#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00234 Uniform title: dīkṣādarśa Author : vedajñāna Manuscript : IFP/EFEO transcript T0372 Description: E-text created from IFP/EFEO transcript T00372 Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Sept. 18, 2011 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### दीक्षादर्शः ईFP ट्.णो. ३७२ पगे १२६२-१६७० चोपिएद् fरोम् अ म्स् बेलोनिन्ग् तो षुन्दरदिक्सितर्, टिरुनेल्वेलि ठिस् इस् अन् इम्पोर्तन्त् षिद्धान्त wओर्क् ब्य Vएदज्ञान wहो लिवेद् इन् Vयाघ्रपुर इन् टमिल् णदु. ईत् देअल्स् wइथ् थे वरिएतिएस् ओf इनितिअतोर्य रितेस् देस्च्रिबेद् इन् थे आअगमस्, qउओतिन्ग् fरोम् थेम् एxतेन्सिवेल्य. || दीक्षादर्शः || प्. १२६२) वन्दे कल्कक विघ्नेशं वाञ्च्छितार्थ प्रसिद्धये | वरदं सर्वभक्तानां यल्लभा वल्लभं प्रभुम् || श्रीमददभ्र सभानाथं व्याघ्रपाच्छेष पूजितम् | आनन्दसर्पिणीं शक्तिं भजाम्यानन्दसिद्धये || क्रियाकाण्ड प्रवृतांश्च सान्तानिक गुरुनपि | वेदज्ञानमुनेज्ञान मोक्षदं साधुसद्गुकम् || आगमानामनन्तत्वा दवलोकितुमक्षमात् | * * * प्रतिबोधाय दीक्षादर्श इहोच्यते || कारणे - अतः परं प्रवक्ष्यामि शिवदीक्षा विधिक्रमम् | नराणां मोक्षसिद्ध्यर्थं सर्वपापहरं परम् || सर्व रोगविनाशार्थं धनधान्य समृद्धिदम् | तथा सर्वज्ञानोत्तरे - अतः परं प्रवक्ष्यामि अप्रबुद्धस्य देहिनः | सर्वतत्वनिबद्धस्य सर्वधर्ममयस्य तु || पशुधर्म विमुक्तस्य अनादिमलदूषिततः | शृणुवाक्यं परान्दीक्षां शिवसायुज्यदां शिवम् || षट्सहस्त्रिकायाम् - दीक्षया श्रवणे योग्यो दीक्षया पूजनेक्षमः | दीक्षयाश्रमधर्मास्तु प्रवर्तन्ते यथार्थतः || दीक्षया प्राप्यतेज्ञानं दीक्षयासिद्धिभाक् भवेत् | प्. १२६३) मुक्तिदानेन विअ दीक्षा ज्ञानदाचान्तरंगिणी || शिवदीक्षाधिशुद्धाये सर्वत्रैवाधिकारिणः | नास्ति दीक्षासमस्तीर्थं नास्तिदीक्षा समं तपः || नास्ति दीक्षासमो धर्मो नास्ति दीक्षासमो गुणः | नास्ति दीक्षासमं ज्ञानं नास्ति दीक्षा समा स्मृतिः || नास्ति दीक्षासमं श्रेयो नास्ति दीक्षासमं कुलम् | वाक्यनानाशतश्चापि दीक्षाज्ञानक्रिया तथा || योगचर्यादि चत्वारि तेषां संवर्द्धनाद्ध्रुवम् | पौष्करे - मन्त्रौषधबलै यर्द्वत् संनिरोधाविष्टस्य तु | तथा यत्सर्व पाञ्चानां संनिरोधस्तु दीक्षया || सर्वज्ञानोत्तरे - विष्टापहारं कुरुते ध्यानबीज बलैर्यथा | कुरुते वागविश्येषं तथाचार्यश्शिवाध्वरे || दह्यते धार्म्य मानाण्डा कुनायन्तु यथा बलम् | तथा चार्यो दहेत् पुंसां पाशबद्धन्तु दीक्षया || पराख्ये - धर्माधर्मक्षयकरी दीक्षेयं पारमेश्वरी | ज्ञानतो योगतश्चैव चर्यातश्च न मुच्यते || दीक्षया चात्र मुक्तिस्तु सर्वेषां प्राणिनामिह | तस्मात्तु शिवसामर्थ्यान्मुक्तिस्सर्वत्र सिद्धयति || प्. १२६४) अस्मात्प्रवितताद्बन्धात् परसंस्था निरोधनात् | दीक्षैव मोचयत्यूर्ध्वं शैवन्धाम नयत्यपि || तथा स्कान्दे भृगुशाप प्रकरणे - नात्राम्रकृतः कश्चित् उत्कर्षो विद्यते नृणाम् | परान्दीक्षां विनाशैवीं बन्धत्रय विमोचिनीम् || तस्मान्मुक्तिर्दीक्षयैव नाश्रर्मैनास्य कर्मभिः | स्कान्धे कौशिकखण्डे - अध्वशुद्धिं विनाये च मुक्तिमिच्छन्ति मानवाः | अदण्डपाणिश्चाण्डस्तु गन्तुमारभतेहणत् || यथा द्रोणि विहीनाहि तर्तुमिच्छन्ति सागरम् | अध्वशुद्धिं विहीनो हितया मुक्तिं समीहते || किमत्र बहुनोक्तेन भूयो भूयो वदामि च | षडध्वशुद्धि युक्तात्मा मुक्तिमेति न चान्यथा || काशीखण्डे - पञ्च क्रोशेकृतः काश्यां स तु निर्वाण दीक्षितः | नामापि गृह्णतां प्रश्यां सदैवास्त्रे न संशयः || वामनपुराणे वासुदेवं प्रत्युपमन्युः - अहं कथंयिष्यामि सर्वपाप विशोधनम् | संस्कारं परमं पुण्यं शिवेनपरिभाषितम् || सम्यक्कृताधिकारी स्यात् पूजादिषु नरोयतः | प्. १२६५) संस्कारः कथ्यते तेन षडध्वपरिशोधनम् || वायुपुराणे उपमन्युकृष्णसंवादे - शिवागमेर्थ यत्ज्ञानन्तत्र तत् ज्ञानमुच्यते | शिवाश्रितानां कारुण्यात् श्रेयसां मोक्षसाधनम् || कृष्णः - इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् | मन्त्रसंग्रहणे किञ्चित् सूचितं न प्रविस्तरम् || वराहपुराणे मुक्तिमत् प्रतिरीश्वरः - दैवी पाशुपती दीक्षा योगः पाशुपतस्त्विह | तस्माद्वेदमार्गाच्चयदन्यमिह जायते || सद्रूपं कर्मविज्ञेयं रौद्रकर्म विवर्जितम् | अत एव ब्रह्मादयस्सर्वेपि दीक्षिता श्रूयन्ते | यथा रौरवे - पतयस्सा * ना प्रोक्ता ब्रह्मविष्ण्विन्द्रसंज्ञिताः | तेषामत्यन्तमैश्वर्य विद्येशानां महात्मनाम् || * * तद्योगमीत्सन्तस्तेषां शरण्यमभ्ययुः | विद्याराजधिराजेशस्तेत्यन्तं निरपेक्षिणः || जरामरणसंसार बन्धभेद विचक्षणाः | मुद्रामण्डलदीक्षाभि यजनैज्या परिग्रहैः || विद्यावृतोपश्चैव मन्त्रतन्त्रांग निस्रतैः | दिव्यैरनुग्रहश्चान्यै शुद्धतत्वा व भासिभिः || प्. १२६६) तेषामनुग्रहं चक्रे मन्त्रमन्त्रेश्वराश्शिवाः | पितामहश्चापितेभ्यो वाप्य महोदयम् || शैव परमनिर्वाण कारणं ज्ञानमुत्तमम् | ऋषिभ्यो विबुधेभ्यश्च पितृभ्यश्च यथाक्रमम् || प्रयच्छन्ति महातन्त्रं तन्त्रराजं महात्मनाम् | पितामह नियोगाश्च ऋषयः छिन्न संशयः || दीक्षा विधिविधानज्ञाः मनुजेभ्यः प्रचक्षते | शिवेन्दुकिरणादेतत् सूत्रमात्रविनिस्सृतम् || पाशौघतिमिराण्डानां प्रकाशकरणं परम् | निश्वासे ईश्वरी केचित् कस्मिन् गृहाणदेव दीक्षिदा देवदानवाः | त्रषिविद्याधरास्सिद्धा गन्धर्वात्सरसः प्रभो | यक्षराक्षसभूताश्च पिशाचोरग किंनराः || गुह्यकाश्च महादेव क्रूराश्चेव विनाशकाः | स्त्वान्तेन दीक्षितायेन देवस्यास्य ध्रुवं भवेत् || तदहं श्रोतुमिच्छामि भगवन् ईश्वरः | विजये तु समाख्यातं तस्मिन्ब्रह्मा तु दीक्षितः || निश्वासे तु समाख्यातं नन्द्ररो यत्र दीक्षितः | अतः कुबेर वरुणा यमश्चैवाश्विना वपि || गणाश्चैव महाभाग रुद्राश्चैव तु दीक्षिताः | प्. १२६७) सिद्धविद्याधरास्तत्र तथा स्वायं भुवेति च || नामद्वय समाख्यातं दक्षाद्या यत्र दीक्षिताः | प्रजानां पत्यश्चैव तथा ब्रह्मसुताश्च ये || दीक्षिताश्च नियुक्ताश्च असुराश्चैव सन्ततम् | * द राक्षस गन्धर्वाः पिशाचोरग किंनराः || गरुडाद्या द्विजाश्चैव ये च लोकेषु संस्थिताः | पञ्चधा भेदभिन्नस्तु आग्नेये येव दीक्षिताः || मातरो यद्गृहाश्चैव ये च विघ्नादये गणाः | किरणे हि समाख्याता आदित्यो यत्र दीक्षिताः || मन्त्र जापेन सिद्धास्तु सर्वेषां साधकास्थिताः | मकुटेपि समाख्यातो निदान क्षेत्र वादिभिः || गलान्तं मन्त्रिकल्पैश्च ऋषिभिस्सेविता सदा | तथा शैवपुराणे औम संहितायाम् - लब्ध्वा भवतश्शक्राश्च शैवीन्दीक्षान्दिते सुताः | शिवलिंगार्चनैकान्ता जाता स्त्रिपुर वासिनः || शिवपूजा कृतस्तेषां पत्यश्च पतिदेवताः | दीक्षोत्तरे दीक्षा प्रकारः - संयोजनं सज्जननं भोगभोजनमेव च | पाशच्छेदेस्तथोद्धारो दीक्षाकर्मणि पञ्चधा || तथा मृगेन्द्रे - पाशानां समाधिकाराणां भेदनं श्रुत्यसंभवात् | प्.१२६८) दीक्षापरमविश्लेषः पाशच्छेदे निरोधनम् | पराशुद्धमलं मुक्ति व्यक्तिः परमनिष्कृतिः || पाशसंघात शक्ति संरोधिनिष्कृतम् | विधाय भासयेद्धाम पाकविच्छित्तिवर्त्मना || इत्याद्यागमपुराण वचनाभ्यां दीक्षायामोक्षं न तु वैदिक संस्कारेण तथा देव्यामते - यत्राचार विचारोस्ति दीक्षितानां शिवागमे | वैभ्यन्ते वैदिका मन्त्रास्तथान्या वैदिकी क्रिया || यत्रैव वैदिका मन्त्रा प्रधानं ब्राह्मणस्य तु | न तच्छिरोदितं शास्त्रन्त्रत्प्रत्या ऋषिभाषितम् || तत्रासक्तानरामूढा क्लिष्यन्ते द्वैतवादिनः | तेतु संस्कारिणो दुष्टा पशुत्वान्मलिनो यतः || यत्र नो वैदिका मन्त्रा स्संस्कारस्य प्रमाणतः | वर्णानां संस्कृतानाञ्च विशेषोनोपाल्भ्यते || शिवज्ञानस्य प्राधान्यं शिवतत्वस्य निभृमः | शिवाश्रमागतं ज्ञानं तच्छास्त्रं शिवसम्मतम् || तथा चिन्त्यविश्वे - चत्वारिंशत्तु संस्कारा विप्राद्यैरप्यनुष्ठिताः | प्रथमं स्वांगनायास्तु गर्भाधानमनन्तरम् || पुंसवनञ्च सीमन्तं विष्णोबलिमनन्तरम् | प्. १२६९) जातकर्मन्तथा नामकरणन्निष्क्रामणन्तथा || अन्न प्राशनकञ्चैव प्रवासगमनन्तथा | वै देवं ततोत्सर्गं पञ्चत्वेकप संस्कृतिः || परायणञ्च गोदानं स्नान मुद्वाहकन्तथा | अष्टादशशरीरस्य संस्कारास्समुदीरिताः || देव यज्ञः पितृयज्ञो भूतयज्ञस्तथैव च | मनुष्यं ब्रह्मयज्ञञ्च महायज्ञाः प्रकीर्तिताः || स्थालीपाकश्चाग्रायणञ्चैत्रञ्चाश्वयुजं तथा | अष्टकापर्वणञ्चैव सप्तैते पाकयज्ञकाः || अग्न्यावेयञ्च दर्शञ्च पौर्णमास्यं तथैव च | आग्रायणाष्टकञ्चैवं चातुर्मास्य मनन्तरम् || निरूढपशुबन्धश्च सौत्रामणिरथान्तकम् | हविर्यज्ञाश्च सप्तैते सोमसंस्था तथैव च || अग्निष्टोमोत्यग्निष्टोम इत्यष्षोडशकस्तथा | वाजपेयोतिरात्राणि आप्तोर्याममतः परम् || सोमसंस्था इति प्रोक्तास्सप्तयज्ञा मनीषिभिः | चत्वारिंशत्तु संस्कारा वैदिकाः क्रमतः क्रियाः || कृतवतोप्युक्त मार्गेण दीक्षया मोक्ष एव हि | सर्वज्ञानोत्तरे - रससिद्धे यथा ताम्रं हेमत्वं प्रतिपद्यते | प्. १२७०) तथात्माज्ञानसंबन्धाच्छिवत्वं प्रतिपद्यते || रौरवे - एवं शैवाध्वरं प्राप्य दीक्षामन्त्र समुद्भवम् | न पुनर्जन्मतां याति दीक्षितो मनुजोत्तमः || भिन्ने देहे शिवो भूत्वा शिवधर्म समन्वितः | शिवानन्दमनुप्राप्य अविभागाय कल्पते || यथा समुद्रमासाद्य नदी भ्रष्टांबु वाहिनी | क्षारतोयत्वमापाति तन् प्रभावान्महोदधेः || एवं वै भिन्न देहात्मा शिवमेवाधिगत्च्छति | सरित्समुद्रसंयोगात् विभागो नैव जायते || इति वामदेवात्मज वेदज्ञानविरचित दीक्षादर्श उपोद्धात विधिः || शैवलक्षनम् अत्र दीक्षा शैवाचाराधीनत्वात् शैवलक्षणमत्रोच्यते | तथा वीरतन्त्रे - शैवास्सप्तविधाज्ञेयास्तेषां भेदं शृणुस्वथ | अनादिशैवः प्रथमो आदिशैवो द्वितीयकः || तृतीयन्तु महाशैव चतुर्थश्चानु शैवकः | पञ्चमोवान्तरश्शैव षष्ठः प्रवर उच्यते || सप्तमश्चान्त्यशैवश्च शैवानां भेद ईरितः | प्. १२७१) अनादिशैवस्सशिवश्चादिशैवश्शिवद्विजः || विप्रश्चैव महाशैवः क्षत्रियो वैश्य एव च | अनुशैवश्समाख्यातश्शूद्रश्चैवान्तरस्मृतः || स्वर्नांषष्ठमध्यस्थ कुलालः पारशवस्तथा | प्रवराश्चैव संप्रोक्ता अन्त्यशैवमथोच्यते || इतोन्यजातयो यास्तु अन्त्यशैवास्तुते स्मृताः | सवर्णादिस्वरूपश्च उत्तरत्र प्रदर्शितः || तत्रावधार्यतां कामिके - स्र्वानुग्राहकः प्रोक्तस्सान्तानिक गुरु स्मृतः | सृष्टयनन्तर काले ये दीक्षिताः शिकादयः || शिवेन तत्कुलोत्थास्युश्शैवास्सन्तानिका द्विजाः | आदिशैवास्तु ते ज्ञेयास्सर्वानुग्राहका स्मृताः || आदिशैवकुले जातः श्रेष्ठस्स्यात् स्थापनादिषु | दीक्षितास्सर्वमर्त्यानां प्रतिष्ठायामथोत्सवे || स्नपने प्रोक्षणेन्यत्र प्रायश्चित्ताभिषेचने | व्याख्यानादौ शास्त्रस्य स्वार्थैवाथपरार्थके || कारणे - शिवेन दीक्षिताश्चैव शिवभ्राह्मण उच्यते | सन्ताने - आदिशैवेन कर्तव्यं प्रतिष्ठाद्यर्चनान्तकम् | अन्यथा कारयेद्यस्तु आभिचाराय चैव हि || प्. १२७२) सुप्रभेदे - विवाहमष्टधा प्रोक्तं शिवेन परमात्मना | तेषां पूर्व चतुष्कन्तु ब्राह्मणस्य महात्मना || कर्तव्यमासूरं वापि त्रीणि चान्यानि वर्जयेत् | सुशीलां रूपसंपनां कुलजां बान्धवान्विताम् || असगोत्रां हि कुशलां वधूं संग्राह्य बुद्धिमान् | तथा कामिके - समानगोत्र प्रवरां ज्ञात्वासंबन्धमाचरेत् | समानगोत्रप्रवरां कन्यां वृणुयात्सदा || ऊढा चेद्भगिनी यद्वा मतृवत्परिरक्षयेत् | तस्याश्च रक्षणं कार्यमाहाराच्छादनादिभिः || विवाहदोष शुध्यर्थं व्रतञ्चान्द्रायणं चरेत् | तया सहप्रमादेन संयोगाद्यं कृतं यदि || प्रायश्चित्तं तदा तस्यान्तद्विधानमिहोच्यते | सकृतागमने कुर्यात्तेन चान्द्रायणञ्चरेत् || सहस्रं घोरमन्त्रन्तु विवाहे द्विसहस्रकम् | इत्यादि तत्र विस्तरेण प्रदर्शितम् | तत्रावर्धायताम् | तथा वीरतन्त्रे - सगोत्रे च संबन्धं न कर्तव्यं कदाचन | तत्रापि जायमानास्तु तत्कुलं स्यान्त बाध्यते || प्. १२७३) तेषां ऋषीणां विप्रेन्द्र जातानाञ्च पुनः पुनः | शिवद्विजानां दीक्षाञ्च न कुर्वीत कदाचन || उपनीतं समाप्यन्ते मण्डले पूजयेच्छिवम् | स्नपनं चांगशुध्यर्थं कारयेत्तु शिवद्विजान् || दीप्ते - शैवं पाशुपतञ्चैव कापालं लाकुलं तथा | तन्त्रभेदमहं वक्ष्ये शैवादिनां यथाक्रमम् || कामिकं योगजं चिन्त्यं कारणन्त्वजितं तथा | दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान्सुप्रभेदकम् || नारसिंहञ्च निश्वासं स्वायं भुवमथानलम् | रौरवं वीरभद्रञ्च मकुटं विजयन्तथा || चन्द्रज्ञानञ्च बिंबञ्च प्रोद्वीताललितं तथा | सिद्धं सन्तानं सर्वोक्तं वातुलन्तन्त्र मेव च || किरणं पारमेशञ्च अष्टाविंशति संख्यया | शैवभेदं समाख्यातं शृणुपाशुपतं तथा || प्राजापत्यं पाशुपतं प्रवृद्धं पद्मसंहिताम् | वासिष्ठं काश्यपं कल्पं वाराहं भार्गवान्तरम् || प्रफुल्ल वासवञ्चैव वायुप्रोक्तं तथैव च | वारुणं बाहुतस्पत्यं पारमेशञ्च षोडश || माया पाशुपतं प्रोक्तं कापालं शृणुसुव्रत | पञ्चार्द्धञ्च पुराक्ल्पं शिवगुह्य प्रमाणकम् || प्. १२७४) सूहमादर्शनञ्चैव पद्मं कनकशैलकम् | निरुक्तञ्चैव सुप्रापं सिद्धार्थं हि चतुर्दश || कापालमेव माख्यातं लाकुलं शृणुचानल | लाकुलञ्च महाविद्यां क्रियाकालगुणोत्तरम् || वरहंसञ्च कौमारं विश्वसारोत्तरन्तथा | संवर्तलिंगकल्पञ्च नवधा भेद उच्यते || एते चतुर्विभेदेषु यथा येनैव दीक्षितः | तेनैव स्थापनादीनि तन्त्रेण समाचरेत् || तथा कारणे - एतेषु शैवभेदेषु यदा येनैव दीक्षिताः | तन्त्रेण तेन कर्तव्या स्थापनादि क्रियास्तथा || वीरतन्त्रे - एतेषामपि तन्त्ररणां एकैकस्य तु संकरः | तन्त्र संकरमेवोक्तं न कुर्यात्तन्त्र संकरम् || तन्त्रसंकरदोषेण राजराष्ट्रं विनश्यति | अष्टाविंशति भेदेन शैवभेदो विधीयते || एतेषां संकरञ्चैव न दोषाय प्रकल्पते | कारणे - प्रारब्धंयेन तन्त्रेण तत्तन्त्रेण समाचरेत् | नोक्तञ्चेदन्य तन्त्रेण तत्सर्वां च समाचरेत् || अनुक्त मविरुद्धञ्च तद्ग्राह्यं संहितान्तरात् | एकेनवर्तमानायां क्रियायां कारणं विना || प्. १२७५) साचान्येन कृतं यत्तु तत्स्यादाचार्य संकरम् | वैगुण्याकरणस्यैव विरोधे सति यत्र तु || सा क्रिया तस्य शिष्येण कर्तव्यं तेन शास्त्रतः | अथान्येन कृतञ्चेत्तु कर्तृनाशो न संशयः || सुप्रभेदे - सिद्धान्तं सर्वसारं हि तन्त्रं शुद्धं शिवं स्मृतम् | वामञ्च दक्षिणञ्चैव मिश्रकञ्च त्रिधा अमी || शैव