#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00319 Uniform title: brahmayāmala Manuscript : IFP transcript T00522 Description: Notes: Revision 0: Nov. 21, 2014 Data-entered by the staff of Muktabodha under the direction of Mark S.G. Dyczkowski. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. १) ब्रह्मयामले मातृणामुत्सवम् | हरिः ओं | मातृणामुत्सवं वक्ष्ये शृणु ब्रह्मन्यथाक्रमम् | पुरा कृतयुगस्यादौ देवाश्च सिरमैस्वरैः || देवैश्च रोधनं कृत्वा दारुकेन महानृप | देवास्सञ्चिन्तितस्सर्वे दारुकाह्वय कारणम् || दारुकस्स वयस्मृत्य वयौ वाथ कथं हरिम् | तच्छ्रुत्वा हरिः प्रोक्तः स्त्रियं सृष्टिति तद्वद || एवं श्रुत्वा तु देवे ह्यैकैकं सृष्टिवत् स्त्रियम् | ब्रह्माणि ब्रह्मसंभूता माहेश्वरी महेश्वरात् || कौमारीस्कन्दसंभूता वैष्णई विष्णुसंबूता | वाराही यमसंभूता इन्द्राणि इन्द्रसंभवा || एतेषां मातरो देव युद्धं वै दारुकेन तु | मातॄणां दुर्बलं गछेत् प्रबलेन महासुरः || मातॄणां संभूयनोद्भूता एकवीरपरात्परा | परमेकांशमेवन्तु परमेश्वरलोचने || जयते भद्रकाली तु दारुकावधकारिणीम् | दारुकं हृदयं भित्वा रुधिरं मांसचर्चितम् || आपूर्णायाहृदं सर्वं हरिष्ण्याणीत्युपक्रमम् | तच्छ्रुत्वा ईश्वरो देवी नृत्तं कृत्वा तु शाम्यति || प्. २) शान्त्यन्तु सर्व देवेभ्यो चामुण्डपरमेश्वरि | तासां वै मूर्तिभेदन्तु शृणु ब्रह्म युगे युगे || कृतयुगे कोटिमूर्ति मूर्तयः परिकीर्तिताः | प्रकराल्य तितीक्ष्णाक्षी विद्युज्जिह्वा विजृंभिणी || क्षोभिणी मोहिनी चैव तथा योनिमुखी भवेत् | अधोमुखी च विख्याता तथा रौद्रमुखी भवेत् || कृष्णा चैव तु कृष्णाक्षी तथा च श्यामला भवेत् | त्र्यम्बकी गोमुखी चैव स्नेहाख्या च तथा परा || भगनोन्मुखी विख्याता मूर्तयष्षोडशस्मृता | एताश्च मूर्तयो ज्ञेया मातृकाश्च प्रकीर्तिता || कृष्णाकृष्णतरा ज्ञेया श्वेताश्वेततरा भवेत् | रक्तारक्ततरा ज्ञेया पीतापीततरा भवेत् || विख्याता मूर्तयो ज्ञेया मूर्तयस्युः प्रकीर्तिता | भद्रकालि तु चामुण्डी सदा विजयवर्द्धिनी || नाशैमस्तु शिरोद्भुता कलियुगे प्रकीर्तिता | एतैर्मूर्तयो ज्ञेया सदा शान्तिकरो भवेत् || तस्यास्सर्व प्रयत्नेन चतुर्मूर्तिः प्रपूजयेत् | दशशान्तिकरश्चैव नृपाणां विजयं भवेत् || सर्वपापहरं शान्तं सदा विजय संभवम् | चतुर्भूति विधानेन मातृपूजाश्च कारयेत् || इति ब्रह्मयामले शतसहस्रसंहितायां मात्रोत्सवो नाम प्रथमः पटलः || १ || प्. ३) अतः परं प्रवक्ष्यामि देव्यादेशविधिं परम् | ग्रामे च नगरे चैव पत्तने खेटकेपि च || तीर्थस्थानेऽथ सौम्ये वा समुद्रे पर्वतपार्श्वयोः | पर्वते च वने चैव नदीनां राजधानिके || इन्द्रायां विजयं चैव आग्नेयेग्निभयं भवेत् | दक्षिणे चापमृत्युश्च नैरृत्यां व्याधिपीडितम् || वारुण्यां वर्षनाशन्तु वायव्यां रोगमाविशेत् | सौम्यायां सर्वसंसिद्धिरैशान्यामष्टसिद्धिदम् || उत्तरद्वारतो बाह्ये सोमसूत्रस्य पूर्वतः | शतदण्डान्तरं कृत्वा सर्वसिद्धिकरं परम् || पूर्वद्वारे तु विजयमाग्नेये मरणं भवेत् | यमद्वारे तु कलहं नैर्-ऋते नाशमाविशेत् || पश्चिमे सर्वसिद्धिस्स्यात् वायव्ये रिपुनाशनम् | उत्तरद्वारमेतेषामैश्वर्यमुत्तरोत्तरम् || ईशद्वारे तु रक्षार्थमेतत् द्वारं विधीयते | ब्राह्मणक्षत्रियो वैश्यशूद्रश्चैव चतुर्विधम् || ब्राह्मणान् पापनाशार्थं क्षत्रियो विजयं भवेत् | वैश्यानान्धनमाप्नोति शूद्राणां सुखमाप्नुयात् || यावत् प्रासादविस्तारं तावत् कुर्यात् परिग्रहम् | कर्षणं कारयेत् तत्र बीजांकुरमनिर्दिशेत् || प्. ४) खननं पुरुषमात्रेण उदरान्तमथापि वा | पांसुना पूरयेत् तत्र उदकं पूरयेत् पुरा || हस्तिपादघनं साध्यमाचार्य शिल्पिभिस्सह | चैत्रेषु विषुवं कुर्यात् प्राचीं ग्रहणमादिशेत् || उदीचीं तत्र संग्राह्य ह्रामयेच्चतुरश्रकम् | एवं परिग्रहा भूमिरष्टसिद्धिकरं महत् || इति ब्रह्मयामले शतसहस्रसंहितायां भूपरिग्रहो नाम द्वितीयः पटलः || २ || प्रतिमालक्षणं | अथातस्संप्रवक्ष्यामि प्रतिमा षड्विधा परा | शैलजा लोहजा चैव रत्नजा मणिना शुभा || अथवा दारुजा चैव मृणमयं च मनोहरम् | द्वारोत्सेधसमायुक्तं पादोत्सेधं तथैव च || गर्भस्याण्डस्य प्रतिमं कन्यसं कारयेद्बुधः | पञ्चभागविभक्ते तु त्रिभागं मध्यमं भवेत् || त्रिधागर्भसमं कृत्वा द्विभागं चोत्तमं भवेत् | एवं गभानुर् पञ्चप्रतिमञ्च प्रकीर्तिता || नवार्धं तालमानेन प्रतिमां कुर्यात् स लक्षणं | एतेषु चैव चायामं संगृह्यन्तु विचक्षणः || प्. ५) तदायामं त्रिधा चैव भागे प्रतिमं भवेत् | भागैकन्तु भवेत् पीठं तदर्धेन तु निर्णये || एवं सुखासनं प्रोक्तं स्थितैरन्यैरनुक्रमाम् | सुखासनस्य भवेत् पीठ चतुरश्रायतं भवेत् || चतुरश्रं तथा कृत्वा तत्तद्भागन्तु विन्यसेत् | उभयोः पार्श्वयोश्चैव आयताश्रं प्रकीर्तितम् || एवं सुखासनं प्रोक्तं लक्षणेन समन्वितम् | शिरः पञ्चांगुलञ्चैव मुखयामं त्रिभागता || चतुरंगुलं भवेद् ग्रीवा हृदयं मुखमुच्यते | हृदयं नाभिदेशे तु मुखं तत्रैव चोच्यते || पञ्चांगुलमुपस्थं स्यात् ऊरुश्च द्विमुखं भवेत् | जंघे चोरुसमं प्रोक्तं भागज्ञो एकपादकम् || वक्षो दण्डस्य विस्तारमंगुल्या पञ्चविंशकम् | कटिदण्डत्रिंशदीर्घं षोडशांगुलमुच्यते || आयामं बाहुदण्डाभ्यां चतुर्विंशांगुलं भवेत् | आयाममुपबाहुश्च षोडशांगुलमुच्यते || मणिबन्धे कलायामं मुखं करतलं भवेत् | चतुर्दशांगुलायामं पादयोरुभयोर्भवेत् || यस्य केश प्रमाणन्तु द्वादशं विभजेद् बुधः | चतुर्भागं मध्यमन्तु शूलं षड्भागमुत्तमम् || प्. ६) भवेत् कटशल्किमन्त्विभागे विधीयते | तस्मान्यथार्थमित्युक्तं वक्त्रो वर्णन्तु मीयते || शूलमस्ति सितारज्जु कृता मासपटं तथा | कृतेतु श्वेतवर्णञ्च त्रेतायां रक्तमेव च || द्वापरे पीतवर्णन्तु श्यामं कलियुगे भवेत् | पौष्टिकं सितवर्णाभं रक्तञ्चैवाभिवृद्धिदम् || पीतं वशीकरं कृत्वा श्यामं शान्त्यर्थमुच्यते | नारीणामुत्तमा देवी तस्मान्मानमिदं परम् || जानुरज्जुगताश्रेष्ठं श्वेतपद्मोपरिस्थितम् | चतुर्भुजं त्रिणेत्रं च शिरो माला विभूषिता || नानाभरणसंयुक्ता शिरो मालावलीढका | त्रिशूलं दक्षिणे हस्ते कपालं वामहस्तके || वरदाभयदञ्चैव करौ दक्षिण वामकौ | एवं विधि महावीरं सर्वाभरणभूषितम् || दिव्यवस्त्रोपवीतञ्च दिव्यचन्दन लेपनम् | रक्तनेत्रं विशालाक्षं रक्तकेशं मनोरमम् || रक्तेषु रक्तजिह्वा च रक्तमालोपशोभितम् | खड्गं खट्वांगशूलन्तु परशुन् दक्षिणे दधत् || कपालं चैव घण्टाञ्च दलपल्लव हस्तकम् | वामे तु कटकं दद्यात् पादेनाक्रम्य दारुकान् || प्. ७) त्रिणेत्रं वरदं रम्यं एकवीरं प्रकीर्तितम् | दृष्टिद्वयञ्च शान्तिस्स्याल्ललाट प्रभयान्वितम् || दारुकस्य वधोद्भूता ललाटोत्सृष्टिकीर्तिता | एवं विधिप्रकर्तव्यं एकवीरी मनोहरा || रक्ताक्षी विन्यसेत् प्राच्यां करालीं दक्षिणे न्यसेत् | चण्डाक्षी पश्चिमे न्यस्य महोच्छिष्टोत्तरं न्यसेत् || अम्बिका चण्डिका चैव घोरी घोरेश्वरी तथा | कोणेषु विन्यसेत् कृत्वा शास्त्रदृष्टेन कर्मणा || योगिनी पीतवर्णाभा विलासी कपिला भवेत् | एता वै द्वारदेशे तु द्वारपालं न्यसेत् क्रमात् || योगिनी दक्षिणा ज्ञेया विलासी चोत्तरा भवेत् | इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिमालक्षणविधिर्नाम तृतीयः पटलः || ३ || दिङ्निर्णयम् | दिङ्निर्णयं प्रवक्ष्यामि क्षेत्रपालस्य संहृतम् | ऐन्द्रेशानयोर्मध्ये क्षेत्रपालालयं भवेत् || पीठं वा तत्र कर्तव्यं यथाविधि पुरस्सरम् | स्वर्णन्तत्र खनित्वा तु विधि दृष्टेन कर्मणा || चोत्तमं चाष्टहस्तं स्यात् चतुर्हस्तेन मध्यमम् | कन्यसञ्च तदर्धं स्यात् त्रिविधं तत्प्रकीर्तितम् || प्. ८) यथेष्टकं समाशृत्य बलिपीठं प्रकल्पयेत् | पूर्वमग्रं प्रकर्तव्यं लक्षणेन समन्वितम् || पीठार्थ खननं कुर्यात् यथा विस्ताररूपकम् | पञ्चरत्नं क्षिपेत् तत्र त्वधो चैव विचक्षणः || नवक्षरं क्षिपेत् तत्र मन्त्रज्ञो देशिकोत्तमः | पञ्चैकानन्यतस्तस्य नवार्णेन यथाक्रमम् || एवं न्यस्त्वा तु विधिवत् बलिपीठं समारभेत् | विस्तारस्य समं प्रोक्तं चोत्सेधञ्च स लक्षणं || उत्सेधञ्च त्रिधा कृत्वा समभागं विचक्षणः | प्रथमं चतुरश्रं तु लक्षणेन समन्वितम् || प्रथमं चतुरश्रञ्च कारयेत्तत्र वित्तमः | अश्रन्तु पञ्चधा कृत्वा तद्भागैक त्रिधा भवेत् || तद्भागैक विहीनं स्यात् वृत्तश्रञ्च प्रकीर्तितम् | चतुरश्र समं कृत्वा वृत्तोर्ध्वे चतुरश्रकम् || पद्मं तत्र प्रकर्तव्यं लक्षणेन समन्वितम् | तत्रि भागैक भागन्तु पद्मं कुर्यात् स लक्षणं || उत्सेधन्तावदेवोक्तमष्टपत्रं स कर्णिकम् | एवं कृत्वा समासेन पीठञ्चैव मनोहरम् || शिव प्रीतिकरं वापि क्षेत्रपालं स लक्षणं | इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्रपाललक्षणं नाम चतुर्थः पटलः || ४ || प्. ९) अंकुरार्पणं | अथातः संप्रवक्ष्यामि मखिलस्याङ्कुरार्पणम् | प्रोक्षणे च प्रतिष्ठायामुत्सवे स्नपनेपि वा || दीक्षायामालयारंभे बालस्थाने तथैव च | पात्रं चतुर्विधं प्रोक्तम्वङ्गलाङ्कुरकर्मणि || शंखं शरावघटिका पालिकासु चतुर्विधा | सौवर्णं रजतं ताम्रं कांस्यं वै मृण्मयञ्च वा || प्रत्येकं द्वादशग्रह्य सर्वयोगेषु कीर्तितम् | शंखाकारन्तु शंखस्य वर्तुलञ्चाष्टमंगुलम् || तदर्धञ्चैव विस्तारं मूलन्तस्य प्रमाणतः | अग्रे पद्मदलाकारमष्टपत्रसमन्वितम् || तत्पद्मे शंखरूपं स्यात् शंखाकारं तमुच्यते | षोडाशांगुलमायामं त्र्यंशमायाममेव च || कीटकोटि समाकारं मुखन्तस्य प्रकीर्तितम् | आपस्त्र्यङ्गुलञ्चैव उदरञ्च दशांगुलम् || गोकर्णरूपं तत्पुच्छमेवं शंखस्य लक्षणं | अष्टादशाङ्गुलोत्सेधं शरावं भिन्नवर्जितम् || द्वितालन्तु भवेद् वक्त्रं कृष्णमण्डलवर्जितम् | अष्टादशांगुलायामं घटिका पञ्चत्रिकम् || षडंगुलं भवेत् पादं तन्मध्ये चतुरंगुलम् | कुंभञ्चाष्टांगुलं नाहं वक्त्रास्स्युश्चतुरंगुलम् || प्. १०) पालिकारत्निमात्रन्तु नालन्तस्य प्रकीर्तितम् | षोडशांगुल विस्तारं तद्वक्त्रञ्च * * * * || * * * * * * विद्यात्तत्पीठं रत्नमेव च | तदर्थं कण्ठविस्तारं तदर्थं बिलमुच्यते || * * * * * * * क्तः स्वर्णादीनान्तु कामतः | मण्टपस्सविधिं वक्ष्ये मंगलांकुरकर्मणि || दशहस्तप्रविस्तारं विप्रस्य तु वपुर्बुधः | क्षत्रस्य नवहस्तं च अष्टहस्तं तु वैश्यकः || सप्तहस्तन्तु शूद्राणां तारायामं प्रकीर्तितम् | षट्त्रिंशत् षोडशस्तंभं द्वादशस्तंभमेव च || अष्टहस्तं क्रमात्प्रोक्तं तथा विस्ताररूपकम् | चतुरश्रसमं कृत्वा दर्पणोदरसन्निभम् || मण्टपञ्चो भयोः पश्चात् यथाविधि पुरस्सरम् | चतुर्भिस्तोरणैर्युक्तं अष्टदिक् ध्वज शोभितम् || चतुद्वारसमायुक्तं मण्टपं लक्षणान्वितम् | वटोदुम्बरमश्वत्थं लक्षं वृक्षादिभिः क्रमात् || तोरणं कारयेत् तैश्च यथाविधि पुरस्सरम् | पञ्चहस्तायतं प्रोक्तं विस्तारं तद्विहस्तकम् || ऊर्ध्वं शूला कृतिं कुर्यात् हस्तं भूमि निवेशयेत् | श्वेतं रक्तं तथा कृष्णं धूम्रञ्च वारुणं तथा || प्. ११) श्यामन्तु कपिलं पीतं ध्वजानां पूर्वतो न्यसेत् | विताने चोर्ध्वमाश्चर्य कण्ठचामरभूषितम् || दुकूलपट्टकार्पास वस्त्रैश्श्लक्ष्णैस्ततः क्रमात् | स्तंभानावेष्ट्य पश्चात् तु पल्लवैरप्यलंकृते || धूपदीपसुगन्धैश्च पूजयेन् मण्टपं शुभम् | एवं कृत्वा तु पूर्वन्तु ततश्चांकुरमारभेत् || गोमयेन समालिप्य तन्मूलानि प्रकल्पयेत् | शालिभिस्तु दशद्रोणै तदर्धकैर्वा तदर्धकैः || द्रोणार्धञ्चाधमञ्चैतत्तदर्धं तण्डुलोरपि | विकिरेयात्तण्डुलैश्शर्धै दक्षिणेतोन्ये || शाहस्तं वा त्रिहस्तं वा विस्तारहस्तमथार्हिकम् | चतुरश्राणि न यथाक्रम * * * कारयेत् || आसनं कल्पयित्वा तु पद्माकारं विचक्षणं | गन्धपुष्पश्च संपूज्य यथाविधि पुरस्सरम् || रक्ता कराली चण्डाक्षी महोच्छिष्टादि देविका | शंखादि विन्यसेत् पश्चात् कोशकृत् पांसुपूरयेत् || आम्रपल्लवसञ्च्छन्नं गन्धाद्यैरर्चयेच्छुभान् | बीजानि पूरयेत् पश्चात् यवपूर्वादिनि क्रमात् || यवमाष कुलस्थानि चम्बवैणवकानि च | शाली प्रियंगुरपामार्गं श्याकानिष्पावकानि च || प्. १२) तिलसर्षपमुद्गानि बीजानि च त्रयोदश | यथा लाभं गृहीत्वा तु देशकालानुरूपतः || वारिणा क्षालयित्वा तु गोक्षीरेणापि वै क्रमात् | ताम्बूलं दापयेत् तत्र सर्वेषां मातृवोगिनाम् || आचार्यस्सविशेषेण ताम्बूलं दापयेत् ततः | आचार्य श्शुद्ध भूतात्मा शुद्धगन्धानुलेपनम् || नववस्त्रपरीधानं चोष्णीषञ्चोत्तरीयकम् | सांगुलीयकपाणिस्तु सर्वाभरणभूषितः || अति दीर्घा वामकुब्जो चक्षुहीना विसर्जकाः | बधिराः कुक्षिरोगाश्च लाजपात विसर्जयेत् || विकटञ्चांगहीनञ्च शिपिविष्टा विसर्जयेत् | सर्वलक्षणसंयुक्तं सर्वांगं सर्वशोभनम् || मातृ गायत्रि मन्त्रेण ब्रह्मयामल पाठकान् | सर्वतन्त्र क्रियायुक्तं * * * * * * * * || * * * * * * * * * गं ममधु वचनम् | गुरुशिष्यंस्तथैव च * * * निन्दा * * || निन्दा * * * * * * कुलनिन्दा विसर्जयेत् | एतैर्वा वापयेद्बीजं नवाक्षरेण मन्त्रवित् || ब्रह्मघोषैश्च विविधै स्वस्तिवाचकमंगलैः | शंख दुण्ठाभिनिर्घोषैर्गीतवाद्यादि निस्वनैः || प्. १३) एतैर्वा वाचयेद् बीजं नवाक्षरेण मन्त्रवित् | नवाक्षरेण मन्त्रेण बीजानां वापयेद्गुरुः || मात्रमन्त्राभि जप्तेन वारुणञ्चैव सेचयेत् | सदशैश्चादयेद् वस्त्रैस्सुसूक्ष्मैश्च पृथक् पृथक् || रात्रिं तु मातृगायत्रीं मंगलांगुर रक्षणैः | लक्षणे चोच्यते तस्मिन्नाचार्य मन्त्रविग्रहः || पयोधि * क्षण सेव्याह विस्तासां प्रदापयेत् | पावका देवता पञ्च हविस्तासां प्रदापयेत् || एवं कृत्वा प्रतिदिनं एवं पुष्पादिभिर्यजेत् | अंकुरार्पणं वक्ष्यामि वर्णभेदाननेकशः || श्वेतानि रजताभानि कुञ्जराभानि तानि च | हरिद्र हानि तान्येव कोमलानि शुभानि च || श्वेताभं सर्वकामार्थं रजताभं विवर्द्धिदम् | कुञ्जराभं तु * * धनं छ्रीतं कोमलं भवेत् || स्वर्णाभं स्वर्ण वृद्धिः स्यात् हरिद्रापुष्टिवर्धनम् | मृद्धनि पुत्रपौत्रिं स्यात् जीर्णतां प्रकीर्तितम् || कृषे धूम मृतुनाशंस्याजंजानिह वर्धनम् | तथा तिर्यग्गतं चैव वसु पलं पलम् || कृष्णाभोच्चाटनञ्चैव धूम्राभं कलहं भवेत् | नीलाभमम्बु नाशं स्यात् अपमृत्युर्भविष्यति || प्. १४) अधोगतं चेकलाभं तिर्यगं चैव रोगदम् | तस्मात् सर्व प्रयत्नेन अनाभानि विवर्जयेत् || नवाक्षरेण मन्त्रेण पशुमेकन्तु घातयेत् | प्रायश्चित्त विशुध्यर्थं होमं तत्र विधि क्रमात् || नवाक्षरेण मन्त्रेण अष्टोत्तरशतं * * | * * एक धारवक्त्र हिरण्यञ्च पालिकानन्तु पूजनम् || अंकूरार्पण काले तु बीजानि च सञ्चयम् | तत्सर्वं दापयेद् ब्रह्मन् आचार्यन्तु तानि वै || पूर्वोक्त मण्टपे रम्ये गुप्तेन निक्षिपेत् ततः | इति ब्रह्मयामले शतसहस्रसंहितायां अंकुरार्पण पञ्चमः पटलः || ५ || स्थापनम् | देवतास्थापनं वक्ष्ये यथावदनुपूर्वशः | ग्रामे च नरके चैव पत्तने खेटकेपि वा || आयुरारोग्यदश्चैव धनधान्य विवर्धनम् | पुत्रपौत्र प्रवृद्धिश्च सुभिक्षं तासु वर्धनम् || ग्राममध्ये नवपटं ब्रह्म(ण)स्थानमुत्तमम् | इन्द्रायमश्विनोस्थान श्रियावास्थानमेव च || इन्द्राग्नेययोर्मध्ये वधं स्थानमुत्तमम् | सरस्वत्याश्च चाग्नेयं कामस्थानन्तु कल्पयेत् || आग्नेय यमयोर्मध्ये पितरस्थानमुत्तमम् | सावित्रं स्थापयेद् याम्ये यातुधानञ्च कल्पयेत् || प्. १५) याम्य नैर्-ऋतयोर्मध्ये गणपतिस्थानमुच्यते | नैर्-ऋत्यामासुरस्थानं नव देवान् वरानने || नैर्-ऋत्यां वारुणे मध्ये नागस्थानं विधीयते | वारुण्यां स्थापयेद् विष्णू लक्ष्मीस्थानन्तु कल्पयेत् || नभस्वद्वरुणयोर्मध्ये गरुडस्थानमुच्यते | वायव्ये कल्पयेद्दोमं गन्धर्व स्थान मुच्यते || सोम मारुतयोर्मध्ये स्थान मुक्तं प्रजापतेः | वित्तेशं स्थापयेत् सौम्ये मार्ताण्डञ्च प्रकल्पयेत् || सोम शंकरयोर्मध्ये रुद्रश्चैकादशस्सुधीः | ईशानं शंकरस्थानं शिवगौरी समन्वितम् || ईशानचक्रयोर्मध्ये द्वादशादित्यमुच्यते | चतुष्टयमृगादिक्षु दुर्गास्थानं विधीयते || ग्राममध्येषु कर्णिकां ब्रह्मस्थानं विधीयते | मातॄन्वै पूजयेत् तत्र गन्धपुष्पैस्तु पूजितम् || कलशं नवकं ग्राह्यं सापिधानं सकूर्चकम् | सवस्त्रं नववस्त्रं वा नवार्णे नैव मन्त्रितम् || सुब्राह्मी माहेश्वरी चैव कुमारि वैष्णवी तथा | वाराही चैव माहेन्द्री भद्रकालि तथैव च || अग्निबीजैश्च ईशानैः पूर्वमारभ्य विन्यसेत् | देवीशीमर्चयेत् तत्र पूजयेद् विधिना सह || प्. १६) विद्याहृदयमन्त्रेण आचार्यो होमयेत् क्रमात् | * * कृत्वा * * * * * * * * * * * * || * * * * * * * * * * स्थानं समारभेत् | स्थापयित्वा विधानेन पाश्चाद्वा समारभेत् || * * * * * * * * * * * * * सर्जयेत् | ग्रामस्योत्तरदिग्भागे ज्येष्ठा स्थानं विधीयते || ज्येष्ठायामुत्तरे दिक्षु कोट्टविस्थानमुच्यते | ग्राम बाह्ये तु कर्तव्यं कोट्टव्याश्रमुत्तमम् || ज्येष्ठावसवयोर्मध्ये मातृस्थानं विधीयते | ग्रामे वा नगरे वापि पतनम् वापि कारयेत् || वारुण्यां स्थापयेद् विष्णुमैशान्यां शंकरे भवेत् | अन्यथा त्विरयेद्यस्तु व्याधिशोकभयं भवेत् || दुर्भिक्षं कलहं घोरं सर्वहानिं तु निर्दिशेत् | मर्ममध्वे न कर्तव्यं रज्जुवेधञ्च वर्जयेत् || विधिवेधं भवेन्न्यस्त्वारणन्तु विनिर्दिशेत् | त्रिशूले शूलदं प्रोक्तं षट्कका तु क्षयमाप्नुयात् || मर्मे मृत्युमवाप्नोति रज्वो गर्भविनाशनम् | कृष्णे ग्रामनाशं स्यात् तस्माद्येतानि वर्जयेत् || प्. १७) सहस्रभूसुरैर्युक्तं ग्राममित्यभिधीयते | चातुर्वण सवास्तव्य नाना जातिसमन्वितम् || नल्लमल्ल समाकीर्णं नाटका गणिकैस्तथा | नगरन्त द्विजानीयान्नाना जाति समायुतम् || अनेक जाति संकीर्णं पोतना वासमपितम् | वणिक्जन समाकीर्णं पत्तनं विधिना बुधः || चतुरंग बलैर्युक्तं द्वारकेटसमन्वितम् | विविधैररत्नलोश्चैव युक्तन्तत् खेटकं भवेत् || ग्रामाद् द्विगुण विस्तारं नागरस्य वरानने | नगराद् द्विपत्तनं चैव द्विगुणं खेटकं भवेत् || एवं विधिक्रमेणैव कारयेत् सह सुन्दरि || * * * सुभवे तेषामिति शास्त्रस्य निश्चयः | इति ब्रह्मयामले शतसहस्रसंहितायां देवतास्थापनं नाम षष्ठः पटलः || ६ || प्रतिष्ठाविधिः | प्रतिष्ठाविधिं प्रवक्ष्यामि शृणुब्रह्मन्यथा क्रमम् | प्रासादस्याग्रतः कुर्यात् मण्टपञ्चतुरश्रकम् || उत्तमं मध्यमञ्चैव अधमं त्रिविधं तथा | चतुर्भिस्तोरणैर्युक्तं चतुर्द्वारञ्च शोभितम् || षोडशस्तंभसंयुक्तं दशद्वादश हस्तकम् | द्वात्रिंशत्स्तंभसंयुक्तं तथा षोडशहस्तकम् || प्. १८) * त्तरे पट्टिका युक्तं स्तंभैश्चैकोपशोभितम् | मण्टपं वा प्यथो वोपि सर्वालंकारशोभितम् || षोडशस्तंभसंयुक्तं दशद्वादशहस्तकम् | द्वात्रिंशत् स्तंभसंयुक्तं तथा षोडश हस्तकम् || दर्भैर्माल्यैः परिक्षिप्तं पुष्पमालावलम्बितम् | घण्टाचामरसंयुक्तं कुशदर्भाञ्च गोपलम् || पवित्रं कनकसंयुक्तं * * * * * * * | नवपञ्च त्रीणि संयुक्तमंगुलञ्च * गुलम् || नालं त्र्यंगुलं प्रोक्तं ग्रन्थिरेकांगुलं भवेत् | मातृगायत्रि मन्त्रेण योजयेत् तु विशेषतः || अण्डजन्मपरमाणेन अव्यक्तं देवगिराम् | * * * * * * * * वाष्टपत्रं सकर्णिकम् || सुवर्णे रजते ताम्रे अलाभे मृण्मयेऽपि वा | अभिन्नरुक्षस्फुटितैः कलशैः कालवर्जितैः || अकालमूलकलशैः सूत्रैरावेष्टितैरपि | सकूर्चैस्सापि धानैश्च सवस्त्रैर्वेष्टितैरपि || ईदृशैः नवभिः कुम्भैः शुद्धम्बु परिपूरितम् | शालिमुद्गप्रियंगानि यवसर्षपमेव च || कलशान्विन्यसेत् तत्र सर्वगन्धानि तानि तु | चतुर्दिक्षु न्यसेत् कुम्भान् पूर्वादि क्रमयोगतः || प्. १९) * * * वा शालि यवास्तिलान् कोणेषु विन्यसेत् | पञ्चरत्नेन संयुक्ता नवाक्षरेण मन्त्रवित् || मध्ये तु विन्यसेत् कुंभं वीरेशीतन्त्रमुच्यते | रक्ताक्षी विन्यसेत् पूर्वं करालीं दक्षिणे न्यसेत् || चंडाक्षी पश्चिमे न्यस्य महोच्छिष्ठोत्तरे न्यसेत् | अम्बिका चण्डिका चैव घोराघोरेश्वरी तथा || कोणेषु कलशान्यस्य शास्त्रदृष्टेन कर्मणा | स्वस्वेनैव तु बीजेन नवाक्षरयुतेन च || कलशं विन्यसेद् विद्वान् शूलमुद्रां प्रदर्शयेत् | गन्धपुष्पादिभिश्चैव वस्त्रयुग्मेन वेष्टयेत् || कलशान्ते तु मन्त्राणा प्रत्येकन्तु यथाक्रमम् | देव्याश्च प्रतिमं ग्राह्यं ताम्रजन्दारुकन्तु वा || स्थायिरूपञ्च कर्तव्यं क्षालयेच्छुद्धतोयकैः | वस्त्रयुग्मेन संपूज्य गन्धपुष्पादिभिर्यजेत् || प्रणवं विन्यसेच्चित्ते वदने मूर्तिविन्यसेत् | नवाक्षरं न्यसेत् पश्चात् प्रतिमांगे यथाक्रमम् | मुखे च हृदये शिरो नाभिस्तु गुह्यके || ऊरोश्च पादयोश्चैव पद्ममुद्रां प्रदर्शयेत् | हृदये हृदयं न्यस्य शिरश्चिरसि विन्यसेत् || प्. २०) शिखायान्तु शिखां न्यस्य कवचं तनमस्तके | अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् || सर्वांगन्तु न्यसेन्मन्त्री एकवीरी शरीरतः | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही चैव माहेन्द्री वीरभद्रगणाधिप | एकवीरी शरीरे तु विन्यसेद्वैकमुद्रया || वीरभद्रन्तु शिरसि गणाध्यक्षन्तु पादयोः | स्वस्वेनैव तु मन्त्रेण एकचित्तो दृढव्रतः || ब्रह्माणी तु मुखं न्यस्य हृदिमाहेश्वरी न्यसेत् | कौमारी गुदरे न्यस्य वैष्णवीन्नाभि मन्त्रके || वाराहीं कटिमध्ये तु जाना वैन्द्रीन्तु विन्यसेत् | उदरे विन्यसेत् सर्वं जगत्स्थावरजंगमम् || चन्द्रादित्यं न्यसेन्नेत्रं ललाटेक्षेरु विन्यसेत् | श्रोत्रे दिशन्तु विन्यस्य आकाशे हृदये न्यसेत् || पादयोः पृथिवीं न्यस्य त्रिमुर्तिश्चैव विन्यसेत् | देवा यक्ष यथा नागा किन्नराप्सरस्तथा || गतान् स्वस्वेन मन्त्रेण हृदये विन्यसेद् बुधः | एवं तस्य विधानेन हारकेयूर कल्पितम् || पूजयित्वा विधानेन आचार्यस्तु निवेदयेत् | शयनं कल्पयेत् तत्र कलशस्य च दक्षिणे || प्. २१) अण्डजैर्मुण्डजैर्वास्त्रैः कार्पासैः कंबलैः क्रमात् | तस्योपरि न्यसेन्नेत्रे देवदेवांगकैर्बुधः || कूर्चं तत्रैव विन्यस्य लक्षणेन विचक्षणः | एवं विन्यस्य विधिना एकवीरीञ्च शययेत् || नवाक्षरेण मन्त्रेण जयशब्दयुतेन च | प्राक्शिरन्तु कर्तव्यं पादयोरन्यथा कृतम् || देव्योपरि न्यसेद्वस्त्रं सदेशैर्युग्मतो हरम् | ईदृग्विधञ्च वस्त्रं वा नेत्र निर्वाणमेव वा || * * * * विधानेन गन्धपुष्पादिभिर्यजेत् | निवेद्यं दापयेत् तत्र स्मरणेन तु संयुतम् || कलशोदकेन संस्पृश्य हृदयेनाभिमन्त्रयेत् | होमोदये ततस्सर्वान् सर्वमन्त्रैर्यथा क्रमम् || मूर्तिपैर्लक्षणोपेतैरष्टभिस्तु यथा विधि | मन्त्रज्ञैः कुशलैश्शुद्धै ब्रह्मयामलतत्परैः || पारशैव कुलोद्भूतै मातृदिक्षो समन्वितैः | नांगहीनैर्न बधिरै नेत्रहीनैश्शठैस्तथा || नघ्रद्वैश्वा बालैश्च होमयेत् तुल्यवर्णजैः | आचार्य लक्षणं वक्ष्ये शृणुष्व चतुराननं || सर्वलक्षणसंपूर्णं समयाचारपालकम् | शक्तिव्रतधरं शान्तं नांगहीनं नरोगिनम् || प्. २२) एकवीरविधनज्ञं ब्रह्मयामल तत्परम् | मात्र तन्त्र क्रियायुक्तं मात्रतन्त्रविशारदम् || मातृमण्डलवेत्तारं मात्रस्फूर्ति विचारगम् | दीक्षासंस्कारयुक्तञ्च प्रतिष्ठाक्रमवित्तमम् || शुभदेशे समुत्पन्नं अभिषेक क्रियान्वितम् | एकवीरविधानज्ञं शक्ति व्रतधरं शुभम् || समुक्त पादनयनं कालमण्डलवर्जितम् | रक्तं रक्तोष्ठसंयुक्तं रक्तपाणिं विचक्षणं || मनोज्ञं वा प्रवक्तारं शास्त्रानुष्ठानतत्परम् | शीलाचारसमायुक्तं गुणासंभोगवर्जितम् || गुणाशान्तं समुद्भूतं सद्भिश्चैव तु संपदम् | सलक्षणैश्च संयुक्तमालोल दीर्घलोचनम् || मृदुपादक सग्रञ्च शुभकण्ठसमध्वलम् | एवं लक्षणसंयुक्तमाचार्यं विधिवत्सदा || बिल्वञ्च खदिरञ्चैव पलाशं वटमेव च | अश्वत्थोदुम्बरञ्चैव पद्मञ्चैव शरं तथा || वैकंगतोह्यपामार्गं अर्कञ्चैव यथाक्रमम् | अपामार्गं वास्तु होमे होमयेत् तत्र वित्तमः || अष्टोत्तरशतञ्चैव होमयेत् सर्व मूर्तिपः | आचार्य द्विगुणं हुत्वा समिधाज्यादिभिः क्रमात् || प्. २३) प्रत्येकाष्टशतञ्चैव होमयेत् सर्वमूर्तिषु | अष्टमूर्तिषु मन्त्रैश्च पृथक् वै होमयेद् बुधः || स्वतामपदसंयुक्तं नवाक्षरसमन्वितम् | स्वरण्यन्तससंयुक्तं होमयेन्मूर्ति धारकान् || पृथिवी आपिनी ते जीव यशखड्गिनी तथा | सौरी चन्द्री तथा पात्नी अष्टमूर्तिः प्रकीर्तिताः || तासां मूर्तिस्तु मूर्ध्नीनां मारयेन्मूर्तिवारकः | पृथिवी पूजनं पूर्वं आपिनी वारुणेन तु || तेजी अग्नि प्रदेशे तु वायवी वायुगोचरे | खड्गिनी नैर्-ऋते भागे सौरी ईशानगोचरे || चन्द्री सोमे तु विन्यस्य ह्यस्ती दक्षिणे न्यसेत् | एवं न्यस्त्वा न विधानेन चाष्टमूर्तिषु योजयेत् || मूर्तीनाञ्चैव सर्वासां स्वनाम्ना चैव होमयेत् | अवर्गं जुहुयात्पूर्वे कवर्गमग्नि गोचरे || चवर्गं याम्यदेशे तु वर्गत्त्रैन्नैर्-ऋते हुतम् | तवर्गं वारुणञ्चैव पवर्गं वायु गोचरे || पवर्गं सोमदेशे तु षवर्गमीशगोचरे | एतैस्सर्वैस्तु संयुक्तमाचार्यो होममारभेत् || पूर्ववत्प्रक्रमादेव लोकपालान्न्यसेत् क्रमात् | सप्तजिह्वा न्यसेस्तस्य यथास्थाने यथाक्रमम् || प्. २४) अष्टमस्य तु खण्डस्य तृतीये लक्षणान्वितम् | सप्तमस्य तु खण्डस्य द्वितीय लक्षणान्वितम् || षष्ठेनैव समोपेतं मूर्ध्नि बिन्दु सुशोभितम् | बहुरूपा भवेज्जिह्वा न्यस्तव्या संगरेदिशि || सप्तखण्डा तृतीया च द्वितीयेन समन्वितम् | षष्ठेन तु समायुक्ता बिन्दुना परिभूषितम् || रजताभाजसा जिह्वा सैन्द्रे चैव व्यवस्थितम् | द्वितीये चाष्टमखण्डान्ये द्वितीयकम् || षष्ठेनैव समारूढ चैन्द्र खण्डान्यथा क्रमम् | बिन्दुनोपरिसंयुक्ता