#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00273 Uniform title: candrajñānāgama Manuscript : IFP/EFEO transcript T0012 Description: Candrajnāna is a Siddhānta upāgama which defines itself as a pratiṣṭhātantra i.e. a ṭantra which deals with ritual procedures concerning the installation and worship of representations of śaiva deities, including liṅgas. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 8, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### हरिः ओम् चन्द्रज्ञानम् पञ्चाक्षरं परं गुह्यं परमानन्दरूपिणम् | परापररहस्यं स्यात् शृणु त्वं तु हिते प्रिये || १ || स्थूलसूक्ष्म विभावेन सूक्ष्मात् सूक्ष्मं द्विभावनम् | आनन्दं प्रणवं बीजं आनन्दरूपनृत्तकम् || २ || ध्यानं नटेश्वरं प्रोक्तं पञ्चाक्षरपरं शिवम् | पञ्चाक्षरं परं ब्रह्म पवित्रं पावनाशनम् || ३ || यकारमीशवक्त्रं तु वकारं तत्पुरुषवक्त्रकम् | शिकारं घोरव * * * * * * * * * * || ४ || प्. २) * * * * * * * वकारं ईश्वर दैवतम् | यकारं च सदाशैवं पञ्चदैवाधिदैवतम् || ५ || स्थूल सूक्ष्मपरं ज्योतिः पञ्चाक्षरविधिं शृणु | नकारं च मकारं च शिकारं च वकारकम् || ६ || यकारं पञ्चसंयुक्तं प्रणवादि षडक्षरम् | अक्षरात् प्रणवं मुख्यं अक्षरं ज्ञानपूर्वकम् || ७ || प्रणवं अक्षरं प्रोक्तं सर्वमन्त्रं तदास्पदम् | प्रणवेन विहीनं स्यात् तन्मन्त्रं प्राणहीनकम् || ८ || सर्वमन्त्रेषु मन्त्राणां प्राणान् प्रणवमुच्यते | प्. ३) प्रथमस्वरसंयुक्तं पञ्चमस्वरसंयुतम् || ९ || षड्वर्गान्तसमायुक्तं बिन्दुनादसमन्वितम् | एवं तत्प्रणवं प्रोक्तं सर्वसिद्धिकरं शुभम् || १० || धान्तं भन्तं च शान्तं च तृतीयस्वरसंयुतम् | लान्तदीर्घस्वरोपेतं मान्तं पञ्चाक्षरं परम् || ११ || ओंकारं च नकारं च मकारं चाक्षरत्रयम् | पुल्लिङ्गं स्याद् वकारं शिकारं स्त्रीयुतं भवेत् || १२ || यकारं नपुंसकं ज्ञेयं त्रयस्त्वेवं ततः क्रमात् | ऋग्वेदं स्यान्नकारं च यजुर्वेदं मकारकम् || १३ || शिकारं सामवेदं स्यात् मकारमथर्वर्णं भवेत् | प्. ४) इतिहासं यकारं च सर्वदेवमयं तथा || १४ || वर्णं देवंस्तथा शक्तिस्त्वाधारछन्द एव च | ऋषिस्थानं च ब्रह्मं च आयुधं तु तथैव च || १५ || कलागुणं च चक्रं च प्रकाशं करणमेव च | वायुर्ज्ञानेन्द्रियं चैव इत्येते षोडश क्रमात् || १६ || नकारं पृथिवीरूपं ब्रह्मं तत्राधिदैवतम् | सावित्रीं शक्तिरित्युक्तं आधारं पृथिवी तथा || १७ || अनुष्टुप्छन्दसंयुक्तं वसिष्ठस्तु ऋषिस्तथा | स्थानं पश्चिमतो वक्त्रं सद्योजातं तु ब्रह्मकम् || १८ || आयुधं वज्रमेवोक्तं कला निवृत्तिरेव च | प्. ५) गुणाङ्कने मेनां तु घनेन चतुश्रवोक्तं चक्रमेव च || १९ || ज्वालिताग्निप्रकाशेन करणमहंकारमेव च | प्राणवायुसमायुक्तमिन्द्रियं चैव गन्धकम् || २० || इत्येते षोडशानां तु नकाराक्षरमुच्यते | नकाराक्षरमिदं प्रोक्तं मकाराक्षरमथ शृणु || २१ || मकारं जलरूपं तु दैवं विष्णुस्तथैव च | लक्ष्मीशक्तिसमायुक्तमाधारं जलमेव च || २२ || त्रिष्टुप्छन्दस्समायुक्तं विश्वामित्रो? ऋषिस्तथा | स्थानमुत्तरतो वक्त्रं वामदेवं तु ब्रह्मकम् || २३ || पद्मायुधं चैव? प्रतिष्ठा तु कला हि च | प्. ६) गुणद्रव्यं स्यादपि च चक्रमर्धेन्दुजं तथा || २४ || सोमसूर्यप्रकाशेन करणं बुद्धिरेव च | अपाने वायुरूपं तु रसं ज्ञानेन्द्रियं भवेत् || २५ || इत्येते षोडशानां तु मकाराक्षरमुच्यते | मकार * * * * शिकाराक्षरमथ शृणु || २६ || शिकारमग्निरूपं तु रुद्रस्तत्राधिदैवतम् | गौरीशक्तिसमायुक्तं आधारमग्निरेव च || २७ || त्रिष्टुप्छन्दस्संयुक्तो जमदग्निस्तथा * * * | स्थानं दक्षिणतो वक्त्रं अघोरं ब्रह्ममेव च || २४ || स्वस्तिकायुधमेवोक्तं विद्याग्नि तु कला हि च | प्. ७) गुणदीप्तिसमायुक्तं चक्रं तु त्र्यग्रमेव च || २९ || तटित्तुल्यं प्रकाशेन करणं तु मनस्तथा | व्य * * * * * यक्तं ज्ञानेन्द्रियं तु रूपकम् || ३० || इत्येते षोडशानां तु शिकाराक्षरमुच्यते | शिकाराक्षरमिदं प्रोक्तं वकाराक्षरमथ शृणु || ३१ || वकारं वायुरूपं स्यात् अधिदैवतमीश्वरम् | अम्बिका तु महाशक्तिर्वायुराधारमेव च || ३२ || बृहती छन्दस्संयुक्तं ऋषिः काश्याप उच्यते | स्थानं तु पूर्वतो वक्त्रं ब्रह्मं तत् * * * * * || ३३ || आधारं बिन्दुरूपं तु कला शान्तिस्तथैव च | प्. ८) गुणस्पर्श न संयुक्तं षडग्रं चक्रमेव च || ३४ || दीपप्रकाशमेवोक्तं करणं चित्तमेव च | * * * वायुसंयुक्तं स्पर्शं ज्ञानेन्द्रियं भवेत् || ३५ || इत्येते षोडशानां तु वकार * * मुच्यते | वकाराक्षरमिदं प्रोक्तं यकाराक्षरमथ शृणु || ३६ || यकार * * रूपं तु दैवं चैव सदाशिवम् | उन्मनीशक्तिसंयुक्तमाधारं व्योममुच्यते || ३७ || जगती छन्द संयुक्तं भरद्वाज ऋषिस्तथा | स्थानमूर्ध्वमुखं विद्यात् ब्रह्ममीशानमेव च || ३८ || आयुधानां त्रिशूलं स्यात् शान्त्याती च कला हि च | प्. ९) गुणं चैव तु शून्यं स्यात् प्रकाशं चन्द्रिकामणेः || ३९ || करणं प्रकृतिरूपं स्यात् समानवायुस्तथैव च | शब्द ज्ञानेन्द्रियं चैव इत्येते षोडश क्रमात् || ४० || यकाराक्षरमिदं प्रोक्तं न भूतो न भविष्यति | पञ्चाक्षरमिदं प्रोक्तं प्रणवाक्षरमथ शृणु || ४१ || प्रणवं आत्मरूपं तु परमात्माधिदैवतम् | स्वाहादेवी महाशक्तिराधारं परमं पदम् || ४२ || गायत्री छन्दसंयुक्तं ऋषीणां परमं पदम् | स्थानं शिवमुखं प्रोक्तं ब्रह्मं शिवमुखं भवेत् || ४३ || आयुधं शून्यमेवोक्तं शून्यका तु कलाऽपि च | प्. १०) निर्गुणीं निरामयं चक्रं प्रकाशं शतसहस्रकम् || ४४ || निष्करमिति निर्वायुरिन्द्रियाणां तु षोडश | इत्येते षोडशानां तु प्रणवं प्रणवे नमः || ४५ || अकारं च उकारं च मकारो बिन्दुरेव च | अर्धचन्द्रनिरोधी च नादौ नादान्तमेव च || ४६ || शक्तिश्च व्यापिनी चैव समाना चोन्मना तथा | समानान्तं पाशजालं स्यान्मन्यन्ते परश्शिवः || ४७ || सप्तकोटिमहामन्त्रं चित्तव्याकुलकारणम् | एकबीजं महामन्त्रं तुर्यातीतं मनोलयम् || ४८ || द्विरष्टककलोपेतं प्रणवं यो न विन्दति | प्. ११) नासो मन्त्री न चाचार्यो वृथा क्लिश्यति कर्मसु || ४९ || बुजस्योच्चारणं चाग्रं स्वप्नो बिन्दुपरिग्रहेः | सुषुप्तिर्नादसंयोगस्तुर्यं शक्तिसमागतः || ५० || तुर्यातीतं लयं शान्तं परो महसि पठ्यते | प्राणायामं त्रयं कृत्वा शास्त्रदृष्टेन कर्मणा || ५१ || नकारं सृष्टिरूपं स्यान्मकारं स्थितिरूपकम् | शिकारं संहृतिश्चैव वकारं तु तिरोभवम् || ५२ || यकारमनुग्रहं चैव पञ्चाक्षरमिदं जगत् | नकारं कृतयुतं स्यान्मकारं त्रेतायुगं भवेत् || ५३ || शिकारं द्वापरं चैवकारं कलियुगं तथा | प्. १२) यकार युगान्तरं चैव पञ्चाक्षरमिदं जगत् || ५४ || शैवं पाशुपतं चैव बौद्धमार्हतं तथा | कापालं पाञ्चरात्रं च षडेते समया स्मृताः || ५५ || ब्रह्मचारी न्यसेत् सृष्टि ग्रहस्थस्य स्थितिर्भवेत् | वानप्रस्थयतीनां तु संहारन्यासमुच्यते || ५६ || अङ्गुष्ठेन यकारं स्यात् वकारं तर्जनीं न्यसेत् | शिकारं मध्यमाङ्गुल्या मकारं तु अनामिकम् || ५७ || कनिष्ठेन नकारं स्यात् सृष्टिन्यासमुदाहृतम् | यकारं मूर्ध्नि विन्यस्य वकारं तु ललाटके || ५८ || शिकारं हृदये न्यस्य मकारं नाभिदेशतः | नकारं पादयो न्यस्य सर्वाङ्गे प्रणवं न्यसेत् || ५९ || प्. १३) नकारं आत्मशुद्ध्यर्थं मकारं स्थानशोधनम् | शिकारं लिङ्गशुद्धिस्तु पञ्चशुद्धिर्विधिक्रमम् || ६० || * * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * * || ६१ || अनन्तं पृथिवी ज्ञेयं आपस्सिंहासनं तथा | आग्नियोगमिदं प्रोक्तं वायुरूपं तथैव च || ६२ || आकाशं विमलं चैव पञ्चासनविधिक्रमम् | आवाहनं नकारेण स्थापनं तु मकारकम् || ६३ || शिकारेण तु सान्निध्यं वकारेणार्घ्यमेव च | पूजयेत्तु यकारेण शिवं परमकारणम् || ६४ || प्. १४) पीठं प्रणवरूपं तु कल्पयेत्तु विचक्षणः | नकारस्य कलाः पञ्च मकारस्य चतुष्कलाः || ६५ || शिकारस्य कला चाष्टौ वकारस्य त्रयोदश | यकारस्य कला चाष्टौ पञ्चाक्षरकला न्यसेत् || ६६ || शिकारं शिवरूपं तु वकारं शक्तिरेव च | यकारमात्मरूपं तु नकारं तु तिरोभवेत् || ६७ || मकारं मलरूपं तु इति पञ्चाक्षरं स्मृतम् | आवाहनं नकारं च मकारं पद्ममुद्रिका || ६८ || शिकारं मुष्टिमुद्रा च वकारं योगमुद्रिका | यकारं लिङ्गमुद्रा च शिवमुद्रां नियोजयेत् || ६९ || प्. १५) यकारं लिङ्गसंयुक्तं वकारं नालमेव च | शिकारमूर्ध्वपद्मं तु मकारं कण्ठमेव च || ७० || अधोपद्मं नकारं च अक्षरं लिङ्गमुच्यते | पूजया विपुलं राज्यं अग्निकार्येण संपदः || ७१ || जपेन पापसंशुद्धिर्ध्यानमानन्दमुक्तिदम् | नकारं पापहरणं मकारं पापमोचनम् || ७२ || प्. १६) महादेवो समो देवो नास्ति कश्च जगत्त्रये | पञ्चाक्षरसमो मन्त्रो नास्ति नास्ति महामुने || ७३ || पञ्चाक्षरं महामन्त्रं भस्मेति परमौषधम् | महादेवः परो बन्धुरिति शास्त्रस्य निश्चयः || ७४ || आगमे - मध्ये शिवस्ततश्शक्तिः ततो ह्यात्मेति विस्मृतः | तत्पूर्वो बन्धकः प्रोक्तस्तत्पूर्वे तन्निवारकः || ७५ || अन्यत्र - शिकारं शिवरूपं स्यात् वकारं शक्तिरुच्यते | यकारमात्मसंयुक्तं नकारं तु तिरोभवम् || ७६ || मकारं मलरूपं स्यात् पञ्चाक्षरमिति स्मृतम् | प्. १७) देविकालोत्तरे - रोधनं जलमित्युक्तं आत्मशक्ति शिवात्मकम् || ७७ || पञ्चाक्षरमिदं देवी रहस्यं न प्रकाशयेत् | उग्रिपञ्चाक्षरम् | भगवन्देवदेवेश सर्वज्ञ करुणालय || ७८ || पञ्चाक्षररहस्यं हि श्रोतुमिच्छामि तत्त्वतः | पञ्चाक्षरं परं मन्त्रं रहस्यं मुक्तिदायकम् || ७९ || कामार्त्थाय ससंभाय गोपनीयं प्रयत्नतः | नापुत्राय च दातव्यं नाशिष्याय कदाचन || ८० || सप्तकोटिमहामन्त्रं चित्तव्याकुलकारणम् | पञ्चाक्षरमिदं देवी त्रिषु लोकेषु विश्रुतम् || ८१ || प्. १८) पुण्यं पवित्रं पापघ्नं पञ्चाक्षरमिदं जपेत् | यस्य स्मरणमात्रेण ब्रह्महत्या व्यपोहित || ८२ || एवं पञ्चाक्षरं देवी शृउणुतं त महामनुम् | अतः परं प्रवक्ष्यामि पञ्चाक्षरविधिक्रमम् || ८३ || ओं | नमश्शिवाय संकल्प्य व्याख्यानं नाम पञ्चकम् | नकारं च मकारं च शिकारं च तथैव च || ८४ || वकारं च यकारं च इदं पञ्चाक्षरं विदुः | एतत् पञ्चाक्षरं देवी पञ्च देवाः प्रकीर्तिताः || ८५ || पञ्चाक्षरं पवित्रं च पञ्चब्रह्ममयं तथा | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ८६ || प्. १९) पञ्चब्रह्ममहादेवः पञ्चतत्त्वे व्यवस्थितः | ब्रह्मा? विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ८७ || नकारं ब्रह्मणो रूपं मकारं विष्णुरूपकम् | शिकारं रुद्ररूपं तु वकारमीश्वरं तथा || ८८ || यकारं सदाशिव ज्ञेयमित्येते अधिदैवताः | नकारं स्वर्णवर्णं तु मकारं कृष्णवर्णकम् || ८९ || शिकारमग्निवर्णं तु वकारं श्यामवर्णकम् | यकारं स्फटिकाकारं वर्णभेदाः प्रकीर्तिताः || ९० || नकारं सद्यवक्त्रं तु मकारं वामदेवकम् | शिकारं घोरसंयुक्तं वकारं पुरुषं स्मृतम् || ९१ || प्. २०) यकारं गगनं प्रोक्तं वक्त्रभेदाः प्रकीर्तिताः | ऋग्वेदं तु नकारं स्यात् यजुर्वेदं मकारकम् || ९२ || शिकारं सामवेदं तु वकारं चाप्यथर्वणम् | इतिहासं यकारं च सर्ववेदादिवैभवम् || ९३ || तस्मात् पञ्चाक्षरं मन्त्रं वाचकस्य सदा भवेत् | ओंकारपरमं देवमोंकारं परमं तथा || ९४ || ओंकारादियकारान्तं मन्त्रमेतत् षडक्षरम् | नकारं शान्तिकं ज्ञेयं मकारं पौष्टिकं तथा || ९५ || शिकारमभिचारं च वकारं वश्यमेव च | यकारं मुक्तिदं चैव एकमूर्तिक्रमेण तु || ९६ || प्. २१) यावत् सिद्धिर्यदासिद्धिर्नित्यमेव जपं तथा | पदे पदे जपं देवी यो दद्यात् स विचक्षणः || ९७ || पञ्चाक्षरं परं चैतत् सर्वसिद्धिकरं भवेत् | एवं पञ्चाक्षरं ज्ञेयं मन्त्रं त्रैलोक्यदुर्लभम् || ९८ || इति विद्यापुराणे पञ्चाक्षरपटलं समाप्तम् उकारं च उमादेवी अकारं शिव ईरितम् | उभयोस्संपुटं चैव पीठं लिङ्गमिति स्मृतम् || १ || चिदम्बररहस्ये - नकारपादौ च मकारकुक्षिश्शिकारसस्यो मुखवायुमूर्ध्वा | क्रमेण पञ्चाक्षर दिव्यरूपं स्मरन्ति दं गच्छति जीवमुक्तिम् || २ || प्. २२) शिकारं मकुटं प्रोक्तं वकारं बाहुरुच्यते | यकारमभयं हस्तं नकारं चाग्निरूपकम् || ३ || मकारं पादपद्मं यो अपस्मारं भवेत् सदा | स्थित्वा तदूर्ध्व आनन्दताण्डवं कुरुते शिवः || ४ || ताण्डवेशस्य सततं श्रीवासि प्रणवं भवेत् | आनन्दताण्डवे कृत्यमात्मनः कुरुते शिवः || ५ || सृष्टि स्याद्डमरुके स्थितिं तत् स्यादभयहस्तके | संहारं चाग्निरूपे स्यात्तिरोभावं स्थिराङ्घ्रिके || ६ || अनुग्रहं चापराङ्घ्रौ आत्मनः कुरुते शिवः | विधूय मायां पापं च दग्ध्वं पा ज्ञाननाशनम् || ७ || प्. २३) कृत्वोद्धृत्य शिवज्ञानहस्तेनानन्द सागरे | स्थापितं परमात्मानं सन्ततं शिवताण्डवम् || ८ || पञ्चाक्षरं परामध्ये पञ्चाक्षरमयं नटम् | सप्तकोटिमहारण्यं सप्तकोटिचराचरम् || ९ || सप्तकोटिमहालिङ्गं तत् शिवं ताण्डवालयम् | ताण्डवालयमध्ये तु निष्कलं परदुर्लभम् || १० || इदं रहस्यमपरं अप्रकाश्यमिवाचकम् | प्रकटयस्वेदं मज्ज्ञानं मद्भक्तानां परानने || ११ || रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा | पादाङ्गुष्ठकनिष्ठान्तं पञ्चाक्षरेण पूरितम् || १२ || प्. २४) पाष्णोयं तु नकारेण गुल्फजं वै मकारकम् | जानु ऊरु शिकारं च वकारं गुह्यदेशकम् || १३ || आधारं प्रणवं चैव तस्य मध्ये नकारकम् | यकारं तु कटिः प्रोक्तो रकारं पृष्ठभागकम् || १४ || शिकारं नाभिरित्युक्तं मकारं कुक्षिदेशिकम् | वकारं हृदयं स्थानं यकारं स्तनदेशकम् || १५ || नकारं च उरस्थानं शिकारं बाहुदेशकम् | मकारं कोपरं प्रोक्तं वकारं मणिबन्धनम् || १६ || यकारं च तलारूढं अङ्गुष्ठादि पुरा क्रमात् | डमरुस्तु मकारं च वलयं प्रणवो भवेत् || १७ || प्. २५) तन्तुर्नकारमित्युक्तं शिकारं चर्म ईरितम् | वकारं तटिरित्याहुर्नादं च नाम मन्त्रकम् || १८ || तथा चाभयहस्तं तु शृणुष्वैव महेश्वरी | तस्य हस्ते भुजङ्गस्तु सूक्ष्मपञ्चाक्षरं भवेत् || १९ || वामहस्ताग्निरूपेण मम ज्योतिर्महेश्वर | तथाचापरहस्तेन सृष्टिस्थित्यन्तकारणम् || २० || नकारं ग्रीवमित्युक्तं मकारं कण्ठदेशकम् | शिकारं हनुदेशं तु वकारं चास्यदेशकम् || २१ || यकारं नासिदेशं तु नेत्रत्रयं ततश्शृणु | नकारं सर्वनेत्रं तु मकारं वामनेत्रकम् || २२ || प्. २६) ऊर्ध्वनेत्रं शिकारं तु वकारं श्रवणेन तु | भ्रूमध्ये प्रणवं चैव मध्ये हंसं सुदीप्तकम् || २३ || यकारं शिरसि न्यस्य अङ्गप्रत्यङ्गके तथा | द्वादशाक्षरमन्त्रं तु जटाचूडमितीरितम् || २४ || मायाबीजं जलं चैव धूर्द्धरादिस्तथैव च | सर्वाक्षरमिश्रकं स्यात् इन्दुखण्डमिति स्मृतम् || २५ || पञ्चाक्षरेण देहस्तु देही वै नाममन्त्रतः | आनन्दनृत्तममलं नृत्यन्तं निष्कलं शिवम् || २६ || पञ्चाक्षरमिदं यन्त्रं बिजानीयाद् गुरोर्मुखात् | नापुत्राय प्रदातव्यं नाशिष्याय तथैव च || २७ || प्. २७) पुत्राय पुत्रतुल्याय धार्मिकाय दृढाय च | सभायन्त्रमिदं प्रोक्तं दक्षिणाराधनं शृणु || २८ || || नृत्तपञ्चाक्षरम् समाप्तम् || श्रीः चन्द्रः - देवदेव महेशान सुरनागेन्द्र भूषणम् | स्नपनं तु समाख्यातमुत्सवं वद शंकर || १ || ईश्वर उवाच - अथ वक्ष्ये कलानाथ संयोगादुत्सवं परम् | उत्सवं सप्तधा ज्ञेयं शृणुष्वैकाग्रमानसः || २ || शाक्तं चार्वं ब्राह्मं मौक्त शाम्भवमाणवम् | अर्कजत्विति विख्यातं सन्नवदं निशाकर || ३ || प्. २८) नवाहं शाक्तमित्युक्तं सप्ताहं चार्षकं भवेत् | पञ्चाहं ब्राह्मकं प्रोक्तं त्रियहं मौक्तिमुच्यते || ४ || एकाहं शान्तिदं विद्यात् ब्राह्मणं भ्रमणं भवेत् | अर्कजन्वर्कवारे तु सप्तधा चोत्सवात्त्विह || ५ || शाक्ते च तथा ब्राह्मे च ध्वजमारोपयेत् क्रमात् | म न्त श्यामम षष्ठे पाप्यर्क तेज द्ध्वजोद्धृति || ६ || तद्दिनं त्रिगुणं द्वे च द्विगुणाद्ये च नाद्यके | ध्वजमारोपयेत् पूर्वं उत्तमं मध्यमाधमम् || ७ || वक्ष्ये तीर्थदिनात् सम्यक् शृणुष्व शरालाञ्छन | चित्रा विशाखामूलं च उत्तराषाढमेव च || ८ || प्. २९) श्रविष्ठा श्रवणाश्विन्यः कृत्तिकार्द्रा पुनर्वसु | मखा चोत्तरनक्षत्रं मेषादि द्वादशेषु च || ९ || सर्वमासेषु कर्तव्यं आर्द्राः पूर्वान्तमुत्सवम् | कृष्णाष्टम्यान्तक ज्येष्ठे माखे षष्ठ्यन्तकं भवेत् || १० || अमावास्यां पौर्णमास्याम(पा)न्यत्पुण्यदिनेऽपि वा | राज्ञां जन्मलये युद्धे यजमानस्य जन्मनि || ११ || प्रतिष्ठादिवसे तीर्थं प्रकल्प्यं भुक्तिमुक्तिदम् | धर्मार्थं कामदं श्रेष्ठं कर्मजं मासमेव हि || १२ || अथवा चन्द्रमासं च सृष्टिदं त्विति कथ्यते | यस्मिन् मासे तु कर्तव्यमुत्सवं शशालाञ्छन || १३ || प्. ३०) तस्मिन् मासेषु कर्तव्यं तदशेष विधानतः | ध्वजाङ्कुरादि तीर्थान्तं तस्मिन् मासे परं स्मृतम् || १४ || ध्वजादि तीर्थपर्यन्तं तस्मिन् मासे तु मध्यमम् | पूर्वमासे ध्वजोत्थानं तस्मिन् चैवोत्सवं तु यत् || १५ || अधमन्त्विति विख्यातं विधिमन्यं प्रचक्ष्महे | पूर्वमासे प्रतिष्ठाप्य यागं तस्मिन् सुतीर्थकम् || १६ || कृतं तेषामभावात्तु सुखदं परमं मतम् | एकवास्तुक देवानां उत्सवानां तु संकरम् || १७ || राष्ट्रक्षोभाय वि * * तद्विहीन वदामि ते | यद्वास्तु कलितं चन्द्र तदेव द्विविधं भवेत् || १८ || प्. ३१) प्रकीर्णं