बाह्यास्समाख्यातास्ते तु शैवैपूजिताः | षट्सहस्रिकायाम् - कालकापालकादीनां सर्वसंख्यान्तरेषु च | शैवस्सर्वाधिकारी तु न शैवेमी कथञ्चन || शैवमूलात्यागमस्तु श्रुतयश्च विशेषतः | तथा मकुटे - शैवस्सर्वाधिकारी स्यात् स्वकीये चापस्र च | अन्येषां स्वस्वतन्त्रेषे विद्यतेत्वधिकारिता || इति श्रीमद्वयाध्रपुरनिवासि वामदेवात्मज वेदज्ञानि विरचित दीक्षा दर्शे लक्षण विधिः | प्. १२७६) || अथाचार्य लक्षणविधिरुच्यते || आचार्य लक्षणम् भीमसंहितायाम् - आचार्य लक्षणं ज्ञेयं आदितस्सर्वकारणम् | आचार्यमूलं सर्वं हि स्थापनादि च कर्म च || तस्मात्तल्लकषणं पूर्वं प्रेक्षितव्यं विशेषतः | यदा लक्षण हीनेन स्थापनेनोग्रबुद्धिना || तेन कर्मकृतञ्चेत्तु तत्रदेशाद्युपद्रवः | तस्मात्तल्लक्षणयुक्तेन कारयेत्पूजनादिकम् || आचार्येण प्रसन्नेन विशिष्टेन विशेषटः | आचार्यस्य विशिष्टस्य लक्षणानि शुभानि च || सर्वेष्वेवागमेष्वेवं कीर्त्यते कीर्तिकारणात् | चिन्त्यविश्वे - निर्वाणदीक्षितश्शिष्यो गुरुसंसृष्टि योगिकः | परार्थलिंगपूजाया अधिकारो न विद्यते || कारणे - कुमारी हिमवन्मध्य पूतं कृष्ण मृगोद्भवम् | जातस्तत्रादि दैवश्च आचार्यवर उच्यते || तथा सर्वज्ञानोत्तरे - कृष्णवर्णमृगो यस्मिन् देवो सञ्चरते * * | प्. १२७७) तद्देशायाज्ञिकं विद्यात् यद्वद्विप्रैरधिष्ठितः | यत्र विप्रास्सदाचारा यतयश्च तपोधनाः || सन्तिदेवास्तथा देवा पुण्यदेशान्तरादिशेत् | तद्देशकुलसंभूत आचार्याश्शास्त्रसम्मताः || तथा कामिके - आयावर्तोद्भवश्रीमान् सर्वलक्षणसंमितः | यत्रविप्रास्सदाचारा यतयश्च तपोधनाः || सन्ति वेदास्तथा वेदा आर्यावर्त इति स्मृताः | सर्वज्ञानोत्तरे - तद्देश याज्ञिकं विद्यात् यच्चविप्रैरनुष्ठितम् | ज्ञानरत्नावल्यां - गंगारवो महीतापि गौतमी च सरस्वती | यमुना कृष्णवेणी च कावेरी गण्डकी तथा || गौतमी सरयुस्सिन्धुर्द्देविकेति चतुर्दश | पुण्य नद्यस्तु विज्ञेयास्सर्वलोकहितावहाः || महद्भिर्मुनिभिस्संव्या याज्ञिकैश्च तपोधनैः | * वलिंगैस्वयं भूतैर्मुनिदेव प्रकीर्णकैः || तत्तीरं संभवा देशा पुण्यदेशामतास्सताम् | सुप्रभेदे - आदिशैव कुलोद्भूता पञ्चगोचर संस्थिताः | प्. १२७८) सर्वशास्त्रार्थ तत्वज्ञश्शिवज्ञान विशारदः | शिवसिद्धान्त तत्वज्ञ शिवाग्निगुरुपूजकः || * * * ष्षोडशकादूर्ध्वं वयस्सप्ततिरुच्यते | क्रियादिज्ञानपर्यन्त मेकतन्त्रे सुनिश्चितः || किर्यापादे तु निपुणश्चर्यापादे तु वर्तितः | योगपादकृताभ्यासो ज्ञानपादानुरञ्जकः || मतंगे - तन्त्रे स्वासनासूयश्चकर्मज्ञः कृततत्परः | अनुज्ञाताभिषिक्ताश्च तेत्वनुग्राहिका स्मृताः || तथा पराख्ये - अतरद्धिक्रियोपेतो वैवर्णे उत्तमो गुरुः | श्रद्दधानश्शुचिर्दक्षस्त्रीदीक्षादीक्षितस्सुधीः || शास्त्राधिकारी तत्वज्ञस्तदुत्तर विधानवित् | षडध्वकर्मनिपुणश्चण्डयागविधौ वरः || अभिषेक विधानज्ञस्ता न पूजाग्निकर्मवित् | सन्ताने - शिवागमज्ञो मतिमान् शिवपूजापरायणः | शिवध्यानपरो नित्यं शिवशास्त्र विशारदः || चतुर्थे तैष्णडंगैश्च धर्मशास्त्र पुराणगः | न्यायमींमास शास्त्रज्ञो विद्यास्थान चतुर्दश || भाष्यं चत्वार एवन्तु तथाष्टादश संज्ञितम् | प्. १२७९) योगशास्त्राणि सर्वाणि वेदान्तं ज्योतिषं तथा || चतुष्षष्ठि कलाश्चैव षट्कर्मणि तथैव च | आर्वेदोथ सामुद्रयं सोमसिद्धान्तमेव च || केवलं लाकुलञ्चैव पाञ्चरात्रं तथैव च | एतत्सिद्धान्तमार्गञ्च ज्ञात्वा वैदेशिको भवेत् || कामिके - संप्रदाय विशुद्धात्मा गुरुपुत्रः प्रशंसितः | लिंगादिक्षमवेत्ता च विभक्त * * * * * || कामिकादि शिवज्ञानसिद्धियुक्तो विशारदः | मतंगे - हेयोपादेय तत्वज्ञेस्तदर्थेतु व्यवस्थितः | क्रियावानिपुणश्चैव वीतरागोत्यमत्सरः || वरतत्वे समायुक्तश्शिवशासनतत्परः | सर्वज्ञास्त्रार्थकुशलः पशुशास्त्र पराङ्मुखः || शिवशास्त्रैक चित्तत्मा सर्वप्राण हितेरतः | वास्तु विद्याकृताभ्यासश्शाल्योद्धारविशारदः || सर्वाचारसमायुक्तस्तपस्वजन वत्सलः | रौरवे - ब्राह्मणः पुण्यदेशोक्थस्संपूर्णावयवश्शुचिः | पदवाक्य प्रमाणज्ञस्संहिता पारगो गुरुः || लक्षध्यायी गुरुश्रेष्ठो भुक्तिमुक्ति फलप्रदः | मध्यमस्तु तदर्थज्ञस्तत्पादज्ञो यमो भवेत् || संहितापारगो वाथ लक्षाध्याययुपदेश युक् | प्. १२८०) संहितास्याच्चतुष्पाद युक्ता कामिकपूर्विका || तथा किरणे व्याख्याने रामकर्णाचार्येणात्युक्तम् - पादानां प्रविभागेन चतुर्णां नामधेयतः | सिद्धिः प्रदर्श्यते यस्मिन् संहिता साभिधीयते || चिन्त्यविश्वे - ज्ञानयोगक्रियाचर्या सम्यगाचारयेद्यतः | तस्मादार्चाय इत्युक्तस्सर्वभूत हितायवै || आविनोतीहि शास्त्रार्थानाचारां स्थापयत्यतः | स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते || तथा निश्वासे - स्वयमाचरते यस्मादाचारन्दर्शयेति च | उच्यतेपि हि शस्त्राणि आचार्यस्तेन पठ्यते || कालोत्तरे - सर्वलक्षणहीनोपि शिवशास्त्रार्थ विद्गुरुः | स्थापनादिषु सप्रोक्तश्शिवशास्त्रेषु षण्मुख || सर्वलक्षणसंपन्नश्शिवशस्त्रं न विन्दति | न योगी न व्रतस्नातो नावाचार्य उच्यते || निश्वासे - आचार्यो मन्त्र तन्त्रज्ञ ऊहाअपोह विशारदः | श्रुतिस्मृता वभिज्ञश्च जितक्रोधो जितेन्द्रियः || प्. १२८१) सर्वक्लेश सहो धीरो मन्त्रतन्त्र महाहृदः | मन्त्र कल्पसु वेत्ता च प्रायश्चित्तविशारदः || पशूं बोधयते नित्यं शौचाचारा पदेशतः | सर्वलक्षण हीनोपि ज्ञानवान् गुरुरिष्यते || देविकालोत्तरे - सर्वलक्षणहीनोपि ज्ञानवान्गुरुरिष्यते | वर्णावर्ण विचारोयः स नरः पातकी भवेत् || शिवशास्त्रैक चित्तात्मा पशुशास्त्र पराङ्मुखः | अनुग्रहैक चित्तस्तु विनीतात्मा विमत्सरः || प्रतिज्ञा कर्मवित्प्राज्ञो दीक्षाकर्मसुपेशलः | शिवसद्भाव तत्वज्ञस्स एव स्थापक स्मृतः || वीरतन्त्रे - लिंगस्थापन योग्यत्वात् स्थापको नाम उच्यते | आचार्यश्शिव एवाह शिव आचार्य उच्यते || अभेदं यो विजानादि स वर्णाद्भिन्न उच्यते | तथा कामिके - आचार्यश्शिव एव स्यादनघोरन्तरन्नहि | यः पश्ये दनयोर्द्भेदं सो यो गतिमाप्नुयात् || निश्वासे - उभयोरन्तरं नास्ति देशिकस्य शिवस्य तु | सवोकार वि * * श्चसनादोदय निष्कलः || प्.१२८२) तस्मिन्सर्वाणि विद्यन्ते सचैवच परश्शिवः | सर्वविद्यासु संपूर्णस्सर्व विधार्थकोविदः || आचार्यस्य च मन्त्रस्य शिवज्ञानस्य शिवस्य च | नानात्वं नेव कुर्वन्ति अनन्तेश्चादयशिवाः || सर्वे मन्त्रात्मका देवा सर्वेमन्त्रात्मकाश्शिवाः | शिवात्मकेन मन्त्रेण शिवयागे तु पूजयेत् || अप्राप्य शिवभावं पठन्तश्शिव संहिताम् | अज्ञात्वा कुरुते दीक्षां शिष्याचार्यौ व्रजत्यधः || अविदित्वा स्वयं सम्यग् क्रियां यः कुरुतेभिषक् | आतुरो दुःखमाप्नोति वैद्योपि न फलं लभेत् || ज्ञानविज्ञानकुशलस्सर्वा वस्थांगतोपि यः | स मोचयति पाशेभ्यो ज्ञाननिर्धूतकिल्बिषः || तथा क्रिया कर्मकाण्डे - सद्देश प्रभवस्सुमूर्तिरमल ज्ञानक्रिया तत्परः | क्षान्तस्सत्कुलजो विशुद्धहृदयस्सिद्धान्त वेदी गृही || भेदज्ञश्च षठद्धनामपि तथा दीक्षा प्रतिष्ठा विधौ सिद्धस्सिध्यनपेक्षकश्शिवमयध्यानो गुरुश्शिष्यते | अत्राधिकारिनिरूपणत्व विधिरुच्यते - विप्रादीनां दशानां गुरुत्वमुक्तम् | तथा चिन्त्यविश्वे - विप्रादिषु यजुर्वेष मनुलोमादिषट्सु च | प्. १२८३) एतेषां दशजातीनां आचार्यत्वं विधीयते || तथा कामिके - चत्वारो ब्राह्मणाद्याश्च अनुलोमाश्च ये मताः | सर्वज्ञानोत्तरे - ब्रह्मक्षत्रियविट्श्रेष्ठा दीक्षामध्यास्तु पादजाः | त्रिवर्णिकात्क्रमात् मर्त्य अधमास्त्वन्य जातिनाम् || दीक्षानैव विधातव्यः कुर्याच्चेल्लोभतो गुरुः | नरकं यात्यनेनैव दीक्षितो न फलं लभेत् || चिन्त्यविश्वे - नवखण्डेषु सर्वेषु भारतेषु येन च | जातिभेदमिदं कल्प्यमन्यदेशेषु नास्तितत् || तस्मात् षट्कल्पनामात्रं जातिभेदमिति क्रमम् | उच्चनीच क्रमादत्र जातिभेदञ्च कल्पितम् || सुप्रभेदे - सवर्ण प्रथमं विद्यात् अंबष्ठद्वितीयक्रमम् | पारशैवस्तृतीयस्तु जायन्ते ब्राह्मणोद्भवाः || मद्गुरुत्युग्रनामा च जायेते तौ नृपस्य तु | वैश्यस्य चूचूको ज्ञेया अनुलोमाष्षडैव तु || संप्राप्यविधिना विप्रो रक्तकन्यां समन्त्रकम् | तत्र जातस्सवर्णस्तु अनुलोमेषु पूजितः || प्. १२८४) तत् ब्राह्मणस्तु संज्ञेयो वैकर्मा चथर्वण स्मृतः | पीतस्त्री विप्रसंयोगाअदंबष्ठो नाम उच्यते || चिन्त्यविश्वे - द्विजो नोपनितं कुर्यान्नित्यं कर्मसु तत्परः | सवर्णश्च नियोगेन भिषक् कुर्यात्ततः परम् || विप्रस्य शूद्रकन्यायां जातः पारशवः स्मृतः | गुलशास्तोक्तमार्गेण भद्रकालीं समर्चयेत् || गृहे गृहे पराह्ने तु भिक्षान्देहीति वादयेत् | एवं समाचरेन्नित्यं यावदामरणान्तिकम् || नृपस्य विअश्यकन्यायां जातो मद्गुरुरुच्यते | नृपभाण्डा न कर्तृत्वं वैश्यं प्रत्युपजीवनम् || नृपस्य शूद्रकन्यायां जातश्चोग्र इति स्मृतः | विप्रक्षत्रियविट्छूद्रशुश्रूषां कारयेत्सदा || नृपाज्ञया तु दण्डयेत दण्डयेदवि चारतः | सुप्रभेदे - कृष्णायां वीतसंयोगाज्जातश्चूचुक एव च | शाक काष्ठ तृणादीनि वन्यजातीव वृत्तिकाः || ब्राह्मणा क्षत्रिया वैश्याश्शूद्राश्शुद्धकुलोद्भवाः | आचार्यास्ते तु विज्ञेया नान्येषान्तु कदाचन || तत्रैव जातिनिर्णये - प्. १२८५) ब्राह्मणा क्षत्रिया वैश्याश्शूद्राश्चैवं प्रकीर्तिताः | एतेषाञ्च कुर्वाणानामाचार्यत्वे नियोजयेत् || सर्वज्ञानोत्तरे - ब्राह्मणः क्षत्रियो वैश्यश्शूद्राश्शुद्धास्तु सायकाः | सर्वस्यादानुपूर्व्येण आचार्यत्वं षडानन || पराख्ये - सर्ववर्णानतो विप्रः क्षत्रियस्त्रितयं गुरुः | वैश्य शूद्रद्वयञ्चैव दीक्षयेदहक्रियार्थवित् || ब्राह्मणस्सर्व जातीनां सदानुग्राहकस्मृतः | स्वजाति पूर्वमाचार्यास्त्रयश्शेषा नृपादयः || त्रिषु वर्णेषु ये युक्तास्ते च तद्वर्णिनो मताः | दीक्षा कार्या तु सर्वेषां तद्भक्तशिवयोगिनाम् || त्रयाणामपिवर्णानां न तु शूद्रान्त्यजातिषु | एतत्पराख्योक्त वचनमसत् शूद्रविषयमेव || तथोक्तं वायव्य संहितायां - असच्छूद्रान्त्य जातीनां पतितानां विशेषतः | तथा संकरजातीनां नाध्वशुद्धिर्विधीयते || तेत्यकृत्रिमभावाश्चेत् शिवपरमकारणे | पादोदक प्रदानाद्यैः कुर्यात्पाशविशोधनम् || अत्रानुलोमजातये युक्ताये वा द्विजातिषु | प्. १२८६) तेषामध्व विशुध्यादि कार्यमात्र कुलोचितम् || सुप्रभेदे - अमद्यपास्तु ये शूद्रा श्शैवाचार्यक्रियादशः | शिवभक्ताश्चये तेषां दीक्षाकार्यान्यथा नहि || तथा पराख्ये च - अमद्यपः कुलीनश्च नित्यं धर्म परायणः | शूद्रक्षत्रियवत् ज्ञेयश्शेषा निन्द्यास्ततो भृशम् || वायव्य सम्हितायाम् - शिवशास्त्र समायुक्ताः पशुशास्त्रपराङ्मुखाः | ब्राह्मणादि चतुर्वर्णा आचार्यास्तु प्रकीर्तिताः || कालोत्तरे - दीक्षा क्रियावति प्रोक्ता ब्राह्मणादि चतुष्टये | संस्पर्शात्कारुकादीनां हौत्रिन्तु परिवर्जयेत् || एवञ्चानुग्रहः कार्यश्चतुभिरपि देशिकैः | कामिके - इत्येवं कथिता प्रोक्ता सर्वपाव प्रमोचिनी | चत्वारो विद्या अनुलोमाश्च ये मताः || न्यायजा मूढजात्यां वा दीक्षायामधिकारिणः | अन्त्यजानां न हौत्री स्यात् किंतु दीक्षांतु चाक्षुषी || किरणे गरुडः - प्. १२८७) मध्ये वर्णचतुष्कस्य गुरुत्वं कस्यचिद्वद | ईश्वरः - चतुर्णामपि वर्णानां आचार्यत्वमिहोच्त्यते | ब्राह्मणादि चतुष्कस्य द्विजोनुग्रहको मतः || त्रयाणां क्षत्रियो द्वभ्यां वैश्यश्शूद्रस्स्वयोनितः | अनुग्रहस्स्वभार्यादेर्यो यथा परिवर्जयेत् || एवञ्चानुग्रहः कार्यश्चतुर्भिरपि देशिकैः | निरपेक्षा यतो मन्त्रो यथा तद्भावना तथा || यथा स्थितेन भावेन मन्त्राः कुर्वन्त्यनुग्रहम् | यतस्तेनान्त्य जस्यापि किन्तु दीक्षातु मानसी || कारुकाणाञ्च संस्पर्शान्न हौत्री परिकल्पयेत् | ज्ञात्वा तेषां परां भक्तिं लोभाच्चेद्दोष माप्नुयात् || सूतसंहितायाम् - अन्येषामपि सर्वेषां नराणामपि पुंगव | पूजादेवालयन्दृष्ट्वा प्रणामस्तस्य कीर्तितः || वातुले - अन्धजातिस्तु सर्वेषां स्थूपिन्दृष्ट्वा समाचरेत् | अंशुमति - स्थूललिंगं विमानञ्च सूक्ष्मलिंगं सदाशिवम् | बलिपीठं भद्रलिंगञ्च लिंगत्रयमिहोच्यते || सूक्ष्मे - देहं प्रासादमित्युक्तं देहीलिंगमिति स्मृतम् | उभयोरन्तरं नास्ति तस्मादित्थं प्रभावयेत् || प्. १२८८) व्याप्य व्यापकरूपेण लिंगमेव विमानकम् | हेमादि स्थूपि पर्यन्तं शिवरूपमितिस्मृतम् || किरणे - सर्व पापविनाशाय भजेद्वेषं शिवालयम् | मतंगे - लिंग माहेश्वरं प्रीत्या नमस्कारेण येत्यथ | पूजयन्ति नराश्शूद्रास्तेषि षड्गणेश्वराः || रमन्ति विविधैर्भोगै प्राप्यस्थानमुमापतेः | शिववत् शिवभक्तास्तु रष्टव्याश्शिवकांक्षिभिः || संस्थिताश्च शिवैर्मन्त्रैर्गुरुणां शिवमूर्तिना | सर्वे समानधर्माणस्तथाप्येषोच्यते विधः || अत्र प्रकृतमुच्यते कामिके - सर्वदेवार्चने विप्रस्त्वादिशैवो गुरुर्मतः | विप्रादयस्त्रयो वर्णा दीक्षायां स्थापनेपि च || ब्राह्मणः क्षत्रियादीनां क्षत्रियश्शूद्रवैश्ययोः | वैश्य श्शूद्रस्य दीक्षायां स्वस्वजातावपीष्यते || तथा षट्सहस्रिकायाम् - चतुर्णामपि वर्णानां आचार्यत्वमिहोदितम् | सर्वेषाञ्चैव वर्णानां द्विजोनुग्राहको मतः || त्रयाणां क्षत्रियोद्वाभ्यां वैश्यश्शूद्रस्स्वयोनिजे | एवञ्चानुग्रहः कार्यश्चतुर्भिरपि देशिकैः || विप्रादि त्रयाणामात्मार्थ चललिंग प्रतिष्ठायामधिकारोस्तीति - प्. १२८९) शूद्रो नैष्ठिकश्चेत् बाणलिंग प्रतिष्ठाया मधिकारि कामिके - स्वार्थेष्टौ चललिंगस्य प्रतिष्ठायां त्रयस्त्विमे | शूद्रोपि शूद्रदीक्षायां स्वार्थे चललिंगके || बाणलिंगेक्षणे वापि स्थापको यदिनैष्ठिकः | सनादाखिलमन्त्रेषु शिवज्ञाने विशेषतः || शूद्रस्यापि गृहस्थस्य नित्येष्टावेव योग्यता | अत्रापि नादरहितैर्मन्त्रैरेव प्रकीर्तिताः || केचिन्नादशब्दस्य प्रणवमिति वदन्ति तदयुक्तम् हकरस्य नाद इति श्रूयते | तथा कारणे - नादो हकारमित्युक्तं नादाद्यन्तु सकारकम् | क्रूराक्षरो क्षकारस्यात् कलार्णन्तु मकारकमिति || तया मन्त्र नैकण्डूकैरत्युक्तम् | गगनं मकुटव सूर्यं व्योममाया शिवान्तं नभसि लकुल लक्षं पञ्चधं प्राणघोषम् | शिव हृद्दयमपि हृद्बीजनादाख्यमाहुश्शिव मनुभुवनेशोनिंबरं लिंगमाहुः || कामिकेभिषेकेत्ययोग्योयं किं पुन स्थानादिषु | अत्र शूद्रस्य गृहस्थस्याभिषेक निषेधः | आचार्याभिषेक प्रसंगे - महापुरस्य सौम्यायामभिषिञ्चेत् द्विजानथ | पूर्वायां क्षत्रियां ब्रह्मन् वैश्यानान्तु यमस्य तु || शूद्रस्तु पश्चिमेशायां सर्वा ऐशेदिक्स्थितान् | प्. १२९०) एवं