रक्ता जिह्वा च संभवेत् || अग्निभागे स्थिता सा च सक्तपापविनाशिनी | खण्डस्य चाष्टमस्यैव मातीया शान्तिदा शुभा || सप्तमस्य तु खण्डस्य द्वितीयेन समन्वितम् | षष्ठेनैव समयुक्तं बिन्दुनोपरिभूषितम् || कृष्णाख्या तु भवेज्जिह्वा नैर्-ऋते दिशि संस्थिता | सप्तमस्य तु खण्डस्य चादिबीजासु शोभना || पुनरग्निसमायुक्तं षष्ठस्वरसमन्वितम् | बिन्दुनोपरिसंयुक्तं सर्वकामार्थसाधनम् || सुप्रभा शोभना जिह्वा वारुण्यं दिशिसंस्थिता | सप्तमस्य तु खण्डस्य चादिबीजा शुभंकरी || प्. २५) द्वितीयेन समायुक्ता षष्ठबीजेन संयुता | विन्दुनोपरिसंयुक्ता सदाविजयवर्धनी || अतिरक्ता भवेज्जिह्वा वायव्यां दिशिसंस्थिता | सप्तजिह्वा समाख्याता शास्त्रदृष्टेन कर्मणा || एवं सप्तविधां जिह्वा चाग्निकुण्डे प्रयोजयेत् | एवं वै स्थण्डिले जिह्वा योजयेद् देशिकोत्तमः || एतैस्सर्वैस्समायुक्तः आचार्यो मन्त्रहोमयेत् | समिद्धुत्वा स्पृशेत्पादमाज्यं हुत्वा यदि स्पृशेत् || चरुं हुत्वा स्पृशेद्बिन्दुं तिलान् हुत्वा हुतिस्पृशेत् | लाजं हुत्वा मुखं स्पृश्य शूलमुद्राभिमन्त्रयेत् || कृगाक्षरे स्पृशेत् पश्चात् क्ष्वकाकादीनि वै बुधः | हुत्वा हुत्वा स्पृशेन्मन्त्री पादादि शिरसान्तकम् || हृदये हृदयं स्पृश्य शिरश्शिरसि विन्यसेत् | शिखायान्तु स्पृशेन्न्यस्य कवचं स्तनमध्यकम् || स्तनमध्यं स्पृशेत् मन्त्री सर्वमन्त्रैर्यथा क्रमात् | आज्यं हुत्वा भवेत् तत्र हृन्मन्त्रादि यथाक्रमम् || पञ्चपञ्चभिराहुत्या षडंशेन विधुर्बुधः | एकवीरशतं हुत्वा नवाक्षरेण बुद्धिमान् || चतुर्मूर्तिश्चतुर्हत्वा अष्टमूर्तिस्तु चाष्ठधा | द्वादशैव तु मुनीनां द्वादशाहुतिरुच्यते || प्. २६) षोडशैव तु मूर्तीनां षोडशाहुति होमयेत् | द्वात्रिंशन्मूर्तिभिश्चैव द्वात्रिंशाहुतिरुच्यते || तत् तत्पूरणहोतव्यं स्वनामपदसंयुतम् | योगिनीनां दशं हुत्वा परिवारेण पञ्चधा || एवं हुतं विधानेन वारिणा प्रोक्षयेद् गृहम् | पञ्चगव्येन संप्रोक्ष्य नवाक्षरेण बुद्धिमान् || बाह्ये चाभ्यन्तरे चैव परिवार ग्रहेषु च | प्रोक्षयेत् पञ्चगव्येन पश्चात् स्थापनमारभेत् | अधिवासन वेलायां पशून् सप्त च पातयेत् | रुधिरं मांसमस्थिञ्च होमयेन्मूलमन्त्रतः || ततो दिशा बलिं दद्यात् रक्तमांसैश्च विन्यसेत् | शंखभेर्यादिभिर्घोषैर्डमरुकैश्च काहलैः || मातृघोषैश्च संयुक्त पटहमदलसंकुलैः | नृत्तगीतादिभिस्तत्र ह्रादयेत् तत् प्रदक्षिणम् || अधिवासविधि ह्येतन्ना ब्रह्म उदाहृतम् | सुमुहूर्ते तु संपन्ने प्रभाते स्थापनं भवेत् || रत्नादिविन्यसेत्पूर्वं पश्चात् स्थापन मारभेत् | रत्नानि लोह धान्यानि बीजान्योषधयस्तथा || क्रमेण विन्यसेत् ब्रह्मन् शास्त्र दृष्टेन कर्मणा | वज्रन्तु मरकतञ्चैव मौक्तिकं पद्मरागकम् || प्. २७) वैडूर्यं पुष्परागञ्च इन्द्रनीलं प्रवालकम् | गोमेदकन्तु माणिक्कं नवरत्नं प्रकीर्तितम् || नवाक्षरेण मन्त्रेण पूर्वादिक्रमयोगतः | सुवर्णरजतं ताम्रमायसं त्रपुसीसकम् || आरुढं च विपुलं पूर्वादि क्रमतो न्यसेत् | हरितारं गञ्जकञ्च माक्षिरं गुनपीतथा || सौराष्ट्र गैरिकञ्चैव वत् * * * गरन्तथा | नवाक्षरेण मन्त्रेण पूर्वादि क्रमतो न्यसेत् || तिलसर्षप मुद्गानि व्रीहिनिष्पावकानि च | यवमाष प्रियंगूनि नवाक्षरेण विन्यसेत् || लक्ष्मी च सहदेवी च विष्णु क्रान्ति बलं तथा | गरिकञ्जीव्रवल्ली च वाह्री च पाक्सव चलान् || नवाक्षरेण मन्त्रेण क्रमेण विन्यसेद् द्वये | कारयेत् तु नवपुटं ताम्रैणैव शोभितम् || ब्रह्मस्थानं न्यसेन्मन्त्री एकत्वञ्च न कारयेत् | कूर्मञ्च पृथिवी चैव शंखञ्चैवात पत्रिकम् || वज्रञ्चैव तु शूलञ्च गदा खड्गन् तथैव च | नवाक्षरेण मन्त्रेण स्मरणेनैव संयुतम् || न्यसेद्वीजानि मार्गञ्च रजान्योषधि लोहकान् | ब्रह्मस्थानं न्यसेत् पूर्वमायुरारोग्यदं शुभम् || प्. २८) एवं न्यस्य च विधिना पायसेन तु लेपयेत् | सुमुहूर्ते च सुदिने शंख दुन्दुभि निस्वनैः || स्थापयेद् विधिनाचार्यो ब्रह्मस्थानन्तु कौतुकम् | कूटाक्षरं नवैर्बीजैर्नवाक्षर युतैरपि || सुमुहूर्ते तु कर्तव्यं ऊर्ध्वस्थापनमाचरेत् | अर्घ्यन्दत्वा ततो मन्त्री वीरध्यान परायणः || पशून्वै घतयेत् तत्र प्रतिष्ठा कालिके तथा | सपुत्रं वा जपैर्दर्वैः यजमान पुरस्सरैः || कवितुकस्य तु संमन्त्र्यस्य स्थापयेद् विधिना तथा | देवभागं न्यसेत् स्थाप्य ब्राह्मे चर्चां प्रकल्पयेत् || कृताक्षर नवबीजैर्नवाक्षरयुतैरपि | स्मरणेन समायुक्तं त्रिभिर्जप्तं प्रवेशयेत् || अर्घ्यन्दत्वा तु तत्रैव भद्रकालीं प्रवेशयेत् | सकलं निष्कलं रूपं ध्यात्वा देव्यः पुनर्न्यसेत् || आवाहयेत् ततो देवीं भीमरूप कपालिनीम् | त्रिशूल खड्ग खट्वांग खेटकैश्च समन्वितः || घण्टाडमरुकञ्चैव नागपाश समन्विता | मुण्डमालाधरीं देवीं त्रिणेत्रिं रक्तलोचनीम् || श्यामवर्णाञ्च सुघनीं रौद्रीं चैव परात्पराम् | भूतप्रेत गणैस्सर्वै मातृयोनि गणैर्युताम् || प्. २९) एतैस्सर्वैः परिभूतैः देवीमावाहयेद्बुधः | अचिन्त्यां परमां सूक्ष्मां अव्यक्तां अक्षयां दयाम् || नानारूप जगद्योनिं विश्वमूर्तिं महेश्वरीम् | अनेक वदनान्देवीं नैकहस्तां महेश्वरीम् || नैकरूप घृतश्यामांमनेका घ्राणसंयुताम् | अनेकश्श्रोत्रसंयुक्तमनेकस्तनसंयुताम् || अनेक मुखसंयुक्तां समुद्रांबरभूषिताम् | इन्द्रश्रपविचित्रांगी विन्यसेत् तन्त्रवित्तमः || कलशोदकेन संप्रोक्ष्य स्वापि रूपन्तु विन्यसेत् | परिवारन्यसेच्चैव स्वस्वेनैव तु मन्त्रवित् || देव्योदकेन संप्रोक्ष्य न्यसेत्स्वरलिपिन्यथा | निवेदयेत् तदा देहमर्चयित्वा विधानतः || पायसं कृसरान्नञ्च पीतान्नञ्च गुलोदनम् | शुद्धान्नघृतसंयुक्तन्दधिमधुघृतान्विताम् || भक्ष्य भोज्यञ्च पायञ्च लेह्यं शोष्यं तथैव च | बौलकामण्डका चैव पूरिका घृतकन्तथा || मधुमांसञ्च पानञ्च गुलपिष्टं मधुन्तथा | त्रिविधा तु भवेद् देवी लक्षमांसेन संयुता || निवेदयेद् विशेषेण अर्घ्यैश्च बहुकादकान् | दिशाबलिं ततो दद्यात् मांसानां लाजसंयुतम् || प्. ३०) आचार्यं पूजयेत् संम्यक् गोरुमिकाञ्चनादिभिः | प्रतिष्ठा विधायां प्रोक्तं राष्ट्रशान्त्यर्थकारणम् || गर्भगेहे तु मतिमान् सप्तकोष्ठानि कारयेत् | प्रतिष्ठाप्य पूजयेत् तंत्र वित्तम * * * * || ध्रुवार्चादेविकं स्थाप्य भूतात्मा रणभागिके | पैशान् पैशातु भागेतु स्वार्पयेत् तन्त्रवित्तमः || एवं तु त्रिविधं लेख्यं यथाविधिपुरस्सरम् | इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिष्ठाविधिर्नाम सप्तमः पटलः || ७ || अतः परं प्रवक्ष्यामि न्यासकर्म विधिक्रमात् | न्यासानां त्रिविधं प्रोक्तं सर्वकामार्थ साधनम् || सृष्टिसंहारभेदञ्च स्थितिन्यासं तथैव च | मूर्ध्नादि पादपर्यन्तं सृष्टिन्यासं प्रकीर्तितम् || पादादि च शिरान्तन्तु न्यासञ्च संहृतिर्भवात् | नासादि हृदयान्तन्तु स्थितिन्यासं तदुच्यते || प्रथमन्तु जलस्नानं मृदास्नानमतः परम् | जपस्नानविधिं पश्चात् ध्यानयोगी समाचरेत् || पद्मासनन्तु कर्तव्यमञ्जली पुटमुद्रया | पूरकं पूरयेत् पूर्वं ब्रह्मा तत्राधिदेवता || प्. ३१) कुम्भकं हृदिमध्यस्थं देशं निष्कल भासितम् | निष्कलं परमाशक्ति मन्त्रासनसमन्वितम् || कालीं चैव कराली च विराली मालिनी तथा | हृत्पुण्डरीकमध्ये तु मूर्तिं ध्यात्वा यथाक्रमम् || पश्चात् करांगुलीन्यास निर्मलाक्ष समन्वितम् | नागहस्तसमं कुर्यात् मणिमण्डसमन्वितम् || दक्षिणांगुष्ठकं ब्राह्मं तर्जनी तु महेश्वरी | मध्यमांगुलकौमारी वैष्णवी च त्वनामिका || कनिष्ठिका च वाराही दक्षिणांगुल विन्यसेत् | वामहस्ते कनिष्ठादि इन्द्राणिन्तत्र विन्यसेत् || अनामिकायाञ्चामुण्डा वीरभद्रा तु मध्यमा | तर्जनी तु महाविघ्नं कराल्यंगुष्ठविन्यसेत् || एवं सृष्टिक्रमं कुर्यात् संहारं तदनन्तरम् | वामांगुष्ठादि चारभ्य नवशक्तिषु विन्यसेत् || शान्ती चांगुष्ठविन्यासे सोणी तर्जनि विन्यसेत् | खड्वांगी मध्यमं कुर्यात् अनामी चैव तु नासिका || कनिष्ठिका न्यसेत् कान्तिमंगुल्यग्रे प्रतिष्ठितम् | मौक्तिकी कनिष्टिका न्यस्य अग्रे च तर्जनीं न्यसेत् || क्रोधी चांगुष्ठविन्यस्य स्थिति न्यासं प्रकीर्तितम् | अंगुल्यं प्रणवं न्यस्य फट्कारं तर्जनीं न्यसेत् || प्. ३२) फट्कारं मध्यमांगुल्यं फट्कारञ्चैव नामिका | कनिष्ठांगुलि हुंकारं कनिष्ठाकारमुच्यते || अनेकायान्तु फट्कार फट्कारं मध्यमं न्यसेत् | श्वेतन्तु तर्जनीं तस्य हुंकारांगुष्ठविन्यसेत् || दक्षिणे कटिमध्ये तु चण्डी रौद्री तु विन्यसेत् | वामे तु मणिमध्ये च चण्डी रौद्री तु विन्यसेत् || वामे तु मणिमध्ये तु भैरवीं तत्र विन्यसेत् | दक्षिणे बहुवीरे तु एकवीरे तु वामके || हस्ताभ्याक्ताल पृष्ठे तु अर्कमात्मे तु विन्यसेत् | करन्यासमिदं प्रोक्त महान्यासमतः परम् || प्रणवं विन्यसेन् मूर्ध्नी ब्रह्मा तत्राधि दैवतम् | खकारे तु ललाटं स्यात् स्कन्दस्तत्राधि दैवतम् || वकारं वक्त्रमध्ये तु विघ्नन्तत्राधि दैवतम् | मकारं हृदये मध्ये दुर्गां तत्राधि दैवतम् || सद्धस्तं पुरुषं देवं भकारं तत्र विन्यसेत् | एवं सृष्टिमहामुद्रा सृष्टिन्यासन् तदुच्यते || ओंकारं पादयोर्न्यस्य भूमिस्तत्राधि दैवतम् | ज्रेकारं जानुमध्ये तु दुर्गासूत्रासु दैवतम् || द्रेकारं वह्निविन्यस्य उमास्तत्राधि दैवतम् | ह्रेंकारं स्तनमग्रे तु श्रियै तत्राधि दैवतम् || प्. ३३) ह्रोंकारं चैव बाहुभ्या ज्येष्ठं तत्राधि दैवतम् | ह्रेंकारं चक्षुविन्यासं सरस्वत्याधि दैवतम् || स्कन्ददेशे तु फट्कारं इति न्यासाधि दैवतम् | पृष्ठे चैव हुंकारं पालिं तस्याधि दैवतम् || पदन्यासन्तु हृदये हकारं नायशक्ति स दैवता | एतेषां च स्थिति न्यासमुष्टिकं बिन्दुमुद्रया || वीरभद्रन्तु मन्त्रेण शिरसोपरि विन्यसेत् | तदूर्ध्वं भक्तविन्यासं स तु ध्यानरूपिणम् || विघ्नमन्त्रान् ललाटस्यात् तस्योर्ध्वं पदविन्यसेत् | ब्रह्माणी मूलमन्त्रेण चतुश्यान्तत्र विन्यसेत् || मन्त्रोपरि तथा चतुर्वक्त्रा चतुर्भुजा || एवं ध्यात्वा तु मनसा ब्रह्माणी तत्र विन्यसेत् | माहेश्वरीति मन्त्रेण आस्य मध्ये प्रतिष्ठितम् || तस्योर्ध्वमीश्वरी चैव चतुर्बाहुस्त्रिणेत्रिणी | कौमारी मूलमन्त्रेण कर्णाग्रे तत्र विन्यसेत् || मन्त्रस्योपरि विन्यासं कामारी तु चतुर्भुजा | वैष्णवी मूलमन्त्रेण बाह्याभ्यन्तर विन्यसेत् || मन्त्रोपरि च विन्यासं वैष्णवी चैकहस्तिनी | वाराही मूल मन्त्रेण हृदयञ्चैव विन्यसेत् || तस्य मन्त्रोपरि न्यासं वाराही च चतुर्भुजा | इन्द्राणि मूलमन्त्रेण नाभि मध्ये प्रतिष्ठितम् || प्. ३४) तस्य मध्योपरि न्यासं इन्द्राणी वज्रहस्तिनी | चामुण्डी मूलमन्त्रेण सर्वांगेषु प्रतिष्ठितम् || तस्य मन्त्रोपरि ध्यात्वा चामुण्डा उग्रवेषिणी | एवं मातृमयं ध्यात्वा यागपूर्वे प्रवर्तते || सकलं निष्कलञ्चैव निष्कलं सकलनिष्कलम् | सकन्तु शरीरस्थम्महानपि यथाशक्तियन्तारमनुवर्तते || तथैवेन्द्रिय संघातञ्चित्तमेवानुवर्तते | दृष्ट्वा तार्क्ष्यं यथा सर्पं कम्पतेथ मुहुर्मुहुः || अमन्त्रमर्चकन् दृष्ट्वा कम्पते शिवमुत्सया | शिवशिक्षा समायोगात् शिवहृष्टमिहोच्यते || पारशवकुले जातो स्नानं कृत्वा विशेषतः | क्षौरञ्च दन्त शुद्धिञ्च मन्त्रस्नानन्तु लेपनम् || उष्णीषञ्चोपवीतञ्च शुद्ध वस्त्रोत्तरीयकम् | कर्णकुण्डलसंयुक्तं हेमांगुल्य पवित्रकम् || प्रवालमौक्तिका कान्तं रुद्राक्षमालिकायुतम् | त्रिपुण्ड्रन्तु विशेषेण चन्दनेनानुलेपनम् || भेरिका पोषणञ्चैव पारशैवमिति स्मृतम् | प्रोक्षणे च प्रतिष्ठायां उत्स्ववे बलिकालके || दीक्षया मालयारंभे बालस्थाने तथैव च | यावत् कर्म समारभ्य भेरिकां ताडयेत् क्रमात् || प्. ३५) भेरिकायोष्टहीनञ्च राजराष्ट्रं विनश्यति | अन्यथा तामुनञ्चैव राजराष्ट्रं विनश्यति || तद् दोष शमनार्थाय सप्तशुद्धि समाहरेत् | अन्नपाद्यसमायुक्तं घोषयेत् सर्व कर्मसु || इति श्रीब्रह्मयामले शतसहस्रसंहितायां न्यासविधिं नाम अष्टमः पटलः || ८ || पीठम् | वक्ष्येहं बलिपीठस्य लक्षणं क्रमशोधुना | मूलगेहे तलोत्थेयं भूतपीठस्य विस्तृतम् || पादबाह्ये तु मध्ये वा पादाभ्यन्तरमेव वा | विस्तारमुत्सेधमर्धाधिक मथापि वा || पादाधिकं तथा कृत्वा विधिपीठस्य चोच्छ्रयम् | होमादि कर्णिकान्तञ्चेत् द्वात्रिंशदंशकं भवेत् || कुमुदोच्चन्तु भूतांशं कंपेमेकांशमुच्यते | षडंशं चरणोच्चं वा कम्पमानं शिवांशकम् || कलांशन्तु महापद्मं पद्मोत्सेधं युगांशकम् | पक्षोत्सं कर्णिकोत्सेधं होमादुपरि विन्यसेत् || अथवान्य प्रकारेण द्वारमानविधिं शृणु | हारोच्छ्रेयं तारं पादहीनं द्विपादकम् || प्. ३६) उत्तमाधममध्यञ्च तुंगं पूर्वोक्तमाचरेत् | होमाकर्णिक पर्यन्तमष्टाविंशति संखया || उपानोच्चं कलोच्चं वा रसांशञ्च प्रमाणकम् | कुंभोत्सेधं शरांशं स्यात् कंअमेकांशमुच्यते || युगांशं कण्ठमानन्तु शिवांशं कम्पमूर्ध्वकम् | शिवाक्ष्यंश मेहपट्टी पक्षांशं वा विशेषतः || वेदांश पद्मन्तु विन्यस्य शिवांशं कर्णिकोदयम् | पीठतारं युगाश्रन्तु निष्कलस्य शरीरकम् || स्थितं वै आत्मकं विद्यात्सकलञ्चलितो भवेत् | आयुक्षा तु समाख्याता आत्मनेन तु दृश्यते || क्षेत्रं क्षेत्रस्य रूपेण विभेदा पठ्यते मया | तिलमध्ये स्थितं तैलं क्षीरमध्ये यथा ध्रुवम् || तिलवत् क्षेत्रमित्याहुः तैलं क्षेत्रस्य उच्यते | उभयोरितरं नास्ति आकाशविविभुन्नयेत् || मातृकं क्षेत्रमित्युक्तं क्षेत्रज्ञोथ प्रभुरुच्यते | अक्षरं परमाधारमधेयं शक्तिरुच्यते || अनुनात्मानमित्युक्तं आत्मास्तु स भैरवम् | मन्त्रं परमाशक्तिश्शक्ति भैरवमुच्यते || भैरवं भैरवोद्भूतं शक्त्यामुन विवित्रयम् | अन्यथा देवता शक्ति भैरवेषु समुद्भवा || प्. ३७) नानाभेदस्वरूपाणि नानाशास्त्रकलां धरेत् | एवं शक्त्या भवेद् ब्रह्मन् ब्रह्मशक्ति ततः परम् || मातृदीक्षा क्रमञ्चैव अर्चनं नात्र कारयेत् || इति ब्रह्मयामले शतसहस्रसंहितायां पीठलक्षणं नाम नवमः पटलः || ९ || स्नानम् | अथातस्संप्रवक्ष्यामि स्नानकर्मविधिक्रमम् | आग्नेयं वारुणं स्नानं आतपं द्विचतुर्विधम् || आग्नेयं दीक्षिता स्नाने वल्मीके दर्भमुलके | नदीकूप तटाके वा अन्येभ्यश्चैव मन्त्रवित् || तैलं मलदन्तकाष्ठ शुचौ देशे तु निक्षिपेत् | प्रक्षाल्य पाणिपादेन दन्तकाष्ठञ्च कारयेत् || उपस्पृश्य शुचिस्तस्मिन् स्नानात्संपारशैवकः | सद्योज मृत्तिकां गृह्य वामेन क्षेपणञ्चरेत् || अभिमन्त्रेण घोरेण वक्त्रेणैव त्रिभागिकम् | निवेदनमीश मन्त्रेण विघ्ननाशाय साधक || भागमेकं भवेद् दिक्षु भागमेकस्य चांभसि | संगृह्य लिख्य चात्मानं कुर्यात् स्नानं यथाक्रमम् || गंगा च यमुना चैव कोजिनी काण्ठकी तथा | सिन्धुस्सरस्वती चैव सिन्धो पञ्चनदी स्मृता || प्. ३८) चतुस्सागरमध्यस्थ ध्यानन्तु सलीलं तथा | सर्वतीर्थानि पुण्यानि अस्मिन् तिष्ठन्तु वांभसि || गंगाह्रदं जपेत् पूर्व पश्चाच्छ्रुक्ष्ये तु मुत्तमम् | पावणं सर्वतीर्थेभ्यो शिवतीर्थन्तु यद्भवेत् || परिपूर्णाञ्जलिं कृत्वा शिरस्योपरि निक्षिपेत् | निमग्नदण्डवत् तत्र स्मरेदीशानमुत्तमम् || उत्तीर्य सलिलात् पश्चात् सद्योजातमनुस्मरन् | निष्क्रम्य जलमध्यात् तु उपविश्योत्तरं मुखम् || विधिना चम्य गायत्री लोचनादि तलं स्पृशेत् | प्राणायाम त्रयं कृत्वा ध्यायेद्धृदयमं शिवम् || निरोधाज्जायते वायुर्वायोरग्निस्तु जायते | तपो नामापि जायन्ते ततोन्तश्शुद्धिरुच्यते || बहिरभ्यन्तरे शुद्धे शिवहस्तन्तु कारयेत् | पश्चादात्म शिवं कुर्यात् त्रितत्व सहित द्विज || उपस्पृश्य जलं तत्र कूर्चहस्ते जलं स्पृशेत् | देवानृषि पितॄंश्चैव क्रमेणैव तु तर्पयेत् || ध्यानमार्गं समाप्तेन साधकस्य विधीयते | जलस्नं पुरा कृत्वा भस्मसानं यथाक्रमम् || श्वेतं रक्तं तथा कृष्णं कपिलं जरयाक्रमात् | गोमयेन सुसंग्राह्य ओंकारमभि मन्त्रयेत् || प्. ३९) नकारं स्थापनं कृत्वा मकारं शोधयेत् क्रमात् | शिकारं मुष्टिकां कृत्वा वकारं शोधयेत् क्रमात् || यकारमग्नि दग्धन्तु ओंकारं गृहसाधकः | भस्मभूतं तथा कृत्वा पुनस्संस्कार कर्मणि || पात्रन्तु स्थापयेत् तत्र अग्निना दहेन क्रमात् | पञ्चाक्षरं ततो जप्यमन्य पात्रस्य संग्रहम् || गन्धपुष्पसमायुक्तं शुद्धदेशेन दापयेत् | अमृतस्वत्परं बीजं याम्यं संस्पृश्य नित्यशः || दीक्षिता पूजयेन्नित्यं सर्वपापहरं परम् | ज्ञानदीक्षा तपोदीक्षा मन्त्रदीक्षा क्रमेण तु || ज्ञानदीक्षा तु विप्राणां तपो दीक्षा नृपस्य तु | मन्त्रदीक्षा तु वैशस्य शूद्रस्यैव तथैव च || अन्येषाञ्चैव जातीनां शूद्राणाञ्च तथैव च | अन्येषाञ्चैव जातीनां कर्मयोग्यं न कारयेत् || दीक्षा क्रमेण कर्तव्यं गुरुमाराध्य वर्तते | अग्निमाता पितारुद्र दीक्षितो यस्य पूजकः || तस्य जन्तु कुलोजात पूर्वजन्म विवर्जितः | मण्डले स्थंडिले चैव स्फटिके वा मणिर्यथा || भित्ति चित्रपटे वापि हृदये वापि कारयेत् | पूजयेद् वापि पिण्डात्मा ध्यानं कूर्वित साधकः || प्. ४०) ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः | शैवं पाशुपतं सोम त्रय सिद्धान्तमेव च || पूर्वञ्च दक्षिणञ्चैव पश्चिमं चोत्तरं तथा | ऊर्ध्वमूर्ध्नाभिसंयुक्तमीशानं परिकल्पयेत् || ईशानपूर्वतो मूर्तिं ईश्वरो चैव दक्षिणे | पश्चिम ब्रह्ममूर्तिस्तु उत्तरे तु शिवस्तथा || ऊर्ध्वं सदाशिवं चैव पञ्चमूर्तिरिदं क्रमात् | तत् तन्मुखेन दीक्षाया तत् तद्भावन्तु पूजयेत् || सृष्टिस्थितिश्च संहारं मूर्तिभेद क्रमेण तु | ब्रह्माणं पूजयेन्नित्यं भस्मोद्धूलित विग्रह || सर्वसंग परित्याज्य एकत्वं भावयेत् क्रमात् | विष्णुञ्च पूजयेन्नित्यं जपहोम क्रियादिभिः || गृहस्थस्य विशेषेण दीपाकार स उच्यते | दीक्षितानाञ्च सर्वेषां नरनार्यस्सुभक्तितः || त्र्यंगुल्यन्तु परिक्रम्य त्रिपुण्ड्रस्सविधीयते | त्र्यंगुलं परिधे यत्तु सर्वेषां च विशेषतः || एवं विधि क्रमेणैव पूजयित्वा विशेषतः | एकत्वं भावयेत् तत्र कुलजातस्समाप्नुयात् || इति ब्रह्मयामले शतसहस्रसंहितायां दीक्षाभेद शुद्धस्नानविधिर्नाम दशमः पटलः || १० || प्. ४१) मातॄणामर्चनं वक्ष्ये श्रूयतां च वरानने | अहरहार्चनं वक्ष्ये अहः पापविनाशनम् || ग्रामशान्तिमिमं श्रुत्वा रक्षश्शत्रु विनाशनम् | आयुश्श्रीपुत्र वृध्यर्थं धनधान्य विवर्धनम् || आराधन विधिं देव्यै स्त्रीशूद्राश्च वर्जयेत् | ग्रामे वा नगरे वापि पत्तने केटकेपि वा || मंत्रः स्नानं ततः कृत्वा भस्मस्नानं ततः परम् | उत्तराभिमुखो भूत्वा ध्यानं कुर्वीत साधकः || तन्नामकस्य मन्त्रेण पूर्वादीनि यथार्चयेत् | अर्चयित्वा यथान्यायं गन्धपुष्पादिभिः क्रमात् || द्वारस्थो योगिनीनां वा स्नानादग्निस्वरूपिणी | पुंलिंगी गोमरीची च उग्री च सुमुखी तथा || विजयी जृंभिणी चैव इत्येते द्वारयोगिनी | गन्धपुष्पादिभिर्धूपैः स्वनाम्ना चार्चयेद् बुधः || शुद्धिनी पूर्वदेशे तु आग्नेययान्तु सुकेशिनी | विषुकण्ठी च यामे तु नैर्-ऋत्यां सुन्दरी तथा || वारुण्यां जावली देवी वायव्यां कोटराक्षसी | सोमेस्तदर्शिनी देवी ईशान्यां शत्रुमर्दिनी || दण्डकुण्डोदरी भीमी कीडी विजयविन्यया | व्यालामुखी विरूपाक्षी राजदेवी रशक्तया || प्. ४२) नीलकेशी विकर्णी च व्यालकेशी तथैव च | उग्रपैशाचिनी देवि वेतालि च नामतः || इन्द्रश्चाग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा | वायुसौम्यमीशाने कौबेर्यां शंकरी तथा || विघ्नेश वीरभद्रञ्च ब्राह्मी माहेश्वरी तथा | कौमारी वैष्णवी चैव वाराही चेन्द्राणी तथा || चामुण्डी चैव नामानि मातॄणामेव तत्तत् | तत् तद्गायत्रि मन्त्रेण अर्चयित्वा यथाक्रमम् || शुक्लवासञ्च वीरञ्च ब्रह्माणी सितवाससा | ईश्वरी श्वेतवासा तु कुमारी सिन्धुवाससा || वैष्णवी पीतवासास्तु वाराही कृष्णवाससा | इन्द्राणि च दुकूलन्तु चामुण्डी रक्तवससा || विघ्नेशं खड्गवासास्तु प्रत्येकं वस्त्रमुच्यते | मुखं हिरिबेरञ्च ब्रह्माणी गन्धमुच्यते || ईश्वरीमाञ्च गन्धञ्च कौमारी कुंकुमं तथा | वैष्णवी राजकस्तूरी वाराही च नियासकम् || आर्द्रमेषञ्च इन्द्राणी चामुण्डी रक्तचन्दनम् | शुक्लचन्दन लेपे तु वीरविघ्नं तथार्चयेत् || केतकी जातिपुष्पन्तु गणेशञ्च तथार्चयेत् | करवीरं वीरभद्र ब्रह्माणी श्वेतपद्मकम् || प्. ४३) श्वेतार्कमीश्वरी चैव कौमारी कुमुदन्तथा | वैष्णवी तुलसी चैव वाराही मल्लिका तथा || जातिपुष्पन्तु शूद्राणि चामुण्डा रक्तपद्मकम् | गुग्गुलां वीरभद्रञ्च शितारी च चतुर्मुखम् || ईश्वरी अगरुञ्चिव कौमारी देवदारुगम् | वैष्णवी वनधूपञ्च वाराही आज्य धूपकम् || इन्द्राणी चतुनिर्यास चामुण्डी जातुधूपकम् | विघ्नेशमगरुञ्चैव शीतारी सर्व देवता || गन्धमन्त्रन्तु गन्धञ्च पुष्पमन्त्रन्तु पुष्पकम् | धूपमन्त्रन्तु धूपञ्च दीपमन्त्रन्तु दीपकम् || तत् तद्गायत्रि मन्त्रेण तत् तन्मूलं जपेत् क्रमात् | तत् तद् बिम्बन्तु संपूज्यमावाह्याभ्यर्चयेत् क्रमात् || शुद्धान्नं वीरभद्रञ्च विघ्नेशन्तु निवेदयेत् | ब्रह्माणी पायसान्नञ्च ईश्वरी कृसरान्नकम् || हरिद्रान्नञ्च कौमारी वैष्णवी च गुलान्नकम् | वाराही चैव माषान्नं इन्द्राणी मुद्गमन्नकम् || रक्तान्नञ्च तिलान्नञ्च चामुण्डी च निवेदयेत् | नैवेद्यमन्त्रमुच्चार्य तत् तदेवं निवेदयेत् || ऊर्ध्वं पृथक् पृथक् वक्ष्ये श्रूयतां चतुरानन | विघ्नेशं वीरभद्रञ्च समिद्बिल्वं तथोच्यते || प्. ४४) ब्रह्माणी च पलाशञ्च अर्कमाहेश्वरी तथा | औदुम्बरीन्तु कौमारी अश्वत्थं वैष्णवी तथा || वाराही प्लक्षमेवं स्यात् इन्द्राणी खदिरन्तथा | न्यग्रोधञ्चैव चामुण्डी समिधस्तत्र कीर्तिताः || ऊर्ध्वं पृथक् पृथक् वक्ष्ये हूयते समिधस्तथा | एतेषामप्यलाभे तु पलाशं सर्व हूयते || इति ब्रह्मयामले शतसहस्रसंहितायां मातृर्चनं नाम एकादशः पटलः || ११ || अग्निकार्यम् | अथातस्संप्रवक्ष्यामि अग्निकार्यविधि क्रमम् | स्थण्डिलञ्चापि कुण्डं वा चाग्नीनां तु गृहं द्विधा || अश्रं योन्यर्ध चन्द्रञ्च अश्रं वर्तुलं तथा | षडश्रं पद्ममष्टाश्रं पञ्चाश्रन्तु यथाक्रमम् || चतुरश्रा कृतीकुण्डं सर्वकामार्थ साधनम् | प्रजा ऋद्धिकरं योनौ चार्धचन्द्ररिपुक्षयम् || गुणाश्रे शान्तिदं प्रोक्तं पर्जन्यार्थन्तु वर्तुले | षडश्रे सस्य वृद्धिश्च जयार्थञ्चैव पद्मके || वस्वश्रे पुष्टिदं ज्ञेयं पञ्चाश्रे रोगनाशनम् | कुण्डानान्तु फलञ्चैव स्थण्डिलञ्च विनोच्यते || प्. ४५) कुण्डे वा स्थण्डिले वापि हस्तमात्रेषु कारयेत् | मेखलास्त्रिभि कुर्वीत चतुस्त्रि द्व्यंगुलेन तु || मेखलामध * स्ताकृतारोत्सेध * व्यंगुलम् | त्र्यंगुलोस्त्रविस्तारं मध्यमायां तु मेखला || चतुरंगुलोच्छ्रितं वारमूर्ध्वावास्तत्रमेखला | कुर्यान्नाभिषडंगुल्यां पश्चिमं दक्षिणेव तु || अश्वत्थ पत्रवन्नाभि एकांगुलसमन्वितम् | गोमया लेपिका भूमिन्दर्भैस्सम्मृज्य वै हृदा || कुण्डञ्चेत् शोधनञ्चैव क्षालनं शोषणं तथा | पाचनं प्रोक्षणं चैव सद्यादि ब्रह्म पञ्चकैः || नक्रद्योकरमादाय प्रोक्ष्य सौम्ये विसर्जयेत् | शुद्धदेशोत्थ सिकतैरनाद्रैर्हस्तविस्तृतम् || अंगुलत्रयमानोच्चं समनिम्नोन्नतं तथा | प्रागग्रादि त्रिरेखास्तु तद्वौ सौम्याग्र रेखया || मध्यसूत्रन्तु ब्रह्माणि वैष्णवी दक्षिणेन तु | काली चोत्तरसूत्रिं स्यात् अधिदेवा प्रकीर्तिता || त्रिस्राणां प्रागग्राणामधिदेवाः प्रकीर्तिताः | चामुण्डी मध्यसूत्रीन्तु पश्चिमे तु गणाधिपः || पूर्वे तु योगमूर्तीनां अधिदेवाः प्रकीर्तिताः | उल्लिख्य त्रिभिः पूर्वाग्रमिध्ममेकेन कारयेत् || प्. ४६) मध्यमं दक्षिणं सौम्यं त्रीणि रेखा च कारयेत् | ऊर्ध्वरेखेस्तु मे सौम्यमुल्लेख्य समिधं त्यजेत् || लेख्यमन्त्रमिदं ज्ञात्वा अस्त्रमन्त्रं तथैव च | सूर्यकान्तोद्भवं श्रेष्ठं काष्ठजं मध्यमं भवेत् || श्रोत्र्यागार वह्निस्तु कन्यसस्त्विति कीर्तितः | शरावे ताम्रपात्रे वा पावकन्तु समानयेत् || गृहीत्वा नव शरावे च आग्नेयान्दिशि विन्यसेत् | हेतातुरग्रे विन्यस्य संप्रोक्ष्य बहुरूपिणा || गन्धादिभिर्हृदाभ्यर्च्य वर्मणा चावकुण्ठयेत् | प्रक्षिप्येन्धनमग्नौ तु वह्नेरायतनान्वरे || नाभिमध्ये तु वागीशीन्नीलोत्पलदलप्रभाम् | ऋतुस्नानास्य कूर्चस्थां ध्यात्वा तन्मूलमन्त्रतः || मन्त्रेण संस्कृते कुण्डे वागीशीमग्निमातरम् | वागीश्वरञ्च पितरमावाह्य स्थाप्य चार्चयेत् || त्रिणेत्रञ्चतुर्भुजञ्चैव पद्मरागसमप्रभम् | वरदाभयदञ्चैव शूलपाशधरं करैः || वागीशी पुण्डरीकाभां चतुर्हस्तां घनस्तनीम् | व्याख्यानपुस्तकधरां कमण्डल्वक्ष धारिणीम् || एवं ध्यात्वा समभ्यर्च्य कूर्चमध्ये विनिक्षिपेत् | इति ध्यात्वा समभ्यर्च्य वागीवागीश्वर द्वयम् || प्. ४७) संपूज्याग्नि समादाय संभ्राम्या यतनं त्रिधा | योनिमार्गेण निक्षिप्य वह्निबीज मनुस्मरन् || इत्यग्निं त्रिः परिभ्राम्य असुरांशः विवर्जयेत् | योनि मार्गेण चाग्निञ्च जानौ भूमौ निधाय च || ह्रं इति स्मरन् श्रुत्वा ओं हां अग्नये नमः | इत्यग्निं समिधमादाय त्रेधाग्निं सुदापयेत् || अस्त्रेण कंकणं बध्वा अर्चयेद् गन्धपुष्पकैः | सदर्भेरिन्धनं क्षिप्त्वा दत्वार्घ्यं हृदयेन तु || अभ्यर्च्य गन्धपुष्पेण तण्डुलेनाहुति त्रयम् | गर्भाधानमिति ख्यातं कुर्यात् पुंसवनन्तथा || हृदयेन यजेद्वह्निमेतत् पुंसवनं स्मृतम् | पुष्पं दद्यात् पुंसवने तिलेनैवाहुति त्रयम् || अघोरेण ददेदर्घ्यं सीमन्तं स्यात् तदन्ततः | तण्डुलेन त्रयं हुत्वा वक्त्रेण कुसुमाक्षतैः || अग्नये नमः प्रज्वाल्य पश्चात् तत्पुरुषेण तु | निक्षिप्य शिरसा मन्त्री जातकर्म विधिस्मृतः || गन्धपुष्पाक्षतं दद्यात् शिरसा चैव जातकम् | तिलेन त्रयमाहृत्या सूतकं