#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00263 Uniform title: candrajñānāgama Manuscript : BHU C4243 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### श्री गुरवे शिवाये नमः | ओं नमः परमात्मने || ओं नमो गणाधिपतये नमः || ओं नमो विष्णवे || प्. ५५अ) ओं नमः शिवाय स शिवाय शिवदाय नमो नमः | अथ चन्द्रज्ञानं लिख्यते || ओं कैलासपिठमध्यस्थं देवदेवं महेश्वरम् | स्कन्दनन्दिगणाकीर्णं विश्वेश्वरसमन्वितम् || १ || ब्रह्मादि कारणैः सार्धमुमया सहितं स्थितम् | महोदरसमायुक्तमप्सरोभिः समावृतम् || २ || महाध्यानस्थितं देवं मुनिभिश्चापि संवृतम् | गन्धर्वादि गणोपेतं सिद्धसङ्घैश्च संयुतम् || ३ || स्रूयमानं सुरवरैः साध्यरुद्रमरुद्घनैः | नारद प्रमुखैश्चैव गीतनृत्तविशारदैः || ४ || आराध्यमानं देवेशं वरदं लोककारणम् | सर्वानुग्रहकर्तारं सर्वपापप्रणाशनम् || ५ || प्. ५५ब्) सर्वमन्त्रवरं नाथं सर्वदेव नमस्कृतम् | तत्रस्थं देवदेवेशमुमयासहितं शिवम् || ६ || दृष्ट्वा तु वरदं देवं ध्यानस्थं तं कपालिनम् | संशया विष्टचित्तस्तु चन्द्रो वेदविदांपतिः || ७ || अष्टाङ्गप्रणिपातेन प्रणम्य परमेश्वरम् | रोदमानो ब्रवीद्वाक्यमुच्छसंश्च पुनः पुनः || || ९ || इन्द्रजालं हि पश्यामि असत्यं सत्यतां गतम् | मोहितं मायया सर्वं ब्रहाण्डं स चराचरम् || ९ || देवमानुष्य तिर्यञ्च गन्धर्वोरगराक्षसाम् | सर्वेषां निश्चिता बुद्धिः प्रणष्टा इति मे मतिः || १० || क्षणिकस्य तु रूपस्य तथा शब्दस्य वै प्रभो | त्वयोक्तस्यैव चन्द्रस्य बुद्धि रूपस्य नित्यशः || ११ || प्. ५६अ) आकाशस्य कथं देव प्रणमन्ति विनाशिनः | स्वयमेवमसौनष्टश्चिन्तयायः प्रकल्पितः || १२ || शब्दस्य कृतकं चैव मन्त्रत्वं च कथं भवेत् | प्रयुक्ता च यथा वीणा तन्त्रीस्वर समन्विता || १३ || चित्तेन सार्यते यस्य षड्जमध्यमदैवता | तथा मन्त्रा तदाकारा विद्याश्चैव सहस्रशः || १४ || अप्रबुद्धधियोमूढाः स्वचित्तं ते बहिः स्थिताः | कृतके नैव सन्तुष्टा भ्रामिता मायया पुनः || १५ || असत्यमिन्द्रजालस्य यद्रूपं तत्कथं प्रभो | उच्चार्यमाणा ये मन्त्रा न ते सम्यक् त्वयोदिताः || १६ || मोहिता देवगन्धर्वा मिथ्याज्ञानेन गर्विताः | प्. ५६ब्) मायास्वप्नोपमाः सर्वे मुद्राध्यनादि धारणाः || १७ || न तच्चित्रमिवासत्यं शास्त्रजालं क्रियागमम् | देव्या विनायकस्यैव षण्मुखस्य त्रिलोचनम् || १८ || नन्दिभृङ्गि महाकाल कौबीरोशनसां तथा | वासुकिर्गारुडश्चैव ब्रह्मणो विष्णुरुद्रयोः || १९ || सनत्कुआरप्रमुखादृषीणां भावितात्मनाम् | दुर्वासप्रमुखादीनां मुनीनां यस्तु संहितः || २० || मन्त्राश्च विविधाकारा देव्याश्चापि सहस्रशः | संप्राप्ताविविधाकारा विद्याश्चापि सहस्रशः || २१ || कथिताश्च यथापूर्वं युक्ति युक्ताः समासतः | तत्सन्तुष्ट महादेव शिरस्स्थेन मया श्रुतम् || २२ || ???????????????????? प्. ५७अ) भ्रामितास्ते मया सर्वे व्यायामेन महेश्वराः | न ज्ञातं कस्यचिज्ज्ञानं शारीरं गूढगोचरम् || १३ || अप्रबुद्धमतित्वाश्च शास्त्रजाले भ्रमन्ति ते | कृतकं नैव सन्तुष्टाः स्वचित्तमुषिताः स्थिताः || १४ || मयाश्रूतागमपथातन्त्रे तन्त्रे त्वया कृताः | सम्भावं कस्यचेन्नोक्तं मोहिताः परमार्थिकाः || १५ || को मन्त्रः कृतको नाम कस्य कर्ममतिस्तथा | दीयते कस्य वा पिण्डं वायुर्वायौ प्रलीयते || १६ || आपस्त्वप्स्वप्रलीयन्ते विशेत् तेजश्च तेजसि | आकाशे तु तथाकाशं मनोबुद्धिरहं तथा || १७ || यथा गताः पुनस्तत्र लीनाः स्वे स्वे पदे तु ते | को यं मांस मयो देहो दग्धो वा प्राणिभक्षितः || १८ || प्. ५७ब्) अमूर्तो निर्गुणो जीवो ह्यनादिश्चाप्यखण्डितः | न रूपं तस्य नो वर्णो न स्थानं न च धारणा || १९ || कस्य कालो यशः कस्य भटाश्चैव सुदारुणाः | नरकाश्शासनाश्चैव प्रेतपुण्यं वसेतकः || २० || सहस्रसङ्ख्याः पुरुषा आहवे ये हतास्तुते | नीयन्ते बहुभिःकालैरेको वा किं बहून्नयेत् || २१ || पक्षिणो विह्वली भूता निर्गतेन लयं गताः | लक्षसङ्ख्याश्च वहवस्तत्र कालःकिमागतः || २२ || एके नैव हि कालेन सहस्राण्यर्बुधानि च | नीयन्ते बहुभिः किं वा एतत्सर्वं वदस्व मे || २३ || शृणु चन्द्र प्रवक्ष्यामि रहस्यं भुविदुर्लभम् | यन्न कस्य चिदाख्यातं निस्संशय करंपरम् || २४ || प्. ५८अ) न मन्त्रो वर्णसंयोगाद्य उपाद्यः क्रियापरः | तानेश परमेशान मोहन्युक्ता तु मातृका || २५ || पशूनां स्थूलमार्गेन स्वात्मविज्ञानवर्त्मनि | संभवन्ति यथोवर्णाः स्वरव्यञ्जनसंज्ञकाः || २६ || अक्षरक्षरयोर्यत्तदक्षरं चाक्षराधिकम् | तस्याधिकारणं यत् तद् वाग्भिर्वक्तुं न शक्यते || २७ || तदक्षरं न जानन्ति मिथ्या गर्वेण मोहिताः | तज्ज्ञात्वा बीजराजं तु वरुणानलमध्यगम् || २८ || न जायेत पुनर्गर्भे यद्यपि ब्रह्महा भवेत् | परिवाराङ्ग विस्तारं नामजाति विवर्जितम् || २९ || एकवीरं स्मृतं मन्त्रं सङ्क्षिप्तं विधि साधनम् | शब्दावस्थं परित्यज्य बोधरूपेणसंस्थितम् || ३० || प्. ५८ब्) स्वरमाद्य स्वरं ज्ञेयं तं स्वरं स्वरवर्जितम् | अस्वरं परमं