#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00173 Uniform title: bodhapañcadaśikā Main title: bodhapañcadaśikā with commentary by harabhaṭṭaśāstrī Author : abhinavagupta Editor : zadoo jagaddhar Description: Photographic facsimiles from vol 76 of the Kashmir Series of Texts and Studies. Notes: Data entered version added: Revision 0: Sept. 18, 2011 Publisher : Research Department Jammu and Kashmir State Publication year : 1947 Publication city : Srinigar Publication country : India #################################################### श्रीबोधपञ्चदशिका महामाहेश्वराचार्याभिनवगुप्तपादविरचिता | श्रीगणेशाय नमः || श्रीशारदाम्बायै नमः || इह खलु शिवाद्वयशासनाम्भोधिपारदृश्वा श्रीमान् महामाहेश्वरोऽभिनवगुप्ताख्य आचार्यवरोऽतितीक्ष्णप्रतिभाप्रसादातिशयतोऽवगाहनीयेषु शैवागमेषु केषाञ्चिदनुग्राह्याणां शिष्याणां नतिसौकुमार्य पर्यालोच्यानायासमेव त्रिकशास्त्रसंप्रदायजिज्ञासूंस्तानुपदिदिक्षुः पञ्चदशभिः श्लोकैस्तत्प्रतिबोधनाय शास्त्रार्थमुपनिबध्नाति | तत्रादौ नित्योदितसंवित्प्रकाशस्यावभासने प्रमाणव्यापाराभाव इति प्रतिपादयन्नाह - अनस्तमितभारूपस्तेजसां तमसामपि | य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च || १ || स्वतन्त्रशिवप्रकाशो हि सर्वाभासकः सदोदितो न स्वं प्रकाशयितुं प्रकाशान्तरमपेक्षते स्वप्रकाशत्वात् तस्याऽस्तोदितत्वाभावात् सकृद्विभातोऽयमात्मा इति नहि द्रष्टुर्दष्ट्रेर्विपरिलोपो विद्यतेऽविनाशित्वात् इति श्रुतेः | (बृ० आ० ४|३|२३|) य एकोऽद्वितीयोऽर्कादीनां तेजसां प्रमाणादिप्रकाशानां च तथा मदमूर्छाद्यवस्थारूपाणां तमसां बाह्याप्रकाशानामन्तरवस्थितत्वात् तदनुप्राणको बहिरपि तस्यैव संवित्प्रकाशस्य सत्त्वात्तदन्तरेव तान्यर्कादीनां तेजस्तमांसि स्वसत्तामुपयान्ति | प्. २) नहि भारूपं संवित्प्रकाशं विना किमपि घटादि भावजातं प्रकाशमानतामेति ते च प्रकाशा अस्तं यान्ति उदयन्ति च | प्रकाशः पुनरस्तोदयानाकलितः प्रमाणानामपि जीवितरूपं मूलप्रमाणं तमर्कादिप्रकाशः कश्चिदवभासयितुं न शक्नोति तस्य प्रकाश्यत्वात् स्वाभासनेऽप्यसमर्थस्य कथं परं भासयितुं प्रागल्भ्यं प्रत्युत स्वाभासनेऽपि संवित्प्रकाशमेवापेक्षते स इति स्वप्रकाशत्वादर्कादीनां स एव भासकः | यदुक्तम् - यन्न सूर्यों नवा सोमो नाग्निर्भासयतेऽपि च || नचार्कसोमवह्णीनां तत्प्रकाशाद्विना महः || किमप्यस्ति निजं किन्तु संविदित्थं प्रकाशते | (तं० ३ | ११५) इति | तथा गीतासु - न तद्भासयते सूर्यो न शशाङ्को न पावकः | यद्गत्वा न निवर्तन्ते तद्धाम परमं मम || (भ० गी० ११|५६) अबोधोऽपि न बोध्यमानो बोधाद्भिद्यतेऽन्यथा तत्सत्त्वानुपपत्तेरिति स्थित्या खपुप्पादेरप्यसतो व्यापकत्वादपरिच्छिन्नः संवित्प्रकाशो विश्वत्र निर्निरोधावरणं तत्तद्वैचित्र्यात्मना विजृम्भते इत्येतेन किमपि प्रमाणादि तत्र सर्वजीवितभू नोपयुज्यते इत्युक्तं भवति || १ || एवं संवित्प्रकाशः प्रकाश्यं प्रमेयं प्रकाशयतीति प्रकाशप्रकाशनीयभावे सिद्धे कथं शिवाद्वयभाव इत्याशंक्याह - स एव सर्वभूतानां स्वभावः परमेश्वरः | भावजातं हि तस्यैव शक्तिरीश्वरतामयी || २ || स एव परमेश्वरः स्वतन्त्रचिद्धनतासपरमार्थः सर्वभूतानां समग्राणां शिवादिसकलान्तानां प्रमातृवर्गाणां सकलानां प्रमेयवर्गाणां च उभयेषां प्राह्यग्राहकरूपाणां स्फुरत्तात्मानुत्तरप्रकाशवपुः स्वभावोऽन्यथा - प्. ३) यत्तत्र नहि विश्रान्तं तन्नभः कुसुमायते | (तं० ८|३) इति स्थित्या संवित्प्रकाशाद्भिन्नस्याऽसत्वान्न किमपि प्रकाशेत | एतदेव हि पारमेश्वर्यमनन्यापेक्षं स्वातन्त्र्यं यत्तत्तदनियतविश्ववैचित्र्येण स्वेच्छयैव स्वात्मभित्तौ समुन्मीलनं तत्रापि नियताकारधारित्वे ऐश्वर्य विघटेत | यदुक्तमाचार्येणैव - अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः | महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् || (तं० ३|१००) केवलं वेद्यवेदकत्वरूपस्य व्यवहारस्य मायाभूमौ कल्पितप्रमात्रपेक्षया