क्षुद्रमाख्यातं उत्सवं भावकं शृणु | प्राक पादारकासीमात् परितो वैकदेशतः || १९ || प्राकारस्य बहिर्यस्य वास्तोष्यं तत् प्रकीर्णकम् | प्राकारान्तं तथा ब्राह्म्यं कल्पित क्षुद्र वास्तुकम् || २० || तत्सीमान्तः पदं ब्राह्ममैन्द्राद्यैश्शान्तकं पदम् | एधस्मात्तस्मात्त्वैस्मात्वैक वास्तुकं * * * * || २१ || तत्र पूजितं देवानां बलिदानं प्रदक्षिणम् | तस्मिन्नैव प्रकर्तव्यं सर्वसिद्धिमभीप्सिता || २२ || राजधानीर्विनाचास्मिन्वास्तौ यत्र शिवोत्सवम् | यः कुर्यादन्य देवानां दक्षिणं तीर्थदानतः || २३ || प्. ३२) तीर्थेऽप्यनोत्सवे काले सतीर्थं शैवमुत्सवम् | सूक्ष्मासि तन्तु सुश्लक्ष्णं मनोरम्यं पटन्नव || २४ || आयामं पञ्चधा कृत्वा विस्तारं चैक भागतः | तारेण तु समं पूर्वं तदूर्ध्वं शिखरं भवेत् || २५ || द्विपुच्छत्रिपुकायुक्तं शिखरे किङ्किणीयुतम् | तन्मध्ये वृषभं लाञ्छ्यं सितरक्तादिवर्णकैः || २६ || स्थानकं शायिकं वाऽथ कल्प्य पद्मासनोपरि | छत्रं तु चामरौ कुम्भं * * * * लिखेत् क्रमात् || २७ || ध्वजस्य लक्षणं प्रोक्तं ध्वजदण्डं शृणु क्रमात् | चन्दनं चम्पकं सालं पनसं देवदारुकम् || २८ || प्. ३३) वकुलं मध्यकं वाऽपि * * * * * आसनम् | बिल्वं पुन्नागखदिरक्रमुकान्नालिकेरकम् || २९ || स्णैवं? तु समाख्यातं प्रासादात् त्रिगुणं परम् | द्विगुणं वा समं वाऽथ पादहीनमथार्धकम् || ३० || वृषान्तं गोपुरान्तं वा यथोक्तं तु यथोदितम् | कवाटार्धमथो हित्वा शेषमुत्सेधमुच्यते || ३१ || पञ्चतालं चतुस्तालं त्रितालं नाहमुच्यते | दण्डोत्सेधस्य पाञ्चांशं द्विभागेनैव संदृढम् || ३२ || लेपनेन च संयुक्तं तालं नाहं तु वैष्णवम् | यष्टिं ग्राह्य तदर्धे तु त्रितालस्य तु मध्यमे || ३३ || प्. ३४) आयसं वलयं योग्यं दण्डाग्रे संप्रयोजयेत् | त्रितालाधिक्यमग्रे तु दापयेद्दण्डिकात्रयम् || ३४ || बन्धयेन्मूलमध्याग्रदण्डाग्रेण दृढं शुभम् | मध्यमाङ्गुलिनाहं तु रज्जुं कृत्वा सुतन्तुना || ३५ || दण्डस्य द्विगुणं दीर्घं वलये संप्रयोजयेत् | यष्ट्यग्रे कूर्चसंयुक्तं दर्भमालासमावृतः || ३६ || पीठगोपुरयोर्मध्ये पुरतो वृषभस्य वा | ध्वजोत्थान दिनात् पूर्वे स्थापयेत् ध्वजदण्डकम् || ३७ || विश्वतालं पञ्चतालं चतुस्तालं वटं खनेत् | निष्कं त्रिपादमर्धं वा पादहेमार्धमेव वा || ३८ || प्. ३५) कूर्मं वा वृषभं वाऽथ हेमाब्जं वा वटे क्षिपेत् | हृदयेन तु मन्त्रेण स्थापयेदचलं दृढम् || ३९ || पीठं प्रकल्पयेद्धीमान् षट्पञ्चयुगतालकैः | विस्तार सममुत्सेधं पादहीनमथाऽपि वा || ४० || मेखलात्रिद्विसंयुक्तमेक मेखलयाऽथवा | पङ्कजं कल्पयेदूर्ध्वे कर्णिकातालसंयुतम् || ४१ || आरोहणदिनात् पूर्वे रात्रावधिवसेद्ध्वजम् | तस्मिन् दिनेऽथवा कार्यं प्रातःकालेऽधिवासनम् || ४२ || प्रासादपुरतस्सम्यक् मण्डिते मण्टपे शुभे | गोमयालेपिते शुभ्रे प्रोक्षिते तु शिवाम्भसा || ४३ || प्. ३६) स्थण्डिलं तत्र कर्तव्यं षड्देशे तु विचक्षणः | पद्मं प्रकल्पयेद्धीमानासनं कल्पयेत् क्रमात् || ४४ || दर्भैः प्रस्तरणं कुर्यात् प्रत्येकं पूजयेत् शनैः | पश्चिमे स्थण्डिले स्थाप्य चन्द्रशेखरमादरात् || ४५ || अन्नलिङ्गं तदग्रे तु शूलं तस्याग्रतो यजेत् | वृषकुम्भं तदग्रे तु ध्वजं तस्याग्रतस्तथा || ४६ || भेरीं संस्थाप्य तत्पूर्वे क्रमेणैव समर्चयेत् | प्रत्येकं नववस्त्रेण * * * * दिभिर्यजेत् || ४७ || हविं क्षिपेत्ततो दद्यात्ताम्बूलं च प्रदापयेत् | नयने मोक्षणं कुर्यात् ध्वजोक्षस्य विशेषतः || ४८ || प्. ३७) कौतुकं बन्धयेत् तत्र दक्षिणे तु विषाणके | सुकुमं? तन्तुना वेष्ट्य चाढकद्वयपूरितम् || ४९ || गन्धापपूर्णवस्त्राढ्य हेम क्षि * * * * तत् | परितः कलशानष्टौ लोकपालाधिदैवतान् || ५० || विधानकूर्चसंयुक्तान् प्रत्येकं वस्त्रवेष्टितान् | स्वमूलेनैव संपूर्तिस्तदग्निं कल्पयेत्ततः || ५१ || कुण्डे वा स्थण्डिले वाऽथ होमयेत्तु विधानतः | अन्यथानादिकं कृत्वा पञ्चसंस्कारसंस्कृताः || ५२ || उद्धानाद्य? समित्भिस्तु * * * * सर्षपैः | वृषमूलाङ्गकैर्युक्तं जुहुयात्तु शताहुतिः || ५३ || प्. ३८) वृषगायत्रिमन्त्रेण पृष्ठाचाक्षर सुदर्भया | पञ्चभिर्ब्रह्मभिर्जुहुयात् पूर्ण * रिं त साधयेत् || ५४ || मूललिङ्गादिबेरांश्च विशेषात् सहिभिर्यजेत् | रात्रावैवं प्रकर्तव्यं प्रभाते * * * * * || ५५ || धामप्रदक्षिणं कृत्वा सर्वालंकारसंयुतम् | ध्वजारोहण पूर्वश्चेत् ध्वजेनैवाह्नि देशिकाः || ५६ || कृत्वा प्रदक्षिणा रौप्या रात्रौ * * * * चरेत् | यन्त्रेण रोहयेत् केतुं वृषगायत्रिमन्त्रतः || ५७ || बद्ध्वा तु रोहाणं पश्चात् क्रमाद्युक्त्या तु रोहयेत् | साधितैः कलशैस्सम्यक् स्थापये * * * * लके || ५६ || प्. ३९) मुद्गान्नं पायसं गौलं शुद्धान्नं कृसरं ददेत् | ततो रातौ च कृत्वान्न लिङ्गपूजां समारभेत् || ५९ || गन्धपुष्पादिभिर्देवान् हव्यान्तं पूजयेत् क्रमात् | भेरीं तथार्चयेत् पश्चादाचार्यं पूजयेत्ततः || ६० || वस्त्राभरणगन्धाद्यैः पुष्पमालावभूषणैः | प्रहारेण त्रिधाचार्यो भेरीं गायत्रि विद्यया || ६१ || संताडयेत्तु सर्वेषां लोकानां तु प्रसिद्धयेत् | पादकं पूजयेत् पश्चात् वाद्यतालवितालकान् || ६२ || वृषाभपरिवारांस्तु बलिं दद्यात् विशेषतः | ग्रामप्रदक्षिणं कुर्यात् अस्त्रदेवादिसंयुतम् || ६३ || प्. ४०) इन्द्रादिलोकपालांश्च त्रय स्त्रिंशश्च देवतान् | आहूयाभ्यर्चयत्तेन बलिं दद्यात् स्वमन्त्रतः || ६४ || आचार्यतीर्थ दीपाश्च आचार्यस्तुष्टमानसः | ध्वजारोहण पूर्वं तु ख्यातं सत्यमया तवा || ६५ || भेरीं तु ताडयेत् रात्रौ ध्वजेनैव प्रदक्षिणम् | कृत्वा तु रोपयेत् केतुं भेरीताडन पूर्वकम् || ६६ || उत्सवादिदिने सम्यक् आदिशैवोत्तमो गुरुः | अङ्कुरार्पणपूर्वश्च भेरीं संताडयेत्त्ततः || ६७ || ध्वजमारोपयेत् पश्चात् अङ्कुरार्पणपूर्वके | पूर्वाह्ने द्विज ऋद्धि स्यात् रात्रौ शूद्रविवर्धनम् || ६८ || प्. ४१) सर्वनाहं तु रात्रौ चेद्ध्वजोत्थानं निशाकर | विशेषात् पूजये नित्य ध्वजं चैव त्रिशूलकम् || ६९ || रथानीन्युत्सवाङ्गानि तत्पूर्वे कारयेत् क्रमात् | रथान्नाङ्गांश्च शिबिकान् सर्वयन्त्रविशेषकान् || ७० || शकटान् वाहना यानान् गजाश्वादिकान् बहून् | छत्र पिञ्छविशेषाणि चामरव्यञ्जनानि च || ७१ || पताकांश्च वितानानि ध्वजानि विविधानि च | वस्त्रान्या भरणाश्चैव सर्वपात्र विशेषकान् || ७२ || सर्वं संभाव्यमतिमान्यथा शक्ति समाचरेत् | उपानात् स्थूपिपर्यन्तं विमानं भूषयेत् क्रमात् || ७३ || प्. ४२) प्राकारमण्टपाश्चैव गोपुरादीनि मण्टपेत् | यत्रेच्चादेशतः कुर्यात् परिवेषे यागमण्टपम् || ७४ || परितो मण्टपस्याथ प्रासादं परतोऽपि च | प्रपां कृत्वादि भद्रांश्च वितानध्वजशोभितम् || ७५ || विचित्रवस्त्र संछिन्नगात्रामौक्तिकमालकैः | पुष्पस्रक् पट्टदेवाङ्गैः घण्टाचामरपल्लवैः || ७६ || नालिकेरक्रमुकाणां फलपुष्प प्रलम्बिताम् | सर्वालंकारसंयुक्तमेवं कृत्वा विशेषतः || ७७ || द्वाराणि भूषयेत् सम्यक् धूपदीपैश्च पुष्पकैः | तोरणध्वजवस्त्रैश्च कदलीक्रमुकैरपि || ७८ || प्. ४३) पल्लवैर्दर्भमूलाभिः पूर्णकुम्भाङ्कुरैरपि | एवं द्वाराणि संभूष्य ग्रामदेवालयं स्तथा || ७९ || संभूष्य सिद्धिपूर्वेण ग्रामवीध्युपवीधिकान् | निम्नोन्नत समं कृत्वा संशोध्य जलसेचनम् || ८० || प्रलिप्य पिष्टचूर्णैश्च चित्रयित्वा विशेषतः | शोभितं स्यात् पताकैश्च ध्वजैराकाशकेतुभिः || ८१ || कदली क्रमुकैर्द्वारकुम्भैर्दीपैश्च धूपकैः | गन्धमाल्याङ्कुरैश्छत्रं कुम्भैर्वस्त्रैश्च छत्रितः || ८२ || भवनं प्रति संभूष्य कारयेद्यागमण्टपम् | ऐशान्यां वह्निदेशे वा षोडशस्तम्भ संयुतम् || ८३ || प्. ४४) नवसप्तवञ्चकरैर्वरमध्यं कन्यसैः | दिग्वारतोरणैर्युक्तमवितानध्वज भूषितम् || ८४ || स्तम्भे वेष्टनसंयुक्तं दर्भमालाङ्कुरादिभिः | एकाशीति पदेष्वन्तर्वेदि स्यान्नवभिः पदैः || ८५ || रत्नमात्रसमुत्सेधं दर्पणोदरसन्निभम् | पूर्वोक्त विधिना कुण्डं कुर्यात्तत्र विशेषतः || ८६ || समं सर्वत्र कृत्वा तु लिप्य गोमयवारिणा | पञ्चचूर्णैरलंकृत्य पल्लवादि विशोभितम् || ८७ || धूपदीपाक्षतैः पुष्पैः प्रच्छन्नपटलान्वितः | कृत्वैवं यागशालां तु वनयात्रार्थमण्टपम् || ८८ || प्. ४५) किंचिद्दूरे समीपे वा कुर्याद्देशे तु वाञ्छिते | छन्नैश्चम्पकाशोकसालचम्पक बिल्वकैः || ८९ || लवङ्गकर्णिकारौप्यारश्व धाममयुककैः | पनसैर्नालिकेरैश्च कदलीक्रमुकाम्रकैः || ९० || पुन्नागकुरवैः * * * * * * न पाटलैः | केतकीमातुलङ्गैश्च लिकुचैः पिप्पलैरपि || ९१ || औदुम्बरवटप्लक्षपलाशैः पत्रपुष्पकैः | त्रिन्त्रणी * * * * * निम्बदारुकपित्थकैः || ९२ || एवमादितरूणां तु भूषितैः पुष्पवारिभिः | मण्टपं मध्यमे कुर्यात् जलक्रीडाय पार्श्वतः || ९३ || प्. ४६) * * * * * तदादीन् उत्पलाम्भोज शोभितान् | बहिः प्राकारसंयुक्तं द्वारगोपुर शोभिताम् || ९४ || एवं कृत्वा विशेषेण सर्वाभरणसंयुतम् | एवमन्या बहून् सर्वान् उत्सवाङ्गान्विशेषतः || ९५ || स्थित्वा स्मृत्वा तु कर्तव्यं उत्सवं पूर्वतज्जनैः | तीर्थसुदिनपूर्वे तु दशमे दिवसे निशि || ९६ || यागं प्रतिष्ठापयेद्देवन्नावहस्य विधीयते | धातुबाणगुणैकाहन्ना * * * * * क्षिषु || ९७ || पुरतो रात्रिषु स्थाप्य यागां तारकनायकः | यागमण्टपमध्ये तु वेदिकोपरि देशिकः || ९८ || प्. ४७) स्थण्डिलं का * * मध्ये पञ्चभाग विभागिके | अष्टद्रोणे तु शालीनामूर्ध्वे तस्यार्धतण्डुलैः || ९९ || तस्यार्धैस्तन्तु ना * * * * * * * * न्धयेत् | हृन्मन्त्रं तु समुच्चार्य मध्यपत्रे तु बन्धयेत् || १०० || स्थण्डिलं प्रस्तरेद्दर्भं द्रोणतोय प्रपूरितान् | सूत्रेणावेद्य कुम्भांस्तु त्रिवित् सूत्रविचित्रितान् || १०१ || आसनं तु ततः कल्प्य कर्णिकादक्षिणार्धके | विन्यस्य तस्य वामाद्यैर्वर्धनीं चापि मूलतः || १०२ || गन्धादिभिस्समभ्यर्च्य नवरत्नानि विन्यसेत् | रत्नालाभे तु हेमाब्जं वर्धन्यां हेममुत्पलम् || १०३ || प्. ४८) विधानकूर्चसंयुक्तं नववस्त्रेण वेष्ट्य च | गन्धपुष्पादिना पूज्य हविर्मूलेन दापयेत् || १०४ || परितोऽष्टदले स्विष्टविद्येश्वरघटो न्यसेत् | गन्धाम्बुपूरितान् सर्वान् अर्चयेत् स्वस्वमन्त्रतः || १०५ || तेषु वज्रादिशूलान्तहैमास्त्राणि च निक्षिपेत् | वस्त्रैः प्रत्येकमाच्छाद्य कूर्चचक्रकसंयुतान् || १०६ || नवसप्तपञ्चवह्निस्त्रिवह्नि स्वैकमेव वा | वित्तानुसारतः कश्चित् रिच्छाया परिकल्पयेत् || १०७ || दिग्विदिक्षु नवाग्रे तु पूर्वे गानं तदा भवेत् | पूर्वादिदक्षिणे चाप्ये सौम्ये चैशानगोचरे || १०८ || प्. ४९) ईशानचक्रयोर्मध्ये सप्ताह्नौ परिकल्पयेत् | चतुर्दिक्षु प्रदानं च पञ्चाग्न परिकल्पयेत् || १०९ || इन्द्रो याम्ये च त्रिके चैकानलाग्रतः * * * | अग्न्याधानादिकं कुर्यात् पूर्वोक्तेन विधानतः || ११० || समिदाज्यान्नशालिस्तु * वगोधूमवैष्णवम् | नीवारजाल सन्ताश्च माषमुत्गकुलस्थकान् || १११ || निष्पापं तरलं चैव राजमाषाढकं तिलम् | प्रियङ्गुसर्षपं चैव मधुदध्ना पयोयुतम् || ११२ || फलापूपं तु ताम्बूलं षड्विंशद्रव्यमुच्यते | उत्तमं त्विति विख्यातं कलंस्थं तं तु मध्यमम् || ११३ || प्. ५०) वैष्णवान्तं कनिष्ठं स्यात् त्रिविधं परिकीर्तितम् | समिदाज्यौ तु मूलेन हृदयेन च ग्रस्तथा || ११४ || शिरोमन्त्रेण शाल्यादीन् शिखया लाजसक्तुकौ | कवचेनादिमाषादीन् नेत्रेण तु तिलं हुनेत् || ११५ || प्रियङ्गुश्चास्त्रमन्त्रेण ईशानेन तु सर्षपम् | मधु वक्त्रेण होतव्यं दधि घोरेण होमयेत् || ११६ || क्षीरं वामे तु होतव्यं फलं सद्येन होमयेत् | दशाक्षरेण पूर्वं तु गायत्री फलवक्त्रकम् || ११७ || द्रव्यान्ते व्याहृति हुत्वा स्रवपूर्णेन सर्पिषा | अग्निकार्याविधानोक्तमादौ कुर्याद्विशेषतः || ११८ || प्. ५१) पूर्णाहुतिं च मूलेन परिषेचनमारभेत् | साये स्यादुत्सवारम्भे प्रातस्वापभृतोर्भवेत् || ११९ || उदयाद्मग्मयामं तु प्रातः कालमिति स्मृतम् | अस्तमानस्य पूर्वे तु वाममेकं तथाचरेत् || १२० || यामं सायमिति प्रोक्तं उत्सवस्य निशाकर | गोमान्ते तु बलिं दद्याद्दिनदेव प्रियापहम् || १२१ || होमाद्यं होमम * * होमान्तं बलिदानकम् | होमाद्यं शान्तिकं प्रोक्तं होममध्यं तु पौष्टिकम् || १२२ || होमान्ते पूजयाम्यर्चबलिकालफलं त्विदम् | अन्नेन कारयेल्लिङ्गमुत्तमं बलिपात्रके || १२३ || प्. ५२) पाशुपदं समावाह्य यागेशानन्नलिङ्गके | संपूज्यज्यास्त्रं च मुकुलं पद्ममुद्रां च दर्शयेत् || १२४ || बलिदानं प्रकर्तव्यं शङ्ख भेर्यादिनिस्वनैः | त्रिशूलमन्नलिङ्गे वा न वेदास्त्रं समावृतम् || १२५ || वृषादिपरिवाराणां तद्दिने द्रव्यकैरपि | पूर्वं बलि प्रदातव्यं स्वैस्वैर्मन्त्रर्विशेषतः|| १२६ || रङ्गस्योपरि संस्थाप्य त्रिशूलादीन्विशेषतः | छत्र प * ध्वजाद्यैश्च स्तोत्रमङ्गलवाचकैः || १२७ || धूपदीपसमायुक्तं बलितालसमायुतम् | परिचारकसंयुक्तं सर्वभक्तजनावृतम् || १२८ || प्. ५३) सोष्णीषस्सोत्तरीयं च सर्वाभरणभूषितम् | गन्धलिप्तस्सुपुष्पाढ्यस्त्वाचार्यस्सकलीकृतः || १२९ || रङ्गोर्ध्वे मध्यपीठे तु बलिं दद्यात् विशेषतः | आचार्यश्शिष्यो वा दद्यादनुज्ञातस्तु तेन वै || १३० || रङ्गभावे च हित्वा तु लिङ्गं गच्छेत् प्रदक्षिणम् | ब्रह्माद्यैशान्तमिन्द्राद्यब्रह्मान्तं वा बलिं क्षिपेत् || १३१ || अथवा तु बलिं दद्यात् ग्रामवास्त्वनुकूलतः | पश्चिमद्वारहर्म्ये तु नित्यादित्रितयेष्वपि || १३२ || वरुणादिनिमित्यन्तं लोकबालाबलिं क्षिपेत् | नवस्थानेषु संपूज्य यन्त्रपीठे दिनाधिपान् || १३३ || प्. ५४) स्वैर्मन्त्रैरुच्य तेषां तु तत्तद्द्रव्यैर्बलिं दहेत् | नवाहेष्टादश बलिस्सप्ताहे तु चतुर्दश || १३४ || पञ्चाहं त्र्यह एकादश षड्द्विबलिस्तथा | विघ्नेशभूत गन्धर्वा सुरेशमुनि माधवाः || १३५ || असुराश्च शिवाह्येते प्रोक्ता नवदिनाधिपाः | भूतेन्द्र विष्णुपूर्वास्स्युः सुर षट् ब्राह्ममूर्तिकम् || १३६ || एकाहं शैवमित्येव मुक्ता नव सदेवताः | नन्द्यावर्तिं च शुद्धान्नं लड्डुकामोदकं घृतम् || १३७ || विघ्नेश्वरबलिः प्रोक्तं रक्तपद्मं च पायसम् | रम्भाफलगुलाज्यानि बलिस्स्यात् ब्राह्मणः प्रियः || १३८ || प्. ५५) जयन्ती कृसरान्नं च नालिकेरं घृतान्वितम् | भूतानां तु बलिः प्रोक्तं * * * कुसुमैर्युतम् || १३९ || हरिद्रान्नरसकूश्माण्डाज्यं गन्धव्यसुप्रियम् | जातिपुष्पं गुलान्नं च पनसाम्रफलं स्मृतम् || १४० || इन्द्रस्य बलिरित्युक्तः लक्ष्मीपुष्पं तु दूर्वया | वे * न्नं दधिसंयुक्तं मुद्गमाषघृतान्वितम् || १४१ || पद्मकन्द समायुक्तं ऋषीणां बलिरुच्यते | तुलसी च गुलान्नं च घृतं च बृहतीफलम् || १४२ || मालतीकरवीरं च केतकीपुष्पसंयुतम् | कृसरं चैव जाला चा पूपं नालिकेरकम् || १४३ || प्. ५६) मधुना गुलसंयुक्तं असुराणां बलिं क्षिपेत् | आरग्वधं च शुद्धान्नं निष्पापं पनसाज्यकम् || १४४ || शिवप्रियमिदं प्रोक्तं बलिद्रव्यं प्रकीर्तितम् | पुष्पालाभे यथालाभं पुष्पं ग्राह्य बलिं ददेत् || १४५ || मध्य * * * द्धान्नम सर्वेषां वापि दापयेत् | द्रोणमर्धं तदर्धं वा बल्यर्धं तण्डुलं भवेत् || १४६ || बलिं दद्यात्तु सर्वेषां कुक्कुटाण्डप्रमाणतः | * * * * * * पीठे प्रोक्तं तत् बलिलक्षणम् || १४७ || बलिं क्षिप्य महापीठे यागस्थानं प्रवेशयेत् | पादप्रक्षालनं कृत्वा प्रविश्याभ्यन्तरं बुधा || १४८ || प्. ५७) यष्ट्वान्नं * * * * * * र्वस्थाने विचक्षणः | पूषा पर्युषितं पुष्पं चण्डेशाय निवेदयेत् || १४९ || बलिपीठे त्वन्नलिङ्गे तदन्ते तु विसर्जयेत् | बलेरनुगतो * * * * न्तो वा प्रदक्षिणम् || १५० || अथवा स्याद्दिने भक्त्या गणेशं संप्रपूज्य च | हविर्निवेद्य भस्मानि दत्त्वालंकृत्य भूषणैः || १५१ || ग्रामप्रदक्षिणं कुर्यात् सर्वविघ्नप्रशान्तये | * * प्रतिष्ठा दिवस स्यापरे दिवसे बुधः || १५२ || अङ्कुरानर्पयेत् सम्यक् यथा विधि विशेषतः | साये चास्त्रसमायुक्तं भक्तचण्डेश संयुतम् || १५३ || प्. ५८) वितानच्छत्रसंयुक्तं चामरैरङ्कुरैर्युतम् | नवाम्बर सृजोपेतं अन्येनापि च संयुतम् || १५४ || तटाका रामवल्मीके नद्यां वाऽपि समुद्रके | शुद्धदेशं व्रजेद्विद्वान् भूतलं प्रोक्ष्य चास्त्रतः || १५५ || पुण्याहं वाचयित्वा तु भूदेवीं सम्यगर्चयेत् | मूलमन्त्रेण तं खात्वा पात्रे ग्राह्य मृदं पुनः || १५६ || शिवद्विजेन संधार्यं गणिकोत्तमथाऽपि च | चातुर्वर्णोद्भवैरन्यैर्भक्तैर्वापि च यान् पुनः || १५७ || अङ्कुरानर्पयेद्रात्रौ विधिना देशिकोत्तमः | ध्वजारोहणपूर्वे च भेरीताडनपूर्वके || १५८ || प्. ५९) एवमेव प्रकर्तव्यमङ्कुरार्पणपूर्वके | पूर्वोदितविधानेन कारयेन्मन्त्रवित्तमः || १५९ || हैमं वा क्षौमकार्पाससूत्रं वा पात्रतण्डुले | एकविंशतिबेरांस्तु सुखासनपुरस्कृतान् || १६० || कौतुकं बन्धयेद्रात्रौ यात्रार्थं गुरुसत्तमः | पद्मं लिख्य न्यसेद् बिम्बद्वादशाङ्गुलदैर्घ्यकम् || १६१ || कलात्रयात्मकं सूत्रं त्रिगुणं पद्ममध्यमे | हृदा गन्धादिभिर्यष्ट्वा स्थाप्य शिष्यशिरोपरि || १६२ || धाम प्रदक्षिणीकृत्य धामं वै सर्वमङ्गलैः | प्रविश्याभ्यन्तरं पश्चात् पुण्याहं स्वस्ति वाचयेत् || १६३ || प्. ६०) पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् | दीपं ताम्बूलकं दत्त्वा पद्ममुद्रां