मन्त्रं योगिनां मोक्षदं ध्रुवम् || ३१ || तुटिर्णवनिमेषाश्च तथा काष्ठाः कलास्तथा | शशधवरविद्यां च मुहूर्तदिनरात्रिभिः || ३२ || पक्षमासं त्वयनयोर्यं वत्सर तमः स्मृतः | कीलनाद्द्विजराजैवमेवं कालोभिधीयते || ३३ || कृतस्य कर्मणश्चैव लीनः कालस्सतेन वै | नीयते देहसंस्थेन कर्मणाकालरूपिणा || ३४ || नाकृतिर्विकृतिर्नास्ति कालस्य परमार्थतः | सुखदुःख फलं भुङ्क्ते जीवः स्वस्यैवकर्मणः || ३५ || एकः कृतान्तः संहारी पशु हृद्भवति क्षणात् | आयुः क्षीणाश्च ये भूतास्तिर्यञ्चोमानुषाः सुराः || ३६ || प्. ५९अ) तेषां नियमनार्थाय कालोनामप्रवर्तते | न द्वेषान्न च वैराग्याङ्कालः कर्मेदमुच्यते || ३७ || कालेन नीयते को सौ किं रूपं तस्य शङ्कर | किं विधौ देवदेवेश जीवोनाममहेश्वर || ३८ || कस्मिन् स्थाने वसेज्जीवो म्रियते स कुतः पुनः | कथं कालः प्रशमति जीव स्थाने त्रिलोचन || ३९ || एतत्सर्वं समासेन सद्भावेन वद प्रभो | शृणु तावत् प्रवक्ष्यामि रहस्यं भुवि दुर्लभम् || ४० || जीवो ह्यनादिरमलो निष्कलो विरजः कथम् | शक्तिगर्भ स्थितो नित्यं रूपं ध्यानविवर्जितम् || ४१ || प्रमाणतर्करहितस्त्व हेतुश्च निरञ्जनः | प्. ५९ब्) उपमानवशश्चन्द्र शृणु पात्रस्तु कल्पितः || ४२ || बालाग्रशतभागस्तु वैदिकोरुपगीयते | त्रिविधः स तु विज्ञेयः शाक्तोग्रा कारकः स्मृतः || ४३ || शान्तः शून्यो निराभासस्त्वप्रमेयो निरञ्जनः | सर्वोपमानरहितः कल्पना कालवर्जितः || ४४ || द्वितीयं यस्य यद्रूपं शक्तिः सैवोपगीयते | गुणात्मिका तु विज्ञेया प्रकृतिस्तत्त्व रूपिणी || ४५ || महाभूताः स्मृताः पञ्च मनोबुद्धिरहङ्कृता | एषा प्रकृतिरुत्पना संस्थिता सर्व देहिषु || ४६ || तस्याः क्रिया क्रमं सर्वं पिण्डदानादि लक्षणम् | एतच्छ्रुत्वा ध्व?हासेन चन्द्रो वेदविदांबरः || ४७ || विहस्य सुचिरं कालं द्विजराजोभव्र?वेदिदम् | प्. ६०अ) पञ्चभूतात्मकं पिण्डं पञ्चस्थान गतं प्रभो || ४८ || स्वस्थाने च मनोबुद्धिरहंकारः प्रलीयते | ये ये भावा यथा यातास्तथा तत्र लयं गताः || ४९ || सर्वज्ञसंशयस्यास्य किं ब्रविहि विनिर्णयम् || ५० || शृणु सद्भाव कथनं रहस्य ममृतोद्भवम् | मूर्तैर्ब्रह्मादिभिश्चैव वेदराजयमेन च || ५१ || वरुणेन तथा चन्द्र अग्निवित्तपवायुना | आत्मार्थं रचितं शास्त्रं क्रियाकाण्डमनुत्तमम् || ५२ || पिण्डं च मासिकश्राद्धं तथा सांवत्शरीयकम् | प्रजार्थं सर्वभूतानां जीवनोपाय हेतुकम् || ५३ || कृतं शास्त्रं प्रजार्थान्नं प्रददन्ति परस्परम् | प्. ६०ब्) अन्नेन