#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00262 Uniform title: brahmasandhāna Manuscript : BHU C. N. 4242 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### * * * * * * * * * * * * * * * भेत् | हृत्पद्मे नाभिपद्मे च मुखपद्मे तथैव च || ५ || वसते परमात्मा वै यदि शक्नोषि वेदितुम् | नवद्वाराणि सङ्घट्ट नवनाडीर्निरोधयेत् || ६ || संहृत्य नववायूंश्च हृत्पद्मे तान् प्रवेशयेत् | तस्य पद्मस्य वै नालं पिङ्गलानाडिरुच्यते || ७ || तया प्रोक्तास्त्रयः पश्चात् सूत्रे मणिगणा इव | प्रधानानाडयस्त्रिस्रस्तालब्ध्वा वेदयेत् पुरम् || ८ || तासां मुख्या तु वै ह्येका तां ज्ञात्वा ज्ञायंसे परम् | तस्या मध्ये स्थितं ज्ञेयं सर्वकारणमव्ययम् || ९ || यं विदित्वा महासेन उक्तान्त्रिं कर्तु मर्हसि | दशमद्वारमाश्रित्य दशमानाडिका *? ह || १० || दशमं पवनं लब्ध्वा विषुवत् ग्रहणं भवेत् | आकाशं ग्राहयेत् तस्य ग्रन्थि भेदैः शनैः शनैः || ११ || प्. २) कृत्वा वै ब्रह्मसन्धानं सम्यग् ज्ञात्वा परां गतिम् | परे स्थाने लयं कृत्वा निष्कम्पः सुसमाहितः || १२ || प्रणवे संहरेदात्मा ग्राह्यं निश्शेषमारुतम् | प्रणवं तु समुच्चार्य ताल्वोष्ठपुटशोभितम् || १३ || कल्पायुरपि तत्रैवमाक्रमत्यनु संशयः | करणान्यप्रशेषाणि ग्रन्थि द्वाराणि सर्वशः || १४ || नाडयः पवनात् सर्वा विदित्वा सर्वमुच्यते | यावच्च ज्ञायते वत्स तावद् ब्रह्मलयी भवेत् || १५ || तं विदित्वा महासेन उत्क्रान्ति कर्तु मर्हसि || १६ || कस्मिन् स्थाने स्थितो ब्रह्मा केन द्वारेण सिद्ध्यति | एतत् सर्वं समाचक्ष्व यदि तुष्टोसि मे प्रभो || १७ || प्. २ब्) ब्रह्मा ब्रह्मे लये कुर्याद् भूताद् भूतेषु वलयम् | अन्यथा नैव सिद्ध्यन्ति कल्पकोटि शतैरपि || १८ || भूतांस्त्यक्त्वा तु वै देव केन द्वारेण सिद्ध्यति | एतन् मे संशयं सर्वं वक्तुमर्हस्य शेषतः || १९ || गुह्याति गुह्यं गुह्यं च अतिगुह्यं षडानन | यत्त्वया वेदितं प्रश्नं तत् सर्वं कथयामिते || २० || व्योम मध्ये स्थिता सूर्यः सूर्यमध्ये स्थितः सशी | शशि मध्ये स्थितं तेजस्तेजोमध्ये स्थितं परम् || २१ || ऋजु स्निग्धं च विमलं विद्युल्लेखे वदुस्सहम् | * *? कोटि? प्रतीकाशं दुष्प्रेक्षं लयवर्जितम् || २२ || हृत्प * * * * * * ? सूर्यं शशि हृतासनम् | तेषां मध्ये परं तेजो ये नेदं प्रतितिष्ठितम् || २३ || प्. ३अ) महत्तेजांसि यच्चित्तं प्रत्यक्षं यस्य षण्मुख | ब्रह्मद्वारस्य वै पृष्ठे धूम्रोयं सर्वतः स्थितः || २४ || हृदिस्थं गगनस्थं च उभावेकत्र चिन्तयेत् | अन्यथा नैव सिद्ध्यन्ति युक्तिहीनाः शिखिध्वज || २५ || यन्मयोक्तं परंब्रह्म हृद्याकाशे व्यवस्थितम् | सा शक्तिः स शिवं ज्ञानं ज्ञेयं चाक्षरमव्ययम् || २६ || एतत् ते ब्रह्मसन्धानं ब्रह्मद्वारेण यो भवेत् | स मुक्तः सर्वदुःखेभ्यः सद्यो ब्रह्मणि कल्पयन् || २७ || उत्क्रान्ति काले तस्येदं विदितं ब्रह्मणो लयम् | स वै लीनो परे वत्स इत्याज्ञा पारमेश्वरी || २८ || ब्रह्मनाडिं ब्रह्मवायुं ब्रह्म * * * *? लभेत् | ब्रह्मणं तु समन्तव्यं ब्रह्माक्षर ल * * *? || २९ || प्. ३ब्) प्रणवं हृत्स्थितं पद्मं प्रणवं व्योम्नि संस्ति *? म् | कालाग्नि रुद्रपर्यन्तं यावद्ब्रह्माण्डगोचरम् || ३० || सर्वं दृष्टं परेणेदं प्रणवेण शिखिध्वज | वाङ्मयं सकलं यश्च त्रैलोक्यं स चराचरम् || ३१ || ब्रह्मादि स्तम्भ पर्यन्तं सर्वं प्रणवसम्भवम् | तस्मिन् नेव लयं कुर्यात् ते चैव ब्रह्मवादिनः || ३२ || स एव परमं स्थानं स एव परमाक्षरम् | त्र्यक्षरं च त्रिधा भिन्नं त्रिस्थानं त्रिगुणात्मकम् || ३३ || त्रिदेवाग्नि त्रयं चैव त्रिदेवं परमं स्मृतम् | पञ्चमूर्ति धरं देवं शिवं परमकारणम् || ३४ || * * * द्यन्तरे वत्स यदि सक्नोषि वेदितुम् | देवदानव * ? द्धानां गन्धर्वोरगरक्षसाम् || ३५ || सर्वेषां प्रणवं योनि लयं तत्रैव ष * *? | प्. ४अ) ब्रह्माविष्णुश्च रुद्रश्च ईश्वरः शिव एव च || ३६ || प्रणवेण तु वै सिद्धाः सम्भूताः प्रणवेन तु | अक्षरं चक्षरं चैव स नामं नामवर्जितम् || ३७ || स रूपं रूपरहितं प्रणवं परिपठ्यते | उच्चार्यं तु ह्यनुच्चार्यं स्वरमस्वरमेव च || ३८ || घोषं चैव ह्यघोषं च प्रणवं परशक्ति धृत् | स मन्त्रं च ह्यमन्त्रं च ग्राह्यमग्राह्यमेव च || ३९ || ग्राह्यग्राहक भेदेन प्रणवं सर्वतः स्थितम् | प्रणवं यो न जानाति विश्वस्या यतनं परम् || ४० || तस्य मोक्षः कुतो वत्स कल्पकोटि शतैरपि || अद्यापि सं *? ???????????????????????????? व हृदये वर्तते महान् | प्. ४ब्) कस्मिन् स्थाने स्थितो ब्रह्मा तत् समाचक्ष्व मे प्रभो || श्री ईश्वर उवाच सर्वत्रावस्थितो ब्रह्मा प्राणिनां देहधारकः | विशेषतः पुनर्वत्स त्रिषु स्थानेषु संस्थितः || २ || हृत्पद्मे नाभिपद्मे तु मुखपद्मे तथैव च | स प्रत्यक्षं दृश्यते वै विकारावस्थितः प्रभुः || ३ || हसते रुदते चैव नृत्यते गायते तथा | भुञ्जते जिघ्रते चैव शृणु वक्ष्यामि हेतुतः || ४ || उन्मेषे च निमेषे च विषादे चैव हर्षिते | सुखदुःखान्यसौ वेत्ति शीतोष्णस्पर्शनानि च || ५ || क्षुट्तृष्णा मैथुनं निद्रा प्रबोधं जाग्रता स्थितम् | एते प्रत्यक्षतो यस्य दृश्यन्ते वै षडानन || ६ || नान्यदीपं स्वरूपेण परमात्मा च लभ्यते || ७ || प्. ५) विस्मयो मे महादेव अद्यापि न निवर्तते | त्रिस्थानावस्थितं देवं श्रोतुमिच्छामि वै प्रभो || ८ || तुष्टोहमद्यते पुत्र यत् त्वया पृच्छ्यते ह्यहम् | त्रिस्थानावस्थितं ब्रह्म तच्छृणुष्व यथाक्रमम् || ९ || हृत्पद्मे वसते नित्यं स्थिरा भावेन वै गुह | मुखपद्मे नाभिपद्मे गतागतिं करोति सः || १० || हृत्पद्मस्य तु पत्त्राणि नाडयस्ताः प्रकीर्तिताः | प्रणाद्या वायवः सर्वे वहन्ते तेषु नाडिषु || ११ || नाडयो वै दश प्रोक्ताः पवनानि तु वै दश | प्रधाना पिङ्गला शून्य सृजते पहरे तु सः || १२ || नाडि चक्रस्य सर्वस्य नाभिभुव्यवस्थितम् | प्. ५ब्) नाडि चक्रस्य वै तद् वत् पिङ्गला मध्यतोद्भवा || १३ || इडा चैव सुषुम्णा च पिङ्गला च तृतीयका | एककायं च सर्वासां युक्ति भेदे पृथक् पृथक् || १४ || इडा वहति वामेन तत्र सोमो व्यवस्थितः | सुषुपिङ्गला दक्षिणपुत्र त्रत्र सूर्यो व्यवस्थितः || १५ || सुषुम्णा मध्य नाडी तु तत्र सर्वं सदा स्थितम् | इडामध्ये स्थितं देव पितृयानेति कथ्यते || १६ || पिङ्गलावस्थितं पुत्र देवयानेति कथ्यते | सुषुम्णा मध्यमानाडी तत्रस्थं मोक्षमार्गदश || १७ || सर्वारम्भेण योगीन्द्रो मोक्षमार्गपदावहः | कर्णिकान्त स्थितं देवमव्यक्तं रूपवर्जितम् || १८ || तदुर्थावयव सर्वेयैर्व्याप्ता नाडयोदश | प्. ६अ) तासां मध्ये तु वै ह्येका सुषुम्णा नाम श्रूयते || १९ || तया प्रोक्तास्त्रयः पद्माः सूत्रेण मणयो यथा | तस्याभ्यन्तरसंलीनौ प्राणापानौ व्यवस्थितौ || २० || सुषुम्णामध्यसंस्थौ तु प्राणापानौ शिखिध्वज | सृष्टिप्रलयरूपेण स्थिता वेतौ कुमारक || २१ || ग्रथितौ परयाशक्त्या अव्यक्ता मृतयोथया | आधाराधेय भावेन परापर विभागशः || २२ || सृष्टि प्रलय रूपेण प्राणापानौ व्यवस्थितौ | तयोर्मध्ये स्थितं ब्रह्म अन्यक्तं रूपवर्जितम् || २३ || ग्रसते सृजते चैव सर्वं विश्वं चराचरम् | नाभिपद्मस्य वै पृष्टे हृत्पद्मं तु अधो मुखम् || २४ || उभाभ्यां कर्णिका मध्ये परं तद्वीक्ष्य पुत्रक || २५ || प्. ६ब्) कथं मे दृश्यते तात तस्य रूपस्य गोचरम् | यं दृष्ट्वाहं गमिष्यामि अजन्म पदमव्ययम् || २६ || साधु साधु महाप्राज्ञ योगयोगेश्वरेश्वर | यत् त्वया चोदितं प्रश्नं दुर्विज्ञेयं सुरोरपि || २७ || न ब्रह्मणा न सूर्येण न चन्द्रेन न विष्णुना | न तु देव्या त्वया चैव यदभ्य परिपृच्छितम् || २८ || तत् ते हं कथयिष्यामि गुहाद्गुह्यतरं परम् | विक्षेप वचनं रक्षेच्छरणागतवत्स्वत || २९ || राजामन्त्री वरक्ष्यो यं न देयं यस्य कस्य चित् | अदीक्षितेन दातव्यमश्रद्धेयमनार्जवो || ३० || आकुले कूरहृदये दुर्जने च दापयेत् | दातव्यं दीक्षते पुत्र गुरुदेवाग्निपूजके || ३१ || प्. ७अ) श्रद्धधाने जितक्रोधे लोभमोहपराङ्मुखे | परीक्ष्यते गुरुः शिष्यमब्दानि द्वादशानि वै || ३२ || अनेन भावितं विश्वं सर्वमेव चराचरम् || ३३ || अद्यमे जन्मसफलं अद्यमे सफलं श्रुतम् | अद्यमे सफला बुद्धिरद्यमे सफलं तपः || ३४ || स कृतार्थोस्मि वै हृद्य अद्य जातोस्मि वै पुनः | मुक्तोस्मि चा?द्य वै तात भवसंसारबन्धनात् || ३५ || गुह्यं ज्ञानं विदित्वा तु तृप्तोहं सर्वदा प्रभो | अधुना श्रोतुमिच्छामि प्रणापानौ व ??????????????????????????? प्. ७ब्) कथं स्थितौ || शृणु वत्स महाप्राज्ञ यत् त्वया चोदितो ह्यहम् | तत् तोहं कथयिष्यामि प्राणापानौ यथा स्थितौ || २ || प्राणाद्या वायवः पञ्च ऊर्ध्वभागे व्यवस्थिताः | तेषां मध्ये प्रधानौ द्वौ प्राणापानौ प्रकीर्तितौ || ३ || कन्दुकन्यायमाश्रित्य अध ऊर्ध्वं प्रवर्तते | योगमार्गेषु सर्वेषु गतिरेषा प्रवर्तते || ४ || नवानां चैव वायूनां प्राणापानौ प्रकीर्तितौ | हृत्पद्मे नाभिपद्मे तु द्वादशान्ते तथैव च || ५ || विशते परमात्मा वै प्राणापान गति स्थितः | अपानः संहरेत् प्राणं प्राणोपानस्य वै तथा || ६ || प * * *? स्थितं तेषां सृजते संहरत्यसौ | उदयास्त मनं ह्येतन् नान्यं मन्ये शिखिध्वज || ७ || प्. ८अ) बाह्यसंस्थस्य सूर्यस्य नोदयो वै नास्तमयः | तपते सततं वत्स विश्वं दिङ्मार्गवीक्षणे || ८ || तस्मात् सर्वप्रयत्नेन शरीरस्थं विचारयेत् | यं ज्ञात्वा प्राप्यते मोक्षो येन भूयो न जायते || ९ || ज्ञातुमिच्छम्यहं देव उदयास्त मयं कथम् | अहोरात्रं कृतं चैव सङ्क्रान्ति विष्ववद् द्वयम् || १० || अति प्रियोपि मे पुत्र पृच्छसे शोभनं सुत | यत् त्वया चोदितं प्रश्नमनाख्यं कथयामिते || ११ || यन् मयोक्तं परं ब्रह्म हृदिस्थं तं षडानन | तस्य शक्तिर्भवेदेषा उदयास्त मनं प्रति || १२ || ऊर्ध्वमार्गे यदा ज्वाला वर्तते तस्य तेजसः | उदयं तं विजानी ??????????????????????? * * * तालयं यस्मात् तस्माल्लिङ्गं तदुच्यते | प्. ८ब्) अलिङ्गं लिङ्गरूपेण अव्यक्तं व्यक्तगोचरम् || ९ || आकाशं सम्भवेद्वत्स यो वै शक्त्या लयं गतः | पृथिव्यापस्तथा तेजो वायुराकाश एव च || १० || एते पञ्च महाभूता यतोत्पन्ना लयं हि तत् | आकाशं ग्रसते शक्तिर्यथाग्रस्ताखिलं जगत् || ११ || सृष्टिं तु कुरुते सा तु शिवाज्ञा चोदिता गुह | प्रलयं सर्वभूतानां मया ते कथितं सुत || १२ || मयि चोक्तं शिवे नेदं पूर्वं तुष्टेन सर्वदा | भूतोत्पत्ति लयं चैव मयाज्ञातं विभागशः | भूयो विज्ञातुमिच्छामि * * * * * * * * | पगे ९ तो १९ मिस्सिन्ग् ????????????????????????????? प्. २०अ) * * * * * * * * आकारं ब्रह्मसंस्थितम् || १ || अतिगुह्यतमं प्रश्नं यत् त्वया चोदितं गुह | तत् सर्वं कथयिष्यामि शृणुष्वा वहितं तथा || २ || शून्यं शून्यं पुनः शून्यं शून्यं शून्यं पुनः पुनः | शून्याच्छून्यतरं शून्यं तच्छून्यं शून्यमेव च || ३ || शून्यं शून्यं त्वया प्रोक्तमनेन ज्ञानता मम | शून्यस्या शून्यतां ब्रूहि यदि तुष्टोसि मे प्रभो || ४ || शून्यं शून्यं तु यो वेत्ति शून्यं शून्यं तु यो भवेत् | अशून्यं तं विजानीयात् सर्वशून्या लयं हितम् || ५ || सर्वभूतेषु तं वत्स त्रिशून्यं हृदिसंस्थितम् | न तु जानन्ति तं शून्यमशून्या येन ते कृताः || ६ || शून्यभूतं शिवं ज्ञेयं शून्यभूता हि शक्तयः || प्. २०ब्) अशून्यं तेष्वमीरूपं सर्वगं चेतनात्मकम् || ७ || न हि शून्यस्य शून्यत्वं शून्यत्वं तस्य भावना | विज्ञानं ज्ञापकं शून्यं निरालम्बाबलम्भितम् || ८ || विभुत्वेन स्थितं शून्यं ये नेदं पूरितं जगत् | तं शून्यं शून्यमित्याहुर्वदन्ति ज्ञानबुद्धयः || ९ || शून्यस्य शून्यता नास्ति अशून्यं शून्यमुच्यते | सृष्टिप्रलय रोहित्वा च्छून्यस्याशून्यतां विदुः || १० || शून्यात् सृष्टिः प्रसवति शून्ये तु प्रलयं पुनः | तस्मादशून्यता शून्ये निरालम्भावलम्भिनम् || ११ || निरालम्भावलम्भित्वं शून्यता येन सिद्ध्यति | विज्ञानज्ञानयोगेन शून्यं ज्ञेयं लभेष्यसि || १२ || शून्यंत्व शून्यं ज्ञातव्यं न हि शून्योस्ति कुत्र चित् | प्. २१अ) तेषां शून्यमिदं शून्यमज्ञाना येषु भावना || १३ || अशून्यं सर्वदा वत्स त्रैलोक्यं स चराचरम् | ब्रह्मादि स्तम्भपर्यन्तं सर्वं शून्येन पूरितम् || १४ || तच्छून्यं पूरिता शक्त्या अव्यक्ता या शिवोत्थया | यथा चैतन्य भावेन बोधितं भुवन त्रयम् || १५ || वस्तु शून्यं न त च्छून्यं शून्यमज्ञानशून्यता | तं शून्यं ज्ञान रूपेण ज्ञेयं शून्यं न तद्गुह || १६ || ज्ञेय शून्यो पलब्धित्वं निरालम्बावबोधनम् | न पुनः शून्य भावस्तु शून्येस्मिंस्तत्त्वतः सुत || १७ || तमो भूतं जगत्सर्वं पूर्वमासी च्छिखिध्वज | नष्ट सूर्येन्दु वातौघैर्ग्रहनक्षत्र तारकैः || १८ || अप्रतर्कमविज्ञेयं दिशासु विदिशासु च | न चोर्ध्वं नैव पातालं महाभूतैस्तु वर्जितम् || १९ || प्. २१ब्) व्यक्तिं न दृश्यते यत्र अव्यक्तं सर्वतः स्थितम् | तस्मिन् काले तया शक्त्या चिद्रूपाया शिवोत्थिता || २० || तुर्यस्थाने लयं कृत्वा ववर्ष ह्यमृतं बहु | भूतसृष्टि हितार्थाय प्लावितं चाखिलं जगत् || २१ || तदा ह्यण्डः समुत्पन्नश्चाष्टाङ्गः कनकोपमः | कल्पान्तं यावदण्डं तदणु रूपेणसंस्थितम् || २२ || स तु वत्स द्विधा भिन्नो दिवं भूमिं तु निर्ममे | अष्टा शा विदिशश्चाष्टौ मध्ये बीजाङ्कुरं पदम् || २३ || चिच्छक्त्या तु समुद्भूतं ये नेदं ग्रथितं जगत् | तस्याङ्कुरस्य पृष्ठे तु महापद्मं सितं शुभम् || २४ || सहस्रदलपत्त्राढ्यं कर्णिकाकेसरैर्युतम् | प्रणवं तं च विज्ञेयं पद्मं पद्मदले क्षणम् || २५ || प्. २२अ) तस्य मध्ये समुत्पन्नो ब्रह्मावेदनिधिर्गुह | कर्णिकान्ते स्थितं वत्स सर्वलोकपितामहम् || २६ || सृजते सर्वभूतानि चराणि ह्यचराणि तु | तदा प्रजापतिर्वत्स विश्वकर्ता महेश्वरः || २७ || चतुर्मुखं चतुर्बाहुं चतुर्वेद निधिं प्रभुम् | सूर्यकोटि प्रतीकाशं कल्पान्ताग्नि समप्रभम् || २८ || तेन तेजोवभासेन भासितं भुवनत्रयम् | व्यक्तीभूतं तदावत्स दिशोष्टौ गगनं क्षितिः || २९ || क्षितिभूतं स्थितं पद्मं मेरुभुता हि कर्णिका | दलाष्टकं दिशश्चाष्टौ ब्रह्मपद्मस्य षण्मुख || ३० || चतुर्दशविधं वत्स भूतसर्गं चराचरम् | सर्वं प्रणवसंभूतं चिच्छक्त्या चेतनोद्भवम् || ३१ || प्. २२ब्) कालाग्नि रुद्रपर्यन्तं चिच्छक्त्याङ्कुरसम्भवम् | तच्च पद्मस्थितं वत्स अमृतोदधिमध्यगम् || ३२ || तं दृष्ट्वा तु स्वयं ब्रह्मा विस्मितो ह्यन्तरात्मना | तदा तस्योदिता बुद्धिर्योगमभ्यमनं प्रति || ३३ || तेन योगं समभ्यस्तं दिव्यायुतसहस्रकम् | तस्य योग फलावाप्तिश्चिच्छक्त्या प्रणवे हृतम् || ३४ || तेन चोत्यादितं सर्वं विश्वं हि स चराचरम् | ब्रह्मादि स्तम्भ पर्यन्तं यावत् कालादि गोचरम् || ३५ || तस्मात् साकार भुतानि सर्वे ब्रह्ममयागुह | सर्वं च खल्विदं ब्रह्मस्वतोर्थं ब्रह्म वादिनम् || ३६ || ज्ञात्वा भूत हितं वत्स ये स्थितास्ते ह्यसम्भवाः | सर्वेषां चैव भूतानां प्रणवं योनिशक्ति धृत् || ३७ || तस्माद् ब्रह्मसमुत्पन्नमादौप्रणव योनिषु | प्. २३अ) प्रणवेन भवेत् पद्मं चिच्छक्त्यङ्कुरसन्निभम् || ३८ || तस्मिन् मध्यात्समुत्पन्नः पद्मयोनिस्तदुच्यते | प्रणवं योन जानाति बिन्दुनादेन्दु भूषितम् || ३९ || मात्रार्द्धमात्रसंयुक्तं तेन ब्रह्मविदो विदुः | अर्द्धमात्रासमुद्भुतं प्रणवं सर्वदा गुह || ४० || नादान्तान्तरसंस्थं तु परं ब्रह्मसनातनम् | तस्मिन्नेव लयं कुर्यात् तेनैवं ब्रह्मवादिनः || ४१ || शिवान्तरसमुद्भुत परं ब्रह्मशिखि ध्वज | तैर्ज्ञातममृतं तेषामज्ञानं च विषं भवेत् || ४२ || अर्धमात्राणि खर्वांशं तस्यांशः कोटिरंशकम् | तस्यापि लक्षसो ह्यंशो योजानाति स ब्रह्मवित् || ४३ || ???????????????????????????? प्. २३ब्) ब्रह्माण्डा ब्रह्मणोत्पत्तिं मया ज्ञातं मया श्रूतम् | अधुना श्रोतुमिच्छामि स्त्रीपुंसोश्चैव सम्भवम् || १ || यत् त्वया चोदितं प्रश्नं दुर्विज्ञेयं सुरैरपि | तत्तेहं कथंयिष्यामि रहस्यं प्रश्नपूर्वकम् || २ || योगमभ्यसितं पूर्वं सृष्ट्यर्थं पद्मयोनिना | तपश्च सुमहत्तीर्णां दुष्करं चाद्भुतोपमम् || ३ || तदा तुष्टः स भगवाञ्शिवः परमकारणः | परं ब्रह्मशिवं ज्ञेयं परं स्थानमनामयम् || ४ || परापर शिवं वत्स सर्वेषां परतः स्थितम् | तेन तुष्टेन देवेन चिच्छक्त्या चेतना गुह || ५ || गच्छत्वं ब्रह्मणः नार्धं सृष्टिसृष्ट्यर्थ कारणम् | प्. २४अ) आराधितो ह्यहं तेन भक्त्यापरमयायदा || ६ || चिच्छक्त्या चोदितं देव प्रत्यक्षं त्वं कथं विभो | तदादि दृष्ट पूर्वोयमेवं पद्म तनुर्भवेत् || ७ || एवं मत्वा सवै शक्तिः शक्तिरूपेण संस्थिता | स तु विष्णुर्विजानीया च्छक्तिरूपेण शक्ति धृत् || ८ || अहं तु पुरुषः साक्षाच्छिव तेजस्समुद्भवः | उभाभ्यां बीजरूपेण पद्मयोनिस्तृतीयकः || ९ || एवं हि त्रिविधा सृष्टिः संभुताभुतजा गुह | प्रणवं तु भवेदेष अ उ-मक्षरयोजितम् || १० || नादेन्दु बिन्दुरेते वै कलामात्रास्तथैव च | चतुर्विंशति तत्वानि पुरुषं पञ्चविंशकम् || ११ || आयुः कर्म च वित्तं च विद्यानिधनमेव च | अन्ये ये केचिच्छारीरा व्यक्ता-अव्यक्त वायवः || १२ || प्. २४ब्) सर्वं समरसं भुत्वा चिच्छक्त्याव्यक्तया गुह | तं रसं ब्रह्ममित्याहुरानन्दकरणं परम् || १३ || शुक्रं तं तु विजानीयादमरत्वं कभो?तिसः | सृष्टिरूपेणमर्त्यानाममरत्वे व्यवस्थितः || १४ || देवानाममरत्वं च पुरातेनैव कल्पितः | चतुर्दशविधिवत्स भूतसर्गं चराचरम् || १५ || अग्रे खगात्मकं सर्वं सृष्टब्रह्मादिभिर्गुह | ब्रह्मतेजस्समुत्पन्नावग्नीषोमौ शिखिध्वज || १६ || तथा बीजस्य बीजत्वमन्यथा तु निरर्थकम् | एवं सर्वे समारम्भाः सर्वबीजेषु संस्थिताः || १७ || शरीरसृष्टिहेत्वर्थं चिच्छक्त्या चेतनात्मकम् | यथान्यग्रोध बीजानां न्यग्रोधाभ्यन्तरे स्थितः || १८ || प्. २५अ) तथा सर्वेषु भूतेषु चिच्छक्त्या चेतसंस्थितम् | ????????????????????????? सृष्टिन्यासं मयाज्ञातं दैविकं चैव मानुषम् | भूयश्च परिपृच्छामि स्त्रीपुंसो सम्भवो यथा || || इदं गुह्यं महागुह्यं सर्वगुह्येषु वै गुह | यत् त्वया चोदितं प्रश्नं तत् सर्वं शृणु षण्मुख || २ || प्राक्तनैः कर्मलेशेश्च शुभैश्चाप्य शुभैस्तथा | समुत्पद्यन्ति संसारे योनि लक्ष्वान्तरेषु च || ३ || शुभकर्ता शुभे योनौ दुष्कृती दुष्कृतेषु च | एवं कर्ता च कर्मभ्यो भुञ्जते वै शुभा शुभम् || ४ || यदा यमः स च भवेद् यदा सृष्टिः प्रवर्तते | प्. २६ब्) उभाभ्यां तत्र संयोगाद्भगलिङ्गसमागमे || ५ || गर्भं सम्भवते गर्भे चिच्छक्त्या शक्तिचोदिते | योनिद्वारस्य वै पृष्ठे नाभिपद्मं स्थितं गुह || ६ || यदा विकसितं स्त्रीणाम तु कालस्तदा भवेत् | रजः प्रवर्तते ह्यस्यां दिवसानि तु षोडश || ७ || ऋतुकाले तु तत् पद्म मधोमार्ग मुखं भवेत् | तस्मिन् बीजं यदा क्षिप्तमृतुकाले शिखिध्वज || ८ || तदा तद्रोहते बीजमन्यथा रूपरेहितम् | पुंसेत् कर्ष भवेत् पुंसः स्त्रियोत्कर्षे भवेत् स्त्रियः || ९ || समेन पुंसकं ज्ञेयमाधिक्ये नैव किञ्चन | युग्मे युगानु युग्मे स्त्री अन्तकालेन पुंसकम् || १० || ऋतुकाले ह्यति क्रान्ते भूयः पद्मं समं भवेत् | प्. २६अ) तस्य मध्ये स्थिता वत्स पिङ्गलादस्पृतोद्भवा || ११ || सा नन्द यति सर्वेषां रतिकाले शिखिध्वज | जायते पुरुषश्चैवमानन्दयति सर्वदा || १२ || उभाभ्यां समयोगेन तदा बीजः प्ररोहति | पुरप्रवेशमेतद्धि अमरत्वं च वै भवेत् || १३ || तदा पुत्राश्च पौत्राश्च प्रपौत्राश्च न संशयः | जन्तवो गोत्र सन्ताना अमरत्वं तदा भवेत् || १४ || तस्य पद्मस्य मध्ये तु चिच्छक्तिरमृतोद्भवा | वसते सततं वत्स दिवसानि तु षोडशः || १५ || तदा लिङ्ग च्युतं बीजं तस्मिन् स्थाने प्ररोहति | तस्य पद्मस्य गर्भोयं गर्भशयया शिखिध्वज || १६ || पद्मिनी शङ्ख रूपेण गर्भशयया स्थिता गुह | तस्य मध्ये यदा क्षिप्तं क्षिप्तं बीजेवकल्पयेत् || १७ || प्. २६ब्) अन्यथा तु अबीजेयमौषधं क्षिपितं यथा || || ???????????????????????????? सर्वं देव मया ज्ञातं सर्वं तात मया श्रूतम् | अधुना श्रोतुमिच्छामि रजोरेतः समुद्भवम् || अत्यन्त कुत्सितं पुत्र यत् त्वया परिपृच्छितम् | दुष्कृतीनां च सर्वासां गर्भवासः प्रकीर्तितः || २ || कालाग्नि रुद्र पर्यन्तं यावद्ब्रह्माण्डगोचरम् | सर्वं चिच्छक्तिना व्याप्तं शिवाज्ञा चोदितं गुह || ३ || चिच्छक्ति संप्लुता भूताः सर्वेषामन्तरे स्थिताः | प्ररोहं कुरु वृद्धिं च अन्यथा तस्य चोदनम् || ४ || प्. २७अ) व्यक्तं न दृश्यते तस्य अव्यक्त त्वात् सृजत्यसौ | तस्य बीजं कुरुत्यन्ता तया सृष्टं चराचरम् || ५ || चराणामचराणां च भूतानां शिखिवाहन | योसौ योनिः सनिधनं परमार्थं तु तं विदुः || ६ || परमार्थं तु तं ज्ञेयं यस्य शक्तिर्न लुप्यते | शक्तिर्न लुप्यते चास्य शिवयोगा शिखिध्वज || ७ || सर्वेषामेव भूतानां योन्यण्ड स्वेदजोद्भिजः | अग्नीषोमानिलयुतं विशते परमेश्वरः || ८ || उत्पत्तिरेषा भूतानां प्राणापानोदयेन तु | अस्तङ्गतैस्तैर्निधनं देहे देहेश्वरो गुह || ९ || आदौ भूताः समुत्पन्नाः पश्चादण्डस्य सम्भवः | ततोङ्कुरं च पद्मं च तत्व ब्रह्मादनन्तरम् || १० || चतुर्विंशति तत्वानि अक्षतानि तु वै गुह | गायत्री तु भवेत् तैस्तु महादेवाति निस्सृतम् || ११ || प्. २७ब्) ते नैव निस्सृतं विश्वं कर्मयुग्मसमन्वितम् | चिच्छक्ति संभवं सर्वं ब्रह्माण्ड कुहरोदरम् || १२ || तस्माद् वै सर्वदा वत्स चिच्छक्तिः परमार्थतः | मया सृष्टं जगत्सर्वं भूतसर्गं चराचरम् || १३ || स्त्रीरजो रेतसं मिश्रं कलिलं मासमेकतः | चिच्छक्त्या चेतनोद्भूतं द्वितीये मासि बुद्बुदम् || १४ || रेतोरक्तसमुद्भूतं तृतीये मासि षण्मुख | चिच्छक्ति सम्भवा ह्यत सर्वेषामन्तरे स्थिताः || १५ || प्ररोहाङ्कुर वृत्तिं च सर्वेषां तस्य चेतनाः | व्यक्तिर्न दृश्यते तस्य अव्यक्त त्वात् सृजत्यसौ || १६ || तस्य बीजाङ्कुरस्यान्तं तेन दृष्टं चराचरम् | चराणा?