शुद्धिरुच्यते || अस्त्रेणैव तु संप्रोक्ष्य ईशानेन समर्चयेत् | मानसे वह्निरूपन्तु ध्यात्वा वाहनं शुभम् || प्. ४८) संप्रोक्ष्येशान मन्त्रेण दत्वार्घ्यं पुष्पमिश्रितम् | तन्नामकरणं प्रोक्तं एवं संस्कारपञ्च युक् || आवाहनादि सद्यान्नं तन्मुद्रादि विशेषतः | दर्भैरिन्धनमग्नौ तु उपस्थानं हृदाक्षिपेत् || दर्भैश्चैवासनं कल्प्य दर्भैश्चोत्तर विसर्जयेत् | दर्भैश्चैव परिस्तीर्य हृदग्नि दशभिस्तथा || दक्षिणा चोत्तरा चैव उत्तरादघरस्तथा | पूर्वाग्रे चोत्तराग्रश्च प्रागादीनि क्रमात् क्षिपेत् || रक्ताक्षी चैव काली च चण्डाक्षी च तथैव च | उच्छिष्टेश्वरी चैव प्रगादीनि परिस्तरे || पूर्वे च पश्चिमे चैव उत्तराग्रं परिस्तरेत् | दक्षिणे चोत्तरे चैव पूर्वाग्रञ्च परिस्तरेत् || उत्तमं दशदर्भाश्च अथ पञ्च कुशेन च | ब्रह्मासनन्तु दक्षिण्यां स्थाल्यासनञ्च पश्चिमे || उत्तरे प्रणिता चैव अग्रे पात्रासनं तथा | वाणी वागीश्वरौ चैव उद्वासनमतः परम् || स्रुक्स्रुवौ च घृतस्थालीं प्रणीतां प्रोक्षणीं तथा | समित्कूर्च चरु दर्वी सिरीञ्च कमण्डलुम् || द्रव्यपात्राणि सर्वाणि वामकाशोपरि न्यसेत् | अधोमुखानि पात्राणि द्वन्द्वरूपाणि साधयेत् || प्. ४९) प्रोक्षणी पात्रमादाय जलेनैव प्रपूरयेत् | वितस्तिमात्रमादाय तन्मध्ये ग्रन्थसंयुतम् || अंगुष्ठानामिकाभ्यान्तु उदकोत्प्लवनं कुरु | संस्कृते नैव तोयेन प्रोक्ष्य पात्राणि वर्मणा || स्रुक्स्रुवौ चेन्धनादीनि हेमद्रव्याणि दक्षिणे | समिधाज्य चरुं लाजान् सर्षपञ्च यवं तिलम् || मुद्गञ्च वैणवं चैव श्रीपत्रं कदली फलम् | अजमांसरुधिरञ्च मत्स्यञ्चासवसंयुतम् || संस्थाप्य तेन तोयेन प्रोक्षयेत् तान शेषकान् | द्रव्यहोम चर्वादीनि पात्राण्युर्ध्वाननं कुरु || बध्वाथ सप्तभिर्दर्भै कूर्चं होतुश्च दक्षिणे | आसनामन्त्रसंयुक्तं अष्टमुद्रा प्रकीर्तिता || आवाहनन्तु ब्रह्माणीमंगन्यासमतः परम् | गन्धपुष्पञ्च धूपञ्च संपाद्यभ्यर्चयेत् तथा || प्रोक्षणीञ्चेन्निर्-ऋते स्थाप्य कूर्चं जलपूरितम् | जप्यन्तु वारुणी मन्त्रं * * चाग्नौ तु प्रोक्षयेत् || द्विदर्भैर्ग्रन्थि संयुक्तं नासिकं तन्तु गृह्यते | ऐशान्ये स्थापनञ्चैव * * * * * * * * || प्रणीतान्नैर्-ऋते स्थाप्य कूर्चं वा जलपूरितम् | पूर्वमन्त्रं जपं कृत्वा * * * * * * * * || प्. ५०) पश्चिमे चाज्यपात्रेण स्थापितन्तु विचक्षणः | कूर्चन्तु स्थापितं मध्ये तन्मध्ये घृतपूरितम् || द्विदर्भैर्दहनञ्चैव आज्यमध्ये तु संस्पृशेत् | उत्तरे विसर्जनञ्चैव पश्चाद् दर्भन्तु दाहनम् || सर्पिमध्ये तु संयोज्य अग्नीनान्तु प्रदक्षिणम् | पूर्ववत्सर्जनं कृत्वा अग्निमेकन्तु सर्जयेत् || स्रुक्स्रुवे गृहीत्वा तु अग्ने स्पर्शनमेव च | स्पर्शनं बन्धनं कृत्वा आज्यपात्रे त्वधोमुखम् || आज्येन प्रोक्षणीमिन्धमेकविंशति संख्यया | पूर्वदक्षिण पश्चात् तु उत्तरे मध्यमे हुनेत् || सद्यादि कण्ठवेधन्तु हृदयान्न प्राशनम् | सद्येन च चौलं कुर्याद् वामदेवेनोपनीतकम् || अघोरेण व्रतं कुर्यात् पुरुषेण समापनम् | ईशानेन विवाहञ्च यथाविधि पुरस्सरम् || स्रुक्स्रुवेण गृहीत्वा नैर्-ऋत्यान्दिशमादिकम् | ऐशान्यान्तं हुनेत् कृत्वा पश्चाद्वायवमादिकम् || आग्नेयान्तं हुनेत् पश्चात् पूर्वाद्यैशान्यमन्तकम् | इन्द्रादिनाममन्त्रन्तु होमयेत् तु विशेषतः || मन्द्रोद्धार क्रमेणैव मन्त्रकोश विधिक्रमात् | स्वाहान्ते देविका होमं नगरं शान्तिवर्धनम् || प्. ५१) पुत्रपौत्रादि वृद्धिञ्च श्रीदेवी सन्निधिस्तथा | असुरादि पार्श्वश्वान्तं फट्कारान्तेन होमयेत् || ओंकारं संपुटं श्रेष्ठं हुंकारन्तु दशाक्षरम् | पुष्पर्थे च वषट्कारं मूलमन्त्रेण कारयेत् || एवं ज्ञात्वा तु मन्त्रस्य होमयेत् तु विचक्षणः | होमद्रव्याणि सर्वाणि देवयुक्तेन साधयेत् || मत्स्यन्तु शिरसं गृह्य मांसान्विं तु वै गृही | खण्डमामलकं प्रख्य मद्येन सह होमयेत् || देवि होमन्तु शान्त्यर्थं नगरस्य तु वर्धनम् | कुण्डञ्च स्थण्डिलञ्चैव नलिनामधिदेवता || स्रुक्स्रुवाधि दैवत्यं विराली शक्तिरुच्यते | मण्टपञ्च वितानञ्च नमस्कृतं * * * * || देवी चैव तु * * * सौम्य मूर्तिरिति स्मृतम् | यह्यस्थापयेदस्त्रमिद्रादि क्रमयोगतः || पूर्वन्तु दापयेद् वज्रं आग्नेयां शक्तिमेव च | दण्डन्तु स्थापयेद्याम्यां नैर्-ऋत्यां खड्गमेव च || वारुण्यां स्थापयेत् पाशं वाय * * * * * * | गदाञ्च स्थापयेत् सौम्यं ऐशान्यां शूलमेव च || * * * * * * * * मूर्ध्वन्तु पद्मविन्यसेत् | इत्येवं लोकपालानां अस्त्राणाञ्च त्रिधामतः || प्. ५२) चयित्वा विधानेन निर्माल्य ज्वालिनीं ददेत् | निर्माल्य ज्वालिनीन् दद्यात् पश्चाद् देवं विसर्जयेत् || देव्या प्रदक्षिणं कृत्वा स्तुति जप्योपहार च | प्रणम्य दण्डवद्भुमौ देव्या ध्यानपरायणः || गोमयेन ततः पश्चात् घषयेत् सुसमाहितः | शुद्रकन्याद्विजानान्तु उद्भवो शास्त्रपाठकाः || सर्वतन्त्र समाचार पारशैवा प्रकीर्तिताः | पूजा होम विशेषज्ञा इति शास्त्रस्सनिश्चयः || इति ब्रह्मयामले शतसहस्रसंहितायां अग्निकार्यविधिर्नाम द्वादश पटलः || १२ || द्विमुखञ्चैक हृदयञ्चतुश्श्रोत्रं द्विनासिकम् | आस्यद्वयञ्च षण्णेत्रं पिंगलं सप्तहस्तकम् || त्रिमेखलं त्रिपादञ्च सप्तजिह्वा समन्वितम् | चतुश्शृंगं वृषारूढं बालादित्य समप्रभम् || उपवीत समायुक्तं जटामकुटमण्डितम् | सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके || स्रुक्स्रुवौ चाक्षमालाञ्च शक्तिं दक्षिणतो करे | तोमरं व्यजनञ्चैव घृतपात्रन्तु वामके || हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा | अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिता || प्. ५३) हिरण्यादि चतस्रस्तु जिह्वा दक्षिण वस्त्रके | तिस्रस्तु सुप्रभाद्यास्युर्जिह्वा वै वामवक्त्रके || हिरण्यावारुणी जिह्वा कनका मध्यमे स्थिता | रक्ता चोत्तर जिह्वा स्यात् कृष्णा याम्यां दिशि स्थिता || सुप्रभा पूर्व जिह्वा स्यादतिरक्तानले स्थिता | बहुरूपेश जिह्वा स्याज्जिह्वा स्थानं प्रकीर्तितम् || हिरण्या श्वेतवर्णाभा कनका रक्तवर्णिका | रक्ता सा पीतवर्णाभा कृष्णाया धूम्रवर्णका || सुप्रभा कृष्णवर्णाभा अतिरक्तारुण वर्णका | बहुरूपा श्यामवर्णा सा जिह्वा वर्णं प्रकीर्तितम् || श्रोत्राणामाहुतिं कुर्यात् सर्वव्याधिभयं भवेत् | नासिकायां महापुंखं चक्षुषो सर्वनाशनम् || केशे तु दरिद्रता चैव तज्जिह्वायान्तु होमयेत् | यात्रं काष्ठं तथा श्रोत्रं यात्रधूमन्तु नामिका || यात्रवज्ज्वालनं नेत्र यात्रभस्मन्तु तच्छिरम् | रक्तायां सर्षपं हूयात् कृष्णायां लाजहूयते || सुप्रभायामपूपानां अतिरक्तां तिलं हुनेत् | सिद्धार्थं बहुरूपायां सर्वासु चरुरुच्यते || शेषद्रव्याणि सर्वाणि कनकायान्तु हूयते | अन्यजिह्वा सुतद्धुत्वा सर्वं भवति निष्कलः || प्. ५४) तस्मात् सर्वप्रयत्नेन तत् तज्जिह्वा सुहूयते | स्रुक्स्रुवौ चतुरंगुलं विच्छिन्नं घृतमाहुतिः || अन्नमक्ष प्रमाणं स्यात् लाजमुष्टिमितं भवेत् | अवतंस प्रदक्षिण्यां आज्येन जुहुयात् तथा || सति यद्वादशांगुल्यं षोडशेन तु होमयेत् | आज्येनाष्टशतं हुत्वा हविस्तत्सममेव वा || लाजं शताष्टकं कृत्वा * * * * * * * * | यज्ञपात्रञ्च भूमिञ्च दर्भकूर्च मुनिस्तथा || मानसी प्रणिता ज्ञेया समिधा नैव शक्तिषु | दिनं प्रतिहुतञ्चैव अतिरक्ता च षठयोः || सप्तबाहुस्वरूपा च अग्निजिह्वा प्रकीर्तिता | हिरण्यमेक जिह्वा च गगनञ्च द्विजिह्विका || त्रिजिह्वा रक्तवर्णञ्च कृष्णवर्णं चतुर्थकम् | पञ्चचैवातिरक्ता च षष्ठयोः * * * * * | इति ब्रह्मयामले शतसहस्रसंहितायां अग्निस्वरूपं नाम त्रयोदश पटलः || १३ || मातॄणामर्चनं वक्ष्ये शृणु तत्वं यथाक्रमम् | अहर्दीपार्चनं वक्ष्ये सर्वपापविनाशनम् || आयुः पुत्र विवर्धन्ते धनधान्य विवर्धनम् | आराधनविधिं पूर्वं स्त्रीशूद्राणान्तु वर्जयेत् || प्. ५५) आराधन विशेषेण ब्राह्मणाद्यादि वर्जितम् | पारशव कुले जातो देवाग्नि गुरुपूजकः || शैवाचारव्रतो नित्यं शाक्तचारोविशेषतः | आर्यदेशसमुत्पन्नो दीक्षितश्चापि सर्वदा || वैदिकं तान्त्रिकञ्चैव देवीनामर्चना क्रमम् | यामलोक्त प्रकारेण प्रतिष्ठा होममारभेत् || ग्रामे वा नगरे वापि पत्तने केटकेपि वा | आचार्यश्शिष्यसंयुक्तस्स्नानं कुर्याद् यथाक्रमम् || मन्त्रस्नानं ततः कृत्वा भस्मस्नानं ततः परम् | उत्तराभिमुखो भूत्वा स्नानकार्ये विशेषतः || कालाग्निमादितः कृत्वा सदाशिवं ततः परम् | विरूपाक्षं जपित्वा तु कल्पमन्त्रं विचक्षणः || हृदयञ्च शिरश्चैव शिखा कवचमेव च | नेत्रं त्रिणेत्रमस्त्रेण मन्त्रेण * * यामन्तु धारिणम् || करन्यासं ततः कृत्वा दशन्यासं दशाक्षरम् | सम्रा * * गुं समाप्ते मन्त्रस्नानं प्रविश्यति | पात्रशुद्धिं ततः कृत्वा मात्रपुण्याह वाचनम् || सर्वत्र प्रोक्षणं कृत्वा पञ्चगव्यन्तु साधयेत् | अर्चयित्वा तु पात्रेषु प्रतिमुञ्चापि वारुणम् || प्. ५६) अर्चनन्तु स पूज्येन पादार्घ्याचमनीयकम् | स्नानं तत्र तथा गन्ध धूपदीपं हविः क्रमम् || प्रथमद्वार देवीनां पूजयित्वा विशेषतः | रक्षोहणीं बलिहीनि पुर्वायां द्वारपालकौ || सुमुखी कालदण्डी च दक्षिण द्वारपालिनी | अदिती मुदिती चैव पश्चिमद्वारपालिनी || कलिनी शुक्तकर्णी च उत्तरद्वारपालिनी | * * * * * क्तं पूर्वद्वारादीनि प्रदक्षिणम् || प्रमोदिनीनां पूर्वेण अभयी तथा | संगिनी पश्चिमे चैव संहिती चोत्तरे तथा || विजयी रंभिणी चैव इत्येते द्वारयोगिनाम् | गन्धपुष्पं तथा धूपदीपञ्चैव तु चार्चयेत् || दण्डकुण्डोदरी भीमी कीडी विजय विद्यया | व्यालामुखी तथा चैव राजदेवी त्रिणेत्रिणी || नीलकेशी गता चैव वागीश्वरी पिशाचिनी | इति वेताल भूताश्च मातॄणामञ्जयस्तथा || स्वनाम च प्रणवाद्ये पूजयित्वा यथाक्रमम् | पादौ प्रक्षाल्य चाचम्य गर्भगृहं प्रविशति || प्रथमं वीरभद्रं च मूलमन्त्रेण चार्चयेत् | ब्रह्माणी चैव सावित्री मानस्तोका महेश्वरी || प्. ५७) युजतिश्चैव कौमारी इदं विष्णुश्च वैष्णवी | मानस्तोका तु वाराही इन्द्राणीन्द्रबला तथा || शन्नो देवी च चामुण्डी स्नानमन्त्रं प्रकीर्तितम् | शुक्लवासश्च वीरञ्च ब्रह्माणी सितवाससा || ईश्वरी श्वेतवासास्तु कुमारी सिन्धूरवाससा | वैष्णवी पीतवासास्तु वाराही कृष्णवाससा || इन्द्राणि च दुकूलञ्च चामुण्डीरक्तवाससा | विघ्नेशं खड्गवंसञ्च प्रत्येकं वस्त्रमुच्यते || मुखं हरिबेरञ्च ब्रह्माणी गन्धमुच्यते | ईश्वरीमाञ्च गण्डञ्च कौमारी कुंकुमं तथा || वैष्णवी राजकस्तुरी वाराही तु निर्यासकम् | आर्द्रमेषञ्च इन्द्राणि चामुण्डा रक्तचन्दना || शक्यचन्दन लेपे तु वीरविघ्नं समापयेत् | केतकी जातिपुष्पन्तु गणेशञ्च तथार्चयेत् || करवीरं वीरभद्रं च ब्रह्माणी श्वेतपद्मकम् | श्वेतार्कमीश्वरी चैव कौमारी कुमुदन्तथा || वैष्णवी तुलसी चैव वाराही मल्लिका तथा | जातिपुष्पन्तु इन्द्राणी चामुण्डारक्तपद्मकम् || गुग्गुलुं वीरभद्रञ्च शितारी च चतुर्मुखीम् | ईश्वरी अगरुञ्चैव कौमारी देवदारुकम् || प्. ५८) वैष्णवी सूनधूपञ्च पञ्च वाराही आज्य धूपकम् | इन्द्राणी चैव निर्यासं चामुण्डी जातिधूपकम् || विघ्नेशमगरुञ्चैव शितारी सर्वदेवता | गन्धमन्त्रेण गन्धञ्च पुष्पमन्त्रेण पुष्पकम् || धूपमन्त्रेण धूपञ्च दीपमन्त्रेण दीपकम् | तत् तद्गायत्रि मन्त्रेण तत् तन्मूलं जपेत् क्रमात् || तत् तद्बिम्बन्तु संपूज्यमावाह्याभ्यर्चयेत् क्रमात् | शुद्धान्नं वीरभद्रस्य विघ्नेशञ्च निवेदयेत् || ब्रह्माणी पायसान्नं च ईश्वरी कृसरान्नकम् | हरिद्रान्नञ्च कौमारी वैष्णवी च गुलान्नकम् || वाराही चैव माषान्नामिन्द्राणी मुद्गमेव च | रक्तान्नं रुधिरञ्चैव चामुण्ड्यास्तु निवेदयेत् || नैवेद्यमन्त्रमुच्चार्य तत् तद्भेरीं निवेदयेत् | आद्योद्यादि क्रमं कुर्यात् वीरमाश्रवणं तथा || इति ब्रह्मयामले शतसहस्रसंहितायां मात्रर्चनं नाम चतुर्दशः पटलः || १४ || विघ्नेशं वीरभद्रञ्च समिद्बिल्वं तथोच्यते | ब्रह्माणी च पलाशञ्च अर्कमाहेश्वरी तथा || औदुम्बरन्तु कौमारी अश्वत्थं वैष्णवी तथा | वाराही वृक्षमेवं स्यात् इन्द्राणी खदिरन्तथा || प्. ५९) न्यग्रोधञ्चैव चामुण्डा समिधस्तत्र कीर्तिताः | ऊर्ध्वं पृधक् पृधक् वाह्ये हूयते समिधन्तथा || एतेषामप्यलाभे तु पलाशं सर्वहूयते | एकैकनामहूयन्ते स्वनामावाहयेत् तथा || पादस्याचमनीयादि स्नानमन्त्रं यथार्चयेत् | गन्दपुष्पन्तथा धूपन्दीपञ्चैव हविः क्रमात् || गेयादि तालसंयुक्तं बहुवीरार्चनं भवेत् | सर्वलोकहितं पुण्यं सर्वधान्य समृद्धिदम् || दुष्टग्रहविनाशार्थं विशिष्टाग्रहमेव च | सर्वेषामेव रक्षार्थं मातृलोके महीयते || इति ब्रह्मयामले शतसहस्रसंहितायां बहुवीरार्चनविधिर्नाम पञ्चादशः पटलः || १५ || गरुडौवाच || नमस्तुभ्यं लोकानां जयकारणं | सर्वेषामेव लोकानां भय शान्तिविवक्षित || सर्वेषामेव भूतानां लोकालोकनिबंद्धनम् | त्वया च पालितं सर्वं प्रजानां हितकारण || राक्षसै परिभूयिष्ठा तारकादिषु तत्ववित् | विष्णुरुवाच || सृष्टिस्थितिश्च संहार कारणं त्रिविधं भवेत् | त्रिविधं लोकसंसृष्टिस्त्रिविधं लोकचारितम् || प्. ६०) यजनं चतुर्विधं भोगं प्राणिनाञ्च चतुर्विधम् | चतुर्विधञ्च चरितं सर्वेषाञ्च सुखावहम् || एवमाचरितं लोकं ब्रह्ममन्त्रसमुद्भवम् | तात्कालिक परित्राणं राक्षसानामुपाधितः || राक्षसानां वधार्थाय नवशक्त्यादि भेदतः | नवशक्त्या नवाकारा लोकानां हितकाम्यया || यद्भुवं नाशयेत् कर्तुं तद्रूपं त्रिभिसंयुतम् | तत्कालेन तु संरूढं घोररूपं भयं भवेत् || शक्तीनां नाशयोगन्तं * * * * * * * * | तस्य शान्तिं प्रकुर्वीत * * * * * * शक्ति || * * * * * * * * नाशयोगमतः परम् | तस्य शान्तिं प्रकुर्वीत तिस्रस्ताः परिकीर्तिताः || शक्ति शान्तिं विशेषेण मातृशान्तिं विधीयते | ग्रामं वा नगरं वापि पत्तनं वापि कारयेत् || तत्र शान्तिं विशेषेण प्रजानां हितकारणम् | मातॄणां स्थापयेत् तत्र सर्वभूतसुखावहम् || ग्रामे वा नगरे वापि उत्तरे चालयं भवेत् | प्राच्यामथ प्रकूर्वीत पूर्वद्वारादिभिः क्रमात् || शिलामयं लोहमयं मणिमद्वृक्षमेव च | शिलामयं मोक्षकामस्य लोहानां कीर्तिवर्धनम् || प्. ६१) रत्नानां श्रीकरं कुर्यात् मृण्मयं शान्तिकं भवेत् | प्रासादगर्भमानेन द्वारमानं तथैव च || अथवा यजमानेन दशतालक्रमेषु च | प्रतिष्ठायां विशेषेण यजमानं यथाक्रमात् || सकलं निष्कलञ्चैव निष्कलं वकुलं तथा | मूलमन्त्रेण संयुक्तं शक्तिमन्त्रेण विन्यसेत् || तत् तत्कीर्तिं प्रतिष्ठाप्य तत् तद् देवन्तु भावयेत् | गन्धपुष्पं तथा धूपदीपञ्चैव हविः क्रमात् || निवेद्यं तत्र विधिवद्यथा शास्त्रक्रमेण तु | प्रतिष्ठोत्सवकर्माणि यथालाभं क्रमेण तु || ध्वजारोहण पूर्वे तु अंकुरार्पण कर्म च | एकविंशति नक्षत्रं षोडशाहं चतुर्दश || द्वादशाहं नवाहं वा दीक्षयेन् मात्रकोत्सवम् | कुजवारादि भौमान्तं अर्कवारादि भौमकम् || सोमवारस्य रात्रौ तु अधिवासमतः परम् | * * * * * * * * * * * * * * हितम् || देव्यासनं ततः कृत्वा * बलिमत्प्रदक्षिणम् | बलि प्रदक्षिणं कृत्वा * * * य समन्वितम् || प्रविशेन्मण्टपं तत्र * * * * * * * * | मध्ये पीठं प्रकुर्वीत चतुस्सूत्रसमन्वितम् || प्. ६२) पुरायुधसमायुक्तं षड्वर्गं सहसंयुतम् | शक्तिर्वै तोरणैर्युक्तं सर्वालंकारशोभितम् || तन्मध्ये बलिनिक्षिप्य पञ्चायुधसमन्वितम् | पुत्रकश्चित्रकश्चैव सहमुद्रां प्रयोजयेत् || ब्रह्मस्थानं विशेषेण मुद्रापीठं प्रकल्पयेत् | प्रासादपूर्व भागे तु यागमण्टपमुत्तमम् || मध्ये वेदीं प्रकुर्वीत चतुस्ताल प्रमाणतः | एकतालसमुत्थेयं प्रमाणं परिकीर्तितम् || वृत्तं वा चतुरस्रं वा अग्निकुण्डं यथाक्रमम् | दिशेषु चतुरश्रन्तु विदेशे वृत्तमुत्तमम् || चतुष्षष्टिस्तदर्धञ्च षोडशञ्चाष्ट होमयेत् | नवांगहीना न बधिरा न शठा न जलस्तथा || सर्वावयवसंयुक्त स्वरूप प्रियदर्शन | मातृदीक्षा च संयुक्तस्सर्वशास्त्रविशारदः || यामलानान्तु सर्वेषा वाच्यवाचकसंयुतान् | सर्वभूतदयायुक्तान् मन्त्रतन्त्र परायणान् || एवन्तु लक्षणैर्युक्तमाचार्यन्तु विशेषतः | देवाग्निं पूजयेत् पूर्वं ईशानादि यथाक्रमम् || मकुटं तत्र खचित्वा तु हस्तमात्र प्रमाणकम् | त्रिवेदीं तत्र कुर्वीत चतुरश्रं समं तथा || प्. ६३) चतुस्त्रिद्व्यंगुलं कुर्यात् प्रमाणं तत्र कारयेत् | आचार्यस्साधकश्चैव समयी पुत्रकस्तथा || केलके परिचारेण शान्तिं कुर्याद् विशेषतः | देव्याग्नि जनितः पूर्व ईशान्यां दिशि योजयेत् || दक्षिणे भैरवाग्निस्तु पूर्वे वा च तथैव च | मयित्वाग्निं विशेषेण श्रोत्रियाग्निमथापि वा || अथवा मन्त्रसंस्कारमग्निबीजे समन्वितम् | द्रव्यादि विश्वसंयुक्तं मूलमन्त्रेण होमयेत् || द्रव्यहीनं विपरीते च तद्भवेत् || द्रव्या * * * * * च क्रियाया सहवर्तते | प्रायश्चित्तं प्रकुर्वीत * * * * * होमयेत् || मियाज्य चरुंश्चैव * * * सक्तुतुलस्तथा | लाजञ्च सर्षपञ्चैव क्रमेण विधियोजयेत् || द्रव्यान्ते पशुसंस्कार योजयेत् तु विचक्षणः | होमं तत्र प्रकुर्वीत भैरवाग्निमिहोच्यते || शान्तिकं पौष्टिकञ्चैव आभिचारकमेव च | शान्तिकं योजयेत् तत्र सृष्टिन्यासं प्रकीर्तितम् || पौष्टिकं योजयेत् तत्र स्थितिन्यासं प्रकीर्तितम् | आभिचारकसंयोज्य संहारन्यासमुच्यते || प्. ६४) सात्विकाराजसञ्चैव तामसीञ्च गुणत्रयम् | सात्विकं स्थापनं कालं राजसं शान्तिकर्मणि || तामसमाभिचारेण क्रमेण सहवर्तते | कालञ्चैवावकालन्तु शुभं वा त्वशुभं भवेत् || दिने मुहूर्ते तत्रैव योगे च करणान्विते | सर्वयोगं विशेषेण बन्धुयोगं विशेषतः || यत्र योगक्रियायोगं तत्र भाग्यमुदाहृतम् | वेदादि च मनुष्याणां बुद्धिर्भवति निश्चला || निर्मलं निस्पृहस्वस्ते नित्यांशाश्वतमव्ययम् | आराधयेत्ससंबन्धः योगमोक्ष करान्वितम् || सर्वयोगफलञ्चैव मातृशान्तिं विशेषतः || इति ब्रह्मयामले शतसहस्रसंहितायामुत्सवविधिं नाम षोडश पटलः || १६ || अथास्संप्रवक्ष्यामि एकवीर्युत्सवः परम् | महाशान्तिकरं पुण्यं सर्वपापविनाशनम् || अकालमृत्युशमनमायुरारोग्यवर्धनम् | सुभिक्षं गोबलञ्चैव हस्त्यश्वनरवर्धनम् || भूमिकंपविनाशार्थं तथा प्रेतविनाशनम् | गृहजारविनाशार्थं भूतदृष्टिविनाशनम् || प्. ६५) राजसेना सुखार्थञ्च सदसि जयमेव च | महामारि प्रसंकीर्णे पाषाणे वर्षन्तया || उल्कापाते निशान्दहे * * * * तथैव च | तरा प्रवातने चैव दीक्षान्तेन तथैव च || दिशोपि च वने चैव महावात प्रवर्तने | दुर्भिक्षे रष्ट्रकलहे हस्त्यश्वव्याधिपीडिते || उत्सवं कारयेन् मन्त्री शास्त्रदृष्टेन कर्मणा | एकविंशेद् दिने पूर्वे दुन्दुभिर्भ्रमणं कुरु || दुन्दुभिर्लक्षणं वक्ष्ये तद्वर्षग्रहणन्तथा | * * * ञ्चवतालञ्चशि * * रक्तचन्दनम् || सप्ताहं तथा पूर्वे दुन्दुभिः प्रहरणे बुधः | पूर्ववत्कारयेत्सर्वं यथाविधि पुरस्सरम् || तिलचूर्णसमायुक्तं गुलखण्डसमन्वितम् | कदली फलसंयुक्तं पूरिका खण्डसंयुतम् || एवं बलिं ततो दद्यात् नवाक्षरेण मन्त्रवित् | नवाक्षरेण मन्त्रेण कुठारञ्चाभि मन्त्रयेत् || पुनः प्रभाते विमले शुभग्रहसमन्वितम् | अस्त्रेण चोदयेद्वृक्षं भक्ति युक्तो दृढव्रतः || सान्ते नैव तु मन्त्रेण कर्तव्यं लक्षणान्वितम् | शिल्पिना तु कृता सर्वं दुन्दुभिश्च मनोहरा || प्. ६६) षट्तालाय तथोक्तानि उत्तमं तत्र प्रकीर्तिता | दण्डन्नाह संयुक्तं पंकजासन संयुतम् || शुभदिनसमायुक्तं चोत्तमा दुन्दुभिः शुचिः | चतुस्तालं समारभ्य मध्यमा दुन्दुभिर्भवेत् || तदर्धनाह संयुक्त तत्वात्मासनसंयुतम् | द्वितालायामसंयुक्तं तदर्धन्नाह संयुतम् || अथवा दुन्दुभिर्ज्ञेया वक्त्रासन संयुतम् | दुन्दुभेरुक्तमानञ्च त्र्यंगुला बालनं भवेत् || द्व्यंगुलं बहुलं प्रोक्तं मध्यमानञ्च कीर्तिता | दुन्दुभेरधमायाममेकांगुलमुदाहृतम् || उत्तमा मध्यमा चैव अधमा च प्रकीर्तिता | एवन्दुन्दुभिमुत्पाद्य बलिकार्यं समारभेत् || मानयेत् शिल्पिनं पश्चात् वस्त्रैश्च चन्दनादिभिः | परिणाहं च कुण्डस्य पूर्वं वै योजयेद्बुधः || त्र्यंगुलं दुन्दुभिश्चैव मध्यमञ्चोत्तमं भवेत् | द्व्यंगुलमधमञ्चैव दुन्दुभिश्च प्रकीर्तिताः || कुण्डलं कन्यसं प्रोक्तं दुन्दुभिश्चैव चांगुलम् | उत्तमादि क्रमेणैव कुण्डलं प्रोच्यते क्रमात् || दुन्दुभिं छादयेत् तत्र भवावै चर्मणा बुधः | छादयौ वैद्ध कालैश्च दुन्दुभिश्च मनोहरा || प्. ६७) एवं दुन्दुभिमुत्पाद्य सघोष * * * * * | दुन्दुभिं तत्र चाभ्यर्च्य आचार्यो मन्त्रविग्रहः || * * प्रासादपुरतो मण्टपञ्चतुरश्रकैः | चतुद्वारसमोपेतं चतुस्तोरणमण्टपे || दशहस्त प्रविस्तार * तुलांकुरतोभितम् | तन्मध्ये वेदिकायान्तु तन्मध्ये मण्डलं कुरु || शालिभिस्तण्डुलं कुर्यात् अष्टद्रोणैश्च तत् तथा | तण्डुलैश्च तदर्धैश्च तिलैः कुर्याद् यथा क्रमम् || पञ्चैकोक्तसूत्राणि कारयेत् तण्डुलोपरि | सूत्राणि कारयेत् सम्यग् यथाविधि पुरस्सरम् || एकैकान्तरितस्तस्मिन् एकश्चैव पदा हुनेत् | शोभितश्च तिलै * * * कोष्ठेषु विचक्षणः || दुन्दुभिं विन्यसेत् पद्मे नवाक्षरेणैव बुद्धिमान् | कलशान् विन्यसेत् तत्र सूत्रेणैव विचेष्टितान् || कलशानष्टौ तु विन्यस्य शुद्धगन्धोदकान्वितान् | मध्ये तु विन्यसेत् ब्रह्मन् पञ्चरत्नं विशेषतः || एकवीरं न्यसेत् तस्मिन् नवाक्षरेण बुद्धिमान् | अष्टदिक्षु न्यसेत् कुंभान् नवाक्षरेण बुद्धिमान् || चूतपल्लवसंयुक्तान् गन्धचन्दनमन्विताम् | अग्निकार्यं तथा कुर्यात् यथाविधि पुरस्सरम् || प्. ६८) एकवीर्यार्चन सहित सप्तन्यसेत् बुधः | वीरभद्रादिसंयुक्तं गणेशानसमन्वितम् || दक्षिणे चैव वेद्यां वा अग्निकार्यञ्च कारयेत् | (शुक्लपक्षे तु शान्ति शास्त्रदृष्टेन कर्मणा ||) अग्निकार्यं पुनः कृत्वा प्रोक्षयेत् * * * पुनः | दुन्दुभिं तत्र विन्यस्य ततः प्रभृत्तिं योजयेत् || ईदृग्भूतमनोज्ञाञ्च दुन्दुभिञ्च समाहरेत् | शुक्लपक्षे तु शान्ती शास्त्रदृष्टेन कर्मणा || सर्वालंकारसंयुक्ता सर्वाभरणभुषिता | एकवीरञ्च परमां हंसारूढां मनोहराम् || नवरूपां मुक्तकेशीमेकवीरी मनुस्मरन् | सर्वाभरणसंयुक्तां मनोज्ञा लक्षणान्विता || दुन्दुभिं प्रहरेद्वापि नवाक्षरेण बुद्धिमान् | कृतयुगेर्मरेद् देविमेकवीरिं विचक्षणः || ब्रह्माणां परमां शुद्धां सर्वाभरणभूषिताम् | ईदृग्भूतां परां ध्यात्वा दुन्दुभिं ताडयेत् पुनः || नवाक्षरेण संताड्य देवीं ध्यात्वा तु तत्परम् | एवं संताड्य यत्नेन उत्सवं कारयेद्बुधः || एकवीर्या * * ब्रह्म दुन्दुभिं ताडयेत् क्रमात् | दुन्दुभेस्ताडनं वक्ष्ये यथाविधि पुरस्सरम् || प्. ६९) देव्यालयं पुरस्तात्तु मण्डपं चतुरश्रकम् | गोमयेन समालिप्य सितचूर्णेन शोभितम् || मण्टपे चतुरश्रन्तु द्विहस्तायामसंयुते | शालिभिश्चाष्टभि द्रोणैर्मण्डपे स्थण्डिलं कुरु || सूत्राणि कारयेत् तत्र तण्डुलेन विचक्षणः | पञ्चोत्तराणि सूत्राणि चोत्तराणि मुखानि च || दक्षे तथैव सूत्राणि सूत्रयेत् तत्र वित्तमः | सदर्भैस्तण्डिलैश्शुभ्रैः विकिरेत् तु समं तथा || एकैकान्तरितं कोष्ठं चतुर्दिक्षु हरेत् पुनः | नवपदेषु पद्मं स्यात् अष्टपत्रं सकर्णिकम् || तिलाढकेन वा लिख्यमष्टपत्रदलान्वितम् | कर्णिका केसरोपेतं चतुर्गात्रसमायुतम् || नवाक्षरेण जप्तेन वस्त्रपूतेन वारिणा | प्रोक्ष्य च तण्डुलं पश्चात् द्रव्याणि प्रोक्षयेद् बुधः || आसनं कल्पयित्वा तु गन्धपुष्पादिभिः क्रमात् | देव्यास्तु दुन्दुभिन्तत्र न्यस्त्वा संपूज्य च क्रमात् || रक्तसूदगन्धपुष्पधूपदीप समन्वितम् | रक्तवस्त्रे तु परिधानं रक्तचन्दन चर्चितम् || सर्वाभरणसंयुक्तं मातॄणामुत्सवेपि च | एकवीरं तदावाह्य एकवीरञ्च देशिकः || प्. ७०) आवाहयेत् ततो देवीं कलशेशं विचक्षणः | कलशस्य दक्षिणे भागे दुन्दुभिञ्चापि वासयेत् || तस्यैव दक्षिणे भागे होमं कुर्याद् विचक्षणः | तस्मिन्नधिवासयेद् देवमाचार्यं मन्त्रविग्रहम् || प्रभाते विमलादेवीं कलशस्य च देशिकः | निवेद्यन्तु प्रदातव्यं नक्तचारीडकेन तु || कलशाय निवेदित्वा यथा चोद्भवमेव च | एवं कृत्वा समासेन ध्वजारोहण तत्क्षणात् || नगरे पत्तने वापि ग्रामं ग्रामाग्रके पुरे | खेटके च तथा ब्रह्मन् आशीर्वादं समुच्चरन् || अन्तरिक्षे तु ये देवा भूपातालेषु ये स्थिता | पर्वताग्रेषु ये देवा महामेरौ च संस्थिता || नवखण्डेषु ये देवा समुद्राधिवासिनस्तथा | पादमार्गे च ये देवा सप्तद्वीपेषु ये स्थिता || योगिनी शाकिनी चैव डंभिनी च विलासिनी | चारिणी मघवासि च गनीभक्त परायणी || चतुष्षष्टिस्तथा देवा उपवासपरायणा | अंबुभक्षाश्च ये देवा वायुभक्षाश्च ये स्थिता || उत्सवे एकवीर्याश्च वागच्छन्तु मनोहरा | एवमुक्तं क्रमेणैव दुन्दुभेस्ताडनं कुरु || प्. ७१) शतकोटि सहस्राणि प्रेतवेतालकास्तथा | आयुष्मिकसहस्राणि पिशाचायास्तु जातयः || आगछन्तु महादेव एकवीर्युत्सवे शुभे | नानाकोटि सहस्राणि ये शिष्टा सिद्धजातयः || अष्टकोटि सहस्राणि अष्टकोटि पिशाचका | अष्टकोटि गणास्सर्वे आगछन्तु महोत्सवे || एकवीर्युत्सवे शुभ्रे सप्तकोटि शतानि च | अयुतञ्चैव पञ्चाशीन्मातृभेदाश्च ये स्थिता || आगछन्तु महादेव्य एकवीर्युत्सवे परे | ब्रह्माविष्णुश्च रुद्रश्च द्वादशादित्य एव च || वस्वष्टाप्सरसञ्चैव मुनये देव पर्वत | ब्रह्मादि समगापीयत् तथा चेन्द्रसमामताः || एते चान्ये च बहवो एकवीर्युत्सवे परे | आगछन्तु महाशीघ्रमेकवीर्युत्सवार्थकम् || इन्द्राग्निश्च यमश्चैव निर्-ऋती वरुणस्तथा | वायुश्चैव कुबेराश्च ईशानश्चैव एव हि || आगछन्तु महादेव्य एकवीर्युत्सवे शुभे | असुराश्च सुराश्चैव गन्धर्वाश्च पिशाचकाः || यक्षाश्च गरुडाश्चैव किन्नराश्च मरुद्गणाः | आगछन्तु महादेव एकवीर्युत्सवे शुभे || प्. ७२) नागाश्च भूतवेताल ब्रह्मराक्षस एव च | अनेकशोभा संयुक्ते ग्रहध्वज समाकुले || पूर्णकुंभसमायुक्ते कदली तोरणैर्युते | धूपदीपसमायुक्ते दिव्यवीथि समन्विते || सदासी गणसंकीर्णे सकीर्णे यो वीथी मातृशोभिते | नृत्तगीतसमायुक्ते दिव्यस्त्री परिशोभिते || आहृतेनगरे चैव पत्तने खेटके तथा | ग्रामे ग्रामाग्रके चैव एकवीर्युत्सवं प्रति || पुरोगाश्चैव हे देवा आगछन्तु यथावहम् | बलिग्राहन्तु वस्सर्वे यथाविधि विशेषतः || कदल्योदनसंयुक्तमजनाडी शतं युतम् | पूरिखण्डाग्रसंयुक्तं अजानां रुधिरं युतम् || मत्स्यमांससमायुक्तं अपूपखण्डमन्वितम् | तिलचूर्णसमायुक्तं लाजसक्तु समन्वितम् || दुन्दुभिर्भ्रमणे काले बलिं सर्वत्र कारयेत् | दुन्दुभेश्च बलिं दद्यात् अजसप्त च पातये || ग्रामवीथि पथे चैव दशदिक्षु बलिं हरेत् | आचार्यं पूजयेत् तत्र वस्त्र हेमांगुलीयकैः || नैकाभरणजालैश्च गोभूमिकाञ्चनादिभिः | पूजयेत् तु विशेषेण आचार्यस्तु विशेषतः || प्. ७३) मातृदीक्षा समायुक्तं अभिषेक त्रयान्वितम् | एवं संपूज्य तं ब्रह्मन् भक्तियुक्तं दृढव्रतम् || नवाक्षरेण मन्त्रेण सर्वक्षेत्र बलिं क्षिपेत् | अस्मतम्रव्येयतम्रं सर्वकार्येषु योजयेत् || कलशन्तु त्रिशुलञ्च घण्टाडमरुकन्तथा | मातृघोषसमायुक्तं दिव्यस्त्रीभिस्समाकुलम् || वितानध्वजसंयुक्तं धरजालसमन्वितम् | क्षुरिका खड्गसंयुक्तं सर्वालंकारशोभितम् || ग्रामं वा नगरं वापि पत्तनञ्च पुरञ्च वा | ग्रामं नगरके वापि दुन्दुभेः प्रहरं कुरु || अष्टदिक्षु चतुसन्धौ ब्रह्मस्थाने विशेषतः | पूर्वोक्ताश्चैव ये देवा तत्तत्स्थानेषु योजयेत् || पूर्वोक्तञ्च बलिञ्चैव तत्तत्स्थाने तु दापयेत् | नवाक्षरेण मन्त्रेण स्वनामपदसंयुतम् || बलिञ्च दापयेत् तत्र दशदिक्षु यथाक्रमम् | एकवृक्षे च प्रासादे चतुष्पत्रे शृंखलान्विते || त्रिपथे द्विपथे चैव सर्वसन्धिषु निक्षिपेत् | वापी कूपतटाके च पुरद्वारे बलिं हरेत् || श्मशाने बलिदानञ्च हस्तकृते बलिं क्षिपेत् | एवं समासतः प्रोक्तं बलिं गृह्णन्तु दुन्दुभिः || प्. ७४) पीठं तत्र प्रकर्तव्यं शास्त्रदृष्टेन कर्मणा | चतुश्शृंगं भवेद् दिक्षु एकहस्तसमन्वितम् || विदिक्षु वर्तुलं कुर्यात् लक्षणेन समन्वितम् | हस्तान्धिकमुग्रतः प्रोक्तं मेखलात्रयसंयुतम् || ब्रह्मस्थाने चतुर्हस्तं तदर्धं मध्यमं भवेत् | मेखलात्रयसंयुक्तं कारणेन समन्वितम् || नगरद्वारदेशे तु साश्रञ्च पीठमुच्यते | देवालयानां पुरतः पीठं वै चतुरश्रकम् || पूर्ववत् कारयेत् पीठ लक्षणेनसमन्वितम् | एवं पीठं प्रकर्तव्यं दशदिक्षु यथाक्रमम् || एवं संक्षेपतः प्रोक्तं दुन्दुभिः भर्मणं परम् | देवानामागमार्थञ्च भूमिदानं तथैव च || बलिञ्च निक्षिपेद् ब्रह्मन् यावद् देव व्रतान्तकम् | पूर्वोक्तञ्च बलिं तेषु पीठेषु च विनिक्षिपेत् || नवाक्षरेण मतिमान् एकवृक्षबलिं ददेत् | ग्रामे च नगरे चैव पत्तनं खेटकं तथा || उत्सवभ्रम कालोसि यात्राहोमन्तु कारयेत् || इति ब्रह्मयामले उत्सवविधाने दुन्दुभिः प्रहरणं नाम सप्तदशपटलः || १७ || प्. ७५) मातृशान्ति विधिं वक्ष्ये सर्वशान्तिकरं शुभम् | सर्वव्याधिहरं शुभ्रं सदाविजयवर्धनम् || अकालमृत्युशमनं पुत्रपौत्रादि वर्धनम् | महाविघ्नप्रशमनं महाशान्तिकरं परम् || सप्ताह त्रितये पूर्वे उत्सव प्रहेद् बुधः | तद्दिने चार्धरात्रे तु दुन्दुभेस्तु परिभ्रमे || ब्रह्माविष्णुश्च रुद्रश्च सदाशिव शिवस्तथा | वसुभिश्चाष्टभिश्चैव द्वादशादित्य एव च || रुद्र एकादशस्सर्वे अर्चयित्वा समन्वितान् | इन्द्राग्निश्च यमश्चैव निर्-ऋती वरुण वायवः || सोमेशानगणास्सर्वे आगछन्तु महोत्सवे | शुचिष्टा च पिशाचाश्च भूतवेताल जातयः || कूश्माण्डगुह्यका नागा सिद्धा यक्षामरुद्गणाः | विद्याधराश्च गन्धर्वा आगछन्तु महोत्सवम् || भूलोके च यथा देव भुवर्लोके च देवता | स्वर्लोके च ये देव महर्लोके च देवता || जनलोके च ये देवा तपो लोके च देवता | सत्यलोके च ये देवा आगच्छन्तु महोत्सवम् || अतलादिषु पाताले आगच्छन्तु महोत्सवम् | दिव्यन्तरिक्ष ये देवा भूपातालेपि ये स्थिता || प्. ७६) आगछन्तु च ये देवा एकवीर्युत्सवार्थकम् | गिरिकन्दरदुर्गेषु श्मशाने वन देवता || प्रासादे गर्भगेहे वा प्राकारे परिवारके | गोपुराभ्यन्तरे देवा आगछन्तु महोत्सवम् || दुन्दुभिं प्रहरेद् देवीं तद्रात्रौ बलिदापयेत् | ध्वजमारोपयेद्धीमान् दश्विहन्तं दिनेपि वा || सप्ताहे च तथा कुर्यात् मूलमन्त्रेण दापयेत् | चन्दनं चम्पकञ्चैव क्रमुकनालिकेरकम् || याज्ञिकं वेणुदण्डं वा प्रासादद्विगुणोच्छ्रयम् | पञ्चदण्डाश्च पुरतय ध्वजानां विधीयते || उत्सवस्य तु पूर्वे तु सप्तार्थे मंगलांकुरम् | बलिभ्रमणवेलायां वाममार्गेण गम्यताम् || एहिकामाद्रि फलदं बलिं सर्वत्र दापयेत् | शान्त्यर्थ सर्वमार्गेण अपसव्येन पुष्टिदम् || तस्मात् सर्वप्रयत्नेन वाममार्गेण गम्यताम् | पालिका घटिका चैव शरावा त्रिविधा भवेत् || प्रत्येकं नव गृह्णीयात् सप्ते वाथ समाचरेत् | तिलसर्षपमुद्गानि यवमाष कुलुत्थकम् || प्रियंगुशिममाली च नव बीजैस्तु | नवाक्षरेण मतिमान् सजपत्वा तु समाहितम् || प्. ७७) ताम्बुलन्दापयेत् तत्र सर्वेभ्यश्च यथाक्रमम् | आषाढे कृष्णपक्षे व अष्टम्यान्तु विशेषतः || उत्सवं कारयेत् सम्यक् पूजयेत् तु सदेशिकः | त्रिकालं वा द्विकालं वा बलिभ्रमणयोरपि || तस्य वामेन मार्गेण बलिभ्रमणकं क्रमात् | प्रथमं ब्राहिदिवसं द्वितीयमीश्वरीं विदुः || त्रयकौमारि दिवसं चतुर्थं वैष्णवी तथा | पञ्चमी पञ्चदिवसं षष्ठीमिन्द्राणिरेव च || सप्तमं भद्रकाली च दिवसं बलिमुच्यते | शतद्रोणि तदर्धं वा तदर्धं वा तदर्धकम् || षष्ठद्रोणमथा चैव चतुर्द्रोणमथापि वा | द्वयद्रोणमथा चैव कन्यसं शिवमेव च || आढकेनैव वासिद्धं शालितण्डुलसिद्धकम् | श्वेतपद्मसमायुक्तं गन्धोकसमन्वितम् || पायसेन बलिं दद्यात् ब्रह्माणी दिवसे बुधः | श्वेतार्क कुसुमैर्युक्तं कृसरान्नन्तु संयुतम् || बलिमेतद्विजानीयान्माहेग्री दिवसं क्रमात् | कुमुदोत्पलपुष्पन्तु हरिद्रान्नसुदोदकैः || कौमारी दिवसे कुर्यात् एकचित्तो सदा ददेत् | वैष्णवी तुलसी चैव गुलान्नन्तु बलिं ददेत् || प्. ७८) मञ्जिकामाषमन्नं च वाराही दिवसे युतम् | जातिपुष्पन्तु मुद्गान्नं इन्द्राणी बलिमुच्यते || रक्तपंकजसंयुक्तं रक्तान्नं रक्तमिश्रकम् | चामुण्डी दिवसे कुर्यात् विद्वान्मन्त्रेण मन्त्रितम् || नवाक्षरेण मन्त्रेण तत्तन्नाम समन्वितम् | तत् तद् दिने बलिं दद्यात् तत् तन्मुद्रां प्रदर्शयेत् || चतुष्पथे त्रिपथे च द्विपथैक पदन्ददेत् | नव पीठे च दातव्यं ग्रामद्वारे तथैव च || एकवृक्षे तटाके च प्राकारे दीर्घिकेषु च | शिवालये सभास्थाने विष्णुस्थाने च दापयेत् || दुर्गाज्येष्ठालये चैव आर्यस्थाने तथैव च | श्रीस्थाने स्कन्दस्थाने च विघ्नस्थाने विशेषतः || बौद्धस्थानन्तु कर्तव्यं अर्हस्थाने तथैव च | इन्द्राग्नि यमस्थाने निर्-ऋति वरुण वायवः || सोमेशानके चैव क्रमाद् दत्वा बलिं ददेत् | कन्यायां दर्शने चैव ब्राह्मणानान्तु दर्शयेत् || भिन्ननासिकयश्चैव चक्रवाकस्तथैव च | अत्र चेवेतरादेव्य दूत्यश्चैव स योगिनीम् || एतान्नदृष्टमात्रेण बलिं सर्वत्र दापयेत् | परिभ्रमणवेलायां मुद्रानृत्तं समाचरेत् || प्. ७९) तत् तद् दिनेषु कर्तव्यं तत् तन्मुद्रां समाचरेत् | अन्यथा कारयेद् यस्तु व्याधिशोकभयं भवेत् || ब्रह्माणी दिवसे कुर्यात् ब्रह्माणी क्रीडमेव च | माहेशी दिवसे चैव माहेशी क्रीडमेव च || कौमारी तद् दिने चैव तत् क्रीडानां समाचरेत् | वैष्णवी दिनमेवन्तु वैष्णवी क्रीडमुच्यते || वाराही दिवसेनैव वाराही क्रीडमेव च | इन्द्राणी दिवसे कुर्यात् इन्द्राणी क्रीडकारयेत् || चामुण्डी दिवसे कुर्यात् चामुण्डी क्रीडकारयेत् | एकवीरीं ततः कृत्वा कामरुद्रान्तु कारयेत् || कैलासमुद्रया कुर्यात् चण्डिकामुद्रया कुरु | तत् तद् देव न वा कुर्यात् मुद्रा नृत्तं यथा क्रमम् || मुद्रा नृत्तं तु कर्तव्यं हासनक्रीडनादिशेत् | मुद्रानृत्तं विशेषेण कारयेत् सर्वयत्नतः || नृत्तकस्तु शिवं प्रोक्तं पाठकस्तु पितामहः | प्रेक्षं भद्रकालादि तस्मात् तु पुत्रकस्तथा || * * * * * * चैव तस्मात् पादशिवस्मृतः | शिवपादे समुत्पन्नं तेन पादप उच्यते || सर्वशान्तिस्थितान्यत्र मुद्रानृत्तं तु कारयेत् | ग्राममध्ये प्रकर्तव्यं महामुद्रां समाचरेत् || प्. ८०) सुभिक्षं क्षेत्रमारोग्यं पुत्रपौत्र विवर्धनम् | तस्मात् सर्व प्रयत्नेन ग्राममध्येषु कारयेत् || मुद्रालक्षणमेवोक्तं अयागमधुना शृणु | करकञ्चाक्षमाला च ब्रह्माणी चांगमुद्रया || हरिणं परशुञ्चैव माहेशी चांगमुद्रया | वज्रशक्ति धरञ्चैव कौमारी चांगमुद्रया || शंखचक्रधरञ्चैव वैष्णवी चांगमुद्रया | हलञ्च मुसलञ्चैव वाराही चांगमुद्रया || वज्रशक्ति धरञ्चैव इन्द्राणी चांगमुद्रया | शूलखड्गधरञ्चैव कट्वांगं नागपाशकम् || केटकञ्च कपालञ्च घण्टा डमरुकं तथा | अंगन्तु चंडिकानान्तु इदानीं शृणुमुद्रिकाम् || नृत्तकाले प्रयोक्तव्यं एषां सर्वात्मना बुधः | लोहेन कारयेत् सर्वं मत्सवांग यथाक्रमम् || पञ्चरंग त्रिरंगं वा एकरंगमथापि वा | स्त्रीणां नृत्तं प्रकर्तव्यं गेयवाद्य समायुतम् || रथे वा कूटयन्त्रेण प्रतिमा सप्तदापयेत् | हंसोक्षहञ्च गारुढं हरिनागपिशाचकम् || स्वस्वेनायुध मुख्येषु पार्श्वे स्थाप्य विशेषतः | प्रत्येकं कूटयन्त्रं स्थापयेत्सुसमाहितः || प्. ८१) नवनाट्य बलिञ्चैव यत्पुस्त्वास्तु गम्यताम् | नैत्यकूटबलिञ्चैव धर्मे ध्वजसमायुतम् || क्षरिका पाणिनस्सर्वे तत्पुरस्तात् तु गम्यताम् | देव्या ध्वजान्तरे यस्तु मार्गोच्छेदं यथा भवेत् || गजं वा तुरगं वापि उष्ट्रवो महिषन्तु वा | नराणामरुणञ्चैव वनसूकरमाविकम् || कुक्कुटाश्च नवानान्तु छेदितं देवता पुरा | तन्मार्गे यदि छेदं स्यात् नवहत्या सदा बुधः || हविकल्पेन भावे तु हुत्वा देवान्निवेदयेत् | ब्राह्मणाक्षत्रिया वैश्या स्त्रियामन्नं सभैरवम् || तन्मार्ग यदि छेदं स्याद्धन्तव्यं शास्त्रवित्तकैः | बौद्धमार्षतं वापि संन्यास व्रतधारिणं || शैवं पाशुपतं वापि इति (यदि) मार्गन्तु लंघयेत् | नमस्कृत्वा विधानेन कर्तव्यन्तु सदा बुधः || एवं परिभ्रमे ग्रामे नगरे पत्तनेपि वा | नगरे कुञ्जरे वापि तीर्थे वापि समाहितः || नाना जनसमायुक्तं नानाक्रीडसमन्वितम् | नाना कुहक संयुक्तं नानाविद्या समायुतम् || नाना चित्रसमायुक्तं नानाविध समाकुलम् | नानाध्वज समायुक्तं नानायोगिनि संकरम् || प्. ८२) नानाब्राह्मण संयुक्तं नानामेषसमाकुलम् | नानागजसमायुक्तं नानातुरगसंयुतम् || नानाराजसमायुक्तं नानाशास्त्रसमाकुलम् | एकाहं त्र्यहञ्चैव पञ्चाहे सप्तमे दिने || एवं देव्यास्तु चैवोक्तं नवाहं वापि कारयेत् | अथवा षोडशाहं वा मासमेकन्तु कारयेत् || बलिभ्रमणवेलायां यात्राहोमन्तु कारयेत् | अपामार्गसमिद्भिस्तु अष्टोत्तरशतं हुतम् || आज्येनाष्टरशतं हुत्वा त्वष्टशतं हुतम् | अष्टमे दिवसे रात्रौ रक्षां कृत्वा तु बंद्धयेत् || आचार्यं पूजयेत् तत्र अजं वा महिषन्तु वा | अजं विन्द पशुं वापि प्रतिसरं बन्धयेत् तथा || तत्पश्चात् पञ्चविंशैर्वा सप्तचाचैकमेव वा | पशुं निबंद्धयेत् सूत्रं रक्तसूत्रं विशेषतः || तत्रादौ जागरं वापि ग्रहे वा आलये बुधः | कलशं स्थापयेत् तत्र रक्तवस्त्रेण वेष्टयेत् || कलशे वामभागे तु रक्षासूत्रं न्यसेद् बुधः | शालिमध्ये न्यसेत् सर्वमेकैकं पञ्चद्रोणकम् || तदर्धं तण्डुलं ग्राह्यं पद्ममष्टदले न्यसेत् | सूत्रं नवाक्षरं न्यस्य तच्छक्ति कलशं तथा || प्. ८३) कलशोदकेन संस्पृश्य सूत्रेणैव तु बन्धयेत् | बन्धयित्वा तु सूत्रं वा पशुना रक्षयेद् बुधः || प्रासादे तु बलिं दद्यात् पूर्वोक्त विधिना बुधः | इक्षुखण्डसमायुक्तं रक्ततोय समन्वितम् || मध्याह्ने दापयेत् तत्र सर्व दिक्षु यथाक्रमम् | आतपे तु पशुं हत्वा यथाविधितुनु क्रमात् || रक्तं वै मांसखण्डञ्च तद् देव्यान्तु निवेदयेत् | एवं शान्तिविधिं प्रोक्तं पश्चात् पशुविधिर्भवेत् || इति ब्रह्मयामले विद्यापीठावतारिते प्रतिष्ठातन्त्रे एकाशीति विधानांगे मातृशान्तिविधिं नाम अष्टादशपटलः || १८ || पशुविधिं प्रवक्ष्यामि सर्वकामार्थसाधनम् | गजं वा तुरगं वापि उष्ट्रं वा महिषन्तु वा || कृते तु गजमेवोक्तं त्रेतायामहमुच्यते | द्वापरे उष्ट्रमेवोक्तं कलौ महिषमेव च || महिषालाभे जनिं प्राक्तं अजालाभे तु पौष्टिकम् | सर्वलक्षणसंपूर्ण शुभलक्षण रक्षितम् || सुरूपवन्ध्या प्रशस्तास्तु मां पेशलमुत्तमम् | शृंगहीने तु वर्जित्वा कर्णहीने तु वर्जयेत् || नासिहीनै तथा चैव अरहीने तु वर्जयेत् | पशूनाञ्च शिथिले पुछ्रहीने तथैव च || प्. ८४) अतिवृद्धमति बाल कृशं वर्जं सदा बुधः | शृंगहीनन्तु दुर्भिक्षं बधिरं कुण्डहीनके || मुखनासिक हीने तु दुर्भिक्षं कलहं भवेत् | खुरहीने प्राणिनाशं पंकुना पंकुजन्मनः || काणे काणत्वमाप्नोति तथाग्रे कुक्षिरोगकम् | पुच्छहीने च दारिद्र्यं अतिवृद्धिं मृतिर्भवेत् || बाला पञ्चवर्षे तु मध्यमा | सप्तवर्षा भवेद् वृद्धा तदूर्ध्वमतिमृद्धिदा || एतान् परीक्ष्य यत्नेन सपशुं शोधयेद् बुधः | पायसं स्नापयेत् पूर्वं दधिना तु तथैव च || स्नापयित्वा घृतेनैव स्नाप्यता तंबुनाबुधः | गन्धाम्बु स्नापयेत् पश्चात् गन्धपुष्पादिनार्चयेत् || अर्घ्यपाद्याचमनीयञ्च पञ्चरत्नाम्बुजा बुधः | मात्रेसोत्कृतां सृष्ट्वा स्पृष्ट्वा स्पृष्ट्वा तु देशिकः || अकारादिक्षकारान्तं सप्तवर्गं क्रमान् न्यसेत् | शिरो फालभ्रुवौ कीर्णे नेत्रे नासिकपालयोः || ओष्ठयोर्दन्तपंक्तौ च जिह्वा च चिबुकं तथा | येषु तेनैव सर्वेषु अवर्गं विन्यसेत् पुनः || कण्ठे ग्रीवे तथा स्कन्धे वारौ हृदि विशेषतः | कवर्गं विन्यसेन्मन्त्री एषु स्थानेषु पूर्ववत् || प्. ८५) चवर्गा च टवर्गा च चतुष्पादेषु विन्यसेत् | शृंगयोन्यति पृष्ठौ च गुह्यस्थानस्तनेषु च || नासे पुच्छाग्र पाने च ककुत्स्थाने न्यसेत् क्रमात् | सास्रमृत्समेदोस्थि मज्जशुक्लादि धातुषु || ईरुते अश्रके चैव नवबीजं क्रमान् न्यसेत् | पयसा विन्यसेत् पश्चात् हुंकारं सर्वविन्यसेत् || शृंगयो ब्रह्मविष्णुश्च रुद्रस्सदाशिवस्तथा | वसवश्चाष्टभिश्चैव रुद्रमेकादशादि च || आदित्य द्वादशप्रोक्ता अश्विनौ द्वौ प्रकीर्तितौ | ब्राह्मं माहेश्वरी सन्ध्या यज्ञाय वासु * * * || * * त्तिकरली चण्डमहेशाष्टाक्रमणसेत् | वामदेवी च रुद्री च ज्येष्ठी काला तथैव च || कलविकरणी चैव बलविकरणी तथा | बलप्रमथिनी सर्वभूतदमनोन्मनी || शिराद्र पादयोश्चैव क्रमाद्विन्यस्य देवता | गन्धोदकं ततो दद्यात् नवाक्षरेण बुद्धिमान् || वस्त्रे युग्मे संपूज्य प्रणवेन तु दापयेत् | हारञ्च कटिसूत्रञ्च कुण्डलं मकुटं तथा || निवेद्यं दापयेन्मन्त्री श्वेतपीतञ्च कृष्णकम् | कर्णे मन्त्रं विदेन्मन्त्री नवाक्षरसकृत् सकृत् || प्. ८६) पादस्थाने खनेत् कूपं तत्र स्थाप्य पशुं बुधः | आगछ पदं तत्रैव तत्र स्थाप्य पशुं बुधः || देव्याचाभिमुखे स्थाप्य चतुर्दण्डी तदन्तरे | बिल्वं वा खदिरं वापि पञ्चहस्तं प्रमाणतः || षोडशांगुलनाहन्तु अग्रे पद्माकृतिर्भवेत् | पत्रं कर्णिकायुक्तं स्यात् यत्नाकारं समं तथा || सूपं संस्थापयेत् तत्र देव्याश्चैव पुराकृतम् | पशुं संवेष्टयेत् तत्र बलरजाति संयुतम् || नालिकेरस्तु चर्मन्तु यन्त्रयित्वा तु रज्जुभिः | कनिष्ठांगुल परीणांहंत्रीरावृत्ति क्रमेण तु || निच्छिन्द्रेंवजयेत् तत्र नागपाशमनुस्मरन् | कुशवज्रसमायुक्तं सापकं विरतैर्युकम् || विद्वान् संसृष्टमात्रेण अन्नं पाञ्चमरुज्जकैः | सव्यापसव्यमात्रेण क्रामयित्वा तु सापकम् || पश्चात् खड्गं गृहीत्वा तु खड्गशास्त्रविचारकः | खड्गदेवासुरे लक्ष्मी पद्मे ब्राह्मणदेवता || घण्टाया विघ्नदैवत्वं शुद्धाशे विष्णुदैवतम् | कटिकास्कन्द दैवत्यं यारयोश्चन्द्रसूर्ययोः || मध्यमे रुद्रदैवत्यं अग्रे संहारकालिकाम् | इत्यन्तु खड्गदैवत्यं पूजयेत् खड्गदेवताम् || प्. ८७) ओं खं खड्गाय शत्रसंहाराय नमः | पशूनां सर्वकर्णे तु जीवन्मुक्तेति मन्त्रतः || ओं पशुजीव मुक्तिप्रदे देवी सायुज्य देहं स्वाहा | एकेन प्रहरेणैव ग्रीवाश्चेदविशारदः || शतमर्धं तदर्धं वा चोत्तमन्तु प्रशस्यते | महाबलि प्रकारेण वधं पीठे बलिं क्षिपेत् || तद्भागं प्रोक्षयित्वा तु गन्धादीनां तु पूजयेत् | वस्त्रयुग्मेन संपूज्य स्वरूपप्रियदर्शनम् || यथालाभो पशुं छित्वा तथा लाभो फलं भवेत् | तत्पशुं जीवमुक्तन्तु सद्यस्सायुज्यमाप्नुयात् || इत्येते बलिमुद्दिश्य कर्तॄणान्तु फलं शृणु | सर्वसंपत्करं भद्रं जयदं सर्व सिद्धिदम् || रोमरोमेषु कल्पं वा स्वर्गलोके महीयते | सर्वरोम समाप्तेषु पश्चात् सायुज्यमाप्नुयात् || ब्राह्मणादि क्रमेणैव पशुं हत्वा विशेषतः | अन्येषाञ्चैव जातीनां पशुच्छेदं न कारयेत् || छेदने चैव तत्रैव राजराष्ट्रं विनश्यति | प्रायश्चित्तं प्रकुर्वीत पुनश्शान्तिं समारभेत् || सर्वलक्षणसंपूर्णं सर्वावयवशोभितम् | एवं लक्षणसंयुक्तं तंभदछेदयेत्पुनः || प्. ८८) ग्रीवे तु प्रहरेन्मन्त्री तद्रक्तं विनिवेदयेत् | वसन्दृष्ट्या भवेत् तत्र प्रायश्चित्तं समाचरेत् || पुनः पशुं हुनेत्तत्र उदापूर्वमूदीरकम् | होमं कृत्वा तु मन्त्रज्ञस्तद्दोषशमनाय च || मण्डलं कारयेत् तत्र त्रिभिर्वर्णैर्लिखेद् बुधः | चतुरश्रं बार्ह्यतो लिख्य शूलेनैव सुभूषितम् || मध्ये पद्मं समालिख्य अष्टपत्रं सकर्णिकम् | मातृन् वै पूजयेत् तत्र गन्धपुष्पञ्च धूपकैः || कलशं नवकं स्थाप्य सापिधानं सकूर्चकम् | संज्ञारक्त समायुक्तं नवाक्षरेण मन्त्रितान् || व्योमं पारशवं कृत्वा चत्वस्तु चतुर्दशी | मातृदीक्षा क्रमञ्चैव परं पर्यायमेव च || अन्यत्कर्ण न कर्तव्यं यामलाचारसंयुतम् | समयी पुत्रकश्चैव साधकाचार्य एव च || चित्रकं पारशैव स्यात् पुत्रकाणां शिवद्विजः | मातृदीक्षा समायुक्तं चतुर्वर्णन्तु योश्रकम् || आदौ पारशवाश्चैव नित्यं देव्यास्तु पूजकाः | दीक्षिता कर्मयोग्यानां पारशैव विशेषतः || ब्राह्मणान् शूद्रकन्यायाम्मन्त्रयुक्तेन संग्रहः | जातस्तयोश्च जात्यादावशक्तः पारशवस्तथा || प्. ८९) षोडश क्रियया युक्तं सर्वसंस्कारसंयुतम् | मातृदीक्षा च कर्तव्यं जन्मापारशवस्मृतः || अन्येषाञ्चैव योग्यानां सर्वेषान्तु विशेषतः | न दीक्षितश्च यत्कर्मं तत्कर्मं निष्फलं भवेत् || तस्मात् सर्वप्रयत्नेन पारशैव न पूजनम् | होमं कृत्वा विशेषेण चतुर्दिक्षु समं तथा || रक्ता कराली चण्डाक्षी महोच्छिष्टा पृथक् पृथक् | खदिराश्वत्थ बिल्वञ्च वटश्चैव चतुर्दिशम् || पृथगष्टोत्तरशतं ब्रह्मा वै त्वेकविंशति | समिधाज्य चरुं लाजं सर्षपञ्च यवन्तिलम् || मुद्गञ्च वैणवञ्चैव श्री पत्रं कदलीफलम् | तत् तन् मन्त्रेण होतव्यं चतुर्दिक्षु यथाक्रमम् || नवाक्षरेण मन्त्रेण समिद्द्रव्येण होमयेत् | कुलविद्या विधानेन पश्चाद् ग्राम परिग्रहे || सप्ताहे त्रिदिने वापि कारयेदुत्सवं क्रमात् | अथवा एकरात्रं वा ग्रामे सम्यक् परिभ्रमेत् || भ्रमणान्ते विशेषेण पूर्वोक्त विधिना हुनेत् | पूर्वं पद्मविधि कृत्वा स्नपनं कारयेद्बुधः || स्नपनं कारयित्वा तु स्नपनोक्तविधानतः | ब्राह्मणान् भोजयेत् तत्र यथावित्तानुसारतः || प्. ९०) दीनानां कृपणानाञ्च अन्नपानादि दापयेत् | गर्भदोषोद्भवे तत्र एते नैव तु शाम्यति || अवन्न कुर्यादज्ञानात् मृत्युदोषं भविष्यति | दुर्भिक्षं कलहं घोरं अनावृष्टिर्भविष्यति || गर्भिणी वयदोषार्थं क्रिया चैषा प्रकीर्तिता | एवं कृत्वा विधानेन सर्वशान्तिर्भविष्यति || धनमाय शुचौ * * * प्रभामतुलं भवेत् | हृद्देशं प्रणवेनैव षट्कारेण तु गृह्यताम् || फट्कारं मुखदेशे तु हुंकारेण शिरस्तथा | सदलन्तद्वये नैव पार्श्वे ह्री मां समन्त्रितम् || षोडशाक्तेन बीजेन स्वाहा प्रणवयोजितम् | तस्मात् समृद्धते मन्त्री यान्तेजं वा स्थितं हरेत् || सर्वांगन्तु हरेन्मन्त्री नवाक्षरेण मन्त्रितम् | सं सं दृश्य मतिमान् मूलमन्त्रेण वाचयेत् || वाचयित्वा विधानेन योजयेन् मूलविद्यया | तच्छेषं होमयेन्मन्त्री नवाक्षरेण शतं बुधः || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही चैव चेन्द्राणी चामुण्डी वीरभद्रकम् || गणेशश्चैव तत्क्षेत्रं लोकपालास्तथैव च | पिशाच प्रेतभूताश्च कूश्माण्डा गुह्यकास्तथा || प्. ९१) गन्धर्वा किंनरा सिद्धा सर्वेभ्यो बलिदापयेत् | मूलमन्त्रेण मन्त्रज्ञो बलिमेषां विनिक्षिपेत् || चतुष्पथे त्रिपथे वापि तटाके क्षेत्रदीर्घिके | प्राकारे चालये चैव श्मशाने चैत्यके बुधः || हुतशेषं भवेत् सर्वं भक्तियुक्तो दृढव्रतः | रक्तान्नञ्च प्रदातव्यं परियुक्तेन वै बुधः || बलिं दद्याद् विधानेन रक्त भाण्डं त्यजेद् बहिः | ग्रामसीमा बहिर्वापि कूपे स्थाप्य च मन्त्रवित् || पश्चाद्वा पांसुभिर्धीमान् कुण्डञ्चैव समुक्षिपेत् | कन्यकां भोजयेत् तत्र एकविंशति संख्यया || एवं पशुविधिः प्रोक्तो लक्षणन्तु प्रशस्यते | इति ब्रह्मयामले शतसहस्रसंहितायां पशुविधिर्नाम एकोनविंशत् पटलः || १९ || अतः परं प्रवक्ष्यामि यथा वेदानुपूर्वशः | शान्तिकं पौष्टिकञ्चैव आभिचारकमारणम् || ब्राह्मणादिक्रमेणैव शान्तिं कृत्वा यथाक्रमम् | असुराणां विनाशार्थं मातॄणामुद्भवं क्रमात् || मातॄणां शान्तिकं कृत्वा सर्व भूहितं भवेत् | उत्तमामध्यमधम त्रिविधं पशुरुच्यते || प्. ९२) हस्तीहयनरं हत्वा उत्तमन्तु विनिर्दिशेत् | मध्यं माहिषमेवोष्ट्रं त्वधमं त्वजसूकरैः || हरिणमुत्तमञ्चैव कुक्कुटञ्चाधमं भवेत् | ललाटे श्वेतवर्णन्तु संयुतं नेत्रगुग्गुलम् || संकाशमांसं * ष्णसुदर्शनं भूस्वग्रीवहम् | बृहक्ष * * * * * बृहत् स्कन्द बृहच्छिरम् || * सूग्धमेधवर्णन्तु अतिकृष्णं विलोचनम् | * ष्टपादं सुजारश्च वृत्तपादं सुनिहृतम् || शृंगहीनं भवेद्ध्वाधि दृष्टिहीनं धनक्षयम् | शोत्रहीनं ह्यनावृष्टि पादहीनन्तु पंकुना || पुच्छहीनं भवेन्मृत्यु अग्निदग्धं कुलक्षयम् | समपेक्ष्यं सदारिद्र्यं दन्तहीनं नृपाद् भयम् || गर्भन्वत्र समुत्पन्नं प्रजानामहितक्षयम् | पुनश्शान्तिं प्रवक्ष्यामि योजयित्वा विचक्षणः || पाषाणस्फटिकं कुर्यात् महामारी प्रकोपनम् | तस्य शान्तिं प्रकुर्वीत पुनश्शान्तिर्विधीयते || प्रायश्चित्तं प्रकुर्वीत सर्वदोषन्तु शम्यति | महिषं सर्वांगयुक्तं सुदर्शनं सुशोभनम् || पूर्वोक्तन्तु पशुं तत्र सर्वलक्षणसंयुतम् | शुभवर्णं शुभं प्रोक्तां वाहनां वर्णनावहम् || प्. ९३) कृष्णवर्ण सुभिक्षञ्च धूम्राभं वाहनं भवेत् | ललाटे नीलवर्णन्तु पशुं सुखमवाप्नुयात् || गुग्गुलासदृशं नेत्र पुत्रलाभेन संशयः | ह्रस्वग्रीवञ्चिरायुष्यं सुलक्षणं सुखावहम् || एवं विधिविधानज्ञो मातॄणां वृद्धिविवर्धनम् | पञ्चरात्रं पशुं शोध्य चरुणाप्युपलक्षयेत् || मातॄणां तत्र संपूर्ण शुद्धस्नानमलीनकम् | पृथक् पञ्चाष्टवर्गेषु उत्तमं पशुरुच्यते || बालाति वृद्धसंयुक्तं वर्जयित्वा विशेषतः | षष्ठाहं पूर्वरात्रे तु पशुं कृवाधिवासनम् || वेदिमध्ये प्रकर्तव्यं मण्डलं चतुरश्रकम् | हुंफट्कारेति मन्त्रेण अष्टपत्रं सकर्णिकम् || मध्ये पशं तथा व्याप्य सप्तरोहिणि मन्त्रतः | छेदयेन्मूलमन्त्रेण भक्तियुक्तो नरोत्तमः || उत्सवादिषु सर्वेषु बलिकर्म समाचरेत् | वाहनं देवि यानस्य द्रस्यविधिरुच्यते || इति ब्रह्मयामले शतसहस्रसंहितायां शान्तिविधिर्नाम विंशत् पटलः || २० || प्. ९४) अतः परं प्रवक्ष्यामि ध्वजारोहणमुत्तमम् | ध्वजस्य लक्षणं वक्ष्ये उत्तमाधममध्यमम् || षोडशहस्तयुक्तं तु द्विहस्तार्धन्तु विस्तृतम् | मूले तु घटिकोपेतं किंकिणीख संयुतम् || पार्श्वे कदलिकोपेतं तदग्रे तु द्विधाकृतम् | ब्राह्मणस्य ध्वजं श्वेतमुत्तमं तद्विनिर्दिशेत् || त्रिशूलन्तु शिवञ्चैव कपालं कौशिकं तथा | नाराचं परशुञ्चैव सर्ववस्त्रं तथैव च || मूलमध्ये तथान्ते च एतैश्चैव तु चांकितम् | श्वेतसूत्रसमुद्भूतं नैकचिसमन्वितम् || एवं ध्वजोत्तमं प्रोक्तं मध्यमं द्वादशं भवेत् | पूर्ववत् कारयेद् ब्रह्मन् मध्यमञ्च ध्वजं क्रमात् || पञ्चतालन्तु विस्तारं पञ्चवर्णन्तु समन्वितम् | क्षत्रियस्य ध्वजं प्रोक्तं रक्तसूत्रसमन्वितम् || अधमं दशहस्तञ्च द्विहस्तञ्चैव विस्तृतम् | पूर्ववत् कारयेत् तत्र नानाचित्रसमन्वितम् || वैश्यस्य पीतवर्णेन लक्षणेन समन्वितम् | अष्टहस्तसमायुक्तं द्विहस्तञ्चिव विस्तृतम् || शूद्राणां कन्यसञ्चैव नैकचित्र समन्वितम् | पूर्ववत् कारयेत् तत्र पटञ्च कृष्णवर्णकम् || प्. ९५) कार्पासं ब्रह्मणः प्रोक्तं क्षौमन्तु क्षत्रियस्य तु | आपिंगं वैश्य शूद्राणां ध्वजानां परिकीर्तिता || कराली तु लिखेत् तत्र पटे चैव हि बुद्धिमान् | ध्वजानां लक्षणं ह्येतदुत्तमम्मध्यमाधमम् || ध्वजदण्डविधिं कुर्यात् उत्तमं मध्यमाधमम् | प्रासादाद्विगुणं प्रोक्तमुत्तमं दण्डमुच्यते || चन्दनञ्चंपकञ्चैव मधुकं पनसं तथा | खदिरं देवदारुञ्च वकुलं बिल्वमेव च || अशोकमनसञ्चैव श्रेष्ठवृक्षमुदीरितम् | मध्यमं * * * * * * * * नालिकेरकम् || अधमं मुनि वृक्षं स्यात् क्रमुकं याज्ञिकं भवेत् | वैणवं तद्विजानीयात् मूलानाहमिहोच्यते || एते वृक्षा प्रशस्ताश्च पूर्वोक्तलक्षणान्विताः | शतहस्तं तदर्धं वा विंशत्पञ्चदशं तथा || द्वादशं हस्तदण्डं वा तथा लाभन्तु योजयेत् | वैणवं तद्विजानीयात् मूलेनाहमिहोच्यते || षोडशांगुलनाहं स्यात् मध्ये चाष्टांगुलं भवेत् | तदग्रे तु तदर्धं स्यात् उत्तमं दण्डमुच्यते || मध्यमस्य तदर्धं वा प्रासादस्य यथाक्रमम् | अष्टांगुलञ्च नागन्तु मूलं