#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00244 Uniform title: bhagavadgītā Main title: bhagavadgītārthasaṃgraha Secondary title: Bhagavadgīta with the Commentary of Abhinavagupta Commentator : abhinavagupta Editor : lakṣmaṇa ṛaina Brahmacārī Description: The Bhagavadgītā with the commentary of Abhinavagupta. Edited by Lakṣmaṇa Raina Brahmacārī (Laksman Joo). Notes: E-texts entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: February 05, 2012 . Publisher : Kashmiri Pratap Steam Press Publication year : 1933 Publication city : Shrinigar Publication country : India #################################################### गीतार्थसंग्रह य एष विततस्फुरद्विविधभावचक्रात्मकः परस्परविभेदवान्विषयतामुपागच्छति | यदेकमयभावनावशत एत्यभेदान्वयं स शंभुरशिवापहो जयति बोधभासां निधिः || १-१ || द्वैपायनेन मुनिना यदिदं व्यधायि सास्त्रं सहस्रशतसंमितमत्र मोक्षः | माधान्यतः फलतया प्रथितस्तदन्य- धर्मादि तस्य परिपोषयितुं प्रगीतम् || १-२ || मोक्षश्च नाम सकलाप्रविभागरूपे सर्वज्ञसर्वकरणादिशुभस्वभावे | आकाङ्क्ष्य विरहिते भगवत्यधीशे नित्योदिते लय इयान्प्रथिः समासात् || १-३ || यद्यप्यन्यप्रसङ्गेषु मोक्षो नामात्र गीयते | तथापि भगवद्गीताः सम्यक्तत्प्राप्तिदायिकाः || १-४ || तास्वन्यैः प्राक्तनैर्व्याख्याः कृता यद्यपि भूयसा | न्याययस्तथाप्युद्यमो मे तद्गूढार्थप्रकाशकः || १-५ || भट्टेन्दुराजादाम्नाय विविच्य च चिरं धिया | कृतोऽभिनवगुप्तेन सोऽयं गीतार्थसंग्रहः || १-६ || अथ प्रथमोऽध्यायः विद्याविद्यात्मनोर्द्वयोरभिभाव्याभिभावकात्मकत्वं प्रदर्शयितुं प्रथमाध्यायप्रस्तावः | नह्यनुत्पन्नविद्यालेशावकाश उपदेशभाजनम् नापि निर्मूलितसमस्ताविद्याप्रपञ्चः एककोटिविश्रान्तस्य तु ततः कोटेश्च्यावयितुमशक्यत्वात् | अज्ञविपर्यस्तयोस्तु उपदेश्यत्वं यदुच्यते तत्क्वचिदेव | तथात्वौन्मुख्योपदेष्टव्येऽर्थे सन्दिग्धतैव | अत एव संशयनिर्णोदक एवोपदेश इति विद्याविद्याङ्गसंघट्टमयः संशय उच्यते | देवासुरसृष्टिश्च विद्याविद्यामयीति तत्कथोपक्रमणमेव मोक्षमार्गोपदेशनम् | ज्ञानं च प्रधानं कर्माणि चापहर्तव्यानीति कर्मणां ज्ञाननिष्ठतया क्रियमाणानामपि न बन्धकत्वमिति ज्ञानप्राधान्यम् नान्तरीयकत्वं तु कर्मणाम् न तु ज्ञानकर्मणी समशीर्षकतया समुञ्चीयेते इत्यत्र तात्पर्यम् | एवमेव च मुनेरभिप्रायं यथास्थानं प्रतिपादयिष्याम इति किमन्यैस्तत्त्वदर्शनविघ्नमात्रफलैर्वाग्जालैः || धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्षत्रसमागमे | मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || १-१ || अत्र केचिद्व्याख्याविकल्पमाहुः-कुरूणां-करणानां यत्क्षेत्रं-अनुग्राहकम् अत एव सांसारिकधर्माणां सर्वेषां क्षेत्रं-उत्पत्तिनिमित्तत्वात् अयं स परमो धर्मो यद्योगेनात्मदर्शनम् (याज्ञव० स्मृ०) इत्यस्य च धर्मस्य क्षेत्रम् समस्तधर्माणां क्षयादपवर्गप्राप्त्या त्राणभूतम् तदधिकारि शरीरम् | सर्वक्षेत्राणां क्षदेर्हिंसार्थत्वात् परस्परवध्यघातकभावेन वर्तमानानां रागवैराग्यक्रोधक्षमाप्रभृतीनां समागमो यत्र तस्मिन् स्थिता ये मामकाः-अविद्यापुरुषोचिता अविद्यामयाः सङ्कल्पाः | पाण्डवाः-शुद्धविद्यापुरुषोचिता विद्यात्मनः | ते किमकुर्वत-कैः खलु के जिता इति यावत् | ममेति कायतीति मामकः अविद्यापुरुषः | पाण्डुः शुद्धः || १ || सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा | आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् || १-२ || पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् | व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता || १-३ || अत्र शूरा महेष्वासा भीमार्जुनसमा युधि | युयुधानो विराटश्च द्रुपदश्च महारथः || १-४ || धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् | पुरुजित् कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः || १-५ || युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् | सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः || १-६ || अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम | नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते || १-७ || सैन्ये महति ये सर्वे नेतारः शूरसम्मताः | भवान् भीष्मश्च कर्णश्च कृपः शल्यो जयद्रथः अश्वत्थामा विकर्णश्च सौमदत्तिश्च वीर्यवान् || १-८ || अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः | नानाशस्त्रप्रहरणा नास्ति नानायुद्धविशारदाः || १-९ || किंवानेन परिगणनेन इदं तावद्वस्तुतत्त्वमित्याह अपर्याप्तं तदस्माकं बलं भीमाभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् || १-१० || भीमसेनाभिरक्षितं पाण्डवीयं बलम् अस्माकमपर्याप्तं-जेतुमशक्यम् अथवा-अपर्याप्तं-कियत्तदस्मद्वलस्येत्यर्थः | इदं तु भीष्माभिरक्षितं बलमस्माकं संबन्धि एतेषां-पाण्डवानां पर्याप्तं-जेतुं शक्यम् यदि वा पर्याप्तं-बहु न समरे जययमेतैरिति || १-१० || अयनेषु च सर्वेषु यथाभागमवस्थिताः | भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि || १-११ || तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः | सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् || १-१२ || ततः शङ्खाश्च भीर्यश्च पणवानकगोमुखाः | सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् || १-१३ || ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ | माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः || १-१४ || पाञ्जजन्यं हृषीकेशो देवदत्तं धनञ्जयः | पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः || १-१५ || अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः | नकुलः सहदेवश्व सुघोषमणिपुष्पकौ || १-१६ || काश्यश्च परमेष्वासः शिखण्डी च महारथः | धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः || १-१७ || पाञ्चालश्च महेष्वासो द्रौपदेयाश्च पञ्च ये | सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् || १-१८ || स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् || १-१९ || अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः | प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः || १-२० || हृषीकेशं तदा वाक्यमिदमाह महीपते | अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || १-२१ || यावदेतान्निरीक्षेऽहं योद्ध्रुकामानवस्थितान् | कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे || १-२२ || योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः | धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः || १-२३ || सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत ! | सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || १-२४ || भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् | उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति || १-२५ || तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान् | आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा || १-२६ || श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि || १-२७ || तान्समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् | कृपया परयाविष्टो सीदमानोऽब्रवीदिदम् || १-२८ || अर्जुन उवाच दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समुपस्थितान् | सीदन्ति मम गात्राणि मुखं च परिशुष्यति || १-२९ || वेपथुश्च शरीरे मे रोमहर्षश्च जायते | गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते || १-३० || न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः | निमित्तानि च पश्यामि विपरीतानि केशव ! || १-३१ || न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे | न काङ्क्षे विजयं कृष्ण ! न च राज्यं सुखानि च || १-३२ || किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा | येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च || १-३३ || त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च | आचार्याः पितरः पुत्रास्तथैव च पितामहाः || १-३४ || मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा | एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ! || १-३५ || अपि त्रैलोक्यराज्यस्य हेतोः किमु महीकृते | अमी आचार्यादयः इति विशेषबुद्ध्या बुद्धावारोप्यमाणा वधकर्मतयावश्यं पापदायिनः | तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते इति बुद्ध्या क्रियमाणं युद्धेष्ववध्यहननादि तदवश्यं पातककारीति पूर्वपक्षाभिप्रायः | अत एव स्वधर्ममात्रतयैव कर्माण्यनुतिष्ठ न विशेषधिया-इत्युत्तरं दास्यते || ३५ || निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ! || १-३६ || पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः | तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् || १-३७ || निहत्येति आततायिनां हनने पापमेव कर्तृ | अतोऽयमर्थः पापेन तावदेतेऽस्मच्छत्रवो हताः परतन्त्रीकृताः तांश्च निहत्यास्मानपि पापमाश्रयेत् | पापमत्र लोभवशात् कुलक्षयादिदोषादर्शनम् || १-३६ || अत एव कुलक्षयादिधर्माणामुपक्षेपं करोति अर्जुनः स्वजनं हि कथं इत्यादिना स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ! | यद्यप्येते न पश्यन्ति लोभोपहतचेतसः || १-३८ || कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् | कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् || १-३९ || कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ! | कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः || १-४० || धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत | अधर्माभिभवात् कृष्ण ! प्रदुष्यन्ति कुलस्त्रियः || १-४१ || स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसङ्करः | सङ्करो नरकायैव कुलघ्नानां कुलस्य च || १-४२ || पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः | दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः || १-४३ || उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः | उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ! || १-४४ || नरके नियतं वासो भवतीत्यनुशुश्रुम | विशेषफलबुद्ध्या हन्तव्यादिविशेषबुद्ध्या च हननं महापातकमिति | एतदेव संक्षिप्याभिधातुं परितापातिशयसूचनायात्मगतमेवार्जुनो वचनमाह अहो वत महत्पापं कर्तुं व्यवसिता वयम् | यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः || १-४५ || वयमिति - कौरवपाण्डवभेदभिन्नाः सर्व एवेत्यर्थः || १-४५ || एवं सर्वेष्वविवेकिषु मम विवेकिनः किमुचितम् उचितं तावद्युद्धान्निवर्तनम् एतत्तूचिततरमित्याह यदिमामप्रतीकारमशस्त्रं शस्त्रपाणयः | धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् || १-४६ || सञ्जय उवाच एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानसः || १-४७ || अत्र संग्रहश्लोकः विद्याविद्योभयाघातसंघट्ट विवशीकृतः युक्त्या द्वयमपि त्यक्त्वा निर्विवेको भवेन्मुनिः || १-१ || इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भवद्गीतार्थसंग्रहे प्रथमोऽध्यायः | १ | इति शिवम् अथ द्वितीयोऽध्यायः सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् | विषीदन्तमिदं वाक्यमुवाच मधुसूदनः || २-१ || श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् | अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन || २-२ || आदौ लोकव्यवहाराश्रयेणैव श्रीभगवानर्जुनं प्रतिबोधयति क्रमात्तु ज्ञानं करिष्यतीति अतः अनार्यजुष्टम् इत्याह || २-२ || क्लैव्यादिभिर्निर्भर्त्सनमभिदधदधर्मे तव धर्माभिमानोऽयमित्यादि दर्शयति मा क्लैब्यं गच्छ कौन्तेन नैतत्त्वययुपपद्यते | क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || २-३ || अर्जुन उवाच कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन || २-४ || गुरूनहत्वा हि महानुभावा- ञ्छ्रेयश्चर्तुं भैक्षमपीह लोके | न त्वर्थकामस्तु गुरून्निहत्य भुञ्जीय भोगान् रुधिरप्रदिग्धान् || २-५ || भीष्मं द्रोणं च इत्यादिना भुञ्जीय भोगान् इत्यनेन च कर्मविशेषानु-सन्धानं फलविशेषानुसन्धानं च हेयतया पूर्वपक्षे सूचयति || ५ || नैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः | यानेव हत्वा न जिजीविषाम- स्ते नः स्थिताः प्रमुखे धार्तराष्ट्राः || २-६ || नैतद्विद्यः-इत्यनेन च कर्मविशेषानुसंधानमाह | निरभिसंधानं तावत्कर्म नोपपद्यते | न च पराजयमभिसंधाय युद्धे प्रवर्तते | जयोऽपि चायमनर्थ एव | तदाह अहत्वा गुरून् भैक्षमपि चर्तुं श्रेयः | एतच्च निश्चेतुमशक्यम्-किं जयं काङ्क्षामः किं वा पराजयम् जयोऽपि बन्धूनां विनाशात् || ६ || कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः | यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || २-७ || न हि प्रपश्यामि ममापनुद्या- द्यः शोकमुच्छोषणमिन्द्रियाणाम् | अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् || २-८ || सञ्जय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप | न योत्स्यानिति गोविन्दमुक्त्वा तूष्णीं बभूव ह || २-९ || तमुवाच हृषीकेशः प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये सीदमानमिदं वचः || २-१० || सेनयोरुभयोर्मध्ये-इत्यनेनेदं सूचयति-संशयाविष्टोऽर्जुनो नैकपक्षेण युद्धान्निवृत्तो यत एवमाह स्म-शाधि मां त्वां प्रपन्नम् इति || २-१० || अत उभयोरपि ज्ञानाज्ञानयोर्मध्यगः श्रीभगवतानुशिष्यते श्रीभगवानुवाच त्वं मानुष्येणोपहतान्तरात्मा विषादमोहाभिभवाद्विसंज्ञः | कृपागृहीतः समवेक्ष्य बन्धू- भिप्रपन्नान्मुखमन्तकस्य || २-११ || मानुष्यं-मनुष्यभावः | अन्तकमुखं स्वयमेते प्रविष्टा इति तव को बाधः || ११ || अशोच्यानन्वशोचस्त्वं प्रज्ञवन्नाभिभाषसे | गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः || २-१२ || शोचितुमशक्यं कलेवरं-सदा नश्वरत्वात् अशोचनार्हमात्मानं च शोचसि | न कश्चित् गतासुः - मृतः अगतासुः - जीवन्वा शोच्योऽस्ति | तथाहि-आत्मा तावदविनाशी नानाशरीरेषु संचरतः कास्य शोच्यता | न च देहन्तरसंचारे एव शोच्यता | एवं हि यौवनादावपि शोच्यता भवेत् || २-१२ || एवमर्थद्वयमाह नह्येवाहं जातु नासं न त्वं नेमे जनाधिपाः | न चैव न भविष्यामः सर्वे वयमितः परम् || २-१३ || देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा | तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति || २-१४ || अहं हि नैव नासम् अपि तु आसम् | एवं त्वम् अमी च राजानः || १३ || आकारान्तरे च सति यदि शोच्यता तर्हि कौमारात् यौवनावाप्तौ किमिति न शोच्यते | यो धीरः स न शोचति | धैर्यं च एतच्छरीरेऽपि यस्यास्था नास्ति तेन सुकरम् | अतस्त्वं धैर्यमन्विच्छ || २-१४ || अधीरास्तु मात्राशब्दवाच्यैरर्थैर्ये कृताः स्पर्शा इन्द्रियद्वारेणात्मना संबन्धाः तत्कृता याः शीतोष्णसुखदुःखाद्यावस्था अनित्याः तास्वपि शोचन्ति | न त्वेवं धीरा इत्याह मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः | आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ! || २-१५ || अथवा-मात्राभिः-इन्द्रियैर्येषां स्पर्शों न तु साक्षात्परमात्मना | आगमः-उत्पत्तिः | अपायो-विनाशः | एतद्युक्रांस्तितिक्षस्व-सहस्व || १५ || यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ! | समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते || २-१६ || ननु यत एवागमापायिन एते सर्वे दशाविशेषास्तत एव शोच्यन्ते ? मैवम् | तथाहि कोऽयमागमो नाम ? उत्पत्तिरिति चेत् | सापि का ? असत आत्मलाभः सा इति त्वसत् | असत्स्वभावता हि निःस्वभावता निरात्मता | निरात्मा च निःस्वभावः कथं स स्वभावीकर्तुं शक्यः अनीलं हि न नीलीकर्तुं शक्यम्-स्वभावान्तरापत्तेर्दुष्टत्वात् | तथा च शास्त्रम् नहि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेः | इति | अथ सत एवात्मलाभ उत्पत्तिः तदा लब्धात्मनोऽस्य जात्वपि अनभावात् नित्यतैवेत्यागमे का शोच्यता | एवमपायोऽपि सतोऽसतो वा | असत्तावदसदेव | सत्स्वभावस्यापि कथमसत्तास्वभावः | द्वितीये क्षणेऽसावसत्स्वभावः-इति चेत् आद्येऽपि तथा स्यादिति न कश्चिद्भावः स्यात् स्वभावस्यात्यागात् | अथ मुद्गरादिनास्य नाशः क्रियते | स यदि व्यतिरिक्तः भावस्य किं वृत्तम् ? न दृश्यते-इति चेत् मा नाम दर्शि भावः | न त्वन्यथाभूतः पटावृत इव | अव्यतिरिक्तस्तु नासावित्युक्तम् | तदेतत्संक्षिप्याह नासतो विद्यते भावो नाभावो विद्यते सतः | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः || २-१७ || अथ च लोकवृत्तेनेदमाह-असतो-नित्यविनाशिनः शरीरस्य न भावः-अनवरतमवस्थाभिः परिणामित्वात् | नित्यसतश्च-परमात्मनो नास्ति कदाचिद्विनाशोऽपरिणामधर्मत्वात् | तथा च वेदः अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा इति | (बृ० आ० ४| ५ | १४) अनयोः सदसतोरन्तः-प्रतिष्ठापदं यत्रानयोर्विश्रान्तिः || १७ || यस्तत्त्वदर्शिभिदृष्टः स खलु नित्योऽनित्यो वा-इत्याशङ्क्याह अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् | विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति || २-१८ || तुश्चार्थे | आत्मा च अविनाशी || १८ || तुश्चार्थे | आत्मा च अविनाशी || १८ || अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः | विनाशिनोऽप्रमेयस्य तस्माद्युद्ध्यस्व भारत ! || २-१९ || निरुपाख्यताकाले स्थूलविनाशयोगिनः तदन्यथानुपपत्तेरेव च विनाशिनः-प्रतिक्षणमवस्थान्तरभागिनः | यदुक्तं अन्ते पुराणतां दृष्ट्वा प्रतिक्षणं नवत्वहानिरनुमीयते | इति | मुनिनापि कलानां पृथगर्थानां प्रतिभेदः क्षणे क्षणे | वर्तते सर्वभावेषु सौक्ष्म्यात्तु न विभाव्यते || इति | पृथगर्थानामिति-पृथगर्थक्रियाकारित्वादिति यावत् | देहा अन्तवन्तो विनाशिनश्च | आत्मा तु नित्यः यतोऽप्रमेयः | प्रमेयस्य तु जडस्य परिणामित्वं न त्वजडस्य चिदेकरूपस्य स्वभावान्तरायोगात् | एवं देहा नित्यमन्तवन्तः इति शोचितुमशक्याः | आत्मा नित्यमविनाशी तेन न शोचनार्हः | तन्त्रेणायमकेः कृत्यप्रत्ययो द्वयोरर्थयोर्मुनिना दर्शित अशोच्यान् इति || १९ || य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते || २-२० || य एनमात्मानं देहं च हन्तारं हतं च वेत्ति तस्य अज्ञानम् अत एव स बद्धः || २० || न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः | अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे || २-२१ || एतदेव स्फुटयति-नायं भूत्वा-इति | अयमात्मा न न भूत्वा भविता अपितु भूत्वैव | अतो न जायते | न च म्रियते-यतो भूत्वा न न भविता अपितु भवितैव || २१ || वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुषः पार्थ हन्यते हन्ति वा कथम् || २-२२ || य एनमात्मानं प्रबुद्धत्वाज्जानाति न स हन्ति न स हन्यते इति तस्य कथं बन्धः || २२ || वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि | तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही || २-२३ || यथा वस्त्राच्छादितस्तद्वस्त्रनाशे समुचितवस्त्रान्तरावृतो न विनश्यति एवमात्मा देहान्तरावृतः || २३ || नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः | न चैनं क्लेदयन्त्यापो न शोषयति मारुतः || २-२४ || अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च | नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः || २-२५ || अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते | तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || २-२६ || नास्य नाशकारणं शस्त्रादि किंचित्करम् चिदेकस्वभावस्यानाश्रितस्य निरपेक्षस्य निरंशस्य स्वतंत्रस्य स्वभावान्तरापत्त्याश्रयविनाशावयवविभागविरोधिप्रादुर्भाव अदि-क्रमेण नाशयितुमशक्यत्वात् | न च देहान्तरगमनमस्यापूर्वम् | देहान्वितोऽपि सततं देहान्तरं गच्छति तेन संवध्यत इत्यर्थः देहस्य क्षणमात्रमप्यनवस्थायित्वात् | एवंभूतं विदित्वैनमात्मानं शोचितुं नार्हसि || २६ || अथवैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैनं शोचितुमर्हसि || २-२७ || अथाप्येनं देहं मन्यसे नित्यजातं प्रवाहस्याविनाशात् तथापि न शोच्यता | क्षणिकप्रक्रियया वा नित्यविनाशिनम् तथापि का शोच्यता | एवं यदि आत्मनस्तद्देहसंयोगवियोगाभ्यां नित्यजातत्वं नित्यमृतत्वं वा मन्यसे तथापि सर्वथा शोचनं प्रामाणिकानामयुक्तम् || २७ || न चैतदन्यथा नित्यत्वानित्यत्वमुपपत्तिमत्-यतः जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च | तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || २-२८ || जन्मन एवानन्तरं नाशो नाशादनन्तरं जन्म इति चक्रवदयं जन्ममरणसन्तान इति किं परिमाणं शोच्यतामिति || २८ || अपिच अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ! अव्यक्तनिधनान्येव तत्र का परिदेवना || २-२९ || नित्याः सन्तु अनित्या वा यस्तावदस्य शोचकस्तं प्रत्येव आदावव्यक्तः अन्ते चाव्यक्तः मध्येतस्य व्यक्तता विकार इति प्रत्युत विकारे शोचनीयं न स्वभावे | किंच यत्तन्मूलकारणं किंचिदभिमतं तदेव यथाक्रमं विचित्रस्वभावतया स्वात्ममध्ये दर्शिततत्तदनन्तसृष्टिस्थितिसंहृतिवैचित्र्यं नित्यमेव | तथास्वभावेऽपि कास्य शोच्यता || २९ || एवंविधं च आश्चर्यवत् पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैनमन्यः | आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् || २-३० || ननु यद्येवमयमात्मा अविनाशी किमिति सर्वेण तथैव नोपलभ्यते ? यतोऽद्भुतवत्कश्चिदेव पश्यति | श्रुत्वापि न कश्चिदेनं जानाति-वेत्ति || ३० || देही नित्यमवध्योऽयं देहे सर्वस्य भारत | तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || २-३१ || अतो नित्यमात्मनोऽविनाशित्वम् || ३१ || स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || २-३२ || स्वधर्मस्य चानपहार्यत्वात् युद्धविषयः कम्पो न युक्तः || ३२ || यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुकृतात्क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् || २-३३ || अन्येऽपि ये काममयाः क्षत्रियास्तैरपि ईदृशं युद्धं स्वर्गहेतुत्वान्न त्याज्यम् किं पुनर्यस्य ईदृशं ज्ञानमुपदिष्टमिति तात्पर्यम् | न पुनः स्वर्गपर्यवसायी श्लोकः || ३३ || यद्भयाच्च भवान् युद्धान्निवर्तेत तदेव शतशाखमुपनिपतिष्यति भवत इत्याह अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || २-३४ || अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् | सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते || २-३५ || भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || २-३६ || अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः | निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् || २-३७ || हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः || २-३८ || श्लोकपञ्चकमिदमभ्युपगम्य वादरूपमुच्यते यदि लौकिकेन व्यवहारेणास्ते भवांस्तथाप्यवश्यानुष्ठेयमेतत् || ३८ || सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि || २-३९ || तव तु स्वधर्मतयैव कर्माणि कुर्वतो न कदाचित्पापसम्बन्धः || ३९ || एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि || २-४० || एषा च तव सांख्ये-सम्यग्ज्ञाने बुद्धिः-निश्चयात्मिका उक्ता | एषैव च यथा योगे-कर्मकौशले योज्यते तथैव शृणु | यया बुद्ध्या कर्मणां बन्धकत्वं त्यक्ष्यसि | नहि कर्माणि स्वयं बध्नन्ति-जडत्वात् अतः स्वयमात्मा कर्मभिर्वासनात्मकैरात्मानं बध्नाति || ४० || नेहातिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते | स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् || २-४१ || अस्यां बुद्धौ अतिक्रमेण-अपराधेन प्रमादेन नाशो न भवति-प्रमादस्याभावात् | यथा च परिमितेन श्रीखण्डकणेन ज्वालायमानोऽपि तैलकटाहः सद्यः शीतीभवति एवमनया स्वल्पयापि योगबुद्ध्या महाभयं संसाररूपं विनश्यति || ४१ || न चैषा बुद्धिरपूर्वानीयते किंतर्हि व्यवसायात्मिका बुद्धिरेकैव कुरुनन्दन | बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् || २-४२ || व्यवसायात्मिका सर्वस्यैकैव सहजा धीः | निश्चेतव्यवशात्तु बहुत्वं गच्छति || ४२ || तथाच यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः | वेदवादरताः पार्थ नान्यदस्तीतिवादिनः || २-४३ || कामात्मानः स्वर्गपरा जन्मकर्मफलेप्सवः | क्रियाविशेषबहुला भोगैश्वर्यगतीः प्रति || २-४४ || भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् | व्यवसायात्मिका बुद्धिः समाधौ न विधीयते || २-४५ || ये कामाभिलाषिणस्ते स्वयमेतां वाचं वेदात्मिकां पुष्पितां-भविष्यत्स्वर्गफलेन व्याप्तां वदन्ति | अत एव जन्मनः कर्मैव फलमिच्छन्ति तेऽवपिश्चितः | ते च तयैव-स्वयंकल्पितया वेदवाचा अपहृतचित्ता व्यवसायबुद्धियुक्ता अपि न समाधियोग्याः-तत्र फलनिश्चयत्वादिति श्लोकत्रयस्य तात्पर्यम् || २-४५ || अत एव च त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || २-४६ || वेदास्त्रैगुण्येन करणेन विशेषेण सिन्वन्ति-बध्नन्ति न तु बन्धकाः | यस्मात् सुखदुःखमोहबुद्ध्या कर्माणि वैदिकानि क्रियमाणानि बन्धकानि अतस्त्रैगुण्यं-कामरूपं त्याज्यम् | यदि तु वेददूषणपरमेतदभविष्यत् प्रकृतं युद्धकरणं व्यघटिष्यत-वेदादन्यस्य स्वधर्मनिश्चायकत्वाभावात् | येषां तु फलाभिलाषो विगलितस्तेषां न वेदा बन्धकाः || ४६ || यतो वेदाः परं तेषां सम्यग्ज्ञानोपयोगिनः अत आह यावानर्थ उदपाने सर्वतः सम्प्लुतोदके | तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः || २-४७ || यस्य स्वधर्ममात्रे ज्ञाने च प्राधान्यं परिमितादपि वेदभाषितात्कार्यम् || ४७ || अतश्च कर्मण्यस्त्वधिकारस्ते मा फलेषु कदाचन | मा कर्मफलहेतुभूर्मा ते सङ्गोऽस्त्वकर्मणि || २-४८ || कर्ममात्रे त्वं व्यापृतो भव नतु कर्मफलेषु | ननु कर्मणि कृते नान्तरीयकतयैव फलमापतति इति ? मैवम् | तत्र हि यदि त्वं फलकामना-कालुष्यव्याप्तो भवसि तदा कर्मणां फलं प्रति हेतुत्वम् | यदप्रार्थ्यमानं फलं तत् ज्ञानम् | नानिच्छोस्तदिति कर्माभावेन यः सङ्गः स एव गाढग्रहरूपो मिथ्या-ज्ञानस्वरूपः इति त्याज्य एव || २-४८ || किंतर्हि योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते || २-४९ || योगे स्थित्वा कर्माणि कुरु | साम्यं च योगः || ४९ || यस्य सर्वे समारम्भ निराशीर्बन्धनास्त्विह | त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् || २-५० || यस्य सर्वे व्यापारा आशीरूपेण बन्धनेन न युक्ताः | अभिलाषो हि बन्धकः || ५० || दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः || २-५१ || बुद्धियोगात्किल हेतोरवरं-दुष्टफलं रिक्तं कर्म दूरीभवति | अतस्तादृश्यां बुद्धौ शरणमन्विच्छ-प्रार्थयस्व येन सा बुद्धिर्लभ्यते || ५१ || बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते | तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् || २-५२ || उभे इति परस्परव्यभिचारं दर्शयति | तस्मात्-यथाहि सुकृत्तदुष्कृते नश्यतस्तथाकरणमेव परमं कौशलमिति भावः || ५२ || कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः | जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् || २-५३ || योगबुद्धियुक्ताः कर्मणां फलं त्यक्त्वा जन्मबन्धं त्यजन्तिब्रह्मसत्तामवाप्नुवन्ति || ५३ || यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति | तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || २-५४ || श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला | समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || २-५५ || तत्र च योगबुद्धिप्राप्त्यवसरे व स्फुटमेवेदमभिज्ञानम् श्रोतव्यस्य श्रुतस्याभिलष्यमाणस्य च आगमस्य उभयस्यापि निर्वेदभाक्त्वम् | अनेन चेदमुक्तम्-अविद्यापदनिपतितप्रमात्रनुग्राहकशास्त्रश्रवणसंस्क् आर-विप्रलम्भमहिमा अयं - यत्तवास्थाने कुलक्षयादिदोषदर्शनम् तत्तु तथा शासनबहुमानविगलने विगलिष्यतीति || ५५ || अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव | स्थिरधीः किं प्रभाषेत किमासीत व्रजेच्च किम् || २-५६ || यदा स्थास्यति बुद्धिः-इत्यनेन वचसा समाधिस्थस्य योगिनो यः स्थितप्रज्ञशब्दस्तत्र वाचक उक्तस्तस्य का भाषा-किं प्रवृत्तिनिमित्तं भाष्यते येन निमित्तेन शब्दैरर्थ इति कृत्वा योगिनः स्थितप्रज्ञशब्दः किं रूढ्या वाचकोऽन्वर्थतया वा इति एकः प्रश्नः | यद्यपि रूढौ शङ्कैव नास्ति तथाप्यन्वर्थतां लब्धामपि स्वरूपलक्षणनिमित्तनिरूपणेन स्फुटीकर्तुमेष प्रश्नः | स्थिरधीरिति शब्दपदार्थकोऽर्थपदार्थकश्च तत्र स्थिरधीशब्दः किं प्रयोगलक्षणमेवार्थमाह आहो तपस्विनमपि इति द्वितीयः प्रश्नः | स च स्थिरधीर्योगी किमासीत्-किमभ्यस्येत्-क्वास्य स्थैर्यं स्यात् इति तृतीयः | अभ्यस्यंश्च किमाप्नुयात् इति चतुर्थः || ५६ || एतदेव प्रश्नचतुष्टयं क्रमेण निर्णीयते श्रीभगवता श्री भगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् | आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते || २-५७ || स्थिता रूढा प्रज्ञा यस्य | रूढिश्च नित्यमात्मरूढित्वे सति विषयविक्षेपकृतस्य कामरूपस्य भ्रमस्य निवृत्तत्वात् योगिनो यः स्थितप्रज्ञ-शब्दोऽन्वर्थः स चेत्थंयुक्त इत्येकः प्रश्नो निर्णीतः || ५७ || दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः | वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते || २-५८ || सुखदुःखयोर्यस्य रागद्वेषरहिता वृत्तिः स मुनिरेव स्थिरप्रज्ञो नान्यः || ५८ || युक्तं चैतत् यतः यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् | नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || २-५९ || शुभाशुभप्राप्तौ तस्याह्लादतापौ न भवतः || ५९ || यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यः स्थिरप्रज्ञस्तदोच्यते || २-६० || न चास्य पाचकवद्योगरूढित्वम् यदा यदा किलायमिन्द्रियाणि संहरते-आत्मन्येव कूर्म इवाङ्गानि क्रोडीकरोति विषयिभ्यो विषयान्निवार्य तदा तदा स्थिरप्रज्ञः | यद्वा-इन्द्रियार्थेभ्यः प्रभृति इन्द्रियाणि आत्मनि संहरते-विषयेन्द्रियादिकं सर्वमात्मसात्करोति || २-६० || ननु तपस्विनोऽपि कथं स्थिरप्रज्ञशब्दो न प्रवर्तते ? उच्यते- विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते || २-६१ || यद्यपि आहार्यैः-रूपादिभिर्विषयैः संबन्धोऽस्य नास्ति तथापि तस्य विषया अन्तःकरणगतमुपरागलक्षणं रसं वर्जयित्वा निवर्तन्ते | अतो नासौ स्थिरप्रज्ञः | योगिनस्तु परमेश्वरदर्शनादुपरागो न भवति अन्यस्य तु तपस्विनो नासौ निवर्तते || ६१ || यत्तस्यापि हि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः || २-६२ || यत्-यस्मात् तस्यापि-तपस्विनो मन इन्द्रियैर्हियते अथवा यत्तस्य-सयत्नस्यापि | योगिना च मन एव जेतव्यम् इति द्वितीयो निर्णीतः || ६२ || तानि संयम्य मनसा युक्त आसीत मत्परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता || २-६३ || य एवं मनसा इन्द्रियाणि नियमयति नतु अप्रवृत्त्या स एव स्थिरप्रज्ञः | स च मत्पर एवासीत-मामेव चिदात्मानं परमेश्वरं अभ्यस्येत् || ६३ || ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते | सङ्गात् सञ्जायते कामः कामात्क्रोधोऽभिजायते || २-६४ || क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः | स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यति || २-६५ || तपस्विनो विषयत्याग एव विषयग्रहणे पर्यवस्यति | ध्यात्वा हि ते त्यज्यन्ते | ध्यानकाल एव च सङ्गादय उपजायन्ते-इत्यनुपायो विषयत्यागः स्थिरप्रज्ञस्य || ६५ || रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || २-६६ || प्रसादे सर्वदुःखानां हानिरस्योपजायते | प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते || २-६७ || नास्ति बुद्धिरयुक्तस्य न चायुक्तम्य भावना | न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् || २-६८ || इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || २-६९ || तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः | इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || २-७० || यस्तु मनसो नियामकः स विषयान्सेवमानोऽपि न क्रोधादिकल्लोलैरभिभूयते इति स एव स्थिरप्रज्ञो योगी-इति तात्पर्यम् || ७० || योगी च सर्वव्यवहारान् कुर्वाणोऽपि लोकोत्तरः-इति निरूपयता परमेश्वरेण संक्षिप्यास्य स्वरूपं कथ्यते या निशा सर्वभूतानां तस्यां जागर्ति संयमी | यस्यां जाग्रति भूतानि सा रात्रिः पश्यतो मुनेः || २-७१ || या सर्वेषां भूतानां निशा-मोहनी माया तस्यां मुनिर्जागर्ति-कथमियं हेयेति | यस्यां च दशायां लोको जागर्ति-नानाविधां चेष्टां कुरुते सा मुनेः रात्रिः यतोऽसौ व्यवहारं प्रत्यबुद्धः | एतदुक्तं भवति-येयं माया खलु तस्या मोहकत्वं नामरूपं सुखतन्त्रताभासनं च | तत्र-लोकः प्राच्यं स्वरूपमस्या अपरामृश्यैव द्वितीयस्मिन्रूपे निबद्धस्मृतिरास्ते | योगी तु तद्विपरीतस्तदीयं मोहकत्वं तदुन्मूलनाय पश्यति सुखतन्त्रतां तु नाद्रियते | पश्यन् सम्यग्ज्ञानी मिथ्याज्ञानोपघाताच्च सुखतन्त्रतानादरः | पश्यत एव सा रात्रिरिति चित्रम् | विद्यायां चावधत्ते योगी यत्र सर्वो विमूढः | अविद्यायां त्वबुद्धः यत्र जनः प्रबुद्धः-इत्यपि चित्रम् || ७१ || अत एव आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् | तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी || २-७२ || योगी न कामार्थं बहिर्धावति अपि त्विन्द्रियधर्मतया | तं विषया अनुप्रविशन्तो न तरङ्गयन्ति नदीवेगा इवोदधिम् | एवं तृतीयो निर्णीतः || ७२ || विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः | निर्ममो निरहङ्कारः स शान्तिमधिगच्छति || २-७३ || स योगी सर्वकामसंन्यासित्वात् शान्तिरूपं मोक्षमेति || ७३ || एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति | स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || २-७४ || एषासौ ब्रह्मसत्ता यस्यां क्षणमात्रं स्थित्वा-अवस्थितिं प्राप्य शरीरभेदात् परमं ब्रह्माप्नोति इति प्रश्नचतुष्टयं निर्णीतमिति शिवम् || ७४ || अत्र संग्रहश्लोकः अहो नु चेतसश्चित्रा गतिस्त्यागेन यत्किल | आरोहत्येव विषयाञ्छ्रयंस्तांस्तु परित्यजेत् || २ || इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे द्वितीयोऽध्यायः || २ || अथः तृतीयोऽध्यायः ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन | तत्किं कर्मणि घोरे मां नियोजयसि केशव ! || ३-१ || व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे | तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् || ३-२ || कर्म उक्तं ज्ञानं च | तत्र न द्वयोः प्राधान्यं युक्तम् अपितु ज्ञानस्य | तद्बलेन क्षपणीयत्वं यदि कर्मणां बुद्धियुक्तो जहातीमे इत्यादिनयेन मूलत एव तत् कर्मणा किं प्रयोजनमिति प्रश्नाभिप्रायः || २ || श्रीभगवांस्तूत्तरं ददाति लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ | ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || ३-३ || लोके एषा द्वयी गतिः प्रसिद्धा | सांख्यानां ज्ञानं प्रधानं योगिनां च कर्मेति | मया तु सैकैव निष्ठोक्ता ज्ञानक्रियामयत्वात्संवित्तत्त्वस्येति भावः || ३ || तथाहि- न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते | न च संन्यसनादेव सिद्धिं समधिगच्छति || ३-४ || न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् | कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः || ३-५ || ज्ञानं कर्मणा रहितं न भवति कर्म च कौशलोपेतं ज्ञानरहितं न भवति इत्येकमेव वस्तु ज्ञानकर्मणी | तथा चोक्तं न क्रियारहितं ज्ञानं न ज्ञानरहिता क्रिया | ज्ञानक्रियाविनिष्पश्च आचार्यः पशुपाशहा || इति | तस्माज्ज्ञानान्तर्वर्ति कर्मापरिहार्यम् यतः परवश एव कायवाङ्मनसां परिस्पन्दात्मकत्वात् अवश्यं किंचित्करोति || ५ || कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् | इन्द्रियार्थान्विमूढात्मा मूढाचारः स उच्यते || ३-६ || कर्मेन्द्रियैश्चैन्न करोति अवश्यं तर्हि मनसा करोति | प्रत्युत मूढाचारः-मानसानां कर्मणामत्यन्तमपरिहार्यत्वात् || ६ || यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन | कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते || ३-७ || कर्मसु क्रियमाणेषु न ज्ञानहानिः-मनसोऽव्यापारे यन्त्रपुरुषवत्कर्मणः क्रियमाणत्वात् || ७ || अतः नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः | शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः || ३-८ || नियतं-शास्त्रीयं कर्म कुरु शरीरयात्रामात्रस्यापि कर्माधीनत्वात् || ८ || यतः यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः | तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर || ३-९ || यज्ञार्थात्-अवश्यकरणीयात् अन्यानि कर्माणि बन्धकानि | अवश्य-कर्तव्यं मुक्तफलसङ्गतया क्रियमाणं न फलदम् || ९ || सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् || ३-१० || प्रजापतिः-परमात्मा प्रजाः सहैव कर्मभिः ससर्ज | उक्तं च तेन प्रजानां कर्मभ्य एव प्रसवः सन्तानः एतान्येव चेष्टं संसारं मोक्षं वा दास्यन्ति | सङ्गात्संसारं मुक्तसङ्गत्वान्मोक्षम् || १० || यत्र येषां मोक्षप्राधान्यं तैरेव विषयाः सेव्या इत्युच्यते देवान्भावयतानेन ते देवा भावयन्तु वः | परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || ३-११ || देवाः-क्रीडनशीला इन्द्रियवृत्तयः करणेश्वर्यो देवता रहस्यशास्त्रप्रसिद्धाः ता अनेन कर्मणा तर्पयत-यथासंभवं विषयान्भक्षयतेत्यर्थः | तृप्ताश्च सत्यस्ता वो-युष्मान् आत्मन एव स्वरूपमात्रोचितापवर्गान् भावयन्तु-स्वात्म-स्थितियोग्यत्वात् | एवमनवरतं व्युत्थानसमाधिसमयपरम्परायामिन्द्रियतर्पणतदात्म-साद्भाव लक्षणे परस्परभावने सति शीघ्रमेव परमं श्रेयः-परस्परभेदविगलनलक्षणं ब्रह्म प्राप्स्यथ || ११ || न केवलमित्थमपवर्गे यावत्सिद्धिलाभेऽप्ययं मार्ग इत्याह इष्टान्कामान्हि वो देवा दास्यन्ते यज्ञभाविताः | तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः || ३-१२ || यज्ञतर्पितानि हीन्द्रियाणि स्थितिं बध्नन्ति यत्र क्वापि ध्येयादाविति | अत एव तद्व्यापारे सति तेषां विषयाणां स्मृतिसंकल्पध्यानादिना भावाः-विषया इन्द्रियैरेव दत्ताः यदि तेषामेव उपभोगाय न दीयन्ते तर्हि स्तेनत्वं-चौर्यं स्यात् छद्मचारित्वात् | उक्तं हि पूर्वमेव भगवता मूढाचारः स उच्यते इति | अतोऽयं वाक्यार्थः-यः सुखोपायं सिद्धिमपवर्गं वा प्रेप्सति तेन इन्द्रियकौतुकनिवृत्ति-मात्रफलतयैव भोगा यथोपनतमासेव्या इति || १२ || यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः | भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् || ३-१३ || अवश्यकर्तव्यतारूपशासनमहिमायातान्भोगान् येऽश्नन्ति अवान्तरव्यापारमात्रतया अत एव च पृथग्फलत्वाभावाङ्गतया | अथ च-इन्द्रियात्मकदेवगणतर्पणलक्षणयज्ञात् अवशिष्टम्-अन्तःसारस्वात्मस्थित्यानन्दलक्षणविघसं येऽश्नन्ति-तत्रारूढा भवन्ति तदुपादेयोपायतया तु विषयभोगं वाञ्छन्ति ते सर्वकिल्विषैः-शुभाशुभैर्मुच्यन्ते | ये तु आत्मकारणादिति-अविद्यावशात् स्थूलमेव विषयभोगं परत्वेन मन्वानाः आत्मार्थमिदं वयं कुर्मः-इति कुर्वते | त एव अघं-शुभाशुभात्मकं लभन्ते || १३ || अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः | यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || ३-१४ || कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् | तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् || ३-१५ || अन्नात्-अविभागभोग्यस्वभावात् कथञ्चिन्मायाविद्याकालाद्यनेकापरपर्यायात् भूतानि विचित्राणि भवन्ति | तच्चान्नं पर्जन्यात्-अविच्छिन्नसंवित्स्वभावादात्मनः भोक्तृतन्त्रात्मलाभत्वाद्भोग्यतायाः | स च पर्जन्यो-भोक्ता यज्ञात् भोगक्रियायत्तत्वाद्भोक्तृत्वस्य | भोगक्रिया च कर्मणः-क्रियाशक्तिस्वातन्त्र्यबलात् | तच्च स्वातन्त्र्यम्-अविच्छिन्नमपि अनवच्छिन्नानन्तस्वातन्त्र्यपूर्णसमुच्छलन्महेश्वरभावपरमात्म् अ-ब्रह्मसंस्पर्शवशात् | तच्च उच्छलदच्छानाच्छादितैश्वर्यं ब्रह्म-अक्षरात्-प्रशान्ताशेषैश्वर्यतरङ्गात्संविन्मात्रात् | इत्येवं सुव्यवस्थितोऽयं यज्ञः षडरं चक्रं वाहयन् अरात्रयसन्धानादपवर्गम् अरात्रयतन्त्रणाद्व्यवहारमासूत्रयति | इति विद्याविद्योल्लासतरङ्गसुभगं ब्रह्म यज्ञे एव प्रतिष्ठितम् | अन्ये तु-अन्नं तावद्वीर्यलोहितक्रमेण भूतकारणम् अन्नं च वृष्टिद्वारेण पर्जन्यात् सोऽपि यज्ञात् यज्ञः क्रियातः सा च ज्ञानपूर्विका ज्ञानमक्षरात् इति | अपरे तु-अन्नम्-अद्यमानं विषयपञ्चकमाश्रित्य भूतानि-इन्द्रियाणि विषयाश्चात्मस्फुरितरूपाः | अत आत्मैव विषयोपभोगेन | पोष्यते | अतश्च सर्वगतं ब्रह्म कर्मणि प्रतिष्ठितम्-तन्मयत्वात्तस्य || १५ || एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः | अघायुरिन्द्रियारामो मोघं पार्थ स जीवति || ३-१६ || यस्त्वेवं नाङ्गीकरोति स पापमयः | यतः स इन्द्रियेष्वेव रमते नात्मनि || १६ || यश्चात्मरतिरेव स्यादात्मतृप्तश्च मानवः | आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते || ३-१७ || नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन | न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः || ३-१८ || आत्मरतेस्तु-कर्मेन्द्रियव्यापारतयैव कुर्वतः करणाकरणेषु समता | अत एव नासौ भूतेषु किंचिदात्मप्रयोजनमपेक्ष्य निग्रहानुग्रहौ करोति अपितु करणीयमिदम्-इत्येतावता || १८ || कर्मणैव हि संसिद्धिमास्थिता जनकादयः | लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि || ३-१९ || तदत्र कुर्वतामपि सिद्धौ जनकादयो दृष्टान्ताः || १९ || यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते || ३-२० || न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन | नानवाप्तमवाप्तव्यं प्रवर्तेऽथ च कर्मणि || ३-२१ || यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः | मम वर्त्मानुवर्तेरन्मनुष्याः पार्थ सर्वशः || ३-२२ || उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् | सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः || ३-२३ || तस्मादसक्तः सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः || ३-२४ || सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत | कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || ३-२५ || प्राप्तप्रापणीयस्य परिपूर्णमनसोऽपि कर्मप्रवृत्तौ लोकानुग्रहः प्रयोजनम्-इत्यत्र श्रीभगवानात्मानमेव दृष्टान्तमकरोति | तस्मादसक्त एव करणीयं कर्म कुर्यात् | किंच विदितवेद्यः | कर्म चेत् त्यजेत् तल्लोकानां दुर्भेद एवैकप्रसिद्धपक्षशिथिलितास्थाबन्धत्वेनाप्ररूढिलक्षणो जायते | यतः कर्मवासनां च न मोक्तुं शक्नुवन्ति ज्ञानधारां च नाश्रयितुम् | अथ च शिथिलीभवन्ति || २५ || यतस्ते न सम्यग्ज्ञानेन पूताः अतो बुद्धेर्भेदनं-विचालनं तेषां परमोऽनर्थ इत्यनुग्रहाय भेदयेन्न धियमेषाम् तदाह न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् | जोषयेत् सर्वकर्माणि विद्वान्युक्तः समाचरन् || ३-२६ || स्वयं चैवं बुद्ध्यमानः कर्माणि कुर्यात् | न च लोकानां बुद्धिं भिन्द्याद् || २६ || अज्ञानमित्युक्तं तदज्ञत्वं दर्शयति प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः | अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || ३-२७ || प्रकृतिसंबन्धिभिर्गुणैः सत्त्वाद्यैः किल कर्माणि क्रियन्ते | मूढश्चाहं कर्तेत्यध्यवस्य मिथ्यैवात्मानं बध्नाति || २७ || तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः | गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते || ३-२८ || गुणकर्मविभागतत्त्ववित्तु प्रकृतिः करोति मम किमायातम्-इत्यात्मानं मोचयति || २८ || कर्मसङ्गिनामित्युक्तम् तत् कर्मसङ्गित्वं दर्शयति प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु | तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् || ३-२९ || प्रकृतिसंबन्धिभिर्गुणैः सत्वाद्यैः कृतेषु कर्मषु मूढाः सज्जन्ति सत्त्वादिगुणमाहात्म्यात् | तस्माद्युक्तः सन् जुषेत कर्माणि इत्युक्तम् || २९ || तत्र कथम् इति स्फुटयति- मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा | निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः || ३-३० || मयि सर्वाणि कर्माणि नाहं कर्ता-इति संन्यस्य स्वतन्त्रः परमेश्वर एव सर्वकर्ता नाहं कश्चित्-इति निश्चित्य लोकानुग्रहं चिकीर्षुर्लोकाचारं युद्धात्मकमनुतिष्ठ || ३० || ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते सर्वकर्मभिः || ३-३१ || एतच्च मतमाश्रित्य यः कश्चिद्यत्किंचित्करोति तत्तस्य न बन्धकम् || ३१ || ये त्वेतदभ्यसूयन्तो नानुवर्तन्ति मे मतम् | सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः || ३-३२ || एतस्मिंस्तु ज्ञाने ये न श्रद्धालवस्ते विनष्टाः-अविरतं जन्ममरणादिभयभावितत्वात् || ३२ || सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || ३-३३ || योऽपि च ज्ञानी न तस्य व्यवहारे भोजनादौ विपर्यासः कश्चित् अपितु सोऽपि सत्त्वाद्युचितमेव चेष्टते | एवमेव जानन् यतो भूतानां-पृथिव्यादीनां प्रकृतौ विलयः आत्मा चाकर्ता नित्यमुक्तः इति कस्य जन्मादिनिग्रहः || ३३ || कथं तर्हि बन्धः ? इत्थमुच्यते- इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ | तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ || ३-३४ || श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मोदयादपिः || ३-३५ || संसारी च प्रतिविषयं रागं द्वेषं च गृह्णाति | यतः कर्माणि आत्मकर्तृकाण्येव विमूढत्वादभिमन्यते इति सममपि भोजनादिव्यवहारं कुर्वतोर्ज्ञानिसंसारिणोरस्त्ययं विशेषः | अयं नः सिद्धान्तः-सर्वथा मुक्तसंगस्य स्वधर्मचारिणो नास्ति कश्चित्पुण्यपापात्मको बन्धः | स्वधर्मो हि हृदयादनपायी स्वरसनिरूढ एव | न तेन कश्चिदपि रिक्तो जन्तुर्जायते-इत्यत्याज्यः || ३५ || अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः | अनिच्छमनोऽपि बलादाक्रम्येव नियोजितः || ३-३६ || पापं पापतया विदन्नपि जनः कथं तत्र प्रवर्तते ? इति प्रश्नः | अस्य प्रश्नस्योत्थानेऽयमाशयः-स्वधर्मो यदि स्वहृदयादनपायित्वादत्याज्यः कथं तर्ह्यधर्माचरणमेषामिति | कोऽयं स्वधर्मो नाम येनारिक्तो जन्तुः-इत्युक्तं भवति || ३६ || अत्रोत्तरं सत्यपि स्वधर्मे हृदिस्थे आगन्तुकावरणकृतोऽयं विल्पवः न तु तदभावकृतः-इत्याशयेन- श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः | महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् || ३-३७ || द्वाभ्यामेतच्छब्दाभ्यामनयोरत्यन्तावैषम्यं सूच्यते एतौ च कामक्रोधौ नित्यसंबन्धिनावन्योन्याविनाभावेन वर्तेते इत्येकरूपतयैव व्याचष्टे | एष च महस्य- सुखस्य अशनो-ग्रासकारकः महतः पापस्य हेतुत्वाच्च क्रोध एव पापदायी | एनं च वैरिणं प्राज्ञो जानीयात् || ३७ || ननु अर्थाद्युपघातकं ज्ञातस्वरूपं च वस्तु हातुं सुशकं भवेत्-इत्यभिप्रायेणार्जुन उवाच भवत्येष कथं कृष्ण कथं चैव विवर्धते | किमात्मकः किमाचारस्तन्ममाचक्ष्व पृच्छतः || ३-३८ || अस्य चोत्पत्तौ किं कारणं वर्धने च को हेतुः स्वरूपं चास्य कीदृक् उत्पन्नौ रूढीभूतश्च किमाचरति-किं करोति ? इति प्रश्नाः || ३८ || अत्रोत्तरं- श्रीभगवानुवाच एष सूक्ष्मः परः शत्रुर्देहिनामिन्द्रियैः सह | सुखतन्त्र इवासीनो मोहयन्पार्थ तिष्ठति || ३-३९ || एष तावत्सूक्ष्मः-उत्पत्तिसमयेऽलक्ष्य इन्द्रियेषु | एवं च वर्तमानः सुखं तन्त्रयितुमिवोत्पद्यते वस्तुतस्तु दुःखमोहमयः-तामसत्वात् | अत एव मोहयन् || ३९ || कामक्रोधमयो घोरः स्तम्भहर्षसमुद्भवः | अहङ्कारोऽभिमानात्मा दुस्तरः पापकर्मभिः || ३-४० || स्तम्भः-कुलाद्यभिमानः तत्कृतो यो हर्षः-अहमीदृशः-इति | अत एवाह-अहंकार इति || ४० || हर्षमस्य निवर्त्यैष शोकमस्य ददाति च | भयं चास्य करोत्येष मोहयंस्तु मुहुर्मुहुः || ३-४१ || अत एव च गर्वाद्वर्धतेऽभिमानस्वभावः सुखबुद्धिप्रकारेण च जायते इति त्रयः प्रश्नाः परिहृताः || ४१ || स एष कलुषी क्षुद्रश्छिद्रप्रेक्षी धनञ्जय | रजःप्रवृत्तो मोहात्मा मनुष्याणामुपद्रवः || ३-४२ || स एष इति च्छिद्राणि प्रेक्षते-अमुना च्छिद्रेणास्येहलोकपरलोकौ नाशयामि-इति | तथा च मोक्षधर्मेषु | अर्जुन उवाच यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यते यज्जुहोति | वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य || इति | रजसः प्रवृत्तस्तमोरूप इत्यर्थः || ४२ || धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च | यथोल्वेनावृतो गर्भस्तथा नेनायमावृतः || ३-४३ || दृष्टान्तत्रयेण दुरपसर्पत्वम् अकार्यकरत्वं युगुप्सास्पदत्वं चोक्तम् | अयमिति-आत्मा || ४३ || आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च || ३-४४ || कामरूप इच्छायां यतश्चरति | अनलेन च-अग्निनेव पूरयितुमशक्येन-दृष्टादृष्टद्वयदाहकत्वात् || ४४ || इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते | एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् || ३-४५ || आदौ इन्द्रियेषु सत्सु तिष्ठति | यथा चक्षुषा शत्रुर्दृष्ट इन्द्रियप्रदेशे एव क्रोधमात्मनो जनयति | ततो मनसि-संकल्पे | ततो बुद्धौ-निश्चये | एतद्वारेण मोहं जनयन् ज्ञानं नाशयति || ४५ || अस्य निवारणे उपायमाह तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ | पाप्मानं प्रजहीह्येनं ज्ञानविज्ञाननाशनम् || ३-४६ || तस्मादादाविन्द्रियाणि नियमयेत्-क्रोधादिकमिन्द्रियेषु प्रथमं न गृह्णीयात् | ज्ञानं-ब्रह्म विज्ञानं च-भगवन्मयीं क्रियां नाशयति | हि-यतः अतः पाप्मानं क्रोधं त्यज | अथवा-ज्ञानेन-मनसा विज्ञानेन-बुद्ध्या च नाशनं-वारणं कृत्वा इति क्रियाविशेषणम् इन्द्रियेषूत्पन्नं संकल्पे न गृह्णीयात् | संकल्पितं वा न निश्चिनुयादिति तात्पर्यम् || ४६ || अत्र युक्तिं श्लोकद्वयेनाह इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः | मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः || ३-४७ || एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना | जहि शत्रुं महाबाहो कामरूपं दुरासदम् || ३-४८ || यत इन्द्रियाणि शत्रुलक्षणाद्विषयादन्यानि | तेभ्यश्चान्यन्मनः | तस्मादपि बुद्धेर्व्यतिरेकः | बुद्धेरपि यस्यान्यस्वभावत्वं स आत्मा | एवमिन्द्रियोत्पन्नेन क्रोधेन कथं मनसो बुद्धेरात्मनो वा क्षोभः ? इति पर्यालोचयेदित्यर्थः | रहस्यविदां त्वयमाशयः-बुद्धेर्यः परत्र वर्तते परोऽहंकारः-सर्वमहम्-इत्यभेदात्मा स खलु परमोऽभेदः | अत एव च परिपूर्णस्य खण्डनाभावान्न क्रोधादय उदयन्ते | अतः परमहंकारं-परोत्साहसंविदात्मकं गृहीत्वा क्रोधम् अविद्यात्मानं शत्रुं जहीति शिवम् || ४८ || अत्र संग्रहश्लोकः घनानि दारान्देहं च योऽन्यत्वेनाधिगच्छति | किं नाम तस्य कुर्वन्ति क्रोधाद्याश्चित्तविभ्रमाः || ३ || इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे तृतीयोऽध्यायः || ३ || अथ चतुर्थोऽध्यायः श्रीभगवानुवाच एवं विवस्वते योगं प्रोक्तवानहमव्ययम् | विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || ४-१ || एवं परम्पराप्राप्तमिमं राजर्षयो विदुः | स कालेनेह महता योगो नष्टः परन्तप || ४-२ || एतच्च गुरुपरम्परया प्राप्तमपि अद्यत्वे नष्टम् इत्यनेन भगवानस्य ज्ञानस्य दुर्लभतां गौरवं च प्रदर्शयति || २ || स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः | भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् || ४-३ || भक्तोऽसि मे सखा चेति त्वं भक्तो मत्परमः सखा च | चशब्देनान्वाचय उच्यते | तेन यथा भिक्षाटने भिक्षाणां प्राधान्यं गवानयने त्वप्राधान्यम् | एवं भक्तिरत्र गुरुं प्रधानं न सखित्वमपीति तात्पर्यार्थः || ३ || अर्जुनो भगवत्स्वरूपं जानन्नपि लोके स्फुटीकर्तुं पृच्छति- अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः | कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || ४-४ || श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन | तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप || ४-५ || अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् | प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया || ४-६ || यदा यदा हि धर्मस्य ग्लानिर्भवति भारत | अभ्युत्थानमधर्मस्य तदात्मांशं सृजाम्यहम् || ४-७ || श्रीभगवान्किल पूर्णषाड्गुण्यत्वाच्छरीरसंपर्कमात्ररहितोऽपि स्थितिकारित्वात्कारुणिकतया आत्मांशं सृजति | आत्मा-पूर्णषाड्गुण्यः अंशः-उपकारकत्वेनाप्रधानभूतो यत्र तदात्मांशं-शरीरं गृह्णातीत्यर्थः || ७ || परित्राणाय साधूनां विनाशाय च दुष्कृताम् | धर्मसंस्थापनार्थाय सम्भवामि युगे युगे || ४-८ || जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः | त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन || ४-९ || अत एवास्य जन्म दिव्यं यत आत्ममायया योगप्रज्ञया स्वस्वातन्त्र्यशक्त्या आरब्धं न कर्मभिः | कर्मापि दिव्यं-फलदानासमर्थत्वात् | यश्चैवमेतत्तत्वं वेत्ति-आत्मन्यप्येवमेव मन्यते सोऽवश्यं भगवद्वासुदेवतत्त्वं जानाति || ९ || वीतरागभयक्रोधा मन्मया मद्व्यपाश्रयाः | बहवो ज्ञानतपसा पूता मद्भावमागताः || ४-१० || तथा चैव विदन्तः मन्मयत्वात्परिपूर्णेच्छत्वात् क्रोधादिरहिता