प्रदर्शयेत् || १६४ || अस्यावसानकात् शम्भो सदा सन्निहितो भव | एवं ज्ञाप्य हृदा बद्ध्वा प्रकोष्ठे दक्षिणे बुधः || १६५ || सर्वालंकारसंयुक्तान् पूजितानुपचारकैः | रथमारोप्य वारम्भे शिबिकायां च भक्तितः || १६६ || शस्त्रपाणिर्भटाश्चाग्रे हयारूढो व्रजेदनु | गजौघास्त्वानुगास्तेषां ध्वजसङ्घा व्रजेदनु || १६७ || वाजियन्त्रा हस्तियन्त्रास्सिंहोक्षाश्च मृगाश्वकाः | डोलादिव ध्वजोपेता तोरणानुपुरान्विताः || १६८ || प्. ६१) गेयपाठ्यसुनृत्ताढ्या मण्टपाशैवमालिकाः | वाजिवक्त्रं समारभ्य मालिकायन्त्रिकां क्रमात् || १६९ || ध्वजानामनुगास्त्वेते पूर्वोक्तेन क्रमेण तु | एतेऽलंकारसंयुक्ता गणिकाभिस्समायुताः || १७० || सुखासनादिबेरांस्तु तदन्ते क्रमशो व्रजेत् | सिखासनं च कल्याणं उमया सहितं तथा || १७१ || वृषेशं त्रिपुरघ्नं च नृत्तकं चन्द्रशेखरः | अर्धनारीं च विष्णुं च भिक्षाटनं च कालहम् || १७२ || कौमारीं लिङ्गमध्यस्थं उमामहेश्वरं तथा | चण्डेश्वरं प्रसादं च दक्षिणमूर्तिमेव च || १७३ || प्. ६२) गजारिं चैव कङ्कालमर्जुन प्रदमेव च | गङ्गाधरमेकपादमेकविंशति * क्रमात् || १७४ || सहत्भिः पूज्य संभूष्य क्रमेणैव नयेद् बुधः | एकद्वयं त्रयं पञ्च सप्तमं वा चतुर्दश || १७५ || सर्वावेच्छा तु यस्मिंस्स्यात् एकविंशतिमूर्तिषु | ता * बद्ध्यकौकचन्द्र उत्सवान्तं नयेद्बुधः || १७६ || सर्वालंकारसंयुक्तं पिञ्छचामरसंयुतम् | * * * थ गेयैश्च वाद्यसंयुक्तं तदन्तके || १७७ || अन्ते पाशुपतास्सर्वे महाव्रतधरास्तथा | महाशैवो व्रजेदन्ने ब्रह्मणस्तदनु व्रजेत् || १७८ || प्. ६३) गेयगा नर्तकाश्चैव व्रजेदनु विशेषतः | ईश्वरश्शक्तिसहितस्सर्वालंकारसंयुतः || १७९ || योषिद्भिरावृतस्सर्वभूषणाद्यैरलंकृतः | नानाछत्रध्वजैः पिञ्छैर्नानाचामरभूषितः || १८० || यन्त्रदीपैर्हस्तदीपैर्यष्टिस्त्रिशूलदीपकैः | पताकाभिर्वितानैश्च भेर्यैर्वाद्यैस्समायुतम् || १८१ || चण्डेश्वरो व्रजेदन्ते सर्वालङ्कारसंयुतम् | सर्वातोद्यैस्तदन्ते तु घोषयेत्तु विशेषतः || १८२ || सर्वेषामग्रतश्चैव महाशब्दं प्रघोषयेत् | शूद्रो गच्छेत्तदन्ते तु सर्वे वर्णास्तदन्तके || १८३ || प्. ६४) स्त्रियो बालाश्च वृद्धाश्च युवानो भक्तिसंयुताः | ये तु गच्छन्ति देवेशधातास्तद्भृत मानसाः || १८४ || विमुक्तास्सर्वपापेभ्यस्सर्वभोगसमाश्रयाः | पद्यैकस्यश्वमेधस्य प्राप्नुवन्ति महत् फलम् || १८५ || ग्रामप्रदक्षिणं चैव शनैः कृत्वालयं विशेत् | प्रपां कृत्वा समास्थाय मण्टपे समलंकृते || १८६ || सिंहे पद्मासने वाऽपि गच्छेत् पर्यङ्कमध्यमे | अन्येस्वासनभेदेषु वाञ्छितेषु हरं नयेत् || १८७ || अग्रतस्संस्थितास्सर्वे भृङ्गादिमहिताजनः | नर्तको मर्दकस्सर्वे वामतो वंशगायकौ || १८८ || प्. ६५) आचार्यस्सर्वतो वामे गजराजसमस्थितः | पार्श्वयोर्देवगणिका विद्यन्नृत्तसगेयकम् || १८९ || देवस्यापरभागे तु परिचारास्समास्थिताः | नारीभिः पार्श्वयोर्विज्य चामरव्यजनादिभिः || १९० || सुगन्धधूपदीपैश्च कुसुमाद्यैरलंकृतः | पाद्यमाचमनं चार्घ्यं दत्त्वा संपूज्य भक्तितः || १९१ || सर्वोपचारसंयुक्तं सर्वालंकारसंयुतम् | यद्वैवं कारयेत् पश्चात् साये नीराञ्जनं बुधः || १९२ || दीपं पिष्टे तु विन्यस्य भस्म पुष्पं च पात्रके | पूर्वमाचमनं दत्त्वा मूर्ध्नि पुष्पं तु निक्षिपेत् || १९३ || प्. ६६) शिरस्यर्घ्यं तु विन्यस्य गन्धमाचमनं बुधः | धूपं दीपं प्रदातव्यः पिष्टदीपेन देशिकः || १९४ || प्रदक्षिणत्रयं कुर्यात् शिरोर्ध्वे शङ्खनृत्तकैः | जयशब्दादिसंयुक्तं स्नोत्रम * ल गीतिभिः || १९५ || भस्मं दत्त्वा तदन्ते तु दर्पणं दर्शयेत् पुनः | नीराञ्जनमिति प्रोक्तमारार्त्त्यादि च गद्यते || १९६ || पूजान्ते कारयेद्देव साये रक्षार्थकं शुभम् | शङ्खकाहलपूर्वं च महाशब्दं प्रघोषयेत् || १९७ || बहित्वा गणिकाभिस्तु सपाद्यं बाह्यतः क्षिपेत् | राज्ञश्च जगतां रक्ष्या कृते त्वेवं सुखावहम् || १९८ || प्. ६७) सर्वोपचारक कुर्यात् स्मृत्वा स्मृत्वा विशेषतः | उष्णीषमुत्तरीयं च हैमं दद्याद्गुरोस्तदा || १९९ || पर्यष्टि परिचाराणां गणिकानां विशेषतः | भक्तानां नर्त्तकादीनां वस्त्रादीनि प्रदापयेत् || २०० || एवं दिने दिने कुर्याद् विधानेन विशेषतः | क्रमात् संक्षेपतः प्रोक्तं परिवेष्टक्रमं तव || २०१ || विघ्नोद्भवप्रकारं च इदमन्यत् प्रचक्ष्महे | अतिवृष्टौ महावाते राष्ट्रक्षोमादिसंभवे || २०२ || एवमादिषु विघ्नेषु प्रसादे वा बलिं क्षिपेत् | प्रसादवृषमध्ये तु ब्रह्मस्थानं बलिं क्षिपेत् || २०३ || प्. ६८) मर्यादौ परितो दद्यादिन्द्रादीशान्तकं बलिम् | पूर्वतस्तु महापीठे बलिं दत्त्वा समापयेत् || २०४ || बेरप्रदक्षिणीग्रामे प्रासादे वा समाचरेत् | वास्तौ बेरे विमाने च एवमेवं समाचरेत् || २०५ || महावास्तोश्च वा पक्षः शृणु ब्रह्मपदाद्बहिः | अन्तर्वीर्यां बलिं दत्त्वा बेरयात्राऽपि तत्र वा || २०६ || एवमेवं विधानेन युक्तिदं कारयेद् बुधः | असुरे दिवसे प्रातर्दत्वास्तेषां बलिं प्रियम् || २०७ || ईश्वरं शक्तिसहितं पूजयित्वा विशेषतः | भीमरूपं रणोद्युक्तं ह्येति व्याग्राग्रपाणिनाम् || २०८ || प्. ६९) किरातवेषवच्चापि कृत्वा देवीं च पूर्ववत् | शिबिकोपरि संरोप्य रुद्रं कुर्यात् प्रदक्षिणम् || २०९ || पिञ्छं च कर्णं भेरीवाद्यध्वजैर्युतम् | सर्वालंकारसंयुक्तं शङ्खभेर्यादिघोषणैः || २१० || हस्त्यश्वरथसंरूढा भटा युद्धसमुत्सुकाः | धनुर्धरं * * * * * * * * * * * * || २११ || अङ्गानां लक्षणं वक्ष्ये स्यन्दनानां विशेषतः | भारादिवर्गत्रितयं अश्वपर्जत्यादिकत्रयम् || २१२ || सिंहासनं रथाङ्गं च प्रत्यङ्गमभिधीयते | उपपीठं मधिष्ठानन्नाटकं देवभारादिपङ्क्तित्रितय || २१३ || मश्वतासनम् | प्. ७०) प्रधानाङ्गमिति ज्ञेयं विद्वद्भिर्मतिमत्तरैः | तद्भक्तिमङ्गुलेनैव शोधयेदाय पूर्वकम् || २१४ || तदङ्गुलेन निर्दिष्टं अधिष्ठान द्विजोत्तमः | आयादिशुभसिद्ध्यर्थमेकात् सप्ताङ्गुलान्तकम् || २१५ || पृथ्वीहानिं प्रकर्तव्यं यथा शोभावशान्नयेत् | अधिष्ठानसमं वाऽथ त्रिपादं वार्धमेव वा || २१६ || पञ्चांशे त्र्यंशकं वाऽपि सपादं सार्धमेव वा | पादोनं द्विगुणं वाऽथ द्विगुणं वोपपीठकम् || २१७ || अधिष्ठानादयस्सक्तः कल्पयेत्तं विचक्षणैः | प्. ७१) अधिष्ठानोपरिष्टात्तु नाटकं संप्रकल्पयेत् || २१८ || एकाङ्गुलं समारभ्यां ललाद्ध्या षोडशाङ्गुलम् | अधिष्ठानोदयाद् ग्राह्यं तन्मानं सिद्धिकाङ्क्षिभिः || २१९ || देवासनं तदूर्ध्वे तु कल्पयेत् कल्पवित्तमः | देवासनोपरिष्टात्तु सिंहासनं प्रकल्पयेत् || २२० || अष्टोत्तरादिस्थूप्यन्तं शान्तिकादौ प्रगृह्यताम् | अङ्गानान्तप्रवेशं तु पूर्वमेव सुभाषितम् || २२१ || बेदार्थं कौतुकार्थं च शूलार्थं त्रियहा भवेत् | त्रिशूले तर्पयेत्तैलं हृदयेन तु मन्त्रतः || २२२ || चूर्णं तु शिरसा दद्यात् कौतुके मूललिङ्गके | प्. ७२) वृषादिपरिवाराणां तैलचूर्णं तु दापयेत् || २२३ || शेषं दत्त्वा तु भक्तानां अस्त्राणां तु प्रदक्षिणैः | कृत्वा ग्रामादिकान्वाऽपि प्रासादं वा विशेषतः || २२४ || अस्त्रं चण्डेश्वरैशक्तैर्नयेत्तीर्थेऽधिवासयेत् | तस्य तीरे प्रपायां तु कुर्याद्वै स्थण्डिलद्वयम् || २२५ || त्रिशूलं पश्चिमे चास्त्रे स्मृतं स्थाप्याष्टमङ्गलैः | संपूज्य च यथोक्तं तु तदग्रे कलशान् न्यसेत् || २२६ || मध्यमे स्थापयेत् कुम्भमशिवाम्बु परिपूरितम् | ससूत्रान्हेम वस्त्राढ्यान् कूर्चचक्रीकयायुतान् || २२७ || मध्यकुम्भे समावाह्य गङ्गादेवीं यजेद्बुधः | प्. ७३) किं कुर्यादि चक्रन्यान्त मिन्द्रादीशान्तकं यजेत् || २२८ || पुण्याहं वाचयेत् सर्वदेवानावाहयेत्ततः | अस्त्रराजानमाराध्य स्नपनं तत्र कारयेत् || २२९ || तीर्थमध्येऽस्त्र राजानमवगाह्य गुरूत्तमः | त्रियम्बकेन मन्त्रेण चण्डेशं शिष्यकेन च || २३० || सहाभिषेचनं कुर्यान् मुच्यते पापपुञ्जरैः | मुक्तिदावालभन्ते च सर्वतीर्थफलानि वै || २३१ || प्राप्य तीरमलंकृत्य भक्ताभ्यर्च्चविशेषतः | प्रविशेदालयं पश्चाद्यागेशं पूजयेत्ततः || २३२ || पूर्णाहुतिं ततः कुर्यात् शिवकुम्भं च वर्धनीम् | प्. ७४) परितः स्थापितान् कुम्भान् उद्धृत्याभ्यन्तरं विशेत् || २३३ || शिवकुम्भेन संस्थाप्य शिवमन्त्रेण मन्त्रवित् | गौरीमन्त्रेण संस्नाप्य वर्धन्यां तु विचक्षणः || २३४ || स्वैः स्वैर्मन्त्रविशेषेण कुम्भेनैवाभिषेचयेत् | यथोक्तं पूजयेत् पश्चात् पायसादि निवेदयेत् || २३५ || प्रभूतहविषं दद्याद् यथा विभवविस्तरम् | आचार्यं पूजयेद्धेमवस्त्राङ्गुलीयकादिभिः || २३६ || दक्षिणां दापयेत् पश्चात् यथाशास्त्रपुरस्सरम् | पञ्चनिष्कं च निष्कं च त्रिनिष्कं च द्विनिष्ककम् || २३७ || निष्कमर्धं च पादं च शुद्धहेमं सुशीतलम् | प्. ७५) नवाद्याद्यर्कजान्तानां क्रमेणैव विशेषतः || २३८ || सप्तानामुत्सवानां तु सप्तधोक्तं तु दक्षिणा | गुरुं प्र * * * * च क्षमेयेति क्षमापयेत् || २३९ || परिचारकभक्तानां यथाशक्त्या तु दक्षिणे | ध्वजावरोहणं कुर्याद् रात्रौ स्नपनसंयुतम् || २४० || मूललिङ्गं तु संस्नाप्य संपूज्य च विशेषतः | हवींषि विविधो दद्यान्नमस्कृत्वा तु भक्तितः || २४१ || पूज्य चण्डेशमुद्वास्य ध्वजस्थं वृषभं पुनः | ध्वजस्य दण्डमूलं तु छित्वास्त्रेण विधानतः || २४२ || घृतं त्वन्नं * * * * सोपदंशं गणप्रियम् | प्. ७६) अस्त्रान्नलिङ्गचण्डेशयुक्तं ग्रामबलिं ददेत् || २४३ || देवान् विसृज्य सर्वांश्च चण्डेश्वराज्ञया सह | प्रासादं प्रविशेत् पश्चात् प्रणमेत्तु सदाशिवम् || २४४ || यज्ञोपशिष्टं यद्द्रव्यमाचार्यस्य धनं भवेत् | गृहीतं चेत्तु तद्द्रव्यं राज्ञो राष्ट्रस्य दोषकृत् || २४५ || ब्राह्मणं वक्ष्य * * * * क्षपात् शशलाञ्छन | एककाले तु संपूर्णं ब्राह्मणार्थं शिवं क्रमात् || २४६ || प्रातःकाले तु समये यस्मिनृक्षे तु तत्पुनः | तद्दिने वै प्रकर्तव्यं ग्रामादीनां प्रदक्षिणम् || २४७ || वाञ्छादेशं ततो गत्वा सर्वलीलासमन्वितम् | प्. ७७) होमाधिवासाद्याश्च बलिं तीर्थेन्न कारयेत् || २४८ || आलयं प्रविशेत् पश्चात् स्नपनं तत्र कारयेत् | प्रभूतश्च ततो दत्त्वा नृत्तगेयसुवाद्यकैः || २४९ || ब्रह्मणोत्सवमाख्यातमर्कवारोत्सवं शृणु | अर्कवारे विशेषेण यजेत् प्रातश्शिवं क्रमात् || २५० || पूजयेत् सर्वदेवांस्तु हविं दद्याद्विशेषतः | सर्वोपचारसंयुक्तं पूजयेच्चन्द्रशेखरम् || २५१ || नित्यान्ते गेयवाद्यैश्च सर्वालंकारकैर्युतम् | ग्रामप्रदक्षिणं कुर्यात् प्रासादं वा प्रदक्षिणम् || २५२ || प्रविश्याभ्यन्तरं पश्चात् स्नपनं तत्र कारयेत् | प्. ७८) * * सहविषं दद्यात् ताम्बूलं तु प्रदापयेत् || २५३ || अर्काजान्ते तु शक्त्याद्यमुत्सवं समुदीरितम् | एवं यत्कुरुते मुख्यः मुक्तपापस्सुपुण्यवान् || २५४ || सर्वदोषविनिमुक्तश्शिवलोकमवाप्नुयात् || इति चन्द्रज्ञाने श्रीमुखतन्त्रे शिवोत्सवस्य विधिः एकविंशतितमः || प्. ७९) श्रीः अतः परं प्रवक्ष्यामि महालक्ष्म्या विधिं शृणु | आलये तु गिरिशस्य वायुवारुणमध्यमे || १ || स्थापनं तु महालक्ष्म्याः कर्तव्यं देशिकोत्तमैः | निर्माय शिल्पिवर्येण लक्ष्मीं पद्मासनस्थिताम् || २ || हस्तद्वयगृहीताब्ज शोभितां हेमवर्णिनीम् | हस्तिशुण्डाग्रकुम्भाभ्यां सिच्यमानशिरोभाराम् || ३ || परिवृतपदद्वन्द्वां पद्मपत्रनिभेक्षणाम् | पार्श्वयोरपि कन्याभ्यां चामराभ्यां विशेषतः || ४ || बीज्यमानां महालक्ष्मीं विशालां विष्णुवल्लभाम् | शुभे मुहूर्ते सुदिने अङ्कुरं कारयेद्बुधः || ५ || प्. ८०) वास्तुहोमं ततः कृत्वा महालक्ष्म्याश्च सन्निधौ | दिग्भ्यां इत्यनुवाकेन अङ्गहोममथाचरेत् || ६ || पूर्वोक्तविधिना चैव अक्षिमोचनमाचरेत् | अधिवासत्रयं कृत्वा क्षीरगव्यं जलेषु च || ७ || ग्रामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च | पुण्याह प्रोक्षणं कृत्वा पञ्चगव्यैस्तथैव च || ८ || वेद्योपरि विशेषेण धान्यैस्तु दशभारकैः | आस्तीर्य पञ्चचयने च साधयित्वा मनोन्मनीम् || ९ || प्रासार्य परितो धान्यैर्लिखित्वा पद्मरेखया | नवकुम्भं सुसंस्थाप्य तन्तुना वेष्टितं परम् || १० || प्. ८१) नवां च लक्ष्मी प्रतिमां कुम्भेषु परिनिक्षिपेत् | नवरत्नादि निक्षिप्य नालिकेराम्रपल्लवम् || ११ || आच्छाद्य नववर्णैश्च कूर्चद्वन्द्वं विनिक्षिपेत् | मध्यं कुम्भे महालक्ष्मीं सिद्धिं दक्षिणतस्तथा || १२ || पश्चिमे वीर्यलक्ष्मीं च उत्तरे विजयदायिनीम् | पूर्वे तु कार्यलक्ष्मीं च आवाह्याभ्यर्चयेद् गुरुः || १३ || उमां सरस्वतीं चैव सावित्रीं गायत्रीमेव च | आग्नेयादिषु कुम्भेषु आवाह्याभ्यर्चयेद् बुधः || १४ || प्रधानकुम्भपरितो लक्ष्मीशक्तीस्तु पूजयेत् | चतुर्दिक्षु चतुर्वेद्यां निर्यातीन् पूजयेत् क्रमात् || १५ || प्. ८२) अधोभागे उमावेद्यामष्टशक्तीस्तु पूजयेत् | अग्निकार्याणि विधिवत् पूर्वोक्तेनैव वर्त्मना || १६ || प्रणीत्वा चतुरो विप्रान् उपदर्शनमेव च | होतव्यं तैस्तु विधिवन् नवकुण्डेषु पृथक् पृथक् || १७ || हिरण्यवर्णां तु गायत्रीं श्रिये जातश्रियं तथा | पद्मप्रियेति मन्त्रैस्तु आम्रपुष्पसमित्कुशैः || १८ || प्रत्येकं पञ्चसाहस्रं नवधान्यैस्तु भावयेत् | एवमेवं तु सप्ताहं पञ्चाहं त्र्यहमेव वा || १९ || सहस्रमयुतं वापि शतमष्टोत्तरं हुनेत् | हविभिः पुष्कलाभिश्च गायत्र्या वहयेद् बुधः || २० || प्. ८३) नवादीनाम कर्तव्यं * * * ब्राह्मणोत्तमैः | नवैः पुष्पैश्च धान्यैश्च मधुभिश्शर्करैस्तथा || २१ || आज्यैर्हविभिर्दधिभिः समिद्भिः फलसंयुतैः | प्राग्भागे पद्मकुण्डे तु मूलेन स्वगुणादयः || २२ || होतव्यं तु विशेषेण ध्यानपूर्वपुरस्सरम् | होमकाले द्विजश्रेष्ठाद् वेदपारायणे रतान् || २३ || स्वस्तिसूक्तं जपेयुश्च पुराणपठने रताः | ईकारत्यनुवाकेन होतव्यं सगुणा? तथा || २४ || पूर्णाहुतिं ततः कृत्वा प्रायश्चित्तं ततो हुनेत् | जयादीन् वाहयित्वापि होमशेषं समाचरेत् || २५ || रात्रिशेषं तु गनितं नीत्वा मङ्गलकादिभिः | स्नात्वा प्रभातसमये आचार्यो मूर्तिपैस्सह || २६ || पूर्वामुपास्य सन्ध्यां तु गायत्रीं च जपेद्गुरुः | आलयं संप्रविश्याऽथ श्रीसूक्तं प्रजपन् सताम् || २७ || प्रदक्षिणीकृत्य नमस्कृत्वा पुनः पुनः | गन्धद्वारेति मन्त्रेण ध्यात्वा देवीं न दिक्सुताम् || २८ || आसीनोदङ्मुखस्तत्र मूलमष्टोत्तरं जपेत् | आचार्यः कुम्भमादाय पुरो गच्छेत्तु वाग्यतः || २९ || चयनाद् बिम्बमादाय अनुगच्छेत्ततो गुरुः | आलयं संप्रविश्याऽपि बिम्बं संस्थाप्य चासने || ३० || प्. ८५) कुम्भं तु पुरतः स्थाप्य आसीनोदङ्मुखो गुरुः | प्राणानायम्य विधिना रेचपूरककुम्भकैः || ३१ || अङ्गन्यासकरन्यासमन्तर्मातृकया बहिः | यथात्मनि तथा बिम्बे न्यासं कृत्वा विशेषवित् || ३२ || यजमानेन संयुक्तो दशदानानि कारयेत् | नवग्रहप्रतिग्रहं दानं कृत्वा संभूरिक भवेत् || ३३ || संयज्ञं पूजयेत् पूर्वं यथा विभवविस्तरात् | पूर्वोक्तैर्मन्त्रनिचयैर्बिम्बं स्पृष्ट्वा विधानवित् || ३४ || श्रीमन्त्रं मूर्ध्नि कृत्वा तु श्रीसूक्तं प्रजपन्मुदा | कुम्भात् शक्तिं समादाय बिम्बे विन्यस्य वा ततः || ३५ || प्. ८६) आवाह्य मूलमन्त्रेण ध्यात्वा देवीं वरप्रदाम् | अभ्यर्च्य गन्धकुसुमैष्षोडशैरुपचारकैः || ३६ || निवेद्य परमान्नं च पश्चात् ताम्बूलमेव च | सन्निधौ तु महालक्ष्म्याः प्रार्थयित्वा मनोरथान् || ३७ || आचार्यं पूजयेत् पश्चाद् वस्त्राभरणकुण्डलैः | गोभिर्भूम्या च वसुभिः इष्टकाम्यैस्तथैव च || ३८ || तोषयित्वा गुरुं नत्वा ऋत्विजश्च तथा पुनः | आशीर्वचनमालप्यन् तथा संतोष्य भूसुरान् || ३९ || मोदमानोद्ग्रहं गच्छेत् पितृभिः सह बान्धवैः | एवं यः कुरुते भक्त्या श्रद्धाप्रीतिपुरस्सरम् || ४० || प्. ८७) तस्य पापानि नश्यन्ति करस्थास्सर्वसंपदः | अवाप्य धनधान्यानि दासीदासगृहं तथा || ४१ || कलत्र पुत्रसंवृद्धिं कुर्युरारोग्यमेव च | इह तु विपुलान् भोगान् गीर्वाणदुर्लभान् || ४२ || दिव्यं विमानमारुह्य लोकान् लोकान्तरानपि | संचरन् श्रीप्रसादेन श्रीसायुज्यमवाप्नुयात् || ४३ || इति चन्द्रज्ञाने उत्तरभागे शक्तिविषयप्रसङ्गे लक्ष्मीप्रतिष्ठाविधिर्नाम एकोनाशीतिपटलः || प्. ८८) धर्मादि | अधर्मादि | अधच्छदनाय नमः | ऊर्ध्वच्छदनाय नमः | कन्दाय नमः | मध्यकुम्भे ध्यानम् | एकवक्त्रां द्विनेत्रां च द्विभुजां पद्महस्तका | करण्डमकुटोपेतां लम्बपादद्वयान्विताम् || १५ || हस्तद्वयोद्धृतैः कुम्भैः अभिषेककृतान्विताम् | सर्वालंकारसंयुक्तां ध्यायेल्लक्ष्मीं तु पूजयेत् || आवाहनम् | ओं श्रां श्रीं श्रूं श्रैं श्रौं श्रः महालक्ष्म्यै नमः | ह्लां हृदयायै नमः | श्रीं शिरसे नमः | स्रूं शिखायै वौषट् | श्रैं कवचाय हुम् | श्रौं नेत्रत्रयाय वौषट् | श्रः अस्त्राय फट् || १५ || प्. ८९) गन्धपुष्प | वैष्णव्यै नमः | जानकयै नमः | रश्मिन्यै नमः | वाराह्यै नमः | हरिप्रियायै नमः | पद्मालयायै नमः | महालक्ष्म्यै नमः | अर्चयित्वा पूर्वाद्यष्टकुम्भेषु श्रीदेव्यै नमः | लोकमात्रे नमः | क्षीराब्धि तनयायै नमः | हरिप्रियायै नमः | क्षमायै नमः | पद्मधारिण्यै नमः | गुरुरूपं परान्यार्थं गुरुरूपं परात्परम् | गुरुरूपं परं ज्ञानं गुरुरूपं पराशिवम् || १ || गुरुर्देवो महादेवो गुरुपत्नी मनोन्मनी | गुरुपुत्रो गुहः प्राप्तो गुरुदासश्च