तस्य यथाक्रमम् || प्. ९६) एवं दण्डं समुत्पाद्य ध्वजमारोपयेद्बुधः | अथ दारुजं वापि ध्वजमारोपयेत्क्रमात् || ध्वजमारोपयेत् प्रातः राष्ट्रन्तु विजयं भवेत् | मध्याह्ने राष्ट्रवृद्धिः स्यात् सायाह्ने तु नृणां शुभम् || अर्धरात्रौ भवेद् ब्रह्म सर्वसम्पत् करं भवेत् | अग्नके पदवञ्चैव * * * श्चैव नाशयेत् || द्रव्यर्थमंगलानान्तु दिव्य भूषण भूषणम् | असद्देव विनाशञ्च ऋषिदेव प्रमोदनम् || शावमुक्ता तदाचार्य सर्वभूषणभूषितम् | ताम्बूलं दापयित्वा तु सर्वेभ्यश्च विशेषतः || ध्वजमारोपयेत् तस्मिन् शास्त्रदृष्टेन कर्मणा | ध्वजारोप्य ध्वजं ब्रह्म यथाविधि पुरस्सरम् || उपध्वजोच्युते तस्मिन् हस्तायामसमन्वितम् | इन्द्रे तु श्वेतवर्णं स्यात् आग्नेयं रक्तवर्णकम् || याम्ये कृष्णोद्भवञ्चैव नैर्-ऋत्यान्धूम्रमेव तु | वारुणे तु तदाकारं वायव्यं पीतवर्णकम् || सौमे तु सौवर्णाभं कुंकुमाभन्तु शंकरे | एवं दीर्घं निजं प्रोक्तं वेणुदण्डसमन्वितम् || त्रयाणाञ्च ध्वजानाञ्च दीर्घजातं तथैव च | अथवा दारुदण्डञ्च तत्प्रमाणन्तु चोच्यते || प्. ९७) एवं कृत्वा समासेन नैवेद्यं दापयेद् बुधः | उत्तमञ्चैव नैवेद्यं द्रोणतण्डुलसंयुतम् || पिशितन्तु तदर्धञ्च घृतप्रस्थसमन्वितम् | त्रयाणाञ्च ध्वजानाञ्च दध्नाञ्चोपदंशकम् || कदलीफलसंयुतम् नालिकेरफलं तथा | गुलखण्डञ्च माषञ्च मुद्गमूलफलं तथा || बृहती कारवल्लि च कूश्माण्डन्तु विशेषतः | लवणं मरीचिकञ्चैव स्नेहस्निग्धन्तु कारयेत् || निवेद्यन्दापयेत् तत्र क्रमुपदं समिति स्मृतम् | मधुना चैव संयुक्तं पायसं दधिवर्जितम् || स्वजाति देवं वेतालं खड्गहस्तञ्च दापयेत् | एवं हविर्निवेद्यञ्च ध्वजदेवाय देशिकः || ताम्बूलं दापयेत् तस्मिन् ध्वजदेवं समर्पयेत् | एवं वै चोत्तमं प्रोक्तं हविश्चैव विशेषतः || तदर्धं मध्यमं विध्यात् तदर्धञ्चासमं भवेत् | ओं खड्गहस्ताय विद्महे ध्वजदेवाय धीमहि || तन्नो ध्वजः प्रचोदयात् | पैशाचीनां पदं पश्चात् तत्पश्चात्प्रचोदयात् || एवं मन्त्रं समुच्चार्य सर्वं तत्रैव कारयेत् | दुन्दुभिं प्रहरेत् पूर्वं ध्वजं पश्चात् समुद्धरेत् || प्. ९८) ताम्बूलं दापयेत् तत्र सर्वेभ्यश्च विभक्तितः | कलशान्वेदिकायान्तु तण्डुले तु यथाक्रमात् || तण्डुलं शालिभिः कृत्वा अष्टद्रोणैर्विशेषतः | पञ्चरत्नानि सूत्राणि तण्डुले सूत्रयेत् तथा || तिर्यक् तथैव सूत्राणि सूत्रयेद् वै विचक्षणः | द्विपदं हृदये तस्मिन् चतुर्दिक्षु तथैव च || मध्ये नवपदं पद्ममष्टपत्रं ञकर्णिकम् | यवैर्धात्यैर्विकिरणं चतुर्विस्तारमन्ततः || तिलैश्च शोभितं पद्ममाढकेन विचक्षणः | पञ्चरत्नञ्च तच्छुद्धकलशे चैव तु विन्यसेत् || सूत्रेण वेष्टितं रक्तमाम्रपल्लवशोभितम् | वस्त्रयुग्मं समायुक्तं गन्धोदकसमन्वितम् || एवं कृत्वा तथा ब्रह्मन् नैवेद्यं दापयेत् पुनः | पूर्वोक्तञ्च बलिं दद्यात् कृत्वा देवं हृदान्तिकम् || एवं कृत्वा समासेन कन्याभोजनमाचरेत् | कन्याश्च षोडशे पात्रैर्भोजयेत् पायसेन तु || ध्वजस्योत्तरपार्श्वे तु क्षेत्रपालस्य पीठकम् | वृत्तपंक्ति त्रिकोणं वा चतुरश्रमथापि वा || अथवा देव्यालयं स्यात् ऐशान्यां पीठमुच्यते | एकविस्तारमुच्छृत्य तावदेव तु वर्णकम् || प्. ९९) इन्द्रनीलप्रतीकाशं घोरदंष्त्र महोदरम् | दण्डहस्तं सुहस्ताक्षमूर्ध्वकेशं भयाननम् || मेघाभञ्चैव सञ्चिन्त्य क्षेत्रपालबलिं क्षिपेत् | चतुर्विंशति वर्णैश्च मन्त्रस्याभ्यर्चनं भवेत् || क्षेत्रस्य मन्त्राघं सर्वं क्षेत्रपालबलिं क्षिपेत् | दुन्दुभिः प्रहरं पूर्वं कृत्वा तत्र बलिं क्षिपेत् || आदौ तु चांकुरं कृत्वा तदन्ते ह्यसिवासनम् | तदन्ते ध्वजमारोप्य तदन्ते भेरिताडनम् || तदन्ते श्रीबलिं कुर्यात् तदन्ते चांकुरन्तथा | तदन्ते यागपूजा च तदन्ते श्रीबलिं तथा || तदन्ते चोत्सवं प्रोक्तं तदन्ते स्नपनं कुरु | तदन्ते गुरुपूजा च शस्त्रदृष्टेन कर्मणा || क्षेत्रपालबलिं वक्ष्ये यथाविधि पुरस्सरम् | शतप्रस्थैश्च पक्वं स्यात् तदर्धं वा विशेषेतः || अजमांस युतं पक्वं तलचूर्णसमन्वितम् | गुलखण्डसमायुक्तमिक्षुखण्डसमन्वितम् || कदलीफल संयुक्तं मध्वाज्येन समन्वितम् | एवं प्रहरणञ्चैव सर्व वाद्येन बुद्धिमान् || तस्मात् सर्व प्रयत्नेन कुजवारबलिं क्षिपेत् | तद्वारात्पूर्ववारे तु || इति ब्रह्मायामले वीरविधाने ध्वजारोहणविधिर्नाम एकविंशत्पटलः || २१ || प्. १००) अथातस्संप्रवक्ष्यामि कुजवारबलिं शृणु | सर्वपापहरं राज्ञे सर्वसंपत्प्रवर्धनम् || ब्राह्मणानां हितञ्चैव महामारी विनाशनम् | राजाराष्ट्रजयंञ्चैव पुत्रपौत्रविवर्धनम् || गृहज्वरविनाशञ्च भूतदुष्ट विनाशनम् | महाशान्तिकरञ्चैव महावृष्टिविवर्धनम् || राजसेना सुखार्थञ्च हस्त्यश्वनरवर्धनम् | तस्करान्नभयञ्चैव मातॄणां प्रीतिवर्धनम् || तस्मात् सर्वप्रयत्नेन कुलवारबलिं क्षिपेत् | तद्वारात्पूर्ववारे तु रात्रौ सूत्रन्तु बन्धयेत् || अष्टद्रोणैस्तु संसिद्धे पंकजं तत्र चालिखेत् | एवं कृत्वा विधानेन प्रोक्षयेन्मूलमन्त्रकम् || तन्मध्ये कलशं न्यस्त्वा कृष्णमण्डलवर्जितम् | त्रिसूत्रं वेष्टयेत् तत्र गन्धोदक सुपूरितम् || पञ्चरत्नसमायुक्तं वस्त्रद्वय विभूषितम् | एकवीरीं न्यसेत्कुम्भे मूलमन्त्रेण देशिका || गन्धपुष्पञ्च दीपञ्च अर्घ्यञ्चरु निवेदयेत् | अजरक्तन्तु संपूज्य वामहस्तन्तु बन्धयेत् || प्रभाते विमले शुद्धे परशेचनमारभेत् | द्विगुणमाराध्य यत्नेन शास्त्र दृष्टेन कर्मणा || प्. १०१) एवं कृत्वा विधानेन चरुलाज फलादिभिः | एकाहन्तु हुनेत् तत्र मूलमन्त्रेण देशिकः || देव्यास्तु पुरतः कृत्वा कुण्डे वा स्थण्डिलेपि वा | मातॄणामर्चनञ्चैव मातृमन्त्रेण देशिकः || होमं तत्र प्रकर्तव्यं तद्देशे तु हुनेत्क्रमात् | रक्तं मांसं घृतञ्चैव सर्षपञ्चतिलस्तथा || लाजापूपादि संयुक्तमेकैकाष्टशं हुनेत् | भूतपीठं न्यसेन्मध्ये अजसप्तन्तु पातयेत् || सकलं निष्कलं न्यस्य तद्रक्तं तु निवेदयेत् | मधुत्रयेणसंयुक्तं रुधिरं मध्यसंयुतम् || मध्यमांससमायुक्तं कटके चैव निक्षिपेत् | एवं कृत्वा विधानेन योजयेद् देशिकोत्तमः || शूलं ध्वजञ्च परशुं चान्नलिंगं क्रियाकरम् | कपालं डमरुञ्चैव रत्नव्याघादकन्तथा || एतांश्च तान् समुद्धृत्य दीक्षिते परशैवके | क्षुरिकाहस्तसंयुक्तं बलिञ्चैव हि कारयेत् || नानापटहसंयुक्तं नानावाद्यसमन्वितम् | डमरुकध्वनिसंयुक्तं सर्व * * समन्वितम् || मातृभक्ति समायुक्तं माहेश्वरि समन्वितम् | समयी साधकश्चैव पुत्रकाचार्यकस्तथा || प्. १०२) क्षुरिकाश्रित हस्तस्तु संगञ्चैव मनोहरे | कुजवारबलिं शीघ्रं मध्याह्ने च विनिक्षिपेत् || ग्रामे वा नगरे वापि केटके कुब्जकेपि वा | द्विपथे त्रिपथे कोष्ठे वल्मीके च तथैव च || चतुष्पथे श्मशाने च बलिं सर्वत्र दापयेत् | बलि भ्रमणवेलायां नराणां लंघनं न तु || त्रिशूलं लंघनं कृत्वा धानमोक्षमवाप्नुयात् | स्त्रीणाञ्चैव तु विप्राणां लंघने तत्र संभवे || निरपेक्षञ्च कर्तव्यं कृत्वा चैव बलिं भ्रमे | वैश्य क्षत्रिय लंघे तु मांसच्छेदन्तु कारयेत् | श्वानमार्जारमहिषा खरोष्ट्राश्च तथैव च | मूलमन्त्रेण मन्त्रज्ञ पशूनाञ्चैव घातयेत् || एवं बलिं क्षिपेद् ब्रह्मन् शृणु शास्त्रस्य निश्चयः || इति ब्रह्मयामले शतसहस्रसंहितायां कुजवारबलिर्नाम द्वाविंशः पटलः || २२ || एकाहमुत्सवं वष्ये श्रूयतां कमलासन | पूर्ववन्मण्टपं कृत्वा तोरण ध्वजसंयुतम् || वैदिका चतुरश्रन्तु चत्वारिंशत्कुलं क्रमात् | तद्बाह्ये द्वारकेक्षुदण्डन्तत्रैव कारयेत् || प्. १०३) रत्निमात्रं प्रमाणानि चतुरश्रसमन्तथा | कृष्णपक्षे प्रशस्तन्तु अंगारक चतुर्दशी || रोहिण्यामुत्सवं श्रेष्ठं अंगारकदिनैर्युतम् | ब्रह्मणे वैष्णवे पुष्ये अंगारकदिनैर्युतम् || प्रतिमासिनि कुर्वीत अंगारबलि निवेदयेत् | पूर्वाह्णे चार्चयेद् देवीं कूर्चान्नन्तु निवेदयेत् || शान्तिहोमं प्रकूर्वीत देव्यग्नि विधिसंयुतम् | रक्तोदकं बलिं पूर्वं मध्याह्न बलिकर्मणि || चरुमांसञ्च रुधिरं लाजानि च तुलानि च | कूर्च * * * * * आपूपानि च बहूनि च || बलिद्रव्यञ्च युधञ्चैव अर्चयेन्मन्त्र पूर्वकम् | धूपदीपसमायुक्तं वितानं वस्त्रशोभितम् || मधुध्वजसहञ्चैव पाशश्च मज्जकं तथा | खड्गगर्भिधनुस्संगैक्षुरिकै कृच शोभितम् || बलिरक्षां प्रकूर्वीत नयेत् तत्र सदेशिकः | बलिपात्रमायुधम्मार्य मौनी व्रतपरायणः || ब्रह्मचारी तपस्वी च शुचिविप्रसमासन | मन्त्रञ्च मातृकं न्यस्त्वा * * * * * शोभितम् || सप्तमुद्रां प्रकुर्वीत तोरणानि च संज्ञया | क्षेत्रपालबलिं दद्यात् स्थापयेत् तद्विचक्षनः || प्. १०४) आलयन्तु परिभ्रम्य शन्नोगच्छन्त्यथाक्रमम् | ग्रामं वा नगरं वापि पत्तनं वा प्रदक्षिणम् || ब्रह्मस्थाने तु प्रथमं ब्रह्मदेवि बलिं ददेत् | इन्द्रादीशानपर्यन्तं बलिं कुर्यात् समन्ततः || देवी वेषधरो वापि मुद्रां वा बल्यनन्तरम् | चतुरश्रमण्डलं पूर्वमाग्नेयां योनिमाकृतिम् || याम्यायामर्ध चन्द्रे तु नैर्-ऋत्यान्तु त्रिकोणकम् | वारुण्यां वर्तुलं विद्यात् वायव्यान्तु षडश्रकम् || पद्ममष्टदलं सौम्ये ऐशन्ये चाष्टकोणकम् | हस्तमात्र प्रमाणानि मण्डलन्तु कारयेत् बुधः || * * चतुष्पथे चैव त्रिशूलञ्चैव दुर्गके | वापी कूपतटाकञ्च गोपुरञ्च तथैव च || देवस्थाने सभास्थाने मण्टपे च विहारके | वनान्तरे संस्थाने वटप्लक्षश्मशानके || नगरस्य चतुद्वारे एकवृक्षे शिवालये | बलिं दद्याद् विशेषेण स्वनाम्ना चाभिमन्त्रवित् || मुद्राबन्धनमस्कारमर्चयित्वा पुनः पुनः | बलिमुद्रां ददेत् पश्चात् बलिमन्त्रमनुस्मरेत् || यात्रा होमन्ततः कृत्वा पारशैवं विशेषतः | चतुष्टय जपित्वा तु चामुण्डा हृदयञ्जपेत् || प्. १०५) तदर्धरात्रे तत्काले देवी पूजा यदुत्तमम् | अष्टाह समहारावं बलिदानादनन्तरम् || नवद्वयगुणावाहे * * * * * * * * | भनुने नाममन्त्रेण अर्चयित्वा यथाक्रमम् || आस्यानाञ्चैव चार्घ्यञ्च पाद्यमाचमनीयकम् | अर्घ्यान्तमर्चयेद् विद्वान् बलिन् तत्रैव निक्षिपेत् || श्मशानान्तानि सर्वाणि पूजयित्वा विशेषतः | रात्रौ तु बलिदानं स्यात् तत् तत्स्नपन मारभेत् || विशेषहविषन्दद्यात् पशुं हत्वा निवेदयेत् | आचार्यं पूजयेद् विद्वान् वस्त्राभरणभूषणैः || इत्थं कुर्यात् ततो विद्वान् सर्वदुःखविनाशनम् | सर्वतीर्थ फलं पुण्यं सहस्र गोदानकल्पकम् || इति ब्रह्मयामले शतसहस्रसंहितायां एकाहोत्सवविधिर्नाम त्रयोविंशः पटलः || २३ || एवं महोत्सवं कृत्वा वभ्रथं कारयेद् बुधः | पूर्णोपक्रमशो पूर्णे देव्यास्थाने विशेषतः || मण्टपं गोमयेनैव चतुरश्रन्दश हस्तकम् | अंकुरं स्थापयेत् तत्र शालिनश्च न्यसेद् बुधः || लूखलं विन्यसेत् तत्र समूलं तत्र विन्यसेत् | लूखलामुसलामध्ये त्वर्चयेत् तत्र देवयोः || प्. १०६) योगिनी विन्यसेत् तत्र गन्धपुष्पादि योजयेत् | देव्याया समुदाहृत्य पूर्णकर्मन्तु वादिशि || द्विजान्नीवपेच्चूर्णमन्यथा दोषमाप्नुयात् | तच्चूर्णं स्थापयेत् तत्र मूलमन्त्रेण बुद्धिमान् || परिवारः स्नापयेच्चैव तैलाभ्यंगमनन्तरम् | यजमानं पूजयेच्चैव सर्वेभ्यो वा शिरस्य च || ग्रामं सम्यक् परिभर्म्य नदीस्नानं समाचरेत् | अनिन्दितां दिशं गत्वा तटाके वा विचक्षणः || स्नानक्षेपविधानेन अष्टभिः कलशं क्रमात् | नदिस्नानं तदा पश्चात् रक्षासूत्रं विसृज्य च || अलवृत्तागुरास्सर्वे स्नानं कुर्याद्ययेच्छया | स्नानाद्वामतिमान् सम्यक् दानं शक्तिविचक्षणः || आलयं पुनरागम्य पुष्पयागं समाचरेत् | पञ्चवर्णैश्च कुसुमैः पूर्वोक्तमण्डलं लिखेत् || मण्डले पूजयेत् सम्यक् मातॄन्वै मूलविद्यया | प्रभाते तु दिने रम्ये सर्वालंकारसंयुते || कुतपे पात्रबलिं दद्यात् सर्ववर्णञ्चरुं बुधः | सुवर्णे रजते वापि ताम्रे वा कांसपात्रके || नियुतैर्वायुतैर्वापि तथा पञ्चसहस्रके | सहस्रैरथवाप्यर्धे तथावर्धार्धरार्धके | प्. १०७) तथा च स्नापयित्वा तु रक्ताम्बरविभूषितम् | रक्तगन्धानुलेपाञ्च तथा पाशांकुशं परम् || खड्वांगं शंखचक्रञ्च हस्तं मुसलमेव च | वज्रं शक्तिपताकं च पद्मं स्वस्तिकमेव च || एतैस्सर्वा यथाधारै कन्यका परिवेष्टितम् | ग्रामं वा नगरं वापि शनैः कुर्यात् प्रदक्षिणम् || कृसरापूपसंयुक्तं त्वेतमन्नं तथैव च | रक्तान्नं पुष्पसंयुक्तं नवाक्षरेणमन्त्रितम् || तत् तन्मन्त्रेणसंयुक्तं बलिं सर्वत्रदापयेत् | शिरसा धारयित्वा शनैः कुर्यात् प्रदक्षिणम् || कृत्वा विधिना प्रविशेत् देव्याश्च तदनन्तरम् | स्नानं कृत्वा विशेषेण धूपदीप हविर्दिशेत् || निवेदयेत् पृथुमन्त्रेण कुलपारशवस्तथा | भ्रंशो भारश्च चत्वारि तिलशालि प्रियंगुलम् || सुशोभनं पूजयित्वा तत्र सर्वं निवेदयेत् | तत् तन्मुष्टिं गृहीत्वा तु होमं कृत्वा विचक्षणः || साधकस्समिधायाञ्च * * * * * * * * | अष्टोत्तरशतं हूयात् मूलमन्त्रेण यत् तथा || तदास्य होमविधिना तिलशालिप्रियंगुलम् | तन्मे नास्टशतं हूयात् सर्वशान्तिर्भविष्यति || प्. १०८) पुनर्वै होमशेषन्तु दशदिक्षुबलिं ददेत् | शेषं स्यात् क्षेत्रपालाय दापयेद् बलिमादरात् || कन्यकां भोजयेत् पूर्वं यागान्ते द्विजभोजनम् | आचार्यं पूजयेत् पश्चात् वस्त्रहेमांगुलीयकैः || परियष्टि परिचाराश्च तथा सर्वत्र पूजयेत् | एवं तालबलिं प्रोक्तं सर्वव्याधिविनाशनम् || सुभिक्षं वर्धनञ्चैव पुत्रापौत्रविवर्धनम् || इति ब्रह्मयामले शतसहस्रसंहितायां बलिविधिर्नाम चतुर्विंशत्पटलः || २४ || ईश्वर उवाच || उत्स्वान्ते च ग्रामान्ते पश्चात् स्नपनमाचरेत् | चूर्णस्नानं पुराकृत्वा दधिस्नानं तथा कुरु || सर्वगन्धसमायुक्तं रजनचूर्णसंयुतम् | लूखलामुसलाश्चैव वस्त्रयुग्मेन वेष्टयेत् || चूर्णयेन्मूलमन्त्रेण देशिकः पुत्रशालिनाम् | पूजयेत् तत्र आचार्यं अंकुरेणैव चालंकृतम् || चूर्णं सर्वं गृहीत्वा तु स्नपनं मूलविद्यया | पृथगीशीं ततः स्नात्वा पश्चान्मात्रसुपूजयेत् || प्. १०९) परिवारपिशाचाश्च योगपीठांश्च योगिनीम् | आचार्यं पूजयेत् पश्चात् यजमानं ततः कुरु || पारंपर्याश्च पुत्राश्च सर्वेभ्यो वा शिरस्य तु | नदीस्नानं ततः पश्चात् निन्दिक सुदिशि व्रजेत् || तटाकञ्च प्रकर्तव्यं महादिषु समाहितम् | जलाश्रयं समागम्य तण्डुलं वालुकैः कुरु || सर्वान्नकलशैस्थाप्य पश्चात् स्नपनमाचरेत् | गन्धपुष्पसमायुक्तमक्षतैश्चापि संयुतम् || हृदयेन तु मन्रेण रक्षासूत्रं विसर्जयेत् | अलूपत्तानरास्सर्वे स्नानं कृत्वा समहितः || दानं कृत्वा यथाशक्ति गोभूमी काञ्चनदिशि | दाने तीर्थे फले चैव स्वर्गलोकमवाप्नुयात् || आलयं पुनरागम्य स्नानभोगं समारभेत् | पञ्चवर्णमलंकृत्य पद्ममष्टदले न्यसेत् || कर्णिका केसरोपेतं गन्धादिभिरथार्चयेत् | तन्मध्ये न्यसेच्छैवीं गन्धपुष्पचरुन्ददेत् || स्नपनं कारयेच्छैवीं शास्त्रदृष्टेन कर्मणा | चतुरश्रमण्डलं कृत्वा दशहस्तप्रमाणतः || शालिभिस्तण्डुलं कृत्वा * * द्रोणेन बुद्धिमान् | अथवार्धमथाप्यर्थं पञ्चद्रोणेन वा पुनः || प्. ११०) तदर्धं मण्डलं ग्राह्य मध्ये पद्मं समालिखेत् | आयुधं वा सहस्रं वा तदर्धं वाप्यथार्धके || अष्टोत्तरशतं वापि पञ्चाशीतिमथापि वा | मृण्मयं कलशं प्रोक्तं कालमण्डलवर्जितम् || साधितान् क्षालितान् शुद्धान् गुग्गुलैश्चैव धूपितान् | सूत्रान्वा सूत्रसंयोक्तान् सकूर्चान्सापिधानकान् || मण्टपं शोभितं कृत्वा वितानध्वजशोभिताम् | दर्भमाला परिक्षिप्तं पुष्पदामसुभूषितम् || अषट्कससमायुक्तं फलपल्लवसंयुतम् | चामरैर्दर्पणैर्युक्तं घण्टाधूपसमन्वितम् || पञ्चविंशाच्च कलशान् प्रधाना परिकीर्तितः | पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं तिलोदकम् || क्षीरं दधिघृतं चैव मधुनागुलमेव च | पुष्पोदक फलोदञ्च गन्धोदक कुशोदकम् || काषायमृष्टवत्तोयं धातुवारि त्रिणोदकम् | शान्त्योदकरण्योदकं शांत्योदकं तथैव च || प्रियोकमिक्षुरसं लोहोदकमतः परम् | अष्टरत्नोदकञ्चैव पञ्चविंशदनुक्रमात् || पाद्यादिकं हृदा दत्वा इन्द्राद्यैशान्यमेव च | तेषां सर्वा नवा प्रोक्ता प्रदक्षिणे नैव विन्यसेत् || प्. १११) कलान् पञ्चविंशच्च प्रधान कलशैर्युतम् | अभिषेकञ्च प्रकर्तव्यं शुद्धवारि सुपूजितम् || गन्धपुष्पादिभिस्सर्वान् पूजयित्वा मुहुर्मुहुः | पृथक् च कलशान् न्यस्य सूत्रेणैव तु वेष्टयेत् || नवाक्षरेण * * * पाद्यस्थानं विधीयते | नवे नाचम्य मन्त्रेण आचमनीयं ददेत् बुधः || हृदिमन्त्रं जपित्वा तु अर्घ्यस्नानं समाचरेत् | मूलमन्त्रेण मन्त्रज्ञ पञ्चगव्यं न्यसेद् बुधः || शिखामन्त्रेण मन्त्रज्ञ तिलोदकमथा न्यसेत् | आचार्य मन्त्रितक्षीरं समाचरेदधिक्रमात् || * * वित्युच्चचन्मन्त्री देवी स्थानन्तु विन्यसेत् | विद्यामन्त्रं समुच्चार्य व्रतस्नानं विधीयते || नवाक्षरेण मतिमान् शेषं सर्वं यथाक्रमात् | अस्त्रमन्त्रेण चिन्त्यात्मा कलशांश्च पृथक् पृथक् || आचार्यो रक्तवासस्तु शुचिस्नानोजितेन्द्रियः | देवी तत्र सुगुप्तात्मा सर्वलक्षणसंयुतम् || नागहीनेन बधिरन् न शठैर्नजस्तथा | नकूरो नागरक्तांगो नोत्मोर्थे विधिपीडितौ || सर्वांगममृतत्वज्ञ मन्त्र शिवद्विज | षडध्वाज तथा धीमान् तेन लक्षणसंयुतम् || प्. ११२) स्नपयित्वा विधानेन सप्तवर्ज चरुन् ददत् | रक्तं पीतं तथा कृष्णं हरिद्रं श्यामादिकमेव च || पायसं कृसरञ्चैव हविस्सप्तेति कीर्तितम् | उपहारपशून् सप्त अजं श्वेतं प्रशस्यते || निवेद्य च विधानेन पञ्चस्थानं बलिं कुरु | सहस्रं वा शतं वापि पञ्चाशत्पञ्चविंशकैः || कुमारीशिरसा धार्यगन्धपुष्पैरलंकृतम् | चित्रध्वजपताकञ्च शंखदुन्दुभिसंयुतैः || ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् | देवालयं समागम्य युगपद् बलि(वि)निक्षिपेत् || इति ब्रह्मयामले शतसहस्रसंहितायां स्नपनविधिर्नाम पञ्चविंशत्पटलः || २५ || अतः परं प्रवक्ष्यामि मण्डलविधिमुत्तमम् | मण्डलं सर्वकामार्थं सर्वलोकहितावहम् || मातृशान्तिञ्च योगञ्च बलिकर्मणि लिख्यया | नवहस्ताष्टहस्तन्तु सप्तहस्तन्तु चोत्तमम् || पञ्चहस्तञ्चतुर्हस्तं मध्यमं मण्डलं तथा | त्रिद्वेकोन हस्तन्तु कनिष्ठं मण्डलं भवेत् || उत्तमं मण्डलं विप्रो मध्यमं नृपवैश्यकम् | अधमं मण्डलं शूद्रो सर्वेषां मण्डलायुतम् || प्. ११३) देवाया येषु सन्धेषु आचार्यस्तत्र लंघयेत् | पूर्वे तु चोत्तराग्रन्तु पूर्वोक्तं दक्षिणेन च || पश्चिमे चोत्तराग्रे तु पूर्वाग्रञ्चोत्तरेण च | पूर्वञ्च दक्षिणञ्चैव पश्चिमञ्चोत्तरन्तथा || चतुर्द्वारन्तु कूर्वीत चतुर्दिक्षु च मध्यमे | रक्षोहण फलञ्चैव पूर्वद्वाराधिपालकौ || आग्रेययां ज्वालिनी देवी नैर्-ऋत्यां विषुकर्णिनी | वायव्यां घातकी देवीमैशान्यामीश्वरी तथा || बाह्यावरणमालिख्य सप्तमं परिवर्धते | इन्द्रश्चाग्नि यमश्चैव निर्-ऋतिर्वरुणस्तथा || वायुश्चैव तु सोमश्च ईशानश्चाष्टदेवताः | इन्द्राग्निश्च द्वर्योर्मध्ये अश्विनौ कलयेत् क्रमात् || आग्नेय यमयोर्मध्ये पितृस्थानं प्रकल्पयेत् | यमनैर्-ऋतयोर्मध्ये यक्षांश्चैव तु विन्यसेत् || निर्-ऋतिर्वरुणयोर्मध्ये रक्षसां चैव विन्यसेत् | वरुणवायव्ययोर्मध्ये ऋषिस्थानं प्रकल्पितम् || वायुसोमकयोर्मध्ये सर्पान्वष्टौ प्रकल्पयेत् | सोमकैशानयोर्मध्ये रुद्रैकादशविन्यसेत् || इन्द्र ईशानयोर्मध्ये सोमस्तत्राधि देवता | अष्टमं परिवर्तन्ते देवतास्थानमुत्तमम् || प्. ११४) विमली च तथा भद्री कालकण्ठी सुकण्ठिनी | लम्बिनी चोत्तमी चैव विकृतिश्शुद्धमोहिनी || हाटकी च महाघोरी विरूपी तुंगदंष्ट्रिणी | विलासिनीविरूपाक्षी शंखचक्री चतुर्भुजी || पञ्चमं परिवर्तन्ते पूर्वादीनि प्रदक्षिणम् | चण्डाचण्डमुखी चोग्री सिंहनादमहारवी || द्वाकुटी भीमरूपी च आकाशीमन्दबुद्धिनी | लक्ष्मी च सत्यवादी च क्रोधिनी च तथैव च || मनवी माधवी रुद्री चतुर्थं परिवर्तते | चक्री चैव हुताशी च याम्यानी भूतवारुणी || वायवी चैव कौबेरी शंकरीशूलहस्तिनी | कट्वांगी चन्द्रधारी च चण्डधारी चकारिणी || त्रिणेत्रं वीरभोगी च वेदरूपी तथैव च | वर्तन्ते यद् द्वितीयन्तु इन्द्रादीनि यथाक्रमम् || ब्राह्म्यादि वीरविघ्नान्तं इन्द्रादीशानमाचरेत् | वर्तन्ते चैव मध्ये तु योगेश्वरीं न्यसेत् || बुधः काली चैव कराली च विराली च चतुर्दश | एतस्य तस्य मूर्तिस्तु मण्डलाभ्यन्तरे तु वै || अन्यथा मण्डलं कुर्यात् तस्य पश्चिमपार्श्वतः | चतुर्हस्तप्रमाणन्तु विस्तारं लक्षणान्वितम् || प्. ११५) तन्मध्ये शूलं विन्यस्य पार्श्वे सीनि स पूत्रकम् | तद्बाह्ये नृत्तकास्थानं चतुर्दिक्षु च केलक || नृत्तगेयञ्च वाद्यञ्च मुद्रामभिनयेद् बुधः | दिशमुद्रादिशानाल इन्द्राद्यैशानमुद्रया || पूर्वायान्तु दिशि कृत्वा घोरं गच्छेच्छिवारुगम् | दक्षिणायां दिशि कृत्वा रौद्रघोर भयावहम् || पश्चिमायां दिशि कृत्वा रोदनांगुलि योजयेत् | उत्तरस्यां दिशि कृत्वा अर्कास्यञ्चैव योजयेत् || रौद्रकलुकिलश्शब्दं घोरं कृत्वा शिवारुदम् | पूर्णकुम्भन्तु कमलं दर्शनं दण्डकासु च || द्वारपालान्नमस्कृत्वा अर्चयित्वा यथाक्रमम् | ओंकारादि नमोन्तञ्च स्थापनमर्चयेद् बुधः || स्वनामबन्धमध्यस्थं पूजयित्वा स्वमन्त्रवित् | वज्रं शृंखन्तु पातेन अग्निप्राकार एव च || शैलं शूलञ्चतुर्बन्धं * * यशूलमुद्रया | ततोद्वायय नमस्कारं शूलमूले तथार्चयेत् || घण्टाक्षुरिकखड्गादि गदान्तं संप्रदर्शयेत् | क्रियायां मन्त्रमुद्रा च बलिकर्म प्रयोजयेत् || बलिना पतितं कुर्यात् आयुधे पतिते यदि | च्युतमानन्तु कुर्वीत पुनस्संस्कारमर्हति || प्. ११६) आचार्यो बलिमारभ्य अवसानञ्च कारयेत् | प्रमादानवधानानि रुधिरं गृह्यसाधकः || दिशां बलिं प्रदत्वा तु आगछन्तु भैरवा | आज्ञाञ्चैव हितं कृत्वा हिंसा कर्ता च हिंसयेत् || अथवा अजहिंसा च होमञ्चैव दिशाष्टकम् | पश्चाच्च चरुसंपूज्य प्रायश्चित्तन्तु कारयेत् || इति ब्रह्मयामले शतसहस्रसंहितायां मण्डलविधिर्नाम षड्विंशत्पटलः || २६ || अतः परं प्रवक्ष्यामि ततः कलकवाद्यकम् | ततस्संकलसंवाद्यं कृत्वा चैव प्रदक्षिणम् || द्वितीयं जलमाश्रित्य तृतीयं नटमारभेत् | चतुर्थं पञ्चनाट्यञ्च पञ्चमं कर्मनाट्यकम् || आलीटञ्च तृतीयन्तु प्रत्यालीटञ्चतुर्थकम् | पञ्चमं शयनञ्चैव पञ्चनाट्यमिति स्मृतम् || अष्टबन्धं तथा कृत्वा अंगुष्ठाकुञ्चितं भवेत् | कनिष्ठांगुलि तर्जन्यो कवचमुद्रा विधीयते || पूर्वस्यान्तु दिशिशस्त्रं पूर्वस्यां दिशि दैवतम् | पूर्वस्यां तु दिशि ब्रूहि मे मातृपुत्रकम् || प्. ११७) पूर्वस्यां दैवतं कृत्वा इत्येते दैवतं भवेत् | ब्राह्मणस्य कुलं वृद्धि आपश्चाञ्जलिना हरेत् || दक्षिणस्यां दिशिमन्त्रं दक्षिणस्यां दिशिदैवतम् | दक्षिणस्यां दिशिब्रूहि ब्रूहि मे मातृपुत्रकम् || यदेव दक्षिणस्यास्तु यमो वै दैवतं भवेत् | क्षत्रियस्य कुलं वृद्धि आपश्चाञ्जलिना हरेत् || पश्चिमायां दिशिमन्त्रं पश्चिमादिशिदैवतम् | पश्चिमायां दिशिब्रूहि ब्रूहि मे मातृपुत्रकम् || पश्चिमे वरुणन्देवं दैवं तत्र प्रकीर्तितम् | वैश्यानान्तु कुलं वृद्धि आपश्चाञ्जलिना हरेत् || उत्तरस्यां दिशिमन्त्रं उत्तरादिशि दैवतम् | उत्तरस्यान्दिशि ब्रूहि ब्रूहि मे मातृपुत्रकम् || उत्तरस्यान्तु तद्दैवं कुबेरो दैवतं भवेत् | शूद्रस्येव कुलं वृद्धि आपश्चाञ्जलिना हरेत् || एकाध्यायां दिशामन्त्रं ऊर्ध्वायां दिशिदैवतम् | एकार्धायान्दिशि ब्रूहि ब्रूहि मे मातृपुत्रकम् || एकध्वान् दिशि देवास्तु सर्वदेव समाहितम् | मातॄणां कुलवृद्ध्यर्थं आपश्चाञ्जलिना हरेत् || अधस्ताच्च दिशामन्त्रं अधस्ताद् दिशि दैवतम् | अथस्ताद्दिशि च ब्रूहि ब्रूहि मे मातृपुत्रकम् || प्. ११८) एकोर्ध्वा दिशिदेवास्तु सर्वदेव समाहिता | मातॄणां कुलवृध्यर्थं आपश्चाञ्जलिना हरेत् || अधस्ताच्च दिशामन्त्रं अधस्ताद् दिशि दैवतम् | अधस्ताद्दिशि च ब्रूहि ब्रूहि मे मातृपुत्रकम् || अधस्ताच्चैव यद्दैवं विष्णुश्चैव तु दैवतम् | पृथ्वी सर्वे गणाश्चैव आपश्चाञ्जलिनाहरेत् || चतुरश्रं मण्टपं कृत्वा चतुर्द्वारोपशोभितम् | पूर्वे विद्याधरञ्चैव दक्षिणे गरुडन्तथा || पश्चिमे मण्डलमेवोक्तं उत्तरं पिंगलं भवेत् | एवं मुखावधा मुद्रा घण्टाशब्दं प्रयोजयेत् || खड्गमुष्टिस्तथाचार्यः खड्गेन परिवेष्टितम् | पूर्वस्यान्तु दिशि कृत्वा नाट्यञ्चैव प्रयच्छति || दिशामुद्रा दिशानाट्यं चतुराचार्य व्यवस्थितम् | आलीढञ्चैव स्थानञ्च पद्ममुद्रा तथैव च || दक्षहस्तं शिखाद्यन्तु वामपाद घृतं भवेत् | दक्षपादं पादनाप्यं वामहस्तं घृतं भवेत् || यक्षोगणफणञ्चैव पूर्वस्यां द्वारपालकौ | सुमुखो कालदण्डश्च दक्षिणद्वारपालकौ || सकलः कुम्भकर्णश्च उत्तरद्वारपालकौ | ऐरावत कुशञ्चक्रन्धनुर्बाणन्तथैव च || प्. ११९) वज्रश्च मुद्ररञ्चैव पाशञ्चैव तथा भवेत् | एते मुद्रा समाख्याता ऐन्द्रे चैव दिशि क्रमात् || धूपो वेदिस्तथा मुद्रा अग्निकुण्डहृदं भवेत् | प्रोढाशं प्रणवञ्चैव आग्नेयान् दिशि मुद्रया || कूपोदण्डस्तथा पाशं शार्वलीनरकस्तथा | वेताली महिषञ्चैव थाम्पायान् दिशि मुद्रया || वासं भलं भिण्डि पालञ्च मुद्गरन्तोमरन्तथा | कुन्तञ्चापि विजानीयान्नैर्-ऋत्यान् दिशि मुद्रया || गतापरंगसंघोषं विमानं पद्ममेव च | पूर्ण कुम्भञ्च कमलं भूतलेग्नि प्रदक्षिणम् || हृदयं स्पृष्टमात्रञ्च भूमिमुद्रा प्रकीर्तिता | तद्वच्च सोमसूर्यश्च ग्रहनक्षत्र तारकाः || ब्रह्मा च सप्तर्षय ऊर्ध्वायान् दिशि मुद्रया | जटामकुटधारञ्च त्रिणेत्रं नागभूषणम् || त्रिशूलं परशुं पालं खट्वांकं चाष्टमं भवेत् | वीरेश चागमुद्रा च सर्वकामार्थ साधकाः || अक्षसूत्रञ्च पद्मञ्च कमण्डलुं कुशमेव च | दण्डं कृष्णाजिनञ्चैव उपवीतन्तु हंसकम् || ब्रह्माणी चांगमुद्रा च सर्वकर्मार्थ साधकः | शूलं परशुमृगञ्च नाग-ऋषभमेव च || प्. १२०) गजचर्म जटाचैव व्याघ्रचर्मन्तथैव च | वामेशी चांगमुद्रा तु सर्वकर्मार्थ साधकः || वज्रं शक्तिञ्च घण्टा च प्रही कुक्कुटमेव च | उभयञ्चोपवीतञ्च इष्टिमुसलमेव च || कौमारी चांगमुद्रा च सर्वकामार्थ साधकः | पद्मञ्च नवमाला च गरुडञ्चाष्टमं भवेत् || वैष्णवी चांगमुद्रा तु सर्वकामार्थ साधकः | दंष्ट्रं दण्डहलञ्चैव वाराही महिषन्तथा || खड्गञ्चक्रं गदा चैव वाराही चांगमुद्रिका | वज्रं गदां तथा शक्ति धनुनाराचमेव च || तोमरं भिण्टपालञ्च वलयञ्चाष्टमं भवेत् | इन्द्राणी चांगमुद्रा तु सर्वकामार्थ साधकः || शूलं खड्गधनुश्चैव शरं खेटकमेव च | कट्वांगञ्च कपालञ्च घण्टाडमरुकन्तथा || चामुण्डी चांगमुद्रा तु सर्वकामार्थ साधकः | गजाननं गजकरं गजदन्तं बृहोदरम् || अक्षसूत्रञ्च कबलं कूर्चशाषकमेव च | गणेशश्चांग मुद्रा तु सर्वकामार्थ साधकः || इति ब्रह्मयामले शतसहस्रसंहितायां मुद्रालक्षणविधिर्नाम सप्तविंशत्पटलः || २७ || प्. १२१) शिवाप्तन्तु सर्वांगं एकमेवं महेश्वरम् | कथितं वा शिवत्वं हि सर्वं मेलनमेव च || अतः परं प्रवक्ष्यामि प्रकाराणान्तु लक्षणं | वक्ष्येहं विधिना ब्रह्मम् यथावदनुपूर्वकम् || गर्भगृहालयं प्रोक्तं आलयं दण्डमुच्यते | दण्डार्ध मण्टपं कृत्वा सदण्डमन्तर्हारकम् || मध्यागारं द्विदण्डन्तु चतुर्दण्डन्तु मध्यया | महामर्यादिभित्तिश्च सप्तदण्डं समं भवेत् || शैलैर्वा इष्टकैर्वापि कारयेत् सुदृढं क्रमात् | एकहस्तं द्विहस्तं वा त्रिहस्तं वा ततो भवेत् || पादान्तमुन्नतस्यान्तं गलान्तं त्रिविधायतम् | एवन्तु तत्क्रमेणैव प्राकारं परिपूरितम् || सुधाकार्यं तथा कृत्वा सुखासनं सुशोभितम् | प्राकारशैलया मार्गं प्राकारं मण्टपं तथा || पाकारं मातृतो वापि पाकारं त्रिविधं स्मृतं | पवित्रं चित्रर्द्धिकं वा अर्धचित्रमथापि वा || भूतप्रेतगणाश्चैव पिशाच वेतालरूपकम् | एतेषां कारयेत् तत्र यथाविभवविस्तरम् || पार्श्वे पृष्ठसमञ्चैव अग्रे तु द्विगुणं तथा | अन्तर्हारष्विदं प्रोक्तं अन्तर्हारे तु चालयम् || प्. १२२) अष्टौ तु परिवाराणामालयाष्टमतत्समम् | द्वारं गोपुरमानेन देव्यालयसमं भवेत् || आलयार्थमथार्थं वा आदिशेद्गोपुरस्य तु | सोपानस्याग्रतः कार्यं मण्टपञ्चतुरश्रकम् || मण्टपञ्च प्रकर्तव्यं कूटं वापि तथैव च | अन्तर्हारान्तरं पीठं ऐन्द्रे पीठं तथार्चयेत् || मध्याहारे ततः कुर्यात् वाहनालयमग्रतः | अन्येषां परिवाराणां आलयं मध्यमं भवेत् || आलयस्य तु तत्पूर्वे आदित्यालयमेव च | आग्नेयां वनं स्थानं पचनालयक्रमन्तथा || याम्ये मातृगृहे वापि पृष्ठे पार्श्वे तथैव च | नैर्-ऋत्यां गोगणस्थानं धान्यसंग्रहमण्टपम् || वारुणे लक्ष्मीस्थानं पचनालय क्रमन्तथा | (याम्ये मातृगृहे वापि पृष्ठे पार्श्वे तथैव च ||) स्कन्दालयन्तु वायव्यां सोमे तु धनसंग्रहम् | दुर्गालयन्तु चैवं स्यात् सर्पालयं तथैव च || ऐशान्यामुदकस्थानं आर्यस्थानन्तु भैरवम् | पुरस्ताद्भूतपीठञ्च ध्वजपीठं तथैव च || पशुपीठं सुरापीठं पिशाचपीठन्तु बाह्यतः | शिवमेव यथा प्रोक्तं कुर्याच्च विधिपूर्वकम् || प्. १२३) इति ब्रह्मयामले शतसहस्रसंहितायां प्राकारलक्षणविधिर्नाम अष्टाविंशत्पटलः || २८ || एकोन्त्रिंशः पटलः (छप्तेर् २९) अन्द् त्रिंशः पटलः (छप्तेर् ३०) इस् नोत् अवैलब्ले इन् थिस् ट्रन्स्च्रिप्त्. अथातस्संप्रवक्ष्यामि स्थानदेव विधिक्रमम् | चतुष्पथे त्रिपथे चैव कोणे चैव कपर्दिने || ब्रह्मस्थाने सभास्थाने देवस्थाने तथैव च | मण्टपे गोपुरे तत्र सिद्धिदं क्षेत्रमेव च || चतुष्पथे चतुरश्रं त्रिपथे च त्रिकोणके | दुम्बरैर्मालिनी देवी कपर्दीविश्वरूपिणी || देवस्थानं तथा प्रोक्तं * * * * * * * * | चतुर्मुखी ग्राममध्ये तु पूर्वे चैव तु गोमुखी || आग्नेययां षण्मुखी देवी नीलकेशी यमस्य तु | सिंही च नैर्-ऋते स्थाने वारुणे महिषमर्दिनी || वायव्यां घातकी देवी सोमे चैव सुदर्शिनी | ऐशान्यां पिंगलाक्षी च ग्रामपीठञ्च देवता || ग्रपञ्च आत्मगोपी च तटाके चैव कोणकी | पर्वते अष्टहासी च वापी वै चतुर्भुजी || वने च वज्रकाली च शास्ता स्थाने तु शालिनी | शिवस्थाने वज्रपाणि विष्णुस्थाने श्रीभूतकम् || बिल्वे सरस्वती देवी कोष्टे च गणराजिनी | दुर्गास्थाने तु दुर्गा च ज्येष्ठा स्थाने तु ज्येष्ठनी || प्. १२४) मण्टपे अष्टसहस्री च गोपुरे पीठनासिनी | गोस्थाने गोमुखी चैव नदीनां सर्वदेवता || महावृक्षे उग्रदंष्ट्री अभिमुखी नमो नमः | ओं नमो भगवती नागराजी नागादिकीर्तिता || श्मशाने नमो भगवती कुशली विश्वरूपिणी | ओं नमो भगवती उग्रदंष्ट्राभिमुखी नमः || ओं नमो भगवती कृच्छ्रीप्रियदर्शी नमो नमः | ओं नमो भगवती कुटिली उग्रमालाधरी नमः || ओं नमो भगवती धातु ह्रींकारिणी नमो नमः | ओं ज्वालाधिपतये ज्वाला हेमरूपायि विमलध्रुवाय नमो नमः || ज्वालाधिपति मन्त्रम् | इति ब्रह्मयामले शतसहस्रसंहितायां स्थानदेव विधिर्नाम एकत्रिंशत्पटलः || ३१ || भूमिदोषविधानन्तु प्रवक्ष्याम्यनुपूर्वशः | सर्वव्याधिहरं शुभ्रं सदा विजयवर्धनम् || अकालमृत्युहरणं वसूरीदोषनाशनम् | महाज्वरविनाशार्थं महाशान्तिकरं शुभम् || अनाव्षृटेस्तु शमनं अतिवृष्टिविवर्धनम् | महोत्पाते भूमिकम्पे महावाते तु कारयेत् || प्. १२५) लम्बा मूषिकाकीर्णे शिवोत्कृष्टे तु कारयेत् | स्वचक्र परचक्रं वा कलहे जनसंभवे || महाव्याधिसमाकीर्णे नराणां व्याधिपीडिते | देव प्रतिमरोधेन देवप्रासाद भेदने || सभास्थानादि भेदेन फलपुष्पनिपातने | महावाते प्रजामारे गजानां मरणेपि वा || अकस्मादश्वमरणे शस्त्राणां पतनेपि च | अशनिपाते तु कर्तव्यं मातृयागे तु शान्तिकम् || आषाढे वा भाद्रपदे दुर्भिक्षे तु तथैव च | महापीठे च निर्बन्धे दुर्भिक्षे सस्यनाशने || भूमिदोषेण कर्तव्यं मातृयागे तु शान्तिकम् | आषाढे भाद्रपदे च फाल्गुने चैत्रमेव च || वैशाखे ज्येष्ठमासे च कार्तिके पुष्यमेव च | कृष्णपक्षे चतुर्दश्या भूमिदोषन्तु कारयेत् || सूर्योदये वा कर्तव्यं पूर्वा * * वायशोनम् | प्रत्यूषे वापि कर्तव्यं मध्योदयञ्च उत्तमम् || अर्धोदये तु मोहं स्यात् सर्वकामार्थसाधनम् | ग्राममध्ये तु कर्तव्यं सर्वव्याधि निवारणं || सम्मार्जनञ्च तत्कृत्वा गोमयेन तु लेपयेत् | गन्धपुष्पैरलंकृत्य धूपदीपसमन्वितम् || प्. १२६) पुण्याहं जयशब्दैश्च शंखदुन्दुभिनिस्वनैः | काहलैर्-अल्लरीशब्दै वंशैसूर्यरवैश्शुभैः || ब्राह्मणान् भोजयेत् तत्र पञ्चाशद् वेदपारगाः | कन्यका भोजयेत् तत्र चतुष्षष्टि मनुत्तमम् || गन्धपुष्पैरलंकृत्वा सुरभिन्धूपदीपकैः | पूर्वोत्तरमुखो भूत्वा ब्रह्मस्थाने तु दोहयेत् || अन्यास्सर्वास्तु तत्रैव भूमौ दोह्यर्विधानवित् | मूलमन्त्रेण मन्त्रज्ञः प्रथमं दोहयेत् तथा || नवाक्षरेण मन्त्रेण दोहयेत् सर्व दोहनम् | भूमिदोहन वेलायां वासोद्धारन्तु कारयेत् || द्विरत्नि मात्रकुण्डन्तु मेखलात्रयभूषणम् | रत्निमात्रन्तु खतं स्यात् नाभिनेमि समन्वितम् || मेखलान्तु चेत्सर्वं त्रिप्रदेशं सुशोभनम् | षडंगुलन्तु विस्तारमेकैकं कारयेद् बुधः || अश्वत्थ पत्रवत्कार्यं योनिं प्रादेशमात्रकम् | नाभिर्वै तालमात्रन्तु अष्टपत्रं सकर्णिकम् || कण्ठं कृत्वा यथान्यायं होमं कुर्याद् विचक्षणः | नवाक्षरेण मन्त्रेण मूलमन्त्रं हुनेत् क्रमात् || वासोद्धारं पुनः कुर्यात् पलाश वृक्षादिकम् | त्रिरत्निमात्रमुत्सेधं यथालक्षणं * * * || प्. १२७) अश्वत्थं खदिरं वापि पलाशञ्चैव कारयेत् | सन्धानञ्च सहस्रन्तु तदर्धं वापि कारयेत् || अष्टोत्तरशतं वापि सर्षपादि चरुं बुधः | तत्पुरं तु होमं कृत्वा पश्चाद्वारं तु कल्पयेत् || पुत्रसूत्रेण मतिमान् समिधाञ्चैव होमयेत् | हृदामन्त्रेण पूर्वेण दक्षिणे मूलविद्यया || पश्चिमे कवचं जप्य उत्तरे चास्त्रमन्त्रतः | यथाद्वारसमाप्ते तु पीठयुक्तसमाहितम् || प्रथमं बीजमन्त्रेण ततस्तु कुलविद्यया | तत्रैव मूलमन्त्रेण ततस्तु कालिमन्त्रतः || बृहतीरन्तरञ्चैव महाव्रतज्येष्ठसोमक | वकणं वा कुण्डमन्त्रञ्च बहिः पवनमेव च || शिखायान्तु शिखां न्यस्य नेत्रे नेत्रे तु विन्यसेत् | हृदये हृदयस्ये हस्तमन्त्रन्तु हस्तकम् || पिंगला मूलमन्त्रेण व्योमव्यापि तथैव च | चामुण्डा हृदयञ्जप्य तथा पारशवोत्तमम् || आचार्यो होमयेत् तत्र शक्तिमन्त्रन्तु पाठकः | सुवर्ण कलशं वापि रजतं मृण्मयेपि वा || श्लक्ष्णतारमविच्छिन्न द्योतको चेतयेद् बुधः | स्रजते स्रतदेव्या च यारं तु चयेत् || प्. १२८) तत्क्षणाच्छान्तिमाप्नोति रोगन्तु नाशयेत् | पांसुना शीघ्रमाप्नोति सर्वरोगविनाशनम् || यथा गछन्ति शान्ति * * * * * * * * * | त्रैलोक्यं शान्तिमाप्नोति असुराणान्तु नाशनम् || वसूरिकाज्वरञ्चैव क्षयं वाथ महाभयात् | तत्क्षणान्नाशमायाति वसुधाराप्रभावतः || आचार्यं पूजयेत् तत्र ब्राह्मणानान्तु भोजयेत् | ब्राह्मणान् पूजयेत् पश्चात् सम्यग्वस्त्रैराभरणैश्च वा || इति ब्रह्मयामले शतसहस्रसंहितायां दोहवसुधारार्ध विधिर्नाम द्वात्रिंशत्पटलः || ३२ || वासार्धलक्षणं वक्ष्ये सर्वकामार्थसाधनम् | महापात्रे भूमिकम्पे अनावृष्टिसमुद्भवे || सूरिका ज्ञानमेकस्य महाव्याधि पथेन च | शरतमुषिकाकीर्णे दुर्भिक्षे कारयेद्बुधः || ग्रामध्ये तु कर्तव्यं अग्निकुण्डं सुशोभितम् | रत्निद्वयञ्च विस्तारं तदर्धं नामविन्यते || मेखलात्रयसंयुक्तं साकैन्तु षडंगुलम् | उत्सेध विस्तन्तद्वन्नाभिनेमि सनातनम् || प्. १२९) नाभि प्रदेश मात्रन्तु योनिगोकर्ण मात्रतः | अश्वत्थपत्रं यद् योनि नाभिपद्माकृतिं सुखैः || पलाशखदिरञ्चैव अश्वत्थं वटमेव च | रत्निमात्रसमुत्सेधं नाहं षट्त्रिंशदंगुलम् || तारांगुल्या च कर्तव्यं सप्तांगुलसमन्वितम् | पलाशं पातपूर्वे तु खदिरन्दक्षिणे न तु || पश्चिमे तु तथाश्वत्थं उत्तरे वटवृक्षकम् | स्तंबध्यायोपरि न्यस्य चोत्तरं दक्षिणं मुखम् || रक्तायान्तु पठेत् पूर्वे करालन्दक्षिणे पठेत् | चण्डन्तु पश्चिमे पाठे महोच्छिष्टोत्तरे पठेत् || अमूरण्यामर्धयित्वा अग्निजातेन बुद्धिमान् | पञ्चदश कृताधीमान् मर्दयेज्जातवेदसम् || दशं सत्कृत्य विधिवत् कुलमन्त्रेण संयुतम् | गर्भाधनादिकं कृत्वा पृथक् च साधयेद् बुधः || इमञ्च वर्तते नैव एकविंशति संख्यया | धारासमिधसाहस्रं पृथक् गोकर्ण मात्रतः || तत् तन् मन्त्रेण संयुक्तं एकैकं समिधाहुतम् | द्वौ द्वौ द्वारं प्रकर्तव्यं द्वौ द्वौ चाध्ययनं भवेत् || पुण्याह जयशब्दैश्च शंखं कुर्याच्छुभैरपि | गन्धपुष्पैश्च धूपैश्च दीपमर्घ्य हवीषिं च || प्. १३०) क्षीरं लाजैस्तिलैश्चैव गुगुणा जुहुयात् पृथक् | एकैकस्य सहस्रं स्यात् भूतिश्च वामतात् || वसोर्धारा प्रमाणन्तु हविच्छेद समात्रतः | यावत्समाप्तसहिता तावत् द्वारं विधीयते || अथवा पुरुषसूक्तेन सहस्रं वा जपेत् ततः | अथवा रुद्रसूक्तेन सहस्रं वा जपेत् ततः || ज्येष्ठामन्त्रेण वा मन्त्री सहस्रञ्जपमाचरेत् | चामुण्डी मूर्तिभेदेन मन्त्रभेदेन सर्वशः || तेन तेनैव मन्त्रेण वासोद्धारं समाहितः | अथवा रुद्रसूक्तेन मुण्डाधारमथापि वा || अथवानुग्रहसूक्तेन अम्बुदस्वामि शक्तिषु | गायत्र्याः प्रजपेन्मन्त्री वासोद्धारन्तु कारयेत् || अतन्नवाक्षरं जप्यं वासोद्धारन्तु कारयेत् | वासोद्धारं प्रकर्तव्यं व्याहृतिश्चैव बुद्धिमान् || आयुधे सर्वव्याधि नाशमायान्ति केवलम् | वासोद्धारं प्रकर्तव्यं कृष्णाष्टम्या विशेषतः || महामारी विनाशार्थं चतुर्दश्यामथाचरेत् | अमावास्यां प्रतिपते वासोद्धारन्तु कारयेत् || कृष्णपक्षे चतुर्दश्यां सर्वव्याधि विनाशनम् | विशेषेण वसूरिञ्च नाशयेत् तत्र संशयः || प्. १३१) तस्मात् सर्वप्रयत्नेन भूतादि नैव कारयेत् | सहस्राढकं घृतेनैव वासोद्धारन्तु कारयेत् || वासोद्धारं नमते विवशेतदर्धेनाभि कारयेत् | अथ शताढके नैव वासोद्धारन्तु कारयेत् || वासोद्धारन्न देवेश महिषी मनलस्य तु | तेनैव पितृमाप्नोति सर्वव्याधि हरो भवेत् || वासोर्द्धारं प्रकर्तव्यं महामारी विनाशनम् | सुभिक्षं गोबलञ्चैव आयुरारोग्य संपदम् || ब्राह्मणान् भोजयेत् तत्र कन्यकां भोजयेत् क्रमात् | तत्रैव भोजयेत् तत्र बलिं सर्वत्र दापयेत् || बन्धञ्चैव मोक्षं स्यात् अंगनावसेचना नवा | पूजयेत् सर्व देवांश्च गन्धपुष्पं हविस्तथा || पुरे सर्वजनाश्चैव स्नानं कृत्वाम्बरान्विताः | शुक्लगन्धानुलिप्ताश्च शुक्लमाल्यैश्च भूषिताः || प्रोक्षणीया जनास्सर्वे वासोर्द्धारसमुत्सुकाः | तद्दिने चैव पूर्वाह्णे पुराभाण्डं त्यजेद् बहिः || मृण्मयानि च भाण्डानि पुराणानि च मार्जनम् | पुराणभाण्डसूर्पाण भूतभाण्डानि सर्वशः || ग्रामाद्बहिस्थितं विद्वान् वासोद्धारं तथा कुरु | ग्राममध्ये तु कर्तव्यं वासोद्धारं समाहितः || प्. १३२) आवाह्य सर्वदेवानां ब्रह्मविष्णु महेश्वरान् | इन्द्राग्नि यमनैर्-ऋत्यां वारुणं वायुमेव च || सोमेशान गणांश्चैव इन्द्रादित्य मरुद्गणाः | वसवश्चाष्टभिश्चैव द्वादशादित्य एव च || रुद्रा एकादशस्सर्वे अश्विनौ द्वौ तथैव च | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही चैव माहेन्द्री चामुण्डा च गणाधिपाः | वीरभद्रञ्च दुर्गा च लक्ष्मी ज्येष्ठा वसुन्धरा || सरस्वती उत्तमा गंगां आवाह्य विधिवद्बुधः | महामारी महादेवी चामुण्डा तु वरा सदा || खारा सानन्तरूपाश्च सूर्पहस्ता भयानका | मूर्तिमार्जनि संयुक्ता ऐशान्यां पूजयेद्बुधः || अभ्यन्तरे यजेद्धीमान् ब्रह्मविष्णु महेश्वरान् | स्कन्दमादित्यमन्त्रैश्च पूर्वभागे तु पूजयेत् || ऐशान्यां पूजयेद् विद्वान् वसून् पूर्वोत्तरे यजेत् | मरुद्गणावयवैश्चैव पूज्य अश्विन्यांशं रोदशम् || उमा श्रिया सरस्वत्या दुर्गा चैव वसुन्धरा | गायत्री देवमाता च गंगा प्राज्ञायता युति || अभ्यन्तरे यजेद्धीमान् वासोर्धारपरिक्रमात् | दक्षिणे सप्तमातॄणां वीरभद्रगणाधिप || प्. १३३) लोकपालान्न्यसेद्बाह्ये स्वस्वे स्थाने समाहितः | अग्नेः पश्चिमे भागे चाधिकं तत्र पूजयेत् || वामपार्श्वे तथाविष्णुं दक्षिणे शंकरं यजेत् | बाह्यतो लोकपालानां महामारिं कदिशम् || पूजयेत् मध्यमांश्चैव आघुवैदरोदनैः | स्वस्वेनैव तु मन्त्रेण पूजयेत् त्रिदशेश्वरान् || गन्धपुष्पैश्च धूपैश्च दीपनैवेद्यमेव च | पायसेन निवेद्यं स्यात् ब्रह्मविष्णुमहेश्वरान् || * * * * * * * निवेद्यं स्यात् शेषात्सर्वेषु | महामारितरुद्द्रेण सहस्रं वा जपेत् तथा || ज्येष्ठामन्त्रेण वा मन्त्री सहस्रं जपमाचरेत् | चामुण्डी मूर्तिभेदेन भद्रभेदेन सर्वदा || दातव्यञ्चैव चामुण्डी पिंगलो पिंगलानि च | कृसरन्नतु दातव्यं पितृदेवाश्च सर्वदा || गन्धोदनन्तु * * * * * * णां विशेषतः | * * * * * * * * * कानां पन्नगानपि || असुरासुरसिद्धाश्च यक्षविद्याधरानपि | किंनरा अप्सरा दैत्या पिशाचा भूतयोग्यकाः || योगिनी डाकिनी चैता गुह्यमातरगानपि | सर्वे मांसयुतं स्यात् बलिं सर्वत्र दापयेत् || प्. १३४) ब्राह्मणान् भोजयेत् तत्र वस्त्राभरणपूजनैः | आचार्य दक्षिणां दत्वा गो भूमी काञ्चनादिभिः || गजाश्चतुरगञ्चैव दासी दासञ्च दापयेत् | प्रदक्षिणं ततः कृत्वा प्रत्ये प्रत्यक्षमापयेत् || वासोद्धार विधि ह्येतन् महामारि विनाशनम् | कपिलायां सहस्रन्तु दत्तस्यात्फलमाप्नुयात् || वासोद्धरविधानेन यन्त्रं कुर्यान्नराधिप | तत्रैव जायते वापि रुधिरासूर्य निश्चयः || इति ब्रह्मयामले शतसहस्रसंहितायां वासोद्धारलक्षणविधिर्नाम त्रयस्त्रिंशत्पटलः || ३३ || अतः परं प्रवक्ष्यामि जीर्णोद्धार विधिं शृणु | मूलस्थानं समाश्रित्य बालस्थानं प्रकल्पयेत् || बालस्थान प्रतिष्ठा तु सीमानञ्च तथैव च | सीमता षट्तथा चैव कृष्टे कारार्द्धमेव च || लक्षणं वास्तु भूमेस्तु तस्याद्रोहणमेव च | तस्यांकुराणां रक्षार्थं भूमिवृक्ष्यर्थमेव च || शान्तिहोमं ततः कुर्यात् शंखभेर्यादिघोषयेत् | रत्निमात्रं खनित्वा तु पांसुमुद्धृत्य पूरयेत् || प्रोक्षणं पञ्चगव्येन पर्यग्निञ्च समाचरेत् | कीडिकेशास्थिलोष्टे च स्थाने तत्रैव दृश्यते || प्. १३५) शान्तिहोमं ततः कुर्यात् कृत्वा पुनः कर्मसमाचरेत् | आर्षपौरुषं वापि तत्वांशतरुणालयम् || अन्तसारे मुखे मध्ये पूर्वादीशे तु वारुणे | ह्यत्तरे वा विशेषेण बालस्थानं प्रकल्पयेत् || मूलरूपन्तु नष्टं स्यात् पूर्वार्चा प्रतिमं भवेत् | इष्टमार्गे वसन् तत्र प्रतिरूपं प्रकल्पयेत् || अष्टसप्तनवांगुल्यं पञ्चषट्चतुरंगुलम् | एकवर्षन्तु शून्यञ्च पूजाशून्यं न संशयः || द्विवर्षाणि च भूतानि त्रिवर्षन्तु पिशाचकम् | चतुर्वर्षन्तु गन्धर्व पञ्चवर्षासुराश्रय || सप्तममल्पतत्वञ्च अष्टौ वेतालमेव च | दशवर्षञ्च शून्यञ्च ब्रह्मराक्षसमाश्रये || मूलप्रासादशून्यञ्च आश्रयन्तु न संशयः | शान्ति होमं ततः कुर्यात् साधकान् स्वस्ति वाचयेत् || प्रासादे भिन्न हीनञ्च प्राचीनाकृति योजयेत् | योजनं शिल्पिभिः कार्यमिष्टका शैलदारुभिः || यद्यत्तु कल्पितं पूर्वं तत्तेनैव तु कारयेत् | उत्तमं शैलजं प्रोक्तं मध्यमं दारुयोजनम् || कन्यसन्त्विष्टका चैव योजयेत् पूर्वकर्मणा | ह्युत्तरोत्तरजं श्रेष्ठं तन्न्यूनं नैव कारयेत् || प्. १३६) पुण्याहं प्रत्यहं कुर्यात् शिल्पिभिः कारिते स्थले | संप्रोक्षणमतः कुर्यात् स्थलकर्मावसानके || पञ्चरत्नेन संयुक्तं पञ्चगव्यन्तु पूजयेत् | मूलरूपन्तु नष्टं स्यात् बालबिम्बं प्रकल्पयेत् || अथ प्रासादभिन्नं वा बालस्थानं प्रकल्पितम् | तस्मात् सर्व प्रयत्नेन शास्त्रदृष्टेन कारयेत् || इति ब्रह्मयामले शतसहस्रसंहितायां जीर्णोद्धारविधिर्नाम चतुस्त्रिंशत्पटलः || ३४ || बालस्थान विधिं वक्ष्ये बहुवीर्येकवीरिकम् | बालस्थानं प्रकुर्वीत सुभिक्षं सस्य वर्धनम् || आयुरारोग्यकञ्चैव सर्वसंपत् प्रवर्धनम् | पूर्वे तु विजयं ज्ञेयं पुत्रपौत्रादि वर्धनम् || आग्नेयं शत्रुविजयं विपुलं धनमाप्नुयात् | उत्तरे जाति वृद्धिः स्यात् पूज्यमाचन्द्रतारकम् || बालस्थानं पुरा कृत्वा पश्चात् प्रासादमारभेत् | बालस्थानं समारभ्य तत्तत्प्रासादनेष्यते || वित्तहा जन्महा चैव राष्ट्रनाशस्तथैव च | तस्मात् सर्व प्रयत्नेन बालस्थानं प्रकल्पयेत् || प्. १३७) शिलाभिरिष्टकैर्वापि पार्थिवेनापि कारयेत् | त्रिहस्तं वा चतुर्हस्तं पञ्चहस्तमथापि वा || षट् हस्तं सप्तहस्तं वा अत ऊर्ध्वं न कारयेत् | तत्रैव दारुणा चैव अर्चायाः प्रथमं कुरु || मूलस्य प्रतिमां कुर्यात् शास्त्रदृष्टेन कर्मणा | मण्टपञ्चतुरश्रन्तु चतुर्द्वारसमायुतम् || चतुस्तोरणसंयुक्तं दर्भमालाभिवेष्टितम् | ध्वजाष्टकसमायुक्तं पुष्पमाल्यैरलंकृतम् || मध्ये वेदि प्रकर्तव्या धनुमुष्टिद्वयं भवेत् | तत्रैव पूरयेच्छाली द्रोणसप्तकमेव च || तदर्धं तण्डुलं ग्राह्यं पद्ममष्टदलैर्लिखेत् | तन्मध्ये शयनं कुर्यात् कम्बलैर्वस्त्रपट्टकैः || कस्योपरि न्यसेत् कूर्चं गन्धपुष्पैश्च संयुतम् | तस्योपरि न्यसेद् देवीं भीमरूपीं त्रिलोचनीम् || वस्त्रयुग्मेन सञ्च्छाद्यं उपवीतञ्च दापयेत् | स्वर्णपुष्पञ्च दत्वा तु मूलमन्त्रेण दापयेत् || प्रासादाभिमुखाद् देविं शयने शययेद् गुरुः | हृदये हृयं न्यस्य ललाटे प्रणवं न्यसेत् || स्थाने नवाक्षरञ्चैव नमस्कारेण हस्तयोः | नेत्रमन्त्रं न्यसेद्धीमान् देवीनलोष्ट्रपेन च || प्. १३८) यत्पञ्चकं न्यसेच्छोत्रं नासास्यन्तु तृतीयकम् | तुरीयन्तु तृतीयं वा पादयोर्विन्यसेद् बुधः || सृष्टिबीजं न्यसेद् गुह्ये पृष्ठे तारन्तु विन्यसेत् | मूर्ध्निपादचतुर्थन्तु प्रष्टतातन्तु विन्यसेत् || एवं न्यस्त्वा विधानेन बिम्बशुद्धिं समाचरेत् | गन्धपुष्पञ्च धूपञ्च दीपमप्यपवित्रकम् || पुण्याहं विधिवत् कृत्वा स्नपनञ्चैव कारयेत् | विविधैर्भक्ष्य भोज्येन मूलमन्त्रेण योजयेत् || ब्राह्मणान् भोजयेत् सम्यक् अष्टोत्तरशतानि वै | एवमेव प्रकारेण पूर्वादि क्रमयोगतः || पलाशं खदिराश्वत्थं बिल्ववैकंकतानि च | देशिकन्तु पलाशेन पूगाट् खादिरमेव च || तिलसर्षपलाजैर्वा समिधाज्य चरून् बुधः | पृथगष्टोत्तरशतं हुत्वा हुत्वा तु संस्पृशेत् || तिलं हुत्वा स्पृशेत् पादं मूलमन्त्रेण बुद्धिमान् | हुत्वा तु सर्वपाषाणां तु एकं स्पृष्ट्वा तु संस्पृशेत् || लाजं हुत्वा कटिं स्पृश्य चरुं हुत्वोदरं स्पृशेत् | समिधं हुत्वा स्पृशेद्धस्त मुद्रा कूर्चसमन्वितम् || आज्यं हुत्वा तु सर्वांगं स्पृशेन् मूलस्य मुद्रया | नवाक्षरेण जुहुयात् पूर्ववत् समपंकजम् || प्. १३९) मूलमन्त्रेण हुत्वा तु ततो मूलन्तु विन्यसेत् | इन्द्राग्निक यमश्चैव नैर्-ऋतिर्वरुणवायवः || सोमेशानदेवानं लोकपालांस्तथैव च | भद्रकाली महाकाली चामुण्डी चण्डिका तथा || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही चैव माहेन्द्री वीरभद्रो गणाधिपः || भूताश्चैव पिशाचाश्च वेतालं प्रेतनायकी | नवाक्षरेण मन्त्रेण स्वनामपदसंयुतम् || प्रणवादि चतुर्थान्तं होमयेत् खलुपूर्वशः | वसुभिश्चाष्टभिश्चैव रुद्रैकादशभिस्तथा || आदित्याद्वादशञ्चैव समुद्रास्सप्त एव च | सप्तद्वीपसमाख्याता लोकास्सप्तप्रकीर्तिताः || पृथिव्यापस्तथाग्नीशो वायुराकाशमेव च | शब्दस्पर्शरूपञ्च रसगन्धैश्च पञ्चमम् || कर्मेन्द्रियाणि पञ्चैव तथा बुद्धिन्द्रियाणि च | बुद्धिमानश्चाहंकार प्रकृतिः पुरुषस्तथा || रागविद्याकुले चैव माया बिन्दु तथैव च | विग्रहेशञ्चैव शुद्धशुद्धविद्याधिकमेव च || एकाहं पञ्चभिः कृत्वा मूलमन्त्रेण देशिकः | कलशान् स्थापयेत् पूर्वं सूत्रान् कालविवर्जितान् || प्. १४०) सकूर्चा द्रव्यसंयुक्ता सापिधाना स वस्त्रका | मध्यमे कलशे ब्राह्मी पवित्रारत्नविन्यसेत् || क्षीरं वै पूर्वकलशे दक्षिणे तु दधिन्यसेत् | पश्चिमे तु घृतं न्यस्य पञ्चगव्यन्तु चोत्तरे || श्यामकमग्निकलशे नैरृत्यां वैणवं न्यसेत् | वायव्यां शालिविन्यस्य ऐशान्यान्तु कुशोदकम् || नवाक्षरेण मन्त्रेण मन्त्रयित्वा तु पूर्ववत् | देव्यास्तु परिधे धीमान् कलशं विन्यसेत् पृथक् || रक्ता करली चण्डाक्षी * * च्छिष्टन्तथैव च | निवृत्तिश्च पतिष्ठ च विद्याशान्तिस्तथैव च || अर्चयित्वा विधानेन गन्धपुष्पादिभिः क्रमात् | रात्रौ महोत्सवं कुर्यात् शंखभेर्यादिनिस्वनैः || पुण्याहं वाचयित्वा तु सूत्रं वै बन्धयेत् तथा | आदौ सर्वेषु कर्तव्यं पुण्याहं सर्वकर्मसु || रात्रौ होमं प्रकर्तव्यं प्रभाते स्थापनं कुरु | सुमुहूर्तदिने चैव बालस्थानं प्रवेशयेत् || कालमन्हो विधानज्ञ यावत् प्रासादसञ्चयः | तावत् तिष्ठेत् बलिग्रामे त्रिसप्तद्वादश क्रमात् || आस्थापन विधानेन स्थापयेद्धृदयेन तु | आस्थापनन्तु हृदयं स्थापनानां तु मूलतः || प्. १४१) कलशान् स्थापयेद् बिम्बे नवाक्षरेण बुद्धिमान् | कलशोदकेन सर्वन्तु प्रोक्षयेद्धृदयेन तु || पीठे गर्भर्द्धिभित्तिश्च प्रासादं मण्टपन्तु वा | परिवाराञ्च सर्वांश्च प्रोक्षयेद् देशिकोत्तमः || पशुं हत्वा तु तत्रैव त्रयो वा एकमेव वा | निवेदयेद्रक्त देवेशी हृदयेन समाहितः || निवेद्यन्दापयेत् तत्र वस्त्रैराभरणैरपि | ब्राह्मणान् भोजयेत् पश्चात् कन्यकास्सप्त भोजयेत् || सर्वे वर्ण क्रमात् ततः | तस्माद्भूतबलिं ग्रामे नरद्वासे समायुधः || लाजसक्तु समायुक्तं सर्वत्र बलिदापयेत् | हृन्मन्त्रेण बलिं दत्वा बलिपीठञ्च बुद्धिमान् || आचार्यान् पूजयेत् सर्वं वस्त्रहेमांगुलीयकैः | यागोपयोगद्रव्याणि वस्त्रमाभरणानि च || आचार्यस्तु यथाद्रव्यं विविधामयकन्तथा | इति ब्रह्मयामले शतसहस्रसंहितायां बालस्थानविधिर्नाम पञ्चत्रिंशत्पटलः || ३५ || अतः परं प्रवक्ष्यामि जलसंप्रोक्षणं शुभम् | सूतकी प्रेतकी चैव ह्यालयाभ्यन्तरे गतः || प्. १४२) चण्डालैः पतितैर्वापि क्षेत्राचारविरुद्धकैः | प्रविष्टे देवगेहे च मोहाद्वा ज्ञानतोपि वा || स्पर्शितं लिंगबेरादि देवमानमथापि वा | प्राणिनां मरणे चैव नानादोषसमुद्भवे || संप्रोक्षणमतः कुर्याच्छास्त्र दृष्टेण कर्मणा | मण्टपं कारयेत् सम्यक् पूर्वोक्तविधिना बुधः || अष्टदीर्घजसंयुक्तं कलशैस्समलंकृतम् | शालिभिस्थण्डिलं कृत्वा अष्टद्रोणैस्तु बुद्धिमान् || तदर्धं तण्डुलञ्चैव तस्यार्धं तिलमेव च | तस्यार्धं लाजसंयुक्तं दर्भमुष्टिश्च विस्तृतम् || तन्मध्ये पङ्कजं लिख्ये साष्टपत्रं सकर्णिकम् | तर्पूर्वे योनिकुण्डञ्च आचार्यो विधिसत्तमः || कलशांस्तु वटांश्चैव त्रिसूत्रं वेष्टयेच्छुभम् | लोहजैर्मृण्मयैश्चैव क्षालितैः शुभैः || घृतक्षीरदधींश्चैव अर्घ्यपात्रं क्रमान् न्यसेत् | मध्ये * * न्तु विन्यस्य पञ्चरत्नं सुनिक्षिपेत् || पूर्वे तु क्षीरविन्यस्य उत्तरेप्य * मेव तु | दधीनां दक्षिणे चैव पश्चिमन्तु घृतं न्यसेत् || पाद्यन्तु विन्यसेत् मन्त्री पूर्वोक्तैस्सर्वमेव तु | * षायं पञ्चगव्यञ्च इक्षुसारन्तथैव च || प्. १४३) शेषाणि पर * त्तोय नवाक्षरेण मन्त्रितम् | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही चैव माहेन्द्री चामुण्डा च प्रकीर्तिता | वीरभद्रगणाद्याश्च स्वस्वमन्त्रेण विन्यसेत् || काली चैव महाकाली सुराली तु चतुष्कला | सुराली युक्तमध्ये तु कलशस्य न्यसेद् बुधः || रक्ता कराली चण्डाक्षी महोच्छिष्टा पृथक् न्यसेत् | चतुर्दिक्षु च विन्यस्य होमं कुर्याद् यथा पुरा || पलाशं खदिराश्वत्थं प्लक्षन्यग्रोधमेव च | अश्वत्थोदुम्बरञ्चैव बिल्ववैकंकतानि च || समिधाज्य चरुर्लाजं दधिक्षीरं तथैव च | हुतमष्टोत्तरशतं प्रत्येकं सर्व मूर्तिषु || ब्रह्मादि मूर्तिभिश्चैव धारयेन्मूर्ति धारकाः | हुत्वा जप्त्वा स्पृशेद् देवीन्नवाक्षरेण बुद्धिमान् || सुमुहूर्ते सुलग्ने च योगे च करणान्विते | नवाक्षरन्तु बिम्बे वा प्रणवादि नमोन्तकम् || नवाक्षरेण संयुक्तश्शस्त्रे संप्रोक्षयेद् बुधः | स्नपनोक्तविधानेन अभिषिञ्चेद्यथा शुभम् || नृत्तवाद्यैश्च संपूर्णं