#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00014 Uniform title: cidgaganacandrikā Author : śrīvatsa Alternate name : kālidāsa Editor : trivikramatīrtha Alternate name : Woodroffe, John Alternate name : Avalon, Arthur Description: cidgaganacandrikaa by śrīvatsa alias kālidāsa E-text copied from Arthur Avalon series. Tantrik texts ; 20. Published: Calcutta : Sanskrit Book Depot ; London : Luzac & Co., 1937. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: 30/11/2005 Publisher : Sanskrit Book Depot Publication year : 1937 Publication city : Calcutta Publication country : India #################################################### क्षीरोदं पौर्णमासीशशधर इव यः प्रस्फुरन्निस्तरङ्गं चिद्व्योम स्फारनादं रुचिविसरलसद्बिन्दुवक्रोर्मिमालम् | आद्यस्पन्दस्वरूपः प्रथयति सकृदोङ्कारशुण्डः क्रियादृग् दन्त्यास्योऽयं हठाद्यः शमयतु दुरितं शक्तिजन्मा गणेशः || १ || स्थूलं सूक्ष्मं परं च त्रिविधमिह तगद् यत्प्रथावेशसिद्ध्या युक्तं सत्ता यदीया स्फुरति च परतः स्वप्रथैकस्वभावा | भामूर्ति यं विमर्शक्रियमनुपतिता लक्ष्यते लोकवृत्तिः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः || २ || इह कालिदासचन्द्रप्रसूतिरानन्दिनी स्तुतिर्व्याजात् | चिद्गगनचन्द्रिकाब्धेः शमयतु संसारदावदवथुं वः || ३ || चिल्लोचनेन सततं शिवमीक्षितुमन्वये च सद्भावम् | लब्धुं च पूर्णभावं यदि चेतः समुपाध्वमिमाम् || ४ || हृद्गुहामभिलषन्नहन्तया दृक्क्रियावपुरदृक्क्रियापदम् | सन्तमेमि समभावदं शिवं सख्यहानिरमुना हि सूयते || ५ || याऽहमित्युदितवाक् परा च सा यः प्रकाशलुलितात्मविग्रहः | यौ मिथः समुदिताविहोन्मुखौ तौ षडध्वपितरौ श्रये शिवौ || ६ || शक्तिनेत्रपरिणद्धमास्थितं पूर्णभामयपयोधिमन्थताम् देवि तर्पणसुधाकलाश्रयं रुद्रमन्दरमहं स्फुटं भजे || ७ || योऽभवद् भवति यस्तथेतरो यो भविष्यति पृथक्क्रियो जनः | तत्र योऽधरमहन्तयैकया सन्तमस्मि हृदिरन्ध्र आनतः || ८ || विश्वसद्मनि सदात्मनीश्वरे पूरणात् पुरुषतामुपेयुषि | ये मनः प्रणिदधुर्महर्षयस्तान् पतञ्जलिमुखानुपास्महे || ९ || खेचरीमुखमरीचिजालकं व्योमशक्तितनु संश्रये सदा | शम्भुदक्षतनुजावभासया यत्र विश्वमनुकर्तुमीहते || १० || खण्डसत्प्रसरगर्भया यया लक्षितं स्फुरविपूर्णसत्तया | तत्त्वमैश्वरमखण्डमम्बिकां त्वां प्रणौम्यखिलतत्त्वनायिकाम् || ११ || यः किलास स किलास ईश्वरः ख्यातसत्त्वलुलितोर्ध्वमूर्धनि | प्रत्यहं जननि यत्र तिष्ठति त्वं स सत्त्ववपुरद्रिरस्य यः || १२ || कल्पनातिगमतीन्द्रियं च यल्लक्ष्यमुज्झति बहिर्मुखं तथा | अन्तरालगमभावभावयोस्तन्नतोऽस्मि सदहं निराकृति || १३ || अम्ब यद्भवति तत्त्दात्मना स्वैरितामजहदद्वयोदयम् | तावकं पदमपाकृतक्रमं ब्रह्म तत्सदिति वा श्रुतं भजे || १४ || देशकालकलना विशेषतो यद् भवानि बिहितं निगद्यते | व्यक्तिजाति तनुसंश्रितक्रमं तद्धितं तव बहिर्विजृम्भणम् || १५ || सत्त्वमम्ब ! विहितस्य वस्तुन्स्तत्प्रसादितदयोदयं वपुः | स्यात् तमश्च यदिदं निषिद्ध्यते द्वे रजो सदसदन्यरूपतः || १६ || यत् तमोऽन्यदिह तत् क्षितेर्वपुः सत्त्वमन्यदिह तेजसः शिवे | मिश्रणोत्थमितरद्रजस्तयोस्त्वत्कसत्त्वजमतो गुणत्रयम् || १७ || ईश्वरस्य तव भर्त्तुरक्षयैश्वर्यरूपमसि तत्त्वमम्बिके | ज्ञानमस्य शुचि कर्म वा फलं ते विरागमयपूर्णताफले || १८ || ज्योतिरम्ब हृदि विद्ययेक्षितं यल्लघ् प्रसृतमर्घमण्डपे | धूमलक्ष्मगुरु यच्च तच्च्युतं ते तु सत्त्वतमसी वपुस्तव || १९ || त्वं हि रुद्रजकटाक्षवर्तिनी जायमानमवलोक्य चण्डिके | सांख्ययोगपथदेशिकद्वयं जातसंमतिसमाधिकं यथा || २० || सप्रकाशकृतमज्जनं जगत् कुर्वती भवसि पूर्णिमा शिवे | पूर्णमेव तव रूपमन्यथा कुर्वती किल कुहूः प्रतीयसे || २१ || पूर्णताकृशतयोर्यदन्तरं तत्र कालि विजहत्क्रमे स्थिता | दर्शितक्रमविभागसंभ्रमं कालमद्यतनमत्तुमीहसे || २२ || मातृमेयमितिसाधनात्मिका त्वत्कृतोन्मिषति या विकल्पधीः | त्वत्स्वरूपमकलङ्कितं तया कस्य देवि विदुषो न मुक्तता || २३ || अक्रमक्रमविमर्शलक्षणं या क्रमाक्रममयी क्रमाक्रमम् | अक्रमं शिवमवेक्ष्य मध्यगं त्वां च सत्कुलमिदं तवाननम् || २४ || वेद्यवेद्य(द)कविभेददक्षया मायया क्रमवदङ्गगामिनी | या स्थिताम्ब बहिरक्षकाङ्क्षिणी तां जहि त्वमणुतां मयि स्थिताम् || २५ || कर्म यद् विविधवासनात्मकं मायया सह कृताणुभावया | वृत्तिभिस्तव विलाप्यते हि तद् देवि ! भानुरुचिभिर्यथा तमः || २६ || चिन्मयीकृतमतो(ऽ)क्षदृश्यया गुह्ययाऽम्ब विपरीतचर्यया | लभ्यते समरसीकृताखिलद्वैतवृत्ति तव घस्मरं वपुः || २७ || याश्चरन्ति तव खे चिदात्मके शक्तयः करणलक्षणाः शिवे | मुक्तबाह्यपदजृम्भणोद्यमाः त्वं हि तिष्ठसि तदूर्ध्वगे पथि || २८ || सप्तधा वमसि या त्वमीश्वरि व्योमशान्तमुखचिद्गुणास्पदम् | आश्रितान् नयसि नापरं शिवं द्वन्द्वयाऽद्वयपदातिलङ्किनी || २९ || या प्रमातरि निषेदुषी परा प्रत्यगात्मनि विमर्शविग्रहा | वागियं त्रिविधभावभासिता त्वां स वक्ति किमुताम्ब वैखरी || ३० || नादबिन्दुलिपिविग्रहा गिरस्तिस्र ऊर्ध्वगविमर्शशीकराः | संहृतिस्थितिविसृष्टिधामसु व्याहृतास्त्वदध ईशवल्लभे || ३१ || दृक्क्रियात्मशशिभानुमध्यगं खे चरत्यनलवत् सुधाम यत् | यत्तदूर्ध्वशिखरे परं नभस्तत्र दर्शय शिवं त्वमम्बिके || ३२ || वैखरीप्रभृतिवाक्त्रयं परे मेयमानमिति कर्तृलक्षणम् | उद्भवस्थितिलयात्मकं वपुर्भूरिभेदमपरं स्मरन्ति ते || ३३ || विश्वमूर्ति यददृष्टविग्रहं त्वत्प्रशान्तिपदमैश्वरं वपुः | तत्र ते य उदयः कुलेशि ! तं सृष्टिराश्रयति पञ्चवाहता || ३४ || या परा स्फुरति शक्तिरम्बिके तत्र हि त्वयि