तात्कालिकी व्यवह्नियमाणता | यदुक्तमीश्वरप्रत्यभिज्ञायाम् - केवलं भिन्नसंवेद्यदेशकालानुरोधतः | ज्ञानस्मृत्यवसायादिव्यवहारोऽनुभूयते || (ई० प्र० १|५|२१) इति | वस्तुतस्तु सदैवाभिन्नप्रकाशमयोऽनुत्तरानाख्येयसंवित्स्वभावः परमेश्वरः एव स्वात्मोच्छलत्तया तत्तद्विश्वभावपरिस्फुरणेन चकास्तीत्यर्थः | एतदेव हेतुद्वारा स्पष्टं निरूपयन्नाह भावजातमिति तस्यैव परमेश्वरस्य हि यस्मादीश्वरतामयी शक्तिरैश्वर्यंरूपं स्वातन्त्र्यमेव वाच्यवाचकात्मविश्वपदार्थमयं भावजातं भवति यदुक्तं मङ्गलायाम् - शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः | इतिनीत्या स्वातन्त्र्यमेव जगदात्मना प्रथते इत्यर्थः | यदुक्तम् - बोधो हि ब्धरूपत्वादन्तर्नानाकृतीः स्थिताः | बहिराभासयत्येव द्राक् सामान्यविशेषतः || (तं० १|२५७) इति | तथेश्वरप्रत्यभिज्ञायाम् - चिदात्मैव हि देवोऽन्तः स्थितमिच्छावशाद्बहिः | योगीव निरुपादानमर्थजातं प्रकाशयेत् || ई० प्र० (१|५|७) प्. ४) इति | अतश्च स्वैश्वयनिर्भरः शिव एवैकस्तथा तथा प्रस्फुरति इत्येकैव संवित्परमार्थसतीति भावः || २ || नन्वेवं परमेश्वरस्य शक्तयं विश्वमिति शक्तितद्वतोः परस्परं धर्मधर्मिभावेन भेदात् कथमेकशिवात्मभाव इत्याशंक्याह - शक्तिश्च शक्तिमद्रूपाद् व्यतिरेकं न वाञ्छति | तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव || ३ || यथाग्नेस्तच्छक्तेश्च दाहकत्वपाचकत्वप्रकाशकत्वादिविलक्षणाया अनयोरयुतसिद्धत्वात्सातत्येन समवेतयोरैकात्म्यमेव न कदाचिद् दाहिकादिस्तच्छक्तिः स्वाश्रयं वह्निमनाट्टत्य स्वरूपसत्तां लभते यद्येन विना न तिष्ठेत तत्तस्मान्न व्यतिरिच्यते इति न्यायादभिन्नसारूप्यात् तादात्म्यमेवावजम्बते | यदुक्तम् - मातृकॢप्ते हि भावस्य तत्र तत्र वपुप्यलम् | को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव || (तं० १|७०) इति | एवं विश्वभाववैचित्र्यप्रथामयी स्वातन्त्र्यशक्तिः शक्तिमल्लक्षणात् शिवस्वभावान्न व्यतिरेकमिच्छेत् तत्सत्वे हि तस्याः स्वरूपविप्रलोपात् स्वरूपविनाशे कार्यसंपादनशक्तेरनुपपद्यमानत्वाद्विश्वमिदं न प्रस्फुरेत् प्रस्फुरति च विश्वं तस्माच्छिवप्रकाशाभिन्ना स्वातन्त्र्यशक्तिरेव वेद्यवेदकरूपेण विस्फुरति इत्यमुनैवाशयेन शिवसूत्रेषु चैतन्यमात्मा इति भावप्राधान्येन निर्देशः | नापि क्रियाभेदात् क्रियावान् भिद्यते तास्वनवरतं प्रवर्तमानास्वपि कर्तुरेकत्वानपायात् | एवं शक्तीनां बहुस्वेऽपि शक्तिमानेकत्वं न व्यभिचरति तद्वहुत्वस्यापि एकस्यामेव स्वातन्त्र्यशक्तावन्तर्भावान्मुख्या सैव एका शक्तिशक्तिमदव्यतिरेकिणी सर्वत्राभिषिच्यते | यदुक्तम् - तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् | विविच्यमानं वह्नीषु पर्यवस्यति शक्तिषु || (तं० १|६१) प्. ५) इति | तथा - बहुशक्तित्वमप्यस्य तच्छक्त्यैवाऽवियुक्तता | (तं० १|६८) इति | तथा - एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते | तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः || (तं० १|६७) इति | एतदेव हृदयं विमर्शः सार इत्यादिशब्दैः परिभाष्यते इदमेव जडप्रकाशाद्वैलक्षण्याधायि | यदुक्तं प्रत्यभिज्ञायाम् - स्वभावमवभासस्य विमर्शं विदुरन्यथा | प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः || (ई० प्र० १|५|१०) इति | एवं मायाध्वनि दुरपह्नवत्वाद्भासमानस्यापि भेदस्य आभाससारत्वात् न स्वतन्त्रशिवाद्वयभावखण्डना इति || ३ || ननु परमेश्वरस्य तत्तद्विश्ववैचित्र्यप्रथने किंमुद्दिश्य प्रवृत्तिः किंच निमित्तं इत्याशंक्याह - स एव भैरवो देवो जगद्भरणलक्षणः | स्वात्मादर्शे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् || ४ || स एव शक्तिमान् स्वतन्त्रोऽनुत्तरभट्टारकः स्वस्वातन्त्र्येणोद्भासितस्य विश्वस्य स्वात्मभित्तिसंलग्नतया धारणपोषणस्वभावत्वाद् भैरवो विश्वभरितस्वरूपः - म्रियात्सर्वं रचयति सर्वदो व्यापकोऽखिले | इति भैरवशब्दस्य सन्ततोच्चारणाच्छिवः || (वि० भै० १३०) इति विज्ञानभैरवोक्तनीत्या पूर्णाहन्ताचमत्कारनिर्भरभैरवस्वरूपे