निष्फलं कर्म करणीयं कुर्वाणा बहवो मत्स्वरूपमवाप्ताः || १० || यतः- ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् | मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ४-११ || प्. १११) ये ययैव बुद्ध्या मामाश्रयन्ते तान्प्रति तदेव स्वरूपं गृह्णंस्ताननुगृह्णामि | एवमेव मदीयं मार्गं मन्मया अमन्मयाश्च सर्वे एवानुवर्तन्ते नहि ज्योतिष्टोमादिरन्यो मार्गः मदीयैव सा तथेच्छा | वक्ष्यते हि चातुर्वर्ण्य मया सृष्टम् इति | अन्यस्त्वाह-लिङर्थे लट् | यथा अतिरात्रे षोडशिनं गृह्णन्ति-गृह्णीयुरित्यर्थः | एवमिहापि अनुवर्तन्ते-अनुवर्तेरन्निति || ११ || काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः | क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || ४-१२ || मानुष एव लोके भोगापवर्गलक्षणा सिद्धिर्नान्यत्र इति || १२ || चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः | तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || ४-१३ || न मां कर्माणि लिम्पन्ति न मे कामः फलेष्वपि | इति मां योऽभिजानाति कर्मभिर्न स बध्यते || ४-१४ || मम किल कथमाकाशकल्पस्य कर्मभिर्लेपः | आकाशप्रतिमत्वं कामनाभावात् | इत्यनेन ज्ञानप्रकारेण यो भगवन्तमेवाश्रयते सर्वत्र सर्वदा आनन्दघनं परमेश्वरमेव न वासुदेवात्परमस्ति किंचित् इति नीत्या विमृशति तस्य किं कर्मभिर्बन्धः || १४ || एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः | कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् || ४-१५ || तस्मादनया बुद्ध्या पवित्रीकृतस्त्वमपि कर्माणि-अवश्यकर्तव्यानि कुरु || १५ || अथोच्यते अकरणादेव सिद्धिः - इति | तन्न यतः किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः | तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || ४-१६ || कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः | अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः || ४-१७ || कर्माकर्मणोर्विभागो दुष्परिज्ञानः | तथा च-विहितकर्मण्यपि मध्ये दुष्टं कर्मास्ति-अग्निष्टोम इव पशुवधः | विरुद्धेऽपि च कर्मणि शुभमस्ति कर्म | तथाहि हिंस्रप्राणिवधे प्रजोपतापाभावः | अकरणेऽपि च शुभाशुभं कर्मास्ति-वाङ्मनसकृतानां कर्मणामवश्यंभावात् तेषां ज्ञानमन्तरेण दुष्परिहरत्वात् | अतः कुशलैरपि गहनत्वात्कर्म न ज्ञायते अनेन शुभकर्मणा शुभमस्माकं भविष्यति अनेन च कर्मणामनारम्भेण मोक्षो न भविष्यति-इति | तस्माद्वक्ष्यमाणो विज्ञानवह्निरेवावश्यं सकलशुभाशुभकर्मेन्धनप्लोषसमर्थः शरणत्वेनान्वेष्य-इति भगवतोऽभिप्रायः || १७ || तमेवोद्बोधयितुमाह- कर्मण्यकर्म यः पश्यत्यकर्मणि च कर्म यः | स बुद्धिमान् मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् || ४-१८ || कर्मणीति-आत्मीयेषु कर्मसु यः अकर्तृत्वादकर्मत्वं पश्यति प्रशान्ततया | अकर्मसु च-परकृतेषु आत्मकृतत्वं जानाति परिपूर्णोदितस्वरूपत्वेन | स एव सर्वस्व मध्ये बुद्धिमान् कार्त्स्न्येन-साकल्येनासौ कर्म करोति | अतोऽस्य केन कर्मणा फलं दीयताम् इत्युदितदशायाम् | प्रशान्तत्वे तु कृत्स्नानि कर्माणि कृन्तति च्छिनत्ति | अतः सर्वमेव करोति न किंचिद्वा करोति-इत्युपनिषत् || १८ || यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः || ४-१९ || अत एव कामेषु-काम्यमानेषु फलेषु सङ्कल्पं विहाय क्रियमाणानि कर्माणि कथितकथयिष्यमाणस्वरूपे ज्ञानाग्नावनुप्रविश्य दह्यन्ते || १९ || त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः | कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः || ४-२० || अभिप्रवृत्तोऽपि-आभिमुख्येन प्रवृत्तोऽपि || २० || निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् || ४-२१ || शरीरोपयोगि इन्द्रियव्यापारात्मकं कर्म शारीरं यन्मनोबुद्धिभ्यां न तथानुरञ्जितम् || २१ || यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः | समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते || ४-२२ || कर्मकर्तरि प्रयोगः स्वयमेव ह्यात्मा आत्मानं बध्नाति फलवासनाकालुष्यमुपाददान इत्यर्थः | अन्यथा जडानां कर्मणां बन्धने स्वातन्त्र्यं न तथा हृदयंगमम् || २२ || गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः | यज्ञायारभतः कर्म समग्रं प्रविलीयते || ४-२३ || यज्ञायेति-जातावेकवचनम् | यज्ञाः-वक्ष्यमाणलक्षणाः || २३ || यज्ञायेत्युक्तम्-तत्स्वरूपं सामान्यं तावदाह ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना || ४-२४ || ब्रह्मण्यर्पणं-तत एव प्रवृत्तस्य पुनस्तत्रैवानुप्रवेशनं यस्य तत् | ब्रह्म-समग्रं विश्वात्मकं यदेतत् हविस्तत् | ब्रह्मणि-परमबोधे प्रशान्तेऽग्नौ | ब्रह्मणा-येनकेनचित्कर्मणा हुतं-तद्दीप्त्यभिवृद्धये समर्पितम् इतीदृशं ब्रह्मकर्मैव समाधिर्यस्य योगिनस्तेन ब्रह्मैव गन्तव्यं ज्ञेयं नान्यत्किंचिदन्याभावात् | यदिवा तदर्थेन यदर्थाक्षेपादेवंसंबन्धः-यत्खलु ब्रह्मस्वरूपेण यजमानेन ब्रह्माग्नौ ब्रह्महविर्हुतं ब्रह्मणि ब्रह्मस्वभावदेवतोद्देशेनार्पणं यस्य तदेवं भूतं यद्ब्रह्मकर्म तदेव समाधिरात्मस्वरूपलाभोपायत्वात् तेन-ब्रह्मकर्मसमाधिना नान्यत्फलमवाप्यते अपितु ब्रह्मैवेति ये यथा मां प्रपद्यन्ते-इति हि निर्वाहितम् | मितस्वरूपी-कृतमदात्मकयज्ञस्वभावा इति तादृशफलभागिनः-इत्युक्तम् | अपरिमितपरिपूर्णमदात्मकयज्ञस्वरूपवेदिनस्तु कथं परिमितफललवलाम्पट्यभागिनो भवेयुरिति तात्पर्यम् | इत्यनेन | श्लोकेन वक्ष्यमाणैश्च श्लोकेः परमरहस्यमुपनिबद्धम् | तच्चास्माभिर्मितबुद्धिभिरपि यथाबुद्धि यथागुर्वाम्नायं च विवृतम् | मुखसंप्रदायक्रममन्तरेण नैतत् नभश्चित्रमिव चित्तमुपारोहतीति न वयमुपालम्भनीयाः | अत्र हविषोऽग्नेः करणानां च स्रुगादीनां क्रियायाश्च ब्रह्मविशेषणत्वमिति कैश्चिदुक्तं तदुपेक्ष्यमेव-तेषां रहस्यसंप्रदायक्रमेऽक्षुणत्वात् || २४ || दैवमेवापरे यज्ञं योगिनः पर्युपासते | ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || ४-२५ || अपरे देवानि-क्रीडाशीलानि इन्द्रियाणि आश्रित्य यः स्थितो यज्ञो-निजनिजविषयगृहणलक्षणः तमेव परित उपासते-आमूलाद्विमृशन्त स्वात्मलाभं लभन्ते | अत एव ते योगिनः-सर्वावस्थासु सततमेव योगयुक्तत्वात् | नित्ययोगे ह्ययमत्र मत्वर्थीयः | एनमेव च विषयगृहणात्मकं यज्ञं यज्ञेनैव-तेनैव लक्षणेन अपरे-पूरयितुमशक्ये ब्रह्माग्नौ जुह्वति-इति कैश्चिद्याख्यातम् | मुनेस्तु पौर्वापर्याविरुद्धत्वाद्योऽर्थो हृदि स्थितस्तं प्रकाशयामः-केचिद्योगयुक्ता सन्तो दैवं-नानारूपेन्द्रादिदेवतोद्देशेनैव बाह्यद्रव्यमयं यज्ञमुपाचरन्ति | तं च क्रियमाणमेव यज्ञं कर्तव्यमिदमित्येव बुद्धा फलानपेक्षया अपरे-दुष्पूरे ब्रह्माग्नावर्पयन्ति-इति द्रव्ययज्ञा अपि परं ब्रह्म यान्ति | यतो वक्ष्यते सर्वेऽप्येते यज्ञविदः-इति | श्रुतिरपि यज्ञेन यज्ञमयजन्त देवाः-इति || २५ || श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || ४-२६ || अन्ये तु संयमाग्निष्विन्द्रियाणीति | संयमः-मनः तस्य येऽग्नयः-प्रतिपन्नभावभावनारूपा अभिलाषप्लोषका विस्फुलिङ्गाः तेषु इन्द्रियाण्यर्पयन्ति | अत एव ते तपोयज्ञाः | इतरे ज्ञानप्रदीपितेषु फलदाहकेष्विन्द्रियाग्निषु विषयानर्पयन्ति-भोगवासनानिरासायैव भोगानभिलषन्तीत्युपनिषत् | तथा च मयैव लघ्व्यां प्रक्रियायामुक्तम् न भोग्यं व्यतिरिक्तं हि भोक्तुस्त्वत्तो विभाव्यते | एष एव हि भोगो यत्तादात्म्यं भोक्तृभोग्ययोः || इति स्पन्देऽपि भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः (स्प० २ नि० ४ श्लो०) इति || २६ || सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे | आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || ४-२७ || द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे | स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः || ४-२८ || ते च सर्वान्-इन्द्रियव्यापारान्मानसान् मुखनासिकानिर्गमनमूत्राद्यधोनयनादीन्वायवीयांश्च आत्मनो-मनसः संयमहेतौ योगनाम्न्यैकाग्र्यवह्नौ सम्यक् ज्ञानपरिदीपिते पूरयितव्ये निवेशयन्ति-गृह्यमाणं विषयं संकल्प्यमानं वा तदेकाग्रतयैव परित्यक्तान्यव्यापारतया बुद्धा गृह्णन्तीति तात्पर्यम् | यदुक्तं शिवोपनिषदि- भावेऽत्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् | तदा तन्मयभावेन विकसत्यतिभावना || (वि० भै० ६२ श्लो०) इति | एवं योगयज्ञा व्याख्याताः || २७ || एवं द्रव्ययज्ञस्तपोयज्ञो योगयज्ञश्चोक्तलक्षणाः | स्वाध्यायज्ञानयज्ञाश्च ये- ते संप्रति लक्ष्यन्ते- अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणाः || ४-२९ || अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति | सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः || ४-३० || प्राणम्-उदयमानं नादं प्रणवादिमात्रालयान्तम् अपाने-अस्तं याति स्वानन्दान्तःप्रवेशात्मनि जुह्वतीति पिण्डस्थैर्यात्मा स्वाध्यायः | शिष्यात्मना च नयानयग्रहणाय केचित् अस्तं यान्तमुदीयमाने संवेश्य तदेकीकारेणापवर्गदानात् आत्मनि शिष्यात्मनि च शोधनबोधनप्रवेशनयोजनरूपे स्वाध्याययज्ञे स्वपरानन्दमये प्रतिष्ठितमनसः | अत एव पूरकः प्रथममुक्तः चरमं रेचकः | प्रथमेन च पादेन विषयभोगान्तर्मुखीकरणम् | द्वितीयेन महाविदेहधारणाक्रमाद्विषयग्रहणाय निःसरणं ध्वन्यते | अतश्च स्वाध्याययज्ञेभ्योऽन्ये ज्ञानयज्ञाः | एते एवोक्तव्यापारपरिशीलनावशपरिपूरितस्वात्मशिष्यात्ममनोरथा ः द्वेऽप्येते गती निरुध्याहारं विषयभोगात्मकं नियम्य प्राणान्-सकलचित्तवृत्त्युदयान् प्राणेषु-परनिरानन्दोल्लासेषु जुह्वति-कुम्भकप्रशान्त्यार्पयन्ति | सर्वे चैते द्रव्ययज्ञात्प्रभृति ज्ञानयज्ञान्तं यज्ञस्य तत्त्वज्ञाः तेनैव च क्षपितकल्मषाः-समूलोन्मूलितभेदवासनामयमहामोहाः || ३० || यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम || ४-३१ || यज्ञेन शिष्टम्-आहृतं यज्ञाच्च-निजकरणतर्पणरूपात् अवशिष्टं-स्वात्मविश्रान्तिरूपं परानन्दनिरानन्दात्मकममृतं भुञ्जाना अपि यथेच्छं संसृज्यन्ते ब्रह्मतयेति तदुपरम्यतेऽतिरहस्यस्फुटप्रकटनवाचालतायाः | अत्र च बहुतरो रहस्यरसोऽन्तः संलीनीकृतोऽपि निविडतरभक्तिसेवासंप्रसादितगुरुचरणप्राप्तसंप्रदायमहौ. सध-समीकृतधातूनां चर्वणादिविषयतां भूतार्थास्वादहेतुतां च प्रतिपद्यते | अत्र च व्याख्यान्तराणि टीकाकारैः प्रदर्शितानि | तान्यस्मद्गुरुपादनिरुक्तानि च स्वयमेव सचेतसः संप्रधार्यन्ताम् इति किमन्येन हन्त व्याख्यातृवचनदूषणाविनोदनेन | तदुपक्रान्तमेवोपक्रम्यते || ३१ || एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || ४-३२ || सर्वे चैते यज्ञाः ब्रह्मणो मुखे-द्वारे उपायत्वे कथिताः | तेषु कर्मणामनुगमोऽस्ति | एवं ज्ञात्वा त्वमपि बन्धनात् मोक्षमेष्यसि || ३२ || श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते || ४-३३ || अत्र त्वयं विशेषः-द्रव्ययज्ञात्केवलाज्झानदीपितो यज्ञः श्रेष्ठः | केवलता च मयटा सूचिता | यतः सर्वं कर्म ज्ञाने निष्ठामेति || ३३ || तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया | उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः || ४-३४ || तच्च-ज्ञानं प्रणिपातेन-भक्तया परिप्रश्नेन-ऊहापोहतर्कवितर्का-दिभिः सेवया-अभ्यासेन जानीहि | यत एवंभूतस्य तव ज्ञानिनो-निजा एव संवित्तिविशेषानुगृहीता इन्द्रियविशेषाः तत्त्वम् उप-समीपे देक्ष्यन्ति-प्रापयिष्यन्ति | तथाहि ते तत्त्वमेव दर्शयन्तीति तत्त्वदर्शिनः | उक्तं हि योग एव योगस्योपायः | ऋतम्भरा तत्र प्रज्ञा || (यो० सू० १, ४८) इति | अन्ये ज्ञानिनः पुरुषाः-इति व्याख्यायमाने भगवान्स्वयमुपदिष्टवांस्तदसत्यम्-इत्युक्तं स्यात् | एवमभिधाने च प्रयोजनमन्येऽपि लोकाः प्रणिपातादिना ज्ञानिभ्यो ज्ञानं गृह्णीयुर्न यथाकथञ्चिदिति समयप्रतिपादनम् || ३४ || यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || ४-३५ || आत्मनि मयि-मत्स्वरूपतां प्राप्ते आत्मनि-इति सामानाधिकरण्यम् | अथोशब्दः पादपूरणे | आत्मन ईश्वरस्य साम्ये कोऽपि विशेष उक्तः | असाम्ये विकल्पानुपपत्तिः || ३५ || सर्वं कर्माखिलम्-इति यदुक्तं तत्स्फुटयितुं प्रथमश्लोकेनाधर्मोऽपि नश्यति-इति वदन् सर्वं कर्म-इति द्वितीयेन संस्कारलेशोऽपि नावतिष्ठते-इति सूचयन् अखिलम्-इति व्याचष्टे अपि चेत्-इत्यादि संशयात्मनः-इत्यन्तम्- अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः | सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि || ४-३६ || यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन | ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा || ४-३७ || नहि ज्ञानेन सदृशं पवित्रमिह विद्यते | तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति || ४-३८ || श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति || ४-३९ || अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति | नायं लोकोऽस्ति न परो न सुखं संशयात्मनः || ४-४० || समिद्धोऽभ्यासजातप्रतिपत्तिदार्ढ्यबन्धेन ज्ञानाग्रिर्भवति यथा तथा प्रयतनीयमिति | पवित्रं हि ज्ञानसमं नास्ति | अन्यस्य संवृध्द्या पवित्रत्वं न वस्तुत इत्यतिप्रसङ्गभयान्न प्रतायते | पवित्रतां चास्य स्वयं ज्ञास्यति सुप्रबुद्धतायाम् | अत्र च श्रद्धागमस्तत्परव्यापारत्वं झगित्येव आस्तिकत्वादसंशयत्वे सति उत्पद्यते | तस्मादसंशयवता गुर्वागमादृते न भाव्यं-संशयस्य सर्वनाशकत्वात् | ससंशयो हि न किंचिज्जानाति-अश्रद्दधानत्वात् | तस्मात् निःसंशयेन भाव्यमिति वाक्यार्थः || ४० || सकलाध्यायविस्फारितोऽर्थः श्लोकद्वयेन संक्षिप्यते- योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् | आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय || ४-४१ || योगेनैव कर्मणां संन्यास उपपद्यते नान्यथा इति विचारितं विचारयिष्यते च || ४१ || यत एवम् तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः | छित्वैवं संशयं योगमातिष्ठोत्तिष्ठ भारत || ४-४२ || संशयं छित्वा योगं-कर्मकौशलमातिष्ठ उक्तक्रमेण | ततश्च उत्तिष्ठ-त्वं स्वव्यापारं कर्तव्यतामात्रेण कुरु इति शिवम् || ४२ || अत्र संग्रहश्लोकः विधत्ते कर्म यत्किञ्चिदक्षेच्छामात्रपूर्वकम् | तेनैव शुभभाजः स्युस्तृप्ताः करणदेवताः || ४ || इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे चतुर्थोऽध्यायः || ४ || अथ पञ्चमोऽध्यायः अर्जुन उवाच संन्यासं कर्मणां कृष्ण ! पुनर्योगं च शंससि | यच्छ्रेयानेतयोरेकस्तं मे ब्रूहि विनिश्चितम् || ५-१ || संन्यासः प्रधानं पुनर्योग इति ससंशयस्य प्रश्नः || १ || श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ | तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते || ५-२ || संन्यासः कर्म च-नात्रैकोऽभिहितः अपितु उभौ संमिलितौ निःश्रेयसं दत्तः | योगेन विना संन्यासो न संभवतीति योगस्य विशेषः || २ || ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति | निर्द्वन्द्वो हि महाबाहो ! सुखं बन्धाद्विमुच्यते || ५-३ || अतश्च स एव सार्वकालिकः संन्यासी येन मनसोऽभिलाषप्रद्वेषौ संन्यस्तौ यतोऽस्य द्वन्द्वेभ्यः-क्रोधमोहादिभ्यो निष्क्रान्ता धीः | स सुखं मुच्यत एव || ३ || साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः | एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् || ५-४ || यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरनगम्यते | एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति || ५-५ || इदं सांख्यम् अयं च योगः-इति न भेदः | एतौ हि नित्यसंबद्धौ | ज्ञानं न योगेन बिना | योगोऽपि न तेन विनेति | अत एकत्वमनयोः || ५ || संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः | योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति || ५-६ || तुशब्दोऽवधारणे भिन्नक्रमः | योगरहितस्य संन्यासमाप्तुं दुःखमेव-प्राङ्गीत्या कर्मणां दुःसंन्यासत्वात् | योगिभिस्तु सुलभमेवैतत्-इत्युक्तं प्राक् || ६ || योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः | सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || ५-७ || सर्वभूतानामात्मभूत अत्मा यस्व स सर्वमपि कुर्वाणो न लिप्यते-करणप्रतिषेधारूढत्वात् || ७ || नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् | पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्श्वसन्स्वपन् || ५-८ || प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि | इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || ५-९ || ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || ५-१० || अत एव दर्शनादीनि कुर्वन्नपि असावेवं धारयति-प्रतिपत्तिदार्ढ्येन निश्चिनुते-चक्षुरादीनामिन्द्रियाणां यदि स्वविषयेषु प्रवृत्तिः मम किमायातम् नह्यन्यकृतेन परस्य लेपः-इति | तदेव ब्रह्मणि कर्मणां समर्पणम् | अत्र चिह्नमस्य गतसंगता | अतो न लिप्यते || १० || कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि | योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये || ५-११ || योगिनश्च केवलैः-सङ्गरहितैः परस्परानपेक्षिभिश्च कायादिभिः कुर्वन्ति कर्माणि सङ्गाभावात् || ११ || युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् | अयुक्तः कामकारेण फले सक्तो निबध्यते || ५-१२ || नैष्ठिकीम्-अपुनरावर्तिनीम् || १२ || सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशीम् | नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || ५-१३ || यथा वेश्मान्तर्गतस्य पुंसो न गृहगतैर्जीर्णत्वादिभिर्योगः एवं मम चक्षुरादिच्छिद्रगवाक्षनवकालङ्कृतदेहगेहगतस्य न तद्धर्मयोगः || १३ || न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || ५-१४ || एष आत्मा न किंचित्कस्यचित्करोति | प्रवृत्तिस्त्वस्य स्वभावमात्रं न फलेप्सया | तथाहि | संवेदनात्मनो भगवतः प्रकाशानन्दस्वातन्त्र्यपरमार्थस्वभावस्य स्वभावमात्राक्षिप्तसमस्तसृष्टिस्थितिसंहृतिप्रबन्धस्य स्वस्वभावान्न मनागप्यपायो जातुचित् | इति न कर्त्रवस्थातिरिक्तं कर्तृत्वं किंचित् | तदभावात्कानि कर्माणि तद् सत्त्वे कस्य फलम् को वा कर्मफलसंबन्धः | कर्मात्र क्रिया | कर्मफलमपि च क्रियाफलमेव | तथाहि | दण्डचक्रपरिवर्तनादिक्रिया नान्या | न च सा घटनिष्पादिता-संविदन्तर्वर्तित्वात् | तस्माच्चेतनः स्वतन्त्रः परमेश्वर एव तथा तथा भाति इति न तद्व्यतिरिक्तं क्रियातत्फलादिकमिति सिद्धान्तः || १४ || अत एव क्रियातत्फलयोरभावे विधिफलस्यापि नादृष्टकृतता काचित्-इत्यर्धेनाभिधायार्धान्तरेण संसारिणः प्रति तत्समर्थनं कर्तुमाह नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः | अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः || ५-१५ || पापादीनि नैतत्कृतानि | किन्तु निजेनाज्ञानेन कृतानि शङ्कयेवामृते विषम् || १५ || अत एव ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः | तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || ५-१६ || ज्ञानेन तु अज्ञाने नाशिते ज्ञानस्य स्वप्रकाशत्वं स्वतः सिद्धम् यथा आदित्यस्य तमसि नष्टे | विनिवर्तितायां हि शङ्कायाममृतममृतकार्यं स्वयमेव करोति || १६ || तच्च तद्गतबुद्धिमनसां त्यक्तान्यव्यापाराणां घटते-इत्याशयं प्रकटयितु-माह- तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः | गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धौतकल्मषाः || ५-१७ || स्मरन्तोऽपि मुहुस्त्वेतत्स्पृशन्तोऽपि स्वकर्मणि | सक्ता अपि न सज्जन्ति पङ्के रविकरा इव || ५-१८ || यत एवं स्वभावस्तु प्रवर्तते इति अतो ध्वस्ताज्ञानानामित्थं स्थितिरित्याह- विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः || ५-१९ || तथा चः तेषां योगिनां ब्राह्मणे नेदृशी बुद्धिः-अस्य शुश्रूषादिनाहं पुण्यवान्भविष्यामि-इत्यादि | गवि न पावनीयमित्यादि | हस्तिनि नार्थादिधीः | शुनि नापवित्रापकारितादिनिश्चयः | श्वपाके च न पापापवित्रादिधिषणा | अत एव समं पश्यन्तीति नतु व्यवहरन्ति | यदुक्तं चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित् | अतश्च तन्मयं सर्वं भावयन्भवजिज्जनः || (वि० भै० १००) इति अत्रापि भावयन्निति-ज्ञानस्यैवेयं धारोक्ता || १९ || तस्य चेत्थं संभावनेत्याह- न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् | स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः || ५-२० || एतस्य समदर्शिनः शत्रुमित्रादिविभागोऽपि व्यवहारमात्र एव नान्तः-ब्रह्मनिष्ठत्वात् || २० || बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमव्यमश्नुते || ५-२१ || बाह्यस्पर्शे विषयात्मनि सक्तिर्यस्य नास्ति || २१ || स ह्येवं मन्यते-इत्याह ये हि संस्पर्शजा भोगा दुःखयोनय एव ते | आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः || ५-२२ || स ह्येवं भावयति-बाह्यविषयजा भोगाः सर्वे दुःखकारणरूपाः तथाविधा अप्यनित्याः || २२ || शक्नोतीहैव यः सोढुं प्राक्शरीरविमोचनात् | कामक्रोधोद्भवं वेगं स युक्तः स सुखी मतः || ५-२३ || न चैतद्दुःशकं-शरीरान्तकालं यावत् क्रोधकामजो वेगः क्षणमात्रं यदि सह्यते तदा आत्यन्तिकी सुखप्राप्तिः || २३ || अन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः | स पार्थ परमं योगं ब्रह्मभूतोऽधिगच्छति || ५-२४ || अतस्तस्यान्तरेव बाह्यानपेक्षि सुखम् तत्रैव रमते | तत्र चास्य प्रकाशः | व्यवहारे तु मूढत्वमिव | उक्तं च-जड एव विच रेदवादमतिः (प० सा० ७१) इति || २४ || लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः | छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः || ५-२५ || एतच्च तैः प्राप्यं येषां भेदसंशयरूपौ ग्रन्थी विनष्टौ || २५ || कामक्रोधविमुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || ५-२६ || तेषां सर्वतः-सर्वास्ववस्थासु ब्रह्मसत्ता पारमार्थिकी न निरोधकालमपेक्षते || २६ || स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः | प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || ५-२७ || बाह्यस्पर्शान् बहिःकृत्वा-अनङ्गीकृत्य भ्रुवोः-वामदक्षिणदृष्ट्योः क्रोधरागात्मिकयोरन्तरे-तद्रहितेस्थानविशेषे चक्षुरूपलक्षितानि सर्वेन्द्रियाणि विधाय प्राणापानौ-धर्माधर्मौ चित्तवृत्त्यभ्यन्तरे साम्येनावस्थाप्य नसते-कौटिल्येनासाम्येन क्रोधादिवशाद्व्यवहरति-इति नासा चित्तवृत्तिः | एतदेव बाह्ये || २७ || यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः | विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः || ५-२८ || एवंविधो योगी सर्वव्यवहारान् वर्तयन्नपि मुक्त एव || २८ || भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || ५-२९ || यज्ञफलेषु भोक्ता-त्यक्तफलत्वात् | एवं तपःसु | ईदृशं भगवत्तत्त्वं विदन् यथातथास्थितोऽपि मुच्यत इति शिवम् || २९ || अत्र संग्रहश्लोकः सर्वाण्येवात्र भूतानि समत्वेनानुपस्यतः | जडवद्व्यवहारोऽपि मोक्षायैवावकल्पते || ५ || इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे पञ्चमोऽध्यायः || ५ || अथ षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | स संन्यासी च योगी च न निरग्निर्न चाक्रियः || ६-१ || यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन || ६-२ || एवं प्राक्तनेनाध्यायगणेन साधितोऽर्थः श्लोकद्वयेन निगद्यते कार्यं-स्वजात्यादिविहितम् | संन्यासी इति योगी इति च पर्यायावेतौ | अत एवाह यं संन्यासमिति | तथा च-योगमन्तरेण संन्यासो नोपपद्यते एवं संकल्पसंन्यासं विना योगो न युज्यते | तस्मात्सततसंबद्धौ योगसंन्यासौ | न निरग्रिरित्यादिनायमर्थो ध्वन्यते-निरग्निश्च न भवति निष्क्रियश्च न भवति अथ च संन्यासी-इत्यद्भुतम् || २ || तद्यपि द्यूतमसिंहासनं राज्यम् इति युक्त्या च केवलस्य निष्क्रियस्य संन्यासित्वमुपपद्यते इत्युक्तम् तथापि आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यते || ६-३ || मुनेः-ज्ञानवतः कर्म-करणीयं कारणं-प्रापकः | शमः-प्राप्तभूमावनुपरमः | कारणमत्र लक्षणम् || ३ || एष एवार्थः प्रकाश्यते- यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जति | सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते || ६-४ || इन्द्रियार्थाः-विषयाः | तदर्थानि च कर्माणि-विषयार्जनादीनि || ४ || अस्यां च बुद्धाववश्यमेवावधेयमित्याह- उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || ६-५ || अत्र च नान्य उपाय अपितु आत्मैव-मन एवेत्यर्थः || ५ || बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः | अजितात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् || ६-६ || जितं हि मनो मित्रं घोरतरसंसारोद्धरणं करोति | अजितं तु तीव्रनिरयपातनाच्छत्रुत्वं कुरुते || ६ || तत्र जितमनस इदं रूपम्- जितात्मनः प्रशान्तस्य परात्मसु समामतिः | शीतोष्णसुखदुःखेषु तथा मानावमानयोः || ६-७ || प्रशान्तः-निरहंकारः | परेष्वात्मनि च शीतोष्णादिषु च अभेदधीः-न रागद्वेषौ || ७ || ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः | युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः || ६-८ || ज्ञानम्-अभ्रान्ता बुद्धिः | विविधं ज्ञानं यत्र तद्विज्ञानं-प्राग्युक्त्युदितं कर्म || ८ || सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु | साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || ६-९ || सुहृत्-यस्याकारणमेव शोभनं हृदयम् | मित्रत्वम् अन्योन्यम् | अरित्वं-परस्परम् | उदासीनः-एतदुभयरहितः | मध्यस्थः-केनचिदंशेन मित्रं केनचिच्छत्त्रुः | द्वेषार्हो द्वेष्टुमशक्यो द्वेष्यः | बन्धुः-योन्यादिसंबन्धेन | एतेषु सर्वेषु समधीः | एवं साधुषु पापेषु च | स च विशिष्यते-क्रमात्क्रमं संसारात्तरत्ति || ९ || ईदृशैश्च बन्द्यचरणैः- इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता || ६-१० || इहैव-सत्यपि शरीरसंबन्धे सर्गो जितः-साम्यावस्थत्वात् | संसारस्य ह्यबन्धकत्वमेषाम् | साम्ये हि ते प्रतिष्ठिताः | साम्यं च ब्रह्म || १० || ननु जितात्मनः-इत्युक्तं तत्कथं तज्जयः ? इत्याशङ्क्य आरुरुक्षोः कश्चिदुपायः कायसमत्वादिकश्चित्तसंयम उपदिश्यते योगी युञ्जीत सततमात्मानं रहसि स्थितः | एकाकी यतचित्तात्मा निराशीरपरिग्रहः || ६-११ || आत्मानं चित्तं च युज्जीत-एकाग्रीकुर्यात् | सततमिति-न परिमितं कालम् | एकाकित्वादिषु सत्सु एतद्युज्यते नान्यथा || ११ || शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः | नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || ६-१२ || तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः | उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || ६-१३ || आसनस्थैर्यात्कालस्थैर्ये चित्तस्थैर्यम् | चित्तक्रियाः-संकल्पात्मानः