#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00601 Uniform title: caturvedārthatātparyasaṃgraha Manuscript : IFP transcript T01061 copied from a MS belonging to G. Swaminatha Gurukkal Description: viraśaiva text. Notes: Data-entered by the staff of Muktabodha under the direction of Dr. Anirban Dash. Revision 0: August 22, 2021 Revision 1: March 27, 2022 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### इfप् त्रन्स्च्रिप्त् १०६१ || चतुर्वेदार्थतात्पर्यसऽऽन्ग्रहः || पृ० १) यस्मै नमो भवति यस्य गुणाः समग्राः नारायणोपनिषदा यदुपासनोक्तम् | यो नः प्रचोदयति बुद्धिमरिक्षतौ य- स्तं त्वामनन्यगति ईश्वर संश्रयामि || १ || वेदेषु वा तदनुयायिषु वा विचार्य तन्त्रेषु वाक्यमखिलं प्रतिपादकं ते | तात्पर्यसंग्रहमहं विदधे ? मह्यं प्रसीद नय मामृजुना पथात्वम् || २ || मन्त्रार्थवादविधिभिर्बहुधा विभक्तो यः शब्दराशिरनपेक्षतया प्रमाणम् | सोऽयं विमत्सरविमृष्टपरार्थतत्त्वो वेदः प्रकाशयति केवलमीश्वरं त्वाम् || ३ || पृ० २) शब्दोऽयमीश्वर इति श्रुतिगोचरः स- न्नानीलकण्ठमवतंसितचन्द्ररेखम् | त्वामेव बोधयति नाथ निजार्थपोषा- दन्यं पुनः प्रकरणादिनिपीडनेन || ४ || शब्दस्तवायमभिधानमनन्यशब्दो नैघण्डुकाश्शिवपदादिवदेनमाहुः | वस्तुस्वभावकृतमेव तु पूज्यभावं ब्रूते महेश्वर महान्परमश्च शब्दः || ५ || यस्योपसर्जनमसौ परमो महान् वा शब्दस्तदर्थमभिधातुमलं प्रकृष्टम् | शब्देन पूज्यवचनेन समास्यमानं पूजां ब्रवीति यदि शब्दविदः प्रमाणम् || ६ || नानीश्वरं भवितुमर्हति विश्वमेतत् बाह्येश्वरं च नितरामयथाप्रमाणम् | तल्लोकवेदविदितेश्वरवर्जनेन कोऽयं भ्रमः कतिचिदीश्वरमन्यमाहुः || ७ || पृ० ३) विश्वं निरीश्वरमिदं जगदाह सांख्यो योगश्च सेश्वरमुभावनुवादिनोऽन्ये | नत्वेव सम्भवति सेश्वरतां ब्रुवाणाः पद्मासनादिभिरनीश्वरशब्दवाच्यैः || ८ || ऐश्वर्यमग्र्यमनपायिनबन्धनं ते यद्भूतरम्यनमसामसि पात्रमेकम् | तत्प्रायशः श्रुतिषु दुर्लभमेव वाक्यं मुक्त्वा नमो भवति यत्र तव प्रसऽऽन्गम् || ९ || देव त्वदेकविषयाणि नमांसि पुंसां यस्मै नमः श्रुतिबलादवधारयामः | देवान्तरेषु विहितान्यपि तान्यमुनि स्रोतांसि सागर इव त्वयि संपतन्ति || १० || यस्मै नमश्र्श्रुतिरनूद्य नमस्विनं त्वा- मेका नियोजनमुवाच पशोः कपर्दिन् | अन्या च दिव्यशिशुमारशिशो भवन्तं शक्यं तदित्थमुभयेन नमो विधातुम् || ११ || पृ० ४) श्रुत्योर्द्वयोरपि नमस्विनमुच्चमानं त्वामेव तं तमनुसंदधतः प्रदेशम् | शंसन्ति मन्दमतयोऽपि किमापतन्तं मध्यन्दिनेऽपि सवितारमपह्नुवीरन् || १२ || कर्मैव शूलधर शूलगवं त्वदीय मन्त्रा भवन्तमखिलाः प्रतिपादयन्ति | त्वामन्तरेण नमसा कृतलक्षणाय कस्मै पशुं नियुजाम मयाजयत्वम् || १३ || अऽऽन्गान्तरेषु विबुधान्तरसंस्कृतेषु यः शिंशुमारशिरसाः परिशिष्यसे त्वम् | तस्मै नमो भवितुमीश्वर साम्प्रमं ते देवान्तराय न कथञ्चिदनीश्वराय || १४ || या वज्रिणी भवति शऽऽन्करशऽऽन्खिनी या मुद्रा च या कमलिनी भरतोपदिष्टा | ताभिर्भवन्त्यभिनया विबुधान्तराणां मौलिस्पृशा करपुटाञ्जलिमुद्रया ते || १५ || पृ० ५) दत्तं नमः किमपि शुश्रुम देवताभि- स्त्वामन्तरेण नमसामवसानभूमिम् | तास्तद्ग्रहीतुमनलं न हि किञ्चिदिष्टे चोरोपनीतमिव