प्रकथितो ब्रह्मन् पौष्करे पारमेश्वरे || तथा कालोत्तरे - अभिषिक्तोय मेवं हि ब्राह्मणः क्षत्रियोथवा | वैश्यो वाप्यथ शूद्रो वा प्रतिष्ठाद्यधिकारिणः || एतेषु न विकल्पोयं कर्तव्यं स्थान्मनीषिभिः | श्रावयेति तथा ध्यायेत् प्रतिपत्तिं समाविशेत् || इति गृहस्थस्य शूद्रस्याभिषेक प्रतिपादनात् न चास्य वचनस्य नैष्ठिकविषयशूद्रत्व मस्त्त्विति वाच्यम् | चतुर्णामपि वर्णानां लिंगिनां गृहिणामपि | आचार्यत्वं शिवे नास्ति सिद्धान्ते प्रतिपादितमित्यादिवचनैस्सर्ववर्णेष्वपि ब्रह्मचारि गृहस्थयोर्गुरुत्वप्रतिपादकैर्विरोधात् | तस्मादेवं विधबहुवचनानुसारेण कामिकस्थगृहस्थ शूद्राभिषेक निषेधवचनन्तस्य स्थापनानिषेधप्रतिपादकस्य तदेतद्यदि कैमुदिकन्यायेन साधकमित्यवश्यमभ्युपेयम् | ननु चतुर्णामपि वर्णानां गुरुत्वं तदनुपपन्नम् | ब्राह्मणस्यैवाचार्यत्व प्रतिपादकवचनादुपालंभात् | यथा मेरुतन्त्रे - अत्र किञ्चिद्विशेषोस्ति क्षत्रियो वैश्य शूद्रकात् | एतेषु सर्वदादेपि दीक्षां नैव समाचरेत् || क्षत्रियेण दीक्षिताः केचित् केचिद्वैश्येन दीक्षिताः | प्. १२९१) केचिच्छूद्रेण देवेशि दीक्षिताश्च यमालयम् || गत्वा जन्मशतं कोटि विशन्तिनरके धुर्वम् | तस्माद्वेदा विरुद्धस्याद्दीक्षां विप्रस्य कारयेत् || मोक्षकारिकायाम् - साधकत्वे तु दीक्षायां चतुर्णां वर्णिनामिह | अधिकारो गुरुत्वे तु ब्राह्मणस्यैव कीर्तितः || स्वायंभुवे - अथाचार्यवरश्रीमान् अग्रजन्मासुपेशलः | मृगेन्द्रे - द्विजाग्रं पुण्यदेशजमिति | अथ चतुर्णां वर्णानां गुरुत्वमिति चेन्मैव मेतानि वचनानि ब्राह्मणस्य गुरुत्वे मुख्यत्व प्रतिपादकानि नेतरवर्णगुरुत्वनिषेध पराणि | न चतुर्हि क्षत्रियादिसकाशाददीक्षितस्य निरयगामित्व श्रवनं कथमिति वाच्यम् - तस्यापि वचनस्य विप्रासंभवे इतरसकाशाददीक्षानिषेधपरत्वं निकृष्टवर्णा दुत्कृष्ट वर्णस्य दीक्षा निषेधपरत्वं वा अन्यथा सर्ववर्णवर्णानां स्ववर्णानु पूर्व्येणाचार्यसंभव प्रतिपादकवचनानामप्रामाण्य प्रसंगात्तस्मादुभयवचनप्रामाण्यं व्यत्याया ब्राह्मणस्य सर्वस्य स्ववर्णेष्वपि मुख्य गुरुत्वम् - क्षत्रियादीनामपि ब्राह्मणासंभवे स्ववर्णानु पूर्व्येणाचार्यत्व मित्यपि व्यवत्यवस्था सर्वैरभ्यु पेह्वेति एवमेव सर्वपद्धति कृद्भिराचार्यै रपि व्यवास्थाप्य प्रतिपादितः | प्. १२९२) किरणे - सर्वानुग्राहकः प्रोक्तश्शिवः परमकारणः | द्विजादयस्तु ये वर्णान्यूनाधिक तया स्थिताः || संस्कारोपि यद्देवात् फलमेवं नकिं भवेत् | संस्कारो वामतस्तेषां न्यूनधिकतया कथम् || भगवन् - न जातेर्न शरीरस्य संस्कारः प्राणिनो मतः | यदि जाते स्सचै कस्मिन् दीक्ष * * * * * * || प्राप्तजन्तेन न जातेस्त्वकलत्वान्त ततो मृतः | चिन्मात्रानुग्रहः प्रोक्तस्सर्वानुग्राहकश्शिवः || आश्रमचतुष्के ब्रह्मचारी गृहस्थाश्रमयोर्गुरुत्वं न वानप्रस्थ सन्यासिनोः | तदुक्तं सर्वज्ञानोत्तरे - द्वावेवाश्रमिणौ गृहस्थ ब्रह्मचारिणौ | लोकानुग्रहकर्तारौ परिव्राट्तापसौ नहि || तथा कालोत्तरे - गृहस्थस्सर्व वर्णेषु श्रेष्ठो गुरुरुदाहृतः | नैष्ठिकस्त्वधमो ज्ञेयो भौतिकस्तु विशेषतः || वानप्रस्थ वतीनान्तु गुरुत्वं नेष्यते सदा | सट्सहस्रिकायाम् - शृणुषण्मुख तत्वेन भोगमोक्षौ यथास्थितम् | ब्रह्मचारीगृहस्थश्च * * * * देशिकोत्तमः || प्. १२९३) दीक्षा प्रतिष्ठयोरेतौ भवावप्यधिकारिणः | किन्तु मोक्षैक युक्तानां विभूतिर्विमुखात्मनाम् || ब्रह्मचारी गुरुर्ज्ञेयो गृहस्थश्चद्विधास्त्विह | पूर्ववर्णाश्रमाणां हि स्वेस्वे कर्मणि तिष्ठताम् || उपायन तत्वाज्ञानानाम्मोक्षस्साधारण स्मृतः | यतीनान्तु यदर्थन्तु गृहस्थैरथमातृके || गृहस्थ एव तैरेवधाज्ञार्थिभिरुपासते | गृहस्थादितरेषान्तु नास्तिभोगाधिकारिता || तस्मागृही गुरु कार्यो भोगमोक्षोभयार्थिभिः | तथा सन्ताने - गृहस्थश्चोत्तमो विधात् ब्रह्मचारी यथा भवेत् | क्रियादिज्ञानपर्यन्तमेकतन्त्रे दृढश्शुचिः || कश्मीरतन्त्रे - रक्तवर्णक्यन्देहमुत्तमं श्याममध्यमम् | सर्वकृष्णमयन्देहन्नयेद्रुक नहि क्षणात् || सुप्रभेदे - गृहस्थश्चोत्तमो ज्ञेयो भौतिकब्रह्मचार्यपि | वीरतन्र्त्रे - गृहस्थश्चोत्तमं विद्यादथवा ब्रह्मचारिणम् | सान्तानिकगृहीश्रेष्ठो गृहस्थस्स्तदभावनः || भौतिके ब्रह्मचारी वा देशिको गृहमेधिनाम् | प्. १२९४) नैष्ठिको नैष्ठिकेषु स्यात् भुक्तिमुक्तिक्रमान्मतः || किरणे सान्तानिकलक्षणमुक्तम् | यस्तु पूर्वाश्रमस्थोपि संस्कृतश्शिवदीक्षया | सन्तानमप्यसन्तानमर्पयन्त्यधिकारिणी || सपूर्वापरसन्तान धर्मभावभयान्तकः | सन्तानिक गुरुः प्रोक्तः गृहस्थो देशिकोत्तमः || गृहस्थं चोत्तमं विद्यादथवा ब्रह्मचारिणम् | गृहस्थो देशिक श्रेष्ठो भोगमोक्षप्रसिद्धये || कामिके - सृष्टयनन्तरकाले ये दीक्षिताः कौशिकादयः | शिवेन तत्कुलोत्था स्युश्शैवास्सान्तानिकस्त्विति || सान्तानिको गुरुश्रेष्ठो गृहस्थस्तदभावतः | भौतिको ब्रह्मचारी वा देशिको गृहमेधिनाम् || नैष्ठिको नैष्ठिकेषु स्यात् भुक्तिमुक्ति क्रमान्मतः | भुक्तिमुक्ति प्रसिद्धयर्थं गृहस्थो गुरुरिष्यते || सर्वानुग्राहकः प्रोक्त स्सान्तानिक गुरुस्सदा | अनुलोमक्रमाद्वा स्यात् प्रतिलोमस्तु नेष्यते || चिन्त्यविश्वे - नैष्ठिको नैष्ठिकांश्चैव गृहस्थान्दीक्षयेद्गुरुः | भौतुकस्तु गृहस्थाश्च नान्यो दीक्षां समाचरेत् || शैवसन्यासदीपिकायाम् | प्. १२९५) भावद्रव्यस्य सत्यागे तेन सन्यासिनो यदा | दीक्षास्थापनयोस्तस्मादेतेनैवाधिकारिणः || तथापि गुरवो ज्ञेयास्सन्यस्तानां प्रदर्शने | क्रियासारपद्धत्याम् - ततो यो नैष्ठिकाचार्य स्वस्वजातिपुरस्सरान् | मुमुक्षूनपि सन्यास्तु दीक्षयेदविलंबितम् || दीक्षां करोति कृपया जन्तूनां भुक्तिमुक्तये | गुरुरेवं विधः ख्यातश्शिव वत्पूजयेत्सदा || दीक्षा प्रतिष्ठा यत्किञ्चित्तेन पाल्यं प्रयत्नतः | दीक्षोपदेशकृद्यस्मात् गुरुभिस्तन प्रकीर्तितः || व्याख्यानं कुरुते पुंसां देशिकस्तेन लभ्यते | व्याख्या पूजाप्रतिष्ठादि करोति भविनां सदा || आचार्यः कथ्यते परशिष्योपदेशतः | इत्येवं त्रिविधं प्रोक्तं आचार्यत्वमिहार्थतः || चिन्त्यविश्वे - रक्तमयं देह उत्तमं श्याममध्यमम् | सर्वकृष्णमयं देहं नयेद्गुरुर्न च क्षणात् || विशेषौक्तस्तद्यथा - विप्रादिषु चतुर्ष्वेव मनुलोमादिषट्सु च | अतेषां दशजातीनां आचार्यत्वं विधीयते || प्. १२९६) लोकानुष्ठानवशात्तत्तज्जाति भेदञ्च निर्दिशेत् | जात्याचारेण नान्येषां वचनस्य च गौरवात् || देशे तेत्वन्यजातीनां अभिषेकं न कारयेत् | पतितानान्यवेक्ष्यैव शिवाग्नि न विधीयतः || तस्माद्यतेश्च कर्तव्यं शैवमार्गे विशेषतः | आचार्याणाञ्चवै यतीनां किञ्चिदन्तरम् || परहिंसयतीनाञ्च तपस्सन्यासिनाञ्चये | अनयोरग्निकार्येषु योग्यत्वं न विधीयते || होमंविना तयोरेवमभिषेकं विधीयते | इति श्री व्याघ्रपुरनिवासि वामदेवात्मज वेदज्ञानविरचित दीक्षादर्शे आचार्यलक्षणविधिः || || अथ वर्ज्यगुरुलक्षण विधिरुच्यते || वर्ज्यगुरु लक्षणम् तथा चिन्त्यविश्वे श्रीनन्दिकेश्वरः - भगवन्देव देवेश किंनामाचार्य लक्षणम् | वदस्वलोकरक्षार्थ मस्माकञ्च विशेषतः || ईश्वरः कामिके - कामीकादि शिवज्ञानं वेदार्थज्ञानमेव च | समं यो मन्यते मोहात्तं प्रयत्नेनवर्जयेत् || प्. १२९७) देवयज्ञस्तथांषष्ठ मूहापोह विवर्जितम् | समानगोत्र संबन्धं कुसुमाक्षञ्च वर्जयेत् || परिवेत्ता परिवित्ता च देवलञ्च पुनर्भवम् | अभक्ष्य भक्षणञ्चैव कुण्डभस्मांकुरन्तथा || * * वांगमदत्तञ्च आरूढपतनं तथा | अलसं प्रक्षालनं चैव प्राश्यं वेश्यापतिं तथा || असत् शास्त्रपरं क्लीबं शक्तिं सुतकं तथा | असव्यसनिनंपारदारिकं बृषलीपतिम् || चित्रकं गायकञ्चैव * * कञ्च विवर्जयेत् | अन्यायेन शिव * * हारिणं हरदूषितम् || अल्पविद्यामाहिषकं विरूपञ्च विवर्जयेत् | गुर्वाज्ञालंधनं चापि परिदोषविचारकः || अन्धं काणञ्च पंकुञ्च तथा दन्तुरमेव च | काणं केकरविंकञ्च भ्रूश्मश्रुञ्च मूर्धजम् || महोदरं बृहत्कुक्षिं पूतिवक्त्रं विवर्जयेत् | चिन्त्यविश्वे - विज्ञानदीक्षा रहितो गुरुर्भक्तिविवर्जितः | ईर्ष्याभिलाषी च सर्वद्रव्याभिलाषितः || गुरुशुश्रूषणाहीनो गुरुनिन्दासमन्वितः | गुरोरिष्टकारी च ज्येष्ठन्मन्त्र समानकः || प्. १२९८) क्रोधलोभजलोन्मेष * शून्यडंभवेषकः | अन्यतो हिंसकोलुब्धस्तेयो मूर्खोपवादकः || चपलं करकं दुष्टक्षुद्रकर्मपरिग्रही | अहं कारीकृतघ्नश्च समयाचारदूषकः || जानयोग विनिर्मुक्त क्षयकुष्ठादि रोगवान् | * * र्तको विषयासक्तो दुश्शीलः कै * * था || चोराज्ञानी च दुर्मार्गी भक्षको दुर्मुखस्तथा | स्वयं भुवायनष्टव्रताश्च वर्ज्यास्ते तथोक्तम् || शिवदीक्षा विधानस्तु शास्त्रवान् तीव्रपावकः | शिवादीन् पूजयेन्नित्यं स्वमू * * रुशलयम् || अन्यलिंगं परित्यज्य * * गं सर्वमाश्रयेत् | सपुनर्भूरिति विज्ञेयस्तज्जाता कौलिका मता || तवतो गुरवो ज्ञेया यथा दावाचार पालकाः | आचार्यात्तु परिभ्रष्टास्त्याज्यास्ते भाग्नन्नलिंगक् || भग्रव्रता समु * * * सौ भस्मां कुरस्मृतः | * ज्जाता * न्ति राज्ञेया स्तज्जाताः कौशिका स्मृताः || दीक्षा स्थापनयोरेते सन्त्याज्याश्शुभकांक्षिभिः | एतैः प्रतिष्ठितं लिंगं भुक्तिमुक्त्योरसाधनम् || एवमादि गुणैर्युक्तो न पूज्यो हि महीतले | अस्यैवाचार्य नामत्वमभिषेकं न कारयेत् || प्.१२९९) प्रमादादभिषेकन्तु कृतञ्चेद्दोषभाक् भवेत् | सुप्रभेदे - ईदृशान्वर्जयित्वा तु सर्वकर्म बहिष्कृतः | यदि मोहेन कुर्वीत सान्निध्यं न कदाचन || वीरतन्त्रे - एतैस्तु लक्षणैर्हीनः पूर्णांगो मुक्तिपादपि | इति व्याघ्रपुरनिवासि वामदेवात्मज वेदज्ञान विरचित दीक्षादर्शे वर्ज्यगुरुलक्षण विधिः || || अथ शिष्य लक्षणमुच्यते || शिष्यलक्षणम् तथा चिन्त्यविश्वे - अथ वक्ष्ये विशेषेण शिष्याणाञ्चैव लक्षणम् | अहिंसासत्यमस्तेय क्रोधलोभाविवर्जितः || सहिष्णुरुर्जितस्तत्तत्सर्वक्लेश विवर्जितः | तथोक्तं पौष्करे - परेषु दुःखानुत्पादो हिंसाद्रोहशतैरपि | सा न हिंसेति विज्ञेया सा हिंसा शास्त्रचोदिता || आत्वतो भीतितो वापि नातथ्यं सत्यमुच्यते | इत्यादि तत्र द्रष्टव्यम् | शीमद्रौरवे - ब्राह्मणो व्रत संपन्नो क्षत्रिये धर्मपारके | वैश्ये च सत्किर्या युक्ते शूद्रेशुश्रूषणान्विते || प्. १३००) गुरुदीक्षां प्रकुर्वीत शास्त्रदृष्टेन कर्मणा | तदुक्तं पौष्करे - * नोपवास तीर्थानां श्रुताध्ययनयोरपि | श्रद्धया करणं पुंसां शुश्रूषां परिकीर्तितः || कारणे - चातुवर्णोत्पवान् शिष्यान् तथा चैवानुलोमजान् | सुरभेदे च - अनुलोमाश्च षट् प्रोक्ताः प्रतिलोमास्त्रयस्मृताः | सूतश्च मागधश्चैव आयोगश्च प्रयत्नतः || चिन्त्यविश्वे - ब्राह्मणादि चतुर्णान्तु रोगान् ज्ञात्वा चिकित्सयेत् - सेनापत्यं चमूनाञ्च कुर्यादाजीव संयुताः | एते पञ्च कुले जाता वीक्षायामुत्तमा भवेत् || सवर्णादत उत्पन्ना पञ्चैवा तेनुलोमकाः | एते दीक्षा विधौ तत्र मध्यमास्ते विशेषतः || चतुर्दश च संप्रोक्तो अनुलोमकसंकरी | कुल कुंभकारो दीक्षा यामपरोधमः || वृत्या पुत्राश्चादशका दीक्षा धामयमाधमाः | उत्तमानाञ्च मध्यास्तु पञ्चपञ्चाधमामनुः || अधमाधमकाश्चापि दशप्रोक्ता विशेषतः | चतुस्त्रिंशच्चये मत्वा कुलसंबन्धिनस्तथा || प्. १३०१) हीना चारयुताश्चापि क्रूरकर्मयुता अपि | हीन वृत्तियुता येपि दीक्षायां वर्जयेद्गुरुः || दीक्षाद्ययोजातीनां अकल्पेन च भस्मना | त्रिपुण्ड्रांकितदेहाश्च रुद्राक्ष परिधारणे || अमन्त्रकास्वयं पश्चात् शिवदीक्षायुतान् परान् | लिंगिनश्च सदा भक्त्या दूरतः प्रणमादिकान् || कृत्वा शिवालयाद्यञ्च स्वस्वजात्युनुसारतः | यथोचितन्तथा कुर्यात्तेन स्वर्गमवाप्नुयात् || पश्चात् भूमौ तु संजातो दीक्षया मोक्षमाप्नुयुः | दीक्षितो विधिनालिंगी नैष्ठिकोपि विशेषतः || तस्य जाते तु संबन्धो नास्त्येव नन्दिकेश्वर | भौतिकस्य विशेषेण लोकाचार समन्वयात् || पूर्वजात्यनु वर्तव्यमिति शास्त्रस्य निश्चयः | विभक्तिविश्वासमद्रोहं गुरुर्वाज्ञा पालन स्थितः || श्रद्धाशान्ति क्षमासत्यं तथा शौचं तपश्रुतः | कृतज्ञाया च दशकं यस्य शिष्यस्य विद्यते || स शिष्याणां प्रधानश्च नास्त्येते ते प्रधानकाः | भक्तियुक्तञ्च शिष्यञ्च न शिक्षयति चेद्गुरुः || शिष्यज्ञानकृतं पापं गुरोर्भवति निश्चयः | तस्मात्सर्व प्रयत्नेन गुणान्सर्वान् परीक्षयेत् || प्. १३०२) परीक्स्य बहुधा शिष्य मुत्तमं नीचकर्मभिः | नीचञ्चोत्तमकर्मेण ततोदीक्षां समाचरेत् || अल्पदोषगुणाधिक्ये सममेव चैवदीक्षयेत् | अब्द शिश्रूषणान्ते तु बृणीयाद्देशिकोत्तमः || सुप्रभेदे च - शिष्यान् संवत्सरात् पूर्वान् परीक्ष्य च गुणागुणौ | गुणयुक्तास्तु संग्राह्याः गुणहीनान्विवर्जयेत् || शिष्योपि गुरुं परीक्ष्यात् गृह्णीयात्तथा | अथानद प्रयोगेण नायम लभ्यते || वत्सरादपिशिष्येण सोन्यं गुरुमुपाश्रयेत् | गुरुमन्यं प्रधानोपि यमन्येत पौर्विकमिति इत्यादि वचनं ज्ञानदीक्षाविषय सामान्यन्तत्वक्षोर्षकालं विभज्य सर्वज्ञानोत्तरे प्रतिपादितम् | तद्यथा - त्रिचतुः पञ्चभिर्विप्रक्षत्रियो नववाप्तभिः | अष्टभिर्नवभिवैश्यः शूद्रे विंशति दापयेत् || दीक्षाकालेत्वमीमांसा ज्ञानं दाने विचारयेत् | पौष्करे - ब्राह्मणः क्षत्रियो वैश्याश्शूद्राश्चैव यतस्तथा | जलान्धबधिरामूका दीक्षाशक्त्या प्रचोदिता || मृगेन्द्रे - दीक्षाञ्च * * कास्तन्त्रे ये शिवेर्पित चेतसम् | प्. १३०३) संत्संगनिरताश्शूरा असंत्सगवरात् मुखाः | शूश्रूणाभिरतश्शान्ताः कालेन सुपरीक्षिताः || अक्रोधावव्यचपला श्रद्धधानाजितेन्द्रियाः | तेनग्राह्यास्सदादूरास्वाचार परिरक्षिताः || काश्मीरतन्त्रे - यश्च मुण्डीजटाधारी ब्रह्मचारव्रतस्थितः | तत्र वेदागमैर्युक्तमदीक्षा कर्म समाचरेत् || चिन्त्यविश्वे - व्याख्यानञ्च प्रतिष्ठाञ्च मण्डलं शिष्यसंग्रहम् | गुर्वाज्ञया प्रकर्तव्यं एकग्राम पथेयदि || दीक्षामात्रेण सिश्योपि सर्वदोषविवर्जितः | पश्चाद्दोष समुत्पन्नं मनोवाक्काय कर्मभिः || व्यसनादिभिरस्यैवन्तत्सर्वं गुरवे पुनः | विज्ञाप्य सर्वदोषञ्च वन्दयेद्देशिकोत्तमम् || प्रायश्चित्तविधानञ्च गुरुः पश्चादुदीरयेत् | असन्निधौ गुरोरेव कर्तव्यं ज्येष्ठसन्निधौ || प्रायश्चित्ताद्भवेच्छुद्धिश्शुचित्वान्मोक्षमाप्नुयात् | सिद्धान्तशेखरे - बहुश्रमक्रियानिष्ठस्तपोदान क्रियापरः | गुरुं परीक्षयेत् शिष्यो बहुधास्य कर्मभिः || प्. १३०४) तत्र दंपत्या दीक्षाविषये देविकालोत्तरे विशेष उक्तः | तथा - देवशदीक्षितः पूर्वं कनीयांश्चामरेश्वर | दीक्षितश्चेत्प्रकर्तव्या भवता परमेश्वरा || शृणु देवि ससंस्कारोत्यधिकादधिको भवेत् | शिवदीक्षा गुरुः कार्या एकस्मिन् भर्तृभार्ययोः || अर्धाज्जायाशरीरैश्च वाद्यैर्वाक्यैस्तथात्मनोः | प्रसिद्धेस्सहभावस्य दंपती सहदीक्षयेत् || पितरम्मातरञ्चैव भ्रातरञ्च तथैव च | अनुग्राह्यो वरारोहे पत्नीञ्च भगिनीन्तथा || जामातृपितृपत्न्याद्या योग्यास्स्युर्मोक्षकांक्षिभिः | दीक्षाकतर्व्या शिवो यस्मात् कार्यन्न पुत्रता || असंख्येयं इदं वाक्यमधुनाभिलक्षितम् | शिवे समयीसमस्थस्य ज्येष्ठायं पूर्वदीक्षितः || पुत्रकः पुत्रकस्यापि साधकस्साधकस्य च | गुरोरपि गुरुः प्रोक्तस्समयोक्ति निदर्शनात् || संस्कारादधिकाज्येष्ठो व्यतीनां शिवशासने | न तु जातिवयो वृद्धा विद्याज्येष्ठत्व कारणम् || विद्यमानौ शिरौ ज्येष्ठे अभिषिक्ते कनीयसा | गुरोरन्यगुरुणा वापि कैश्चित्पश्चात्प्रतीक्षते || प्. १३०५) अन्योन्य गौरवन्तश्च कर्तव्यं वन्दनं विना | तथा सर्वज्ञानोत्तरे - दीक्षाभिषेक ज्येष्ठेन कनिष्ठस्य कदाचन | तपोविद्याधिपस्यापि कर्तव्यं नाभिवादनम् || मतंगे - वत् शिव भक्तास्तु द्रष्टव्यः शिवकांक्षिभिः | संस्कृताश्च शिवैर्मन्त्रै गुणानां मूर्तिमूर्तिना || वागीशीगर्भसंभूता सर्वेप्राप्तवरानराः | यथोक्त शिव संस्कार पवित्रीकृत मूर्तयः || सर्वे समान धर्माणः तथाप्येषोच्यते विधिः | गुरोरप्यग्रतस्तेषा मेवमानसं यथानुक्रम शुश्रूषा वन्दनानि चात्र तु कार्याणि अन्योन्य संहृष्टैराचक्षुषविषये गुरोः || इति दीक्षादर्शे शिष्यलक्षणविधिः || || अथ शक्तिनिपातलक्षणमुच्यते || शक्तिपातलक्षणम् - यथोक्त लक्षण शिष्यं प्राप्त शक्ति निपाततारतम्येन तत्तच्चिन्हं ज्ञात्वा तदनुगुण्येन दीक्षां विदध्यात् | तथा सिद्धान्तशेखरे - शक्तिपातविभेदानां लक्षणं वक्ष्यतेधुना | अधर्माधर्मयोस्स्साम्येजाते शक्तिपतत्यसौ || ज्ञानात्मिका पराशक्तिश्शंभोर्यस्मिन्निपातिता | प्. १३०६) तस्यैव क्रियते दीक्षा समुक्तो नात्र संशयः || तत्पातलक्षणं वक्ष्ये तारतम्येन देहिनाम् | देहपातस्तथाकर्म परमानन्दहर्षणः || स्वेदोरोमाञ्च इत्येतच्छामी पातस्यलक्षणः | यथा - भास्करस्य प्रभा सद्योमेघजालैर्निवारितः | तद्वत् ज्ञानात्मिका शक्तिः पाशजालैस्समाहृतः || पक्वपाशेषु सुव्यक्ता पतितेत्युपचर्यते | पौष्करे - समत्वं कर्मणां नात्र निमित्तं तदनुग्रहे | परिपाकोमलस्यैव किन्त्वनुग्रहकारणम् || सर्वत्रकर्म साम्यस्य यद्यनुग्रहहेतुता | विज्ञानकेवलानान्तु भवेत्कथमनुग्रहः || सकलानाञ्च सर्वत्र कर्मसाम्यं न कारणम् | किरणे गरुडः | शक्तिपाताद्भवेद्दीक्षा निपातो न वित्वतः | * * न्वसमवेतत्वात् सर्वदेव स्थितापशोः || भगवान् - उपचारेण शब्दानां प्रवृत्तिरिव दृश्यते | यथा पुमान्विमुक्तोपि नित्योत्युक्तो विनैश्वरः || पाशच्छेदो यथा प्रोक्तो मन्त्रराट् भगवान् शिवः | एवं शक्तिनिपातोपि भक्तः प्रोक्तश्शिवागमे || निपातो यद्वस्तुनः सहसा भवेत् | प्. १३०७) तद्वत् शक्तिनिपातोपि भ प्रोक्तो भवभयप्रदः | तस्मादन्यत्र साम्येवा तदात्मा देशिकं प्रति || पौष्करे - वैराग्यं जायते क्षिप्रं संसाराद्दःखसागरात् | दिदृक्षा जायते शंभोः पादप जयोरपि || कदा द्रक्ष्यामिदेवेशं मोक्ष्येहं बन्धतः कदा | कोवा दर्शयिता शंभोरिति संजायते मतिः || एवं संसारतो भूतमनुगृह्णाति चेश्वरः | मृगेन्द्रे - अनेनाप्यनुमितिश्शिष्ट हेतोस्थूलधियामपि | ईषदर्धनिवृत्ते तु रोधकत्वे तमः पते || भवन्त्येतानि किञ्चिच्छिष्टेषु देहिनाम् | पौष्करे - शिष्यानां शक्तिपातार्थं परीक्ष्याश्शिवशासने | अभक्तमद्विजं क्रूरं निर्भयं वा क्रियाच्युतम् || दीक्षामदाज्ञा हन्त्येषामित्याज्ञा पारमेश्वरे | दीक्षयैव मोचयेत्पाशात् शिवत्वञ्च ददात्यणोः || तथा विद्यापुराणे - गुणाढ्यः कृशदोषो वा शिवभक्तः प्रशस्यते अशेषगुणसंपनो नत्वभक्तः कदाचन | म्लेच्छोपि शिवभक्तो यस्सोनु ग्राह्यो न संशयः | प्. १३०८) विप्रोपि लक्षणैर्युक्तो न दीक्षा भववर्जिनः | शिवे भक्तिं दृढं यस्य गुरौनित्यं क्रियासु च || शिवज्ञनाभ्यासने नित्यं विततीन्त्वधास्थितौ | अनन्यनिरतस्यास्या दीक्षानान्यस्य शस्यते || शरीरद्रव्य संविज्ञान वाचः कर्म गणानणून् | गुरुर्ध्वनधारयेद्यस्तु सोत्र संस्कारमर्हति || पौष्करे - एकस्य दीक्षाकर्तव्या द्वयोर्वाथ विशेषतः | अत ऊर्ध्वं न कर्तव्यं कर्तव्यं नरकं ध्रुवम् || निश्वासे - अप्राप्य शिवसद्भावं पठन्तो शिवसंहिताम् | अज्ञात्वा कुरुते दीक्षां शिष्याचार्यो व्रजत्यधः || स्वायंभुवे - अज्ञात्वा शिव सद्भावं ये दीक्षां कर्तुमुद्यताः | वृथा परिश्रमस्तेषामित्यध्वा वात्र वर्ण्यते || तथा वायय संहितायाम् - तत्व व्याप्तिमविज्ञाय शुद्धिवार्द्धक्य * च्छति | विप्रलंभकश्शुद्धो नालं प्रापयितुं फलम् || वृथा परिश्रमस्तस्य निरपाय च केवलम् | कालोत्तरे - अज्ञात्वालयभागौ तु ये दीक्षा कुरुते गुरुः | प्. १३०९) आचार्यस्सहशिष्यस्तु नरके रौरवे पचेत् || देशिकस्तु प्रयत्नास्तु ज्ञात्वा दीक्षा समाचरेत् | अज्ञात्वा शास्त्रसद्भावं ज्ञानतत्व समुच्चयम् || दीक्षां करोति ये मोहात् पश्चात्तापं करोति चेत् | पञ्चलक्षं जपेद्धोरं यदिवाञ्छति शोभनम् || इति दीक्षादर्शे शक्तिनिपात निरूपण विधिः || || अथ दीक्षाभेद उच्यते || मृगेन्द्रे - यथेष्ट सादनन्दीक्षा परमेशमुखोद्गता | निगद्यते समासेन द्वित्वादर्थस्य सा द्विधा || भौतिकी नैष्ठिकी चैव सावान्तरविभेदतः | सापेक्ष निरपेक्षान्याधालोकशिवधर्मिणः || स्वायं भुवे - दीक्षा शब्दस्य निर्वचनमुच्यते | कारणं सिद्धिदं मुक्ते यावद्वयक्षरार्थ मुच्यते || दीयते ज्ञानसद्भावं क्षीयते कर्मवासना | दानक्षपणयोगाच्च दीक्षाशुद्धिकृदात्मनः || तथा चिन्त्यविश्वे - दीयते ज्ञानसद्भावं क्षीयते च मलत्रयम् | तथा दीक्षासमाख्याता ज्ञानन्दत्वामलापहम् || प्. १३१०) गुरुणा चैव सर्वेषां मुख्या दीक्षा गुरुस्मृता | साधार निराधारभेदाद्विज्ञानाकलानान्दीक्षाभेदः पतिपादेइतः - चिन्त्यविश्वे तद्यथा - अनुग्राह्यास्त्रयश्शास्त्रे विज्ञानप्रलया कलौ | तृतीयस्सकलश्चेव आद्योपि मलमात्रकः || मलकर्मसमायुक्तः प्रलयाकल एव च | सकलश्च निवृत्यादि कलावृत्यन्त गोचरः || तेषां क्रियावती दीक्षा द्विविधा नन्दिकेश्वरः | साधाराथ निराधारा साधारा सकलस्य तु || निराधाराह्वयान्येषामेव दीक्षामयोदिता | आचार्यनिरपेक्ष्येण तीव्रशक्त्यानु शंभुना || या क्रिया क्रियते साधु निराधारेति कीर्तिता | गुरुमूलं समास्थाय मत * प्रतिभेद वा || भक्त्या शंभुश्च कुरुते या क्रिया साधिकारिणीः | चतुर्विधा क्रियादीक्षा सबीजा बीजवर्जिता || अधिकारेण संयुक्तात्यन्या निरधिकारिणी | सबीजा समया चार संयुक्तान नृणां भवेत् || वरुणपद्धत्याम् - सबीजाद्विविधा भिन्ना प्रथमा शिवधर्मिणी | साधकाचार्ययोस्सत्ता देशकालादिभेदतः || प्. १३११) धर्माधर्मात्मकं कर्म प्रागागामिविचित्रकम् | सञ्चिन्त्यशोध्यते यत्र सैवोक्ताशिवधर्मिणी || अधर्ममातृकाशुद्धा द्वितीया लोकधर्मिणी | नित्यमात्राधिकरित्वात् समधीनथ पुत्रकैः || दक्षानिरधिकारैव नैमित्तेनाधिकारिणी | साधका चार्ययोर्नित्यं नैमित्तिकञ्चकर्मसु || सर्वत्रैवाथकारित्वात् साधितश्चैवसातयोः | द्वेधा निर्वाणदीक्षा च लौकिकीशिवधर्मिणी || ग्रहिणां लौकिकी नेयं लिंगिनां शिवधर्मिणी | शिखाखण्डेन संयुक्ता दीक्षा सा शिवधर्मिणी || एतच्छिवधमिणि भौतिकनैष्ठिकभेदेन द्वैविध्यं सिद्धान्तशेखरे - तद्यथा - भौतिकं नैष्ठिकञ्चेति द्विविधा सा शिवधर्मिणी | व्रतमोक्षसमायुक्ता भौतिकेति निगद्यते || शरीरपातपर्यन्त व्रती सा नैष्ठिकी मता | अस्याभिप्रायः - दीक्षां तु किञ्चित्कालं व्रतमनुष्ठाय शास्त्रोक्त विधिनैवास्य व्रत समाप्तु सा भौतिकी | आदेहपातं ब्रह्मचर्यमनुष्ठान या सा दीक्षा नैष्ठिकी | वरुण पद्धत्याम् - प्. १३१२) अथ स बीजदीक्षाया द्विधा भेदो निगद्यते | सद्यो निर्वाणदायित्वाच्छिरन्निर्वाणदा परा || प्रारब्धसञ्चिता - कामिके - कर्मकालं विशोध्यते | यथात्यन्तविरक्तानां सद्योनिर्वाण दासदा | प्रारब्धकर्मणां भोगं यथा सा मुक्तिमक्षरा || यान्ति बलादयश्चैव स्वच्छो निर्वाणदा भवेत् | यथा क्रियावती तत्र कुण्डलमंडलपूर्विका || मनोव्यापारमात्रोर्था या सा ज्ञानवतीमता | सा चानेकविधा प्रोक्ता तत्प्रपञ्चोय मुच्यते || चाक्षुषी स्पर्शदीक्षा च वाचिकी मानसी तथा | शास्त्रञ्च योगदीक्षा च हौत्रीत्यादिरनेकधा || चक्षुरुन्मील्य यत्तत्वं ध्यात्वा शिष्यं समीक्ष्यते | पाशबन्धविमोक्षाय दीक्षेयञ्चाक्षुषी मता || निधायदक्षिणे हस्ते शंभुं ब्रह्मांग संयुतम् | निधाय शिष्यशिरसि स्पर्शदीक्षा भवेदियम् || तत्वे चित्तं समास्थाय प्रहितान्तर तेजसा | गुरुरुचारयेन्मन्त्रम्मन्त्रदीक्षासमाहृतम् || योगेन योगदीक्षा स्यात् प्रदानाद्योगजा भवेत् | अग्निकार्यवती हौत्री शैवदीक्षा निरुपिता || उच्चरेद्वचसा मन्त्रान् सा दीक्षा वाचिकी तथा | प्. १३१३) शिवशास्त्र प्रदानेन नास्त्रदीक्षा समाहृता || चिन्त्ये - अथभक्ति समायुक्तं शिवानुध्यानकांक्षिणम् | परीक्ष्य च मलं शिष्यं विलोक्यक्रूरया गुरुः || दीक्षा कार्यं प्रकुर्वीत कृतनित्यक्रियो मतः | विनश्यत्यन्धकारन्तु यथा सूर्यस्य सन्निधौ || गुरु * दीक्षणादेव सर्वपापात्प्रमुच्यते | गुरुर्यं स्पृश्यति हस्तेन यं यं पश्यति चक्षुषा || शिवं भवति तत्सर्वं शिवादेव प्रसादतः | न लिप्यते मलेनैव पद्मपत्रमिवांभसा || तस्माद्गुरुश्शिवः प्रोक्तो गुरुशक्तिर्मनोन्मनी | दीक्षाशतसहस्रन्तु पापानां कृतवानपि || शिवज्ञानमलब्धञ्चेत् ज्ञानयात्रां समाश्रयेत् | ज्ञानहीनं गुरुं प्राप्य कृतो मुक्तिमवाप्यसि || भिन्ननावाश्रितस्त्वब्धे यथा पारन्नगच्छति | तस्मात्सर्व प्रयत्नेन संश्रयेत् ज्ञानपारगः || मधुलब्धे यथा भृंगो पुष्पात्पुषन्तरं वने | ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् || तल्लब्धं स्वं विसृजेच्छिष्योप्यधः पतितश्च यः | मतंगे - शिवशक्तिकरैः स्पृष्ट्वा विनीता प्रियावादिनी | प्. १३१४) अक्रोधिनोपचापं च हृद्दधानो जितेन्द्रियः || तेनुग्राह्यास्सदाक्रूरा स्वाचारपरिपालकाः | अन्यथा नाधिकारोस्ति दीक्ष्यदीक्षकयोरपि || तथा वामदेव शिवागमे - शांभवी चैव शक्ति च मान्त्री चेति शिवागमे | दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना || गुरोरालोकमात्रेण स्पर्शात्संभासणादपि | सद्यस्संजायते प्राज्ञ पाशोपक्षयकारिणी || सा दीक्षा शांभवी प्रोक्ता सा पुनच्छिद्यते द्विधा | तीव्रा तीव्रतरा चेति पाशोपक्षयभेदतः || ययास्यान्निर्वतिस्सद्यस्सैव तीव्रतरा मता | तीव्रातु तीव्रोरत्यन्तं पुंसः पाशविशोधकी || शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु | गुरुणा योगमार्गेण क्रियते ज्ञान चक्षुषा || मान्त्री क्रियावती दीक्षा कुण्डमण्डल पूर्विका | मन्द मन्दतरोद्देशकर्तव्या गुरुणा बहिः || शक्ति वातानुसारेण शिष्योनुग्रहमर्हति | पौष्करे - तद्योग्यतानुसारेण करुणयागर्भया दृशा | पुनाति साधिकारेण यं वापि परमेश्वरः || प्. १३१५) अनुग्राह्यविनये तथानुग्राह्यस्य च | कारुण्ये सशिवः कर्तव्या तयोर्योगस्सुदुर्लभः | अस्यादीक्षायामलनिवृत्त शिवत्व प्राप्तिरेव फलं भवति | तदुक्तं तत्रैव - दीक्षैव मोचयेत्पाशान्शिवत्वञ्च ददात्यणोः | तथा रौरवे - एवं शैवाध्वरं प्राप्य दीक्षामन्त्र समुद्भवम् | न पुर्नजन्मतां याति दीक्षितो मनुजोत्तमः || भिन्ने देहे शिवोभूत्वा शिवधर्मैस्समन्वितः | शिवधर्ममनुप्राप्यत्वविभागायकल्पते || यथा समुद्रमासाद्य नदीमृष्टांनुवाहिनी | क्षारतोयत्वामायाति तत्प्रभावान्महोदधेः || एवं वै भिन्नदेहात्मा शिवमेवाधिगच्छति | सरित्समुद्रसंयोगाद्विभागेनैव जायते || तस्माच्छिवाध्वरे रूपकल्पनास्वच्छवर्णता | तद्यथा - निगूढास्तत्रतिष्ठन्ति काष्ठे वह्निर्यथा तथा | तद्वदस्तु यथा वह्नि मण्डकस्य वशात् स्फुटम् || स्वस्वरूपं विजानाति भास्वरं यत्सा निर्मलम् | अन्धकस्त्विहवै शिवस्वयमेव सदाशिवः || प्. १३१६) आचार्यतनुमास्थाय सदाचानुग्रहे स्थितः | मन्त्रमण्डनवत्ज्ञेयं अध्वाचाप्यरणिर्यथा || वागीशी योनिर्विज्ञेया धूमाज्ञेया मयादिकृत् | आत्मावै वह्निवत् प्रोक्तो साधकस्तु परश्शिवः || मलकर्मकलाद्यैस्तु निर्मुक्तो विगतत्समः | तत्रस्थोपि न बाध्येत यतोऽतीव सुनिर्मलः || रसवह्निसमायोगात्ताम्रं कालिकया यतः | विशोधितन्तु तत्वज्ञैर्हेमत्वं प्रतिपद्यते || न भूयस्ताम्रतां याति तथात्मा च गम्यञ्चन | रमस्वमन्त्र शक्तिस्तु क्रिया ज्ञेया तु वह्निवत् || तत्वज्ञश्च शिवो देवी आचार्य तनुविग्रहः | आत्मावै हेमवत् ज्ञेयो मलो ज्ञेयस्तु कालिका || मन्त्र द्रव्यक्रिया योगात् बाह्याधारे यथा प्रिये | गुरुणा तत्रविदुषा यस्माद्वैनिर्मलः कृतः || न भूयोमलतां याति शिवत्वं यातिनिर्मलः | वातुले - रसविद्धं यथा ताम्रं न भूयस्ताम्रतां व्रजेत् | ज्ञानसिद्धस्तथा देही न भूयः पशुतां व्रजेत् || विमुक्तं प्राकृतं भावं तेनैवाधिकृतः पुमान् | एतत् ज्ञानो गुरुर्ब्रह्मा मर्त्यलोक परेस्थितः || प्. १३१७) ब्रह्महत्याश्वमेधाद्यै पश्य पापैर्न लिप्यते | || इति दीक्षादर्शे दीक्षाभेदनिरूपणविधिः || || अथ दीक्षादेशनिरूपणविधिरुच्यते || दीक्षादेश विधिः - तद्यथा - स्वायंभुवे - अथ यागप्रसिध्यर्थं ब्रह्मावर्तादिकं भवेत् | देशं भूतसंजुष्टं समित् पुष्पोदकोत्तरम् || * * * * * भागान्तं वर्णानामनुपद्रवम् | मृत्कुशाद्योषधीगाढं नास्तिकानामनिन्दकम् || कारणे - सह्येवा पारिधात्रे च महेन्द्रे मलयेपि च | पुण्यनद्यब्धतीरे वा संगमे वा विशेषतः || क्षीरवृक्ष समीपे तु पुष्पोद्यानेथवा पुनः | तथा चिन्त्यविश्वे - महेन्द्रमलये सह्ये पारियात्रे हिमालये | विन्ध्ये च मन्दरे चैव श्रीगिरौ हिमपर्वते || गंगा तीरे च कालिन्दौ नर्मदा तुं भद्रके | सरस्वत्यां पयस्विन्यां कावेरि कन्यका तटे || वाराणस्यादि पुण्येषु क्षेत्र देशेषु वा पुनः | समुद्रकायां नद्यायां तीरे शुद्धे महाहृदे || पुष्पोद्यानेथवानित्यं क्षीरवृक्षे समीपगे | प्.