जीवलोकोयं वर्तते सर्वसम्भवः || ५४ || सद्भावेन तु जीवस्य अरूपस्याव्ययस्य च | श्राद्धदानादिकं कर्म न च पिण्डोदक क्रिया || ५५ || सर्वोपमानहीनस्य कल्पना रहितस्य च | कुतः पिण्डं कुतः श्राद्धं कुतोदाहादि लक्षणम् || ५६ || ब्रह्माद्यैरचितं श्राद्धं मोहनार्थं द्विजोत्तम | स्थिति कारणहेतुं त्वाद्भूता * * *? त संस्कृतम् || ५७ || कर्मनाम द्विजेन्द्रेन्द्र अस्ति सर्वेषु वस्तुषु | स्वकर्मणा सुखं भुङ्क्ते दुःखं भुङ्क्ते स्वकर्मणा || ५८ || यथा च कुरुते कर्म तथैव भुञ्जते पुनः | येन येन स्वभावेन प्रकृतिस्थां त्यजेत् तनुम् || ५९ || तेन ते नैव मार्गेण स्व स्व कर्मोपभुञ्जते | प्. ६१अ) जीवः संसरते देहान्न चासौ म्रियते पुनः || ६० || जन्मार्थे त्यजते कायं क्रियार्थं कायमेव च | न नष्टश्चैव नोत्पन्नो बद्धो मुक्तो न चाप्यसौ || ६१ || शक्तेरभ्यन्तरस्थायी यथासौ जायते पुनः | न कृतिर्गुणपाशैस्तु वेष्टितास्सर्वदेहिनाम् || ६२ || तस्याः कर्म यथासंस्थं च्छाया वदनु तिष्ठति | येन भावेन यो त्यन्तः प्रकृतेर्गच्छते पुनः || ६३ || तेन वै प्रकृतं कर्म तत्र तत्र प्रवर्तते | जीवो द्वन्द्व विनिर्मुक्तः सर्वकर्मसुसंस्थितः || ६४ || न तेन रहितं किञ्चिद्विद्यते भुवन त्रये | यथा वृतौ गतौ वायुः संस्थितस्य द्विजेश्वर || ६५ || तथा सर्वेषु भूतेषु शक्तिर्वै प्राणरूपिणी | प्. ६१ब्) तत्रस्थं यत्परं शून्यं चन्द्रजीवं तु तं विदुः || ६६ || विनष्टकालयोगेन धृतिश्चैव द्विजाधिप | यत् तत् तत्त्वधरं शून्यं स कथं चैव नश्यति || ६७ || यथा नभस्स्थितो वायुर्घटा मध्ये विराजते | सहसा च घटे भिन्ने न वायुर्विद्यते क्वचित् || ६८ || एवं सर्वशरीरस्थो देहपातान्न पच्यति | दर्पणाननसंयोग जलार्क प्रतिबिम्बिते || ६९ || भ्रष्टे च दर्पणे चन्द्र न नष्टं चैव माननम् | जलक्षयाद्यथा चार्को नैव नश्यति वै क्वचित् || ७० || एवं देहक्षयाद् देही न नष्टो न च बध्यते | सर्वगः सर्वकर्ता च सर्वद्वन्द्व बहिष्कृतः || ७१ || न तस्य कालकलना न रागद्वेष एव च | पुष्पैर्गन्धै तिलैस्तैलं क्षीरे सर्पिस्ततो नलः || ७२ || प्. ६२अ) इन्धने च यथा संस्थस्तथासौ सर्वगः परः | शक्तेरभ्यन्तरे जीवः संस्थितो नैव लिप्यते || ७३ || यथा वेश्मान्तर गतं नभः सर्वगतं स्थितम् | चतुष्केन प्रनष्टे तु तन्नभो नैव नश्यति || ७४ || एवं सर्वशरीरस्थः शून्यरूपो ह्यलेपकः | न तस्य कालो मृत्युर्वा न पिण्डः श्राद्धलक्षणम् || ७५ || एतत्सद्भावकथनं मया तेद्यप्रकाशितम् | एतच्छ्रुत्वाद्यवै