्यीकर्तव्यमिति अभिप्रायः | इत्थं विहितसमस्तसमाधिपरिकरस्य परमात्मसमापत्तिलक्षणमोक्षप्रात्पिहेतुं विशेषणं प्रतिपादयितुमाह प्रशान्तात्मा प्रशान्तः सन्देहादिविकल्पक्षोभरहितं आत्मा अन्तःकरणं यस्य स, तथा सर्वात्मत्वमवगम्य सर्वतश्चराच्रभूतजातात् विगतभीः निवृत्तसाध्वसः; तथा ब्रह्मचारिव्रते स्थितः ब्रह्मचारिणः कामसंकल्पवर्जनं व्रतं तस्मिन् स्थितः, इति सर्वार्थविषयप्रार्थनारहितत्वमनेन विशेषणेन उत्कम् | इत्थं मनः स.यम्य सर्वतश्चित्तं निगृह्य मययेव परमात्मनि एकस्मिन् तत्त्वे चित्तं संवेदनं यस्य स तथाविधो युक्तः समाहितः सन् मत्परः तथाविधात् योगदनन्यविषयमना आसीत तिष्ठेत् | एवम् एतद्विशेषणविशिष्टः सदा प्रत्यहम् आत्मानम् अन्तःकरणं युञ्जन् समादधानः मद्भक्तः मामेव आत्मत्वेन समाश्रितोऽत एव अनन्यमानसः अन्यस्मिन् विषयान्तरे न यस्य मानसं मधुक्त इति पाठे तु मययेव युक्तो मत्समापत्तिमेव समाधिफलत्वेन प्रतिपन्नः सन् मत्संस्थां मयि वर्तमानां शान्तिं स्वाभाविकसर्वविकाररहितत्वलक्षणं प्रशमम् अधिगच्छति स्वीकुरुते | कीदृशीं शान्तिम् | निर्वाणपरमां निर्वाणं शरीरादावनात्मनि आत्मप्रत्ययादिक्षोभविरतिरूपा निर्वृतिः परमं प्रकृष्टफलतया स्थितं यस्यां सा तथोक्ता ताम् || १६ || प्. १४४) इत्थमस्य योगस्य कर्मसमाधिलक्षणमहायोगात् निर्वर्तिनो यथोक्ताद्वैतात्मज्ञाननिष्ठतया अनुष्ठेयतया अभ्यनुज्ञातस्य अन्यदपि परिकर्म प्रतिपादयितुमाह - नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः | न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन || १७ || युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु | युक्तस्वप्नावबोधस्य योगो भवति दुःखहा || १८ || एष यथोक्तो योगः एवंविधस्य अनुष्ठातुः नैव अस्ति नैव संभवति | कीदृशस्य | अत्यर्थमश्नतः सौहित्यपर्यन्तं भुञ्जानस्य, तथा एकान्तं सर्वथानश्नतः अपि नास्ति तथा अतिस्वप्नशीलस्य नित्यं निद्रारतस्य, तथैव सदा जाग्रतः उन्निद्रस्य अपि | अत्यशनात् हि कायगौरवशूलाभिष्यन्दादयो दोषाश्चित्तमकर्मण्यं संपादयन्ति, अत्यन्तानशनाच्च धातुक्षयादयः शक्तिहानिमावहन्ति, अतिस्वप्नादालस्यादय उद्योगभङ्गमत्यन्तनिद्रापहारादजीर्णादयो दौर्मनस्यादिकमापादयन्ति || अतो यक्ताहारविहारस्य युक्तो हितमात्रकालावच्छिन्नत्वादुपपन्न आहारो भोजनं विहारश्चङ्क्रमणादिर्यस्य तादृशस्य, तथा कर्मसु दृष्टादृष्टविषयेषु व्यापारेषु युक्ता चित्तशरीरानवसादित्वपर्यवसायिनी चेष्टा मनःकायव्यापारो यस्य तस्य तादृशस्य, तथा युक्तौ यथाकालभावित्वात् न्याययौ स्वप्नबोधौ निद्राजागरौ यस्य, तस्य तादृशस्य योगिन एष योगो दुःखहा भवति अभ्यस्यमानः क्लेशं हन्ति सुखेन संपद्यते इत्यर्थः || १८ || एवमाहारविहारनियममुक्त्वा सिद्धिलक्षणं योगमाह - यदा विनियतं चित्तमात्मन्येवावतिष्ठते | निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा || १९ || यदा, अस्य योगिनः समाध्यभ्यासकाष्ठां प्राप्तस्य चित्तं विनियतं प्. १४५) निगृहीतं सत् सम्प्रज्ञातसमाधिभूमिका वितर्कविचारानन्दास्मितानुगता अतिक्रान्तं सत् स्थूलसूक्ष्मेषु ध्येयेषु लब्धसंयमत्वात् तानि त्यक्त्वा एकस्मिन् ध्येये आत्मन्येव स्वभाव एव अवतिष्ठते, अवस्थितिं प्रतिष्ठां संयमं लभते, तदा तस्यां दशायामात्मैकारामत्वात् सर्वेभ्यो व्यतिरिक्तेभ्यो भोगेभ्यः स्पृहारहितो निरभिकाङ्क्षः सन्नसौ युक्तः सम्पन्ननिर्बीजसमाधिः इति उच्यते || १९ || तस्य आत्मध्याननिष्ठस्य योगिचित्तस्यैव योगशब्दवाच्यस्य उपमानमाह - यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्जतो योगमात्मनि || २० || आत्मनि रिरुत्तरे ध्येये योगं समाधिं युञ्जानस्य योगिनः सर्वतः प्रत्याहृतत्वात् यतं निगृहीतं चित्तं येन तादृशस्य, सा उपमा तदुपमानं तत्त्वज्ञैः स्मृता | यथा दीपः प्रद्योतको निवृत्तवातदेशे स्थितः सन् नेङ्गते न प्रकम्पते, तथैव आत्मालम्बने समाधौ स्थितं योगिचित्तं न प्रकम्पते इति उपमेयवाक्यमध्याहार्यम् | अनेन दीपोपमानेन प्रत्यासन्नप्रबलविपक्षत्वात् यत्नसंरक्षणीयत्वं योगिचित्तस्य प्रतिपादितम् || २० || अथास्य परस्य योगस्य लक्षणमाह - यत्रोपरमते चित्तं निरुद्धं योगसेवया | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || २१ || सुखमात्यन्तिकं यत्र बुद्धिग्रह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्च्यवति तत्त्वतः || २२ || यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते || २३ || प्. १४६) तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् | स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा || २४ || तं योगसंज्ञितं समाध्याख्यमर्थं विद्यात् जानीयात् | कं तम् | यत्र यस्मिन् निरुद्धं निवृत्तबहिष्प्रचारतया नियमितं यत् चित्तं योगसेवया योगस्य समाधेः प्राप्यस्य अन्यस्य सेवया सेवनादाश्रयणादुपलब्धपरमोपेयत्वात् तत्रैव विश्रान्तं सत् योगान्तरविषयं प्रयत्नमुत्सृजति, तस्यैव योगस्य निरुत्तरत्वात् | अत एव तस्यामवस्थायां योगी यत्र आत्मनैवात्मानं पश्यन् स्वसंवेदनेन स्वरूपमनुभवन् आत्मनि स्वभावे एव अधिकरणभूते तुष्यति परां प्रीतिं प्रतिपद्यते, तं योगं विद्यादिति सम्बन्धः | तदानीं हि निवृत्तसकलबाह्योपरागं चित्तमात्मसमापन्नं सत् शुद्धसंवेदनलक्षणतद्धर्मत्वेन अवतिष्ठते | तथा यत्र आत्यन्तिकम् अनन्तं निरुपमस्वरूपानुभवचमत्कारमयं सुखं सहज आनन्दोऽभिव्यज्यते | कीदृशं सुखम् | अतीन्द्रियं श्रोत्रादीनि बाह्येन्द्रियाणि अतीतमतिक्रान्तम्, अत एव बुद्धिग्राह्यं बुद्ध्या तात्कालिक्या बोधलक्षणया, आत्मनः स्वशक्त्यैव ग्राह्यं संवेद्यम् अयं योगी वेत्ति जानाति, तं योगं विद्यात् | तथा यत्र स्थितः यस्मिन् लब्धविश्रान्तिरयं योगी तत्त्वतः परमात्मरूपात् परमार्थात् न च्यवते न वियुज्यते | तथा यं योगमासाद्य ततोऽधिकं तस्मादुत्कृष्टम् अपरम् अन्यं लाभम् इष्टप्राप्तिं योगी न मन्यते न बुद्ध्यते | अत एव प्रागुक्तं यत्र स्थितस्तत्त्वतो न च्यवत इति | अत एव यस्मिन् स्थितः संरूढो निवृत्तेतरव्यापृतिः सन् योगी गुरुणापि प्रबलेनापि केनचिन् मानसेन शारीरेण वा दुःखेन न विचाल्यते न ततो व्युत्थाप्यते, तं योगसंज्ञितमर्थं विद्यात् | कीदृशम् | दुःखसंयोगवियोगं दुःखं विषयेषु इन्द्रियप्रवृत्तिजनितो प्. १४७) राजसः क्लेशः, तेन संयोगः संसारिदशायां सम्बन्धः, तस्मात् वियोगो विरहस्तं, हेयवस्तुप्रार्थनाजन्मना दुःखेन सम्बन्धाभाव एव वियोग इत्यर्थः | स एवंलक्षणो योगः परः समाधिर्नरुत्तरानन्दलाभलक्षणमहाबलहेतुः निश्चयेन निःसन्देहत्वेन अनिर्विण्णचेतसा अनुद्विग्नमनसा योक्तव्यः समाधातव्यः | अलब्धभूमिकस्य हि योगिनः प्रथमं सन्देहः, आरुरुक्षतश्च अभ्यासदशायां क्लेशः सम्भाव्यते इति निश्चयेन अनिर्विण्णचेतसा स योक्तव्य इति उक्तम् || २१-२४ || एवं बाह्यविषयपरिहारक्रमेण चित्तवृत्तिनिरोधलक्षणां समाधिसिद्धिमभिधाय पुनरपि प्रकृतकर्मयोगक्रममेव समाश्रयन् तत्सिद्धिं प्रदर्शयितुमाह - संकल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः | मनसैवेन्द्रियग्रामं विनियम्य समन्ततः || २५ || शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || २६ || यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || २७ || प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् | उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || २८ || युञ्जन्नेवं सदात्मानं योगी नियतमानसः | सुखेन ब्रह्मसंयोगमत्यन्तमधिगच्छति || २९ || क्रमेण एतत् व्याख्यायते | शनैः शनैः उत्तरोत्तरविशेषारोहणक्रमेण, नतु सहसैव उपरमेत् बाह्येषु विषयेषु आसङ्गात्, तथा देहादावात्माभिमानात् निवर्तेत | केन साधनेन | बुद्ध्या सम्यग्ज्ञानेन | कीदृश्या | धृतिगृहीतया धृतिः परमात्मनि प्. १४८) अहंकारावष्टम्भलक्षणं धैर्यं तया गृहीता स्वीकृता या बुद्धिस्तया तादृश्या | सात्त्विकी हि धृतिर्यां बुद्धिं धारयति, सा अत्र योगे साधनत्वमर्हति, यस्या धृतेर्लक्षणं वक्ष्यति - धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी || (१८|३३) इति | पूर्वं किं कृत्वा उपरमेत् | मनसैव परेण मोक्षविषयेणैव चेतसा प्राक् स्थावरसंज्ञया उक्तेन संकल्पप्रभवान् विषयग्रहणव्यग्रजङ्गममनःसमुत्थान् सर्वान् दृष्टानुश्रविकभेदेन समस्तान् तथा प्रत्येकमशेषानविद्यमानसंस्कारमात्रान् कामान् भोगान् त्यक्त्वा परिहृत्य तथा तेनैव मनसा, नतु विषयविषयेण इन्द्रियग्रामं करणवर्गं समन्ततः सर्वेभ्यो विहितेभ्योऽपि शब्दादिभ्यो विनियम्य रागादिदोषपरिहारात्मना विशेषेण विगृह्य, इत्यनेन प्रस्तुतसमुच्चयानुष्ठानसाध्यकर्मयोगविषयं कामत्यागस्य इन्द्रियनियमस्य च पूर्वोक्तं क्रममेव स्मारयति | एवमनेन क्रमेण आत्मसंस्थं मुख्ये आत्मनि ब्रह्मापरनाम्नि सम्यक् स्थितं लब्धविश्रान्ति मनः अन्तःकरणं कृत्वा सम्पाद्य तद्वतिरिक्तं व्स्त्वन्तरं न किञ्चिद ध्यायेत् | तदानीं हि सर्वं ब्रह्मरूपतयैव प्रकाशते | एवं विधेन अभ्यासक्रमेण यतो यतो यस्मात् यस्मात् कुतश्चिद्बन्धनभूतात् आभ्यन्तराद् बाह्याच्च मनः चेतो निश्चरति निर्गच्छति, ततस्ततः तस्मात् तस्मात् नियम्य प्रतिषिध्य आत्मनि परमकारण एव वशं नयेत् तत्रैव निबध्नीयात् | यतः स्वभावत एतत् चञ्चलं चपलं तथा प्रार्थितेऽपि विषये न चिरमवतिष्ठते इति अस्थिरम् यस्मात् तस्मिन्नात्मवशं नीते सति एनं योगिनं प्रशान्तमनसं विषयसुखौन्मुख्यक्षोभविरतिनिर्वृतचेतसं सन्तं स्वयमेव उत्तमं नित्यनिरवद्यस्वभावत्वादुत्कृष्टं सुखं सहज आनन्दः उपैति प्. १४९) उपगच्छति | कीदृशं योगिनम् | शान्तरजसं शान्तं विलीनं रजो विषयप्रवृत्तिहेतुर्गुणो यस्य, अत एव ब्रह्मभूतं परमात्मसमापन्नं यस्मात् अकल्मषम् अविद्यमानाज्ञानलक्षणकिल्विषकलङ्कम् | एवमनेन यथोक्तेन क्रमेण पूर्वमेव प्रबन्धप्रतिपादितेन नियतमानसः सम्प्रयतान्तःकरणो योगी सदा सर्वासु अवस्थासु पश्यन् शृण्वन् (५|८) इत्यादिना प्रतिपादितासु आत्मानं युञ्जन् समादधानः सुखेन आसनप्राणायामप्रत्याहारध्यानधारणादिक्लेशाभावादनायासे न ब्रह्मणा परमात्मना संयोगं अभेदम् अत्यन्तं नित्यमेव अधिगच्छति प्राप्नोति || २५-२९ || इत्थं सिद्धनिरुत्तरसमाधेः कर्मयोगिनो लोकोत्तरं व्यवहारं प्रतिपादयितुमाह - सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || ३० || यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || ३१ || सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः | सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || ३२ || आत्मौपम्येन सर्वत्र समं पश्यति योर्ऽजुन | सुखं वा यदि वा दुःखं स योगी परमो मतः || ३३ || यथोक्तेऽस्मिन् कर्मयोगे युक्तात्मा समाहितः सर्वत्र सर्वदा सर्वथा अवहितचित्तो योगी आत्मानम् अद्वयचिन्मात्रैकलक्षणतया उक्तस्वरूपं सर्वभूतेषु परस्परं भिन्नत्वेन अवस्थितेषु चराचरेषु प्राणिषु स्थितं पश्यति, यदात्मनः सामान्यचिन्मात्रं रूपमेकं तदात्मकान्येव भूतानि प्रेक्षते इत्यर्थः | तथोक्तस्वरूपे स्वात्मनि सर्वभूतानि विगलितान्योन्यभेदानि पश्यति, इत्यात्मनः सर्वभूतानां प्. १५०) चाभेददर्शनं प्रतिपादितमेव | अभेददर्शनप्रतिपादनपरमेतत् | यथा चैतत् सम्भवति तथा प्रतिपादितमेव प्राक्, तथापि स्मृत्यर्थं पुनरुच्यते | आत्मा नामायं सुखदुःखग्राह्यग्राहकमूढत्वशून्यत्वादिसकलविकल्पविरहविशु द्धसम्वित्प्रकाशैकलक्षणः, तस्य संवेदितृत्वं नामाव्यभिचारी गुणः | तेन यद्यत् संवेत्ति तत्तत् संवेद्यमानमेव तेन तेन रूपेण आत्मानं लभते | संवेद्यमानता च निर्विकल्पावस्थापूर्विका भवति | तेन यतकिञ्चित् यदा यदा यत्र येन येन प्रमात्रा संवेद्यते, तत्तदद्वयानन्तचिन्मात्रस्वरूपमिति आत्मनः संवेदितुर्वेद्यानां च सर्वभूतानां नास्ति वास्तवः कश्चिद्भेदः, देवलमचिन्त्यपरमेश्वर्मायोद्भावितो वेद्यवेदकविकल्पः सर्वमिदमन्योन्यं विभिन्नतया अवभासयति | स च परमेश्वरप्रसादादुन्मिषितया विद्याख्यया दिव्यया दृशा तत्त्वविद्भिस्तादृशो विभाव्यमानो यदा विगलति, तदा भिन्नसेतुसागरसलिलवत् सर्वमिदमात्मतया ऐक्येनावभासते | ज्ञानकर्मसमुच्चयानुष्ठानात्मनि चास्मिन् महायोगे प्रत्युदितविद्याशक्तिरेवाधिकृता इति | कर्मयोगी सर्वत्र स्थावरे जङ्गमे च भूतग्रामे समदर्शनः अद्वैतात्मतत्त्वैकदर्शी इत्युक्तः | यश्च आत्मा सोऽहमेवं इत्यभेदं भगवान् प्रतिपादयितुमाह- यो योगी सर्वत्र भावजाते मां यथोक्तात्मतत्त्वैकरूपमुक्तया उपपत्त्या पश्यति मयि च सर्वं तथैव पश्यति तस्य तत्त्वदर्शिनः अहं न प्रणश्यामि नादृश्यो भवामि, सोऽपि मे स्वरूपभूतत्वात् न प्रणश्यति नादृश्यत्वमापद्यते, इति कर्मयोगसिद्धस्य योगिनः स्वात्मनश्च अभेदप्रतिपादनपरमेतद् भगवद्वचनम् | किञ्च यो योगी सर्वत्र सर्वस्मिन् देहप्रभृति सुखं दुःखं वा अन्यं वा कंचित्प्राणिधर्ममुक्तया प्. १५१) उपपत्त्या संवेद्यमानस्य संविदात्मकत्वापत्तिरूपतया समं संविन्मात्रैकस्वभावं पश्यति बुध्यते | कथम् | आत्मौपम्येन आत्मानमुपमानीकृत्य स्वानुभववदित्यर्थः | स सर्वथा सर्वेण केनचित् साधारणेन प्रकारेण वर्तमानोऽपि मयि वर्तते मदभिन्नोऽहमेवासावित्यर्थः | स एवंविधो योगी सर्वासु अवस्थासु अविलिप्तनिरुत्तरसमाधिफलास्वादो दुर्वारविघ्नवृन्दानुबन्धदुःसाधयोगाङ्गानुष्ठाननिष्ठोपलभ्य असमाधिफलपूर्वोक्तयोग्यपेक्षया परमो निरुत्तरातिशययुक्तः ईश्वरवत् सर्वसाम्यदशाधिरूढत्वात् जीवन्मुक्त इत्यर्थः || ३०-३३ || अथ सम्प्रति अननुभूतत्वादस्य सर्वसाम्यप्रतिपत्तिफलस्य समाधेरसम्भाव्यतां मन्यमानोऽर्जुन आह - योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन | एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं पराम् || ३४ || चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || ३५ || हे कृष्न योऽयं समनन्तरं कर्मयोगलक्षणोऽन्ययोगविलक्षणो योगस्त्वया प्रोक्तः एतस्य परां स्थितिं प्रकृष्टां प्रतिष्ठां न पश्यामि न तर्कयामि चञ्चलत्वात् अनवस्थितत्वात् | यस्मात् तत्साधनं मनश्चञ्चलं प्रकृतिचपलमतः प्रमाथि प्रमथनशीलं, यतः कृच्छ्रलब्धामपि भूमिकामुन्मार्गप्रवणत्वादाशु विनाशयति | न च तद्व्यावर्तयितुं शक्यं यतो बलवत् अस्य विषयान् प्रत्यभिधावतः शैलेन्द्रशिखरविशीर्यमाणसलिलौघवत् दुर्धरं बलं, यतो जन्मसहस्राभ्यस्तेषु विषयरसेषु दृढासक्तत्वात् दृढं | तस्य एवंविधस्यास्य मनसो निग्रहम् उत्पथात् प्रतिषेधनं सुतरां प्. १५२) दुष्करं दुस्साधं सम्भावयामि, कस्येव वायोरिव यथा वायुः स्वाच्छन्द्येन दिक्षु प्रसरन् निग्रहीतुमशक्य एवमेतन्मनः || ३४-३५ || अथ एतदभ्युपगमपूर्वमुत्तरं भगवानाह - असंशयं महाबाहो मनो दुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || ३६ || नास्त्यत्र संशयः, इदं चलं स्वभावचपलं मनः दुःखेन निग्रहीतुं शक्यते; किन्तु अभ्यासेन वैराग्येण च उपायद्वयेन गृह्यते नियम्यते | अभ्यासश्चात्र कर्मयोगे पश्यञ्शृण्वन् (५|८) इत्यादिप्रागुक्तक्रमेण सर्वेन्द्रियवृत्तिषु विहितविषयौन्मुख्येन प्रवर्तमानासु सर्वप्राणवृत्तिषु च शरीराव्यभिचारित्वात् तथैव प्रवर्तमानास्वपि उपदेशानुसारिणा क्रमेण यथोक्ते स्वात्मनि निवेशात्मकस्थितिलाभविषयो यत्नः, वैराग्यं च अनिषिद्धविषयस्पर्शानुभूयमाने सुखे सहजानन्दनिरुपमास्वादाविस्मरणादनासङ्गः, ताभ्यामेवं विधाभ्यां कर्मयोगाधिकृतपुरुषैकगोचराभ्यामभ्यासवैराग्याभ्यामेतत् सुचञ्चलमपि चित्तं नियन्तुं शक्यमेव || ३६ || अत एव - असंयतात्मना योगो दुष्प्राप इति मे मतिः | वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः || ३७ || यतो व्याख्याताभ्यासलक्षणसाधनाभावात् असंयतात्मना अनियमितान्तःकरणेन पुरुषेण एष योगो दुष्प्रापः दुर्लभः | वश्यात्मना विधेयान्तःकरणेन पुनः पुरुषेण यतता यतमानेन नित्यमविच्छिन्नोत्साहतया प्रयत्नं कुर्वता उपायतः यथोक्तज्ञानलक्षणादुपायात् स्वीकर्तुं शक्य एव || ३७ || अथ उपायस्य ज्ञानरूपस्य श्रुतिमात्रावगतत्वाद् अभ्यासवैराग्ययोश्च प्. १५३) अत्यन्तदुःसाधत्वादात्मनश्च संसारिधर्मानुपरमाद् योगस्य दुरवापत्वं मन्यमानः, श्रद्धामात्रस्य एकस्य कारणस्य योगं प्रति उपायत्वं स्यान्न वा इति संशयानोऽर्जुन उवाच - अयतः श्रद्धयोपेतो योगाच्चलितमानसः | लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि || ३८ || अनेकचित्तो विभ्रान्तो मोहस्यैव वशं गतः | अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति || ३९ || आप्तोपदिष्टादुपायात् निःसंशयतया फलस्य सम्भावना श्रद्धा इति किलोक्ता, तयोपेतः श्रद्धावान् अत एव सतां सत्पुरुषाणामुत्तमफलार्थिनां पुंसां मार्ग पन्थानं प्रेप्सुरपि यदि योगात् उक्तलक्षणात् समाधेः चलितमानसः विच्युतचित्तवृत्तिः, अत एव अयतः यत्नशून्यः; ततश्च ब्रह्मणः परस्य उपेयस्य तत्त्वस्य पथि प्राप्युपायरूपे मार्गे प्रमूढः प्रकर्षेण मूढः सम्यग्ज्ञानरहितः | अतश्चोपायानिश्चयात् अनेकचित्तः विकल्पाकुलत्वात् प्रतिक्षणं चञ्चलत्वाद् बहुविधमनोवृत्तिरत एव विभ्रान्तः न क्वचिल्लब्धस्थितिः, यतो मोहस्यैव अज्ञनस्य वशं गतः विधेयतां प्राप्तः स्यात् | तदेव दोषसामग्र्या योगसंसिद्धिं समाधिलाभमप्राप्तः सन् कां गतिं गच्छति तस्यैवंविधस्य श्रद्धामात्रैकालम्बनस्य परिशिष्टोपायरहितस्य देहादूर्ध्वं कीदृशे योन्यन्तरे गमनमित्यर्थः || ३८-३९ || तदेव पृच्छति - कच्चिन्नोभयविभ्रंशाच्छिन्नाभ्रमिव नश्यति | अप्रतिष्ठो महाबाहो विनाशं वाधिगच्छति || ४० || एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य च्छेत्ता नह्युपपद्यते || ४१ || प्. १५४) कच्चित् इति अभीष्टप्रश्ने | अपि नाम एवं श्रद्दधानः पुरुषः स्वर्गापवर्गलक्षणस्य गतिद्वयस्यापि भ्रंशाभावादेकतरगतिं प्रति आशासम्भवे छिन्नाभ्रमिव पवनविशीर्णो जलदो यथा विनश्यति तद्वत् पुनः सन्धानमापद्यते, उत गतिद्वयोपायनिश्चयाभावात् अप्रतिष्ठः निरवलम्बनः सन् आत्यन्तिकमेव विनाशम् प्राप्नोति अपुनरुत्थानायैव संसारश्वभ्रे पतति, इत्येतमेवंविधं सन्देहं मम विनाशयितुम् अर्हसि यतस्त्वत्तः सर्वसंसारिगतिवेदिनः सर्वज्ञाद् अन्योऽस्य यथोक्तस्य संशयस्य परिहर्ता न सम्भाव्यते | यत उक्तं भगवता - बहूनि मे व्यतीतानि (४/५) इत्यत्र श्लोके सर्वजन्तूनां नानागतिवेदित्वम् || ४० || ४१ || अथैवंविधसंशयच्छेदाय भगवानुवाच - पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते | न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति || ४२ || तस्य एवंविधस्य भोगापवर्गलक्षणसिद्धिबीजभूतश्रद्धागुणसंस्कृतचित्तस्य पुंसः क्वचिदपि विषये विनाशः सर्वदुर्गतिहेतुः ज्ञानभ्रंशलक्षणस्तिरोभावो न विद्यते | क्व न विद्यते | इहामुत्र वा, इहेति दृष्टानुश्रविकभोगाधिकरणे संसारे इत्यर्थः | अमुत्रेति एतस्मादन्यत्र स्वात्मप्रतिष्ठाहेतौ अपवर्गे इत्यर्थः | यतः कल्याणवान्(कृत्) कुशलाभिनिवेशी न कश्चिद दुर्गतिम् अज्ञानदूषितत्वाद् दुष्टां योनिं प्राप्नोति | श्रद्धावतश्च कल्याणकारित्वमवश्यमेव स्थितम् | श्रद्धा हि नाम परमेश्वरप्रसादकल्पद्रुमस्य बीजकणिका तं भोगापवर्गलक्षणफलसम्पत्तिसमृद्धमकृत्वा न निवर्तते, केवलं मृदुमध्यादि(धि)मात्रत्वादितारतम्यात् कालविशेषापेक्षिणी स्वकार्यं निर्वर्तयति || ४२ || प्. १५५) यत एवमतः - प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || ४३ || अथवा योगिनामेव जायते श्रीमतां कुले | एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् || ४४ || तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् | ततो भूयोऽपि यतते संसिद्धौ कुरुनन्दन || ४५ || पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सन् | जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते || ४६ || प्रयत्नाद् यतमानस्तु योगी संशुद्धकिल्विषः | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् || ४७ || योगभ्रष्टः योगाद्यथोक्तज्ञाननिष्ठतया शास्त्रविहितस्वकर्मानुष्ठानलक्षणात् समाधेः भ्रष्टः परमेश्वरसमापत्तिलक्षणं फलमप्राप्यैव विच्युतः सन् श्रद्धाबीजे सत्यपि ईश्वरेच्छावशादेव सम्प्रति तीव्रसंवेगाभावाद् यत्नादिसहकारिसामग्रीसाकल्याद्धिकार्या(ला)न्तरापेक्षिफलः सन् पुण्यकृतां प्रकृष्टयज्ञदानतपःप्रभृतिशुभकर्मकारिणां सम्बन्धिनो लोकान् तत्कर्मोचितभोगाधिकारणभूतानि भुवनानि प्राप्य आसाद्य तत्र च तत्कर्मानुरूपाः शाश्वतीः समाः सहस्रसंख्यानि वर्षाणि उषित्वा निवासम्नुभूय ततस्तादृशकर्मफलोपभोगान्ते कर्मभूमौ अस्यां शुचीनां श्रीमतां शुद्धाभिजनकर्मणां लक्ष्मीवतां कुले अन्वये अभिजायते जन्म लभते | येन योगाभिवाञ्छालेशकलुषितचित्तत्वात् असम्यगनुष्ठितात् कर्मयोगाद् भ्रंशं प्राप्तस्तस्य एषा गतिर्निर्दिष्टा | यस्य तु अपवर्गप्रवणत्वेष्पि सति कुतश्चित् प्रतिबन्धात् कर्मयोगः सम्यक् न निर्वृत्तः, स इमां गतिमाप्नोति इति पक्षान्तरोपनासेन प्. १५६) आह - अथवा योगभ्रष्टो योगिनां यथोक्तकर्मसमाधिनिष्ठानामत एव धीमतां प्रकृष्टज्ञानयुक्तत्वात् प्रशस्यबुद्धिमतां कुले अन्वये जायते समुत्पद्यते, ईदृशमेतत् एवंविधानां योगिनां कुले जन्म दुर्लभतरं कर्मयोगभ्र्ष्टमन्तरेण न केनचित् प्राप्तुं शक्यम् | तस्मिंश्च जन्मनि तं बुद्धिसंयोगं तादृशं बुद्ध्या ज्ञानसंस्कृतया धिया सम्बन्धं लभते | कं तं | पौर्वदैहिकम् पूर्वस्मिन् देहे भवं, यत्र ज्ञानक्रियासमुच्चयानुष्ठानरूपो योगस्तेनाश्रितः सन् न निर्वाहितः | तत्र किल तथाविधयोगसमाश्रयणहेतुभूतज्ञानसंस्कृतया बुद्ध्या सम्बन्धोऽस्याभूदेव, स च परमेश्वरानुग्रहं विना न भवति; सच परमेश्वरानुग्रहो नादत्तफलो विरमति, अतः कुतश्चित् विघ्नलेशात् कंचित् कालं विलम्ब्य पुनरभिव्यज्यत एव, ततस्तद् बुद्धियोगमाहात्म्याद् भूयः पुनरपि प्रयत्नमारभते संसिद्धिनिमित्तं योगफलावाप्त्यर्थं, यस्मात् तेनैव पूर्वजन्मसम्बद्धेन मन्देनापि अभ्यासेन योगविषयेण संस्कारात्मना अवस्थितेन अवशः अनिच्छन्नपि ह्रियते आत्मसात् क्रियते | कस्मात् तेन अभ्यासयोगेन ह्रीयते इत्याह - यस्मात् कर्मसमाधिलक्षणस्य योगस्य जिज्ञासुरपि स्वरूपं ज्ञातुकामोऽपि शब्दब्रह्म शास्त्रात्मकं तत्त्वं अतिवर्तते अतिक्रामति निश्चयाभावाद् योगविषया प्रवृत्तिरेव न सम्भवति, संशयितस्य च शास्त्रमुपकारकमतो यगजिज्ञासुः शब्दब्रह्मातिवर्तते इति उक्तम् | स पुनर्योगी प्रयत्नात् उद्योगात् यतमानः योगमनुतिष्ठंस्तदनुष्ठानसंस्कारवशाच्च संशुद्धकिल्विषः प्रक्षालिताज्ञानमयकिल्विषकलङ्को बहुभिर्जन्मभिः परां काष्ठामधिरूढे तादृशि ज्ञाने ततः अनन्तरं संसिद्धः सम्यक् प्राप्तप्रापणीयः परां गतिं परमात्मसमापत्तिलक्षणां, प्रकृष्टां भूमिं प्राप्नोति, यतः परं गम्यान्तरं न विद्यते || ४२- ४७ || एवंविधस्य कर्मयोगिनः प्रशंसार्थमाह - प्. १५७) तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः | कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन || ४८ || सुतीव्रस्यापि तपोमात्रस्य अन्तवत्फलत्वात् तपस्विभ्यः योगी नित्यनिरुत्तरानन्दमयसमाधिमान् अधिकः प्रकृष्टः, ज्ञानिभ्योऽपि केवलज्ञानमात्रशरणेभ्यः, तथा कर्मिभ्यः यज्ञादिकेवलकर्मवद्भ्यः अधिकः तस्मात् त्वं यथोपदिष्टं योगं स्वीकृत्य सर्वोत्कृष्टो योगी भव || ४८ || केचन योगिनो दर्शनभेदात् सम्भवन्ति, तेषामपि अयमेवंविधो योगी प्रकृष्टतम इति प्रतिपादयन्नध्यायमुपसंहरति - योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान् भजते यो मां स मे युक्ततमो मतः || ४९ || समस्तानां योगिनां मध्ये स योगी युक्ततमः अतिशयेन युक्तः समाहितो मम मतः, कोऽसौ यः श्रद्धावान् सर्वसिद्धिभूतया श्रद्धया युक्तः सन् मद्गतेन अन्तरात्मना, यथा प्रतिपादितज्ञानगत्या मां परमात्मानमीश्वरमेकं तत्त्वं परमोपेयतया गतेन प्रपन्नेन अन्तरात्मना अन्तःकरणेन भजते वाङ्मनःकायव्यापारान् मत्परानेव कुर्वन् मद्भक्तो भवति, यथोक्तज्ञानविधिना यथोक्तमत्स्वरूपावगमपूर्वं मामेव य उपास्ते, स एव समाहिततम इति || ४९ || याता यस्याङ्गभावं दधति यदि परं योगतामन्ययोगा- स्तं योगं ज्ञानकर्मव्यतिकरसुकराभ्यासवैराग्यगम्यम् | सम्यङ् संप्राप्तुकामैः परमगुरुरिति श्रद्धया पर्युपास्यः षष्ठोऽध्यायोऽयमार्यैरवहितमतिभिस्त्यक्तसर्वान्यकार्यैः || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे षष्ठोऽध्यायः || ६ || अथ सप्तमोऽध्यायः | एवं यदङ्गभावमापन्नानां योगान्तराणां योगत्वसिद्धिः तस्य ज्ञानकर्मसमुच्चयरूपस्य निरतिशयस्य अनुष्ठातुः मद्भक्तस्य कर्मयोगिनोऽपि सतः तव ज्ञेयशेषो विद्यत एव इत्यात्मन एव जगत्कारणत्वादि प्राक्सूचितप्रायं ज्ञेयान्तरं स्फुटतया प्रतिपादयितुं भगवानुवाच - मययासक्तमनाः पार्थ योगं युञ्जन् मदाश्रितः | असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || १ || षष्ठाध्यायपरिसमाप्तौ मद्गतेनान्तरात्मना यो मां भजते स युक्ततमः इति यदुक्तं, तदेव मययासक्तमना मदाश्रितश्च इत्यनेन पद्द्वयेन इह अनूदितम्, ततश्च मत्स्वरूपं ज्ञात्वा मां भजंस्त्वं यथा येन प्रकारेण सन्देहरहितं कृत्वा समग्रं संपूर्णस्वरूपं मां ज्ञास्यसि प्रतिपत्स्यसे, तदिदानीं शृणु | अयं हि जगत्प्रपञ्चः स्वतःसिद्धनित्यप्रधानपरिणामतया कैश्चित् प्रतिपन्नः, अन्यैः परमाणुपाकप्रभवत्वेन, इतरैः क्षणिकज्ञानसन्तानभ्रमजन्यतया, परैश्च अन्यथा चेति, किमत्र तत्त्वं स्यादित्यस्ति संशयस्यावकाशः, तन्निश्चयार्थं चेदं वक्ष्यमाणमवधारय, तदवधारणादेव च समग्रं मत्स्वरूपज्ञानं भविष्यति इति || १ || तदेवाह - ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः | यज्ज्ञात्वा न पुनः किञ्चिज्ज्ञातव्यमवशिष्यते || २ || इदं समनन्तरप्रस्तुतं जगत्प्रपञ्चपरमार्थप्रतिपत्तिविषयं मत्स्वरूपसाकल्यसंवित्तिविषयं च ज्ञानं उपपत्त्युपन्यासरूपं शास्त्रं तदुभयसाक्षात्कारहेतुना विशिष्टेन ज्ञानेन सहितं अशेषतः प्. १५९) कथयिष्यामि, यत्प्रतिपद्य भूयो बोद्धव्यं वस्त्वन्तरं न किञ्चिदवशिष्यते, यदवगमात् विदितसकलवेद्यः कृतकृत्यो भविष्यसीत्यर्थः || २ || एतयोश्च ज्ञानविज्ञानयोर्यत्संवेदनमेव फलं पर्यवस्यति, तच्च परमरहस्यत्वात् न सर्वसुलभं यतः - मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः || ३ || इह निरवधौ प्राणिसर्गप्रपञ्चे मनुष्यत्वमेव तावत् दुर्लभं | ते हि मनुष्याः कर्मभूमिलब्धजन्मानश्चतुर्वर्गसिद्ध्यधिकारिणः | तेषां मनुष्याणां सहस्रेषु मध्ये कश्चिदेव तथाविधकर्मपरिपाकवशादुत्पन्नसंसारविरागः सिद्धये पुनर्जन्माभावलक्षणप्राप्तये यतति तत्तदुपायाहरणप्रयत्नपरो भवति | न तु तावत्सिद्धिं प्राप्नोति; तेषामपि यतमानानां सिद्धानां तत्तद्दर्शननिश्चितमोक्षलक्षणां सिद्धिं प्राप्तानामपि मध्ये कश्चिदेव प्रकृष्टपुण्यपरिणामवशादवाप्तमदनुग्रहाविर्भावितयथोक्तनिरत् इशयश्रद्धाभक्तिप्रसादितविवेकजज्ञानप्रभावात् यथाप्रतिपादितस्वरूपं मां वेत्ति आत्मत्वेन प्रतिपद्यते || ३ || तज्जगत्स्वरूपप्रतिपादनपूर्वमुपदेष्टुमाह - भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || ४ || अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् || ५ || योऽहं सततचिन्मात्रस्वरूपाप्रच्युत एव अचिन्त्यनिजमायाशक्तिमाहात्म्यात् जडचेतनविभागेन द्विरूप इव अवभासमानो जगत्क्रीडामिमां निर्वर्तयामि, तस्य मे सुखदुःखमोहात्मकतया प्. १६०) सर्वभावानुगतसत्त्वादिगुणत्रयरूपा जडा या प्रकृतिः सा इयमष्टधा अष्टाभिः प्रकारैर्भिन्ना विभागं प्राप्ता | के ते अष्टौ प्रकाराः | भूमिरित्यादयः, तत्र भूम्यादिभिः पञ्चभिः अप्ययक्रमनिर्दिष्टैः प्रकारैः कारणभूतानि सूक्ष्माणि निर्दिष्टानि वेदितव्यानि, तैश्च कार्यभूतानि पृथिव्यादीनि पञ्च स्थूलभेदानि एकैकापायपञ्चादिगुणानि संगृहीतानि, बुद्धिकर्मेन्द्रियवर्गश्च दशसंख्यः, इति भूम्यादिभिः पञ्चभिः तत्त्वविंशतिराक्षिप्ता | मनश्च सर्वेन्द्रियनायकं, बुद्धिर्निश्चयात्मिका, अहङ्कारो देहादिषु अनात्मभूतेषु आत्मप्रत्ययः, इति त्रिविधमन्तःकरणमिति त्रयोविंशतिसंख्यः कार्यकारणवर्गः | तदनुगुणं च त्रैगुण्यात्मकं प्रधानं कारणमिति तत्त्वचतुर्विंशतिरूपा जडत्वेन अवभासमाना प्रकृतिः | इयं च परावक्ष्यमाणजीवभूतप्रकृत्यपेक्षया स्थूला, यतोऽसौ जडा वेद्यापरतन्त्राविन्श्वरा सती चेतनाद् वेदकात् स्वतन्त्रात् नित्याच्च जीवतत्त्वात् अपकृष्टा, अत एवाह - इतः उक्तायाः प्रकृतेः पुनः अन्यां विलक्षणां परां प्रकृष्टां जीवभूतां मायावशात् अन्योन्यभिन्नत्वेन अवभासमानक्षेत्रज्ञत्वं प्राप्तां विद्धि जानीहि | कीदृशीम् | यया कर्तृभूतया इदं यथोक्ततत्त्वव्रातमयं जगद्धार्यते जीवलक्षणपरप्रकृतिनिबद्धा जगत्पदार्थसितिः | एवं मायावभासितपरापरभेदेन जडचेतने द्वे प्रकृती || ४ || ५ || एतद्योनीनि भूतानि सर्वाणीत्युपधारय | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा || ६ || एवं यथाप्रतिपादितस्वरूपे मदीये प्रकृती योनिः उत्पत्तिकारणं येषां तादृंशि सर्वाणि भूतानि इत्युपधारय निश्चयेन बुद्ध्यस्व | जीवभूता हि प्रकृतिश्चित्स्वरूपत्वाव्यभिचारात् वस्तुतः प्. १६१) परमकारणात् परमात्मनो मत्तः परमेश्वरादभिन्नापि मन्मायावशात् भेदमिव आपन्ना जडया प्रकृत्या अनादित्वेन सम्बद्धा सती तामेव गुणात्मिकां प्रकृतिं महदादिभावेन परिणतामात्मत्वेन अभिमन्यमाना सुखादिसाधनभावेन चेतनाचेतननानाभावरूपं विषयमपेक्षते, - इत्यनादिः प्रकृतिपुरुषसम्बन्धो जगतः कारणमिति एते प्रकृती सर्वभूतानां योनिरित्युक्तम् | तथा च वक्ष्यति - यावत्किञ्चित्संभवति सत्त्वं स्थावरजङ्गमम् | क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ इति || (३|२९) इति | एवं जगत्कारणभूतयोरेतयोर्मत्सम्बन्धिन्योः प्रकृत्योर्मन्मायैव एवमवभासने कारणमित्याह अहम् इति | कृत्स्नस्य सर्वस्य निरवधिचराचरभूतभेदमयस्य जगतः प्रभवः प्रलयश्चाहं मत्त एव एतत् प्रभवति, मययेव एतत् प्रलीयते इत्यर्थः | मत्सङ्कल्पमात्रोद्भावितया माययैव एते जडाजडे प्रकृती आभास्येते, तन्निबन्धनौ च सर्गसंहारावित्येतयोर्जगत्प्रभवप्रलययोरहमेव मूलकारणमित्यर्थः || ६ || अत एव ममैव परमकारणत्वात् स्वरूपलाभे कारणान्तरापेक्षा नास्तीत्याह (ख्: इत्यर्थमाह) - मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय | मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || ७ || जडा प्रकृतिरपरा इत्युक्ता, तदपेक्षया जीवभूता परा इति | एतयोस्तु कारणभूतोऽहं परतरः इति मत्तः अन्यत् किञ्चित् वस्त्वन्तरं न संभवति यत् मत्कारणत्वेन परतमं स्यात्, अहमेव प्. १६२) कारणं निरुत्तरमित्यर्थः | यत इदं सर्वं भावजातं मयि सर्वाश्रयभूते प्रोतं अनुस्यूतम् | कथम् | एकस्मिन् तन्तौ यथा परस्परपृथग्भूता अपि मणिगणाः व्यवस्थितिमनुभवन्ति, तथा मन्मायोद्भावितान्योन्यभेदाश्चराचरा भावा मययेव एकस्मिन्नाश्रये तिष्ठन्तीत्यर्थः || ७ || ननु उभे एते जडाजडे मम प्रकृती, प्रकृतिश्च स्वभाव उच्यते, तत् कथमद्वयचिन्मात्रस्वरूपस्य जडात्मकत्वात् विनश्वरश्चेतनोऽपि परस्परावच्छेदात् नानारूपस्वभाव उपपद्येतेति वास्तवं प्रमात्रद्वैतं प्रतिपादयितुमाह - रसोऽहमप्सु कौन्तेय प्रकाशः शशिसूर्ययोः | प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || ८ || पुण्यः पृथिव्यां गन्धोऽस्मि तेजश्चास्मि विभावसौ | जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु || ९ || बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || १० || बलं बलवतां चाहं कामरागविवर्जितम् | धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ || ११ || संवेद्यमानाः सन्तः सर्वे भावास्तं तमात्मानं लभन्ते संवेद्यमानताव्यतिरिक्तेन प्रकारान्तरेण कस्यांचिदवस्थायां केषामपि अनुपलम्भात् | इत्थं वास्तव एक एव संवेदिता संविदन्नेव भावान् सृजति | ततो भावरूपा संवेदितुरेव शक्तिर्विजृम्भते, न अन्यत् तद्व्यतिरिक्तं किञ्चिदिदम्; अतः परापरे मे प्रकृती सभावभूते इति स्वतः सिद्धं प्रमात्रद्वैतं गर्भीकृत्य उपक्रम एव यदुक्तम्, तत् रसोऽहमित्यादिना श्लोकचतुष्टयेन उपपादयति | तत्र यो यस्य प्राधान्येन वर्तते गुणः, स एव तस्य आत्मा, - इति अपां रस प्. १६३) एव आत्मा, स च अहम् | यत उक्तेन न्यायेन रस्यमानतया संवेद्यमाना आपो रसरूपमात्मानं लभन्ते, ततो रसयितुरेव रसात्मिका शक्तिः | ममैव च अनुभवितृत्वलक्षणस्वभावाव्यभिचारात् रसयितृत्वं, ततः अप्स्वहं रसः इत्युक्तम् | यथा अप्सु रस आत्मत्वेन व्यवस्थितः, एवं पृथिव्यां गन्धः शशिरविविभावसुषु तेजोलक्षणभूतभेदेषु प्रकाशः तेजःशब्दाभिहितो रूपगुण आत्मत्वेन व्यवस्थितः | तथा खे नभसि शब्दगुणः | एवं वायौ स्पर्शगुणोअपि अत्र परिसंख्येयः, - इति भूतपञ्चके