१३१८) प्रासादे च मठे चैव श्रोत्रियस्य गृहेथवा || शुद्धदेशे मनोरम्ये मृत्स्नाधिकतले समे | स्वायं भुवे - महेन्द्रे मलये सह्ये श्रीशैले हिमवद्गिरौ | पारियात्रां बुधे विन्ध्ये शुद्धिमाचक्षपर्वते || गंगायां यमुनायाञ्च तयोरन्तर एव च | सरस्वत्यां दृष्टवत्यां गोदावर्यामपां निधौ || नर्मदायां कृष्णवेष्यां सिन्द्रौ पञ्चनदे तथा | तुंग भद्रोप कण्ठे च चन्द्रभागोपकण्ठके || गुह्यायतनतीर्थेषु नदीनां संगमेषु च | भवने वने गोष्ठे श्रीपुरेक्षीर * * * के || ब्रह्मकुण्डे कदंबे च गुरोस्समनिशोभने | देवालये विशेषेण दक्षिणद्वारि वेश्मनि || कुन्दवृक्षस्यमूले च दीक्षास्थानं प्रकल्पयेत् | चिन्त्ये - देवालये मठे चैव गुरुशिष्य गृहे तथा | दीक्षास्थानन्तु कर्तव्यं मण्दपं विधिपूर्वकम् || काश्मीरतन्त्रे - पुण्यक्षेत्रे शिवक्षेत्रे सदादीक्षा प्रशस्यते | तथोक्तं क्रियाकरणमण्डनपद्धतौ - उद्यानेषु शिवालयेषु सरितां तीरेषु पद्मालये | प्. १३१९) काञ्च्यां व्याघ्रपुरेपयोधिपरिधे जप्ते * * श्व पर्वते - गोष्ठे वापि गुरोर्गृहे स्वभवने श्रीकालहस्तीश्वरे गोकर्णे बहुपावने तनुभृतां दीक्षास्थलं शस्यते | मतंगे - शिवोलयस्थभूमयः प्रवरावने | सरित् गंगा महापुण्या कालिन्दी चाप्यनिन्दिता || सरस्वती नर्मदा च चतस्रस्सरितो वरः | आर्यावर्तोद्भवापास्ता स्वयञ्चैव महार्णवः || गंगायमुनयोर्मध्ये दीक्षाक्षेत्रमनुत्तमम् | सरितस्संगमश्शस्ता उद्यानं सामनोरमः || विमलं सृ सरित्श्रेष्ठ यत्र वा नलिनी शुभा | एभ्यो स्येकतमं भद्रमथवा यन्मनोरमम् || आलयादौ स्थानविशेष उक्तः - कामिके - हर्याग्रे मण्डपं क्र्याद्याग गृहञ्च पार्श्वयोः | उत्तरे वा प्रकर्तव्यं चतुरश्रं यथा भवेत् || गृहादि विषये तदग्रे द्वारोत्सेधमानान्तरन्त्यक्त्वा तद्बाह्यप्रदेशे दशहस्तमानेन यागार्थमण्टपं कुर्यात् | तथा ज्ञानरत्नावल्याम् - द्वारोच्छ्रयान्तरन्त्यक्त्वा गृहंलिंगे गृहाग्रतः | दशहस्त प्रमाणेन मण्टपं कारयेत्सुधीः || एतदेवात्मार्थलिंग प्रतिष्ठायां मण्डपं कार्यम् | प्.१३२०) मतंगे - प्राच्योदकं भवेद्भद्रं याम्यां गिरिवरं शुभम् | क्षत्रं दूर्वादिभिर्नद्धं कुशबिल्वोपबृंहितम् || ग्राह्यं त्वविदानित्यं सुपरीक्ष्य यथाक्रमम् | स्मृतौवर्ज्य देशमुक्तम् - सिन्धुसौवीरं राष्ट्रं तथा वासिनः | कोंकवंगकलिंकाञ्च गत्वा संस्कारमर्हति | अथ भूपरिग्रहणार्थं प्रवेश बलिरुच्यते | कामिके - भूपरिग्रहं - नवभागं धरां कृत्वा ब्रह्मस्थानादि तत्क्रमात् | नवादिषु बलिन्दद्यान्मन्त्रेणानेन वास्तुवित् || इमे भूमौ वसन्तोत्र भूतपैशाच राक्षसाः | स्वेच्छगच्छन्त्विमां भूमिमाग्रमिहवासिने || दध्याज्यापूपसंयुक्तै रन्यैस्तेषां बिलंक्षिपेत् | एतद्विशेषं शिव * * * निर्माण स्थापनादिपिकायामस्माभिः प्रपञ्चितन्तत्रवलोक्यताम् | अतः परं प्रवक्ष्यामि महीतल विशोधनम् | तस्याः परीक्षाविज्ञानं परिग्रहणमेव च || प्. १३२१) जलतीर समीपस्थां शुद्धां भूमिं परीक्षयेत् | हस्तमानं पुरा खात्वा पूरितायाधिका शुभा || समं मध्यमा ज्ञेया कनिष्ठाया न पूरिता | यस्यवर्णस्सयोगान्धश्शोभना स च विद्यते || भूमिसंशोधनं कृत्वा क्षेत्रजननं कुरु | जनिते तु शिवक्षेत्रे पश्चाद्वै भूपरिग्रहः || तथा निश्वासे - द्रव्याः परीक्षणञ्चैव तथा भूमि परिग्रहः | साधकस्याभिषेके तु आचार्याणान्तथैव च || मृगेन्द्रे - विधिना वक्ष्यमाणेन कृत्वाभूमेः परिग्रहः | पुण्ये नद्ये समित्पुष्प कुशवारि समन्विते || देशे वर्णानुगां भूमिं प्रागीशो दिग्भवां भजेत् | यस्य ब्राह्मणादिवर्णस्य यादृक्वक्ष्यमाणं तत्तदेव वर्णानुगमिति तत्रैवोक्तं - हिमसृक् कालनीलाभं मधुनादिरसोत्तमम् | घृतादिदेशकृन्मद्य गन्धिनां सुप्ररोहिणम् || यथा संख्यं ब्राह्मणादीनां हिमरुधिधहरिताल श्यामवर्णां कषायाम्ल करकरसां घृतरक्तगोमयसिरागन्धाञ्च भुवं परिग्रहेत् | एवंञ्च प्रोक्तं ब्रह्मरसगन्धास्सर्वा एव ब्राह्मणभूमयोग्राह्याः | आज्या वर्ज्य तिस्रोक्षत्रियस्य पञ्चश्चाद्वैश्य शूद्रस्य निधाय शिलाभूमिञ्च कीर्तिताः | प्. १३२२) कारणे - क्षेत्रस्तदतिवशादुर्वीं कथितान्त्वानुलोमिनाम् | निश्वासकारिकायाम् - विप्रस्य तिस्रोराज्ञस्य उभे विशेष एका शूद्रस्य नियमा शिलाभूमिञ्च कीर्तिताः | यष्ट्वा तु देवदैवेशि हुनेदष्टशतं क्रमात् | बलिस्तत्रैव दातव्य देशिकेनमहात्मना || भूम्याः परिग्रहाह्येव तव देवि उदाहृतः | उक्तवर्णा संभवे प्रायश्चित्तौ वर्णानापादयेत् || तथोक्तम् - ब्राह्मणादि चतुष्कस्य वर्णाभावे तदीश्वरैः | सहस्राधिक होमेन वर्णापादनमाचरेत् || स्वायंभुवे - भूमिन्तत्र परीक्ष्येत निम्नोन्नतविवर्जिताः | अनूषरा समक्लिन्ना मृदाकर्दम वालुका || तुषकेशास्थिरहितां भस्मांगारविवर्जिताम् | दुष्टशल्याविनिर्मुक्तां स्निग्धांभारवतीं शुभाम् || शूर्पाद्याकृति निर्मुक्तां प्रागुद्क् प्लवनाम्महीम् | शोधितां करशंखेन करखातपरीक्षिताम् || प्. १३२३) वर्णावर्णाद्यविकलां महीं कामफलप्रदाम् | मनः प्रतिकशन्मुख्यां सिद्धेवापि यथोदिताम् || सुप्रभेदे - शुभाशुभनिमित्तानि तस्मिन् कालेपरीक्षयेत् | शुभे तु प्रस्थिते यायादशुभे तु निवृत्तयेत् || अशुभेत्वग्निमास्तीर्य शिवेनैव शतं हुनेत् | निश्वासे - पापेवा पतिं विद्यात् शुभे दशुभमादिशेत् | शयनानामनादृत्य कुरुते कर्ममानतः || धर्मिणी प्रतिघातानि विघ्नात्यभि भवन्ति च | तस्मात्सर्वेषु कार्येषु शकुनं प्रतिपूजयेत् || अथ वर्ज्यभूमिविधिरुच्यते | सन्ताने - वर्ज्य भूमिः - वल्मीकाण्ठञ्च औषध्यं क्रमिदुष्टञ्च वर्जयेत् | सर्वज्ञानोत्तरे - केशस्थिकण्टकादीनां गर्तोषरविवर्जिताम् | सर्पवम्लीकनिर्मुक्तां भस्मांगार तुषोक्षताम् || कामिके - क्रमिदुष्टान्तु पाराभ्यां वल्मीकाद्यञ्च वर्जयेत् | शंकुस्थापन विधिरुच्यते - पौष्करे - भुवः परिग्रहार्थन्तु शंकुसूत्राणि वेशयेत् | अंशुमति - मानं निश्चित्य तत्पूर्वे निखने तत्परिग्रहाम् | प्. १३२४) त्रितालं वा द्वितालं वा कृकतालमथापि वा || मृदमुत्थाप्य संशोध्य अन्यमृद्भिस्तु स्मरेत् | पुण्यक्षेत्रे नदीतीरे शुद्धदेशे मनोरमे || संगृह्य मृदमादाय तद्गर्तं पूरयेत्समम् | सर्वज्ञानोत्तरे - सेचयेत्पञ्चगर्ततोयेन पञ्चगव्य शिवांभसा | धौतवस्त्रश्शुचिः स्नात्वा ततस्सञ्चालयेत्पुनः || अकालकुलकलशैर्वस्त्रपूतेन वारिणा | ततः कुट्टापयेद्यस्तु पलाशोश्वत्थमुद्गकैः || दर्पणोदरसंकां सर्वत्रसुपरीक्षिताम् | उर्वीमेवं विधां प्राप्य यजेन्मण्डलमुत्तमम् || || इति भूपरिग्रहविधिः || अथ दीक्षाकाल उच्यते | काल निर्णयम् - सह * * ने शृणु देवि परं गुह्यमधिवासनमुत्तमम् | सर्वसंहितसामान्यं कथयामि तवाखिलम् | तिथिनक्षत्र वाराणि शकुनानि शुभानि तु || दिव्यार्षरिक्षभौमानि लब्ध्वा सम्यक् समाचरेत् | मकुटे - उत्तरायण काले तु शुक्लपक्षेशुभे दिने | अधने विषुवे चैव ग्रहणेशरतद्दिने || सर्वमासेषु कर्तव्यमाचार्यैश्च युते दिने | प्. १३२५) सुमुहूर्ते सुलग्ने च दीक्षाकर्म समाचरेत् || स्वायंभुवे - शरद्वसन्तयोर्योगे दीक्षाकर्मविधिर्वरः | तयोरसंभवे वाऽपि नित्यत्वेपि प्रशस्यते || अत्र - शरमासयुगलं मोक्षार्थिनामेव वसन्तयुगलं भुक्तिमुक्ति निमित्तं इहाभिमुख्यते भुक्तिरनुषंगतोमुक्तिश्च | एवं चतुर्मास दीक्षाकर्म विधिश्रेष्ठः | दीक्षायामभिषेके च तथा मन्त्र परिग्रहे | भूतग्रहणमोक्षे च द्रव्यालाभा * कर्मणि || कार्तिक्याञ्चैव वैशाख्यां स्वर्भानोरपि दर्शने | अयने विषुवे क्रान्तौ संस्थितौ गुरोर्यजेत् || उत्तमादितुभेदेन कालं सिद्धान्तशेखरे उक्तः | शरत्काले तु वैशाखे दीक्षाश्रेष्ठफलप्रदा || फाल्गुने मार्गशीर्षे च ज्येष्ठा दीक्षा तु मध्यमा | आषाढे माघमासे च कनिष्ठा समुदाहृता || निर्मिता श्रावणञ्चैत्रं पुण्यभाद्रपतौ तथा | निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे युतः || निन्दितेष्वपि मासेषु दीक्षोक्ता ग्रहणे युतः | विषुवेत्ययन द्वद्वे आषाढन्तुमहोत्सवे || दीक्षा कार्या तु कालेषु पवित्रेशुक्लपर्वाणि | शुक्लपक्षेशुभादीक्षा कृष्णपक्षे पञ्चमाद्दिनात् || प्. १३२६) कारणे च - वर्ज्यमासेन मुख्येन दीक्षाकालमुक्तम् | तद्यथा - पूर्वभद्रे पदेमाखे आषाढे मार्गशीर्षके | दीक्षां न कारयेद्धीमान् अन्यमासे तु कारयेत् || कामिके विशेष उक्तः - स्थापनं प्रोक्षणं दीक्षा शिवरात्रि शिवोत्सवम् | सौरमासे तु कर्तव्यं चान्द्रमासे विचित्रकम् || शुक्लपक्षेशुभर्क्षे तु शुभवारादिभिस्ततः | मृगेन्द्रे - उदङ्मार्ग प्रवर्तके शुक्लपक्षे शुभे दिने | मृगेन्द्रपद्धत्यामघोरशिवाचार्येणोक्तम् || विना चैत्रं विना पौष्कं विनावर्णं प्रशस्यते | अन्यमासेषु सर्वेषु दीक्षाकर्मसुखावहम् || मोहशूरोत्तरे - दीक्षादिस्थापनञ्चैव पवित्रादिशतक्रतुः | अधिमासे न कुर्वीत यदिच्छेच्छुभमात्मनः || अत्र वल्मीकादिमासपि निषिद्धमिति कालविवेकेस्माभिः प्रदर्शितन्तत्रावयार्यत्र | अथ * धिरुच्यते | सुप्रभेदे - सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा | पौर्ण मास्याममावास्यां दीक्षाकर्मणि नश्यते || वीरतन्त्रे - द्वितीया पञ्चमी वापि षष्ठीवाथ विशेषतः | प्. १३२७) द्वादशी वा गृहीतव्या त्रयोदश्यामथा भवेत् || एतावैतिशुभः प्रोक्ता दीक्षाकर्मणि शोभना | चतुर्थी नवमी वाथ विशेषतः पौर्णमासिं विना शेषा शुक्लपक्षे बुभुक्षुषु | योगजे - मध्याष्टनवमी चैव अमावास्याञ्च वर्जयेत् | स्वायंभुव सूत्र संग्रहे - पौर्णमास्यष्टमीशुक्ला तथा चैव चतुर्दशी | भुक्त्यै दीक्षासु तिथयः सकृष्णमुक्ति कर्मसुः || दिनं छिद्राद्ययुक्ताश्च ये चान्ये तिथयस्मृताः | अथवारवितेपियागांगभावित्वात् संग्राह्ययाग कर्मणि कालोत्तरे - चतुर्थ्यामथवाष्टम्यां पञ्चदश्यान्तथैव च | पौर्णमास्यां प्रकर्तव्यं भूतिकामैस्सिते सदा || निच्छिद्राणि न युक्ताश्च यथान्यास्त्यतिथयस्मृताः | || अथ वारविधिरुच्यते || वीरतन्त्रे - सोमशुक्रबुधोजीव वाराश्रेष्ठतमाः बुध | सुप्रभेदे - नक्षत्राणि तमन्याहुरादित्य सोमवारयोः | गुकशुक्रेन्दु सूनौ च दीक्षाकर्मणि शोभनम् || || अथ नक्षत्रविधिरुच्यते || योगजे - रोहिणीश्रवणञ्चैव श्रविष्ठा त्रीणि चोत्तरा | प्. १३२८) पुण्ययुक्शतभिषक्चैव दीक्षानक्षत्र मुच्यते || स्वायं भुवे - त्रीण्युत्तराणि रोहिण्यां सौम्याञ्च गुरुदैवतम् | मैत्रं सौरञ्च नक्षत्रं पावनं चैरमेव च || नैरृतं वैष्णव ब्राह्मं तथा पुण्याधिदैवतम् | एतानि शिवयागे तु प्रस्थानि च चतुर्दश || नान्यन्यैववेदितयागादेकादश परित्यजेत् | शेषुप्रारभेद्यागं यागेषु सुसमाहितः || कारणे - पुण्या च रोहिणिरादित्य श्रवणा चाश्विनीमखा | सावित्रीन्त्वाष्ट्रवायव्यन्नैरृतं मैत्रमेव च || तिष्यं त्रीण्युत्तराद्या च अशस्त्री पुत्रजन्मदम् | नक्षत्रादि दैवत निर्णयः शैव कालविवेके प्रपञ्चितत्वादत्रन लिख्यते | नक्षत्राणि प्रशस्तानि दीक्षाकर्मणि कारयेत् | पूषा रेवती आदित्य पुनर्वसु सावित्रं हस्तः || त्वाष्ट्रं चित्रो वायव्यं स्वाती नैऋतिमूलं मैत्रमनूराधा उत्तरं उत्तरफाल्गुनी उत्तराषाढोत्तर्र प्रोष्ठपदा स्तिस्रस्तथा | निश्वासे - त्रीण्युत्तराणि रोहिण्यापुण्य मृगशीर्षकम् | हस्तं स्वातिरनुराधामखामूलञ्च रेवति || अभिजिच्छ्रवणञ्चैव शिवयागे चतुर्दशं | प्. १३२९) चन्द्रसूर्योपरागे तु षोडशीतिमुखेषु च || ग्रहनक्षत्रयोगेषु विषुवेचोत्सवेषु च | अयनेषु च सर्वेषु यागस्सर्वार्थ सिद्धिदः || अत्र षडशीति मुखलक्षणं निश्वासतन्त्रे प्रतिपादितम् | मिथुनं कन्यका चैव धनुर्मीनौ तथैव च || षडशीति मुखेत्येवं चत्वारः परिकीर्तितः | एतदुभय राशिचतुष्टयं षडशीतिमुखमित्युच्यते | || अथ लग्नविधिरुच्यते || कारणे - राशयश्चराश्रेष्ठा मध्यमा उभयास्मृताः | स्थिराश्च नैधनस्थाने ग्रहास्सर्वेविवर्जिताः || आचार्यसिष्ययोश्चैवानुकूल्यं शिवं भवेत् | मेषकटकतुलमकराश्चरा श्रेष्ठमध्यमुभयराशयः || मिथुनकन्याधनुर्मीनोह्युभयात्मकाः | वृषसिंहवृश्चिक कुम्भास्थिराः | नैधमष्टमस्थानम् | तदुक्तं योगजे - अष्टस्थानान् ग्रहान् सर्वान् परिहारेन विशेषतः | बृहस्पत्युदयं वापि शुक्रोदयमथापि वा || वीरतन्त्रे विशेष उक्तः - वृषभं वाथ सिंहं वा वृश्चिकं कुंभमेव च | मिथुनं वापि कन्यां वा धनुर्वामीनमेव वा || एते च राशयः प्रोक्ताश्चरराशीश्च वर्जयेत् | प्. १३३०) स्थिरराशौ प्रकर्तव्यमुभये * नुभोदये || दीक्षाकर्मसमारभ्य तत्र सोमोदयं विना | सोमोदयं लग्ने चन्द्र इत्यर्थः || अथ योगविधिः || योगाश्च प्रीतिरायुष्मान् सौभाग्यश्शोभनं शुभम् | सुकर्मा च धृतिर्वृद्धि ध्रुवस्सिद्धिश्च हर्षणः || वरीयान् शिवस्सिद्धो ब्राह्मणैश्च षोडश | निन्द्या निन्द्यानि सर्वाणि प्रशस्तानि विमुक्तये || अशुभयोगस्तुविष्कम्भ अतिगण्डं व्याघ्रपात वपाव्यतीपातः परिधस्साध्यः शुभ्रं वैधृति इत्येकादश अशुभयोगाः | प्रीत्यादि षोडशयोगाग्राह्याः | सिद्धन्तशेखरे - ज्योतिश्शास्त्रं विदित्वेन न दीक्षां कुर्यात् बुभुक्षुषु | मुमुक्षेस्सर्वदादीक्षा कालादि निद्यमो नहि | तथा देविकालोत्तरे - फलं पतति शाखाया पद्मं भूमौ यथाक्रमम् | तथा भावंघ्रिभक्तिश्चेत् नहिकालः प्रकीर्तितः || शुभे दिने शुभे वास्त्री सूतेषके तु गर्भके | प्. १३३१) तस्मात् शिष्यः परियागो दीक्षाकालः प्रकीरितः || तथा चिन्त्यविश्वे - गर्भिणी प्रसवे तन्तुपरिपाकमितिस्मृतम् | परिपाकमिदं शिष्यं ज्ञानगर्भ समुद्भ्वम् || तद्दिनं ज्ञानगर्भन्तु सर्वमासेषु दीक्षयेत् | एवं दीक्षाया विशेष कालसामान्य मन्त्रोपदेशकाल ज्योतिषे प्रतिपादितम् | तद्यथा - मन्त्राद्यारंभणं चैत्रं बहुपुत्रफलप्रदम् | वैशाखे चैव वृद्धिस्स्यात् सर्वसंपत्करं तथा || जेतुमकरञ्चैश्चात्याषाढे बन्धुनाशनम् | श्रावने चायुसो वृद्धिर्भाद्रपदे प्रजाक्षयः || आश्वयुज्यां सुसंपत्ति कार्तिकेरत्न संभवः | मार्गशीर्षे शुभं नित्यं पुण्येस्थान विनाशनम् || माघे मोहायते नित्यं फलने वैश्यमुत्तमम् | एवं सम्यग् विशोध्ये दातव्यो मन्त्रिणा मनुः || कालदर्शेपि - शिष्यजन्मदिवसेषु संग्रहे प्रग्रहे राशिनेशयोरपि | पुण्य योगयुजिवादिने नृणन्देहशुद्धिरभिधीयतेपुरा || || आचार्याभिषेक कालविधिः || श्रीमन्मतंगे - शुक्लपक्षे तु सुतिथौ सम्यक् प्राप्योत्तरायणे | प्. १३३२) अष्टम्यां वा चतुर्दश्यां अभिषेकं प्रशस्यते || अत्रैवामृतयोग उक्तः - मूलार्क मूलयोगैर्वा श्रवणेन सहैकतः | तदज्ञात्वा प्रोष्ठपदायां वा लोहितांगश्शुभदिनम् || कृत्तिकास्थानबुध्वा तु दिनं विप्र प्रश्यस्य वै | गुरोर्वा दिवसे भाद्रे पुनर्वसु समागमः || फाल्गुन्यां शुक्रवारे वा स्वद्यर्क्षे वा शशैश्चरः | तथा पतनमूलराशि श्रवणन्तथा इत्यादि अमृतयोगम् कुर्यात् | बुध द्वितीया इत्यादि दग्धयोगञ्च शुक्रे गुरुस्त्तराभ्यामित्यादिनाशयोगञ्च वर्जयेत् इति दीक्षादर्शे कालविधिः | || अथ दीक्षानिर्माण मण्डपविधिरुच्यते || तद्यथा - अंशुमति - मण्तप निर्माणम् - यागांगमण्टपं वक्ष्ये तद्रूपं शृणु पार्वति | क्ष्माकारन्तुमकारं स्यात् अप्तत्वन्तुणकारकम् || अग्नितत्वञ्च टकारं