नानाघोषसमन्वितम् | वेदघोषसमायुक्तं सर्वातोद्य समायुतम् || प्. १४४) एवमेव विधानेन अभिषिञ्चेद्यथा शुभम् | नृत्तवाद्यैश्च संपूर्णं नानाघोषसमन्वितम् || वेदघोषसमायुक्तं | कलशोदकन्तु संग्राह्य प्रतिमाञ्चाभिषेचनम् | प्रासादे परिवारे च सुबाह्याभ्यन्तरेपि च || सर्वं संप्रोक्षयेद् विद्वान् पूर्वोक्तं मूलविन्यसेत् | आवाहयेत् ततो देवीं सर्वलक्षणसंयुताम् || अष्टाभुजान्त्रिणेत्राञ्च नागाभरणभूषिताम् | नागयज्ञोपवीतेन शिरो मालाविभूषिताम् || प्रलयस्थिति सर्वाणां जगद्योनिं महेश्वरीम् | प्रतिमायां न्यसेद् देवी कुजवारे विशेषतः || ततः प्रभृति यत्नेन पूजयेत् तत्र वित्तमः | प्रतिष्ठा चैव तत्काले आचार्य स्वस्ति वाचकैः || नानाभरणद्रव्यैश्च गोभूमी काञ्चनादिभिः | इति ब्रह्मयामले शतसहस्रसंहितायां संप्रोक्षणविधिर्नाम षट्त्रिंशत्पटलः || ३६ || अतः परं प्रवक्ष्यामि क्षेत्राचार विधिक्रमम् | वर्णानामानुपूर्ण्यश्च शृणुब्रह्मन् समाहितः || सेवनं गर्भगेहञ्च देशिकानां विधीयते | अर्धमण्टपसेवा च श्रोत्रियाणां समीरितम् || प्. १४५) तद्बहिक्षत्रविट्भ्यान्तु तद्बहिश्शूद्रसेवनम् | सूचिकस्तन्तु वाग्वश्च तिलघाती च सूनिकः || तक्षकस्स्वर्णकारश्च शिलाभेदी तु लोहकः | कुम्भकारश्च गोपालो ह्येते वै न्यूनजातयः || एतैस्तु दर्शनञ्चैव कर्तव्यं ध्वजमूलतः | रजकादि हीनजानान्दर्शनं बहिरालयात् || चण्डालश्वपचादीनां क्षेत्राच्च शतदण्डके | एतेषां व्यत्यये नैव क्षेत्रान्तर्वेशने सति || देवसान्निध्यहीनञ्च महादोषः प्रजायते | महामारिप्रवेशञ्च सर्वे वै पुरवासिनः || पीड्यन्ते सततं रोगैस्तद् दोषशमनाय च | पुण्याहन्तु प्रकुर्वीत संप्रोक्षणमथाचरेत् || वर्णानां क्रमशो वक्ष्ये शृणु ब्रह्मन् समासतः | ब्राह्मण्यां ब्राह्मणाज्जात संस्कृतो ब्राह्मणो भवेत् || एवं क्षत्रियविट्शुद्राः ज्ञेयास्स्वेभ्यस्स्वयोनिजाः | अध्यापनं चाध्ययनं यजनं याजनं तथा || दानं प्रतिग्रहश्चेति षट्कर्माण्यग्रजन्मनः | षण्णान्तु कर्मणामस्य त्रीणि कर्माणि जीविका || याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः | इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च || प्. १४६) प्रतिग्रहोधिको विप्रे याजनाध्यापने तथा | नृपायां विप्रतो जातस्सवर्णो ब्राह्मणो भवेत् || आयुर्वेदाथर्ववेद धनुर्वेदान् सदापठेत् | विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः || वैश्यस्य वर्ण एकस्मिन् षडेते पशदा स्मृताः | वैश्यायां विधिना विप्राज्जातो ह्यम्बष्ठ उच्यते || कृष्या जीवी भवेत् तस्य तथैवाग्नेय वृत्तिकः | ध्वजिनी जीविका वापि अम्बष्ठाश्शस्त्र जीविनः || वैश्यायां विप्रतश्चेर्योत्कुम्भकारस्स उच्यते | कुलालवृत्या जीवेत नापित्वा वा भवन्त्यतः || नाभेरूर्ध्वन्तु वपनं तस्मान्नापित उच्यते | शूद्रायां विधिना विप्राज्जातः पारशिवो मतः || भद्रकालि समाशृत्य जीवेयुः पूजकाः स्मृताः | तस्यां वै चौर्यतो जातो निषादश्च प्रकीर्तितः || वने दुष्टमृगान् हत्वा जीवनं मांसविक्रयम् | नृपाज्जातोथ वैश्यायां गृह्यायां विधिना सुतः || वैश्यवृत्या तु जीवेत क्षत्रिर्मन्न चाचरेत् | तस्यां तस्यैव चौर्येण मणिकारः प्रजायते || मणीनां राजतां कुर्यात् मुक्तानां वेधनक्रियाम् | शूद्रा क्षत्रसंसर्गाज्जात उग्र इति स्मृतः || प्. १४७) नृपस्य दण्डधारस्यादण्डं दण्ड्येषु सञ्चरेत् | वैश्या तु करणश्शूद्र्यां भिन्नायान्तु विधिस्मृतः || माहिष्येण करण्यान्तु रथकारः प्रजायते | शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा || पठनां वस्तुशास्त्राणां हेमान्याभरणानि च | लोहकर्म तथा कुर्यात् रथकारस्य वृत्तयः || नृपाद् ब्राह्मणकन्यायां सूतो नाम प्रजायते | वेदानर्हं तथा चैषां धर्माणामनुबोधकः || वैश्याद्वै देहश्शूद्राच्चण्डालो नाम जायते | क्षत्रिया मागधं वैश्याछूद्राक्षत्तारमेव च || शूद्रादायोगवं वैश्या जनयामास वैसुतम् | नृपायां वैश्यतश्चौर्यात् पुलिन्दो नामजायते || हिंसया दुष्टसत्वानामरण्ये वर्तयेदयम् | शूद्रादायोगवः क्षत्ता चण्डाश्चाधमो नृणाम् || यथैव शूद्राद् ब्राह्मण्यां बाह्यजन्तु प्रसूयते | तथा बाह्यतरं बाह्याच्चातुर्वण्यं प्रसूयते || प्रातिलोम्येन संभूतास्सर्वकर्मबहिष्कृताः | उग्रात्तु जातः क्षत्रायां श्वपाक इति कीर्तितः || चण्डालश्व पचानान्तु बहिर्ग्रामात्प्रति श्रयः | वर्षोपेतमविज्ञातन्नरं कलुषयोनिजम् || प्. १४८) आर्यरूपमिवानार्यं कर्मभिस्स्वैर्विभावयेत् | वर्णानामानुपूर्व्येण जातो वै ह्यनुलोमजः || वैपरीत्येन संभूतो प्रतिलोम इतीरितः || इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्राचारवर्णविवेको नाम सप्तत्रिंशत्पटलः || ३७ || अतः परं प्रवक्ष्यामि बालस्थापनमुत्तमम् | प्रासादे छिन्नभिन्ने वा प्रतिमा वा तथा यदि || नवीनं कारयेत् पश्चात् सर्वांगं चित्रशोभनम् | ततः प्रवेशकाले तु पूर्ववद्विधिमाचरेत् || कुण्डमण्टप प्रासाद प्रतिमां शुद्धिमाचरेत् | स्थापयेद् देव देवेशि तन्त्रोक्तं विधिना कुरु || अन्यथा संप्रवक्ष्यामि शुद्धासनमुत्तमम् | सुमुहूर्ते च नक्षत्रे योगे च करणान्विते || रात्राधिवासयेद् देवीम्मातरं सहतत्क्रमात् | पुरतो देव देवेशी धान्यराशौ विचक्षणः || वृत्तं वा चतुरश्रं वा योगपीठं प्रकल्पयेत् | शालिना पूजयेत् तत्र पञ्चद्रोणैस्तथा क्रमात् || तस्योपरि न्यसेन्मन्त्री द्रोणपञ्चकतण्डुलैः | चतुरश्र समं कृत्वा पञ्चगव्येन प्रोक्षयेत् || प्. १४९) तन्मध्ये तु लिखेत् पद्ममष्टपत्रं सकर्णिकम् | हेमरुप्यमयं कुम्भं ताम्रञ्च मृणमयन्तु वा || कलशान्नवकं ग्राह्य सुपक्वान् सुदृढाञ्च वा | इन्द्रादीशानपर्यन्तं कलशान्विन्यसेत् क्रमात् || इन्द्रेत्याचमनं न्यस्त्वा आग्नेययां मध्यमेव तु | याम्ये पाद्यन्तु विन्यस्य नैर्-ऋत्यान्तु कषायकम् || वारुण्यां क्षीरं विन्यस्य वायव्यां दधिविन्यसेत् | सौम्यायां सर्पिविन्यस्य ऐशान्यां गव्यमेव तु || ब्राह्म्यादीन्न्यसेत् तत्र स्वस्वमन्त्रेण दापयेत् | ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा || वाराही चैव माहेन्द्री ईश्वरी च * * * * | नवमे * * एकवीरी * * मध्ये कलशेषु विदुर्बुधः || गन्धपुष्पैश्च धूपैश्च अर्चयित्वा विधानतः | विन्यसेत् पद्ममध्यन्तु कर्णिकायां सुसंहितम् || मातरस्थलमध्यस्थ पूर्वादितमयोगत | निक्षिपेत् पञ्चरत्नानि नवबीजेन मन्त्रवित् || वारिणा पूरयेत् पश्चात् वस्त्रपूतं सुगन्धिभिः | कूर्चाक्षतविन्यस्य वस्त्रयुग्मेन वेष्टयेत् || रक्तेनोपरि सञ्च्छाद्य मन्त्रमुद्रां प्रदर्शयेत् | एवन्तु कलशान्न्यस्य पश्चाद् ध्यान परो भवेत् || प्. १५०) पृथिवी पाकजं ध्यात्वा कर्णिका मेरुनिर्मितम् | कर्णिकोपरि विन्यस्य देवेशीं भूतमातरम् || कपालखट्वांग धारी महाप्रेतकृतासन | चतुर्भुजा चाष्टभुजा त्रिणेत्रां रुद्ररूपिणीम् || दिशाम्बरां मुककेशां महाव्यालविभूषिताम् | कपालमालिनीन् देवीं प्रलयाग्नि समप्रभाम् || सूर्यकोट्यायुधप्रख्या सुरासुरभयंकरीम् | इत्थं रूपधरीन्देवीं कलशे स्थापयेद् बुधः || निरोधन्तत्र कर्तव्यं मन्त्रमुद्रा समन्वितम् | नैवेद्यं विधिना दद्यात् यात्राहोमं समारभेत् || अष्टभिः पञ्चभिर्वापि होमं कुर्या स दीक्षितैः | बिल्वं पलाशखदिरं वटमौदुम्बरस्तथा || प्लक्षं वैकंकतञ्चैव अश्वत्थं वारुणं तथा | पूर्वादिक्षु यथान्यायं होमं कुर्यात् समन्त्रकैः || कुण्डेष्वेव विचित्रेषु लक्षणेषु च बुद्धिमान् | चतुरश्रं भवेदिन्द्रे आग्नेययां योनि संभवम् || याम्यायाञ्चार्धचन्द्रन्तु नैर्-ऋत्यान्तु त्रिकोणकम् | वारुण्यां वर्तुलं ज्ञेयं षट्कोणं वायुगोचरे || उत्तरे चैव पद्माभं ऐशान्याञ्चाष्टकोणकम् | एतेषु कुण्डमेवोक्तं कुण्डेषु च विचक्षणः || प्. १५१) स्वस्वेनैव तु मन्त्रेण मूर्तिधारैश्च होमयेत् | अष्टोत्तरशतं हुत्वा सदृशेनैव लम्बिते || शिरोदेशे तु देवानां आचार्यो होममारभेत् | तिलसिद्धार्थकञ्चैव प्रियंगुशालिलाजकम् || आज्यं हुत्वा हुनेत् सर्वान् बाल * * * * * * | अष्टोत्तरशतं हुत्वा प्रत्येकं सर्वमूर्तिषु || आचार्य द्विगुणं हुत्वा पु * णतरुणालये | * * काले क्रिया सर्वान् अधिवासन कर्मसु || चलस्य च न्यसेन्मन्त्री पूर्वोक्ते च * * * येत् | गुरुबालस्थानमलंकृत्य वितानाद्युपशोभितम् || देशकालं ततः प्राप्य बालस्थाने निवेशयेत् | चलन्तु स्थापितं कार्यं बालस्थानन्तु देशिकः || तत्पयवयं गच्छेत् आचार्यो साधकैस्सह | शनैरुत्कृत्य कलशं पूर्ववत्स्मरणान्वितम् || निष्टप्य द्वारदेशे तु शनैर्गच्छेत् प्रदक्षिणं | प्रविश्य बालस्थानेषु देवीनामर्चयेद् बुधः || कलशानान्तु सर्वेषां अर्चयेच्छूल विन्यसेत् | अर्चयित्वा विधानेन नैवेद्यं विधिवद् ददेत् || पञ्चोपचारकान् सर्वान् समन्त्रेण तु दापयेत् | महाबलिं ततो दद्यात् भूतक्रूरसमन्वितम् || प्. १५२) इति ब्रह्मयामले शतसहस्रसंहितायां बालस्थापनविधिर्नाम अष्टत्रिंशत्पटलः || ३८ || अतः परं प्रवक्ष्यामि लंघनस्य विधिक्रमम् | स्त्रीणाञ्चैव तु विप्राणां प्रमादाल्लंघने सति || रक्तस्रावेन कर्तव्यमेकवीरी निवेदनम् | क्षत्रियस्य तु लंघैश्च मांसच्छेदन्तु कारयेत् || अथवा पृथुमांसैश्च अजमेकं हुनेत् बुधः | वैश्यस्य लंघने चैव प्रति मांसन्तु दापयेत् || शूद्राणां लंघने चैव एकमासन्तु दापयेत् | हंसैर्मयैश्च महिषैः श्वानैश्चैव खरोष्ट्रकैः || अश्वञ्चैव तथा जम्बु वानरादि तथैव च | हस्तिनं कुक्कुटञ्चैव सद्योतन्तु दापयेत् || पशूनाञ्च तपस्वीनां ब्राह्मणेन तु लंघने | अष्टोत्तरशतं हुत्वा अजमेकव्यघातयेत् || प्रतिलोमादिलंघैर्वा चण्डालै * * लंघयेत् | सद्यो घातन्तु कर्तव्यं मुत्सव्य * * * * * || * * * मं प्रकूर्वीत समिधादि यथाक्रमम् | मूलगायत्रिमन्त्रेण जुहुयाद्योविकं विदुः || प्. १५३) कन्यानां लंघयित्वा तु अष्टोत्तरशतं हुतम् || इति ब्रह्मयामले शतसहस्रसंहितायां नगरपरिभ्रमणलंघविधिर्नाम एकोनचत्वारिंशत्पटलः || ३९ || अतः परं प्रवक्ष्यामि प्रतिमालक्षणं परम् | नवताल प्रामाणेण प्रतिमां कारयेद् बुधः || शिलामयं लोहमयं मृण्मयं वापि कारयेत् | ग्रामाच्चाष्टभुजं विद्यात् नगरे च चतुर्भुजम् || वनान्तरे द्विभुजं विद्यात् पर्वताग्रे तु षोडश | समुद्रे द्वादशं कुर्यात् जन्दन्द्य * * षट्भुजम् || तटाके दशभुजं कुर्यात् चतुष्पथे चतुर्भुजम् | खड्गञ्च खेटकञ्चैव नागं घण्टां तथैव च || शूलकपालखट्वांगं डमरूञ्च तथाष्टकम् | श्यामवर्णा च कर्तव्या दंष्ट्राकालदं शुभम् || ऊर्ध्वकेशञ्च कर्तव्यं त्रिणेत्रं नागभूषणं | दारुकस्य हृदि शूलं प्रोक्तव्यं हिमलोचनम् || रौद्ररूपन्तु कर्तव्यं चामुण्डालक्षणं परम् || इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिमालक्षणविधिर्नाम चत्वारिंशत् पटलः || ४० || प्. १५४) अतः परं प्रवक्ष्यामि क्षेत्रपालविधिक्रमम् | त्रैलोक्यनाथं सर्वज्ञं सर्वदेवं जितेन्द्रियम् || आगमेशमूर्तिकं च आदिक्षेत्रस्य पालकम् | परन्तत्परमाकाशं देवता चित्तमेव च || चिन्तयेन्मनसानित्यं शिवलोके महीयते | ततः प्रभृति देवेश शिवरूपं शिवं यथा || पश्चाद् दण्डालयं विद्यात् प्रलयं पंक्तिमानकम् | सकलजीवरूपञ्च ज्येष्ठवंशान्तवृत्तकम् || वृत्तमध्ये तु ज्योतिस्स्यात् ज्योतिमध्यमणुस्तथा | अणुमध्ये तथा बिन्दुक्षेत्रपालं शिवात्मकम् || निष्कलं निर्मलं शान्तं निष्प्रपञ्च * लक्षणं | निष्कलं सकलं सं * * * गन्धस्सदेवता || सक * * * स्वरु * * * * * * * * कम् | सर्वजीवसमुत्पन्नो भगवान् परमेश्वरः || एवं मूर्तित्रिभेदं स्यात् ब्रह्माविष्णुमहेश्वरम् | लोके तु पुण्यरक्षार्थं क्षेत्रपालन्तु दृश्यते || पूर्वन्तु ज्ञानमूर्तिः स्यात् द्वितीयं शान्तमूर्तिकम् | तृतीयं रौद्रमूर्तिः स्यात् सर्वभूतगुणागुणम् || भूलोके सर्वरक्षार्थमुद्भवन् तत्र विन्यसेत् | आरण्ये च गुहे चैव समुद्रे पर्वताग्रके || प्. १५५) नदी संगमने वापि वनवासे समाश्रये | ग्रामे वा नगरे वापि पत्तने खेटकात्मके || भाग्यवादि तथाद्रोणे कोलकं प्रतिमावहेत् | तत् तच्छास्त्र यथा योगं क्षेत्रस्थानं विधीयते || क्रियाशेषं प्रवक्ष्यामि यथावदनुपूर्वकम् | शान्तिकं पौष्टिकं चैव अद्भूतञ्च विचारकम् || ग्रामादि जनसंस्थाने शान्तिकं विन्यसेद् विधिम् | गुहायां वनवासे वा पौष्टिकं तत्र कारयेत् || अद्भूतं परमूर्तिश्च आभिचारकरक्षणम् | तत् तत्स्थाने यथायोग्यं योगेनैव तु कारयेत् || चतुर्भुजं शान्तिकञ्चैव पौष्टिकञ्चाष्टबाहुकम् | द्विभुजं सर्वसामान्यं क्रिया शेषं विधीयते || चतुर्भुजं दक्षिणे हस्ते त्रिशूलं डमरुकन्तथा | वामहस्ते कपालन्तु भुजकञ्च विधीयते || पद्मपीठस्थितं देव परिजनानां विधीयते | पादौ तु शैलमेवोक्तं कटिस्थान्नागमावृतम् || पार्श्वे कनकमणीनां रज्जुबन्धनमेव च | उदरे नागबन्धञ्च कर्णिकेन समन्वितम् || मुखे या लम्बिते कर्णं सर्वयज्ञोपवीतिनम् | नरशिरस्त्रिलंबैश्च स्तनयोरन्तरे विधु || प्. २५६) त्रिणेत्रं तत्समं वज्रं ऊर्ध्वकेशोज्वल प्रभम् | ललाटोर्ध्वे नरशिरं आवृतन्तु विधिक्रमम् || कर्णकुण्डलमेवोक्तं पत्रिमेकमथापि वा | केशं भुजंग वेष्टञ्च रक्ताक्षं रक्तकेशकम् || बालचक्रमलंकृत्य पाण्डरं शिखरन्तथा | पूर्णचन्द्रसमं वक्त्रंमायुक्तञ्चित * * * || * * * नीलवर्णञ्च भैरवाकारमेव च | अष्टभुजं पाशञ्च दक्षिणं || कपालं डमरुकञ्चैव पिनाकं खड्गमेव च | पूर्वोक्तविधिवत्कृत्वा भूषणं तद्वदेव च || पौष्टिकस्य विधिज्ञेयं नवमाश्रित्य दैवतम् | भूतरूपं द्विहस्तञ्च दक्षिणे दण्डहस्तके || वामे कृत्वा कपालन्तु भूतभूषणभूषितम् | तत् तद् देशे च ईशेन क्षेत्रपालस्य आलयम् || दशतालं योगमूर्तं नवतालं सौम्यमूर्तिकम् | चतुस्तालं भूमिमूर्तिं एकमालं विधीयते || शान्तिकं पद्मपीठञ्च रौद्रकोणं तथा भवेत् | * * मूर्ति तथा पीठे योजयेत् तद्विचक्षणः || चतुर्भुजं स्थापितन्तु दायुव्यर्थकरं शुभम् | पुत्रमित्रविवर्धन्ते सर्वकामार्थ साधनम् || प्. ५७) चतुर्भुजमिति ज्ञेयं ग्रामशान्तिकरं शुभम् | पौष्टिकस्य विधिं कृत्वा वीर्यं वै शत्रुनाशनम् || स्त्रीवर्धनमिति ज्ञेयं भूताकारमिति स्मृतम् | लोकालोक हितार्थाय कार्ये कार्येण योजयेत् || बलिकर्मविधिं कृत्वा शान्तिकर्मविधिस्मृतम् | स्नपनादि सर्वकार्यं योजयेत् तद्विचक्षणाः || अधिवासविधिं कृत्वा सर्वद्रव्याणि योजयेत् | कलशस्थापनं कृत्वा फट्कारमुच्यते बुधः || प्रतिष्ठामन्त्रमेवं स्यात् मूलमन्त्रमनुस्मरन् | महाबेरं तथा मूलं जीवाक्षरमिहोच्यते || ओंकारं विन्यसेन्मूलं मध्ये श्रींकारमुच्यते | स्वाहान्तं विन्यसेत् तत्र अग्रे स्त्रींकारमुच्यते || विन्यसेद् गन्धपुष्पञ्च धूपदीपञ्च दापयेत् | पश्चाद् देव समायुक्तं आचार्यं स्थापिते बुधः || बहले ब्रह्मसारस्य चन्द्रार्के अर्कमूलतः | मध्ये विष्णुस्तथा न्यस्य सर्वसंहारमूर्तयः || महाकायं क्षेत्रपालं ब्रह्मज्ञानमिति स्मृतम् | प्रतिष्ठेदिन्द्रसंयुक्तं भगवन्तं सदाशिवम् || ब्रह्मावालं जित्रियाजां द्विवृद्धिं जितवेत्ति | कण्ठकहृदयपादनाभिगुह्यशिराशिर || प्. १५८) पुनः पुनः प्रविन्यस्य ओंकारं मन्त्रविन्यसेत् | ब्राह्मणान् स्वास्तिवाचञ्च सर्ववाद्यञ्च घोषयेत् || * * * * * बलिं कृत्वा * * * * मुत्तमम् | नवभेद क्षेत्रपाले विधिवत् क * * पुनः || * * * * * * * * * * * * * * पृथक् | शास्त्रोक्तं विधिं कृत्वा स्थापनं वृद्धिदं शुभम् || लक्षणेन यथा कर्मं स्थानभ्रंशं विनश्यति | इति ब्रह्मयामले शतसहस्रसंहितायां क्षेत्रपालविधिर्नाम एकचत्वारिंशत्पटलः || ४१ || अथातस्संप्रवक्ष्यामि मातॄणां शूलसंग्रहम् | उत्तरं दक्षमयनमुत्तरमुत्तरन्तथा || दक्षिणमयनञ्चैव षण्मासञ्चैव वर्जयेत् | उत्तरोत्तरमभ्युक्तमुत्तरं सर्वसंग्रहम् || इत्येते संग्रहं शूलं सर्वकामार्थसाधनम् | सुभिक्षं क्षेममारोग्यं सर्वसस्य विवर्धनम् || चातुर्वण्यं हितञ्चैव सर्वारिष्टविनाशनम् | ग्रामे वा नगरे वापि सर्वशान्तिकरं शुभम् || सुवर्णरजतं लोहं दारुशूलं तथैव च | मृत्तुमृण्मयस्यार्धञ्च मुहूर्तं गृहसंग्रहम् || प्. १५९) स्वस्तिवाचक वाक्यञ्च ब्रह्मघोषन्तथैव च | पटहं मद्दलं तालं करटीतिमिला तथा || शंखकालसमायुक्तं मातृघोषं तथैव च | आचार्य शिष्यसंयुक्तं वस्त्राभरणमेव च || अंकुरार्पण पूर्वोक्तं मधिवासन कर्मणि | मातृमण्टपसंयुक्तं शान्तिनं शान्तिकर्मणि || स्थण्डिलं तत्र कुर्वीत अष्टद्रोणन्तु शालिभिः | तदर्धन्तण्डुलञ्चैव तण्डुलार्धतिलन्तथा || तस्यार्धं तिलसंयुक्तं दर्भमुष्टिन्तु विस्तृतम् | तन्मध्ये पंकजं लिख्य सर्वालंकारशोभितम् || अश्वत्थोदुम्बरं प्लक्ष वटवृक्षं तथैव च | चतुरश्रसमं कृत्वा हस्तमात्रप्रमाणकम् || स्थण्डिले विन्यसेत् पीठं आचार्यस्साधकैस्सह | पाद्यमाचमनीयञ्च गन्धपुष्पादि चार्चयेत् || पाद्यादि सर्वमन्त्रेण अर्चयित्वा विधानतः | अजं रुधिर मांसादि सर्वे हविर्निवेदयेत् || निवेदनन्तु निर्माल्यं सर्वञ्चैव विसर्जयेत् | ताम्बूलं सद्यमन्त्रेण साधकाचार्य पूत्रकः || आचार्य अ * मन्त्रस्य मृत्युपीठस्य साधनम् | प्रदक्षिणञ्चैव आलयस्य प्रदक्षिणम् || प्. १६०) प्रतिमन्दक्षिणञ्चैव आचार्यं सर्वमातृकम् | प्र * * * * * * * सदाशिव शिवस्तथा || वसवश्चाष्टभिश्चैव द्वादशादित्य एव च | रद्रमेकादश सर्वे अश्विन्याश्च समन्वितम् || इन्द्राग्नि यमनिर्-ऋति वारुणवायुरेव च | सोमेशोन्यस्तथा चैव आगछन्तु नमो नमः || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणी चामुण्डी गणरुद्रका || इत्येते क्रमशश्चैव माणाञ्च नमो नमः | योगिनी डाकिनी चैव साकिनी पूतना ततः || पालिनी दुन्दुभिश्चैव तथोच्छिष्टा च मातरः | भूतप्रेत पिशाचाश्च वेतालञ्च तथैव च || कुमारग्र(र)कूश्माण्ड महादेव ग्रहस्तथा | सर्वञ्च सर्वलोकञ्च सर्वपीठञ्च देवता || द्वात्रिंशदधिपश्चैव आगछन्तु नमो नमः | आचार्यं मन्त्रसंयुक्तं सावका संहिता च वै || महाकालस्य विन्यस्य मातृमण्डलसंग्रहम् | द्वितीयं लक्षणैर्युक्तं शिल्पिसायकसंग्रहम् || यात्रा पात्रपीठस्य द्वा वा पीठे शिल्पिना कृतम् | सर्वलक्षणसंयुक्तं शिल्पिनां लक्षणैर्युतम् || प्. १६१) इत्येते क्रमशश्चैव शूलं ग्रभगृहं भवेत् | सर्वलक्षणसंयुक्तं शिल्पि चित्रकलक्षणं || ब्राह्मणा क्षत्रिया वैश्या शूद्रैर्वा शूद्रलक्षणम् | दशतालं नवतालं तु विप्रस्य नवतालं क्षत्रियस्य तु || अष्टतालन्तु वैश्यस्य सप्ततालन्तु शूद्रकः | वामदक्षिण खड्गञ्च मध्यमा शूलपत्रकम् || चतुरंगुलि विस्तारं पत्रखड्गञ्च वक्त्रकम् | द्वितालं सर्ववर्णञ्च शूलस्थापनमेव च || अग्रं दशांगुलवक्त्रं पीठाष्टांगुलवक्त्रकम् | पीठन्तु षोडशांगुल्यं चतुरश्रं पीठसंग्रहम् || सर्वलक्षणसंयुक्तं चित्रपत्र * * * * | शान्तिकञ्चैव कालीस्थापनमुत्तमम् || * * पीठक्रमञ्चैव हस्तमात्र प्रमाणकम् | सर्वलक्षणसंयुक्तं सर्वचित्रविचित्रकम् || सर्वांगं सर्वसंयुक्तं शिल्पचित्रकलक्षणम् | शूलपत्रञ्च देवस्य ब्रह्मब्रह्मञ्च विन्यसेत् || वामपत्रं तथैशान्यां दक्षिणं विष्णुपत्रकम् | इत्येते अधिदेवा वा शूलपत्रस्य देवता || शूलपीठं महाकालं मध्यमञ्च विधीयते | बहुवीरञ्च पीठस्य अस्त्रपीठस्य विन्यसेत् || प्. १६२) अग्रपीठस्य दण्डं वै पादपीठं तदीशितम् | शान्त्यर्थस्य विस्तारं त्रिभागं भागमेव च || दण्डं वक्त्रेणसंयुक्तं षोडशांगुलविस्तृतम् | त्रिभागं घण्टविस्तारं सर्वलक्षणसंयुतम् || पादपीठस्य विस्तारं द्वितालं चतुरंगुलम् | सर्वचित्रकलेख्यञ्च अष्टपत्रं सकर्णिकम् || वामांगमभिसंयुक्तं मनोन्मनि मयान्तकम् | द्वात्रिंशदधि दैवत्यं अभ्यन्तराभ्यन्त देवता || मध्ये दण्डस्य देवानां अष्टमञ्चाधियोगिनी | इत्येते क्रमशश्चैव शूलसंग्रहमेव च || ब्राह्मण क्षत्रियी वैश्या शूद्रो वा पुत्र वृद्धिदम् | सर्वलोकहितं पुण्यं सर्वशान्तिकरं परम् || सर्वव्याधिविनाशञ्च सर्वारिष्टविनाशनम् | ग्रामं ग्रामपतिञ्चैव शूलसंग्रहमेव च || ब्राह्मण क्षत्रियो वैश्य कर्ता भर्ता विवर्धनम् | महामारी प्रशमनं वातव्याधि विनाशनम् || सुभिक्षं ग्रामवृद्धिञ्च सर्वसस्य विवर्धनम् | मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च || मुहूर्तकालहीनञ्च कालकलन्तथैव च | सर्वदोषं विशेषेण कर्तव्यं सर्ववर्जितम् || प्. १६३) लोहार्चनञ्च शूलञ्च लोहार्थं मात्रशूलकम् | इति ब्रह्मयामले शतसहस्रसंहितायां शूलस्थापनविधिर्नाम चत्वारिंशत्पटलः || ४२ || अथातस्संप्रवक्ष्यामि प्रायश्चित्त विधिक्रमम् | मातृशान्तिषु योगेषु यथादोष प्रवृत्तये || तद्दोष शमनार्थाय प्रायश्चित्त विनिर्णयम् | प्रासादञ्च्छिन्नभिन्नञ्च कालेन पतितेन च || शैलं वा प्रतिमं वापि क्षतं वा भग्नमेव वा | सिरा चैव परैर्वापि पतितं भिन्नमेव वा || हीनको व्याधितो वापि आलयं प्रतिमां तथा | तोरणं पतितञ्चैव द्वौसूर्य प्रभयोरपि || भूमिं वा कम्पनञ्चैव अग्निना दहनेपि वा | समयी साधकश्चैव पुत्रकावार्य संयुतः || यजमानव्याधिपीठं चित्रकेटकसर्वतः | हीनाद्वै दक्षिणेर्यत्र हनहीनमथापि वा || हेमे तु द्रव्यहीने तु वस्त्रहीनञ्च तद्भवेत् | देवं न रूपं विज्ञेयं प्रायश्चित्तं प्रशस्तकम् || नवाक्षरेण मन्त्रेण प्रत्येकाष्टशतं हुतम् | समिधा तिलपर्यन्तं देव्या गायत्री हूयते || प्रासादे मण्टपे भिन्ने शूलादष्टायुधानि च | नवशक्तिसमायुक्तं होमयेत् तु शताष्टकम् || प्रासादं भिन्नहीनन्तु बालस्थानं प्रकल्पयेत् | प्रासादं तत्र कुर्वीत आचार्यश्शिल्पिभिस्सह || पूर्वोक्तेन विधानेन संप्रोक्षणमथाचरेत् | तत्र हीनहुते चैव मूलमन्त्रञ्च कारयेत् || मातॄणाञ्च प्रतिष्ठान्ते सुधाचित्रादि शोभिते | चण्डालहीनवर्णञ्च श्वानस्पर्शनसंकरे || संकरेतरजातीनां पतितोन्मत्तका अपि | खण्डस्फुटित भिन्नञ्च कवाटं स्तंभयोरपि || संप्रोक्षणं प्रकर्तव्यं पूर्ववद्विधिचोदितम् | ग्रामादिपत्तनस्यान्ते नराणां व्याधिपीडिते || सर्वामुख प्रयत्नेन संप्रोक्षणमतः कुरु | तत्रैवं न कुर्यात् तु पूर्वोक्तेन विधानतः || पूर्वोक्तेन विधाने पुंसवं कारयेद्बुधः | तत्रैव स्नपनं कुर्यात् तथा वित्तानुसारतः || तत्रैव तद्धानेन्मन्त्री नवाक्षरेण बुद्धिमान् | सहस्रन्नवकञ्चैव अष्टोत्तरशतं हुतम् || तत्रैव त्रिविधं होमं उत्तमादि यथाक्रमम् | सर्व द्रव्येषु शान्तानि पूर्णाहुतिं विशेषतः || प्. १६५) आचार्य व्याधिप्राप्तस्यात् कर्ता वा व्याधिपीडितः | होमयेन्मूलमन्त्रेण त्याज्या तिलसंयुतम् || अग्निना दहने वस्त्रे आलये प्रतिमापि वा | सर्वद्रव्येषु संयुक्तं नवबीजेन होमयेत् || भूमेर्वा कम्पने चैव रोगेषु कलहेषु च | तोरणं पतनञ्चैव मूलमन्त्रेण संयुतम् || होमयेत् पञ्चविंशत्या हुत्वा वै कैः पृथक् पृथक् | नवाक्षरेण मन्त्रेण उत्तालक्तन्तथैव च || चण्डालस्पर्शने चैव यत्र भिन्नञ्च वर्जयेत् | भाण्डमन्यत्तु संस्थाप्य प्रणवेन तु संयुतम् || शयनैर्वा मरणैर्वा जलसंप्रोक्षणं विधिः | श्वानैर्वा म्लेच्छजाती च शिल्पिर्वा चित्रकर्मणि || आलयाभ्यन्तरे चैव गमने दोषकृद्भवेत् | प्रायश्चित्तन्तु कर्तव्यं संप्रोक्षणमथा चरेत् || देवीनामर्चने काले यथादोषं प्रवर्तते | लिंगं वा प्रतिमां वापि परशुं शूलमेव वा || घण्टाञ्च कलशञ्चैव धनुर्नारा च मेव च | अन्त्यैश्चायुधैर्युक्तं बलिबालेष्वयं तथा || प्रमादात्पतिते भिन्ने यथा संभवतो मता | यथालाभं गृहीत्वा हुत्वा देवीं निवेदयेत् || Pअगे नो. १६७ नोत् अवैलब्ले इन् थिस् त्रन्स्च्रिप्त्. प्. १६७) हुत्वा वै मूलमन्त्रेण पुनः प्रदक्षिणमारभेत् | दिव्यन्तरिक्ष भौमानि निमित्ता शत्रुदनाशुभम् || काकैर्वा कुक्कुटैर्वापि शृंखल * * * * * | महावातभयं वापि यत्रदीर्घञ्च मानुषे || मानुषैर्वा विरोधस्स्यात् * * * * * * * * | * * * * * * * * * * * ध्वजपातने || प्रमादाद्यत्र हीने तु सर्वयुक्त प्रमाणकैः | मूलगायत्रि मन्त्रेण सहस्रं वा शताष्टकम् || स्वचक्रं परचक्रं वा क्षोभयुद्धं यथा भवेत् | देव्या गायत्री मन्त्रेण होमयेन्मूलविद्यया || दर्वीव होमद्रव्येव निष्कले प्रतिमेपि वा | कालित्थश्च लडं वापि मूलमन्त्रेण होमयेत् || यत्र कुम्भं प्रतिष्ठाप्य पतितं चेत्प्रमादतः | नवाक्षरेण मन्त्रेण तदेवं होमयेद्बुधः || स्नपनस्याधिवासेन कलशं भग्नमेव च | तत्रैक कलशे मध्ये यदादोषं प्रवर्तते || ध्वजे च पतिते वापि ध्वजादण्डस्य भेदने | तत्र होमं प्रकुर्वीत समयाद्यासु विद्यया || पशूनां छेदने यत्र उदरे वत्सदृश्यते | तद्दोषशमनार्थाय प्रायश्चित्तं विशेषतः || प्. १६८) जप्त्वा संप्रोक्षणं कृत्वा ततश्चोत्सवमारभेत् | सप्ताहमपि कुर्वीत उत्सवं प्रत्यहं बुधः || स्नपनञ्च प्रकर्तव्यं यथाशास्त्रानुसारतः | तत्तच्छान्तिं प्रकूर्वीत प्रजोत्पातकमारणम् || सर्वदुःखकरं नित्यत्यं यजमानव्याधि पीडितः | होमयेद् विधिवत्पूर्वं मूर्तमादिषु योजयेत् || नित्योत्सवविहीने तु सन्धिहीने तथैव च | तस्य होमं प्रकूर्वीत मूलमन्त्रादिसंयुतम् || एकं पञ्चदशं वापि एकाष्टं पूजहीनके | मासेन नवं कुर्यात् पञ्चाशच्च शताष्टकम् || अर्धमासे दशत्येकं स्नापयेत् तु यथाविधि | मासादिवत्सरान्ते तु प्रायश्चित्तं यथाविधि || एककालं द्विकालं वा त्रिकालं वा न पूज्य च | एकादशकरात्रं वा देव्यादि छिन्न पूज्य च || यस्य कालविहीने तु तस्य शान्तिं समारभेत् | कालाधिकं भवेत् तत्र होमाद * * कं भवेत् || यस्य हीने विदे वियाने तदा पृष्टे प्रतिलोमानुलोमकैः | ग्रामे वा नगरे वापि नराणां व्याधिपीडितम् || तस्मात् सर्वप्रयत्नेन देवि सान्निध्यकारकम् | प्रायश्चित्तं प्रकुर्वीत वाद्यहीनं तथैव च || प्. १६९) करमुद्रा विहीनन्तु होमस्थानन्तु