गन्धादिप्रधानगुणात्मना पूर्वोक्तेन न्यायेन अहं व्यवस्थित इति पूर्वोक्तेन विभागेन भूतपञ्चकसंगृहीततत्त्वविंशतिरूपजडप्रकृतिविभागो मम स्वभावः, - इति उपपादितम् | पुण्यशब्दश्च अत्र प्राधान्यापेक्षया सर्वगुणेषु विशेषणत्वेन अनुवर्तनीयः | एवं भूतेषु प्राणिषु धर्माविरुद्धः कामः संकल्पो मनोऽहम् | तथा नृषु जीवेषु पौरुषम् अहङ्कारात्मकं पुरुषत्वमहमेव | तथा बुद्धिमतां बुद्धिरहम् एवेति | मनोऽहङ्कारबुद्धिलक्षणमन्तःकरणं पुरुषाणां प्रधानं धर्मत्रयं पूर्वोक्तेन न्यायेन अहमेवेति त्रिभिरेतैः सहितस्त्रयोविंशतिभेदः कार्यकारणवर्गः [अहंकारहेतुतामापद्यते, नतु सर्वसाम्यदर्शिनो योगिन इत्यर्थः | तथा ज्ञानस्य परां निष्ठां निरतिशयां चतुर्थीं काष्ठां ज्ञानलक्षणां मद्भक्तिं मत्स्वरूप -----------] चतुर्विंशेन (ख्: विंश) प्रधानेन अनुगतो जडप्रकृतिप्रपञ्चो ममैव स्वभावः, - इति व्यवहितैः पदैः प्रतिपादितम् | एवमेव सर्वभूतेषु जीवनं प्राणनं प्रधानं, तदपि अहमेव | तथा सर्ववेदेषु (क्: सर्वेषु) प्रणवः ओंकारः स्वोदिताविकृतध्वन्यात्मकोऽहमेव | स हि प्रकृतिभूतत्वात् सर्ववेदेषु प्रधानं, तस्य प्. १६४) विकारभूता हि सर्वे वेदाः | तथा सर्वक्रियासु तपोमयी क्रिया प्रधानं, ततः तपस्विषु वर्तमानं तपः अहमेव | कामरागविवर्जितं बलं बलवतां प्रधानं, तदपि पूर्वोक्तेन न्यायेन अहमेव | तथा तेजस्विनां प्रभावातिशययुक्तानां तेजः प्रभावो मुख्यस्तदपि अहमेव | एवमनेन क्रमेण सर्वभूतानां बीजं हेतुरहमेवेति जडचेतनभेदेन द्विप्रकारा प्रकृतिर्ममैव स्वभावः, - इत्यनेन प्रकारेण विप्रकृष्टसमन्वयैः पदैः प्रतिपादितम् | एवं रसोऽहमित्यादि प्राधान्यविवक्षया उपलक्षणमात्रत्वेन प्रतिपादितम् || ८-११ || परमार्थतस्तु पूर्वोक्तेन न्यायेन तत् पदार्थजातं किंचन न संभवति, यत् न अहमिति प्रतिपादयितुमाह - ये चैव सात्त्विका भावा राजसास्तामसाश्च ये | मत्त एवेह तान् विद्धि न त्वहं तेषु ते मयि || १२ || अपर्यन्ते भावप्रपञ्चे प्रकृतिपरिणामरूपत्वात् सर्वस्य भावस्य त्रैगुण्ये व्यवस्थिते (ख्: स्थिते) केचित् सत्त्वप्रधाना गुणीभूतरजस्तमस्काः, केचिदेवमेव रजःप्रधानाः, केचित् तमःप्रधाना इति तारतम्यभेदादानन्त्यमनपेक्ष्य त्रित्वेन संगृहीता इति ये केचन सात्त्विका राजसास्तामसाश्च भावाः संभवन्ति, तान् पूर्वोक्तेन न्यायेन मत्त एव परमकारणात् (ख्: प्रकाशरूपात्) जातान् जानीहि | किंतु तेषु मत्कार्यज्ञेयरूपतया लब्धात्मकेषु भावेषु सत्सु नाहं भवामि न तत्सत्ताधीनसद्भावता मम स्वभावसिद्धनित्योपलब्धृमात्रधर्मकस्य विद्यते | ते तु तथारूपाः मयि सति भवन्ति उक्तोपपत्त्या मत्सत्ताधीनसद्भावाः सर्व एव भावा इत्यर्थः || १२ || प्. १६५) नन्वेवं स्वशक्तिमात्रोपादानतया सर्वकर्ता परमेश्वर एक एव अयमात्मा, तत् कुतोऽयं जीवानां व्यामोहो यदेते कारणान्तरलब्धात्मकं किञ्चिदेव स्वविषयभूतं वस्तु जानन्ति कुर्वन्ति चेति | अत्र वक्ष्यमाणं स्वमायाशक्तिवैभवं गर्भीकृत्य उत्तरमाह - त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् | मोहितं नाभिजानाति मामेभ्यः परमव्ययम् || १३ || सर्वं जगत् सकलो जीवलोकः एभिः सात्त्विकादिभिः पूर्वं प्रतिपादितैः गुणमयैः सुखदुःखमोहपर्यवसायिप्रतिपत्तिभिः भावैः संवेद्यैः पदार्थैर्यथास्थितस्वभावप्रत्यवमर्शव्यवधायकतया मोहितं जनितान्योन्यभिन्नदेहाद्यात्मप्रत्ययलक्षणाज्ञानतिमिरं एभ्यः सर्वेभ्यो भावेभ्यो वेद्यैकस्वरूपपत्वादनित्येभ्यः परं व्यतिरिक्तस्वभावं, अत एव अव्ययं अविद्यमानयथाप्रतिपादितस्वरूपप्रच्युतिलक्षणक्षयं मां परतत्त्वं नाभिजानाति न प्रतिपद्यते || १३ || ननु प्रबन्धतो यथाप्रतिपादितेन प्रकारेण त्वमेव परमेश्वरः परमात्मा एकं तत्त्वं विजृम्भसे, तत् क एते गुणा नाम यन्मयैर्भावैर्मोहितं जगत् मां न जानातीत्युक्तम् | अत्र आह - दैवी हेयषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामतितरन्ति ते || १४ || यत् ब्रवीषि क एते गुणा नाम | एषा हि गुणमयी दैवी माया इत्थं देवनात् क्रीडनात् देवस्य सतो मम संबन्धिनी असती अपि सत्यवदाभासयन्ती मदीया शक्तिः | मम किल पारमार्थिकी परा शक्तिरेकैव, सा अहमिति यथोक्तं मम स्वरूपं परामृशन्ती प्. १६६) विद्येति उच्यते, इदमिति तु परामृशन्ती मम माया इति व्यवह्रियते | इदमिति तु परामर्शो व्यतिरिक्तवेद्यार्थोद्भावनेन स्वरूपं लभते | तच्च वेद्यं जडचेतनभेदेन संग्रहतो द्विप्रकारकमेव, अवान्तरभेदपरिकल्पनया अनन्तमपि सुखदुःखमोहभेदात् त्रिविधप्रत्ययरूपतया वेद्यत्वेन पर्यवस्यत् सत्त्वादिगुणत्रयात्मकतया सर्वं संगृहीतम्, अतो विश्वभावमयी गुणमयी मम मायेत्युक्तम् | अतः क्रीडैकप्रयोजनस्य अपि मम इच्छैव गुणमयत्वेन विजृम्भमाणा न केनचित् परेण अतिक्रमितुं शक्येति दुरत्यया इत्युक्ता | ननु यद्येवमेषा न केनचिदन्यथाकर्तुं पार्यते, तत् सर्वथा संसारविभ्रमानुपरमे प्रसक्ते निरर्थक एव अयमपवर्गमार्गाप्युपायोपदेश इति | अत्र आह मामेव एकं यथोक्तस्वरूपं परमेश्वरं परमात्मानं मदनुग्रहेच्छाबोधिताः सन्तो ये प्रपद्यन्ते मदभेदपर्यवसायिना यथोक्तेन ज्ञानेन समाश्रयन्ते, ते एनां अतितान्ति अतिक्रामन्ति | अहमेव एकः सततविकस्वरप्रकाशात्मा प्रभाकर इव तमिस्रया अनया न कदाचित् संस्प्रष्टुं शक्यः, ततो मत्स्वरूपसमापन्नत्वात् गलितदेहाद्यहंप्रत्ययतया अहमेव संपन्न एतां परमार्थनिःस्वभावभावभेदाभाससंतमसमयीं मायामतिलङ्घयितुमलम्, नतु तस्यास्तदितरे मोहनिद्रानिमीलितनिजदुष्टयः स्वरूपमपि संवेदितुं शक्ताः || १४ || ननु कस्मात् त्वां सर्वः कश्चिन्न प्रपद्यते इत्याह - प्. १६७) न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहृतज्ञाना आसुरं भावमाश्रिताः || १५ || मदिच्छयैव आसुरं रजस्तमोबहुलं भावं सत्तां सर्गम् आश्रिताः आपन्नाः, अत एव मायया यथोक्तस्वरूपया अविद्यया अपहृतज्ञानाः आक्षिप्तपरमार्थबोधाः, ततश्च दुष्कृतिनः संसारश्वभ्रपातपर्यवसायिज्ञानशून्यदुष्टक्रियावन्तः, अत एव मूढाः विचेतसो नराधमाः पुरुषेषु मध्ये निकृष्टाः मां परमात्मानं न प्रपद्यन्ते न आश्रयन्ते || १५ || ये तु मदिच्छावशादेव दैवसर्गभाजः सन्तो मदनुग्रहेच्छाविर्भावितविद्याशक्तिप्रबोधिताः कैवल्यप्राप्तिफलपुण्यक्रियायुक्ताः प्रबुद्धास्ते - चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा | आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ || १६ || अनुग्रहीतृतत्त्वसाम्येऽपि अनुग्रहेच्छातीव्रतादितारतम्यात् चतुर्विधाः प्रस्तुतविभागेन चतुष्प्रकाराः जना मां भजन्ते मद्भक्ता भवन्ति, अत एव ते सुकृतिनः | तेषां चातुर्विध्यं कथयति आर्तः इत्यादिना | तत्र आर्तो मां भजते, यो मृदुतरमदनुग्रहौषधेन विशीर्यमाणसंसारमोहसंनिपाततया चिरात् संवेद्यतापन्नदुःखत्रयवेदनाकदर्थ्यमानमानसः, तन्निवृत्तिमिच्छन् सकललोकप्रसिद्धतत्तत्संज्ञाकारादिस्थूलोपायसमाश्रयणेन मद्भक्तो भवति | ततः क्रमेण वर्धमानसमावेशलेशवशात् जिज्ञासुः यः प्. १६८) समुपजायमानजगद्भावहेयोपादेयविचारः सन् कोऽहं, किमिदं शरीरेन्द्रियविषयादिमयं महामोहजालं, कथमतो बन्धनात् परिमुच्येय इति तत्त्वं ज्ञातुमिच्छुर्नानाशास्त्रशुश्रूषाश्रवणाद्यभियुक्तमतिः संशयापन्न एव मत्सपर्यापरो भवति | अत एव तत्त्वजिज्ञासाभिनिवेशप्रकर्षादाविर्भवद्विवेकवासनालोकविलीयमान् अविपर्ययप्रत्ययतीव्रतिमिरत्वात् प्रथमानयथास्थितहेयोपादेयपदार्थप्रविभागः अर्थार्थी भजते यः शास्त्राभ्यासवशादुत्पन्ननिश्चयः सन् इदमेव परमं फलम् इत्युपादेयतया आत्मतत्त्वलक्षणमर्थं वस्तु अर्थयतेऽभिकाङ्क्षयति | ततो मां ज्ञानी भजते यः सकलचिकित्साविच्छेदविश्वस्तमतिः स्वीकृतयथोक्तज्ञानलक्षणपरमोपायः सन् यथोक्तस्वरूपमव्यवधानेन मामेव उपास्ते इति || १६ || एषां चतुर्णां मध्ये ज्ञानिनः प्रकर्षं प्रतिपादयितुमाह - तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते | प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः || १७ || तेषाम् आर्तादीनां मध्ये ज्ञानी यथोक्तबोधवान् विशिष्यते यतोऽसौ सर्वतः स्थूलात् सूक्ष्माच्च विनिवृत्तोपादेयप्रतिपत्तिः परामुपायकाष्ठामधिरूढः, अत एव वेदकैकस्वभावः एकस्मिन् मयि परस्मिंस्तत्त्वे भक्तिमान्, अत एव नित्ययुक्तः सर्वासु अवस्थासु अविच्छिन्नसमाधानो यस्मात् | तस्य एवंविधस्य ज्ञानिनोऽहमत्यर्थम् अखिलजगत्पदार्थसार्थपरिहारेण प्रियः प्रीतिकारणं स च अपि तथैव मम प्रियः इति अव्यतिरेकप्रतिपादनपरमेतत् || १७ || प्. १६९) ननु ज्ञानिन एव प्रकृष्टत्वे सति आर्तादयः किं बहिष्कृता एवेति | अत्र आह - उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतः | आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् || १८ || एते आर्तादयो यद्यपि उत्तरोत्तरविशिष्टत्वेन अन्योन्यभिन्नरूपाः, तथापि भक्तिमूर्त्या कृतोदयया परया एकया मच्छक्त्या अधिष्ठिताः सन्तः सर्वएवोदाराः उदात्तचेतस औदार्यलक्षणेन एकेन गुणेन युक्ताः, किन्तु आर्तिजिज्ञासार्थार्थितादशासु ये वर्तन्ते, ते व्यतिरिक्तार्थालम्बिनः | ज्ञानवान् पुनरहमिति अभेदेन मत्स्वरूपैकालम्बन इति आत्मैव असौ मम अभिप्रेतः | एतदेव प्रकटयतियस्मात् स ज्ञानी ममैव, न अन्यस्य व्यतिरिक्तस्य वस्त्वन्तरस्य अनुत्तमां निरतिशयां गतिं प्राप्तिहेतुमभेदज्ञानलक्षणं पन्थानम् आस्थितः समाश्रितो यतो युक्तात्मा मययेव समाहितान्तःकरणोऽयम् || १८ || अतः - बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते | वासुदेवः सर्वमिति स महात्मा सुदुर्लभः || १९ || आर्तत्वाद्यवस्थाजुषां भूयसां जन्मनां शरीरपरिग्रहाणां अन्ते परिक्षये सर्वम् इदं चराचरं भावजातं परमार्थसततनिर्विकारसामान्यसंविद्रूपो भगवान् सर्वत्र वसनात् सर्वस्य वा तत्र वसनात् वासुदेव इति सर्वाद्वयत्वनिश्चयेन मां परमकारणं प्रतिपद्यते | स चैवंविधः सर्वोत्कृष्टस्वभावः सुदुर्लभः सुतरां दुर्लभो दुष्प्रापो मनुष्यकोटिषु अपि तादृशो महानुभावो लभ्यते नवा || १९ || प्. १७०) कस्मात् तथाविधः सुदुर्लभ इत्यत्र स्वेच्छामात्रमेकं कारणं प्रतिपादयितुमाह - कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | तं तं नियममास्थाय प्रकृत्या नियताः स्वया || २० || यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || २१ || स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च ततः कामान्मयैव विहितान् हितान् || २२ || अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि || २३ || इह यथाप्रतिपादितप्रकारेण नानाजीवभूतमत्प्रकृत्यात्मकाः पुरुषा मदिच्छोद्भावितकार्यकारणभावया गुणात्मिकया प्रकृत्या स्वया तत्तत्पुरुषभेदेन प्रतिनियतकार्यकारणात्मना प्रत्येकं स्वत्वमापन्नया नियताः प्रविभक्तशरीरेन्द्रियविषयाद्यात्मकतया परस्परभेदेन नियन्त्रिताः सन्तः सुखाद्यात्मकं प्राकृतं रूपमेव आत्मत्वेन प्रतिपन्नाः, अत एव स्वत्वापन्नतत्तत्प्रकृत्युचितैः तैस्तैः क्रियाफलतया प्राप्यत्वेन काम्यमानैः कामैः भोगैस्तत्तल्लोकान्तरभोग्यैः हृतज्ञानाः मुषितपरमार्थलक्षणैकतत्त्वविषयबोधाः सन्तः अन्यदेवताः अन्या आत्मलक्षणपरमदैवतव्यतिरिक्तहरिहरहिरण्यगर्भादित्यप्रभृतीस्तत्- तत्स्वाभिमतनानाफलदायित्वश्रुतप्रभावाः परस्परभिन्नात्मतया अवगम्यमानाः प्रपद्यन्ते भजन्ते | कथम् | तं तं तत्तद्दर्शनप्रसिद्धं नियमम् इतिकर्तव्यताविशेषरूपां व्यवस्थां आस्थाय आश्रित्य अवलम्ब्य | इत्थंस्थिते यो यः क्ष्त्रज्ञः फलाभिलाषानु(गु)ण्येन यां यां प्. १७१) चतुर्भुजत्रिनेत्रत्वादिविभक्तविशेषां तनुंमूर्तिं भक्तः समाश्रितः सन् श्रद्धया तावन्मात्रफलदायिभिन्नदेवताविषयया तत्तत्फलप्राप्तये अर्चितुं पूजयितुं वाञ्छति, तस्य तस्य तामेव तावन्मात्रफलदायिभिन्नदेवताविषयां, न अन्यां परामेकतत्त्वविषयां अचलां तद्विषयत्वेन स्थितां अहं ददामि | मत्त एव सात्त्विकादिसर्वभावोद्भवस्य प्राक्प्रतिपादितत्वात् स तया मद्दत्तया श्रद्धया युक्तस्तस्य तत्तदाकृतेर्देवताविशेषस्य आराधनं प्रसाधनं ईहते मनोवाक्कायैश्चेष्टते | ततश्च देवताविशेषादाराधितात् सतः पूर्वोक्तोपपत्त्या मयैव एकेन पारमार्थिकेन कर्त्रा विहितान् विसृष्टान् हितान् अनुकूलान् कामान् भोगान् लभते | किन्तु मामेकमीश्वरं सर्वमनोरथप्रदं सम्यग्ज्ञानाभावादजानतामत एव अल्पप्रज्ञानां तेषां परिमितं भोगलक्षणं फलमन्तवत् अनित्यं भवति | ते हि अज्ञानमोहिताः सन्तः आत्मानं देवतां फलं च नानात्वेन प्रतिपद्यन्ते | ततश्च ये देवान् नानात्वेन प्रतिपन्नान् यज्ञादिभिरन्तवद्भिः क्रियाविशेपैर्यजन्ते प्रीणयन्ति, ते देवान् यान्ति तत्तद्देवताधिकरणभूतं तं तं देवलोकं गच्छन्ति | ये तु मां यथोक्तस्वरूपमेकं तत्त्वं यथाप्रतिपादितेन क्रमेण मदिच्छयैव प्रेर्यमाणाः सन्तः क्रमेण ज्ञानित्वदशाधिरोहपर्यन्तेन भक्ताः समाश्रिताः, ते माम् एव परमं कारणं यान्ति अहमित्यभेदेन समापद्यन्ते || २३ || (अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः | परं भावमजानन्तो ममाव्ययमनुत्तमम् || २४ ||) प्. १७२) तदित्थमासुरं दैवं च सर्गं मयैव स्वेच्छया आपादितो लोको मायाख्यया विद्याशक्त्या च प्रवृत्तिनिवृत्त्योर्धर्मयोर्नियुज्यमानः संसारापवर्गलक्षणं फलं प्राप्नोतीति संग्रहेण प्रतिपादयितुमाह - नाहं प्रकाशः सर्वस्य योगमायासमावृतः | मूढोऽयं नाभिजानाति लोको मामजमव्ययम् || २५ || वैश्वरूप्येऽपि अद्वयचिन्मात्रस्वरूपावस्थानापरिच्युतिलक्षण ऐश्वरसमाधिर्योगशब्देन उक्तः | तथाविधयोगमहिम्ना उत्पादिता या माया मत्स्वरूपान्यथाप्रतिपत्तिहेतुः शक्तिः, तया समावृतो व्यवहितः सन् अहं सर्वस्य मत्प्रकृतिमोहितस्य आसुरस्वभावस्य जन्तोः न प्रकाशः आत्मतया न प्रत्यभिज्ञेयः | ततश्च सर्वो मूढो लोकोऽयमजमव्ययं नित्यत्वात् जन्मविनाशरहितं मां नाभिजानाति आत्मत्वेन न प्रत्यवमृशति || २५ || यतः - वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्यन्ति च भूतानि मां तु वेद न कश्चन || २६ || शरीराणि अनित्यप्रकृतिपरिणामपर्यवसिताहंप्रत्ययत्वात् सर्वतोऽवच्छेदवतीं वेद्यदशामापन्नानि, अत एव अतीतवर्तमानभविष्यत्पदविशेष्याणि भूतानि सर्वशरीरिणः अहं परमार्थ वेदकस्वभाव एक एव वेद जानामि | मां पुनर्नित्यत्वात् कालकलनाद्यवच्छेदविरहितमहिमानं न कश्चित् शरीरी वेद जानातीति | अनेन अनन्यसाधारणवेदकैकस्वभावत्वं परस्य कारणस्य प्. १७३) तत्कार्यस्य च जगतस्तद्व्यतिरिक्तस्वरूपस्य वेद्यत्वमेव प्रतिपादितम् || २६ || कस्मात् त्वां न वेद कश्चिदित्यत्र आह - इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | सर्वभूतानि संमोहं सर्गे यान्ति परंतप || २७ || यत एतानि सर्वभूतानि मन्मायावशादन्योन्यभिन्नानि अनित्यशरीरात्मकत्वात् जन्मविनाशभाञ्जि सर्गे सृष्टौ सत्यां संमोहं स्वरूपाविमर्शरूपमज्ञानं यान्ति प्रतिपद्यन्ते | केन हेतुना | द्वन्द्वमोहेन द्वन्द्वानि सुखदुःखाद्यात्मकानि, स एव मोहस्तत्त्वाप्रतिपत्तिस्तेन | कीदृशेन | इच्छाद्वेषसमुत्थेन रागद्वेषप्रभवेण | इदमत्र तात्पर्यम् - मन्मायोद्भावितगुणमयप्रकृतिरूपसर्गसंमोहिताः सर्वप्राणिनः परस्परभिन्नानित्यगुणपरिणामात्मकमेव जगदिदं मन्यमानाः क्वचित् रज्यन्तः, किञ्चित् द्विषन्तः संसारचक्रपरिवर्तनमनुभवन्ति अतो यथाप्रतिपादितस्वरूपं मां नित्यनिर्विकारैकचित्स्वभावं परमात्मानं न भजन्ते || २७ || के पुनस्त्वां भजन्ते इत्यत्र आह - येषां त्वन्तं गतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः || २८ || येषां पुनः जनानां मदनुग्रहादेव प्रत्युदितविद्याशक्तीनाम्, अत एव पुण्यकर्मणां सुकृतिनां पापम् अज्ञानलक्षणं अन्तं गतं विनाशं प्राप्तं; ते यथोक्तात् द्वन्द्वमोहात् निर्मुक्ताः दृढव्रताः स्थिरनियमाः सन्तो माम् एकं दैवतं भजन्ते मदभेदप्रतिपत्तिपर्यन्तया सपर्यया समाश्रयन्ते || २८ || प्. १७४) इत्थं च - जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् || २९ || साधिभूताधिदैवं मां साधियज्ञं तथा विदुः | प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः || ३० || मां यथोक्तस्वरूपं आश्रित्य चतुर्विधया भक्त्या आलम्बनीकृत्य ये जरामरणादिद्वन्द्वदोषविमुक्तये यतन्ते सततमविलुप्तोद्योगा भवन्ति, ते युक्तचेतसो यथोक्तसततसमाहितमनसो ब्रह्म स्वरूपादिभेदेन समनन्तराध्यायव्याख्यास्यमानसप्तविधविज्ञानदृशा मां विदुः मां जानते इत्योम् || ३० || गीताध्याये स्थितिमुपगताः सप्तमे सत्यरूपे सन्तः सम्यक्फलितसुकृताः केऽपि लोके यथास्मिन् | निःसन्देहाः सकलभुवनाभोगभागव्यवस्थां हस्तन्यस्तामलकफलवद् व्यक्तमालोकयन्तु || इति श्रीराजानकरामकण्ठविरचिते व्याक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे सप्तमोऽध्यायः || ७ || अथ अष्टमोऽध्यायः || अथ सप्तमेऽध्याये प्रतिपादितज्ञानविदो भक्तिलक्षणविज्ञानविशारदा ब्रह्मादीन् प्रकारान् विदुरिति यत् भगवता उक्तं, ततस्तेषां प्रकाराणां संजातस्वरूपजिज्ञासोऽर्जुन उवाच - किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || १ || अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन | प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः || २ || प्रश्नवाक्यानि एतानि गतार्थानि, किंतु किं तदिति तच्छब्दस्य अयमभिप्रायः - यत् भगवता उक्तप्रायेषु तेषु प्रकारेषु किं तद् ब्रह्म कः प्रकारो ब्रह्मस्वरूपः, किमध्यात्मं कश्च अध्यात्मस्वरूप इति विभागजिज्ञासारूपः | प्रयाणकाले कथं ज्ञेयोऽसि इति पूर्वमनुक्तार्थविषयः पृथक् प्रश्नः || १-२ || यथोक्तप्रश्नव्याकरणार्थं भगवानुत्तरमाह - अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते | भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः || ३ || अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् | अधियज्ञोऽहमेवात्र देहे देहभृतां वर || ४ || अन्तकालेऽपि मामेव स्मरन् मुक्त्वा कलेवरम् | यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः || ५ || तत्र ब्रह्म किमुच्यते इति प्रश्ने तावदुत्तरम् - परममक्षरं ब्रह्म न क्षरति न संचलति न स्वरूपात् च्यवतीति अक्षरं चिद्रूपमुच्यते | प्. १७६) तत् च द्विप्रकारं संभवति ब्रह्मरूपं, जीवरूपं च | यत् ब्रह्मरूपं, तत् परमं; तस्य न कदाचित् स्वरूपात् संचलनं भवति | यतस्तस्य प्रबन्धतः स्वरूपं जन्मविनाशादिभावविकारासंसृष्टैकचिन्मात्रलक्षणं सहजनित्यानन्दैकधर्मकं सकलविश्वभावावभासकत्वात् विश्वरूपमपि विश्वभाववदवच्छेद्यत्वेन कथंचिदसंगतत्वात् तेभ्यो व्यतिरिक्तं प्रतिपादितमेव | जीवरूपं तु कूटस्थत्वे सति अक्षरं भवति, किन्तु अपरं परब्रह्मवत् परत्वेन न अवस्थितं, यतस्तस्य मायावशात् क्षरस्वभावप्राकृतभावाहंप्रत्ययालम्बने सति देहादिप्राकृतभाववत् प्रलयोदयौ जन्ममरणादिकं वा तत्स्वरूपमनुविदधानस्य स्वरूपप्रच्युतिसंबन्धे सति अपरमक्षरत्वम् | यत् वक्ष्यति द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते || यस्मात् क्षरमतीतोऽहमक्षरस्यापि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || (१५|१८) इति | इत्थं ब्रह्मापेक्षया जीवानां नित्यत्वेऽपि प्रतिपादितोपपत्त्या निकृष्टमक्षरत्वं, परमं तु अक्षरं ब्रह्म, - इति प्रथमप्रश्नस्य उत्तरम् | अध्यात्मं किमुच्यते इत्यत्र उत्तरं स्वभावोऽध्यात्मम् इति | स्वभावशब्देन भूमिरापोऽनलो -------------------------| (७|४) इत्यादिना --------------------------------- ययेदं धार्यते जगत् | (७|५) इत्यन्तेन ग्रन्थेन अपरा परा च प्रकृतिर्भगवता प्राक्प्रतिपादिता प्. १७७) इह उच्यते | एवं प्रकृत्यात्मकः स्वभावः परमकारणरूपसत्यात्मावभासितनानात्माधीनत्वादध्यात्ममिति उक्तः | आत्मा हि परमेश्वरो जडचेतनविभागेन स्वेच्छया आत्मानमेव अवभासयति, यदुक्तं कल्पयत्यात्मनात्मानमात्मा देवः स्वमायया | स एव कुरुते भेदानिति वेदान्तनिश्चयः || (मां० का० २|१२) इति | एवं द्विप्रकारप्रकृतिलक्षणस्वभाव आत्माधीनत्वादध्यात्ममुच्यते, - इति द्वितीयप्रश्नस्य उत्तरम् | अथ किं कर्म इत्यत्र उत्तरं विसर्गः कर्मसंज्ञितः इति | विसर्गो विशिष्टा परब्रह्मव्यतिरिक्ता सृष्टिः कर्मेतिसंज्ञितः | तस्य हेतुगर्भं विशेषणमाह भूतभावोद्भवकरः भूतानां जडाजडप्रकृत्यात्मकानां यो भावः सत्ता जडानां प्रवाहनित्यतारूपा, चेतनानामन्योन्यविभक्तत्वेऽपि कूटस्थनित्यतारूपा; तस्य भावस्य उद्भवं तथावभासनरूपामभिव्यक्तिं यः करोति, स तथोक्तः | ईश्वरेच्छया अनादिना प्रबन्धेन जडचेतनयोः प्रकृत्योर्यः संयोगस्तेन कृतो यः स्वप्रपञ्चमयः सर्गः, स तयोः कर्मेति उच्यते, यत उक्तं प्राक् एतद्योनीनि भूतानि सर्वाणीत्युपधारय | (७|६) इति | एवं बुद्ध्यादिपृथिवीपर्यन्तप्रपञ्चलक्षणो जडायाः प्रकृतेर्यो विविधः सर्गः, तथा चतुर्दशविधप्राणिप्रपञ्चलक्षणो यो जीवभूतायाः प्रकृतेर्विविधः सर्गः; स तयोः संयोगजत्वात् तयोः कर्मत्वेन विसर्ग उक्तः, - इति तृतीयप्रश्नस्य उत्तरम् | अथ अधिभूतं किमुच्यते इत्यत्र उत्तरम् - अधिभूतं क्षरो भावः इति | क्षरः परिणमद्रूपतया स्वरूपसंचलनपरो यो भावः प्रतिपुरुषं विभक्तकार्यकारणकलापात्मकः प्. १७८) पदार्थः, सोऽधिभूतमुच्यते तस्य भूताधीनत्वात् | भूतरूपा प्रकृतिः कार्यकारणात्मना विपरिणमते इति क्षरो भावोऽधिभूतमिति चतुर्थप्रश्नस्य उत्तरम् | अथ अधिदैवं किमुच्यते इत्यत्र उत्तरम् पुरुषोऽधिदैवतम् इति | पुरुषः क्षेत्रज्ञ इति जातावेकवचनम् | अतस्ते ते पुरुषास्तत्तद्वासनानुगुण्येन परिणतप्रविभक्ततत्तत्कार्यकारणात्मकक्षरभावरूपेऽर्थे- ऽधिष्ठातृतया अवतिष्ठमाना अधिदैवतत्वं भजन्ते, इति पुरुषोऽधिदैवतमिति पञ्चमप्रश्नस्य उत्तरम् | अथ अत्र देहे कथं केन प्रकारेण कश्चाधियज्ञः इत्यत्र उत्तरमाह अधियज्ञोऽहमेवात्र इति | परस्परविभक्तकर्त्रभिमानाविष्टनानाक्षेत्रज्ञाधिष्ठितेऽस्मिन् देहे यद्यपि क्षेत्रज्ञा एव अधियज्ञत्वमर्हन्ति तत्तत्फलाभिसन्धिना तं तं यागविधिमनुतिष्ठन्तस्तादृशमवच्छिन्नमात्मानं कर्तृत्वेन अभिमयन्ते, तथापि पारमार्थिकस्य कर्तृत्वस्य अनन्यसाधारणत्वादहमेव मुख्यः कर्ता सर्वयज्ञानामिति अहमेव अधियज्ञो, न अन्यः | कथमिति प्रकारप्रश्नेऽपि एतदेव उत्तरम् अहमेव | अहमित्यनेनैव प्रकारेण अहमधियज्ञः | इदमत्र तात्पर्यम् योऽपि क्षेत्रज्ञानां शरीराद्यालम्बननिमित्ताहंकारः, योऽपि परस्वरूपनिष्ठो मम, तयोरहंकारत्वे नास्ति कश्चित् भेदः, केवलं मायावशात् क्षेत्रज्ञानामवच्छेद्यालम्बननिष्ठत्वादवच्छिन्न इव असौ, मम तु स्वभावनिष्ठत्वादनवच्छिन्नः इति अहमेव, न अन्यो मुख्याहंकारनिष्ठतया अधियज्ञो, न प्रकारान्तरेणेति सर्वयज्ञेषु अधिकृतः प्रभुरहमेव | यद्वक्ष्यति अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेवच | (९|२५) प्. १७९) इति षष्ठस्य प्रश्नस्य उत्तरम् | अनेनैव न्यायेन अधिभूतमहमेवेति बोद्धव्यम्, भूतभावेन परमार्थतोऽहमेव स्थित इत्यर्थः | तथैव अधिदैवतत्वेन पुरुषाख्यो यः प्रकार उक्तः, तत्र अहमेव अधिकृत इति प्रश्नषट्कस्य संक्षेपतो व्याकरणमेवं वेदितव्यम् | यदुत ब्रह्मात्मकर्मसंज्ञं परमात्मक्षेत्रज्ञप्रकृतिपरिणामरूपं सप्तमे तत्त्वत्रयं निर्णीतम्, तत्र यथाक्रममधियज्ञाधिदैवताधिभूतभावेन अहमेव तत्त्वतो व्यवस्थितो, न मद्व्यतिरिक्तं किंचित् संभवतीति तात्पर्यम् | तथा ते ब्रह्म तद्विदुः कृत्स्नम् ----------------- | (७/२९) इत्यादिना तत्त्वत्रयमेतदुक्त्वा साधिभूताधिदैवं मां साधियज्ञं च ते विदुः | (७/३०) इति तद्व्यापकत्वेन आत्मानं भगवान् निर्दिष्टवान् | अथ प्रयाणकाले देहात् देहान्तरसंक्रमणसमये नियतात्मभिर्निगृहीतान्तःकरणैः कथं ज्ञेयोऽसीत्यत्र उत्तरं अन्तकालेऽपि मामेव इत्यादि | अन्तकालेऽपि तत्तत्कर्मक्षयात् तस्य तस्य शरीरस्य प्रक्षयसमये मां यथोक्तविशेषणं परमात्मानं स्मृत्वा संचिन्त्य मत्स्वरूपप्रत्यवमर्शपूर्वं कलेवरं शरीरं त्यक्त्वा स्वातन्त्र्येण विमुच्य यः प्रयाति ततो देहादुत्क्रामति, स मद्भावं मदीयां सत्तां याति अहमेव संपद्यते इति | अत्र न संशयः सन्देहो नास्ति || ३-५ || तथा युक्तिं प्रदर्शयितुमाह - यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || ६ || यं यं सात्त्विकं राजसं तामसं वा भावं पदार्थं स्मरन् सात्त्विक्या राजस्या तामस्या वा बुद्ध्या ध्यायन् पुरुषः अन्ते अवसाने देहं जहाति, तं तमेव देहान्तरं प्रपद्यते | अत्र हेतुगर्भं प्. १८०) विशेषणमाह सदा तद्भावभावितः सदा नित्यकालं तस्मिन् तादृशि सात्त्विकादौ भावे भावितः संजातभावनो यतः | किमुक्तं भवति | वर्तमाने देहे यदेव सात्त्विकादिकं वस्तु पुरुषोऽभ्यासेन भावयति, तत् तद्भावनाभ्यासप्रकर्षाहितसंस्कारस्तमेव अन्तेऽवश्यं स्मरति | यमेव च स्मरन् तस्मात् देहादुत्क्रामति, तमेव समनन्तरे देहान्तरे लभते, यत् वक्ष्यति यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् | तदोत्तमविदां लोकानमलान्प्रतिपद्यते || रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | तथा प्रलीनस्तमसि मूढयोनिषु जायते || (१४/१५) इति || ६ || यत एवं - तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च | मययर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् || ७ || तस्मात् उक्तात् कारणादाप्तोपदेशप्राप्तिक्षणात् प्रभृति सर्वेषु कालेषु कालशब्द उपलक्षणार्थस्तेन सर्वेसु देशेषु सर्वेषु आकारेषु सर्वासु अवस्थासु यथाप्रतिपादितस्वरूपं मां परमात्मानं परमेश्वरं अनुस्मर संचिन्तय मत्स्वरूपध्यानानुपरतनिविडावधानो भव, युद्ध्य च स्वकर्म अनुतिष्ठ च येन मयि यथोक्तेन प्रकारेण नित्यविनिवेशितान्तःकरणो निःसंशयं मामेवैष्यसि मदभेदं प्राप्स्यसि अहमेव भविष्यसीत्यर्थः || ७ || प्रतिपत्तिदार्ढ्यार्थमेनमेव अर्थं विवरीतुमाह - अभ्यासयोगयुक्तेन चेतसानन्यगामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् || ८ || प्. १८१) नित्यानुस्मरणयत्नलक्षणे समाधौ युक्तेन संबद्धेन, अत एव अनन्यगामिना यथोक्ततत्त्वव्यतिरिक्तवस्त्वन्तरविरतगतिना अन्तःकरणेन अनुचिन्तयन् सदा ध्यायन् संस्कारबलात् परमं सर्वेभ्यः क्षेत्रज्ञेभ्यः उत्कृष्टमेकं पुरुषं आत्मानं दिव्यं दिवि परमव्योम्नि स्वभावमये भवं याति प्रतिपद्यते तादात्म्यमुपैति || ८ || एवमबाधितोपपत्त्युपन्यासपूर्वं यथाप्रतिपादितानुत्तरज्ञानमात्रसाधनं परमुत्क्रान्तिक्रमं प्रतिपाद्य इदानीं प्राणजयादिसाध्ययोगसाधनमपरं तं प्रतिपादयितुमाह - कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः | सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् || ९ || प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव | भ्रूवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् || १० || स एवंविधो योगी तं दिव्यं दिवि परमव्योम्नि भवम्, अत एव परं सर्वोत्कृष्टं पुरुषम् ईश्वरमात्मानम् उपैति प्राप्नोति | कोऽसौ | यो भक्त्या भगवदनुग्रहदिवसालोकप्रभातसंध्यया सकलपुरुषार्थसिद्धिबीजभूतया तथा प्रस्तुतस्वरूपनिरूपणसमाधिसामर्थ्येन युक्तः सन् तस्यामवस्थायाम् अचलेन स्थिरसमाधानेन मनसा अन्तःकरणेन सर्वस्य घातारं परमकारणम् अनुस्मरेत् अन्तकालेऽनुचिन्तयेत् | कथं, कीदृशं च भ्रुवोर्मध्ये अभ्यासस्वतन्त्रीकृतं प्राणम् आन्तरं मारुतं सम्यक् मध्यमेन मार्गेण आवेश्य संधाय आदित्यवर्णं सर्वतेजोव्यतिरिक्तज्योतीरूपम्, अत एव तमसः परस्तात् प्. १८२) अज्ञानस्य पृथक्तया वर्तमानम् | कीदृशं सर्वस्य घातारमनुस्मरेत् परावस्थायां कविमित्यादिविशेषणाविशिष्टत्वात् अचिन्त्यं पारमार्थिकज्ञातृस्वभावत्वात् चिन्तनक्रियायाः कर्मत्वं नेतुमशक्यम्, यतः पुराणं कविम् अनादिं द्रष्टारं, तथा अनुशासितारं सर्वस्य चराचरस्य सर्गस्य तेन तेन नियमेन नियन्तारम्, अतः सर्वज्ञं सर्वकर्तारं चेत्युक्तं भवति; तथा स्वरूपतोऽणुः सूक्ष्मः क्षेत्रज्ञादिः, तस्मादपि अणीयांसम् अतिशयेन अणुम् | इदमत्र तात्पर्यम् यः परावस्थायामद्वयज्ञानैकविषयत्वात् स्मरणव्यापाराविषयभूतस्तत्संयोगरूपायामपरावस्थायां नियतदेशत्वेन नियताकारत्वेन च यो योगी यथोक्तेन क्रमेण स्मरति, स तमेव पुरुषमुपैति तत्समीपं गच्छति || १० || योगक्रम एव परमपदप्राप्तिफलो यथा भवति, तथा सम्यक् वक्तुं प्रतिजानीते - यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेणाभिधास्ये || ११ || तत् पदं योगिभिः प्राप्यं धाम संग्रहेण संक्षेपेण ते तुभ्यम् अभिधास्ये कथयिष्यामि | किं तत् धाम | यद् वेदविदः वेदार्थविशारदाः अक्षरं नित्यं विद्वांसो वदन्ति प्रवचनेन प्रतिपादयन्ति | यत् च यतयः ज्ञानैकनिष्ठाः विशन्ति समापद्यन्ते | यत् च इच्छन्तः प्राप्तुकामाः ब्रह्मचर्यं ब्रह्मणो वेदस्य अध्ययनश्रवणादिना चर्यमाचारं चरन्ति गच्छन्ति समाश्रयन्ते | केचित् विदन्ति इति पाठं पठन्तः एवमेतत् व्याचक्षते यथा वेदविद्ग्रहणेन गृहस्थवानप्रस्थाः प्रतिपादिता यतस्ते शास्त्रोक्तक्रियानुष्ठाननिष्णाताः सन्तस्तत् पदं विदन्ति जानन्ति प्. १८३) प्राप्यतया अध्यवस्यन्ति, यतयस्तु कृतकृत्यत्वात् विशन्ति तादात्म्यमाप्नुवन्ति, ब्रह्मचारिणस्तु तत्प्राप्तुकामाः स्वाध्यायशास्त्रार्थबोधादिनिष्ठा व्रतविशेषं भजन्ते इति || ११ || यथाप्रतिज्ञातमभिधातुमाह - सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् || १२ || ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् | यः प्रयाति त्यजन् देहं स याति परमां गतिम् || १३ || योगी परमां गतिं पूर्वोक्तं प्रकृष्टं पदं याति प्रतिपद्यते | कोऽसौ | यः एवं देहं शरीरं त्यजन् विमुञ्चन् प्रयाति उत्क्रामति | कीदृशः | मामनुस्मरन् योगधारणामास्थितः मां यथोक्तस्वरूपं परमकारणमोंकारवाच्यं ब्रह्मतत्त्वमनुध्यायन् योगस्य कस्यचित् समाधेरालम्बनीभूतेऽर्थे चित्तनियमरूपां धारणां भूमिकामास्थित आश्रितः | कथमास्थितः | प्रथमतरं सर्वद्वाराणि चक्षुरादीनि चित्तवृत्तिप्रसरवर्त्मानि संयम्य यथास्वं विषयेभ्यः प्रत्याहृत्य, मनश्च उपदेशाधिगते हृदि सर्वसंविदधिकरणभूते देहैकदेशे निरुध्य प्रतिषिद्धेन्द्रियविषयप्रचारं कृत्वा, तथा प्राणम् अन्तश्चरं मारुतं मूर्ध्नि ब्रह्मरन्ध्रे ब्रह्मपुरार्गलभूतभ्रुमध्यग्रन्थिभेदात् लब्ध (मार्गं सन्तम् आधाय कृत्वा ), तह्था ओमितिप्रसिद्धैकाक्षररूपं ब्रह्म शब्दतत्त्वं व्याहरन् उच्चारयन् | एवं प्राणस्य मूर्ध्नि प्रेरणं, प्रणवस्य उच्चारणं, प्रणववाच्यस्य च मत्स्वरूपस्य अनुस्मरणं चेति सर्वेन्द्रियमनोनियमपूर्वकं युगपत् प्. १८४) त्रितयमेतत् संपादयन् यो देहविसर्गं करोति, स योगी परमं पदमाप्नोतीति तात्पर्यम् || १३ || तस्मिन् प्रयाणकाले तात्कालिकावस्थाविसंस्थुलचित्तो योगी कथमत्र समाधिं साधयेदित्यत्र पूर्वोक्तं कारणमाह - अनन्यचेताः सततं यो मां समरति नित्यशः | तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः || १४ || तस्य नित्ययुक्तस्य अविच्छिन्नसमाधेः योगिनोऽहं नित्यशः सर्वासु अवस्थासु सुखात्मिकासु दुःखात्मिकासु वा सुलभः सुप्रापः | कस्य | यः सततम् अव्यवधानेन मां यथोक्तयोगाभ्यस्तरूपतया एकं तत्त्वं परमात्मानम् अनन्यचेताः अन्यतोमद्व्यत्तिरिक्तात् वस्तुनो निवृत्तान्तःकरणः स्मरति आत्मत्वेन प्रत्यवमृशति | यं यं भावं स्मरन्वापि -------------------- | (८|६) इत्यादिना उक्तोपपत्त्या सर्वात्मकमत्स्वरूपप्रत्यवमर्शाभ्याससुदृढसंस्कारस्य योगिनस्तस्यामवस्थायामहमात्मभूतत्वात् कथं दुष्प्राप इति तात्पर्यम् || १४ || ये च अनेन क्रमेण मां प्रपन्नास्ते - मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् | नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः || १५ || महात्मानः यथोक्तज्ञानपरिशीलनभावात् महान् सर्वातिशायी परमेश्वर एव आत्मा येषां, ते तथा, अत एव मां यथोक्तया भक्त्या उपेत्य समाश्रित्य परमां संसिद्धिम् अभेदसमापत्तिलक्षणां परमां फलसंपत्तिमितः संसारात् गताः सन्तः प्. १८५) पुनः भूयो जन्म देहान्तरप्राप्तिं नाप्नुवन्ति न लभन्ते | कीदृशं जन्म | दुःखानामाध्यात्मिकादीनां संग्रहात् त्रिप्रकाराणां विस्तारतोऽनन्तभेदानामालयमास्पदम्, तथा अशाश्वतम् अवश्यमनुषक्तशरीरेन्द्रियादिसर्वस्वविनाशम् | अनात्मनि आत्मप्रत्ययनिबन्धना सर्वदुःखयोगिता जन्मविनाशादिविकारसंबद्धता च जीवानां सामान्यं परमकारणमेकमात्मानं मामहन्तया प्रतिपन्नानां पुनर्न संभवतीति तात्पर्यम् || १५ || एवं च यथोक्तेन नयेन मत्समाश्रयणमेकमुपायं वर्जयित्वा न अन्यत् किंचिदपुनरावृत्तिकारणं संभवतीत्याह - आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन | मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते || १६ || परमप्रकृष्टतपोयज्ञदानादिपुण्यकर्मप्राप्यो ब्रह्मणः प्रजापतेर्लोको ब्रह्मलोकः, तमवधिं कृत्वा यानि