अन्याश्चेन्द्रियक्रिया येन यताः-नियमं नीताः || १३ || समं कायशिरोग्रीवं धारयन्नचलं स्थिरः | संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् || ६-१४ || प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः | मनः संयम्य मच्चित्तो युक्त आसीत मत्परः || ६-१५ || धारयन्-यत्नेन | नासाग्रस्यावलोकने दिशामनवलोकनम् | मत्परमतया युक्त आसीतेत्यर्थः || १५ || युञ्जन्नेवं सदात्मानं मद्भक्तोऽनन्यमानसः | शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति || ६-१६ || एवमात्मानं युञ्जतः-समादधतः शान्तिर्जायते | यस्यां संस्थापर्यन्तकाष्ठा मत्प्राप्तियोगोऽस्तीति || १६ || योगोऽस्ति नैवात्यशतो न चैकान्तमनश्नतः | न चातिस्वप्नशीलस्य नातिजागरतोऽर्जुन || ६-१७ || युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु | युक्तस्वप्नावबोधस्य योगो भवति दुःखहा || ६-१८ || आहारेषु-आहियमाणेषु विषयेषु | विहारः-उपभोगाय प्रवृत्तिः | तस्याश्च युक्तत्वं-नात्यन्तासक्तिः नात्यन्तपरिवर्जनम् | एवं सर्वत्र | शिष्टं स्पष्टम् | जागरतः- इत्यादि मुनेः प्रमाणत्वाद्रेदवत् | एवमन्यत्रापि || १८ || यदा विनियतं चित्तमात्मन्येवावतिष्ठते | निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा || ६-१९ || अस्य च योगिनश्चिह्नम् आत्मन्येव नियतमनाः न किञ्चिदपि स्पृहयते || १९ || यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता | योगिनो यतचित्तस्य युञ्जतो योगमात्मनि || ६-२० || यथा निवातस्थो दीपो न चलति एवं योगी | चलनमस्य विषयादीनामर्जनादयः प्रयासाः || २० || इदानीं तस्य स्वस्वभावस्य ब्रह्मणो बहुतरविशेषणद्वारेण स्वरूपं निरूप्यते तीर्थान्तरकल्पितेभ्यश्च रूपेभ्यो व्यतिरेकः- यत्रोपरमते चित्तं निरुद्धं योगसेवनात् | यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || ६-२१ || सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् | वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः || ६-२२ || यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः | यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते || ६-२३ || तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् | स निश्चयेन योक्तव्यो योगोऽनिर्विण्नचेतसा || ६-२४ || यत्र मनो निरुद्धमुपरमते स्वयमेव आत्यन्तिकं-विषयकृतकालुष्या-भावात् सुखं यत्र वेत्ति | अपरो लाभो-धनदारपुत्रादीनाम् | सन्नियोगलब्धश्च योगः | अन्यत्र सुखधीर्निवर्तते चेति वस्तुस्वभावोऽयमित्यर्थः | न विचाल्यते-विशेषेण न चाल्यते अपि तु संस्कारमात्रेणैवास्य प्रथमक्षणमात्रमेव चलनं करुणादिवशात् नतु मूढतया विनष्टो वताहं किं मया प्रतिपत्तव्यम् ! इत्यादि | दुःखसंयोगस्य वियोगो यतः | स च निश्चयेन-आस्तिकताजनितया श्रद्धया सर्वथा योक्तव्यः-अभ्यसनीयः | अनिर्विणम्-उपेयप्राप्तौ दृढतरं संसारं दुःखबहुलं प्रति निर्विणं वा चेतो यस्य || २४ || कामानां त्यागे उपायः सङ्कल्पत्याग इत्याह- सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः | मनसैवेन्द्रियग्रामं विनियम्य समन्ततः || ६-२५ || शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् || ६-२६ || मनसैव-न व्यापारोपरमेण | धृतिं गृहीत्वा क्रमात्क्रममभिलाषदुःखं प्रतनूकृत्य | किंचिदपि-विषयाणां त्यागग्रहणादिकं न चिन्तयेत् | यत्त्वन्यैर्व्याख्यातं न किंचिदपि चिन्तयेत्-इति तदस्मभ्यं न रुचितं-शून्यवादप्रसङ्गात् || २६ || न च विषयव्युपरममात्रमेव प्राप्यमित्युच्यते- यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव शमं नयेत् || ६-२७ || यतो यतो मनो निवर्तते तन्निवर्तनसमनन्तरमेव आत्मनि शमयेत् | अन्यथा अप्रतिष्ठं चित्तं पुनरपि विषयानेवावलम्बते || २७ || प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् | उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || ६-२८ || तत्रात्मनि शान्तचित्तं योगिनं-कर्मभूतं सुखं कर्तृभूतमुपैति || २८ || युञ्जन्नेवं सदात्मानं योगी नियतमानसः | सुखेन ब्रह्मसंयोगमत्यन्तमधिगच्छति || ६-२९ || अनेनैव क्रमेण योगिनां सुखेन ब्रह्मावाप्तिः नतु कष्टयोगादिनेति तात्पर्यम् || २९ || सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः || ६-३० || सर्वेषु भूतेषु आत्मानं-ग्राहकरूपतयानुप्रविशन्तं भावयेत् | आत्मनि च ग्राह्यताज्ञानद्वारेण सर्वाणि भूतानि एकीकुर्यात् | अतश्च समदर्शनत्वं जायते योगश्चेति संक्षेपार्थः | विस्तरस्तु भेदवादविदारणादिप्रकरणे देवीस्तोत्रविवरणे न मयैव निर्णीतः इति तत एवावधार्यः || ३० || यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति | तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || ६-३१ || प्रणाशः-अकार्यकारित्वात् | तथाहि | परमात्मनः सर्वगतं रूपं यो न पश्यति तस्य परमात्मा पलायितः-स्वरूपप्रकटीकाराभावात् | यच्चेदं वस्तुजातं तद्भासनात्मनि परमात्मनि विनिविष्टं भवति तथाविधं यो न पश्यति स परमार्थस्वरूपात् प्रनष्टः-तद्व्यतिरेके सत्यनिर्भासात् | यस्तु सर्वगतं मां पश्यति तस्याहं न प्रनष्टः-स्वस्वरूपेण भासनात् | भायांश्च मयि पश्यति तत्तेषां भासनोपपत्तो द्रष्टृतायां परिपूर्णायां स न प्रनष्टः परमात्मनः || ३१ || सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः | सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || ६-३२ || यस्त्वेवं ज्ञानाविष्टः सोऽवश्यमेवैकतया भगवन्तं सर्वगतं विदन् सर्वावस्थागतोऽपि न लिप्यते || ३२ || आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः || ६-३३ || सर्वस्य च सुखदुःखे आत्मतुल्यतया पश्यति इति स्वरूपमेतदनूदितम् न पुनरेषोऽपूर्वो विधिः || ३३ || अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ! एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् || ६-३४ || चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् | तस्याऽहं निग्रहं मन्ये वायोरिव सुदुष्करम् || ६-३५ || योऽयमिति-परोक्षप्रत्यक्षवाचकाभ्यामेवं सूच्यते | भगवदभिहितानन्तरोपायपरम्परया स्फुटमपि-प्रत्यक्षनिर्दिष्टमपि ब्रह्म मनसश्चाञ्चल्यदौरात्म्यात्सुदूरे वर्तते इति परोक्षायमाणम् | प्रमथ्नाति दृष्टादृष्टे | बलवत्-शक्तम् | दृढं-दुष्टव्यापारात् वारयितुमशक्यम् || ३५ || अत्रोत्तरं- श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते || ६-३६ || वराग्येण विषयोत्सुकता विनाश्यते | अभ्यासेन मोक्षपक्षः क्रमात्क्रमं विषयीक्रियते इति द्वयोरुपादानम् | उक्तं च तत्र भवता भाष्यकृता उभयाधीनश्चित्तवृत्तिनिरोधः | (यो० द० १, १२) इति || ३६ || असंयतात्मनो योगो दुष्प्राप इति मे मतिः | वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः || ६-३७ || अत एषा प्रतिज्ञा-असंयतात्मनः-अविरक्तस्य न कथंचिद्योगावाप्तिः | वश्यात्मनेति-वैराग्यवता | यतमानेनेति-साभ्यासेन | उपायान्-अनेकसिद्धान्तादिशास्त्रविहितान् संश्रित्य || ३७ || अर्जुन उवाच अयतः श्रद्धयोपेतो योगाच्चलितमानसः | लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि || ६-३८ || अनेकचित्तोविभ्रान्तो मोहस्यैव वशं गतः | अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति || ६-३९ || प्राप्ताद्योगात् यदि चलितेऽपि चित्ते श्रद्धा न हीयते विनष्ट श्रद्धो हि सिद्धयोगोऽपि सर्वं निष्फलं कुरुते | उक्तं हि यदा प्राप्यापि विज्ञानं दूषितं चित्तविभ्रमात् | तदैव ध्वंसते श्रीघ्रं तूलराशिरिवानलात् इति || ३९ || कच्चिन्नोभयविभ्रंशाच्छिन्नाभ्रमिव नश्यति | अप्रतिष्ठो महाबाहो विनाशं वाधिगच्छति || ६-४० || एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते || ६-४१ || योगस्य सम्यक् सिद्धावजातायां किं लोकान्निष्क्रान्तः सम्यक् च ब्रह्मणि न लीनः इति नश्येत् अथवा ब्रह्मण्यप्रतिष्ठत्वाद्विनश्यति परलोकबाधाय इति प्रश्नः || ४१ || अत्र निर्णयं- श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते | न हि कल्याणकृत् कश्चिद् दुर्गतिं जातु गच्छति || ६-४२ || न तस्य योगभ्रष्टस्येह लोके परलोके वा नाशोऽस्ति-अनष्टश्रद्धत्वादिति भावः | तस्य-लोकद्वयाविनाशिनः | स हि कल्याणं भगवन्मार्गलक्षणं कृतवान् | न च तदग्निष्टोमादिवत्क्षयि || ४२ || प्राप्य पुण्यकृतांल्लोकानुषित्वा शाश्वतीः समाः | शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते || ६-४३ || शाश्वतस्य-विष्णोः समाः-वैष्णवानि त्रीणि वर्षाणि | शुचीनामिति-येषां भगवदंशस्पर्शि चित्तम् || ४३ || अथवा योगिनामेव जायते धीमतां कुले | एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् || ६-४४ || यदि तु तारतम्येनास्यापवर्गेण भवितव्यं तदा योगिकुल एव जायते | एत एवाह-एतद्धि दुर्लभतरम्-इति | श्रीमतां गेहे किलावश्यमेव विघ्नाः सन्ति संसिद्धौ मोक्षात्मिकायाम् || ४४ || तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् | ततोभूयोऽपि यतते संसिद्धौ कुरुनन्दन || ६-४५ || पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सन् | जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते || ६-४६ || अवशः-परतन्त्र एव किल तेन-पूर्वाभ्यासेन बलादेव योगाभ्यासं प्रति नीयते | न चैतत् सामान्यं योगजिज्ञासामात्रेणैव हि शब्दब्रह्मातिवृत्तिः मन्त्रस्वाध्यायादिरूपं च शब्दब्रह्म अतिवर्तते-न स्वीकुरुते || ४६ || प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् || ६-४७ || ततो-जिज्ञासानन्तरम् यत्नवान्-अभ्यासक्रमेण देहान्ते वासुदेवत्वं प्राप्नोति | न चासौ तेनैव देहेन सिद्ध इति मन्तव्यम् अपितु बहूनि जन्मानि तेन तदभ्यस्तमिति मन्तव्यम् | अत एव यस्यानन्यव्यापारतया भगवद्व्यापारानुरागित्वं स योगभ्रष्ट इति निश्चेयम् || ४७ || योगस्य प्राधान्यमाह- तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः | कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन ! || ६-४८ || तपस्विभ्योऽधिकत्वं पूर्वमेव सूचितम् | ज्ञानिभ्योऽधिकत्वंज्ञानस्य योगफलत्वात् | कर्मिभ्य उत्कर्षः-स एव कर्माणि कर्तुं वेत्ति || ४८ || न च निरीश्वरं कष्टयोगमात्रं संसिद्धिदमित्युच्यते- योगिनामपि सर्वेषां मद्गतेनान्तरात्मना | श्रद्धावान् भजते यो मां स मे युक्ततमो मतः || ६-४९ || सर्वयोगिमध्ये य एव मामन्तःकरणे निवेश्य भक्तिश्रद्धातत्परो गुरुचरणसेवालब्धसंप्रदायक्रमेण मामेव-नान्यत् भजतेविमृश्यते स युक्ततमः-परमेश्वरसमाविष्टः इति सेश्वरस्य ज्ञानस्य सर्वप्राधान्यमुक्तमिति शिवम् || ४९ || अत्र संग्रहश्लोकः भगवन्नामसंप्राप्तिमात्रात्सर्वमवाप्यते | फलिताः शालयः सम्यग्वृष्टिमात्रेऽवलोकिते || ६ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे षष्ठोऽध्यायः || ६ || अथ सप्तमोऽध्यायः श्रीभगवानुवाच मययासक्तमनाः पार्थ ! योगं युञ्जन्मदाश्रितः | असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || ७-१ || ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः | यज्ज्ञात्वा न पूनः किंचिज्ज्ञातव्यमवशिष्यते || ७-२ || ज्ञानविज्ञाने ज्ञानक्रिये एव | ततो न किंचिदवशिष्यते-सर्वस्व ज्ञेयस्य ज्ञानक्रियानिष्ठत्वात् || २ || मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये | यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः || ७-३ || अस्य च वस्तुनः सर्वो न योग्यः | इत्यनेन दुर्लभत्वात् यत्नसेव्यता-माह || ३ || भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च | अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || ७-४ || अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् | जीवभूतां महाबाहो ययेदं धार्यते जगत् || ७-५ || इयमिति-प्रत्यक्षेण या संसारावस्थायां सर्वजनपरिदृश्यमाना | सा चैकैव सती प्रकाराष्टकेन भिद्यते इति एकप्रकृत्यारब्धत्वादेकमेव विश्वमिति प्रकृतिवादेऽप्यद्वैतं प्रदर्शितम् | सैव जीवत्वं-पुरुषत्वं प्राप्ता परा ममैव नान्यस्य च | सोभयरूपा वेद्यवेदकात्मकप्रपञ्चोपरचनविचित्रा | तत एव स्वात्मविमलमुकुरतलकलितसकलभावभूमिः स्वस्वभावात्मिका सततमव्यभिचारिणी प्रकृतिः | इदं जगत्-भूम्यादि || ५ || एतद्योनीनि भूतानि सर्वाणीत्युपधारय | अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा || ७-६ || उपधारय-अभ्यासाहितानुभवक्रमेणात्मसमीपे कुरु | एवं च त्वमेवोपधारय-यदहं वासुदेवीभूतः सर्वस्य प्रभवः प्रलयश्च | अहम्-इत्यनेन प्रकृतिपुरुषपुरुषोत्तमेभ्योऽव्यतिरिक्तोऽपीश्वरः सर्वथा सर्वानुगतत्वेन स्थित इति सांख्ययोगयोर्नास्ति भेदवादः-इति प्रदर्शितम् || ६ || मत्तः परतरं नान्यत्किञ्चिदस्तु धनञ्जय | मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || ७-७ || सूत्रे मणिगणा एव-यथा तन्तुरनवध्रियमाणरूपोऽप्यन्तर्लीनतया स्थितः एवमहं सर्वत्र || ७ || रसोऽहमप्सु कौन्तेय प्रकाशः शशिसूर्ययोः | प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु || ७-८ || अप्स्विति-सर्वत्रास्वाद्यमानो योऽनुद्भिन्नमधुरादिविभागः सामान्यः सोऽहम् | एवं प्रकाशः-मृदुत्वचण्डत्वादिरहितः | खे-आकाशे यः शब्द इति सर्वस्यैव शब्दस्य नभोगुणत्वादत्रावधारणम् यः केवलं गगनगुणतया ध्वनिः संयोगविभागादिसामग्र्यन्तररहितोऽवहितहृदयैर्ब्रह्मगुहागहन् अगामी योगिगणैः संवेद्योऽनाहताख्यः सकलश्रुतिग्रामानुगामी तद्भगवतस्तत्त्वम् | पौरुषं-येन तेजसा पुरुषोऽहमिति सार्वभौमं प्रतिपद्यते || ८ || पुण्यः पृथिव्यां गन्धोऽस्मि तेजश्चाऽस्मि विभावसौ | जीवनं सर्वभूतेषु तपश्चाऽस्मि तपस्विषु || ७-९ || यो धरायां केवलधर्मतया गन्धगुणः स स्वभावपुण्यः पूत्युत्कटादीनि तु भूतान्तरसंबन्धात् | उक्तं च दृढं भूमिगुणाधिक्याद्दुर्गन्ध्यग्निगुणोदयात् | जडमम्बगुणौदार्यात् * * * * * * * * * * || इत्यादि || ९ || बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् | बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || ७-१० || बलं बलवतामस्मि कामरागविवर्जितम् | धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ || ७-११ || बीजं-सूक्ष्ममादिकारणम् | कामरागविवर्जितं बलं-सकलवस्तुधारणसमर्थर्म्जोरूपम् | कामः-इच्छा संविन्मात्ररूपा यस्या घटपटादिभिधर्मरूपैर्नास्ति विरोधः | इच्छा हि सर्वत्र भगवच्छक्तितयानुयायिनी न क्वचिद्विरुध्यते धर्मैस्तु-आगन्तुकैर्घटपटादिभिर्भिद्यते इति तदुपासकतया शुद्धसंवित्स्वभावत्वं ज्ञानिनः | उक्तं च शिवोपनिषदि- इच्छायामथवा ज्ञाने जाते चित्तं निवेशयेत् | (वि० भै०, १८) इति | जात एव नतु बाह्यप्रसृते इत्यर्थः | एवं व्याख्यानं त्यक्त्वा ये परस्परानुपघातकं त्रिवर्गं सेवेत-इत्याशयेन व्याचक्षते ते संप्रदायक्रममजानाना भगवद्रहस्यं च व्याचक्षाणा नमस्कार्या एव || ११ || ये चैव सात्त्विका भावा राजसास्तामसाश्च ये | मत्त एवेति तान् विद्धि नत्वहं तेषु ते मयि || ७-१२ || त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् | मोहितं नाभिजानाति मामेभ्यः परमव्ययम् || ७-१३ || सत्त्वादीनि मन्मयानि नत्वहं तन्मयः | अत एव च भगवन्मयः सर्वं भगवद्भावेन संवेदयते | नतु नानाविधपदार्थविज्ञाननिष्ठो भगवत्तत्वं प्रतिपद्यते इति सकलमानसावर्जक एष क्रमः | अनेनैव चाशयेन वक्ष्यते वासुदेवः सर्वमिति इति ज्ञानेन यो बहुजन्मोपभोगजनितकर्मसमतासमनन्तरसमुत्पन्नपरशक्तिपातान् उ-गृहीतान्तः करणोऽसौ प्रतिपद्यते भगवत्तत्वं सर्वं वासुदेवः-इति बुद्धा स महात्मा स च दुर्लभ इति | एवं ह्यबुद्ध्यमानं प्रत्युत सत्त्वादिभिर्गुणैर्मोहितमिदं जगत् गुणातीतं वासुदेवतत्त्वं नैवोपलभते || १३ || कथं खलु सत्त्वादिमात्रस्थिता भगवतस्तत्त्वं न विदुः ? इत्याह दैवी ह्येषा गुणमयी मम माया दुरत्यया | मामेव ये प्रपद्यन्ते मायामतितरन्ति ते || ७-१४ || देवः-क्रीडाकरः तत्र भवा दैवी-क्रीडा ममेयमित्यर्थः | तेन सत्त्वादीनां वस्तुतः संविन्मात्रपरब्रह्मानतिरिक्ततायामपि यत्तदतिरिक्ततावगमनं तदेव गुणत्वं-भोक्तृतत्त्वपारतन्त्र्यं भोग्यत्वम् | तच्च भेदात्मकं रूपं संसारिभिरनिर्वाच्यतया तान् प्रति मायारूपम् | अतो ये परमार्थब्रह्मप्रकाशविदस्ते तदनतिरिक्तं विश्वं पश्यन्तो गुणानां-सत्त्वादीनां गुणतालक्षणां भेदावभासस्वभावां मायामतितरन्तीति मामेव-इत्येवकारस्याशयः | ये तु यथास्थितं भेदावभासमात्रं विदुस्ते मायां नातिक्रामन्ति | तद्युक्तमुक्तं नत्वहं तेषु-इति || १४ || न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः | माययापहृतज्ञाना आसुरं भावमाश्रिताः || ७-१५ || ये च मां सत्यप्यधिकारिणि काये नाद्रियन्ते ते दुष्कृतिनो नराधमाः मूढाः-आसुरास्तामसाः | इति मायामहिमैवायम् || १५ || चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा | आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ || ७-१६ || तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते | प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः || ७-१७ || उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतः | आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् || ७-१८ || बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते | वासुदेवः सर्वमिति स महात्मा सुदुर्लभः || ७-१९ || ये तु मां भजन्ते ते सुकृतिनः ते च चत्वारः | सर्वे चैते उदाराः यतोऽन्ये कृपणबुद्धयः आर्तिनिवारणमर्थादि च तुल्यपाणिपादोदरशरीरसत्त्वेभ्योऽधिकतरं वा आत्मन्यूनेभ्यो मार्गयन्ते | ज्ञान्यपेक्षया तु न्यूनसत्त्वाः | यतस्तेषां तावत्यपि भेदोऽस्ति भगवत इदमहमभिलष्यामि-इति भेदस्य स्फुटप्रतिभासात् | ज्ञानी तु मामेवाभेदतयावलम्बते इति ततोऽहमभिन्न एव | तस्य चाहमेव प्रियो नतु फलम् | अत एव स वासुदेव एव सर्वम्-इत्येवं दृढप्रतिपत्तिपवित्रीकृतहृदयः || १९ || कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः | तं तं नियममास्थाय प्रकृत्या नियताः स्वया || ७-२० || यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति | तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || ७-२१ || स तया श्रद्धया युक्तस्तस्याराधनमीहते | लभते च ततः कामान् मयैव विहितान्हितान् || ७-२२ || अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् | देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि || ७-२३ || ये पुनः स्वेन स्वेनोत्तमादिकामनास्वभावेन विचित्रेण परिच्छिन्नमनसस्ते कामनापहृतचेतनास्तत्समुचितामेव ममैवावान्तरतनुं देवताविशेषमुपासते | अतो मत्त एव कामफलमुपाददते | किन्तु तस्य अन्तोऽस्ति-निजयैव वासनया परिमितीकृतत्वात् | अत एवेन्द्रादिभावनातात्पर्येण यामादि कुर्वन्तस्तथाविधमेव फलमुपाददते | मत्प्राप्तिपरास्तु मामेव || २३ || ननु सर्वगते भगवत्तत्त्वे किमिति देवतान्तरोपासकानां मितं फलम् ? उच्यते- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः | परं भावमजानन्तो ममाव्ययमनुत्तमम् || ७-२४ || ते खलु अल्पबुद्धित्वात् मत्स्वरूपं पारमार्थिकमविद्यमानव्यक्तिकं न प्रत्यभिजानते | अपितु निजकामनासमुचिताकारविशिष्टज्ञानस्वभावं व्यक्तिमेवापन्नं विदन्ति नान्यथा | अत एव न नाम्नि आकारे वा कश्चिद्ग्रहः | किन्तु सिद्धान्तोऽयमत्र यः कामनापरिहारेण यत्किंचिद्देवतारूपमालम्बते तस्य तत् शुद्धमुक्तभावेन पर्यवस्यति | विपर्यात्तु विपर्ययः || २४ || नाहं प्रकाशः सर्वस्य योगमायासमावृतः | मूढोऽयं नाभिजानाति लोको मामजमव्ययम् || ७-२५ || वेदाऽहं समतीतानि वर्तमानानि चार्जुन | भविष्यन्ति च भूतानि मां तु वेद न कश्चन || ७-२६ || सर्वेषां नाहं गोचरतां प्राप्नोमि || २६ || ननु च कर्माण्येव क्रियमाणानि प्रलयकाले मोक्षं विदधते | अन्यथा किमिति महाप्रलय उपजायते ? इत्याशङ्कायामारभते- इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत | सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप || ७-२७ || इच्छाद्वेषक्रोधमोहादिभिस्तावन्मोहात्मक एव स परं स्फीतीभाव-मुपनीयते | येन प्रकृतिजठरान्तर्वर्ति समग्रमेव जगत् निजकार्यकरणमात्राक्षममेव प्रसुप्ततामवलम्बते | आमोहं-वासनानुभवात्प्रतिदिनम् रात्रिसमये सौषुप्तवत् | नतु तावता विमुक्तरूपता-मोहानुभवसमाप्तौ पुनर्विचित्रव्यापारसंसारदर्शनात् || २७ || येषां त्वन्तं गतं पापं जनानां पुण्यकर्मणाम् | ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः || ७-२८ || जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् || ७-२९ || ये तु विनष्टतामसाः पुण्यापुण्यपरिक्षयक्षेमीकृतात्मानस्ते विपाटितमहामोहवितानाः सर्वमेव भगवद्रश्मिखचितं जरामरणमयतमिस्रस्रुतं ब्रह्म विदन्ति || २९ || साधिभूताधिदैवं मां साधियज्ञं च ये विदुः | प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः || ७-३० || आध्यात्मिकाधिभौतिकाधिदैविकाधियज्ञिकानि च ममैव रूपान्तराणि | प्रयाणकाले च नित्यं भगवद्भावितान्तः करणत्वान्मां जानन्ति येतो येषां जन्मपूर्वमेव भगवत्तत्त्वं तेऽन्तकाले परमेश्वरं संस्मरेयुः | किं जन्मासेवनया-इति ये मन्यन्ते तेषां तूष्णींभाव एव शोभन इति शिवम् || ३० || अत्र संग्रहश्लोकः स्फुटं भगवतो भक्तिराहिता कल्पमञ्जरी | साधकेच्छासमुचितां येनाशां परिपूरयेत् || ७ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तमोऽध्यायः || ७ || अथ अष्टमोऽध्यायः अर्जुन उवाच किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम | अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || ८-१ || अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन | प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः || ८-२ || ते ब्रह्म तद्विदुः इत्यादिना यद्भगवतोपक्षिप्तं तत्प्रश्ननवकपूर्वकं निर्णयति | अधियज्ञः कथं कोऽत्र देहे तिष्ठतीति शेषः || २ || श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते | भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः || ८-३ || बृहत्वाद्बृंहकत्वाच्च परं ब्रह्म | अत एव अध्यात्मशब्दवाच्यम् | यतः स्वः-अनिवृत्तधर्मा चैतन्याख्यो भावः | तस्य च चैतन्यस्वभावस्य ब्रह्मणोऽपरिच्छिन्नबाह्यलक्षणतया क्रोडीकृतविश्वशक्तेरैश्वर्यलक्षणात्स्वातन्त्र्यात् बहिर्भावावभासनात्मा बहिर्भूतभावान्तरावभासनात्मा च यो विसर्गः क्रमेण भूतानां-ब्रह्मादिप्रमातॄणां भावानां-जडानाम् उद्भवकारी-जडाजडवैचित्र्यनिर्भासकः | तथा भूतभावस्य-विगलितसकलवितथप्रपञ्चस्य सत्यत्वस्य उद्भवं करोतीति || ३ || अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् | अधियज्ञोऽहमेवात्र देहे देहभृतां वर || ८-४ || क्षरति-स्रवति परिणामादिधर्मेणेति क्षरः-घटादिः पदार्थग्राम उच्यते | पुरुषः-आत्मा स चाधिदैवतम्-तत्र सर्वदेवतानां परिनिष्ठितत्वात् | अत एवाशेषयज्ञभोक्तृत्वेन यज्ञान्-अवश्यकार्याणि कर्माणि अधिकृत्य यः स्थितः पुरुषोत्तमः सोऽहमेव | अहमेव च देहे स्थित इति प्रश्नद्वयमेकेन यत्नेन निर्णीतम् || ४ || अथ योऽवशिष्टः प्रश्नः कथं प्रयाणकाले ज्ञेयोऽसि इति तं निर्णयति- अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् | यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः || ८-५ || यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || ८-६ || तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च | मदर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् || ८-७ || न केवलं स्वस्थावस्थायां यावदन्तकालेऽपि मामेवेति-व्यवच्छिन्न-सकलोपाधिकम् | कथं चास्वस्थावस्थायां विनिवृत्तसकलेन्द्रियचेष्टस्य भगवान् स्मृतिपथमुपेयात्-इत्युपायमपि उपदिशति-सर्वावस्थासु व्यावहारिकीष्वपि यस्य भगवत्तत्त्वं न हृदयादपयाति तस्य भगवत्येव सकलकर्मसंन्यासिनः सततं भगवन्मयस्यावश्यं स्वयमेव भगवत्तत्त्वम्. स्मृतिविषयतां यातीति | सदा तद्भावभावितत्वं चात्र हेतुः | अत एवाह-येनैव वस्तुना सदा भावितान्तःकरणः तदेव मरणसमये स्मर्यते-तद्भाव एव च प्राप्यते इति सर्वथा मत्परम एव मत्प्रेप्सुः स्यादित्यत्र तात्पर्यम् | नतु यदेवान्ते मर्यते तत्तत्त्वमेवावाप्यते-इति | एवं हि सति ज्ञानिनोऽपि यावच्छरीरभाविधातुदोषविकलितचित्तवृत्तेर्जडतां प्राप्तस्य तामसस्येव गतिः स्यात् | न चाभ्युपगमोऽत्र युक्तः-प्रमाणभूतश्रुतिविरोधात् | अस्ति हि- तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् | ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः || (प० सा०, श्लो० ८३) इति | तस्मादेवं विध्यनुवादौ | सदा येन भावितमन्तःकरणं तदेवान्ते-प्रयाणानन्तरं प्राप्यते | तच्च स्मर्यते न वा-इति नात्र निर्बन्धः | अन्वाचयश्चायमपिशब्देन सूचितः | स्मरणस्यासर्वथाभावं वाशब्दः स्फुटयति | सदा च मत्परमो जनः सर्वथा स्यात्- इति तात्पर्यं मुनिरेव प्रकटयति यदाह तस्मात्सर्वेषु कालेषु मामनुस्मर इति | तेनेत्थमत्र पदसङ्गतिः-सदा यं यं भावं स्मरन् कलेवरं त्यजति अन्तेऽपि वा स्मरन् वाग्रहणादस्मरन्वा तं तमेमैति | यतोऽसौ सदा तद्भावेन भावितः | अन्ये तु-कलेवरं त्यजति सति अन्ते-कलेवरत्यागक्षणे बन्धुपुत्रादिप्रमात्रगोचरे श्वासायासहिक्कागद्गदिकादिचेष्टाचरमभाविनि क्षणे शरीरदार्ढ्यबन्धप्रतनूभावाद्देहकृतसुखदुःखमोहवन्ध्ये कालांशे देहत्यजनशब्दवाच्ये यदेव स्मरति तदेव प्रथमसंविदनुगृहीतमस्य रूपं संपद्यते | तादृशे च काले स्मरणस्य कारणं-सदा तद्भावभावितत्वमिति | त्यजति-इति सप्तमी योज्या-इति प्राक्तन एवार्थः | ननु एवमन्तकाले किं प्रयोजनं तत्स्मरणेन ? क एवमाह-प्रयोजनमिति किन्तु वस्तुवृत्तोपनतमेव तद्भवति तस्मिन्नन्त्ये क्षणे | ननु पुत्रकलत्रबन्धुभृतेः शिशिरोदकपानादेर्वा अन्त्ये क्षणे दृष्टं स्मरणम् इति तद्भावापत्तिः स्यात् ? मैवम् | नहि सोऽन्त्यः क्षणः-स्फुटदेहावस्थानात् | नह्यसावन्त्यः क्षणोऽस्मद्विवक्षितो भवादृशैर्लक्ष्यते | तत्र त्वन्त्ये क्षणे येनैव रूपेण भवितव्यं तत्संस्कारस्य दूरवर्तिनोऽपि जातिदेशकालव्यवहितानामपि आनन्तर्ययम् स्मृतिसंस्कारयोरेकरूपत्वाद् (यो० सू० ४, ९) इति न्यायेन प्रबोधेन भाव्यम् | तद्वशात्तत्स्मरणं तत्स्मृत्या तद्भावप्राप्तिः | कस्यचित्तु देहस्य स्वस्थावस्थायामपि तदेव काकतालीयवशाद्व्यज्यते | यथा मृगादेः पुराणे वर्णनम् तत्कृतं तु मृगत्वम् | अत एव प्रयाणकालेऽपि च माम्-इत्यादौ अपि च-इति ग्रहणम् | ये हि सदा भगवन्तं भावयन्ति-एवं भूता भविष्यामः-इति | तेषां तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी || (यो० सू० १/५०) इति न्यायेन तस्यामलक्ष्यायामन्तदशायां संस्कारान्तरापहस्तनेन तत्संस्कारकृते तत्तत्त्वस्मरणे देहसद्भावक्षणकृते च तस्य स्मरणेऽनन्तरं देहविनिपातक्षण एव कालसंस्कारनिवृत्तेस्तदिदमित्यादिवेद्यविभागानवभासात् संविन्मात्रसतत्त्वपरमेश्वरस्वभावतैव भवति-इति श्रीमदभिनवगुप्तगुरुणां संमतम् इत्यलम् | असंशयमिति-नात्र सन्देग्धव्यमिति || ७ || अभ्यासयोगयुक्तेन चेतसानन्यगामिना | परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् || ८- ८ || अनुचिन्तयन्निति शरीरभेदानन्तरं