विश्रमणाद्वा विश्वेनापि धार्यमाणः पोष्यमाणश्च सदैव विश्वमयत्वेन प्रस्फुरणात् इत्युक्तं जगद्भरणलक्षण इति | भैरवसंविदो हि व्यतिरिच्यमानस्यान्यस्याचेत्यमानत्वात् सर्वत्र पारिपूर्ण्यं विश्वभरितस्वभावत्वात् | तस्यैव स्वैश्वर्यघनतामहिम्ना यच्छिवादिभूम्यन्तेन तत्त्वभूतभावाद्यात्मना विजृम्भणं तदेव स्वात्मगोपनात्मक्रीडारसिकस्य देवत्वं विस्तरतस्तुर्भैरवदेवशब्दयोर्विवरणं श्रीतन्त्रालोके द्रष्टव्यम् | प्. ६) एतदेव वश्वसृष्ट्यादौ परमेश्वरस्य निमित्तं न पुनः प्राणिनां कर्मादि तत्सापेक्षत्वे हि स्वातन्त्र्यं (न पुनः प्राणिनां कर्मादि तत्सापेक्षत्वे हि स्वातन्त्र्यं) विघटेत स्वातन्त्र्यमेवानन्दघनत्वं तदेव घनताऽतिशयप्राप्ता समुच्छलत्स्वभावत्वेन तत्तद्विश्ववैचित्र्येण स्फुरति द्योतते सर्वोत्कर्षतयाप्यास्ते | यदुक्तम् - तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् | तदुक्तं त्रिशिरःशास्त्रे स बुद्ध इति वेत्ति यः || इति | यच्छक्तया पराख्यया स्वार्त्मैव स्वच्छत्वादिना प्रतिबिम्बसहत्वाद् दर्पणस्तस्मिन् समग्रं प्रमातृप्रमेयात्मभावजातमुपादानादिसामग्रीनिरपेक्षत्वेन प्रतिबिम्बितं दर्पणो हि बिम्बसापेक्षः स्वान्तस्तत्तद्रचनार्वैचित्र्यं धत्ते एषा पराशक्तिस्तन्निरपेक्षमेव विश्ववैचित्र्यमाभासयतीत्येतदजाड्यस्य विलसितम् | यदाह भट्ट उत्पलदेवः - निरुपादानसंभारमभित्तावेव तन्वते | जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने || (२२|९) इति | श्रीशक्तिसूत्रेष्वपि - स्वेच्छया स्वभित्तौ विश्वमुन्मीलयते | (श० सू० २) इति | श्रीमानाचार्योऽपि - अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मकुरान्तराले | बोधः पुनर्निजविमर्शनसारयोगा - द्विश्वं परामृशति नो मकुरस्तथा तु || (तं० सा० ३ आ०) प्. ७) इति | अणुप्रत्यभिज्ञायामपि - नाथ त्वया विना बिम्बं स्वच्छे स्वात्मनि दर्शितम् | प्रसेनादर्पणेनेव प्रभावाद्भावमण्डलम् || ४ || इति | एवं वैश्वरूप्योल्लासे भेदामर्शनात् कथं भैरवस्याद्वैतत्वं स्यादित्याशंक्याह - तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका | पूर्णत्वं सर्वभावेषु यस्या नाल्पं नचाधिकम् || ५ || तस्यैव भैरवात्मनः संवित्प्रकाशस्य एषा वैश्वरूप्येणोल्लसन्ती स्वातन्त्र्याख्या शक्तिर्द्योतनादिक्रीडाशीलत्वाद् देवी स्वात्मनि प्रकाशाभेदेन विश्वस्यामर्शनावभासाभ्यां परा पूर्णतया स्फुरन्ती तत्रैव दर्पणनगरादिवद्भेद्यभेदतया विश्वस्य परामर्शनादत्यन्तं भेदेनापि मायाप्रमातुरुचितेन विमर्शनात् परापरादिसंज्ञामवाप्तापि स्वरूपस्यामर्शने स्वातन्त्र्यात् तत्तद्भावजातं स्वात्ममयमेवेति विश्वाहंभावचमत्कृतौ उत्सुका स्वात्मानमेव तथातथा पराम्रष्टुमौत्सुक्येन प्रवृत्ता एवं त्रिधाप्यामर्शने व्यतिरिक्तभावौंन्मुख्यविरहात्पारिपूर्ण्यादनपेतै स्वस्वातन्त्र्येण स्वमेव स्वात्मनामृशति | यदुक्तं प्रत्यभिज्ञायाम् - स्वातन्त्र्यामुक्तमात्मानं स्वातन्त्र्यादद्वयात्मनः | प्रभुरीशादिसङ्कल्पैर्निर्माय व्यवहारयेत् || ई० प्र० १|५|१६) इति स्थित्या द्वैतोल्लासेऽपि नाद्वैंतहानिरिति | अत एव यस्याः सर्वभावेषु साकल्येन विश्ववर्तिषु नीलसुखादिषु पदार्थेषु पूर्णत्वमखण्डं पारिपूर्ण्यं तच्च नाल्पं नचाधिकं भावानामुदयप्रलययोः संविदोः न्यूनाधिक्याभावात् रुद्रक्षेत्रज्ञादिप्रमातृष्वपि चितो न्यूनाधिकतया विशेषाभावात्पूर्णत्वं न हीयते | यदुक्तं ब्रह्मदर्शने - यैव चिद्गगनाभोगभूषणे व्योम्नि भास्करे | धराविवरकोषस्थे सैव चित्कीटकोदरे || प्. ८) इति | यथा प्रदेशाकाशानां महाकाशादनतिरिक्ता वृत्तिरेवं नीलादिप्रकाशानां ब्रह्मणो बृहत्त्वेन बृंहकतया च तदनधिकवृत्तित्वमिति || ५ || अत एवाभिन्नानि कृत्यानि करोति परमेश्वरो न भेदमयानीत्याह - एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः | विचित्रान् सृष्टिसंहारान् विधत्ते युगपद्विभुः || ६ || एष प्रत्यभिज्ञापदमारूढो द्योतनादिलक्षणश्चिद्देवोऽनयोक्तलक्षणया परा वाक्रूपया विश्वोल्लासनादिक्रीडाशीलत्वाद् देव्या