#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00506 Uniform title: candrāvalocakana Manuscript : IFP transcript T00788 Description: A short tract on yog taught by maheśvara dialoging with matsyendranātha. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: August 14 2021. Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### || चन्द्रावलोकनम् || हरिः ओं || महेश्वर उवाच- अन्तर्लक्ष्यं त्वहिर्दृष्टिर्निमेषोन्मेष वर्जितम् | इयं सा शाम्भवी मुद्रा सर्वन्तेषु गोपिता || १ || अन्तर्लक्ष्य विलीन चित्तपवनो योगी यदा वर्तते | दृष्ट्या निश्चल(तर)या बहिरथः पश्यन्न पयेत् सदा | मुद्रेयं खलु खेचरी भवति सा युक्ता प्रसादाद्गुरोः | शून्याशून्य विवर्जितं स्फुरति चेत् तत्वं पदं शाम्भवम् || अर्धोद्घटितलोचन स्थिरमना नासाग्र दत्ते क्षणः चन्द्रार्कावपि लीनतामुपगतौ निष्पन्दरूपं वपुः | ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं परं तत्वं तत् पदमेति यत् तु परमं वाच्यं किमात्राधिकम् || यस्मिल्लयेऽति गर्भस्येऽन्तेन्तर्लय वेदिते | लयः सोऽपि च विज्ञेयस्तुष्टेन गुरुणा युतः || या चितिस्सर्वभूतानाम् उदयव्ययसाक्षिणी | तां चितिं पश्य कायस्यां पूर्णानन्दघनामृताम् || शिवोऽन्यत्रमनोऽन्यत्र शक्तिरन्यत्रमारुतः | न सिद्ध्यति वरारोहे कल्पकोटिशतैरपि || ज्ञानं कुतो मनसि जीवति देवि यावत् प्राणेऽपि जीवति मनो म्रियतेन यावत् | प्. २) प्राणो मनो द्वयमिदं विलयं प्रयाति मोक्षं स गच्छति नरो न कथञ्चिदन्यः || सयोगेषु वियोगेषु अणुबीज सुखादिकम् | यः कुर्याद् दृष्टि लिङ्गेषु ना सावधानोनिरन्तरम् || यत्र दृष्टिर्मनस्तत्र भूतेन्द्रिय सनातनम् | सा शक्तिस्स हि भूतानां दृष्टिर्लक्ष्ये लयंगता || यत्र दृष्टिर्मनःस्यैर्यं तत्र चैव हि मारुतः | अयं कोपि भवेदेवं तस्यारगै सिद्धसम्मतः || चक्षुरग्रस्थितो कारं सबाह्याभ्यन्तर स्थितम् | दृश्यते चक्षुरग्रेऽपि चक्षुवैव न पश्यति || चक्षुरग्र स्थितो नित्यं विस्फुरन्योमणिर्यथा | तं दृष्ट्वा व्यापकं शम्भुं भवबन्धैः प्रमुच्यते || आत्म ज्योतिर्मनो ज्योतिर्ज्योतिश्चक्षुर्न पश्यति | साबाह्याभ्यन्तरं ज्योतिः स ज्योतिश्शिवः उच्यते || यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे यावद्बिन्दुर्न भवति दृढः प्राणवात प्रबुद्धः | यावद्वो * * * सदृश सरसं जायते नोन्मनत्वं तावत्सर्वं यदि च वदते दम्भमिथ्या प्रलापः || नित्याभ्यासरतः काश्चिद् गुरुभक्तश्च निश्चलः | सहजं यो न जानाति अन्धवत्स प्रवर्तते || अमावास्या च प्रतिपत् पौर्णमासी च गोप्यते | कामं विषं निरञ्जानात् * * * * सर्वत्र परिवेशिता || अग्रे प्रेम युता पाल्या लोकानां भ्रमणायते | यथा भूतं न जानंति मिथ्यादम्भेण दंभिताः || प्. ३) अमावास्या च प्रतिपत् पौर्णमासी च गोप्यते | कामं विषं निरञ्जनं सर्वस्यो