निवृत्तकलेवरकृतव्यथः पश्चाद्भगवन्तं चिन्तयन्निति || ८ || कविं पुराणमनुशासितार मणोरणीयांसमनुस्मरेद्यः | सर्वस्य धातारमचिन्त्यरूप मादित्यवर्णं तमसः परस्तात् || ९ || प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव | भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् || ८-१० || एवमनुस्मरेदिति | आदित्यवर्णमिति-आदित्यवर्णत्वं वासुदेवतत्त्वस्य परिच्छेदकम्-आकृतिकल्पनादिविभ्रान्तिमयमोहतमसोऽतीतत्वात् रवित्वेन उपमानमित्याशयः | भ्रुवोर्मध्ये-इति प्राग्वत् || १० || यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेणाभिधास्ये || ८-११ || सम्यग् गृह्यते-निश्चीयतेऽनेनेति संग्रहः-उपायः | तेनोपायेन तत्पदम् अभिधास्ये-उपायमत्र सतताभ्यासाय वक्ष्ये || ११ || सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च | मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् || ८-१२ || द्वाराणि-इन्द्रियाणि | हृदि-इत्यनेन विषयसंगाभाव उच्यते नतु विष्ठास्थानाधिष्ठानम् | आत्मनः प्राणम्-आत्मसारथिम् इच्छाशक्त्यात्मनि मूर्ध्नि-सकलतत्त्वातीते धारयन्निति कायनियमः || १२ || ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् | यः प्रयाति त्यजन्देहं स याति परमां गतिम् || ८-१३ || अनन्यचेताः सततं यो मां स्मरति नित्यशः | तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः || ८-१४ || ओमिति जपन्निति वाङ्नियमः | मामनुस्मरन्निति चेतसोऽनन्यगामिता | यः प्रयाति-दिनाद्दिनमपुनरावृत्तये गच्छति | तथा च-देहं त्यजन्-कथं मे पुनरिदं सकलापत्स्थानं शरीरं मा भूयात्-इत्येवं यो मामनन्यचेताः स्मरति सततमेव यातिजानाति स मद्भावम् | नत्वत्र मुनेः परंब्रह्माद्वैतपदोपक्षेपविरोधी उत्क्रान्तौ भरः | तथा चोक्तं व्यापिन्यां शिवसत्तायामुत्क्रान्तिर्नाम निष्फला | अव्यापिनि शिवे नाम नोत्क्रान्तिः शिवदायिनी || इति | यदि वा सतताभ्यासोऽपि यैर्न कृतस्तथापि कुतश्चित्स्वतन्त्रेश्वरेच्छादेर्निमित्तादन्त्ये एव क्षणे यदा तादृग्भावो जायते तदायमुत्क्रान्तिलक्षण उपायः संस्कारान्तरप्रतिबन्धक उक्तः | अत एव यदक्षरं वेदविदो वदन्ति इत्यादिना अभिधास्ये इत्यन्तेन प्रतिज्ञा कृता क्षणमात्रस्यापि भगवदनुचिन्तनस्य सकलसंस्कारविध्वंसनलक्षणामद्भुतवृत्तिं प्रतिपादयितुम् | यदाहुराचार्यवर्याः निमेषमपि यद्येकं क्षीणदोषे करिष्यसि | पदं चित्ते तदा शंभो किं न संपादयिष्यसि || (स्त० चिं० श्लो० ११४) इति | अत एव प्रयाणकाले स्मरणेन विना खण्डना-इति येषां शङ्का तान् वीतशङ्कान्कर्तुमुक्तम्-अनन्यचेताः सततमिति-अन्यत्र फलादौ साध्ये यस्य न चेत इत्यर्थः | तस्याहं सुलभ इति-तस्य न किंचित्प्रयाणकालौचित्यपर्येषणम्-तीर्थसेवा उत्तरायणम् आयतनसंश्रयः सत्त्वविवृद्धिः सचिन्तकत्वं विषुवदादि-पुण्यकालः दिनम् अकृत्रिमपवित्रभूपरिग्रहः स्नेहमलविहीनदेहता शुद्धवस्त्रादि-ग्रहः-इत्यादिक्लेशोऽभ्यर्थनीय इत्यर्थः | यत्प्रागुक्तं-तीर्थे श्वपचगृहे वा-इत्यादि || १४ || ननु मद्भावं याति-इत्युक्तम् | तत्किं प्राप्तेऽपि पुनरावृत्तिरस्ति ? इत्याशङ्क्याह- मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् | नप्नुवन्ति महात्मानः संसिद्धिं परमां गताः || ८-१५ || अन्यतस्तु सर्वत एव पुनरावृत्तिरस्तीति समनन्तरेण श्लोकेन प्रतिपाद-यिष्यते | मां तु प्राप्य न पुनर्योगिनो जन्मादित्रासमाप्नुवन्ति || १५ || आब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन | मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते || ८-१६ || ब्रह्मलोकमाप्तानामपि पुनरावृत्तिरस्ति-इति सर्वैर्व्याख्यातम् | एतदभ्युप-गमे च तदुपरितनलोकगतिर्मुक्तिः-इत्यभिहितं स्यात् | तच्च न हृदयंगमम् इति संशयमहामोहकलुषीकृतान्तर्दुशामस्माकं प्रतिभातीयमागमाधिगता व्याख्यावर्त्तिः आब्रह्म-यावत् ब्रह्मपदं प्राप्तं तावत् यस्मात्कस्माच्चित्तिर्यगूर्ध्वाधस्तात्भुवनात् पुनरावर्तन्ते-चक्रवत्स्थानान्तरमविरतं भ्राभ्यन्तो विपरिवर्तन्ते इति || १६ || ननु क एवं जानाति यत्सर्वभुवनेभ्यः पुनरावृत्तिः | ब्रह्मादय एव हि तावच्चिरतरस्थायिनः श्रूयन्ते | ते एव तावत्कथं पुनरावर्तिनः | पुनरावर्तित्वे हि तेऽपि स्युः प्रभवाप्ययधर्माणः ? इत्याह- सहस्रयुगपर्यन्तमहर्ये ब्रह्मणो विदुः | रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः || ८-१७ || अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे | रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके || ८-१८ || भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते | रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे || ८-१९ || ये खलु दीर्घदृश्वानस्ते ब्रह्मणोऽपि रात्रिं दिनं पश्यन्ति प्रलयोदयतया | तथाच | अहरहस्त एव विबुध्य निजां निजामेव चेष्टामनुरुध्यन्ते | प्रतिरात्रि च तेषामेव निवृत्तपरिस्पन्दानां शक्तिमात्रत्वेनावस्थानम् | एवं सृष्टौ प्रलये च पुनः पुनर्भावः | नान्येऽन्ये उपसृज्यन्ते अपितु ते एव जीवाः कालकृतस्तु चिरक्षिप्रप्रत्ययात्मा विशेषः | एष च परिच्छेदः प्रजापतीनामप्यस्ति | ततश्च तेऽपि प्रभवाप्ययधर्माण एव-इति स्थितम् || १९ || सर्वतो लोकेभ्यः पुनरावृत्तिर्नतु मां प्राप्य इति स्फुटयति- परस्तस्मात्तु भावोऽन्यो व्यक्ताव्यक्तः सनातनः | यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति || ८-२० || अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् | यं प्राप्य न निवर्तन्ते तद्धाम परमं मम || ८-२१ || पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया | यं प्राप्य न पुनर्जन्म लभन्ते योगिनोऽर्जुन || ८-२२ || यस्यान्तःस्थानि भूतानि यत्र सर्व प्रतिषिठतम् | उक्तप्रकारं कालसंकलनाविवर्जितं तु वासुदेवतत्त्वम् | व्यक्तम्-सर्वानुगतम् तत्त्वेऽपि अव्यक्तं-दुष्प्रापत्वात् | तच्च भक्तिलभ्यमित्यावेदितं प्राक् | तत्रस्थं चैतद्विश्वम् | यत् खल्वविनाशि रूपं सदा तथाभूतं तत्र कः पुनःशब्दस्यावृत्तिशब्दस्य चार्थः | स हि मध्ये तत्स्वभावविच्छेदापेक्षः | न च सदातनविश्वोत्तीर्णविश्वाव्यतिरिक्तविश्वप्रतिष्ठात्मकपरबोध स्वातन्त्र्य-स्वभावस्य श्रीपरमेश्वरस्य तद्भावप्राप्तिः येन स्वभावविच्छेदः कोऽपि कदाप्यस्ति | अतो युक्तमुक्तं-मामुपेत्य तु-इति || २२ || एवं च सतताभ्यासेन येषां क्लेशं विनैव भगवदाप्तिस्तेषां वृत्तमुक्तम् इदानीमुत्क्रान्त्या येऽपवर्गं भोगं चेच्छन्ति तेषां कश्चिद्विशेष उच्यते- यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः | प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ || ८-२३ || अनावृत्तिः-मोक्षः | आवृत्तिः-भोगाय || २३ || अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् | तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः || ८-२४ || धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् | तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते || ८-२५ || उत्तरेण-ऊर्ध्वेन अयनं-षाण्मासिकम् | तच्च प्रकाशादिधर्मकत्वात् दहनादिकैः शब्दैरुपचर्यते | अतो विपरीतं विपर्ययेण | तत्र चन्द्रमसो भोग्यांशानुप्रवेशाद्भोगायावृत्तिः || २५ || शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते | अनयोर्यात्यनावृत्तिमाद्ययावर्ततेऽन्यया || ८-२६ || अनयोर्गत्योर्मध्यादाद्यया-अनावृत्तिः-मोक्षः | अन्यया भोगः || २६ || नैते सृती पार्थ जानन् योगी मुह्यति कश्चन | तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन || ८-२७ || एते सृती यो वेत्ति-आभ्यन्तरेण क्रमेण योगाभ्यासस्वीकृतेनेत्यर्थः | एतच्च वितत्य प्रकाश्यमानं ग्रन्थं विस्तारयतीत्यलम् | सर्वे ये काला आभ्यन्तराः तद्विषयं योगमभ्यस्येत् | अस्मद्गुरवस्त्वाहुः-सर्वानुग्राहकतया मध्ये आभ्यन्तरकालकृतमुत्क्रान्तिभेदमभिधाय प्रकृतमेव बाह्यकालविषयं मुख्यं प्रमेयमुपसंहृतम् तस्मात्सर्वेषु कालेषु-इत्यादिना || २७ || वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् | अभ्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् || ८-२८ || अभ्येति-अभिभवति-सर्वकर्मसंस्काराणां भगवत्स्मृत्या विफलीकरणात् | सर्वकर्मपरिक्षये चासौ सुखेनैव विन्दति परं शिवमिति शिवम् || २८ || अत्र संग्रहश्लोकः सर्वतत्त्वगतत्वेन विज्ञाते परमेश्वरे | अन्तर्बहिर्न सावस्था न यस्यां भासते विभुः || ८ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहेऽष्टमोऽध्यायः || ८ || अथ नवमोऽध्यायः श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे | ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || ९-१ || अनसूयत्वं ज्ञानसंक्रान्तौ कारणं मुख्यम् | ज्ञानविज्ञाने-प्राग्वत् || १ || राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् | प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् || ९-२ || राजते-सर्वविद्यामध्ये दीप्यते या | इहैव ह्युच्यते-अध्यात्मविद्या विद्यानाम् इति | राज्ञाम्-जनकादीनामत्राधिकारस्तेषां रहस्यम्-अतिगुप्तत्वात् क्षत्रियसुलभेन वीरभावेनाविकम्पत्वात् | कर्तुम्-अनुष्ठातुं सुसुखम् | न चास्य ब्रह्मोपासनात्मनः कर्मणोऽन्यकर्मवदुपभोगादिना व्ययोऽस्ति || २ || अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप | अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि || ९-३ || निवर्तन्ते-पुनःपुनर्जायन्ते म्रियन्ते च || ३ || मया ततमिदं कृत्स्नं जगदव्यक्तमूर्तिना | मत्स्थानि सर्वभूतानि न चाऽहं तेष्ववस्थितः || ९-४ || मत्स्थानि सर्वभूतानीति-सुचिरमपि गत्वा अन्यस्य प्रतिष्ठाधाम्नोऽविद्यमानत्वात् | भूतरूपबोध्यात्मकप्रसिद्धतदीयजडरूपपुरःसरीकारेण तदवभासे तद्विपरीतबोधस्वभावतिरोधानम् | इत्येतदाह-न चाहं तेष्ववस्थितः-इति || ४ || न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | भूतभृन्न च भूतस्थो ममात्मा भूतभावनः || ९-५ || न च मत्स्थानि-अविद्यान्धानां तत्त्वादृष्टेः | नहि मूढा अविच्छिन्नसंवित्स्वभावं परमेश्वरं समस्तवस्तुपरिच्छेदप्रतिष्ठास्थानं मन्यन्ते | अपितु कृशो देवदत्तोऽहम् इदं वेद्मि भूतले इदं स्थितम्-इति मितमेव स्वभावं प्रतिष्ठा-स्थानतया पश्यन्ति | ननु कथमेतद्विरुद्धम् ? इत्याह- पश्य मे योगमैश्वरम्-इति | योगः-शक्तिः-युज्यमानत्वात् | एतदेव ममैश्वर्यं-यदेवं निरतिशयाद्भुतवृत्तिस्वातन्त्र्यमित्यर्थः || ५ || यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् | तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय || ९-६ || एवं हि सर्वभावेषु चराम्यनभिलक्षितः | भूतप्रकृतिमास्थाय सहैव च विनैव च || ९-७ || यद्वदाकाशवायवोरविनाभाविन्यपि संबन्धे न जातुचिन्नभः स्पृश्यता श्रूयते एवं सकलसंसारविसार्यपि भगवत्तत्त्वं न सर्वजनविषयम् || ७ || सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् | कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् || ९-८ || प्रकृतिम्-अव्यक्तरूपाम् || ८ || प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः | भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् || ९-९ || स्वां प्रकृतिमवष्टभ्य-इत्येतावता जडोऽपि स्वतोऽयं भावग्रामः परप्रकृत्यन्वयात्प्रकाशतां प्राप्तः || ९ || न च मां तानि कर्माणि निबध्नन्ति धनञ्जय | उदासीनवदासीनमसक्तं तेषु कर्मसु || ९-१० || मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् | हेतुनानेन कौन्तेय जगद् विपरिवर्तते || ९-११ || न च मेऽस्ति कर्मबन्धः-औदासीत्येन वर्तमानोऽहं यतः | अत एवाहं जगन्निर्माणेऽनाश्रितव्यापारत्वाद्धेतुः || ११ || अवजानन्ति मां मूढा मानुषीं तनुमास्थितम् | परं भावमजानन्तो ममाव्ययमनुत्तमम् || ९-१२ || सोऽहं सर्वजनान्तःशायी सर्वस्यात्मपररूपतयावज्ञास्पदम्-यन्मानुषादि-चतुर्दशविधस र्गव्यतिरिक्त ईश्वरो नोपलभ्यते स कथमस्तीति || १२ || मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः | आसुरीं राक्षसीं चैव प्रकृतिं मोहिनीं श्रिताः || ९-१३ || तेषां च कर्म ज्ञानमाकाङ्क्षाश्च सर्वं निष्फलम्-अवस्तुविषयत्वात् | आसुरीं राक्षसीं चेति-उद्रिक्तरजस्तमोधर्माण इति || १३ || महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः | भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् || ९-१४ || सततं कीर्तयन्तश्च यतन्तश्च यतव्रताः | नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते || ९-१५ || ज्ञानयज्ञेन चाऽप्यन्ये यजन्तो मामुपासते | एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् || ९-१६ || दैवीं-सात्त्विकीम् | यजन्तो-बाह्यद्रव्यादियागैः | अन्ये तु मां ज्ञानयज्ञेनैवोपासते | अतः केचित् एकतया-ज्ञानतः | केचिद् बहुधा-कर्मयोगात् | मत्परा एव सर्वे || १६ || ननु कर्म तावत्कारककलापव्याप्तभेदोद्रेकि कथमभिन्नं भगवत्पदं प्रापयतीति ? उच्यते- अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् | मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् || ९-१७ || पिताहमस्य जगतो माता धाता पितामहः | वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च || ९-१८ || गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् || ९-१९ || तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च | अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन || ९-२० || एकस्यैव निर्भागस्य ब्रह्मतत्त्वस्य परिकल्पितसाधनाधीनं कर्मपुनरेकत्वं निर्वर्तयति-क्रियायाः सर्वकारकात्मसाक्षात्कारेणावस्थाने भगवत्पदप्राप्तिं प्रत्यविदूरत्वात् | उक्तं च- सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || (स्प०, ३ नि०, १६ श्लो०) इति | मयाप्युक्तं- उपक्रमे यैव बुद्धिर्भावाभावानुयायिनी | उपसंहृतिकाले सा भावाभावानुयायिनी || इति तत्र तत्र वितत्य विचारितचरमेतत् इतीहोपरम्यते | तषाम्यहमित्यादि-अद्वैतकथाप्रसङ्गेनोक्तम् || २० || नन्वेवं यदि बाह्ययागादिनापि ब्रह्माप्तिः तर्ह्यग्निष्टोमादिष्वपि किमन्यो याज्यः ? अभ्युपगमे भेदवादः वासुदेव एवेति चेत् कथं नापवर्गस्तैः ? तदर्थमुच्यते- त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते | ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् || ९-२१ || ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति | एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्त || ९-२२ || यद्यपि ते मामेव यजन्ते तथापि स्वर्गमात्रप्रार्थनया मितकर्मनिजसत्त्वदुर्बलतया स्वर्गादिमात्रेणैव फलेनावच्छिन्दन्ति | अत एवैषां पुनरावर्तको धर्मः | एवं ते गतागतं लभन्ते नतु यागस्य पुनरावृत्तिप्रसवधर्मा स्वभावः || २२ || तथाहि अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते | तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् || ९-२३ || तेभ्योऽन्ये मां चिन्तयन्तः कथम्? अनन्या-अविद्यमानम् अन्यत्-मद्व्यतिरिक्तं कामनीयं फलं येषामिति | योगः-अप्रतिलब्धमत्स्वरूपलाभः | क्षेमं-प्राप्तभगवत्स्वरूपप्रतिष्ठालाभपरिरक्षणम् | येन योगभ्रष्टत्वशङ्कापि न भवेदित्यर्थः || २३ || येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः | तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् || ९-२४ || अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च | नतु मामभिजानन्ति तत्त्वेनातश्चलन्ति ते || ९-२५ || यान्ति देवव्रता देवान्पितृन्यान्ति पितृव्रताः | भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् || ९-२६ || पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति | तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः || ९-२७ || येऽपि च नामधेयान्तरैरुपासते तेऽपि मामेवोपासते | नहि ब्रह्मव्यतिरेकि किंचिदुपास्यमस्ति | किन्तु-अविधिनेति विशेषः | अविधिः-अन्यो विधिः नानाप्रकारैर्विधिभिरहमेव परंब्रह्मसत्तास्वभावो याज्य इति | नतु यथान्यैर्दर्शनान्तरदूषणसमुपार्जितमहापातकमलीमसैर्व्य अख-खतम्-अविधिना-दुष्टविधिनेति | एवं हि सति मामेव यजन्ते सर्वयज्ञानां चाहमेव भोक्ता-इति दृश्यमानमेतदसमञ्जसीभवेत् | इत्यलं कल्मषकलिलैः साकं संलापेन | अस्मद्गुरवस्तु निरूपयन्ति-अन्या-स्वात्मव्यतिरिक्ता भेदवादनयेन ब्रह्मस्वभावहीनैव काचिद्देवता-इति गृहीत्वा तामेव यजन्ते | तेऽपि वस्तुतो मामेव-स्वात्मरूपं यजन्ते किन्तु अविधिना-दुष्टेन विधिना भेदग्रहणरूपेणेति | अत एवाह-नतु मां-स्वात्मानं तत्त्वेन-देवतारूपतया भोक्तृत्वेन जानन्ति अतः चलन्ते-मद्रूपात् | किं देवव्रतत्वेन देवान्यान्ति-इत्यादि एतदेव चलनमिति यावत् | ये तु मत्स्वरूपमभेदेन विदुस्ते देवभूतपितृयागादिनापि मामेव यजन्ते | ते च मद्याजिनो मामेव गच्छन्तीत्युपसंहरिष्यति | ननु द्रव्यत्यागार्थमुद्दिष्टा देवतेत्युच्यते तत्कथमनुद्दिश्य स्वात्मतत्त्वस्य याज्यत्वम् आदित्यः प्रापणीयः चरुः-इति विधिशेषभूतदेवतोद्देशात्मकविध्यन्तरभावितो ह्यसावुद्देशः | न च स्वात्मविषयो विधिरस्ति-इत्यभिप्रायेणाह अविधिपूर्वकं मामिति | स्वात्मव्यतिरिक्तायां देवतायामस्ति अपेक्ष्यो विधिः-अप्राप्तप्रापणरूपत्वात् | स्वात्मा तु परमेश्वरो न विधिपूर्वको-विधिपरिप्रापितत्वाभावात् | नहि तदनुद्देशन किंचित्प्रवर्तते | तेन विधिपरिप्रापितेन्द्रादिदेवतोद्देशेषु सर्वेषु स स्वात्मा विश्वावभासनस्वभावः तदुद्देश्यदेवतावभासभित्तिस्थानीयतयैवाहमहमिकया सततावभासमानः स्रक्सूत्रकल्पः सततोद्दिष्ट इति युक्तिसिद्धमेतत् मामेव यजन्ति-अविधिपूर्वकत्वात् | मुख्यभूतमत्प्राप्तिफलस्य तान्प्रति कर्त्रभिप्रायत्वं नास्ति अपितु परिमितदक्षिणास्थानीयेन्द्रादिपदमात्रप्राप्तेरेव याजकवच्चरितार्थत्वमेषाम्-इति प्रथयितुं परस्मैपदम् | यदुक्तं मयैव- वदान्वेद न वेद शांभवपदं दूयेत निर्वेदवान् स्वगार्थी यजमानतां प्रतिजहज्जातो यजन्याजकः | सर्वाः कर्मरसप्रवाहप्रसराः संवित्स्रवन्त्योऽखिला- स्त्वामानन्दमहाम्बुधिं विदधते नाप्राप्य पूर्णां स्थितिम् || इति || २७ || एवं य उक्तक्रमेण वेत्ति-तस्येन्द्रादिदेवतायागोऽपि परमेश्वरयाग इति यदप्यन्यत्कर्म तदपि महेश्वरस्वात्मार्चनरूपं तस्यैव सर्वत्रोद्देशात्-इत्याह यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् | यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् || ९-२८ || शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः | संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि || ९-२९ || देवतान्तरयाजिनो यतो मितमनोरथाः फलं लघयन्ति अतस्त्वं सर्वे प्रागुक्तोपदेशक्रमेण मदर्पणं-मन्मयत्वेन भावनं कुरु | एष एव च संन्यासयोगः | इति विस्तीर्णं विस्पष्टप्रायं पुरस्तादेव || २९ || समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु चाऽप्यहम् || ९-३० || अपि चेत् सुदुराचारो भजते मामनन्यभाक् | साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः || ९-३१ || क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मद्भक्तः प्रणश्यति || ९-३२ || प्रतिजाने इति-युक्तियुक्तोऽयमर्थो भगवत्प्रतिज्ञातत्वात्सुष्ठुतमां दृढो भवति || ३२ || मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः | स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् || ९-३३ || किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा | अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् || ९-३४ || मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः || ९-३५ || पापयोनयः-पशुपक्षिसरीसृपादयः | स्त्रिय इत्यज्ञाः | वैश्या इति-कृष्यादिकर्मान्तररताः | शूद्रा इति-कार्त्स्न्येन वैदिकक्रियानधिकृताः परतन्त्रवृत्तयश्च | तेऽपि मदाश्रिता मामेव यजन्ते | (गजेन्द्रमोक्षणादीनि चरितानि हि परमकारुणिकस्य भगवतः सहस्रशः श्रूयन्ते) | किमङ्ग पुनरेतद्विपरीतवृत्तयः | केचिदाचक्षते-द्विजराजन्यप्रशंसापरमेतद्वाक्यं नतु स्त्र्यादिष्वपवर्गप्राप्तितात्पर्येण-इति | ते हि भगवतः सर्वानुग्राहिकां शक्तिं मितविषयतया खण्डयन्तः तथा परमेश्वरस्य परमकृपालुत्वमसहमानाः न मे द्वेष्योऽस्ति न प्रियः अपि चेत्सुदुराचारः इत्यादीन्यन्यानि चैवंप्रकारस्फुटार्थप्रतिपादकानि वाक्यानि विरोधयन्तो निरतिशययुक्तिप्रपञ्चसाधिताद्वैतभगवत्तत्त्वे भेदलिङ्गं बलादेवानयन्तो अन्यांश्चागमविरोधानचेतयमानाः कथमिदं कथमिदम्-इति पर्यनुयुज्यमाना यदि परमन्तर्गभीकृतजात्यादिमहाग्रहाविष्टान्तःकरणाः मात्सर्यावहित्थलज्जाजिह्मीकृतावाङ्मुखदृष्टयः समग्रस्य जनस्यासत्प्रलापिन इति हास्यरसविषयभावमात्मन्यारोपयन्ति | यत्पूर्वैव व्याख्या सर्वस्य करोति शिवमिति शिवम् || ३५ || अत्र संग्रहश्लोकः अद्वैते ब्रह्मणि परा सर्वानुग्रहशालिनी | शाक्तिर्विजृम्भते तेन यतनीयं तदाप्तये || ९ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे नवमोऽध्यायः || ९ || अथ दशमोऽध्यायः प्राक्तनैर्नवभिरध्यायैर्य एवार्थो लक्षितः स एव प्रतिपदपाठैरस्मिन्नध्याये प्रतायते | तथा चाह-भूय एव-इति | उक्तमेवार्थं स्फुटीकर्तुं पुनः कथ्यमानं शृण्विति | अर्जुनोऽप्येवमेवाभिधास्यति-भूयः कथय इति-इत्यध्यायतात्पर्यम् | शिष्टं निगदव्याख्यातमिति किं पुनरुक्तेन | संदिग्धं तु निर्णेष्यते | श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः | यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || १०-१ || न मे विदुः सुरगणाः प्रभवं न महर्षयः | अहमादिर्हि देवानां महर्षीणां च सर्वशः || १०-२ || यो मामजमनादिं च वेत्ति लोकमहेश्वरम् | असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते || १०-३ || बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः | सुखं दुःखं भवो भावो भयं चाभयमेव च || १०-४ || असंमोहः-उत्साहः || ४ || अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः || १०-५ || महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा | मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || १०-६ || एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः | सोऽविकम्पेन योगेन युज्यते नात्र संशयः || १०-७ || अहं सर्वस्य प्रभवो इतः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः || १०-८ || मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश्च मां नित्यं तुष्यन्ति च रमयन्ति च || १०-९ || परस्परबोधनया अन्योन्यबोधस्फारसंक्रमणात् सर्व एव हि प्रमातार एक ईश्वरः-इति विततव्याप्त्या सुखेनैव सर्वशक्तिकसर्वगतस्वात्मरूपताधिगमेन माहेश्वर्यमेषामिति भावः || ९ || तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् | ददामि बुद्धियोगं तं येन मां प्रापयन्ति ते || १०-१० || तेषामेवानुकम्पार्थमहमज्ञानजं तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || १०-११ || अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् | पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || १०-१२ || आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा | असितो देवलो व्यासः स्वयं चैव ब्रवीषि माम् || १०-१३ || सर्वमेतदृतं मन्ये यन्मे वदसि केशव | न हि ते भगवन्व्यक्तिं विदुर्देवा महषयः || १०-१४ || स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम | भूतभावन भूतेश देवदेव जगत्पते || १०-१५ || वक्तुमर्हस्यशेषेण विभूतीरात्मनः शुभाः | याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि || १०-१६ || कथं विद्यामहं योगिंस्त्वामहं परिचिन्तयन् | केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया || १०-१७ || विस्तरेणात्मनो योगं विभूतिं च जनार्दन | भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् || १०-१८ || श्रीभगवानुवाच हन्त ते कथयिष्यामि विभूतिरात्मानः शुभाः | प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे || १०-१९ || अहमात्मा गुडाकेश सर्वभूताशयस्थितः | अहमादिश्च मध्यं च भूतानामन्त एव च || १०-२० || आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् | मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || १०-२१ || वेदानां सामवेदोऽहं देवानामस्मि वासवः | इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || १०-२२ || रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् | वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् || १०-२३ || पुरोधसां च मुख्यं विद्धि पार्थ ! बृहस्पतिम् | सेनान्यामप्यहं स्कन्दः सरसामस्मि सागरः || १०-२४ || महर्षीणां भृगुरहं गिरामप्येकमक्षरम् | यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः || १०-२५ || अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः | गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः || १०-२६ || उच्चैः श्रवसमश्वानां विद्धि माममृतोद्भवम् | ऐरावतं गजेन्द्राणां नराणां च नराधिपम् || १०-२७ || आयुधानामहं वज्रं धेनूनामस्मि कामधुक् | प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः || १०-२८ || अनन्तश्चास्मि नागानां वरुणो यादसामहम् | पितृणामर्यमा चास्मि यमः संयमतामहम् || १०-२९ || प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् | मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || १०-३० || पवनः पवतामस्मि रामः शस्त्रभृतामहम् | झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || १०-३१ || सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् || १०-३२ || अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च | अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः || १०-३३ || मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् | कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा || १०-३४ || बृहत्साम तथा साम्नां गायत्री छन्दसामहम् | मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः || १०-३५ || द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् | जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || १०-३६ || वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः | मुनीनामप्यहं व्यासः कवीनामुशना कविः || १०-३७ || दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् | मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् || १०-३८ || यच्चापि सर्वभूतानां बीजं तदहमर्जुन | न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || १०-३९ || नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप | एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया || १०-४० || यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा | तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् || १०-४१ || अथवा बहुनैतेन किं ज्ञानेन तवार्जुन ! विष्टभ्याहमिदं कृत्स्नमेकांशेन जगत्स्थितः || १०-४२ || अहमात्मा