देवसम्बन्धिन्या वा तत्समवायधर्मिण्या सह नित्यमविरतं तत्तद्भूमिकाविऋम्भणेऽपि अव्युच्छिन्नत्वात् सदोदितायां क्रीडायां पञ्चकृत्यात्मिकायां यो रसोऽभिलाषस्तत्रोत्सुको निरपेक्षं प्रसह्य तत्र प्रवर्तमानः | यदुक्तम् - सदा सृष्टिविनोदाय सदा स्थितिसुखासिने | सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः || (उ० स्तो० २२|९) इति | तथा - प्रतिक्षणमविश्रान्तस्त्रैलोक्यं कल्पनाशतैः | कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः || (स्त० चि० ११२) इति | तच्च क्रीडनं विचित्रम् तथाहि पराभूमौ प्रकाशघनतामयानां भावानामविच्छिन्नावभासादिना सदोदितमेव पञ्चकृत्यविधयित्वं पश्यन्त्यां चोद्भविष्यतामिदन्तावभासानामहन्तारसोद्रेकतया तत्रापि स्वाङ्गकल्पत्वेन भेदासूत्रणां विजृम्भयितस्तद्भूमिकामापन्नस्य तादृशमेव कृत्यकारित्वम् मध्यायां पुनरस्फुटतयाभासमानानां भावानामहन्तायामेवेदन्ताप्रधान्योद्रेचणात् तादृशभे वास्फुटकल्पं कृत्यम् संकोचकाष्टायां तु मायीयप्रमातृतायामपि सर्वथा स्वात्मविस्मृतौ तादृशमेव भेदैकसारं कृत्यम् तत्रापि प्रमातृ प्रकाशमन्तरेण नीलादीनामप्रतिष्ठत्वात् तत्कृत्यं प्रकाशमयमेव परिज्ञाय च यत्पुनः स्वरूपलाभप्रत्यापत्त्याऽणुभावात्स्वात्मनो विमुक्तिरित्यागमेषु परिगीयते इति अत एवाह विचित्रानिति | प्. ९) नच ब्रह्मादिवन्नियतशक्तया संकुचितत्वान्नियतमेव तदन्यतरत्कर्तु शक्नुयादित्यभिप्रेत्याह - सृष्टिसंहारानिति बहुवचनं कृत्यान्तराणामुपलक्षणार्थम् | तेन सृष्टिस्थितिसंहारपिधानानुग्रहान् विधत्ते करोति | कालादिकृतोऽत्र न कश्चिन्नियम इत्याह - युगपदिति अक्रमेण अकालकलिते परमेश्वरे तत्क्रमाभावात् विभुरिति देशाद्यवछेदशून्यत्वे हेतुः अत एवाक्रमेणैव विचित्रास्वेतास्ववस्थासु विचित्राणां सृष्टिसंहाराणां कर्तृत्वमविच्छिन्नम् | अथ च कल्पितप्रमातर्यपि सदैव सर्गादिविनोदासक्तः परमेश्वरः स्वस्वातन्त्र्यमाहात्म्येन करणेश्वरीचक्रं समुल्लास्य पर्यान्दोलनक्रीडया निखिलं प्रमेयजातं सृष्टिकाल्याद्युपारोहणेन प्रोल्लासयन् परिपाट्या क्रमेण वा कालसङ्कर्षणीधाम्नि विश्रम्य स्वात्मविश्रान्तिरूपपूर्णाहंपरामर्शचमत्कारधामासादयेति एवमेव भूयोभूयः क्रीडारसौत्सुक्येन विचित्रसृष्टयादिकारित्वं परिशीलयतीति सहृदयसंवेद्यमेतत्तन्मुखादवगन्तव्यम् | गृहीतपशुभूमिकस्य शिवस्य एतदेवाभिज्ञानं यदाह श्रीक्षेमराजः - तथापि तद्वत्पञ्चकृत्यानि करोति इति | अतः सर्वमिदं स्वातन्त्र्यस्यैव विलसितमिति || ६ || तदाह - अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् | एतदेव स्वतन्त्रत्वमैश्वर्य बोधरूपता || ७ || एवमस्य स्वातन्त्र्यशालिनः परमेश्वरस्य यदेवाभिन्नस्य प्रकाशैक्येनावस्थितस्य ग्राह्यग्राहकात्मनो विश्वस्येदन्ताभावेनाहन्ताधिक्येन सदाशिवे ईषस्फुटीभावेनेश्वरे समधृततुलापुटन्यायेन शुद्धविद्यायां भेदैकप्राणेंऽशुद्धाध्वनि अत्यन्तभेदेन स्वस्माद्बहिरवभासनं यदपि भासितस्यापि पुनरभेदेन स्वात्मनि प्रकाशघने निमज्जनं नामामुत्तरमनाश्रितादिभ्योऽपि अत्युत्कृष्टमतिदुर्घटकारित्वमेतदेव स्वतन्त्रत्वं स्वाच्छन्द्यं सर्वशक्तिक्रोडीकांरि तत्रैव शक्त्यन्तराण्यन्तर्भूय तन्मूखप्रेक्षित्वात् तदाक्षेप्याण्येव - प्. १०) अत एव स्वातन्त्र्यमेव मुख्यमैश्वर्य येनानुत्तरानन्दाद्युदुयक्रमेण विसर्गपर्यन्तेन यामलप्रसरेण वा मातृकामालिनीभावमेत्य तत्तद्विचित्रवाच्यवाचकात्मना वैश्वरूप्येण प्रस्फुरणम् | यदुक्तम् - तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः | विसर्गशक्तियुक्तत्वात् संपन्नो विश्वरूपकः || इति | अस्वतन्त्रस्य हि अनीश्वरतया विश्वमुद्भावयितुमसामर्थ्यात् विश्वविसर्गे तथा पञ्चविधकृत्यकारित्वे च स्वातन्त्र्यस्यैव मुख्यनिमत्तत्वात् | यदुक्तं प्रत्यभिज्ञायाम - चितिः प्रत्यवमर्शात्मा परावाक्स्वरसोदिता | स्वातन्त्र्यमेतन्मुख्यं तदैश्वर्यं परमात्मनः || सा स्फुरत्ता महासत्ता देशकालाविशेषिणी | सैषा सारतया प्रोक्ता हृदयं परमेष्ठिनः || ई० प्र० (१|५१३) इति | ऐश्वर्यमप्यस्यापरिच्छिन्नमेव परिच्छेदे