चन्द्रः प्रफुल्तकमलेक्षणः || ७६ || अपूर्वमद्भुतं देव श्रूतं त्वत्तो मयाद्यवै | प्रकृतिः किं विधा चैव रूपं तस्यास्तु कीदृशम् | मानं तु करणं तस्य प्रमाणं वद भैरव || ७८ || प्. ६२ब्) अनच्छा अशिरेकौराद्विकुब्जा तन्तु रूपिणी | प्राणापानप्रवाहेन गच्छते विशते पुनः || ७९ || सर्पवत्कुटिलाकारा बालाग्रपरिमाणगा | गुणाः सर्वे स्थितास्तस्या उपरागामणेरिव || ८० || मणि रूपापराशक्तिरुपरागोपमा गुणा | तेन तेन स्वभावेन तत्र तत्रावतिष्ठते || ८१ || चतुर्दश विधे सर्गे शक्तिर्नाम परा कला | दर्पणे च यथा च्छाया जलमध्ये तु तारकाः || ८२ || गुणाः प्रकृतिजास्तद्वद्दृश्यन्ते शक्ति मध्यगाः | कर्मणा स्वेन भावेन तं तु भुञ्जन्ति देहिनः || ८३ || शक्तिगर्भ स्थितो जीवो वंशे ध्वनिरिवस्थितः | एवं शक्तिकनिर्जीवः सुखदोह्लादकः स्मृतः || ८४ || प्. ६३अ) आपादाश्चैव मूर्धान्तं सर्वत्रैव व्यवस्थितः | कालाग्न्यादि शिवान्तं च यद्रूपं किञ्चिद् दृश्यते || ८५ || तत्र चाभ्यन्तरे शून्यं संस्थितं चैव स प्रभुः | अश्मान्तरगतश्चैव अस्थिरन्ध्रश्च संस्थितः || ८६ || न तेन रहितः प्राणः प्रकरोति गमागमम् | रहस्यं तेद्य वक्ष्यामि एकाग्रः शृणु तत्परः || ८७ || अत ऊर्द्धं दिशः सर्वा भूमिरापो नलस्तथा | वायुश्चखंमनोबुद्धिरहङ्कारश्च ये गुणाः || ८८ || सर्वशून्यं निरालम्बं तत्र सर्वे प्रतिष्ठिताः | यत् किञ्चित् सकलं भावं रूपतः केषुसंस्थितम् || ८९ || तदसारतरं चन्द्ररूपं स्वप्नोपमं स्थितम् | भ्रान्तिं त्यज स वै पुत्र सर्वं शून्ये प्रतिष्ठितम् || ९० || प्. ६३ब्) शून्यात् प्रवर्तते शक्तिः शक्तेर्वर्णाः प्रजज्ञिरे | वर्णेभ्यश्च तथा मन्त्रा मन्त्रेभ्यः सृष्टिरव्यया || ९१ || तस्माच्छून्यं जगद्ध्यायेद्यन्ननश्येत् कदाचन | युगादिना ततो अद्य नित्यं सद सतः परम् || ९२ || हृदिस्थो लक्ष्यते नैव सर्वदर्शी ह्यलेपकः | नायं पिण्डेस्ति न श्राद्धं न कालकलना तथा || ९३ || सर्वक्रिया विहीनोसौ संस्थितो नैव लिप्यते | भूतग्रामेषु सर्वेषु शक्त्यन्तर्वसते प्रभुः || ९४ || स बाह्याभ्यन्तरं चैव सर्वं तेन प्रतितिष्ठितम् | स्थितं तदेव भाण्डास्थं सर्वस्य वरवर्णकम् || ९५ || क्रियाभेदगुणानां च भेदो मन्त्रेषु विद्यते | ज्ञानभेदो न विद्येत तेषां शास्त्रागमेषु च || ९६ || प्. ६४अ) अद्यापि न मयाज्ञातमिन्द्रजालस्य लक्षणम् | प्रकृतिर्नामदेवेश आधारधरणी यथा || ९७ || ततः शास्त्रे त्वया पूर्वं जीवं चैव सुगूहितम् | न नष्टा न च संभ्रान्तिरद्यापि परमेश्वर || ९८ || सद्भावं वददेवेश यथा जानाम्यहं पुनः || || यथा नभश्च्युताश्चन्द्र तुषारास्स ततोपमाः | सरो मध्ये च पतिता गलिता एकतां गताः || १०० || तथा गुणामरस्था तु शक्तिस्तद्धर्मधारिणी | निर्गुणत्वं गुणं यस्य अरूपं चैव रूपकम् || १०१ || तथा विधं तु यत् किञ्चिच्छक्ति गर्भे व्यवस्थितम् | तेन सर्वमिदं व्याप्तमाब्रह्मभुवनान्तिकम् || १०२ || प्. ६४ब्) ततः क्रियाः प्रवर्तन्ते हेतु प्रोक्तमिदं जगत् | आणवं च तथा शाक्तं बिन्दुनादात्मकं च यत् || १०३ || वायूनां च गमं किञ्चित् प्राणापानक्षणात्मिकम् | सर्वशिवमयं चन्द्र शिवो जीवः प्रकीर्तितः || १०४ || शास्त्रजालं परित्यज्य तर्कजालमथोत्तरम् | अध्यात्मज्ञानसम्बोधं शक्तिगर्भं तु यो भ्यसेत् || १०५ || नैव नश्यत्यसौ चन्द्र न कालश्चास्य विद्यते | अजरामरभूतो वै भवते नात्रसंशयः || १०६ || जीवो न जातो न मृतः परापरगमः स्थितः | कर्मणां चैव महतो गुणानां भूतजस्तथा || १०७ || प्रकृतिस्तु पराशक्तिर्यत्रैव भ्रान्ति लक्षणम् | इदं रहस्यं परमं कथयामि तवाखिलम् || १०८ || अविज्ञाते परे तत्त्वे न त्यजेत् तु क्रिया क्रमम् | प्. ६५अ) पशुत्वं च पतित्वं च द्वौ भेदौ च शरीरिणाम् || १०९ || पशुत्वात् कर्मजालेन गृह्यते ह्यमृतोद्भवम् | यथाभ्रैरर्करश्मिभ्यो दर्पणं च मलेन च || ११० || स्फटिकं पांसुना यद् वत् तथा ज्ञानं तमो वृतम् | अज्ञानाद्दृश्यते जन्तुर्गुणपाशैस्तु यन्त्रितः || १११ || कर्मोपभोगं भुञ्जीत तिष्ठते स्वान्न योनिषु | न देहो म्रियते भुङ्क्ते कर्मभोगेति तस्य वै || ११२ || पतिज्ञानं प्रबुद्धस्तु सर्वज्ञः परमेश्वरः | प्राप्नोति ज्ञानमभ्यासाज्ज्ञानान्मुक्तस्तु मोचकः || ११३ || चण्डालो हीनजन्मा च श्वपचो वापि फुक्कसः | सर्वगं परमं देवं हेतूपाधिविवर्जितम् || ११४ || सम्यग् जानाति यश्चन्द्र स योगी चोत्तमोमतः | प्. ६५ब्) विप्रो वा मूढबुद्धिश्च अज्ञान स्पृश्य एव सः || ११५ || चण्डालो यदि वा ज्ञानी तस्मै देयं प्रतिग्रहम् | तस्य हस्ता तु वै ग्राह्य स च पूज्यो यथा ह्यहम् || ११६ || भ्रान्तिं त्यजस्व वै चन्द्र ह्येतज्ज्ञानं समभ्य स | अज्ञानाच्च क्रियाकाण्डं ज्ञानात् कर्मक्षयो भवेत् || ११७ || नियमो न च वा कालो भ्रान्तिमेतां परित्यज | अज्ञानात् कर्मपाशैस्तु प्रकृतैर्बध्यते पुनः || ११८ || प्रबुद्धानां सदा चन्द्र सर्वज्ञानमयं जगत् | सर्वं जगत् स्वदेहं वा परानन्देन पूरितम् || ११९ || सर्वशङ्काः परित्यज्य शून्यभूमिं भवेत् तु सः | न कालो न यमः कश्चिदेता बाल