चण्डवत् || २ || प्. ९०) पञ्चकृत्यमिदं प्रोक्तं सर्वमन्त्राधिमन्त्रकम् | सृष्टिस्थितिं च संहारं तिरोभावमनुग्रहम् || ३ || सर्वकारणकार्याणां सर्वसंपत्सुखावहम् | पञ्चहस्तमुदीचीनं प्राचीनं मण्टपं तथा || ४ || द्वादशाङ्गुलसंयुक्तं मध्यताश्चतुरङ्गुलम् | दक्षिणोत्तरसंयुक्तं पूर्णकुम्भैरलंकृतम् || ५ || चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् | अष्टद्रोणं तु शालीनां तदर्धं तण्डुलं तथा || ६ || तदर्धं तु तिलं चैव तदर्धं लाजपुष्पकम् | पञ्चकुम्भं तथा स्थाप्य वर्धनीं हेमकूर्चकम् || ७ || वस्त्रापिधान संयुक्तं तन्तुना वेष्टयेत्ततः | प्. ९१) सप्ततालमुदीचीनां प्राचीनां च तथैव च || ८ || पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं लिखेत् ततः | प्राक्सूत्रं रुद्रसूत्रं स्यात् उदक्सूत्रं तथैव च || ९ || सूत्रान् सूत्रान्तरं तालं चतुरङ्गुलविस्तरम् | एकं तु ब्रह्मचर्याणां गृहस्थं च द्वितीयकम् || १० || तृतीयं वानप्रस्थं च सन्यसेत् चतुरश्रकः | कृते त्रेतायुगे चैव द्वापरे च कलौ तथा || ११ || ज्ञानयोगक्रियाणां च आचार्यं तु चतुष्पदम् | ऋग्यजुस्सामाथर्वाणां वेदपादमिदं स्मृतम् || १२ || पञ्चविंशत् पदं ज्ञानं योगानां पञ्चविंशतिः | प्. ९२) पञ्चविंशत्क्रियाणां तु आचार्यः पञ्चविंशतिः || १३ || इत्युक्तं शतपदं ज्ञेयं चतुष्पादमिदं स्मृतम् | गोरोचना च लिखितं कुङ्कुमं चन्दनानि च || १४ || सूत्रान्तरात् करान्तं स्याद् वर्णानां तु न्यसेद् बुधः | पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं तु वर्णकम् || १५ || पञ्चचक्रविधिः प्रोक्तः वर्णान्ते तु पृथक् पृथक् | कौशिकः काश्यपश्चैव भारद्वाजश्च गौतमः || १६ || अनुष्टुप्च्छन्दस्य जगतृष्टुप्गायत्रियः | ब्रह्मा विष्णुश्च रुद्रश्च महेशश्च सदाशिवः || १७ || सरस्वती लक्ष्मीश्चैव उमा गौरी च पार्वती | प्. ९२) प्रणवं प्रधानबीजं तु द्वितीयं श्रीबीजमुच्यते || १८ || तृतीयं ह्रींकारबीजं च चतुर्थं श्रीबीजमुच्यते | पञ्चमं प्रणवं बीजं बिन्दुनादं लिखेद् बुधः || १९ || पञ्चाक्षरक्रमेणैव सृष्टिचक्रमथ शृणु | धान्तं भान्तं च वान्तं चलान्तं मान्तं तथैव च || २० || मान्तं धान्तं च लान्तं च वान्तं भान्तं परात्परम् | भान्तं लान्तं च मान्तं च धान्तं वान्तं वरप्रदम् || २१ || वान्तं मान्तं च धान्तं च भान्तं लान्तमतः परम् | लान्तं वान्तं च भान्तं मान्तं धान्तं तथैव च || २२ || इत्येवं सृष्टिचक्रं स्यात् स्थितिचक्रमतः परम् | प्. ९४) भान्तं लान्तं च मान्तं च धान्तं वान्तमतः परम् || २३ || वान्तं मान्तं च धान्तं च भान्तं लान्तं तथैव च | लान्तं वान्तं च भान्तं च मान्तं धान्तमतः परम् || २४ || धान्तं भान्तं च वान्तं च लान्तं मान्तं तथैव च | मान्तं धान्तं च लान्तं च वान्तं भान्तं परं पदम् || २५ || स्थितिचक्रमिति चैव संहारं तमथ शृणु | वान्तं मान्तं च वान्तं च भान्तं लान्तमतः परम् || २६ || लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च | धान्तं भान्तं च वान्तं च लान्तं मान्तं तथैव च || २७ || मान्तं धान्तं च भान्तं च वान्तं लान्तं ततः परम् | भान्तं लान्तं च मान्तं च धान्तं वान्तं ततः परम् || २८ || प्. ९५) इति संहारचक्रं च तिरोभावमथ शृणु | लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च || २९ || धान्तं यान्तं च वान्तं च भान्तं मान्तमतः परम् | मान्तं धान्तं च लान्तं च वान्तं पान्तं परात्परम् || ३० || भान्तं लान्तं च मान्तं च धान्तं वान्तं वरानने | वान्तं धान्तं च मान्तं च भान्तं लान्तं परात्परम् || ३१ || तिरोभावेति चक्रं तु अनुग्रहमथ शृणु | मान्तं धान्तं च लान्तं च वान्तं भान्तमतः परम् || ३२ || भान्तं लान्तं च मान्तं च धान्तं वान्तं तथैव च | वान्तं मान्तं च धान्तं च भान्तं लान्तं च भावनम् || ३३ || प्.९६) लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च | धान्तं मान्तं च वान्तं च लान्तं भान्तं परात्परम् || ३४ || इत्यनुग्रहचक्राणां चक्रं पञ्चविधं भवेत् | इत्येतत् पञ्चचक्राणां पञ्चविंशत्शतं शृणु || ३५ || गालवो ऋषिभिश्चैव वृहती च तथैव च | देवस्सदाशिवज्ञेयः उन्मनीशक्तिसंयुतम् || ३६ || बीजं प्रधानं तन्मध्ये आकारोकारमेव च | विंशत्पदं तु ब्राह्माणां पदं प्रति पदं प्रति || ३७ || सान्तं धान्तं समायुक्तं विंशादीनां परं पदम् | मध्यमेकपदं स्थाप्य ओंकारं परमेश्वरम् || ३८ || प्. ९७) तन्मध्ये स्थापितं लिङ्गं ओंकारं परमं पदम् | धान्तं नकारमेवोक्तं भान्तंमकारमेव च || ३९ || वान्तं शिकारसंयुक्तं लान्तं वकारमेव च | मान्तं यकारमेवोक्तं नमश्शिवाय मन्त्रकः || ४० || इति चन्द्रज्ञाने क्रियापादे श्रीपञ्चाक्षरपटलं समाप्तम् | || एकविंशतिपटलः || प्. ९८) आर्द्राव्रतं प्रवक्ष्यामि सर्वप्राणि सुखावहम् | सर्वमङ्गलरक्षार्थं सर्वशत्रुक्षयं भवेत् || १ || नवाहं चैव सप्ताहं अङ्कुरार्पणपूर्वकम् | मृगशीर्षनक्षत्रे तु अधिवासनमारभेत् || २ || गौरीं तु स्नपयेत् पश्चात् श्वेतवस्त्रेण वेष्टयेत् | सर्वाभरणभूष्यं तु सर्वाङ्गं समलंकृतम् || ३ || मण्टपे सर्वसंयुक्ते स्थण्डिलं कारयेत् क्रमात् | तन्मध्ये गौरीमास्थाप्य कृत्वा कौतुकबन्धनम् || ४ || स्थलिके तण्डुले चैव तन्मध्ये तन्तुरक्षकम् | परिचारकमुद्धृ * * * * * * दक्षिणम् || ५ || धूपदीपहरो दत्त्वा पुण्याहं वाचयेत्ततः | शङ्खदुन्दुभिनिर्घोषैश्श्रोत्रमङ्गलवाचकैः || ६ || वेदध्वनि समायुक्तं नृत्तगेयसमन्वितम् | त्रियम्बकेन मन्त्रेण कौतुकं बन्धयेत्ततः || ७ || नैवेद्यं दापयेत् पश्चात् अपूपं तु सुयोजयेत् | धूपदीपौ हरौ दत्वा ताम्बूलं तु निवेदयेत् || ८ || द्वितीये दिवसे चैव उमादेवीं तु स्नापयेत् | नववस्त्रैरलंकृत्य समस्ताभरणैरपि || ९ || सर्वमाल्यैर्विशेषेण पूजयेत् परमेश्वरम् | शिवाग्रे स्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः || १० || प्. १००) तदूर्ध्वे वस्त्रमावेष्ट्य तन्मध्ये लवणं क्षिपेत् | तदूर्ध्वे गौरीमास्थाप्य * * * * * * * * || ११ || गौरीदक्षिणदिग्भागे विश्वेशं पूजयेत्ततः | वामपार्श्वे तु दुर्गां च पूजयेत्तु विशेषतः || १२ || हरिद्राणि तथा कुर्यात् दीरसन्निधिसंस्थितः | तन्निम्बप्रस्थपूर्णं तु पूर्वाग्रेण च संयुतम् || १३ || शक्रचूर्णं हि संयुक्तं रजनी लवणं तथा | एकपात्रं गृहीत्वा ततो दूर्वाक्षतं यथा || १४ || गौरीदक्षिणहस्ते तु पानीयं त्रिप्रदक्षिणम् | प्रस्थचूर्णं तु तण्डुल्यं दापयेद्देशिकोत्तमः || १५ || प्. १०१) हस्तेन संग्रहीत्वा तु पायसान्नं समुद्धृतम् | पुण्याहं वाचयित्वा तु आर्द्राव्रतं समाचरेत् || ११६ || देशिको हस्तदोग्रह्य पानीयं दापयेद् गुरुः | हरिद्राणि समादाय तण्डुलं दर्शनं परम् || १७ || कूर्चवर्णं च पादाब्जैर्व्रीहिं च नाभिदेशके | रजनीं हृदये न्यस्य लवणं कण्ठदेशके || १८ || पूर्वाक्षरं तु मूर्ध्नि स्यात् दापयेत्तु मनोन्मनीम् | आचार्यं पूजयेत्तत्र पवित्रहेमाङ्गुलीयकैः || १९ || ब्राह्मणान् पूजयेत् तत्र तिलैरपि सुपूजयेत् | शङ्खदुन्दुभिसंयुक्तं नृत्तगेयसमायुतम् || २० || प्. १०२) पायसान्नं समुद्धृत्य परिचारकहस्तयोः | ग्रामप्रदक्षिणं कृत्वा मङ्गलानि च हस्तयोः || २१ || आर्द्राव्रतं समाचरेन्नृत्तालं कारमेव च | पूर्वरात्राधिवासं स्यात् तीर्थाधिवासनं कुरु || २२ || स्नपनं पञ्चविंशत्यं नृत्तमूर्तिं सुपूजयेत् | वस्त्रेण वेष्टनं कृत्वा सर्वाभरणभूषितम् || २३ || सर्वपुष्पैरलंकृत्य सर्वगन्धानुलेपयेत् | नैवेद्यं दापयेत् पश्चात् ताम्बूलं तु निवेदयेत् || २४ || शङ्खघोषसमायुक्तं नृत्तगेयसमायुतम् | वेदध्वनिसमायुक्तं स्तोत्र ध्वनि समन्वितम् || २५ || ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं त्विति | इति चन्द्रज्ञाने प्रतिष्ठातन्त्रे आद्राव्रतविधिः द्वाविंशतिः पटलः | प्. १०३) श्रीः वक्ष्यामि शिवरात्र्यां तु पूजयेत्तु द्विजोत्तमः | कृतत्रेतायुगद्वन्द्वे द्रापरे च कलौ युगे || १ || युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् | त्रेतायां विघ्नकृत् पूज्य द्वापरेह्यच्युते यजेत् || २ || ब्रह्मेन्द्रमुनिभिश्चैव कलौ संपूज्यते हरः | माघे कृष्णचतुर्दश्यां फाल्गुने च द्वितीयके || ३ || चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपञ्चमी | ज्येष्ठाशक्लतृतीये च आषाढे चाष्टपञ्चमी || ४ || द्वादश्यां श्रवणे चैव पूर्वाषाढे तु पञ्चमी | तुरके सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिके || ५ || प्. १०४) द्वादश्यां मार्गशीर्षे तु पुष्यमासे तथाष्टमी | एवं संवत्सरे पूज्य शिवरात्रिरुपास्यताम् || ६ || माघमासे चतुर्दश्यां तत्फलशिवरात्रिकम् | एकमासे द्विपक्षे तु रात्र्याधिक्या हि तं परम् || ७ || शिवं संपूज्य तत्राभ्यां तत्फलं लभते नरः | पक्षं तु समवेगस्स्यात् पूर्वरात्रौ विशेषतः || ८ || रात्रावधिकपक्षे तु शिवपूजा विधीयते | तद्रात्रिश्शिवरात्रिस्स्यात् एवं सान्निध्यमेव च || ९ || शर्वरी पक्षहीनायां सा दोषबहुला स्मृता | यामं प्रति विशेषेण शिवपूजाविशेषतः || १० || प्. १०५) नवाहे चैव सप्ताहे चाङ्कुरार्पणकं कुरु | अङ्कुराण्यर्पयेत् पश्चात् पूर्वोक्तविधिना सह || ११ || तद्दिनस्य तु पूर्वे तु मण्टपं शोधयेत् पुनः | पञ्चगव्येन संप्रोक्ष्य कौतुकं बन्धयेत्ततः || १२ || बिल्वपत्रं च संपूज्य सर्वगन्धसमन्वितम् | वस्त्रेण वेष्टयेद् धीमान् बिल्वपत्राधिवासनम् || १३ || प्रभापविमले धीमान् देशिकः स्नानमाचरेत् | पूर्वाह्ने तर्पणं चैव मध्याह्ने * प्रदक्षिणम् || १४ || सायाह्ने पूजनं कृत्वाप्येवमेव व्रतं चरेत् | प्. १०६) ब्रह्मक्षत्रिय विद्शूद्रा ह्युपवाससमन्वितम् || १५ || द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि | सर्वेषां चैव नारीणां उपवासं तथैव च || १६ || निद्राहीनः प्रयत्नेन सर्वकार्याणि साधयेत् | सत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च || १७ || आयुष्करं च सिद्धिं च सर्वमोक्षं तहैव च | अमङ्गल्यप्युपासेन पुनर्जन्मस्सुमङ्गली || १८ || अपत्नीकोप्युपासीनः पुनः पत्नीसमन्वितः | इष्टकामफलं वाऽपि शिवरात्रिमुपासने || १९ || निद्रायां तु फलं हीनं निद्राहीनं तु यत्फलम् | तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् || २० || ऋग्यजुस्सामवेदैश्च चतुर्भिः प्रतियामकम् | ब्रह्मेन्द्रमुनिभिस्सार्धं देशिकस्संप्रपूजयेत् || २१ || विघ्नेशं पूजयेत् पूर्वं सौरपूजा ततः परम् | शालिभिस्तण्डुलं कृत्वा पुण्याहं वाचयेत्ततः || २२ || पूर्वे तु पञ्चगव्यं स्याद् द्वितीये पञ्चामृतं भवेत् | तृतीये मधुना स्नाप्य इक्षुसारं चतुर्थके || २३ || यामं प्रति विशेषेण पूजयेद्देशिकोत्तमः | पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं जपेत् || २४ || द्वितीये स्नपनं प्रोक्तं पञ्चाशत्कलशं भवेत् | प्. १०८) तृतीये स्नपनं चैव पञ्चविंशति संख्यया || २५ || चतुर्थे स्नपनं चैव नवकुम्भैस्सुपूजयेत् | यामं प्रति विशेषेण स्नपनं कारयेद् बुधः || २६ || पूर्वयाम्ये तु संपूज्य बिल्वपत्रैस्समर्चयेत् | द्वितीये पत्रपुष्पैश्च तृतीये जातिपुष्पकैः || २७ || नन्द्यावर्तैस्तु संपूज्य चतुर्यामे तु पूजयेत् | चतुस्सन्ध्यार्चनं कुर्याद् बिल्वपत्रैस्समन्वितम् || २८ || मुद्गान्नं प्रथमं चैव द्वितीये पायसान्नकम् | तृतीये कृसरान्नं स्यात् शुद्धान्नं स्यात् चतुर्थके || २९ || यामं प्रति विशेषेण क्षेत्रपालं समर्चयेत् | प्. १०९) यामान्ते तु विशेषेण बलिहोमं समाचरेत् || ३० || देशिकं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः | ब्राह्मणं पूजयेत् तत्र शिवभक्तान् सुपूजयेत् || ३१ || पूजयेत् परिचारांश्च वस्त्रहेमाङ्गुलीयकैः | श्रीकरं विजयं पुण्यं आयुरारोग्यवर्धनम् || ३२ || एवं संपूज्य विधिवत् शिवलोके महीयते | इति चन्द्रज्ञाने शिवरात्रिव्रतकल्पविधिस्त्रयोविंशतिपटलः || प्. ११०) श्रीः अतः परं प्रवक्ष्यामि बलिदानं बृहस्पते | सर्वरोगविनाशार्थं सर्वशान्तिकरं भवेत् || १ || ग्रामवृद्धिकरं पुण्यं सर्वैश्वर्यप्रदायकम् | सर्वदेवः प्रियार्थं च राष्ट्रदुर्भिक्षनाशनम् || २ || स्वायम्भुवं दैविकं च आर्षं तु गाणपं तथा | मानुषं चैव पञ्चैतद् बलिदानं विधिः क्रमात् || ३ || सर्वातोद्यसमायुक्तं सर्वालंकारसंयुतम् | नानादीपसमायुक्तं गणिकादिभिरावृतम् || ४ || द्वारस्य दक्षिणे चैव नदीं गङ्गां च संयजेत् | द्वारस्य वामपार्श्वे तु कालां च यमुनां यजेत् || ५ || प्. ११) ऋषभं पुरतो यष्ट्वा सागस्त्यं चाग्निगोचरे | दक्षिणे भृङ्गराजं च सप्तमातृगणैर्युतम् || ६ || लम्बोष्ठं वीरभद्रं च बलिं दद्यात् स्वमन्त्रकैः | नैर्-ऋत्यां विनायकं चैव वारुण्यां सण्मुखं तहा || ७ || ज्येष्ठां वायव्यदिग्भागे सोममार्गं च संयजेत् | ऐश्यान्यां भानुमेवं स्याद् भूतनाथेशमग्रके || ८ || प्रथमे च बलिं दत्त्वा द्वितीये च विशेषतः | गोपुरं वाद्यनिश्शब्दशङ्खघोषसमन्वितम् || ९ || द्वारं प्रति विशेषेण वरिष्ठं भुजगं यजेत् | इन्द्रं चैव तथाग्निं च यमश्च नि-ऋतिस्तथा || १० || प्. ११२) वारुणं चैव वायुं च सोममीशानमेव च | नि-ऋतिं दक्षिणे विष्णुं ब्रह्माणं त्वीशवामके || ११ || सोमशंकरयोर्मध्ये क्षेत्रपालं समर्चयेत् | क्षेत्रेशस्य ब * * * * * * * नकम् || १२ || द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु | अनन्तेशस्तथा सूक्ष्मश्शिवोक्तश्चैकनेत्रकः || १३ || एकरुद्रस्त्रिमूर्तिं च श्रीकण्ठश्च शिखण्डिनः | तृतीयावरणं प्रोक्तं चतुर्थं वरणं शृणु || १४ || शिवः पशुपतिश्चात्र रुद्रश्चैव भवस्तथा | ईशानं च महादेवो भीमश्चेत्यष्टमस्तथा || १५ || प्. ११३) चतुर्थावरणं प्रोक्तं पञ्चमं वरणं शृणु | वज्रं शक्तिं च दण्डं च खड्गं पाशाङ्कुशं तथा || १६ || गदा त्रिशूलं * * * पद्मं चेति दशायुधम् | एवमावरणं चैव महापीठं पृथक् पृथक् || १७ || प्रथमादि तृतीयान्तं शाम्बरीबलिपीठकः | पृथग्देशे बलिं दत्त्वा चैव मावरणं त्रयम् || १८ || * * * * * * पीठे आमोदादीन् बलिं क्षिपेत् | द्वितीये च महापीठे बलिं दत्वाष्टमूर्तये || १९ || कर्णिकायां महाभूतं पञ्चवक्त्रे प्रदापयेत् | प्रतिमावरणं पीठं महापीठं * * * * || २० || प्. ११४) * * * यावरणे पीठे मोदादीन् बलिं क्षिपेत् | द्वितीयावरणं न्यूनं प्रथमे भूतपीठके || २१ || बलिं कृत्वा विशेषेण उत्तमा मध्यमाधमा | बलिदेवमिति प्रोक्तं बलिद्रव्यमथ शृणु || २२ || बलिं बेरसमायुक्तं अस्त्रराजसमन्वितम् | पौष्टिकं चान्नलिङ्गं च शान्तिकं चार्घ्यमेव च || २३ || अथवा बलिबेरं वा अस्त्रराजोनमेव वा | अथवा देशिकं चैव बलिदानं * * * * || २४ || * वद्यात् षोडशभागैकं दधिगोघृतप्लुतम् | गन्धं षट् द्वादशांशं तु पुष्पं पत्रं च द्रोणकम् || २५ || बलिद्रव्यमिति प्रोक्तं बलिदानं स्वाहा स्वधा | प्रातर्मध्याह्नसायाह्ने त्रिसन्ध्यां बलिमाचरेत् || २६ || अन्यासु सर्वसन्ध्यासु नाचरेत्तु बलिक्रमम् | स्नानं तु विधिना कृत्वा त्रिपुण्ड्री शुक्लवस्त्रकः || २७ || सोष्णीषं चोत्तरीयं च धायेद् देशिकोत्तमः | अर्घ्यपात्रक * * * सपवित्रकरो गुरुः || २८ || परिचारकमाहुय सोष्णीषं चोत्तरीयकम् | याने वा रङ्गके वाऽपि चन्द्रशेखरमूर्तिनम् || २९ || स्वस्यैव शिरसि न्यस्य बलिंक्रमणमाचरेत् | मार्जनं प्रोक्षणं कृत्वा देवदासी विशेषतः || ३० || प्. ११६) पुनश्शिष्योऽभिषिच्याभिः प्रोक्षयेद्देशिकोत्तमः | गन्धं षड्बिन्दुमात्रेण गन्धद्वारेति मन्त्रवित् || ३१ || पुष्पं स्वनाममन्त्रेण चार्चयेत् कर्णिकोर्ध्वतः | पाद्यं दत्त्वा पुनश्चैव अर्घ्यमन्त्रैः प्रदापयेत् || ३२ || धूपमुद्रां प्रदर्श्याथ अङ्गुष्ठं तर्जनी क्रमात् | अङ्गुष्ठानामिकायुक्तां दीपमुद्रां प्रदर्शयेत् || ३३ || मन्त्रेण शूलमुद्रां च बलिदाने विशेषतः | पानीयं च पुनर्दत्त्वा नमस्काराख्यमेव च || ३४ || उपचाराणि सर्वाणि द्वितीये तु विशेषतः | उपचारान्तरं वाऽपि पृथक् कृत्वा बलिं क्षिपेत् || ३५ || प्. ११७) बलिकाले गणांश्चैव स्वामिनं चाभिवीक्षयेत् | शुचौ देशे विशेषेण बलिं सर्वत्र दापयेत् || ३६ || पञ्चमावरणं न्यूनं द्वितीयावरणं ददेत् | द्वितीयावरणे न्यूनं प्रथमे तु विशेषतः || ३७ || एकप्राकारयुक्तं चिन्महापीठे बलिं क्षिपेत् | तत्पुष्पेत्तु दुर्गां च तत्त * * * * बुद्धिमान् || ३८ || एवं प्रदक्षिणं कृत्वा वृतं पात्रकमेव च | प्रविशेद्धाम्निकद्वारे पादप्रक्षालनं कुरु || ३९ || मूलबेरं समायोज्य चन्द्रशेखरमूर्तिनम् | पाद्यमाचमनं चार्घ्यं ददेन्नीराञ्जनं ततः || ४० || प्. ११८) गन्धपुष्पादिनाभ्यर्च्य दीपान्तं चैव कारयेत् | मूलबेरं समभ्यर्च्य प्रतिसन्धिं समाचरेत् || ४१ || पूर्वद्वारमिति प्रोक्तं पश्चिमे तु बृहस्पते | पूर्वद्वारोक्तवत् सर्वं विशेषं किञ्चिदस्ति हि || ४२ || नित्यहोमावसाने तु बलिदेवान् समर्चयेत् | बलिबेरयुतं वाऽपि प्रत्येकं वितरेद् गुरुः || ४३ || देवस्य दक्षिणे वामे नन्दिनागौ बलिं क्षिपेत् | अग्रतो वृषभं यष्ट्वा दुर्गां वायव्यगोचरे || ४४ || ज्येष्ठां सौम्ये तु संपूज्य भानुं चैशान्यगोचरेद् | चक्रस्यांशे तु भुजेव सागस्त्यं वह्निगोचरेत् || ४५ || दक्षिणे भृङ्गराजं च सप्तमातृगणैर्युतम् | प्. ११९) विघ्नेशं