कानिचित् पुण्यकर्मप्राप्याणि लोकान्तराणि संभवन्ति, तेषु ये लोकाः तत्तत्क्रियानुष्ठातृत्वात् लब्धोपपत्तयो जनाः, ते यथोक्तज्ञानशून्यत्वात् तासां क्रियाणामनुष्ठितानामन्तवत्त्वे सति पुनरावर्तिनः भूयः संसारवर्त्मनि प्रादुर्भाविनः | मां पुनर्यथोक्तज्ञाननिर्मलभक्तिमात्रैकोपायगम्यं परब्रह्मस्वरूपं परमेश्वरम् उपेत्य तादात्म्यप्रतिपत्तिपर्यन्तमाश्रित्य पुनर्जन्म संसारभूमावुत्पत्तिः न विद्यते एव | मामुपेत्य भूयो न जायन्ते इति उपायजननक्रिययोरेककर्तृत्वमत्र अवगन्तव्यम् || १६ || अथ कथं ब्रह्मलोकवासिनोऽपि पुनरावर्तन्ते, न पुनर्मत्प्रपन्ना इत्यत्र क्रमेण कारणमाह - सहस्रयुगपर्यन्तमहर्ये ब्रह्मणो विदुः | रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः || १७ || प्. १८६) ये जागरस्वप्नाद्यवस्थाहेतुभूतसूर्योदयास्तमयोपलक्षितमेव कालविशेषमहोरात्रतया मन्यन्ते, न ते तत्त्वतोऽहोरात्रस्वरूपज्ञाः ये तु ब्रह्मणः प्रजापतेर्दिव्यया संख्यया चतुर्युगानां सहस्रं पर्यन्तोऽवधिर्यस्य, तावत्प्रमाणमहर्वासरं विदुः जानते, तावत्परिमाणामेव च रात्रिं ते तत्त्वज्ञाः अहोरात्रविदः उच्यन्ते | किमनेन उक्तं भवति | यथा मर्त्यानां नालिकाषष्ट्यवच्छिन्नः कालोऽहोरात्रः, तथा ब्रह्मलोकनिवासिनां चतुर्युगसहस्रद्वयावच्छिन्नः कालोऽहोरात्रः | ततश्च यथा मर्त्याः स्वाहोरात्रपरिसंख्यया परिकलितं वर्षशतं पुरुषायुषमतिवाह्य पुनर्देहान्तरं भजन्ते इति इह व्यवस्था, तथा ब्रह्मलोकनिवासिनोऽपि यथोक्तपरिमाणावच्छिन्नाहोरात्रकल्पनया वर्षशतं पुरुषायुषमतिवाह्य पुनर्देहान्तरं भजन्ति, इति कर्मभूमिभाजां मर्त्यानां ब्रह्मलोकनिवासिनां च पुण्यकर्मणामहोरात्रादेः पुरुषायुषपर्यन्तस्य कालस्य ह्रासदैर्घ्यकृतो विशेष्ऽह्, नतु संसारित्वे तेषां कश्चित् विशेषः | ततो यथा मर्त्याः पुनरावर्तन्ते, तथा ब्रह्मलोकान्तरनिवासिनोऽपि स्वकालपरिमाणेन पुरुषायुषमतिवाह्य पुनरावर्तन्ते इति आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनः ( ८|१६) इति उक्तम् | तेन इदमत्र तात्पर्यम् - यथोक्तज्ञानशून्यपुण्यक्रियाविशेषानुष्ठानलभ्ये कालावच्छेदतुच्छभोगाधिकरणे ब्रह्मलोकादौ विवेकिना न स्थैर्यास्थाविप्रलब्धेन भवितव्यम् | सोऽपि विशिष्टजात्यायुर्भोगसंबन्धात् संसारे एव, युगसहस्रपरिमाणमपि कालदैर्घ्यमन्तवत्त्वात् मर्त्याहोरात्रात् न व्यतिरिच्यते इति यथोक्तं युगसहस्रद्वयपरिमाणं कालमहोरात्रत्वेन ये मन्यन्ते, तेऽहोरात्रविदो जनाः इति उक्तम् || १७ || प्. १८७) इदानीं तु तस्य ब्राह्मस्य अहोरात्रस्य स्वरूपप्रतिपादनद्वारेण मर्त्याहोरात्रतुल्यवृत्तान्ततामुपदेश्यानां विवेकनैर्मल्याय उपदेष्टुमाह - अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके || १८ || भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे || १९ || अव्यक्तात् ईश्वरोद्भावितजगत्कारणभावात् गुणसाम्यात्मनः प्रधानापराभिधानात् पदार्थात् युगसहस्रपरिमाणब्रह्मदिवसाविर्भावे सति सर्वा व्यक्तयः सर्वभावानां सर्वे विशेषाः प्रभवन्ति प्रादुर्भवन्ति | यथा सूर्योदयात् प्रवृत्ते दिवसे सर्वप्राणिनां सर्वक्रियाविशेषाः प्रभवन्ति, तथैव युगसहस्रपरिमाणे ब्रह्मनिशागमे तत्रैव यथोक्तेऽव्यक्तसंज्ञतत्त्वे प्रलीयन्ते व्यक्तरूपतां परित्यज्य शक्तिमात्रत्वेन अवतिष्ठन्ते यथा इह सर्वप्राणभृतां सूर्यास्तमयात् संजाते निशागमे सर्वेन्द्रियप्रवृत्तयोऽन्तरेव प्रलीयन्ते | किमत्र तात्पर्यम् इह उदयास्तमययोः सर्गप्रलययोश्च पर्यायेण प्रवहतोरनित्यत्वे नास्ति कश्चित् भेदः, केवलं कलेवरादिविनश्वरभावार्हाभावसंकलितनिसर्गनिरवच्छेदसंवि- दां मायाशक्तिमोहितानां ह्रासदैर्घ्यकल्पनाकृतो विशेषविभ्रमः, न तदा यथोक्तज्ञाननिष्णाततया कालानवच्छिन्ने सत्ये स्वात्मनि अहंप्रतिपत्तिर्विवेकिभिर्दृढीकार्येति | एतदेव निगमयति भूतग्रामः स एवायम् इति | स एव अयं चतुर्दशविधेन प्रपञ्चेन प्रविभक्तो भूतग्रामः चराचरप्राणिवर्गो यथोक्तेन क्रमेण सर्गादौ भूत्वा प्. १८८) भूत्वा पुनः पुनरभिव्यक्तिमासाद्य रात्र्यागमे ब्रह्मरात्रिसंज्ञे प्रलयकाले प्रलीयते न्यग्भवति, अहरागमे सर्गादौ प्रभवति व्यक्तिमासादयतीति || १९ || एवम् आ ब्रह्मभुवनाल्लोकाः पुनरावर्तन्ते इत्येतदर्थप्रतिपादनप्रसङ्गेन सर्गप्रलयस्वरूपं प्रतिपाद्य इदानीं मत्प्रतिपन्ना येन कारणेन न पुनरावर्तन्ते, तत् प्रतिपादयितुमाह - परस्तस्मात्तु भावोऽन्यो व्यक्ताव्यक्तः सनातनः | यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति || २० || अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद्धाम परमं मम || २१ || तस्मात् अव्यक्तसंज्ञात् जगत्कारणत्वेन अवभासितात् पदार्थात् प्रधानाख्यात् परः पुनरन्यो विलक्षणः भावः परमार्थः सत्पदार्थो विद्यते इति शेषः | कीदृशः | व्यक्ताव्यक्तः व्यक्तं कारणत्वेन प्रधा(नता)नापन्नमव्यक्तं प्रधानात्मकं वस्तु यस्मात्, तथाविधः, विवक्षितेश्वरलक्षणभाववशात् किल अव्यक्तव्यवहारोऽयं प्रतीयते; यदिवा व्यक्तश्च अव्यक्तश्चेति विशेषणसमासाश्रयणेन व्याख्येयमेतत्पदम् | स हि भावो नित्योदितप्रकाशात्मकतयैव सर्वमिदं प्रकाशयन् व्यक्त एव, मायावशात् तु सर्वस्य तथाप्रतिपत्त्यभावादव्यक्तः | तथा सनातनः सदा सर्वकालं भवतीति सनातनो नित्यः | कीदृशोऽसौ | समस्तेषु जडचेतनभेदेन द्विप्रकारेषु अवान्तरभेदादपर्यन्तप्रपञ्चेषु भूतेषु प्राणिषु नश्यत्सु उक्तेन प्रकारेण प्रधाने प्रलयमनुभवत्सु न विनश्यति नित्योदिताद्वैतचित्प्रकाशात्मकत्वात् प्रलीनत्वादिव्यपदेशं न याति, कुतोऽत्यन्ताभावता | तत् कस्मात् न उपलभ्यते इत्याह अचिन्त्यस्वमायाशक्तिमोहितान् प्रति यथास्थितेन नित्येन प्. १८९) रूपेण अप्रथमानत्वात् अव्यक्तः परमार्थतः पुनः अक्षरः न क्षरति स्वस्मात् स्वरूपात् न संचलति | यश्च एवं विधो भावस्तं परमां गतिम् अनुत्तरां प्राप्तिं आहुः तत्त्वविदः | अत एव कीदृशं तम् | यं प्राप्य आसाद्य आत्मत्वेन प्रतिपद्य प्रशान्तप्राप्यान्तरस्पृहा यथोक्ता योगिनो न निवर्तन्ते संसारसरणिं न अवतरन्ति यतस्तथाविधो यो भावः तत् मम परस्य ब्रह्मणः परमकारणस्य परमेश्वरस्य धाम नित्योदितप्रकाशो निरुत्तरस्थानं वा | तदेवंविधं मां ये प्रपन्नास्ते न पुनरावर्तन्ते इति तथा विधानां योगिनामपुनरावृत्तिकारणं प्रतिपादितम् || २१ || तस्यैव यथोक्तस्य भावस्य स्वरूपं निगमयन् तत्प्राप्त्युपायं स्मारयन्नाह - पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया | यं प्राप्य न पुनर्जन्म लभन्ते योगिनोऽर्जुन || २२ || यस्यान्तः स्थानि भूतानि यत्र सर्वं प्रतिष्ठितम् | य एष यथाप्रतिपादितस्वरूपो भावः स परः सर्वक्षेत्रज्ञातिरिक्तप्रभावत्वात् निरतिशयः पुरुषशब्दवाच्यः | सर्वशरीरान्तःशायित्वात् पुरुषः परमात्मा | कीदृशः | उक्तवक्ष्यमाणप्रकारेण यं प्राप्य आत्मत्वेन प्रतिलभ्य योगिनः स्वीकृतनानाविधसमाधिभेदाः पुनः भूयो जन्म संसारितया उत्पत्तिं न लभन्ते न आप्नुवन्ति, तथा यस्य एकस्य अन्तः सामान्यसंविल्लक्षणे हृदये स्थितानि सर्वाणि चराचरभूतानि | नहि तेषामेवमन्योन्यविभिन्नरूपतया स्फुरतामद्वयैकचिन्मात्रानुप्रवेशमन्तरेण सत्तासंभवः, अत एव यत्र यस्मिन् सकलजगत्पदार्थसार्थसामान्याधारे प्. १९०) सर्वम् इदं प्रतिष्ठितं कृतव्यवस्थानम् | स पुनरित्थंभूतो भक्त्या प्रतिपादितोत्तरोत्तरप्रकृष्टार्तत्वादिज्ञानिपर्यन्तचतुरवस्थारूपया सेवया लभ्यः प्राप्यः | कीदृश्या | अनन्यया तत्स्वरूपव्यतिरेकेण सर्वासु अवस्थासु अविद्यमानमन्यदालम्बनं यस्यास्तया तथाविधयेति || अथ अन्यमुत्क्रान्तिविषयं योगोपदेशं प्रस्तावयन्नाह - यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः || २३ || प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ | यत्र यस्मिन् वक्ष्यमाणे काले प्रयाताः संन्यस्तदेहाः सन्तो योगिनोऽनावृत्तिं तथा आवृत्तिं विशिष्टभोगाधिकरणयोग्यशरीरादिसंबन्धं यान्ति स्वातन्त्र्येण भजन्ते, तं तादृशं वक्ष्यमाणक्रमेण योगिनामेव सुलभं कालम् उपदेक्ष्यामि || २३ || तमाह - अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् || २४ || तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः | धूमः कृष्णस्तथा रात्रिः षण्मासा दक्षिणायनम् || २५ || तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते | इह अग्नीषोमौ प्रकाशतमसी, तदुपलक्षिते दिनरात्री; शुक्लकृष्णौ पक्षौ; तथा षण्मासपरिमाणे उत्तरदक्षिणे अयने, इति स्थूलदृष्ट्या कालविभागमाचक्षते तस्य देवपितृमर्त्यविषयत्वेन प्रकृष्टमध्यमनिकृष्टपरिमाणतां च | इत्थंस्थिते अग्निर्ज्योतिः सूर्यप्रकाशस्तदुपलक्षितम् अहः त्रिंशन्नालिकावच्छिन्नपरिमाणो दिवसाख्यः कालांशः | आपूर्यमाणसोमोपलक्षिताः पञ्चदश अहोरात्राः प्. १९१) शुक्लपक्षः शुक्लशब्देन निर्दिष्टः | तथा मकरादिराशिषट्कसंचारिविरोचनचारोपलक्षिताः षण्मासाः उत्तरायणम् इत्येते कालविशेषाः प्रसिद्धाः | तत्र एवं विधायां कालविशेषसामग्र्यां ये ब्रह्मविदः विज्ञातपरमकारणस्वरूपाः प्रयान्ति उत्क्रामन्ति शरीरमुत्सृजन्ति ते ब्रह्म परं तत्त्वं गच्छन्ति अपुनरावृत्तिं मोक्षगतिं प्राप्नुवन्तीत्यर्थः | तथा धूमः जलात्मकत्वात् सोमः, तथा तदुपलक्षिता रात्रिः प्रसिद्धा | कृष्णः क्षीयमाणसोमोपलक्षिताः पञ्चदश अहोरात्राः कृष्णः पक्षः | स च क्रमापेक्षया यथापाठं न व्याख्यातः | तथा कर्कटादिराशिषट्कसंचारिसूर्योपलक्षिताः षण्मासा दक्षिणायनम् | तत्र एवं विधायां कालसामग्र्यां पुनर्जन्महेतुभूतं चन्द्रमसं ज्योतिः तेजः प्राप्य योगी समाधिमान् आवर्तते पुनः संसारमार्गभवतरति | अत्र केचित् विचक्षणा एवं विचारमारभन्ते इह तावत् ब्रह्मणो यथोक्तस्य परमस्य कारणस्य द्विविधं वेदनम् स्वसंवेदनेन साक्षात्कारः, आप्तोपदिष्टस्य वा स्वरूपावगममात्रम् | तत्र आद्येन प्रकारेण ये ब्रह्मविदस्तेषां प्राप्तप्रापणीयत्वादुक्तकालसामग्री न ब्रह्मप्राप्तिहेतुत्वमर्हति, द्वितीयेऽपि पक्षे स्वरूपावगममात्रेण ये ब्रह्मविदस्तेषामसाक्षात्कृततत्त्वानां यथोक्तकालविशेषप्राप्तिमात्रमपुनरावृत्तिहेतोर्ब्रह्मणः प्राप्तिकारणमिति न शक्यते वक्तुम् | एवमुभयरूपाणामपि ब्रह्मविदामन्तकाले यथोक्तकालप्राप्त्यधीना ब्रह्मप्राप्तिरिति न युक्त्या संगच्छते | योऽपि योगी स्वीकृतसमाधिविशेषस्तस्य तद्बलानपोहेन यथोक्तकालविशेषप्राप्तिमात्रादेव पुनरावर्तनमयुक्तिमत् यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् | (८|६) प्. १९२) इत्यादिना प्रतिपादितोपपत्त्या सुदृढभावनाभावितस्य भावस्य अव्यभिचारात् मन्थरं भावितस्य तत्कालमसंस्मरणे सति पुनरावृत्तिः स्थितैव, किमुक्तः कालः करिष्यति | तदेवं योगी यथोक्तकालविशेषप्राप्तेः पुनरावर्तते इत्येतदपि न हृदयावर्जकम् | यदप्युच्यते यद्येष यथोक्तः कालो ब्रह्मप्राप्त्यादिहेतुर्न भवेत्, तत् कथं ब्रह्मविदोऽपि शान्तनवस्य तनुसंन्यासार्थमुत्तरायणप्रतीक्षा श्रूयते | सत्यं श्रूयते, किन्तु ब्रह्मप्राप्तिहेतुत्वेन तेन असौ कालो न प्रतीक्षितः | यदि हि स एव ब्रह्मप्राप्तिहेतुः स्यात्, तदा सर्वैर्ब्रह्मविद्भिर्देहोत्सर्गे स एव अपेक्ष्येत, तत्कालोत्सृष्टदेहाश्च सर्व एव अनावृत्तिभावं भजेयुः | न च एवमस्ति | नच एवंविधे काले म्रियेतेति विधिरुपपद्यते सर्वस्य मरणे स्वातन्त्र्याभावात् | भीष्मस्य तु स्वतन्त्रमृत्युत्वात् तादृक्कालप्रतीक्षणे निमित्तान्तरमनुमेयम् | तत् च इदम् यत् किल स्थूलया दृशा यथोक्तः कालः कलेवरसंन्यासावसरे समुपनतो गतिविशेषाधानहेतुर्भवति, इत्यागमवचनप्रमाणीकरणार्थं भीष्मस्य तादृक्कालप्रतीक्षोद्यमः, तस्मात् यथोक्तकालस्य मुख्यतया न अहोरात्रादिरूपत्वम् | ततश्च ब्रह्मविदां योगिनां च यथाक्रमं ब्रह्मप्राप्तेः पुनरावृत्तेश्च कारणभूतं यदेतत् कालगतिद्वयमुक्तम्, तत्र अवश्यं कश्चित् विशेषो बोद्धव्यत्वेन वर्तते | वक्ष्यति हि नैते सृती पार्थ जानन् योगी मुह्यति कश्चन | (८|२७) इति | नच एतयोः सृत्योर्बाह्यकालविशेषरूपयोर्देवयानपितृयानसंज्ञामात्रस्य ज्ञानं ब्रह्मादिप्राप्तिहेतुर्भवेत् | अतः कश्चित् विशेषो यथोक्तार्थसंगतिहेतुरत्रानुमेयः, इत्याचक्षते | कालस्य हि बाह्याभ्यन्तरभेदेन रहस्यशास्त्रेषु द्विप्रकारता प्रतिपादिता | तत्र प्. १९३) प्रसिद्धसूर्येन्दुचारोपलक्षितो बाह्यप्रकारः, प्राणापानलक्षणसूर्येन्दुचारोपलक्षितस्तु आभ्यन्तरः | तत्र मुख्यस्य बाह्यस्य प्रतिपादितबाधकसद्भावात् गौण आभ्यन्तरः समाश्रीयते, तेन अग्न्यादय उत्तरायणपर्यन्ताः शब्दाः पाणगतिप्रतिपादितत्वेन अत्र प्रयुक्ताः, यतः प्राणगतिरेव दिवसाद्युत्तरायणान्तकालावयवत्वेन तत्र तत्र रहस्यशास्त्रेषु तत्तद्विशिष्टशरीराद्यपेक्षया प्रसिद्धा | इत्थंस्थिते येषां यथोक्तज्ञाननिष्ठतया ब्रह्मविदां सतामन्तकाले स्वरसेन मूर्धच्छिद्राख्यब्रह्मद्वारवाहिनि प्राणचारे नियमितं संवित्स्रोतः प्राणोपशान्तिक्षणे सर्वतो निस्तरङ्गनिसर्गनिर्मलसामान्यसंविन्महोदधौ प्रविश्य समरसीभावमापद्यते, तेषां ब्रह्मप्राप्तिरव्यवधानेन उपपन्ना | स हि ब्रह्मविदां देवयानः पन्थाः | एषा एका तद्विषया शाश्वतिकी गतिः | यस्तु यथोक्ततत्त्वज्ञानव्यतिरेकेण अभ्यासस्वीकृतकेवलयोगः, तस्य योगिनो यथोक्तप्राणगतिनियमितमपि संवित्स्रोतः प्राणोपशान्तिक्षणे ब्रह्मवेदित्वाभावात् देहाद्यहंप्रत्ययपर्वतप्रतिहतप्रसरं सत् परावर्तते | परावर्तमानं च धूमादिदक्षिणायनशब्दान्तप्रतिपादितामपानवृत्तिमेव पितृयाणलक्षणां गतिं समाश्रित्य योगाभ्यासप्रकर्षानुसारोचितं विशिष्टं शरीरान्तरमाविशति, यत्र पूर्वाभ्यासह्नियमाणचित्ततया प्रकृष्टतरेण उत्साहेन यतमानः परां सिद्धिं प्राप्स्यतीत्युक्तम् | तदयमत्र संक्षेपार्थः ये ज्ञानित्वात् ब्रह्मविदः सन्तोऽन्तकाले यथाप्रतिपादितेन क्रमेण प्राणशक्त्यालम्बनचित्तवृत्तयस्तत्प्रशान्तिक्षणेऽपि अविलुप्तपरतत्त्वस्मृतयो देहमुत्सृजन्ति, ते निर्व्यवधानब्रह्मप्राप्तिवशात् न पुनरावर्त्तन्ते | ये तु केवलयोगिनः सन्तः प्राणवृत्तिमेव आश्रित्य देहमुत्सृजन्तो ज्ञानित्वाभावात् परतत्त्वस्मृत्यभावे सति उत्क्रामन्ति, प्. १९४) ते देहाद्यनुपरताहंप्रत्ययत्वादपानवृत्तिं संसारमार्गमाश्रित्य विशिष्टदेहान्तरं प्राप्नुवन्ति, यतः सर्वस्य कस्यचित् शरीरिणः सर्वसंसारिसाधारणप्राणवृत्त्याश्रयणेन वर्तमानात् देहादुत्क्रान्तस्य अपानवृत्त्याश्रयणेन भविष्यद्देहसंक्रान्तिर्भवति | ब्रह्मविदां योगिनां च इह प्रकरणे विशेष एव प्रतिपादितः || २५ || अत एव प्राणापानलक्षणान्तरविशिष्टमार्गद्वयत्वेन एतत् संग्रहीतुमाह - शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते | अनयोर्यात्यनावृत्तिमेकयावर्ततेऽन्यया || २६ || एते यथोक्ते द्वे गती प्राणापानवृत्तिरूपौ देवयानपितृयाणसंज्ञौ द्वौ मार्गौ जगतः सर्वलोकस्य शाश्वते नित्ये | तेन न सर्वः कश्चित् जनः प्राणमार्गाश्रयणेन देहादुत्क्रामति, किन्तु अपानमार्गाश्रयणेन देहान्तरे संक्रामति | ब्रह्मविदो योगिनश्च अयं विशेषो यत् अनयोः गत्योर्मध्यात् एकया ऊर्ध्ववाहप्राणरूपया शुक्लया गता यथाप्रतिपादितेन प्रकारेण अन्तकाले समाश्रितया ब्रह्मवित् अनावृत्तिं याति ब्रह्म प्राप्नोति | योगी तु तयैव उत्क्रामन् अन्यया अपानरूपया कृष्णया उक्तेन हेतुना आवर्तते विशिष्टदेहान्तरे संक्रामति || २६ || यतः - नैते सृती पार्थ जानन् योगी मुह्यति कश्चन | तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन || २७ || एते यथाप्रतिपादिते सृती प्राणापानरूपे गती जानन् प्. १९५) यथोक्तया महत्तया प्रतिपद्यमानो योगी प्राक्प्रतिपादितस्वीकृतमुख्ययोगो न कश्चित् मुह्यति सर्व एव तद्गतिज्ञः सन् ब्रह्मप्राप्तिहेतुगतिसमाश्रयणेन ब्रह्मैव प्राप्नोति, नतु संसारमितरगतिपरिहारात् | एतयोश्च गत्योरेवंविधां महत्तां ब्रह्मविदां ज्ञेयत्वेन स्थितां तत्त्वविदो वदन्ति | मनः प्रसरसहचरोऽयं प्राणप्रसरो यत उदेति, यत्र च अस्तमेति; तत् कालकलनादिसकलप्रपञ्चविरहितब्रह्मतत्त्वोपलब्धिपदम् | ततश्च यथोक्तप्राणप्रसरनिबद्धः सकलः कालादिः प्रपञ्चस्तदुदयास्तमयदशाविमर्शक्षमसंविदां ब्रह्मविदां प्रलीयते | तादृशीं च दशामासाद्य यो ब्रह्मवित् परमयोगी देहमुत्सृजति, स ब्रह्मण्येव परिणतो न पुनरावर्तते | यस्तु केवलयोगी तां दशां प्रत्यवमष्टुं (म्रष्टुं) न कुशलः, स चान्द्रमसं ज्योतिरपानप्रसररूपमाश्रित्य उत्क्रामन् देहान्तरे संक्रामति, यत्र क्रमेण सिद्धिमाप्स्यतीति | एवमनयोर्गत्योः सिद्धिहेतुविभागविज्ञानम् | अत एव उक्तं नैते सृती पार्थ जानन् योगी मुह्यति --------------- | इत्यादि | यत एवं, तस्मात् सर्वेषु कालेषु बाह्यदृष्ट्या उत्तरायणदक्षिणायनादिबहुभेदप्रतिपादितेषु योगयुक्तो भव यथोक्तेन प्रकारेण प्राणापानगतिज्ञानात्मके योगे समाधौ युक्तोऽवहितो भव || २७ || यतोऽस्य योगस्य अयं प्रभावः - वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम् | प्. १९६) अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् || २८ || इदं सप्तप्रश्नात्मकव्याकरणरूपं वस्तु विदित्वा ज्ञात्वा योगी यथोक्तसमाधिः तत् सर्वं वेदाध्ययनयज्ञतपोदानादि अन्तवत् पुण्यक्रियाफलम् अत्येति अतिक्रामति, यतः आद्यम् अनुत्तरमत एव परम् अनन्तानन्दमयत्वादत्युत्कृष्टं स्थानं धाम उपैति प्राप्नोति परमात्मनि स्वाभाविकीं प्रतिष्ठां लभते इति | यद्यपि एवं कैश्चिदयमर्थो व्याख्यातः यथामुया एव वृत्त्या उत्तरायणसामग्र्या प्रयाता ब्रह्मविदोऽर्चिरादिसंज्ञलोकान्तराक्रमणक्रमेण ब्रह्म गच्छन्ति, योगिनश्च अत एव योगिशब्देन उक्ता दक्षिणायनकालसामग्र्यां प्रयाताः सन्तः चान्द्रमसं ज्योतिः प्राप्य धूमादिसंज्ञलोकान्तराक्रमणक्रमेण संसार आवर्तन्ते इति | पूर्वोक्तयुक्त्या च एतदपि व्याख्यानं न संगच्छते | यथोक्तयुक्त्या च अयमपि क्रमोऽनयोरेव गत्योरन्तर्भवतीति केचित् मन्यन्ते | तदत्र परमार्थवेदिनः प्रमाणमिति ओम् || २८ || गम्भीरैर्विपुलैः स्वभावविमलैः श्रीमत्पदार्थोज्वलैः स्फीतां सप्तभिरम्बुराशिभिरिव ब्रह्मादिभिर्वस्तुभिः | अध्यायस्य नरोऽष्टमस्य विवृतिं पृथ्वीमिमामञ्जसा यः स्वीकर्तुमलं स एव विदुषां साम्राज्यमेकोऽर्हति || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणेऽष्टमोऽध्यायः || ८ || अथ नवमोऽध्यायः | अष्टमाध्यायपरिसमाप्तौ सप्तमप्रश्ननिर्णयेऽन्तकाले शुक्लकृष्णगतिद्वयज्ञानं ब्रह्मप्राप्त्युपायत्वेन उपदिष्टम्, अतस्तावन्मात्र एव ब्रह्मप्राप्त्युपायस्त्वया मा वेदि, इति अर्जुनमष्टमाध्याये प्रतिपादितमेव उपदेशं स्मारयन् संग्रहेण भगवानुवाच - इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || १ || तुशब्दो व्यतिरेके | अष्टमाध्यायोक्तलक्षणोपायव्यतिरेकेण इदं स्वबुद्धिनित्यसंनिहितं ज्ञानं ब्रह्मप्राप्त्युपायभूतं विज्ञानेन स्वसंवित्साक्षात्कारपर्यन्तेन विशिष्टेन ज्ञानेन बोधेन संयुक्तं तुभ्यमहं प्रकर्षेण संक्षेपतः सारप्रतिपादनरूपेण अतिशयेन वक्ष्यामि कथयिष्यामि | कीदृशाय | अनसूयवे शुद्धातिशुद्धबुद्धित्वात् यतोऽस्मै ज्ञानाय अनसूयसि यथोक्तस्य फलस्य असंभावनावशादज्ञवत् न गर्हणमारभसे | कीदृशं ज्ञानं वक्ष्यामि | गुह्यतमं गुह्यं गुह्यतरं च पूर्वेषु अध्यायेषु ज्ञानमुक्तम्, इदं तु तदपेक्षया अतिगुह्यं, अनाविर्भूतविवेकजज्ञानानां गुहायां दूरतरेऽध्वनि स्थितं, रहस्यतया वा गुह्यम् | अत एव त्वं यत् विदित्वा जन्मजरामरणचक्रपरिवर्तनलक्षणात् अशुभात् अश्रेयसः मोक्ष्यसे स्वयमेव मोक्षं प्राप्स्यसि || १ || यतो वक्ष्यमाणज्ञानोपायनिष्ठस्य अन्तकाले गतिद्वयज्ञानाभ्युपायव्यतिरेकेणापि ब्रह्मप्राप्तिर्निर्दिष्टैव, अत एव अस्य ज्ञानस्य प्रशंसार्थमाह - प्. १९८) राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || २ || इदं वक्ष्यमाणं ज्ञानम् उत्तमम् अनन्यसामान्यं पवित्रं पावनं सर्वकिल्विषकलङ्कपङ्कसंक्षालनहेतुः | सन्ति हि पवित्राणि तीर्थमन्त्रतपोयज्ञदानादीनि | तानि तु ज्ञानरहितत्वादन्तवन्ति यदि; परमेतज्ज्ञानसंस्कृतानि अनन्तफलत्वमश्नुवीरन्, अत एव उत्तमं पवित्रमिति उक्तम् | यतो राजविद्या एषा राज्ञां जनकाश्वपतिप्रभृतीनामुग्रं स्वकर्मापि अनुतिष्ठतामेषा विद्या ज्ञानमपवर्गफलत्वेन श्रूयते | ततश्च तेषां राज्ञां गुह्यं रहस्यमेतत्, यतः प्रत्यक्षावगमं प्रत्यक्षः स्वसंवेदनवेद्योऽवगमो बोधो यस्य तत् तथाविधं, अन्येषां हि पवित्राणां कालान्तरे देहान्तरे लोकान्तरे च फलावगमो भविष्यति; तथा धर्म्यं धर्मात् शास्त्रोदितात् वर्णाश्रमक्रमविभक्तात् सदाचारादनपितम्, अत एव कर्तुं संपादयितुं, सुसुखम् अत्यन्तसुखकरं सहजस्वभावकर्ममात्रसाधनत्वात्, तथाविधं सदपि अव्ययम् अविद्यमानक्षयं तत्प्राप्यस्य फलस्य मत्समापत्तिलक्षणस्य नित्यत्वात् || २ || एतच्च मदनुग्रहोत्थितभक्तिश्रद्धादिगुणसंपद्भिरेव सुलभं यतः - अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप | अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि || ३ || अस्य उक्तस्य वक्ष्यमाणस्य च ज्ञानरूपस्य धर्मस्य अश्रद्दधानाः यथोक्तफलासंभावनापराः पुरुषा मां यथोक्तस्वरूपं परं ब्रह्म अप्राप्य मत्समापत्तिमनासाद्यैव मृत्युसंसारयोर्भूतेषु नित्यपरिवर्त्तिनोर्मरणजन्मनोर्वर्त्मनि निवर्तन्ते पुनः पुनरापतन्ति | प्. १९९) किमुक्तं भवति | मदनुग्रहसुधासागरसमुद्गतश्रद्धासुरतरुमञ्जरी सकलसिद्धिप्रसवैकहेतुर्यैरुपास्यते, तैरेव अनेन ज्ञानेन सुलभो न अन्यैरिति || ३ || तदिदानीं ज्ञानं प्रतिपादयितुमाह - मया ततमिदं सर्वं जगदव्यक्तमूर्तिना | मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः || ४ || न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | भूतभृन्न च भूतस्थो ममात्मा भूतभावनः || ५ || मम संबन्धिनम् ऐश्वरम् ईश्वरे सर्वथा स्वामिनि एकस्मिन् भवं योगम् अनन्याधिकरणं समाधिं पश्य प्रतिपद्यस्व | यतः इदं वेद्यत्वेन सर्वप्रमातॄणां सर्वं संक्षेपतश्चराचरभावरूपमवान्तरभेदपरिकल्पनया निष्पर्यन्तं वस्तु मया उपादानसहकार्यादिकारणान्तरनिरपेक्षेण नित्यनिर्विकारसामान्यसंविन्मात्रस्वभावाप्रच्युतेन अनन्यानुकार्यनिरतिशयनिजक्रीडामात्रैकप्रयोजनेन स्वेच्छैकसाधनेन एकेन कर्त्रा ततम् इत्थमनन्ताश्चर्यावभासरूपतया विस्तारितं जगत् भुवनम् अव्यक्तमूर्तिना मन्मायोत्थापितैः सर्वैः प्रमातृभिरिदन्तया परिच्छेत्तुमशक्यत्वादव्यक्ता व्यपदेश्यव्यक्तिविरहिता मूर्तिराकृतिः स्वरूपं यस्य, स तथा तेन तादृशेन | किमुक्तं भवति | ब्रह्मादेरारभ्य परमक्षुद्रजन्तुपर्यन्तस्य सर्वस्य प्रमातुर्यत् संवेद्यं वस्तु येन येन प्रकारेण यदा यदा यत्र यत्र प्रकाशते, तत् संवेद्यमानं सन्तमात्मानं लभते, संवेद्यमानता च संवेदितुः कर्मभावापत्तिः, संवेदिता च परमार्थतः सदा एक एव भवितुमर्हति यो न कथंचित् न कदाचित् प्. २००) न कुत्रचित् संवेद्यत्वलक्षणविशेषणसंपर्कं सहते | ततो मत्स्थानि मयि एकस्मिन् संवेदितरि स्थितानि सर्वाणि निखिलानि स्थावराणि जङ्गमानि च संवेद्यानि भूतानि | एवं सर्वकर्ता सर्वशक्तिहेतुः अहं न च तेषु भूतेषु व्यवस्थितः यथा नित्यसंवेदितृत्वमात्रस्वभावाव्यभिचारिणो मम व्यवस्था संवेद्यानां सर्वभूतानां व्यवस्थितिहेतुः, न तथा सर्वभूतव्यवस्था मद्व्यवस्थितिहेतुरित्यर्थः | सर्वाणि हि भूतानि संवेद्यत्वादेव उत्पादविनाशादिधर्मसंबन्धादनित्यानि, मम तु संवेदितृत्वमेकं लक्षणमिति कथं मम भूतस्थित्यधीना अवस्थितिर्भवेत् | इत्थं मदधीनस्थितिकानि अपि भूतानि न मत्स्थानि मयि संवेदितरि मद्रूपतयैव न स्थितिं भजन्ते वेद्यतया स्फुरणात्; भूतस्थितिहेतुरहं यथा संवेदितृतयैव नित्यं स्फुरामि, न तथा अन्यानि अपि भूतानि संवेद्यत्वेनैव तेषां प्रतीतेः | एवं यथोक्तेन प्रकारेण ममात्मा स्वभावो भूतभृत् भूतानि बिभर्ति धारयति तेन तेन रूपेण अवस्थापयति नच भूतस्थः न भूतस्थित्यधीनस्थितिकः, इत्युक्तमेव | अतश्च अनेन क्रमेण भूतभावनः भूतानि भावयति सृजतीत्यर्थः || ५ || अत्र केनचित् सादृश्यांशेन दृष्टान्तमाह - यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय || ६ || एवमनेन प्रकारेण मयि अनवच्छिन्नमहिम्नि स्थितानि आधेयत्वमापन्नानि तत्तद्देशगतानि सूक्ष्माणि महान्ति च भूतानि उपधारय बुध्यस्व | कथम् | यथा आकाशे निरवच्छेदव्याप्तौ नित्यं सदैव स्थितः वायुः | कीदृशः | सर्वत्रगः तत्र तत्र देशे गतः कृतव्याप्तिः महान् च अन्यापेक्षया व्यापकः | एवं प्. २०१) मत्स्थानि भूतानि बुध्यस्व | अत्र इदं तात्पर्यम् यथा वायोः सर्वत्र सर्वगतत्वमहत्त्वादयो धर्मा अपर्यन्ताकाशावकाशैकनिबन्धनाः, तथा सर्वभूतानां सर्वे धर्मा मत्स्वभावानुप्रवेशैकनिबन्धना इति || ६ || तदेतत् निगमयितुमाह - एवं हि सर्वभूतेषु चराम्यनभिलक्षितः | भूतप्रकृतिमास्थाय सहैव विनैव च || ७ || एवम् अनेन वायवाकाशसंबन्धोपमेन प्रकारेण सर्वभूतेषु चरामि तानि व्याप्नोमि अनभिलक्षितः इदन्तया केनचिदपि अनवधारितस्वरूपः | किं कृत्वा चरामि | भूतप्रकृतिं प्राक्प्रतिपादितचेतनात्मकभूतलक्षणां प्रकृतिं स्वभावम् आस्थाय अधिष्ठाय | कथं चरामि | सह चैव विनैव च नित्यमन्योन्यसंबद्धत्वात् सह वेद्यवेदकलक्षणस्वरूपाभेदात्, विनैव अन्योन्यपृथक्तया एव | अन्यो हि वेदकस्वरूपो मम स्वभावोऽन्यच्च मदिच्छोद्भावितं वेद्यस्वरूपम् || ७ || मदिच्छोद्भावितत्वमेषां प्रतिपादयितुमाह - सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामकीम् | कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् || ८ || एतानि चेतनाचेतनानि सर्वभूतानि महाकल्पावसाने मदीयां प्रकृतिं स्वभावं यान्ति मदिच्छयैव मयि प्रलीयन्ते इत्यर्थः | तानि च कल्पादौ कल्पान्तरारम्भेऽहमेव विसृजामि चतुर्दशविधेनैव भेदेन अवभासयामि, नतु यानि एव प्रलीनानि तानि एव पुनः सृजामीति अत्र अर्थः | ईश्वरेच्छाया अपर्यनुयोज्यत्वात् स्वातन्त्र्येऽपि चतुर्दशविधमेव भूतसर्गं प्रलयोत्पादावस्थयोः संहरति सृजति च परमेश्वर इति तात्पर्यम् || ८ || प्. २०२) एतदेव निगमयति - प्रक्र्तिं स्वामवष्टम्य विसृजामि पुनः पुनः | भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् || ९ || स्वां प्रकृतिं निजं स्वभावं, न अन्यत् किञ्चित् कारणान्तरम् अवष्टभ्य अवलम्ब्य इमं सर्वं भूतग्रामं प्राणिसमूहं पुनः पुनः भूयो भूयोऽनादिप्रबन्धप्रवृत्तकल्पादिकालकल्पनया सृजामि एवमुद्भावयामि प्रकृतेः एव वशात् मत्स्वभावपारतन्त्र्यादेव अवशम् अस्वतन्त्रम् | कल्पान्ते च तथैव संहरामीति अत्र अनुवर्तनीयम् || ९ || किंच - नच मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवदासीनमसक्तं तेषु कर्मसु || १० || तानि सर्गसंहारादिरूपाणि कर्माणि न पुनर्मां बध्नन्ति मन्मायोद्भावितनानाक्षेत्रज्ञवत् नियमितविपाकारम्भकत्वादिना न परतन्त्रीकुर्वन्ति | यथा क्षेत्रज्ञानां कर्माणि जात्यायुर्भोगलक्षणविपाकारम्भकत्वेन संसारबन्धकारणत्वमापद्यन्ते, न तथा सर्गादिकर्माणि ममेत्यर्थः | कीदृशं सन्तं मां न निबध्नन्ति, इति हेतुगर्भं विशेषणमाह तेषु कर्मसु असक्तत्वान् ममत्वादिग्रहाभावेन अनिमग्रचित्तत्वात् उदासीनवत् तटस्थवत् आसीनं स्थितम् | यथा परकीयकर्मसु परो नैतानि मम तत्तत्फलदानि इति मन्यमानस्ताटस्थ्यमनुभवंस्तैस्तैः कर्मभिः स्वफलभोक्तृत्वादिना न नियम्यते, तथा सर्गादिभिः कर्मभिर्न निबध्यः, | यतस्तानि सर्गादीनि कर्माणि अचिन्त्यवैभवस्वमायोद्भावितान्योन्यभेदान् प्. २०३) क्सेत्रज्ञान् प्रति, मम सर्वतः स्वेच्छामात्रेण तथावभासकत्वमेव कर्तृत्वम् | क्षेत्रज्ञा एव हि मन्मायामोहिताः सन्तोऽन्योन्यभेदेन अवभासमानानां भावानां सर्गाद्यवस्थायोगित्वं प्रतिपद्यन्ते, मम पुनरेते सर्वे भावास्तत्तत्सर्गाद्यवस्थाजुषोऽपि अद्वयचिन्मात्रलक्षणात् स्वभावात् न भिद्यन्ते, इति | अनेन तेषु कर्मसु उदासीनवदासीनं मामेतानि न निबध्नन्तीति उक्तम् | एव च अर्थः प्रागेव पुनः पुनः तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् | (४|१३) इत्यादिना न मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि | (४|१४) इत्यादिना च प्र्तिपादितः || १० || यदि एवं वस्तुस्थित्या परमेश्वरो न, इदं जगत् साक्षात् सर्गादिकर्मणा नियुनक्ति, तत् केन इदं जगत् सृज्यते इत्याह - मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् | हेतुनानेन कौन्तेय जगद्विपरिवर्तते || ११ || मया परमेश्वरेण नित्यं स्वभावमात्रावस्थितेनैव अध्यक्षेण अधिष्ठात्रा हेतुभूतेन प्रकृतिः सप्तमेऽध्याये चेतनाचेतनविभागेन प्रतिपादितपरापरस्वरूपा स्वभाववृत्तिरेव अपर्यन्तस्थावरजङ्गमभेदयुक्तं जगत् सूयते जनयति | अनेन हेतुना निमित्तेन इदं जगद् विपरिवर्तते सर्गस्थितिसंहारप्रबन्धचक्रे परिभ्रमति || ११ || एवमद्भुतैश्वर्यैकास्पदम् - अवजानन्ति मां मूढा मानुषीं तनुमास्थितम् | परं भावमजानन्तो ममाव्ययमनुत्तमम् || १२ || मूढाः मायामुषिततत्त्वज्ञानाः मां यथाप्रतिपादितस्वभावम् प्. २०४) अवजानन्ति नित्योदितनिरतिशयप्रकाशप्रद्योतमानस्वभावमपि मोहबलोत्साहविच्छेदात् मज्जिज्ञासायामपि अवज्ञामाश्रयन्ति | कीदृशं सन्तं मामवजानन्ति | मानुषीं तनुमास्थितम् मानुषीग्रहणमुपलक्षणार्थम्, तेन मनुष्यादिभेदेन अन्योन्यभिन्नानन्ताकृतिविशेषरूपां पारमार्थिकस्वरूपतिरोधानतिरस्करिणीमाश्रितम् | अत एव ते मूढाः | कीदृशाः सन्तो मामवजानन्ति | एवंविधया मन्मायया मदीयं परं एतस्मात् नानाचेतनाचेतनभावलक्षणात् प्रपञ्चादन्यं विलक्षणम्, तथा अव्ययम् अविनश्वरम्, अत एव अनुत्तमम् उत्तरोत्तरविचार्यमाणप्रकर्षे सति अविद्यमानोऽन्य उत्तमः प्रकृष्टो यस्मात्, तं तथाविधं भावं पारमार्थिकीं सत्ताम् अजानन्तः सन्तो मामेवं विमर्शाभावादबुद्ध्यमानाः || १२ || यतस्ते मूढाः सन्तः - मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः | आसुरीं राक्षसीं चैव प्रकृतिं मोहिनीं श्रिताः || १३ || मोहिनीं स्वभावाज्ञानकारिणीं प्रकृतिं गुणमयं स्वभावं श्रिताः देहात्मकाहङ्कारनिबन्धनस्थितयः | अत एव कीदृशीं प्रकृतिम् | आसुरीं रजोलेशानुगततमः प्रधानां, तथा राक्षसीं केवलतमःप्रधानाम्, उत्तमाधमासुरसर्गभेदत्वेन प्राक् प्रस्तावनायां प्रतिपादितस्वरूपाम् | यत एवंविधां प्रकृतिं श्रितास्ततो मोघाशाः मोघाः फलशून्या आशा येषां ते तथाविधाः | ते हि आसुरराक्षसप्रकृतित्वात् रजस्तमोमयत्वे सति कामात्मानो भोगविषयं संकल्पमेव कुर्वन्ति, नतु तत्फलप्राप्तिहेतुं शास्त्रोदितं प्. २०५) कर्म आरभन्ते, ततो मोघाशा इति उक्तम् | तथा मोघकर्माणः यदपि कर्म आरभन्ते, तत् शास्त्रीयोपायनियमाभावात् मोघं निष्फलं येषां, ते तथाविधाः | वक्ष्यति हि राजसतामसयोः कर्मणोर्लक्षणम् | तद्यथा यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः | क्रियते क्लेशबहुलं तद्राजसमिति स्मृतम् || अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् | मोहादारभ्यते कर्म यत्तत्तामसमुच्यते || (१८|२५) इति | तथा एवंविधकर्तृलक्षणमपि रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः | हर्षशोकान्वितः कर्ता राजसः परिकीर्त्यते || (१८|२७) तथा अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः | विषादी दीर्घसूत्रश्च कर्ता तामस उच्यते || (१८|२८) इति | तथा मोघज्ञानाः चिकीर्षितकर्मनिष्पत्तिहेतुत्वात् कर्मारम्भपूर्वभाविज्ञानमपि मोघं निष्फलं येषां, ते तथोक्ताः | ज्ञानपूर्वकं हि कर्मं, ज्ञानस्यैव च आसुरादिप्रकृत्याश्रितज्ञातृसंबन्धिनो विपर्ययप्रतिपत्तिदोषसंबन्धात् कर्मफलेन विसंवादात् निष्फलतास्थितैव | तथाच एवं विधज्ञानलक्षणमपि वक्ष्यति पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तद्राजसमिति स्मृतम् || (१८|२१) तथा यत्त्वकृत्स्नविदेकस्मिन् कार्ये सक्तमहैतुकम् | अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् || (१८|२२) प्. २०६) इति | मोघज्ञानत्वात् विचेतसः तत्त्वार्थनिष्ठत्वाभावात् सदपि विगतं सम्यग्ज्ञानलक्षणस्वकार्याकरणादविद्यमानमिव चेतोऽन्तःकरणं येषां, ते तथाविधाः || १३ || एवमेकान्ततो मायाक्रोडीकृतानामासुरप्रकृत्याश्रितानां वृत्तिं प्रतिपाद्य, विद्यानुगृहीतानां प्रवृत्तिनिवृत्तिविषयशास्त्रोपदेशपात्रभूतानां दैवप्रकृत्याश्रितानां प्रतिपिपादयिषुः परदैवप्रकृत्याश्रितानां तावत्तां प्रतिपादयितुमाह - महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् || १४ || प्रस्तावनाप्रतिपादितपरापरस्वरूपमययाः परस्या देव्याः प्रकृतिं दैवीं सम्यक् ज्ञानविवेकद्योतनशीलत्वात् देवशब्दवाच्यानां संबन्धिनीं प्रकृतिं स्वभावम् आश्रितास्तु अत एव महात्मानः उत्कृष्टस्वभावाः मां परमात्मानं भजन्ते चतुर्विधया सेवया अनन्यमनसः मद्व्यतिरिक्तवस्त्वन्तराभावप्ररूढप्रतिपत्तित्वात् मयि