धारयितुं किरीटम् || १६ || तस्मै नमो भवति यत्र निषीदसीति सर्वं नमस्यमनया तु दिशा महेश | आद्योषधं प्रति नमो वयमामनामो देहीव देहमधि(ति) ष्ठसि येन सर्वम् || १७ || सर्वं त्वया जगदधिष्ठितमेव मत्वा श्वानश्रुतौ नमसि ताः पतयश्च तेषाम् | लोके पुनस्तव महेश्वरभक्तियोगा- दारोपिता अपि वयं बहुमानपात्रम् || १८ || द्वेधा नमो विमृशतः प्रतिभाति लोके वेदेषु वा विषमलोचननान्यरूपम् | यत्तन्नमस्त्वयि तदीश्वरताप्रयुक्तं तत्सन्निकर्षविहितं यदि नीश्वरेषु || १९ || पृ० ६) त्वत्सन्निकर्षकृत एव नमः प्रयोगः प्रायो वरीयसि यवीयसि दृश्यमानः | श्रैष्ठ्यप्रयुक्तमिति कल्पयितुं न शक्य- मश्रेयसामसि नमांसि निदर्शितानि || २० || श्रैष्ठ्यप्रयुक्तमपि नाम नमस्त्वदीयं श्रेष्ठ्यासि यः क्रतुभुजां पतिरघ्नियानाम् | श्रैष्ठिश्रुतोऽसि भगवन्नविशेषतस्त्वं मन्त्रेषु कृच्छ्रपठितेषु च सामगानाम् || २१ || देवान्तरैः सह नमस्कृतिभूतयस्ते तोषाय नालमलमेव विपर्ययाय | पुत्रार्थिनश्च (श्चरु) रुरुविधौ सह चन्द्रमौले सोमेन हूतमनुशुश्रुम रुद्रमग्निम् || २२ || अग्निं प्रकृत्य खलु रुद्रपदं प्रयुऽऽन्क्ते तद्ब्राह्मणं भवति तयोः सहूतिः | आह्वानमत्र भवतः पृथगेव दृष्टं यत्प्रातरग्निमिति सूक्तविदः पठन्ति || २३ || पृ० ७) अग्न्यादिभिः सह महेश्वरभूतिशऽऽन्का माभूदिति प्रकृतिमप्यनुषऽऽन्गयोग्यम् | मन्त्रः क्रियापदमपास्य पदान्तरेण त्वामाह्वयन्तु तपदे न भिनत्ति रीतिम् || २४ || न्यासीकृतो वसुबलादमरैरवास्तु- मह्नागतो रुदितवानिति रुद्रमग्निम् | रुद्रां स्वदुद्भवतया मरुतो गणान् वा रुद्रावरो न च भवन्तमवैमि रुद्रम् || २५ || यज्ञेऽपि रुद्रपदमारुणकेतुकोक्तं तच्छब्दमीश्वर तदीश्वर तदीयमपि स्मरन्ति | यत्तत्प्रदेशगतरुद्रपदावकाशे यज्ञस्य शब्दमनुशुश्रुम सामगेभ्यः || २६ || सन्ताप्य रोदयितरि प्रसभं च नाना- माहुर्ज्वरेऽपि विषमेक्षणरुद्रशब्दम् | रौद्रं च तत्प्रकृतिकं प्रतिरूपकं वा शब्दान्तरं भवति वायसशब्दकल्पम् || २७ || पृ० ८) सन्त्येव तद्धितयदप्रतिरूपकाणि भूरीणि भावत सात्त्वतसन्निभानि | स्यात्तादृगेव भगवानिति शब्दरूपं षाड्गुण्यहेतुक्रियद्रवि(मपि)त्वदुपैति नान्यम् || २८ || ऐश्वर्यमगयमनपायिमती च लक्ष्मी ज्ञानं च वीर्ययशसी च विरागता च | एते गुणाधिपते भगसंज्ञयोक्ता संसन्ति नो न भगवन् भगवानसि त्वम् || २९ || ऐश्वर्यमीश्वरपदश्रुतिरुद्रशब्दो वीर्यं यशः शिवपदं च तवाभिधत्ते | सर्वज्ञकामरिपुशब्दसमर्थितौ च सर्वज्ञरागविरहौ भवतः पुरारे || ३० || अर्थक्रिया शिव न कोऽपि विरज्यतस्ते श्रेष्ठस्तथा त्वमसि दाशतयी रिक्तम् | लब्धुं श्रियं मुनिमचारि विचित्ररूप- मभ्यर्चितं तव मरुद्भिरुदाहरन्ति || ३१ || पृ० ९) सत्यं क्षमा धृतिरधिष्ठतिरात्मबोधः- सृष्टिर्विरागतपसीमतिरीश्वरत्वम् | न त्वद्वियन्ति न कदाचिदपैति धर्मः किं तन्न यद्भवति ते गुणसंमतेषु || ३२ || नैवेश्वरान्न यशा महतो न वीरा- न्न श्रीमतः क्षितिपतीनपि सार्वभौमान् | अन्यादृशानपि महेश्वर वीतरागान् प्रज्ञावतो भगवतः प्रवदन्ति बुद्धाः || ३३ || अथर्वणा मदनशासननिब्रुवाणा नामानि नाम भगवानिति ते निराहुः | अत्याश्रमोपनिषदाह भगेश्वरं त्वां नैखण्डुकाश्च भगवन्तमुशन्ति पूज्यम् || ३४ || पूजा तमुष्टुहिवता विहिता महेश मन्त्रेण वाऽऽन्मनसकायनिबन्धना ते | सर्वाभिरप्युपनिषद्भिरुपासनोक्ता