मचराणां च भूतानां शिखिवाहन || १७ || प्. २८अ) बुद्बुधाङ्कुरसंलीनं चिच्छक्तिः सृजतेङ्कुरम् | तं नालं पद्मगर्भस्य नाभिनालं प्रकीर्तितम् || १८ || ततोमांसास्थि संभुतिस्तृतीये मासि षण्मुख | यथा बीजाङ्कुरं वत्स अव्यक्तं नैव दृश्यते || १९ || चतुर्थे मासि संप्राप्ते जायन्ते वयवाङ्कुराः | तदा व्यक्तं भवेत् कायं पुरुषा कृति संज्ञकम् || २० || चिच्छक्त्या चेतनं तस्य जायन्ते स्तोकमात्रकम् | मज्जास्थि स्नायुमेधं च मांसं रुदिरमेव च || २१ || वातपित्तं तथा श्लेष्मं शुक्रं मूत्र पुरीषयोः | सिरानाडी ग्रन्थयश्च द्वाराः कूर्माश्च जालकाः || २२ || त्वचं मर्माणि सन्धीश्चलोमनाड्यस्तथैव च | एते चान्येपि ये केचिच्छरीरोत्पत्ति कारणम् || २३ || प्. २८ब्) सम्भवन्ति च सर्वे वै अङ्गान्यवयवास्तथा (देहस्या) | पञ्चमे मासि समये न खलोमानि स्पन्दनम् || २४ || श्रोत्त्रशुक्तिश्च शोत्राणां धातूनां धातुरोपणम् | व्यक्तत्वं सर्वमङ्गानां यथा यस्य तु कल्पितम् || २५ || चिच्छक्ति चेतनवशात् सम्पन्नास्ते शिखिध्वज | षष्ठे मासि रसान् सर्वान् यदा ते मातृ भोजनात् || २६ || क्षुट्तृष्णा जाग्रनिद्राश्च शीतोष्ण मुखदुःखिताः | चिच्छक्ति चेतनोर्थे न चेतनां चेतते तु यः || २७ || सप्तमे मासि संप्राप्ते चैतन्यं मानुषोपमम् | यदा प्रबुध्यते चाग्निर्ह्यदिस्थं तच्च वै गुह || २८ || तदा स सर्वमखिलं शरीरे द्योतयत्यसौ | पद्मत्रयं प्रबुद्ध्येत ह्यन्नाभि मुखसंस्थितम् || २९ || प्. २९अ) वायवश्च प्रवर्तन्ते प्राणाद्या ये प्रकीर्तिताः | लिङ्गद्यानाडयः सर्वा हृत्पद्मदलसम्भवाः || ३० || तानिमां पूरितं सर्वं तेजोर्थेन जरायुभिः | तैर्व्याप्तमखिलं पिण्डं लोमान्तं यावत् षण्मुख || ३१ || नाडि चक्रं तु सर्वं वै व्यापितं सर्वरस्मिभिः | यथा सूर्योदये सर्वं रस्मिभिर्व्यापितं जगत् || ३२ || पाणाग्नि सूर्यौ निर्णीत्वा व्यापितं देहमात्मनः | चिच्छक्ति चेतनोर्थांय बहिः सूर्यं शिखिध्वज || ३३ || न तु तस्यात्मनाशक्तिर्यावच्चिच्छक्ति चोदिता | अष्टमेन तु मासेन बुद्धिर्गर्भस्य संभवेत् || ३४ || यथाहङ्कार दोषेण गर्भवासं वसाम्यहम् | तमोन्धकारगहने सर्वदुःखसमाकुले || ३५ || प्. २९ब्) स्वेदमूत्रपुरीषोर्थे वसारुधिरसंयुते | कलिश्सेष्मसङ्कीर्णे मांसास्थिस्नायु सङ्कटे || ३६ || एकविंशति ये प्रोक्ता नरकाश्च भयावहाः | तेषां मध्यान्महाघोरं नरकं कुक्षि सम्भवम् || ३७ || चन्द्रार्करहितं भीमं वायवग्नि परिवर्जितम् | नरकार्णवसंप्रख्यं दुःखकल्लोलदुस्सहम् || ३८ || अहं जातः कथं पुत्र किं मया दुष्कृतं कृतम् | एवं सञ्चिन्त्यमानस्य चिच्छक्त्या चोदितस्य च || ३९ || नवमे मासि समये संप्राप्तेषु सवेगुह | अत ऊर्द्ध्वं तु ये केचित् गर्भवासे वसन्ति च || ४० || महापातकिनस्ते वै उपपातकिनस्तु ये | दर्शनं दशमे मासि सुकृतानि तु चिन्तयेत् || ४१ || प्. ३०अ) येनाहं सन्तरिष्यामि योनिद्वाराद्भयानकात् | तदहं तत् करिष्यामि येन भुयो न जायते || ४२ || सुकृतानि ह्यशेषाणि यानि वै कथितानि तु | वेदेषु सर्वशास्त्रेषु पुराणेषु स्मृतीषु च || ४३ || तानि सर्वान् करिष्यामि यथोक्तानि विधानतः | एवं सञ्चिन्त्य मानस्य चिच्छक्त्या प्रसवं कृतम् || ४४ || महाभयं तु गर्भस्य प्रसवं तु शिखिध्वज | अत्यन्त भयभीता तु मण्ड उद्बिजिता गुह || ४५ || हस्तपादशरीरेण स्वकेन शिखिवाहन | विदार्य पद्मं गर्भस्य योनिद्वार मुखे गतम् || ४६ || तदामाता भयं प्राप्ता मरणान्तिक गोचरम् | प्. ३०ब्) विदार्य सृष्टिं द्वारेण मातुः सन्देह कारकम् || ४७ || निर्गत्य पतते भूमौ निस्संज्ञं तु तदा भवेत् | न तस्य सुकृते बुद्धिर्न च दुष्कृत कर्मणि || ४८ || मोहितो मायया वत्स चिच्छक्त्या बालसंज्ञया | उत्पत्तिरेषाभूतानां योनिजानां शिखिध्वज || ४९ || तस्मात् सर्व प्रयत्नेन अजातपदमभ्यसेत् || || ?????????????????????????????? न किञ्चिदपि तं देव यन्मयानावधारितम् | तत्रापि संशयं देव वर्तते धातु सङ्क्षयात् || १ || अत्यन्त गहनं प्रश्नमप्रत्यक्षमगोचरम् | प्. ३१अ) यत् त्वया चोदितं प्रश्नं पुत्रस्नेहाद्वदामिते || २ || पञ्चभौतिक पिण्डस्य चिच्छक्त्या निर्मितस्य च | यथा वै धातु संख्यानमङ्गानां च शृणुष्वमे || ३ || षड्रसाहारतृप्तस्य धातुसन्तर्पितस्य च | रसं सम्भवते वत्स मासमेकं तु निष्फला || ४ || तं रसं रसरूपेण चिच्छक्त्या ह्यमृतं कृतम् | पराग्नि संभवं तं वै न स शुक्रो भवत्यसौ || ५ || सृष्टिबीजं तु तं ज्ञेयं ततः सृष्टिः प्रवर्तते | रसाद्रक्तं ततो मांसं मांसान्मेदोथ जायते || ६ || मेदसोस्थि तथा मज्जा मज्जा च्छूक्रं च जायते | शुक्राद्धातूनि सर्वाणि धातुभ्यां देहमानुषम् || ७ || तेषां सन्तर्पणं तुष्टि रसतर्पणतो व्ययम् | एवं हि प्रथमं तावच्छरीरोत्पत्ति कारणम् || ८ || प्. ३१ब्) अनन्तरं पुनर्वत्स यथा भवति तच्छृणु | वातं पित्तं तथा श्लेष्मं धातवः परिकीर्तिताः || ९ || विण्मूत्र शुक्रमज्जा तु मांसं चैवाष्टमं विदुः | शरीरधारणा ह्येते सङ्ख्यासङ्ख्या कृतां गुणाः || १० || धातु साम्ये स्थिता देहे सर्वे ते गुणकारकाः | तासां सङ्ख्या भवेदेषा कल्पना शिखिवाहन || ११ || विपर्ययेण धातूनां न हि सङ्ख्या भवेत् गुह | वायु भावे गुणा ये च ये वाने यौ ध्वने तथा || १२ || न तु मध्य वयोतीत समत्वं सर्वधातुषु | अतोर्था धातु पूर्वाये असङ्ख्येयाविलागुह || १३ || स्थितो यो सौ हृदि ह्यग्निः प्रणवोर्थः शिखिध्वज | तेन सन्तर्पिते नैव धातवस्तर्पिता गुह || १४ || स शृणोति स वै पश्येद् यो रसान् स्वादते चिरम् | प्. ३२अ) स तु गन्ध गुणस्पर्शं भुञ्जते देहसंस्थितः || १५ || तस्य भावात् प्रलीयन्ते सर्वे ते धातवः सदा | तस्माद् वै सर्वदा वत्स स कर्तासेवकारणम् || १६ || यथा रस्मि सहस्राणि सूर्यायत्तानि षण्मुख | तथा सर्वाणि भूतानि ते जायत्तानि सर्वशः || १७ || ????????????????????????? दातूत्पत्तिर्मया ज्ञाता यथा तथ्यं सुविस्तरम् | सर्वेषामेव धातूनां रक्तं तु प्रथमं भवेत् | स तु मांसं समाश्रित्य संस्थितं सर्वदेहिनाम् || २ || तस्य मज्जा भवेद्वत्स पलद्वात्रिंश संख्यया | प्. ३२ब्) मांसं पेशीशतान्यष्टौ शतैकेतैव चाधिकः || ३ || पयः पीत्वा भवेद् रक्तं द्विगुणं तं शिखिध्वज | पित्तस्य तु पलान्यष्टौ श्लेष्मरक्त समाश्रितम् || ४ || रक्तस्य हि समं श्लेष्मं तद्वद्वृत्तिस्तु षण्मुख | वसामेदः पृथक्त्वेन उभौ विंशत्पलीनकौ || ५ || शुक्रं पित्तं समं ज्ञेयंमस्थिमज्जान्तरेषु च | वसादाहारपानांभ्यां विण्मूत्रं जायते पुनः || ६ || तदा भावै ह्यसंख्येयं स्थिरत्वं तेषु नैव च | रक्तं पित्तं तथा श्लेष्मं शुक्रं मज्जा तु षण्मुख || ७ || रसोद्भवानि चैतानि रसभावा तु नैव हि | सर्वेषामेव धातूनां पित्तं वै श्लेष्म बन्धनम् || ८ || यस्माद्रसोद्भवाः सर्वे तदा तेषां निबन्धनम् | यस्माद्रसोद्भवाः सर्वे तदा तेषां निबन्धनम् || ९ || प्. ३३अ) मज्जायां तु पलाविंशत् सर्वास्थ्यभ्यन्तरे स्थिताः | अस्थीनां तु शतां त्रीणि षष्ठ्य स्थिरधिकानि च || १० || तन्त्रीणां चैव विज्ञेयं शतमष्टाधिकं तथा | अष्टोत्तरं चर्मशतं सिराणां सप्त वै शतम् || ११ || ताश्च रक्त वहाः सर्वा देहमाच्छाद्यसंस्थिताः | ग्रन्थीनां तु शतं वत्स अष्टात्रिंशोत्तरं तथा || १२ || प्रधाना ग्रन्थयः पञ्च यैः कार्यं मोक्षसाधने | स्नायु जालमसंख्येयं यैर्बद्धं कायपञ्जरम् || १३ || मांसं तु धार्यते तैस्तु सङ्कोच करणानि ते | चतुष्षष्टिर्भवेत् कूर्चं तयोः स्नायूंश्च सम्भवेत् || १४ || सूचिताता भवेत् षष्टिः स्नायु सूत्रैस्तु यन्त्रितम् | तदा यन्त्र मयं सर्वं शरीरं मानुषात्मकम् || १५ || प्. ३३ब्) द्वासप्तति सहस्राणि नाडीनां परिकीर्तितम् | तास्तु वायु वहाः सर्वास्सर्वास्ता मोक्षदाः शुभाः || १६ || तासां मध्ये प्रधानैका पिङ्गला अमृतोद्भवा | तदुद्भवाणि सर्वाणि यथा प्राणोद्भवानिलाः || १७ || चर्ममेकं तु विख्यातं रोम च्छन्नं समन्ततः | तिस्रः कोट्यो व कोटिस्तु रोमसङ्ख्यः प्रकीर्तिताः || १८ || ते च नाडि समुद्भूता यस्मात् तेजोद्भवानि ते | ते सङ्ख्ये या असङ्ख्ये या ये तु देहान्तरे स्थिता || १९ || सर्वे तेजः समुद्भूता सर्वे ते तेजसंस्थिताः | लोमक्रामानि सर्वाणि द्वाराणि शिखिवाहन || २० || अज्ञानान्नैव दृश्यन्ते दृश्यन्ते ज्ञान चक्षुषा | प्. ३४अ) नखानां विंशतिः प्रोक्ता नवद्वाराणि षण्मुख || २१ || एवं सङ्ख्या समुद्भूता शरीरेषु शरीरिणाम् || २२ || ????????????????? अवयवानां तु सर्वेषां सङ्ख्योत्पत्तिर्मया श्रूता | भूयो विज्ञातु मिच्छामि ब्रह्मवेश्म शरीरजाम् || १ || सर्वे प्रश्ना मयाप्रोक्ता रहस्यानि तु सर्वसः | यस्माद्ब्रह्म मयं देहमत्रब्रह्म तु लभ्यते || २ || अवयवाः पूर्वमुक्ता मया चैवं शिखिध्वज | यद्येकोन भवेत् तेषां तदा सर्वे ह्यपार्थकाः || ३ || प्राक्तनानभवन्त्येते संहतादेह धारकाः | प्. ३४ब्) एकैकं च तथा भूतमुत्पन्नं शक्ति चोदितम् || ४ || पुनरेव तु ते नैव यन्त्रितं भूत पञ्जरम् | तस्माद् यन्त्र मयं सर्वं शरीरं मानुषात्मकम् || ५ || गृहकृत्यसमादृश्यमस्थिदा रुचितं शुभम् | मांसरक्त मृदादिग्धं स्नायु कीलक कीलितम् || ६ || लिप्ते वै चर्म लेपेन नवद्वारोपशोभितम् | एकोन धार्यते स्तम्भं ब्रह्माण्डं येन धार्यते || ७ || ब्रह्मवेश्म सदावत्स तस्मिन् मध्ये परं स्थितम् | ब्रह्मणो वेश्मनो मध्ये वेदमग्नि त्रयस्य च || ८ || तेषां होमं प्रकुर्वीत प्रत्यहं चाहिताग्निना | आज्येन्ध न तिलैर्दर्भैर्धूमैर्गन्धैः स्रजैः शुभैः || ९ || न तेषां तुष्टिपुष्टिर्वाहुतैस्तैर्जीवसंज्ञकैः | तुष्यन्ते तर्पितावत्स प्राणापानाहुतीषु च || १० || प्. ३५अ) न तेषां हूयते हव्यमजीवं ब्रह्मसंभवम् | जुहुयात् सततं वत्स प्राणापानावमृतोद्भवौ || ११ || तुर्यस्थानामृतं वत्स वसुधारेवसंस्थितम् | स्रवते सततं वत्स प्राणाग्नौ तर्पणं प्रति || १२ || अग्नयस्तेन तृप्यन्ति आज्येन्ध न निरर्थकाः | बाह्याग्नीतमुपासीत विधिदृष्टेन कर्मणा || १३ || भुर्भुवः स्वस्तपोलोका दृश्यन्ते तैर्हुताखिलाः | ब्रह्मवेदिर्भवेदेषा ब्रह्मवेश्मस्य मध्यतः || १४ || अन्तर्वेदी तथात्रैव सुषुम्णा त्रान्तरे स्थिता | प्रयागं च कुरुक्षेत्त्रं पुष्करं नैमिषं तथा || १५ | वाराणसी तथा गङ्गा केदारं सिन्धु सागरम् | एते चान्येपि ये केचित् तीर्थान्यायतनानि च || प्. ३५ब्) सर्वे तिष्ठन्ति ब्रह्मज्ञ परमाग्नौ जुहोति यः | सर्वं सर्वेषु भूतेषु प्रकटं संस्थितं गुह || अज्ञानान्नैव पश्यन्ति पश्यन्ति ज्ञान चक्षुषा || || ????????????????????? ब्रह्मवेश्म तथाज्यं च त्वत् प्रसादाच्छ्रुतं मया | अधुना श्रोतु मिच्छामि ब्रह्मब्रह्मपुरेस्थितम् || सर्वं सर्वं मयाख्यातं यत् त्वया पृच्छितं गुह | अयं प्रश्नो गुरोर्वक्त्राद्यदि ज्ञास्यसि निश्चयात् || रहस्यं सर्व शास्त्रेषु वेदादि सहितेषु च | सिद्धान्ते कुल सिद्धान्ते अवाच्यं यत् कथं च ते || ३ || नित्योदितं च नित्यं च अनित्यं कल्पनात्मकम् | प्. ३६अ) यत् त्वया चोदितं वत्स अति स्नेहाद्बदामिते || ४ || यो सौ ह्यदि स्थितः पद्मः प्रणवोर्त्थः शिखिध्वज | तस्य मध्ये परं तेजो यः पश्यति स पश्यति || ५ || महाज्वाला समाकीर्णं रश्मिभिः परिवारितम् | असङ्ख्या भासुराभासं ब्रह्मवेश्मस्य दीपनम् || ६ || तं च पश्यति यः पुत्र तं च ब्रह्म विदो विदुः | नदते सततं यस्मात् तस्मान् नादमिहोच्यते || ७ || प्रवाहेन स्थितं वत्स यथा नद्यो जलाशयाः | अब्युच्छिन्नं च तं नादं नदते सर्व देहिनाम् || ८ || देहे देहे न चान्यो वै एकं वै सर्वतः स्थितम् | अनच्छं केचिदिच्छन्ति शून्यं केचित्व दन्ति च || ९ || मात्रार्धमात्रं केचिच्च नास्ति नास्तीति नास्तिकाः | प्. ३६ब्) तं नादं प्रकटं येषां तेषां मोक्षो ध्रुवं गुह || १० || धूलिभेदेन ते सिद्धं सिद्धं गुरुमुखाच्छुभम् | त्वां विदित्वा महासेनं तं मोक्षं प्राप्स्यसे धुर्वम् || ११ || ध्रुवं भवेद्भवेद्वत्स ध्रुवरूपेणसंस्थितम् | परमाग्नि समुद्भूतं तं नादं नदते गुह || १२ || तच्च दर्शयते वस्तु स गुरुर्गुरुरेव च | दैशिकस्तु स विज्ञेयो मोक्षो वै मोक्षिकस्तु सः || १३ || लक्षणं शृणु नादस्य यथात्वं लक्षयिष्यसि | येन विज्ञात मात्रेण भ्रान्ति ज्ञानं निवर्तते || १४ || यथेन्धनप्रदीप्तेग्नौ यथाक्षोभ च्युतं जले | यथा वाताहते वृक्षे शब्दोयं श्रूयते गुह || १५ || तथा शरीर ब्रह्मोयं प्रत्यक्षं शृणु षण्मुख | शृङ्गध्वनि निनादेन नदन्तं यः शृणोति वै || १६ || प्. ३७अ) तं नादं ब्रह्ममित्याहुर्यः शृणोति शृणोति सः | न किञ्चिदपि तं वत्स यस्य तं न ह्यदि स्थितम् || १७ || न तु जानन्ति तं मूढा ज्ञान विज्ञान वर्जिताः | प्रकटं ज्ञान चक्षुर्भ्यां पश्यते शृणुते तु सः || १८ || तर्जनी प्रान्तसंरुद्धौ कर्णौ द्वौकारयेद्गुह | एतेन श्रूयते नादं न दन्तं ब्रह्मसंभवम् || १९ || एवं वै परमं नादं हृदिस्थं सर्वदेहिनाम् | ब्रह्मादि स्तम्भ पर्यन्तमाकारा ये भवन्ति वै || २० || तेषां हृदि स्थितं वत्स गुरुवक्त्रात् तु लभ्यते | गुरूपदेशगम्योयं यदि तुष्टो वदत्यसौ || २१ || अन्यथा न तु सिद्ध्येत कल्पकोटि शतैरपि | स तृप्तः स च वै मुक्तः सोमृतं चाश्नुते ध्रुवम् || २२ || प्. ३७ब्) यस्येदं विदितं ब्रह्म परस्पर पदानुगम् | परंपरगतं वत्स परात्परतरं हितम् || २३ || तं च नादं समाख्यातं येन व्याप्तं चराचरम् | ब्रह्मादि सर्व भूतेषु चरेषु ह्यचरेषु च || २४ || हृदिस्थं नदते नादं प्राणाद्या वायवेखिलाः | व्यापारेषु स वै कर्ता समस्तव्यस्तकेषु च || २५ || स कर्ता स हि विज्ञेयस्त्वं तर्ह्य न गतो गुह | सर्वे ये केचिद् व्यापाराः सृष्टिराद्याः क्षयान्तिकाः || २६ || स कर्ता चैव सर्वेषा परं ब्रह्म सदोदितम् | चतुर्विंशति तत्त्वानि पुरुषः पञ्चविंशकः || २७ || सर्वेषां स हि कर्ता वै तदा यत् तानि तानि तु | ??????????????? प्. ३८अ) सर्वं सर्वं मया ज्ञातं सर्वं सर्वं मया श्रुतम् | न पुनस्तात कौलेयं खेचरीणां मुखेस्थितम् || १ || महाज्ञानमिदं वत्स महाविज्ञानमेव च | यत् त्वया चोदितं प्रश्नं कौलं खेचरि गोचरम् || २ || पुत्र स्नेहात् कथिष्यामि रहस्यमद्भूतोपमम् | तं हि सिद्ध्यन्ति तासां वै तास्तस्मिंस्तेजसा गुह || ३ || सामान्यानां तु मर्त्यानां लोकोपहत चेतसाम् | कुविकल्पगतानां वै सत्यं वत्स न सिद्ध्यति || ४ || जीवाख्यममृतं यच्च हृदाकाशान्तरे स्थितम् | पिबन्ति रूपिकास्तं तु नाडिमाश्रित्य मध्यमाम् || ५ || तं पीत्वा तृप्ति मायान्ति अतोर्थं तं