इत्यनेन व्यवच्छेदं निवारयति अन्यथा स्थावराणां हिमालयः इत्यादिवाक्येषु हिमालय एव भगवान्नान्यः इति व्यवच्छेदेन निर्विभागत्वाभावात् ब्रह्मदर्शनं खण्डितमभविष्यत् | यतो यस्याखण्डाकारव्याप्तिस्तथा चेतसि नोपारोहति तां च जिज्ञासति तस्यायमुपदेशग्रन्थः | तथाहि | उपसंहारे भेदाभेदवादं-यद्यद्विभूतिमत्सत्त्वम् इत्यनेनाभिधाय पश्चादभेदमेवोपसंहरति- अथवा बहुनैतेन* * * * * * * * * विष्टभ्याहम् * * * * * * एकांशेन जगत्स्थितः || इति | उक्तं हि- पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि | इति | प्रजानां सृष्टिहेतुः सर्वमिदं भगवत्तत्त्वमेव तैस्तैर्विचित्रै रूपैर्भाव्यमानं सकलस्य विषयतां यातीति शिवम् || ४२ || अत्र संग्रहश्लोकः इच्छायामिन्द्रिये वापि यदेवायाति गोचरम् | हठाद्विलापयंस्तत्तत्प्रशान्तं ब्रह्म भावयेत् || १० || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे दशमोऽध्यायः || १० || अथ एकादशोऽध्यायः समनन्तरेणाध्यायेन य एवार्थ उक्तस्तमेव प्रत्यक्षीकर्तुमर्जुनः पृच्छति | यो ह्युपदेशक्रमेणार्थोऽवगतः स एव प्रत्यक्षसंविदोपारुह्यमाणः स्फुटीभवति | तदर्थमेवेमे उक्तिप्रत्युक्ती उच्येते अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् | यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || ११-१ || भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया | त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || ११-२ || एवमेतद्यथात्थ त्वमात्मानं परमेश्वरम् | द्रष्टुमिच्छाम्यहं रूपमैश्वरं पुरुषोत्तम || ११-३ || मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो | योगीश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || ११-४ || श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च || ११-५ || पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा | बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि पाण्डव || ११-६ || इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् | मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि || ११-७ || नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् || ११-८ || संजय उवाच एवमुक्त्वा ततो राजन् महायोगीश्वरो हरिः | दर्शयामास पार्थाय परमं रूपमैश्वरम् || ११-९ || अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् | अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् || ११-१० || दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् | सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् || ११-११ || दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता | यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः || ११-१२ || तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा | अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा || ११-१३ || ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः | प्रणम्य शिरसा देवं कृताञ्जलिरभाषत || ११-१४ || अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् | ब्रह्माणमीशं कमलासनस्थ मृषींश्च सर्वानुरगांश्च दिव्यान् || ११-१५ || अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् | नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ! || ११-१६ || किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् | पश्यामि त्वां दुर्निरीक्षं समन्ता द्दीप्तानलार्कद्युतिमप्रमेयम् || ११-१७ || त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् | त्वमव्ययः सात्त्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे || ११-१८ || सात्त्वतधर्मगोप्तेति सत्-सत्यं-क्रियाज्ञानयोरुभयोरपि भेदाप्रतिभासात्मकं तथा सत्तात्मकं प्रकाशरूपं तत्त्वं विद्यते येषां ते-सात्त्वताः | तेषां धर्मः-अनवरतग्रहणसंन्यासपरत्वात्सृष्टिसंहारविषयः सकलमार्गोत्तीर्णः तं गोपायते | एतदेवात्राध्याये रहस्यं प्रायशो देवीस्तोत्रविवृत्तौ मया प्रकाशितम् | तत्सहृदयैः सोपदेशैः स्वयमेवावगम्यते इति किं पुनः पुनः स्फुटतरप्रकाशनवाचालतया || १८ || अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् | पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् || ११-१९ || द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः | दृष्ट्वाद्भुतं रूपमुग्रं तवेदृ ग्लोकत्रयं प्रव्यथितं महात्मन् || ११-२० || अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति | स्वस्तीति चोत्तचैव महर्षिसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः || ११-२१ || रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च | गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || ११-२२ || रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् | बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् || ११-२३ || नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् | दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो || ११-२४ || दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि | दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास || ११-२५ || अमी सर्वे धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः | भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः || ११-२६ || वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि | केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः || ११-२७ || नानारूपैः पुरुषैर्बाध्यमाना विशन्ति ते वक्त्रमचिन्त्यरूपम् | यौधिष्ठिरा धार्तराष्ट्राश्च योधाः शस्त्रैः कृत्ता विविधैः सर्व एव || ११-२८ || त्वत्तेजसा निहता नूनमेते तथाहीमे त्वच्छरीरे प्रविष्टाः | यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा वज्रन्ति || ११-२९ || तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभितो ज्वलन्ति | यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः | तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः || ११-३० || लेलिह्यसे ग्रसमानः समन्ता ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः | तेजोभिरापूर्य जगत्समग्रं भास स्तवोग्राः प्रतपन्ति विष्णो || ११-३१ || आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद | विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् || ११-३२ || तव प्रवृत्तिं न वेद्मि-केनाशयेनेदृशीयमुग्रतेति || ३२ || श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो ल्लोकान्समाहर्तुमिह प्रवृत्तः | ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः || ११-३३ || तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् || ११-३४ || द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि लोकवीरान् | मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || ११-३५ || तदत्र भगवतोत्तरं जगतो विद्याविद्यात्मनः शुद्धाशुद्धमिश्रसंविद्वलग्रासीकारादभिधीयते-इति प्राशयः सूत्रितमत्राध्याये रहस्यम् उट्टङ्कितमात्रसंवित्तिसमर्थेभ्योऽस्तु | कियत्पंक्तिलेखनायासदौः स्थित्यमालम्भेमहि | अत्र यदुक्तं मया हतेषु त्वं निमित्तं यशस्वी भव इति-भगवता तत्प्रत्युक्तं यदुक्तं प्रागर्जुनेन नैतद्विद्भः कतरन्नोः गरीयः-इत्यादि || ११-३५ || संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य || ११-३६ || अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च | रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः || ११-३७ || प्रकीर्त्या-प्रकीर्तनेन || ३७ || कस्माच्चैते न नमेयुर्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे | अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् || ११-३८ || सत्-पदार्थत्वेन | असत्-उपलम्भं प्रत्यविषयत्वात् | अथवा अभावोऽपि धियि निजनिजविशिष्टवाचकसंश्लेषितो ज्ञानाकारमश्नुवानो न परब्रह्मसत्ताव्यतिरिक्तः | सदसद्रूपाभ्यां च परम्-तदुभयबुद्धितिरोधाने तद्रूपोपलब्धेः || ३८ || त्वमादिदेवः पुरुषः पुराण स्त्वमस्य विश्वस्य परं निधानम् | वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपम् || ११-३९ || वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | अनादिमानप्रतिमभावः सर्वेश्वरः सर्वमहाविभूते || ११-४० || नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते | नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व || ११-४१ || नमो नमः-इत्यनेन पौनः पुन्यं भक्त्यतिशयाविष्कारकम् यदेव भगवतातिक्रन्ताध्यायैरभ्यधायि स्वस्वरूपं तदेवार्जुनः प्रत्यक्षोपलम्भविषयापन्नं स्तोत्रद्वारेण प्रकटयतीति तद्व्याख्यानं केवलं पौनरुक्त्यप्रसङ्गायेति विरम्यते || ४१ || नहि त्वदन्यः कश्चिदपीह देव लोकत्रये दृश्यतेऽचिन्त्यकर्मा | अनन्तवीर्योऽमितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः || ११-४२ || सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखे च | अजानता महिमानं तवेमं मया प्रमादात्प्रणयेन वापि || ११-४३ || यच्चावहासार्थमसत्कृतोऽसि विहारशययासनभोजनेषु | एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् || ११-४४ || पितासि लोकस्य चराचरस्य त्वमस्य विश्वस्य गुरुर्गरीयान् | न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव || ११-४५ || तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीढ्यम् | पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियास्यार्हसि देव सोढुम् || ११-४६ || दिव्यानि कर्माणि तवाद्भुतानि पूर्वाणि पूर्वे ऋषयः स्मरन्ति | नान्योऽस्ति कर्ता जगतस्त्वमेको धाता विधाता च विभुर्भवश्च || ११-४७ || तवाद्भुतं किं नु भवेदसह्यं किं वा शक्यं परतः कीर्तयिष्ये | कर्तासि सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव || ११-४८ || अत्यद्भुतं कर्म न दुष्करं ते कर्मोपमानं नहि विद्यते ते | नते गुणानां परिमाणमस्ति न तेजसो नापि बलस्य नर्द्धेः || ११-४९ || अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे | तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास || ११-५० || किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते || ११-५१ || श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् | तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् || ११-५२ || न वेदयज्ञाधिगमनैर्न दानै- र्न च क्रियाभिर्न तपोभिरुग्रैः | एवंरूपं शक्यमाहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर || ११-५३ || मा ते व्यथा मा च विमूढत भूद् दृष्ट्वा रूपं घोरमुग्रं ममेदम् | व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य || ११-५४ || संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः | आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा || ११-५५ || अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन | इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः || ११-५६ || सकलोपसंहारान्ते परमप्रशान्तरूपां ब्रह्मतत्त्वस्थितिं ददाति-इत्युपसंहारे भगवतः सौम्यता || ५६ || श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम | देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः || ११-५७ || नाहं वेदैर्न तपसा न दानेन न चेज्यया | शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा || ११-५८ || भक्त्या त्वनन्यया शक्य ह्यहमेवंविधोऽर्जुन | ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप || ११-५९ || मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः | निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव || ११-६० || अविद्यमानान्यज्ञेयरमणीया येषां भक्तिः परिस्फुरति तेषां मां प्रपद्यते वासुदेवः सर्वम् इत्यादिपूर्वाभिहितोपदेशचमत्कारात् विश्वात्मकं वासुदेवतत्त्वमयत्नत एव बोधपदवीमवतरतीति शिवम् || ६० || अत्र संग्रहश्लोकः शुद्धाशुद्धविमिश्रोत्थसंविदैक्यविमर्शनात् | भूर्भुवः स्वस्त्रयं पश्यन्समत्वेन समो मुनिः || ११ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे एकादशोऽध्यायः || ११ || अथ द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते | ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः || १२-१ || एवम्-उक्तेन नयेन ये सेश्वरब्रह्मोपासकाः ये च केवलमात्ममात्र-मुपासते तेषां विशेषाख्यानाय प्रश्नः || १ || श्रीभगवानुवाच मययावेश्य मनो ये मां नित्ययुक्ता उपासते | श्रद्धया परयोपेतास्ते मे युक्ततमा मताः || १२-२ || माहेश्वर्यविषयो येषां समावेशः-अकृत्रिमस्तन्मयीभावः ते युक्ततमा मम मताः-इत्यनेन प्रतिज्ञा क्रियते || २ || ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते | सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् || १२-३ || सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः | ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः || १२-४ || क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर्दुःखं देहभृद्भिरवाप्यते || १२-५ || ये पुनरक्षरं ब्रह्मोपासते आत्मानं सर्वत्रगम्-इत्यादिभिर्विशेषणैरात्मनः सर्वे ईश्वरधर्मा आरोप्यन्ते | अतो ब्रह्मोपासका अपि मामेव यद्यपि यान्ति तथाप्यधिकतरस्तेषां क्लेशः | आत्मनि किलापहतपाप्मत्वादिगुणाष्टकारोपं विधाय पश्चात्तमेवोपासते इति स्वतःसिद्धगुणग्रामगरिमणि ईश्वरेऽयत्नसाध्ये स्थितेऽपि द्विगुणमायासं विन्दन्ति || ५ || ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः | अनन्येनैव योगेन मां ध्यायन्त उपासते || १२-६ || तेषामहं समुद्धर्ता मृत्युसंसारसागरात् | भवामि न चिरात्पार्थ मययावेशितचेतसाम् || १२-७ || मययेव मन आधत्स्व मयि बुद्धिं निवेशय | निवत्स्यसि त्वं मययेव योगमुत्तममास्थिः || १२-८ || प्रागुक्तोपदेशेन तु ये सर्वं मयि संन्यस्यन्ति तेषामहं समुद्धर्ता-सकलविघ्नादिक्लेशेभ्यः | चेतस आवेशनं व्याख्यातम् | तथा च एष एवोत्तमो योगोऽकृत्रिमत्वात् | तथा च मम स्तोत्रे- विशिष्टकरणासनस्थितिसमाधिसंभावना- विभाविततया यदा कमपि बोधमुल्लासयेत् | न सा तव सदोदिता स्वरसवाहिनी या चिति- यतस्त्रितयसंनिधौ स्फुटमिहापि संवेद्यते || यदा तु विगतेन्धनः स्ववशवर्तितां संश्रय-न्नकृत्रिमसमुल्लसत्पुलककम्पबाष्पानुगः | शरीरनिरपेक्षतां स्फुटमुपाददानश्चितः स्वयं झगिति बुध्यते युगपदेव बोधानलः || तदैव तव देवि तद्वपुरुषाश्रयैर्वर्जितं महेशमवबुध्यते विवशपाशसंक्षोभकम् || इत्यादि || ८ || अहावेशयितुं चित्तं न शक्नोषि मयि स्थिरम् | अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय || १२-९ || तीव्रतरभगवच्छक्तिपातं चिरतरप्रसादितगुरुचरणानुग्रहं च विना दुर्लभ आवेशः-इत्यभ्यासः || ९ || अभ्यासेऽप्यसमर्थोः सन्मत्कर्मपरमो भव | मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि || १२-१० || अभ्यासोऽपि न शक्यते-विघ्नाद्यभिभवात् | अतस्तन्नाशाय कर्म-पूजाजपस्वाध्यायहोमादीन् कुरु || १० || अथैतदप्यशक्तोऽसि कर्तुं मद्योगमास्थितः | सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् || १२-११ || यदि च भगवत्कर्म कर्तुं न शक्तोऽसि-अज्ञत्वात् शास्त्रोक्तक्रमावेदनात् | तत्सर्वं मयि संन्यसेः आत्मनिवेदनद्वारेणेत्याशयः | अमुमेवाशयमाश्रित्य लघुप्रक्रियायां मयैवोक्तं- ऊनाधिकमविज्ञातं पौर्वापर्यविवर्जितम् | यच्चावधानरहितं बुद्धेर्विस्खलितं च यत् || तत्सर्वे मम सर्वेश भक्तस्यार्तस्य दुर्मतेः | क्षन्तव्यं कृपया शंभो यतस्त्वं करुणापरः || अनेन स्तोत्रयोगेन तवात्मानं निवेदये | पुनर्निष्कारणमहं दुःखानां नैमि पात्रताम् || इति | पारमेश्वरेषु हि सिद्धान्तशास्त्रेषु आत्मनिवेदनेऽयमेवाभिप्रायः || ११ || तदिदं तात्पर्यमुपसंह्रियते- श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते | ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरा || १२-१२ || ज्ञानम्-आवेशात्म अभ्यासाच्छ्रेयः-अभ्यासस्य तत्फलत्वात् | तस्मादेवावेशात् ध्यानं-भगवन्मयत्वं विशिष्यते-विशेषत्वं याति-अभिमतप्राप्त्या | सति ध्याने-भगवन्मयत्वे कर्मफलानि संन्यसितुं युज्यन्ते | अन्यथाज्ञातरूपे क्व संन्यासः | कर्मफलत्यागे च आत्यन्तिकी शान्तिः | अतः सर्वमूलत्वादावेशात्मकं ज्ञानमेव प्रधानम् || १२ || अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च | निर्ममो निरहङ्कारः समदुःखसुखः क्षमी || १२-१३ || मैत्री-अमत्सरता यस्यास्तीति | एवं करुणः | ममामी-इत्यादिः ममकारः अहमुदारोऽहं तेजस्वी अहं सहनः-इत्यादिः अहंकारः-एतौ यस्य न स्तः | क्षमा-अपकारिणं शत्रुं प्रत्यद्वेषबुद्धिः || १३ || सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः | मययर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः || १२-१४ || सततं योगी-व्यवहारावस्थायामपि प्रशान्तान्तः करणत्वात् || १४ || यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः || १२-१५ || अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः | सर्वारम्भफलत्यागी यो मद्भक्तः स मे प्रियः || १२-१६ || यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति | शुभाशुभफलत्यागी भक्तिमान्यः स मे प्रियः || १२-१७ || समः शत्रौ च मित्रे च तथा मानावमानयोः | शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः || १२-१८ || तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येनकेनचित् | अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः || १२-१९ || ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते | श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः || १२-२० || अनिकेतः-इदमेव मया कर्तव्यम्-इति यस्य नास्ति प्रतिज्ञा | यथाप्राप्तहेवाकितया सुखदुःखादिकमुपभुज्जानः परमेश्वरविषयसमावेशितहृदयः सुखेनैव प्राप्नोति परमकैवल्यमिति शिवम् || २० || अत्र संग्रहश्लोकः परमानन्दवैवश्यसञ्जातावेशसंपदः | स्वयं सर्वास्ववस्थासु ब्रह्मसत्ता ह्ययत्नतः || १२ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे द्वादशोऽध्यायः || १२ || अथ त्रयोदशोऽध्यायः अर्जुन उवाच प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च | एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव || १३-१ || क्वचिच्छ्रुतौ क्षेत्रज्ञ उपास्यः-इति श्रूयते | स च किमात्मा उतेश्वरः अथ तृतीयः कश्चिदन्य एव ? इति प्रश्नाशङ्कायां श्रीभगवानादिशति- श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेद तं प्राहुः क्षेत्रज्ञ इति तद्विदः || १३-२ || क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम || १३-३ || संसारिणां शरीरं क्षेत्रं यत्र कर्मबीजप्ररोहः | अत एव तेषामात्मा आगन्तुककालुष्यरूषितः क्षेत्रज्ञ उच्यते | प्रबुद्धानां तदेव क्षेत्रम् | अन्वर्थभेदस्तु तद्यथा-क्षिणोति कर्मबन्धमुपभोगेन त्रायते जन्ममरणभयादिति | तांश्च प्रति परमात्मा वासुदेवः क्षेत्रज्ञः एतत्क्षेत्रं यो वेद-वेदयति इत्यन्तर्भावितण्यर्थो विदिः | तेन यत्प्रसादादचेतनमिदं चेतनीभावमायाति स एव क्षेत्रज्ञो नान्यः कश्चित् | विशेषस्तु परिमितव्याप्तिकं रूपमालम्ब्य आत्मेति भण्यते अपरिच्छिन्नसर्वक्षेत्रव्याप्त्या परमात्मा भगवान्वासुदेवः ममेति कर्मणि षष्ठी-अहमनेन ज्ञानेन ज्ञेय इत्यर्थः || ३ || तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | स च यो यत्स्वभावश्च तत्समासेन मे शृणु || १३-४ || ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम् || १३-५ || येन विकारं गच्छति यद्विकारि | समासेन-इत्यविभागेनैवैतान्प्रश्नान् साधारणोत्तरेण परिच्छिनत्ति | यद्यपि च ऋषिभिर्बहुधा वेदैश्चोक्तमेतत् तथापि समासेनाहं व्याचक्ष इति || ५ || महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः || १३-६ || अव्यक्तं-प्रकृतिः | इन्द्रियाणि-मनसा सहैकादश | इन्द्रियगोचराः-रूपादयः पञ्च || ६ || इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः | एतत्क्षेत्रं समासेन सविकारमुदाहृतम् || १३-७ || चेतना-दृक्शक्तिः पुरुषः | धृतिरिति अन्ते किल सर्वस्य-आ ब्रह्मणः क्रिमिपर्यन्तस्य प्रारब्धे निष्पन्ने वा कार्ये कामक्रोधादिषु च इयतैव मम पर्याप्तं किमन्येन ईदृशश्चाहं नित्यमेव भूयासम्-इति प्राणसंघारिणी धृतिराश्वासनात्मिका पररहस्यशासनेषु रागशब्दवाच्या जायते || ७ || एवं क्षेत्रं व्याख्यातं क्षेत्रज्ञश्च | इदानीं ज्ञानमुच्यते- अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः || १३-८ || इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च | जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् || १३-९ || असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु | नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु || १३-१० || मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | विविक्तदेशसेवित्वमरतिर्जनसंसदि || १३-११ || अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा || १३-१२ || अनन्ययोगेनेति-परमात्मनो महेश्वरादन्यदपरं न किंचिदस्ति-इत्यनन्यरूपो यो निश्चयः स एव योगः-तेन निश्चयेन मयि भक्तिः | अत एव सा न कदाचिद्व्यभिचरति-व्यभिचारहेतुत्वाभिमतानां कामनानामभावात् तासामपि वा चित्तवृत्त्यन्तररूपाणां तदेकमयत्वात् | एवं सर्वत्रानुसंधेयम् एतद्विपरीतमज्ञानम् तथा मानित्वादीनि || १२ || एतेन ज्ञानेन यज्ज्ञेयं तदुच्यते- ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते | अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते || १३-१३ || सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति || १३-१४ || सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् | असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च || १३-१५ || बहिरन्तश्च भूतानामचरं चरमेव च | सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् || १३-१६ || अविभक्तं च भूतेषु विभक्तमिव च स्थितम् | भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च || १३-१७ || ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते | ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् || १३-१८ || अनादिमत्परं ब्रह्म-इत्यादिभिर्विशेषणैर्ब्रह्मस्वरूपाक्षेपानुग्राहकं सर्वप्रवादाभिहितविज्ञानापृथग्भावं कथयति | एतानि च विशेषणाणि पूर्वमेव व्याख्यातानीति किं निष्फलया पुनरुक्त्या || १८ || एतत्क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः | मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते || १३-१९ || एतत्क्षेत्रज्ञानज्ञेयात्मकं त्रयं यो वेत्ति स एव मद्भक्तः | स च मद्भावमेति || १९ || एतल्लक्षणं कृत्वा परीक्षा क्रियते- प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् || १३-२० || प्रकृतिरप्यनादिः-कारणान्तराभावात् | विकाराः-पटादयः || २० || कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते | पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते || १३-२१ || प्रकृतिरिति कार्यकारणभावे हेतुः | पुरुषस्तु प्राधान्याद्भोक्ता || २१ || पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् | कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु || १३-२२ || प्रकृतिपुरुषयोः पङ्ग्वन्धवत्किलान्योन्यापेक्षा वृत्तिः || २२ || उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः || १३-२३ || अत एवास्य शास्त्रकृद्भिर्नानाकारैर्नामभिरभिधीयते रूपम्-उपद्रष्टा-इत्यादिभिः | अयमत्र तात्पर्यार्थः | प्रकृतिः तद्विकारश्चतुर्दशविधः सर्गः तथा पुरुषः-एतत्सर्वमनादि नित्यं च ब्रह्मतत्त्वाच्छुरितत्वे सति तदनन्यत्वात् || २३ || तथा चाह- य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह | सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते || १३-२४ || एवम्-अनेन सर्वाभेदरूपेण ब्रह्मदर्शनेन यो योगी प्रकृतिं पुरुषं गुणांश्च तद्विकारान् जानाति | सर्वेण प्रकारेण यथातथा वर्तमानोऽपि स मुक्त एवेत्यर्थः || २४ || ध्यानेनाऽऽत्मनि पश्यन्ति केचिदात्मानमात्मना | अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे || १३-२५ || अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते | तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः || १३-२६ || ईदृशं च ज्ञानं प्रधानं कैश्चिदात्मतया उपास्यते | अन्यैः प्रागुक्तेन सांख्यनयेन | अपरैः कर्मणा | इतरैरपि स्वयमीदृशं ज्ञानमजानद्भिरपि श्रवणप्रवणैर्यथाश्रुतमेवोपास्यते | तेऽपि मृत्युंसंसारं तरन्ति | येनकेनचिदुपायेन भगवत्तत्त्वमुपस्यमानमुत्तारयति | अतः सर्वथैवमासीतेत्युक्तम् || २६ || यावत्किञ्चित्सम्भवति सत्त्वं स्थावरजङ्गमम् | क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ || १३-२७ || यत्किंचित् चरमचरं च तत्सर्वं क्षेत्रज्ञातिरेकि न संभवतीति || २७ || समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति || १३-२८ || अत एव समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् | न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् || १३-२९ || सर्वत्रैव समबुद्धिर्योगी आत्मानं न हिनस्ति-दुस्तरे संसारार्णवे न पातयति || २९ || प्रकृत्यैव हि कर्माणि क्रियमाणानि सर्वशः | यः पश्यति तथात्मानमकर्तारं स पश्यति || १३-३० || यस्य हि ईदृशी स्थिरतरा बुद्धिर्भवति-प्रकृतिरेवेदं करोति नाहं किंचित् स सर्वं कुवाणोऽपि न करोति | एवमकर्तृत्वम् || ३० || यदि वा यदा भूतपृथग्भावमेकस्थमुनपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा || १३-३१ || अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || १३-३२ || यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते || १३-३३ || विस्तीर्णत्वेन सर्वव्याप्त्या यदा भूतानां पृथक्तां-भिन्नताम् आत्मन्येव पश्यति आत्मन एव चोदितां तां मन्यते | तदापि सर्वकर्तृत्वान्न लेपभाक् | यतोऽसौ परमात्मैव शरीरस्थोऽपि न लिप्यते-आकाशवत् || ३३ || यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत || १३-३४ || ननु एकः परमात्मा कथमनेकानि क्षेत्राणि व्याप्नोति ?