वीरभद्रं च बलिं दत्त्वा यथाक्रमम् || ४६ || नैर्-ऋत्यां विनायकं चैव बलिं दत्त्वा विशेषतः | प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु || ४७ || गोपुरद्वारपालाभ्यां विकिरं तु बलिं पुनः | पश्चिमे वरुणं यष्ट्वा वायव्ये वायुमेव च || ४८ || सोमे सोमं समाराध्य ईशे ईशं च संयजेत् | ऐन्द्रे इन्द्रं समाराध्य वह्निं वह्नौ तु गोचरे || ४९ || यमं याम्ये तु संपूज्य संपुजन्नै-ऋतिं तथा | नि-ऋतिं दक्षिणे विष्णुं ब्रह्माणं त्वीशवामके || ५० || सोमचारयुतं वाऽपि स्वस्वमन्त्रैर्बलिं क्षिपेत् | प्. १२०) महापीठे विशेषेण चामोदादि दलाग्रके || ५१ || कर्णिकोर्ध्वे महाभूतं पञ्चवक्त्रे प्रदापयेत् | एवं प्रदक्षिणं कृत्वा देवतं वरुणं प्रति || ५२ || द्वारदेशे समानीय पादप्रक्षालनं कुरु | बलिबेरं समभ्यर्च्य ततो नीराञ्जनं ददेत् || ५३ || त्रिसन्ध्यं च विना कुर्याद् बलिदानं बृहस्पते | अन्यथा च कृतं चेत्तु राष्ट्रदोषं भवेदिह || ५४ || बलिदानयुतं चैव कुर्यान्नित्योत्सवं ततः | नित्योत्सवं विना यत्र ग्रामं ऋद्धिं न यच्छति || ५५ || तत्ग्रामं राजराष्ट्रं च वर्ध्यतेत्तु न संशयः | प्. १२१) नित्योत्सवस्य याने तु ये नरास्तु प्रदक्षिणम् || ५६ || ते कुर्वन्ति सुखं नित्यं शिवलोकमवाप्नुयात् | एवं पूजयते भक्त्या सोऽन्ते सायुज्यमाप्नुयात् || ५७ || इति चन्द्रज्ञाने क्रियापादे बलिदानविधिश्चतुर्विंशति पटलः | प्. १२२) श्रीः अतः परं प्रवक्ष्यामि द्विजाशौचमथ शृणु | जन्माशौचं मृताशौचं दशाहे शुद्धिरुच्यते || १ || स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् | दशाहमपितुरस्ति पूत्री चेत् सहजात्मनाम् || २ || तुरीये दशरात्रं स्यात् षण्णिशा पुंसि पञ्चमे | षष्ठे चतुरहात् शुद्धिः सप्तमे तु दिनत्रयम् || ३ || अन्यगोत्रप्रविष्टानां दाममाशौचमेव च | यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः || ४ || अथवान्यप्रकारेण प्रवक्ष्यामि समासतः | पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते || ५ || प्. १२३) आशौचज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च | पितृभ्यां शैशवेऽन्यत्र दात्रार्यस्तत्र कर्म तु || ६ || उक्तभारी स एव स्यात्तस्याघमधुनोच्यते | पूर्वगोत्रेऽन्यसंबन्धं पितृभ्यां तु विना तदा || ७ || यत्क्रिया शिष्यो ह्यारभ्य वाचार्य परिचारकाः | यजमानः क्रिया पू * * * * * * * पुरा || ८ || गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् | आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् || ९ || दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् | उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् || १० || प्. १२५) संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः | स कारयेत् संस्कारादि तत्कर्माणि समाचरेत् || ११ || पश्चादांयोग्यदिनं गव्यस्नानं गव्यं कृत्वा | पुनः कर्माणि सर्वाणि कारयेच्च न संशयः || १२ || शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् | शवेन शुध्यते सूतिर्नसूतिश्शवशोधनी || १३ || सूतिकं सूतिकेनैव शावं शावेन शुध्यति | कल्पादि पञ्च दिनादिनादिकं दशदिनं गच्छेत् दिशा भाक् गमः | पूर्वस्यान्त्यं दिने यदि द्वितीवसात् शुद्ध्यत् प्रभाते क्रमात् || १३ १/२ || प्. १२६) द्विजाशौचमिति प्रोक्तं क्षत्रियाशौचमथ शृणु | जन्माशौचमृताशौचं द्वादशाहेति शुद्धिमान् || १४ १/२ || स्वगोत्रे पुत्रजातंश्च तद्गोत्राश्शौचमाचरेत् | आरभ्याहं पितुरस्ति पुत्रीचेत् सहजात्मनाम् || १५ १/२ || तुर्येकादशरात्रं स्यात् सप्ताहे पुंसि पञ्चमि | षष्ठे पञ्चदिनात् शुद्धि सप्तमेव चतुर्दिनम् || १६ १/२ || अन्यगोत्रप्रविष्टानां दायमाशौचमेव च | यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः || १७ १/२ || अथवान्यप्रकारेण प्रवक्ष्यामि समासतः | पुत्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते || १८ १/२ || प्. १२७) आशौचज्ञातिभिस्सार्धं तस्या नासीत् क्रमेण च | पितृभ्यां शैशवेऽन्यत्र पित्रोर्यस्तत्र कर्मकृत् || १९ १/२ || रुग्महारीं स एव स्यां तथा गमधुनोच्यते | पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना गदम् || २० १/२ || यत्क्रियात् शिष्यो च मारभ्य चाचार्यपरिचारकः | यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चरत् || २१ १/२ || गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् | आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् || २२ १/२ || दिक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् | उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् || २३ १/२ || प्. १२८) संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः | कारयेत् संस्कारादितत्कर्माणि समाचरेत् || २४ १/२ || पश्चादायोग्यदिनं नवकस्नानगव्यं कृत्वा | पुनः कर्माणि सर्वाणि कारयेच्च न संशयः २५ १/२ || शावाशौचे समुत्पन्ने आदिकं तु यथा भवेत् | शावेन शुद्ध्यते सूतिं न सूतिशवशोधनैः || २६ १/२ || सूतकं सूतिकेनैव शावं शावेन शुद्ध्यति || २७ || अल्पात् पञ्चदिनादिकं दशदिनं गच्छेद् दशाहाघः * * * * * * * | पूर्वस्यान्त्यदिने यदि * * * * * * * द्वितीयदिवसाश्शुद्धे प्रभाते त्र्यहात् || २८ || अयं अर्धदिनं प्रभृत्येकद्वित्रिक्रमेण वर्धयेत् | प्. १२९) क्षत्त्रियाशौचमिति प्रोक्तं ज्ञाताशौचमथ शृणु || २९ || जन्माशौचमृताशौचं त्रयोदशाहे शुद्धिमान् | सगोत्रे पुत्त्रोजातश्चेत् तद्गोत्रे चार्यमाचरेत् || ३० || त्रयोदशाहं पितुरस्ति पुत्त्री चेत् सहजात्मनाम् | तुर्योचा दशरात्रं स्यादष्टाहे पुंसि पञ्चमी || ३१ || षष्ठे रसहात् शुद्धि सप्तमे बाणदिनं क्रमात् | अन्यगोत्रप्रविष्टानां अघमौशौचमेव च || ३२ || यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || ३३ || पुत्रोर्योद्दातिमं * * * न्तस्यां शौचं विधीयते | प्. १३०) आशौचं ज्ञातिभिस्सार्धं तस्य नास्ति क्रमेण च || ३४ || पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् | वित्तहारी स एव स्यात् तथाऽयमधुनोच्यते || २५ || पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना कथम् | यत्क्रियाश्शिष्योऽथारभ्य आचार्यपरिचारकाः || ३६ || यजमानः क्रियापूर्तेः पुनराशौचमुत्पन्न चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || ३७ || * * समाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् || ३८ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | प्. १३१) संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः || ३९ || कारयेत् स तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यदिनं गव्यस्नानं पुण्याहं कृत्वा || ४० || पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || ४१ || शावेन शुध्यते सूति न सूतिश्शावशोधनी | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || ४२ || अल्पात् पन्नदिकं दशदिनं गच्छेद शु * * * * * * * मम् | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् * * * * * || ४३ || प्. १३२) अयं अर्धदिनं प्रभृति द्वित्रिक्रमेण चर्द्धियेत् | जाताशौचं प्रोक्तं गरीकगणीकाशौचं शृणु || ४४ || जन्माशौचं चतुर्दशाहेन शुद्ध्यति | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्राह्यघमाचरेत् || ४५ || तुर्यं दशाहं पुत्री चेत् तदेव सहजात्मनाम् | त्रयोदशरात्रं स्यान्नवाहे यदि पञ्चमी || ४६ || ष * * * * * * * * प्ते षड्दिनमचरेत् | अन्यगोत्रप्रविष्टानां दिवमौशौचमेव च || ४७ || यन्नास्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || ४८ || प्. १३३) तुर्यो * * * * * * स्तस्याशौचं विधीयते | आशौचज्ञातिभिस्सार्धं तस्य नास्ति क्रमेण च || ४९ || मातृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रुग्मभागी स एव स्यात् तथाघमधुनोच्यते || ५० || पूर्वगोत्रोद्भवस्यापि पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो * ह्यारभ्य चाचार्य परिचारकाः || ५१ || यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || ५२ || आशौचमाचरे * * * * * * स्नानं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || ५३ || प्. १३४) उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादि कर्माणां स्वगोत्रेन्नास्ति चेत् पुनः || ५४ || कारयेत् संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं पुण्याहं कृत्वा || ५५ || पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || ५६ || शावेन शुद्ध्यते सूतिर्न सूतिस्शावशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || ५७ || अल्पात् पञ्चदिनाकंददिनं गच्छेद् दशात् समम् | पूर्वान्त्यदिने यदि द्विदिवसार्धे प्रभाते त्र्यहात् || ५८ || प्. १३५) अयं अर्धदिनं प्रभृति एकद्वित्रिक्रमेण वर्धयेत् | रुद्रगणिकाघं प्रोक्तं देवदास्याशौचं शृणु || ५९ || जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् | स्वगोत्रे पुत्रजातिश्चेत् तद्गोत्रोह्यघमाचरेत् || ६० || पञ्चदशाहे पुत्री चेत् तद्देवसहजातानाम् | स चतुर्दशरात्रं स्याद् दशाहे यदि पञ्चमी || ६१ || षष्ठे च वसुहाश्शुद्धिस्सप्ते सप्तदिनं क्रमात् | अन्यगोत्र प्रविष्टानां दायमं चाशौचमेव च || ६२ || यत् स्नाति भर्तुराशौचं भार्यांशाश्चास्ति न संशयः | अथवान्य प्रकारेण प्रवक्ष्यामि समासतः || ६३ || प्. १३६) मातुर्योद्दात्रिमा पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || ६४ || मातृभ्यां शैशवेऽन्यत्र दात्रो यस्तत्र कर्मकृत् | रुत्थहारि स एव स्यात्तदाघमधुनोच्यते || ६५ || पूर्वगोत्रेण संबन्धं मातृभ्यां तु विना कदा | यत्क्रियाशिष्योह्यारभ्य चाचार्य परिचारकाः || ६६ || यजमानक्रियापूर्तेः पुनराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || ६७ || आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || ६८ || प्. १३७) उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं संप्रोक्षणं कृत्वा || ६९ || पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावौशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || ७० || शावेन शुध्यते सूतिर्न सूतिश्शव शोधनैः | सूतिकं सूतिकेनैवं शावं शावेन शुध्यति || ७१ || अल्पात् पञ्चदिनाधिकदशदिनं गच्छेद्दशाभाद्गमः | पूर्वस्यांतदिने यदि द्विवसात् शुद्धे प्रभाते त्र्यहात् || ७२ || अयं अर्धदिनं प्रभृति एकद्वित्रिक्रमेण वर्धयेत् | पुरुषोक्तवदाचार्य देवदास्याश्च कल्पिताः || ७३ || प्. १३८) मोक्षगोत्रास्त्वन्योन्यमाचरेदघमद्यथाः | एतत् शास्त्रं परित्यज्य चान्यशास्त्रं न चिन्तये || ७४ || देवदास्याशौचं प्रोक्तं अपारशावाशौचं शृणु | जन्माशौचं मृताशौचं चक्षुषो शुध्यति क्रमात् || ७५ || स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रेन्य च माचरेत् | पञ्चदशाहं पुत्री चेत् तदैव सहजात्मनाम् || ७६ || स चतुर्दशरात्रं स्याद्दशाहे यदि पञ्चमी | षष्ठेषु सस्यहात् शुद्धिसप्ते स क्रमात् || ७७ || अन्यगोत्र प्रविष्टानां दायमाशौचमेव च | यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः || ७८ || प्. १३९) अथवान्यप्रकारेण प्रवक्ष्यामि समासतः | पुत्रोर्यात् दात्रं पुत्रस्तस्याशौचं विधीयते || ७९ || आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च | पितृभ्यां शैशवेऽन्यत्र दत्रो यस्तत्र कर्मकृत् || ८० || रिक्षहारी स एव स्यात् तदाघमधुनोच्यते | पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा || ८१ || यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः | यजमानः क्रियापुत्रे पुराशौचमुत्पन्नं चेत् || ८२ || गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् | आशौचमाचरेत् पश्चात् कदा योग्यदिनं क्रमात् || ८३ || प्. १४०) दीक्षितानां व्रतस्थानां योगिनां च तथैव च | उत्पन्नं यदि यत्काले तद्वदाशौच माचरेत् || ८४ || संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः | कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् || ८५ || पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा | पुनः कर्माणि सर्वाणि कारयेच्च न संशयः || ८६ || शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् | शावेन शुद्ध्यते सूतिन्नसूतिश्शवशोधनैः || ८७ || सूतिकासूतिकेनैव शवाश्शावेन शुद्ध्यति | प्. १४१) अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहागमः || ८८ || पूर्वस्यान्त्यदिने वदि द्विदिवसार्धे प्रभाते त्र्यहात् | अयं अर्धदिनं प्रभृति एकद्वित्रि क्रमेण वर्धयेत् || ८९ || पारश्शवाशौचं प्रोक्तं माहेश्वराशौचं शृणु | जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् || ९० || स्वगोत्रे पुत्रजाता हेतद्गोत्रस्समाचरेत् | पञ्चादशाहं पुत्री चेत् तदैव सहजात्मनाम् || ९१ || स चतुर्दशरात्रं स्याद्दशाहे यदि पञ्चमी | षष्ठे तु सहसा शुद्धे सप्ते सप्तदिनं क्रमात् || ९२ || अन्यगोत्रे प्रविष्टानां दायमाशौचमेव च | प्. १४२) यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः || ९३ || अथवान्य प्रकारेण प्रवक्ष्यामि समासतः | पित्रोर्योदत्रिः? पुत्रस्तस्याशौचं विधीयते || ९४ || आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च | पितृभ्यां शैशवेऽन्यत्र दत्तोऽयं तत्र कर्मकृत् || ९५ || रूडहारी स एव स्यात् तथाघमधुनोच्यते | पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत् क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः || ९६ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || ९७ || प्. १४३) आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || ९८ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || ९९ || कारयेत् संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || १०० || पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || १०१ || शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावा शावेन शुध्यति || १०२ || प्. १४४) अल्पात् पञ्चदीन शाहाद्गमः * * * * | पूर्वस्यान्तदिने यदि द्विदिवसं शुद्धे प्रभाते त्र्यहात् || १०३ || अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् | माहेश्वराशौचं प्रोक्तं वैश्याशौचं अथ शृणु || १०४ || जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत् || १०५ || पञ्चदशाहं पुत्री चेत् तदेव सहजात्मनाम् | स च तु * * * * स्याद्दशाहे यदि पञ्चमी || १०६ || षष्ठे रहसात् शुद्धिः सप्ते सप्तदिनं क्रमात् | अन्यगोत्र प्रविष्टानां दायमाशौचमेव च || १०७ || यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न शंशयः | प्. १४५) अथवान्य प्रकारेण प्रवक्ष्यामि समासतः || १०८ || पुत्रोर्यो दात्रिमा पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || १०९ || पितृभ्यां शैश * * * * * यस्तत्र कर्मकृत् | रूढहारी स एव स्यात्तथाघमधुनोच्यते || ११० || पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत् क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः || १११ || यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || ११२ || आशौचमाचरेत् पश्चात् तदायोग्यदिनं भवेत् | प्. ४५६) दीक्षितानां व्रतस्थानां योगिनां तथैव च || ११३ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || ११४ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || ११५ || पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने * * * * यथा भवेत् || ११६ || शावेन शुध्यते सूतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति || ११७ || अल्पात् पञ्चदिनादिकं दशदिनं गच्छेद्दशाभाद्गमाः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || ११८ || प्. १४७) * * द्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् | वैश्याशौचमिति प्रोक्तं शूद्राशौचमथ शृणु || ११९ || जन्माशौचं मृताशौचं एकमासेन शुध्यति | स्वगोत्रे पुत्र जातश्चेत् तत्घोरक्रममाचरेत् || १२० || एकमासेन पुत्री चेत् तदैव सहजात्मनाम् | अघपञ्चदशाहं स्यादेकादशाहे पञ्चमी || १२१ || षष्ठे वा हात् शुद्धिस्सप्तवसुदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || १२२ || यद्यस्ति भुर्तुराशौचं भार्याश्चास्ति न संशयः | अथवान्य प्रकारेण प्रवक्ष्यामि समासतः || १२३ || प्. १४८) पुत्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || १२४ || पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रूढहारी स एव स्यात् तथाघमधुनोच्यते || १२५ || पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः || १२६ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || १२७ || आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || १२८ || प्. १४९) उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादि कर्माणां स्वगोत्रं नास्ति चेत् पुनः || १२९ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || १३० || पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || १३१ || शावेन शुद्ध्यते सूतिर्नसूतिश्शवशोधनैः | सूतिकस्सूतिकेनैव शावं शावेन शुध्यति || १३२ || अल्पं पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहाद् गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || १३३ || प्. १५०) अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | शूद्राशौचमिति प्रोक्तं करकोलाशौचं शृणु || १३४ || जन्ममृताशौचं त्रिंशद्दिने शुद्ध्यती वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत् || १३५ || चतुस्त्रिंशद्दिने पुत्री चेत् तदा सहजात्मनाम् | अघं षड्दशरात्रं स्याद्द्वादशाहे च पञ्चमी || १३६ || षष्ठे दशाहशुद्धिस्स्यात् सप्ते नवदिनं क्रमात् | अन्यगोत्रे प्रविष्टानां दायमाशौचमेव च || १३७ || यद्यस्ति भर्तुराशौ च भायीञ्चास्ति न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || १३८ || प्. १५१) पुत्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || १३९ || पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् | रूढहारी स एव स्यात्तथाघमधुनोच्यते || १४० || पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः || १४१ || यजमानः क्रियापूर्ते पूराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || १४२ || संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः | कारयेत् संस्कारादि तत्कर्माणि समाचरेत् || १४३ || प्. १५२) पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा | पुनः कर्माणि सर्वाणि कारयेच्च न संशयः || १४४ || शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् | शावेन शुध्यते सूतिर्नसूतिश्शवशोधनैः || १४५ || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशात् गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || १४६ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | कारकोलाशौचं प्रोक्तं भट्टार्या शौचं शृणु || १४७ || जन्ममृताशौचौ तु स्त्रिंशद्दिने शुद्ध्यती वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् || १४८ || प्. १५३) चतुस्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् | अघं षड्दशरात्रं स्यात् अर्हो दशाहे च पञ्चमी || १४९ || षष्ठदशाहात् शुद्धिस्स्यात् सप्ते नवदिनं क्रमात् | अन्यगोत्र प्रविष्टानां दायमाशौचमेव च || १५० || यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः | अथवान्य प्रकारेण प्रवक्ष्यामि समासतः || १५१ || पुत्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || १५२ || पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् | रूढहारी स एव स्यात् तथाघमधुनोच्यते || १५३ || प्. १५४) पूर्वगोतेन संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः || १५४ || यजमानः क्रियापूर्ते पुरा शौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || १५५ || आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || १५६ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कृत्वा दिनकर्माणां स्वगोत्रन्नास्ति चेत् पुनः || १५७ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || १५८ || प्. १५५) पुनः कर्माणि सर्वाणि कारयेत् च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || १५९ || शावेन शुद्ध्यते सूतिर्न सूतिश्शव शोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति || १६० || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || १६१ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | भट्टार्याशौचं प्रोक्तं शाल्याशौचं ततश्शृणु || १६२ || जन्ममृताशौचौ चतुस्त्रिंशद्दिने शुद्ध्यती वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् || १६३ || प्. १५६) चतुस्त्रिंशद्दिने पुत्री चेत् तदा सहजात्मनाम् | अघं षड्दशरात्रं स्याद्द्वादशाहे च पञ्चमी || १६४ || षष्ठे दशाह शुद्धिस्सप्ते नवदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || १६५ || यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || १६६ || पित्रो यो दात्रिमः पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धस्तस्य नासीत् क्रमेण च || १६७ || पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रूढहारी स एव स्यात्तथाघमधुनोच्यते || १६८ || प्. १५७) पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्योह्यारभ्य चाचार्यपरिचारकाः || १६९ || यजमानः क्रियापूर्ते * * शौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || १७० || आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || १७१ || उत्पन्नं यदि यत्काले द्वादशाशौचमाचरेत् | संस्कारादिकर्मणां स्वगोत्रं नास्ति चेत् पुनः || १७२ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || १७३ || प्. १५८) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || १७४ || शावे न शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || १७५ || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद् दशाहात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || १७६ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | शाल्याशौचमिति प्रोक्तं शिल्पाशौचमथ शृणु || १७७ || जन्ममृताशौचे पञ्चःस्त्रिंशद्दिनेन शुध्यति वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत् || १७८ || प्. १५९) पञ्चाशद् दिन पुत्री चेत् तदा सहजात्मनाम् | युगसप्तदशाहं स्यात् त्रयोदश दशाहेति पञ्चमी || १७९ || षष्ठे रुद्रदिनात् शुद्धिः सप्तदशदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || १८० || यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || १८१ || पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || १८२ || पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् | रूढहारी स एव स्यात् तदाघमधुनोच्यते || १८३ || प्. १६०) पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः || १८४ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || १८५ || आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || १८६ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || १८७ || कारयेत्तु संस्कारादिकर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || १८८ || प्. १६१) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || १८९ || शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति || १९० || अल्पात् पञ्चादिनाधिकं दशदिनं गच्छेद्दशाहात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || १९१ || अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् | शिल्प्यघमप्रोक्तं कुलालाशौचं शृणु क्रमात् || १९२ || जन्ममृताशौचौ पञ्चस्त्रिंशद्दिनेन शुद्ध्यति वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् || १९३ || प्. १६२) पञ्चत्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् | युगसप्तदशाहं स्यात् त्रयोदशाहे पञ्चमी || १९४ || षष्ठे रुद्रदिनात् शुद्धिस्सप्तमे दशदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || १९५ || यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || १९६ || पित्रोर्यात् दात्रिमः पुत्रः तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || १९७ || पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रूढहारी स एव स्यात् तदाघमधुनोच्यते || १९८ || प्. १६३) पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः || १९९ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || २०० || आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || २०१ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || २०२ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || २०३ || प्. १६४) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || २०४ || शावेन शुद्ध्यते सुतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति || २०५ || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || २०६ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | कुलालाघमिति प्रोक्तं राजकान्विमथ शृणु || २०७ || जन्माशौचं मृताशौचं * * * * शुद्ध्यती वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् || २०८ || प्. १६५) षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् | युगमूर्ति दशाहं स्यात् चतु * * * * * * || २०९ || षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || २१० || तदस्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्य प्रकारेण प्रवक्ष्यामि समासतः || २११ || पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || २१२ || पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रुत्थहारी स एव स्यात् तदाघमधुनोच्यते || २१३ || प्. १६६) पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाशिष्यो ह्यारभ्य चाचार्यपरिचारकाः || २१४ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || २१५ || आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || २१६ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || २१७ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || २१८ || प्. १६७) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || २१९ || शावेन शुद्ध्यते सूतिर्न सूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति || २२० || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || २२१ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | राजकाघमिति प्रोक्तं सूचिकाघमथ शृणु || २२२ || जन्माशौचं मृताशौचं षट्त्रिंशद्दिनेन शुद्ध्यती वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् || २२३ || प्. १६८) षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् | युगमूर्ति दशाहं स्यात् चतुर्दशाहे पञ्चमी || २२४ || षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || २२५ || यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || २२६ || पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || २२७ || पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रुत्थहारी स एव स्यात् तदाघमधुनोच्यते || २२८ || प्. १६९) पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः || २२९ || यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || २३० || आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || २३१ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || २३२ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || २३३ || प्. १७०) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || २३४ || शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || २३५ || अल्पान् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः | पूर्वस्यान्त्यदिने यदिद्विदिवसात् शुद्धे प्रभाते त्र्यहात् || २३६ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | सूचिकाघमिदं प्रोक्तं तैलविक्रयाशौचं शृणु || २३७ || जन्माशौचं मृताशौचं षट्त्रिंशद्दिनेन शुद्ध्यती वा | स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् || २३८ || प्. १७१) षट्त्रिंशद्दिने पूत्रीचेत् तदा सहजात्मनाम् | युगमूर्तिदशाहं स्यात् चतुर्दशाहे च पञ्चमी || २३९ || षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् | अन्यगोत्र प्रविष्टानां दायमाशौचमेव च || २४० || यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || २४१ || पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || २४२ || पित्रभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् | रुत्थहारी स एव स्यात् तथाघमधुनोच्यते || २४३ || प्. १७२) पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः || २४४ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || २४५ || आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || २४६ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः || २४७ || कार्ययेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || २४८ || प्. १७३) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || २४९ || शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || २५० || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || २५१ || अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् | तैलविक्रया शौचं प्रोक्तं ताम्बूलविक्रयाशौचं प्रोक्तं || २५२ || * * * * * ताम्बूल विक्रयाघमथ शृणु | जन्माशौचं मृताशौचं षट्त्रिंशत् दिनेन शुध्यतीव || २५३ || स्वगोत्रे पुत्र जातश्चेत् तद्गोत्राह्यघमाचरेत् || २५४ || प्. १७४) षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् | युगमूर्ती दशाहं स्यात् चतुर्दशाहे पञ्चमी || २५५ || षष्ठे भानुदिनात् शुद्धिस्सप्ते रुद्रदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || २५६ || यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || २५७ || पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च || २५८ || पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् | रुत्थहारी स एव स्यात् तथाघमधुनोच्यते || २५९ || प्. १७५) पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः || २६० || यजमानः क्रियापूर्तेः पुरा शौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्मसमाचरेत् || २६१ || आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् | दीक्षितानां व्रस्थानां योगिनां च तथैव च || २६२ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादि कर्माणां स्वगोत्रं नास्ति चेत्पुनः || २६३ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || २६४ || प्. १७६) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || २६५ || शावेन शुध्यते सूतिर्न सूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || २६६ || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशाहात्गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || २६७ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | ताम्बूलं विक्रिया प्रोक्तं गोपालाघमथ शृणु || २६८ || जन्माशौचं मृताशौचं एकमासेन शुध्यति | स्वगोत्रे पुत्रजातश्चेत् तत् गोत्राह्यघमासेत् || २६९ || प्. १७७) एकमासेन पुत्री चेत् तदेव सहजात्मनाम् | स पञ्चदशाहं स्यादेकादशाहे पञ्चमी || २७० || षष्ठे नवाहात् शुद्धिस्सप्ते वसुदिनं क्रमात् | अन्यगोत्रप्रविष्टानां दायमाशौचमेव च || २७१ || यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः | अथवान्यप्रकारेण प्रवक्ष्यामि समासतः || २७२ || पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते | आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण तु || २७३ || पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् | रुत्थहारी स एव स्यात् तथाघमधुनोच्यते || २७४ || पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा | यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः || २७५ || यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् | गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् || २७६ || आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् | दीक्षितानां व्रतस्थानां योगिनां च तथैव च || २७७ || उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् | संस्कारादिकर्माणां स्वगोत्रन्नास्ति चेत् पुनः || २७८ || कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् | पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा || २७९ || प्. १७९) पुनः कर्माणि सर्वाणि कारयेच्च न संशयः | शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् || २८० || शावेन शुध्यते सूतिर्न सूतिश्शवशोधनैः | सूतिकं सूतिकेनैव शावं शावेन शुध्यति || २८१ || अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशाहात् गमः | पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् || २८२ || अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् | गोपालाघमिति प्रोक्तं विशेषाघमथ शृणु || २८३ || उत्सवादीनि तीर्थान्तं सूतकप्रेतकन्न हि | दीक्षितस्यैकपुत्रस्य मातापित्रो मृते सति || २८४ || प्. १८०) संस्कुर्यात् यागशालायां यागशेषं समाचरेत् | तत्पुत्रस्य विशेषोऽस्ति सद्य स्नानेन शुध्यति || २८५ || दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् | जन्माशौचं मृताशौचं न कदाचन विद्यते || २८६ || विकारवयोधिक्यं वा ब्रह्मचर्यं न योग्यकम् | एतत् शास्त्रं परित्यज्य चान्यशास्त्रं न चिन्तयेत् || २८७ || यत् क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः | आचार्याश्चेत् पुरा तेषां निर्दोषमिति कथ्यते || २८८ || यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः | मूर्तयश्चेत् पुरा तेषां निर्दोषमिति कथ्यते || २८९ || प्. १८१) कर्तारश्चेत् पुरा तेषां निर्दोषमिति कथ्यते | यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः || २९० || कर्माणि श्चेत् पुरा तेषां निर्दोषमिति कथ्यते | यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः || २९१ || विशेषाघमिति प्रोक्तं प्रायश्चित्त विधिः शृणु | आरम्भस्य क्रियाकाले दोषमुत्पन्न कारयेत् || २९२ || क्रियापूर्णं तु दोषाय जिह्वाकाकबलिं क्षिपेत् | गव्येन देवकर्माणि कुर्वन्त्यतित एव तु || २९३ || स्नपनं शान्तिहोमं च कारयेद्देशिकोत्तमः | शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम् || २९४ || प्. १८२) शङ्खध्वनि समायुक्तं वाद्यघोषसमाकुलम् | त एव तु स मोहेन युद्धमेवे शयं त्यदि || २९५ || स्नपनं मूर्तिहोमं च कारयेद्देशिकोत्तमः | शुद्धान्नं दापयेत् पश्चात् पश्चात् शुद्धसमन्वितम् || २९६ || शङ्खध्वनिसमायुक्तं वाद्यघोषसमाकुलम् | पीठवृत्तं प्रभृत्येव गर्भगेहान्तमेव च || २९७ || यत्परे स्पर्शने चैव विशेषकर्मोदाहृतः | अश्मोद्वासनदूर्वे वा वेशयत्यादि एव ते || २९८ || उक्तस्थानेषु स्नपनं बेरस्पृष्टौ च कारयेत् | शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम् || २९९ || प्. १८३) शङ्खध्वनिसमायुक्तं वाद्यघोषसमाकुलम् | आशौचद्रव्यसंबन्धं कारयेद्यदि मन्त्रवित् || ३०० || ततस्तु देवपूजानां स्नपनं शान्तिहोमकम् | शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम् || ३०१ || शङ्खध्वनि समायुक्तं वाद्यघोषसमाकुलम् | आशौचविधिराख्याता सर्वशास्त्रेषु भाषितम् || ३०२ || इति चन्द्रज्ञाने आशौचविधिः विंशतिः पटलः || प्. १८४) श्रिः (महोत्सवपटलः) महोत्सवविधिं वक्ष्ये शृणुष्वैकाग्रमानसः | सर्वराष्ट्र विवृद्ध्यर्थं सदा विजयवर्धनम् || १ || सर्वरोगविनाशार्थं सर्वमतप्रियावहम् | ध्वजाङ्कुरार्पणं पूर्वं द्वितीयं चोत्सवाङ्कुरम् || २ || तीर्थाङ्कुरं तृतीयं च त्रिविधं चोत्सवान्तकम् | प्रथमं वृषयागं तु द्वितीयं देवतासनम् || ३ || तृतीयं भेरिघोषं स्याद् बलिदानं चतुर्थकम् | रोहणं पञ्चमं कृत्वा षष्ठं तु यागशालकम् || ४ || सप्तमं कौतुकं कुर्यात् अष्टमं होमकर्मणि | नवमे चोत्सवं कुर्याद्दशमं परिवेष्टकम् || ५ || प्. १८५) गणपतेः स्नानमेवोक्तं कौतुकालं कृतं भवेत् | ग्रामप्रदक्षिणं कृत्वा अपूपं कदलीफलम् || ६ || एकादशं रथारोहं द्वादशे अवरोहणम् | त्रयोदशममृ * * चूर्णोत्सवं चतुर्दशम् || ७ || तीर्थारम्भे तदन्ते च चण्डयागं तु षोडश | ध्वजावरोहणं पश्चात् शुद्धस्नानमतः परम् || ८ || गौरीयागं तदन्ते तु भक्तोत्सवमनन्तरम् | विंशद्भेदमिति ख्यातं ज्ञात्वा कर्म समाचरेत् || ९ || उत्सवं त्रिविधं ज्ञेयं पुष्कलं विजयं भवेत् | पैत्रं तु द्वादशाहं तु दशमं शैवमेव च || १० || * * * सौख्यमेवं तु उत्सवं त्रिविधं भवेत् | प्. १८६) ध्वजारोहणपूर्वे तु अङ्कुरं भेरिपूर्वकम् || ११ || अङ्कुरार्पणपूर्वे तु तद्दिने ध्वजमारभेत् | त्रिगुणे द्विगुणे काले कारयेद्देशिकोत्तमः || १२ || उत्सवं च प्रतिष्ठायां प्रदोषदिनमारभेत् | पूर्वाह्ने रविमध्ये तु सायाह्ने रोहणं भवेत् || १३ || तद्दिने तु मुहूर्तं वा एवं वापेच्च बुद्धिमान् | पूर्वाह्ने ब्रह्मवर्गस्य मध्याह्ने * * * * नम् || १४ || सायाह्ने सर्वरक्षार्थं सदा विजयवर्धनम् | ध्वजोत्थानादि तीर्थान्तं साकल्यं चेति कथ्यते || १५ || वृषध्वजं विना भौमं शेषं पूर्वदेव तु | प्. १८७) वापनान्तं समाख्यातं शान्तं तत्तद्यदृच्छया || १६ || भक्त्या केचित् काले शिवात्सवम् * * * * * * | शान्तमेवं समाख्यातं मङ्गलं तु तथोच्यते || १७ || पूर्वाह्ने वा पराह्ने वा केवलं चोत्सवं कृतम् | एतं मङ्गलमित्युक्तं त्रि * * * * * * * || १८ || सौरं च सावनं चैव चन्द्रनक्षत्रमेव च | एतच्चतुर्विधे मासे कारयेदुत्सवं तदा || १९ || सौरं सावनतीर्थान्तं सालोक्यादिफलं भवेत् | चन्द्रनक्षत्रतीर्थान्तं सर्वसंपत्सुखावहम् || २० || भास्करस्य गतिर्यावत् सौरराशौ तमेव च | प्. १८८) स्थण्डिलस्य ददेद्देवं हस्तेनैव त्रयस्तथा || २१ || पश्चात् प्रतिसरं बद्ध्वा त्र्यंबकेनैव मन्त्रतः | देवानां दक्षिणे हस्ते बन्धनं प्रतिसरस्य वै || २२ || बृहत्सामेति मन्त्रेण देव्याः प्रतिसरं तथा | मन्त्रवासस्य मन्त्रेण मन्त्रवासं ददेद्बुधः || २३ || आयुष्मान् पञ्चभिर्मन्त्रैर्घोषयेद् ब्रह्मसंघकैः | अक्षतांश्च ददेद्देवे धूपं दीपं च दापयेत् || २४ || मुद्गान्नं तड्डुकं चैव अपूपानेक भक्षणैः | सर्वोपदंशसंयुक्तं आज्यं दुग्धेन संयुतम् || २५ || मधुवाता ऋतो येति हविर्निवेदयेत् तदा | प्. १८९) पश्चात् विसृज्य निर्माल्यं * * * * * * * * त् || २६ || पश्चात् ताम्बूलकं दत्त्वा दर्पणं दर्शयेत् ततः | छत्रं च चामरं चैव दापयेत्तु विचक्षणः || २७ || ब्राह्मणान् दर्शयेच्चैव ब्रह्मजज्ञानमन्त्रतः | गौर्धेन भव्या मन्त्रेण संवत्साङ्गं प्रदर्शयेत् || २८ || नन्दीशं प्रतिसरं बद्ध्या महावाद्यं प्रताडयेत् | आहूय वाद्यकान् सर्वान् महानाड्यां च दर्शयेत् || २९ || * * * * * * * * गीतं वाद्यं च घोषयेत् | गीतं चैव समायुक्तं पूतो त्येन सनर्तकैः || ३० || शिबिकां रोपयेद्धीपान् सर्वालङ्कारसंयुतम् | प्. १९०) हर्म्य प्रदक्षिणं कृत्वा आस्थानमण्टपं विशेत् || ३१ || नृत्तगेयादि संयुक्तं रात्रौ जागरमेव च | प्रभाते विमले स्नानमाचार्यश्च समाचरेत् || ३२ || सोष्णीषं चोत्तरीयं च सर्वगन्धानुलेपनम् | सर्वाभरण संभूष्य सर्वमाल्यैपि भूषयेत् || ३३ || नटेश्वरं वस्त्रेणाच्छाद्य सर्वालंकारसंयुतम् | स्थण्डिलद्वितयं कृत्वा प्रतिमां चैकतो न्यसेत् || ३४ || आगरो कृष्णसत्गन्धैः द्वितीये संस्थिलोपरि | तस्मिन् गन्धं त्रिधा भज्य पूण्याहं वाचयेत्ततः || ३५ || गन्धशुद्ध्यर्थकंरेण देवं व्रत समाचरेत् | प्. १९१) होमयेत्तु विशेषेण अग्निकार्यं सुबुद्धिमान् || ३६ || गन्धशुध्यर्थकारेण गन्धद्वारेति मन्त्रतः | अष्टोत्तरशतं हुत्वा आज्येन समिधान्नकैः || ३७ || व्रतस्य सदृशं चैव वनपरैः मूलमन्त्रकैः | आज्येन चरुणा चैव तिलमुद्गयवैस्तथा || ३८ || लाजेन जुहुयाद्धीमान् प्रत्येकं तु शताहुतिः | होमं कृत्वा विशेषेण देशिकश्चैव बुद्धिमान् || ३९ || होमव्यापिनमेवोक्त्वा गामदत्त्वा वकुर्वतान् | * * * * * * * * गन्धं चैवाधिकं भवेत् || ४० || मासनक्षत्रमेवोक्तं जात्वैवं ह्येवमेव च | प्. १९२) प्रतिसंवत्सरं मासं तिथिं निश्चित्य ऋक्षयुक् || ४१ || आरम्भमुत्सवे हीने यथेष्टं मासि वा नयेत् | उत्तमं मध्यमं चैव कन्यसं त्रिविधं भवेत् || ४२ || * * * * र्थनक्षत्र व्यक्ता सोत्य प्रतिक्रिया | यागारम्भस्य पूर्वे तु व्यत्यासो ज्ञातये सति || ४३ || * * * * * * * * * * * * * * * * | * * * * * * * श्चा तद्भावारोपयेत् पुनः || ४४ || प्रायश्चित्तं तु कर्तव्यं शान्तिहोमं समाचरेत् | आर्द्रान्तं वैष्णवान्तं वा रोहिण्यन्ममथापि वा || ४५ || सर्वमासेषु कर्तव्यं किं कर्तव्यमिति स्मृतौ | प्. १९३) एकमासे विधानेन का * * * * * * * || १४६ || * * * * * * * * * * * * * * * * | * * * * * * * * * * * तीर्थमाचरेत् || ४७ || शिवोत्सवारम्भकाले तु नैष्टमन्योत्सवं ततः | अन्यदेवोत्सवे काले महादेवोत्सवं कृतम् || ४८ || पुरारब्धान्य देवानामुत्सवं न च दोषभाक् | तस्मात् शिवोत्सवान्मध्ये त्वारब्धस्सर्वदोषभाक् || ४९ || शिवयागं च योऽन्यं च एककाले कृतं यदि | विफलं तदवाप्नोति चैकस्मिन् न च वस्तुनि || ५० || ध्वजाध्वजं न कर्तव्यं कर्तव्यं वृषभध्वजम् | प्. १९४) देवानामपि कल्याणे नृकल्याणं न कारयेत् || ५१ || कारयेद्यदि शोकं तु व्याधिशोकमवाप्नुयात् | ग्रामे वा नगरे वापि पत्तने राजधानिके || ५२ || सर्वदेवोत्सवं कुर्याद् दोषमत्र न विद्यते | त्रिविधं उत्सवारम्भं कारयेत्तु विचक्षणः || ५३ || सप्तविंशतिनक्षत्रे ध्वजारोहणमारभेत् | अष्टाविंशद्दिनानां तु भेरीताडन पूर्ववत् || ५४ || अङ्कुरार्पणपूर्वे तु सद्योऽधिवासनं शृनु | ध्वजारोहणपूर्वे तु पश्चात् भेरीं तु ताडयेत् || ५५ || भेरीघोषणपूर्वे तु पश्चादारोहणं भवेत् | प्. १९५) अङ्कुरार्पण पूर्वं स्यात् पश्चात् भेरीं तु ताडयेत् || ५६ || एतद्दिनं समासेन एवं वै प्रथमेऽहनि | सद्योऽधिवासनं कुर्यात् तद्दिनं सर्वमेव च || ५७ || ध्वजपटलक्षणं कुर्यात् द्वादशं हस्तमेव च | दशहस्तं समायुक्तं सप्तहस्तमथापि वा || ५८ || षट्तालं पञ्चतालं वा चतुस्तालमथापि वा | त्रिपुच्छं शिखरं ज्ञेयं पुच्छद्वयसमायुतम् || ५९ || तत्पदं पञ्चधा भज्य मध्यमं वृषपालिके | श्वेतपद्मासनं युक्तं स्थितं वा शयनं तु वा || ६० || श्वेतवर्णं च धूम्रं च रक्तवर्णमथापि वा | प्. १९६) कृष्णवर्णं लिखित्वा चेत् नृपराष्ट्रं विनश्यति || ६१ || वृषभं श्वेतवर्णेन राजराष्ट्रं विवर्धयेत् | सर्वशान्तिकरं पुण्यं सर्वलोकसुखावहम् || ६२ || श्वेतवर्णं तु रूपाणां श्रीगौ चारक्तबाहुकौ | कर्णौ तु पीतवर्णं स्यात् पुच्छं तद्वर्णमालिखेत् || ६३ || कृष्णं श्वेतं तथा नीलं नयनं लेख्यमेव च | पादाग्रान् रक्तवर्णेन नीलवर्णं प्रसारयेत् || ६४ || पार्श्वे तु दीपमेवोक्तं शूलवत् कारयेद् बुधः | छत्रं च चामरे चैव स्वस्तिकं चोर्ध्वमेव च || ६५ || धूपं घण्टा इति प्रोक्तं दीपं चापि लिखेत्ततः | प्. १९७) अङ्कुरं पूर्णकुम्भं च पुष्पवत् कारयेद्बुधः || ६६ || सर्वालंकार संयुक्तं शिवज्ञानस्य कारणम् | हेत्नानयन मोक्षं च द्वितियं वृषयागकम् || ६७ || देवाग्रे स्थण्डिलं कुर्याद् अष्टद्रोणैश्च शालिभिः | पद्ममष्टदलं लिख्य तन्मध्ये कर्णिकां कुरु || ६८ || मध्यमे * * * * * * * * * * * * * * | * * * * * * * * परितोष्टौ घटा न्यसेत् || ६९ || मध्यमे वृषभं स्थाप्य लोकपालान् घटेषु च | तत्तत्स्वानाम मन्त्रेण लोकपालन् समर्चयेत् || ७० || वृष बीजेन गन्धाद्यैरचयेच्चैव बुद्धिमान् | प्. १९८) समिदाज्यचरुणां च होमयेत् द्रव्यमेव च || ७१ || जयादिरभया धानं च राष्ट्रभृच्च हुनेत् क्रमात् | पूर्णाहुतिं च शिरसा कुम्भं संस्थाप्यमेव च || ७२ || एवं मन्त्रं स * * * * * * * * * * * | * * * * * * * * * सद्वृषभदेऽपि च || ७३ || त्रिमूर्तिश्च * * * * * * * * * * * * | धूपं दीपं तु तत्काले नैवेद्यं तु निवेदयेत् || ७४ || वृषयागं समाख्यातं अस्त्रयागं ततः क्रमात् | द्वितीय मा * पूज्य तृतीयमावाहनं भवेत् || ७५ || पुण्याहं वाचयेत् तत्र कौतुकं शूलमध्यमे | प्. १९९) त्रिमूर्तिं च त्रिपत्राणां पत्रमूले त्रिशक्तिका || ७६ || पालिका गुहमेव * * * कं तत्र मेव च | चण्डेशं क्षेत्रपालं च भास्करं तु तथैव च || ७७ || महाशास्ता महाकाली महामोदी तथैव च | मातरस्सप्त ताश्चैव विघ्नेशं वीरभद्रकौ || ७८ || विद्येश्वराणां पादौ तु दण्डमूले तु पृथ्वीकाम् | शूलवत् कारयेद्धिमान् सर्वदेवप्रियार्थकम् || ७९ || गन्धं पुष्पं च धूपं च दीपमर्घ्यं च पाद्यकम् | तृतीयं पूज्य विधिवत् चतुर्थं भेरिताडनम् || ८० || सप्ततालं तु पटहं पञ्चतालं तु भेरिका | प्. २००) चतुस्तालमध्यमं प्रोक्तं त्रितालमधमं भवेत् || ८१ || समदं चर्णकं चैव देवदारुकमेव च | उशिलान्ते तरु ग्राह्य भेरिकालक्षणं भवेत् || ८२ || दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुं समर्चयेत् | मध्ये प्रजापतिं तस्य प्रहारे स्कन्दमेव च || ८३ || वासुकीमपि सूत्रे च वलये ह्यपि चन्द्रमाः | जयखण्डीं तु दैवत्य कर्मणाश्चापि रुद्रकः || ८४ || वश्यं तम्बुरुदैवत्यं वीणायां चैव नारदम् | शङ्खं चन्द्रासिदैवत्यं तिमिले दित्यदेवता || ८५ || सर्ववाद्यादिदैवत्यं आचार्यः पुष्पमेव च | प्. २०१) आहूय वाद्यकं चैव सुस्नाताश्शुद्धवस्त्रधृत् || ८६ || दीक्षिता शुद्धपरा शिवा अन्यजातीं तु वर्जयेत् | रोगिणं अङ्गहीनं च शक्तिहीनं च वर्जयेत् || ८७ || सर्वलक्षणसंपन्नो सर्वसंपत्कराय च | धूपं दीपं हृदा दत्त्वा कौतुकं बन्धयेत् क्रमात् || ८८ || यज्ञोपवीतमेवं तु उत्तरीयं च वस्त्रकम् | वाद्यकान् सर्वमेवं तु अर्चयेत् भेरिमेव च || ८९ || सप्ततालविधि प्रोक्तं आचार्यश्शिष्य एव च | भेरिघोष समायुक्तं सन्धिदेवान् समर्चयेत् || ९० || त्रिशूलं चान्नलिङ्गं च वाद्यकाले समर्चयेत् | प्. २०२) ब्रह्मजज्ञानमेवं तु पूर्वं घोरेण ताडयेत् || ९१ || इदं विष्ण्विति मन्त्रेण द्वितीयं ताडयेद् बुधः | त्रियम्बकेन मन्त्रेण तृतीयप्रहरमेव च || ९२ || वाद्यको पुष्पहस्तश्च नमस्तुत्वा च भेरिकाम् | सप्ततालविधिः प्रोक्तं आचार्यश्शिष्य एव च || ९३ || भेरीघोषसमायुक्तं सन्धिदेवान् समर्चयेत् | त्रिशूलं चान्नलिङ्गं च बलिपात्रं तथैव च || ९४ || वृषभध्वजसंयुक्तं चन्द्रशेखरमेव च | ग्रामप्रदक्षिणं कृत्वा सन्धिदेवान् समर्चयेत् || ९५ || वृषभं पूजयेत्तत्र ध्वजदण्डं विधीयते | प्. २०३) चम्पकं चन्दनं चैव क्रमुको वेणुदण्डकम् || ९६ || बिल्वं च देवदारुं च अकनं खदिरं तथा | वक्रभिन्नं च सुषिरं कृमिकोटर वर्जयेत् || ९७ || ध्वजदण्ड विमानेन उत्सेधं तु विधीयते | वक्षस्थलसमायुक्तं गुलान्तं स्थूप्यन्तमेव वा || ९८ || त्रितालस्य समं वापि गोपुरस्य समं तु वा | एकतालसमं वापि स्थूप्यन्तं वा विशेषतः || ९९ || पूर्वं विमानहीनं च शिवोत्सव निवर्तयेत् | जीर्णोद्धारकृतिं कृत्वा शिवयागं समाचरेत् || १०० || * * * * * * * * * * * * * मेव च | प्. २०४) एकविंशत्समायुक्तं दण्डोत्सेधं विधीयते || १०१ || दण्डोत्सेधविमानं हि ध्वजस्थानं विधीयते | गोपुरे पीठमध्यस्थं पीठाग्रे वा वृषाग्रगे || १०२ || महामययादिमध्ये वा ध्वजस्थानं विधीयते | हस्तद्वयं तथायामं खानयेत् पृथिवीं ततः || १०३ || स्थण्डिलं शालिभिः कुर्यात् हेमकूर्चं च विन्यसेत् | षट्तालं पञ्चतालं वा नवतालं तथोत्तमम् || १०४ || उपदण्डं समासेन ध्वजयष्ट्यन्तु दैर्घ्यकम् | त्रिविधं तत्समं कृत्वा रूपं तत् चादुवाकृति || १०५ || सुषिरद्वयान्वितं चैव अर्धं सुषिरमेव वा | प्. २०५) सन्धित्रयं तु दण्डाग्रे त्रिप्रदेशसमं तरम् || १०६ || अष्टाङ्गुलिपरीणाहं रज्जुवत् कारयेद् बुधः | वलयं रज्जुवलयं द्विगुणं मूलमाशृतम् || १०७ || दर्भमालां समविष्ट्य वेदिकालक्षणं शृणु | हस्तद्वयं तु विस्तारं उत्सेधं हस्तमानतम् || १०८ || त्रिमेखलासमायुक्तं एकैकं पर्वताङ्गुलम् | मध्यमे कर्णिकां कुर्यात् कल्पयेत् कल्पवित् सुधीः || १०९ || एकमेखलयुक्तं वा कर्णिकामध्यमे न्यसेत् | उपवेदिसमं रक्तं त्रियङ्गुलं च तत्समम् || ११० || गोमयालेपनं कृत्वा शिल्पिमुद्वासयेत्ततः | प्. २०६) पञ्चगव्येन शुद्धेन जलसंप्रोक्षणं कुरु || १११ || दण्डमूले ब्रह्मतत्त्वं मध्यमे विष्णुतत्त्वकम् | अग्रे तु रुद्रतत्त्वं स्यात् शिवतत्त्वं पटे च तु || ११२ || दण्डे तु सव्यदेवानां इत्येवं कल्पयेत् सुधीः | पूर्वे तु कुम्भसंस्थाप्य दण्डमूलेऽभिषेचयेत् || ११३ || वृषगायत्रिमन्त्रेण लोकपालान् स्वमन्त्रकैः | दिक्तालपादयेच्चैव नृत्तं गीतं च वाद्यकैः || ११४ || धूपदीपं तदा दत्त्वा नैवेद्यान्तं निवेदयेत् | मद्गान्नं लड्डुकं सर्वं कदलीफलमेव च || ११५ || कपित्थं फलमात्रेण पिण्डं तद्दशमेव च | प्. २०७) सुमङ्गल्यावृतं चेत्तु पुत्रवत् कारयेत्ततः || ११६ || अमङ्गल्यकन्यकानां तु कर्तव्यं न कदाचन | सर्वघोषसमायुक्तं षड्विधं पूजयेत् ततः || ११७ || सप्तमां यागशालां तु यागशालां विधीयते | षोडशस्तम्भमेवं तु द्वात्रिंशस्स्तम्भमेव वा || ११८ || चतुस्तम्भसमायुक्तं मण्टपं कारयेत् ततः | मध्यमे वेदि संस्थाप्य कुण्डान् संकल्पयेत् सुधीः || ११९ || नवग्निमुत्तमः प्रोक्तं पञ्चाग्निं मध्यमे भवेत् | एकान्निरधमां विद्यात् कल्पयेत्तु विचक्षणः || १२० || गोमयालेपनं कृत्वा पर्यग्निकरणं कुरु | प्. २०८) दर्भमालिं तु संवेष्ट्य वितानोपरि शोभितम् || १२१ || युगतोरणसंयुक्तं चतुर्दिक्षु प्रकल्पयेत् | अष्टमङ्गलमेवं तु वेदिवाह्ये तु पूजयेत् || १२२ || शङ्खं च दीपमेवं च स्वस्तिकं चामरौ तथा | वृषभं पूर्णकुम्भं च दर्पणं लक्ष्मीं तथा || १२३ || दशायुधधरादेव कुम्भबाह्ये तु पूजयेत् | मध्यमे शिवकुम्भं तु वर्धनीं तु तदोत्तरे || १२९ || अभितोऽष्टौ घटं पूज्य लोकपालान् समर्चयेत् | चतुर्द्वारसमोपेतं द्वारकुम्भं तु पूजयेत् || १३० || ऐशान्ये कुम्भसंस्थाप्य अष्टविद्येश्वरावृतान् | प्. २०९) यद्वाराभिमुखं लिङ्गं तद्द्वारं कुम्भपूजयेत् || १२६ || पूर्ववत् स्थान संकल्प्य द्वारादीन् पूजयेत्ततः | निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च || १२७ || निवृत्तिः पूर्वतः पूज्य प्रतिष्ठां दक्षिणे तथा | विद्यां वै पश्चिमे पूज्य उत्तरे शान्तिमेव च || १२८ || द्वारतोरण संपूज्य चतुर्वेदांस्तु पूजयेत् | वेदिकां वेदिमूर्तिं तु चोपवेदी समुद्रिका || १२९ || आयुधं सर्वदैवत्यं मङ्गले न्यष्टसुन्दरी | यागेशं पूजयेत्तत्र उमास्कन्देश्वरं यजेत् || १३० || मण्टपाग्रे सुसंस्थित्वा कौतुकं बन्धयेत्ततः | प्. २१०) स्वर्णसूत्रं विशेषेण अथ कार्पासमेव च || १३१ || नववस्त्रेण संयुक्तं भस्मकूर्चं तु विन्यसेत् | परिचारहस्तसंयुक्तं प्राकारे तु प्रदक्षिणम् || १३२ || देवसंनिधिसंप्राप्ते पुण्याहं वाचयेत्ततः | त्रियम्बकं सुमन्त्रेण