पिबन्ति हि | देवान् पितृस्तर्पयन्ति कुलनाड्यांस्त संस्थिताः || ६ || तासां मोक्षं शिवेनोक्तमनेन विधिना गुह | न पुनर्होमहवनैर्यज्ञैश्च बहुदक्षिणैः || ७ || मांसास्थि रुधिरं मज्जां भक्षयन्ति च रूपिकाः | विवर्ते ह्यमृतं वत्स हृदिस्थं यत्परं पदम् || ८ || सिद्धिस्तेषां तु ते नैव तर्पयित्वा तु भैरवम् | भैरवस्तर्पितं तासां धर्मे च पशुं प्रोक्षणे || ९ || चिच्छक्तिः पशवस्तेषां हृन्मध्यसंस्थिता | मोक्षश्च निहितं यज्ञे भैरवोक्तेषु सर्वदा || १० || पिहितं तं तु विज्ञेयमन्यथा वद एव तु | अनेन विधिना वत्स हिंसन्ति पशवो यदि || ११ || समुक्तः पशुनासार्धं मोक्ष इत्यभिधीयते | प्. ३९अ) सिद्ध्यते महतां सिद्धिरष्टसिद्धिसमन्विता || १२ || सामान्यानां तु सिद्धीनां कोविशेषोस्ति शक्ति धृत् | कस्येदं विदितं ज्ञानं ज्ञेयं विज्ञान सम्मितम् || १३ || ब्रह्माद्याः पशवस्तस्य पशोरन्यस्य का कथा | पशूनां चैव सर्वेषामादिकर्ता प्रजापतिः || १४ || स एव प्रोक्षितो यस्मात् तस्मात् कौलोधिकं भवेत् | वेदयज्ञेषु पशवो हिंसन्ति ब्राह्मणोत्तमाः || १५ || भैरवीयेषु सर्वेषु पुंपशुं हन्ति साधकाः | सूक्ष्मपुर्यष्टकं यच्च भूतानां हृदि संस्थितम् || १६ || तं पशुं हन्ति योगिन्यो हत्वा सिद्ध्यन्ति सिद्धिषु | प्राणापानोदये तस्मिन् बिन्दुनाद लयं गताः || १७ || पिबन्ति रूपिकास्तास्तु पशुं हत्वाशिखिध्वज | गतिरेषा हि चैतेषां तदात्मेतं लभन्ति हि || १८ || प्. ३९ब्) जीवव्योमान्तरं यच्च भूतानां हृदिसंस्थितम् | प्राणापानप्रवाहेन न विदित्वा पिबन्ति हि || १९ || सद्यो निर्धानदीर्ता? वै मोक्षकस्तु * * * * | * * * * * * * * * * भक्ष्यानि कानि तु || २० || पिबन्ति येन सिद्ध्यर्थं विधिना भैरवेन तु | भैरवोक्तेन विधिना सम्यग् योग बलेन तु || २१ || पिबन्ति मदिरां तु क्षीरवत्प्रकटं गुह | स सिद्धः साधकः सोहि शेषा वै मध्यमाः स्मृताः || २२ || पुष्पमात्रेण प्राप्येनं बहूनां यस्तु निर्वपेत् | क्षीरं तु कुरुते मध्यं संशये समुपस्थिते || २३ || स सिद्धः सर्वदा वत्स कृष्णः श्वेत करो गुह | प्राणापानान्तर चरोनाडि त्रितय यायिनः || २४ || तं पिबन्त मृतं दिव्यं परं परमसिद्धिदम् | प्. ४०अ) सौरंमार्गं परित्यज्य चान्द्रं मार्गं तथैव च || २५ || ब्रह्ममार्ग गमं यस्य तं पिबंत्य मृतं परम् || ??????????? वदमे यदि तुष्टोसि इष्टं तथ्यं हितं विभो | येन विज्ञात मात्रेण भ्रान्ति ज्ञानं निवर्तते || १ || शृणु वत्स यथान्याययं सर्वप्राज्ञोत्तमोत्तम | यत् त्वया चोदितं प्रश्नं निस्सन्दिग्धं वदाम्यहम् || २ || या सा शक्तिः परासूक्ष्मा अव्यक्ता या शिवोर्थया | संस्थिता सर्वभूतेषु जगदुर्द्ध्रं? ययाखिलम् || ३ || ब्रह्मादि स्तम्भ पर्यन्तं भूतसर्गं चराचरम् | ग्रसते सृजते शक्तिश्शिवाज्ञा ज्ञापिता गुह || ४ || न पुनः शक्तिरस्माकं सत्यं सत्यं शिखिध्वज | वयं पितामहं विष्णुं न बीन्द्वनलमेव च || ५ || इन्द्राद्या देवताः सर्वे सत्वाद्याश्च महर्षयः | भूयो भूयो हि जायन्ते भूयो भूयो म्रियन्ति च || ६ || न पुनः शक्ति संहारो भवतिह कदाचन | शक्तिर्न लुप्यते सा वै परमाद्वैत वर्तिनी || ७ || नित्योदिता तु सा सूक्ष्मा शिवामृतसमुद्भवा | ययाव्याप्तमिदं विश्वं भूतसर्गं चराचरम् || ८ || अन्तर्गता तु सा वत्स सर्वेषां हृदि संस्थिता | एकैकं मणिमाश्रित्य यथाविद्ध्यन्ति वेधकाः || ९ || महाभूतानि वै तद्वच्छक्तिबोधेन बोधिता | सूत्रं तासां शिवं साक्षात् तेन ते ग्रथिता गुह || १० || प्. ४१अ) यैर्व्याप्तमखिलं विश्वं ब्रह्माण्डावधि गोचरम् | महाभूतानि सर्वाणि सर्वे चिच्छक्ति सम्भवाः || ११ || चिच्छक्तिश्शिवसम्भूता अव्यक्ताः सर्वतः स्थिताः | न हि जानन्ति तां मूढा महामाया विमोहिताः || १२ || न कश्चिदपि तं भूतं यस्य सा हृदि न स्थिता | स्थिता सा अग्नि रूपेण सर्वत्र वायुनाश्रिता || १३ || ते पश्यन्ति हितावत्स येषां ज्ञानं मुनिर्मलम् | ब्रह्मवेश्म भवेद् देहं ज्ञानं तत्रैव दीपकम् || १४ || तं प्रज्वाल्य प्रपश्यन्ति यत्किञ्चिद्वेश्ममध्यगम् | तं दृष्ट्या ते गमिष्यन्ति अजन्म पदमव्ययम् || १५ || अजा सा अमला सूक्ष्मा नित्योदिता सुनिर्मला | संस्थिता सर्वभूतानां ब्रह्मादीनां शिखिध्वज || १६ || प्. ४१ब्) यैर्ज्ञातास्ते विमुक्ता वै ते बद्धा यन्त्र लक्षिताः | वयं ब्रह्मादिभिस्सार्धं नैव मुक्ताः शिखिध्वज || १७ || तदा ध्यानावसक्रा वै तस्य ध्यान परायणाः | अन्येपि योगिनः सर्वे मक्षमार्गानु काङ्क्षिणः || १८ || यजन्ति विविधैर्यज्ञैस्तन्मध्यादुदितं गुह | कारणं तत्र वै ह्येकं युक्ति भेदः पृथक् पृथक् || १९ || सात्विकं येषु वै योगं तेषां मोक्षो भवेद्ध्रुवम् | राजसं स्वर्गकामानां नारकं तमसा वृतम् || २० || सात्विकं चैव तैर्यष्टं तदा ते मोक्ष यायिनः | राजसं मानुषैर्वत्स स्वर्गा वाप्ति फलप्रदम् || २१ || तामसं तिर्यग्योनिस्थैर्मूढैरज्ञैरपण्डितैः | तस्मात् सर्वप्रयत्नेन सात्विकं यागमारभेत् || २२ || राजसं तामसं वत्स पुनरावृत्ति कारकम् | प्. ४२अ) सात्विकं मानसं यागं तत्र हिंसा न विद्यते || २३ || राजसं तामसं वत्स उभौतौ हिंस पूर्वकौ | मानसे नैव यागेन ये यजन्ति सदाशिवम् || २४ || ते मुक्ताः सर्वपापेभ्यः सत्यं सत्यमुपासुत | द्रव्यशुद्धिस्तु परमं सम्भारं येषु क्रीयते || २५ || तां विचारय यत्नेन सात्विकं भवते यदि | तदा तं द्रव्य सम्भारं शुद्धो भवति षण्मुख || २६ || राजसं तामसं द्रव्यमशुद्धं सर्वदा गमैः | यष्टं हि निर्मलं तेन प्रत्युततृणवद्भवेत् || २७ || सात्विकं नास्ति तद् द्रव्यं त्रिषु लोकेषु सर्वदा | तदर्थं न विमुक्तास्ते ये यजन्ति सदा धनैः || २८ || अथवा सात्विकं चार्थं यदि लभेत् कथञ्चन | प्. ४२ब्) तद् देयं देवगुरवे विप्रे वा ब्रह्मवादिने || २९ || अनन्तं च असङ्ख्येयं स्वल्पमात्रे पशोदितम् | अक्षययं भवते वत्स कल्पकोटि शतैरपि || ३० || सम्भारार्थं न तद् द्रव्यं प्रयुञ्जीत कदाचन | संभारा ये बहिर्केचित् सर्वे चिच्छक्ति सम्भवाः || ३१ || तेषां बाधा भवेद् यस्मात् तस्मात् तां परिवर्जयेत् | स जीवानि तु ते सर्वे शिवं तेषां हृदि स्थितम् || ३२ || स जीवानि तु पुष्पाणि स जीवानि फलानि च | स जीवाः पशवो ज्ञेयास्तरुजातीनिसर्वशः || ३३ || तां त्यक्त्वा यजसेकस्त्वंक्तयागमघसिद्धिमान् | ये स्थिताः फलसन्धो *? वश्याकर्षणमारणैः || ३४ || ते यजन्ति स जीवैस्तु जीवैश्चिच्छक्ति सम्भवैः | प्. ४३अ) चतुर्दशविधं वत्स भूतसर्गं चराचरम् || ३५ || सर्वं चिच्छक्तिसंभूतं तं हत्वा नैव मुच्यते || || शक्त्योदयं मयाज्ञातं द्रव्यशुद्धिविनिर्णयम् | अधुना श्रोतुमिच्छामि इष्टमिष्टोतुरोत्तरम् || १ || मयातीर्णं तपश्चोग्रं युगकल्पान्यनेकशः | तदा स तुष्टो भगवाञ्शिवोप्यशिवहापरः || २ || वदते वदमे चाद्य तुष्टोहं ते उमापतिः | अहिंसा सर्वभूतेषु चरेषु ह्यचरेषु च || ३ || एतद्धि चामृतं वत्स अक्षरं ह्यक्षरं ध्रुवम् | हिंसाक्षरं विजानीयात् तस्मात् तं परिवर्जयेत् || ४ || अतोर्थं मानुसं यागमक्षरं ह्यमृतं गुह | ये यजन्ति हितं वत्स ते मुक्ता भवबन्धनात् || ५ || वयं भोगाभिलाषेण नैवमुक्ताः शिखिध्वज | अज्ञानादुपदेशस्य शिवज्ञान बहिष्कृतः || ६ || तदानु विदितं तत्त्वं मोक्षमार्गावलम्बिनम् | निष्प्रपञ्चं परं