पवनाख्यं पकारकम् | व्योमाकारं मकारन्तु पञ्चवर्णोद्भवं क्रमात् || पञ्चवर्णाभिधानं स्यात् पाञ्च भौतिकरूपकम् | पञ्चभूत पञ्चकला रूपम्मण्डपमुच्यते || अध्व शुद्धियुतैर्मन्त्रै राश्रमैर्यमखालयम् | प्. १३१३) अध्वमन्त्राश्रयो यस्मात् पूजां चक्रे तथादिभिः || तस्मात्तन्नाममात्रैव यागमण्टपमुच्यते | मण्टपन्तुक्रियारूपं तल्लक्षणमिहोच्यते || यस्या शिवविशाले कृत देशे कल्पयेद्बुधः | मण्टपानां मानप्रमाणत्वान्मानांगुलं षट्भेदमुक्तं काश्यपे - पवाष्टगुणितं मानं मानांगुल मिहोत्तमम् | सप्तसंख्ययवैस्तारं मानांगुलन्तुमध्यमम् || षट्संख्या यवविस्तारं मानांगुलं तथाधमम् | शाल्यायत चतुष्कन्तु उत्तमांगुलसंज्ञितम् || सार्द्धाग्निशालि दीर्घन्तु मध्यमांगुलि संज्ञकम् | शाकल्याश्च त्रिगुणदीर्घमधमत्वं गुलं भवेत् || एवं हि षड्विधं प्रोक्तं मानांगुलं द्विजोत्तम | मानांगुलन्तु त्रैविध्यं चिन्त्यांगं मध्य उत्तमम् || आचार्य दक्षिणे हस्ति मध्यमांगुलिमध्यमे | पर्वतारञ्च दीर्घञ्च नाहं निर्मात्रांगुलन्त्रिधा || तदंगुलैश्चतुर्विंशैर्हस्तमानं प्रकीर्तितम् | अंशुमति - मानमात्रांगुलाभ्यां वा मण्टपमान निश्चयः | यागांगनि च सर्वाणि मात्रांगुलेन कारयेत् || सुप्रभेदे भंगुलं परिच्छिनत्तिति - प्रासादं मण्टपं चैव प्राकारं गोपुरं तथा | प्. १३३४) ग्रामाध्वक्षेत्रगेषु मानांगुलविधानतः || कूर्चे पवित्रके चैव स्रुवे सृक्भिरथान्यकैः | यागे प्रयोजतानीह मात्रांगुलवशां नयेत् || अथ मानांगुलैर्वापि कारयेद्यागकर्मणि | तोरणादिपताकाश्च कूर्माद्यासनकल्पनम् || अष्टमगुलरूपाणि सृक्स्रुवादिकपात्रकान् | अवगाहनपीठञ्च त्रिपादिफलाकान् क्रमात् || एवमादीनि सर्वाणि कुर्यात्तन्मानवित्तमः | प्रसंगा दात्मार्थ प्रजायामंगुलन्तु विधीयते || विश्वकर्मीये - आत्मार्थं यद्गृहार्चानां मानांगुल्येन कारयेत् | तद्यवेनाल्पमानञ्च गृहार्णानां विधानतः || सुप्रभेदे - प्रदेशश्च वितस्तिश्च गोकर्णश्च इमे त्रयः | यज्ञादिके प्रयोक्तव्या प्रासादादौ न दापयेत् || कारणे - कूर्मासनमुक्तम् - रुद्रांगुलन्तु विस्तारं तस्यैर्ध्वे नैवकारयेत् | शिल्पे - वासिष्ठे मण्टपे च तथा कुण्डे सृक्स्रुवेचाष्टमंगले | मण्डले वेदिकायाञ्च समिधाद्ये विशेषतः || हीनाधिकं भवेद्विप्र कृत्वा सर्वं पुनः पुनः | कृत्वैतान् क्रमणे चैव पश्चात्कर्म समाचरेत् || प्. १३३५) अन्यथा चेतनार्थं स्याधजमानस्य रोगकृत् | दुर्भिक्षभयवृद्धिस्यान्नात्रकार्यं विचारणा || तस्मात्तन्मण्टपादीनि शास्त्रदृष्टेन कर्मणा | कारयेदिति शेषः | अंशुमति - एकहस्तं तदर्धं वा तलादुन्नत वेदिकाम् | शिलां वा चेष्टिकां वापि समिद्दारुमयेपिवा || समाश्रयंमण्टपं कुर्यादायताश्रमथापि वा | तथा सर्वज्ञानोत्तरे - पद्मेष्टकामयं वापि शुद्धदारुमयन्तथा | मृण्मयं वा तथा कृत्वा विशुद्धं यागमण्टपम् || अंशुमति साधारणमण्टपलक्षण मुक्तम् | पञ्चहस्तं समारभ्य चैकहस्तविवर्द्धनात् | त्रयोदश करान्तन्तु कन्यसादित्रयं त्रयम् || पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्द्धनात् | एकविंशत्करान्तन्तु नवधामानमुच्यते || मानं निश्चित्य तद्भागे पंक्तिस्तंभस्य भक्तिकम् | उत्तमादीनि सं * * नि कालकं प्रपायां सममानानि मण्टपे मध्यदैर्ध्यकम् | स्तंभमानं यथा योग्यं त्र्यंशैकार्धमध्यगात् | उत्तमत्रितयं स्तंभांश्च तुष्षष्ठि प्रकल्पितम् || प्.१३३६) षट्त्रिंशद्गात्रसंयुक्तं मध्यमत्रितयेषु च | षोडशस्तंभ संयुक्तं कन्यसत्रयमण्टपे || एतत्सामान्यमुद्दिष्टं विशेषमधुनोच्यते | दीक्षायां वा प्रस्तुतत्वा द्दीक्षामण्टपमुच्यते || कारणे दीक्षा प्रकरणे - द्वादं रुद्रहस्तं वा दशहस्तमथापि वा | मण्टपं चतुरश्रन्तु षोडशस्तंभसंयुतम् || उत्तमादि विभेदेन नबविधमुक्तम् | वीरतन्त्रे - त्रिहस्तं पञ्चहस्तं वा षढ्ढस्तमधमत्रये | सप्तहस्ताष्टहस्तञ्च नवहस्तन्तु मध्यमम् || दशैकादशहस्तञ्च द्वादशञ्चोत्तमं भवेत्| षोडशस्तं भसंयुक्तं पंक्तिमानच्छ्रयी || शिखाश्रञ्चतुरंगुल्यं चतुरश्रसमन्वितम् | जातीञ्च चंपकञ्चैव खादिरं स्तंभमेव च || क्रमुकं वेणुदण्डं वा वकुलं वाथ केसरम् | जाति * वकुलं * केसरं पन्तै * याज्ञीकैश्च वृक्षैर्वा नाहं विंशति रंगुलम् | ऊर्ध्वमष्टांशकादेकादानुपूर्व्यात् कृशं भवेत् || राज्ञी * * * यवृक्षजमुत्तमम् | तद्यथा - प्. १३३७) अश्वत्थोदुंबरः प्लक्षश्चाषाखदिरन्तथा | न्यग्रोधश्च शमीबिल्वमचूतं वै कंकतन्तथा || असनञ्च शीर्षञ्च यज्ञवृक्षाः प्रकीर्तिताः | प्लक्षं * आषाढि * यैकंकतं * असनं वेहेक शिरीषं वा न तु वीरतन्त्रे - तत्पञ्चमांशं निखनेन्मेदिन्यां तत्र वित्तमः | नालिकेरदलैर्वंशैश्चादयेत्तत्समं ततः || नालिकेरस्य पत्रेण कर्ध्वमाच्छादयेद्बुधः | मण्टपं वाथ कुण्डं वा कर्तव्यन्तु प्रवामयि || कूटाकारलक्षणमुक्तं शारदा तिलके - पञ्चभिस्सप्तभिर्हस्तैर्नवभिर्वा मितान्तरम् | सर्वोत्तमानादंगुलादिहीनं कार्यं षोडशस्तंभ संयुक्तं चत्वारन्तेषु मध्यतः | अष्टहस्त समुच्छ्रायां संस्थाप्य द्वादशादितः | पञ्चहस्त प्रमाणास्ते छिद्रां वर्जयेच्छुभाम् || अंशुमति - एतेषां मण्टपानान्तु यथा कर्माहि कल्पितम् | आयादिशुभ संयुक्तं यजमानानुकूलतः || समाग्रम्मण्टपं कुर्याच्छास्त्र दृष्टेन कर्मणा | सषट् सप्ताद्वयवाधिक्य मुखायामं विधाय वित् || प्. १३३८) एवम्मण्टपस्थान निर्माण स्थाननिर्देश उच्यते | चतुर्द्वार समायुक्तञ्चतुस्तोरण भूषितम् | चतुर्द्वार तोरण स्थापनमुक्तं यद्वा पिंगला मते || हस्तद्वयं बहिस्त्त्यक्त्वा तोरणानि निधापयेदिति | वचनात् मण्टपस्य द्वाराग्रे हस्तद्वयं त्यक्त्वा तत्र स्वात्वातोरणानि निधापयेत् | तथा न्यग्रोधतोरणं पूर्वे याम्ये चौतुम्बरम्मतम् | पश्चिमेश्वत्थसंभूतं उत्तरे प्लक्षतोरणम् | चिन्त्यविश्वे - चतुर्णामपि वृक्षाणामभावेत्येकमेव च | पूर्वे वा प्लक्षसंभूतं न्यग्रोधञ्चोत्तरे मतम् || तथोक्तं शारदातिलके - द्वारेष्टतोरणानिस्युः क्रमात् क्षीरमहीरुहाम् | स्तंभोच्छ्रायास्मृता स्तेषां सप्तहस्तैः पृथक् पृथक् || दसांगुल प्रमाणेन तत्परिणाह ईरितः | तिर्यक् फलकमानं स्यात् स्तंभानां मध्यमानतः || कामिके - विष्टरोर्ध्वे त्रिशूलानि पञ्चहस्तांगुला विधिः | सप्तांगुलं समारभ्य व्योममात्र विवर्द्धितः || प्. १३३९) पक्षमात्रावसानन्तु फलदैर्ध्यं प्रकल्पयेत् | तोरणानाञ्च सर्वेषां मूलं वै हस्तमानतः || विजयोत्तरे - अभावे पादपानान्तु यथा लाभप्रमाणतः | आत्मार्थे वा परार्थे वा तोरणानि प्रकल्पयेत् || निवृत्यां पश्चिमद्वारे मण्टपे तत्प्रमाणतः | प्रत्यक् द्वारप्रदेशे तु कल्पयेत् मुखमण्टपम् || द्वाराणि त्रीणि चान्यानि कंपचारमथापि वा | एवं द्वारस्थार्द्धमात्रं वा द्वारं संकल्प्य पूर्ववत् | काश्यपे तल्लक्षणमुक्तम् | वस्त्रचितं प्रकर्तव्य संयत्तद्विशालकम् | स्थूलादुत्तरसीमान्तं कंपद्वारोदयं भवेत् || अंशुमति - स्थानं संकटयुक्तं चेत् पूर्वे वा दक्षिणेपि वा | एवं द्वारस्य निर्माण मण्टपाभ्यन्तरे बुधः || द्वाराणामुभयोः पार्श्वे आग्नेयादि विदिक्षु च | मण्टपस्याधिदेवानां कलशस्थापनार्थकम् || सप्तसप्तपदं वेदी विस्तृतं तालमात्रकम् | काश्यपे कपाटलक्षणमुक्तं तद्यथा - अथ सारद्रुमैर्विप्रकवारौ तु दृढीकृतौ | यष्टित्रयान्तरोपेतौ चोर्ध्वे निस्तोच्छिखान्वितौ || प्. १३४०) स्निग्धसारद्रुमैर्बाह्याभ्यन्तरे यष्टिबन्धितौ | त्रिपञ्च सप्तसंख्या वा इष्टसंख्यैकपार्श्वकम् || अथवोभयपार्श्वौ च लोहकीले दृढीकृतौ | दक्षपार्श्वकपाटे तु योजये द्वा पटादिकाम् || बध्वा कपाट योगौ च दारुलोहैर्दृढीकृतौ | अर्गलादि समोपेतौ घाटनोद्धटन क्षमौ || एवं लक्षण संयुक्तौ कवाटं बन्धयत्सुधीः | अथांशुमति सूत्रन्यासं समाचरेत् | सूत्रभेदं प्रवक्ष्यामि तत्तद्भेदं पृथक् पृथक् | पंक्त्यादित्य मनुश्चैव सूत्रसंख्या यमादिके || पदमानं प्रकर्तव्यं क्रियाभेदन द्विभेदकम् | लिंगस्य स्थापने चैव विमानस्थापनेपि च || उत्सवे चैव दीक्षायां कृतमाचार्य सेचने | त्रयोदश पदे कार्यं कृत्वा चैव विचक्षणः || प्रतिमा बेरसर्वस्य स्थापने प्रोक्षणेपि च | पवित्राण्यति वासे च विमानप्रोक्षणेपि च || एकादश पदे कार्यं मण्टपैरपि सूत्रकैः | बाललिंग प्रतिष्ठायां प्रायश्चित्तादि कर्मणि || अष्टबन्धनकार्ये च नित्यनैमित्तिके तथा | एतान्नर्मपदे कार्यं तत्तत्कर्म विचक्षणः || प्. १३४१) अत्र दीक्षाविशेषस्य प्रस्तुतत्वात्तावन्मात्रमत्रोच्यते | दीक्षादि त्रिविधाने तु विशेषः कशिदस्ति हि | मण्टपं पूर्ववत्कृत्वा पादं सूत्रं तथैव च || मध्ये नवपदं वेदी हस्तमानेन चोन्नतम् | पूर्वे नवपदं ग्राह्यं मध्ये कुण्डं विधानतः || पश्चिमे नवके वेदी शिवलिंगार्चनान्तकम् | कुण्डवेदिकयोर्दक्षे पूर्वायतविभागिकः || वेदिकार्यजनार्थं तु शिष्यसंवेशनार्थकम् | उत्तरे नव पदे वेदी कलशस्थापनार्थकम् || पञ्चौषधी पञ्चशाली पञ्चमृद्भिस्तु वायवे | तदुक्तं चिन्त्यविश्वे - सहदेव्यैकपत्रञ्च भद्रं वैकंकतं तथा | विष्णुकान्तिश्च पञ्चैते पञ्चौषधमिति स्मृतम् || सहदेवी * एकपत्रं * भद्रं * वैकंकतं * सुशालीको द्रवञ्चैव यवनीवार वेणुकम् | एताः पञ्चयवाः प्रोक्ता कुंभेष्व तात्प्रकल्पयेत् || सुशाली * पर्वते च तटाके च समुद्रेवृषशृंगके | प्. १३४२) पुण्यक्षेत्रे मृदः ग्राह्याः क्रमेणैव तु निक्षिपेत् | कुंभञ्चवर्द्धनीञ्चैव कर्तृकादनु सूत्रकम् || अधिवासनकाले तु पञ्चगव्यं तथैशके | तत्रापि पदमेकन्तु सञ्चारार्थं विलोपयेत् || वेद्यग्रेवाथ चाग्नेययां वास्तुपूजां समाचरेत् | चुल्लिकां दक्षिणेस्थाप्य धर्मराजस्याग्रके || शेषं पूर्ववदुद्दिष्ठं तत्पदे तद्विधानके | त्रीणि दीक्षा प्रकुर्वन्ति शांभवं कुरुसेचनम् || अतः क्रमः - दीक्षार्थं कल्पितमण्टपे शालिपिष्टार्द्र कार्पाससूत्रेण दक्षिणोत्तरान्तं पश्चिमपूर्वान्तमनु सूत्रविन्यासेन नवषष्ठ्युत्तरशतं भवति | तस्मिन् बाह्यावृति प्रदेशेत्वष्टचत्वारिंशत् पदे द्वारञ्च द्वारकुंभादि स्थापनार्थं बालमात्रविस्तारायामवेदीं विधाय पृथक् प्रकृत तदभ्यन्तर स्थितानि चत्वारिंशत् पदानि सञ्चारार्थं परितोविलोप्य तदभ्यन्तरस्थितैकाशीति पदे वायव्यां नवपदे पञ्चौषधि पञ्चशाली पञ्चमृता मधिवासनार्थं वेदी विधाय वक्ष्यमाण प्रकारेण वेदीं विधाय तत्पूर्वं नव पदे आचार्याभिषेक कुंभस्थापनार्थं वेदीं संकल्प्य तत्पूर्वं नवपदे कुंभवर्धनीं तनुसूत्र कर्तर्याद्याधिवासनार्थं वेदीं विधाय तद्दक्षिणे नवपद - प्. १३४३) मध्ये कुण्डं कृत्वा तत्पश्चिमे मण्डले वरपूजार्थं प्रधान वेदीं प्रकल्प्य तयोः पश्चिमे इष्टलिंगार्चनार्थं वेदीं कल्पित दक्षिणेपूर्वापरायतद्विपदे इष्टलिंगा नस्थिन्यर्थञ्च मण्डलयजनार्थञ्च होत्रशिष्ययोः स्थित्यर्थं परिकल्प्य धर्मराजस्य सन्निधौ स्थालीपाकार्थं चुल्लिं निधाय तत्पश्चिमे अंकुरार्पण स्थापनार्थं वेदीं कल्प्य तयोः पूर्वे शेषपदे शिष्याधिवासनार्थं च यागोपकरण द्रव्यस्थापनार्थं परिकल्पयेत् | एतत्सामान्यानेन पद विभागमुक्त्वा प्रधानवेदिका लक्षणञ्च प्रदर्श्यते | तथा चिन्त्यविश्वे - वेदीं कुर्याद्विशेषेण दर्पणोदरसंनिभाम् | अथवा संकटस्थाने योग्यरूपेण कल्पयेत् || हस्तमात्रं तदुत्सेधं रत्निमात्रमथापि वा | तालमात्रेण वाकुर्या दुपवेदि समन्वितम् || चतुरंगुलमुत्सेधं विस्तारद्वयंगुलं भवेत् | कामिके - दीक्षाप्रकरणे - त्र्यंगुलो द्वयंगुलो वापि उत्सेधं संप्रकीर्तितम् | एकद्वित्रि चतुः पञ्च तत्समञ्चार्द्ध विस्तृतम् || एवं लक्षणयुक्त प्रधानवेदिमानार्थं तत्पश्चिमोत्तर वेदिकाद्वयोत्सेधमानं ग्राह्यमेतदुत्सेध समानार्द्धं * * * व्यशान वेदिका द्वयोत्सेधमानं कुर्यादुत्सेधमानमंशुमति - प्. १३४४) विमानस्थापन मण्टप निर्माणावसरे पूर्वं प्रतिपादितम् | तद्यथा - तत्कुर्वन्ति चतुर्दिक्षु वेदिकाश्चोपभद्रकाम् | नवपदञ्चतुरश्रन्तु तदर्द्धोत्सेधमानयुक् || आग्नेयादि चतुष्कोणे तदर्धोत्सेधमानकः | अनन्तरोक्तदीक्षाविधाने आचार्याभिषेकविधाने उक्त पञ्चवेदिको वेदिकात्रयं पूर्वोक्त उत्सेधमानोप्यसौन इति बोद्धव्यम् | एवं कृत प्रधान वेदिकायां सर्वकामिकमण्टप लक्षणमुक्तं सुप्रभेदे - अथातस्संप्रवक्ष्यामि मण्डलं सार्वकामिकम् | मण्डलं सारमित्युक्तं सर्वन्देवालयं विदुः || मन्डलन्तेन विख्यातं शिवेन परमात्मना | सर्वपापानि मुच्यन्ते ततो मण्डल दर्शनात् || दीक्षा कालस्य पूर्वे तु मण्डलं विधिना बुधः | सूत्रलक्षणं किरणे - करणं कार्पासकं क्षौमं कुशवल्कल संभवम् | ग्रन्थ्यादि रहितं कार्यं अथ तद्वित्रिषट् भवेत् || मृगेन्द्रे - पुरायतत्रिगुणायाक्षौमकार्पासशाणवः | सत्कन्यावरितादोष त्रेधादिगुणसूत्रया || प्. १३४५) सुप्रभेदे - प्राणमन्तरबुध्वा च चित्रभागस्तु लक्षयेत् | वामदेवेन मन्त्रेण सूत्रपादन्तु कारयेत् || पूर्वे पश्चिमभागे च सूत्रन्दत्वा समाहितः | तत्र सूत्रं प्रसाध्याथ दक्षिणोत्तरं शुभम् || तत्र सूत्रं ततो ग्राम्य माश्रितेन विनिर्मिते | पूर्वादि पश्चिमान्तञ्च सूत्रन्तत्र प्रसारयेत् || आग्न्योः प्रभवं सूत्रं वायव्या प्रसार्य च | ऐशान्यां प्रभवं सूत्रं नैऋत्यान्तु प्रसारयेत् || चतुरश्रं समं कृत्वा नवभागं विभज्यताम् | हर्म्यभागेन पद्मं स्यात् कर्णिकान्तु समालिखेत् || चतुर्भागैस्तु तत्पद्म मण्टपत्रोपशोभितम् | प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै || तृतीयन्धलसन्धौ तु दलाग्राणि चतुर्थकम् | प्रथमावरण लेखान्तु पद्मबाह्ये तु बुद्धिमान् || कारणे - यद्वा - चतुरश्रं सविस्तारं कौशिकांशेन भाजितम् | व्योमेन कर्णिकां कुर्यात्पक्षांशेनैव केसरम् || शेषन्तु दमनायान्तु कर्णिकायार्द्धमानतः | दलाग्रे कल्पयेदग्रन्तन्मानेनान्तरे दलम् || प्. १३४६) दलाष्टकसमायुक्तं केसरन्तु प्रकल्पयेत् | प्रतिवारणरेखान्तु कुर्याद्दलाग्रमानतः || स्वल्पसपञ्च कर्तव्यं विस्तरे विस्तरांबुजम् | पद्मार्थेन बहिर्वीथी पद्ममांनेन वा पुनः || विथीसमचतुद्वारशोभा चारुसमाश्रिताः | तत्समालोकपालौ तु शोभास्तव्योम भागिकाः || पङ्कजस्य समं वाथ चतुर्दिक्षु निवेशनम् | द्विहस्तञ्चैकहस्तं वा अत ऊर्ध्वं न कारयेत् || सुप्रभेदे - न स्थूलं न कृशं हीनं बक्रं बिन्दु विवर्जितम् | देव देवस्य भवनं कृत्वा तन्मोक्षसिद्धिदम् || स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् | हीने तु सिद्धिहीनन्तु बिन्दुशत्रु भयप्रदम् || कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके | सान्निध्यं न भवेच्छंभो रजस्तत्सूत्रर् लम्बने || तस्मात्सर्व