रक्षासूत्रप्रबन्धनम् || १३३ || धूपदीपसमायुक्तं होमकर्म समाचरेत् | ब्राह्मणान् भोजयेत्तत्र भक्तानां भोजयेत्ततः || १३४ || नैवेद्यं दापयेत्तत्र ताम्बूलं तु सुयोजयेत् | भेरीताडनमारभ्य ग्रामे तु बलिसंग्रहे || १३५ || ग्रामप्रदक्षिणं कृत्वा उमास्कन्देश्वरो भवेत् | प्. २११) दीपयन्त्रं तदन्ते तु डोलायन्त्रं तदन्तके || १३६ || वाजियन्त्रं ततः पश्चात् गर्भयन्त्रं नृवाहनम् | नानादीपसमायुक्तं नानाभक्तजनैर्युतम् || १३७ || नानाध्वज समायुक्तं नानाछत्रसमायुतम् | शङ्खकाहलसंयुक्तं भेरीघोषसमायुतम् || १३८ || गच्छेयुर्लिखित्वा तु यन्त्रदन्तिमनन्तरम् | यन्त्राश्वा यन्त्रवाद्यं च यन्त्रनृत्तमनन्तरे || १३९ || नदीशमुत्तरे वा पूरो वापि प्रकल्पयेत् | भक्ताश्चापि तदन्तेषु ब्राह्मणानामनन्तरे || १४० || नृपाणां त्वपरे भागे नृणा ज्ञानामनन्तरे | प्. २१२) रुद्राणामपरे गत्वा पाषण्डीनामन्तरे || १४१ || समधीना महासेना बलिद्रव्यापनं क्षिपेत् | चन्दनं चाक्षतं पुष्पं धूपदीपं तथैव च || १४२ || पाद्यमाचमनं चार्घ्यं पात्रे पात्रे निधाय च | दिनं प्रति बलिद्रव्यं बलिपात्रे विनिक्षिपेत् || १४३ || लड्डुकं चैव मुद्गान्नं गुलसक्तुं तिलं तथा | प्रथमेऽहनि दातव्यं द * * * * * न्त्रतः || १४४ || लोकपालान् स्वनामेन बलिं नित्यं ददेत् क्रमात् | निशापूर्णं च पद्मे च पायसं तिलसंयुतम् || १४५ || द्वितीयदिवसे चैव ब्रह्ममन्त्रमनुस्मरन् | २१३) प्रिया घृतान्नपिष्टं च का * * * लमेव च || १४६ || तृतीयेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् | निशिपूर्णं नालिकेरघृतान्नं सरलं तथा || १४७ || चतुर्थे दिवसे चैव गान्धर्वं च मनुस्मरन् | प्रियङ्गुघृतमिश्रं च * * * * * * * * || १४८ || प्. २१४) * * * * * * * * नां दोष पृष्ठे तु सेव | पानीयं मुखवासं च ताम्बूलं हस्तमेव च || १४९ || आचार्यो दापयेत्तत्र सव्यहस्तेन दापयेत् | सव्यपाद्यसमायुक्तं रुद्रस्य गणिका भवेत् || १५० || सर्वालंकारसंयुक्तं सर्व * * * * युगम् | मृगयात्रा * * * * * * * * * * * * || १५१ || मूले शूलं तथा बिम्बं * * * * * * * * | बन्धयेत्तत्र कुर्वीत स्थण्डिलोपरि विन्यसेत् || १५२ || अष्टद्रोणैस्तु शालिभ्यां तदर्धैस्तण्डुलैस्तिलैः | हिरण्यकूर्चवस्त्रेण पूजयेद् गन्धपुष्पकैः || १५३ || प्. २१५) स्नात्वा शुद्धोदकेनैव बीजमुख्येन मन्त्रतः | त्रिगन्धेषु त्रिव * * * * * * * * * * || १५४ || अपरे दिवसे रात्रौ पूजयेन्मूललिङ्गकम् | कुम्भान् कुण्डाग्नि संयष्ट्वा गन्धादीन् पूर्ववत् क्रमात् || १५५ || पूर्णाहुतुं ततः कुर्यात् शेषद्रव्याणि देशिकः | अग्निमूर्तिं विसृज्याथ पूजयेद्यागमूर्तिपान् || १५६ || यागेशान् शास्त्रराजान मि प्रासादं तु प्रदक्षिणम् | प्रविशेत् गर्भगेहं तु स्थापयेत् स्थण्डिलोपरि || १५७ || लिङ्गशुद्धि * * * * * * * * * * त्ततः | यागेशं पूजयेल्लिङ्गं वर्धनीं पिण्डिकोपरि || १५८ || प्. २१६) परितोषघटानष्टौ विन्यसेत्तु दलाग्रतः | स्नपनं तु ततः कुर्यात् अष्टोत्तरशतेन तु || १५९ || प्रभूत हविषं दत्त्वा ताम्बुलं तु निवेदयेत् | चण्डेशं पूजयेत् रात्रौ चण्डगायत्रीमुच्चरन् || १६० || स्नपनं नवकुम्भेषु स्नापयेत् तु विशेषतः | चण्डाग्रे होममेवं तु चण्डगायत्रिमन्त्रतः || १६१ || वृषस्य तु वृषायेति वृषदेवं प्रपूजयेत् | वृषगायत्रिमन्त्रेण ध्वजमूले समर्चयेत् || १६२ || वास्तुदेवान् बलिं दद्यात् यथापूर्ववदेव तु | विसर्जयेत् क्रमेणैव तत्तद्वास्तु वदन्तरे || १६३ || प्. २१७) चण्डेशं पूजयेत् पश्चात् हविषं तु निवेदयेत् | अपरे दिवसे चैव मूललिङ्गं तु पूजयेत् || १६४ || नित्यपूजा तथारभ्य मौनं हस्तमनर्चयेत् | तस्यान्ते स्नपनं कुर्यात् शुद्धस्नानमनन्तरम् || १६५ || महाहविषं ततः कुर्यात् * * * * * * * | प्. २१८) * * * * * * * * * वज्रं पूजयेत्ततः || १६६ || भक्तानां परिचाराणां पूजयेत्तु विशेषतः | प्. २१९) यथा विभवविस्तारं राजा सर्वान् प्रपूजयेत् || १६७ || शिवोत्सवमिति ख्यातं प्रत्यब्दं कारयेत् ततः | आयुष्यं विभवं पुत्रान् पौत्रान् सर्वान् विवर्धयेत् || १६८ || राजा राष्ट्रहितं सर्वं भुक्तिमुक्ति सुखावहम् | शिवसायुज्यमाप्नोति शिवोत्सव प्रभावतः || १६९ || इति चन्द्रज्ञानभेदे देव्या मते महोत्सवविधिः पटलः || हरिः ओम् || प्. २२०) श्रीः कामिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिम् | एकाहमेव दाहान्ते ईशादिस्त्रिभिरेव च || १ || तदर्धं तर्पणं कुर्यात् तदर्धं पूजयेत् शिवम् | ज्ञानरत्नावलाः | अथा * * * * नं च कथ्यते पेशतोऽधुना || २ || अत्रोत्क्रान्त्यापिपन्नो यो योगिनिर्दिह्यकल्मजः | तस्य मन्त्रमयं शुद्धं दहेद्देहं शिवाग्निना || ३ || न च पिण्डक्रिया कार्या न च चैवोदक क्रिया | किं तु शिष्यैस्तदा कार्यं अनृणार्थं शिवार्चनम् || ४ || प्. २२१) * * * * * * * * * तत्त्वज्ञानदर्शनम् | अथातस्संप्रवक्ष्यामि तत्त्वज्ञाननिदर्शनम् || ५ || सृष्टिक्रमं च संहारं स्थिति भेदमिदं परम् | प्. २२२) अवस्थादर्शनं चैव अर्थपञ्चकमुच्यते || ६ || षट्त्रिंशत्तत्त्वभेदं च पशुपाशमिति स्मृतम् | पतिज्ञानं च सायुज्यं आत्मलाभं तथा भवेत् || ७ || इत्येवं दश भेदानि क्रमेणैव तु चोच्यते | परापरं पराशक्तिः कुटिलोत्पन्ननादकम् || ८ || नादाद् बिन्दुस्समुद्भूतः बिन्दोत्पन्नस्सदाशिवम् | सदाशिवोत्पन्न ईशं तु शुद्धविद्या ततोत्भवेत् || ९ || पूर्वबिन्दुसमुद्भूता सूक्ष्मा वैखर्यान्तकम् | वैखरीवर्णमुत्पन्नं वर्णो मन्त्रास्ततोत्भवाः || १० || सप्तकोटिमहामन्त्रैश्शास्त्रजालं ततोदितम् | प्. २२३) तत्त्वं सृष्टिं च शब्देषु शुद्धतत्त्वं च वर्धते || ११ || अनन्तदेवकृपया अथो मायासमुद्भवाः | कालं नियतिश्चोत्पन्नं कला विद्या च रागकः || १२ || रुद्रदेव कलोत्पन्ना प्रकृतिस्त्रिगुणोद्भवा | प्रकृत्या चैव अव्यक्ते चित्तबुद्धिसमुद्भवः || १३ || बुद्धेरुत्पन्नेऽहंकारमहंकारस्त्रिधा भवेत् | तैजसो वैखरीभूतं त्रिविधं नाममुच्यते || १४ || तैजसस्सात्त्विकगुणो मनो ज्ञानेन्द्रियोद्भवः | अहंकारे वैखरीयुः कर्मेन्द्रियसमुद्भवः || १५ || तामसे भूताहंकारे तन्मात्रं च समुद्भवः | प्. २२४) शब्दे आकाशमुत्पन्नं स्पर्शे वायुस्तथोदितः || १६ || रूपे गुणाग्निस्संभूतं राजसे जलमुद्भवम् | गन्धे मही समुद्भूत तत्त्वकार्ये न चेष्टितम् || १७ || पुनस्तत्त्वेषु बन्धेन गन्धे पृथ्वीं वियोजयेत् | सलिलं रसबन्धेषु रूपेणाग्निं सुयोजयेत् || १८ || स्पर्शे तु वायुमिश्रं च आकाशं शब्दसंपदे | शब्दादि पञ्चतन्मात्रं रूपेऽहंकार बन्धयेत् || १९ || कर्मेन्द्रियं च पञ्चैते राजसे वैखरीयुते | ज्ञानेन्द्रियं च पञ्चैतेऽहंकारस्तैजसे गते || २० || भूतादि वैखरी चैव तैजसं बुद्धि चित्तयुक् | प्. २२५) चित्तक्षेत्रज्ञ युक्तेषु पञ्चविंशतिरागके || २१ || रागविद्या कला नियति काल तत्त्वेषु बन्धयेत् | शास्त्रजालं च मन्त्राणि मन्त्रे वर्णेषु योजयेत् || २२ || वर्णाणि वैखरीयुक्ते वैखरीमध्यमायुते | मध्यमा चैव पश्यन्ति पश्यन्ती सूक्ष्म योजयेत् || २३ || सूक्ष्माश्चतस्रो वाग्रूपा पूर्वबिन्दु सुयोजयेत् | शुद्धविद्या शिवान्तानि कुटिले योजयेत्ततः || २४ || पराशक्ति परे युक्तो शृवं तत्त्वानि योजयेत् | सृष्टिसंहारमेवोक्तं स्थितिक्रममथोच्यते || २५ || परश्शिवः परोत्भूतः इच्छाज्ञानक्रियात्मिका | प्. २२६) पूर्वकर्म * * * * * ष्ठाग्नि चक्रवद्भ्रमात् || २६ || व्योमादिपञ्चभूतानि श्रोत्रादीनि ह्यधिष्ठितम् | शब्दादि पञ्चतन्मात्रं वर्तते धामसन्निधौ || २७ || वागादिकर्मपञ्चानि वचनादीनि वर्तते | मनो बुद्धिरहंकारं चित्तं चैव चतुर्थकम् || २८ || निश्चय * * गव्यं च चिन्तनं तत् क्रिया बिदुः | आत्मतत्त्वमिति ख्यातं दर्शनं च ततः शृणु || २९ || भूतं भव्यं भविष्यश्च वर्तते कालतत्त्वकम् | नियतिर्निश्चयं कुर्यात् कलान्नीत्वा क्रियोत्भवा | विद्या ज्ञानादिकं चैव रा * * * * * * * || ३० || प्. २२७) विषयादि पञ्च चेष्टन्ते साक्षित्वं पुरुषं भवेत् | माया चित्तं भ्रमं कुर्यात् * ग काण्डमिति स्मृतम् || ३१ || ज्ञानाधिक्यं क्रियान्यूनं शुद्धविद्या च तत्त्वकम् | ज्ञानसूक्ष्मं क्रियाधिक्यमीशतत्त्वमिति स्मृतम् || ३२ || * * * * * * क समं सादाख्यं च ततो विदुः | शक्तितत्त्वं क्रियोत्पन्नं शिवतत्त्वं ततोऽधिकम् || ३३ || प्रेरकाण्डं च पञ्चैते शिवतत्त्वमिति स्मृतम् | स्थूलं सूक्ष्मं परं चैव षट्त्रिंशत् तत्त्वदर्शनम् || ३४ || माया * * * * * ञ्च सत्यन्तं सूक्ष्मरूपकम् | शिवतत्त्वं परं चैव गुरुवक्त्रे प्रदर्शयेत् || ३५ || प्. २२८) षण्णवत्याधिके तत्त्वे चक्रवत् भ्रमते सदा | विश्राम्यं च तदात्मा च पञ्चावस्थाक्रियोद्भवाः || ३६ || जाग्रत्स्वप्न सुषुप्तिश्च कुर्याव्योमेति पञ्चधा | ललाटे कण्ठहृदये नाभिलिङ्गावसानकम् || ३७ || अधो भागं च वर्तन्ते पञ्चावस्था ततश्शृणु | श्रोत्रादिपञ्चकं चैव शब्दादि पञ्चकं भवेत् || ३८ || वागादि पञ्चतत्त्वानि वचनादीनि पञ्चधा | प्राणादि दशवायुश्च मनादि पुरुषपञ्चयुक् || ३९ || पञ्चत्रिंशति वर्तन्ते जाग्रत् स्थाने ललाटके | प्राणादि वायुभिश्चैव शब्दमादिकं दश || ४० || प्. २२९) करणं च चतुर्थं च पञ्चविंशतिकण्टके | जाग्रे विषयभोगं च वासना स्नपनमेव च || ४१ || अयसाग्नि समायोगे विदग्निरिव वायु च | चित्तप्राणौ च क्षेत्रन्यो हृदये च सुषुप्ति हि || ४२ || स्पप्नं च विस्मृतिजाग्रे सुषुप्तिं चैव दर्शयेत् | आत्मप्राणश्च कुर्ये तु वर्तते नाभिमूलके || ४३ || स्वप्नं नास्ति श्रुतं नास्ति स्तुर्याभावस्स मुच्यते | लिङ्गमूले तु क्षेत्रज्ञो तुर्यातीतन्नमश्यते || ४४ || स्थूलं सूक्ष्मं सुसूक्ष्मं स्यात् अतिसूक्ष्मं ततोऽधिकम् | चतुरङ्गबलो मन्त्री राजाचान्तःपरं गतः || ४५ || प्. २३०) इत्येवं पञ्चधाऽवस्था जीवात्मा च वहन्नृपः | अथोऽवस्था च इत्येवं मध्यावस्था ततः शृणु || ४६ || जाग्रस्थाने ललाटे तु अतीतान्तानि दर्शयेत् | अथोवस्था च मध्या च ज्ञात्वा चैवं विचक्षणः || ४७ || शुद्धतत्त्वानि पञ्चैते चतुस्त्रीणि द्व्येकशः | परासंस्था इति ज्ञेया जाग्रादीनां च भावयेत् || ४८ || एवं पञ्चदशावस्था त्रिधावस्था च संयुतम् | केवलस्सकलो शुद्धो दर्शनं च ततश्शृणु || ४९ || जाग्रावस्थादि तुर्यान्तं सकला च इति स्मृतम् | अतीतं केवलावस्था शुद्धा च स्मरसीयुता || ५० || प्. २३१) अधोभागं च मध्यं च ऊर्ध्वभागं त्रिधा भवेत् | मायावस्था च एवोक्तं जाग्रद्दृश्यं ततश्शृणु || ५१ || शिवादिश्च कलादिश्च मनादी च चतुष्टयः | श्रोत्रादि एकतत्त्वं च शब्दादि एकसंयुतम् || ५२ || तत्त्वमष्टादशायुक्तो जाग्रत्कालेषु दृश्यते | शिवसन्निधिमात्रे तु आत्मानं वर्तते सदा || ५३ || जाग्रत् स्थानेषु दृश्यन्ते योगान्न्यासेन बुद्धिमान् | जागे दृश्यप्रवृत्तिश्च प्रत्याहारेण शाम्यति || ५४ || धारणेन जयेत् स्वप्नं ध्यानेनैव सुषुप्ति हि | समाधिना तु तुर्यं तु तुर्यातीतं शिवेन तु || ५५ || प्. २३२) सद्गुरोरुपदेशेन स्वप्रकाशेन निश्चलम् | इत्येवं निर्मलावस्था अर्थपञ्चकमुच्यते || ५६ || मलं कर्मा च माया च महामाया तिरोधकम् | अर्थपञ्चकमेवोक्तं प्रत्यक्षं लक्षणं शृणु || ५७ || इच्छाज्ञान क्रियारूपि आत्मबोधन्न दृश्यते | ताम्रकालीकवत् कृत्वा आणवं शक्तिरुच्यते || ५८ || प्रारब्धं संचितं चैव आगामि च त्रिरूपकम् | माया च वस्तुरूपाणि चित्तभ्रम इति स्मृताः || ५९ || निष्कलं शिवभेदं च नादबिन्द्वादिकारणम् | तनुज्जारणविज्ञाने महामाया इति स्मृताः || ६० || प्. २३३) आत्मा च शिवयोर्मध्ये दर्पणं च य पार्श्वयुक् | द्रव्यदृश्यात्मपक्वं च तिरोभाव इति स्मृतः || ६१ || एवं पञ्चमलं नीत्वा शक्तिपादं ततश्शृणु | पुण्यपाप समायुक्तो शिवशक्तिनिपाततः || ६२ || तेषां लिङ्गं च विज्ञानं मुक्तौ पुंसत्वमेव च | द्वेष्यं त्यवस्थितिभावो शिवभक्तेषु भक्तिभिः || ६३ || तच्चासनेषु श्रद्धा च ज्ञानाचार्येण वाञ्छितः | रविसन्निधिमात्रेण सूर्यकान्तोऽग्निरुद्भवः || ६४ || गुरुसन्निधिमात्रेण शिष्यज्ञानं प्रकाश्यते | मन्दं मन्दतरं चैव तीव्रं तीव्रतरं भवेत् || ६५ || प्. २३४) कदली चार्द्रकाष्टं च इन्धनं मूलमेव च | पक्वापक्वं चतुर्भेदं ज्ञात्वा भेदेन बुद्धिमान् || ६६ || ज्ञानं योगः क्रिया चर्या सोपानं मोक्षदं पदम् | चर्यापादः क्रियापादः दासो * * वमुच्यते || ६७ || शिवोऽहं भावयोगं च सायुज्यं ज्ञानपादकम् | एवं शैवागमे मुख्यं पाशात् पशुपतिक्रमात् || ६८ || तत्र मन्त्रोपदेशं च त्रिविधं भेदमुच्यते | बाह्यभावं मनोभावं अन्तर्भावमिति स्मृतम् || ६९ || त्रिशू * * * * लं च मनोभावं च मन्त्रकम् | अन्तर्भावोपदेशं च पाशः पशुपतिर्भवेत् || ७० || प्. २३५) निष्कलं च निराधारमाधारं चात्र योगकम् | लयाविकारभोगं च मणिमन्त्रौषधं भवेत् || ७१ || इत्येव * * * * * * * * र्थेन दर्शयेत् | तत्सारं संप्रवक्ष्यामि शृणुष्वेकाग्रमानसः || ७२ || षट्त्रिंशत् तत्त्वभेदं च पाशज्ञानमिति स्मृतम् | तत्त्वातीतं च यत् प्रोक्तं आत्मज्ञानमितिर्भवेत् || ७३ || एकमेव द्वयोर्ज्ञानं * * * * * * * * | इत्येवं त्रिविधं ज्ञात्वा सायुज्यं भवति ध्रुवम् || ७४ || ज्ञानपाशः पशोर्भावः पतिज्ञान समाश्रयम् | सप्तधातुमयं देहो ह्यनित्यश्च यथा विदुः || ७५ || प्. २३६) व्योमादिपञ्च भूतानां नश्यते भावयेत् बुधः | * * * * * तानीत्या शब्दादीनां तु चेष्टितम् || ७६ || करणं त्वापरं तीत्वा कालादिज्ञान नश्यति | गुणत्रयं ततो भिन्नं शुद्धविद्या सदाशिवम् || ७७ || नश्यन्ते प्राणवायुश्च बिन्दुशक्तिगतो भवेत् | देहज्ञानेन्द्रिय * * * * * गुणवायु तम् || ७८ || एवं पञ्चाभिमानं च पञ्चावस्था च दर्शयेत् | तत्त्वादिशक्तिपर्यन्तं तत्त्वानि सह भावयेत् || ७९ || तत्त्वज्ञानं जीवभावं नित्या तु शिवतत्त्वकम् | एवं षट्त्रिंशतत्त्वानि नश्यन्ते दर्शनं च यत् || ८० || प्. २३७) तत् ज्ञानं त्मदर्शनं च पतिज्ञानं तदुच्यते | तत्त्वातीतं यत् ज्ञानं तत्ज्ञानं परजाग्रजम् || ८१ || विश्वभक्षण मेवोक्तं तत्भावं परस्वप्नकम् | तत्ज्ञानं वेदशान्तिं च सुषुप्तिः परमेव च || ८२ || दशत्रियं ततो नीत्वा स्वप्रकाशं गुरो पदम् | पतिज्ञानमिति प्रोक्तं सायुज्यं च ततश्शृणु || ८३ || तत्पदं शिवरूपं च त्वत्पदं आत्मभावकम् | असिशब्दं च सायुज्यं तत्त्वज्ञानमिति स्मृतम् || ८४ || वेदान्तं यत् परं सूक्ष्मं सिद्धान्तं च ततो विदुः | समंरसी भावमेवोक्तं मातृभावमथोच्यते || ८५ || प्रा * भावमुत्सृज्य शिवोऽहमिति भावयेत् | सर्वचिन्ताविनिर्मुक्तः एकेनैव विवर्जितम् || ८६ || पादाङ्गुष्ठा * मूर्धा तं स्थानं ध्यानविवर्जितम् | आकारं च निराकारं वाच्यवाचकवर्जितम् || ८७ || ज्ञात्वा शिवमयं मध्ये ज्योति * क्षि प्रकाशिते | श्रोत्रं नास्ति श्रुतिस्तत्र चक्षुर्नास्ति स पश्यति || ८८ || घ्राणं नास्ति सुगन्धिं च वाग्विना वचनं तथा | जिह्वा नास्ति रसं गृह्य त्वक्विना स्पर्शनं विदुः || ८९ || पाणिं नास्ति स गृह्णाति पादौ नास्ति स गच्छति | मनो नास्तीति संकल्प्य त्रैलोक्यं सचराचरम् || ९० || २३९) प्रकृतिर्विना महापुरुषो जगन्नास्तीति चेष्टितम् | चराचरमिदं सर्वं वेष्टते भुजते सदा || ९१ || ब्रह्मादि स्तम्भपर्यन्तं परिपूर्णेन चेष्टितम् | ज्योतिरूपं परं दिव्यं प्रलयाम्बु पूरितम् || ९२ || गुह्यं पवित्रमाग्राह्यमानन्दमचलं ध्रुवम् | सर्वतत्त्वविनिर्मुक्तमप्रतर्क्यमचिन्तनम् || ९३ || तन्मध्ये कुरुचात्मानं आत्ममध्ये च तं कुरु | साक्षात् शिवमयं कृत्वा न किंचिदपि चिन्तयेत् || ९४ || ज्ञातृज्ञानं गुरुश्शिष्यं ज्ञेयं चैव तु वर्जयेत् | निष्कलं शिवमातत्त्वं तन्मयामामलाभकम् || ९५ || प्. २४०) इत्येवं स्वप्नभूतिं च मौनमुद्रां प्रदर्शयेत् | तद्ध्यानं तज्जपं पूजा होमकार्यन्न साधनम् || ९६ || तीर्थपात्रवितानं च वर्णाश्रमविवर्जितम् | सन्न्यासी सर्वकर्माणि शिवमेव तु भावयेत् || ९७ || दिग्देशस्थानकालं च आसनं चैव वर्जयेत् | तिष्ठन् गच्छन् स्वपन् जाग्रन् स्त्रीसङ्गे भोजनेऽपि च || ९८ || वातशीतोष्णकालेषु भयदारिद्र्यरागके | गर्वक्रोधमनोभावो ज्ञानाज्ञान इति भ्रमे || ९९ || सर्वदा सर्वकालेषु शिवभावेन निश्चलम् | गुरुपादात् परं नास्ति आत्मलाभात् परोदयम् || १०० || प्. २४१) तस्माद् गुरुपदार्थं च पूर्णभावपरोदयम् | सृष्ट्यादि आत्मलाभान्तं दशभेदं क्रमोच्यते || १०१ || सद्गुरोरुपदेशेन दर्शयेज्जीवमुक्तिकः | गुरुरूपं परं ज्ञानं गुरुरूपं परं शिवम् || १०२ || गुरुरूपं परं ज्योतिर्गुरुरूपं परात्परम् | ध्यानरूपो गुरो मूर्ति पूजाभावो गुरोत्पदम् || १०३ || मन्त्रमूलो गुरोर्वाक्यं मूर्तिमूलो गुरोः कृपा | गुरुः पिता गुरुर्माता सर्वं गुरुमयं विदुः || १०४ || तस्माद् गुरुं शिवं पश्येत् सायुज्यं भवति ध्रुवम् | शैवराजेन्द्रतत्वज्ञो शिवभावेन राजितम् || १०५ || प्. २४२) नवतत्त्वज्ञदर्शनं महात्मानं क्रमाद्विदुः | शास्त्रार्थं गुरुवाक्यं च स्वानुभूत्या समं विदुः || १०६ || मनोवाक्काय इत्येतदपराधं क्षमस्व मे | श्रीमूल शिवपादार्थदर्शनं तत्प्रभावतः || १०७ || दृश्यं दृश्यभावं च दृश्यं चैव परोदयम् | इति चन्द्रज्ञाने ज्ञानदर्शनपटलः समाप्तम् || एस् आर् शिवसुब्रह्मण्यंशास्त्रिणः ########### END OF FILE #######