एवैकस्मिन् तत्त्वे मनो येषां, ते तथाविधाः ज्ञात्वा च अनुष्ठानम् इति स्थितेः | कीदृशं मां विदित्वा भजन्ते | भूतादिं भूतानां चेतनाचेतनानां मध्ये आदिं प्रथमं, तथा अव्ययं नित्यत्वात् न मम क्षयो विद्यते इत्यर्थः | सर्वभूतानि आद्यन्तवन्ति, अहमादिरेव, न अन्तवानिति अत्र तात्पर्यम् || १४ || किंच - सततं कीर्तयन्तश्च यतन्तश्च दृढव्रताः | नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते || १५ || ते एवं दैवप्रकृत्याश्रिताः प्रबुद्धाः सततम् अव्यवधानेन कीर्तयन्तः मन्त्रजपस्तुत्यादिना उद्घोषयन्तः, तथा ध्यानादिना प्. २०७) यतमानाः, तथा नमस्यन्तः ग्रहीभवन्तो मां भक्त्या हेतुभूतया नित्ययुक्ताः सन्तः उपासते वाङ्मनःकायव्यापारान् मदेकविषयान् कुर्वाणाः परिचरन्तीत्यर्थः || १५ || किंच - ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते | एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् || १६ || पूर्वेभ्यः प्रसिद्धभक्तिप्रकाराश्रयणेन मद्यजनपरेभ्यः अन्ये विलक्षणा ज्ञानेन विशुद्धसंविन्मात्रमत्स्वरूपचिन्तनैकलक्षणेन यज्ञेन यागविधिना यजन्तः पूजयन्तश्च मामुपासते सेवन्ते | कथं मां ज्ञानयज्ञेन उपासते | एकत्वेन सकलप्रपञ्चपरिहारादभिन्नैकसंविन्मात्रमत्स्वरूपतया, तथा पृथक्त्वेन नानात्वेन, अत एव बहुधा अनेकेन ज्ञानेन क्रियाद्युपचरणीयविचित्राकृत्यादिभिन्नरूपतया | वस्तुतः कीदृशम् | विश्वतोमुखं सर्वतः सर्व एव उपासनीयाभेदात् मुखं प्रत्यभिज्ञाकारणं यस्य, तं तादृशम् | इदमत्र तात्पर्यम् द्विविधः पारमार्थिको मत्स्वरूपोपासाक्रमः | एकः संविन्मात्रैकतत्त्वविषयज्ञानमात्रसाधनः, अपर एकस्यैव तत्त्वस्य नानाजगद्भावनानाशक्तिसमूहत्वात् तद्द्वारेण तस्य तस्य उपासनमिति || १६ || तदेव एकस्य तत्त्वस्य सर्वशक्तित्वं प्रतिपादयितुमाह - अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् | मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् || १७ || क्रतुयज्ञयोर्यद्यपि पर्यायत्वेन व्यवहारः, तथापि यज्ञशब्दसन्निधाने पशुसोमादिसाधनविशिष्ट एव यज्ञः क्रतुशब्देन अत्र प्. २०८) उक्तः | यज्ञशबेन पाकयज्ञानां ग्रहणं, ततो यथाप्रतिपादितब्रह्माद्वैतस्थित्या सर्वो यागविधिर्नानादेवतासंप्रदानः अहम् एव | तथा स्वधा पितृतर्पणमन्त्रोऽपि अहम् एव | तथा नानौषधिविकारात्मकम् औषधं यागोपकरणद्रव्यम् अहम् एव | तथा संप्रदानभूतदेवतासंमुखीकारादिविविधार्थवाचकशब्द- विशेषरूपः मन्त्रः यज्ञोपकरणविशेषोऽपि अहम् | तथा आज्यं घृतं तर्पणद्रव्यम् | तथा अग्निः आहवनीयादिर्यागविध्यधिकरणम् | तथा हुतं हवनं होमकर्म, इति यज्ञादिरूपतया ब्रह्मार्पणविधिन्यायेन अहम् एव स्थितः, इति अत्र तात्पर्यम् || १७ || किंच- पिताहमस्य जगतो माता धाता पितामहः | वेद्यं पवित्रमोङ्कार ऋक् साम यजुरेव च || १८ || गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् || १९ || अस्य जगतः समस्तस्य चराचरस्य विश्वस्य उत्पत्तिमूलकारणत्वात् पिता माता चाहम् | यदिवा पितरौ यथा अपत्यस्यसमस्तयोगक्षेमोद्वहने नित्यावहितौ, तथा अहमस्य जगतः | तथा धाता धर्ता स्थितिहेतुः | तथा पितामहः ब्रह्मादीनां जगतः स्रष्ट्टत्वेन स्थितानां जनकत्वात् पितामहः | पवित्रं परमं पावनं यत् वेद्यं ज्ञेयं वस्तु | तथा ओंकारः परब्रह्मवाचकः प्रणवाख्यो वेदादिः शब्दविशेषः, तत्प्रभवाणि च ऋक्सामयजूंषि | तथा गम्यते ज्ञायते वा परं तत्त्वमनयेति गतिः उपायः | तथा भर्ता पोष्टा | तथा प्रभुः यथेष्टविनियोगैकस्वामी | तथा साक्षी शुभाशुभकर्माध्यक्षः | तथा निवासः सर्वभूतानामेकमावसथम् | प्. २०९) तथा शरणं सर्वोपद्रवप्रशमाय आश्रयः | तथा सुहृत् सर्वभावेन उपकारी | तथा जन्मविनाशस्थितिहेतुत्वात् प्रभवः प्रलयः स्थानं च | तथा प्रलीनं सत् यत्र अवतिष्ठते, तत् प्रधानात्मकं निधानम् | तथा यतः प्रभवति, तत् प्रधानस्यापि अव्ययम् अक्षयं बीजं कारणमिति | न तत् किञ्चिदस्ति, यदहमस्य जगतो न भवामीत्यर्थः || १९ || तथाच - तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च | अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन || २० || सूर्यो भूत्वा ग्रीष्मादौ रसमाददानः अहं तपामि यतः, तदा हि अहमेव वर्षं निगृह्णामि निरुणध्मि, वर्षाकाले च अहमेव पर्जन्यो भूत्वा उत्सृजामि तपनवर्षणक्रियया अन्नाद्युत्पादनेन अहमेव जगत् प्रवर्तयामीत्यर्थः | तथा अमृतम् अविनाशि यत् वस्तु मृत्युश्च विनाशहेतुरहमेव | किं बहुना उक्तेन यत् किञ्चित् सत् विद्यमानं शोभनं वा, यत् असत् तद्विपरीतं किञ्चित् जगति संभवति; तत् सर्वम् अहं मच्छक्तिरेव एका सदसद्भावेन अवभासते इति || २० || एवं परदैवप्रकृत्याश्रितसर्गभेदप्रतिपादनप्रसङ्गेन ब्रह्मस्वरूपं संग्रहेण उक्त्वा, इदानीमपरदैवप्रकृत्याश्रितानां पुरुषाणां प्रवृत्तिं प्रतिपादयितुमाह - त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान् दिवि देवभोगान् || २१ || प्. २१०) ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते || २२ || ज्ञानरहितक्रियामात्रोपदेशपर्यवसितार्था ऋग्यजुःसामलक्षणास्तिस्रो विद्या अधीयते विदन्ति वा त्रैविद्याः मुख्यतया ब्राह्मणादयस्त्रैवर्णिकाः पूतपापाः आनिषेकात् शास्त्रविहितसंस्कारसंपन्नत्वात् हतकल्मषाः, तथा निर्वृत्तयथोक्तब्रह्मचर्याद्याश्रमनियमाः सन्तः सोमपाः नित्यनैमित्तिकस्वकर्मानुष्ठाननिष्ठा इत्यर्थः, तथाविधाः सन्तो देवतान्तरयजनविधिरूपैः यज्ञैः तैस्तैः शास्त्रचोदितैर्यागविशेषैः सम्यग्ज्ञानाभावादविदन्तोऽपि मामेव इष्ट्वा पूजयित्वा स्वर्गतिं देवलोकप्राप्तिं कामात्मानः सन्तः प्रार्थयन्ते उपयाचन्ते, यतस्तैस्तैर्यज्ञविधिभिस्तांस्तान् देवविशेषान् यजन्ते, इति विश्वतोमुखमेकं तत्त्वं मामेव यजन्ते | केवलं संप्रति विद्याशक्त्याननुगृहीताः परं मदीयं भावमविदन्तो भोगमात्रं यज्ञादिक्रियाफलं मन्यमानाः स्वर्गमभिकाङ्क्षन्ति | ते तथाविधास्त्रैविद्या देहान्ते स्वकर्मोपनतं स्वर्गलोकं विशालं विपुलं देवलोकं गत्वा तद्गतान् भोगान् भुक्त्वा उपसेव्य स्वकर्मोपार्जिते पुण्ये तदनुरूपकालातिवाहनात् क्षीणे अन्तं गते मर्त्यलोकं कर्मभूमिमिमां स्वकर्मानुरूपजातिविशेषाश्रयणेन विशन्ति प्रतिपद्यन्ते | एवम् अनेन क्रमेण त्रयीधर्मं वेदोक्तं स्वं स्वमाचारम् अनुप्रपन्नाः समाश्रिताः सन्तः कामकामाः स्वर्गादिभोगाभिकाङ्क्षिणश्चातुर्वर्णिका अपि गतागतं गतं स्वर्गादिभूमौ गमनं, आगतं ततो भूयः कर्मभूमावागमनं लभन्ते प्राप्नुवन्ति संसारबन्धभागिनः पुनः पुनर्भवन्तीत्यर्थः || २१ || २२ || प्. २११) एतदन्तेन ग्रन्थेन ज्ञानमुक्त्वा विज्ञानमाह - अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् || २३ || ये जनाः परां दैवीं प्रकृतिमाश्रिता दृष्टानुश्रविकगुणात्मकेभ्यो भोगेभ्योऽशुद्ध्यतिशयक्षयादिदोषवद्भ्यो विरक्ताः सन्तो नित्यनिर्मलनिरतिशयानन्तानन्दसुधासागरं मां परमकारणं ब्रह्मतत्त्वं पर्युपासते यथाप्रतिपादितज्ञाननिष्ठतया स्वकर्माणि अजहतः समन्तात् सेवन्ते | कीदृशाः सन्तः | अनन्याः अविद्यमानमन्यत् मद्व्यतिरिक्तं वस्तु येषां ते, तथाविधा मन्मयमेव सर्वमिदमनुभवन्त इत्यर्थः | तेषां तादृशानां नित्याभियुक्तानां यथोक्तज्ञानैकतानतया सततोद्युक्तानां सर्वास्ववस्थासु यथोक्तमत्स्वरूपस्मरणैकपरायणानामित्यर्थः अहं परमेश्वरः योगक्षेमं वहामि योगं प्रागनासादितेन मत्स्वरूपसंवेदनात्मकेन फलेन संबन्धं, क्षेममासादितस्य पुनरपरिलोपलक्षणं धारयामि | ये नित्यं मन्मयास्तेषां कुतो योगक्षेमक्षतिरित्यर्थः | एवं यथोक्तोपायनिरपायनिवेशितान्तःकरणतया मत्स्वरूपानुभवरूपां परां काष्ठामधिरूढा भक्तिरेव विज्ञानमिति तात्पर्यम् || २३ || ननु विश्वतोमुखस्त्वमेवैकं तत्त्वमिति देवतान्तरयाजिनोऽपि अनन्या एव, तत् कथमुक्तम् अनन्या ये मामुपासते, तेषां योगक्षेमं वहामीति | अत्र आह - येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् || २४ || सत्यम् येऽपि जनाः अन्यदेवता भक्ताः परस्परभिन्नस्वरूपान् प्. २१२) तांस्तान् सूर्येन्द्रादिप्रमुखान् देवविशेषान् यजन्ते, तेऽपि परमार्थतो मद्व्यतिरिक्तद्वितीयवस्त्वभावात् मामेव श्रद्धया तत्तद्बिन्नफलसंभावनया यजन्ति पूजयन्ति, किन्तु अविधिपूर्वकम् | मद्यजने एवंविधो विधिरुक्तो वक्ष्यते च | यथोक्तज्ञाननिष्ठतया सर्वेषु यष्टव्येषु देवताविशेषेषु तासु तासु यागक्रियासु यष्टरि च स्वात्मनि अद्वयचिन्मात्रलक्षणमत्स्वरूपानुभवः, स च तेषां ज्ञानशून्यकेवलक्रियामात्रशरणानां विधिर्न संभवति, तस्मादविधिपूर्वकं यजन्ति, इत्युक्तम् || २४ || एतदेव प्रकटयितुमाह - अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | नतु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते || २५ || सर्वयज्ञानां नानाभेदानां यागानाम् अहमेव भोक्ता एक एव परमेश्वरः फलस्य स्वीकर्ता | तथा प्रभुः अधिष्ठानक्रियाधिष्ठितः | सर्वे यज्ञा अहमेवेति न पुनस्तथाविधं मां तत्त्वेन परमार्थेन यथोक्तेन अभिजानन्ति एकत्वेन न प्रतिपद्यन्ते | अतो हेतोः ते तादृशा अनुष्ठातारः च्यवन्ति मत्तो वियुज्यन्ते नानात्वेन सर्वं पश्यन्तीत्यर्थः || २५ || ततश्च यान्ति देवव्रता देवान् पितृन् यान्ति पितृव्रताः | भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् || २६ || देवेभ्यो देवार्थं व्रतं नियमो येषां, ते शक्रादिदेवाराधकाः देवव्रताः तत्सपर्यासिद्धौ देवान् एव यान्ति तल्लोकभाजो भवन्तीत्यर्थः | एवं पितृव्रताः पितॄन् यान्ति | तथा भूतेभ्यो प्. २१३) यक्षरक्षःपिशाचादिभ्यस्तदर्थमिज्या यागो येषां, ते तादृशास्तानि एव पूर्ववत् यान्ति | देवपितृयाजिनः सात्त्विकाः, भूतयाजिनस्तु राजसास्तामसाश्च | यदुक्तं यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः | प्रेतान् भूतपिशाचांश्च यजन्ते तामसा जनाः || (१७|४) इति | ये तु निस्त्रैगुण्यास्ते मद्याजिनः मामेव त्रैगुण्यातीतस्वरूपं यष्टुं शीलं येषां ते तथाविधमेव मत्स्वरूपं परब्रह्म यान्ति समापद्यन्ते || २६ || स च मद्यागो देवव्रतादियागवत् तत्तन्नानाद्रव्यसंभारसाधनो नैवेत्याह - पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः || २७ || भक्तिरद्वयचिन्मात्रस्वरूपब्रह्मतत्त्वभावनया आत्मन एव, तस्य तस्य वा नानादेवताविशेषस्य उपासनम् | तया साधनभूतया यस्तत्त्ववित् पत्राद्यपि यत्किञ्चित् मह्यं प्रयच्छति, तत् तस्य प्रयतात्मनः तथाविधाद्वयविज्ञानसमाहितान्तःकरणस्य तादृशभक्त्युपहृतम् अश्नामि उपभुञ्जे यादृशभावनाविशेषेण उपहृतं, तथैव तत् स्वीकरोमीत्यर्थः || २७ || यत एवं, ततः यत् करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् || २८ || यत् करोषि तत्तत्फलार्थितया यत् कर्म अनुतिष्ठसि, यच्च अश्नासि तत्तत्कर्मफलभूतमुपभुञ्जे, तत् सर्वं मदर्पणं कुरु मयि ब्रह्मस्वरूपेऽर्पणं मदात्मकप्रतिपत्त्या निवेदनं यस्य, तत् प्. २१४) तादृशं कुरु संपादय | तच्च कार्यं ज्ञानरहितानां नानाफलहेतुत्वेन व्यवस्थितं विवृणोति यत् जुहोषि तेषु तेषु यज्ञेषु तत्तद्देवतातर्पणार्थं यदग्नौ हवनक्रियया क्षिपसि, यच्च अनतर्वेद्यादौ तदासि पात्रेभ्यः प्रयच्छसि यत् तपोनियमविशेषं चरसि; तत् सर्वं मदर्पणं कुरु | यज्ञदानतपोलक्षणासु क्रियासु अवश्यकर्तव्यासु तत्तत्फलाभिकाङ्क्षाकार्पण्यपरिहारेण मत्स्वरूपानुभवमेव एकं फलमवलम्बस्वेत्यर्थः || २८ || अस्या भावनायाः फलमाह - शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः | संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि || २९ || एवम् अनेन प्रकारेण यज्ञादिकाः स्वाः क्रिया अनुतिष्ठन्नपि शुभाशुभफलैः शुभैः सुखात्मकैरशुभैर्दुःखात्मकैः क्रियाणां फलैः मोक्ष्यसेत्यक्ष्यसे तानि ते बन्धनाय न कल्पयिष्यन्ते इत्यर्थः | कीदृशैः | कर्मबन्धनैः कर्माणि ज्ञानशुन्यानि बन्धनं नियमहेतुर्येषां, तथाविधैः | कर्मनिबन्धनानि हि फलानि ज्ञानशून्यं बध्नन्ति, न यथोक्तज्ञानसंपन्नम् | अतस्त्वं संन्यासयोगेन फलासंकल्पसमाधिना युक्तात्मा संबद्धस्वभावः, अत एव विमुक्तः सर्वबन्धनेभ्यो विनिष्क्रान्तो माम् एकं परमकारणम् उपैष्यसि अहमेव संपत्स्यसे इत्यर्थः || २९ || ननु केषांचित् यज्ञादिक्रियाभिरपि उपसेवमानानां बन्धनहेतुर्भवान्, अन्येषां तु पत्रादि उपहरतां मोक्षहेतुरिति किं तवापि रागद्वेषानुषङ्ग इति | अत्र आह - समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् || ३० || प्. २१५) सर्वभूतेषु चतुर्दशविधेन प्रपञ्चेन प्रसृतेषु परमार्थतस्तत्त्वस्य एकत्वात् परतत्त्वात्मकः अहं समः निर्विशेषवृत्तिः; अतो व्यतिरिक्तत्वाभावात् न मे कश्चित् द्वेष्यो द्वेषदोषहेतुः, नापि प्रियः रागदोषहेतुः संभवति | एतौ भेददर्शिनामेव अनुषक्तौ | ततश्च ये पुनर्महात्मानो मदिच्छयैव विद्याशक्त्यनुग्रहादेकतत्त्वदर्शिनः सन्तो मां यथोक्तस्वरूपं यथोक्तया भक्त्या भजन्ति सेवन्त् यथोक्तया भावनया उपासते ते मयि तिष्ठन्ति तेषु चाहम् अभेद एव तिष्ठामि मत्तस्तेषां दुर्भेदभेदप्रत्ययसेतुविदलनात् ब्रह्मामृतसागरसमरसीभूतत्वात् तत्तद्भेदस्य || ३० || एवं यथोक्तया भावनया भगवद्भक्तेः स्तुतिमाह - अपि चेत् सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः || ३१ || यद्यपि युष्मत्प्रतिपादितदृष्ट्या युद्धादिघोरकर्मानुष्ठानात् सुतरां दुष्टचेष्टितः सन् अनन्यभाक् मदेकालम्बनः मां भजते उपास्ते स तादृशः साधुः सदाचार एव मन्तव्यः बोद्धव्यः, यतः सम्यक् अविपर्यस्तज्ञानत्वात् यथावत् स तादृक् भक्तो व्यवसितः गृहीतव्यवसायः | एतावदेव सदाचारदुराचारयोर्लक्षणम् योऽनन्यतया मद्भक्तः, स सदाचारः; तद्व्यतिरिक्तस्तु दुराचार इति | एतावदत्र तात्पर्यम् अपर्यनुयोज्येच्छस्य हि भगवतः शक्तिरवतीर्णा क्वचिदपि अनुग्राह्ये विनष्टं च निर्मूलमखिलं दुराचारत्वम् || ३१ || प्. २१६) एतदेव प्रकटयितुमाह - क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानेऽहं न मद्भक्तः प्रणश्यति || ३२ || क्षिप्रम् अनुग्रहलक्षणसमकालमेव धर्मात्मा भवति प्रतिपादितज्ञानयोगलक्षणः परमो धर्म आत्मा स्वभावो यस्य, स तादृशः संपद्यते | तथासंपन्नमात्रं शश्वत् नित्यकालं शान्तिं यथाप्रतिपादितात्मानात्मादिज्ञेयवस्तुज्ञानभावलक्षणक्षोभक्ष यरूपं प्रशमं यथोक्ततत्त्वसमापत्तिरूपं नितरां गच्छति प्राप्नोति | नियच्छतीति पाठे आत्मनि तां नियच्छति नियतामव्यभिचारिणीं करोति | ततश्च हेतोस्ते तुभ्यं प्रतिज्ञां करोमि यथा मद्भक्तः यथोक्तेन रूपेण मदुपासको न प्रणश्यति मत्स्वरूपव्यतिरेकप्रतिपत्तिलक्षणं नाशं न प्राप्नोति || ३२ || अत एव आह - मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः | स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् || ३३ || किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा | अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् || ३४ || पापा पापकर्मविपाकजा योनिरुत्पत्तिकारणं येषां ते स्त्रीशूद्रवैश्यादयः येऽपि केचन भवेयुः ते मां व्यपाश्रित्य यथोक्तमदेकशरणा भूत्वा पराम् अनुत्तरां गतिम् अपुनरावृत्तिपदवीमाप्नुवन्ति | नच एतदतिशयोक्तिमात्रमेवेति व्याख्यातमेव प्राक् | पुनः किं अत्र वाच्यं, ये पुण्याः पुण्यकर्माणः पुण्यकर्मविपाकात् लब्धोत्कृष्टयोनयः ब्राह्मणा राजर्षयश्च राजत्वे प्. २१७) सति अपवर्गभागित्वात् मुख्या ऋषयो द्रष्टारो भक्ताः सन्तस्ते परां गतिं यास्यन्ति | तदेतेन सर्वलोकसाधारणत्वमात्मज्ञानस्य भगवता प्रतिपादितम् | यत एवमुत्कृष्टफला मद्भक्तिस्ततः इमं लोकं कर्मभूमिलक्षणं भुवनं प्राप्य अत्र जन्म लब्ध्वेत्यर्थः मां भजस्व | कीदृशं लोकम् | अनित्यं शरीरस्य भोगसाधनस्य भोगानां च अन्तवत्त्वादस्थिरम् असुखं च | यदपि अत्र किञ्चित् सुखभ्रान्त्या गृह्यते, तदपि विवेकबुद्ध्या विचार्यमाणं दुःखमेव | यदुक्तं परिणामतापसंस्कारदुःखैर्गुणवृत्ति- विरोधाच्च सर्वमेव दुःखं विवेकिनः | (यो० सू० २|१५) गुणवृत्तिविरोधाच्च सर्वं दुःखं विवेकिनः | इति | यथा जलधिमध्यपतितस्य रत्नातिशयलाभः कथञ्चित् संभाव्यते, तथा दुःखैकहेतुकर्मभूमिपतितस्य मद्भक्तिलाभः संभाव्यते एव अस्मिन् लोके इत्यर्थः || ३४ || एवंरूपमपि इमं लोकं लब्ध्वा मामनुत्तरसुखहेतुं भजस्वेत्याह - मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः || ३५ || एवंविधः सन् मद्भक्तो भव | कीदृशः | मन्मनाः मद्याजी तथा मन्नमस्कारपरः | एतेन विशेषणत्रयेण चित्तकायवचनक्रियाणां भगवत्स्वरूपलक्षणैकतत्त्वविशेणात्मको मुख्यो भक्तिप्रकारः प्रतिपादितः | मां नमस्कुरु इत्यनेन हि मन्त्रजपनमस्कारस्तुत्यादिरूपा भगवत्प्रणतिरुक्ता | एवम् अनेन प्रकारेण प्. २१८) आत्मानम् अन्तःकरणं युक्त्वा समाधाय मत्परायणः मदेकालम्बनः संवृत्तः सन् मामेवैष्यसि मदभेदसमापन्नो भविष्यसीत्योम् || ३५ || व्योम्नि ज्योतिर्गण इव घनध्वान्तशान्तिप्रसन्ने सूर्येन्द्वादिद्विगुणविकसन्निर्मलस्वप्रसादः | यत्रार्थौघः स्फुरति सुतरां ज्ञानविज्ञानपूर्व- स्तत्राध्याये तरतु नवमे राजहंसीव गीर्वः || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे नवमोऽध्यायः || ९ || अथ दशमोऽध्यायः | एवं नवमाध्यायप्रयन्तग्रन्थग्रथितप्रसन्नगम्भीरभणितिभेदाभिहित- ज्ञानविज्ञानादिपरमरहस्यरूपार्थश्रवणादुपजातपरितोष- विशेषतामत्यन्तदुरवधारपरमार्थत्वादस्य अर्थस्य असंतुष्टहृदयतां च अर्जुनस्य उपलक्ष्य, प्रसादातिशयमनुकम्पां च उपगच्छन्ननेकदेशयथोक्तपरतत्त्वसाक्षात्कारकारणभूतनिरति- शयानुग्रहचिकीर्षाविष्कारि वाक्यं भगवानुवाच - भूय एव महाबाहो शृणु मे परमं वचः | यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || १ || यद्यपि प्रायेण निरवशेषमुपदेश्यं वस्तु वितत्य प्रतिपादितं, तथापि तदतिसूक्ष्मत्वात् परमप्रकृष्टप्रज्ञानामपि हृदये झगिति प्रतिष्ठां न लभते, इति भूयः बहुतरमेव पूर्वोक्तं तत् मदीयं परमम् उत्तमार्थप्रतिपादकत्वात् प्रकृष्टमिदं वचनमाकर्णय | बहुतरवचनकथने कारणमाह यत् वचनं प्रीयमाणाय परितोषं भजते हितकाम्यया आत्यन्तिकानुकूल्यकरणेच्छया तुभ्यं अहं इदानीं कथयिष्यामि | किमनेन उक्तं भवति | यावत् प्रकारान्तरदुर्हरमोहविषविषादहारिणा प्रतिपादितार्थपरमार्थापुर्वपीयूषपरमलेशस्पर्शेन अनाह्लादितं हृदयम्, तावत् कुतः प्रीयमाणत्वम् | अतस्तथाविधस्य हि पुनरुक्तकथनादुद्वेग एवं स्यात् | अतः प्रीयमाणत्वेन आविष्कृतशिष्यगुणविशेषाय तद्धितचिकीर्षुणा दयाविष्टहृदयेन देशिकोत्तमेन विचित्रोक्तिप्रकारैस्तावदुपदेष्टव्यम्, यावदसौ सुगृहीतार्थतया निराकाङ्क्षतामापद्यते, इति भूयोवचनकथनेन भवता न उद्वेजनीयमिति भगवतोऽभिप्रेतम् | अथवा प्. २२०) निद्रां मोहमयीं हरत्सु सहसैवान्तः प्रबोधश्रियं तन्वत्स्वर्थिषु वाञ्छितार्थविषयावन्ध्योद्यमाधायिषु | तेष्वेकाभिनवीभवत्सु भगवद्वाक्येषु कश्चेतनः सूर्यांशुष्विव पौनरुक्त्यजनितोद्वेगत्वमापत्स्यते || इह मत्स्वरूपविज्ञानलक्षण एव अर्थ उक्तो वक्ष्यते च | तच्च मत्स्वरूपं गुह्यतमत्वात् न अल्पेन प्रयत्नेन प्रतिपत्तव्यं, प्रतिपाद्यं च, अतो बहुतरवचनाकर्णनेऽवहितो भव || १ || यतः- न मे विदुः सुरगणाः प्रभवं न महर्षयः | अहमादिर्हि देवानां महर्षीणां च सर्वशः || २ || मम परमार्थत एकस्यैव सनातनस्य तत्त्वस्य प्रभवम् उत्पादम्, प्रभावमिति वा पाठे माहात्म्यम्, सुरगणाः ब्रह्मेन्द्रसूर्यादयो देवसमूहाः न विदुः न जानते | महर्षयः भृग्वादयोऽपि तथैव | ते हि मन्मायाशक्त्युद्भाविततत्तत्स्वरूपशक्त्यादिभेदास्तं तं स्वाधिकारमनुतिष्ठन्तः प्रतिकल्पं सर्गप्रलयाद्यनित्यभावसंबन्धावस्थाजुषः | अहं तु नित्यत्वात् तेषाम् आदिः प्रथमः | एवं प्रकर्षगत्या कल्पादिदीर्घकालस्थायिनोऽपि देवादयो मदीयपरमसत्तापेक्षया अन्तवन्तः | ते च मदीयमायामोहिताः सन्तः स्वाधिकारनिर्वर्तनमात्रपर्याप्तसामर्थ्यास्तत्त्वतो मां संप्रति न विदन्ति || २ || ततः - यो मामजमनादिं च वेत्ति लोकमहेश्वरम् | असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते || ३ || प्. २२१) यः कश्चित् विरलो महात्मा मदनुग्रहादेव प्रत्युदितसम्यग्ज्ञानशक्तिः अजं नित्यत्वात् जन्मरहितमत एव अनादिम् अविद्यमानपूर्वपुरुषान्तरम्, तथा लोकमहेश्वरं लोकानां ब्रह्मादीनां लोक्यन्ते दृश्यन्ते वेद्यन्ते इतिं लोकशब्दवाच्यानां जनानां महान्तं सर्गस्थितिप्रलयाद्यवस्थाविधानस्वतन्त्रशक्तित्वादुत्तमं स्वामिनम्; तेषामपि हि ब्रह्मादीनां स्वविषयं यावन्मात्रमैश्वर्यं, तत्र कारणमित्यर्थः | एवंविधं मां यो वेत्ति, आत्मत्वेन प्रतिजानीते स मर्त्येषु मायाक्रोडीकृतत्वात् मरणधर्मसंबद्धेषु देवादिषु सर्वजन्तुषु मध्ये असंमूढः सत्यात्मनि मयि एव प्ररूढात्मप्रत्ययत्वात् विपर्ययलक्षणः संमोहोऽज्ञानं तस्य न विद्यते इत्यर्थः | अत एव सर्वैर्निरवशेषैर्मनोवाक्कायनिर्वर्त्यैः पापैर्नानायोन्यन्तरविशेषहेतुभिः किल्विषैः प्रमुच्यते परिवर्ज्यते | देहाद्यनित्यवस्तुव्यवस्थिताहङ्कारमात्रं हि सर्वपापानामुत्पत्तिकारणं, सम्यग्ज्ञानवतस्तु तत् नास्तीति स एव असंमूढः इति उक्तः || ३ || सर्वभूतानां सर्वावस्थाहेतुत्वे लोकमहेश्वरत्वं यत् व्याख्यातं, तदेव विवृण्वन्नाह - बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवोऽभावो भयं चाभयमेव च || ४ || अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः || ५ || इह अहमेव एकं तत्त्वं परमार्थसदिति बहुशः प्रतिपादितमेव | अयं च देवासुरभेदेन द्विप्रकारः क्षेत्रवर्गो मन्माययैव इत्थमवभासितः | एवं तदस्य क्षेत्रज्ञवर्गस्यापि तदहङ्कारावलम्बनेन प्. २२२) प्रसरन्तो बुद्ध्यादयः पृथग्विधाः नानारूपाः भावाः मत्त एव एकस्मात् कारणात् भवन्ति उत्पद्यन्ते | एते हि विविधा भावभेदाः प्रबुद्धैस्तत्त्वज्ञानदृशा परामृष्यमाणाः परस्मात् मत्स्वरूपात् मनागपि न व्यतिरिच्यन्ते | ततो मायामात्रमेव एतत् यत् भेदेन अवभासमानता भावानाम् | सा च मच्छक्तिरेवेति मत्त एव ते भावा भवन्तीत्युक्तम् | के ते भावाः | बुद्धिः मुख्यमन्तःकरणं यया बुद्ध्यते निर्विकल्पतया निश्चीयते बोद्धव्यं वस्तु, ज्ञानं तु मनःसंज्ञोऽन्तःकरणविशेषो येन बोद्धव्यं विकल्प्यते | एतौ सर्वप्रमातृसाधारणौ बुद्धिज्ञानसंज्ञौ भावौ | असंमोहः परमार्थनिष्ठं ज्ञानम् | ततोऽन्यविषयं सर्वमेव ज्ञानं विपर्ययादिदोषसंबन्धात् संमोहात्मकम् | स च असंमोहलक्षणो भावो मुमुक्षूणामेव भवति | क्षमा वाचा मनसा कर्मणा वा निर्विकारत्वं सर्वात्मना शक्तिमत्त्वेऽपि परापराधसहिष्णुत्वम् | एषोऽपि यत्याद्यवस्थायां मुमुक्षूणामपवर्गोपायभूतो धर्मः | अवस्थान्तरे हि ज्ञाननिष्ठतया स्वकर्मापरित्यागस्य मोक्षसाधनत्वादक्षमापि शास्त्रचोदिता सती मोक्षसाधनं भवत्येव | सत्यम् आत्यन्तिकभूतहितपर्यवसायि यथादृष्टार्थकथनम् | एतत् स्वर्गापवर्गफलार्थिनां साधारणम् | दमः उत्पथप्रवृत्तानां सर्वेन्द्रियाश्वानां वैराग्यभावनादिकषाभिघातात् ततः प्रतिषेधनम् शमः सिद्ध्यसिद्ध्योर्निर्विकारान्तःकरणता | एतौ योगिविषयौ | सुखं तत्तदिष्टवस्तुप्राप्तेरभिकाङ्क्षानिवृत्तौ संतुष्टचित्तता | दुःखं तद्विपरीतता | भवाभावौ जन्ममरणे | भयं दुःखहेतोर्दुष्करप्रतीकारात् त्रासः | अभयं तदभावो विश्वस्तचित्तता | एते सुखादयः सर्वप्राणिसाधारणा भावाः | अहिंसा सर्वभूताभिद्रोहात् प्. २२३) द्रोहात् सर्वात्मना विरतिः | सा च यत्याद्यवस्थायामेव मोक्षसाधनं, हिंसाया अक्षमावदवस्थान्तरे मोक्षसाधनत्वात् | यतः शास्त्रचोदितं यज्ञे वधादि, संग्रामे रिपुव्यापादनं दुष्टनिग्रहश्च हिंसात्मत्वेऽपि तथाविधस्वकर्मनिष्ठानां सतां मोक्षसाधनम् | समता सुहृन्मित्रार्युदासीन ---------------------------------- | (६|९) इत्यादिना प्राक्प्रतिपादितस्वरूपैकतत्त्वदर्शिता मुमुक्षूणामेव धर्मः | तुष्टिः सर्वभूतविषया प्रतिचित्तता मुमुक्षुविषयैव सुखस्यैव सर्वसाधारण्येन प्रतिपादितत्वात् | तपः वाक्चित्तकायनिर्वत्यो नियमविशेषः | दानम् इष्टापूर्तविभागेन स्वद्रव्यस्य परद्रव्यत्वापादनम्, ज्ञानादीनां तु स्वत्वनिवृत्तिं विना परत्र संक्रमणं दानम् | एतत् स्वर्गापवर्गफलार्थिनोः साधारणम् | यशः शास्त्रचोदितानां शुभानां कर्मणां सात्त्विक्या बुद्ध्या समाचरणात् सर्वजनविषया प्रशंसा | अयशः तद्विपरीताचरणादप्रशंसेति || ४-५ || एवंविधानां धर्माणामाश्रयभूता धर्मिण आ प्रजापतिभ्यो मत्त एव भवन्तीत्याह - महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा | मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || ६ || पूर्वे कल्पारम्भभाविस्वायम्बुवमन्वन्तररूपपूर्वकालभावित्वात् प्रथमे सप्त महर्षयः मरीच्यादयो ये पुराणप्रजापतयः प्रोक्ताः | केचित् तु बुद्धिमनसी महाभूतपञ्चकं चेति सप्त महर्षीन् कथयन्ति, प्रजासर्गहेतुत्वात् तेऽपि प्रजापतय इति वाहुः | प्. २२४) चत्वारो मनवः ब्रह्मसावर्णो रुद्रसावर्णो दक्षसावर्णो --- इति दक्षस्य दुहितुरुत्पन्नाः प्रजासर्गे प्रतिवर्णं चातुर्वर्ण्यस्य प्रथमे पुरुषा येषां ब्राह्मणादिवर्णसर्गहेतुत्वात् मनुत्वं प्रजापतित्वं च | एते मद्भावाः मत्तः परमकारणादेव भाव उत्पत्तिर्येषां, ते तथाविधाः | कीदृशाः सन्तो मद्भावाः | मानसा जाताः संकल्पजा इत्यर्थः | येषां प्रजापतीनां सतां संबन्धिन्यः लोके भुवनेषु इमाः प्रजाः ये प्रजासर्गकर्तारः कल्पारम्भे प्रजापतयः श्रूयन्ते, ते मदिच्छामात्रोद्भावितस्रष्ट्टभावा इत्यर्थः || ६ || एवंविधस्वैश्वर्यज्ञानफलमाह - एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सोऽविकम्पेन योगेन युज्यते नात्र संशयः || ७ || एतां यथोक्तां विभूतिं जगत्कर्तृत्वादिरूपमैश्वर्यं, तथा योगं नानाभावप्रपञ्चावभासनरूपकर्तृत्वादिसंबन्धेऽपि अद्वयचिन्मात्रस्वभावाप्रच्युतिलक्षणमत्यद्भुतमनन्यसाधा- रणं समाधिं मम यः तत्त्वतः परमार्थतो वेत्ति जानाति, सः मदीयेनैव अविकम्पेन सर्वदानिरूपप्लवेन योगेन समाधिना युज्यते संबध्यते | न अत्र अर्थे कश्चित् संदेहः संभवति यतो मदनुग्रहाविर्भूतसम्यग्ज्ञानतया ममैव एकस्य तत्त्वस्य जगल्लक्षणं विभवं सम्यग् यो विभावयति, स मत्स्वरूपसमाविष्टत्वात् मदीयेन समाधिना संबध्यते, इति कोऽत्र संशयस्य अवकाशः || ७ || यत एवंविधः - अयं सर्वस्य प्रभव इतः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः || ८ || बुधा मां भजन्ते मदीच्छयैव दैवप्रकृत्याश्रयसर्गंभावत्वात् प्. २२५) मदनुग्रहपात्रभूततया समाविर्भूतबोधाः सन्तो मुख्यविपश्चितो मां यथोक्तरूपमुपासते, नतु अन्ये आसुरसर्गभावाः, ततो मत्समाधिना युज्यन्ते | ते च किं कृत्वा समुपासते | इति मत्वा एवं मत्स्वरूपं निश्चित्य | कथम् | अयं परमेश्वरः परमात्मा सर्वस्य भावजातस्य प्रभवः उत्पत्तिकारणं यस्मात् बहुशः प्रतिपादितोपपत्तिवशादेतद्व्यतिरिक्तकारणान्तराभावात् इतः एतस्मादेव हेतोः सर्वम् इदं प्रवर्तते प्रसरतीति | इदमत्र तात्पर्यम् द्विविधं ज्ञानं निर्विकल्पपरमार्थप्रतिपादकशास्त्रोपदेशदृढप्रतिपत्तिजनकमेकम्, तद्वशात् च क्रमेण तत्त्वसाक्षात्कारप्रभवमपरम् | तद्वन्तो बुधा अपि द्विविधाः | ततो यथोक्तमद्विभूतियोगज्ञा मत्समाधिना युज्यन्ते इति नात्र संशयः इत्युक्तम् || ८ || ये तु मां भजन्ते, तेषामेवंविधं चेष्टितमित्याह - मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च || ९ || मच्चित्ताः मयि चित्तमन्तःकरणं येषां ते तथाविधा मदेकनिष्ठज्ञानक्रियाप्रसरा सन्तोऽन्योन्यं बोधयन्तः स्वानुभवसंवादेन ज्ञापयन्तः, तथा कथयन्तः यथाबोधमागमवचनैः कीर्तयन्तः तुष्यन्ति संवादात् स्वयं प्रीयन्ते परस्परं रमन्ति रतिमनुभवन्ति || ९ || एवंविधानां च- तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मामुपयान्ति ते || १० || तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || ११ || प्. २२६) तेषां बुधानां बुधत्वादेव प्रीतिपूर्वकं तत्त्वज्ञानजनितपरितोषपुरःसरं सेवमानानाम्, अत एव नित्योद्यतानां बुद्धियोगं प्रज्ञासंबन्धं वितरामि येन हेतुभूतेन बुधाः मामुपयान्ति मदीयं योगं समापद्यन्ते इति भक्तानां स्वयोगप्राप्तावसंशयस्य कारणं प्रतिपादितम् | यतः तेषामेव देवसर्गभाजाम् अनुकम्पार्थं संसारक्लेशविश्लेषणेन कृपां कर्तुम् अहम् अज्ञानजं मोहसमुद्भूतं तमः तत्त्वाप्रतिपत्तिमयं तिमिरं नाशयामि प्रध्वंसयामि | केन | भास्वता परसंविदात्मकदीप्तियुक्तेन ज्ञानदीपेन यथोक्तबोधप्रद्योतकेन | कीदृशः सन् | आत्मभावस्थः आत्मनः संवेदितुर्भाव आत्मत्वं तेन स्थितो यद्यपि सर्वगत एक एव अहमात्मा, तथापि स्वेच्छया यानेवानुगृह्णामि तेषामेव अहमात्मत्वेन स्थितः | अन्येषां तु देहादावात्मप्रतिपत्तिरित्यर्थः | एवं परमेश्वरोऽहं यानेव अनुगृह्णामि, त एव यथोक्तेन प्रकारेण मां भजन्ते | मद्विभूतियोगयोस्तत्त्वविदः सन्तो मदीयमेव योगं समापद्यन्ते मदभेदलक्षणं मोक्षमासादयन्तीत्यर्थः | यदाहुर्ब्रह्मविदः नायमात्मा प्रवचनेन लभ्यो न मेधया नो बहुना श्रुतेन | यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणीते तनुं स्वाम् || (म० उ० ३|२|३|| क० उ० २|२३) इति || १०-११ || अथ भगवद्वचनात् विशेषितश्रद्धादिगुणतया भगवन्मुखादेव अधिगतं भगवत्स्वरूपमनुवदन् तद्विभूतिविशेषजिज्ञासार्थमर्जुन उवाच - परं ब्रह्म परं धाम पवित्रं परमं भवान् | पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || १२ || प्. २२७) आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि माम् || १३ || परं निरुत्तरं परमात्मलक्षणं निरतिशयबृहत्त्वादियोगि तत्त्वं भवान् भगवानेव परमार्थतो ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् | मायावभासितस्य प्रकृत्यादेर्वेद्यस्यापि स्थूलस्य ब्रह्मशब्देन व्यवहारात् परत्वेन ब्रह्म विशेषितम् | तथा वक्ष्यति, उक्तं च तासां ब्रह्म महद्योनिः ------------------------ | (१४|४) इति, अत्र प्रकृतेर्ब्रह्मशब्देन व्यवहारः; तथा ------------------------------- शब्दब्रह्मातिवर्तते || (६|४६) इति, अत्र शास्त्रादिशब्दरूपस्यापि सर्गस्य | तथा परं सामान्यसंविदात्मकं निरतिशयं धाम ज्योतिर्भवान् | भेदविषयक्षेत्रसंबन्धिसंविदपेक्षया धाम्नोऽपि परत्वेन विशेषणम् | तथा परमम् अनुत्तमं पवित्रं पावनं भवान् मोहलक्षणंमहापातकविनाशहेतुत्वात् | उक्तार्थावगमस्य आगमं भगवद्वचनं च कारणं प्रतिपादयितुमाह यस्मात् सर्वे ऋषयः परावरद्रष्टारो मुनयः शाश्वतं नित्यं पुरुषं परमात्मानं त्वामाहुः कथयन्ति | कीदृशम् | दिव्यं परमव्योमस्थम् | तथा आदि सर्वेषां पूर्वम् | देवं परप्रकाशात्मतया द्योतनशीलम्, अत एव अजं जन्मरहितम् | विभुं व्यापकम् | न केवलं सर्वर्षयो, यावत् नारदासितदेवलाभिधाना महर्षयस्त्वामेवं विधमाहुः | स्वयं च मां साक्षात् ब्रवीषि || १२-१३ || सर्वमेतदृतं मन्ये यन्मे वदसि केशव | नहि ते भगवन् व्यक्तिं विदुर्देवा महर्षयः || १४ || प्. २२८) स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | भूतभावन भूतेश देवदेव जगत्पते || १५ || एतत्सर्वं यथाप्रतिपादितस्वविभूतियोगादिरूपं वस्तु यत् साक्षात् वदसि, तदहं ऋतं सत्यं मन्ये | यत् देवाः अपि तव व्यक्तिं पारमार्थिकीं मूर्तिं न विदुः महर्षयोऽपि तथैव न विदुः | ततो महर्षिभ्यः श्रुते मम प्रत्ययो नासीत्, इदानीं तु भगवद्वचनादत्र अर्थे निःसंशया प्रतीतिः | कुतस्त्वां देवा ऋषयश्च न विदुरित्यत्र हेतुमाह स्वयमेवेत्यादि | जगत्पते विश्वेश्वर तथा भूतभावन भूतानां चराचराणां सत्त्वानां भावन वेद्यत्वापादनमात्रेण उत्पादक, तथा तेषामेव यथेष्टविनियोगैकस्वतन्त्रतया ईश स्वामिन् स्वयमेव आत्मना आत्मानं स्वरूपं त्वं वेत्थ वेदकैकस्वभावत्वात् कथं वेद्यपदवीमन्यस्य देवादेरवतरसि | सर्वं हि तव एकस्य सर्वज्ञस्य वेद्यं, नतु त्वं कस्यचित् वेद्यः || १४-१५ || ततो हेतोः - वक्तुमर्हस्यशेषेण विभूतीरात्मनः शुभाः | याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठति || १६ || आत्मनो विभूतीः स्वैश्वर्यविजृम्भाः अशेषेण साकल्येन वक्तुमर्हसि कथयितुं प्रसीदेत्यर्थः | कीदृशीर्विभूतीः | शुभाः सर्वस्य सदसद्विभागेन व्यवस्थितस्य मायावभासितस्य जगत्पदार्थजातस्य शुभाशुभत्वे सति यत्र यत्र सर्गे या या शुभरूपा विभूतिस्तां तामादिशेत्यर्थः | कास्ता विभूतयः | याभिरिमान् लोकान् सप्त भुवनानि त्वं व्याप्य आक्रम्य वर्तसे | अत्र प्. २२९) दिव्या आत्मविभूतय इति प्रथमान्तपाठं केचित् पठन्ति | ते च यत्तच्छब्दाध्याहारेण च्छान्दसप्रयोगेण वा समर्थयन्ते || १६ || विभूतिश्रवणे प्रयोजनमाह - कथं विद्यां महायोगिंस्त्वामहं परिचिन्तयन् | केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया || १७ || विस्तरेणात्मनो योगं विभूतिं