#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00105 Uniform title: brahmavidyopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: brahmavidya upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 14, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### ब्रह्मविद्योपनिषत् सह नाववतु- इति शान्तिः ब्रह्मविद्यारहस्यार्थप्रणवब्रह्मसूचनम् अथ ब्रह्मविद्योपनिषदुच्यते- प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः | रहस्यं ब्रह्मविद्यायां ध्रुवाग्निः संप्रचक्षते || १ || ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः | शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा || २ || तत्र देवास्त्रयः प्रोक्ता लोक वेदास्त्रयोऽग्नयः | तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु || ३ || विवरणम् स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् | तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं ब्रह्मविद्योपनिषत् प्रणवहंसविद्यातद्वेद्यब्रह्मानुभूतिं प्रकटयन्ती ब्रह्ममात्रपर्यवसन्ना विजृम्भते | अस्याः स्वल्पग्रन्थतो प्. २५०) विवरणमारभ्यते | उपेद्घातादिकमस्याः कठवल्ल्यादिसमम् | ब्रह्मविष्णुप्रसादलभ्येयमिति विद्या स्तूयते | श्रुतिरेव स्वाज्ञजनान् प्रत्येवमाह- अथेत्यादिना | अथ स्वाज्ञानां ब्रह्मविद्योचितसाधनसंपत्त्यनन्तरम् इयं ब्रह्मवियोपनिषदुच्यते | तत् कथम् ? यः सर्वलोकस्रष्टा पालयिता च भवति तस्य ब्रह्मणः अघटितघटनाघटनपटुतरशक्तेरद्भुतकर्मणो विष्णोश्च प्रसादात् ब्रह्मविद्यायां यत् रहस्यं, अनधिकारिणे गोपनीयत्वात्, स्वाज्ञानतत्कार्यस्वातिरिक्तप्रपञ्चतूलाचलभस्मीकरणपटुत्वात् ध्रुवाग्निः प्रत्यक् तदभिन्नपरमात्मेति सम्यक् प्रचक्षते || १ || किं तत्स्वरूपमित्याकाङ्क्षायाम्- सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति | यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् || इत्यादिश्रुत्यनुरोधेन सप्रकारं ब्रह्मालम्बनभूतप्रणवस्वरूपं विशदीकरोति- ओमिति || २-३ || प्रणवमात्राचतुष्टयप्रपञ्चनम् ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च | अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः || ४ || यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च | विष्णुश्च भगवान् देव उकारः परिकीर्तितः || ५ || सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च | ईश्वरः परमो देवो मकारः परिकीर्तितः || ६ || सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः | उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः || ७ || प्. २५१) मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः | तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्निरूपिणः || ८ || शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते | अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता || ९ || सूत्रार्थं व्याकरोति- ऋग्वेद इति | ब्रह्म एव च, ब्रह्मा इत्यर्थः || ४-६ || अकारादेः स्थानं वर्णं चाह- सूर्येति || ७-८ || एवं मात्रात्रयं प्रपञ्चयित्वा अथ अर्धमात्रां प्रपञ्चयति- शिखा त्विति | यथा दीपे दीपशिखा वर्तते तथा प्रणवोपरि अर्धमात्रा वर्तत इत्यर्थः || ९ || सुषुम्नायोगेन नाडीशूर्ययोः भेदनम् पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा | सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथा परा || १० || द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि | वरदा सर्वभूतानां सर्वं व्याप्येव तिष्ठति || ११ || सुषुम्नास्वरूपकथनं प्रणवानुसंधानविधानं तत्सर्वावपादाधिकरणब्रह्मज्ञानफलं चाह- पद्मेति | सुषुम्नायाः सूर्यनाडित्वेन तद्द्वारोत्क्रान्तस्य मूर्ध्नि ब्रह्मरन्ध्रे लक्ष्यानुसंधानं कुर्वतः द्विसप्ततिसहस्रनाडीभेदनं सूर्यमण्डलभेदनं च उपपद्यत इत्यर्थः || १०-११ || प्रणवनादलयेन मोक्षप्राप्तिः कांस्यघण्टानिनादस्तु यथा लीयति शान्तये | ओंकारस्तु तथा योज्यः शान्तये सर्वमिच्छता || १२ || प्. २५२) यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते | धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते || १३ || एवं योगाभ्यासमकुर्वतोऽपि प्रणवालम्बनेन तत्फलं प्राप्तुं शक्यमित्याह- कांस्येति | हेममूलिकाषोडशवारसंस्कृतकांस्यघण्टानादशान्तिवत् षोडशमात्राकालोच्चारितप्रणवनादलयकृत् योगी य एवं प्रणवजपं करोति || १२ || यस्य- धियमिति विभक्तिव्यत्ययः, प्रथमार्थे द्वितीया- धीः अन्तःकरणं प्रणवनादेन साकं विलीयते सोऽयं योगी तल्लयाधिकरणब्रह्मभूयाय अमृतत्वाय स्वातिरिक्तास्तित्वभ्रममोक्षाय कल्पते || १३ || जीवस्वरूपनिरूपणम् वायुस्तेजस्तथाकाशस्त्रिविधो जीवसंज्ञकः | स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः || १४ || नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् | आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् || १५ || हंसविद्याप्रकटनाय तद्विद्यानुष्ठातारं जीवं निरूपयति- वायुरिति || १४ || तस्य स्थानं निर्दिशति- नाभीति | विश्वं वैश्वानरांशं वस्तुतः स्वगतहेयांशापाये शुद्धतत्त्वम् | शिवं प्रत्यञ्चमात्मानम् अन्तःकरणयोगतो जीवं पश्यन्ति || १५ || बन्धमोक्षकारणनिरूपणम् सकारं च हकारं च जीवो जपति सर्वदा | नाभिदेशाद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् || १६ || प्. २५३) तेनेदं निष्कलं विद्यात् क्षीरात् सर्पिर्यथा तथा | कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः || १७ || सतुष्कलासमायुक्तो भ्राम्यते च हृदि स्थितः | गोलकस्तु यदा देहे क्षीरदण्डेन वाहतः || १८ || एतस्मिन् वसते शीघ्रमविश्रामं महाखगः | यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः || १९ || नभःस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् | अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् || २० || स्वप्रकाशचिदानन्दं स हंस इति गीयते | सोऽयं जीवः उच्छ्वासनिःश्वासच्छलेन सकारं च | निष्क्रमणवेलायां विषयव्याप्तिवर्जितम् || १६ || येन हेतुना विषयविरलः स्यात् तेनेदं निष्कलम् | यथा क्षीरात् कारणात् सर्पिः कार्यतो भिन्नमपि कारणावस्थायां क्षीरमेव भवति तथा अयं सर्पिःस्थानीयो जीवः क्षीरस्थानीयकारणेनात्मना युक्तो भवति | स्वकारणभावापत्तिसाधनं किमित्यत्र- प्राणायामैश्च पञ्चभिः प्राणायामप्रत्याहारधारणाध्यानसमाधिभिः || १७ || विश्वतैजसप्राज्ञतुर्यभेदेन चतुष्कलासमायुक्तो भवति | एवं हृदि स्थितः सन् बन्धमोक्षतत्कार्यकलनासु भ्राम्यते चेत्यर्थः | यावत् ब्रह्मनाडीं न प्रविशति तावत् अविश्रान्तं संसरतीत्याह- गोलकस्त्विति | यदा यस्मिन् काले स्थूलदेहे विद्यमानमूलाधारत्रिकोणाग्रविलसत्सुषुम्नागोलकस्तु क्षीरदण्डेन क्षीरवद्धवलदण्डवत् भोगविशिष्टकुण्डलिनीशक्तितत्त्वेन प्राणेन वा यावत् अहत अनाक्रान्तो भवति || १८ || तदा एतस्मिन् देहे महाखगो हंसः प्राणाधारो जीवः अविश्रामम् अविश्रान्तं प्. २५४) यथा भवति तथा यत् स्वज्ञाननाश्यं शीघ्रं स्वाज्ञानमवलम्ब्य वसते वसति, अभूतसंप्लवं स्वज्ञानावधि संसरतीत्यर्थः | कदा तत्संसृतिनिवृत्तिरित्यत आह- यावदिति | अयं जीवः प्राणादिवृत्तिमवष्टभ्य यावन्निश्वसितो न श्वसितः प्राणनादिव्यापारविरलो भवति तावत् सर्वकरणव्यापृत्युपरमणलक्षणनिर्विकल्पकावस्थायां निष्कलतां गतो भवति || १९ || हृदयनभसि तिष्ठति उपलभ्यत इति नभःस्थं प्राणादिनामान्तकलाभावात् निष्कलमात्मानं ध्यात्वा भवबन्धनात् मुच्यते निवृत्तसंसारः कृतकृत्यो भवतीत्यर्थः | हंसज्ञानी हंस एवेत्याह- अनाहतेति | अनाहतध्वनियुतं हृदयविभातनादोपाधिकमित्यर्थः || २० || हंसविद्ययैव परमेश्वरप्राप्तिः रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः || २१ || नाभिकन्दे समं कृत्वा प्राणापानौ समाहितः | मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् || २२ || दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे | अभिषिच्यामृतेनैव हंसहंसेति यो जपेत् || २३ || जरामरणरोगादि न तस्य भुवि विद्यते | एवं दिने दिने कुर्यादणिमादिविभूतये || २४ || ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् | बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः || २५ || हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् | केवलकुम्भके परमेश्वरं ध्यायतः तदाप्तिमाह- रेचकमिति || २१-२४ || हंसविद्यामृते मुक्तिसाधनं न किंचिदस्तीति विद्यां स्तौति- बहव इति || २५ || प्. २५५) हंसविद्यागुरुभक्तिविधिः यो ददाति महाविद्यां हंसाख्यां पावनीं पराम् || २६ || तस्य दास्यं सदा कुर्यात् प्रज्ञया परया सह | शुभं वाशुभमन्यद्वा यदुक्तं गुरुणा भुवि || २७ || तत्कुर्यादविचारेण शिष्यः संतोषसंयुतः | हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः || २८ || आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् | देहजात्यादिसंबन्धान् वर्णाश्रमसमन्वितान् || २९ || वेदशास्त्राणि चान्यानि पादपांसुमिव त्यजेत् | गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः || ३० || गुरुरेव हरिः साक्षान्नान्य इत्यब्रंवीच्छ्रुतिः || ३१ || हंसविद्योपदेष्टारम् ईश्वरं मत्वा तदाज्ञानुवर्ती योगी तत्प्रसादतः प्रत्यगभिन्नं ब्रह्मास्मीति निश्चित्य स्वातिरिक्तमखिलं त्यक्त्वा यावदुपाधि गुरुदैवतैक्यं भावयेदित्याह- यो ददातीति || २६- २९ || यावदुपाधिपर्यन्तं तावच्छुश्रूषयेत् गुरून् इति श्रुत्यनुरोधेन गुरुभक्तिं सदा कुर्यात् || ३० || गुरुः साक्षात् आदिनारायण एव इति श्रुतिः || ३१ || आत्मनः श्रुत्याचार्यैकगम्यत्वम् श्रुत्या यदुक्तं परमार्थमेतत् तत्संशयो नात्र ततः समस्तम् | प्. २५६) श्रुत्या विरोधे न भवेत् प्रमाणं भवेदनर्थाय विना प्रमाणम् || ३२ || देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः | आप्तोपदेशगम्योऽसौ सर्वतः किमवस्थितः || ३३ || हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः | गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् || ३४ || तिलेषु च यथा तैलं पुष्पे गन्ध इवास्थितः | पुरुषस्य शरीरेऽस्मिन् स बाह्याभ्यन्तरे स्थितः || ३५ || श्रुत्युक्तं प्रमाणम् | तदतिरिक्तमप्रमाणम् | प्रमाणाप्रमाणानुष्ठानतः स्वार्थानर्थौ स्यातामित्याह- श्रुत्येति || ३२ || देहयोगायोगाभ्यां सकलत्वनिष्कलत्वं निष्कलस्य देशिकोपदेशगम्यत्वं चाह- देहस्थ इति | सर्वव्यापकोऽपि निष्कलः स्वाचार्योपदेशेन गम्यः नान्यथेत्यर्थः || ३३ || आचार्यः क इत्यत आह- हंसेति | उक्तार्थमेतत् || ३४ || हंसस्य सदृष्टान्तं सर्वव्यापकतामाह- तिलेष्विति || ३५ || सकलनिष्कलदेवताविवेकः उल्काहस्तो यथा कश्चित् द्रव्यमालोक्य तां त्यजेत् | ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् || ३६ || पुष्पवत् सकलं विद्याद्गन्धस्तस्य तु निष्कलः | वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला || ३७ || प्. २५७) निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः | उपायः सकलस्तद्वदुपेयश्चैव निष्कलः || ३८ || सकले सकलो भावो निष्कले निष्कलस्तथा | एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः || ३९ || अर्धमात्रा परा ज्ञेया तत ऊर्ध्वं परात्परम् | पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते || ४० || ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः | तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः || ४१ || नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् | परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः || ४२ || देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् | तदन्तं तं विजानीयात् तत्रस्थो व्यापयेत् प्रभुः || ४३ || कैवल्याप्तावपि तदुपकारकज्ञानं न त्याज्यमित्यत्राह- उल्केति || ३६ || दृश्यादृश्ययोः सकलनिष्कलत्वं चाह- पुष्पवदिति | वृक्षः स्वाविद्यापादः | स्वज्ञानव्रश्चनात् वृक्षत्वं, तद्धेतुमायायाः तच्छादकत्वात् छायात्वम् इत्यर्थः || ३७ || एवं निष्कलसकलभावः सर्वत्र वर्तत इत्याह- निष्कल इति | स्वातिरिक्तकलाविशिष्टस्वाविद्यापदे सकलभावः | तदपवादाधिकरणे निष्कले सकलसापेक्षतः सप्रतियोगिकनिष्कले सापेक्षप्रभवसप्रतियोगिकनिष्कलगतसविशेषापह्नवात् निष्प्रतियोगिकनिष्कलात्मा अवशिष्यत इत्यर्थः || ३८ || अकारादिमात्राचतुष्टयात् परं ब्रह्मेत्याह- एकमात्र इति || ३९ || अकारादिमात्रात्रयापेक्षया अर्धमात्रा | हृदयादिपञ्चस्थानासनपञ्चब्रह्मातीतं परं ब्रह्मैव, तस्य सर्वपरत्वेन तत्परं नास्तीत्याह- पञ्चधेति || ४०-४१ || अच्युतं सदाशिवम् || ४२ || प्. २५८) तस्य देहातीतत्वं व्यापकत्वं चाह- देहेति | प्राणलयस्थानं नासाग्रद्वादशाङ्गुलं यः तल्लयाधारः तं देहातीतं प्रत्यगात्मानं विद्यात् | यः प्रत्यग्भावविरलः तदन्तं तं परमात्मानं जानीयात् | सोऽयं परमात्मा प्रभुः तत्रस्थः सर्वातीतपदे स्थितोऽपि स्वविकल्पितं विश्वं विश्वविराडोत्राद्यात्मना व्यापयेत् || ४३ || योगस्य परमगोप्यत्वम्, उत्तमाधिकारिण एव दातव्यत्वं च मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् | तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते || ४४ || एतत्तु परमं गुह्यमेतत्तु परमं शुभम् | नातः परतरं किंचिन्नातः परतरं शुभम् || ४५ || शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् | गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः || ४६ || नापुत्राय प्रदातव्यं नाशिष्याय कदाचन | गुरुदेवाय भक्ताय नित्यं भक्तिपराय च || ४७ || प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् | दातास्य नरकं याति सिध्यते न कदाचन || ४८ || योगिनां करणग्रामस्य स्वस्वव्यापारव्यग्रत्वेन योगविच्छित्तिः स्यादित्याह- मनोऽपीति | मनस्तु स्वात्मनोऽन्यत्र नादे निक्षिप्तं तथा चक्षुरपि नासाग्रे पातितं संकल्परूपादिविषयादुपरतम् | स्वान्तर्बाह्ययोगविघ्नाभावात् योगियोगस्य अविच्छिन्नत्वं युज्यत इत्यर्थः || ४४ || यत् योगमुख्यफलं तदतिरिक्तरहस्यं नास्तीत्याह- एतदिति || ४५ || सर्वमन्यत् परित्यज्य प्. २५९) परमाक्षरज्ञानमेव सदा ग्राह्यम् इत्याह- शुद्धेति || परमाक्षरनिर्णयात्मकं ज्ञानं प्रयत्नाद्देशिकमुखेन ग्रहणीयं ग्राह्यम् || ४६ || यदेवं गुह्यतमं तत् उत्तमाधिकारिणे दातव्यं तदितरेभ्यो न दातव्यम् | यदि दद्यात् तदा दातुः नरकपातः स्यादित्याह- नेति || ४७-४८ || केवलशास्त्रज्ञानवतोऽपि पापपुण्यलेपाभावः गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः | यत्र तत्र स्थितो ज्ञानी परमाक्षरवित् सदा || ४९ || विषयी विषयासक्तो याति देहान्तरे शुभम् | ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः || ५० || ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते | यः कोऽपि वा वृत्त्यादिज्ञानादेव कृतार्थो भवति तस्य न पुण्यपापलेपोऽस्तीत्याह- गृहस्थ इति | आभासतोऽपि विषयासक्तिदर्शनात् अयं सविशेषज्ञानी || ४९ || तस्य देहावसानसमये विषयासक्तिवैरल्यात् शुभप्राप्तिरिष्यत इत्यर्थः | केवलशास्त्रजन्यज्ञानात् आगामिपुण्यपापालेपो भवतीत्यर्थः || ५० || त्रिविधा आचार्याः चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः || ५१ || इत्येषां त्रिविधो ज्ञेय आचार्यस्तु महीतले | चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् || ५२ || मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वामृतमश्नुते | प्. २६०) चोदकादिभेदेन देशिकत्रैविध्यं तज्ज्ञानतः कृतकृत्यतां चाह- चोदक इति || ५१ || अहं ब्रह्मास्मि इत्यनुसंधानं कुर्यादिति स्वाज्ञं ब्रह्माभिमुख्येन चोदयतीति चोदको वेदान्तः, मार्गदर्शकत्वात् | तत् त्वमेव त्वमेव तत् इति स्वाज्ञं बोधयतीति बोधको देशिकः, ब्रह्मप्रापकत्वात् || ५२ || मत्स्वरूपमेव सर्वं मामेव प्राप्स्यसि मद्व्यतिरिक्तमणुमात्रं न विद्यते इति परमोपदेशेन स्वातिरिक्तभ्रममोक्षं ददातीति मोक्षदः परमेश्वरः, परतत्त्वस्वरूपत्वात् | यज्ज्ञानात् मुमुक्षुः अमृतो भवति सोऽयम् ईश्वर इत्यर्थः || प्रणवहंसानुसंधानात्मकं प्रत्यक्षयजनम् प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम || ५३ || तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् | स्वयमेव कृतः पश्येद्देहे बिन्दुं च निष्कलम् || ५४ || अयने द्वे च विषुवे सदा पश्यति मार्गवित् | कृत्वा यामं पुरा वत्स रेचपूरककुम्भकान् || ५५ || पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् | नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् || ५६ || सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् | किं तत् प्रत्यक्षयजनमित्यत्र शृण्वेतत् इत्याह- प्रत्यक्षेति || ५३ || यदा प्राणः पिङ्गलया कुण्डलिनीस्थानं प्रविशति तदेव सूर्यग्रहणं, येनेष्ट्वा मुनिः ब्रह्मपदम् एति तत् प्रत्यक्षयजनमित्याह- स्वयमेवेति | इडापिङ्गलयोः पिङ्गलेडयोः क्रमणम् उत्तरायणदक्षिणायने भवतः तथा मूलाधारे मूर्धनि च प्. २६१) यदा प्राणः प्रविशति तदा द्वे विषुवे भवतः | एवमनयविषुवद्वये च प्राणमार्गवित् स्वयमेव देहे बिन्दुं सकलं निष्कलं च सदा पश्येत् पश्यति | हे वत्स पुरा आदौ रेचकपूरककुम्भकान् सहितान् केवलान् वा अहरहः याममात्रं कृत्वा || ५४-५५ || ओम् इति हंस इति च यन्मन्त्रद्वयं पूर्वमुक्तं तदुभयं चार्थानुसंधानपूर्वकमुच्चार्य यः प्रणवार्थो हंसः सोऽहमित्यनुसंधानं नमस्कारयोगः, ऐक्यानुसंधानस्य नमस्कारयोगत्वात् नमस्त्वैक्यं प्रवदेत् इति श्रुतेः | तेन नमस्कारयोगेन स्वातिरिक्तं नेति चिन्मुद्रया शांभवीखेचरीमुद्रया वा युक्तः सन् यथाक्रममात्मानम् अर्चयेत्, सदा सोऽहमस्मीति ध्यायेत्, सोऽहंभावेन पूजयेत् इति श्रुतेः || ५६ || इदमेव हि प्रत्यक्षयजनं विज्ञेयं || हंसयोगलब्धज्ञानात् सायुज्यप्राप्तिः ज्ञानात् सायुज्यमेवोक्तं तोये तोयं यथा तथा || ५७ || एते गुणाः प्रवर्तन्ते योगमार्गकृतश्रमैः | यस्माद्योगं समादाय सर्वदुःखबहिष्कृतः || ५८ || योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् | ज्ञानात् स्वरूपं परमं हंसमन्त्रं समुच्चरेत् || ५९ || ब्रह्मज्ञानात् जले जलयोगवत् सायुज्यं प्रत्यक्परैक्यमुक्तं योगिभिः || ५७ || एवं जीवन्मुक्तगुणाः प्रवर्तन्ते | यस्मात् एवं योगाभ्यासतः सर्वदुःखबहिष्कृतो भवति तस्मात् योगध्यानं सदा कृत्वा तत्प्रभवविज्ञानमवाप्य ज्ञानसमकालं ब्रह्ममात्रतामित्यादित्यर्थः || ५८ || यद्यत् अन्तर्बाह्यविलसितं तत्तत् हंस एव, हंसातिरिक्तं न किंचिदस्तीति ज्ञानी परमहंसः परमात्मा भवतीत्याह- ज्ञानादिति | हंसः सोऽहमिति यः सदा हंसमन्त्रमुच्चरेत् सोऽयं प्. २६२) सोऽहमिति ज्ञानात् हंसस्य यत् परमं स्वरूपं यत् निष्प्रतियोगिकस्वमात्रम् अवशिष्यते तदेव भवतीत्यर्थः || ५९ || हंसोपलब्धिस्थानम् प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः | हंस एव परं सत्यं हंस एव तु सत्यकम् || ६० || हंस एव परं वाक्यं हंस एव तु वैदिकम् | हंस एव परो रुद्रो हंस एव परात्परम् || ६१ || सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः | पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः || ६२ || कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः | स कुत्रोपलभ्यत इत्यत आह- प्राणिनामिति | नित्यानुसंधानात् स्वमात्राच्युतो हंसः हृद्येवोपलभ्यते इत्यर्थः | हंसस्य सार्वात्म्यमाह- हंस एवेति | अक्षाक्षाधिपान्तर्यामित्वात् || ६०-६१ || अभिधेयमभिधानं च हंस एवेत्याह- पृथिव्यादीति || ६२ || कूटशब्देन क्षकार उच्यते || हंसमात्रानुस्मरणपूर्वकसमाध्यभ्यासः मातृकारहितं मन्त्रमादिश्यन्ते न कुत्रचित् || ६३ || हंसज्योतिरनूपम्यं देवमध्ये व्यवस्थितम् | दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् || ६४ || प्. २६३) सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् | निर्मलस्फटिकाकारं दिव्यरूपमनूपमम् || ६५ || मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् | मातृकामन्त्रयोरैक्यं हंसज्योतिरवगम्य ज्ञानमुद्रामाबध्य स्वात्ममन्त्रं स्मरन् सदा समाधिं कुर्वीतेत्याह- मातृकेति | अनूपम्यम् अनूपमं निरूपमं सर्वदेवमध्ये दक्षिणाभिमुखं देवमाश्रित्य || ६३-६४ || देवं कीदृशमित्यत्र निर्मलेति || ६५ || हंसस्यासननिरूपणम् प्राणापानसमानाश्चोदानव्यानौ च वायवः || ६६ || पञ्चकर्मेन्द्रियैर्युक्ताः क्रियाशक्तिबलोद्यताः | नागः कूर्मश्च कृकरो देवदत्तो धनंजयः || ६७ || पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः | पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः || ६८ || बद्धमुद्रा कृता येन नासाग्रे तु स्वलोचने | हंसः क्व आसनमर्हतीत्यत्र नाभिचक्रे नासाग्रे नेत्रयोश्च व्यवस्थित इत्याह- प्राणेति || ६६-६७ || शक्तिद्वयमध्ये मूलाधारस्थपावकरूपेण हंस एव स्थितः | येन नासाग्रे स्वलोचने च बद्धखेचरीमुद्रा कृता सोऽयं हंसो रविर्भूत्वा नाभिचक्रे नासाग्रे लोचनयोश्च स्थित इत्यर्थः || ६८ || हंसयोगाभ्यासक्रमः अकारे बह्निरित्याहुरुकारे हृदि संस्थितः || ६९ || प्. २६४) मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् | ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः || ७० || रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना | अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः || ७१ || मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः | कण्ठं संकुच्य नाड्यादौ स्तम्भिते येन शक्तितः || ७२ || रसना पीड्यमानेयं षोषशीवोर्ध्वगामिनी | त्रिकूटं त्रिविधं चैव गोलाखं निखरं तथा || ७३ || त्रिशंखं वज्रमोंकारमूर्ध्वनालं भ्रूवोर्मुखम् | कुण्डलीं चालयन् प्राणान् भेदयन् शशिमण्डलम् || ७४ || साधयन् वज्रकुम्भानि नव द्वाराणि बन्धयेत् | सुमनःपवनारूढः सरागो निर्गुणस्तथा || ७५ || ब्रह्मस्थाने तु नादः स्याच्छंकिन्यमृतवर्षिणी | षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् || ७६ || सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् | आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् || ७७ || दृश्यं तं दिव्यरूपेण सर्वव्यापी निरञ्जनः | हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः | स प्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते || ७८ || प्. २६५) सहस्रमेकं द्व्ययुतं षट् शतं चैव सर्वदा | उच्चरन् पतितो हंसः सोऽहमित्यभिधीयते || ७९ || पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् | ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत् सदा यतिः || ८० || विराडादिरूपेणाकारादिमात्रात्रये यो वसेत् तं प्राणशक्त्या बोधयेदित्याह- अकार इति | अकारे मूलाधारे च वह्निः वैश्वानरो वर्तत इत्याहुः | शिष्टं स्पष्टम् || ६९ || यथोक्तस्थानविशिष्टाकारादिमात्रात्रये यत् विद्यते ग्रन्थित्रयं तद्धंसज्ञानवायुना भिद्यते | तत अकारादौ ब्रह्मादयः प्रकाशन्ते | तद्देहकलनापाये निर्विशेषपरमात्मा स्वमात्रं प्रकाशत इत्याह- ब्रह्मेति || ७०-७१ || तद्दर्शनग्रन्थित्रयभेदनोपायतया योगमुपदिशति- कण्ठमिति | जालंधरबन्धेन कण्ठं संकुच्य सिद्धासनारूढेन येन योगिना नाड्यादौ सुषुम्नामूले कुण्डलिनीशक्तितः कुण्डलिनीशक्त्या सह दृष्टिप्राणादौ स्तम्भिते सति || ७२ || अथ ऊर्ध्वमुन्नमत इत्योंकारः इति श्रुत्यनुरोधेनाकारादिपरान्तषोडशावयवा यस्य सः षोडशीप्रणव इव उर्ध्वगामिनी घण्टिकाकुहरगामिनी इयं जिह्वा पीड्यमाना भवति तनुतामेत्य ब्रह्मबिलं प्रविशति | तदा तिस्रो नाड्यो यत्रैक्यं भजन्ति तं त्रिकूटं भ्रूमध्यं मूलाधारविशुद्ध्यादिभेदेन तत् त्रिविधं विराजते | तत्र गोशब्देन पृथिव्यादिभूतपञ्चकतत्कार्यमुच्यते, तन्नित्यादिप्रलये यदात्मना लीयते सेयं गोला अव्यक्तशक्तिः, तदात्मकं ख गोलाखम् अव्याकृताकाशं यस्मात् निर्गतं व्याकृताव्याकृताकाशादिपृथिव्यन्तं तन्निखरं चिदाकाशं योगिरमणस्थानं ब्रह्म च विद्यत इत्यर्थः | यद्वा- गोशब्देन जिह्वोच्यते | तथा च हठतन्त्रे आम्नायते- गोमांसं भक्षयेत् इत्यंशविवरणे गोशब्देनेरिता जिह्वा इत्युक्तत्वात् | शिष्टं समानम् || ७३ || पुनः त्रिकूटविशेषणमेतत्- इच्छानिच्छापरेच्छाप्रभवस्वान्तरुपलभ्यमानं त्रिशं सुखदुःखत्रयं खादतीति त्रिशंखम्, अयोगिभिः प्. २६६) कदापि दुर्भेद्यत्वात् वज्रम्, ओंकारम् अकारादिमात्रात्रयावसानस्थानत्वात्, ऊर्ध्वनालं भ्रुवोर्मुखं भ्रूमध्यम् | यदि तत्र योगी ज्योतिर्लिङ्गं द्रष्टुमिच्छति तदा शक्तिचालनाद्युपायतो ज्ञानदीपं पश्यतीत्याह- कुण्डलीमिति || ७४ || सूर्योज्ज्यायीशीतल्यादीनि वज्रकुम्भकानि, तेषां ग्रन्थित्रयभेदनपटुत्वात् | ततो नादः आविर्भवतीत्याह- सुमन इति | सुमनः मनोज्ञत्वात् पवनारूढः प्राणोपाधिकत्वात् सरागो नैसर्गिकत्वात् तथा निर्गुणः तम-आदिगुणत्रयास्पृष्टत्वात् || ७५ || दहरं पुण्डरीकं वेश्म इति श्रुतिसिद्धब्रह्मस्थाने नादाविर्भावः स्यात् | शं सुधां किरतीति शंकिनी चान्द्री कला अमृतवर्षिणी भवति | ततो योगी प्रत्यग्रूपेण प्रकाशयेदित्याह- षडिति | मूलाधारादिषट्चक्रमण्डलम् अधोमुखम् ऊर्ध्वं धरतीति षट्चक्रमण्डलोद्धारं ज्ञानाज्ञानवृत्तिं दीपयतीति ज्ञानदीपं प्रत्यक्तत्त्वं, तद्रूपेण विद्वान् प्रकाशयेदित्यर्थः || ७६ || प्रत्यञ्चं सर्वान्तरत्वेन भावयेदित्याह- सर्वेति | ततः प्रत्यगभिन्नपरं ब्रह्मास्मीति ध्यायेदित्याह- आत्मेति || ७७ || ज्ञानिभिः दिव्यरूपेण दृश्यं तं परमात्मानं प्रत्यगभेदेन यो जानाति सोऽयं मुनिः सर्वव्यापी निरञ्जनो भूत्वा | हंसहंसेति वीप्सया हंसः सोऽहम् इति वाक्यं वदेदिति द्योत्यते | योऽयं हंसानुसंधानव्यापारः सः || ७८ || अजपाजपसंख्येयत्तामाह- सहस्रमिति || ७९ || एवं हंसयोगिना यतिना प्रत्यहं यत् कर्तव्यं तदाह- पूर्वेति | सुषुम्नायाः पूर्वभागे मूलाधारचक्रे ह्यधोलिङ्ग वराजतत्त्वं ध्यायेत् | तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः इति श्रुत्यनुरोधेन अनाहतस्थशिखिन्यां पावकज्वालायां पश्चिमं सौत्रं प्रत्यगात्मलिङ्गं वा अहमस्मीति ध्यायेत् | भ्रुवोराज्ञाचक्रमध्ये तु ब्रह्ममात्रभावापत्तौ यतत इति यतिः मुनिः ज्योतिरैश्वरं नित्यं निष्प्रतियोगिकब्रह्ममात्रलिङ्गं वा सदा ध्यायेत् अहमस्मीत्यनुसंधानं कुर्यादित्यर्थः || ८० || प्. २६७) हंसयोगिना