पयोधिवीचिवत् | शिञ्जिकावयवकार्थपञ्चकं वर्तते विविधसूक्ष्मविग्रहम् || ३५ || त्वन्मुखं त्रिपथनेत्रि ! भात्मकं शक्तिवृन्दमिह तुर्यथागमम् (यद् यथागमम् ) | द्वादश क्रमपदं पदादिभिर्जृम्भितं जगति तच्चतुस्त्रिकैः || ३६ || मानमेयमितिनेत्रलक्षणाः सोमसूर्यदहनास्त्रिधामगाः | राशिराजिविधिभञ्जितैः स्वरैर्लक्षितास्तव हि विप्रुषोऽम्बिके || ३७ || आहतेतरदुरुत्तराश्रयस्त्वत्पदादुदयते शिवात्मिके | अद्वयाद्विषयचित्प्रथातनुर्दृग्विमर्श इह वाचकः स्वरः || ३८ || अम्ब ! धामकरणप्रयत्नजो वैखरः स्फुरति शब्द आहतः | मानसः पुनरसावनाहतो वासितस्त्वदुपलक्ष्य उत्तरः || ३९ || षष्ठवर्जमहिमद्युतेः कलाः सर्गबिन्दुरहिताश्च ये शुभे | सर्व एव शशिनः कलाः शिवे योनयो विधृतबीजतत्स्वराः || ४० || बीजयोनिविधिभेदभेदिता मातृकासुकृतमातृलक्षणा | शक्तिरम्ब भवति क्रियामयी त्वत्तनुर्जयति पारमेश्वरी || ४१ || बिन्दुरक्षरमयं क्रियामयं यो नियन्त्रयति बुद्धिलक्षणः | नाद इष्टतनुरस्य कारणं | त्वं परे ! त्रितयधर्मरूपिणी || ४२ || उद्यमः प्रथम ऊर्मिरुत्तरो निस्तरङ्गशिवचित्पयोनिधेः | प्रागचित्पदपरिग्रहात्तव व्योमनीश्वरि तनुर्महोदयः || ४३ || स्फारिता जनति सेयमेषणा खेचरत्वसमुपाश्रिता दिशि | अक्षचक्रमनुजग्मुषी गवि प्राप्तगोचरपदा भव स्वयम् || ४४ || खेचरीप्रभृति यच्चतुष्टयं सांशमम्ब ! तव तद् बहिर्वपुः | यद् द्वयाद्वयविभागघस्मरं तन्निरंशमबहिर्न वाक्पदम् || ४५ || पञ्चवृत्तितनुरम्ब ! निर्गता शक्तिरर्पितकुलप्रभासना | त्वं शिवादकुलतः समेयुषी तेन तत्र पुनरेषि विश्रमम् || ४६ || युक्तितोऽम्ब ! तव वृत्तिपञ्चकं पञ्चभूतगुणवृत्ति लक्ष्यते | घर्मिवृत्तिकृतसिद्धनामकं धर्मवृत्तिकृतशक्तिनाम ते || ४७ || ब्रह्मणः प्रभृति सिद्धपञ्चकं भारतीप्रभृति शक्तिपञ्चकम् | उन्मनीं स्मरति यस्तवाकृतिं सिद्धवर्त्मनि जयत्यसौ जनः || ४८ || त्वं प्रकाशयसि यं स सृज्यते धर्मिधर्मतनुरर्थ ईश्वरे | यः प्रकाश इह स त्वया कृतः तत्तदाकृतिरूपैति सृष्टिताम् || ४९ || त्वं हि चित्तनुरतो न चित्तता स्वेन ते विषयचित्ततां विना | शिष्यसे यदि विनार्थमण्डलं सर्गसीमनि कुतोऽस्ति चित्तता || ५० || वासना च न विचित्रतापदं तत्प्रसूस्त्वमिह केवलैव चेत् | शक्तिलक्षणजगद्भृतोदरी मानसैन्द्रियकवस्तुसूरसि || ५१ || सार्वकालिकमिदं जगत् त्वया भास्यते विधृतशब्दरूपया | आन्तरं जननि बुद्धिदर्पणे बाह्यमद्यतनमक्षरूपया || ५२ || यावदम्ब ! पुरुषस्य शान्तता सप्तमी सकलभाववर्तिनः | तावदद्वयविमर्शभिन्नता सार्वकालिकविमर्शभाविता || ५३ || अम्ब तज्जडमुशन्ति भेदिभिर्यद् गुणैः स्फुरदपोह्यते क्रमात् | चित्तदाकृतिनिराकृतिः स्वतो भाति या सकृदसौ त्वमेव सा || ५४ || जाड्यमम्ब ! जगतो निसर्गतो यत्पराप्रभृति भाति भेदतः | त्वं तु जाड्यपरिपन्थिनी स्मृता या विभासि सकृदर्थमण्डले || ५५ || विश्वमेतदिति याऽहमित्यसौ नामरूपविरहेण निश्चिता | सा त्वमम्ब ! न बिभर्षि भास्यतां भात्मनो यदसि धर्म ईशितुः || ५६ || भावदृक् स्मूतिवियुक्तमीश्वरे शून्यरत्नमवलम्ब्य पुद्गलम् | निर्निरुक्तिकमिदं जगत् स्थितं चिल्लयोर्ध्वगपथान्न तत्तथा || ५७ || शान्ततां भजदनाश्रितं पदं शक्तिमात्रजगदेकसद्म यत् | निर्मलज्वलनशौचवज्जगत् तत्र हि त्विषि निमज्जितं त्वया || ५८ || सिद्धशक्तिमयभातृभासनव्याप्तिभाव उपयुक्प्रकाशताम् | योऽयमर्थनिकरस्त्वदन्तिके त्वत्प्रमात्रभिमुखं तनोष्यसौ || ५९ || द्रष्ट्टता जगति यत्प्रकाशने यश्च निश्चयविधौ प्रमातृता | ग्राहकत्वमपि निश्चितग्रहे वेत्त्यतः स तव वृत्तिपोषितः || ६० || आस्थितः सदसदर्थमण्डलं घीमनोऽक्षवपुरस्मितामयः | यस्त्रयोदशविधः स्वतन्त्रता तद्द्वयोऽहमसौ तवांशकः || ६१ || तत्तदर्थमयभोग्यलक्षणानन्दमूर्तिरयमुत्तमः पुमान् | अर्पणेन जगतश्चिदम्बरे भाति संहृतिमयः शिवे तव || ६२ || अष्टधा स्फुरति या पुरी शिवे सूक्ष्मभावमुपगम्य लैङ्गिकम् | तज्जपौष्टकृतचित्तवृत्तयो वासनास्त्वदुदरस्थिते पशौ || ६३ || सर्गसंवृतिशरीरयोर्द्वयोर्भक्ष्यभक्षकपदस्थयोस्तयोः | अन्तरेवमहमास्थितः शिवे धीमनोऽक्षवपुरर्पितं त्वया || ६४ || राजनात् प्रकृतिरञ्जनाच्च मां राजसंज्ञमनु बोधकर्मणोः | षट् त्वया पृथगमी प्रवर्तकाः पुत्रभावमधिरोपिताः शिवे || ६५ || ऊर्ध्ववाहमयबिन्दुलक्षणः प्राणसूर्य इह चिद्द्विषट्कलः | तत्कलाधरतनुर्गुरुक्रमे त्वं प्रकाशतनु सिद्धमण्डलम् || ६६ || यस्त्वधोवहननादलक्षणोऽपानसोम इह भोग्यविग्रहः | तस्य षोडशकलाः कृतास्त्वयाऽऽनन्दचक्रतनवो गुरुक्रमे || ६७ || वासरेशरजनीशयोः कलाश्चण्डि यावदुदयं वितन्वते | तावदेव दिवसक्षपोदयस्त्वत्कृतः प्रकटगुप्तविग्रहः || ६८ || देवि तद्द्वयकलाविमिश्रणात् सामरस्यपदमेति या स्थितिः | बिन्दुनादसमवेद्यवेदकाऽन्तर्गता हि तव मूर्तिरत्र सा || ६९ || लीढभानुशशिमण्डला स्थितिर्लम्भिता प्रलयवह्निना त्वया | प्राणधाम्नि दशसप्तधा सती मूर्तिराश्रितगुरुक्रमा शिवे || ७० || इष्टबोधकृतशक्तयस्त्वया संहृतिस्थितिविसृष्टिसद्मसु | तुर्यचित्पदमयुः प्रसारिताः सुप्तितः प्रभृति धामसु त्रिषु || ७१ || मेयमातृमितिलक्षणं कुलं प्रान्ततो व्रजति यत्र विश्रमम् | तत्पदं तव तुरीयमम्बिके यन्महद्भिरनुपाख्यमिष्यते || ७२ || चाररावचरुभिर्विभेदितैर्मुद्रया च यदुपासनं तव | तद्वशेन भजते परम्परां तावकी क्रमतया स्फुटाकृतिः || ७३ || मङ्गले त्वमसि वाक्चतुष्टये या परा स्फुरति मूर्तिमण्डले | सा प्रकाश-सुख-वृन्दचक्रगा नादबिन्दुलिपिमूर्तिरिज्यसे || ७४ || आद्यचित्प्रसरमूर्तिरम्बिके पीततां व्रजति यत्कृतास्पदा | अक्षयं शिवमुपास्य तज्जनः शक्तिचक्रजनितः प्रमुच्यते || ७५ || अम्ब ! शक्तिवपुषा त्वयोन्मिषद्रूपया समरसः शिवो यदा | यत्तदोल्लसति वीर्यमूर्जितं पीठ एष हि महांस्त्वदुत्थितः || ७६ || या शिवे स्फुरणशक्तिरक्षया क्ष्मादिपञ्चकनिविष्टभातनुः | सा महद् भवति वीर्यमग्रिमं यन्मयी त्वमसि पीठचक्रसूः || ७७ || पीठचक्रनिकरैकधर्मिणी त्वं स्थिता च सततं समन्ततः | सद्भिरुद्यमनिरन्तरात्मभिर्लक्ष्यसेऽम्ब निरवग्रहोदया || ७८ || ईरणेन विविधेन वीरतां योऽयमक्षरगणः प्रपद्यते | अन्त्यमीशमसि तं त्रिधामकं वर्णशक्तिपदवी च चित्कला || ७९ || याऽनलार्कशशिविग्रहा कलानाहताम्बरविसर्पिणी शिवे | पीठतः प्रभृति यावदर्च्यते तावदुन्मिषति तन्मयी सती || ८० || निर्जनस्थितिलयप्रथात्मिकेऽग्रासनित्यनिरवग्रहोदयः | जृम्भितस्त्वदनुपाक्षदीपितो द्व्यष्टकं मनुरुमे ! तवासनम् || ८१ || नित्यभातरुचि विश्वघस्मरं दुर्निरीक्षमपि सन्निकेतनम् | त्वं श्मशानमसि वीरहृद्गतं क्षीणवृत्ति करवीरमिज्यसे || ८२ || विश्वसंहरणलीलयोत्कटं व्योम्नि शश्वदुदितं निराश्रये | क्षेत्रपालमनुपाधिकोल्लसत् त्वद्विमर्शमभिनन्दतीश्वरे || ८३ || खेचरीप्रभृतिरम्ब शाकिनीप्रान्त एष तव यो गुरुक्रमः | सृष्टितश्च यदनाख्यविक्रमं चक्रमेतदखिलं तवोद्गमः || ८४ || तद्द्वयोल्लसितमम्ब ! वर्तते यत्र नित्यमिह सामरस्यतः | सन्निकेतपदनित्यजृम्भितोल्लास एष तव मे पुरस्सरः || ८५ || भोग्यभोक्तृरुचिघस्मरं मनः पञ्चवाहमयमुच्यते तमः | निर्निकेतपदमेति यत्र ते कोऽप्यसौ सततमध्वरोत्सवः || ८६ || पूर्णसत्त्वरज-आदिहृद्गताधिष्ठिता त्वखिललोकवाहिनी | पञ्चधा वहसि शाश्वतोदया सिद्धसिन्धुरिव सिद्धसेविता || ८७ || व्योमयानमतिमत्पुरस्सरः पञ्चधा प्रसर एष तावकः | जृम्भमाणगुरुवक्त्रचित्पथोल्लासिमूर्तिरयमास्थितो जगत् || ८८ || स्पन्दमाद्यमनु कुर्वती शिवे निर्निकेतनपथोत्थिता गुणैः | शून्यधाम वससि त्वमिष्टितः प्रागधिष्ठितरवा विजृम्भसे || ८९ || चिच्चमत्करणरूढनिर्भरा त्वं पुरा स्फुरसि सैव खेचरी | रूपसंग्रहदर्शितैषणा तेजसा स्वरसवाहिनाऽम्बिके || ९० || देवि नैकविषयोद्यमस्फुटारोहिणी भवसि सैव भूचरी | स्पर्शसंग्रहणनित्यसम्मुखी स्वैरितामजहती स्वभावजाम् || ९१ || प्रत्यगात्मनि दृशोऽवकुञ्चना विश्वमन्नमुदरे वितन्वती | ग्रस्य संहृतिमुखेन दिक्चरी सैव देवि रसचर्वणोन्मुखी || ९२ || प्राप्तचित्तमुखतोऽधितस्थुषी स्वस्वरूपमनिकेतमञ्जसा | रौद्रभावकृतबाह्यजृम्भणा गोचरी त्वमसि गन्धहारिणी || ९३ || ब्रह्मविग्रहकलाधिरोहिणी पञ्चवाहवपुषः कला तव | सामरस्यघटितोदया शिवे शश्वदुल्लसति सिद्धमण्डले || ९४ || भानुशीतकरवह्निकुण्डलीबिन्दुसूत्रितपरावरस्थला | रुद्रशक्तिरिह कालकर्षिणी त्वत्कपञ्चविधवृत्तिसूचिनी || ९५ || घोषवाडवशिखास्तदुत्तरं बिन्दुनादयुगलं च यत्पदम् | सप्रसादमिह पञ्चभिः शिवे त्वां कलाभिरनुकॢप्तमोमपि || ९६ || इन्दुशूलवृषटङ्कमातृकाकालबीजधृतपञ्चभूमिकः | लोपसन्धिविहितध्रुवोदयश्चिन्मयश्च तव देवि दर्शितः || ९७ || यज्ज्वरादिपदमम्ब वायुना या शिखा मधुसपन्नगास्पदा | या निशा मधुनिविष्टसृष्टिका पङ्क्तिरप्यनुकरोति ते स्थितिम् || ९८ || यन्नभः स्फुरति यो मरुत् त्वयाधिष्ठितो विधृतसर्गरूपया | या शिखा यदुत वारि यज्ञसूर्याम्ब पङ्क्तिरपि तैस्तथाविधः || ९९ || भूचरी वहसि दण्डतः क्रमं मुण्डतोऽपरचतुष्टयी च सा | भोग्यभोक्तृकलनोर्मिसंक्षये सामरस्यरसरोहिणी शिवे || १०० || यस्त्वनाहतधृतोर्ध्वपारगस्त्र्यश्रमूलगगनस्थितः स्वरः | तत्र देवि वियदग्निपार्श्वयोर्मध्यगा वहसि पञ्चधा क्रमैः || १०१ || पञ्चवर्गमयपिण्डगामिनी मञ्चपञ्चकतनुस्त्वमम्ब या | देवि वर्ण इव भासि निष्क्रमा सामरस्यकृतपञ्चवृत्तिका || १०२ || शून्यमम्ब महमुच्यसे तु या यत् त्वमत्र गगने सदोदिता | दिव्यमोघमत उद्गिरन्त्यसौ स्पर्शमुज्झसि हि वामविग्रहा || १०३ || अम्बरस्य परमागता शिवे सैव चित्तमनघा स्वभावतः | स्पन्दमेत्य परमं विराजते खेचरि प्रणतखेचरस्त्वया || १०४ || व्यक्तमक्रमविजृम्भिता शिवे त्वं विसृष्टभुवनद्वयोदया | सैव संचरसि संश्रिता यदा भूचरी भवसि संज्ञया तदा || १०५ || स्वं वपुः स्फुरणशक्तिलक्षणं तत्तदर्थमयमम्बिके क्षणात् | सैव चेन्निजपदान्तवर्तिनी संहरस्यथ तदासि दिक्चरी || १०६ || प्रत्यगर्पितमुखी भिदाक्षयादैकरस्यमघिरोपितं त्रिधा | स्वं क्रमं ग्रससि सैव चेदसौ गोचरी खलु महाम्बरान्तगा || १०७ || पञ्चसु स्फुरति देवि वृत्तिसु त्वन्मयीषु यदि काचन स्वतः | शश्वदाशु निखिलास्तदैव ताः सामरस्यमधिरुह्य भान्त्यमूः || १०८ || निर्णिकेतनतयाऽम्ब खेचरी स्फारिता गगनकामया त्वया | नादसर्गनिहितस्ववैभवा दिक्चरी स्फुटमधिष्ठिता यया || १०९ || क्षोभमम्ब ! तव तावदिष्टतो द्व्यष्टरश्मितनुनादविग्रहा | बिन्दुभूमिमधितस्थुषी स्फुटानन्दचक्रविभवासि भूचरी || ११० || दिक्चरी त्वमसि बिन्दुभास्करा जृम्भिता बहिरिहाम्ब निर्गता | अर्थपञ्चकमलं ग्रसन्त्यसौ भूचरीं नयसि निर्विभागताम् || १११ || तद् द्विपञ्चकलवह्निविग्रहं सप्ततच्छिखमशेषघस्मरम् | मूर्तिचक्रमधिरुह्य दिक्चरी त्वं परां विशसि वाचमद्वयाम् || ११२ || चेतसः कृतमदा स्वजृम्भया त्वं निजं वियदभूमि जग्मुषी गृह्णती परममम्ब चित्पदं मङ्गलासि विधुताहृतिः परा || ११३ || अस्वराग्रिमविकासधर्मिणी विश्वचक्रपरिमेलनोद्यमा | भावनादिकलनातिवर्तिनी पञ्चवक्त्रमधिपीठ इज्यसे || ११४ || बिन्दुनादशशिपीठभास्वरा ज्वालराजभगकालविग्रहा | अस्वराख्यपरमाम्बरात्मिका मङ्गला त्वमसि वाक्त्रयातिगा || ११५ || द्व्यष्टधामनिलया चितिः शिवे स्फारयन्त्यनिशमात्मनो बलम् | निर्निकेतनपदा तनोष्यसौ ज्ञानरश्मिविसरं सदोदितम् || ११६ || अन्तरम्ब बहिरप्यमी करा ये तवाक्षतनवोऽङ्क एष यः | विग्रहद्वितयमप्यतः परं चिन्नभो नयसि नः करङ्किणी || ११७ || यत्प्रकृत्यवधितत्त्वमण्डलं क्ष्मामुखं परिमितग्रहास्षदम् | क्रोधनी त्वमसि तज्जिहीर्षया मन्त्रमूर्तिरिह ते विजृम्भते || ११८ || देवि कार्यकरणाह्वयं वपुस्त्वं