यद्भवेत् | नृत्तकाले प्रमादाद्वा नराणां पातने सति || तथा होमं प्रकुर्वीत पशुं हत्वा यथाविधि | आज्याहुति सहस्रं वा क्षेत्रशान्तिं तथा कुरु || तस्मान् नृत्तं समारभ्य ग्रामादीनां प्रदक्षिणम् | मार्जनं ताटनं कुर्यात् देव्योवन्तु वर्जयेत् || मार्जना हीने तु ताट्यं स्थाननाशं भविष्यति | तस्मात् सर्व प्रयत्नेन शान्तिहोमं समाचरेत् || ततस्तु शेषमातोद्यं पटहादि यथाक्रमम् | नरादि मक्षिकान्तानि न कुर्यात् तत्र लंघनम् || प्रमादाल्लंघयित्वा तु हुत्वा देव्या निवेदयेत् | नवाग्नीव शिवं ध्यात्वा अर्चयेन्मूलविन्यसेत् || अन्यांस्तु लंघयित्वा तु देवीं तत्र प्रपूजयेत् | उत्सवो दिश्यावद्यस्तु धार्यते त्रिषु पौरुषम् || महादोषः प्रवर्तन्ते वदामीतिरजस्वला | दोषानुरूपं संवक्ष्ये शान्तिं कुर्याद् विचक्षणः || प्रतिष्ठाकालक्रिया सर्वे कारयेत् सुसमाहितः | एवं परीक्ष्य बहुधा कारयेत् तत्र वित्तमः || आचार्यं पूजयेत् सम्यक् वस्त्रहेमांगुलीयकैः | इति ब्रह्मयामले शतसहस्रसंहितायां प्रायश्चित्तविधिर्नाम त्रिचत्वारिंशत्पटलः || ४३ || प्. १७०) शूलस्य लक्षणं वक्ष्ये शृणुब्रह्मन्यथा क्रमम् | प्रतिमायांश्च चायामञ्चोत्तमं मध्यमाधमम् || नाभेरन्तं तदूर्ध्वन्तु ललाटान्तमुत्तमं भवेत् | तत् तन् मध्यमं ज्ञेयं तदर्धं मध्यमं भवेत् || तस्मान्मध्यं समावर्थवर्तयेदर्धचन्द्रवत् | मध्यभागेन कर्तव्यं मध्यभागं यथा भवेत् || मध्यभागलतायां वै हस्त्रनेयस्त्रियं भवेत् | ग्रीवा पीठाक्षरं नेत्रे ब्रह्माणी च चतुर्भुजे || चतुर्वक्त्रसमोपेतं वक्त्रे वक्त्रे विलोचनम् | पद्ममाला समोपेता कृष्णाजिनविभूषितम् || उपवीतधरां देवीं चित्र * * * * * * | पंकजासनसंयुक्तं हंसासनमथापि वा || कमण्डलुं वामहस्ते दक्षिणे अक्षसूत्रकम् | * * * * * * * के पंकजासनसंयुतम् || एवं विधनतन्नेत्रः लक्षणेनसमन्वितम् | नेत्रोपरि नेत्रे च वैष्णवी लक्षणान्वितम् || कालालगांगसंयुक्ता तथा चाष्टभुजान्वितम् | हारकेयूरसंयुक्तं रक्ताम्बरविभूषितम् || ईदृशां विन्यसेन्नेत्री त्रिणेत्रं शान्तरूपिणम् | विधिना * ञ्च कर्तव्यं वायव्यां लक्षणान्वितम् || प्. १७१) पार्श्वयोस्तु भागाभ्यां पार्श्वशूलं यथा भवेत् | मध्य भागस्य पार्श्वञ्च पार्श्वशूलं यथा भवेत् || तस्यां शूलं यथाभागं बाहुलञ्चोच्यते क्रमात् | तासां पदस्य विस्तारमष्टांगैः कारयेद् बधः || अष्टभागैकभागन्तु तासां बाहुलमुच्यते | तदर्धं वैकदेशे तु अनुपूर्वक्रमेण तु || भ्रामयेद् विततो विद्वान् लक्षणेन समन्वितम् | मध्यभागस्य पार्श्वे तु तद्भागे परिवर्तयेत् || भागद्वयं तथा मध्ये ग्रासद्वैव विचक्षणः | तस्यां शूलयथाभागं त्रिभिर्भागैस्तु मूलतः || ग्रीवा पीठं प्रकर्तव्यं चतुरश्रं सुशोभनम् | सप्तभागैकबाहुल्यं पीठविस्तारतो भवेत् || कौशुकादिमुनौ जाति पीठकोणेषु शोभितम् | घण्टाजालसमायुक्तं पिप्पली पत्रशोभितम् || ग्रीवा पीठं भवेदेवमुपशोभासमन्वितम् | पीठं वै पार्श्वतश्चैव भागद्वयविना विनाशयेत् || पार्श्वशूलं यथाग्रन्तु ईषच्छेदादिकं भवेत् | स्वर्णेनैव प्रकर्तव्यं शूलं वै देवता भवेत् || स्वर्णरजते सर्वे सुवर्णं शूलमुच्यते | रजतेन प्रकर्तव्यं राजदंशूलमुच्यते || प्. १७२) राजतं मध्यमं ज्ञेयं मध्यमं तत्प्रकीर्तितम् | राजतन्तु भवेत् सर्वं त्रिशूलं कारयेद् बुधः || शुद्धेनैव प्रकर्तव्यं कन्यसं शूलमुच्यते | शुभाकारं भवेत् सर्वं पू * * * * * न्वितम् || एतेष्वेकं समाश्रित्य कारयेत् तत्र वित्तमः | अवाटवादिरा नालं कृमिकोटर वर्जितम् || योजयेत् तत्र वित्प्राज्ञो यथा विस्ताररूपतः | आसनेनाभि कर्तव्यं सारमध्यं सुशोभनम् || तद्भागं त्रिगुणानालं आयुधं च प्रकीर्तितम् | ग्रीवाभागं त्रिभागैकं नाहं तस्य प्रकीर्तिता || पीठे वै वीरभद्रस्यात् यथा विधि पुरस्सरम् | तत्पीठस्य तु विस्तारं तदर्धा येन कीर्तिता || विस्तारं सर्वभागैकं बाहुलञ्च प्रकीर्तितम् | वर्तभागैकमुत्सेधं पीठस्यैव प्रकीर्तितम् || ग्रीवं पीठस्य चाकारमधस्तात् सदृशं भवेत् | चतुरश्रं भवेदूर्ध्वमधस्ताच्च तताश्रकम् || वृत्ताकारं भवेदूर्ध्वमधस्ता धृतमुच्यते | एवं पीठं प्रकर्तव्यमूर्ध्वाधः पद्मशोभितम् || वीरभद्रादि मातॄणां शूलपीठे तु विन्यसेत् | एवं वै लक्षणं प्रोक्तं शूलस्त्वेव समासतः || प्. १७३) गर्भादेन प्रकर्तव्यं शास्त्र दृष्टेन कर्मणा | एवमेव प्रकर्तव्यं शूललक्षणसंयुतम् || इति ब्रह्मयामले शतसहस्रसंहितायां शूललक्षणविधिर्नाम चतुश्चत्वारिंशत्पटलः || ४४ || शूलप्रतिष्ठां प्रवक्ष्यामि शृणु ब्रह्मन्यथा क्रमम् | प्रासादस्याग्रतः कुर्यात् ऐशान्यन्तु विशेषतः || नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा | मण्टपं कारयेत् तत्र शास्त्रदृष्टेन कर्मणा || मण्टपञ्चतुरश्रन्तु लक्षणेन समन्वितम् | त्रिविधैकं समाशृत्य मण्टपं कारयेद् बुधः || (नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा | मण्टपं कारयेत् तत्र) द्विविधं मण्टपं प्रोक्तं चोत्तरे वासनं भवेत् | षोडशस्तम्भसंयुक्तं चतुष्तोरणसंयुतम् || पञ्चभागं त्रिभागैकं देवी विस्तारमुच्यते | तद्विभागैकमुत्सेधं दर्पणोदरसन्निभम् || मेखलात्रय संयुक्तं सर्वलक्षणसंयुतम् | यदैकमेखलां कुर्यात् * * * * * * * * || * * * * * * * द्रोक्तमेखलाया समन्तथा | प्रथमा मे * * प्रोक्ता चोक्तमाद्यप्रकीर्तिता || तस्मादंगुलहीना च द्वितरा * प्रकीर्तिता | मध्यमा सा च प्रकीर्तिता || उत्सेधन्तावदेवोक्त तस्माद्विस्तारमुच्यते | दिक्सोपान समायुक्त मनोज्ञा च प्रकीर्तिता || उत्सेधन्तावदेवोक्तं तस्माद्विस्तारमुच्यते | दिक्सोपानं भवेत् ब्रह्मन् चतुर्दिक्षुक्रमेण तु || चतुद्वारसमायुक्तं दर्भमालावलम्बितम् | वापनोपरि सञ्छन्नं पुष्पमालोपशोभितम् || धूपदईपसमायुक्तं तोरणैश्च समन्वितम् | प्लक्षोदुम्बरमश्वत्थं वटं पूर्वादितः क्रमात् || प्लक्षन्तु तोरणञ्चैन्द्रे याम्ये चौदुम्बरं भवेत् | अश्वत्थम् वारुणं ज्ञेयं वटं सौम्ये च कीर्तितम् || एवं वै तोरणं ज्ञेयं लक्षणेन समन्वितम् | भूमौ ततः प्रविष्टञ्च तदूर्ध्वञ्च चतुर्भुजम् || आपन्तोरणसंयुक्तं लक्षणेनसमन्वितम् | अर्चयित्वा विधानेन कलशं तेषान्तु मूलतः || एवं वा मण्टपं कृत्वा ध्वजस्य स्थापनं कुरु | अधिवासनं विना पूर्वे ध्वजमुथापयेद् गुरुः || ध्वजमुत्थाय विधिना स्थण्डिलं तत्र कारयेत् | स्थण्डिलञ्च प्रकर्तव्यं देविकायां विचक्षणः || प्. १७५) एकोत्तर पदेष्वेव मध्ये पद्मं प्रकल्पयेत् | एकैकान्तरितस्तस्मिन् पदमेकन्तु ह्रासयेत् || द्रोणतण्डुलसंयुक्तं विकिरेन्वसमन्ततः | शोभितञ्चैव पद्मैस्तु मध्यमेन तिलेन च || तत्पद्मं कर्णिकायुक्तं लक्षणेन समन्वितम् | आसनं कल्पयेत् तत्र शास्त्रदृष्टेन कर्मणा || पञ्चाचार्यसमायुक्तं अथवास समन्वितम् | अष्टमंगलसंकीर्णे मंगलं कुरु * * * || * * * शायते शूलं सर्वदेवमयं शुभम् | जलावाहसंयुक्तं शूलं वै लक्षणान्वितम् || एवं कृत्वा विधानेन शूलं स्थापयेत् बुधः | * * * * * * * * होमकार्यं समारभेत् || वेदिकायान्तु परितः चैन्द्रादिक्रमयोगतः | चतुरश्रं भवेदैन्द्रं योन्याकारन्तु पावके || अर्धचन्द्रो भवेद्याम्ये त्रिकोण नैर्-ऋतं भवेत् | वर्तुलं वारुणं ज्ञेयं षट्कोणं वायुगोचरे || सौम्ये पद्मनिभाकारैरैशान्यामष्टकोणकम् | एतेषु होमं कर्तव्यं शास्त्रदृष्टेन कर्मणा || समित्सर्पि दधिक्षीरं मधुलाजाधिकं क्रमात् | * त्रो वेलं प्रकर्तव्यमधिपस्य प्रयत्नतः || प्. १७६) ततः प्रभाते विमले शूलस्थापनमारभेत् | स्थापयेन्मातृमन्त्रेण आचार्यो मन्त्रविग्रहः || मण्टपस्य तु तन्मध्ये वेदिकायां विचक्षणः | वेदिकायां मनोज्ञायां शास्त्रोक्तायां वरानने || रत्नन्यासोत्तरे काले शूलन्तत्र प्रतिष्ठयेत् | तदन्ते स्नपनं कुर्यादन्ते भूतबलिं क्षिपेत् || अपराह्ने तदन्ते तु यज्ञस्तु यथाक्रमम् || इति ब्रह्मयामले शतसहस्रसंहितायां शूलप्रतिष्ठा नाम पञ्चचत्वारिंशत्पटलः || ४५ || बलिपीठं प्रकर्तव्यं सर्वतो दिक्षु वै तथा | सुमहिनी शोषणी चैव मोहिनी कंपनी तथा || धूम्राक्षी च विशालाक्षी सुमुखी दुर्मुखी तथा | तृतीयावरणे कुर्यात् अनिरूपा च तिष्ठति || द्विभुजा श्यामवर्णां च शुभंकरी तथा शुभा | ऐशान्यां क्षेत्रपालस्तु लोहजं सेति पितृता || आलयस्य बलीनान्तु पञ्चदण्डान्तमन्तरे | परिवारस्यालयं कुर्यात् पीठं वा चोत्तरान्दिशि || तृतीयावरणे यस्य बाह्यतः परिकल्पयेत् | प्रतिष्ठिता एकवीरी बहुवीरी प्रकल्पयेत् || प्. १७७) बहुवीरं विना यत्र एकवीरं न कारयेत् | एकवीरं विना यत्र बहुवीरं न कारयेत् || इदमेव प्रकर्तव्यं सर्वशान्तिर्भविष्यति | अतः परं प्रवक्ष्यामि मातॄणां लक्षणं शुभम् || श्रीप्रदं पुत्रदञ्चैव धनधान्यसुवर्धनम् | सिद्धिदं मुक्तिदञ्चैव परचक्रविनाशनम् || सर्वमारि प्रशमनं सर्वज्वरविनाशनम् | तुष्टिपुष्टिविवर्धनञ्च सुभिक्षमायुवर्धनम् || एककालं द्विकालं वा त्रिकालं नित्यमेव वा | बलिहोमार्चनैर्युक्तं सर्वपापक्षयं भवेत् || तस्मात् सर्वप्रयत्नेन मातॄणां कारयेद्बुधः | पूर्वतो वीरभद्रन्तु पश्चिमे तु विनायकम् || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराही च तथेन्द्राणि चामुण्डी च ततः परम् || इति ब्रह्मयामले शतसहस्रसंहितायां बलिपीठ मात्रलक्षणो नाम षट्चत्वारिंशत्पटलः || ४६ || अतः परं प्रवक्ष्यामि योगवृक्षस्य लक्षणं | तिमिरशूलस्य मूर्तिस्यासमिधा लक्षणेन च || प्. १७८) तोरणं पञ्चायुधञ्चैव तथा ब्रह्मन् पुरा पुरा | खदिरं पनसञ्चैव बिलपञ्चासनन्तथा || मधुकञ्चंपकञ्चैव वसुरन्देवदारुकम् | कदम्बमर्जुनञ्चैव पलाशाशंखमेव च || चन्दनो नागवृक्षञ्च जाती च स्पन्दनस्तथा | स्तंबकञ्चैव कष्मर्यं शितीतिमिरमेव च || पलाशखदिराश्वत्थं प्लक्षन्यग्रोधबिल्वकम् | शमी वैकंकतं चैव वैणवञ्च क्रमेण तु || निम्बरा राजवृक्षञ्च पाटलञ्च तथैव च | देष्टरञ्च हितं शुभ्रं कुज्जजीर्णञ्च वर्जितम् || अग्निदमं स्वयं शुष्कं पिपीलिकाभिश्च सेवितम् | पतितञ्चोदितञ्चैव हरिवृश्चिक सेवितम् || भेद्यं वा सुषिरञ्चैव अन्नस्तोमसमन्वितम् | सर्पञ्च कृकलासञ्च कृमिच्छिद्रञ्च वर्जितम् || मूलहीनं तथा पुष्पं पलाश जीर्णितन्तु वा | त्वक्दोष स्फुटितञ्चैव दोषहीनेन वर्जयेत् || भिन्नाहन्नद * * * * * * * * * * * | शुष्कदग्ध स्वयं भिन्न दक्षिण प्रवणन्तथा || कीर्णकृमिबन्ध * * संपूर्ण पक्षिसेवितम् | * * * ञ्चैत्यजाताश्च वर्जनीयात् प्रयत्नतः || प्. १७९) नदीतीरे तटाके वा ग्राममध्ये च दिक्पथे | पूतभ्रमो मा * * * * ण्डाल शबराष्टिते || वातादपग्निदग्धश्च तथैव पर्वतेषु च | वृक्षग्राह्यास्तदालाभे भ्रगतजन दूषिते || चक्षुरोषराशियुक्तेवस्त्रीणे जलवर्जिते | मरुप्रदेषु देशेषु कैतैकीत्तोमसंकुले || गोमायुवृकभूतिष्ठे ग्रन्थर्क्षश्येन संकुले | पक्वापक्वसमाकीर्णं म्लेच्छदेशेषु भीषणे || ग्रामप्रदेशे वल्मीके व्रजनी वृक्षसे शुभम् | वृक्षसामान्य संकीर्णे बहनकमृणान्विते || किञ्चिद्दोषेण संग्राह्य बहुदोषं विवर्जयेत् | दोषरहितभ्रमण वामे खलत्वं न विन्यसेत् || वृक्षमं कर्मता कुर्यात् शस्त्र दृष्टेन कर्मणा | तत्रैव वृक्षाग्रगर्भ प्रवक्ष्यते यथाविधि || सिराश्च विवराश्चैव आपद्गूढ यथा तथा | मण्डलञ्च तथा गर्भ वृक्षता चेति सर्वतः || वृक्षदोषसमाख्यात सर्वसंपद्विनाशन | अधिकञ्चैव विनाशञ्च स्फुटितं पत्रमेव च || स्थूलश्चैवाग्रतश्चैव सुषिरञ्चैव संप्रवै | दन्तिवृक्षदोषेण विनारोगे विवरेराग्रविग्रहम् || प्. १८०) आपत्रे वह्नि दुर्भिक्षं प्रभेदस्स्यात्स्वयं भवेत् | मण्डले वर्ण दोषे तु शुभये सर्वजनक्षयम् || रूक्षतायन नाभयं कर्तुर्भवति नित्यता | अधिकेथ भवेद्व्याधि भिन्नो वा विग्रहं भवेत् || स्फुटिते प्राणिनाशस्तु कर्तुकारद्वितन्तवे | वक्त्रे तु सर्वसन्तापं स्थूलव्याधिर्भविष्यति || कलशे तु भुविव्याधि सुषिरे स्वामिनाशनम् | शुभवृक्षसमाकीर्णं बहुनाकतृणान्विते || पद्मोत्पलं वा नाकीर्णे वृक्षही क्षेत्र समाकुले | कुशागर्भ संकीर्णन्ते ग्राह्या वृक्षते सदा || अथोत्तरायणे मासे पूर्वपक्षे तथैव च | सुमुहूर्ते च नक्षत्रे कुनान्याय कुलन्तथा || नादं दक्षिणोत्तरायां प्रत्ये गर्भ यथा पुनः | पुण्याहं वाचयित्वा तु परिभ्रम्य * * * * || पराङ्मुखस्स नमस्कुर्यात् वृक्षञ्चैव तदा कर्म * * | * * * * * * * * * * पश्चादायुध मेव वा || समिधेन च तत्र दण्डञ्च समिधेन सकृद्भवेत् | एवं विधिसमायुक्तं परिक्षयेत् तत्र वित्तमः || इति ब्रह्मयामले शतसहस्रसंहितायां योगलक्षणो नाम सप्तचत्वारिंशत्पटलः || ४७ || प्. १८१) प्रतिष्ठाविधिं प्रवक्ष्यामि शृणु ब्रह्मन्यथा क्रमम् | आषाढे श्रावणे चैव प्रोष्ठपादे तु मेव च || कार्तिका मार्गशीर्षे तु पौष्यफाल्गुनयोरपि | प्रतिष्ठां कारयेन्नूनं कारयेत् तत्र वित्तमः || दक्षिणायन काले तु कृष्णपक्षे शुभे दिने | प्रासदस्योत्तरे चैव ऐशान्यान्तु विशेषतः || अथवा पूर्वदेशे तु मण्टपं चतुरश्रकम् | दशद्वादशहस्तन्तु तथा षोडशहस्तकम् || कन्यसं मध्यमं श्रेष्ठं त्रिविधं मण्टपं स्मृतम् | षोडशस्तम्भसंयुक्तं द्वादशस्तंभमेव च || द्वात्रिंशत्स्तंभसंयुक्तं मण्टपन्तु विशेषतः | उत्तरापट्टिकायुक्तं पटलाश्चादितं शुभम् || चतुर्भिस्तोरणैश्चैव चत्वारोपशोभितम् | यावद्वार प्रमाणानि तावत् तोरणविस्तरम् || विशदंगुलनाहन्तु तथाष्टदशमेव च | परिणाहं तथोत्सेधं विस्तारं चतुरंगुलम् || दर्भैर्मालावृतञ्चैव पुष्पमालाप्रलम्बितम् | पलञ्च पल्वलञ्चैव पालिका चपलं कृतम् || छत्रचामारसंयुक्तं अष्टदिग्ध्वजशोभितम् | इन्द्रादीशानपर्यन्तं मालया चैव कारयेत् || प्. १८२) शक्तितोरणसंयुक्तं कदलीस्तंभ इक्षुभिः | चित्रध्वजसमाकीर्णे नानापुष्पसमाकुलम् || अष्टदिक्षुध्वजञ्चैव पठे वाहन लेखयेत् | इन्द्रद्वारं यमद्वारं वरुणद्वारमेव च || सौम्य द्वारसमायुक्तं अष्टध्वजस्य विस्तरम् | द्व्यंगुलं शान्तदं प्रोक्तं सुप्रयोगमथोत्तरे || पूर्वमण्टपसंयुक्तं वेदिका चतुरश्रकम् | मण्टपं नवभागे तु मध्यभागे तु वेदिका || पञ्चहस्तं प्रमाणं वा चतुर्हस्तमथापि वा | त्रिहस्तं वा द्विहस्तं वा एकहस्तमथापि वा || अष्टांगुलाच्छ्रया मानं दर्पणोदरसन्निभम् | * * * * * * * * * * * * * * * * || नवकुण्डसमायुक्तं मध्ये देवी समन्वितम् | चतुर्हस्तं त्रिहस्तं वा एकहस्ते एव शुभम् || उत्तमाधमविज्ञेयं मेखलात्रयसंयुतम् | दग्धा मुद्रा तथा ब्रह्मन् मध्यमं मेखलान्वितम् || वितस्तिन्नयो ज्ञातां साम्यकलासलान्वितम् | अग्निकुण्डानि वक्ष्यामि प्रतिमाया विशेषतः || चतुरश्रन्तु मिन्द्रायामाग्नेययां योनिमाश्रितम् | अर्धचन्द्रं यमस्थाने त्रिकोणे नैर्-ऋतं भवेत् || प्. १८३) वारुणे वर्तुलं कुण्डं वायव्यान्तु षडश्रकम् | सौम्यायां पद्मकुंडन्तु ऐशान्याच्चाष्टकोणकम् || एकहस्तप्रमाणेन कुण्डं कुर्याद् विचक्षणः | मेखलात्रयसंयुक्तं खानहस्तप्रमाणकम् || कृत्रिमात्तोरणे काले मूले पुष्पादिभिः क्रमात् | ध्वजासीषु न्यसेत् पश्चात् पीतरक्तं तथासितम् || हरितः श्यामवर्णञ्च शिखण्डहरमेव च | धूमाभं पावकाभञ्च पूर्वादीशान्तमेव च || चतुर्हस्तञ्च सर्वापि त्रियस्ति द्वयविस्तृता | पार्श्वे कदलि कोपेत दग्रे तु विधा कृता || ध्वजानामधिदेवश्च पूर्वादीशान्तमेव च | * * * * * * * * प्रवक्ष्यामि पितामह || पश्चाद्वौ वारिकां न्यसेत् * * * * * * * * | आग्नेयां वक्रिताननां चर्चिकां दक्षिणे न्यसेत् || नैर्-ऋत्यां पिंगले न्यस्य वारुण्यां विन्यसेत् बुधः | इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिष्ठा विधिर्नाम अष्टचत्वारिंशत्पटलः || ४८ || अथातस्संप्रवक्ष्यामि अल्लिका लक्षणं शुभम् | सर्वलोकहितार्थाय सर्वदोष प्रियाय च || प्. १८४) पुरामञ्जीरदेहात्मा अंकारो जात एव हि | यातु अल्लिसमुद्भूता तत्संयोगेन अल्लिका || वेदेन संयुतं पश्चात् अंकार इति कीर्तितः | दारुप्रमाणवलयञ्चर्म बन्धाधिदैवतम् || पाठ्यमानं समुत्पत्ति वद मे परमेश्वर | ईश्वर उवाच || सभाया लक्षणं वक्ष्ये शृणु त्वं नन्दिकेश्वर | चन्दनारग्वध * * * * * * * * पकम् || अनन्तजीवशमिनिम्बखदिरापनसार्जुनौ | आरण्यवृक्षौ च * * * * * * * * * का || कनकं रजतं ताम्रं कांस्यञ्च कनकद्वयम् | निव * रगुधयुगखदिरश्चोत्तमा स्मृता || समसारशम्यानि हिरण्मयनिद्रगमौ | पनसान्तजीवय आलामध्यमा कथिता || इमे मृत् चंपकार्जुन पल्लश्चाधमास्संप्रकीर्तिताः | अन्तस्सारा अपि परे कन्यायाः कथिताः द्रुमाः || एकभूमि स्थितं वृक्षं नरन्य दारुसंयुतम् | समस्थलसमुद्भूतं चंतुदूग्वायु संहृतम् || ऊर्ध्ववृत्तं मनोहरं ग्राहषयो वाद्यवृक्षकाः | अन्यदोषयुतं वृक्षं वर्जयेत् तु प्रयत्नतः || प्. १८५) लक्षणोपयुतं वृक्षं कञ्चिद्दोषविवर्जितम् | ग्राहयेत् सर्वयत्नेन बलिन्दत्वा विशेषतः || सम्यक् कृष्णकृतस्यास्य ततो मानं प्रकल्पयेत् | कर्तुरंगुलिमानेन प्रमाणं कारयेद् बुधः || कनिष्ठायश्च तर्जन्यो अग्ररेखा तु ये यदा | समस्सत्रं भवेत् तत् तु चतुरंगुलमुच्यते || यत्र दूतं ममानं स्यात् वाद्यनिर्माण कर्मणि | कनिष्ठायाश्च तर्जन्या अग्रप्रान्ते समं यदा || चतुरंगुलमाख्यातं तन्मानं मध्यमं विदुः | कनिष्ठायाश्च तर्जन्या मध्यरेखाश्च ये यदा || चतुरंगुलसूत्रं यत् तन्मानञ्च यमं विदुः | पञ्चत्रिंशत् समारभ्य यावत् पञ्चादशांगुलम् || तावदाधममानं स्यादुत्तमाधममध्यमैः | सप्तत्रिंशेन्नवति त्रिंशत् पञ्चाशच्च द्विहीनकम् || उत्तमा याममानं स्यात् अधमं मध्यमुच्यते | एकोनत्रिनपञ्चाशच्चतुःपञ्चविहीनकम् || चत्वारिंशद् द्विचत्वाष्टत्रिंशच्च मध्यमम् | अष्टांगुलीनामारां सत्वयमस्सनिगाहिः || विस्तारमानन्ति विमुक्तयाधममध्यमैः | पञ्चपञ्चाशदारभ्य यावत् सप्ततिरंगुलिः || प्. १८६) तावद्विस्तारमानं स्यात् उत्तमाधममध्यमैः | एकोन सप्तत्यत्र पञ्चनून सप्तषष्ठिकम् || त्रियूनषाष्टृकञ्चैव पञ्चपञ्चाशदुत्तमम् | एकं षष्टित्रिषष्टिश्च सप्तषष्टिश्च मध्यमम् || पं शृंग कुड्यं पौरुक्तम् | अन्यदलिनिस्तारमधमं कन्यगर्हितम् || एकोनविंशदारभ्य पञ्चपञ्चशतोवधि | मुखविस्तारमानं स्यादोष्ठाश्चांगुष्ठमानकः || आयव्ययोनितार वारांशतिय यत् क्रमात् | यथा होमञ्च कर्तव्यं मक्षिकादि प्रभेदकः || द्विभागशक्र च स्थूलं मध्यकोशातकोपमम् | एकवर्णे बहुगुणो बहुवर्णो मृति प्रदः || क्वचित् क्वचित् प्रदक्षिणं कबर्हात् स्थाननाशनम् | एवं लक्षणहीनन्तु दोष दृष्टविवर्जयेत् || गुणयुक्तं समादाय शिल्पकारं विवर्जयेत् | कुण्डद्रव्यं समादाय कांस्यान्तं मृणमयोपि वा || अंगुष्ठाकारमात्रेण कुण्डं लक्षणसंयुतम् | चतुरंगुलविस्तारमधिकं वर्तमानतः || रज्जुभिस्सम्यगावेष्ट्य मणिबन्ध प्रमाणकम् | एवं दक्षिण कुण्डं स्यात् वामकुण्डविधिं शृणु || प्. १८७) यावच्छृंगमयैः काष्ठैः कुण्डं कुर्यात् त्रिभेदकम् | त्र्यंगुलाधिकं वक्त्रात् कुण्डश्लक्ष्णी कृतं शुभम् | इति ब्रह्मयामले शतसहस्रसंहितायां अ?ल्लिकालक्षणविधिर्नाम एकोनपञ्चाशत्पटलः || ४९ || नागपाशविधिं वक्ष्ये कर्तव्यं धातुभिः क्रमात् | त्र्यंगुलमाकृष्य तदाकारेण बन्धयेत् || शंकुसप्तकमाबध्य पट्टे त्र्यंगुलमानकम् | धूपिका नामिकं दिव्या तस्यार्धं कुक्षिवृत्तकम् || अधस्तादर्धसुषिरं शंकुकावेधनं दृढम् | गोचर्म द्विविधं प्रोक्तं बाह्याभ्यन्तरमंजुलम् || दर्पणोदरसंकाशं सर्वदोषविवर्जितम् | कीलञ्च द्विविधं प्रोक्तमुपकीलञ्च कीलकम् || विस्तृतद्वय हस्तोरोमाचार्य निर्मितम् | कीलकस्याष्टदीर्घं स्यात् अंगुष्ठोदरमानकम् || रूपसंकोश कार्ये तु कीलस्यादीमपो भवेत् | उपकीलस्याष्टभागं च द्वापत्रय समाकुलम् || मृदुना चर्मणावेष्ट्य वामकुण्डमथो दृढम् | वलये सुषिरं कुर्यात् द्वयं वा त्रयमेव वा || जीवाय जीवमानं स्यात् अर्धजीवी भयं तथा | विपरीतभया चैव षट्भेदाः कर्तरि क्रमात् || प्. १८८) विपरीतभया चैव षट्भेदाः कर्तरि क्रमात् | कर्तरिपारि * चैव कर्तरी चालिकाद्वयम् || रेखन्तु चानु जीवा च बद्धहस्तानुवागनु | अनुपालिश्च पञ्चैते बलकाञ्चालजीवकम् || अलकाद्वालिस्तथा चैव मलकालकालकैश्च तु | रेखामिश्रं पञ्चमुखं अनुपोदन्तबन्धनम् || कर्तरिजीवा च अन्त्यादिश्च मानकम् | मानञ्चालपमानानि द्वादशार्थ प्रभेदकः || रेखादिमानपर्यन्त द्वादशालापचालिकाः | बन्धमुक्तमतिप्रोक्तं मालती भेदकद्वयम् || रेखातरतालानां पारणाचालिकात्रयम् | चाका च द्विधा प्रोक्ता बाह्याताल प्रदर्शयो || कपित्थमेकं तत्र स्यात् तालवाच्या ततः परम् | भेदा वाच्यं स्तोकवाच्यं बहवाच्यमतः परम् || एकवाच्यं काकवाच्यं हंसवाच्यं तथैव च | वचो वाद्यञ्च विद्वद्भिरित्यष्टौ संप्रकीर्तितम् || व्यूहमेकं पर्वतत्वं तथा चैकमुदाहृतम् | चतुर्विंशति संयुक्तं शतं संख्य प्रकीर्तिताः || सर्वताल प्रयोगेषु तकारस्तु पदं प्रति | प्रथमे नियमे तेषां मजीव्य नियमो भवेत् || प्. १८९) गोपुरश्च नियमो पश्चात् स्रोतो मृन्नियमस्तथा | गतिपूर्वश्च नियमस्ते वंशवगुणस्तथा || दीर्घवग्णिकापि स्यात् अन्तरो नियमः परः | सताल नियमोपि स्यात् अन्तरीवसुहस्तकाः || पञ्चस्थाली महीष स्यात् चली च बहुचालिका | हस्तप्रक्षेपणं पश्चात् तथैवत्यकथापि च || कर्मा वा वर्तकानान्तु वक्ष्यामि दशसंज्ञितम् | एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट नवोदश || प्रागेका वर्तनं प्रोक्तं द्वितीयावर्तनं तथा | तृतीयावर्तनञ्चैव चतुर्था वर्तकं तथा || पञ्चमावर्तनञ्चैव षष्ठावर्तन्तथैव च | सप्तमावर्तकञ्चैव अष्टमावर्तकं तथा || इति ब्रह्मयामले शतसहस्रसंहितायां नागपाशविधिर्नाम पञ्चाशत्पटलः || ५० || अतः परं प्रवक्ष्यामि आशौचस्यविधिक्रमम् | वर्णजातिविधिञ्चैव अनुलोमविधिं क्रमात् || सूतकप्रेतकञ्चैव आशौचञ्च क्रमेण वा | (ब्राह्मणाच्छूद्रकन्याया जातोषष्ठ उच्यते ||) ब्रह्मचारी जटाधारी सन्यासी शौच वर्जितः | वानप्रस्थश्च बौद्धश्च आशौचस्य विवर्जितः || प्. १९०) ब्राह्मणानां दशाहञ्च क्षत्रयं द्वादशं भवेत् | वैश्यानां षोडशञ्चैव शूद्राणां त्रिंशतिस्तथा || अनुलोमजातानान्तु आशौच विधिं शृणु | विप्रस्य नृपकन्यायां जातो सवर्णनामकः || एकादशाहमाशौचं द्विजवत्कर्ममाचरेत् | विप्रस्य वैश्यकन्यायां जातोंषष्ठ उच्यते || उपवीत समन्त्रज्ञ द्विजवत्कर्ममाचरेत् | सूतकप्रेतकञ्चैव आशौचं द्वादशक्रमात् || ब्राह्मणाच्छूद्रकन्यायां जातः पारशवः स्मृतः | निषेकादिविवाहान्त द्विजवत्कर्म माचरेत् || सूतकप्रेतकञ्चैव आशौचं षोडशक्रमात् | क्षत्रियाद्विप्रकन्यायां जातो वै सूत उच्यते || सूतकप्रेतकञ्चैव द्वादशञ्च भवेत् क्रमात् | ब्राह्मणाद्वैश्यकन्यायां चौयाद्वै कुम्भकारकः || सूतक प्रेतकञ्चैव षोडशन्तु भवेत् क्रमात् | अनुलोम क्रमञ्चैव कर्मजाति क्रमं शृणु || रुद्रस्य गणिकाश्चैवमाशौचञ्च षोडश | तपस्वी देवदासीनां पक्षाशौचं विधीयते || अन्यथा नृत्तवाद्यञ्च दशपञ्च क्रमेण तु | विष्णुदासी दासकानां दशपञ्च क्रमेण वै || प्. १९१) लिंगार्चन शिवभक्तानां आशौचं पक्षमाचरेत् | मातृवर्गमाशौचं पितृवर्गञ्च वर्जयेत् || तद्दासी जननास्सर्वे वेश्यापुत्रो विवर्जयेत् | सूतकाशौच मध्ये तु मृतश्चेत्सूतकान्तकम् || मृताशौच मध्ये तु जातकं पूर्णमाचरेत् | आदन्तजन्मनस्सय आचौलान्ते शिखिस्मृतः || त्रिरात्रमावृतादेशाद् दशरात्रमतः परम् | त्रिवर्षादुदकं पिण्डं श्राद्धान्तं पञ्चमात्परम् || अष्टदार्थकलं ग्राह्यं सपिण्डान्तमतः परम् | भार्या तु गर्भिणी चैव गर्भन्यासं विवर्जयेत् || द्विभार्या गर्भिणी चैव एकभार्या प्रसूतिका | वपनं नैवकुर्वीत नामकर्म च कारयेत् || मातापितृमृते प्राप्ते क्षौरं कुर्वन्विनश्यति | कृत्वा चौलोपकुर्वीनात् उदकपिण्डमेव च || गुर्वाचार्यपत्नीनां गर्भवानपि वापयेत् | पितृदीक्षा च कुर्वीरन् जातिक्षौरं न कारयेत् || मातापित्रोस्तु दीक्षायां शुभाशुभ विवर्जितम् | शिवानुगमनञ्चैव वपनं सिन्धु सेवनम् || अन्तर्वत्या पतिं कुर्वन् प्रजा भवति ध्रुवम् | शावान्नं सूतकान्नञ्च सीमन्तोन्नं तथैव च || प्. १९२) गो क्षीरे दशवारेण भुक्त्वा चान्द्रायणं चरेत् | मातापित्रोस्तु दीक्षायां मध्यमे शुभकर्मणि || सप्ते दीक्षासमाप्तैव शुभक्रमणि कारयेत् | बहुपुत्रेण दीक्षा च मध्यमे शुभकर्मणि || प्राप्ते कनिष्ठपुत्रेण दीक्षापि च समाप्यता | शुभकर्मेण तेनैव कुर्यादपि विशेषतः || मातापितृपितृव्याणां मातुलैः पूर्वजैर्मृतौ | पराचार्य * * * नां गर्भवानपि वापयेत् || अन्तवाग्दहनं कुर्यात् केशाश्मश्रूणि वापयेत् | गर्भिणी अष्टमासञ्च गर्भवान्कर्म वर्जयेत् || गर्भितेनैव कर्मेण जातकं मध्यमेव च | प्रायश्चित्तञ्च कर्तव्यं पुनः कर्मसमाचरेत् || उत्सवे च प्रतिष्ठायां अर्चने होम एव च | यत्कालमध्यमे शौचे कर्मान्त्येशौच माचरेत् || मातुश्च पूर्वदीक्षायां पितॄणान्दहनं भवेत् | पितुश्च पूर्वदीक्षायां दहनं वपनं क्रमात् || कन्या उदकपूर्वश्च मृत्युः कर्मपिता यदि | कन्यादानान्मुदा चैव भक्ताकर्मञ्च कारयेत् || कन्याभक्तमतैश्चैव रजसायपिधाय च | गर्भिणी गर्भान्मरणे सूतिकादशमंगली || सहोदरं सखीपुत्री मृतसूते शौच वर्जयेत् | भर्तृवर्गञ्च हीनञ्च सहोदरकर्मकारयेत् || अन्त्ये परिश्रम प्रेतं एकाहमं शौच माचरेत् | सर्पबन्धञ्च पाशञ्च अग्निदग्धञ्च खड्गकम् || जलं वृक्षनदी शृंगो औषधञ्च प्रयोगश्च | दुर्मरणन्नवमञ्चैव प्रायश्चित्त विधि क्रमात् || अन्तरात्मगजे यैव परमात्मा न योजयेत् | नारायण बलिञ्चैव ब्राह्मणानां विशेषतः || ग्रहशान्ति विप्र भोजन कर्मञ्चैव तत्कारयेत् | षष्ठमासे चतुर्मासे अथवा च त्रिमासके || पुनस्संस्कार कर्वेण अस्तिसञ्चय || ########### END OF FILE #######