नारायणोपनिषदं परिभावयामः || ३५ || पृ० १०) वाक्यं यदाह दहरान्तरुपासनं ते यद्वा समं पचति रूपविशेषमस्मै | अन्तर्गतैरपि तदौपयिकाभिधेयै- र्गोप्यं वचोभिरिति वाक्यविदां प्रवादः || ३६ || नारायणस्य यदुपास्यतयाभिधानं यद्वा फलं तदिह नोपलभे कथञ्चित् | उत्पत्तिशिष्टभवदनयमन्यगामि शक्यं महेश्वर न कर्तुमुपासनं ते || ३७ || नासावुपासनमुपास्यकथैव दूरे तस्मा उपासकतया परिशेषसिद्धः | अन्तर्व्यवस्थितगिरा परमात्मनस्ते शब्दादृतेऽपि विहितं तदुपासकत्वम् || ३८ || यस्य स्थितोऽपि हृदये पर(म)स्त्वमात्मा यत्तन्न तस्य परमात्मतयाभिधानम् | स्वेन स्वयं मनसि वह्निशिखान्तराले तिष्ठन्तूपास्य इति हास्यपदं न कस्य || ३९ || पृ० ११) नारायणप्रकरणे हृदयं यदुक्तं तस्यैव तद्भवितुमर्हति नापरस्य | दृष्टा यतिप्रकरणे यतिभिर्गृहीतं पूर्वानुवाकविहितं यदुपासनं ते || ४० || ब्रह्मोच्यते परमसौ परमं च तत्त्वं ज्योतिः परं च परमेश्वर पद्मनाभः | त्वद्भावनैकरसिकस्त्वदनन्यभावा मन्त्री यथा गरुडभावनया गरुत्मान् || ४१ || गीतासु योगजविभूतिविभावनाय नारायणः शिवनरं प्रति वाचमूचै | योगं निशामय महेश्वरगोचरं मे दिव्यं ददामि तव चक्षुरिति प्रसन्नः || ४२ || त्वामन्तरेण न कथञ्चिदुपासनीय- मन्यं ब्रवीति सशिवस्तुतिरन्धकारे | यद्ब्रह्मशब्दसमभिव्यवहारयोगात् संहारकारिणि हरे शिवशब्दमाहुः || ४३ || पृ० १२) विश्वाधिकस्त्वमसि विश्वमयं मुरारि- र्यज्ञेश्वरस्त्वमसि यज्ञममुं गृणन्ति | आद्या जगत्प्रकृतिरेष भवानिमित्तं मातः कथं नु युवयोर्भगवन्नभेदः || ४४ | विश्वात्मनस्तुतिषु विश्वपतित्ववादः संगच्छते स्तुति तयैव रथाऽऽन्गपाणेः | विश्वस्य पत्युरथ विश्वतयाभिमानं नालं गुणाय गुणगृह्यनिकर्षहेतुः || ४५ || विश्वं महेश्वर भवानधितिष्ठतीति विश्वात्मतामुपचरन्ति यदागमास्ते | तत्पण्डिता विदितवेदरहस्यशीला जानन्ति मूढमतयस्तु तदेव सत्यम् || ४६ || तुभ्यं नमो विदधदीश्वर तं तमर्थ- मातिष्ठते सकलकर्मसु सर्वदर्शी | सर्वानुवाकममिमुक्तसमर्थनाय कात्यायनो मुनिरुदाहरति स्म गृह्ये || ४७ || पृ० १३) स्थानं यदन्तरमुपास्तिरुपासको वा या सा तथा परतया विविधानिभूतिः | यद्वा पुनर्विषमनेत्रमुपासितव्यं नारायणोपनिषदाह तदत्र सर्वम् || ४८ || यज्ञात्मना स्वयमसावृषिणोपदिष्टा नारायणेन भवता प्रतिपादयित्री | सूक्तं यथा पुरुषदैवतमन्तकारे नारायणार्षमिति तद्व्यपदिष्टमाहुः || ४९ || एषा महोपनिषदाह हिरण्यगर्भं जातं त्वदेव भगवन् प्रथम सुराणाम् | नारायणाभिजनमेन मन्दाः शंसन्ति तत्र भवतश्च ततः प्रसूतिम् || ५० || मध्ये ललाटमरविन्दभुवक्षणेन दृष्टो भवानिति क एष निकर्षवादः | योगाधिरूढमनसश्शिव मादृशोऽपि स्थानेषु पञ्चसु न कस्य तवोपलम्भः || ५१ || पृ० १४) ब्रह्माणि पञ्चतनवस्तव मन्त्ररूपान् जीवातवः पशुपतेः शिवसंहितानाम् | रुद्रेषु पुण्यमिव पञ्चकमक्षराणा- मस्यां महोपनिषदीति महत्त्ववादः || ५२ || विद्येश्वरस्त्वमसि भूतपतिस्त्वमेकः स्रष्टा भवानधिपतिः सृजति प्रपञ्चम् | यद्ब्राह्मणान् प्रति तव श्रुतमाधिपत्यं तद्ब्राह्मणो मम सदा शिवजन्मलाभः || ५३ || विद्येश्वर क्व पुनरुक्ततया न वाच्यं वेदाधिपत्यमयमेव महेश वेदात् | विद्या भवन्ति शतशः प्रविभज्यमाना स्रोतांसि नीरसरिदेव पृथक्कृतानि || ५४ || आदित्यमृग्यजुषसामनिधानकोशे बिम्बे निविष्टमधितिष्ठति