हि ब्रह्मविष्णवादिवन्नियतैंकतरकार्ये व्याप्रिय माणत्वादनीश्वरत्वमेव एषैव बोधरूपता जडप्रकाशार्देवैलक्षण्यापादकत्वाद्विमर्शमयं बोधरूपत्वम् | यदुक्तं श्रीप्रत्यभिज्ञायाम् - आत्मात एव चैतन्यं चित्क्रिया चितिकर्तृता | तात्पर्येणोदितस्तेन जडात्स हि विलक्षणः || ई० प्र० (१|५|१२) इति | अन्यथा स्वातन्त्र्यविकलस्य बोधस्य विज्ञानाकलवदबोधरूपत्वान्मलाक्रान्तत्वं दुर्वारं स्यादिति || ७ || ननु किं नाम बोधरूपत्वं यदबोधाद्विलक्षणमित्याशंक्य तल्लक्षणं निरूपयन्नाह - परिच्छिन्नप्रकासत्वं जडस्य किल लक्षणम् | जडाद्विलक्षणो बोधो यतो न परिमीयते || ८ || जडप्रकाशस्य स्वप्रकाशस्वभावत्वाभावात् स्वात्मानमप्यवभासयितुं सामर्थ्यं नास्ति का कथा परस्य प्रकाशने तत्रानेलमूकत्वाद्वोधस्वभावाधिरोहणानुपपत्तिः | प्. ११) जडो हि किल देशकालाकारविशेषितो बोधेन परिच्छिद्यते प्रतियोगिव्यवच्छेदेन अघटाद्व्यवच्छिन्नो घट इवातद्व्यपोहनपूर्वतदध्यवसायजीविततामाश्रयतीति इत्येतज्जडस्य लक्षणम् तच्च प्रमात्राश्रयं ममेदं भातीति जीवन्तं प्रमातारमाश्रित्यैव घटादयः परिस्फुरन्ति नैव तेषां निजं किमपि प्रकाशमानत्वम् कल्पितस्यापि प्रमातुर्जडैकशरणत्वात् तत्पक्षपातित्वम् तस्मात् संविन्मयप्रमातर्येव परिमीयमानस्य जडप्रकाशस्य प्रतिष्ठानम् तद्वैलक्षण्येन हि बोधो देशादिविशेषानाकलितत्वेन परिच्छेदपदवीमनारूढो नैव परिमीयते | देशादेः परिच्छेदकस्यापि प्रकाशस्वभावाद् व्यतिरिक्ताव्यतिरिक्तविकल्पोपहतत्वात् | नापि बोधव्यतिरिक्तस्य प्रमात्रन्तरस्यासत्वात् तेन क्रियमाणस्य अतद्व्यपोहनस्याभावेनाहमात्मिकाबोधविश्रान्तिर्विकल्पास्पदमियाद् इति प्रकाशविश्रान्तिरसाकेङ्तिर्कीत्यादि अत्र जडाद्वेलक्षण्यं बोध्यम् | यदुक्तम् - प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः | उक्ता सैव च विश्रान्तिः सर्वापेक्षानिरोधतः || स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च (अज० प्र० सि० २३) इति | एतदेव बोधस्य स्वप्रकाशत्वं यत् स्वयं भासमानः परमपि भासयन् स्वस्वातन्त्र्यात्म्यमपाचमत्करोति परमपि स्वाहन्तासंरम्भात्प्रकाशयतीति || ८ || स्वातन्त्र्यावभासिताः सृष्टयादयोऽपि न भिन्नविषया इत्याह - एवमस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः | स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः || ९ || एवमयं परमेश्वरः स्वतन्त्रो निजया स्वाभिन्नया स्वसमवेतत्वात् शक्त्या स्वातत्र्येण विश्वसिसृक्षात्मकेन भेदमुपगच्छति अनाश्रितशिवादारभ्य सकलान्तप्रमातृवर्गपर्यन्तं पाञ्चदश्यादिभेदेन तदनुरूपप्रमेयभेदेनापि जडाजडात्मावभेदमापद्यते | प्. १२) अर्थाच्छक्तिरेव तत्तद्भावमण्डलरूपेणोल्लसन्ती विविधवाच्यवाचकतां भजते शक्तिमान्पुनः सर्वस्य स्वातन्त्र्यसारत्वादेक एवाच्युतप्राच्यस्वरूपः केवलं परस्परलोलीभावं प्राप्तानां शक्तीनां भासनोपरञ्जनादिभिरापाततो भेदोपभेदित्वमिव याति न पुनस्तस्य सड्रकोचावभासममात्रं विनान्यत्प्रिणामविवर्तादि संभवितुमर्हति | परिणामविवर्तादेस्तु रूपान्तरतदन्यथाभावत्वे बोधस्वभावं प्रति तद्विरुद्धाप्रकाशत्वं प्रसज्यते | तत्प्रसक्तावपि विश्वस्यान्धतमसप्रख्यत्वात् व्यवहारविप्रलोपः स्यादिति | तत्रेयति भेदपरिग्रहे परमेश्वरस्य पूर्णाहन्ताश्चमत्कारसारविश्वमयत्वाद्विश्वगताः सृष्टिसंहाराः स्वात्मगाः स्वाभिन्नाः पञ्चविधकृत्यानामुपलक्षणमेतत् शिवपदे प्रकाशैक्येन स्थितत्वात्स्वरूपत्वे न स्वाङ्गकल्पताय | संस्थिताः | अर्वाक्पदेऽपि श्रीकण्ठाघोरभट्टारकादिभिः क्रियमाणस्य सर्गादेः संवित्प्रकाशादबहिरवस्थितत्वात् तन्मयत्वमेवेति तत्रापि न मनागपि विभेदकलनाया विषयीभवन्तीति यदुक्तम् - * * प्रकाश एवास्ति स्वात्मनः स्वापसत्मभिः | इति || ९ || नन्वित्थं सर्वतः स्वस्वातन्त्र्यस्य विलसितत्वे कथमणूनां बन्धो भवतीत्याशंक्य युग्मेमाह - तेषु वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव यत् | भुवनानि तदंशाश्च सुखदुःखमतिश्च या || १० || यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् | स एव खलु संसारो मूढानां यो विभीषकः || ११ || तेषु सर्गादिषु पञ्चविधकृत्येषु अपरादिशक्त्युल्लासाद्दर्पणनगरादिवद्भेदाभेदपरामर्शतो भेदैकमयत्वपरामर्शनाच्चात्यन्तं यद्वैचित्र्यं यद्वा क्रमाक्रमाभ्यां विश्वत्र यत्सर्गादिवैचित्र्यं क्रमोहि नियत्यधीनः परमेश्वरस्य स्वतन्त्रत्वान्नियतिशक्तिमुखप्रेक्षित्वाभावान्न कापि परिपाटी अपेक्ष्यते | अत एव स स्वेच्छयैव क्रमेणाक्रमेण वा करोतीत्यर्थः | यच्चैंव ऊर्ध्वाधस्तिर्यकतत्तत्सन्निवेशविशिष्टानि सर्गादिगोचराणि भुवनानि कालाग्न्यादेरनाश्रितान्तमष्टादशाधिकशतसंख्यानि संक्षेपेणागमेष्वाम्नातानि | प्. १३) यदुक्तं श्रीपूर्वशास्त्रे - एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम् | भुवनानां परिज्ञेयं संक्.एपान्नतु विस्तरात् || इति विस्तरेण तु भुवनानामानन्त्यमेव यच्च तदंशा भुवनानामनेके पुरादिविभागाः तथा तत्तद्भुवनाद्यधिष्टात्-ॠणामुपासनाभिः तत्तत्सालोक्याद्यवाप्तेर्नियतकालं तदीयैश्वर्योपभोगपरिसमाप्तौ तदूर्ध्वभुवनेशपदप्राप्तिः तत्रापि तदैश्वर्यादिसुखानुभवः आगमोक्तशुमाचरणाद्यसेवनाच्चाधीधो निरयपाते अनैश्वर्याद्याक्रान्तेर्दुर्गतिक्लेशानुभवः इत्थं च या तेषु सुखदुःखमतिर्येन शुभाशुभकर्मसेवनात् कर्मानुरूपं तत्र तत्र संसरणम् | संवित्प्रकाश एव स्वस्वातन्त्र्यमाहात्म्यातिशयान्मूर्तिवैचित्र्येण देशाध्वानमुन्मीलयति स एव भुवनतत्त्वकलात्मवाच्यं तत्र मुख्यं वाच्यं भुवनानि तत्त्वकलयोस्तदन्तर्भावात् | भुवनादीन्यपि परमेश्वरान्न व्यतिरिक्तानि तथात्वेऽप्रकाश्यमानत्वात्तत्सत्त्वानुपत्तिः तस्मात्संविदेव तथा तथा बहिः प्रस्फुरतीति | यदुक्तम् - मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ | इति | तथा - आश्यानं चिद्ररसस्यौघं साकारत्वमुपागतम् | जगद्रूपतया वन्दे प्रत्यक्षं भैरवं वपुः || इति | तथा - अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः | यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते || (तं ८|३) इति च || ११ || प्. १४) यदेतस्य भुवनतदंशादेस्तत्त्वाद्यध्वान्तराणामुपलक्षणीभूतस्यापर् इज्ञानं स्वातन्त्र्यमेव भुवनाद्यात्मना प्रसरति एतदित्येतस्याप्रत्यभिज्ञानं तद्विपरीतदुःखाद्याकुलितबन्धपरिदृष्टिः तद्धि स्वातन्त्र्यमतिदुर्घटकारित्वसंपादनसामर्थ्यं वर्णितम् यदुक्तम् - अनावृते स्वरूपेऽपि यदात्माच्छादनं विभोः | सैव माया यतो भेद एतावान्विश्ववृत्तिकः || (तं ४|११) तथा च परमार्थसारे - परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य | देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् || इति | स एव खलु जडानां मायामोहितानां संसारो यो विभीषको रज्जुभुजङ्गभ्रमवन्मरणादित्रासजननः | अयं भावः यथा भ्रान्त्या विकल्पकल्पितेऽर्थशून्ये वस्तुनि रौद्राद्याकृतिसंभावनया भीषणीयमाकारविशेषं समुल्लिख्यानर्थकारिणीं तदर्थक्रियां धत्ते एवमेव स्वस्वातन्त्र्यापरिज्ञानादणुतामापन्नः स्वात्मा वर्णाश्रमजात्याद्यभिमानेन निबध्यते प्रबुद्धा हि स्वात्ममयं विश्वमन्तर्बहीरूपतया प्रत्यभिजानानाः संसारान्मुच्यन्ते नच तदपरिज्ञाने किमपि स्वात्मगोपनासतत्त्वक्रीडां विना कारणमुत्पश्यामः तथा तथा निगूहितपरमार्थत्वेन यन्महेश्वरस्य प्रसरद्रूपत्वं तदपि तस्य स्वातन्त्र्यमेव | इयं हि विमर्शलता विश्वसिसृक्षया प्रसरन्ती क्रमेण वाच्यवाचकात्मषडध्वात्मना पल्लविताज्ञानां बन्धयित्रीत्यर्थः | यदाह स्पन्दे - सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || इति || ११ || ननु स्वातन्त्र्यप्रत्यभिज्ञानं संसाराच्च विरतिः कथमणोर्भवतीत्याशंक्य युगलकेनाह - प्. १५) तत्प्रसादरसादेव गुर्वागमत एव वा | शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपागतम् || १२ || यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः | तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता || १३ || विश्वमयतदुतीर्णस्वस्वरूपं प्रत्यभिज्ञातुं किमपि तपः पूजाक्रमादि न प्रगल्भते तस्य मायीयत्वेनान्धतमसप्रख्यत्वादमायीयं संवित्प्रकाशं