तत्वमपरं तु परापरम् || ७ || निष्प्रपञ्चा पराशक्तिर्निष्प्रपञ्चः परः शिवः | तस्य यागं च कुर्वीत निष्प्रपञ्चं हि मानुसम् || ८ || स्नानं ध्यानं तथा पूजा जपं होमं तु पञ्चमम् | मनसै तानि कर्तव्यं विधिदृष्टेन कर्मणा || ९ || इति श्री || || ???????????????????????? स्नानादिकं त्वयैवोक्तं पूर्वं वै मानसं विभो | तदहं श्रोतुमिच्छामि यथार्थं तद्ब्रवीहि मे || १ || शिवतीर्थं स्थितं देहे सर्वतीर्थालां हितम् | भुर्लोके तु भुवो लोके स्वर्लोके तु तथैव च || २ || गङ्गाद्याः सरितः सर्वाः क्षीरोदाद्याश्च सागराः | सर्वे तिष्ठन्ति तत्रैव मानसे त्वखिला गुह || ३ || हृत् पुण्डरीक मध्यस्थं शिवतीर्थं तु मानसम् | तत्रस्थं सङ्गमं वत्स शिवं नादात्मकं शुभम् || ४ || अग्नीषोमीयगहनं पाणापानजलाशयम् | प्रवाहं तस्य तीर्थस्य सुषुम्णाड्यान्तरे स्थितम् || ५ || प्. ४४ब्) तुर्यस्थानामृतौघेन प्लावितश्च समन्ततः | न चात्र विघ्ना हिंसन्ति दुष्टा ये वै चराचरे || ६ || तदा स्नानं शुभं तत्र शिवतीर्थे च मानसे | ना चात्र हिंसा दृश्येत न तु पीत्वा करं तथा || ७ || चराचरेस्मिन् ये लोकाः पुण्यन्यायतनानि च | तेपि तिष्टन्ति चातेव आत्मशुद्ध्यर्थ कारणम् || ८ || बाह्यतीर्थानि सर्वाणि कल्पनाकल्पितानि तु | शिवतीर्थेन तिष्ठन्ति मानसे अशिवापहे || ९ || कल्पिता ये बहिष्कानि तीर्थान्यायतनानि च | उत्तप्तास्ते सदा विघ्नैर्दिव्यभौमान्तरिक्षगैः || १० || तस्मात् ते दूषिता वत्स शिवतीर्थेन केन चित् | अनोर्थाद्बाह्यतीर्थानि वर्जितानि सदा गुह || ११ || प्. ४५अ) उच्चाटने तु विघ्नानां हिंसा भवति वै तदा | यस्माद् बाधा भवेत् तेषां तस्मात् तास्तु विवर्जयेत् || १२ || निर्मलं विघ्न रहितं मोहदं तु अघापहम् | अमृतं स्रवते नित्यं पिङ्गलाभ्यन्तरे स्थितम् || १३ || सौषुम्णा नन्द गम्भीरं तुर्या तु प्रान्तगोचरम् | स्वर्णोपलब्धि विमलं सा नन्दं नन्दशीतलम् || १४ || तं लब्धा शिवतीर्थं वै आत्मनो हृदि संस्थितम् | तस्मिन् स्नानं सदा कुर्याद् विधि दृष्टेन कर्मणा || १५ || सन्ध्या तु वन्दयेत् तत्र तर्पयेत् पितृ देवताः | यत् किञ्चिदिति कर्तव्यं तत् सर्वं मानसं कुरु || १६ || अथवा स्मर्यते तीर्थं यत् किञ्चिन् मनसेप्सितम् | सर्वे तिष्ठन्ति चात्रैव अहिंसा तु समर्पिताः || १७ || प्. ४५ब्) वयं ब्रह्मादिभिः सार्धं शिवतीर्थाम्बु सेवनात् | एतद्धि परमं तीर्थमयं हि परमो जपः || १८ || एतद्धि परमं स्नानं तत्र स्नानं तु वै गुह | बाह्यतीर्थानि तुष्टानि मन्त्रान् बाह्यांस्तु सर्वशः || १९ || मन्त्रा हृष्टानि तुष्यन्ति अन्यथा जल एव सः | तीर्थेषु ये स्थिताः केचिद्दीनाद्याः प्राणिनो गुह || २० || अतोर्थास्तेन मुञ्चन्ति विज्ञान रहितास्तु ये | शिवतीर्थपरिज्ञानात्सम्यग्योग बलेन तु || २१ || स्नातो भवति तं नित्यं साधकः सु समाहितः | न चात्र हिंसते कश्चिन् न तिलान्दर्भ एव च || २२ || न तु रौ?प्य सुवर्णे वा खड्गा पातोथ वा पुनः | स्मरणा च्छिवतीर्थस्य न किञ्चिदपि लुप्यते || २३ || प्. ४६अ) शिवतीर्थं मया ज्ञातं तस्मिन् स्थाने यथोदितम् | भूयो विज्ञातुमिच्छामि ध्यानं देहेश्वरात्मकम् || १ || सर्वं प्रत्यक्ष विज्ञानं मया ते प्रकटी कृतम् | प्रत्यक्षं च परोक्षं च अधुना दर्शयामिते || २ || शिवतीर्थ परिज्ञानं यैर्ज्ञातं ह्यात्म दर्शिभिः | तैः प्राप्यमखिलं वत्स मोक्षमार्गं न संशयः || ३ || आत्मज्ञाने स्थिता ये वै आत्मज्ञाश्चात्म दर्शिनः | तैः शुद्धाः सर्वदा वत्स यत्र यत्राश्रमे स्थिताः || ४ || स्नान शुद्धिर्न तेषां वै न मन्त्रैश्च प्रयोजनम् | प्. ४६ब्) स तु मन्त्रं शिवं शास्त्रं क्षेत्रं हि परमं तु सः || ५ || न तस्य विघ्ना हिंसन्ति ये केचिद्भुवन त्रये | दर्शनादेव वै तस्य नश्यन्ते च दिशो दश || ६ || न दिशो विदिशश्चैव न मुद्रा नासनानि च | करणेन तु संपश्येत् सम्यग् योग बलेन तु || ७ || पूरकं कुम्भकं चैव रेचकं च तृतीयकम् | एतद् यथार्थं युञ्जीत ततो ध्यानं समारभेत् || ८ || ध्यानेनालोकयेद्वत्स देहि सन्देह वर्जितः | तं विचारय यत्नेन नाडिचक्रोदरे स्थितम् || ९ || द्वासप्तति सहस्राणि आराणां तस्य षण्मुख | एकैक भ्रमतैषा वै प्राणापानान्तर स्थिता || १० || सर्वेषामेव वायूनां प्राणापानौ तु चोदकौ | प्. ४७अ) प्राणं तेषां भवेत् प्राणं प्रणम्य तु परं विदुः || ११ || तेन ते नाडिचक्रं वै समस्तमवलोकयेत् | पिङ्गला तु भवेन्नाभिस्तस्य चक्रस्य षण्मुख || १२ || प्रणवं तं भवेच्चक्रं पिङ्गला तस्य वै शिखा | तं ज्ञात्वा पश्यते वत्स शिवं परम कारणम् || १३ || ज्ञानदीपं प्रजज्वाल्य ध्यात्वा ज्ञानाग्निना गुह | तदा गम्य स्थितं देवं पिङ्गलाभ्यन्तरे स्थितम् || १४ || हृद्गुहा सा तु विज्ञेया हृन्मध्ये सा तु कर्णिका | तस्य मध्ये स्थितं देवं यः पश्यति स पश्यति || १५ || सूर्येन्दु वह्नि मध्यस्थंमलक्षं लक्ष वर्जितम् | कदम्बगोलकाकारं सूर्यकोटि समप्रभम् || १६ || कल्पान्ता नलसङ्काशं दुष्प्रेक्षमकृतात्मभिः | प्. ४७ब्) अनुमानं न वै तस्य हेतुना नैव दृश्यते || १७ || एवं ध्यात्वा तु तं देवं हृद्गुहाभ्यन्तरे स्थितम् | ततस्त्वा यतनं गच्छेन्मानुसं मानसेन तु || १८ || ध्यानं धेयं मया ज्ञातं *? नं च ज्ञेयमेव च | अधुना श्रोतुमिच्छामि हृद्गुह्येश्वर पूजनम् || १ || गुह्यानि यानि चोक्तानि आदौ? ते शिखि वाहन | इदं गुह्यं त्वयैवाद्य यन्न कस्यापि भाषितम् || २ || अज्ञा ये च अनात्मज्ञ ये च पण्डित मावि *? | *? यजन्ति स जीवैस्तु जीवैश्चिच्छक्ति सम्भवैः || ३ || चैतन्यं? स?र्वभूतानां चित्स्वभावेन संस्थितम् | प्. ४८अ) स चेतनानि भूतानि यस्मात् तानेव मोहयेत् || ४ || चिच्छक्तिं विन्दते वत्स मुखदुःखे शुभाशुभौ | शिवात्मा दृष्ट रूपेण सर्वत्रैव व्यवस्थितः || ५ || अशुभं च शुभं चैव सुखं दुःखं तथैव च | भुञ्जते तु पराशक्तिः परं चात्र अलेपकम् || ६ || साक्षि भूतं च तं वत्स पक्षयोरुभयोरपि | एवं ज्ञात्वा अहिंसां वै सर्वभूतेषु कारयेत् || ७ || अतोर्थं मानसं यागं कर्तव्यं मोक्षयायिभिः | हिंसा युक्तेन योगेन सम्भार बहुलेन च || ८ || ये यजन्ति हिते बद्धाः फलं तेषां त्रिविष्टपम् | अमानाम्ना तु योगेन हिंसा भवति सर्वदा || ९ || पुनरावर्तते भूयो भूयो भूयः क्षयं गतः | प्. ४८ब्) एवं ज्ञात्वा यजेत् सर्वं मानुसं यागमुत्तमम् || १० || यस्य सर्वगतं भावं यथात्मनि तथापरे | समं पश्यति सर्वेषामहिंसा प्रोच्यते तु सा || ११ || यथात्मनि परे तद्वत्समं पश्यति यो गुह | समुक्तः प्रकृतेर्बन्धाच्छिवे तिष्ठति शाश्वते || १२ || सात्त्विकं भावमेतद्धि शिवेनोक्तं हि मानसम् | अन्तः कर्णादिकं वत्स यन्मयोक्तं हि दर्शने || १३ || तेषु भूतानु हिंसन्ति तस्मात् तं हिंस पूर्वकम् | अन्तःकरण विन्यासं भूतशुद्ध्यर्थ कारणम् || १४ || क्रीयते सर्वतो वत्स विधि दृष्टेन कर्मणा | कृत्वान्तः करणं वत्स भूतशुद्धिं तथैव च || १५ || तदा भवति तं योग्यं साधकः शिव पूजने | प्. ४९अ) आत्मज्ञं तु पुनर्वत्स नित्यशुद्धं सदा भवेत् || १६ || नास्य शुद्धिरशुद्धिर्वा शोधनीयं हि केतनम् | नित्य शुद्धि हितं भूत्वा न किञ्चित् साधयत्यसौ || १७ || विकल्पोर्थैर्मलैर्वत्स अशुद्धं तं च तत्त्वतः | यस्य शक्तिर्भवत्युग्रा यः शोधयति वै परम् || १८ || स