अनुसंधेयमात्मस्वरूपम् अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् | अव्रणोऽहमकायोह मनङ्गोऽस्म्यभयोऽस्म्यहम् || ८१ || अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः | अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् || ८२ || अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् | अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् || ८३ || अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः | अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् || ८४ || अद्रेश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः | अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् || ८५ || अवायुरप्यनाकाशोऽतेजसोऽव्यभिचार्यहम् | अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् || ८६ || अरजस्कोऽतमस्कोऽहमसत्त्वोऽस्म्यगुणोऽस्म्यहम् | अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् || ८७ || अद्वैतोऽहमपूर्णोऽहमबाध्योऽहमनन्तरः | अश्रोत्रोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः || ८८ || अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः | अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः || ८९ || प्. २६८) अविद्याकार्यहीनोऽहमवाङ्मनसगोचरः | अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् || ९० || आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् | आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः || ९१ || आनन्दामृतरूपोऽहमात्मसंस्थोऽहमन्तरः | आत्मकामोऽहमाकाशात् परमात्मेश्वरोऽस्म्यहम् || ९२ || ईशानोऽस्म्यहमीड्योऽहमहमुत्तमपूरुषः | उत्कृष्टोऽहमुपद्रष्टाहमुत्तरतरोऽस्म्यहम् || ९३ || केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः | गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् || ९४ || चिदानन्दोऽस्म्यहं चेताश्चिद्घनश्चिन्मयोऽस्म्यहम् | ज्योतिर्मयोऽस्म्यहं ज्यायान् ज्योतिषां ज्योतिरस्म्यहम् || ९५ || तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः | दिव्यो देवोऽस्मि दुर्दशो दृष्टाध्यायो ध्रुवोऽस्म्यहम् || ९६ || नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः | निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः || ९७ || निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् | निरिन्द्रियो नित्यन्ताहं निरपेक्षोऽस्मि निष्कलः || ९८ || पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् | परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् || ९९ || प्. २६९) परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः | पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् || १०० || प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः | एकधा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः || १०१ || बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् | महादेवो महानस्मि महाज्ञेयो महेश्वरः || १०२ || विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् | वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् || १०३ || विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् | शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् || १०४ || सर्वभूतान्तरात्माहमहमस्मि सनातनः | अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः || १०५ || सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् | सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् || १०६ || समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः | सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः || १०७ || स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् | सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् || १०८ || सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्धनः | सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् || १०९ || प्. २७०) सर्वाधिष्ठानसन्मात्रः सर्वबन्धहरोऽस्म्यहम् | सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् || ११० || एवं यो वेद तत्त्वेन स वै पुरुष उच्यते || इत्युपनिषत् || यथा यथा यतिभिः अनुसंधेयं तदेवाह- अच्युतोऽहमित्यादिना | अच्युतोऽहम्, अच्युतस्वभावात्, अचिन्त्यः चित्तवृत्त्यभावात्, अतर्क्यः अनिर्वाच्यत्वात्, अजः जन्माद्यभावात् | अव्रण इत्यादिविशेषणत्रयं शरीरत्रयप्रतिषेधार्थम् | अभयः, भयहेतुद्वैताभावात् || ८१ || किं च- अशब्दोऽहमित्यादि | पञ्चतन्मात्रवैरल्यात् शब्दादिप्रतिषेधसिद्धोऽस्मि | अद्वयः, द्वैताभावात् | अनादिरमृतः, संभूतिप्रलयाभावात् || ८२ || किं च- अक्षयोऽहमित्यादि | अक्षयोऽहं, क्षयिष्णुस्थूलशरीराभावात् | अलिङ्गः, अचिह्नत्वात् | अजरः, जरादिषडूर्म्यभावात् | अप्राणोऽहममूकोऽहं सप्राणवागिन्द्रियाभावात् | अकृतः, कृतिहेत्वभावात् || ८३ || किं च- अन्तर्याम्यहमित्यादि | अन्तर्यामी, सर्वान्तरत्वात् | अग्राह्यः करणैः | अनिर्देश्यः अनिदंस्वरूपत्वात् अलक्षणः, लक्षणात्रयाभावात् | अगोत्रः, कुलगोत्रविवर्जितत्वात् | अचक्षुष्कः, ज्ञानाक्षाभावात् | अवाक्, कर्माक्षाभावात् || ८४ || किं च- अद्रेश्योऽहमित्यादि | दृश्याभावात् अद्रेश्यः | अवर्णः वर्णाश्रमाभावात् | अखण्डः पूर्णत्वात् | अद्भुतः- स्वस्य निष्प्रतियोगिकस्वमात्रत्वेऽपि स्वाज्ञादिदृष्ट्यनुरोधेन जाग्रज्जाग्रदाद्यविकल्पानुज्ञैकरसान्तवत् भानात् अद्भुतत्वं युज्यते | वेदान्तवाक्येषु मुमुक्षुभिः अन्वेष्टव्यः | अमरः पारमार्थिकनित्यत्वात् || ८५ || किं च- अवायुरित्यादि | वायवाकाशतेजोग्रहणं जलपृथिव्युपलक्षणम् | अतेजस इति षष्ठी प्रथमार्था | अव्यभिचारी सदेकरूपत्वात् | अन्तःकरणवृत्तिभिः अमतः अजातः प्. २७१) अजत्वात् | अतिसूक्ष्मः केशकोट्यंशैकभागसूक्ष्माव्यक्तादपि सूक्ष्मत्वात् | अविकारी विकारकलनावैरल्यात् || ८६ || किं च- अरजस्क इत्यादि | गुणत्रयगुणसाम्याभावतो निर्गुणत्वात् | अमायः निर्मायत्वात् | अनुभवात्मा विज्ञानगम्यत्वात् | अनन्यः ब्रह्माभिन्नत्वात् | अविषयः निर्विषयत्वात् || ८७ || अद्वैतः निष्प्रतियोगिकत्वात् | अपूर्णः जीवात्मना परिच्छिन्नदृष्टित्वात् | यद्वा- अकारवाच्यविष्ण्वात्मना सर्वत्र पूर्णत्वात् | अबाह्योऽहमनन्तरः स्वबाह्यान्तःकलनावैरल्यात् | अकरणत्वात् परिमाणाभावात् अदृश्यत्वात् अस्नाविरत्वाच्च अश्रोत्रादिविशेषणचतुष्टयमुपपद्यते || ८८ || किं च- अद्वयेति | पूर्णानन्दबोधस्वरूपत्वात् अनिच्छः || ८९ || अनल्पः अपरिच्छिन्नत्वात् | अशोकोऽहं निरहंकृतित्वात् | अविकल्पः निर्विकल्पत्वात् | अविज्वलन् निरग्नित्वात् || ९० || आदिमध्यान्तशून्यः उत्पत्तिस्थितिप्रलयाभावात् | आकाशसदृशः चिदाकाशत्वात् || ९१ || आत्मसंस्थः स्वे महिम्नि स्थितत्वात् | अन्तरः सर्वान्तरत्वात् || ९२ || उत्तमपूरुषः क्षराक्षराकलनाविरलपुरुषोत्तमत्वात्, उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति स्मृतेः | सर्वस्मात् उत्कृष्टः | उपद्रष्टा सर्वसाक्षिस्वरूपत्वात् | उत्तरतरः सर्वोत्तरत्वात् || ९३ || केवलः अशेषविशेषाभावात् | कविः क्रान्तदर्शित्वात् | कर्माध्यक्षः कर्मिणां कर्मफलदातृत्वात् | करणाधिपः दिग्वातादिरूपत्वात् | गुहाशयः सर्वप्रत्यक्स्वरूपत्वात् | गोप्ता विष्णुत्वात् | चक्षुषश्चक्षुः चक्षुरादीन्द्रियप्रवृत्तिनिमित्तत्वात् || ९४ || अचेतनचेतयितृत्वात् चेताः | ज्यायान् पृथिव्यादेः | ज्योतिषां ज्योतिः सूर्यादिप्रकाशकत्वात् || ९५ || ध्रुवः शाश्वतत्वात् || ९६ || निरञ्जनः असङ्गत्वात् || ९७-१०० || एकधा चिन्त्यमानोऽहं सर्वापह्नवसिद्धं ब्रह्म, निष्प्रतियोगिकैकरूपेण चिन्तनीयत्वात् | सापेक्षद्वैताद्वैतविलक्षणः निष्प्रतियोगिकपरमाद्वैतरूपत्वात् || १०१-१०३ || शिवः स्वातिरिक्ताशिवग्रासत्वात् || १०४ || सकृद्विभातः निरावृतप्रकाशः || १०५ || स्वराट् स्वमात्रतया राजमानत्वात् || १०६ || सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः, स्वाज्ञस्वज्ञदृष्टिभ्यामित्यर्थः || १०७ || जाग्रदादिस्थानत्रयव्यतीतोऽहम् || १०८-११० || प्. २७२) विद्याफलमाह- एवमिति | अच्युतोऽहमित्यादिसर्वानुभूरित्यन्तस्वानुभूतिवाक्यानि स्वानुभूतिमहावाक्यरत्नावलीप्रभालोचने प्रायशो व्याख्यातानि इत्युपनिषच्छब्दः ब्रह्मविद्योपनिषत्समाप्त्यर्थः || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | ब्रह्मविद्योपनिषदो व्याख्येयं लिखिता लघु | प्रकृतोपनिषद्व्याख्या सप्तत्यधिशतद्वयम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे चत्वारिंशत्संख्यापूरकं ब्रह्मविद्योपनिषद्विवरणं संपूरणम् ########### END OF FILE #######