प्रकाशयितुमसामर्थ्यात् | स्वात्मोपलब्धौ तपोवैराग्याद्यपेक्षायामपि तत्संपत्तेः कारणान्तरमन्वेष्टव्यं तत्रापि कारणान्तरमित्यनवस्थापातस्तथा च स्वातन्त्र्यं हीनं भवेत् तस्मात्परमेश्वरः स्वेच्छयेव विश्वक्रीडामुद्विभासयिषुः स्वशक्त्या तिरोधानाख्यया स्वात्मानं तिरोधाय पुनरपि तयैवानुग्रहाख्यया प्रत्यभिज्ञाय स्वमुद्वेष्टयते तच्चोद्वष्टनं परशक्तिपातवशात्प्रतिभाप्रसादनपूर्वं स्वात्मशिवताप्रत्यभिज्ञानं शक्तिपातवैचित्र्याद्बहुधा भवाति इत्याशयेन शक्तिपातकार्याणि निरूपयन्नाह तदिति कश्चित्तीव्ररशक्तिपात पवित्रितहृदयः सिद्धयोगिनीदर्शनचरुभोजनादिनानुपायपथेन स्वात्मानं प्रत्यभिजानातीति | यदुक्तं तन्त्रालोके - सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् | कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् || इत्याद्यो निरुपायस्य संक्षोपोऽयं वरानने | इति अत एवोक्तम् - तत्प्रसादरसादेव इति एवशब्दः कारणान्तरं निरयति | प्रसादो हि संविन्नैर्मल्येन सकृदेव भैरवीयपरप्रतिभोन्मज्जनं तत्र पौनः पुन्येनोपापपरिशीलनाभावात् | यदुक्त तन्त्रालोके - उपायैर्न शिवो भाति भान्ति ते तत्प्रसादतः | स एवाहं स्वप्रकाशो भासे विश्वस्वरूपकः || प्. १६) इत्याकर्ण्य गुरोर्वाक्यं सकृत्केचन निश्चिताः | विना भूयोऽनुसन्धानं भान्ति संविन्मयाः स्थिताः || इति | तथा कश्चित्तीव्रसक्तिपातानुगृहीतो गुरुमुखादागमार्थं विज्ञाय अकिञ्चिच्चिन्तकत्वादिशांभवोपायक्रमेण परतत्त्वाभिज्ञतामेतीत्यत उक्तम् - गुर्वागमत एव वा इति | गुरुणोपदिष्टं प्रतिबोधक्रममाश्रित्य विश्ववैचित्र्यस्य चित्प्रतिबिम्बत्वेन परामर्शनादित्यर्थः | यदुक्तम् - इत्थं विश्वमिदं नाथे भैरवीये चिदम्बरे | प्रतिबिम्बमलं स्वच्छे न स्वल्वन्यप्रसादतः || (तं० ३|६५) इति | तथा कश्चित्सतर्कादिसहकृतेन पारमेशशास्त्रेण शाक्तपरिपाट्या प्रत्यभिज्ञां प्राप्नोति | तदुक्तम् - यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् | अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः || (तं० ४|४२) इति | अतः शास्त्राद्वा परमेशस्य इत्युक्तम् | अधरदर्शनानि परिहृत्य पारमेशं त्रिकादिशासनमवलम्ब्य इत्यर्थः | यदुक्तम् - स समस्तं हि शास्त्रार्थं सत्तकादेव मन्यते | शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् || (४|४४) इति | तथा मन्दशक्तिपातवान् कश्चिदुच्चारकरणध्यानादिना आणवोपायक्रमेण ऊर्ध्वोर्ध्वसोपानाधिरूढेऽनुत्तरपदविश्रन्तिं यातीत्यत आह - यस्मात्कस्मादुपागतमिति यं कंचित् स्थूलं ध्यानकरणाद्युपायमाश्रित्य उपागतं प्राप्तमित्यर्थः येनैषां निर्व्युत्थानं सदोदितसमावेशो जायते | इत्थं यदनुत्तरसंवित्तत्त्वस्य परिज्ञानं विश्वपरिपूर्णाहंभावचमत्कारोल्लासेन स्वस्वातन्त्र्याभिव्यक्तिः स एव मोक्षः नतु देवाद्यवच्छिन्न-स्थानान्तरप्राप्तिः | यदाहाचार्यः - प्. १७) मोक्षस्य नैव किञ्चिद्धामास्ति नचापि गमनमन्यत्र | अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः || (प०सा० ६०) इति | सैंव परमेशता तत्तद्विश्वात्मना प्रस्फुरद्रूपत्वं पारमेश्वर्यमभिन्नप्रकाशमयं नतु भेदमयाणिमासिद्धयः | तदेव पूर्णाहन्ताविमर्शमयबोधशालिनां प्रबुद्धानां पूर्णत्वं विश्वभरितस्वभावत्त्वं सैव देहप्राणादि धारयतां जीवतां प्रमातृणां मुक्तिः जीवच्छिवावस्था शास्त्रेषु स्मृतेति || १२-१३ || एवं बन्धमोक्षकल्पनापि कल्पितैवेत्याह - एतौ बन्धविमोक्षौ च परमेशस्वरूपतः | न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे || १४ || एतौं समनन्तरोक्तलक्षणौ बन्धमोक्षौ च परमेश्वरेच्छामात्रकल्पितत्वात् परमेशस्वरूपतः संवित्स्वातन्त्र्यान्न भिद्येते भिन्नतया स्थितिं न यातः तद्व्यतिरिक्तत्वेऽसंवेद्यमानत्वान्न प्रस्फुरेतामित्यर्थः | यतः स्वेच्छर्यैव स्वात्मप्रच्छादनक्रीडारसिकत्वान्महेश्वरो विश्वनाट्यक्रीडाप्रदर्शनाभिप्रायेण अन्तरात्मरङ्गे तत्तद्भूमिकाग्रहणं विदधत् विभावानुभावादिभिर्व्यञ्जितैः सात्त्विकभावादिसहचरितैस्तत्तत्स्थायिभावैः समुन्मीषितामलौकिक्तरसचमत्कृतिमास्वादयतीत्येतद्वास्तवार्था