परिसंस्थितम् || मत्स्येन्द्र उवाच- अमावास्या च प्रतिपत् पौर्णमासी च शङ्कर | कथं सा भण्यते संज्ञा सर्वं व्याख्या हि तत्वतः || ईश्वर उवाच- प्रतिपच्चक्षुरुन्मेष अमावास्यास्तलोचना | अर्धावलोकनं यावत् पर्णमासीं वदन्तिताम् || मत्स्येन्द्रः- काम शब्देन किं वाच्यं विषेणापि किमुच्यते | निरञ्जनस्वभावः कः एतदाख्या हि तत्वतः || ईश्वरः- प्रतिपद्ग्रसते कालं ममावास्या तथैव च | प * * * स्थिरीकृत्य पन्था भवति नान्यथा || कामेन विषयाकाङ्क्षा विषात् कामस्य तल्लयः | द्वावेतौ सन्त्यजेन्नित्यं निरञ्जनमुपाश्रयेत् || अपरः सन्त्यजेत्सर्वं यदीच्छेदात्मनोहितम् || अन्यथामरणञ्चैव भुक्तत्वात् * * * नि च | शक्ति मध्ये मनः कृत्वा मनः शक्तेस्तु मध्यगम् | मनसा मन आलोक्य तद्ध्यायेत् परमं पदम् || मत्स्येन्द्रः- बीजः चैव किमाख्यातं कीदृशं बिन्दुलक्षणम् | कथञ्चोत्पद्यते बिन्दुरेतदाख्याहि तत्वतः || ईश्वरः- मन एव हि बीजश्चोत्पत्ति स्थिति कारणम् | मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् || मत्स्येन्द्रः- शिखा नगाग्र पर्यन्तं व्यापितञ्च सुखासुखम् | द्रवते घण्टिकाच्छिद्रं बन्धनं तस्य कीदृशम् || ईश्वरः- न च बन्धनमध्यस्थं न चैकरणमानसम् | प्. ४) चन्द्रात् मध्य शक्तिर्यत्र स्या तत्र बन्धनम् | ज्ञात्वा सुषुम्ना सद्भेदं कृत्वा वामुञ्च मध्यगम् || कृत्वा सा वैन्दवे स्थाने घ्राणरन्ध्रे निरोधयेत् | मत्स्येन्द्रः- वासुबिन्दुः समाख्यातः तत्वं प्रकृतिमेव च || षट्चक्राणि न जानामि कथयस्व प्रसीदमे | ईश्वरः- आधारञ्च स्वाधिष्ठानं मणिपूरं तृतीयकम् || अनाहतं विशुद्धञ्चाज्ञाचक्रं च षष्ठकम् | अथारं गुदमित्युक्तं स्वाधिष्ठाञ्च लिङ्गकम् || मणिपूरं नाभिदेशे हृदयस्थमनाहतम् | विशुद्धं कण्ठदेशे चाज्ञाचक्रं च मस्तके || षट्चक्राणि परिज्ञाय प्रविशेद् ध्रुवमण्डले | प्रविशेद्वायुमाकृष्य तथैर्वोर्ध्वे नियोजयेत् || एवं समभ्यसेत्तावद्यो ब्रह्माण्डमयो भवेत् | वायुर्बिन्दुस्तथा चक्रं चित्ते चित्ते युक्तं समभ्यसेत् || समाधिनैकेन समंममृतं यान्ति योगिनः | यथाग्निर्दारु मध्यस्थो वोत्तिष्ठेन्मथने विना || तथैवाभ्यास योगेन ज्ञानदीप्तिर्न चैव हि | घटमध्ये यथा दीपो बाह्ये नैव प्रकाशयेत् || * * * स्मिन् गते चैव दीपज्वालावभासते | स्वभावं घटमित्युक्तं दीपमेव हि तत्पदम् | गुरुवाक्या * * * न्न ब्रह्म ज्ञानं स्फुटी भवेत् || कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मान्तराणि च | अभ्यास वाहना सक्तास्तरन्ति भवसागरम् || मत्स्येन्द्र उवाच- तवपाद प्रसादेन मुक्तोऽहं भवबन्धनात् | त्वं गतिर्देव देवेश नान्यथा मेऽस्तिशङ्कर || श्रुत्वामत्सेन्द्र वाक्त्यन्तु प्रविष्टो भगवान् शिवः | गच्छ पुत्र पृथिव्यांत्वं त्रैलोक्यं चोद्धरिष्यसि || इति महेश्वरेणविरचितं चन्द्रावलोकनम् सम्पूर्णं || || श्रीगुरुनाथाय नमः || ########### END OF FILE #######