पौरुषो यः | एषा तमेष इति साभिनया भवन्तं भूताधिपत्यवचनेन शशांसनाम्ना || ५५ || पृ० १५) उक्तो हिरण्यपतिरेषु हिरण्यबाहु- रुक्ताम्बिकापतिरुमापतिरेष उक्तः | आहुर्भवन्तमधिदैवतमुष्णरश्मे- रातस्त्वदर्चनविधौ भगवन्नभिज्ञाः || ५६ || यो मण्डलं तपति यश्च तदन्तरात्मा या चानयोर्भवति भूतपतेर्विभूतिः | जानान एतदपि यत्फलमश्नुते च सर्वं यथावदिह तत्कथितुं क्रमेण || ५७ || मानाम भूदखिलमन्यदिमं प्रदेश- मध्यापितास्तदिति मन्त्रविदो वदन्ति | वाच्यं क्रमस्य सविता सवितुर्वरेण्यं किं वा भवानिति हि तर्कपदेन तेषाम् || ५८ || भास्वन्तमेष विषयीकुरुते न मन्त्रः शक्नोति वक्तुमधिदैवतमीश्वरं त्वाम् | यस्मादयं त्वयि निरोहति भर्गशब्दः प्रज्ञाप्य चोदकतया यदधीयसे त्वम् || ५९ || पृ० १६) सान्तोऽयमन्तकरिपो यदि भर्गशब्दो यत्तत्पदद्वयमनन्वयिलिऽऽन्गभेदात् | अन्वेषयेदभयदन्यदभिन्नलिऽऽन्ग- मश्रूयमाणमसमञ्जस एव पक्षः || ६० || शब्दस्मृतेरसुनि वा घञि वा पदान्ते युक्तं वदत्युभयथा स्वरमाद्युदात्तम् | विन्यस्तकारकमवैमि पदं घञन्तं मैत्रायणश्रुतिपराहतसान्तभावम् || ६१ || मैत्रायणश्रुतिरसौ तदिति प्रकृत्य भर्गं भवन्तमभिधाय विचिन्तनीयम् | रुद्रस्य भर्गपदगोचरतां ब्रुवाणा सान्तं प्रतिक्षिपति भर्गपदं पुरारेः || ६२ || सान्तं पदं तदपि नैव ददाति वक्तुं यद्ब्राह्मणं तलवकारिणमामनन्ति | प्रश्नोत्तरक्रमनिरूपितपूर्वपादं पादस्तदीयमथ भर्गमयं ब्रवीति || ६३ || पृ० १७) भर्गः प्रचोदयति यो धियमस्मदीयान् तं धीमहीति घटना विनिमाप्य लिऽऽन्गम् | वाच्यस्य भगवत स्वपदाभिधानं भर्गस्यमित्यपि च साम्बवचो निरोधः || ६४ || त्वामेव मन्त्रोपनिषद्ब्रवीति तदित्यृचोऽस्याः प्रतिपाद्यमर्थम् | तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृतेति शब्दैः || ६५ || भर्गोऽपि सन् सवितृशब्दसमन्वयेन सावित्रतामपि विगाहत एष मन्त्रः | तत्तत्पदद्वयवशेन महेशमन्त्रं तद्देवतानपि हि मन्त्रविदः पठन्ति || ६६ || अप्यर्कदैवतिमृचमामनाम शब्देन विश्व इति शऽऽन्करवैश्वदेवीम् | पित्र्यं च मत्त इति पुष्यपदोपनिष्णा- मेतादृशानि कति नाम नि * * तानि || ६७ || पृ० १८) एषा गतिः श्रुतिगिरामिति निर्णयेन तत्तद्गृहार्चनविधौ मुनयः स्मरन्ति | मन्त्रेण शऽऽन्कर शनैः समुपक्रमेण बुध्यस्व शब्द न हि तेन बुधस्य पूजाम् || ६८ || आम्नायमृग्यजुषसामनिधिं विचिन्त्य सारं समुद्धृतवता परमेष्ठिनापि | मन्त्र * * * दयमदृष्टयान्तरेण दृष्टश्चराचरगुरो मनुना यथोक्तम् || ६९ || गृह्णातु काममनस्सकलं हविस्ते राज्ञो बलं हरतु भागदुघः प्रजाभ्यः | पार्थेन शऽऽन्कर निवेदितुमम्बुजाक्षे- नैशं हि विस्फुटमदृश्यत पादयोस्ते || ७० || * * त्वदर्थमनुशुश्रुम सूयमान- मालम्भनं पशुपते नियतं पशूनाम् | गव्यं च तेन गवि सदेव तदध्वरेषु चण्डेश्वरेण सह नाकसतां विवादः || ७१ || पृ० १९) उत्पत्तितः शिवगृहीतसमन्वयास्ते सोमः पशुर्गवि च सन्ति हवींषि यानि | देवाः * * प विषि भागमनुज्ञया ते गृह्णन्ति तद्वदितरेषु विकल्पनीयम् || ७२ || कर्मैकमेव न परं पशुबन्धनं ते कर्तव्यमाहरुपलभ्य तवाभ्यनुज्ञाम् | सर्वेषु कर्मसु भवत्प्रसवेन पुंसा- मारम्भणं प्रपदमन्त्रविदो गृह्णन्ति || ७३ || संकल्पितः प्रभृति * ष्टतनुं विभज्य देवान् प्रजापतिमुखान् प्रतिदर्शयन्तः | सोमाहुतिं हुतवहार्चिषि