भिज्ञान-विरहादपराभिः शक्तिभिः प्रमुषितपरमार्थानां बन्धाभिमानो जायते अनुग्रहभाजनानां तु चिद्धनसंवित्स्वातन्त्र्यमेवान्तर्बहिर्विश्वोल्लासेन प्रस्फुरतीत्यभिज्ञातवतां अघोरात्मना शक्तिचक्रेण स्वाभिन्नं प्रकाशघनात्मविश्वं प्रदर्शयता लब्धपरमार्थनिधीर्नां मोक्षाभिमान इत्युभयमिदं भगवान् स्वाच्छन्द्येंन विजृम्भयति | अतस्तच्छक्तिमयत्वात् तस्मान्न भिन्नमेतदिति तात्पर्यं हेतुवचनेन द्रढयति न भेद इति हि यस्मात्तत्त्वतः परमार्थत आत्मनि परमेश्वरे भेदो नास्ति सर्वस्य प्रकाशसारपरमार्थत्वेनाणुमात्रमपि भेदकलनाया असंभवात् तस्मात्पूर्णाहंभावचमत्कारोद्रेकात् पूर्णे पूर्णं विजृम्भमाणं नापूर्णं किमपि बन्धमोक्षादिकलनेति सर्वमनवद्यम् | प्. १८) यदुक्तम् - संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया | मिथ्यामोहकृदेश रज्जुभुजगच्छायापिशोचभ्रमो मा किञ्चित्त्यज मा गृहाण विहर स्वस्थो यथावत्स्थितः || इति || १४ || एवं परमार्थाभिज्ञानां जीवदवस्थायामेव समाश्वासदायिनीं पारमेश्वर्यरसनिर्भरां तत्समापत्तिमासादयितुमभ्युपायमाह - इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः | भैरवः सर्वभावानां स्वभावः परिशील्यते || १५ || इत्थमुक्तपरामर्शनेन सर्वभावानामन्तर्बहिर्वर्तिनां नीलसुखादीनां स्वभावः प्रकाशत्मा भैरवो विश्वभरितस्वभावत्त्वात् पूर्णः स्वतन्त्रशिवप्रकाशः परीशील्यते परामृश्यते | स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् स्रष्टा विश्वात्मक इति प्रथया भैरवात्मतेत्युत्त्या भैरवीया संविदेव हि बहिरन्तस्तत्तद्भावाद्यात्मना चकास्ति यत्किञ्चित्करणेश्वरीभिराभास्यतेत्सर्वं स्वात्मैव स्वात्मानं स्वातन्त्र्यात्परामृशति न व्यतिरिक्तमिति यावत् यदुक्त मीश्वरप्रत्यभिज्ञायाम् - स्वात्मैव स्वात्मना पूर्णा भावा भान्त्यमितस्य तु | इति | कीदृश इत्याह - इच्छेति कलेति क्रियाशक्तिः इच्छाज्ञानक्रियाशक्तय एवारात्रयसाम्याच्छूलं तत्र यन्मत्स्योदरीमतादिप्रसिद्ध्या सङ्कोचविकासधर्मशालि पद्ममौन्मनसं पदं तदाश्रितस्तदुत्तीर्णतया भासमान इत्यर्थः - प्. १९) अथ च विश्वस्य संवित्प्रकाशादनतिरिक्ततया स्थितिं प्रदर्शयितुं श्रीपराबीजस्याप्युदयः प्रोक्तः तत्र स्वभाव इत्यनेनामृतबीजस्योद्धारः कृतः तस्यानचकत्वादुच्चारणमशक्यमित्यतः अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके | इत्युक्त्या इच्छाकलेत्यनेन शूलबीजोद्धारः | भरणवमनस्वभावत्त्वादभैरव इत्यनेन बहिरन्तारूपतया द्विधा विसर्गस्योद्धारः | सर्वभावानामित्यनेनास्य व्याप्तिरुक्ता | यदुक्तं मालिनीविजये - सार्णेनाण्डत्रयं व्याप्तं त्रिशूलेन चतुर्थकम् | सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते || इति | तथाहि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् | इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते || तच्छक्तित्रितयारोहाद् भैरवीये चिदम्बरे | विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते || इति च | एवं व्याप्तिके पराबीजे निरन्तराम्यासकरणात्पारमेश्वरसमावेशादैश्वर्यसिद्धिरिति विश्वसिद्धिकारणैतद्बीजपरामर्शनात्करणस्य कटाक्षेण प्रदर्शनं सूचितवानाचार्यः || १५ || इदानीमाचार्यः स्वनामकीर्तनाच्छास्त्रार्थं प्रत्यभिमुखीकरणादुपसंहरति - सुकुमारमतीन् शिष्यान्प्रबोधयितुमञ्जसा | इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशोदिताः ||| १६ || इति बोधपञ्चदशिका समाप्ता || सुकुमारमतयो मन्दशक्तिपाअतवन्तः अजस सुखेन स्पष्टमन्यत् || १६ || यां बोधपञ्चदशिकां मतिमान्द्यभाजां सम्बोधनाय निवबन्ध गुरुः सुरम्याम् | माहेश्वरोऽभिनवगुप्त इतीड्यनामा तत्र व्यधाद्व्यवरणं हरभट्टशास्त्री || भूनन्दनन्दवेदेऽब्दे (४९९०) लौकिके फाल्गुनेवदी | एकादश्यां तिथौ शास्त्री हरो विवरणं व्यधात् || इति श्रीमहामाहेश्वराचार्यवर्यं - श्रीमदभिनवगुप्तविरचितायां बोधपञ्चदशिकायां पं० हरभट्टशास्त्रिकृतं विवरणं समाप्तम् || श्रीशिवार्पणमस्तु || ########### END OF FILE #######