च जनार्दन | भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् || १८ || हे भगवन् सर्वज्ञत्वादिगुणैकाश्रय तथा महायोगिन् अनन्यसाधारणसमाध्येकनिष्ठ त्वाम् एवंरूपं कथं केन प्रकारेण अहं परिचिन्तयन् अनुस्मरन् विद्यां विजानीयाम् | केषु केषु च भावेषु पदार्थेषु मया चिन्त्योऽसि ध्यातव्योऽसि | अतः प्रागुक्तमैश्वर्यं समाधिं विभूतिं च इत्थं जगदाभासलक्षणां स्वैर्श्वर्यविजृम्भां विस्तरेण वैतत्येन मह्यं भूयः बहुतरं कथय आदिश | यस्मादेतत् स्वरूपप्रतिपादनलक्षणम् अमृतं सुधारसं शृण्वतो मे श्रवणाभ्यां पिवतः तृप्तिः सन्तोषो नास्ति || १७ || १८ || एवमभ्यर्थितो भगवानुवाच - हन्त ते कथमिष्यामि विभूतीरात्मनः शुभाः | प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे || १९ || हन्त अभ्युपगमे, बाढं यथाशुश्रूषिताः शुभाः स्वविभूतीस्तुभ्यं वक्ष्यामि | किन्तु प्राधान्येन चेतनाचेतनेषु पदार्थेषु अपर्यन्तवर्गभेदविभेदितेषु यत्र यत्र वर्गे या या काचित् प्रधानत्वादतिशायिनी प्. २३०) विभूतिस्तां तां वक्ष्यामि | यतो मद्विभूतीनां विस्तरस्य विततत्वस्य अन्तः निष्ठा न विद्यते || १९ || तत्र इदानीं नानाविभूतिकथनप्रस्तावनस्य अन्तेऽपि अभिधायिष्यमाणां परमार्थस्वरूपलक्षणां परां विभूतिं तावत् प्रथममेव प्रतिपादयितुमाह - अहमात्मा गुडाकेश सर्वभूताशयस्थितः | अहमादिश्च मध्यं च भूतानामन्त एव च || २० || सर्वेषां चेतनानामाशये हृदि स्थितः कृतप्रतिष्ठः आत्मा अहम् सकलक्षेत्रज्ञहृदयाभिव्यक्तसामान्यसंविद्रूप एक एव परमार्थत आत्मा | सैव परा विभूतिः, यतस्तन्निबन्धन एव अयं स्वमायाशक्तिप्रकाशितविश्वभावात्मकनानाविभूतिप्रपञ्चः | तद्रूपतया चिन्तितोऽहमनन्तविभूतिविस्तरैककारणतया ज्ञातो भवामि यतः सर्वभूतानाम् आदिः प्रागवस्था सर्गरूपा अन्तश्च नाशावस्था मध्यं स्थित्यवस्था अहमेव एकः | यतो मन्मायावशात् सर्गस्थितिविनाशावस्थायोगित्वेन परस्परमवभासमानेषु सर्वभूतेषु नित्यनिर्विशेषैकचिन्मात्रस्वभावोऽहमेव स्थितः | यैस्तु तादृश्या महाव्याप्त्या अहं चिन्तयितुमशक्यः, तैस्तदधिगमाभ्यासाय यत्र यत्र वर्गे यत् यदुत्कृष्टं तत् तत् मद्विभूत्यंशतया चिन्तयद्भिर्निरुत्तरा सर्वव्यापिनी सामान्यसंविदात्मिका परा मदीया विभूतिरधिगन्तुं शक्यते यां नानाविभूतिप्रतिपादनप्रकरणस्य अन्तेऽपि सामान्यरूपजडांशव्यतिरेकिणीं विष्टम्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् | (१०|४२) इति वक्ष्यति | तदेवंविधे चतुर्दशविधे भूतसर्गप्रपञ्चे, अष्टविधायां देवयोन्यामादित्यादिषु देवादिसर्गेषु, षड्विधायां मनुष्यादियोनौ मनुष्यादिसर्गेषु यत् यदुत्कृष्टं, तत् तत् मदीयपरमप्रकाशलेशतया प्. २३१) भावयता निरुत्तरप्रकर्षासामान्यसंवित्प्रकाशमयी परा मद्विभूतिरधिगन्तव्येति अध्यायस्य तात्पर्यम् || २० || तानिदानीमुच्चावचान् स्वविभूत्यंशानहन्तया प्रतिपादयितुमाह - आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् | मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || २१ || आदित्यपत्यत्वात् सर्वदेवानामादित्यत्वे प्राप्ते रूढ्या द्वादशसंख्यावच्छिन्नपुराणपठितधातृमित्रार्यमादिसंज्ञा- नां देवविशेषसर्गे आदित्यसंज्ञा प्रसिद्धा, तेषां मध्ये तद्गणान्तःपठितो विष्णुसंज्ञ आदित्यः अहम् | तस्य जगत्स्थितिपालनलक्षणप्रभवातिशययोगात् मद्विभूत्यंशत्वम् | तथा ज्योतिषां दिवि द्योतमानानां सर्वतेजसां मध्ये रविः सूर्योऽहम् | कीदृशः | अंशुमान् सकलभुवनप्रकाशनाद्यंशुयुक्तत्वे सति प्रकृष्टैरंशुभिर्युक्तः, अत एव तस्य मद्विभूत्यंशत्वम् | तथा मारुतां देवविशेषाणामेकोनपञ्चाशतो मन्ये मरीचिः नाम मरुदहम् | तस्य तन्मध्ये प्रजासर्गकर्तृत्वलक्षणप्रभावयोगात् मद्विभूत्यंशत्वम् | तथा नक्षत्राणाम् अष्टाविंशतिसंख्यानां मध्ये शशी चन्द्रमा अहम् | शशिनो नक्षत्रनाथत्वात् तन्मध्ये गणनं, तस्य च आप्यायनहेतुत्वादिसामर्थ्ययोगात् मद्विभूत्यंशत्वम् || २१ || तयैव दृष्ट्या अन्यानपि आह - वेदानां सामवेदोऽहं देवानामस्मि वासवः | इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || २२ || वेदानां त्रयाणां चतुर्णां वा प्रसिद्धानां मध्ये सामवेदोहम् | तस्य भगवतैव प्रधान्यमाविष्कृतम्, येन प्रणष्टेषु वेदेषु प्. २३२) वाजिवदनपुरुषोद्गीथमुच्चार्य स एव पूर्वं प्रत्याहृतोऽतस्तस्य मद्विभूत्यंशत्वम् | देवानां त्रयस्त्रिंशद्गणभेदेन पुराणपठितानां वासवः इन्द्रोऽहम्, तस्य तदीश्वरत्वात् मद्विभूत्यंशत्वम् | इन्द्रियाणाम् एकादशानां मनः अहं, तस्य प्रवृत्तिनिवृत्तिहेतुत्वात् प्राधान्ये सति मद्विभूत्यंशत्वम् | द्विविधानि भूतानि चराणि स्थावराणि च | तेषामुभयेषामपि चेतना प्रधानम्, यतश्चेतनोपलक्षितत्वेन चराणां स्थितिः प्रसिद्धैव | चेतनानिबन्धना च स्थावराणामपि व्यवस्था तदनुगृहीतानां तेषां संकल्प्यत्वात् | अतः सर्वभूतप्राधान्यव्यवस्थिता चेतना अभिन्नापि क्षेत्रज्ञशक्तिरहम् | तस्या मुख्यतया मद्विभूत्यंशत्वम् | केचित् तु चेतनां बुद्धिमाचक्षते | तस्याश्च कार्यकारणभेदेन प्रसृतानां जडानामेव भूतानां मध्ये प्राधान्यमाहुः | सा हि तानि सर्वाणि पुरुषसन्निधिसमुद्भूतचेतनभावात् चेतयते इति || २२ || किंच - रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् | वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् || २३ || रुद्राणाम् अङ्गारकादिसंज्ञाभिः पुराणप्रोक्तोभिः प्रसिद्धानामेकादशसंख्यानां मध्ये शङ्करः अहम्, तन्मध्ये तस्यैव ऐश्वर्यातिशयात् मद्विभूत्यंशत्वम् | तथा यक्षाणां गुह्यकानां, तथा रक्षसां पिशिताशिनां साहचर्यात् पिशाचानामपि देवयोनिषु दृष्टानां मध्ये वित्तेशः धनेश्वरोऽहम्, तस्य तद्वर्गाधिकृतत्वात् मद्विभूत्यंशत्वम् | तथा वसूनां धरादिसंज्ञाभिः प्रसिद्धानामष्टानां मध्ये प्. २३३) पावकाख्यो वसुरहम्, तस्य नानाविधयागविध्यधिकरणभूतत्वादिना प्राधान्ये सति मद्विभूत्यंशत्वम् | तथा शिखरिणां पर्वतानां मध्ये मेरुः कनकाचलः अहम् तस्य देवालयत्वसूर्योदयहेतुत्वादिना प्राधान्यमिति मद्विभूत्यंशत्वम्, इति उत्तरत्र सर्वत्र वेदितव्यम् || २३ || किंच - पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् | सेनान्यामप्यहं स्कन्दः सरसामस्मि सागरः || २४ || पुरोधसां राजगुरुणां मध्ये मुख्यं प्रधानं बृहस्पतिं देवराजगुरुं मां विद्धि तस्य तेषु प्रकृष्टत्वात् | सेनान्यां चमूनायकानां मध्ये चमूनायकः स्कन्दः कुमारः अहम् तस्य तन्मध्ये वीर्यातिशययोगात् प्राधान्यम् | सरसां जलाशयानां मध्ये सागरः समुद्रोऽहम्, तन्मध्ये नानारत्नप्रभवहेतुत्वादिना सागरस्य प्राधान्यम् || २४ || किंच - महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् | यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः || २५ || ऋषीणां महर्षित्वादिना प्रजापतित्वादिना च महतां प्रकृष्टानां मुनीनां मरीच्यङ्गिरःप्रभृतीनां मध्ये भृगुरहं तस्य तदपेक्षया ज्ञानादिप्रकर्षश्रवणात् प्राधान्यम् | तथा गीर्निर्वर्त्यत्वात् गीःशब्दवाच्यानां मध्ये प्रणवाख्यम् एकमक्षरम् अहम्, तस्य हि पदभूतस्य विश्वरूपतातिरिक्तपरमेश्वरस्वरूपवाचकत्वात् प्राधान्यम् | यज्ञानां द्रव्यनिर्वर्त्यानां यागविशेषाणां प्रागुक्तानां मध्ये जपः प्. २३४) प्रणवादिपवित्रावर्तनं, स एव यज्ञो यागविधिरहम् | यथा मन्त्रजपेन देवा आराध्यन्ते, न तथा द्रव्ययज्ञादिनेति तस्य प्राधान्यम् | यतः फलानभिसंधानेन जपयज्ञनिष्ठस्य यत् फलं प्राप्यं, तदपेक्षया तत्तल्लोकान्तरप्राप्तिरपि निरयगतित्वेन मोक्षधर्मेषु प्रतिपादिता | तथाच तत्र उक्तं चतुर्णां लोकपालानां शक्रस्यापि बृहस्पतेः | मरुतां विश्वदेवानां साध्यानामश्विनोरपि || रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम् | एते वै निरयास्तात स्थानस्य परमात्मनः || (म० भा० शा० प० १९६|६) इति, मुख्यजापकप्राप्यस्येत्यर्थः | तथा स्थावराणां जङ्गमत्वव्यतिरिक्तलक्षणानां मध्ये हिमालयः अहम् | तस्य समस्तस्थावरभूतमध्ये नानारत्नौषधीप्रभवत्वादिना प्राधान्यमुक्तम् | गिरीणां मध्ये मेरोर्विशिष्टत्वमुक्तम्, स्थावराणां तु हिमालयस्येति न पौनरुक्त्यम् || २५ || किंच - अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः || २६ || उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् || २७ || आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || २८ || प्. २३५) अनन्तश्चास्मि नागानां वरुणो यादसामहम् | पितॄणामर्यमा चास्मि यमः संयमतामहम् || २९ || प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् | मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || ३० || पवनः पवतामस्मि रामः शस्त्रभृतामहम् | झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || ३१ || सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् || ३२ || अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च | अहमेवाक्षयः कालो धाताहं विश्वतोमुखः || ३३ || मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा || ३४ || बृहत्साम तथा साम्नां गायत्री च्छन्दसामहम् | मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः || ३५ || द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् | जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || ३६ || वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः | मुनीनामप्यहं व्यासः कवीनामुशना कविः || ३७ || दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् || ३८ || श्लोकत्रयोदशकनिष्ठानां वृक्षादीनां पदार्थवर्गाणाम्, अश्वत्थादीनां तत्तद्विशेषाणां यज्ञियत्वादिना तेन तेन विशेषेण प्राधान्यं प्रसिद्धमिति प्रातिपाद्येन सर्वं न व्याख्यातम्, किन्तु क्वचित् प्. ३३६) किञ्चित् पदं व्याख्यायते | तत्र प्रजनः प्रजननक्रियाकर्ता, तस्य जातावेकवचनम्, तेन प्रजनयितॄणां मध्ये प्रजननक्रियायां मुख्यहेतुत्वात् कन्दर्पः कामोऽहम् | सति हि तस्मिन्नन्येषां प्रजनकत्वप्रसिद्धिः | यादःशब्देन अब्देवता आहुः, तासां मध्ये वरुणः प्रधानम् | तथा यमः वैवस्वतो देवताविशेषो यतस्ततो योनेर्यत्र तत्र योन्यन्तरे सर्वक्षेत्रज्ञान् नियच्छति | तस्य संयमतां नियमक्रियासमर्थानां सर्वेषां मध्ये प्राधान्यम् | संयमतामिति च्छान्दसो यच्छादेशाभावः | केचित् निपुणाः संयच्छतामिति पठन्ति कालः कलयताम् इत्यत्र | इह तावत् सर्वात्मना निरवच्छिन्नमहिम्नो नित्यस्य एकस्य ईश्वराख्यस्य तत्त्वस्य परमार्थसत्त्वात् कालो नाम तद्व्यतिरिक्तः पदार्थो न कश्चित् भवितुमर्हति, किन्तु तन्मायावभासितजडाजडभावात्मके जगति अजडः क्षेत्रज्ञलक्षणो यो भावस्तस्य परस्परभिन्नार्थप्रमातृतायां सत्यामनित्यवस्तुविषयत्वेन कलनामात्रनिमित्तकः कालः समुन्मिषति | अनित्या हि भावा उत्पत्तिस्थितिनिरोधधर्माणो भूतवर्तमानभविष्यद्दशायोगित्वात् कलनीयतां तेन तेन रूपेण अवच्छेद्यतां प्रतिपद्यन्ते, तेषां च मायीया एव प्रमातारः कलयितारः | ततः कलनक्रियैव कालः | ततः कलनीयव्यवहारमुख्यसाधनभूतकलनक्रियायामेव अस्य कालस्य कलयितॄणां मध्ये मुख्यत्वमिति क्रियात्वेन परिकल्पितस्य कालस्य इह प्रतिपादितं स्वरूपम् | द्रव्यत्वेन अपि तस्य कैवल्यकल्पना व्यवस्थाप्यते | तामग्रे वक्ष्यति | अक्षराणां पदावयवभूतानां मातृकावर्णानां सर्वप्राणभूतत्वादकारस्य प्राधान्यम् | स हि जीव इव शरीराणां तेषां वर्णानां व्यापकत्वेन एको व्यवस्थितः | तस्य हि अनासादितदीर्घककारादिरूपविकारत्वे सति यत् प्. २३७) रूपं, तत् नादात्मकं परं शब्दतत्त्वमिति तत्त्वविदो वदन्ति | तथा सामासिकस्य तत्पुरुषबहुव्रीह्यादेः समाससमूहस्य मध्ये सकलपदार्थप्राधान्यादिना युगपदधिकरणवचनत्वादिना च द्वन्द्वस्य प्राधान्यम् | तथा अक्षयः कालः इति यदा द्रव्यत्वेन कालः कल्प्यते, तदा सर्गादीनां नित्यप्रवृत्तानां नित्यत्ववत् तस्यापि नित्यत्वे सति क्षणिकादिकल्पस्थायिपर्यन्तभावभेदपृष्ठपातिनामनित्यानां स्वावयवानां निमेषादिकल्पान्तानां मध्येऽक्षयत्वमनन्तत्वमिति स्वावयवापेक्षयैव एतस्य प्राधान्यम् | अवयवनिर्देशस्तु अत्र अर्थात् कल्पनीयः | कल्पना तु कालस्य क्रियात्वेन, द्रव्यत्वेन च, उभयथापि प्रतिपत्तिसहिष्णुत्वात् संभवत्येव | संभवापेक्षयैव च भगवता पुनः कालनिर्देशः कृतः | यदिवा योऽहम् अक्षयः परमार्थो नित्यत्वादविनश्वरः, स एव कालः अहमेव | स्वमात्मानं कालत्वेन अवभासयामीति पूर्वोक्तस्य कालस्य मदिच्छामात्रकल्पितस्वरूपप्रतिपादनार्थं पुनर्वचनमिति; यदिवा दर्शनभेदेन क्वचित् क्रियात्वं, क्वचित् द्रव्यत्वं कालस्य पश्यता भगवता द्विर्निर्देशः कृतः | तथा यः सततं जीवितेन्द्रियशरीरविषयादिकं युगपदेव हरति, तस्य मृत्योस्तत्कालभाविनो मरणहेतोर्वस्तुनोऽन्येषां हन्तॄणां मध्ये प्राधान्यम् | तथा च्छलयतां वञ्चयतां मध्ये द्यूतस्य च्छलयितृत्वेऽपि धर्मादनपेतत्वात् प्राधान्यम् | तथा धर्मद्यूतधनं श्राद्धादिक्रियासु शस्यते | परवञ्चनाभिसन्धिमूलत्वात् छलयितृत्वं स्थितम् | सत्त्ववतां गुणानां सत्त्वरजस्तमोलक्षणानां सत्त्वगुणस्य प्रकाशात्मकत्वात् प्राधान्यम् | तथा येन राजानो दुर्विनीतान् दमयन्ति, स दण्डः शास्त्रनियमितो निग्रहविशेषो मुख्यसाधनमिति स एव दमयिता, तेन दमयतां मध्ये दण्डस्य प्. २३८) प्राधान्यम् | तथा जिगीषतां प्रतिद्वन्द्विनो जेतुमिच्छतां नीतिः कर्मारम्भोपायादिकार्यसिद्धिपर्यन्ताङ्गपञ्चकमयो नय एव मुख्यं साधनमिति नीतेरेव जिगीषतां मध्ये प्राधान्यम् | तथा गुह्यानां रहस्योपायानां मध्ये मौनं वाङ्नियमरूढं मुनित्वमहम्, नानार्थविषयस्य संकल्पस्य अपि अनुन्मेषो यत्र | स हि परमः समाधिः, तस्मिंश्च सति संकल्पमूलाया वाचो नियमरूपस्य मौनस्य सिद्धिरिति | तदेव परमं गुह्यमित्युक्तम् | तथा ज्ञानवद्ग्रहणेन नानार्थविषयाणि भिन्नानि ज्ञानानि गृह्यन्ते | तेषां मध्ये परमार्थैकलक्षणैकतत्त्वविषयस्य अभिन्नस्य ज्ञानस्य प्राधान्यम् | ततो नानाज्ञानानां मध्ये एकस्य ज्ञानस्य यथोक्तस्य प्राधान्यमनेन प्रतिपादितम् || २६-३८ || विभूतिप्रतिपादनमुपसंहरन्नाह - यच्चापि सर्वभूतानां बीजं तदहमर्जुन | न तदस्ति विना यत् स्यान्मया भूतं चराचरम् || ३९ || किं बहुना विभूतिविस्तरकथनेन | संग्रहादियं परा मम विभूतिः, यतः सर्वभूतानां प्राक्प्रतिपादितपरापरप्रकृतिभेदेन प्रसृतानां यद्वीजम् उत्पत्तिकारणं, सोऽहम् | न हि बाह्यं कारणं जगतां किञ्चित् संभवति मन्मायाशक्तिमात्रमेकं वर्जयित्वेत्यर्थः | यतः तत् इह वस्तु चेतनमचेतनं वा नास्ति न सत्तां भजते, यत् मया विना उत्पद्यते | अतः सकलकारणाभासव्यतिरेकेण पारमार्थिकमहमेव कारणं सर्वभूतानामिति || ३९ || मया च परमकारणेन सता स्वमायामहिमोद्भावितनानाभावभेदाश्रिता या विभूतयो मम संभवन्ति, तासां - प्. २३९) नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया || ४० || मम संबन्धिनीनां दिवो मद्धृदयाकाशादुद्भूतानामपर्यन्तसर्वपदार्थव्यवस्थितानां विभूतीनां निजशक्तिविजृम्भमाणानाम् अन्तः अवधिर्न विद्यते | एष तु इह प्रकरणे उद्देशतः कस्यचित् धर्मस्य कीर्तनात् विभूतेः स्वविभवस्य विस्तरः प्रसरः कथितः || ४० || संग्रहतस्तु इदं स्वविभूतिविज्ञानाय ब्रवीमि - यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा | तत्तदेवावगच्छेस्त्वं मम तेजोंशसंभवम् || ४१ || इह सर्वलोकेषु यत् यत् सत्त्वं यत्किञ्चिद् वस्तुजातं चेतनमचेतनं वा विभूतिमत् विभूतियुक्तम्, अत एव श्रीमत् शोभातिशयसंपन्नम् ऊर्जितं तत्तदर्थक्रियासामर्थ्ययुक्तं तत् तत् सर्वं मम संबन्धिनस्तेजसः परस्य प्रकाशस्य य अंशो लेशमात्रं तत्संभवं तत्समुद्भूतं त्वमवगच्छेः अवजानीयाः || ४१ || प्रकारान्तरापेक्षणेन विभूतिनिष्ठां प्रतिपादयितुमाह - अथवा बहुनोक्तेन किं ज्ञानेन तवार्जुन | विष्टम्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् || ४२ || अथ एतेन तत्र तत्र वर्गे तत् तत् वस्तु मद्विभूतिमत्त्वेन स्थितमवगच्छेति पूर्वोक्तेन बहुना प्रभूतग्रन्थप्रतिपादितेन ज्ञानेन तथाप्रतिपन्नेन सता किं ते प्रयोजनं, न किञ्चित् कृत्यं यतः इदम् अनवधि विचित्रभावमयं कृत्स्नं समस्तं प्. २४०) जगत् सप्तलोकीमितं विश्वमेकेन सर्वदा सर्वत्र विचित्रसामान्यसंविदात्मना वेद्यांशव्यतिरेकिणा अंशेन भागेन अवष्टभ्य आक्रम्य व्याप्य अहं स्थितः | तदिदमनेन उक्तं भवति तत्र तत्र दर्शने तत्तत्प्रकारभेदेन प्रतिपादितस्य अस्यजगतो द्वावंशौ संक्षेपतः स्वरूपम् | एको वेदकैकस्वभावः सर्वदा सर्वात्मना निर्विकारचिन्मात्रस्वरूपः, अपरो नानारूपत्वेऽपि वेद्यैकस्वभावः | तत्र वेद्यांशपरिहारेण तदाभासैककारणभूतवेदकांशविश्रान्तसंविदा अभियुक्तेन भवितव्यम्, येन मद्विभूतिः परमा अधिगम्यते इत्योम् || ४२ || विभूतीरा विष्णोरिह सकलसर्गातिशयगाः परब्रह्मैश्वर्यावधि समधिगन्तुं व्यवसितैः | इयं साक्षाद्भक्तिर्भवति तु विशुद्धैव त्रिबुधै- र्निधातव्या नित्यं मनसि दशमाध्यायविवृतिः || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे दशमोऽध्यायः || १० || अथ एकादशोऽध्यायः || अथ अध्यायदशकेन भगवदुपदिष्टज्ञानविज्ञानपूर्वं समस्ताभिधेयवस्तुश्रवणमात्रादेव भगवतः परमेश्वरत्वावगमात् तस्य परमकारणत्वे तदुक्ते वचसि यथोक्तफलाविसंवादकतया प्रकृष्टोपायत्वे निवृत्तसन्देहमात्मानमावेदयन् श्रुतिमात्रप्रतिपन्नतत्साक्षाद्दर्शनेच्छाप्रचोदितोऽर्जुन उवाच - मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् | यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || १ || मदनुग्रहाय मामनुग्रहीतुं निजया परशक्त्या प्रबोधयितुं त्वया परमेश्वरेण स्वयंप्रतिपादितस्वभावेन यद्वचः वचनमध्यायदशकात्मकं वाक्यम् अध्यात्मसंज्ञितम् आत्मविषयज्ञानमयम्, अत एव परमं गुह्यं प्रकृष्टं रहस्यं उक्तं उपदिष्टम्, तेन हेतुभूतेन अयं सर्वजनक्रोडीकारेण स्थितो मोहः इति प्रतिपादितपरमार्थप्रतिपत्त्यन्यथाप्रतीतिलक्षणमज्ञानं मम निवृत्तो व्यपगतः इति || १ || तत्र हेतुमाह - भवाप्ययौ हि भूतानां श्रुतौ विस्तरतो मया | त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || २ || यस्मात् त्वत्तः परमकारणादेकस्मात् समस्तानां स्थावरजङ्गमानां भूतानां भवाप्ययौ उत्पत्तिलयौ विस्तरतः वैतत्येन मया श्रुतौ श्रुतिमात्रेण प्रतिपादितौ, नतु अवधारितौ | अपिच अव्ययं नित्यं माहात्म्यं निरतिशयैश्वर्यलक्षणं महत्त्वं श्रुतम् | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा | मत्तः परतरं नान्यत् किञ्चिदस्ति -------------- || (७|७) प्. २४२) इत्यादेरविसंवादिनो भगवद्वचनादेव भगवानेव सकलभूतभावाभावैककारणं तथाभावेऽपि विशुद्धचिन्मात्रस्वभावाप्रच्युतेरद्भूतस्य ऐश्वर्यस्य एकास्पदमिति च मया प्रतिपन्नमित्यर्थः इति || २ || श्रुतिमात्रेण एतत् मया प्रतिपन्नं, नतु साक्षादनुभूतमिति तदर्थमाह - एवमेतद् यथात्थ त्वमात्मानं परमेश्वरम् | द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || ३ || यथा येन प्रकारेण पूर्वोक्तेन त्वया आत्मानं स्वरूपं परमेश्वरं ब्रह्मादीनामपि ईश्वराणामीशितृत्वात् प्रवरं प्रभुम् आत्थकथयसि | एतत् वस्तु एवम् अनेन प्रकारेण स्थितम्, न अत्र मे भ्रान्तिरित्यर्थः | तत एव ते रूपं दिव्यं वपुः ऐश्वरं ईश्वरस्य तव संबन्धि द्रष्टुं साक्षात् निरूपयितुम् इच्छामि अभिकाङ्क्षामि | अनेन हि अधुना दृष्यमानेन पुरुषाकृतिना रूपेण तत् परं रूपं वाङ्मात्रेण मम केवलं कथितं यत्र इदमेकस्मिन् सर्वमेव स्थितम्, तदिदानीं भगवद्वचनप्रत्ययात् मया सत्यतस्तथा विद्यमानतया प्रतिपन्नम् | अतः पुरुषोत्तम परमपुरुषत्वत्प्रसादात् प्रत्यक्षतः प्रेक्षितुमभिकाङ्क्षामीति || ३ || किन्तु - मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो | योगीश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || ४ || हे प्रभो परमेश्वर तत् तथाविधं तात्त्विकं रूपं परमयोगिभिरपि प्रार्थ्यमानदर्शनं मया मनुष्यमात्रेण द्रष्टुं साक्षात् प्रेक्षितुं शक्यं सह्यमिति यदि मन्यसे जानासि, यदि मम इयतीं योग्यतां संभावयसि, ततस्त्वं योगीश्वर सहजसिद्धनिरतिशययोगत्वात् प्. २४३) प्रयत्नसाध्ययोगानां सर्वेषां योग्यन्तराणां प्रभो मे मह्यं अव्ययम् अनादिनिधनं आत्मानं स्वरूपं दर्शय प्रत्यक्षीकुरु इति || ४ || इत्थमभ्यर्थितः प्रसादाभिमुखो भगवानुवाच - पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च || ५ || पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा | बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि पाण्डव || ६ || इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् | मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि || ७ || हे पार्थ मम एकस्यैव परमार्थसतः परमात्मनः स्वैश्वर्यातिशयात् स्वशक्तित्वेन संबद्धानि असंख्यातानि रूपाणि आकृतिविशेषात्मकानि पश्य अवलोकय | कीदृशानि | नानाविधानि विचित्राणि, अत एव नानावर्णाकृतीनि विविधावभाससंस्थानानि, तथा दिव्यानि अमानुषीयाणि, इति सामान्येन उपक्रम्य विशिष्टानि उद्देष्टुमाह आदित्यान् द्वादशसंख्यान् देवविशेषान् | तथा वसून् अष्टसंख्यान् रुद्रान् च एकादशसंख्यान् अश्विनौ दस्रौ मरुतश्च एकान्नपञ्चाशतं देवविशेषान् पश्य इति प्राधान्यात् देवतारूपाणि उद्देशमात्रेण उक्त्वा, संक्षेपत आह एतानि तावत् त्वया सुरलोकनिवासिना सता दृष्टानि, यान्यपि बहूनि अपरिमेयाणि अदृष्टपूर्वाणि न कदाचिदालोकितानि आश्चर्याणि अद्भुतानि, तान्यपि सर्वाणि पश्य किं बहुना इह मम संबन्धिनि देहे एकस्मिन्नेव रूपे एकत्र स्थितं कृत्स्नं अखिलं चराचररूपत्वात् संक्षेपेण द्विप्रकारं, यदन्यत् किञ्चित् प्. २४४) यथाभिलषितं द्रष्टुमभिवाञ्छसि, तदपि एकस्थमेव पश्य इत्येकस्यैव परमार्थसतः परमकारणस्य स्वमायाशक्त्यवभासितानन्तान्योन्यभिन्नभावात्मकत्वमिदमत्यद्- भुतं पश्येति अत्र तात्पर्यमिति || ७ || अत एव अत्यद्भुतत्वादस्य अर्थस्य - न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा | दिव्यं ददानि ते चक्षुः पश्य मे योगमैश्वरम् || ८ || अनेनैव मर्त्यभावात् परिमितदर्शिनैव चक्षुषा गोलकाधिष्ठानया दृक्शक्त्या पुनः मां प्रदर्शयिष्यमाणाश्चर्यरूपं द्रष्टुं आलोकयितुं न शक्यसे न क्षमो भविष्यसि | ततो दिव्यं सर्वदर्शित्वशक्तियोगात् परमात्मरूपपरमाकाशभवं प्रकृष्टज्ञानात्मकं चक्षुः नेत्रं ते ददानि पारमैश्वर्या स्वशक्त्या निष्प्रयत्नस्यैव आविर्भावयेयम् | तेन मम ऐश्वरं ईश्वरस्य संबन्धि प्रदर्शयिष्यमाणं रूपं पश्य साक्षात् निरूपयेति || ८ || अथ भगवता परमेण समाधिना निरतिशयनिजरूप[दर्शन] योग्यतादानाय अर्जुनो यथा अनुगृहीतः, तथैव पूर्व भगवद्व्यासमुनिप्रसादादासादितदिव्यचक्षुर्धृतराष्ट्राय प्रतिपादयितुं संजय उवाच - एवमुक्त्वा ततो राजन् महायोगीश्वरो हरिः | दर्शयामास पार्थाय परमं रूपमैश्वरम् || ९ || अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् | अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् || १० || दिव्यमालाम्बरधरं दिव्यगन्धानुलेपनम् | सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् || ११ || प्. २४५) गतार्थमेतत् श्लोकत्रयम् | किन्तु एकमेव ऐश्वरं भगवत्सम्बन्धि विशुद्धसंविन्मात्रं परमार्थतो यद्रूपं, तदेव सकलजीवलोकविचित्राकृतिभेदेन तन्मायाशक्त्यैव अवभासते | ततो विश्वमेव भगवद्रूपमित्येतावन्मात्रतात्पर्याणि रूपविशेषाणि अवगन्तव्यानि, येन रूपसामानाधिकरण्येन अनन्तं विश्वतोमुखं देवम् इति ग्रन्थः संबन्धमेतीति || ११ || अत एव एकस्य परमार्थाद्वैतचित्प्रकाशात्मनो वैश्वरूप्येण अवभासमानस्य स्वरूपं प्रतिपादयितुमाह - दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता | यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः || १२ || यदि अन्तरिक्षे समुदितस्य भास्करसहस्रस्य समकालमेव समुत्थिता प्रसृता भाः दीप्तिः कदाचित् भवेत् सा तस्य एकस्य परप्रकाशस्वभावस्य महात्मनः परमपुरुषस्य भासः सदृशी स्यात् तुल्या भवेदिति काक्वा व्याख्येयम्, येन न सदृशी स्यादित्येवं पर्यवस्येत् | नहि अनन्यप्रकाशसकलवस्तुप्रकाशकनिरतिशयप्रकाशात्मनस्तस्य कोटिशोऽपि युगपदुदितानां दिनकराणां दीप्तिस्तत्प्रकाशलेशसादृश्यमपि आसादयितुमर्हतीति || १२ || एवमनुत्तरप्रकाशात्मनि - तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा | अपश्यद् देवदेवस्य शरीरे पाण्डवस्तदा || १३ || तदा तादृग्भगवद्वैश्वरूप्यदर्शनकारणभूतदिव्यज्ञानात्मक- चक्षुर्दानलक्षणपरानुग्रहरूपे काले तत्र तादृशि परप्रकाशात्मनि देवदेवस्य सर्वेश्वरस्य शरीररूपे एकस्थं एकत्रैव आश्रये स्थितम् | अथच नैकधा प्रविभक्तं विश्वभावरूपैर्विप्रकीर्णं कृत्स्नं अखिलं प्. २४६) जगत् अर्जुनः अपश्यत् साक्षात् कृत्वान्, इति संजयोदिव्येन चक्षुषा पारमेश्वरमनुग्रहमर्जुनस्य दृष्ट्वा एतदुक्तवानिति || १३ || अथ दृष्टपरमेश्वरवैश्वरूप्योऽर्जुनः किं चकारेत्याह - ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः | प्रणम्य शिरसा देवं कृताञ्जलिरभाषत || १४ || ततः तादृगत्यद्भुतभगवद्रूपसाक्षात्कारक्षणादनन्तरं पुनर्मानुषभावाविर्भावेऽपि अनुभूतपरतत्त्वस्मरणजनितेन विस्मयेन आविष्टः आक्रान्तचित्तवृत्तिः, अत एव हृष्टरोमा संजातपुलकः धनञ्जयः देवकीपुत्रं पुरोवर्तिनं साक्षात्कृतनिरतिशयप्रभावत्वात् संजाततद्विषयबहुमानातिशयो मूर्ध्ना प्रणामं कृत्वा कृताञ्जलिः सन् इदं वक्ष्यमाणं अभाषत उवाचेति || १४ || किमित्याह - पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् | ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दीप्तान् || १५ || हे देव परमेश्वर तव देहे सकलजगद्भावैकाश्रयभूतेऽस्मिन् वपुषि देवान् दिवौकसः, तथा अन्यानपि चराचराणां भूतविशेषाणां प्रण्यन्तराणां सङ्घान् सहस्राणि पश्यामि इति देवादिप्राधान्येनैव हि झगिति समस्तविश्वदर्शनं भगवद्वपुषि पूर्वं प्रतिपाद्य, क्रमेण तद्विशेषदर्शनं प्रतिपादयितुमाह ब्रह्माणं प्रजापतिं ईशं प्रभुं कमलासनस्थं पुण्डरीकविष्टरसंनिविष्टं पश्यामि, इत्यनेन ब्रह्मलोकान्तमूर्ध्वभुवनदर्शनमुक्तवान् | ऋषींश्च सर्वान् पश्यामि इत्यनेन प्राधान्यापेक्षया ऋषिजनोपलक्षितमध्यमलोकदर्शनमुक्तवान् | उरगांश्च दीप्तान् पश्यामि इत्यएन अनन्तवासुकिप्रमुखभुजगेन्द्रोपलक्षितपातालदर्शनमुक्तवान् | प्. २४७) एवं त्वद्वपुषि लीनं भुवनत्रयं पश्यामि, इति स्वानुभवं प्रतिपादितवानिति || १५ || एवं देवादिविविधभूताधिष्ठितभुवनत्रयदर्शनेऽपि त्वामेव एकं सर्वाश्रयं पश्यामीत्याह - अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप || १६ || स्पष्टार्थः श्लोकः | किन्तु भुवनत्रयगतानां भूतानां ये नानाविधा भुजजठरवदनलोचनादयोऽवयवाः, ते तवैव सर्वतोऽनवच्छिन्नमाहात्म्यस्य एकस्य अवयवत्वेन पश्यामीति अत्र तात्पर्यमिति || १६ || इदमेव च ते पुरःस्थितं रूपं त्वदनुग्रहात् परमेश्वरतेजोमयं पश्यामीत्याह - किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्षं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् || १७ || अवतरणिकयैव व्याख्याततात्पर्यमेतत् || १७ || अत एव परमेश्वरप्रतिपादकानि विशेषणानि तस्य रूपस्य प्रतिपादयितुमाह - त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् | प्. २४८) त्वमव्ययः सात्त्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे || १८ || अक्षरं स्वरूपप्रच्युतिलक्षणक्षोभरहितं यत् परमं निरुत्तरं वेद्यं ज्ञेयं तत्त्वं, तत् भवान् | तथा अस्य अनन्तप्रपञ्चस्य जगतः परं प्रकृष्टं निधानं त्वयि एतत् सर्वं जगत् निविशते | ननु अस्ति जगतो निधानं प्रधानं, यत्र तत् प्रलये निधीयते | सत्यमस्ति तत् प्रधानम् | तदपि परमकारणे भगवति निलीयते, तत एव च प्रभवतीति प्रधानस्य अपि निधानत्वात् त्वं परमं निधानं जगत इति उक्तम् | तथा कालावच्छेदाविषयत्वात् अव्ययः अक्षयः सात्त्वतधर्मगोप्ता त्वम् | सदिति ब्रह्मनाम यद्वक्ष्यति ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः | (१७|२३) इति | तत् विद्यते यस्य स सत्त्वान् परमेश्वरः परमं ब्रह्म, स देवता येषां ते सात्त्वता ब्रह्मविदः, तेषां धर्मो यथाप्रतिपादितज्ञानक्रियासमुच्चयानुष्ठानरूपः सदाचारः, तस्य गोप्ता कालापचयवशात् तिरोभवतः पुनः पुनः प्रणयनात् तद्वाधकविघ्नविघटनात् च त्वमेव रक्षितेति || १८ || अत एव - अनादिमह्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् || १९ || अनन्तत्वादाद्यन्तमध्यरहितम्, अवच्छेद्यस्य हि वस्तुनः आद्यादिविभागवत्त्वम् | इत्थं जगत्प्रपञ्चविरचनसामर्थ्यं वीर्यमनन्तं प्. २४९) न कदाचित् निवृत्तं यस्य, तम् | तथा सर्वक्षेत्रज्ञानां तत्तत्क्रियासाधनभूता येऽनन्ता बहवस्ते परमार्थिकस्यैव कर्तुः परमेश्वरस्य संबन्धिन इति अनन्तबाहुत्वम् | तथा क्षेत्रज्ञशरीरे चक्षुर्भ्या नियतविषयप्रकाशनं क्रियते इति शशिसूर्यनेत्रत्वम् | तथा क्रियाविद्भिर्विविधैर्यज्ञक्रियाविशेषैर्वैश्वानरो विश्वमूर्तिः परमेश्वर एव एकस्तर्प्यते इति तस्यैव दीप्तो हुताशोऽग्निर्वक्त्रमिति उक्तम् | तथा स्वेन तेजसा संविद्रूपेण ज्योतिषा सर्वमिदं तपति द्योतयतीत्येवंविधं विश्वात्मानं त्वां पश्यामीति संबन्ध इति || १९ || अथ सर्वशक्तेः परमेश्वरस्य कुरुसैन्यसंहारप्रसृतकालाख्यशक्तियुक्तत्वात् घोरत्वविशिष्टं रूपं वर्णयितुमाह - द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः | दृष्ट्वाद्भुतं रूपमुग्रं तवेदृग् लोकत्रयं प्रव्यथितं महात्मन् || २० || यस्मात् महता रूपेण गगनभूम्यन्तरालं सर्वाश्च ककुभः त्वयैकेन व्याप्ताः पूरिताः, तदिदमीदृग्विधं तव घोरं रूपं दृष्ट्वा लोकत्रयं त्रैलोक्यनिवासितद्दर्शनायोग्यदेवादिरूपं प्रव्यथितं प्रकर्षेण भीतम् | एवं महात्मन् इति रूपमहत्तापेक्षमामन्त्रणमिति || २० || तेषां देवादीनां तथाविधरूपदर्शनभयोत्पन्नाश्चेष्टाः प्रतिपादयितुमाह - अमी हि त्वा सुरसंघा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति | प्. २५०) स्वस्तीति चोक्त्वैव महर्षिसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः || २१ || अमी यस्मात् त्वां दुष्टक्षयाय आविष्कृतदारुणाकारं शक्रादिदेवसमूहाः विशन्ति त्वयि एव लीयन्ते | केचिच्च भीताः सन्त्रस्ताः सन्तः प्राञ्जलयः विरचितकरपुटाः गृणन्ति स्तुतीः पठन्ति | अतश्च महर्षिसंघाः मुनिप्रवरसार्था जगत्क्षेमाय स्वस्तिशब्दमुच्चार्य पुष्कलाभिः मुख्यार्थत्वात् संबद्धाभिः स्तुतिभिः तत्तच्चरितोदीरणैः त्वां स्तुवन्ति प्रशंसन्तीति || २१ || किंच - रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च | गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || २२ || रुद्रादयो देवविशेषा व्याख्याताः | ऊष्मपाख्याः पितरः | गन्धर्वादयः प्रसिद्धाः | एते सर्वे देवयोनित्वात् ज्ञानविशेषसंभवे सति त्वां वीक्षन्ते पश्यन्ति घोरत्वादपूर्वस्य रूपस्य विस्मयाविष्टाः इति || २२ || यादृशं रूपं दृष्ट्वा ते एवंविधाः संवृत्ताः, तत् वर्णयितुमाह - रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् | बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् || २३ || स्पष्टार्थः श्लोकः || २३ || प्. २५१) तद्रूपदर्शनेन विशेषतः स्वामवस्थां दर्शयितुमाह- नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् | दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो || २४ || अयमपि श्लोकोऽवगतार्थ एव | किन्तु दिव्यचक्षुर्दानलक्षणभगवदनुग्रहक्षणे दृष्ट्वा दिव्येन ज्ञानेन अनुभूय, अधुना मर्त्यधर्मावेशे सति तत् त्वद्रूपं स्मरन् भीतचित्तः सन् धैर्यं निराकुलचित्तत्त्वं न प्राप्नोमि, इत्यतो दर्शनकाले एव न भयादीनां संभवो वेदितव्यः | अन्यत्र अपि वर्तमानाख्यातप्रयोगे पूर्वदृष्टस्मरणं कारणत्वेन बोद्धव्यमिति || २४ || किं च - दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसंनिभानि | दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास || २५ || स्फुटार्थमेतद्वाक्यम् | किन्तु भगवतो दंष्ट्राकरालबहुमुखत्वं संहारप्रवृत्तबहुविकृतकृतान्तपुरुषावेशादिति || २५ || अत एव कृतान्तपुरुषाक्रान्तानां कुर्वादीनां चेष्टितं वर्णयितुमाह - अमी सर्वे धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसंघैः | भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः || २६ || प्. २५२) वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः || २७ || नानारूपैः पुरुषैर्बाध्यमाना विशन्ति ते वक्त्रमचिन्त्यरूपम् | यौधिष्ठिरा धार्तराष्ट्राश्च