प्रयत्नेन कर्तव्यं लक्षणान्वितम् | कारणे - वीतशुक्लारुणा कृष्ण वर्तकानन वचा स्मृता | सुप्रभेदे - मुक्तावर्णैस्तु तत्र मिश्रं वत्सवर्णं विशेषतः | पद्मरागस्य चूर्णैस्तु रक्तवर्नं प्रशस्यते || इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् | चामीकरस्य चूर्णैस्तु पीतवर्णमुदाहृतम् || प्. १३४७) चिन्त्यविश्वे - श्वेतरक्तन्तथाभ्यामं पीतकृष्णञ्च वर्णकम् | एवं पञ्चविधं प्रोक्तं मुक्ताद्यैः पञ्चरत्नकैः || स्फटिकैर्जातिलिंगाद्यैर्हरितारैश्च श्यामकैः | अञ्जनैश्चूर्णनिकरैः पञ्चभिर्वा विधानतः || पद्मेष्टका चूर्णैस्तु दशतण्डुल चूर्णकैः | ततो हरीत चूर्णैस्तु कारयेदबजमत्रवै || कर्णिकापीतवर्णेन पुष्परागहेमसमं निभैः | यवमात्रोन्नतं तस्याः पञ्चविंशति पुष्करम् || केसरा गुणसंकाशा अथोर्ध्वे शुक्लवर्णकाः | पद्मस्याष्टदलं श्वेतं कृष्णरेखात्तरेषु वै || रेखापार्श्वे तु रत्नौ तौ तथैव प्रतिवारणम् | रक्तवर्णेन विथी स्यात् पद्मस्य परितस्तथा || द्वाराणि पीतवर्णानि कर्तव्यं द्वारपार्श्वयोः | शोभाश्चव्युपशोभाश्च सर्ववर्णैस्तु कारयेत् || सूत्रान्तरं यवं प्रोक्तं हृस्वाद्ध्रस्वान्तरं स्मृतम् | अपसव्ये मुक्त्यर्थं भुक्त्यर्थं सव्यकेन तु || सर्वसिद्धि कराग्रेण श्रीकामी मुष्टिनं लिखेत् | कारणे - वामाज्येष्ठा च रौद्री च भवानी च रजोधिपाः | सर्वदोष निवृत्यर्थं पीतवर्णं प्रसारयेत् || प्. १३४८) मूर्तेस्सत्प्रकाशार्थं शुक्लवर्णं प्रसारयेत् | भद्रं त्वपानार्थाय रक्तवर्णस्यपातनम् || तमसस्तु निवृत्यैव कृष्णवर्णं प्रसारयेत् | कमण्डले योगपीठन्तु संकल्प्य विधिना कुरु || यजेत्सदाशिवन्देवं कर्णिकायास्तु मध्यमे | कर्णिका वामभागे तु यजेद्देवी मनोन्मनीम् || आवाह्याभ्यर्च्य विधिना गन्धपुष्पादिभिः क्रमात् | पञ्चावरणमाअर्गेण कृत्वावरण पूजनम् || प्रथमाचरणं वापि पूजयित्वा यथाविधि | यद्वा - दीक्षादौ तु प्रयोक्तव्यं वेदिकोपरि मण्डलम् | स्वस्तिकं सर्वतोभद्रं गौरीतिलकमेव च || पार्वती कान्तमप्येवं लिंगाब्जस्वस्तिकं तथा | लतालिंगोद्भवञ्चेति मण्डलं षड्विधोच्यते || शारदा तिलके चतुष्टयमण्डलमुक्तम् | तद्यथा - सर्वतो भद्रकञ्चैव श्रावयेन्मण्डलन्तथा | नवनाभमण्डलञ्चैव पञ्चाब्जमण्डलं तथा || दीक्षायाञ्चैव पूजार्थं मण्डलानां चतुष्टयम् | सर्वं तन्त्रानुसारेण प्रोक्तं सर्वत्रसिद्धिदम् || सामान्यमतदीक्षायां विशेसमधुनोच्यते - विप्राणां सर्वतो भद्रं गौरीतिलन्नृपस्थ तु | प्. १३४९) वैश्यानान्तु लतालिंगं शूद्राणां स्वस्तिकं भवेत् | सर्वतो भद्रं यथा - चतुष्षष्ठिपदे मध्ये पद्मवीथी चतुर्द्दशी | लिंगपीठञ्च कंपञ्च कर्णिकं पञ्चपीठकम् || चतुष्षष्ठ्यथ नेत्रैश्च चतुष्षाड्भिः पदैः क्रमात् | मुखवर्णैश्च संभूष्य वेदवेदपदैः पुनः || लिंगपीठे चतुर्दिक्षु स्वस्तिकं पदपञ्चकैः | कोणेष्वेकपदं कुर्यात् सर्वतो भद्रकं भवेत् || गौरीतिलकम् - गौरीतिलकमतुलं सूत्रैस्सप्त दशात्मकैः | मध्ये व्योमपदश्चेतं चतुर्ल्लिंगं चतुर्द्दिशी || विदिक्षुपत्रपुष्पाणि भिन्न वर्णैः प्रकल्पयेत् | प्रत्येकं सर्वकोणेषु पञ्चविंशत्पदैः क्रमात् || नानाविधेश्च कर्तव्या लतावर्णैर्मनोरमैः | गौरीतिलकमाख्यातं भोगमोक्षफलं भवेत् || लतालिंगोद्भवमण्टपं तद्यथा - विश्वन्द्वविभक्तेस्मिन् चतुरश्रं समन्ततः | षड्भिः पुष्पं सुरभ्यञ्च पट्टं भागत्रयेण तु || भागेकेच तथा विथीं लिंगान्यष्टौ तथैव च | मुनिद्वयेन द्वारं स * लतास्सप्तपदावधि || प्. १३५०) लतालिंगोद्भवं नाम सर्वकाम फलप्रदम् | स्वस्तिकमण्डलमुक्तम् - तद्यथा - प्रागग्रमुदगग्रञ्च पञ्चसूत्रं प्रसारयेत् | लिंगमेकपदं विद्धि त्रिपदं पीठमेव च || चतुर्लिंग समायुक्तमुक्तवर्णैश्च भूषयेत् | एवं स्वस्तिकमाख्यातं भोगमोक्षफलप्रदम् || अंशुमति - पूर्वे नवपदं ग्राह्यं मध्ये कुण्डं विधानतः | तल्लक्षणमुक्तं मोहशूरोत्तरे - हस्मानं खनेत्तिर्यगूर्ध्वमेखलया सह | खाताद्बाह्येंगुलं खण्डस्सर्व कुण्डेष्वयं विधिः || मेखलात्रितयं कार्यं श्रीसरामयमंगुलैः | देव्यात्सूर्यांगुलं नाभिस्त्र्यंशेन विस्तरेण तु || एकांगुलाश्रिता सा तु प्रविष्टाभ्यन्तरे तथा | कुंभद्वय समायुक्ता चाश्वत्थपत्रवद्यथा || अंगुष्ठमेखला युक्ता मध्येत्वाज्य धृतिर्यथा | दक्षस्था पूर्वयामे तु जविस्था पश्चिमोत्तरे || पूर्वसूत्रं पुरादत्वा द्वितीयं चोत्तरायतम् | सर्वेषाञ्चतुरश्रन्तु क्षेत्रं क्षेत्रेषु संपदम् || कारणे - नाभिक्षेत्रं त्रिधा भित्वा मध्ये कुर्वीत कर्णिकाम् | बहिंरंशद्वयेनाष्टौ पत्राणि परिकल्पयेत् || प्. १३५१) दक्षांगुल समुत्सेधं भूतांगुलन्तु विस्तरम् | पशकारं तथा नाभि कुर्यात्कुण्डस्यमध्यमे || द्विभागन्दलमानं स्यादेक भागन्तु कर्णिका | मेखलोपरि अश्वत्थ पत्रवद्योनिं कुर्यात् - तथा किरणे - अश्वत्थ पत्रवत्कुर्या द्विस्तराष्टांगुले करे | द्वादशांगुलदैर्ध्यन्तु तदेकांगुल मुन्नतरिति || अंशुमति - एवं सर्वं समासाद्य शिल्पिकर्मावसानके | शिल्पिनं विसृजेत्तत्र मार्जनप्रोक्षणं कुरु || पुष्पयुक् कदलीपूगस्तंभौद्वारस्य पार्श्वकम् | चित्रवस्त्रैरलंकृत्य पूगपुष्पाद्यलं कृतम् || अर्द्धचन्द्राकृतिर्युक्तं दर्पणादि वितानयुक् | वस्त्रेण वेष्टयेद्गात्रं चतुस्तोरण भूषितम् || दीपध्वजैस्समायुक्तं वितानोपरिशोभितम् | मुक्तादामैरलं कृत्य पुष्पमालावलंबितम् || मण्टपालं कृतञ्चैनान्दीपसमन्वितम् | मार्जना लेपनं कृत्वा शालिपिष्टात्तचित्रकम् || त्रिणीदीक्षां प्रकुर्वन्ति शांभवं गुरुसेचनम् | शिष्यपद्मपरीक्षा च गुरुस्सर्वं समाचरेत् || || इति दीक्षादर्शे यागमण्टप निर्माणविधिः || प्. १३५२) || अथ वास्तु पूजाविधिरुच्यते || वास्तुपूजा सूक्ष्मे - स्थापने प्रोक्षणे चैव गर्भन्यासे तथैव च | विमानस्थापने चैव चोत्सवे यागमण्टपे || मण्तपे च सभास्थाने सकलस्थापनेपि च | आद्योपलेष्टकास्थाने सत्रमेव नृत्तरंगके || प्रायश्चित्तादिके चान्ये स्थापने च समारभेत् | वास्तु पूजाप्रकर्तव्या सर्वसंपत्प्रसिद्धये || वास्तुपूजा विहीनस्यात्तद्राष्टञ्च विनश्यति | तस्मात्सर्व प्रयत्नेन वास्तुपूजां समारभेत् || तथा ज्योतिषरत्नाकरे - अकृत्वा वास्तुपूजाञ्च प्रविशेन्नव मन्दिरम् | रोगान्नानाविधान् क्लेशानश्नुते सर्वसङ्कटम् || शारदातिलके - ततो वक्ष्यामि दीक्षांग वास्तुयागपुरस्सरम् | कृते येन च मन्त्रज्ञो दीक्षायां फलमाप्नुयात् || सुप्रभेदे दीक्षा प्रकरणे - वास्तु पूजाविधाने तु होमं समाचरेत् | कारणे - वास्तुहोमः प्रकर्तव्यः सर्वसंभार संयुतम् | दीक्षाभिषेक संपन्नस्त्वादिशैवो दृढव्रतः || सर्वलक्षण संयुक्त श्शिवशास्त्र विशारदः | प्. १३५३) शुद्धात्मा वास्तुविधिना वास्तु होमा न कारयेत् || सूक्ष्मे - आचार्यश्शिष्य संयुक्तः पूर्ववत् स्नानमाचरेत् | विशुद्धवस्त्रैराच्छाद्य सकलीकरणं कुरु || षट्सहस्रिकायाम् - दीक्षाभिषेकयोः पूर्वं प्रतिष्ठायां विशेषतः | तंत्रारंभेषु सर्वेषु नानासिद्धिषु साधकैः || नालिकेरफलञ्चैव कदलीफलमेव च | क्रमुकं फलतां बूलमिक्षुदण्डं पयोदधि || शुद्धस्थाल्यान्तु संस्थाप्य पूजनं सर्वसिद्धिदम् | गणेशं पूजयेत्तत्रं निर्विघ्नो नान्यथा भवेत् || अंशुमति - सामान्यार्ध्यन्तु संकल्प्य पञ्चगव्यन्तु साधयेत् | पदविन्यासमार्गेण न्यस्त्वा ब्रह्मादिरर्चनम् || हस्तमात्रप्रविस्तारमुत्सेधं स्यात्र्यंगुलम् | वास्तु कुंभं समभ्यर्च्य समयादीनि मन्त्रकैः || अग्निकार्योक्तमार्गेण अग्निकार्यं समाचरेत् | पर्यग्निकरणं कुर्यात् होमान्ते तु विचक्षणः || अत्र वास्तु पूजां मार्गेषु बहुशः प्रतिपादयति पदभेदेन अत्रदीक्षादौ मण्डूक पदप्रकारेण नाडीरज्जु वंशादिकं ज्ञात्वा वास्तु पूजा कार्या - तथा सिद्धान्तशेखरे - प्. १३५४) चतुष्षष्टि पदोपेतं सूत्रमष्टादशान्वितम् | कर्णसूत्रेण चोपेतं रज्वष्टकविभूषितम् || मर्म द्वादशकोपेतं वास्तुदेव समन्वितम् | अथाचार्यो हेमांगुलीयकटककेयूरहेम यज्ञोपवीत कुण्डलपञ्चांगभूषितो वास्तु यागांगानि द्रव्याण्याहृत्य पूर्वोक्त मन्टपस्याग्नेययां वा प्रत्येक मण्टपे वा हस्तमात्रविस्ताराधामषडंगुलोच्छ्रतं स्थलं कृत्वा तदुपरि चतुष्षष्ठिपदं निर्माय कोणेषु कर्ण सूत्राण्यास्फाल्य तत्तदग्रेषु शूलान्यालिख्य पूर्वादिदिक्षु वृत्तान्यालिख्य मण्डूक पदप्रकारेण वास्तु पूजां विदध्यात् | तत्पूजा प्रकारः - मेथके शिरे विद्यात् ब्रह्मकायमथोच्यते | आपापवत्सकौ विप्र वामबाहुरिति स्मृतः || सविता सावित्रिकं चैव दक्षिणो बाहुरुच्यते | रुद्रो रुद्रजयश्चैव वामपादः प्रकीर्तितः || इन्द्रो इन्द्रजपश्चैव दक्षिणः पादौच्यते | मित्रश्चैव तु लिंगन्तु वृषणं पृष्ठमेव च || अधोमुखोभुवं प्राप्य शेते वास्तु नरस्मृतः | पूजाकाले समुत्थानन्ततोदङ्मुख उच्यते || उग्रत्वाद्भयकारित्वात् पूजितव्यः फलार्थिभिः | चतुर्भुज जटामौली कमण्डल्वक्षधारिकः || प्. १३५५) वामहस्तस्तु जानुर्ध्वे सव्यहस्त तले स्थितम् | हेमाभमब्ज जायास्त्वंगन्धाद्यै रूपचारकैः || ओं ब्रह्मासनाय नमः - ओं हां ब्रह्ममूर्तये नमः - ओं हां वास्त्वधिपतये ब्रह्मणे नमः इत्यावाहनाद्यष्ट संस्कारैस्संपूज्य - तत्प्राच्या मन्तर्गत षट्पदमध्ये मरीच्यै नमः दक्षिणान्तर्गतषत्पदमध्ये ओं विवस्वते नमः - पश्चिमान्तर्गतषट्पदमध्ये ओं मित्राय नमः | उत्तरान्तर्गतषट्पदमध्ये दण्डराधराय नमः | एवं प्रागादि चतुर्देवान्संपूज्य तद्बिहिः अग्निकोणस्थ पदद्वयार्द्धे ओं सवित्रे नमः तदधः कोष्टार्थपदे ओं सावित्र्यै नमः निरृतिकोणद्वयार्थपदे ओं इन्द्राय नमः | तदधः कोणार्द्ध पदे ओं इन्द्रजयाय नमः | वायुकोणेषु पदद्वयार्द्धे ओं रुद्राय नमः | तदधः कोणार्द्धपदे ओं रुद्रजयाय नमः | ईशानकोणे पदद्वयार्द्धे ओं आपाय नम तदधः कोणार्द्धपदे ओं आपवत्साय नमः | इति कोणेष्वष्ट देवतान् संपूज्य तद्बहिरावृतपदे ईशानकोणार्द्धदक्षिण पदे ओं हां ईशानाय नमः तददीक्षणे ओं पर्जन्याय नमः ओं जयन्ताय नमः | ओं महेन्द्राय नमः ओं आदित्याय नमः सत्यकाय नमः भ्रंशाय नमः तदुत्तरे - ओं दौवारिकाय नमः हयग्रीवाय नमः | पुष्पदन्ताय नमः प्. १३५६) प्रचेतसे नमः असुराय नम शोषये नमः | वायुकोणार्द्ध दक्षिणपदे - ओं पापाख्याय नमः - अपरार्थे ओं वायवे नमः तत्प्राक् पदे - ओं रोगाय नमः नागाय नमः मुख्याय नमः भल्लाटाय नमः सोमाय नमः अतिथये नमः ईशानकोणार्द्धपदे ओन्दितये नमः - ईशानादिशूलाग्रे - ओं चरक्यै नमः - वितार्यै नमः पूतनायै नमः पापराक्षस्यै नमः पूर्वादिवृत्त चतुष्टयेषु - ओं स्कन्दाय नमः ओं जंभाय नमः बलिपिञ्च्छाय नमः - ओं गृहक्षताय नमः - इत्यष्ट देवताः पूजयेत् प्रत्येक ध्यानं शिवालय निर्माण स्थापनादीपिकायां प्रपञ्चितमत्र समुतायिकेन ध्यानमुच्यते - चतुर्भुजयुताश्शेषाः खडगवेटिक धारिणः | कृताञ्जलि पुटोपेता सर्वेस्वस्व पदस्थिताः || वास्तु देवान् समभ्यर्च्य तत्तन्नाम्ना नमोन्तकम् | दध्याज्य गुलसंमिश्रं शुद्धान्नेन बलिंक्षिपेत् || सूक्ष्मे - कुक्कुटाण्ड प्रमाणेन न बलिमेकं प्रदापयेत् | नमोन्तं बलिनिर्दिष्ट स्वाहान्तेनेह हूयते || बलिमण्टपस्यैशानां स्थण्डिलं शालिना कुरु | लाजैः पुष्पैस्तिलैर्दर्भै पञ्चचूर्णैरलं कृतम् || सकूर्चान् पल्लवोपेतान् सवस्त्रान् सहिरण्यकान् | प्. १३५७) पलाश पल्लवोपेतान् नालिकेर फलैर्युतान् || संस्थाप्य वास्तुकुंभञ्च परिवारघटान्वितम् | अर्चयेद्गन्धपुष्पाद्यैः कलशस्थापनोक्तवत् || ब्रह्मादिवास्तुदेवानां तत्तन्मन्त्रैस्समर्चयेत् | नैवेद्यं दापयेत्तस्माद्धूपदीपादिकन्ददेत् || बलिमण्डलपूर्वे तु अग्निकार्यं समाचरेत् | आसनमूर्तिमूलञ्च अर्चयेत्तु विशेषतः || कारणे - पलाशसमिधं हुत्वा चत्वारिंशच्छताधिकम् | तत्संख्ययाज्यं हुत्वा चरुन्तत्संख्यया तथा || तिलतण्डुलमिश्रेण हुत्वा पूर्वोक्त संख्यया | वास्त्वन्तर बाह्यस्थां देवांश्च स्वस्वनामतः || समिदादिक्रमेणैव प्रत्येकं जुहुयात्ततः | यद्वा सूक्ष्मे - दशाहुधीः प्रधानस्य अग्नेष्वेकैक माहुतिम् | पलाश समिधेनैवं हुत्वा ब्रह्मादिमन्त्रतः || त्रिधाधिकपञ्चाशत् देवताभिस्वनामतः | घृतं तत्संख्यया हुत्वा चरुन्तत्संख्यया हुनेत् || तण्डुलं तिलकमिश्रेण जुहुयात्तत्संख्यया बुधः | द्रव्यान्ते व्याहृतीर्हुत्वा महास्त्रञ्च शतं हुनेत् || सर्वद्रव्यन्तु संगृह्य स्विष्टकृद्धोम माचरेत् | प्. १३५८) यदस्य कर्मणोक्ते तु हुनेत्पूर्णाहुतिं ततः || वह्निस्थञ्च पदस्थञ्च कुंभस्थञ्च हृदि न्यसेत् | अश्वत्थोदुंबरान् ब्रह्म पत्रशुष्कान् सदर्भकैः || तद्वास्तुशोधने तत्र बध्वाज्य तिल संयुतम् | तद्वास्तुशोधनं ग्राह्य संप्रोक्ष्य हृदयेन तु || तदग्रे वह्निमारोप्य संज्वाल्याग्नि बीजतः | प्रकाराभ्यन्तरं सर्वं भवनं यागमण्टपम् || जयघणाखोपेतं पर्यग्निकरणं कुरु | वास्तु कुंभस्थ तोयेन प्रोक्षयेद्धृदयेन तु || उल्कांत्यक्त्वा तु तद्बाह्ये स्नानं कुर्याद्विधानतः | वास्तु होमं समाख्यातं सर्वदोष निकृन्तनम् || || इति दीक्षादर्शे वास्तुपूजाविधिस्समाप्तः || || अथांकुरार्पणाविधिरुच्यते || कारणे - अतः परं प्रवक्ष्यामि अंकुरार्पणमुत्तमम् | उत्सवे स्नपने चैव स्थापने प्रोक्षणे तथा || नैमित्तिके च काम्ये च प्रायश्चित्तादिकेपिवा | अन्यस्मिन्मण्गले कार्ये मंगलांकुरमुच्यते || सुप्रभेदे - प्. १३५९) सर्वमंगलकार्यादौ कर्तव्यं मंगलांकुरम् | शारदातिलके - दीक्षायामभिषेके च नववेश्मप्रवेशने | उत्सवेषु च सर्वेषु विदध्यादंकुरार्पणम् || विजयोत्तरे - निर्दिष्टदिवसात्पूर्वरात्रौ देवांकुरार्पणम् | उक्तक्षीक्षपायान्तु मर्त्यानां मंगलांकुरम् || कामिके - मण्टपस्येश दिग्भागे तन्मध्ये वा विशेषतः | स्थण्डिलं कारयेद्विद्वानष्टपत्रे सकर्णिकम् || सुप्रभेदेदीक्षा प्रकरणे - अंकुराण्यर्पयित्वाथ पूर्वोक्तविधिना सह | चिन्त्यविश्वे - दीक्षा प्रतिष्ठा काले च शुद्धेष्वन्येषु वै शुभे | अंकुरार्पणकं कुर्यात् कर्मादौ नन्दिकेश्वर || बीजानामधिपश्चन्द्रो रात्रौ सस्यानिवापयेत् | दिनेपि च कर्तव्यं कृतञ्चेन्नाशनं भवेत् || ब्राह्मीये शिवयागे - वासरे सर्वदा सन्ध्या सन्ध्ययोरपि | कारणे विशेष उक्तः - सद्योंकुरार्पणं चेत्तु दिवावा निशि निर्वपेत् | प्.