त्रिशक्तिविसरद्गुणात्मकम् | मान्त्रमुग्ररससंकुलं परं वीर्यमानयसि तज्जिहीर्षया || ११९ || ग्रन्थयोऽपि षडुमे यया धृता सा निरावरणचिन्नभःपदा | स्पन्दमूर्तिधृतभेदडम्बरा भैरवि त्वमसि विश्वभेदिनी || १२० || अष्टपुर्युदितबीजवासनासंहृतिप्रवणरश्मिपुञ्जया | लीढमात्रमुखभेदिता त्वया भूयसे जननि लेलिहानया || १२१ || त्वं पराप्रभृतिवैखरान्तिमोल्लेखविस्तरविलापनोन्मुखी | देव्यनावरणशम्भुसद्मगा खेचरी भवसि चिद्विकासिनी || १२२ || वह्निसूर्यशशिधामघस्मरी कुण्डली तडिदिवोत्पतन्त्यसौ | शाम्भवं जननि बिन्दुमध्वना मध्यमेन च गतासि खेचरी || १२३ || मुद्रितस्वकृततत्त्वमण्डला जृम्भसे स्वजठरे सदोदिता | वृन्दचक्रगतपञ्चभेदगा त्वं शिवे दिशसि योगजां श्रियम् || १२४ || ज्ञानमम्ब तव भेदितैः स्वरैस्तैस्तु योग इह षण्डवर्जितैः | व्यञ्जनैरुदयते महान्तिकैर्मन्त्रशक्तियुगलं कहादिभिः || १२५ || बिन्दुचक्रशशिकुण्डली शिखा मूर्तिरम्बरगता चतुर्विधा | शक्तिरत्र कृतशम्भुभेदना षष्टिरम्बरगताश्चतुष्पराः || १२६ || आदिहान्तनिजदेहनिर्गताः षष्टिरत्र चतुरुत्तरा रुचः | खेचरीजठरनिष्ठितास्त्वया मङ्गले परमभेदतः कृताः || १२७ || ज्ञानदीधितिषु रौद्रदीधितेर्मन्त्रदीधितिषु वामयोदितम् | योगदीधितिषु जृम्भतेऽम्बिका ज्येष्ठयैवमथ शक्तिदीधितेः || १२८ || देव्यभेदितकलाचतुष्टया शम्भुदीधितिषु दीप्यते स्वरः | तत्स्थितिस्त्वमपि वर्णभेदिनी मङ्गले वहसि यत्प्रधानताम् || १२९ || सर्वदैव सकृदास्थितोदयाः सर्वतः क्षपितकल्पनाभिदाः | इत्थमेकवपुषा त्वया निजाः स्फारिता महति लक्ष्मचित्त्विषः || १३० || उद्यमप्रथनचर्वणात्मकं जागरादिपदमम्ब यत्क्रिया | यत्तुरीयमपि तद्विलापनं भातनुस्त्वमखिलेऽत्र जृम्भसे || १३१ || यो विकल्परहितोऽक्षमण्डलारूढ उल्लसति मातुरम्बिके | प्राग्विमर्श इह तन्मुखी प्रथा ज्ञानमर्थविधृता तनुस्तव || १३२ || ईदृगेतदिति तत्प्रथास्थितेर्यो विमर्श उदितोऽन्तरक्षतः | मन्त्र एष तव वृन्दचक्रगो यन्मुखी भवति तावकी क्रिया || १३३ || भोग्यभोक्तृपरिघट्टनोल्लसन्निर्मलप्रमदनिर्भरोदया लोलिताखिलहृषीकवृत्तिका युक्तिरम्ब ! तव विश्वमेलिनी || १३४ || ज्ञप्तिमात्रमपनीतवासनं निर्विकल्पमधिरुह्य चित्त्विषा | सामरस्यकृतशाश्वतोदया त्वं हि शक्तिरधितिष्ठसीश्वरे || १३५ || शून्यमम्ब गगनं हि या महत् स्पन्दबीजमनिकेतमीयुषी | लीयसे झटिति चित्तया त्वया शम्भुरश्मिवपुषाऽत्र भूयते || १३६ || ज्ञानमम्ब शमपूर्णचित्पयोराशिलम्बिलहरी त्वमुच्यसे | तद्विमर्शतदुपाश्रितक्रमध्वंसमूर्तिशतमूर्ध्वमण्डला || १३७ || स्त्यायमानशिवचिद्रसात्मकं भाववृन्दमधिरुह्य भामयी | खानिलाग्निजलभूमिभासिनी शम्भुतः प्रभृति जृम्भसे शिवे || १३८ || स्फारतावकविमर्शपावकभ्राम्यमाणधनसारभात्मिकाः | पञ्चदिव्यकुलबीजविग्रहाः त्वत्त्विषोऽम्ब ! शिवचिन्नभःप्रदाः || १३९ || पञ्चचक्रतनुरेष जृम्भते निर्विकल्पशिवबोधसत्फलः | पञ्चसु क्रममहीरुहः शिवे त्वन्मरीचिषु निरस्तवैभवम् || १४० || बीजमम्ब ! तव पञ्चधोदितस्फारितप्रगुणदेवताक्रमः | सिद्धिदोऽयमपरीतजृम्भणो यः प्रकाश इह सोऽन्तचक्रगः || १४१ || शम्भुधाम्नि पतिताम्बरेश्वरी शक्तिधामनि ततोऽनु खेचरी | भूचरी त्वमनु योगधाम्न्यतो दिक्चरी तदनु मन्त्रधामनि || १४२ || पञ्चमं झटिति पातुकक्रमादीयुषी स्फुरसि रौद्रवैभवात् | ज्ञानधाम्नि निखिलेशि गोचरी न क्रमस्तव निराश्रये पदे || १४३ || ज्ञानतः प्रभृति पञ्चमं शिवे यत् त्वमत्र परचिन्नभस्तनुः | पञ्चवाहमयशक्तिगर्भिणी भाससे प्रथनकेतघस्मरी || १४४ || त्वं निरन्तरचिदम्बरात्मिका वेलयाऽम्ब तुलिता दयाम्बुघेः | त्वययमूर्झटिति संविदापगाः पूर्णतां दधति निर्निकेतनाः || १४५ || पञ्चधा प्रभृतवैभवं शिवे चक्रमेतदिह गोचरीकृतम् | विश्वभक्षनिरुपाख्यचिन्मयात् त्वत्पदाद् गलति नैव जातुचित् || १४६ || धाम यद् भवति मुद्रया समं या च संविदनिकेतनाश्रये | याऽणुभावकलिता कला च तत् सर्वमम्ब तव बृन्दचक्रगम् || १४७ || अस्वरोल्लसनबीजमग्रिमो क्षीणतोऽवपुरपाकृतक्रमः | नाद एष तव विश्वदैशिकः कोऽपि संविदि विमर्श ईश्वरः || १४८ || ग्रन्थिपञ्चकविभेदिनी चितिः पञ्चतारलिपिवृत्तिसूचिता | येयमम्ब परधाम्नि ते तनुर्योनिपञ्चकमयी निराकृतिः || १४९ || स्पर्शवर्णमयपञ्चवर्गजैर्विस्तरैर्जननि मुद्रिता त्वया | व्यक्तिभेदरचना समन्ततो व्यक्तिधामसहिता जगन्मयी || १५० || आदितः क्रममयीभिरम्ब यः पञ्चभिर्भवति योनिभिः स्वतः | अक्रमः क्रममयस्त्वदाश्रयात् सक्रमः स्फुरति सृष्टिलक्षणः || १५१ || केवलं जगति योनिरक्रमा योगमूर्तिरिह ते सतां मता | योनिरत्र महती तदुत्तरा सा यदेतदवभासनं तव || १५२ || शङ्खयोनिरत उत्तरा धृता वृत्तिरम्ब तव यत्तु चवर्णम् | कालविग्रहविलासनं पुनः पद्मयोनिरपि ते विकस्वरा || १५३ || निस्तरङ्गजलधिक्रमा स्थिता कालि धाम्नि तव भेदघस्मरे | दिव्ययोनिरिह स्वस्वरूपिणी निःस्वभाव उदयः परस्तव || १५४ || स्वस्वरूपमयविश्वमूर्तिदृक्सिद्धगाढषरिरब्धविग्रहाः | स्पर्शमूर्तिमधिरुह्य पञ्च ते योनयो विधृतसृष्टिमण्डलाः || १५५ || जागरामुखचतुःपदाऽद्वयोन्मेषसंस्फुरितमातृलक्षणा | निर्द्वयाद्वयगतिर्महाखगे द्राक् तवाम्ब पतिसिद्धमण्डली || १५६ || कुण्डहृत्स्वरचतुष्टये स्थितो व्यक्तितः प्रभृति यो जगत्क्रमः | तस्य गोपक उदग्रवैभवो योऽवतार इह साम्ब ते प्रथा || १५७ || स्पन्दमूर्तिमविनश्वरं खगं स्पर्शशून्य इह हंसमास्थितः | ईश्वरस्त्रिपथभक्ष्यधामगो यस्तमम्ब भजते खगेन्द्रता || १५८ || प्रातिभः प्रथम उद्यमोऽम्ब यश्चित्रविश्वरचनादरोऽद्वयः | कूर्मवृत्तिमनुकृत्य कूर्मतां यात्यसौ तव निवेशितः पथि || १५९ || मेष एष उदयः परो मम छन्दतोक्षतनुतां वहत्युमे | नित्यतुर्यमहिमा ग्रसन्निभं मेष एति तव धाम्नि संस्थितिम् || १६० || छन्दतो मम निराश्रये पदे मुक्तबाह्यपदसिद्धिकल्पनाः | संविदो वसत यूयमित्यमूः शास्त्यसौ तव निरर्गलः शिवे || १६१ || निस्तरङ्गपरमाद्वयप्रथाम्भोनिधौ प्रतिनिवर्तितक्रमः | विश्वमन्नमुदरं नयत्युमे मीन उत्कटविमर्शवक्त्रगः || १६२ || निर्निकेतमहिमा निराकृतिस्तावकोऽयमवभासनक्रमः | स्वस्थशक्तिविसरत्समाहितो यत्र शक्तिनिवहोऽम्ब जृम्भते || १६३ || क्षान्त आदिकलिताक्षचक्रगो धीनिरासकृततद्विचारणः | खण्डचक्र उदितोऽम्ब ते क्रमो रुद्रसंख्य इह संहृतिक्रमः || १६४ || निश्चितग्रहनिदेशवर्जितो युक्त्ययुक्त्यतिगतोऽक्रमः परः | सत्पथोदितखधामगः शिवे खण्डचक्रविसरस्तवोत्कटः || १६५ || व्यक्तिमत्तदितरक्रमप्रथागुप्तिकृत् क्षतबहिर्जगत्क्रमः | निर्गताधममहार्थजृम्भितः संभृतौ जननि तेऽन्वयक्रमः || १६६ || ग्राह्यतद्ग्रहविधातृसंभ्रमो नादयुग्म इह विश्रमोन्मुखः | रुद्रसंख्य इममत्तुमीहते तावके तव मरीचिरम्बिके || १६७ || यो दशेन्द्रियनिविष्ट उद्धृतोऽत्यर्थमात्मजडभेदविप्लुतः | तत् क्षयाय वत कालकर्षिणी त्वत्समुल्लसति तावकी रुचिः || १६८ || अक्षचक्रनिवहोऽर्कसंख्यया स्वं स्वमर्थमिह यो ग्रसत्युमे | चिच्चमत्करणनिर्भरः स ते प्रत्यगुल्लसति तत्पदं गतः || १६९ || तत्पदं झटिति नीतसन्ततिः प्रेक्ष्य देवि तव तुर्यधामगः | निस्तरङ्गपरमाम्बरात्मगाः सामरस्यमुपयन्ति दीप्तयः || १७० || आदिसर्गसमखण्डवर्जितस्वस्वरात्मरुचिचक्रगामिनि | व्यक्ततत्परतया स्थितं बहिस्तावकार्थरुचिचक्रमम्बिके || १७१ || निर्विकल्पपरमाम्बराश्रयाः उज्झितेतरपदास्त्विषस्तव | स्फारिता हि यदि पूर्णतामधुः संभ्रमं जगति बाह्यमीश्वरे || १७२ || चञ्चला तटिदिवाक्रमं परा स्पन्दवृत्तिलहरी तवाम्ब या | सोदयात् प्रभृति कल्पनां विना वृत्तिभिस्तिसृभिरुज्झिता सकृत् || १७३ || अम्ब तत्र कलना पृथक्क्रिया सृष्टितः स्वपथगे क्रमे च या | तद्विरूपममलं तनुक्रमोद्योगमुख्यचतुरूर्मिसञ्चितम् || १७४ || एकमम्ब तव भात्यनावृतो द्वादशक्रमचिदूर्मिडम्बरः | सृष्टिकाल्युदयमेति यन्मुखे यः स्फुटो निरवधिर्निराश्रयः || १७५ || तस्य देवि हरसंभृतेर्वशाद् दुर्निरीक्ष्यतनुरुच्छ्रिताश्रयः | स्वस्वभावविहितक्रमाक्रमे द्वैध एष तव चित्त्विषां चयः || १७६ || यो मनोन्मनमनोन्मनीतरः स्वस्वरूपचतुरात्मभावतः | द्वादशैक्यतनुरक्रमक्रमो भैरवस्त्वमसि देवि ते स्थितिः || १७७ || ब्रह्मविष्णुहरमूर्तितां यतोऽभ्येति तत्तव तुरीयमास्पदम् | व्योम यत् क्रममयी त्वदीरणा धूयते लयखचक्रगा शिवे || १७८ || बिन्दुगर्भनिहितं त्रिधामगं तद्विशिष्टमुपरि प्रसर्पति | भेदनानिधनमों यदम्बिके तत्त्वमेव परतत्त्वदर्शनम् || १७९ || सत्त्वजाश्रुतकलावधि त्वया कालवह्निभुवना मरीचयः | भक्षणाय जगतः प्रसारिता यल्लयान्नृभिरणुत्वमुज्झ्यते || १८० || वर्णमन्त्रपदजृम्भया सम याः कलास्तदनु तत्त्वमण्डलम् | यानि तत्र भुवनानि चण्डिके तत्र कृत्स्नमपि गृह्यते स्थितौ || १८१ || त्वं निरावणयुक्तिमास्थितैस्तावकाद्वयविमर्शसाधिता | अन्तराहितषडध्वमण्डपैर्योगिभिर्जननि शश्वदीड्यसे || १८२ || मूलतः प्रभृति पावकाश्रयं द्वादशान्तनिधनं शिवे जगत् | वाहतत्प्रथनयोर्निषेदुषी मज्जयस्व तव धाम्नि चित्पदे || १८३ || ये निरावरणयुक्तिशालिनस्तान् प्रति स्फुरति तत्परं नभः | यत्र मेयमितिमातृघस्मरे वासनापि न जगद्विभेदगा || १८४ || वृत्तिसंहरणमेव मातरि व्यज्यते न खलु संस्तुतिक्षयः | तद्द्वयं च तव धाम्नि संभृतं चण्डि केयमिति चण्डिमा त्वयि || १८५ || भूतयन्त्रनिलयास्तवाम्बिके शक्तयोऽक्षरकवृन्दमास्थिताः | त्वत्पदं हि विषयामृतासवैः स्वस्ववृत्तिकुसुमैर्यजन्त्यमूः || १८६ || गोचरीप्रभृति शून्यपश्चिमं भूतषट्कमवमज्य धाम्नि ते | स्वप्रभे प्रमदनिर्भराः परं शक्तयो दधति दर्पमीश्वरे || १८७ || द्वादशाम्ब ! किरणात्मनो रवेर्मातृवह्निविदिते त्वदम्बरे | विश्वमेत्य सहसा मरीचयोऽश्नन्ति चिन्मुकुरबिम्बितं जगत् || १८८ || बाह्यमीश्वरि विना सुदर्पणो बिम्बमेतदनुकारिणी तनुः | व्याप्ततामुपेयुषी त्वदम्बरे युक्तिमर्हति न बिम्बबाह्यताम् || १८९ || अस्ति बाह्यमिति तत्प्रथेत चेत् तादृशप्रथनगर्भितं हि तत् | न प्रवेदयति निष्प्रमाणकम् मानमम्ब खलु साधयेत् प्रथाम् || १९० || ईदृगेतदिति चैव मा फलं तत्तथेति हि विमर्श आन्तरः | निर्विबाध उपधानशब्दवत् कर्म सा त्वयि पुटत्रयी स्थिता || १९१ || माययान्तरमपि स्थितं जगद् वर्तमानमवभाति बाह्यवत् | भूतभावियुगलं यथापुरं विद्ययाम्ब तव वृत्तिरूपया || १९२ || त्वं गुहा निखिलभावगूहनी भामयेन वपुषाऽवतिष्ठसे | यच्च यस्तव पतिर्गुहाशयः प्राणिचक्रमखिलं च यस्य पूः || १९३ || भासितं जननि मायया बहिर्बिम्बमेतदनुकारि मानसम् | मातुरेतदुभयं च बिम्बितं तावके वपुषि यद् द्वयं स्थितम् || १९४ || वारिवह्निमुकुरादिषु स्फुटा स्वच्छवस्तुषु कुमारि बिम्बता | मन्त्रिता सह परिच्छदेन यत् तेन बिम्बमनवेक्षितं तव || १९५ || यत्स्मृतौ स्फुरति वस्तु बिम्बितं स्वप्नसंप्रथनकल्पयोश्च यत् | बिम्बवर्जमिह तन्निदर्शनात् त्वन्निमग्नमुदितं जगत् त्वया || १९६ || स्वप्नदृष्टमसदित्यसद्वचो दिव्य एष यदिह प्रमाणितः | कल्पनापि न मृषा फलं शिवे यत् स्थितं गरुडभावनादिजम् || १९७ || ख्यातिरम्ब ! यदि याति पूर्णतामीदृगेतदिति कल्पनामयी | तत्तथेति हि विमर्श उत्तरो नान्तरेति परिमर्दयोग्यताम् || १९८ || अस्ति तद्यदि धृतं जलस्थले देवि ! तद्वदनलार्कसोमयोः | मारुते नभसि वा तदाकृतिस्तत्कृतिं च कुरुते हि पूरुषः || १९९ || कल्पना यदि मृषेति भाषिता धारणा फलति केन हेतुना | देवि ! संकलनबोधजीविता देवता किमिति कैर्न हीयसे || २०० || तन्न जग्मुरुदधौ स्वयौक्तितो विष्णुरात्मजमदर्शयच्चितः | तातमम्ब तनयस्य शङ्करो दग्ध एष हि बहिःक्रमस्तव || २०१ || रूपमेष्यति हयाननं हरिर्गोपसंज्ञमगमद् बहिः पुरः | तद् द्वयं च भजतां बहिः फलं भावि