योधाः शस्त्रैः कृत्ता विविधैः सर्व एव || २८ || त्वत्तेजसा निहता नूनमेते तथाहीमे त्वच्छरीरे प्रविष्टाः | यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति || २९ || तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभितो ज्वलन्ति | यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः || ३० || तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समिद्धवेगाः | एतत् श्लोकपञ्चकं निगदव्याख्यातप्रायम् | किन्तु तव वक्राणि विशन्तीति बहुवचनेन दंष्ट्राकरालानि इत्यादिविशेषणविशिष्टानि वक्त्राणि उपक्रम्य अचिन्त्यरूपं वक्त्रं तव विशन्ति इति यदुक्तं, तत् कालपुरुषसंबन्धिन्यो घोराकृतिविशेषरूपा नानाविधाः शक्तय एकस्यां त्वदीयायां परस्यां सामान्यशक्तौ परिणमन्ति, इति भगवतः सर्वशक्त्याश्रयत्वप्रतिपादनपरं बोद्धव्यम्, यत एकवक्त्रशब्देन प्रतिपादितायाः सामान्यशक्तेरव्यपदेश्यत्वादचिन्त्यरूपत्वेन विशेषणमुक्तम्, तथाहीमे त्वच्छरीरे इति अनेन तदेव स्फुटीकृतम् | अत्र श्लोकपञ्चके सार्धे नानारूपैः इत्यादि त्वत् शरीरे प्रविष्टाः इत्यन्तं श्लोकसार्धकं श्लोकसाम्यार्थं केचित् न पठन्ति | कश्चित् तु त्वत्तेजसा निहताः इत्यादि श्लोकार्धमनेनैव अभिप्रायेण न पठति | इह तु बहुपुस्तकदर्शनात् भारते च तत्र सार्धश्लोकप्रणयनात् व्यासमुनेः श्लोकपञ्चकं सार्धमेव पठितमिति || ३० || अथ तथाविधां घोररूपां भगवतः शक्तिं दृष्ट्वा तत्तत्त्वजिज्ञासार्थमिदमाह - लेलिह्यसे ग्रसमानः समन्ता- ल्लोकान् समग्रान् वदनैर्ज्वलद्भिः || ३१ || तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो | आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद | विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् || ३२ || इमान् समग्रान् समस्तान् लोकान् समन्तात् सर्वतः ज्वलद्भिर्वदनैः सानलैर्मुखैः ग्रसमानः कवलयन् लेलिह्यसे अभीक्ष्णं लेक्षि आस्वादयसि | अत एव तवोग्रा भासः घोरदीप्तयः समस्तं विश्वं तेजोभिः व्याप्य प्रतपन्ति देदीप्यन्ते | प्. २५४) यत एवं परमप्रशान्तचिन्मात्रस्वभावस्य तव घोरं रूपं पश्यामि, ततो देववर सकलसुरोत्तम तुभ्यं नमः प्रसादं च कुरु | को भवानुग्ररूपः संप्रवृत्त इति मह्यमाचक्ष्व | यस्मात् तव एवंविधघोररूपग्रहणे प्रवृत्तिं प्रसरं न जानामि तत्त्वतो न अवगच्छामि, अत आद्यं परमकारणं भवन्तं विज्ञातुं विशेषेण बोद्धुम् इच्छामि इति || ३२ || केन हेतुना कः सन् त्वमेवं घोररूपां शक्तिमाविष्करोषीति विज्ञप्तो भगवानुवाच - कालोऽस्मि लोकक्षयकृत् प्रवृद्धां- ल्लोकान् समाहर्तुमिह प्रवृत्तः | ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः || ३३ || कालोऽस्मि निरुपप्लवस्वरूपाप्रच्युतस्यैव विजृम्भमाणशान्तोग्रघोररूपसमग्रशक्तेः कालाख्या घोरा मम इयं शक्तिरित्यर्थः | शक्तेश्च शक्तिमदभेदादहमेव काल इति उक्तम् | कीदृशः कालः | सकललोकसंहारैकव्यापारः | अधुना तु इह पृथिव्यां प्रवृद्धान् मदोद्रिक्तान् पृथिवीभारभूतान् लोकान् इमान् समाहर्तुं क्षयं नेतुं प्रवृत्तः प्रसृतः | ततः ऋतेऽपि त्वां विनापि परिपूर्णपापात्मकत्वात् सर्व एते न भविष्यन्ति त्वयि अयोत्स्यमानेऽपि विनङ्क्ष्यन्त्येव | के ते | योधाः संप्रहारिणः प्रत्यनीकेषु प्रतिपक्षसैन्येषु येऽवस्थिताः || ३३ || यत एवमेते संप्लवन्त्येव अवश्यंभाविना विनाशेन आघ्राताः तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | प्. २५५) मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् || ३४ || कालात्मिकया मच्छक्त्या प्रागेव प्रस्तनेतान् निघ्नन् त्वं कारणमात्रं संपद्यस्व, इति व्यक्तार्थ एव एष श्लोकः || ३४ || द्रोणादयश्च अप्रतिमपराक्रमत्वात् दुर्जया इति च मा मंस्था इत्याह - द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि लोकवीरान् | मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || ३५ || द्रोणादयोऽपि सकललोकैकवीराः कालस्य दुर्जयत्वात् मया व्यापादिता इति तान् सुजयान् मत्वा मा भैषीरिति तात्पर्यम् || ३५ || एवं भगवदुक्तेरर्जुनावस्थां धृतराष्ट्राय संजय उवाच - एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य || ३६ || स्पष्टार्थः श्लोकः || ३६ || कृष्णं किमर्जुनः प्राहेत्याह - स्थाने हृषिकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः || ३७ || प्. २५६) इत्थं सर्वशक्तेः सर्वेश्वरस्य तव प्रकीर्त्या प्रशंसया सर्वं जगत् प्रहर्षं भजते, अत एव च त्वयि अनुरक्तं भवति | तथा तद्व्यापकानि रक्षांसि यातुधाना भयात् यतस्ततः पलायन्ते सिद्धसंघाः देवविशेषसमूहाः समस्ताः प्रणमन्ति च | तत् सर्वं स्थाने युक्तम् || ३७ || त्वदनुग्रहादेव साक्षात्कृतं परं भगवत्स्वरूपं परामृशन् पुनरपि आह - कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे | अनन्त देवेश जगन्निवास त्वमक्षरं सदसतः परं यत् || ३८ || अथवा कस्मात् कुतश्च हेतोरेते सिद्धादयस्तुभ्यं न नमेयुः महात्मन् परमपुरुष | कीदृशाय ते तुभ्यम् | ब्रह्मणोऽपि प्रजापतेरपि गरीयसे परमगुरवे यत आदिकर्त्रे आद्याय स्रष्ट्रे तस्यापि जन्महेतवे | अनन्त अपरिच्छिन्नमाहात्म्य देवेश सकलसुरनाथ जगन्निवास समस्तभुवनैकनिधान यतस्त्वं सतः इन्द्रियगोचरादिदन्तावधारणीयात् वस्तुनो यत् परं व्यतिरिक्तम्, तथा असतश्च अभावरूपादपि यत् परमक्षरम् अविकारं निरुत्तरं परमार्थसतत्त्वम्, अतो वेदकैकस्वभावमनन्यवेद्यं परमकारणं त्वां कथं ते सिद्धा विदितवेद्याः सन्तो न नमस्येयुरिति तात्पर्यमिति || ३८ || अथ यथानुभूतभगवद्धर्मानुदीरयति - त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् | प्. २५७) वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपम् || ३९ || बहुशोऽपि व्याख्यातार्था एते भगवद्विषयाः शब्दाः || ३९ || किंच - वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | अनादिमानप्रतिमप्रभावः सर्वेश्वरः सर्वमहाविभूतिः || ४० || सर्वेभ्य ऐश्वर्यगुणयुक्तेभ्यो महती प्रकृष्टा विभूतिः शक्तिविजृम्भा यस्य तथाविधो हि एतादृशो भगवान् सर्वेश्वरः अत एव अप्रतिमप्रभावः अनन्यसामान्यमाहात्म्यः, तथा अनादिमान् आदिर्विद्यते यस्य स आदिमान्, न आदिमाननादिमान् सर्वप्रथम इत्यर्थः | एवंविधः त्वम् एव वायवादयो दैवतविशेषाः | यथा च वायवादीनामीश्वरस्वरूपादभिन्नत्वं, तथा सर्वमादौ व्याख्यातमेवेति || ४० || परमेश्वरस्य सर्वाकारत्वं परामृशन्नाह - नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते | नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व || ४१ || सर्वं स्पष्टार्थमेतत् || ४१ || किंच - नहि त्वदन्यः कश्चिदपीह देव लोकत्रये दृश्यतेऽचिन्त्यकर्मा | प्. २५८) अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः || ४२ || अत्र अपि न किंचिदव्याख्यातमस्ति | सर्वं स्वशक्त्या सम्यक् व्याप्नोषि यतः, ततः सर्वात्मकस्त्वमेव | वीर्यम् उत्साहशक्तिः | पराक्रमः क्रियाशक्तिः || ४२ || अथ विज्ञातभगवत्परस्वभावत्वात् पूर्वं पुरुषत्वप्रतिपत्त्या भगवति विहितमतिक्रमं मन्यमानस्तत्क्षान्त्यर्थं श्लोकचतुष्टयमाह - सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखे च | अजानता महिमानं तवेमं मया प्रमादात् प्रणयेन वापि || ४३ || यच्चावहासार्थमसत्कृतोऽसि विहारशययासनभोजनेषु | एकोऽथवाप्यच्युत सत्समक्षं तत् क्षामये त्वामहमप्रमेयम् || ४४ || पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः || ४५ || तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियस्यार्हसि देव सोढुम् || ४६ || प्. २५९) सुबोधमेतत् | किन्तु सखा त्वं मम इति, मत्वा यत् यादवादिशब्देन आमन्त्रितोऽसि, योऽपि अन्यो व्यतिक्रमः कृतः, तत्सर्वमजानतो भगवन्माहात्म्यं तदानीमज्ञातवतो मे क्षन्तव्यमिति संबन्धः | सत्समक्षं इति सभायां वा सतां सन्निधौ | लोकत्रयेऽपि तव समो नास्ति, कुतोऽन्योऽधिको भविष्यतीति || ४६ || अथ विज्ञातमहिमानमावेदयितुं श्लोकत्रयमाह - दिव्यानि कर्माणि तवाद्भुतानि पूर्वाणि पूर्वेऽप्यॄषयः स्मरन्ति | नान्योऽस्ति कर्ता जगतस्त्वमेको धाता विधाता च विभुर्भवश्च || ४७ || तवाद्भुतं किं नु भवेदसह्यं किं वा शक्यं परतः कीर्तयिष्ये | कर्तास्य सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव || ४८ || अत्यद्भुतं कर्म न दुष्करं ते कर्मोपमानं नहि विद्यते ते | न ते गुणानां परिमाणमस्ति न तेजसो नापि बलस्य नर्द्धेः || ४९ || पूर्वे पुरातना अपि सर्वज्ञाः ऋषयस्तव कर्माणि स्मरन्ति अत एव तेषामृषीणामपि तानि पूर्वाणि इति | जगत्सर्गप्रलयादीनां भगवत्कर्मणामनादिप्रबन्धप्रवृत्तत्वप्रतिपादनपरमेतत् पूर्वं व्याख्यातप्रायम् | अन्यत् सुबोधम् | किन्तु धाता धारयिता विधाता स्रष्टा, तव स्रष्टव्यः संसारः | किमद्भुतम् आश्चर्यरूपं प्. २६०) कर्म स्वेच्छामात्रोपकरणस्य एकस्य कर्तुस्तव असह्यं, अत एव सहकार्यादिनिरपेक्षत्वात् परतः स्वात्मव्यतिरिक्तात् कुतश्चित् शक्यं साध्यं किंवा ते कथयिष्यामि | इत्थं च अनन्यापेक्षतया यतस्त्वं सर्वस्य वस्तुजातस्य निर्माता, ततो हेत्वन्तराभावात् त्वमेवेदं सर्वं त्वच्छक्तिरेव इत्थं चकास्तीत्यर्थः | ततश्च प्रत्याश्चर्यरूपमपि कर्म न ते दुष्करं इत्यादि स्पष्टमिति || ४९ || अथ अनुग्रहक्षणानुभूतभगवत्स्वरूपाव्यतिरेकसमाधेर्निष्क्रान्तस्- तथाविधमत्युग्रं भगवत्स्वरूपं मनुष्यधर्मप्रत्यापत्तेश्चिरं द्रष्टुमशक्तः प्राक्तनमेव दिदृक्षमाण इदमाह - अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास || ५० || किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते || ५१ || स्पष्टार्थमेतत् || ५१ || अथ एवंविधमुक्तो भगवानुवाच - मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् || ५२ || सुबोधमेतत् | किं तु आत्मयोगात् दर्शितम् इत्येतदेवं प्. २६१) बोद्धव्यम् यदा अनुग्रहपरेण मया त्वमात्मनि परस्मिन् स्वभावे योगं समाधिं प्रापितः, तदा एतद्रूपं तव प्रत्यक्षीकृतं, व्यतिरिक्तत्वेन अस्य पारमेश्वरस्य स्वरूपस्य द्रष्टुमशक्यत्वात् || ५२ || अत एव आह - न वेदयज्ञाधिगमैर्न दानै- र्नच क्रियाभिर्न तपोभिरुग्रैः | एवंरूपं शक्यमहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर || ५३ || मा ते व्यथा मा च विमूढता भूद्- दृष्ट्वा रूपं घोरमुग्रं ममेदम् | व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य || ५४ || वेदानां यज्ञानां बहुत्वादधिगमबहुत्वम्, अधिगमशब्देन च अध्ययनश्रवणादयो गुणाः प्रतिपादिताः | दानक्रियातपःशब्दैस्तदनुष्ठानं, क्रियाशब्दश्च अनुष्ठीयमानब्रह्मचर्यादिकर्मविशेषवाचकः | यतश्च एवंविधसदाचारव्यवस्थितैरपि परज्ञानशून्यत्वादशक्यदर्शनमेतत् परमं मम रूपं मदनुग्रहादेव उन्मीलितदिव्यचक्षुषा त्वया दृष्टम् | ततो भयमोहादीनां कोऽवसरः, प्रत्युत मत्स्वरूपनित्यानुसन्धानावहितात्मना त्वया तदेव स्मर्तव्यमिति अभिप्रायः | घोरं कालपुरुषाद्याकृतियोगात् | उग्रं संहारादिकर्मणा | शिष्टं स्पष्टम् || ५४ || अथ एतत् धृतराष्ट्राय संजय उवाच - इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | प्. २६२) आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा || ५५ || स्पष्टार्थमेतत् | किन्तु महात्मा विश्वरूपः सन् सौम्यवपुः पुनः प्राक्तनपुरुषविग्रहात् सुदर्शनाकृतिर्भूत्वा भगवान् एनमर्जुनं तथाविधाद्भुतदर्शनसंत्रस्तचित्तं वक्ष्यमाणेन प्रत्याश्वासयदिति तात्पर्यम् || ५५ || एवं प्रत्यागतप्रकृतिरर्जुन उवाच - दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन | इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः || ५६ || स्पष्टमेतत् || ५६ || अर्जुनाश्वासनाय भगवानुवाच - सुदुर्दर्शमिदं रूपं दृष्ट्वानसि यन्मम | देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः || ५७ || नाहं वैदैर्न तपसा न दानेन न चेज्यया | शक्य एवंविधो द्रष्टुं दृष्ट्वानसि मां यथा || ५८ || निगदव्याख्यातप्रायमेतत् | यतः सर्गादितत्तत्स्वाधिकारव्यग्रचित्तत्वादपरामृष्टस्वभावा ब्रह्मादयो देवा अप्यस्य रूपस्य सदा साक्षात्कारमभिकाङ्क्षन्ति, नतु लभन्ते ततः सुतरां सर्वेण केनचित् दुष्करदर्शनमेतत् यत् त्वया मत्प्रसादाविर्भूतपरज्ञानचक्षुषा दृष्टम् | अतो यथा मां त्वं तत्त्वतः साक्षात्कृतवान्, तथा दानादिक्रियासक्तैः द्रष्टुम् अशक्योऽहमिति || ५७-५८ || केन तर्हि उपायेन शक्योऽस्मीत्याह - भक्त्या त्वनन्यया शक्यो ह्यहमेवंविधोऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || ५९ || प्. २६३) भक्त्या मदिच्छयैव परदैवसर्गाभिजातजनसुलभया परिचर्यया, तत्प्रभावादेव आविर्भूतसम्यग्ज्ञानत्वात् अविद्यमानमद्व्यतिरिक्तभजनीयविषयत्वे सति अनन्यया | ज्ञातुं अविसंवादिना अवगमेन बोद्धुं, तथा सम्यग्ज्ञानलक्षणेन उपायेन द्रष्टुं गोचरीकर्तुं, तथा तादृशोपायपरिशीलनाभ्यासातिशयात् प्रवेष्टुं आत्मतया अवगाढुम् एवंविधः यथा त्वया अनुभूतः शक्योऽहम् न अन्यैरुपायैः | त्वं च परस्य अस्य रूपस्य साक्षाद्दर्शनात् प्रवेशपर्यन्तां परां भूमिं समधिरूढस्तेन सुदुस्तरद्वैतमोहसागरादुत्तीर्णः समाश्वसिहि | कुतस्तव इदानीमदृष्टपरमार्थजनोचितैर्भयादिभिर्दोषैः संबन्धः इत्यर्थः || ५९ || एतमेव अर्थं सिधान्तीकुर्वन्नध्यायमुपसंहरति - मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः | निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव || ६० || य एवंगुणविशिष्टोऽन्योऽपि कश्चिदभियुक्तः स मामेति मदभेदलक्षणां सिद्धिमधिगच्छति | कीदृशः | मत्कर्मकृत् शास्त्रचोदितानि तानि तानि वर्णाश्रमक्रमागतानि कर्माणि करोति, किंतु मदर्थं यथोपपत्त्या मत्प्राप्तये, नतु फलान्तरसिद्धये | अत एव मत्परमः अहमेव उपादेयतया प्रकृष्टो यस्य | ततश्च मद्व्यतिरिक्तसमस्तहेयोपादेयवस्तुविरक्तचित्तत्वात् मद्भक्तः ममैव भक्तः, सर्वासु अवस्थासु मयि एव समर्पितान्तः करणः | तथा स हि सर्व भूतेषु चराचरेषु भावेषु सङ्गवर्जितः निःसङ्गः रागरहितो निर्वैरः द्वेषवर्जितः | यो हि अतत्त्वतया रागद्वेषविषयत्वेन सर्वसंसारिभिः परिगृहीतेषु वस्तुषु निरतिशयानन्दनिर्भरं मत्स्वरूपमेव सततमनुभवति, स मामेव एति प्. २६४) ------------------------------- सिद्धो मुक्त इहोच्यते | इति तात्पर्यमित्योम् || ६० || मुञ्चत्येष स्वभावं न वत बहुविधैरेकमेकान्तशुद्धं प्रेङ्कद्भिर्भावभेदैरिति विहितपरामर्शमुक्तभ्रमाणाम् | स्वात्मन्येवैश्वरं वो मणिमुकुर इव व्यज्यतां वैश्वरूप्यं स्वाध्यायस्यास्य नीतं स्फुटमभिमुखतां व्याख्ययैकादशस्य || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे एकादशोऽध्यायः || ११ | अथ द्वादशोऽध्यायः एवं परमाप्तभगवद्वचनलक्षणात् समस्तप्रमाणप्रामाण्यहेतोः प्रमाणोत्तमात् सम्यगवगतेऽध्यायैकादशके, प्रतिपादितप्रत्यध्यायसमुच्चयानुष्ठामपर्यवसिततात्पर्ये ज्ञानविज्ञानादौ प्रकरणाभिधेयवस्तुव्युपपन्नतमत्वेन उत्पन्ननिष्कम्पप्रतिपत्तिः, अत एव तथापात्रीभूतप्रज्ञत्वदर्शनप्रसन्नात् भगवत एव परज्ञानरूपं दिव्यचक्षुरुन्मेषकारणं परममनुग्रहमवाप्तवान्, स्वं यत्नं विनैव पारमेश्वरपरानुग्रहप्रभावमात्रादेव क्षणमात्रं साक्षात्कृतस्य परस्य तत्त्वस्य इदानीं स्वातन्त्र्येण अनुस्मरणे सुगमः कः पन्था मया आस्थेयः, अथवा मद्वचनासादितपरानुग्रहेण अभियोगिना जनेन केन मार्गेण तत् तत्त्वमुपासादितव्यमिति स्वपरार्थघनप्रतरोपायं जिज्ञासुरर्जुन उवाच - एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते | ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः || १ || यथा विश्वातीतस्वरूप एव विश्वात्मकतया साक्षात्कृतोऽसि, एवमनेन प्रकारेण ये सततयुक्ताः सततं सर्वदा जागरादिषु सर्वासु अवस्थासु युक्ताः समाहिताः सन्तो भक्ताः प्रणयिनः त्वां पर्युपासते सेवन्ते, ये च केचन अक्षरं चिन्मात्रैकस्वरूपासंचलनशीलम्, अत एव अव्यक्तं व्यक्तादस्मात् सर्वेन्द्रियगोचरात् नानाभावलक्षणात् वस्तुनोऽन्यं सर्वार्थनिषेधसमाधिनिष्णातधिषणाः त्वां पर्युपासते तेषां उभयेषां योगिनां मध्ये प्. २६६) के योगवित्तमाः अतिशयेन त्वत्स्वरूपोपलब्धिफलसमाधिज्ञा इति || १ || एवं विज्ञप्त एकतरपक्षप्राधान्यप्रतिपादनार्थं भगवानुवाच - मययावेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेतास्ते मे युक्ततमा मताः || २ || ते एवंविधा योगिनो युक्ततमाः निरतिशयसमाधिभाजो मम मताः अभिप्रेताः | तानहं परमयोगिनो मन्ये, न अन्यानित्यर्थः | के ते | ये मयि सकलवस्तुप्रकाशकानन्यप्रकाश्यचित्प्रकाशैकस्वभावे मनः अन्तःकरणं आवेश्य तत्समापन्नं कृत्वा परया समस्तसंशयादिविकल्पविच्छेदादत्युत्कृष्टया श्रद्धया यथोक्तफलसंभावनया उपेताः समन्विताः सन्तो नित्ययुक्ताः नित्यं स्थूलसूक्ष्मसर्वभावानुभवमयीषु तासु तासु अवस्थासु यथोक्तसमाध्यवस्थिताः समुपासते स्वरूपप्रत्यवमर्शलक्षणया निरुत्तरया भक्त्या सेवन्ते || २ || तदेवं कर्मयोगिनामेव योगवित्सु अतिशयोऽनेन प्रतिपादितः | अत एव योग्यन्तरोपायानामायासाभ्युपगमपूर्वं दुष्करत्वादिप्रतिपादनेन अवरत्वमेव प्रतिपादयितुमाह - ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते | सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् || ३ || संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः | ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः || ४ || ये तु ये पुनर्योगिनः इन्द्रियग्रामं बाह्यानामाभ्यन्तराणां च इन्द्रियाणां समूहं संनियम्य सम्यक् अप्रमत्ततया नियम्य, सर्वेभ्यो विषयेभ्यः प्रतिषिध्य, मामुपासते | कीदृशम् | अक्षरमव्यक्तं च प्राग्व्याख्यातस्वरूपम् | अत एव अनिर्देश्यम् इदन्तावसेयसमस्तसंवेद्यभावविलक्षणत्वात् निर्देष्टुमशक्यं वाक्पथातीतम् | प्. २६७) तथा सर्वत्रगं सर्वं व्याप्य अवतिष्ठमानमपि अचिन्त्यं बुद्धिगोचरातीतम् | तथा परमार्थनित्यत्वात् कूटस्थं निरुपप्लवाविनश्वरैकस्वभावनिष्ठम् | अत एव अचलं ध्रुवं नहि अयं पर्वतादिकूटस्थपदार्थवत् चलनलक्षणेन उपप्लवेन, अत्यन्ताभावलक्षणेन वा नाशेन कदाचित् संयुज्यते | कीदृशाः सन्तः एवं विधं मामुपासते | सर्वत्र समबुद्धयः सर्वस्मिन् वस्तुनि मत्स्वरूपैकदर्शित्वात् समा निर्विशेषा बुद्धिर्येषां ते तथोक्ताः | समबुद्धित्वादेव सर्वभूतानामेव हिते रताः सर्वस्य आत्मत्वेन प्रतिपत्तेर्न क्वचित् द्वेषदोषकालुष्यमनुभवन्तः | अनेन विशेषणद्वयेन विना अस्य समाधेरनिष्पत्तिः प्रतिपादिता | नहि सर्वसाम्यदशानधिरूढो योगी निष्पन्न इति उच्यते | एवंविधा योगिनो ये मामुपासते, ते सत्यं मामेव प्राप्नुवन्ति यथोक्तया इतिकर्तव्यतया निष्पन्नसमाधीनां मत्स्वरूपसमापत्तिरेव समाधिफलं तेषां, न अन्यत् || ४ || किन्तु - क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर्दुःखं देहभृद्द्भिरवाप्यते || ५ || तेषां सर्वभावनिषेधसमाधिनिष्ठानां योगिनां सर्वभावनिष्ठत्वेन मदुपासनपरेभ्यो युक्ततमत्वेन प्राक्प्रतिपादितेभ्यो योगिभ्यः अधिकतरः सातिशयः क्लेशः | कीदृशानां सताम् | अव्यक्तासक्तचेतसां अव्यक्ते वाङ्मनसगोचरातिक्रान्तस्वभावे मयि आसक्तमालम्बनीयत्वेन तत्रैव निषण्णं चेतोऽन्तः करणं येषां, तथाविधानाम् | कथमव्यक्तासक्तचित्तत्वमधिकतरक्लेशकारणमिति प्. २६८) उपपादयितुमाह यस्मात् देहभृद्भिः देहं नियतजात्यभिमानावच्छिन्नं शरीरं अहमितिप्रतिपत्त्या धारयद्भिस्तैस्तादृशैर्योगिभिः अव्यक्ता सर्वात्मना निराभासा गतिः समाधिप्राप्तिः दुःखम् अतिक्लेशेन अवाप्यते अधिगम्यते | अयमभिप्रायः शरीरेऽहन्तया प्रतिपाद्यमाने सर्वभावव्यतिरिक्तमत्स्वरूपसमापत्तिरनुपपन्नैव, तदभिनिवेशश्च सुमहान् क्लेश एवेति || ५ || अथ अस्ति काचित् युक्तिर्यया देह एव मद्भावेन प्रतिपत्तुं शक्यः सर्वात्मना सर्वक्रियोपरमस्य असंभावित्वेन प्राक्प्रतिपादितत्वात् | तस्मात् शास्त्रचोदितासु क्रियास्वेव वर्तमानः पारमार्थिकमत्स्वरूपमसौ यथा सुखमवाप्नोति, न तथा दुष्करसकलक्रियानिषेधाभिनिविष्टः | न च तादृसो योगिनः सर्वत्र समबुद्धित्वमुपपद्यते सर्वार्थेषु निषेध्यतया द्वेषादिव्यक्तेः | यस्तु सुप्रबुद्धत्वात् सर्वदा सर्वथा मत्स्वरूपैकविश्रान्तसंवित्, तस्य निवृत्तहेयोपादेयविकल्पस्य सर्वत्र समबुद्धित्वमुपपन्नम् | सैषा मुख्या भगवत्स्वरूपोपासा चतुर्थी भक्त्यवस्था | या तु नित्यक्रियान्तःपातिनी नानादर्शनप्रसिद्धेतिकर्त्तव्यताविशिष्टा, सापि अनयैव दृष्ट्या उपपन्नेति प्रतिपादयितुमाह - ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः | अनन्येनैव योगेन मां ध्यायन्त उपासते || ६ || तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | भवामि नचिरात्पार्थ मययावेशितचेतसाम् || ७ || ये तु ये पुनरव्यक्तोपासकेभ्यो योगिभ्यो व्यतिरिक्ता योगिनः सर्वकर्माणि शारीरीर्मानसीर्वाचिकीः शास्त्रीया लौकिकीश्च सकलाः क्रियाः मयि सकलकर्तृत्वेन प्रतिपादितस्वरूपे प्. २६९) संन्यस्य कार्यतया समर्प्य, देहाद्यहङ्कारात्मकक्षेत्रज्ञकर्तृत्वविनिवृत्ताभिमानाः मत्पराः अहमेव परः कर्तृत्वादिना प्रकृष्टो येषां, ते तथाविधाः अनन्येन अविद्यमानमद्व्यतिरिक्ततत्त्वान्तरेण योगेन विहितकर्मानुष्ठानरूपेण समाधिना मां यथोक्तस्वरूपं ध्यायन्तः अनुस्मरन्तः उपासते मुख्यया गौण्या वा भक्त्या सेवन्ते तेषां तथाविधानां कर्मयोगिनां नचिरात् अव्यक्तोपासकापेक्षया अल्पीयसा कालेन अहं मृत्युसंसारसागरात् पुनः पुनर्नाशोत्पादप्रबन्धपयोधेः समुद्धर्ता सम्यगुत्तारको भवामि | किदृशानाम् | मयि परमकारणे परमेश्वरे आवेशितचेतसां मदभेदभावनया समर्पितान्तःकरणानामिति || ६-७ || अथ कथमिदमत्याश्चर्यमुपपद्यते यत् लोकवत् सर्वासु क्रियासु क्रियमाणासु अपि अद्वैतपरब्रह्मस्वरूपाप्रच्युतिरूपपरमसमाधिनिष्पत्तिरिति | अत्र प्राक्प्रतिपादितामपि भक्तिं सूक्ष्मत्वात् दुर्ग्रहामुपदेश्य प्रतिपत्तिस्थैर्याय पुनराह - मययेव मन आधत्स्व मयि बुद्धिं निवेशय | निवत्स्यसि त्वं मययेव योगमुत्तममास्थितः || ८ || इह सर्वक्षेत्रज्ञानां मनोबुद्धिनिबन्धनाः सर्वार्थसंविदः | तथाहि मनोऽवस्था द्विप्रकारा, स्वतन्त्रविकल्पात्मिका पूर्वानुभूतस्मरणरूपविकल्पात्मिका च | सा च द्विविधा, जागरस्वप्नभेदात् | एवं सर्वत्रैव | बुद्धिवृत्तिस्तु निश्चयात्मकत्वात् निर्विकल्पेत्येवं स्थिते मययेव एकस्मिन् परमार्थसति नित्योदितनिर्मलचित्प्रकाशस्वरूपे परमात्मनि यथोक्तस्वरूपं मन आधत्स्व संनिवेशय | यत् यत् मनसा विकल्पयसि तत् तत् मदात्मकत्वेन जानीहि | तथा बुद्धिं यथोक्तस्वरूपां मयि एव यथोक्तस्वरूपे निवेशय प्. २७०) समर्पय यद्यत् बुद्ध्या निश्चिनुषे, तत् मदात्मकत्वेन जानीहि | अयमत्र तात्पर्यार्थः यो योऽर्थो विकल्प्यमानो निश्चीयमानो वा तेन तेन रूपेण संवेद्यते, स संवेद्यमानत्वादेव संवित्प्रकाशादभिन्नः | संविदात्मकश्च प्रकाशो ममैव पारमार्थिकस्य एकस्य संवेदितुरव्यभिचारी धर्म इति वास्तवेन रूपेण सर्वे भावाः सर्वासु अवस्थासु मदात्मका एव, केवलं मायाव्यामोहितो लोकस्तानिदन्तया व्यवच्छिनत्ति | त्वं तु सम्यग्ज्ञानोपदेशेन प्रथमं प्रसारितबुद्धिस्ततो योग्यतातिशयात् साक्षात् मत्स्वरूपमनुभावितः सन् सर्वासु अवस्थासु सर्वभावान् परमार्थतो मत्प्रकाशकत्वेन एव परिमृशसि, इत्येवंविधमिमम् उत्तमं योगान्तरापेक्षया प्रकृष्टं योगं समाधिम् आस्थितः समाश्रितः सन्, मययेव परमात्मनि निवत्स्यसि स्थितिं लप्स्यसे मदभेदमाप्स्यसीत्यर्थः | अस्य हि कर्मयोगस्य यथोक्तज्ञानसंस्कृतविहितकर्मानुष्ठानमात्रसाधनत्वात् सर्वथा सर्वदा सर्वत्र सुसंपूर्णरूपत्वेन अनुभूयमानत्वात् दीर्घकालनैरन्तर्यादासेव्यमानक्रमसूक्ष्मबहुविधानुष्ठाननिष् णातया अंशांशिकया कदाचित् कथञ्चिदनुभवनीयस्वरूपादभ्यासयोगादुत्तमत्वमिति || ८ || एवं मुख्यं भगवत्स्वरूपोपासाक्रमं प्रतिपाद्य, सर्वस्य कस्यचित् तत्र पात्रतामर्जुनवदसंभावयन्नर्जुनोपदेशेनैव उपायान्तराभ्यनुज्ञामाह - अथावेशयितुं चित्तं न शक्नोषि मयि स्थिरम् | अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय || ९ || अभ्यासेऽप्यसमर्थः सन् मत्कर्मपरमो भव | मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि || १० || प्. २७१) अथैतदप्यशक्तोऽसि कर्तुं मद्योगमास्थितः | सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् || ११ || अथेति प्रकारोपन्यासार्थम् | यदि यथाप्रतिपादितेन प्रकारेण यथोक्तस्वरूपे मयिचित्तं मनोबुद्धिवृत्त्यात्मकमन्तःकरणं स्थिरं सर्वासु अवस्थासु अविचलावधानतया दृढम् आवेशयितुं समर्पयितुं मत्स्वरूपाभेदेन भावयितुं न शक्नोषि न प्रभवसि ततोऽभ्यासयोगेन कर्मयोगांशतया षष्ठाध्यायसंसूचितसंविधाअनेन तत्तद्योगशास्त्रप्रणीतेतिकर्त्तव्यताविशिष्टेन वा चित्तवृत्तिनिरोधप्रयत्नात्मकाभ्यासप्रधानेन समाधिना मां यथोक्तस्वरूपम् आप्तुम् अभेदेन प्रतिपत्तुं इच्छ अभिवाञ्छस्व मत्स्वरूपप्राप्त्यभिसन्ध्यपरित्यागेन अभ्यासयोगमपि कर्मयोगयोग्यताहेतुभूतमनुतिष्ठेत्यर्थः | एवं विधेऽपि अभ्यासे अभ्यासयोगे असमर्थः अशक्तः सन् मत्कर्मपरमः मदर्थं कर्माणि, मत्कर्माणि तान्येव परमाणि अभीष्टसाधनतया प्रकृष्टानि यस्य स तथाविधः भव कर्मयोगाङ्गतया अभ्युपगतस्य ईश्वरप्रणिधानाख्यस्य क्रियायोगस्य अनुष्ठानमाचर इत्यर्थः | ततोऽपि हि मत्स्वरूपावाप्तिलक्षणसमाधिफलसिद्धिर्भवति | अत एव आह मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि इति | अथैतदपि यथोक्तं कर्तुं निष्पादयितुं अशक्तोऽसि असमर्थस्त्वं भवसि, तदा मद्योगं मद्विषयं समाधिम् आस्थितः फलत्वेन समाश्रितः सन् सर्वकर्मफलत्यागं सर्वेषां पूर्वोक्तानां कर्मणामनुष्ठीयमानानां यत् फलं तत्तल्लोकान्तरोपभोग्यनानाभोगात्मकसिद्धिरूपं तस्य त्यागमनभिसन्धिना संन्यासं यतात्मवान् सर्वस्मात् विषयात् निगृहीतान्तःकरणेन युक्तः सन् कुरु निष्पादय मयि मनः समाधाय शास्त्रविहितानि सर्वाणि कर्माणि यथोक्तज्ञानप्रसाधनोपायतया फलान्तराभिसन्धानं विना अनुतिष्ठेत्यर्थः || ९-११ || प्. २७२) एवमुपदिष्टानां भगवदुपासाभेदानां क्रमेण पूर्वस्य पूर्वस्य अनुष्ठानासामर्थ्ये सति उत्तरस्य उत्तरस्य अनुष्ठानं यदुपदिष्टं, तत् न अवरत्वापेक्षया; किन्तु अधिकारिविषयस्य त्यागस्य सुकरतरत्वमेव बोद्धव्यमिति प्रतिपादयितुमाह - श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते | ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरा || १२ || हिशब्दो हेतौ | यस्मादेवं विधो व्याख्यातक्रम इह विवक्षितः, तस्मात् मत्प्राप्तये सर्वकर्मफलत्यागं योग्यतातिशयवशात् सुकरतरं त्वं कुरु, इति पूर्वापरयोर्वाक्ययोः संबन्धः | कीदृशः क्रमः | इह ज्ञानं यथोक्तया उपपत्त्या सर्वभावानां परब्रह्मरूपतावगमः, तत् अभ्यासात् अभ्यासयोगात् पूर्वोक्तात् श्रेयः सुकरत्वात् प्रशस्यतरम् | अभ्यासयोगो हि सर्वविषयप्रतिषेधक्रमेण चित्तवृत्तीनां निरोधे यत्नः | स च यथोक्तज्ञानलब्धप्रतिष्ठबुद्ध्यधिकारिविषयः | ततः प्रतिष्ठितबुद्ध्यधिकारिविषयं ज्ञानं तदपेक्षया सुकरत्वात् श्रेयः उक्तम् | अत एव अभ्यासयोगिनामव्यक्तासक्तचेतसामधिकतरः क्लेश इति प्रागुक्तम् | एवं विधाच्च ज्ञानात् ध्यानं ज्ञाननिश्चितोपेयवस्तुचिन्तनं विशिष्यते सुकरत्वादतिरिच्यते | तस्य हि ज्ञानापेक्षया तत्त्वसाक्षात्कारप्रवृत्तेर्विशिष्टोऽधिकारी, तद्विषयत्वेन एव तस्य सुकरत्वम् | एवंविधाच्च ध्यानात् कर्मफलत्यागः विशिष्यते, यतो घटमानावस्थोऽसौ तादृग्ध्यानलक्षणे हि कर्मणि व्यतिरेकबुद्धिः स्फुरत्येव | तदधिकार्यपेक्षया त्यागः सिद्ध्यवस्थाधिकारिविषयस्तादृशस्य एव सुकर इति ध्यानात् कर्मफलत्यागो विशिष्यते इति उक्तम् | यस्मात् नेह एवं विधस्त्यागो विवक्षितः, यस्य नाहं कर्ता न मे कर्मफलेन संबन्धः प्. २७३) इति प्रलापमात्रेण निष्पत्तिः, किन्तु व्यतिक्रान्ताभ्यासादिपूर्वावस्थासिद्धयोगिविषयं सर्वभावानां परब्रह्मस्वरूपे नित्यमनुभवात् व्यतिरिक्तस्य फलस्य अदर्शनमेव त्याग उच्यते | अत एव आह त्यागाच्छान्तिरनन्तरा इति | शान्तिः संकल्पविकल्पक्षोभप्रक्षयादद्वयचिन्मात्रस्वरूपे परमात्मनि एव भगवति अहमित्यभेदेन निरुपप्लवा संविदो विश्रान्तिः | तस्यास्त्यागस्य च न अस्ति अन्तरं व्यवधानं; य एव त्यागः, सैव शान्तिरीश्वरसमापत्तिलक्षणा सिद्धिरिति त्यागात् शान्तिरनन्तरा, इति उक्तम् | अनन्तरमिति पाठे क्रियाविशेषणत्वेन एष एव अर्थो बोद्धव्य इति || १२ || अथ ईदृशस्य त्यागिनः परसाम्यसमापन्नसंविदात्मभूतस्य भक्तस्य लक्षणमाह - अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च | निर्ममो निरहङ्कारः समदुःखसुखः क्षमी || १३ || सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः | मययर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः || १४ || परब्रह्मात्मकमत्स्वरूपसमापत्तिसूचकैवंविधगुणविशिष्टो यः स मद्भक्तः स एव च मे प्रियः आत्मभूतत्वात् दयितः | कीदृशः | सर्वसाम्यसमापन्नत्वात् चराचरेषु अखिलेषु भूतेषु अद्वेष्टा द्वेषलक्षणदोषरहितः स्वात्मतया सर्वं भावजातं पश्यतस्तस्य हेयाभावात् द्वेषाभाव इत्यर्थः | अनेन भावनिषेधात्मके समाधौ द्वेषदोषानुबन्धच्छेदः प्रागुक्तोऽनूदितः | अत एव मैत्रः सर्वत्र सौहार्दवान् | तथा करुणः दयावान् यतो निर्ममः मम इदमेतदर्थक्रियाकारितया स्वमिति परिग्रहबुद्धेर्निष्क्रान्तः | तथा देहाद्यनित्यवस्तुनिष्ठादहङ्कारप्रत्ययात् निष्क्रान्तः निरहङ्कारः प्. २७४) तथा समे वेद्यत्वमात्रेण प्रतिभासमानत्वादनन्तराविष्कृतद्वेषरागात्मकविकारत्वात् तुल्ये सुखदुःखे यस्य | तथा क्षमी क्रोधादिविकारहेतुषु तितिक्षावान् | तथा स्विकृतज्ञानपरामृतत्वात् नित्यतुष्टः सदातिनिरभिकाङ्क्षः | तथा यतात्मा यतः स्वात्मनि एव अवस्थापित आत्मा येन, स तथा | सर्वे हि अप्रबुद्धा अनात्मनि धनादौ नियमितात्मप्रत्ययाः तथा दृढनिश्चयः केनचित् विकल्पेन प्रकम्पयितुमशक्यत्वात् दृढः सुस्थिरोऽध्यवसायो यस्य, स तादृशः | तथा पूर्वव्याख्यातक्रमेण मययर्पितमनोबुद्धिः मयि परमात्मनि अर्पिते निवेशिते मनोबुद्धी येन सः | एवं विधगुणविशिष्ठो मद्भक्त उच्यते, एवंविधसामग्री मदाराधनोपकरणसंपदिति अत्र तात्पर्यमिति || १४ || इदानीमुत्तरेषु श्लोकेषु प्रकृष्टभक्तविशेषणत्वेन उपात्तानि पदानि बहुशो व्याख्यातप्रायार्थत्वात् पठ्यन्त एव - यस्मान्नोद्विजते लोके लोकान्नोद्विजते च यः | हर्षामर्षभयक्रोधैर्मुक्तो यः स च मे प्रियः || १५ || अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः | सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः || १६ || यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | शुभाशुभफलत्यागी भक्तिमान् यः स मे प्रियः || १७ || समः शत्रौ च मित्रे च तथा मानावमानयोः | शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः || १८ || तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् | अनिकेतः स्थितमतिर्भक्तिमान् मे प्रियो नरः || १९ || गतार्थानि एतानि विशेषणानि | किन्तु कृतकृत्यताव्यक्तिहेतुभिः प्. २७५) परमयोगिसंबद्धैरेवंविधैर्गुणैर्युक्तो यः, स मद्भक्तो भवति, इत्येतावदत्र तात्पर्यं प्रागेव उक्तम् || १५-१९ || अथ अध्यायमुपसंहरन्नाह - ये तु धर्मामृतमिदं यथोक्तं पर्युपासते | श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः || २० || ये भक्ताः मत्सपर्यापरा मत्परायणा इदं यथाप्रतिपादितं धर्मामृतं मत्स्वरूपोपासनात्मकसदाचारमयममृतमविनाशिकत्वकारणं वस्तु उपासते नित्यानुशीलनेन उपसेवन्ते, ते अतीव सुतरां मम प्रियाः वल्लभा न ते मत्तो व्यतिरिक्ता इत्यर्थः | कीदृशाः सन्त उपासते | श्रद्दधानाः समस्तसिद्धिबीजभूतां श्रद्धां भजन्तः, अत एव च मत्परमाः अहमेव यथोक्तस्वरूपः परमेश्वरः परमात्मा सर्वोपायैरुपेयतया परमः प्रकृष्टो येषां ते, तथा श्रद्धामूलमत्समापत्तिफलां परां सिद्धिमुपागता इत्योम् || २० || सर्वार्थप्रार्थनेहारहितमपि सतां मानसं लोभयन्ती लक्ष्म्या यत्र स्वयैषा विकसति भगवद्भक्तिकल्पद्रुमश्रीः | तां नित्यं नन्दनोर्वीविहरणविरसाः कौतुकात् कामपीमा- मेकां विश्रान्तिभूमिं श्रयत कृतधियो द्वादशाध्यायवृत्तिम् || इति श्रीराजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे द्वादशोऽध्यायः || १२ || अथ त्रयोदशोऽध्यायः अध्यायद्वादशकेन प्रक्रान्तप्रयोजनविषयमशेषमभिधेयतत्त्वमभिहितं, प्रायशो न कश्चित् वक्तव्यशेषो विद्यते | केवलमुक्त एव अर्थोऽवशिष्टेन अध्यायपञ्चकेन निर्मलीकरणाय इदानीं प्रपञ्च्यते | तथाच प्रस्तावनाप्रदर्शितक्रियाक्रमेण पारमार्थिकयथोक्तैकस्वरूपव्यवस्थितोऽपि परमेश्वरो निरुपमनिजक्रीडामात्रप्रयोजनतया