-इत्याशङ्का प्रसिद्धेन रविणा दृष्टान्तेनापाकृता | कृत्स्नं क्षेत्रं-चराचराणि क्षेत्राणीत्यर्थः || ३४ || क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा | भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् || १३-३५ || एवमध्यायेन यदुक्तं ज्ञेयं ज्ञानं क्षेत्रक्षेत्रज्ञयोरन्तरं भूतप्रकृतेश्च स्वल्पात्परिणामधर्मत्वान्मोचनं तत् ये ज्ञानलक्षणेन सर्वत्राप्रतिहतेनालौकिकेन चक्षुषा पश्यन्ति ते वासुदेवतां प्राप्य लभन्त एव परमं शिवमिति शिवम् || ३५ || अत्र संग्रहश्लोकः पुमान्प्रकृतिरित्येष भेदः संमूढचेतसाम् | परिपूर्णास्तु मन्यन्ते निर्मलात्ममयं जगत् || १३ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे त्रयोदशोऽध्यायः || १३ || अथ चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् | यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः || १४-१ || यदेव पूर्वोक्तं ज्ञानं तदेव पुनः प्रकर्षेण प्रत्येकं गुणस्वरूपनिरूपणया वैतत्येन वक्ष्यामि | यज्ज्ञात्वा-इत्यनेनास्य ज्ञानस्य दृष्टप्रत्ययतां प्रसिद्धिं चाह || १ || इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः | सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च || १४-२ || व्यथन्तीति-च्छान्दसत्वात्तिङ्प्रत्ययः | एवमन्यत्रापि सुप्तिङ्प्रत्यये वाच्यम् || २ || तत्रादौ संसृतौ क्रममाह- मम योनिर्महद्ब्रह्म तस्मिन्गर्भं ददाम्यहम् | सम्भवः सर्वभूतानां ततो भवति भारत || १४-३ || हातव्ये ज्ञाते तत्कारणे च सुकरं हि हानम् | मम-तावदव्यपदेश्यपरमानन्दरूपस्य महद्ब्रम्ह-वृंहकात्मीयशक्तिरूपं ब्रह्म | आत्मीयामेव हि विमर्शशक्तिमालम्ब्याहमनादीनात्माणून् अनुग्रहार्थं संसारयामि || ३ || अत एव- सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः | तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता || १४-४ || सर्वासु योनिषु आदिकारणतया बृंहिका भगवच्छाक्तिः-सकलसंसारवमनस्वभावा माता | पिता त्वहं-शक्तिमानव्यपदेश्यः || ४ || सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || १४-५ || देही चायमात्मतया सत्त्वरजस्तमोभिर्धर्मैरपवर्गपर्यन्ताय भोगाय निबध्येत || ५ || तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् | सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || १४-६ || रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् | तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् || १४-७ || क्रमेणैषां रूपमुच्यते | सत्त्वं-निर्मलम् | तृष्णा सङ्गस्य समुद्भवो यतः || ७ || तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् | प्रमादालस्यनिद्राभिस्तन्निबध्नानि भारत || १४-८ || दुर्लभस्यापि चिरतरसञ्चितपुण्यशतलब्धस्यापवर्गप्राप्तावेककारणस्य मानुष्यकस्य वृथातिवाहनं-प्रमादः | तथाह्युक्तं- आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते | स वृथा नीयते येन स प्रमादी नराधमः || इति | आलस्यं-शुभकरणीयेषु | निःशेषेण द्राणम् कुत्सिता गतिः-निद्रा || ८ || सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत || १४-९ || सञ्जयति-योजयति || ९ || रजस्तमश्चाभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा || १४-१० || रजस्तमसी अभिभूय सत्त्वं वर्धते | रजस्तु सत्त्वतमसी | तमः सत्त्वरजसी | उक्तं हि अन्योन्याभिभवेन गुणवृद्धिः | इति || १० || प्. २८८) सर्वद्वारेषु देहेऽस्मिन्प्रकाशमुपजायते | ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || १४-११ || लोभः प्रवृत्तिरारम्भः कर्मणामशमश्च तृट् | रजस्येतानि जायन्ते विवृद्धे भरतर्षभ || १४-१२ || अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च | तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन || १४-१३ || सर्वद्वारेषु-सर्वेन्द्रियेषु | लोभादयः क्रमेणैव रजस्युद्रिच्यमाने जायन्ते | एवमप्रकाशादयः क्रमेणैव तमोविवृद्धावाविर्भवन्ति || १३ || यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् | तदोत्तमविदां लोकानमलान्प्रतिपद्यते || १४-१४ || यदा समग्रेणैव जन्मनानवरतसात्त्विकव्यापाराभ्यासात्सत्त्वं विवृद्धं भवति तदा प्राप्तप्रलयस्य शुभलोकावाप्तिः || १४ || रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते | तथा प्रलीनस्तमसि मूढयोनिषु जायते || १४-१५ || एवं जन्माभ्यस्तराजसकर्मणः प्रयाणात् विमिश्रोपभोगाय मानुप्यावाप्तिः | तथा-तेनैव क्रमेण यदा समग्रेण जन्मना तामसमेव कर्माभ्यस्यते तदा नरकतिर्यग्वृक्षादिदेहेषूत्पद्यते | ये तु व्याचक्षते-मरणकाल एव सत्त्वादौ विवृद्धे एतानि फलानि-इति | ते न सम्यक्शारीरेऽनुभवे प्रविष्टाः | यतः सर्वस्यैव सर्वथान्त्ये क्षणे मोह एवोपजायते | अस्मद्व्याख्यायां च संवादीनीमानि श्लोकान्तराणि || १५ || कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् | रजसस्तु फलं दुःखमज्ञानं तमसः फलम् || १४-१६ || सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च | प्रमादमोहौ जायेते तमसोऽज्ञानमेव च || १४-१७ || ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः | जघन्यगुणवृत्तिस्था अधो गछन्ति तामसाः || १४-१८ || नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति | गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति || १४-१९ || गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् | जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते || १४-२० || अत्र केचिदसंबद्धाः श्लोकाः कल्पिताः पुनरुक्तत्वात्ते त्जाज्या एव | एतद्गुणातीतवृत्तिस्तु मोक्षायैव कल्पते || २० || ननु यदि अयं देही तत्कथं गुणातीतो भवति | सर्वथैव हि कयाचिच्चित्तवृत्त्या वर्तते सा च त्रैगुण्यादन्यतमा अवश्यं भवति ?-अनेनाभिप्रायेण पृच्छति अर्जुनः अर्जुन उवाच कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो | किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते || १४-२१ || अत्रोत्तरं- शीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव | न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति || १४-२२ || यद्यपि प्रकाशादिकाः सर्वेषु धर्मेषु वर्तन्ते तथापि योगिनस्तेषु प्रकाशादिषु न रज्यन्ते नापि द्वेषवन्तो भवन्ति | अपितु केवलपिण्डधर्मतयैते स्थिताः न मां क्षोभयितुमलम्-इति मन्वाना गुणातीता भवन्ति || २२ || अत एवाह- उदासीनवदासीनो गुणैर्यो न विचाल्यते | गुणा वर्तन्ते इत्येव योऽज्ञस्तिष्ठति नेङ्गते || १४-२३ || समदुःखसुखःस्वप्नः समलोष्टाश्मकाञ्चनः | तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः || १४-२४ || मानावमानयोस्तुल्यस्तुल्यो मित्रापरिपक्षयोः | सर्वारम्भफलत्यागी गुणातीतः स उच्यते || १४-२५ || यः अज्ञो निर्विवेकस्तिष्ठति स एव ज्ञः-सम्यग्ज्ञानात् | तथा हि | नेङ्गते-न स्वरूपाच्च्यवते | अत्र चोपायः-शरीरेन्द्रियादिस्वभाव एष यत्प्रवर्तनम् नतु फलं किंचिदहमभिसन्दध इति स्थिरा बुद्धिः || २५ || मां च योऽव्यभिचारेण भक्तियोगेन सेवते | स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते || १४-२६ || अनेन मूलभूतमुपायमुपदिशति मां चेति | चशब्दोऽवधारणे यो मामेव सेवते | अनेन-फलादिसाकाङ्क्षो मामङ्गत्वेना श्रयति फलं प्रधानतया-इति निरन्तः | अत एव नास्याव्यभिचारिणी मक्तिः-फलं प्रति ह्यसावास्थावानिति | यस्तु फलं किंचिदप्यनभिलष्यन् किमेतदलीकमनुतिष्ठसि-इति पर्यनुयुज्यमानोऽपि निरन्तरभगवद्भक्तिवेधविद्रुतान्तःकरणतया कण्टकितरोमवान् वेपमानतनुर्विस्फारितनयनयुगलपरिवर्तमानसलिलसंपातः तूष्णींभावेनैवोत्तरं प्रयच्छति | स एवाव्यभिचारिण्या भगवतो महेश्वरस्याग्रशक्त्या भक्त्या पवित्रीकृतो नान्य इति ज्ञेयम् || २६ || ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च | शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च || १४-२७ || अहमेव हि ब्रह्मणः प्रतिष्ठा | मयि सेव्यमाने ब्रह्म भवति अन्यथा जडरूपतया ब्रह्म उपास्यमानं मोक्षमपि सौषुप्तादविशिष्टमेव प्रापयेदिति शिवम् || २७ || अत्र संग्रहश्लोकः लसद्भक्तिरसावेशहीनाहंकारविभ्रमः | स्थितेऽपि गुणसंमर्दे गुणातीतः समो यतिः || १४ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे चतुर्दशोऽध्यायः || १४ || अथ पञ्चदशोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् | छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् || १५-१ || अनेन शास्त्रान्तरेषु यदुच्यते-अश्वत्थः सर्वं स एवोपासनीयः-इत्यादि तस्य भगवद्भह्योपासा तात्पर्यमित्युच्यते | मूलंप्रशान्तं रूपम् | तत् ऊर्ध्वं-सर्वतो हि निवृत्तस्य तदाप्तिः | छन्दांसि पर्णानीति-यथा वृक्षस्य मानत्वफलवत्त्वसरसतादयः पर्णैः सूच्यन्ते एवं ब्रह्मतत्त्वस्य वेदोपलक्षितशास्त्रद्वारिका प्रतीतिरित्याख्यायते || १ || अधश्चोर्ध्वं प्रसृता यस्य शाखा गुणप्रवृद्धा विषयप्रवालाः | अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके || १५-२ || न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा | अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण शितेन च्छित्त्वा || १५-३ || ततः पदं तत्परिमार्गितव्यं यस्मिन्गतो न निवर्तेत भूयः | तमेव चाद्यं पुरुषं प्रपद्ये- द्यतः प्रवृत्तिः प्रसृता पुराणी || १५-४ || निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै- र्गच्छन्त्यमूढाः पदमव्ययं तत् || १५-५ || गुणैः-सत्त्वादिभिः | प्रवृद्धाः-देवादिस्थावरान्ततया | तस्य च शुभाशुभात्मकानि कर्माणि अघस्तनमूलानि | तं छित्त्वेति-विशेष्ये क्रियाभिधीयमाना सामर्थ्यादत्र विशेषणपदमुपादत्ते दण्डी प्रैष्याननुब्रूयात्-इति विधिवत् | तेनाधोरूढानि मूलान्यस्य च्छिन्द्यादिति | तत्-पदं-प्रशान्तम् अव्ययं पदं तदेव || ५ || न तद्भासयते सूर्यो न शशाङ्को न पावकः | यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || १५-६ || सूर्यादीनां तत्रानवकाशः | तेषां कालाद्यवच्छेदात् वेद्यत्वात् करणोपकारकत्वात् | तस्य तु दिक्कालाद्यनवच्छेदात् वेदकत्वात् करणप्रवर्तकत्वात्-तदतीतत्वात् || ६ || ममैवांशो जीवलोके जीवभूतः सनातनः | मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति || १५-७ || ब्रह्मण एवायमंश इति | अज्ञानधर्मतया परिपूर्णस्यासंवेदनाञ्चेतनतानिवृत्तेश्चांशत्वमुपचरितं न पुनर्वस्तुतोऽंशवत्तोपपद्यते- प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तः | (अविकल्प्यश्च) इति हि श्रुतिः | एषैव चौपचारिकता यथावसरं योजनीयेति न विप्रतिपत्तव्यम् || ७ || शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः | गृहीत्वैतानि संयति वायुर्गन्धानिवाशयात् || १५-८ || अवाप्नोति-गृह्णाति | उत्क्रामति-त्यजति | एतैः सह | यथा वायुः सर्वगतो विश्रान्तिधाम पार्थिवं प्राप्य ततो गन्धमानीय स्थानान्तरे तत्सहित एव संक्रामति एवं जीवः पुर्यष्टकेन सह | एवं सृष्टौ संहारे चैतैः साहित्यमस्योक्त्वा स्थितावपि स्थानासनमननादिरूपायां विषयग्रहणात्मिकायां तत्सहितस्यैवास्य व्यापार इति निश्चीयते || ८ || श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च | अधिष्ठाय मनश्चायं विषयानुपसेवते || १५-९ || तिष्ठन्तमुत्क्रामन्तं वा भुञ्जानं वा गुणान्वितम् | विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः || १५-१० || मन इत्यनेनान्तःकरणमुपलक्ष्यते | अत एव शरीरस्थितियोगात्तिष्ठन्तम् | शरीरान्तरग्रहणाय उत्क्रामन्तम् | विषयान्वा भुञ्जानं मूढा न पश्यन्ति-अप्रबुद्धत्वात् | प्रबुद्धास्तु सर्वत्रैव बोधरूपमेवानुसन्दधाना जानन्त्येव इत्यलुप्त-समाधयः-तेषां यत्नपरत्वात् || १० || यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् | यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः || १५-११ || अकृतात्मनां तु यत्नोऽपि न फलाय-अपरिपक्वकषायत्वात् | नहि शरदि सलिलादिसामग्रीसंमर्देऽपि धान्यबीजानि उप्यमानानि फलसंपदेऽलम् | अत एव सामग्री एव सास्य न भवति-अन्यदेव किल मधुमाससंभृतजलधरपटलीप्रेरितमम्भः | काचिदेव च सा भूः यस्यां शिशिरविवशीकृतायां रविकरस्पर्शेनैव कान्तिः | एवमकृतात्मनां यत्नो न सकलाङ्गपरिपूर्णत्वमायाति | एत एव प्राप्याप्युपायं पारमेश्वरदीक्षादि ये तथाविधक्रोधमोहादिग्रन्थिसन्दर्भगर्भीकृतान्तर्दृशः तेषूपाय एव साकल्यं न भजतीति मन्तव्यम् | यदुक्तं- क्रोधादौ दृश्यभावे हि दीक्षितोऽपि न मुक्तिभाक् | इति || ११ || यदादित्यगतं तेजो जगद्भासयतेऽखिलम् | यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् || १५-१२ || गामाविश्य च भूतानि धारयाम्यहमोजसा | पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः || १५-१३ || अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः | प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् || १५-१४ || अर्कादितेजस्रयरूपतया दशमाध्यायसूचितसृष्टिस्थितिसंहारप्रकटीकरणे श्रीगुरवः प्राहुः-भूतपञ्चकस्य समस्तव्यस्ततया यल्लोकधारकत्वं तद्भगवत एव माहेश्वर्यमित्येतदनेन | तथाहि | रवितेजसः प्रकाशकत्वं धारकत्वं च-तेजोधराद्वयतादात्म्यात् | तदेतदुक्तं-यदादित्यगतम् इति गामाविश्य च इति चार्धद्वयेन | चान्द्रं तेजः प्रकाशकं पोषकं च-जलतेजोयोगात् | तदुक्तं-यच्चन्द्रमसि इत्यनेन भागेन पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः | इति चार्धश्लोकेन | वाह्नं तु तेजः प्रकाशनशोषणदहनस्वेदनपचनात्मकं-पृथिव्यप्तेजोवायुयोगा त् | तदेतदिहोक्तं-यच्चाग्नौ इत्यनेन अहं वैश्वानरः-इत्यनेन च | नभस्तु बोधावकाशरूपतया सर्वगतमेव || १४ || अत एव बोध्यरूपतामुक्त्वा तद्बोध्यस्वरूपपृष्ठपतितस्वातन्त्र्यबोधस्वभावमात्मानं परस्वभावं परमेश्वररूपं सर्वज्ञानस्वतन्त्रं सर्वकर्तारं दर्शयितुमाह- सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च | वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृतद्वेदविदेव चाहम् || १५-१५ || सर्वस्य वेद्यस्य यत् हृत्-समस्ताहरणस्वतन्त्रबोधस्वभावं तत्राहमिति यो विमर्शस्तत एवापूर्वाभासनामयं ज्ञानं विश्वमहासृष्टिरूपम् | अयं घट एव-इति सर्वात्मकभावखण्डनासारं विकल्पज्ञानात्मकमपोहनं पाशवसृष्टिरूपमायामयप्रमात्रुचितम् | स्मरणं च संस्कारशेषतां नीतस्य संहृतस्य पुनरवभासनात्मकमिति इयता समस्तज्ञानानि संहृतानि | इति सर्वज्ञतापूर्वकं स्वातन्त्र्यरूपं कर्तृत्वमुक्तम् | सर्वैरिति-संभूय किल सर्वशास्त्राणां परमेशतत्त्वमेव निरूप्यम् | वेदवेदान्तकर्तृत्वेन कर्मफलतत्संबन्धादिद्वारतया अशेषविश्वनिर्माणे तदुन्मूलनेन पुनः स्वरूपप्रतिष्ठापने भगवत एव स्वातन्त्र्यमिति विश्वकर्तृत्वमुक्तम् | अन्ये तु अपोहनम्-अनेनाकृतेनेदं भवति इति व्यतिरेकबुद्धिः | वेदान्तं करोति इत्यात्मसाद्भावेन | एवं वेदम् || १५ || द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च | क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते || १५-१६ || उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः | यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः || १५-१७ || यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || १५-१८ || लोके द्वाविमौ पुरुषौ-इति ग्रन्थेनेदमुच्यते-लोके तावदप्रबुद्धस्वभावोऽपि सर्व पृथिव्यादिभूतारब्धशरीरमात्मानं चेतनं क्षररूपं जानातीति लोकस्य मूढत्वात् द्वैतधीर्न निवर्तते | अहं तु सकलानुग्राही द्वैतग्रन्थिं विभिद्य सकललोकव्यापकतया वेद्य इति | क्षरमतीतः-भूतानां जडत्वात् | अक्षरमतीतः-आत्मनोऽप्रबुद्धत्वे सर्वव्यापकत्वखण्डनात् | पुरुषोत्तमो लोके वेदेऽपि स उत्तमः पुरुषः-इत्यादिभिर्व्याक्यैः स एव परमात्माद्वय एवमुच्यते || १८ || यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् | स सर्वविद्भजति मां सर्वभावेन भारत || १५-१९ || एवं जानानः सर्वमयं मामेव ब्रह्मतत्त्वमुपासीनः सर्वं मन्मयत्वेन विदन् सर्वेण भावेन-मूर्तिक्रियाज्ञानात्मकेन मामेव भजते | यत्पश्यति तद्भगवन्मूर्तितये-त्यादि | तथा च मयैव शिवशक्त्यविनाभावस्तोत्रे- तव च काचन न स्तुतिरम्बिके सकलशब्दमयी किल ते तनुः | निखिलमूर्तिषु मे भवदन्वयो मनसिजासु बहिष्प्रसरासु च || इति विचिन्त्य शिवे शमिताशिवे जगति जातमयत्रवशादिदम् | स्तुतिजपार्चनचिन्तनवर्जिता न खलु काचन कालकलापि मे || इति || १९ || इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ | एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || १५-२० || गुह्यतमं-सर्वाद्वयप्रतिपादकत्वात् | एतदेव बुद्धा बुद्धिमत्त्वं नतु व्यवहारबुद्धा | एतेन च ज्ञातेनैव कृतकृत्यता नतु कृतेनापि शत्रुविजयार्थाहरणस्त्र्युपभोगादिना | चकारोऽद्भुतद्योतकः | कृतेन हि कृतकृत्यता दृष्टा एतेन तु ज्ञातेनैवेति चित्रम् | इतिशब्देन शास्त्रस्य समाप्तिः सूचिता-वक्तव्यस्य परिपूर्णतया समाप्तत्वात् | तथाहि | षोडशाध्यायेन शिष्यस्यार्जुनस्य केवलं योग्यता प्रतिपाद्यते | नतूपदिश्यते किंचित् | दैवी ह्येवंविधा संपत् आसुरी चाविद्यामययेतादृशी संपत् | त्वं च विद्यामयीं दैवीं संपदंमभिप्राप्तः-इत्येतावति हि तात्पर्यम् | यद्वक्ष्यति मा शुचः संपदं दैवीम्-इति | अत एव पूर्वं विद्याविद्यासंघट्टनिरूपणावसरे देवासुरसंग्रामच्छलेन विद्याविद्ययोः संघर्ष इति सूचितम् | एवं च शिष्यस्वरूपे प्राधान्येन निरूप्यमाणे प्रसङ्गतोऽन्यदप्युक्तम् | इत्यध्यायद्वयं भविष्यति | उपदेशस्त्वित एव परिसमाप्तः | सर्वभावेन हि परमेश्वरभजनमावेशरूपं प्राप्यम् | तदर्थं चात्यत्सर्वमित्युक्तं प्राक् | सर्वमाहेश्वरस्वरूपावेश एव हि परमं शिवमिति शिवम् || २० || अत्र संग्रहश्लोकः हृत्वा द्वैतमहामोहं कृत्वा ब्रह्ममयीं चितिम् | लौकिके व्यवहारेऽपि मुनिर्नित्यं समाविशेत् || १५ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे पञ्चदशोऽध्यायः || १५ || अथ षोडशोऽध्यायः एतद्बुद्ध्वेत्युक्तम् | बोधश्च नाम श्रुतिमयज्ञानानन्तरं इदमित्थम्-इत्येवंभूतयुक्तिचिन्ताभावनामयज्ञानोदयेन विचारविमर्शपरामर्शादिरूपेण विजातीयन्यक्कारविरहिततद्भावनामयस्वभ्यस्ताकारविज्ञानलाब् हे सति भवति | यद्वक्ष्यते- विमृश्यैवमशेषेण यथेच्छसि तथा कुरु || (१८ अ० | ६३ श्लो०) इति | तत्र श्रुतिमये ज्ञाने गुरुशास्त्रे एव प्राधान्येन प्रभवतः | युक्तिचिन्ताभावनामये तु विमर्शक्षमता असाधारणा शिष्यगुणसंपत् प्रधानभूता | अतोऽर्जुनस्यास्त्येवासौ | इत्यभिप्रायेण वक्ष्यमाणं विमृश्यैवम्-इति वाक्यं सविषयं कर्तुं परिकरबन्धयोजनाभिप्रायेणाह भगवान्गुरुः- श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः | दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || १६-१ || अहिंसा सत्यमक्रोधस्त्यागऽसक्तिरपैशुनम् | दया भूतेष्वलौल्यं च मार्दवं ह्रीरचापलम् || १६-२ || तेजः क्षमा धृतिस्तुष्टिरद्रोहो नातिमानिता | भवन्ति सम्पदं दैवीमभिजातस्य भारत || १६-३ || दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च | अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् || १६-४ || दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता | मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव || १६-५ || आसुरभागसंनिविष्टा तामसी किलाविद्या | सा प्रवृद्धया दिव्यांशग्राहिण्या विद्यया बाध्यते इति वस्तुस्वभाव एषः | त्वं च विद्यात्मानं दिव्यमंशं सात्त्विकमभिप्रपन्नः | तस्मादान्तरीं मोहलक्षणामविद्यां विहाय वाह्याविद्यात्मशत्रुहननलक्षणं शास्त्रीयव्यापारम् अनुतिष्ठ-इत्यध्यायारम्भः | तथाहि | दिव्यांशस्येमानि चिह्नानि तानि स्फुटमेवाभिलक्ष्यन्ते दमः-इन्द्रियजयः | चापलं-पूर्वापरमविमृश्य यत्करणं तदभावोऽचापलम् | तेजः-आत्मन्युत्साहग्रहणेन मितत्वापाकरणम् | दैवी संपदेषा | सा च तव विमोक्षाय-कामनापरिहारात् | अतस्त्वं शोकं मा प्रापः | यथा-भ्रात्रादीन् हत्वा सुखं कथमश्नुवीय-इति | शिष्टं स्पष्टम् || ५ || द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च | दैवो विस्तरतः प्रोक्त आसुरं पार्थ मे शृणु || १६-६ || एषा दैवी संपदुक्ता अभयमित्यादिना | आसुरीमाह प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः | न शौचं नापि चाचारो न सत्यं तेषु विद्यते || १६-७ || प्रवृत्तिः-कुत इदमुत्पन्नमिति | निवृत्तिः-क प्रलीयते इति || ७ || असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतमकिंचत्कमहेतुकम् || १६-८ || न किंचित् दृष्टादन्यत् कार्यं विद्यते यत्रेति-अकिंचित्कम् || ८ || एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः | प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽशुभाः || १६-९ || काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः | असद्ग्रहाश्ताः (-श्तिः) क्रूराः प्रचरन्त्यशुचिव्रताः || १६-१० || चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः | कामोपभोगपरमा एतावदिति निश्चिताः || १६-११ || आशापाशशतैर्बद्धाः कामक्रोधपरायणाः | ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् || १६-१२ || चिन्ता तेषां प्रलयान्ता-अविरतं संसृतिप्रलयाव्युपरमात् | एतावदिति-कामोपभोग एव परं कृत्यं तन्नाशाच्च परं क्रोधः | अत एवाह कामक्रोधपरायणाः-इति || १२ || इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् | इदमस्तीदमपि मे भविष्यति पुनर्धनम् || १६-१३ || असौ मया हतः शत्रुर्हनिष्ये चापरानपि | ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी || १६-१४ || आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया | यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः || १६-१५ || अनेकचित्ता विभ्रान्ता मोहस्यैव वशं गताः | प्रसक्ताः कामभोगेषु पतन्ति निरयेऽशुचौ || १६-१६ || अनेकचित्ता इति-निश्चयाभावात् | अशुचौ निरये-अवीच्यादौ जन्ममरणसन्ताने च || १६ || आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः | यजन्ते नामयज्ञैस्ते दम्भेनाविधपूर्वकम् || १६-१७ || अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः | मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः || १६-१८ || यज्ञैर्यजन्ते नाम-निष्फलमित्यर्थः | क्रोधेन हि सर्वं नश्यतीत्यर्थः | यद्वा | नामयज्ञैः-संज्ञामात्रेणैव ये यज्ञास्तैः | अथवा | नामार्थं-प्रसिद्ध्यर्थं ये यज्ञाः येन यज्ञयाज्ययम्-इति व्यपदेशो जायते | ते दम्भपूर्वका एव नतु फलन्ति | क्रोधादिरूषितत्वादेव लोकान्द्विषन्तो मामेव द्विषन्ति | अहं वासुदेवो हि सर्वावासः || १८ || तानहं द्विषतः क्रूरान्संसारेषु नराधमान् | क्षिपाम्यजस्रमशुभास्वासुरीष्वेव योनिषु || १६-१९ || आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि | मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् || १६-२० || आत्मनि च द्वेषवन्तः आत्मनो ह्यहितं निरयपातहेतुमाचरन्ति | तांश्चाहं आसुरीष्वेव योनिषु क्षिपामि || २० || त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः | कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् || १६-२१ || यतः कामादिकं त्रयं नरकस्यैव द्वारम् तस्मादेतत्त्यजेत् || २१ || एतैर्वियुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः | आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् || १६-२२ || न चैतत् पुरुषवचनमित्यनादरणीयम् अपितु अनादि शास्त्रमत्र प्रमाणम्-इत्युच्यते यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः | न स सिद्धिमवाप्नोति न सुखं न परां गतिम् || १६-२३ || तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ | ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि || १६-२४ || शास्त्रविधिं त्यजतः स्वमनीषयैव कार्याकार्यविचारं कुर्वतः प्रत्युत नरकपातः | तस्मादात्मबुद्ध्या कार्याकार्यव्यवस्थां मा कार्षीरिति तात्पर्यम् || २४ || अत्र संग्रहश्लोकः अबोधे स्वात्मबुद्ध्यैव कार्यं नैव विचारयेत् | किन्तु शास्त्रोक्तविधिना शास्त्रं बोधविवर्धनम् || १६ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे षोडशोऽध्यायः || १६ || अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृत्य वर्तन्ते श्रद्धायान्विताः | तेषां निष्ठा तु का कृष्णा सत्त्वमाहो रजस्तमः || १७-१ || शास्त्रविधिमनालम्ब्य ये व्यवहारमाचरन्ति तेषां का गतिरिति प्रश्नः || १ || तदत्रोत्तरं श्रद्धानुसारेण दीयते श्रीभगवता- श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्त्विकी राजसी चैव तामसी चेति ताः शृणु || १७-२ || तत्र चायमाशयः शास्त्रं नाम किल पक्षपातारूषितबुद्धिपूर्वकत्वविहीनम् तथा परामर्शदार्ढ्यरूपं बोधस्वातन्त्र्यादेव दृढपरामृष्टतया फलादिस्वभावम् शुद्धविमर्शनिःष्यन्दवाक्तत्त्वपरमार्थपरब्रह्मस्वभावम् स्वतन्त्रप्रसरतया आन्तराद्बोधस्वभावाद्बहिः प्रसरपर्यन्तम् सुसूक्ष्मप्रणवादिरूपात् व्यवहारप्रसिद्धप्रवादपरम्परापर्यन्तम् | यदाह- तद्विदां च स्मृतिशीले | इति | तच्च स्वत एव हिताहितोपदेशाय कार्याकार्यविवेचकम् | यस्य स्वभावत एव सत्त्वातिरेकसुकुमारं हृदयं तेनाचरितं शास्त्रितमेव | अन्यस्तु रजस्तमः कलुषीकृतः शास्त्रोक्तमप्याचरन्नाचरति-शास्त्रार्थस्य कार्त्स्न्येनाननुष्ठानात् | शास्त्रं हि सत्त्ववतामेव फलवदिति शास्त्रमेवाह- यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् | विद्या तपश्च शीलं च स तीर्थफलमश्नुते || इति नान्योऽसंयतत्वात् | तस्माच्छास्त्रार्थः परित्यक्तकामक्रोध मोहेषु सफल इति तात्पर्यमस्याध्यायस्य तदेवैतत्प्रतायते स्पष्टार्थत्वाच्च न विव्रियते | किन्तु केवलं पाठविप्रतिपत्तिनिवारणायैव लिख्यते || २ || सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः || १७-३ || यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः | भूतप्रेतपिशाचांश्च यजन्ते तामसा जनाः || १७-४ || अशास्त्रविहितं घोरं तपस्तप्यन्ति ये जनाः | दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः || १७-५ || कर्षयन्तः शरीरस्थं भूतग्राममचेतनम् | मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् || १७-६ || सत्त्वानुरूपा-इत्यत्र सत्त्वशब्दः स्वभावपर्यायः | अयं पुरुषः-आत्मा श्रद्धया अन्यव्यापारोपरिवर्तिन्या अवश्यं संबद्धः | स च तन्मय एव बोद्धव्यः | अचेतनम्-अविवेकित्वात् | मां च कर्षयन्तः-शास्त्रार्थाननुष्ठानात् | अत एव ते स्वबुद्धिविरचितां तपश्चर्यां कुर्वाणाः प्रत्युत तामसाः || ६ || आहारोऽपि सत्त्वादिभेदात् त्रिधा श्रद्धावत् | तथा यज्ञतपोदानानि-तदुच्यते- आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः | यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु || १७-७ || आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः || १७-८ || कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः || १७-९ || यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् || १७-१० || यातयाममिति-याता यामा यस्य || १० || अफलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते | यष्टव्यमित्येव मनः समाधाय स सात्त्विकः || १७-११ || मनः समाधाय-निश्चयेनानुसन्धाय || ११ || अभिसन्धाय तु फलं दम्भार्थमपि चैव यतः | इज्यते विद्धि तं यज्ञं राजसं चलमध्रुवम् || १७-१२ || दम्भार्थमपीति | दम्भो-लोको मामेवंविधं जानीयादिति || १२ || विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् | श्रद्धाविरहितं यज्ञं तामसं परिचक्षते || १७-१३ || विधिहीनमिति-शास्त्रीक्तक्रियाहीनम् | तदेवासृष्टान्नादिभिर्विशेषणैर्वितन्यते || १३ || देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् | ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते || १७-१४ || आर्जवम्-ऋजुता | (अगोप्यविषया धृष्टता) || १४ || अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते || १७-१५ || सत्यमिति | अस्यैव स्वरूपनिरूपणं प्रियहितम्-इत्यनेन क्रियते | प्रियं च तत्काले हितं च कालान्तरे | ईदृशं वाक्यं सत्यमित्युच्यते नतु यथावृत्तकथनमात्रम् || १५ || मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः | भावसंशुद्धिरित्येतत्तपो मानसमुच्यते || १७-१६ || भावः-आशयः तस्य सम्यक् शुद्धिः भावसंशुद्धिः || १६ || श्रद्धया परयोपेतं तपस्तत्त्रिविधम् नरैः | अफलाकांक्षिभिर्युक्तैः सात्त्विकं परिचक्षते || १७-१७ || सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् || १७-१८ || मूढग्राहेणात्मनो यत्पीडया क्रियते तपः | परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् || १७-१९ || त्रिविधेऽपि तपसि श्रद्धा | सात्त्विकस्य हि तन्मयी एव श्रद्धा | राजसस्य तु रजसि-दम्भादावेव श्रद्धा | तमोनिष्ठस्य पुनः परोत्सादनादावेव श्रद्धा | इति त्रिविधमपि तपः स्रद्धयोपेतं मुनिराह || १९ || दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् || १७-२० || दातव्यमिति-दद्यातिति नियोगमात्रं पालनीयमिति || २० || यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः | दीयते च परिक्लिष्टं तद्राजसमिति स्मृतम् || १७-२१ || दोषाभिसन्धानाय परिक्लिष्टं-मितादिदोषात् || २१ || अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् || १७-२२ || दानस्य चासत्करणं तत्संप्रदानाद्यसत्करणात् | एवं लौकिकानां सात्त्विकादित्रिप्रकाराशयानुसारेण क्रिया व्याख्याता || २२ || इदानीं ये गुणत्रितयसंकटोत्तीर्णधियस्ते क्रियां कथमाचरन्तीति तादृक् प्रकार उच्यते- ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः | ब्राह्मणास्तेन वेदाश्च यञाश्च विहिताः पुरा || १७-२३ || तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः | प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् || १७-२४ || तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः | दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः || १७-२५ || सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ गीयते || १७-२६ || यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते || १७-२७ || ओं-तत्-सत्-इत्येभिस्त्रिभिः शब्दैर्ब्रह्मणो निर्देशः-संमुखीकरणम् | तत्र ओम्-इत्यनेन शास्त्रार्थोऽयमादेहसंबन्धमूरीकार्य इति सूच्यते | तत्-इति सर्वनामपदेन सामान्यमात्राभिधायिना विशेषपरामर्शमात्रासमर्थेन फलानभिसंधानं ब्रह्मण्युच्यते अभिसंधानस्य विशेषपरिग्रहमन्तरेणाभावात् सकलविशेषानुग्राहिस्वेऽपि सकलफलसंधाने सर्वकर्तृतायामपि विशिष्टफलायोगात् | सत्-इत्यमुया श्रुत्या प्रशंसाभिधीयते | क्रियमाणमपीदं यज्ञादिकं दुष्टमिति बुद्ध्या क्रियमाणं तामसतामेति | विशिष्टफलाभिधानेन च क्रियमाणं न च सत् बन्धाधायकमेवेति | तस्मात् कर्तव्यमिदम्-इति मन्वाना यज्ञादि कुर्वाणा अपि न बध्यन्ते | अनेनैवाभिप्रायेणादिपर्वण्युक्तं- तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः | प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः || (महा० भा०) इति | कल्कः-बन्धकः | स्वाभाविक इति ब्राह्मणेन निष्कारणं षडङ्गं वेदादि अध्येतव्यम्-इति | प्रसह्य-शास्त्रलोकप्रसिद्धोचितया चेष्टया | भावेन-सत्त्वादिगुणत्रययोगिना चित्तेन उपहतान्येतान्येव बन्धकानि नान्यथेति तात्पर्यम् | अतो यज्ञादि यावच्छरीरभावितया कार्यमेव | तदर्थे विहितं कर्म-अर्जनादि | यदि वा-ओम्-इत्यनेन समुपशान्तसमस्तप्रपञ्चम् | तत्-इत्यनेनोद्भिद्यमानविश्वतरङ्गपरामर्शमात्रात्मकेच्छास्वात न्त्र्यस्व-भावम् | सत्-इत्यनेनेच्छास्वातन्त्र्यभरविजृम्भमाणभेदकम् पूर्णत्वेऽपि तावच्चित्रस्वभावतया भवनमिति प्रतिपाद्यते | तथा चोक्तं सद्भावे साधुभावे च इति | तेन परमं प्रशान्तं रूपं पुरस्कृत्य दित्सा-यियक्षातितप्सात्मकेच्छातरङ्गसंगतं च मध्येकृत्य दानयज्ञतपःक्रियाकरककलापपरिपूर्णं यच्चरमं वपुरिदमुल्लसितम् एतत्खलु समं त्रितयमनर्गलस्य स्वाभाविकं रूपम् इति कस्य किं कथं कुतः क्व केन फलं स्यादिति || २७ || इदानीमश्रद्धावतः तामसं कर्म सर्वथैव निष्फलम्-कारककलापसंयोजनसमुपजनितप्रयासमात्रफलमेव इति सर्वथा अश्रद्धावता न भाव्यमित्युच्यते- अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह || १७-२८ || असदिति-अप्रशस्तम् | तस्मात्प्रशस्ते कर्मणि यतमानानां सुखेनैव भवति शिवमिति शिवम् || २८ || अत्र संग्रहश्लोकः स एव कारकावेशः क्रिया सैवाविशेषिणी | तथापि विज्ञानवतां मोक्षार्थे पर्यवस्यति || १७ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहे सप्तदशोऽध्यायः || १७ || अथ अष्टदशोऽध्यायः अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक्केशिनिषूदन || १८-१ || पूर्वमुक्तं स त्यागी स च बुद्धिमान् इति | तथा स संन्यासी च योगी च न निरग्निः इत्यादि | अतस्त्यागिसंन्यासिनोर्द्वयोः श्रवणात् विशेषजिज्ञासोरयं प्रश्नः || १ || अत्रोत्तरं- श्रीभगवानुवाच काम्यानां कर्मणां त्यागं संन्यासं कवयो विदुः | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः || १८-२ || काम्यानि-अग्निष्टोमादीनि | सर्वकर्मेति | सर्वेषां-नित्यनैमित्तिक-कर्मणां क्रियमाणत्वेऽपि फलत्यागस्त्यागः | अत्र चाध्याये यदवशिष्टं वक्तव्यमस्ति तत्प्राक्तनैरेव तत्रभवद्भट्टभास्करादिभिर्वितत्य विमृष्टमिति किमस्माकं तद्गूढार्थप्रकाशनमात्रप्रतिज्ञानिर्वाहणसाराणां पुनरुक्तप्रदर्शनप्रयासेन || २ || तदत्रैव विशेषनिर्णयाय मतान्युपन्यस्यति- त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः | यज्ञदानतपःकर्म न त्याज्यमिति चापरे || १८-३ || दोषवत्-हिंसादिमत्त्वात्पापयुक्तम् | तत्कर्म त्याज्यं (न सर्वं शुभफलम्)-इति केचित्त्यागे विशेषं मन्यन्ते सांख्यगृह्या इव | अन्ये तु-मीमांसाकञ्चुकानुप्रविष्टा क्रत्वर्थो हि शास्त्रादवगम्ये इति | तथा तस्माद्या वैदिकी हिंसा * * * * * | इत्यादिनयेनेतिकर्तव्यतांशभागिनी (हिंसा) हिंसैव न भवति न हिंस्यात् इति सामान्यशास्त्रस्य तत्र बाधनात् | श्येनाद्येव तु हिंसा | फलांशे भावनायाश्च प्रत्ययोऽनुविधायकः (श्लो० वा०) इत्यन्यान् यज्ञादीन् हिंसादियोगिनोऽपि न त्यजेत् | शास्त्रैकशरणकार्याकार्यविभागाः पण्डिता इति मन्यन्ते || ३ || निश्चयं शृणु मे तत्र त्यागे भरतसत्तम | त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः || १८-४ || यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् || १८-५ || एतान्यपि च कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् || १८-६ || नियतस्य च संन्यासः कर्मणो नोपपद्यते | मोहात्तस्य परित्यागस्तामसः परिकीर्तितः || १८-७ || दुःखमित्येव यः कर्म कायक्लेशभयात् त्यजेत् | स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् || १८-८ || कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन | सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः || १८-९ || न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते | त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः || १८-१० || नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः | यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते || १८-११ || तत्र त्वयं निश्चयः-प्राग्लक्षितगुणस्वरूपवैचित्र्यात्त्यागस्यैव सत्त्वरजस्तमोमयया चित्तवृत्त्या क्रियमाणस्य तद्विशिष्टस्वभावावभासिवस्तुस्थित्या त्यागो नाम-परब्रह्मविदां सिद्ध्यसिद्ध्यादिषु समतया रागद्वेषपरिहारेण फलप्रेप्साविरहेण कर्मणां निर्वर्तनम् | अत एवाह-राजसं तामसं च त्यागं कृत्वा न कश्चित्फलसंबन्धः इति | सात्त्विकस्य तु त्यागात् शास्त्रार्थपालनात्मकं फलम् | त्यक्तगुणग्रामग्रहस्य पुनर्मुनेः सत्यतस्त्यागवाचोयुक्तिरुपपत्तिमती || ११ || अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् | भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् || १८-१२ || अत्यागिनाम्-फलमयानाम् || १२ || अधुना व्यवहारदशायामपि पञ्चस्वपि कर्महेतुषु स्थितेषु बलादेवामी अविद्यान्धाः पुमांसः स्वात्मन्येव सकलकर्तृभावभारमारोपयन्ति | अतो निजयैव धियात्मानं बध्नन्ति नतु वस्तुस्थित्या अस्य बन्धः-इत्युपदिश्यते- पञ्चेमानि महाबाहो कारणानि निबोध मे | साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् || १८-१३ || कृतोऽन्तो निश्चयो यत्रेति कृतान्तः-सिद्धान्तः || १३ || अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् | विविधाश्च पृथक्चेष्टा दैवमेवात्र पञ्चमम् || १८-१४ || शरीरवाङ्मनोभिर्हि यत्कर्मारभतेऽर्जुन | न्याययं वा विपरीतं वा पञ्चैते तस्य हेतवः || १८-१५ || तत्रैवं सति कर्तारमात्मानं केवलं तु यः | पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः || १८-१६ || यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते | हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते || १८-१७ || अधिष्ठानम्-विषयः | दैवम्-प्रागर्जितं शुभाशुभम् | पञ्चैते अधिष्ठाना-दयः सामग्रीरूपतां प्राप्ताः सर्वकर्मसु हेतवः | अन्ये तु अधिष्ठीयते अनेन सर्वं कर्मेति बुद्धिगतं रजो लब्धवृत्तिकं धृतिश्रद्धासुखविविदिषाविविदिषारूपपञ्चकपरिणामिकर्मयोग शब्द-वाच्यमधिष्ठानं क्वचित्प्रयत्नशब्देनोक्तम् | कर्ता-अनुसन्धाता बुद्धिलक्षणः | करणम्-मनश्चक्षुरादि बाह्यमपि च खड्गादि | चेष्टाप्राणापानादिका | दैवशब्देन धर्माधर्मौ | ताभ्यां च बुद्धिगताः सर्वेऽपि भावा उपलक्षिताः | अन्ये त्वधिष्ठानमीश्वरं मन्यन्ते-अकृतबुद्धित्वादनिश्चितप्रज्ञतया | यः पुनरहंकारवियोगदार्ढ्येन प्रागुक्तयुक्तिशतशोधितेन कर्माणि करोति न स बन्धभाक्-कृतबुद्धित्वादित्याशयः || १७ || ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना | करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः || १८-१८ || कर्मणि चोदना-प्रवृत्तीच्छा | तत्समये येषामबोधमात्रनिष्ठत्वाज्ज्ञानज्ञेयज्ञातृश्रुतिवाच्यता तेषामेव सम्यग्ग्रहणरूपं यत्फलाभिसंधानेनात्मीयबुद्ध्या स्वीकरणम्-अहमेतद्भोक्ष्ये यतो मया कृतम्-इत्येवंरूपम् तत्समये तथा निर्वर्तनावसरे करणकर्मकर्तृशब्दामिधेयत्वमाविष्टत्वात् | अतो योगिनामावेशो नास्तीति तान्प्रति करणादिगिरां प्रसङ्गो नास्ति अपितु ज्ञानमात्रे एव तात्पर्यम् || १८ || अथैषां षण्णामपि संक्षेपेण गुणभेदाद्भेदं दर्शयितुमाह- ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः | प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि || १८-१९ || गुणानां संख्यानं-निश्चयो यत्र तत्र सांख्यीयकृतान्ते ज्ञानादि त्रिविधमुच्यते यत्तच्छृण्विति संगतिः | ज्ञानम्-इत्यनेन ज्ञाने क्रियायां च यत्करणं तद्द्विविधमुक्तम् | एवं कर्मेति ज्ञेयं कार्यं च | ज्ञाता कर्ता चेति || १९ || तत्र सर्वभूतेषु इत्यादिना श्लोकत्रयेण ज्ञानकरणस्य त्रैरूप्यमुक्तम् | अत एव येन-इति तृतीया | इयता च ज्ञानकरणसामान्यस्य स्वरूपमुक्तम् | नियतम् इत्यादिना श्लोकत्रयेण कर्मणो ज्ञेयकार्यरूपस्य द्वैविध्यम् | मुक्तसङ्गः इत्यादिना श्लोकत्रयेण तु कर्तुर्द्विरूपस्य संक्षेपेण स्वरूपम् | करणविशेषस्य स्वरूपभेदप्रतिपादनार्थं बुद्धेस्त्रैविध्यं निरूपितम् तद्वारेण करणान्तराणामपि त्रैविध्यमुपलक्षितम् | करणस्य त्वितिकर्तव्यतापेक्षित्वादितिकर्तव्यतायाश्च धृत्यादिपञ्चकरूपत्वेऽपि श्रद्धायाः पूर्वमुक्तत्वाद्विविदिषाविविदिषयोश्च धृतिसुखाभ्यामाक्षेपात्तयोस्त्रैविध्यं धृत्या यया इत्यनेन सुखं त्विदानीम्-इत्यनेन चोक्तम् | तदाह सर्वभूतेषु येनैकं भावमव्ययमीक्षते | अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् || १८-२० || विभक्तेषु-देवमनुष्यादितया || २० || पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तद्राजसमिति स्मृतम् || १८-२१ || पृथक्त्वेन-इह मे प्रीतिरिह मे द्वेषः-इत्यादिबुद्ध्या || २१ || यत्तु कृत्स्नवदेकस्मिनत्कार्ये सक्तमहेतुकम् | अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् || १८-२२ || अहेतुकम्-कारणमविचार्यैव अभिनिवेशावेशवशात् क्रोधरागादिग्रहणं यत्तत्तामससंज्ञम् || २२ || नियतं सङ्गरहितमरागद्वेषतः कृतम् | अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते || १८-२३ || नियतम्-कर्तव्यमिति || २३ || यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः | क्रियते क्लेशबहुलं तद्राजसमिति स्मृतम् || १८-२४ || क्लेशैः-अविद्याद्यैः बहुलम्-व्याप्तम् || २४ || अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् | मोहादारभ्यते कर्म यत्तत्तामसमुच्यते || १८-२५ || मोहात्-अभिनिवेशमयात् || २५ || मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः | सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते || १८-२६ || अहं कर्ता इति न वदन् तच्छीलस्तद्धर्मा तत्साधुकारी वा यो भवतीति-अनहंवादी-इत्यनेन णिनिना व्यवहारमात्रसंवृतिवशेन योगिनोऽपि अहं करोमि-इति वचो न निषिद्धम् || २६ || रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः | हर्षशोकान्वितः कर्ता राजसः परकीर्त्यते || १८-२७ || हर्षशोकान्वितः-सिद्ध्यसिद्ध्योः || २७ || अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः | विषादी दीर्घसूत्रश्च कर्ता तामस उच्यते || १८-२८ || निकृतिः-नैर्घृण्यम् || २८ || बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु | प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय || १८-२९ || बुद्धिः-निश्चयः | धृतिः-सन्तोषः | सर्वो हि सुकृतं दुष्कृतं वा कृत्वा अन्ते अवश्यं कृतं करणीयं किमन्येन-इति धियं गृह्णाति | अन्यथा क्रियाभ्यो व्युपरमे को हेतुः स्यात् | अतः सर्वस्यैव धृतिरस्तीति तात्पर्यार्थः | पदार्थस्त्वप्रसिद्धो व्याख्यायत एव || २९ || प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये | बन्धं मोक्षं च या बुद्धिर्वेद सा पार्थ सात्वकी मता || १८-३० || यया धर्ममधर्मं च कार्यं चाकार्यमेव च | अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी || १८-३१ || अयथावत्-असम्यक् || ३१ || अधर्मं धर्ममिति या बुद्ध्यते तमसान्विता | सर्वार्थान्विपरीतांश्च बुद्धिः सा तामसी मता || १८-३२ || धृत्या मया धारयते मनःप्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा सात्त्विकीमता || १८-३३ || मनःप्राणेन्द्रियक्रियाः योगेन धारयति यता किं ममोपभोगादिभिः सर्वथैवात्मारामो भूयासम्-इति मन्वानः || ३३ || यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन | प्रसङ्गेन फलाकांक्षी धृतिः सा पार्थ राजसी || १८-३४ || प्रसङ्गेनेति-न तथाभिनिवेशेन || ३४ || यया स्वप्नं भयं शोकं विषादं मोहमेव च | न विमुञ्चति दुर्मेधा धृतिः सा तामसी मता || १८-३५ || निद्राकलहादिष्वेव यया सन्तोषं बध्नाति तत्परतया-सा तामसी धृतिः || ३५ || सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति || १८-३६ || यत्तदात्त्वे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्त्विकं विद्यादात्मबुद्धिप्रसादजम् || १८-३७ || तदात्वे-अभ्यासकाले | विषमिव-जन्मशताभ्यस्तविषयसङ्गस्य दुष्परिहरत्वात् | उक्तं च श्रुतौ- क्षुरस्य धारा विषमा दुरत्यया | इत्यादि | आत्मप्रसादाद्बुद्धिप्रसादो जायते-अन्यस्यापेक्ष्यमाणस्याभावात् || ३७ || विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत् राजसमिति स्मृतम् || १८-३८ || विषयेन्द्रियाणां परस्परसंयोगजं सुखम् चक्षुष इव रूपसंबन्धात् || ३८ || यदग्रे चानुबन्धे च सुखं मोहनमात्मनः | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् || १८-३९ || निद्रातः-आलस्येन प्रमादेन पूर्वं व्याख्यातेन यत्सुखं तत्तामसम् || ३९ || न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः | सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः || १८-४० || एवं कर्तृकर्मकरणानां बुद्धिधृत्योः सुखस्य च सत्त्वादिभेदभिन्नानां परस्पराङ्गाङ्गिभावबाध्यबाधकत्वसमुच्चयाद्वृत्तिक्रमयौगप द्यादि-योगादपरिसंख्येयभेदत्वाद्विविधफलप्रसवसमर्थत्वम् | इत्यनेन कर्मणां प्राक् सूत्रितं गहनत्वं वितत्य सहेतुकं निर्णीतम् | सर्वे चैते देवतादिस्थावरान्ता गुणत्रयसंबन्धं नातिक्रामन्ति | उक्तं हि आ ब्रह्मणश्च कीटान्तं न कश्चित्तत्त्वतः सुखी | करोति विकृतीस्तास्ताः सर्व एव जिजीविषुः || इति | तत्त्वतो हि सुखं गुणातिक्रान्तमनसः नेतरस्येत्याशयः | एवमियता षण्णां प्रत्येकं त्रिस्वरूपत्वं धृत्यादीनां च प्रतिपादितम् | तन्मध्यात्सात्त्विके राशौ वर्तमानो दैवीं सम्पदं प्राप्त इह ज्ञाने योग्यः त्वं च तथाविधः-इत्यर्जुनः प्रोत्साहितः | अधुना त्विदमुच्यते-यदि तावदनया ज्ञानबुद्ध्या कर्मणि भवान्प्रवर्तते तदा स्वधर्मप्रवृत्त्या विज्ञानपूततया च न कर्मसंबन्धस्तव | अथैतन्नानुमन्यसे तदवश्यं तव प्रवृत्त्या तावद्भाव्यम् जातेरेव तथाभावे स्थितत्वात् | यतः सर्वः स्वभावनियतः कुतश्चिद्दोषात्तिरोहिततत्स्वभावः कञ्चित्काल भूत्वापि तत्तिरोधायकविगमे स्वभावं व्यक्तापन्नं लभत एव | तथाह्येवंविधो वर्णानां स्वभावः | एवमवश्यं भाविन्यां प्रवृत्तौ ततः फलविभागिता भवेत्-तदाह ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः || १८-४१ || शमो दमस्तथाः शौचं क्षान्तिरार्जवमेव च | ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् || १८-४२ || शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् | दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् || १८-४३ || कृषिगोरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | पयुत्थानात्मकं कर्म शूद्रस्यापि स्वभावजम् || १८-४४ || स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः | स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु || १८-४५ || यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः || १८-४६ || श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् || १८-४७ || सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | सर्वारम्भा हि दोषेण धूमेनाऽग्निरिवावृताः || १८-४८ || असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः | नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति || १८-४९ || सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | समासेने तु कौन्तेय निष्ठा ज्ञानस्य या परा || १८-५० || बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च | शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च || १८-५१ || विविक्तसेवी लघ्वाशी यतवाक्कायमानसः | ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः || १८-५२ || अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् | विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते || १८-५३ || ब्रह्मभूतः प्रसन्नात्मा न शोचति न हृष्यति | समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् || १८-५४ || भक्त्या मामभिजानाति योऽहं यश्चास्मि तत्त्वतः | ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् || १८-५५ || सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् || १८-५६ || चेतसा सर्वकर्माणि मयि संन्यस्य भारत | बुद्धियोगं समाश्रित्य मच्चित्तः सततं भव || १८-५७ || मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्त्वमहङ्कारां न मोक्ष्यसि विनंक्ष्यसि || १८-५८ || यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैप व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति || १८-५९ || स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् || १८-६० || ब्राह्मणादीनां कर्मप्रविभागनिरूपणस्य स्वभावोऽवश्यं नातिक्रामतीति क्षत्रियस्वभावस्य भवतोऽनिच्छतोऽपि प्रकृतिः स्वभावाख्या नियोक्तृतामव्यभिचारेण भजते | केवलं तया नियुक्तस्य पुण्यपापसंबन्धः | अतो मदभिहितविज्ञानप्रमाणपुरःसरीकारेण कर्माण्यनुतिष्ठ | तथा सति बन्धो निवर्त्स्यति | इत्यस्यार्थस्य परिकरबन्धघटनतात्पर्यं महावाक्यार्थस्य | अवान्तरवाक्यानां स्पष्टार्थः | समासेन संक्षेपेण ज्ञानस्य प्रागुक्तस्य | निष्ठां वाग्जालपरिहारेण निश्चितामाह-बुद्ध्या विशुद्धया-इत्यादि | सर्वमेतद्व्याख्यातप्रायमिति न पुनरायस्यते || ६० || ईश्वरः सर्वभूतानां हृद्येष वसतेऽर्जुन | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया || १८-६१ || तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां सिदिं स्थानं प्राप्स्यसि शाश्वतम् || १८-६२ || एष ईश्वरः परमात्मावश्यं शरणत्वेन ग्राह्यः | तत्र ह्यधिष्ठातरि कर्तरि बोद्धरि स्वात्ममये विमृष्टे न कर्माणि स्थितिभाञ्जि भवन्ति | नहि निशिततरनखरकोटिविदारितसमदकरिकरटगलितमुक्ताफलनिकर परिकर-प्रकाशितप्रतापमहसि सिंहकिशोरके गुहामधितिष्ठति चपलमनसो विद्रवणमात्रबलशालिनो हिरणपोतकाः स्वैरं स्वव्यापारपरिशीलनापटुभावमवलम्बन्ते इति | तमेव शरणं गच्छ-इत्युपक्रम्य मत्प्रसादात्-इति निर्वाहवाक्यमभिदधद्भगवान् परमात्मानमीश्वरं वासुदेवं चैकतया योजयतीति || ६२ || इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु || १८-६३ || तदेवेदं ज्ञानमुक्तम् | गुह्यात्-वेदान्तादपि गुह्यम्-परमाद्वैतप्रकाशनात् | एतच्चाशेषेण विमृश्येति-तात्पर्यमत्र विचार्येत्यर्थः | तच्च तात्पर्यं यथावसरमस्माभिः शृङ्ग्राहिकयैव प्रकाशितं यद्यपि तथापि स्फुटमशेषविमर्शनं प्रदर्श्यते-उपादेयतमं ह्यदः | नास्मिन्निरूप्यमाणे श्रूयमाणे वा मतिस्तृप्यति || ६३ || गुह्यतमं यदत्र निश्चितम् तज्ज्ञानमिदानीं शृणु-इत्याह सर्वगुह्यतमं भूयः शृणु मे परमं वचः | इष्टोऽसि मे दृढमतिस्ततो वक्ष्यामि ते हितम् || १८-६४ || मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे || १८-६५ || मन्मना भव-इत्यादिना शास्त्रे ब्रह्मार्पण एव सर्वथा प्राधान्यम्-इति निश्चितम् | ब्रह्मार्पणकारिणः शास्त्रमिदमर्थवदित्युक्तम् || १८-६५ || आह च- सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः || १८-६६ || सर्वधर्मानिति | यदिदं युद्धकरणे प्रासङ्गिकबन्धुवधादि तस्य सर्वस्याहं कर्ता-इत्यात्मधर्मतां परित्यज्य-तथाचार्यादिहननक्रियानिषेधे मम धर्मो भविष्यति-इति मनसा विहाय | मामेवैकं सर्वकर्तारं परमेश्वरं स्वतन्त्रं शरणं सर्वस्वभावाधिष्ठायकतया व्रज | अत एवाहं सर्वज्ञः सर्वेभ्यः पापेभ्यस्त्वां मोक्षयिष्यामीति | मा शुचः-किंकर्तव्यतामोहं मा गाः || ६६ || इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति || १८-६७ || अस्य ज्ञानस्य गोप्यमानत्वं सिद्धिदम्-सर्वजनाविषयत्वात् | तपसा तावत्पापग्रन्थौ विशीर्णे कुशलपरिपाकोन्मुखता भवति | इति पूर्वं तपः तपसः श्रद्धा जायते | सैवात्र भक्तिः | श्रद्धाप्युपजाता कदाचिन्न प्ररोहति-सौदामनीव क्षणदृष्टनष्टत्वात् | ततस्तत्प्ररोहे श्रोतुमिच्छा भवति | इयदपि च कस्यचिदनीश्वरे वस्तुनि शुष्कसांख्यादिज्ञाने भवति | सेश्वरेऽपि वा कस्यचित्फलार्थितया फलमेव प्रधानीकृत्य भगवन्तं च स्वात्मानं तदुपकरणपात्रीकरणेन न्यक्कृत्य भवेत् | यदुक्तं पुरुषश्च कर्मार्थत्वात् कर्माण्यपि फलार्थत्वात् | (पू० मी० सू०) इति | एवमुभयथापि भगवत्यसूयैवानादर इत्यर्थः || ६७ || य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः || १८-६८ || भक्तिमिति-एतदेव मयि भक्तिकरणं यद्भक्तेष्वेतन्निरूपणम् | अभिधास्यति-आभिमुख्येन शास्त्रोक्तप्रक्रियया धास्यति-वितरिष्यति | स मन्मयतामेतीति विधिरेवैष नार्थवादः | एवमन्यत्र || ६८ || न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः | भविता न च मे तस्मादन्यः प्रियतरो भुवि || १८-६९ || अध्येष्यते च य इमं धर्म्यं संवादमावयोः | ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः || १८-७० || श्रद्धावाननसूयश्च शृणुयादपि यो नरः | सोऽपि मुक्तः शुभांल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् || १८-७१ || कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय || १८-७२ || अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत | स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव || १८-७३ || नष्टो मोहः-इत्यादिना युद्धप्रवृत्तिस्तावदर्जुनस्योत्पन्ना नतु सम्यग्ब्रह्म-वित्त्वं जातम्-इति सूचयन्भाविनोऽनुगीतार्थस्यावकाशं ददाति || ७३ || सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः | संवादमिममश्रौषमद्भुतं रोमहर्षणम् || १८-७४ || व्यासप्रसादाच्छ्रुतवानेतद्गुह्यतरं महत् | योगं योगीश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् || १८-७५ || राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयोः पुण्यं हृष्यामि च पुनः पुनः || १८-७६ || तच्च संस्मृत्य संस्मृत्य रूपमत्युद्भुतं हरेः | विस्मयो मे महाराज प्रहृष्ये च पुनः पुनः || १८-७७ || यत्र योगीश्वरः कृष्णो यत्र पार्थो धनुर्धरः | तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम || १८-७८ || संजयवचनेन संवादमुपसंहरन्नेतदर्थस्य गाढप्रबन्धक्रमेण निरन्तरचिन्तासन्तानोपकृतनैर्यन्तर्यादेव चान्ते सुपरिस्फुटनिर्विकल्पानुभवरूपतामापाद्यमानं स्मरणमात्रमेव परब्रह्मप्रदायकम्-इत्युच्यते | एवं भगवदर्जुनसंवादमात्रस्मरणादेव तत्त्वावाप्त्या श्रीविजयविभूतय इति शिवम् || ७८ || अत्र संग्रहश्लोकः भङ्क्त्वा ज्ञानविमोहमन्थरमयीं सत्त्वादिभिन्नां धियं प्राप्य स्वात्मविभूतसुन्दरतया विष्णुं विकल्पातिगम् | यक्तिंचित्स्वरसोद्यदिन्द्रियनिजव्यापारमात्रस्थिते- र्हेलातः कुरुते तदस्य सकलं संपद्यते शङ्करम् || १८ || इति श्रीमहामहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते श्रीमद्भगवद्गीतार्थसंग्रहेऽष्टादशोऽध्यायः || १८ || श्रीमान्कात्यायनोऽभूद्वररुचिसदृशः प्रस्फुरद्बोधतृप्त-स्तद्वंशालङ्कृतो यः स्थिरमतिरभवत्सौशुकाख्योऽतिविद्वान् | विप्रः श्री भूतिराजस्तदनु समभवत्तस्य सूनुर्महात्मा येनामी सर्वलोकास्तमसि निपतिताः प्रोद्धृता भानुनेव || १ || तच्चरणकमलमधुपो भगवद्गीतार्थसंग्रहं व्यदधात् | अभिनवगुप्तः सद्दिवजलोटककृतचोदनावशतः || २ || अत इदमयथार्थं वा यथार्थमपि सर्वथा नैव | विदुषामसूयनीयं कृत्यमिदं बान्धवार्थं हि || ३ || अभिनवरूपा शक्तिस्तद्गुप्तो यो महेश्वरो देवः | तदुभययामलरूपमभिनवगुप्तं शिवं वन्दे || ४ || परिपूर्णोऽयं श्रीमद्भगवद्गीतार्थसंग्रहः | कृतिस्त्रिनयनचरणसरोरुह चिन्तनलब्धप्रसिद्धेरभिनवगुप्तस्येति शिवम् || ########### END OF FILE #######