चेन्न सदतीतमम्ब यत् || २०२ || अक्षरेऽम्ब परमे वियदृचो यत्र यत्र सकला च देवता | तन्न वेदयति चेदृचां फलं तद्विदां तदिति हि स्फुटा श्रुतिः || २०३ || वह्निभानुशशिविद्युदातपं ज्योतिरिङ्गणनभश्चरादयः | याः स्फुरन्ति हृदयेऽपि सारवाः तैस्तदम्बरगतैर्हि भूयते || २०४ || देशकालमवभासि यादृशं यत्तयाऽनुभवितुर्विभेदिनः | तत्तया सकलमीक्ष्यते स्मृतौ मत्कृतस्मृतिमवेक्षते क्षणम् || २०५ || यद्यनङ्क्ष्यदनुभूतिरीश्वरे सा स्मृतिस्तदितिना प्रतिष्यते | संस्तवो ह्यनुभवस्मृतौ स्थितस्तत्क्षयेऽनुभव एव न स्मृतिः || २०६ || संस्मृतिः सदृशवस्तुबोधिका दृष्ट एव विषयः स्मृतेतरः | दृक् शिवे विषयभानविग्रहा तत्प्रथा स्मृतिरियं यदाहृता || २०७ || द्रष्टृदृश्यदृशिलक्षणं जगत् प्राक्स्मृतेस्त्वयि तदम्ब संहृतम् | उन्मिषत्यपि पुनस्तदुद्गमे तल्लये निमिषति त्वदिच्छया || २०८ || सा प्रमातुरिह जीवितं स्मृतिर्यत्नतां प्रकटयत्यमुष्य या | या च दृग् जननि निह्नुतेन ते अप्युभे सह पुनर्विरूपताम् || २०९ || दृग् विधत्त इह विश्वमम्बिके तत्पुनः स्थिरयति स्मृतिस्तव | तन्मिथोपनिहिता निषीदसि त्वं तु योगतमसीत्यनाश्रिता || २१० || सृष्टिपालननिरोधलक्षणा रूपतां वहसि बिन्दुलक्षणा | तद्विलक्षणपदा त्वमम्बिके चिन्मयी पुनररूपमुच्यसे || २११ || भोग्यभोक्तृमयगा विमर्शगा देवि मां चिदुदरे दृढां दशाम् | आर्पयदनलसोममिश्रणस्त्वद्विमर्श इह भानुजृम्भणः || २१२ || दृष्टिरूपमिदमम्ब भावितं स्थेमरूपकरणांशुभिर्जगत् | स्यादनाख्यमनिकेतयुक्तितस्तत्पुनर्लयमनेन चात्मना || २१३ || अक्षमूलपशुभेदविग्रहा न्यायसंभृतिहृतार्धरूपिणी | त्वत्पदे ग्लपितकल्पने लयाद् भाति बिन्दुरिति किं नु मुद्रया || २१४ || या दशासु निखिलासु सर्वथा सर्वतः स्फुरति चित्परा सकृत् | गुप्तभाषितजगद्विजृम्भणा मन्त्रतां भजसि तत्त्वमम्ब सा || २१५ || अक्षिमात्रविसरच्छिखं शिवे वह्निमुग्रमुदरे वितन्वती | ग्रस्तकालतनुभानुमत्कला स्वोदये दिशसि शक्तिजृम्भणम् || २१६ || तत्र ते सदसदर्थशून्यता निर्वृतिर्जयति यत्र विश्रमः | मातृतत्करणगोचरोज्झिता काल्यकालमनु तल्लयोऽस्तु मे || २१७ || क्षेपमम्ब वितनोति संख्यया तद्ग्रहश्च सहसा परत्रये | अक्रमः स खलु काल ईश्वरे प्रत्यमुष्य भवती च काल्यसौ || २१८ || खे बहिर्घनवृते रुचिस्तमोहारिणी वहसि हास्यरूपताम् | त्वं च चिन्नभसि मायया वृते तद्धि काल्यसि परैस्त्वमीक्षिता || २१९ || द्वादशशात्मरविकालघस्मरी कालकालिशिवभूमिका वरा | यादृशी भवसि चण्डि ! तादृशीं त्वां विदुः कलितकल्पनापराम् || २२० || यत्कुलं त्रिविधमम्ब तद्भवो यः प्रकाश उपलक्ष्यते महान् | तत्र यो निखिलकल्पितोऽर्णवस्त्वं यदूर्मिरसि कृत्यलालसा || २२१ || उन्मिषन्निमिषदप्युत द्वयं विश्वमेतदुदरे धृतं यया | सा त्वमम्ब लहरी शिवाम्बुधेः क्षेपसंप्रकटनग्रहोन्मुखी || २२२ || यः परो निरुपसर्गतः परः स्यान्महानपि च केवलः शिवे | उत्तरं च विषयोत्सवस्तदानन्द उल्लसति चिद्घनासि यत् || २२३ || विश्वसंहृतिपदे लयोज्झिते लीयसे यदि निरंशतः शिवे | सृष्टिकाल्यसि यया बहिःपदे क्षिप्तमम्ब जगदाशु गृह्यते || २२४ || लब्धसाम्यपवनद्वयाहृतं वातचक्रमधितस्थुषी शिवे | निर्गमागममपोज्झितान्तरे त्वं स्थितं ग्रससि हि स्थिताम्बिके || २२५ || या शिखान्तरहुताशनिर्गता धामचक्रमवभिन्दती क्रमात् | ऊर्ध्वसोमरसपानदीपिता साऽपि देवि कलये बहिः स्थितः || २२६ || बर्हिणोऽण्डरसवद् यदन्तरे शब्दतः प्रभृति चित्रितासनम् | अर्थपञ्चकमसौ त्वमुन्मनी सन्धिपूर्वपदकल्पघस्मरी || २२७ || आत्मभावमखिलस्य जग्मुषी त्वं शिवे निरवधिः सदोदिता | भावसंहृतिनिमेषविग्रहा संहृतं कलयसि ह्यनावृतिः || २२८ || स्वैरखेलननिवेशिताः शिवे आत्मनाऽक्षरुचयस्त्रयोदश | अर्थपञ्चकमयाश्च वेदकास्त्वं विनीतघनसारमूर्च्छिता || २२९ || भक्षयन्त्यखिलमक्षजैः शिवे शक्तिरश्मिभिरिमाश्च मातृभिः | ताश्च संस्मृतिमहालये परे रज्यती हरसि विश्वविग्रहम् || २३० || कालपालकमुखं शिवान्तकं विश्वमब्धिपतितोदबिन्दुवत् | पूर्णतां वहति यत्र दीप्तिचिद् घस्मरी त्वमिह साध्यकाल्यसि || २३१ || एतदम्ब सदिदं तु नेति नः शङ्कया हृदि विकल्पलक्षणः | यो यमः स खलु काल्यते त्वया भूतसंयमनकेलिकोविदः || २३२ || अम्ब कार्यकरणे नियच्छतः पूर्णचित्पदमहोत्सवद्विषः | जम्बितस्य हृदये स्वशङ्कया त्वं यमस्य वपुषाऽसि भीषणा || २३३ || वित्तदारमुखभोग्यगामिनी या ममेत्यभिमतिर्मदोद्धता | याऽप्यहङ्कृतिरनात्मनि स्थिता मृत्युरूपमुभ्यं तवासनम् || २३४ || विश्वमम्ब कुरुषे शवासनं मृत्युसेचनमखण्डितोदया | चिद्विकल्पमयमन्तरुद्यमं कालमोहितजगत्त्रयम् प्रति || २३५ || शाश्वतप्रसरया चिदर्चिषा दीपिताखिलहृषीकमार्गया | अर्थपञ्चकमिदं त्वया जगद् भद्रमम्ब गमितं तवान्तरम् || २३६ || वासना स्थितिमयी भवास्पदा त्वं नियोज्य कृतविश्वसंहृता | त्वद्भ्रुवा कुटिलया शिवे क्षणात् संहृतः खलु भवः सवासनः || २३७ || कुर्वती जननि सृष्टिचित्रतां या कला भ्रमति वेद्यमण्डले | ब्रूहि सा तव कलोन्मुखी यदा त्वं क्रियोत्कुटिलयात्त्यमू तदा || २३८ || उन्मिषन्निमिषदर्कविम्बयाऽनन्तयाम्ब परमार्थमध्यतः | अग्निमूर्तिरिह सृज्यते त्वया भक्ष्यतेऽपि च सकृत्प्रभातया || २३९ || भर्गनाम्न इह भारवेः शिखा शक्तिरम्ब विषयेन्धनोन्मुखी | शान्तिधामजुषि याति निर्वृतिं त्वययसौ खलु शिवैकपावके || २४० || योऽमृताण्डनिभमर्थपञ्चकं प्राणिनः स्फुरति भामयो रविः | संहृतार्धमनु अन्तराहितं तद्वहिः सृजति चार्थपञ्चकम् || २४१ || संहतोर्ध्वनिकरस्मृतावधिर्व्यक्तमण्डतनुरम्ब भास्वरम् | काललक्षणकलाप्रदीप्तये त्वं हि विश्वरसभक्षमास्थिता || २४२ || भूतचक्रमधुकोशसम्भृतं तत्तदर्थमधु पातुमुत्सुकः | यन्मरीचिविषयः सभास्करस्त्वद्रुचौ शलभवत् प्रलीयते || २४३ || प्राण