एकमेव स्वस्वभावं वेद्यवेदकविभागपरिकल्पनया शाखाद्वयेन प्रसृतमवभास्य यामिमां मायामयीं महावागुरामप्रथयत्, सा विषयविषयिविभागेन शरीरशरीरिभावेन च अवभासमाना समस्तं संसारिचक्रं पर्यवरुध्य अवस्थिता | तस्याः स्वेच्छया अनुग्राह्यत्वेन परिगृहीतं जनं प्रति उद्ग्रथनोपायभूते सकले प्रकरणे तत्र तत्र प्रतिपादितस्वरूपं ज्ञानलक्षणमर्थं परमेश्वर एव उपदिष्टवान् | तत्र विषयविषयिविभागेन अवस्थितायास्तस्या उद्वेष्टनाय सप्तमे ज्ञानलक्षणोऽर्थः प्रपञ्चितः | तथा हि तत्र परस्यैव तत्त्वस्य जडचेतनविभागेन स्थूलसूक्ष्मप्रकृतिप्रपञ्चविवेकपुरस्सरतया तस्य अर्थस्य अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा | (७|६) इत्यादिना प्रतिपादितया ब्रह्मतत्त्वलक्षणया परतरया प्रकृत्या परापरयोः प्रकृत्योरभेदपरमार्थताप्रतिपादनेन निर्णयः कृतः | इदानीं शरीरशरीरिभावेन व्यवस्थितायास्तस्या उद्वेष्टनोपायभूतत्वेन ज्ञानस्य निर्णयार्थं समनन्तरमध्यायमारभते | तत्र तावत् तयोः शरीरशरीरिणोर्वितत्य व्याख्यास्यमानप्रतिपादकसंज्ञानिर्देशेन सामान्यलक्षणं प्रतिपादयन् संक्षेपतो विवक्षितस्य ज्ञानस्य स्वरूपमपि प्. २७७) श्रीभगवानुवाच - इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेद तं प्राहुः क्षेत्रज्ञमिति तद्विदः || १ || इदं सर्वप्रमातृप्रसिद्धतया व्यवस्थितं शरीरं देहः क्षेत्रसाधर्म्यात् क्षेत्रमिति उच्यते क्षेत्रसंज्ञया कथ्यते | यथा कुसूलादिगतानां धान्यादिबीजानां मूलस्तम्बशाखाशिलादिविशेषप्रसवाभिव्यक्त्यधिकरणः पृथिव्युद्देशः क्षेत्रमित्युच्यते, तथा कर्माशयसंभृतानां कर्मणां जात्यायुर्भोगलक्षणविपाकविशेषाभिव्यक्त्यधिकरणभूतं शरीरमपि इदं क्षेत्रमिति उच्यते | तेन तत्कर्मविपाकास्पदत्वेन यदनुभूयते, तत् शरीरमिति वेदितव्यम् | एतत् च एवं विधं क्षेत्रं यो वेद जानाति, तं तद्विदः क्षेत्रज्ञस्वरूपज्ञाः क्षेत्रज्ञमिति विदुर्जानते | किमनेन उक्तं भवति | अस्मिन् शरीरे द्विप्रकारा प्रतिपत्तिरेव स्थिता सर्वदेहिनामहन्तया इदन्तया च | तथाच अहं ब्राह्मणो यज्ञदत्तः इत्यादिना देहमहन्तया व्यवस्यन्ति, कदाचित् ममेदं शरीरं इतीदन्तया व्यवस्यन्ति; अतो व्यवसायिता प्रमाता तावत् कश्चिदत्र विद्यत एव | यश्च अंशः प्रमातृतया प्रतीयते, स क्षेत्रज्ञो जीवश्चेतनः इति प्रतिपत्तव्यः | एवमस्मिन् शरीरे यद्यत् वेद्यतया वेदकसंबन्धमात्रात् प्रतीयते, तत् क्षेत्रांशतया वेदितव्यम् | योऽसौ वेदकतया प्रतीयते, स क्षेत्रज्ञ आत्मा इति वेदितव्यः | एतावत्येव नित्यावहितत्वं शरीरशरीरिणोर्विवेकज्ञानकारणम् | तच्च वेद्यवेदकसंबन्धमात्रनिबन्धनसकलपरापरव्यवहाराणामपि सर्वदेहिनां मायानिमीलिततत्त्वदृशां स्वप्नेऽपि न उन्मिषति, यावदीश्वरानुग्रहशक्त्यैव सा तत्त्वदृक् प्. २७८) तेषां न उन्मीलिता | तेन अनुगृहीत एव विषयोऽस्य ज्ञानस्य, इति तात्पर्यम् | यत उक्तम् तद्विदः केचनैव योगिनस्तं विदुरिति || १ || ननु परमार्थत एक एव प्रमाता प्रतिपादितः | प्रतिक्षेत्रं च पृथक्पृथक् वेदकप्रतीतिरबाधिता व्यवस्थिता, इति स्वसिद्धान्तविरोधभ्रान्तिं परिहर्तुमाह - क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम || २ || इह वेदकत्वमात्रमेकमव्यभिचारि असाधारणमात्मनो लक्षणमुक्तम् | अतः परस्परभिन्नानां क्षणिकनानावस्थाजुषां वेद्यानां शरीराणामेव भिन्नरूपत्वं व्यवस्थितम् | न तु वेदकत्वमात्रतयैव तदधिष्ठायकत्वेन व्यवस्थितस्य पारमार्थिकस्य एकस्य वेदकस्य आत्मनो नानात्वमस्ति सर्वदेहगतत्वेऽपि वेदकैकलक्षणाव्यभिचारात् | या तु प्रतिशरीरं जात्यवच्छेदेन पृथक्प्रतिपत्तिः, तदचिन्त्येश्वरमायाशक्तिविलसितमेव | अतस्तद्व्युदासार्थमेव च अयमुपदेशः प्रबुद्धान्प्रति अर्जुनमुखेन उच्यते | सर्वक्षेत्रेषु चतुर्दशविधभूतसर्गभेदेन अवस्थितेषु अपरिसंख्येयेषु शरीरेषु एकमेव मां क्षेत्रज्ञं परमात्मानं विद्धि जानीहि | यथा एकक्षेत्रगतनानावयववेदकत्वेनैव क्षेत्रज्ञप्रतीतिर्मायादशायामवस्थिता, तथा समस्तशरीरवेदकत्वेन एकः पारमार्थिकोऽहमेव क्षेत्रज्ञः | ततश्च एवंविधयोः क्षेत्रक्षेत्रज्ञयोर्यज्ज्ञानं सम्यक्प्रतिपत्तिस्तदेव मम मतं ज्ञानत्वेन अभिप्रेतम् | नतु सांख्यादिप्रतिपादितयोः शरीरशरीरिणोर्विवेकज्ञानमात्रं तात्त्विकं ज्ञानमिति तात्पर्यम् || २ || इदानीं नानादर्शनभेदेन व्यवस्थापितनानारूपस्य अपि क्षेत्रस्य प्. २७९) वेद्यत्वमात्रसामान्यलक्षणाभेदात् कांचिदेव दर्शनप्रक्रियामाश्रित्य तत्स्वरूपे प्रतिपादयितव्ये वेदाद्यागमप्रसिद्धसांख्यप्रक्रियासमाश्रयणेन प्रतिपादयिष्यमाणक्षेत्रस्य स्वरूपमुपक्षेप्तुमाह - तत् क्षेत्रं यच्च यादृक्क यद्विकारि यतश्च यत् | स च यो यत्स्वभावश्च तत्समासेन मे शृणु || ३ || ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम् || ४ || तत् क्षेत्रज्ञज्ञेयतया उपक्रान्तं क्षेत्रं यत् यदभिधानमित्यर्थः, तथा यादृक् यादृशेन प्रकारभेदेन स्थितं तत् संक्षेपेण अवधारय | तस्मिंश्च क्षेत्रे यत् वस्तु विकारि विशिष्टकार्यकारणत्वात् विकारवत् विकारसंयुक्तं, तदपि शृणु | तथा यतश्च विकारिणो यत् विकारभूतं वस्तु उपपद्यते, तदपि शृणु | तथा स च क्षेत्रज्ञ एवमेव यो यत्पर्यायो यत्स्वभावः यादृशश्च, तत्सर्वं संग्रहेण उच्यमानमवधारय | अस्य वस्तुनः स्मृतिश्रुतिप्रसिद्धत्वप्रतिपादनार्थमाह ऋषिभिः स्मृतिकर्तृभिः बहुधा बहुप्रकारं तत्र तत्र स्मृतिशास्त्रेषु गीतम् | तथा छन्दोभिर्विविधैः वेदशाखाभेदेन नानारूपैरत एव पृथक् पृथक्प्रकरणभेदेन गीतम् | ब्रह्मसूत्रपदैः ब्रह्मसूत्रशब्देन रहस्यभागो वेदस्य वेदान्तसंज्ञ उच्यते, तस्य यानि पदानि अवान्तरवाक्यानि; तैः हेतुमद्भिः उपपत्तिसंयुक्तैः विनिश्चितं विशेषेण कृतनिश्चयमिति || ३-४ || एवं वेदवेदान्तस्मृतिप्रसिद्धत्वमनेन वक्ष्यमाणस्य क्षेत्रादिप्रतिपादकस्य अर्थस्य प्रोक्तम् | तत्र यत् क्षेत्रं यश्च क्षेत्रज्ञ इति यदुक्तं, तत्र क्षेत्रं शरीरं; यश्च तद्वेदकः, स क्षेत्रज्ञ इति प्रागेव उक्तं स्वरूपमनयोर्मन्यमानो यादृगित्यादिना शिष्टं वक्तुमाह - प्. २८०) महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः || ५ || इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः | एतत् क्षेत्रं समासेन सविकारमुदाहृतम् || ६ || एतत् महाभूतादिवस्तुसमुदायात्मकं क्षेत्रं विकारसंयुक्तं विकारग्रहणात् प्रकृतिभूतसंयुक्तमपि संक्षेपेण कथितम् | तत्र महाभूतशब्देन व्यापकत्वादिमहत्त्वे सति तन्मात्राण्येव उक्तानि वेदितव्यानि | यतः श्लोकार्धेन कारणभूतं पदार्थचतुष्टयं सङ्गृहीतम् | तत्र अहङ्कारः अस्मीतिप्रत्ययोऽस्मिताशब्देन क्वचिदुक्तः | बुद्धिः निश्चयात्मकं ज्ञानं महत्तत्त्वमिति प्रसिद्धम् | तथा अव्यक्तं गुणत्रयात्मिका प्रकृतिः | एतानि चत्वारि कारणभूतानि स्थुलादिक्रमेण निर्दिष्टानि | तानि च पृथिव्यादीनां भूतानां तन्मात्राणि कारणम् | अहङ्कारस्तैजसवैकारिकभूतादिभेदेन त्रिविधः | तत्र तैजसत्वेन मनसः कारणम्, वैकारिकत्वेन इन्द्रियाणाम्, भूतात्मत्वेन तन्मात्राणाम्, इति अहङ्कारस्य त्रिविधगुणात्मकस्य कारणत्वम् | केचित्तु अहङ्कारतन्मात्रलक्षणस्य षट्कस्य मत्तत्त्वं कारणमाहुः, केचिदहङ्कारस्यैवेति बुद्धेः कारणत्वम् | बुद्धेश्च गुणत्रयरूपा प्रकृतिरव्यक्तशब्देन उक्ता कारणमिति कारणभूतवस्तुचतुष्टयप्रतिपादनेन यद्विकारि इति प्रक्रान्तोऽर्थो निर्णीतः | अत्र हि अव्यक्तं स्वाधिकारापेक्षया मूलकारणम् | अहङ्कारश्च बुद्धिकार्यः सन् इन्द्रियादिकारणम् | तन्मात्राणि अहङ्कारकार्याणि बुद्धिकार्याणि वा पृथिव्यादिकारणमिति चतुर्णामपि कारणत्वात् विकारित्वम् | अथ कार्यवर्गं प्रतिपादयितुमाह इन्द्रियाणि पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि प्रसिद्धानि, पञ्च वागादीनि प्. २८१) कर्मेन्द्रियाण्यपि तत्त्वम्, मनश्च एकादशं संकल्पविकल्पात्मकम् | पञ्च इन्द्रियगोचराः इति इन्द्रियगोचरशब्देन यद्यपि शब्दादयो भूतगुणा उच्यन्ते, तथापि महाभूतानां स्वगुणोपलब्धिद्वारेण स्वरूपोपलब्धेरिन्द्रियगोचरशब्देन स्थूलान्येव भूतानि उक्तानि यतः षोडशकोऽसौ विकारवर्गः, एष च कार्य एव, न कारणमिति | एवं सांख्यदर्शनप्रसिद्धा तत्त्वचतुर्विंशतिरेषा शरीरभावेन व्यवस्थिता क्षेत्रज्ञज्ञेयत्वात् क्षेत्रमिति उक्ता | इदानीं तु दर्शनान्तरेषु तत्तत्प्रक्रियाविशेषसमाश्रयणेन यो यः पदार्थसंग्रहः कृतो भवति, तस्य सर्वस्य प्रमेयत्वानतिक्रमादस्मत्पक्षे क्षेत्रत्वमेवेति प्रतिपादयितुमाह इच्छेत्यादि | कैश्चिदिच्छाद्वेषसुखदुःखादय आत्मधर्मत्वेन अभ्युपगतास्ते वेद्यत्वात्क्षेत्रमेव | तथा शरीरेन्द्रियादिसमुदायः संघातः | चेतना चेत्यतेऽनयेति कृत्वा ज्ञानं बुद्धिवृत्तिः | धृतिः प्राणादिधारणानिबन्धनमहंप्रत्ययः | एतत्सर्वं वेद्यत्वानतिक्रमात् क्षेत्रमेवेत्यस्य श्लोकार्धस्य तात्पर्यम् | अत्र तु प्रमात्रेकस्वभावस्य आत्मनः कथं प्रमेयत्वं, कथं वा सर्वव्यवहारानुपपत्तिसिद्धानुसंधातृलक्षणस्वरूपस्य तस्य असम्भवः, कथं वा देशकालाद्यनवच्छिन्नमहिम्नो यावज्जीवभावित्वं, इत्यादिनानाप्रवादप्रतिक्षेपाय बहवो विपश्चितः कृतपरिश्रमाः | सा च तत्त्वस्य साध्यमानावस्था सन्दिग्धबुद्धित्वदशानुत्तीइर्णपुरुषविषयतया | अस्यां सिद्धान्तकथायामीश्वरानुग्रहाविर्भूतविशुद्धश्रद्धादिगुणापिऽऽ सुनितसंशयादिदोषाभावनिर्मलप्रज्ञोपदेश्यपुरुषविशेषविषया- यामुपन्यस्तायां मतिकालुष्यादृते न किञ्चित् प्रयोजनम् | नहि सुसिद्धं सुरसमाहारविशेषमास्वादयन्तं पुरुषं प्रति तत्साधनावस्थाप्रतिपादनेन प्रस्तुताहारवैरस्यजननमात्रातिरिक्तः कश्चिदुपकारः संभवतीति अकाण्डपाण्डित्यप्रकटनताण्डवाडम्बरविडम्बितात्मनां प्. २८२) मार्गो न मन्तव्यः | तदेवं यथोपक्रान्तं क्षेत्रलक्षणं तावत् निर्णीतम् || ५-६ || इदानीं स च यो यत्स्वभावश्च इति उपक्रान्तक्षेत्रज्ञलक्षणं निर्णेतव्यतया अवशिष्यते | स च क्षेत्रज्ञं चापि मां विद्धि ------------------ | (१३|२) इति मुख्य एव एकः क्षेत्रज्ञो विवक्षितः, तस्य ज्ञेयं यत्तत्प्रवक्ष्यामि ---------------------- | (१३|१२) इत्यादिना वितत्य लक्षणं वक्ष्यति | संप्रति तु तादृशस्य क्षेत्रज्ञस्य उक्तस्य च क्षेत्रस्य यत् ज्ञानं सम्यक् संवेदनं मुख्यज्ञानतया प्राक् प्रतिपादितं यादृग्गुणद्वारेण अभिव्यज्यते, सोऽभिव्यक्तिहेतुर्गुणगण एव ज्ञानमिति प्रतिपादयितुमाह - अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः || ७ || इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च | जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् || ८ || असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु | नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु || ९ || मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | विवक्तदेशसेवित्वमरतिर्जनसंसदि || १० || अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा || ११ || संघर्षादिदोषप्रसक्तस्य प्रसिद्धपुरुषान्तरानुष्ठीयमानसदाचारानुकरणे संकल्पो मान इति उच्यते | स च अनुष्ठितस्य अपि प्. २८३) सदाचारमात्रस्य संसारश्वभ्रपातफलतामावहन्नासुरसर्गभाग्जनविषयो महान् दोषः | तथाच उक्तं मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः | चत्वार्येतान्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि || (महाभा०) इति | चत्वारि अग्निहोत्रादीनि वस्तूनि आश्रमधर्मरूपाणि शास्त्रचोदितत्वादनुष्ठीयमानानि अभयं तावत् कुर्वन्ति, मानादिदोषदूषितचित्तत्वेन कृतानि प्रत्युत महद्भयमनुष्ठातुः फलन्तीत्यपि हि अस्य श्लोकस्य अर्थः | एवंविधो मानो विद्यते यस्य, स मानी; तस्य भावो मानित्वं, तदभावः अमानित्वं शुद्धसंकल्पत्वं नाम गुणो ज्ञानाभिव्यक्तिहेतुत्वात् ज्ञानमित्युक्तम् | एवमेव अदम्भित्वम् | दम्भो हि मानादिदोषदूषितसंकल्पत्वे सति दृष्टमात्रफलतया सदाचारानुष्ठानं, व्याजेन धर्माचरणमित्यर्थः | स विद्यते यस्य असौ दम्भी मिथ्याचारः, तस्य भावो दम्भित्वं; तदभावः अदम्भित्वं सम्यक् क्रियानुष्ठानमित्यर्थः, तदपि पूर्ववत् ज्ञानमेव | तथा अहिंसा | हिंसा नाम शास्त्रीयनियमनैरपेक्ष्येण द्वेषलौल्यादिप्रसक्तस्य प्राणिनां जिघांसा, तदभावोऽहिंसा निसर्गतः सर्वभूतेषु करुणार्द्रचित्तत्वादनभिद्रोहः, तदपि ज्ञानम् | तथा क्षान्तिः परैरभिद्रुह्यमाणस्य सत्यपि प्रतीकारसामर्थ्ये स्वभावतः प्रशान्तचित्तत्वात् वाङ्मनः कर्मभिरविकारित्वं, सापि हि ज्ञानम् | ननु अहिंसाक्षान्त्योर्यदि ज्ञानत्वं, तत् कथं तत्त्वज्ञानोपदेशविषयत्वेन परिगृहीतस्य अर्जुनस्य यज्ञसंग्रामादिक्र्यानुष्ठाने नियुज्यमानस्य तद्गता हिंसा अक्षान्तिश्च अनुष्ठेयत्वेन उपदिष्टा | उच्यते प्. २८४) यथोक्तज्ञाननिष्ठस्य अवश्यानुष्ठेयस्वकर्मभावेन अवस्थिता हिंसा अक्षान्तिश्च हिंसैव न भवति, नच अक्षान्तिरित्युक्तमेव प्राक् | आर्जवम् ऋजुत्वं यथाहृदयं वाङ्मनःप्रवृत्तिहेतुरकुटिलता | यदेव प्रसंसन्ति - सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम् | इति | तदपि ज्ञानम् | एवं पञ्चैते धर्माः परमेश्वरानुग्रहसूचकदैवसर्गभाजो, न अन्यस्य प्रक्षीयमाणसदसत्कर्मसन्तानस्य संसारस्वरूपप्रत्यवेक्षायोग्यप्रज्ञस्य सहसैव जायन्ते | ते च तद्धृदयकृतप्रतिष्ठस्य ज्ञानतरोर्मूलसन्ततिस्थानीयाः | तद्युक्तस्य पुरुषस्य अनुग्रहशक्त्या कल्याणमित्रसंस्तवादिना प्रेर्यमाणस्य आचार्योपासनं सद्गुर्वाराधनं नाम धर्मो य उत्पद्यते, स ज्ञानम् | ज्ञातरोः किल असौ स्कन्धस्थानीयो धर्मः, षडान्तरीयकाः शाखाप्रतानकल्पा अमी धर्माः प्रादुर्भवन्ति | तद्यथा सास्त्राधिगमपुरस्सरः संस्कारविशेषः, तथा हेयोपादेयवस्तुविषयो विवेकः, विज्ञाततत्स्वरूपस्य हेयापवर्जनपूर्वमुपादेयानुष्ठानौन्मुख्यम् | आचार्योपासनादेवंविधधर्मोदये सति पल्लवपुष्पस्थानीयाः शौचादयो जन्मादिदोषदर्शनपर्यन्ता धर्मविशेषाः समुन्मिषन्ति | तत्र विशिष्टक्रियानुष्ठाने प्राप्ताधिकारस्य कल्याणहेतुषु तासु तासु क्रियासु आसक्तचित्तस्य तद्गुणैः सम्बध्यमानस्य प्रथमः शौचो नाम गुणः सर्वक्रियाणां तत्पूर्वकत्वात् | तच्च द्विप्रकारं बाह्यमाभ्यन्तरं च | तत्र बाह्यम् अधिकारिदेशकालाद्यवस्थापेक्षया नियतेतिकर्तव्यतया मृज्जलादिना दुष्टद्रव्यगन्धलेपाद्यपासनपर्यन्ता मृजा | आभ्यन्तरं बाह्यनिवृत्तौ सत्यां शुद्धोऽस्मीति निर्विप्लवा प्रतिपत्तिः, यां भावशुद्धिमित्याहुः | एतच्च शौचं कायवाङ्मनोनिर्वर्त्यानां तपः प्. २८५) स्वाध्यायध्यानादीनां गुणान्तराणामुपलक्षणं वेदितव्यम् | अथ स्थिर्यं संशयादिदोषनिवृत्त्या अनुष्ठेयेषु अर्थेषु अचञ्चलता | तस्मिंश्च सति आत्मविनिग्रहः आत्मनोऽन्तःकरणस्य निषिद्धात् विषयात् विनिग्रहो नियमनम् | ततश्च इन्द्रियार्थेषु विषयेषु दृष्टानुश्रविकेषु क्षयातिशयादिदोषदर्शनात् वैराग्यं रागद्वेषरहितत्वं, तत् प्रकर्षमासादयत् सत्त्वान्तरेषु गुणेष्वपि पर्यवस्यति | तस्मिंश्च तादृशे गुणे सति अनहङ्कारः ईदृशोऽस्मीतिदुरभिमानाभावः, यदिवा शरीरादावहमस्मीतिप्रत्ययनिवृत्तिः | ततश्च जन्मादिदोषप्रभवस्य दुःखस्यैव महादोषस्य अनुदर्शनं पृष्ठतो निरूपणम् | तद्यथा गर्भवासादिनिरतिशयक्लेशानुभवादिकं जन्मनो दुःखं, प्राप्तशरीरग्रहस्य अवश्यंभावि मरणदुःखम् | तथा सति शरीरे वार्धक्यरोगादिदुःखमिति शरीरित्वं नाम आदिमध्यान्तावस्थासु दुःखमयमेव, इति विवेकहर्म्याधिरूढः स्वपरविषयत्वेन विवेक्तुं क्षमः | यथोक्तं प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान् | भूमिष्ठानिव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति || इति | तथाविधस्य च स्वर्गादिफलेषु क्रियाविशेषेषु असक्तिः असङ्ग औदासीन्यम् | तथा दृष्टसुखहेतुषु सुतकलत्रभवनादिषु अनभिष्वङ्गः सर्वस्वग्रहपरित्यागः | एतां च दशां प्राप्तस्य इष्टानिष्टोपपत्तिषु प्रियाप्रियपदार्थप्राप्तिषु सतीषु समचित्तत्वं हर्षशोकादिविकाररहितान्तःकरणत्वम् | एवमेव तस्यां ज्ञानतरोर्नानाविधपल्लवपुष्पस्थानीयायां गुणसामग्र्यां निर्वृत्तायां फलस्थानीया मयि भक्तिः उपासा | कीदृशी | अव्यभिचारिणी निरपाया | केन हेतुना | अनन्ययोगेन अन्येन यथाप्रतिपादितमत्स्वरूपव्यतिरिक्तेन प्. २८६) वस्तुना योगः संबन्धोऽन्ययोगः, तदभावोऽनन्ययोगस्तेन | किमुक्तं भवति | सर्वभावानां मत्स्वरूपाव्यतिरिक्तत्वदर्शनं ज्ञानतरो फलभूता मुख्या मद्भक्तिः | सा हि चतुर्थी ज्ञानित्वरूपा भक्त्यवस्था | यथोक्तं प्राक् ------------ ज्ञानी त्वात्मैव मे मतः | (७|१८) इति | तस्यां च सत्यां विविक्तदेशसेवित्वं विविक्तदेशस्य तादृशनिरुत्तरभक्तिरसामृतास्वादविघ्नकारिचेतनाचेतनवस्तुरहितस्य गिरिगुहापुण्यसरित्पुलिनगुप्तगृहदेशस्य सेवित्वं भजनशीलता | तद्विपरीतायां जनसंसदि चित्तव्युत्थानहुतुलोकसभायां अरतिः उद्वेगस्तत्परिहरणमित्यर्थः | तथा अध्यात्मज्ञाननित्यत्वम् अध्यात्ममात्मनि यत् ज्ञानं परमात्मस्वभावसंवेदनं, तत् नित्यमव्यभिचारि यस्य, स तथा तस्य भावस्तत्त्वम् | तस्मिंश्च सति तत्त्वज्ञानार्थदर्शनं तत्त्वस्य परमात्मस्वरूपलक्षणस्य परस्य भावस्य ज्ञानं बोधः स्वसंवेदनानुभवः | पूर्वेण पदेन ज्ञानस्य सिद्धिं कल्पयता उत्तरेण सिद्धत्वमेव प्रतिपादितं, स एव अर्थः प्रयोजनं फलं यस्येति तस्य दर्शनं साक्षात्कारो निरुत्तरा सिद्धिरित्यर्थः | एते विविक्तदेशसेवित्वादयस्तत्त्वज्ञानार्थदर्शनान्ता धर्माः फलभूताया भक्ते रसस्थानीयाः, इत्येतावती गुणसामग्री ज्ञानमिति प्रोक्तं स्पष्टोऽर्थः | अत उक्तात् गुणसमूहात् अन्यथा अन्येन विपरीतेन प्रकारेण मानित्वदम्भित्वादिना यत्स्थितं, तत्सर्वं अज्ञानं ज्ञानविपरीतं वेदितव्यम् | एतच्च पुरस्तात् देवासुरसर्गकथनप्रसङ्गेन पुनरपि ज्ञानाज्ञानलक्षणं वक्ष्यति || ७-११ || एवंविधेन च ज्ञानेन - ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते | प्. २८७) ज्ञेयं ज्ञातव्यं यत् यथोक्तेन ज्ञानेन फलतया अवस्थितं परमात्मलक्षणं वस्तु तत् इदानीं प्रवक्ष्यामि तत्स्वरूपं प्रकर्षेण कथयिष्यामि | यज्ज्ञात्वा यद्बुद्ध्वा अमृतम् अविनाशिस्वरूपं अश्नुते व्याप्नोति | ननु अनन्यसंवेद्यस्य सर्वसंवेदकस्वभावस्य कथमिदन्तावसेयवस्त्वन्तरवत् ज्ञेयत्वेन व्यपदेशः कृतः | सत्यं, न तस्य वस्तुनः परमार्थतो ज्ञेयता संभवति | किन्तु आरुरुक्षावस्थायां ज्ञातृज्ञानज्ञेयविभागात्मकत्वादुपचारेण ज्ञेयशब्दस्तत्र प्रवर्तते, नतु वास्तवेन रूपेण तस्य ज्ञेयता विवक्षिता | यतः सोऽयमहमिति स्वात्मत्वेन प्रत्यवमर्श एव तस्य ज्ञानं, तद्वदहमिदं वेद्मि इति, व्यतिरेकेण तस्य एकस्य अनुभवितृत्वमात्रलक्षणस्य तत्त्वस्य अवगमः संभवति || तथाविधान्येव तद्विशेषणान्याह - अनादिमत् परं ब्रह्म न सन्नासत् तदुच्यते || १२ || सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति || १३ || सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च || १४ || बहिरन्तश्च भूतानामचरं चरमेव च | सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च यत् || १५ || अविभक्तं विभक्तेषु विभक्तमिव संस्थितम् | भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च || १६ || ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते | ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् || १७ || किं तज्ज्ञेयमिति ससंज्ञं निर्दिशति परं ब्रह्मेति | परमार्थतः प्. २८८) सर्वस्य वस्तुनो ब्रह्मरूपत्वे स्थिते यत् ज्ञेयतया संप्रति आभासते, तदपरं; यत्तु ज्ञातृमात्रस्वरूपं तत्परं ब्रह्म इत्युक्तम् | कीदृशं तत् | अनादिमत् | इदं वेद्यं वस्तु सर्वक्षेत्रज्ञसाधारणं पृथिव्यादिरूपं विषयतया व्यवस्थितं, तथा प्रतिक्षेत्रज्ञं शरीरतया व्यवस्थितम्, उभयरूपतया प्राक्प्रतिपादितं, कारणापेक्षतया सर्वमादिमत्, आगमापायधर्मकत्वादादिकोट्यवच्छिन्नं, ततश्च अन्तकोट्यवच्छिन्नमपि | तद्विपरीतं तु कारणान्तरनिरपेक्षसद्भावं अनादिमत् परं ब्रह्म इत्युक्तम् | अन्यच्च कीदृशम् | न सत् | इह हि यदिन्द्रियैर्बाह्याभ्यन्तरैरिदमिति गृह्यते, तत् मायीयैः प्रमातृभिः सदिति प्रतिपद्यते | ब्रह्म तु प्रमात्रेकस्वभावत्वात् सर्वेन्द्रियगोचरभूतं तथा सत् न भवति | नच एवम् असत् तदुच्यते | यत एवमपि सत्त्वेन प्रतिपन्नस्य सर्वस्य वस्तुमस्तथावभासकत्वात् तदेव सद्भावकारणं कथमसदिति वक्तुं शक्यम् | अत एव तस्य परमार्थसदेकप्रमातृरूपस्य विश्वरूपत्वं प्रतिपादयितुमाह सर्वतः पाणिपादं तत् इत्यादिना | सर्वेषां क्षेत्रज्ञानां यानि पादादीनि कर्मेन्द्रियाणि, यानि च चक्षुःश्रोत्रादीनि बुद्धीन्द्रियाणि तत्तत्क्रियाज्ञानसाधनत्वेन व्यवस्थितानि; तानि असाधारणकर्तृज्ञातृशक्तेरेकस्यैव तस्य विश्वात्मनः शक्तिभेद इति तात्पर्यम् | यत आह सर्वमावृत्य तिष्ठति इति | एकमेव तत्त्वं सर्वमिदं जगत् कर्तृतया ज्ञातृतया च व्याप्य वर्तत इति | अत एव आह सर्वेन्द्रियगुणाभासं इति | यानि नानाक्षेत्रज्ञसंबद्धत्वेन अवभासमानानि सर्वाणि बाह्याभ्यन्तराणि इन्द्रियाणि तेषां शब्दादिविषयावभासकत्वादयो ये गुणा धर्माः, तानवभासयति प्रकाशयति यत्; तत् तथोक्तम्, स्वयं तु सर्वेन्द्रियविवर्जितम् नहि तस्य प्. २८९) मायावभासितावच्छिन्नस्वरूपक्षेत्रज्ञवत् नियतेन्द्रियाधीनं ज्ञानमित्यर्थः | तथा असक्तं विशुद्धचिन्मात्रैकस्वभावव्यवस्थितत्वात् वेद्यरूपेण प्राकृतेन प्रपञ्चेन अमिश्रीभूतम् | अथ च सर्वभृत् सर्वं बिभर्ति धारयति यत् | तत्र हि तत्त्वे वेद्यव्यतिरिक्तस्वभावेऽपि सर्वमिदमवस्थितं तद्विना कस्यचिदपि स्वरूपलाभाभावात् | अत एव निर्गुण्ं गुणेभ्यः सत्त्वादिभ्यः प्रकाशप्रवृत्तिनियमात्मकेभ्यः सुखदुःखमोहवृत्तिभ्यो निष्क्रान्तं तेभ्योऽत्यन्तव्यतिरिक्तस्वरूपम् | नहि ब्रह्म अनित्यसुखाद्यात्मकं भवति, केवलमाकाशमिव सूर्यातपरजस्तिमिरादिभिस्तैस्तैर्गुणैरत्यन्तासंस्पृष्टस्वरूपमपि तत्त्वविचारशून्यैः प्रमातृभिस्तद्वत्तया गृह्यते | वस्तुतस्तु गुणभोक्तृत्वात् गुणाननुभवितृतया भुङ्क्ते, नतु तैस्तत्स्वरूपमाव्रियते | अत एव अनवच्छिन्ननिजमाहात्म्यविश्वरूपत्वादाकाशमिव घटादीनां सर्वभूतानां चराचराणां बहिः ज्ञेयभावेन अन्तः ज्ञातृभावेन च अवभासमानमपि परमार्थतः सामान्यसंवित्स्वभावमेवैकं तत्तत्त्वं व्यवस्थितं, देहादिप्रत्ययव्यवधानमात्रकृतो बाह्याभ्यन्तरव्यपदेशः | अत एव आह नित्यनिश्चलस्वभावमात्रप्रतिष्ठितत्वात् अचरं गतिधर्मविवर्जितं सर्ववस्तुवेदकतया नित्यप्रसृतशक्तित्वात् चरं गमनशीलमिव | तथा इदन्तावसेयसर्ववस्तुविलक्षणस्वरूपत्वात् परमसूक्ष्मं तत् तस्माच्च सौक्ष्म्यात् कारणात् अविज्ञेयम् इदमित्यनवधार्यस्वरूपम् | अत एव सर्वप्रमातॄणां ज्ञेयत्वाभावात् दूरस्थम् अतिविप्रकृष्टम् | अथ च तद्विना कस्यचिदपि ज्ञानस्य कर्मणो वा अपि अनुपपत्तेः सर्वेषां अन्तिके अभ्याशे स्थितम् | तथा विभक्तेषु देवमनुष्यतिर्यगादित्वात् परस्परभिन्नेषु वस्तुषु सामान्यसंविदात्मकत्वेन अविभक्तम् अभिन्नैकस्वरूपम् | अथच विभक्तवच्च प्. २९०) संस्थितम् भेदेन अवभासमानत्वात् | तथा तत् तत्त्वं भूतभर्तृसर्वभूतानां तस्य तस्य रूपस्य अवस्थित्येकहेतुत्वात् धारकम् | तथा ग्रसिष्णु संहारशक्तियुक्तत्वात् ग्रसनशीलम् | तथा प्रभविष्णु उत्पादनहेतुत्वात् स्थितिप्रलयसर्गकारणमित्यर्थः | तथा ज्योतिषां सूर्यादीनां प्रकाशकानां प्रकाशहेतुत्वात् ज्योतिः प्रकाशकम् | तानि हि जगद्भावप्रकाशकान्यपि संवित्प्रकाशप्रकाश्यानि | अत एव तमसः परमुच्यते | यद्यत् परप्रकाश्यं, तत्तत् स्वयमप्रकाशात्मकत्वात् तमोरूपम् | तस्मात् तत् तत्त्वं परं सर्वप्रकाशकरूपत्वात् प्रकृष्टं व्यतिरिक्तं वा | तथा ज्ञानज्ञेयं ज्ञानेन यथाप्रतिपादितस्वरूपेण उपायेन ज्ञेयमात्मतया प्रत्यभिज्ञेयमित्यर्थः | यतो ज्ञानगम्यं ज्ञानं विना तथा विषयीकर्तुमशक्यम् | परमार्थतस्तु सर्वस्य कस्यचित् प्रमातुः हृदि हृदये संवेत्तृतया विशेषेण स्थितं सिद्ध्यवस्थायां तथा स्वसंवेदनसंवेद्यत्वात् || १२-१७ || उपसंहरति - इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते || १८ || इति एतावता ग्रन्थेन क्षेत्रं महाभूतानि ----------------------- | (१३|२) इत्यादिना प्राकृतभावमयं शरीरं, तथा अमानित्वादितत्त्वज्ञानार्थदर्शनान्तधर्मरूपं ज्ञानं तथा क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु ------- | (१३|५) इत्यादिना मुख्यक्षेत्रज्ञरूपं ज्ञेयं तत्तत्त्वमिति प्रधानं पदार्थत्रयमेतदुक्तम् | यतो मद्भक्तो मदनुग्रहादेव मत्सपर्यापरः एतत् प्. २९१) त्रितयं ज्ञात्वा मद्भावाय मत्स्वरूपसमापत्तये उपपद्यते उपपन्नः समर्थो भवति || १८ || अथ यदेतदत्र ज्ञानमुपदिष्टं, तेन प्रकृतिक्षेत्रज्ञपरमात्मलक्षणं पदार्थत्रयं निर्णीतम्, इति संग्रहेण क्रमेण प्रदर्शयितुमाह - प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् || १९ || यैषा प्रकृतिः सप्तमेऽध्याये विषयभावेन, संप्रति शरीरभावेन विभज्य प्रतिपादितस्वरूपा, तथैव यः पुरुषः विषयित्वेन शरीरित्वेन प्रतिपादितः, एतावेव अन्योन्यसंबद्धत्वेन अनादी विद्धि जानीहि | नहि एतयोरेकतासंबन्धस्य पूर्वकोटिरुपलभ्यते, ज्ञानात्तु यथोक्तस्वरूपादन्तकोटिरस्त्येव, अनयोरेवमनादित्वं संबन्धस्य, इति अत्र तात्पर्यं; नतु समशीर्षिकया नित्यत्वप्रतिपादनम् | यतः प्रकृतेर्वेद्यत्वादुदयव्ययधर्मयोगित्वे सति प्रवाहनित्यत्वं, पुरुषस्य तु परमार्थतः संविद्रूपत्वात् कूटस्थनित्यत्वम् | अत एव आह विकारान् महदादीन् गुणांश्च सत्त्वादीन् वेद्यैकस्वभावान् प्रकृतिसंभवान् प्रधानकारणान् जानीहि || १९ || एवं सामान्येन प्रकृतिपुरुषयोः स्वरूपं प्रतिपाद्य, इदानीं यथा प्रकृतिः प्रतिपुरुषं नानाशरीरभावेन संबद्धा, पुरुषश्च प्रति शरीरं नानाक्षेत्रज्ञभावेन यथा संबद्धस्तथा प्रतिपादयितुमाह - कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते | पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते || २० || कार्यं महाभूताद्यात्मकं, कारणानि बाह्याभ्यन्तराणि इन्द्रियाणि, इति शरीराद्यात्मकः समूहः कार्यकारणशब्देन उच्यते | तस्य कर्तृत्वे तावन्मात्रनिविष्टाहंप्रत्ययरूपे प्रकृतिः अव्यक्तं हेतुः कारणम् | सा हि शरीरात्मना व्यवस्थिता सति तन्निविष्टाहंप्रत्ययनिमित्तम् | प्. २९२) तथा सुखादीनां वेद्यत्वात् भोग्यानामात्मनो यो भोक्तृत्वाभिमानः, तत्र वेदकस्वभावत्वात् पुरुष एव कारणम् | सति पुरुषप्रत्यये सुखदुःखात्मनो भोग्यस्य विषयत्वं, पुरुषस्य च विषयित्वव्यपदेशः || २० || कुतः - पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् | कारणं गुणसंङ्गोऽस्य सदसद्योनिजन्मसु || २१ || यस्मात् प्रकृतौ नानाकार्यकारणात्मकशरीरभावेन परिणते प्रधाने स्थितो मायावशात् तावन्मात्राहङ्कारावष्टम्भेन वर्तमानः पुरुषः प्रकृतिजान् प्रकृतेः समुद्भूतान् गुणान् सत्त्वादीन् सुखाद्यात्मना परिणतान् भुङ्क्ते वेदकत्वेन विषयीकरोति | यतो महाभूतगुणाः शब्दादयः सुखाद्यात्मना वेद्यत्वमापन्नाः पुरुषस्य विषयित्वव्यपदेशहेतवः | एवं शरीरशरीरिभावेन विषयविषयिभावेन च प्रकृतिपुरुषयोरविवेकजः संबन्धः | ततश्च अस्य पुरुषस्य गुणेषु शरीरात्मना विषयात्मना च सङ्गोऽहङ्कारममकारात्मको दृढः संबन्धः, तत् सतीषु सत्त्वगुणप्रधानासु, असतीषु च रजस्तमःप्रधानासु योनिषु उत्पत्तिकारणमूर्तिषु यानि जन्मानि पुरुषादिरूपतया संभवाः, तेषु गुणसङ्गः एव कारणं हेतुः प्रकृतिपुरुषविवेकाभावमात्रनिमित्ता संसारिता पुरुषस्येत्यर्थः || २१ || यतः परस्य तत्त्वस्य देहेऽस्मिन् नानापुरुषसंबन्धिनि द्विधा स्थितिरित्याह - उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः || २२ || प्. २९३) महेश्वरः सर्वपुरुषैश्वर्यापेक्षया महानत्युत्कृष्ट ईश्वरः प्रभुः परब्रह्मशब्दापरपर्यायः स्वमायोद्भावितपुरुषव्यपेक्षया देहेऽस्मिन्नुपद्रष्टा भर्ता अनुमन्ता भोक्ता च इति व्यवस्थितः | यतः प्रकृत्यादिमहदहङ्कारात्मना दृश्यत्वेन उपस्थापितमर्थं पुरुषः पश्यति, इत्यसौ उपद्रष्टा इत्युच्यते | तथा दृश्यमेव शरीरादि अहन्तया परामृशन् भर्ता कार्यकारणस्य अहन्तया धारकः स एव व्यपदिश्यते | तथा प्रकृत्या मतं ज्ञातं वेद्यत्वेन प्रतिपन्नं सुखादिविषयभूतं वस्तु पृष्ठतः पुरुषो मन्यत इति अनुमन्ता स उच्यते | ततश्च तस्यैव भोक्तृत्वव्यपदेशः | इत्थं सांख्यप्रक्रियया पुरुषस्य शरीरित्वविषयित्वारोपो य उच्यते, तत्र विवेकाभावः कारणं; स च मायानिबन्धनः | यदा तु विद्योदयात् विवेकजज्ञानाविर्भावः, तदा असावेव पुरुषः परमात्मा इत्यभिधीयते प्रबन्धतो यथाप्रतिपादिताद्वयचिदेकस्वभावब्रह्मस्वरूपतया उच्यते || २२ || एवं प्रकृतिपुरुषेश्वरविवेकलक्षणस्य ज्ञानस्य फलमाह - य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह | सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते || २३ || यो योगी एवं उक्तेन प्रकारेण पुरुषं नानाक्षेत्रज्ञरूपतया अवस्थितं गुणैः सुखाद्यात्मकविषयभावेन अवस्थितैः सह वेत्ति, स तत्त्वत्रयपरमार्थवेदित्वात् सर्वथा सर्वेणापि प्रकारेण तत्तद्वर्णधर्मात्मकेन तत्तदाश्रमधर्मात्मकेन च वर्तमानः तदनुष्ठातृतया तिष्ठन्नपि भूयः पुनः न अभिजायते न संसारी भवति यथोक्तेन ज्ञानाग्निना संसारप्रसवहेतूनां बीजस्थानीयानां कर्मणां दाहादिति | यथोक्तं प्. २९४) बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः | ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः || इति स्पष्टोऽर्थः || २३ || अत्र च आत्मनो दर्शने यथोक्तं ज्ञानमेव यद्यपि मुख्यतया उपायः, तथाप्युपायान्तरैर्गौणैरपि असौ कथञ्चित् गम्यत इत्याह - ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना | अन्ये सांख्येन योगेन कर्मयोगेन चापरे || २४ || अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते | तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः || २५ || केचित् सहजसिद्धतत्त्वज्ञाना निरुत्तरपरमेश्वरानुग्रहभाजो ध्यानेन आत्मानं पश्यन्ति यथोक्तब्रह्मस्वरूपतानुस्मरणेन साक्षात्कुर्वन्ति | अत एव केन क्व पश्यन्तीत्यभेदप्रतिपादनार्थमाह आत्मनात्मानमात्मनि पश्यन्ति इति | किमुक्तं भवति | यत्र अधिकरणे हृदयादौ ध्यानं कुर्वन्ति, येन च अन्तःकरणेन कुर्वन्ति, यच्च तेन ध्यानेन उपलभन्ते, तत् सर्वं परब्रह्मरूपतयैव प्रत्यवमृशन्तीति तात्पर्यम् | तथाच परा काष्ठा आत्मज्ञानस्य | संप्रत्येतावतीं योग्यतामप्राप्ताः अन्ये सांख्येन प्रकृतिपुरुषविवेकरूपेण ज्ञानेन आत्मानं पश्यन्ति | अन्ये योगेन पातञ्जलादिप्रणीतविधिना समाधिना, अन्ये तु कर्मयोगेन यथोक्तज्ञाननिष्ठतया स्वकर्मानुष्ठानरूपेण समाधिना आत्मानं पश्यन्ति, इति आत्मज्ञानस्य परापरभेदेन प्रकारद्वयमुपन्यस्तम् | तत्र ध्यानेनेत्यादिना शुद्धज्ञानमात्रस्वरूपतया य उक्तः, सा च कर्मयोगिनामारूढावस्था | यथोक्तं योगारूढस्य तस्यैव शमः कारणमुच्यते | (६|३) प्. २९५) इति | कर्मयोगेनेति समुच्चयात्मकत्वेऽपि कर्मप्रधाना कर्मयोगिनामारुरुक्ष्ववस्था आरुरुक्षोर्मुनेर्योगं ------------------ | ६|३) इत्यादिना प्राक्प्रतिपादिता, इति द्विप्रकारः पर उपायः, सांख्येन योगेन च, इति अपरः स्थूलभेदप्रतिपत्तेरनुमानात् | अन्ये पुनर्द्विप्रकारेऽपि उपाये संप्रति योग्यताभावात् एवं यथोक्तेन प्रकारेण आत्मानम् अजानन्तः तावन्मात्रशुद्धादिगुणयोगात् अन्येभ्यो दृष्टानुमितं तत आप्तेभ्यः श्रुत्वा अवधार्य आगममात्रशरणास्तम् उपासते भजन्ते | तेऽपि तथाविधाः श्रद्धालक्षणस्य सिद्धिबीजस्य क्षेत्रीभूताः सन्तो मृत्युमतितरन्त्येव अविनाशिनमात्मानं क्रमेण प्रतिपद्यन्ते सत्यार्थाभिनिवेशित्वात् | यत्ः सत्यमसत्यं च द्वयमपि संभवति | विद्यानुगृहीताः सत्यमभिनिविशन्ते, मायामोहितास्तु असत्यं; ते च तादृशमेव फलं प्राप्नुवन्ति | तथाच उक्तम् अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् | मृत्युमापद्यते मोहात् सत्यत्वेऽमृतमाहितम् || इति || २४-२५ || उक्तमेव अर्थं स्फुटतरं प्रतिपादयितुमा अध्यायपरिसमाप्तेराह- यावत् संभवति किञ्चित् सत्त्वं स्थावरजङ्गमम् | क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ || २६ || यावत् यत्परिमाणमपरिसंख्येयं किञ्चित् सत्त्वं केनचिद्भेदेन युक्तं प्राणिजातं संभवति विद्यते तत् सर्वं क्षेत्रस्य शरीरभावेन परिणतायाः प्रकृतेस्तथा क्षेत्रज्ञस्य नानाशरीरित्वाभिमानेन व्यवस्थितस्य आत्मनः संयोगादनादिप्रबन्धप्रवृत्तादन्योन्यसंबन्धात् हेतोः विद्धि विजानीहि | किमुक्तं भवति | प्. २९६) अस्य अपर्यवसानस्य नानाचराचरभावरूपस्य प्रपञ्चस्य अविवेचितस्वरूपतया प्रकृतिपुरुषयोः शरीरशरीरिभावेन एकतया संबन्धो निमित्तम् | अतः शरीरशरीरिणोर्विवेक आद्यः