हूयमान- मध्वर्यवस्तव गृणन्ति गिरिशभागम् || ७४ || सर्वं धनं धनपतेरुपभुक्तशिष्टं यद्देवतातिथिसमाश्रितभृत्यवर्गैः | यज्ञेशयज्ञपरिशिष्टमपि त्वदीयं मण्डि? ग्रहिष्यति करे भवता यथोक्तम् || ७५ || पृ० २०) गव्येन सोमहविषा चरुभिश्च पक्वै- र्यान् सप्तसप्तमुनयो विभजन्ति यज्ञान् | सर्वेषु तेष्वधिभवानविशेषतस्त्वां राजानमध्वरविधौ वयमामनामः || ७६ || अग्निं प्रकाशयतु शऽऽन्कररुद्रवन्तं मन्त्रस्त्वमग्न इति वा तदनन्तरो वा | राजन्वतिक्षितिरितीव विशेषणस्य नालं प्रदीपमपनेतुमिमौ प्रकर्षम् || ७७ || या रोहिणी भवति देवतया त्वदीयां तस्यां त्वदेकविषयौ विषमाक्षदृष्टौ | मन्त्राविमौ तदिह यज्ञपतिस्त्वमीश स्पष्टं त्वदेकविषयं प्रतियन्ति धीराः || ७८ || पित्रा कुमारमिव भृत्यमिवेश्वरेण शिष्यं गिरीशगुरुणेव गुणाधिकेन | अग्निं त्वया कृतविशेषणमूचिवांसौ मन्त्राविमौ गमयतः परमं प्रकर्षम् || ७९ || पृ० २१) ऋक्संहिता वदति मेयपतिं भवन्तं राजानमध्वरविधेरयमाह मन्त्रः | त्वत्सूक्तमन्त्रगणिमण्डनमौलिरत्नः रूपेण वत्वदभिधानगृहीतशक्तिः || ८० || त्वत्कं पुरा मरणतस्नुयिर्तु * कल्पा- दाकारणं परमकारुणिकं ब्रुवाणाः | मन्त्रोऽयमाव इति यावदुपक्रमाया मूलं महेशविदितं शिवधर्मसूक्तेः || ८१ || भीमोऽसि शऽऽन्करमृगो न निदर्शनं ते तेजोभिरच्चलितसूर्यसहस्रकल्पैः | अक्रोधनस्मि(त)मुखोऽपि निजानुभावा- दापाततस्तनुभृतां नृपतिर्भयाय || ८२ || अभ्युद्यतं गिरिशवज्रमधीमहे त्वा- न्त्वजीबिभ्यतः पवनभानुकुशानुशक्राः | मृत्युश्च तत्तदधिकारभृतस्तथान्ये ब्रह्मत्वलक्षणमयं भयहेतुभावाः || ८३ || पृ० २२) घोरा शिवा च भगवन् तु भयिस्तनुस्ते घोराभिषज्यति भवान् तदुपास्यमान् | अन्या भिषक्जनकृतां मृजमिक्षमाणा दृष्ट्या ददाति शिवात्मनोऽपि || ८४ || घोरान्नमो विदधतः शमयन्ति रुद्रै- रार्ता हि घोरमुपयान्ति चिकित्सिता * म् | पृणन्ति शऽऽन्करशिवं च मकानुवाकै- होमस्य यत्तव भवन्त्युभयेऽपि मन्त्राः || ८५ || विष्णुप्रजापतिपुरन्दरपूर्वकेषु वाजादितुल्यमितरेष्वपि दैवतेषु | आशंसितेषु चमकाः परिशिष्यमाणं दातारमीश्वरभवन्तमशब्दमाहुः || ८६ || युक्तं न मा नयितुमीश्वरसन्निधौ ते देवान्तराणि महतामिव मर्त्यमात्रम् | अन्तर्द्धिमध्वरविधौ तदपेक्षमाणा- स्त्वत्कर्मसीम्नि परिषेचनमाचरन्ति || ८७ || पृ० २३) आत्मान्तराणि पशवः परतन्त्रभावात् स्वातन्त्र्यतः पशुपतेः पतिरीश्वरत्वम् | आत्मानमनापनिषदाः प्रवदन्त्यनीश- मीशं भवन्तमुभयोरुभयं स्वभावः || ८८ || संप्राप्त एव सति शऽऽन्करपाशुपत्ये कस्मै वरेण्यवरणं कृपणोचितं ते | विध्यर्थमध्ययनचोदनया गृहीता जापन्ति यत्किमपि पऽऽन्क्तिवदर्थवादाः || ८९ || नानावदानवचनादपि वारणीय- स्त्वत्पाशुपत्यवरणं प्रतिलम्भवादः | लब्धुं वरीतुमथवा कथमेक एव पारान् बहूनपि महेश्वर शक्यतेऽर्थान् || ९० || अऽऽन्गे स्थिरेऽपि रितिरूपमनीश्वरं ते भूरीणि तानि च भुजऽऽन्गममालहारिन् | मन्त्रेण चान्तरिति युष्मदुपासकाना- माश्वेदकायदशनं तदमोघमाहुः || ९१ || पृ० २४) भावोपपन्नमनसां त्वदुपासकानां पुंसाममोघमशनं भगवन् ब्रुवाणः | मन्त्रोऽयमन्तरिति नः प्रतिभाति मूलं प्राग्भुक्तमर्चनविधेरनुवासरं ते || ९२ || नाथ त्वया पितृमतो मरितस्तुवाना- स्त्वामामनन्ति भरतं नटनाभियोगात् | वैशेषिके खलु सति व्यपदेशहेतौ साधारणेन भरणेन न कश्चिदर्थः || ९३ || हिंसाप्रतीतिरभिमानपदैकदेश रिति पदेन तद्वपन्ति | कामान्तकत्रिपुरदक्षमखादिभऽऽन्ग- विख्यातविक्रमतया कथितोऽसि वीरः || ९४ || हिंसाभिधातृपदसन्निधिनाज्य- रुद्रेति नाम प * शऽऽन्क्यपरापवन्तः | मन्त्रे यथाग्न इति मऽऽन्गलवाचि दृष्ट- देवेशरुद्रियपदं पुनरावपन्ति || ९५ || पृ० २५) शाखासु शऽऽन्कर सहस्रतयीषु साम्ना- माम्नायते तव न केवलमानुभावः | सर्वात्मनामधिपतेरविशेषतस्ते देवव्रतादिषु गणः कथितोऽनुभावाः || ९६ || स्कन्दं विनायकमुभावपि ते कुमारौ सर्वैर्गणैः पितरमेव निदर्शयन्तौ | सामोपकायमुखगायमृचां गणेषु संप्रीणयन्ति शिवसामविधौ यथोक्तम् || ९७ || ब्रह्मादिक्रं सकलमन्यदपोह्य पुंसां ध्यातव्यमेकमभिधाय शिवं करं त्वाम् | वक्तव्यमन्यदनपेक्ष्य विमोक्षहेतु- माया(थ)र्वणं परिसमाप्तिमुवाच वेदः || ९८ || यामामनन्ति तव शऽऽन्करधर्मदारा- नध्वर्यवः सहजसिद्धतया स्वसारम् | अथर्वणायमुपसृष्टतया भवन्तं ध्यातव्यमाहुरपहाय पितामहादीन् || ९९ || पृ० २६) एकश्रुतोऽसि परमेश्वर सदीनिधाम- मन्त्रा यथा व्यपदिशन्ति पुनः पुनस्त्वाम् | तस्याः प्रभावमतिवाच्यमनसं शिवायाः कस्त्येन वक्तुमनलं कमलासनोऽपि || १०० || एकं मुखं त्रितयमीश्वरलोचनानां चत्वारि दोषि विशदं वपुरद्भूतं ते | नित्यं तदेव जगतामुपकारहेतो नाना भवन्ति तनवस्तव दिव्यरूपाः || १०१ || कैरातमीश्वरपिनाकधरं वपुस्ते कृत्यं वसामुमया सह धर्मदारैः | आराधयन्ति खलु पर्वणि साकमेथे पुण्यैस्त्रियम्बकहविर्भिरनन्यभावाः || १०२ || देवां समन्तविनिवेशितमिन्धुषीक- मन्तर्जयन्तमजरामरविग्रहं त्वाम् | तद्वारवन्दयितया सह देवसेनं क्षेत्रस्य नाथमपि नाथ यजन्ति धन्याम् || १०३ || पृ० २७) पत्न्या समं * * गणैः सह वा सुताभ्यां सार्धं तथा परिषदा विषमेक्षणं त्वाम् | अध्यष्टमीतिथिनिशामुखमर्चयन्तः पापं तरन्ति विजयन्ति महेशमृत्युम् || १०४ || मन्त्रा भवन्ति विरला विबुधान्तराणां सद्भाव एव शिवदर्शितशक्तयस्ते | त्वन्नामरूपगुणवर्णनलब्धवर्णा मन्त्रा न शक्यमवगन्तुमियत्तया ते || १०५ || रुद्रानुवाकपतकानि परसहस्रं नामानि दिव्यमपि रूपमनेकशस्ते | शक्यं गुणागुणयितुं न गुणा यदि स्यात् भौमेषु पांसुषु विना तव देवमायाम् || १०६ || वेदस्त्वथ भवि कृपां तव वा प्रणीतिः सर्वः प्रमाणमविहाय गृणाति लोकः | तत्तत्प्रवक्तृगुणदर्शिततारतम्य- मन्यत्प्रमाणमविरोधिनि वेदवाक्ये || १०७ || पृ० २८) वेदाः प्रमाणमिति संगिरमाण एव दिव्यं तवागममवैति जनः प्रमाणम् | त्वद्ध्यानवाक्यविषयौपयिकैः पदार्थै- रामूर्धमाकलितविग्रहमा च मूलात् || १०८ || ध्यानं यथा भवति तद्विषयो यथाकं या दुर्गुणश्च भगवानधिकारिवर्गः | सर्वाणि तानि भवदागमसंहिताभिः कल्पैरिवाध्वरविधेरुपपादितानि || १०९ || अध्वानमध्वपतिमध्वनि तारतम्यं श्रेष्ठाध्वपारगमनं चपलं ब्रवीति | मन्त्रोऽध्वनामिति महेश्वरगृह्यकारः पित्रा कुमारमुपनीय यदाह वाक्यम् || ११० || कल्पाः प्रमाणमृषिभिर्यदि नः प्रणीताः किन्न प्रमाणमृषिणां महतां महर्षे | शक्यं न वक्तुम * * ग्रहदूषितानि तन्त्रान्तराणि भवता शिव कर्तृमन्ति || १११ || पृ० २९) आचक्षते यजुषमार्षविदस्तपोभि- रेकैकमन्त्रदृशमीश्वरवेदराशेः | द्रष्टारमस्य निखिलेन निजानुभावा- दन्यानृषीनतिमहर्षिमतो विदुस्त्वाम् || ११२ || उक्तं प्रधानपुरुषेश्वरमेव सांख्यै- राख्याय पाशपशुपत्यभिधानभेदात् | जेथ त्वदागमविदः शिवसंगिरं ता- मेतावकमिति न स्तदुपेक्षणीयम् || ११३ || प्रत्यक्षवेदविहितं प्रथितं पुराणं बोधायनेन मुनिना बहुशः सर्वार्थदर्शनप * रपि गृह्यकारै- र्यज्ञोपवीतमिव विस्मृतमर्चनं ते || ११४ || वेदोपबृंहकपुराणवचः प्रपञ्चै- राघोष्यते विषमनेत्रसमर्चनं ते | तन्त्रैरलं तदुपबृंहितवेदमूलै- र्वाक्याहतन्नहमुखानिलवप्यपेक्षम् || ११५ || पृ० ३०) (वेदार्थ) सनिर्णयविधौ हि पुराणमऽऽन्गं निर्णीतवेदविषया स्मृतयो भवन्ति | आतश्रुतेरिव पुराणगिरिस्सकाशे नालं प्रकाशयितुमात्मबलावलेपम् || ११६ || मूलश्रुतेरनुपलम्भपराहताया दूतीव या न भवति स्वरसात्प्रमाणम् | प्रत्य * * * * * तं यजनं त्वदीयं तस्याः स्मृतेरपि किमिच्छति दृष्टिपातम् || ११७ || पौर्वाह्णिकानुपदिशन्नियमान् यदेत- दभ्यर्चनं मनुरवोचत देवतायाः | तत्किं पुनस्तव महत्यसि देवता त्वां मृग्येऽपि काचशकलेन मणेरिवो * || ११८ || पत्न्या समं सह वृषेण वृषेन्द्रकेतो युष्मद्बलीनुपदिशं दशावकाशे | अभ्यर्चनं भवनकल्पनपूर्वकं ते बोधायनः कथितया नवयुक्त्य गृह्ये || ११९ || पृ० ३१) द्वेधा तवार्चनविधिस्तरुणेन्दुमौले कामाय कश्चिदपरै * * * क्षयाय | अप्यन्नहोत्रमुभयं वयमामनाम स्वर्गाय यद्भवति यद्दुरितं क्षिणोति || १२० || यद्ब्राह्मणस्त्वमसि नाकसदां निकाये तुभ्यं निवेदितमभोज्यमिति स्मरन्ति | उच्छिष्टमीश्वरविशिष्टमहाद्विजानां भूमौ निखेयमथवाम्भसि मज्जनीयम् || १२१ || त्वं ब्राह्मणस्त्वदुपधावनमेव कार्यं तद्ब्राह्मणैस्तुदितरेण भवन्त्युपास्याः | न ब्राह्मणानवरवर्णिनिषेवणेन संभावयेम यदि नः प्रपदं प्रमाणम् || १२२ || उत्कर्षतः परिहरन्त्यपकर्षतो वा का वासना भवति कस्य कृतेन विद्मः | यद्दीक्षितस्य पतितस्य च तुल्यरूपं प्रत्यादिशन्ति मुनयः कमनीयमन्नम् || १२३ || पृ० ३२) चण्डालचण्डिलचितानलशौण्डिकानां गोब्राह्मणज्वलनदीक्षितयोषितां च | स्पर्शः कथा भवति वासनया निषिद्ध- स्पृष्टेषु वा शिवकथा विहिता विशुद्धिः || १२४ || वर्ज्यान्नमाहुरपि दीक्षितं श्रीकल्पमभोज्यान्नमेव कृतराजपरीक्षयान्तम् | शऽऽन्खास्थि पावनमस्ति नृणामित्थं स्थिते वचनन्त्रपरायणं नः || १२५ || अब्राह्मणैः क्षुदपघातकमस्तु भोज्यं यद्देवतान्तरनिवेदितमुक्तमन्नम् | तद्ब्राह्मणैरपि किमीश्वरवैश्वदेवे हार्यो बलिर्बलिमतामशितेन तेन || १२६ || तेयान्तरैरशितमुक्तमनऽऽन्गरासि- न्नश्नन्ति चेदनशितेन बलिं हरन्तः | आस्यैकदेशविहितो बलिरन्यथासं नालं फलाय विपरीतफलं च तेषाम् || १२७ || पृ० ३३) ब्रह्माणमीश्वर पुरा हतवानसीति भिक्षाटनं विमृशतः प्रतिहानमात्रम् | यत्पञ्चमे शिरसि पुष्पसमं निकृत्ते जीवे तमेनममितायुषमाहुराप्तः || १२८ || आनाभिजानवसितं वसन्नशाणं पाणौ कपालशकलं न विलोकितं ते | नालम्बते शिवशिवस्तवकेत्वयष्टौ भैक्षं न सप्तहवनं सकलं तदास्ताम् || १२९ || यत्कालभैरवकृतं पत * * मेनः किं तेन ते भवति भैक्षमथापि वृत्तिः | तन्मध्यपातिनि विधे विबुधान्तरस्य निर्वेदमाचरति किं नु भवानजस्रम् || १३० || यत्पाशुपत्यमवृणोदमरान्तरेभ्यो भिक्षां भवानकृत यत्परमेश्वरोऽपि | चोद्यं तदेतदुभयं परिहर्तुकामो मन्ये बृहस्पतिरपि प्रतिपत्तिशून्यः || १३१ || पृ० ३४) ब्रह्मासि विष्णुरसि सर्वमसीति यस्त्वा- मास्तामुपासनविधिं कथयन्ति मूढाः | तद्देवतान्तरनिकर्षनिगूहनाय मोहाय वा भवन्तु