एष यमकाल उच्यते मध्यवाहतनुरग्निमम्ब यः | रुद्रमेतदुपनीय खं परं तत्र सर्गविमुखं करोष्यमुम् || २४४ || त्वत्क्रमोपहतभानुमण्डलः क्रोध एष लयवह्निरुद्धतः | विश्वभक्षणरसा मरीचयो यस्य भीमविभवास्त्वया हृताः || २४५ || ग्राह्यमत्र पुरतो हरन्ति ते यत् पृथग् ग्रहणमप्यसुं ततः | ग्राहकांश्च वरदे मरीचयः तास्त्वदर्पितजगद्विजृम्भणाः || २४६ || यः श्मशान इह भूतघस्मरे रज्यतेऽम्ब करवीरनामनि | ग्राहकं ग्रससि तं श्रुतं महाकालमप्यसुहुताशदुर्ग्रहा || २४७ || दिक्चरी दशसु दिक्षु या बहिस्तत्तदिन्द्रियमयीषु जृम्भते | अन्तरम्ब करणत्रये च या खेचरी गलसि ते च त्वत्प्रिये || २४८ || त्वष्टुरम्ब ! शिवबोधभास्वतः सृष्टितः प्रभृति या मरीचयः | द्वादशक्रमपदत्रयोर्ध्वगास्तासु संचरसि वा त्रयोदशी || २४९ || सक्रमाक्रमविमिश्रभावतस्त्वत्क्रमस्त्रितयचारुवीक्षणः | तुर्यरश्मिगुणविक्रमैकभूस्त्वं क्रमत्रिगुणभीमकाल्यसि || २५० || यत्र कालि दश ते कराः स्थिता द्वे च यान्त्युदयमप्यमूर्यतः | तन्नभः श्रयसि सर्वतः परं त्वं प्रकाशशिवचन्द्रिका सती || २५१ || शान्तमम्ब यदभिन्नमम्बरं यत् प्रकाशघनमप्यपोह्येते | यद् द्वयोभयपदातिरोचनाद् यत्र मुक्तनिकरो निलीयसे || २५२ || त्वं पदत्रितयगर्भितोदयं निर्व्यपोहमुपगुह्य शङ्करम् | ऐकरस्यलसदक्षयप्रथं नादमुद्वमसि सर्वतः शिवे || २५३ || ये विदन्ति तव रूपमीदृशं ये च नित्यकृततल्लयोद्यमाः | एष तान् प्रति भवन् सुधामयो येऽन्यथा विषमयश्च तान् प्रति || २५४ || यः प्रमज्जयति मूढचेतसं तारयत्यपि स एष धीमतः | येन तद्भवसुधाम्बुधिः शिवे यज्जुषां वहति निस्तरङ्गताम् || २५५ || अर्थपञ्चकसुधाप्रपूरिते यद्भवामृतनिधौ सुखप्लवे | पद्यतां वहसि संविदिन्दिरा धामवस्तु तदुमे वपुस्तव || २५६ || तत्र पद्मरुचिवेद्यमण्डले स्वादुनि प्रकटमेयिवान् लयम् | माययाऽम्ब पुरुषो निमीलितः त्वद्धियोन्मिषति विद्ययावृतः || २५७ || तत्तदर्थदलशोभितं जहन्निद्रमुल्लसितमम्ब वारिजम् | त्वद्विमर्शमकरन्दनिर्भरं पीठतां व्रजति यत्र चिन्मयम् || २५८ || त्वं मलत्रयविलापिनी शिवे पूर्णपीठमहमात्मकं श्रिता | शुद्धभानुतनुरद्वयप्रथानन्दसाररसवाहिनी सताम् || २५९ || सत्सुधाब्धिरसभृत् कलान्तरी गर्भषोडशकलाब्जविष्टरम् | प्रेतमुज्झितगमागमं शिवे स्मेरभूः सरसिजं त्वमाश्रिता || २६० || निष्कलङ्कमनवेक्षितक्षयं यामिनीदिवसतूलजृम्भणम् | स्वप्रकाशविनिमग्नचिज्जडं चन्द्रवर्ष्म यदि चण्डिके समम् || २६१ || ये तु कुण्डलशिखाकुलस्थिताः ये भवन्त्यकुलबिन्दुशालिनः | ते विदन्ति नु तवाम्ब वैभवं पूर्णभानमयविश्वघस्मरम् || २६२ || ज्योतिषाम्ब ! शिखयापहन्यते पुंसि चैतसिकमुद्धतं तमः | यत्पथप्रथनलक्ष्मपुङ्खितं तत्त्वमेव शिवशक्तिरप्यसि || २६३ || निह्नुतोदितशतार्कदीधितिश्छन्नचन्द्रशतलक्ष्मचन्द्रिकम् | त्वं बिभर्षि वपुरम्ब भात्मकं तत्प्रवेश्य कुरु मामनामयम् || २६४ || त्वं कुलाख्यशशिभानुपावके भ्राजमानकरणात्मनायिके | संस्मृतासि मुनिचित्तमण्डपे अद्य मे कुरु तवाङ्घ्रिसंश्रयम् || २६५ || पञ्चवाहगत शक्तिलक्षणैस्त्वन्मुखैरखिलमर्थमण्डलम् | गृह्णती मयि निवेश्य चण्डिके या करोषि सहजं तवाध्वरम् || २६६ || त्वत्पदस्मृतिविधूतकल्मषं सर्वतः स्फुरितपूर्णभाघनम् | सिद्धचक्रमिह मोदते शिवे पूर्णिमाप्यहह मे न तापहा || २६७ || भूतभाविभवदर्थगर्भितं कालघस्मरमुपास्यते वपुः | कालकर्षिणि वहन्ति योगिनः कृष्णतः प्रभृति विश्वरूपताम् || २६८ || स्पर्शरूपरसगन्धरूपजं शब्दचिद्वलसभा विभिन्दती | वृत्ति च क्रमकृताः षडध्वनो देशकालमयमूर्तिचक्रगा || २६९ || यत्प्रकाशतमरञ्जकं पदं तस्य भाव इह यः सतोऽम्बिके | इन्दुवह्निरविलक्षणं कुलं त्वं तुरीयपदगाऽप्यलक्ष्यसौ || २७० || अम्ब नन्दति समन्ततः शिवे लोकनेन य उदग्रवैभवः | प्रज्ञया वहसि सार्वभौमया या च नेत्रमयमर्चिता तव || २७१ || प्राप्तदिव्यनयनैर्विलक्षणैर्वीक्ष्य कालि ! महिमाऽनुवर्ण्यते | केवलं तदनुवर्णनेऽप्युमे त्वन्मुदे तदपि दासजल्पितम् || २७२ || न त्वमम्ब पुरुषश्च नाङ्गना चित्स्वरूपिणि न षण्ढतापि ते | नापि भर्तुरपि ते त्रिरूपता त्वां विना तदपि न स्फुरेत् त्रयम् || २७३ || ईश्वरो जननि चिन्तितप्रदः कोऽप्यनादिनिघनो महामनाः | त्वत्प्रथा त्वमसि विश्वघस्मरी त्वां ततः क इह भेत्तुमर्हति || २७४ || रक्तशुक्लतनुहंसभेदिनी त्वं पतिश्च तव तत्कृताकृतिः | भानुशाङ्करविभेदतस्तव स्त्री च काप्यसि पुमानिव स्वयम् || २७५ || रूपमम्ब तव भास्वरं पुरो वर्णपञ्चकविभेदितं पुनः | त्वद्विमिश्रणमपि ह्यसुस्थितं चित्रसंज्ञितमतश्चतुर्विधम् || २७६ || भासनावरणशक्त्यधिष्ठितो ज्योतिरञ्जनमथो द्विधा तव | विग्रहाभरणबिन्दुशर्वरीसंज्ञ उद्भवभवः स्फुटोदयः || २७७ || अञ्जनेन रुचिमिश्रणे समे रक्तमुल्लसति तावकं वषुः | श्यामनीलतनुताऽञ्जनेऽघिके पीतशुक्लतनुता च ते रुचौ || २७८ || सौम्यता तव सिसृक्षया तनोः सा तथाप्यथ रिरक्षिषा यदा | घोरता पुनरियं जिहीर्षया संस्मृतेऽम्ब तव धाम्नि शान्तता || २७९ || भास्वरे वपुषि सर्वगे तव स्पष्टमण्डनिवहो निमज्जति | कालवह्न्यधिकृतौ शिवे यथा तत्समुल्लसति दीप्तिपञ्जरे || २८० || तावकं त्रिविधरूपवर्जितं गर्भितत्रिविधरूपमम्बिके | चिन्मयं परमरूपलक्षणं रूपमन्तरवभाति तद्बबहिः || २८१ || स्त्रीति नाम तव कापि कल्पना स्त्रीतिरूपमपि तादृशी च धीः | वस्तुतस्त्वमसि विश्वविग्रहा तत्परा च चितिरेव शाङ्करी || २८२ || त्वं चतुर्थपदवर्तिनी शिवे यद्द्वितीयमपि तत्पदं स्थिता | योऽपि पञ्चमपदाश्रितः शिवे यस्तृतीयमपि तत्पदं स्थितः || २८३ || यत्पदं प्रथमेतदुत्तरे तत्परे तदपि तुर्यगामिनी | त्वं तुरीयतनुराहृतत्रिका पञ्चमं विशसि पूरितत्रिकम् || २८४ || अम्बरेश्वरि निराकृतेस्तव व्यज्यते निखिलमाकृतित्वतः | सर्वदा स्फुरसि