प्रकारो यथा प्रतिपादितस्य ज्ञानस्य तेन शरीरभावपरिणतप्रकृतिविविक्तस्वरूपे सुविज्ञाते आत्मनि वेदकत्वमात्रैकलक्षणाव्यभिचारात् सर्वक्षेत्रज्ञप्रतिपत्तिभ्रमनिवृत्तेरिति || २६ || योगी परमात्मनः स्वाभाविकैक्यदर्शनात् सम्यग्दर्शी भवतीत्याह - समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | निनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति || २७ || सर्वेषु जङ्गमेषु स्थावरेषु च द्विप्रकारेषु अपि अवान्तरभेदादनन्तविशेषेषु अपि भूतेषु समं जन्मादिविकाररहितत्वात् निर्विशेषं तिष्ठन्तं परमार्थनित्यत्वात् सदा वर्तमानं परमेश्वरं स्वतन्त्रं परमात्मानं यो योगी पश्यति आत्मत्वेन प्रत्यवमर्शात् साक्षात्कुरुते, स पश्यति तस्य एव सत्यार्थदर्शित्वात् पारमार्थिकं द्रष्ट्ट्वं तद्व्यतिरिक्तात्मनानात्वदर्शिनः सर्वे मिथ्यार्थदर्शिन इत्यर्थः | कीदृशेषु भूतेषु कीदृशं पश्यति | विनश्यत्सु विनाशान्तजन्मादिविकारभागिषु अविनश्यन्तं वेदकत्वमात्रादेकस्मात् स्वभावादप्रच्यवमानम् | स हि तथाविधो योगी समुन्मिषितेन यथोपवर्णितेन ज्ञानमयेन चक्षुषा प्रादुर्भावतिरोभावधर्मकसकलवेद्यांशविविक्तस्वरूपं वेदकैकलक्षणं परमात्मानं सर्वावस्थासु एकतत्त्वमात्मत्वेन साक्षात्कुर्वन् सम्यग्दर्शन उच्यते, अन्ये तु विपरीतदर्शना इत्यर्थः | स एवच आत्मवानिति || २७ || तत्र हेतुत्वमाह - समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् | न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् || २८ || प्. २९७) यस्मात् यथोक्तेन प्रकारेण सर्वत्र प्राकृतभावमयवेद्यवर्गे समं सामान्यसंविद्रूपतया तुल्यं कृत्वा समवस्थितं स्वभावत एव सम्यक् कृतप्रतिष्ठम् ईश्वरं प्रभुं परमात्मानं पश्यन् प्रत्यभिजानन् कश्चिदेव आत्मना स्वयमेव आत्मानं सत्यस्वभावं न हिनस्ति अप्रत्यभिज्ञानेन सन्तमेव अभावं न प्रापयति | किमुक्तं भवति | य एवंप्रतिपादितेन ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञविविक्तं परमात्मानं न पश्यति, स आत्मघातयुक्तो मुख्यया वृत्त्या | यथोक्तं योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते | किं तेन न कृतं पापं चौरेणात्मापहारिणा || इति || २८ || कश्च एवंविधं परमात्मस्वरूपं पश्यतीत्याह - प्रकृत्यैव हि कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानमकर्तारं स पश्यति || २९ || प्रकृतिश्चेतनाचेतनविभागेन परापररूपा प्राक्प्रतिपादितद्विप्रकारा परमेश्वरेच्छावशादेव क्षेत्रक्षेत्रज्ञभावेन अनादिना संबन्धेन संबद्धा सती सर्वमिदं जगच्चित्रं विरचयति | तथाच सप्तमेऽध्याये द्विप्रकारायाः प्रकृतेः स्वरूपं प्रतिपाद्य उक्तम् एतद्योनीनि भूतानि सर्वाणीत्युपधारय | (७|६) इति | अस्मिन्नपि अध्याये यावत् संभवति किञ्चित् ------------ | (१३|२६) इत्यादिना श्लोकेन एष एव अर्थोऽभिहितः | तदेवंरूपया प्रकृत्यैव केवलया क्रियमाणानि निर्वर्त्यमानानि नानाशरीरसंबद्धत्वेन अवभासमानानि कृत्स्नानि कर्माणि विविधाः क्रियाः यः प्. २९८) आत्मतत्त्वदर्शी पश्यति सम्यक् निरूपयति, स तादृशो योगी तथा तेन प्रकारेण आत्मानं ब्रह्मस्वरूपं सत्यस्वभावं सर्वदा विशुद्धचिन्मात्रस्वरूपे स्वात्मनि एव सुप्रतिष्ठितं सन्तं अकर्तारं परमार्थतः सर्वक्रियासु अव्यापृतत्वात् स्वरूपव्यतिरिक्तकार्यनिर्वृत्तिप्रयत्नरहितं पश्यति | किमुक्तं भवति | यथा क्षेत्रज्ञस्य प्रकृत्यभेदाभिमानेन कर्तृत्वं, न तथा परमात्मनः | तस्य हि स्वरूपप्रत्यवमर्शमात्रे मुख्या कर्तृता, क्षेत्रज्ञस्य कर्तृतोद्भावनेन गौणी, इति योऽयं कर्तृकार्यव्यपदेशः, स सर्वो भेदनिबन्धनः, भेदश्च मायामात्रविलसितो न वस्तुसत्तामवलम्बते | तत एकस्य तत्त्वस्य व्यतिरिक्तकार्यनिबन्धनं कर्तृत्वं न वास्तवमिति तात्पर्यम् || २९ || इत्थंच स्थिते प्रकृतिपुरुषविवेकज्ञानादनन्तरं वास्तवब्रह्मलक्षणैकतत्त्वविषये परं ज्ञानमाविर्भवतीति प्रतिपादयितुमाह - यदा भूतप्र्ठग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म संपद्यते तदा || ३० || तदा तस्मिन् काले योगी ब्रह्म संपद्यते यथोक्तपरमात्मनि परमार्थसत्ये एकस्मिंस्तत्त्वे समापत्तिमाप्नोति | कदा | यदा यस्मिन् काले विवेकज्ञाननैर्मल्यात् सम्यक् प्रकाशमानसर्वगतैकक्षेत्रज्ञस्वरूपो योगी भूतपृथग्भावं भूतानां चराचराणामनन्तभेदानां पृथग्भावमन्योन्यव्यतिरिक्तत्वम् एकस्थमनुपश्यति एकस्मिन् परमात्मनि अभिन्नसंवित्प्रकाशमात्रे स्थितं तदात्मकत्वेन एव वर्तमानं साक्षात्करोति | किमनेन उक्तं भवति | प्रकाशपदवीजूषां सर्वभावानां प्रकाशमानतामात्राधीनात्मलाभानां वास्तवीं परप्रकाशैकरूपतां यदा अनुभवति योगी, यथाच सर्वमेकस्थं पश्यति, प्. २९९) तथैव यदा तत एव एकस्मात् तत्त्वात् विस्तारं नानाभावमयं विभूतिवैतत्यं पश्यति, तदा ब्रह्म संपद्यते | अनेन अपि किमुक्तं भवति | विवेकजज्ञाननिष्णातनिर्मलमतिर्योगी यथा एकस्मिंस्तत्त्वे लीनं सर्वं भेदजातं तदभिन्नं पश्यति, तथैव तदेव एकं तत्त्वं विश्वभावभेदात्मना प्रसृतं तस्य सर्वात्मना भावनानात्वप्रतिपत्तिभ्रमो विगलतीत्यर्थः | तथा च अयमेव अर्थः केनापि विपश्चिता अनूदितः यद्यत् पृथक्त्वसंदिग्धं तत्पृथक्त्वान्न भिद्यते | इति || ३० || तदेवंविधस्य परमात्मनो बहुशोऽपि उक्तं लक्षणं प्रसङ्गात् पुनराह - अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || ३१ || अयं भगवान् परमात्मा परं तत्त्वं स्वभावत एव सर्वत्र सर्वदा च अव्याहतसद्भावः, ततश्च सर्वस्मिन् शरीरे स्थितिरबाधिता एव | तथापिच तत्रस्थोऽपि प्रतिपादितैकस्वरूपमात्रे सुस्थितत्वात् न करोति न भिन्नकार्यनिबन्धनं कर्तृत्वमनुभवति, ततश्च का कथा कर्मफलानुभवस्येति न लिप्यते | यस्मात् अनादित्वात् सर्वकारणत्वात्, अत एव निर्गुणत्वात् गुणेभ्य उदयव्ययधर्मकेभ्यो निष्क्रान्तत्वात् तद्विविक्तस्वभावत्वात् अव्ययः गुणवत् व्ययेन विनाशेन रहितः | यद्यपि अनादित्वमव्ययत्वं च क्षेत्रज्ञस्य अपि उक्तं, तथापि तस्य गुणमयया प्रकृत्या संबद्धस्य तत्स्वरूपानुविधायित्वात् तत्तदुदयव्ययधर्मकत्वमुपचर्यते आ विद्योदयात् | परमात्मनस्तु उपचारोऽपि नास्ति | अतः क्षेत्रज्ञवत् न तस्य कर्तृत्वं, न कर्मफलसंयोग इति || ३१ || प्. ३००) यथाच एतस्य सर्वशरीरस्थत्वेऽपि कर्मफलसंयोगलक्षणकलङ्कसंपर्काभावस्तथा उपमानेन दर्शयितुमाह - यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते || ३२ || यथा सौक्ष्म्यात् अणीयस्त्वात् सर्वगतं समस्तवस्तुव्यापकं देशकालाद्यनवच्छिन्नमाहात्म्यम् आकाशम् अवच्छिन्नैर्व्याप्यैर्भावैः न उपलिप्यते स्वधर्मेण न संयोज्यते, तथा एव सर्वत्र सर्वस्मिन् सुरनरतिर्यगाद्यनन्तभेदेऽपि देहे शरीरे व्यापकतया अवस्थितः नित्यसंनिहितोऽपि अयं परमात्मा तद्धर्मैः सुखदुःखादिभिरुत्पादविनाशादिभिर्वा कर्मफलसंबन्धित्वाभिमानजन्मभिः नोपलिप्यते न संस्पृश्यते | तथा च उक्तं ब्रह्मविदा केनचित् यथैकस्मिन्घटाकाशे रजोधूमादिभिर्वृते | संयुज्यन्ते न सर्वाणि तथा जीवाः सुखादिभिः || इति || ३२ || एवं सर्वात्मना कर्मफलसंपर्काभावेऽपि अनन्यसाधारणप्रकाशकत्वधर्मयोगात् स एव एकः क्षेत्रक्षेत्रज्ञव्यवहारप्रकाशक इत्युपमानान्तरेण दर्शयितुमाह - यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत || ३३ || यथा येन प्रकारेण अयं सकललोकप्रत्यक्षपरिदृश्यस्वभावो भगवान् भास्कारः कृत्स्नम् अखिलं लोकं नानाभावमयं विश्वम् एक एव असहायः प्रकाशयति स्वस्वरूपं लम्भयति, तेन एव प्रकारेण अयं क्षेरी सर्वक्षेत्रज्ञव्यापक एकः परमात्मा प्. ३०१) क्षेत्रं प्रकाशयति इति | किमुक्तं भवति | प्रकाश्यवस्तुनानात्वात् प्रकाशस्य परमात्मधर्मस्य यदि परं नानात्वोपचारः परमार्थतस्तु एक एव सकलप्रकाश्यवस्तुप्रकाशकः | प्रकाशकत्वमात्रे च उपमानोपमेयभावो रविक्षेत्रिणोः | यथा हि रविर्भावानां प्रकाशको, न तथा च क्षेत्री | तथाहि कुतश्चित् कारणात् लब्धात्मनां घटगवादीनामर्थानामभिव्यञ्जकत्वमात्रेण रविः प्रकाशको न जनकत्वेन, क्षेत्री तु प्रकाश्यत्वापादनेन एव तान् जनयति, अतो जनकत्वं तस्य, इति प्राक् प्रतिपादितमेव || ३३ || तदित्थंरूपमध्यायेन क्षेत्रक्षेत्रज्ञपरमात्मलक्षणतत्त्वत्रयनिर्णयमुपसंहरन्नाह - क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा | भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् || ३४ || ये योगिनः एवं उक्तेन प्रकारेण क्षेत्रस्य शरीरभावेन परिणताया अपरायाः प्रकृतेः, तथा क्षेत्रज्ञस्य नानाक्षेत्राहङ्कारावष्टम्भेन अवस्थिताया जीवरूपायाः परायाः प्रकृतेः अन्तरं विशेषं परस्परविविक्तं स्वरूपं विदुः जानते | केन | अमानित्वादिना तत्त्वदर्शनपर्यन्तेन ज्ञानेन एव चक्षुषा | न केवलं तयोरन्तरं जानते, यावत् भूतप्रकृतिमोक्षं च ये जानते | भूतात्मिका या इयं प्रकृतिः स्थूला निर्दिष्टा, ततो मोक्षं पुनस्तत्र प्रवेशाभावादात्यन्तिकं बन्धत्यागं य विदन्ति | किमुक्तं भवति | क्षेत्रक्षेत्रज्ञयोः परस्परविविक्तस्वरूपावगममात्रमागमोपपत्तिपरिशीलनद्वारेण कदाचित् संभवति, नतु तावता प्रकृतेर्मोक्षः प्रभवति, स हि तद्विविक्तात्मस्वरूपनित्यावहितत्वेन एव भवति | ततः पृथगुक्तं भूतप्रकृतिमोक्षं च इति | ते एवंविधाः परं प्. ३०२) निरुत्तरं तत्त्वं सप्तमे परतरप्रकृतित्वेन प्रतिपादितं परमात्मानं यान्ति प्रतिपद्यन्ते तदभेदलक्षणां परां सिद्धिमधिगच्छन्ति, इत्योम् || ३४ || भविभिरखिलैर्नित्यं तापत्रयीपरिशोषितात् परमविरसात् क्षेत्राद्भोगो यतः किल भुज्यते | चिदमृतघनात् तद्वोऽध्यायात् त्रयोदशतः स्रुतै- र्वचनपृषतैः सिक्तं सूतां विमुक्तिफलस्रियम् || इति श्रीमद्राजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे त्रयोदशोऽध्यायः || १३ || अथ चतुर्दशोऽध्यायः त्रयोदशाध्यायपरिसमाप्तौ भूतप्रकृतिमोक्षं च ये विदुः ----------------- | (१३|३४) इति यदुक्तं, तत्र भूतादिविकारभावमापन्ना प्रकृतिः किल भूतप्रकृतिशब्देन उक्ता, ततश्च तस्याः कारणभूतं प्रकृत्यात्मकं तत्त्वमस्ति, इत्यभ्युपगतं भवति | तदभ्युपगमे च परब्रह्माद्वैतसिद्धान्तता शास्त्रस्य अस्य विरुद्ध्यते | इह हि नित्यैकचित्प्रकाशात्मकस्वभावपरामर्शप्रभवपरानन्दलक्षणं सत् तादृक्स्वभावसुव्यवस्थितमात्मतत्त्वं परब्रह्मशब्दाभिधेयमेकमेव परमार्थसत्त्वेन आगमोपपत्त्युपलब्ध्यविसंवादि सिद्धं प्रबन्धतः प्रतिपादितं, यस्य अनादिमत्परं ब्रह्म -----------------------------| (१३|१२) इत्यादिना लक्षणं कृतम् | ततश्च प्रकृतिर्नाम द्वितीयं तत्त्वमस्तित्वेन कथं सिद्ध्यति, किं वा तस्य स्वरूपं, कीदृशो वा परब्रह्मस्वरूपेण तत्त्वेन तस्य संबन्धः इति येन ज्ञायते | तथा भूतप्रकृतिर्द्विविधा उक्ता शरीरात्मना विषयात्मना च परिणामात्, ततः कथमात्मनो मोक्षः, किमत्यन्तपरिहारेण अन्यथा वा | तत्र आद्यपरिहारस्तावदिह न अभ्युपगतः | तथाच उक्तम् अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || (१३|३१) तथा इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः | (५|१४) इत्यादि | अनेन शरीरभावपरिणतायाः प्रकृतेरत्यन्तपरिहारेण मोक्षो न अभ्युपगतः | तथा विषयभावेन परिणताया अपि न प्. ३०४) अत्यन्तपरिहारोऽभिमतः | तदुक्तं रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || (२|६४) तथा सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || (३|२५) इत्यादि च | एवं कथं विषयरूपायाः प्रकृतेर्मोक्ष इति येन ज्ञायते, तदुभयार्थविषयज्ञानं सूक्ष्मत्वात् प्रकृष्टं तत्र तत्र प्रागुक्तमपि पुनर्वक्तुं प्रतिजानंस्तत्प्रशंसापूर्वं भगवानुवाच - परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् | यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः || १ || उक्तेन रूपेण परं प्रकृष्टं भूयः पुनर्बहुतरं वा ज्ञानानां क्षेत्रज्ञादिविषयाणां मध्ये उत्तमं प्रधानं ज्ञानं प्रकर्षेण कथयिष्यामि | वक्ष्यमाणेन ज्ञानेन पूर्वोक्तानां ज्ञानानां सम्यक्प्रतिपत्तिर्भविष्यतीति तेषां मध्ये तस्य उत्तमत्वम् | अत एव आह यत् विदित्वा पूर्वे मुनयः संयमिनः सर्वे एव परां सिद्धिं परसमापत्तिलक्षणां प्रकृष्टां फलनिष्पत्तिं इतः संसारात् प्राप्ताः || १ || यतोऽस्य ज्ञानस्य अयं प्रभावः - इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः | सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || २ || इदं वक्ष्यमाणं ज्ञानम् उपाश्रित्य सुगृहीतं कृत्वा अन्येऽपि योगिनो मम साधर्म्यं मद्भावाभेदं प्राप्ताः सन्तः एतज्ज्ञानशून्यक्षेत्रज्ञान्तरवत् सर्गप्रलययोरपि न उत्पादविनाशव्यपदेशभाजो भवन्ति पारमार्थिकनित्यत्वाभिव्यक्तेरिति || २ || प्.३०५) अथ एतज्ज्ञानं वक्तुमाह - मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् | संभवः सर्वभूतानां ततो भवति भारत || ३ || यदेतत् भूतप्रकृतिकारणभावेन व्यवस्थितं तत्त्वं परब्रह्मणो भिन्नत्वेन आशङ्कितं, तत् तस्मात् परमार्थतो न भिन्नं, ब्रह्मैव तत्; किन्तुमहत् तदपेक्षया स्थूलं यतो वेद्यतया परामृश्यमानम् | मम परब्रह्मस्वरूपस्य जगद्भावक्रीडनकोत्पादनाधिकरणत्वात् योनिः तत् | तस्मिन् परमार्थतो हि योनिभूते महति ब्रह्मणि अहं गर्भं दधामि संविल्लक्षणस्ववीर्यसंक्रान्तिं करोमीत्यर्थः | किमनेन उक्तं भवति | यथोक्तलक्षणपरब्रह्मस्वरूपं परामृशन् प्रकृतिलक्षणं तत्त्वमवभासयामि | तस्य इदन्तायामपि चित्प्रकाशानुप्रवेशं विना प्रकाशमानत्वाभावात् ब्रह्मस्वरूपत्वं, व्यवच्छिन्नवेद्यस्वरूपत्वात्तु स्थूलत्वमिति सकलजगद्भावभेदैकहेतुभूतेदन्तात्मकं महद्ब्रह्म मम जगत्सिसृक्षारसिकस्य योनिस्थानीयम् | अत एव आह सर्वभूतानां चराचराणां समस्तानां प्राणभृतां ततः तस्मादिदन्तया परामृश्यमानात् स्वभावादेव संभवः उत्पत्तिः | तदेतदत्यद्भुतरूपत्वं पारमेश्वर्या मायाशक्तेः सुप्रबुद्धावसेयपरमार्थमनेन प्रतिपादितं यत् मनागपि स्वरूपप्रच्युत्यभावे सति इत्थं नानाजगद्भावप्रपञ्चरूपतया अवभासमानत्वम् | एतच्च एवंविधमाश्चर्यरूपत्वं गर्भीकृत्य स्वरूपं प्राक् प्रतिपादितं दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामतितरन्ति ते || (७|१४) इति || ३ || प्. ३०६) अथ लौकिकार्थरूपणगर्भीकारेण योन्यादिशब्दप्रयोगोऽत्र यः कृतः, तमेव स्फुटीकर्तुमाह - सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः | तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता || ४ || सर्वयोनिषु समस्तेषु भावाभिव्यक्त्यधिकरणभूतेषु क्षेत्रेषु स्त्र्याद्याश्रितेषु या मूर्तयो जरायुजत्वादिचतुरुत्पत्तिप्रकारैश्चतुर्विधसंस्थानभेदेन आकृतयो भूतानां संभवन्ति उत्पद्यन्ते, तासां सर्वासां यथाप्रतिपादितस्वरूपं महद्ब्रह्म इदन्तासामान्यलक्षणं प्रकृत्यात्मकं योनिः मुख्यमभिव्यक्त्यधिकरणं, तस्यां च योनौ संविल्लक्षणस्य बीजस्य स्ववीर्यस्य प्रदानात् अहं पिता | यथा कश्चिद्ब्राह्मणादिः पुरुषो भार्यात्वेन परिगृहीते वनिताक्षेत्रे सन्तानोत्पादनाय वीर्यमवसृजन् गर्भमाधत्ते, नच रूपान्तरमासादयति, एवमहं स्वरूपादप्रच्युत एव यथोक्ते महति ब्रह्मणि जगद्भावहेतुं संविल्लक्षणं बीजमवसृजामि, इति | स्वरूपाप्रच्युतिमात्रे पितृत्वेन आत्मनोऽधिकरणमात्रत्वेन योनित्वेन स्थूलस्य ब्रह्मणो रूपणं नानाभावहेतुत्वे बीजत्वेन चिदंशस्य निरूपणमिति | यथाहि अधिकरणभूतां योनिमन्तरेण सन्तानाभिव्यक्त्यभावः पुरुषवीर्यस्य, एवमिदन्तापरामर्शमात्रस्वरूपस्थूलब्रह्मात्मकप्रकृतिमन्तरेण सिसृक्षोः परमेश्वरस्य जगद्भावक्रीडनकोद्भवाभावश्चिल्लक्षणस्य वीर्यस्येत्यर्थः || ४ || एवमिदमिति परामृश्यमानं स्वरूपमेव प्रकृतिः, न वस्त्वन्तरं किञ्चित्; तस्या अपरस्य ब्रह्मणः प्रकाश्यप्रकाशकभावलक्षणः संबन्धः, स च प्रकाशाद्वैतं विना न घटते प्रकाश्यस्य प्रकाशरूपतामन्तरेण तथा स्वरूपलाभाभावादिति प्रकृतिविषयं तावत् प्. ३०७) ज्ञानमुक्तम् | इदानीमेवं च लब्धजन्मनस्तस्याः शरीरादिभावेन व्यवस्थितभूतादिविकाररूपायाः कथं निर्मोक्ष इति अभेदार्थविषयं ज्ञानं निर्णीयते | तत्र या एषा प्रतिपादितस्वरूपा प्रकृतिः, सा शरीरविषयभावेन आभासमानैः स्वविकारैः प्रकृत्यादिभिश्च देहिनं बध्नाति येन तत्परिहारादेव ततो निर्मोक्षः स्यात् | किन्तु यैः प्रकारैस्ते संवेद्यतामापद्यन्ते, ते प्रकारा देहिनमहङ्कारममकाराभ्यां निबध्नन्ति, ततस्तेभ्यो निर्मोक्षो भूतप्रकृतिनिर्मोक्षो भवतीति क्रमेण प्रतिपादयितुमाह - सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || ५ || परमार्थतो नित्यत्वात् अव्ययं विनाशरहितमतश्च जन्मरहितमपि देहिनम् आत्मानं यथोक्तप्रकृतिसमुत्था गुणाः सत्त्वाद्यभिधाना वक्ष्यमाणस्वरूपा वक्ष्यमाणेन प्रकारेण निबध्नन्ति विनाशोत्पादकदेहाहङ्कारारोपणतद्धर्मानुविधायित्वादस्वतन्त्री- कुर्वन्ति || ५ || कथमिति तेषां बन्धकत्वेन विभागमाह - तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् | सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || ६ || तत्र तेषां मध्ये सत्त्वं नामगुणो ज्ञानसङ्गेन बध्नाति नियतविषयं नियतकरणाधीनं यत् ज्ञानं, तत्र यः सङ्गः इदमहं जानामि इत्यभिमानेन आसक्तिस्तल्लीनत्वं तेन परतन्त्रीकरोति | तथा सुखसङ्गेन बध्नाति सुखं तत्तदभीष्टविषयप्राप्त्या विषयान्तराकाङ्क्षानिवृत्तिपर्यवसायिनी निर्वृतिः, तत्र सङ्गः सुखितोऽहं सुखं ममास्तीति वा अहङ्कारममकारावष्टम्भेन तल्लीनत्वं; तेन परतन्त्रीकरोति | कुतः | यतः एवंस्वभावं सत्त्वं तत् निर्मलत्वात् प्. ३०८) आवरकतमोलक्षणमलविविक्तस्वरूपत्वात् प्रकाशकं विषयप्रथाकारणमतो ज्ञानसङ्गेन बध्नाति अनामयं रजोविविक्तत्वात् प्रवृत्तिदुःखात्मकेन आमयेन रहितमतः सुखसङ्गेन बध्नाति सूक्ष्मत्वात् | ज्ञानसङ्गः पूर्वं व्याख्यातः || ६ || तथा - रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् | तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् || ७ || रजः संज्ञं गुणं रागात्मकं सुखाभिलाषरूपं जानीहि | अत एव तृष्णासङ्गसमुद्भवम् अनादिप्रबन्धप्रवृत्तत्वात् तृष्णा विषयरसपिपासा, तत्र सङ्गस्तदेकलीनत्वं ततः समुद्भवो जन्म यस्य, तत् तादृशं जानीहि | तत् एवंस्वभावं रजः कर्मसङ्गेन क्षेत्रज्ञं निबध्नाति कर्मरागप्रयुक्तस्य इष्टविषयाहरणानिष्टविषयपरिहारेण प्रवृत्तिस्तत्र सङ्गस्तत्परत्वं, तेन नियतकार्यकर्तृताभिमानरूपेण परवशीकरोति || ७ || तथा - तमस्त्वज्ञानजं विद्धिं मोहनं सर्वदेहिनाम् | प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || ८ || तमोलक्षणं पुनर्गुणम् अज्ञानजं प्रकाशस्वभावसत्त्वगुणप्रविविक्तत्वात् ज्ञानाभावप्रभवं, ततश्च सर्वशरीरिणां मोहनं ज्ञेयविषयाप्रतिपत्तिजननं जानीहि | तत् तथाविधं तमः प्रमादेन उपायोपेयविवेकनिरपेक्षत्वेन, तथा आलस्येन प्रवृत्त्यात्मकरजोविविक्तरूपत्वात् कार्येषु अनुद्योगेन, तथा निद्रया मोहनरूपेण सर्वेन्द्रियशक्तिविरामेण देहिनं निबध्नाति नियच्छति, इति गुणत्रयस्य स्वरूपं बन्धप्रकारश्च प्रतिपादितः || ८ || प्. ९०९) इदानीं यस्मिन् स्वकार्ये सति यस्य गुणस्य उत्कर्षो भवति, तथा तत्स्वरूपं प्रतिपादयितुमाह - सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत || ९ || सुखलक्षणे सत्त्वगुणकार्ये सति सत्त्वं सञ्जयति सम्यगतिशयं लभते | एवं रजोगुणकार्ये कर्मणि रजः सञ्जयति | तथा प्रमादे पूर्वोक्तलक्षणे सति तमः सञ्जयति | किं कृत्वा | ज्ञानं विषयावगमम् आवृत्य तिरस्कृत्य || ९ || अथ एषामन्योन्याभिभववृत्तित्वं प्रतिपादयितुमाह - रजस्तमश्चाभिभूय सत्त्वं भारत वर्धते | रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा || १० || रजस्तमसी अभिभूय न्यक्कृत्य सत्त्वगुणो वर्धते | किमुक्तं भवति | यदा सत्त्वं विवृद्धं बलवत् भवति, न तदा तदितरो गुणः स्वकार्यमारभते | एवं तमःसत्त्वे अभिभूय रजोगुणो वर्धते | तथा रजःसत्त्वे अभिभूय तमोगुणो वर्धते || १० || अथ एषां गुणानां विवृद्धत्वव्यञ्जनानि लिङ्गान्याह - सर्वद्वारेषु देहेऽस्मिन्प्रकाशमुपजायते | ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || ११ || लोभः प्रवृत्तिरारम्भः कर्मणामशमश्च तृट् | रजस्येतानि जायन्ते विवृद्धे भरतर्षभ || १२ || अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च | तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन || १३ || अस्मिन् शरीरे यदा यस्मिन् क्षणे सर्वद्वारेषु श्रोत्रादिषु प्रकाशं स्फुटमसन्दिग्धं कृत्वा ज्ञानं शब्दादिविषयसंवेदनमुत्पद्यते; तदा सत्त्वगुणमभिभूतरजस्तमस्कत्वात् विवृद्धम् उपचितम्, प्. ३१०) इति जानीयात् | तथा रजसि प्रवृद्धे अभिभूतसत्त्वतमस्कत्वादुपचिते सति एतानि लिङ्गानि उत्पद्यन्ते | तद्यथा लोभः इष्टविषये प्राप्तेऽपि नैव निवृत्तिः, तदाहरणार्थं प्रवृत्तिः उन्मुखीभावः | ततश्च अनन्तरं आरम्भः क्रिया तदाहरणव्यापार इत्यर्थः | तथा प्राप्तेऽपि कस्मिंश्चिद्विषये विषयान्तरविषयाणां क्रियाणाम् अशमः शान्त्यभावः | तथा तृट् तृष्णाभिलाषो राग इत्यर्थः | तथा तमसि विवृद्धे सत्त्वरजोऽभिभवात् लब्धबले सति एतानि लिङ्गानि जायन्ते | तद्यथा अप्रकाशः सत्त्वगुणाभिभवात् प्रकाशाभावो विषयासंवेदनम् | तथा रजोगुणाभिभवात् अप्रवृत्तिः क्रियाभावः | ततश्च स्वयं विवृद्धत्वात् प्रमादमोहावुक्तलक्षणाविति || ११-१३ || अथ एषां वृद्धौ सत्यां प्राणप्रयाणे सति विशिष्टलोकान्तरप्राप्तिनिर्देशेन बन्धहेतुत्वमेव प्रतिपादयितुमाह् - यदा सत्त्वे विवृद्धे तु प्रलयं याति देहभृत् | तदोत्तमविदां लोकानमलान् प्रतिपद्यते || १४ || रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | तथा प्रलीनस्तमसि मूढयोनिषु जायते || १५ || यदा यस्मिन् काले सत्त्वगुणे विवृद्धे बलवति सति देहभृत् शरीरी प्रलयं याति विनाशव्यपदेशं लभते, तदा उत्तमविदां प्रकृष्टज्ञानानां देवादीनां संबन्धिनो लोकान् भुवनानि सत्त्वगुणमयत्वात् अमलान् विशुद्धान् प्राप्नोति तत्र जातव्यपदेशं लभते | तथा रजसि प्रवृद्धे सति प्रलीनः सन् कर्मसङ्गिषु रजोगुणप्रधानत्वात् तत्तत्क्रियाविशेषपरेषु मर्त्येषु जायते | तथैव तमसि प्रवृद्धे प्रलीनः सन् मूढयोनिषु तिर्यक्स्थावरादिषु तमःप्रधानेषु जायते इति || १४, १५ || प्. ३११) प्रयाणसमये सत्त्वादिगुणवृद्धौ फलनिर्देशार्थमाह - कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् | रजसस्तु फलं दुःखमज्ञानं तमसः फलम् || १६ || सुकृतस्य सत्त्वविवृद्धौ सत्यां यथाशास्त्रं सम्यगनुष्ठितस्य कर्मणः यज्ञादेः क्रियाविशेषस्य सात्त्विकं सत्त्वगुणादागतं निर्मलं विशुद्धं विशिष्टज्ञानसुखस्वरूपं फलं भवतीति शेषः | रजसस्तु रजोविवृद्धौ सत्यां दुःखं फलं संशयादिदुष्टचित्तत्त्वात्, श्रद्धादिगुणविशुद्ध्यभावे यत् कर्म क्रियते तत् प्रवृत्तिलक्षणं दुःखमेव फलतीत्यर्थः | एवमेव तमसो विवृद्धौ सत्यां कृतस्य कर्मणो मोहादिदुष्टचित्तत्वात् शास्त्रविधिवैपरीत्येन प्रयुक्तस्य कर्मणः अज्ञानं मोह एव फलम् || १६ || संग्रहेण एतदेव आह - सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च | प्रमादमोहौ जायेते तमसोऽज्ञानमेव च || १७ || स्पटार्थः श्लोकः | एतस्य सत्त्वादीनां गुणानां पृथक्स्वरूपसमुदायाचारफलादिभेदप्रपञ्चप्रतिपादनस्य सर्वास्ववस्थासु तेषां वेद्यैकस्वरूपताप्रतिपादनतात्पर्यं वेदितव्यमिति || १७ || अस्य च प्रयोजनमाह - ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः | जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः || १८ || नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति | गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति || १९ || स्पटार्थौ श्लोकौ || १८, १९ || प्. ३१२) गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् | जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते || २० || शरीरविषयादिभावेन परिणताः सर्वे प्रकृतिविकाररूपा भावा देहसमुद्भवाः, सति हि देहे शरीरविषयात्मकत्वेन समुद्भवन्तीति तदात्मनैव उपलभ्यतामभिप्रपद्यन्ते | तत् एतान् प्रतिपादितस्वरूपान् त्रीन् सत्त्वादीन् गुणान्वेदकैकस्वभावात् स्वात्मनो व्यतिरेचनेन अतीत्य निस्तीर्य देही क्षेत्रज्ञस्तद्व्यतिरेचनादेव शरीरादितो निवृत्ताहङ्कारममकाराभिमानत्वात् शुद्धचिन्मात्रस्वभाव एव प्रतिष्ठिततात्त्विकाहङ्कारो गुणमयशरीरादिभावप्रतिबद्धैः जन्ममृत्युजरादुःखैः उत्पादविनाशपरिणामक्लेशैः विमुक्तो विवर्जितः सन् अमृतं परं ब्रह्म परमात्मानं अश्नुते प्राप्नोति तदभेदं गच्छतीत्यर्थः | किमनेन उक्तं भवति | गुणेभ्यः प्रतिपादितस्वरूपेभ्य आत्मनः स्वाभाविकविविक्तत्वभावना भूतप्रकृतेर्मोक्षो, नतु शरीरविषयादिरूपायास्तस्याः परिहारमात्रं मोक्ष इति || २० || अथ गुणातीतस्वरूपं विशेषतो जिज्ञासुरर्जुन उवाच - कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो | किमाचारः कथं चैतांस्त्रीन् गुणानतीवर्तते || २१ || कैर्लिङ्गैः अभिव्यञ्जकैर्लक्षणैः एतान् उक्तरूपान् गुणानतीतो भवति तेभ्यो विमुक्तः संपद्यते | यश्च गुणातीतः, स किमाचारः किं तस्य चेष्ठितमित्यर्थः | केन च प्रकारेण एतानतिवर्तते व्यतिक्रामति गुणातीतत्वप्राप्तिहेतुः को विधिरिति || २१ || प्रश्नत्रयनिर्णयार्थमुत्तरं भगवानुवाच - प्रकाशं च प्रव्.व्र्त्तिं च मोहमेव च पाण्डव | न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति || २२ || प्. ३१३) उदासीनवदासीनो गुणैर्यो न विचाल्यते | गुणा वर्तन्त इत्येवं यो ज्ञस्तिष्ठति नेङ्गते || २३ || समदुःखसुखस्वप्नः समलोष्टाश्मकाञ्चनः | तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः || २४ || मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः | सर्वारम्भफलत्यागी गुणातीतः स उच्यते || २५ || स एवंविधः श्लोकचतुष्टयप्रतिपाद्यविशेषणविशिष्टो गुणातीतः उच्यते इति संबन्धः | कोऽसौ | य एतानि वस्तूनि संप्रवृत्तानि सम्यगभिव्यक्तानि सन्ति न द्वेष्टि समाधिविपर्ययत्वात् तेषु अप्रीतिं न भजते इत्यर्थः | तथा निवृत्तानि अलब्धवृत्तय एव एते भवतु, इति न प्रार्थयते इत्यर्थः | कानि तानीत्याह प्रकाशं सत्त्वगुणस्य विवृद्ध्यभिव्यञ्जकं ज्ञानादिरूपं लिङ्गं, तथा प्रवृत्तिं रजोगुणस्य तथाविधं क्रियात्मकं लिङ्गं, तथा मोहं तमोगुणस्य तादृशमेव अज्ञानात्मकं लिङ्गमिति | एतेषु सत्त्वादिगुणवृद्धिचिह्नभूतेषु वस्तुषु प्रवृत्तिहेतुषु निवृत्तिहेतुषु वा नित्यनिर्विकारस्वरूपप्रतिष्ठत्वात् यो रागद्वेषाभ्यां मनागपि न आव्रियते, स गुणातीत उच्यते इति | एतन्मुख्यं गुणातीतसत्तालिङ्गम् | एतच्च गुणातीतलक्षणमुक्तं वक्ष्यमाणं च द्वितीये स्थिरप्रज्ञत्वलक्षणकथनप्रसङ्गेन प्रतिपादितमिहापि अनुवर्तनीयम् | ननु प्रवृत्तिमोहौ प्रवृतौ सन्तौ रजस्तमोविवृद्धिलिङ्गभूतावप्रकाशत्वात् द्वेष्यौ भवतां नाम योगिनः, प्रकाशस्तु सत्त्वविवृद्धिलिङ्गभूतःप्रवृत्तः सन् कस्य द्वेष्यो भवेत् येन उक्तं प्रकाशं च प्रवृत्तिं यो न द्वेष्टि स गुणातीतः इति | अत्र उच्यते इह अभ्यासयोगिनो रजस्तमोलिङ्गवत् सत्त्वलिङ्गमपि प्रकाशात्मकं प्रवृत्तं निषेध्यत्वात् प्. ३१४) द्वेष्यं भवति | तथा च पातञ्जले चितिशक्तिस्वरूपमुक्त्वा सत्त्वगुणात्मिका चेयमतोऽविपरीता विवेकख्यातिरित्यतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि | इति उक्तम् | कर्मयोगिनस्तु गुणातीतदशाधिरूढस्य विशेषोऽयमुक्तः यत्प्रकाशमपि प्रवृत्तं न द्वेष्टि, नच तस्य निवृत्तिमभिकाङ्क्षति | तथाहि सति द्वेषरागानुषङ्गात् गुणातीतता न घटते | तेन विशुद्धस्वभावाप्रच्युतसंविदः प्रकाशादीनि प्रवृत्तानि निवृत्तानि वा हेयतया उपादेयतया वा यस्य द्वेषरागौ न उद्भावयतः, स गुणातीत उच्यते; तदेतत् गुणातीतलिङ्गमित्यर्थः | तस्य लिङ्गान्तरमाह उदासीनवदासीनः इत्यादि | यो गुणैः प्रवृत्तैर्निवृत्तैर्वा न विचाल्यते स्वरूपात् न प्रच्याव्यते, स गुणातीत इति स्वरूपः | कुतो न विचाल्यते इति हेतुगर्भं विशेषणमाह उदासीनवदासीन इति यः परस्य सुखं दुःखं वा प्रवर्तमानं तेन अमिश्रीभूतचित्तत्वात् स्वस्थो निर्विकारस्तटस्थ एव पश्यति, स उदासीन इति उच्यते | तेन तुल्यः स एव प्रकाशादिप्रवृत्तिनिवृत्त्योः परकीययोरिव निर्विकार एव आसीनः स्वरूपविश्रान्तः | अत एव गुणा वर्तन्ते प्रवृत्तिमनुभवन्तीति | एतावति यो ज्ञो बोद्धा सन् तिष्ठति स्वस्थितिं भजते, अत एव नेङ्गते न स्वरूपात् चलति, स गुणातीत उच्यते तदस्य लिङ्गमित्यर्थः | एतेन कैर्लिङ्गैर्गुणातीतो भवतीत्यत्र उत्तरमुक्तम् | किमाचार इत्यत्र उत्तरमाह समदुःखसुख इत्यादि | दुःखसुखस्वप्ना इति रजःसत्त्वतमोवृत्तय उक्ताः | समा अविशेषेण निरूप्यमाणत्वात् तुल्यास्ते यस्य स तथोक्तः | न सुखे प्रीयते, न दुःखं द्वेष्टि, न स्वप्ने मुह्यतीत्येवंविधस्तस्य समाचारः | तुल्यो मित्रारिपक्षयोः प्. ३१५) इत्येतदन्तमनयैव दिशा किमाचार इत्यस्य उत्तरमेतत् | कथं च एतान् गुणानतिवर्तते इत्यत्र उत्तरमाह सर्व इत्यादि सर्वेषामारम्भाणां यज्ञतपोदानादिक्रियाविषयाणामुद्यमानां निरतिशयनिजानन्दनिर्भरनिर्भयस्वात्मोपासाप्रवणत्वात् फलस्य स्वर्गादिभोगप्राप्तिलक्षणस्य त्यागी निरभिसन्धानत्वात् वर्जयिता ज्ञाननिष्ठत्वेन फलाभिसन्धिशून्यतया शास्त्रोक्तस्वकर्मानुष्ठानलक्षणो विधिर्गुणातीतत्वप्राप्तिहेतुरित्यर्थः || २२-२४ || गुणातीतत्वप्राप्तिहेतुं परं विधिमाह - मां च योऽव्यभिचारेण भक्तियोगेन सेवते | स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते || २६ || यः च यथोक्तस्वरूपं मामव्यभिचारेण मद्व्यतिरिक्तविषयान्तरालम्बनव्यभिचाररहितेन भक्तियोगेन प्राक्प्रतिपादितचतुष्प्रकारेण भक्तिरूपेण समाधिना सेवते आर्तत्वादिज्ञानित्वपर्यन्तावस्थासमुचितविधिपूर्वमुपास्ते, स परां काष्ठां प्राप्तः सन् एतान् यथोक्तान् गुणान् समतीत्य अतिक्रम्य ब्रह्मभूयाय ब्रह्मभावाय कल्पते यथोक्तस्वरूपं ब्रह्मैव संपद्यते इति इदानीमेव उपायान्तरदुस्तरात् द्वैतमोहमहासागरादुत्तिर्णो भवतीत्यर्थः | यतो यथोक्तेन क्रमेण प्रत्यभिज्ञाताद्वयचिन्मात्रस्वरूपपरब्रह्मरूपे मयि परमात्मनि सुविश्रान्तसंविदो योगिनो नतु गुणरूपं किञ्चित् व्यतिरिक्तं पदार्थान्तरमवशिष्यते | यस्मात् यथाप्रतिपादितं तात्त्विकं मत्स्वरूपमेव अचिन्त्यमन्मायामहिम्नैव इदन्तया परामृश्यमानं यथा प्रकृत्याख्यभावस्वरूपतामापत्स्यते, तथैव तात्त्विका मद्धर्मा अमी अपरामृश्यमानाः सत्त्वादिगुणव्यपदेशभाजो भवन्ति | तथाच प्रकाशो नाम मद्धर्मो व्यतिरिक्तप्रकाश्यानपेक्षनित्योदितचिदात्मकज्योतिरूपः, प्. ३१६) स व्यतिरिक्तपरिमितप्रकाश्यनिष्ठतया तत्स्वरूपानुविधायित्वात् परिमितत्वमिव आपन्नः सत्त्वगुणव्यपदेशं लभते | एवं स्वरूपानुभवमात्रलक्षणक्रियात्मापि मद्धर्मः, स व्यतिरिक्तपरिमितप्रकाश्यनिष्ठतया रजोगुणव्यपदेशं लभते | तथा देशकालाद्यनवच्छिन्नमहिम्नि स्वाभाविकीनित्या या स्थितिः, सैव भिन्नाश्रयनिष्ठतया नियमात्मकतमोगुणव्यपदेशं लभते | एवं परामर्शवैचित्र्यात् भावनामात्रव्यापारो मायाशक्तिः प्रकृतिगुणादिभावविकल्पात्मकमत्यद्भुतमिदं त्रैलोक्यालेख्यमुल्लिखन्ती सर्वदेहिनो मोहयति | सैव यदा भक्तिरूपेण विजृम्भमाणया विद्याशक्त्या तिरस्कृता भवति, तदा पारमार्थिकं ब्रह्मैव एकं तत्त्वमवशिष्यते | तत उक्तं यो भक्तियोगेन मां सेवते, स ब्रह्मभूयाय कल्पते इति || २६ || अत्र हेतुमाह - ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || २७ || यस्मात् ब्रह्मणो यथोक्तस्य च परस्य तत्त्वस्य अहं प्रतिष्ठामयि तदव्यभिचारितया तत्त्वस्वरूपानुविधायि प्रतिष्ठितम् | यतः क्षेत्रज्ञक्षेत्रादिभावेन अवस्थितं ब्रह्मैव यद्यपि उक्तं, तथापि तदवच्छिन्नवस्तुनिष्ठतया तत्स्वरूपानुविधायि सर्वत्र प्रतिष्ठितम् | कीदृशस्य ब्रह्मणोऽहं प्रतिष्ठा | अमृतस्याव्ययस्य च न व्ययोऽपक्षयलक्षणओ विकारः, तेन रहितस्य; अत एव अमृतस्य नित्यसद्भावस्य | न केवलं ब्रह्मणोऽहं प्रतिष्ठा, यावत् तद्धर्मस्य शाश्वतिकस्य चित्प्रकाशात्मनोऽपि अहं प्रतिष्ठा, अनपेक्षितव्यतिरिक्तकारणः सहज आनन्द ऐकान्तिकं सुखं, तस्यापि अहं प्रतिष्ठा | किमुक्तं प्. ३१७) भवति | प्रकाशानन्दाक्षरत्वरूपं यत् परं ब्रह्म, सोऽहं भक्तिलक्षणेनैव एकेन उपायेन प्राप्य इत्योम् || २७ || यैस्तुच्छैस्त्रपुसीसताम्रमलिनैः सत्त्वादिभी रूपकै र्दौर्गत्यं भजते जनो व्यवहरन्संसारदीर्घापणे | सिद्धि चास्य रसे चतुर्दशमहाध्यायाभिधेयात्मके नीतास्ते परमार्थतां ददतु वो लक्ष्मीं क्षणादक्षयाम् || इति श्रीमद्राजानकरामकण्ठविरचिते वाक्यार्थान्वयमात्रे सर्वतोभद्रनाम्नि भगवद्गीताविवरणे चतुर्दशोऽध्यायः || १४ || ########### END OF FILE #######