विभीषकाः || १२० || सर्वोपमा न हीनस्य कल्पना रहितस्य च | प्. ६६अ) कुतः कालः कुतो मृत्युर्नरके शासनाः कथम् || १२१ || सर्वं शून्यमयं ध्यायेच्छरीरा वयवं च यत् | कायं शून्यमयं कृत्वा न किञ्चिदपि चर्चयेत् || १२२ || विकल्प योनिं मज्जन्ति जन्तवः प्रकृतेस्तुते | गुणपाशैर्निबध्यन्ते मूढाः पापरताः पुनः || १२३ || यत्र यत्र हि योन्यन्तर्जायन्ते ते स्वकर्मणा | तत्र तत्राज्ञा भावत्वं पशूनां स्यात् सदोदूप || १२४ || कर्माणि कस्य वै देव ह्येतन् मे वद तत्त्वतः | यदि जीवो हि मुक्तश्च नीरूपः खस्वरूपकः || १२५ || नीरूपस्य कथं कर्म शून्यभूतस्य वै प्रभो | एतदिच्छाम्यहं श्रोतुं त्वत् प्रमादात् कपाल भृत् || १२६ || प्. ६६ब्) शून्यस्य द्विगुणस्यैव कर्म तस्य करोति किम् | प्रकृतिर्गुणसंपूर्णा म्रियते जायते तथा || १२७ || कृत कर्म तथात्मीयं यथासौ भुञ्जते पुनः | न जीवो भुञ्जते कर्म न चासौ प्रकृतिर्गुणैः || १२८ || बध्यते न च वा मुक्तो नास्थायी स्थान वर्जितः | सर्वज्ञः सर्वगोध्यक्षः खरूपी खमनः खगः || १२९ || इति मे योगिनो दृष्टाब्रह्मविष्ण्वेन्द्र भार्गवाः | ते पि प्र?मोहमापन्ना जीवं ज्ञानविधौ सदा || १३० || सत्यं च कथयिष्यामि द्विजराजाद्यमे शृणु | प्रवृत्यर्थं तु भूतानां प्रकृतार्थमसंस्थितः || १३१ || तथाबद्धं जगत्सर्वं मूत्रेमणिगणा इव | प्. ६७अ) आधारधरणी शक्तिरशिराहं स रूपिणी || १३२ || तन्मध्ये संस्थितो जीवः खरूपी व्यापकः प्रभुः | यथा वेश्मान्तर गतं नभः सर्वगतं स्थितम् || १३३ || वेश्मपातेन नष्टोसौ जीवश्चाधार पातने | तद् वत् सर्वगतं ब्रह्म सर्वत्रैव सुसंस्थितम् || १३४ || तारकेन्द्र त्यजभ्रान्तिं किमन्यत् कथयामिते || ३५ || अत्यन्तगहनं देव रहस्यं भुविदुर्लभम् | त्वत् प्रसादान्मयाज्ञातं जीवलक्षणमुत्तमम् || ३६ || अद्यमे सफलं जन्म अद्य मे सफलं तपः | अद्य जातोस्म्यहं देव ज्ञानेनानेन भैरव || ३७ || महतास्तोत्रराजेन देवदेवो महेश्वरः | तोषितो वै महादेवश्चन्द्रेण च यथा कृतः || ३८ || प्. ६७ब्) परितुष्टेन देवेन वरं दत्त्वा यथाविधि | ज्ञानभोगी च मद्वाक्यात् पूर्वोक्तम्या मृतोद्भव || ३९ || महाभागि भविष्यैषा मेतन्मेदत्तवान्धरम् | एवमुक्त्वा यदा देवो विरराम महेश्वरः || ४० || चन्द्रश्च प्राप्तवान्ज्ञानं चन्द्रज्ञानमतः स्मृतम् | भक्तायेदं प्रदातव्यं श्रद्धादानाय धीमते || ४१ || योनिन्दयति मोहेन इदं शास्त्रमगौरवम् | स मूढः सर्वदा तिष्टेदात्मज्ञानेनसंयुतः || ४२ || ########### END OF FILE #######