येयमद्वयानन्दचित्प्रसरपीठवर्तिनी || २८५ || न श्रुतिर्न च गिरो न चागमाः खण्डवस्तु विनिवेशिताशयाः | त्वां नयन्ति परमेशि ते मखा यागयोगविधयश्च नेदृशीम् || २८६ || नित्यतादिगुणलक्षिते पदे ज्ञानयोगमुखकल्पनापि ते | अम्ब न त्वदनुभूतिदायिनी त्वल्लयैकगुरुसंश्रयं विना || २८७ || व्योमभावविनिविष्टचेतसः प्रातिभं जगदवेक्ष्य निन्दिताः | ते त्वमाविशसि याननारतं त्वन्नयेन गुरुणाम्ब ! वीक्षितान् || २८८ || नित्यता त्वयि विभुत्वपूर्णते दृक्कृये स्वरसगोचरे च ये | तानि तानि वियतीव शोभने रागवेदसकलाश्च भान्त्यथ || २८९ || व्योमवृत्तिघटितैक्य उल्लसत्यद्वयो जननि ! देवतागणः | तावकोद्यमपदेऽपि सर्वगो द्राग्विलापनपदं विनापि ते || २९० || इत्थमम्ब तव वृत्तिपञ्चकस्योदयोऽद्भुतविभागसंभ्रमः | सर्वदा स्फुरति सर्वतः परं खण्डितेतरनिजस्वरूपभाक् || २९१ || खण्डितेतरसमस्तगर्भगो यस्त्रिपञ्चविसराश्रयोऽक्रमः | देवताक्रम उदेत्यनारतं तस्य हि त्वमसि देवजन्मभूः || २९२ || दिव्यवाहविभवोदरस्थितो रश्मिमण्डलसमुद्गमास्पदम् | अव्ययस्तव नवार्णविग्रहे संहृतिक्रम उदेत्यकल्पितः || २९३ || लक्ष्यशून्यसहजाश्रमोदयारम्भपूर्णनिजकोट्यभेदिनी | रश्मिचक्रतनुरश्मितोज्झिता त्वं च गौरि ! वरपुण्यवासना || २९४ || अध्वभिर्ध्वनिविमिश्रणक्रममब्जबीजमनिकेतनं वरम् | कल्पनैक्यबहुभेदमद्वयं मन्त्रपीठमसि काल्यनर्गलम् || २९५ || स्पन्दमम्ब परिपूर्णमप्यभूः स्पन्दमु~ज्झितपदं निरावृति | व्योमरूपमखिलक्रमास्पदम् पीठमावधिकविद्ययाम्बया || २९६ || अष्टयोनिदलपत्रपूरुषं त्वन्तवृत्तिदलशक्तिपेटिका | त्वं पतिश्च तव लिङ्गविग्रहो रुद्रसिद्धमुनिवृन्दवन्दिते ! || २९७ || सृष्टितः प्रभृति यच्चतुष्टयं यत्प्रकाशनिभमूर्तिवृन्दजम् | यच्च खण्डपदमम्ब ! पीठगं देहि चक्रनवकं नुतं तव || २९८ || त्वं नवार्णमनुचक्रविग्रहा स्वोदरार्पितसमस्तदेवता | देवि सप्तदशवर्णभेदिता त्वं प्रकाशशिवचन्द्रगामिनी || २९९ || यः शिवात्प्रभृतिसोमपश्चिमस्त्वत्क्रमैकरसिको गुरुक्रमः | आननाग्रमिह चक्रभानुतो यत्तु एददुभयं त्वया यया || ३०० || तत्तदर्थपुरुषो धृतक्रमः प्रतिभस्फुरितदिव्यविग्रहः | अक्रमस्तव वरं पदं शिवे योऽहमद्वयविमर्शलक्षणः || ३०१ || लक्षणं तदनु सूक्ष्ममिष्यते ज्योतिरात्मकमवर्णमास्थिता | स्थूलमेतदनुवर्ण्य लक्ष्यते भाव्यते शमयितुं मनो मया || ३०२ || तत्र शान्तवति पौरुषे मले व्योमवद्गतमवेदया त्वया | सिद्धकार्यकरणं निरङ्कुशं चिन्मरीचिविसरेण मङ्गले || ३०३ || सोमपुत्रमपनीय मद्गतस्त्वत्क्रमोऽद्य किमपि स्तुतो मया | ग्रस्तभीषणभवोऽयमम्बिके त्वत्पदाम्बुजविमर्शतेजसा || ३०४ || मुक्तमेव न मया मयोचितः प्रेरितोऽस्मि तव तर्तिनी तया | सिद्धनाथकृतत्वत्क्रमस्तुतेः कालिदासरचितां च पञ्चिकाम् || ३०५ || यद्विनिश्चयपदं च ते स्तवं योऽम्ब वेद कुरु तन्मुखं जगत् | कालिदासपदवीं तवाश्रितः त्वत्प्रसादकृतवाग्विजृम्भणः || ३०६ || त्वद्गुणान् यदहमस्तु वै जगत् तेन मोहमतिरद्य मुच्यताम् | पूर्णपीठमवगम्य मङ्गले त्वत्प्रसादनकृते मया कृतः || ३०७ || एष चिद्गगनचन्द्रिकास्तवः किन्नु वाञ्छितमसूत मां प्रति | यः पठेज्जपति देवि ! ते स्तुतिं योऽर्थमत्र विवृणोति वेत्ति यः || ३०८ || योऽनुगात्यभिनयत्यभीप्सितां तच्च तस्य कुरु सिद्धिमिश्वरि | कालवर्षिणि शतैस्त्रिभिः स्तुतिं तावकीमिह नवोत्तरैः कृताम् || ३०९ || त्रैष्टुभैरहरहः परामृशन् कालचक्रमतियन् प्रसीदति | कर्तुमिच्छति शिवं शिवे नृणां ज्ञायते तद् विचार्य या त्वया || ३१० || क्षेपधीस्तवन (?) गौरि तत्कृता विश्वराशि (?ज्ञि) कुरु सर्वमीप्सितम् | केवलं मम पुनस्तदीप्सितं सर्वतस्तव मदीक्षणं शिवे || येन खेलनसरोहणार्णवः शश्वदाविशति येन मां शिवः || ३११ || पूर्णपीठकृतं सिद्धेस्तद्भावस्तवमादरात् | वा नरार्थं महागुह्य श्रीवत्सो विदधे स तु || ३१२ || इति श्रीकालीदासमहाकविविरचिता चिद्गगनचन्द्रिका सम्पूर्णा || क्रमप्रकाशिकासंवलिता प्रशस्तिपद्यानि तन्त्रे सूर्य इवैव बोधकिरणैरज्ञाननाशेऽग्रणीर्- लोकालोककलाकदम्बविभवैर्देदीप्यमानो मणिः शश्वच्छान्तिसुधासमुद्रलहरी दोलायते यद्-हृदि गोपीनाथबुधं नमामि विबुधं सारस्वतं तन्महः || १ || मीमांसा सहसा सुधेव धवला येभ्यः प्रदत्ते निधिं वेदान्तामरतत्त्वबोधविभवो ब्रह्मेव बोधाकरः | तर्कागाधपयोधिलोललहरी लीलायते यद्धृदि शुक्लोपाह्वविभूतिभव्यबदरीनाथान् सदा तान् नुमः || २ || वेदाङ्गानि विभान्ति यत्र विमले विद्यागुरौ मार्गदे मन्ये श्रीरघुनाथशर्मविबुधे साङ्गानि रत्नाम्बुधौ | स्तुत्या कीर्तिलता सुधेव भुवने यस्यामरा भासते पूज्यं तं सततं स्मरामि सुखदं विद्याकरंशङ्करम् || ३ || योगे तन्त्रभरे विभागकमले बाभाति विज्ञो वरः प्रख्यातो व्रजवल्लभोऽत्र धवले विद्यानिकेतेऽधुना | यस्यासीमदयैव हेतुरपरो नाभाति मे मानसे टीकाकर्मसहायिका नवनवा तं भावये प्रेरकम् || ४ || मानी श्रीशिवपूजनो मम पिता माता रमा मोहदा यत्पार्श्वे प्रबलं मनोबलकुलं सम्प्राप्य कृत्वाऽधुना | टीकां चिद्गगने नवां नवबलामर्थप्रकाशे परां वैदुष्याञ्चितचिद्भरां मतिमतां याचे दयां बोधदाम् || ५ || श्रीरुक्मिणीकम्रकरं सहायं सम्प्राप्य निर्विघ्नमिहास्मि लोके | प्रख्यातसीवान इति प्रदेशे वासो मदीयः सरयां-सुभूमौ || ६ || तत्रागमे श्रीरघुनाथमिश्रो भूरिश्रमो यस्य विभागतन्त्रे | अर्थप्रकाशां विमलां च टीकां कम्रां स तेनेऽर्थप्रकाशिकाख्याम् || ७ || का पञ्चमी याऽर्थप्रकाशिकायाः साफल्यसिद्धावुपकारिकैव | नागानना संशयनाशकारी मोहापहन्त्री कृतिभारहारी || ८ || सदा लोकालोको दलयति दलं गाढतमसां भृशं ज्वालालीलो दरयति दरं वेपथुमताम् | मरुद्धीरा धारा दहति विपुलामुष्मलहरीं तवैवैका दृष्टिः सकलमिह मातः शमयति || || शुभं कुलक्रमं कुर्यात् || * ########### END OF FILE #######