जल्पितमल्पबुद्धेः || १३२ || अद्वैतमागमशिरोभिरुपासनाया- मुक्तं तवेति परमार्थतया न वाच्यम् | भेदस्फुटो गरुडमान्त्रिकयोरलीकं तादात्म्यभावनमथापि विषं प्रमार्ष्टिः || १३३ || यद्ब्रह्मपञ्चमशिरो * * * पदानं यद्ब्राह्मणाश्च हरिणा च विमार्गणं ते | यद्वा तयोर्जनयितारमधीमहे त्वा तत्सर्वमीश्वरविमूढधियामसह्यम् || १३४ || सोमे लतात्मनि महेश्वरगौणवृत्त्या विष्णोरवादिजनत्वमृचाकयाचित् | त्वययेव तद्भवितुमर्हति मुख्यवृत्त्या नेन्द्रेण पऽऽन्कजभवे नितरांमुरारौ || १३५ || पृ० ३५) अन्योन्य यदि भवेदहमीश्वरः स्यां त्वं वाहमीश्वर किमत्र नियामकं न | को वा विपर्यसितुमर्हति वस्तुशक्तिं तत्तत्स्वभावनियतां भवताज्ञयापि || १३६ || एकं तवाप्यसुकरं तदुदाहरामो जातेन भाव्यम * * न्तरवत्त्वयापि | अप्रार्थितोऽपि हि महेश महर्षिदारै- रन्तर्हितस्त्वसि गर्भितगर्भवासः || १३७ || इच्छावतीर्णमुरशासनगर्भवासः स्याच्चेदुदाहरणमेष विमर्शनीयः | गर्भे वसामि परिवेष्ट्य जरायुणाहं मासान् बहूनिति महेश्वर कस्य कामः || १३८ || इच्छापि नूनमनुयाति पुराकृतानि कर्माणि शऽऽन्कर शुभाशुभलक्षणानि | इच्छावतारवचनानि तु भारतादौ नारायणस्य गुणवादमुदाहरन्ति || १३९ || पृ० ३६) विधातारं कश्चिद्भजति भजते कञ्चन हरिं सुरानस्यानन्ये जगति सफलाः सर्वविधयः | तथापि त्वद्भक्तेः शिव शिव यदा चर्मवदिति श्रुतो मन्त्रो देवान्तरभजनदैन्यं न सहते || १४० || न भिन्ना भिन्ना नौरलमुदनिधेरुद्गमयितुं शिला नैवोन्नेतुं प्रभवति शिलामन्तकरिपो | जनित्वा मृत्वा वा जगति परिवर्ती सुरगणः कथं मे संसारभ्रमणभयभाजस्तु शरणम् || १४१ || शशे शृऽऽन्गं पुष्पं नभसि मृगतृष्णासु सलिलं प्रसूतिर्वन्ध्यायामनवधिमदायुस्तनुभृताम् | विमुक्तिर्वा देवान्तरभजनलभ्या पशुपते * * * क्यं संभावयितुमपि सर्वं विमर्शताम् || १४२ || देवतान्तर पुनः पुनर्भवं पश्यतः पशुपते भयं मम | क्रीडतोऽपि मम जन्ममास्मभूद्दीयतामयमपश्चिमो वरः || १४३ || पृ० ३७) * * * परिगृहीतदेवता वर्णनौपयिकसर्ववाऽऽन्मयम् | धिग्धिगीश्वर * र्धाशयं जनं तावकैरहमसानि सऽऽन्गतः || १४४ || पांसुकेलिरपि यस्य शैवे शैवपाशुपतपादपांसुभिः | स्तोत्रकर्मणि न तस्य मे गुण- स्तद्गुणोऽयमुपपद्यते त्वयि || १४५ || स्तोत्रीयमर्थमुपपादितवानहं ते भक्तेति भक्तजनवत्सलभूषमाणः | आविर्बभूविथ शिखीः शुचिनाम्बरेण यज्ञोपवीतमुपवीतधृतं त्रिपुण्ड्रः || १४६ || भक्तसिवानदित पार्श्वचरोपनीतं गृह्यं महेश्वरपयः श्रपितं प्रसन्नः | भुञ्जान एव तदहं त्वदिति प्रबुद्धः स्वप्नः समाधिरिति युक्तधियामभिन्नः || १४७ || पृ० ३८) स्तोत्रमेत(द)वधाय गृह्णता- मर्थमस्य निखिलेन जानजाम् | ग्राह्यमन्यदपि नावशिष्यते ज्ञेयमन्यदपि वा न किञ्चन || १४८ || पञ्चाशदुत्तरशता श्रुतिसूक्तिमाला भोगाच(व?)लं भुजगराजमनोहरा ते | वेदेषु सक्तिमपरागमवैदिकेषु तन्त्रेषु भक्तिमतुलां त्वयि च प्रसूते || १४९ || मिथ्याकल्पितभोगमोक्षदवचः सन्तानसत्यापन- व्यग्राणामचिरा प्रभावविबुधप्रेम्णा महेशद्विषाम् | मूर्ध्निष्वेव दुरात्मना विरचितां नीर्घातपाताः परै- र्विद्वद्भिः परमेश्वरश्रुतिकथातात्पर्यसंग्राहकैः || १५० || इति चतुर्वेदार्थतात्पर्यसंग्रहः समाप्तः || श्रीमद्देवशिखामणिगुरुभ्यो नमः | श्रीमत्षण्मुखगुरवे नमः | शुभमस्तु || ########### END OF FILE #######