शोधयति सर्वेषां भूतानां च समुद्धरेत् | अतोर्थात् केतनं वत्स आत्मज्ञे निष्प्रयोजनम् || १९ || स एव भोगवान्साक्षाच्छिवं परम कारणम् | स एव परमं दाम तत्र शुद्ध्यति ते खिलं || २० || आत्मनेनात्मना चैव यजते परमेश्वरम् | यथोक्तेन विधानेन सम्यग् योग बलेन तु || २१ || यजते मानसं यागं मनसा तु अमीश्वरम् | प्. ४९ब्) यजन्ते देवतास्सर्वे ब्रह्माद्याश्च महर्षयः || २२ || तदात्वं मानसे नैव यागेन शिखिवाहन | योगार्थं द्रव्य सम्भारं तं हि चात्रैव तिष्ठति || २३ || अथ प्रार्थयसे कामं मनसा मनसेप्सितम् | तं लभिष्यसि सर्वं वै मानसे तं शिखिध्वज || २४ || साकारं यजते यस्तु निराकारोथ वा पुनः | उभौ तावेकदा वत्स यजत्वं यत् तु रोचते || २५ || निर्लक्षं निस्स्वभावस्तं स लक्षं प्रतिमाकृतिम् | मनसा चित्स्वभावेन साकारा क्रियते क्रिया || २६ || न चैवा कृतिमान्कश्चिच्चित्स्वभावोनिलं भवेत् | तस्मात् त्वं सर्वदा वत्स नित्यं शक्ति स्थितं यजेत् || २७ || चित्संज्ञा चित्समुद्भुता भुताभुतेषु संस्थिता || २८ || तत्त्वाश्च भुता भावानि चिच्छक्त्या भ्यन्तरे स्थिताः | संस्थिताश्चिवतत्त्वे रसदसर्वगतो विभुः || २९ || सर्वमेवं हितं वत्स हृदिस्थं प्रकटी कृतम् | तं हि पूजय यत्वेन विधिदृष्टेन कर्मणा || ३० || न कश्चिदपितं वत्स यस्य तं न हृदि स्थितम् | तस्मात्तं पूजयेद्वत्स अहिंसा कुसुमैः शुभैः || ३१ || हृदिस्थं तु पुनर्वत्स सर्वकामैस्तु पूजयेत् | दानानि यानि चोक्तानि शिवधर्मेखिलानि तु || ३२ || तानि दत्तानि सर्वाणि भवन्ति शिखिवाहन | सर्वकामानि वै तद्वत्मानसं याग मुत्तमम् || ३३ || प्. ५०ब्) यागं तु परमं ह्येतत् सर्वयागोत्तमोत्तमम् | इडादयो यजेद् यस्तु राजसं यागमुच्यते || ३४ || सुषुम्णा तामसं? भोगं? ज्ञेयं सात्विकं पिङ्गलोदये | सुषुम्णे त्वां परित्यज्य पिङ्गला नाडिस्थं यजेत् || ३५ || तां विचार यत्नेन ब्रह्मनाडिश्च उच्यते | तस्मिन् मध्ये स्थितं देवं तं नेदं पूजयेत् तु सः || ३६ || यत्किञ्चिदिति कर्तव्यं तत्सर्वं पिङ्गलोदये | तुर्योद्भवति? सर्वाणि तुर्यस्थाने गतानि तु || ३७ || चिन्तयेत् सर्वकामानि अन्यथा हिंसितानि तु | तुर्यस्थाने लयं कृत्वा हृधिस्थं पूजयेत् सदा || ३८ || यस्य तुर्ये गतिर्नास्ति हृदिस्थं तु कथं यजेत् | हृदिस्थं तुर्यसंस्थं तु उभौ यो वेत्ति तत्वतः || ३९ || प्. ५१अ) एकतं भूय एतेषां स पूजां कर्तु मर्हति | प्राणापानान्तरस्थेन शिवेन शिखिवाहन || ४० || योजयेत् साधको वत्स स वै साधक उच्यते | प्राणापानौ तु सन्दिग्धौ रजस्तमसमन्वितौ || ४१ || तस्मात् तौ वर्जयेत् वत्स यागकाले तु सर्वदा | सात्विकं सङ्गमं तेषां तेन कुर्याच्छिवार्चनम् || ४२ || वह्नि पूजा तु ते नैव अन्यथा न कृता भवेत् | ब्रह्मादि स्तम्भ पर्यन्तं त्रैलोक्यं स चराचरम् || ४३ || अहिंसा पुष्पसेकेन पूजितं तं सदा भवेत् | प्. ५१ब्) मानसे नैव यागेन मुक्तोहं सर्वदा विभो || ४४ || तथापि ज्ञातु मिच्छामि जप्यं वै सर्वदा परम् || १ || मानसैश्चाक्षरौघैश्च प्राणापानौ शिखिध्वज | रहस्यं चैव गुह्यं च जप्यं जप्योत्तमोत्तमम् || २ || जप्यं बहुविधं प्रोक्तं शिवेन परमात्मना | न पुनर्मानसं जप्यं मोक्षमार्गफलप्रदम् || ३ || मयि तुष्टेन नाथेन अयं मार्गः प्रदर्शितः | तदाहं कथयिष्यामि रहस्यं कृत्तिका सुत || ४ || सर्वेषामेव भूतानां हृदिस्थं यत्परं पदम् | स तु सङ्ख्या यते जप्यं जपं तु कुरुते तु सः || ५ || अज्ञाना नैव बुध्यन्ते ज्ञानविज्ञान वर्जिताः | प्. ५२अ) प्रत्यहं प्रत्यहं वत्स जपसङ्ख्यं करोति सः || ६ || अब्युच्छिन्न प्रबन्धेन मणिभिः परमैः शुभैः | सूर्य चिच्छक्तिरित्याहुस्तस्मिंस्ते कथिता गुह || ७ || अक्षसूत्र परं ह्येतद्योगिनां तत्त्व चिन्तकः | ये स्थिता फलसन्धाने वश्याकर्षणमारणे || ८ || जपं तेषां तु मन्त्रैश्च अक्षसूत्रैरनेकशः | पुनरात्म विदे वत्स मन्त्र तन्त्रैः प्रयोजनम् || ९ || प्रयोजनं भवेत् तेषामात्मज्ञानेन केवलम् | तं विदित्वा महासेन मन्त्रतन्त्रांस्त्यजेद्गुह || १० || अथवा सङ्ख्यया कार्यं मानसेस्मिञ्जपे गुह | ततोहं कथयिष्यामि यथा भवति तच्छृणु || ११ || षट्कतानि सहस्र * * * * * * * * * | * * * * * * * * * * * * * * * * || १२ || * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || १३ || प्. ५२ब्) अहोरात्रान्तरे जप्यं कुरुते सततं शिवः | शिवजप्यं भवेदेष शिवं ह्यशिव कारिणम् || १४ || प्राणश्च कर्षते पानमपानः प्राणमेव च | उभौ चाकर्षयेद्यस्तु स जपं कुरुते गुह || १५ || हृत्स्थानाद् द्वादशान्तं तु द्वादशान्तात् पुनर्हृदि | एवां गमागमं ज्ञेयं तं जपं ब्रह्मशाश्वतम् || १६ || विदितं मानसं जप्यमक्षसूत्रं तथैव च | अग्निकार्यं च मेताततत्वमाचक्ष्व वै प्रभो || १ || मयाज्ञानामृतं वत्स स्नेहात् ते प्रकटी कृतम् | भूयोपि कथयिष्यामि अग्निकार्यं तु मानसम् || २ || प्. ५३अ) चराचराणां भूतानां सर्वेषां शिखिवाहन | हृदिस्थं परमं तेजो न तु जानन्ति मोहिताः || ३ || आदित्यस्तपते तस्य तेजसा तस्य वै गुह | ज्वलनस्य तु तत् तेजः पूर्णमिन्दुस्तथैव च || ४ || तर्ह्युपासीतविधिवदग्नी यः शिखिवाहन | बाह्येग्नीनां हुतं हव्यं हिंसन्ति गुह्यकादयः || ५ || मन्त्र दोषाश्च दोषाश्च अशुभैर्वादया भवेत् | तदा ते लुप्यते वत्स बाह्याग्निषु हुतं हविः || ६ || इध्मादि द्रव्यसंभारं सर्वं चिच्छक्ति संभवम् | यदात्र हूयते यस्मात् तस्मात् तं हिंसपूर्वकम् || ७ || अहिंसा पूर्वकं वत्स स्वदेहे ह्यग्नि पूजनम् | शिवाग्निर्वैभवत्येष शिवमशिवहारिणम् || ८ || ??????????????????? प्. ५३ब्) गर्भादानादि संस्कारैर्न हि तत्र प्रयोजनम् | न हि कुण्डं नु वः कार्यं मेखलैर्वाथ योनिना || ९ || कार्यमेवं हि वै चात्र विधिनाशिखि वाहन | कुण्डत्रयं स्थितं देहे अग्नि त्रितयमेव च || १० || गार्हपत्याग्नि हृत्कुण्डे नाभिकुण्डेग्नि दक्षिणम् | मुखकुण्डे स्थितं वत्स नाम्नाचाहवनियकम् || ११ || कुण्डाग्नि त्रितयं वत्स मया ते दर्शितं क्रमात् | तेषां होमं प्रकुर्वीत विधि दृष्टेन कर्मणा || १२ || सुषुम्णा नाडिमाश्रित्य कुर्याद्वै चोत्तरायणम् | दक्षिणाग्निं ततो जुह्यान्नाभिकुण्डे स्थिते गुह || १३ || इडा नाड्युदयं कृत्वा कुर्याद्वै दक्षिणायनम् | तदाचाहवनीयोग्निर्मुखकुण्डे स्थितो गुह || १४ || प्. ५४अ) गार्हपत्यस्तु यो ह्यग्निर्हृत्कुण्डे संस्थितस्सदा | तस्मिन् पूर्णाहुतिं दद्याद्विषुवत्करणेन तु || १५ || विषुवं तु भवेद्वत्स पिङ्गनाड्युदयेन तु | तस्मिन् काले यजेद् यस्तु तत्सर्वं चाक्षयं भवेत् || १६ || सिद्ध्यन्ते सर्वकामानि मनसा चेप्सितानि च | प्राणाद्या वायवः पञ्च होमयेत् तु यथा क्रमम् || १७ || तैर्हुतैः सर्वमखिलं विश्वं सन्तर्पितं भवेत् | अमृतं भवते वत्स अमृतं तंतु तिष्ठति || १८ || तदा तदखिलं विश्वं तृप्तं भवति चापरे | प्राणापानान्तरस्थं तु यैर्ज्ञातं शिखिवाअहन || १९ || तेपि वन्त्यमृतं दिव्यं तुर्यस्थानोद्भवं परम् | तुर्योद्भवामृताज्येन नित्यमग्निं प्रपूजयेत् || २० || अग्नि पूजा भवत्येषा अक्षयया मुक्तिदा शुभा || इति श्रीब्रह्मसन्धानाग्नि * जा * चा * नि * यो * मा || अद्य मे सफला बुद्धिः श्रुत्वा ब्रह्मपदं परम् || || ########### END OF FILE #######