१३६०) सूक्ष्मे - अंकुरादंकुरं नास्ति तत्तत्कर्मान्तरं विना | दीक्षानिर्दिष्ट दिवसान्नवमे सप्तमेऽपि वा || पञ्चाहेत्रयहे वाऽपि सद्य एव समाचरेत् | अत्र मृत्संग्रहण क्रमः - नदीतीरे तटाके वा पुष्पोद्यानवनेषु वा वने केतारे वा शुद्धभूतले वा गत्वा सकलीकरणं कृत्वा सामान्यार्ध्यं संकल्प्यास्त्रेण संप्रोक्ष्य तत्र भक्ष्यापूपनालिकेरादिकं विघ्नेश्वरस्य निवेद्य - विघ्नेश्वर नमस्तेऽस्तु सततं मोदकप्रिय | विघ्नानेक संभूतान् निर्विघ्नंत्वं प्रसादमे || एवं प्रार्थय यजेद्भक्त्या विघ्नेश पूजनं परम् | तस्मिन्प्रदेशे नव कोष्ठं प्रकल्प्य मध्यादीशान्त कोष्ठेषु मध्यकोष्ठे ओं हां ब्रह्मणे नमः इति संपूज्य प्रागादिकोष्ठेषु ओं हां अनन्ताय नमः - ओं हां विनतायै नमः - ओं हां भद्रायै नमः - ओं हां जयन्तायै नमः - ओं हां भ्रमर्यै नमः ओं हां प्रस्थितायै नमः ओं हां परिजृंभिण्यै नमः ओं हां शूलिन्यै नमः इति संपूज्यानुक्रमेण बलिं प्रसाद्य तत्तृप्त्यर्थं सधृत गुलखण्डदध्योदनेन ता उद्वासयेत् | मृदमंकुरकार्यार्थं गृहीतं त्वदनुज्ञया | एतत्स्थानाश्रयो देवा गच्छध्वं हि यथा मुखम् | इति विज्ञाप्योद्वास्य बलिमण्डलपूर्वे पुण्याहं वाचयित्वा प्. १३६१) कुन्तालीमस्त्रेण संप्रोक्ष्य हृदयेनाभ्यर्च्य श्यामवस्त्रनिभां भास्वदाजीव लोचनाम् हेम यज्ञोपवीताञ्च द्विभुजाञ्च द्विनेत्रकम् | सर्वाभरण संयुक्तां करण्डमकुटान्विताम् | रक्तांबरधरां देवीं दक्षहस्तोजपलान्विताम् | एवं ध्यात्वा ओं हां भूदेव्यै नमः आवाहनामुपचारैस्संपूज्य परितः लोकपालान्संपूज्य प्राङ्मुखमुदङ्मुखोभूत्वा अस्त्रमन्त्रमुच्चार्य खानित्रादिना त्रिः खात्वा मृत्तिकां तत्पुरुषेण स्थाल्यामादाय तां हृदयेन संप्रोक्ष्य पुष्पेणाभ्यर्च्य वस्त्रेण वर्मणाच्छाद्यागजाद्यारूढकैर्महेश्वरै रुद्रकणिकादिभिर्वा तां वाहयित्वा शंखदुंदुभि जयशब्दनृत्तगीतवाद्यैस्सार्द्धम् | प्रदक्षिण क्रमेण यागगृहं प्रविश्य ऐशान्यां नैऋत्यां वात्ममालिख्य ईशानादि पदेषु अंकुरार्पण संकल्पित स्थण्डिलोपरि पश्चिमादि पूर्वान्त दक्षिणाद्युत्तरान्तं पञ्चसूत्र विन्यसेन षोडशधा विहक्ते तन्मध्यकोष्ठ चतुष्टये याम्यपुञ्जेष्ट दलपद्म मालिख्य ईशानादिपदेषु | स्वर्णरजत ताम्र मृण्मयाद्वादश संख्यान् सुनिषे चूर्णमृत्पूर्णा शिरीषाश्वत्थबिल्वैककर्णे स्थिता पालिका घटिका शरावान्वा केवलं पालिकावधान्यो परि संस्थाप्य चन्द्रहृदयादिना सकलीकृत्य सामान्यार्ध्यं संकल्प्य मध्यकोष्ठ चतुष्टये स सूत्रं हेमं कलशान्तं तलितांभसा परिपूर्णं सवाससं सकूर्च पल्लवसापिधानं कुंभं विन्यस्य | प्. १३६२) ओं हां सोमाय नमः - इत्यासनं दत्वा तदुपरि ओं हां हौं सोममूर्तये नमः | इति मूर्तीं संपूज्य कुंभमध्ये तु तोयस्यार्तोयमध्ये तु पंकजं पंकजस्य च मध्ये तु चन्द्ररूपं प्रशस्य ते | श्वेतवर्ण द्विनेत्रञ्च श्वेतपद्मोपरिस्थितम् | द्विभुजं कुमुदोभेतं श्वेतवस्त्रेण विष्टितम् || * * * * * * * * मुक्ताभरण भूषितम् | किरीटमकुटोपेतं प्रभामण्डल मण्डितम् || रोहिणी वल्लभं ध्यात्वा विन्यसेत्कुंभमध्यमे | इति ध्यात्वा - ओं रं वं सं हीं हं श्री सोमेश्वराय नमः | इति कुंभमध्ये तु समावाह्य स्थापनानि कृत्वा सांगं संपूज्य पायसान्नन्दत्वा जपान्तं कृत्वा पूर्वादि स्थापिकासु पालिकासु वैकर्तनस्यरूपन्तु एकवक्त्रं द्विहस्तकम् | आयुधं स्वर्णपुष्पञ्च द्विहस्तेन तु धारकम् || सौवर्णं भूषणोपेतं रजनीवस्त्रमेव च | इति ध्यात्वा - ओं वैकर्तनाय नमः विवस्वतन्तु स्वरूपन्तु द्विवक्त्रञ्च चतुर्भुजम् | आयुधाब्ज द्वयकरं अभयं वरदान्वितम् || पिंगलञ्चैव वस्त्रं स्यात् भूषणञ्च प्रवालकम् | ओं विवस्वते नमः - मार्ताण्डस्य प्रवालन्तु त्रिवक्त्रं षट्भुनान्वितम् प्. १३६३) अभयवरदञ्चैव अक्षमाला कमण्डलुम् | अब्जद्वयकरञ्चैव हारमाभरणन्तथा || ओं मार्ताण्डाय नमः - भास्करस्य स्वरूपन्तु द्विवक्त्रञ्च चतुर्भुजम् | नमस्कार द्विहस्तेन परहस्तां बुजद्वयम् || शोणान्तं शोणवस्त्रञ्च भूषणं नीलरत्नकम् | ओं भास्कराय नमः - रवेश्चैवस्वरूपन्तु चतुर्भुजसमन्वितम् | विशेषादष्टहस्तन्तु अक्षमालाकमण्डलुम् || शूलं पाशांकुशाब्जञ्च अभयावरदन्तथा | आयुधानामिति प्रोक्तं रक्तवर्णञ्च धारिणम् || भूष्यममरतकञ्चैव एवं ध्यात्वा प्रपूजयेत् | ओं रवये नमः - लोक प्रकाशकं वर्ण राजावर्तस्य सन्निभम् | दशहस्तं पञ्च वक्त्रं द्विहस्तैश्चाब्जमेव च || शूलमंकुशदण्डौ च जपमाला कमण्डलुम् | शरञ्चापञ्च दण्डञ्च मुद्रादक्षौ करान्वितम् || नीलरक्तञ्च सर्वांग नीलवस्त्रञ्च धारिणम् | ओं लोकप्रकाशाय नमः - लोकसाक्षीं प्रवक्ष्यामि एकवक्त्रं द्विहस्तकम् | प्. १३६४) कलिताञ्जलि हस्तञ्च श्वेतवर्णञ्च भावयेत् | वस्त्रमेकन्तुकाषायं भस्मोद्धूलितविग्रहम् || ओं लोकसाक्षिणे नमः - त्रिविक्रमस्वरूपन्तु द्विभुजञ्च चतुर्भुजम् | ओं त्रिविक्रमाय नमः - आदित्यस्य स्वरूपञ्च एकवक्त्रं द्विहस्तकम् | नालब्जकरयुग्मे व डाडिमिक्रमुमप्रभम् || रक्ताभरणमेवन्तु संचिन्त्यादित्यरूपकम् | ओं आदित्याय नमः - सूर्यस्यापि स्वरूपन्तु एकवक्त्रं भुजाष्टकम् | अब्जद्वय करोपेतं खण्डाधूप कमण्डलुम् || अभयवरदोपेतं अक्षमाला समन्वितम् | हेमवस्त्रञ्च हेमाभं भूषणं स्वर्णमेव च || एवं ध्यात्वा विशेषेण सूर्यमूर्तिं प्रपूजयेत् | ओं सूर्याय नमः - अंशुमालि स्वरूपन्तु षड्वक्त्रं रक्तवर्णकम् | द्वादशा हस्तमेवन्तु पुरहस्तांबुजद्वयम् || तोमरासिञ्च खट्गञ्च खेटकं पाशमं कुशम् | शक्ति वेतालमभयं वरदन्दक्षवामतः || अंशुमालिने नमः - दिवाकरस्वरूपन्तु द्विमुखं चतुहस्तकम् | प्. १३६५) बिल्वपत्रद्वयकरं पद्मपुष्पकरद्वयम् || रजनीवस्त्र संयुक्तं हेमाभरण भूषितम् | ओं दिवाकराय नमः - ओं रवये नमः - एवं ध्यात्वार्चयेत् यद्वा - ओं हां वै कर्तनाय नमः - ओं विवस्वते नमः - ओं मार्ताण्डाय नमः - ओं भास्कराय नमः - ओं रवये नमः - ओं लोक प्रकाशकाय नमः - ओं लोकसाक्षिणे नमः - ओं त्रिविक्रमाय नमः - ओं आदित्याय नमः - ओं सूर्याय नमः - ओं अंशुमालिने नमः - ओं दिवाकराय नमः - इति पूर्वादीशान्त द्वादशादित्यान् पूजयेत् | अष्टपक्षे इन्द्रादीन् सप्तसप्तमन्त्रान् पञ्चपक्षे निवृत्यादीन् संपूज्य धूपदीपादि गन्धादिनाभ्यर्च्य एतेषां पायसं निवेद्य शुद्धपात्रस्थक्षीरे ओं ह्रीं शक्तये नमः इति संपूज्य तस्मिन्निवारमुद्गतिल सर्षपशिवं कूलस्थानि सप्त बीजानि तेषु पञ्चत्रीणि वा तत्प्रक्षाल्य चतुस्संस्कारैस्संस्कृत्य संहितया संपूज्य शिवपूजमिति संभाव्य तस्मिन्निक्षिप्य पालिकादिष्वाधार शक्तिं संपूज्य धूपदीपादिकं दत्वा शंखकाहलभेर्यामंगलध्वनिपूर्वं हृदयेन मूलब्रह्मांगैर्वा बीजानि सक्षीरं वापयित्वा सोमकुंभजलेना प्रत्यह माप्लाव्य तत्कुंभमपि शुद्धजलेनापूरयेत् यावदुदैश्य कर्मदिनन्तावत् सोमं संपूज्य निर्दिष्ट दिवसावसने कुंभस्थ पराङ्मुखार्ध्यां तत्संपूज्य विस्रजेत् | प्. १३६६) सिद्धान्ते - यजमानाभिवृद्धयर्थं अंकुराणि परीक्षयेत् | सम्यगूर्ध्वप्ररूढानि कोमलानि च तानि च || अंकुराणि शुभानि स्युः कृष्णान्यशुभदानि च | धूम्रवर्णान्यपूर्वाणि वर्जयेदशुभानि च || अवृष्टिं कुरुते नित्यं धूम्राभं कलहं भवेत् | अपूजन नाशञ्च दुर्भिक्षाश्यामलांकुरम् || तिर्यग्गते च वाधि स्यात् कुब्जं शत्रभयन्तथा | अशुभे चांकुरे जाते शान्तिहोमं समाचरेत् || मूलमन्त्रेण जुहुयात् गुरुशिष्यैस्सह क्रमात् | अघोरास्त्रेण चास्त्रेण शतं वाथ सहस्रकम् || अनंकुरन्तु यत्कर्म तत्सर्वं निष्फलं भवेत् | अंकुरार्पणकं कृत्वा कर्मकुर्यात्तु पूर्वकम् || श्रीकरं विजयं पुण्यं आयुरारोग्य वर्द्धनम् | अथवान्यप्रकारेण कथ्यते चांकुरार्पणम् || काले तु त्वरिते प्राप्ते कुर्यात्सद्यों कुरार्पणम् | पालिकादिषु पात्रेषु नालिकेर प्रसूनकम् || दूर्वाक्षत तिलैर्युक्तं पूरयेन्मूल विद्यया | इति वामदेवात्मज वेदज्ञान विरचित दीक्षादर्शे अंकुरार्पण विधिः || प्. १३६७) || अथ मण्टप पूजाविधिरुच्यते || तद्यथा - आचार्यो कृतनित्याह्नीक क्रियद्वयः परित्यक्त भोजनस्सयन्तनीं सन्ध्यां निर्वत्य विशेषतर्पणार्थं पुनराचम्य पञ्चब्रह्मणा विद्याविद्येश्वराणां तत्वतत्वेश्वराणां च ध्यात्वा त्रिवार द्विवावमेकवारं विशेषतर्पणं कुर्यात् | तदुक्तं मृगेन्द्रे - ततश्च पुनराचम्य पाण्यग्रेण गोणोत्तरम् | ब्रह्मादि पञ्चकान् सर्वान् विद्याविद्येश्वरानपि || तत्वानधिपतीन् सर्वान् ध्यायन् कालार्द्धमण्डले | चतुर्थ्यन्ताश्चयानेन स्वाहान्तेन तु तर्पयेत् || चिन्त्ये - आत्मार्थं विधिवत्कृत्वा विशेषं तर्पयेद्गुरुः | तर्पणान्ते विशेषेण सर्वालंकार संयुतम् || तथा माहेन्द्रे - प्रविशे मण्टपन्तत्र भस्मोद्धूलित विग्रहः | पूजयेत्पूर्वमात्मानं नैमित्तिकमथाचरेत् || अंशुमति - मण्टपाराधनं वक्ष्ये श्रूयतां रविसत्तम | सर्वतन्त्राणि गर्भिण्यात्सकला च स्वरूपिणीम् || इन्द्राद्यैर्लोक पालैश्च रक्षणीय मुखालयम् | तन्त्राणामुद्भवार्थाय मण्टपाराधनं कुरु || तस्मात्तत्मण्टपं ध्यात्वा क्रियापूर्वं विंचक्षणैः | प्. १३६८) किं रूपं मण्टपं भाव्यं वदमे पार्वती पते || मण्टपन्तु कलारूपञ्चतु वक्त्रन्तु भास्करम् | मण्टपावयवं कल्प्य पञ्चभौतिक रूपकम् || तन्मण्टपं चतुर्द्वारं चतुस्तोरण भूषितम् | गजाष्टदिक् पताकादि दशास्त्रं शक्तिसंयुतम् || मण्टपाव्रतदेशे तु कृत्वा तन्मण्टपे बुधः | घटे लिंगे च बेरे च याज्ञद्रव्ये च पुष्पके || अध्वाणिभिः प्रशस्यन्ते सर्वाभाव यवान् क्रमात् | सर्वमन्त्रैश्चाधिवसेत् अधिवासन मण्टपम् || तस्मात्तन्मण्टपं ज्ञात्वा कलारूपं स्मरेद्रवे | कलायां सर्वमुत्पन्नं यत्तद्रूपं कलामयम् || साकलामन्त्ररूपन्तु तस्मात्तन्मण्टपार्चनम् | पदाध्वा पदभागे तु वर्णाध्वा पदमध्यगे || घटोदरेषु मन्त्राध्वा बेरस्यावयवेषु च | मण्टपावयवद्रव्ये तत्वाध्वा संस्थित क्रमात् || भुवनाध्वाय ऊर्ध्वाय सर्वं संपाद्य रक्षितुम् | कलाध्वा सर्वगर्भा च षठध्वा परिमण्डितम् || सर्वं ज्ञात्वा कृतन्त्रज्ञ सर्वकर्मार्थको भवेत् | यागांगमण्टपं ह्येवं अर्चनंत्वधुनो च्यते || तथा सर्वज्ञानोत्तरे - शिवोक्तेन विधानेन इष्ट्वादेवानुनुक्रमात् | प्. १३६९) पूजयित्वा विधानेन ततो दीक्षां समाचरेत् || सर्वविघ्न विनाशाय गणायागौद्भवेद्ध्रुवम् | मध्यमे शिवकुंभन्तु द्वात्रिंशत् प्रस्थ पूरितः || वर्द्धनीञ्च तदर्द्धेन पूरितश्शिव पूरितः | त्रिसूत्रवेष्टनं कुंभे द्विसूत्रं करके भवेत् || अन्येषामपि सर्वेषामेकसूत्रेण वेष्टितम् | आचार्यो दक्षिणपादपुरस्सरम् | यागगृहं प्रविश्य वक्ष्यमाणेन्द्राग्नि पदमध्यपदे शिवसूर्य पूजार्थं कुंभं विन्यस्य तस्मिन् | सौरं कुंकुमसंकाशं परहस्ताम्बुजद्वयम् | अभयवरदोपेतं सर्वाभरण भूषितम् | इति ध्यात्वा नित्योक्त वमभ्यर्च्य सूर्यमूलशतं जपापदादिना समभ्यर्च्य उत्थाय बहिर्निर्गत्य पूर्व कुसौरभानि प्रत्यर्थं पादौ हस्तौ च प्रक्षाल्य पूर्वतोरणमध्ये ओं हां शान्तितोरणाय भद्राय नमः | त्रिशूले ओं हां पूष्णे नमः ओं धात्रे नमः ओं विधात्रे नमः | दक्षिणे तोरणे ओं भूति तोरणाय विजयाय नमः | त्रिशूले | ओं भवाय नमः | ओं पर्जन्याय नमः | ओं इन्द्राय नमः | पश्चिमतोरणे - ओं बलतोरणाय वज्राय नमः | शूले | ओं अर्यम्णे नमः | ओं मित्राय नमः | ओं त्वष्ट्रे नमः | उत्तरतोरणे - ओं आरोग्य तोरणाय नमः | नीललोहिताय नमः | प्. १३७०) त्रीशूले विष्णवे नमः | ओं सवित्रे नमः | ओं अंशुमते नमः इति तोरण शूलदेवान् संपूज्य पाद्यादि दत्वा पूर्वद्वाराण्यस्त्रेण संप्रोक्ष्य पूर्वद्वारादि पदोत्तरपदकुंभे | ध्वजाभयाक्षमालाब्जश्शान्ति स्सर्वोपवीतिनीम् | शुद्धस्फटिकसंकाशं पञ्चवक्त्रा चतुर्भुजा || इति ध्यात्वा ओं हां शान्तिकलाद्वाराय नमः इति संपूज्य पश्चिमद्वारस्य दक्षिण पदकुंभे - तप्तचामीकराभासा चतुर्वक्त्रेन्दुभूषिता | वक्त्राभयाक्षमालाब्जानिवृत्ति परिकीरिता || इति ध्यात्वा - ओं हां निवृत्ति कलाद्वाराय नमः इति संपूज्य पश्चिमद्वारस्य दक्षिण पदकुंभे - शान्त्याभयाक्षमालाब्जा विशद्विवक्त्रा च चतुर्भुजा | पाशाभयाक्ष मालाब्जा प्रतिष्ठा रत्नभूषिता || इति ध्यात्वा ओं हां प्रतिष्ठाकलाद्वाराय नमः | इत्यभ्यर्च्य पाद्यादिना संपूज्य पूर्वद्वारस्योत्तरपदकुंभे - ओं हां नन्दिने नमः | दक्षिणे पदकुंभे | ओं हां महाकालाय नमः दक्षिणस्य पूर्वकुंभे - ओं देव्यै नमः द्वारस्य पूर्वकुंभे - ओं हाण् चण्डाय नमः इति प्रतिद्वारं तयोः पार्श्वयोः कलशयोस्थण्डिले कृते भित्तौ वा तत्तध्यान पुरस्सरं द्वारपालान्संपूज्य लोकपालान्संभाव्य ध्यात्वा ध्वजाष्टकं पूजयेत् | प्. १३७१) तथैव तत् शाखयोः पूर्वद्वारदेवार्चनस्योत्तरे अस्मिन्विषये द्वाराणामुभयोः पार्श्वे अष्टाविंशत् पदारतम् | पूर्वद्वारादिनन्द्यादीन् शान्त्यन्तं भवति क्रमात् | इत्यंशुमद्वचने | द्वारपालस्थान वैपरीत्यवर्णनं विकल्प्य तया व प्रतिष्ठा विषयतया वा नेइयम् | पूर्वद्वार बाह्योत्तरे ओं हां प्रशान्तपताकाय नमः | दक्षिणे | ओं हां शिरपताकाय नमः | दक्षिणद्वारपूर्वे | ओं हां पर्जन्य पताकाय नमः | पश्चिमे ओं हां जयन्तपताकाय नमः | पश्चिमद्वारदक्षिणे | ओं हां भूतसञ्जीव पताकाय नमः | उत्तरे - ओं हां अमृतपतालाय नमः | ओं हां इनापताकाय नमः | पूर्वे ओं हां श्री प्रदायकाय नमः रक्तवर्ण प्रशान्ताद्याद्विभुजा च द्विलोचना | कृताञ्जलिपुटो ह्येषा सर्वाभरण भूषिता | इति ध्यात्वा पताकाष्टकं पूजयेत् तथैव गजाष्टकं पुजयेत् ओं हां कुमुदाय नमः | ओं हां पुण्डरीकाय नमः | ओं हां शंकुकण्ठाय नमः | ओं हां सर्वनेत्राय नमः | ओं हां षण्मुखाय नमः | ओं हां सुप्रतिष्ठाय नमः | ध्यानम् | कुमुदान् सिता काली कृष्णभेन्दुशरांशुभान् | प्. १३७२) द्विलोचनान्द्विबाहूंश्च दण्डाभयकरान्वितः | इति ध्यात्वा पाद्यादिना सुपूज्य पश्चिमद्वारे नित्यवद्वारपालानभ्यर्च्य - अंगुष्ठानामिकाग्राभ्यां ओं हां शिवाय नमोन्तकम् | नेत्रद्वयेपि विन्यस्य निरीक्षेद्दिव्य विघ्नकान् | सन्त्यज्य सर्वविघ्नांश्च पुनर्नाराचमुद्रया || तर्जर्न्यागुष्ठपुष्पेण ओं हां अस्त्राय फडिति अन्तरिक्षस्तु विघ्नान्निरासान्नन्दिकेश्वर | सव्यापाष्णि त्रिखातेन भूमिष्ठ विघ्न नाशनम् | हुं फडन्तास्त्रमन्त्रेण विघ्ननिस्सारणं भवेत् | इति दिव्यान्तरिक्ष भूमिष्ठा त्रिविधान्विघ्नानुत्सार्य पश्चिद्वारदेहल्यां पादेन स्पृशन् वामपार्श्व शाखासमाश्रित्य सव्यपादपुरस्सरं अन्तः प्रविश्य पश्चिमाभिमुखो भूत्वाथादुम्बर मध्ये - चतुर्वक्त्रञ्चतुर्बाहुं प्रदीप्ताग्नि समप्रभम् | दक्षवामकरैश्शक्ति शूलाभय वरान्वितम् || जटामकुटसंयुक्तं अर्द्धेन्दुकृतशेखरम् | इति ध्यात्वा | ओं हां अस्त्रद्वारपालाय नमः | इत्यभ्यर्च्य प्रदक्षिण क्रमेण गत्वा इतरद्वाराणि संघट्य प्रविश्य नैरृते प्राक् त्रिपदमध्यास्थितकुंभे - प्. १३७३) ब्रह्मा चतुर्मुखोद्याता कमन्डल्वक्षमालिका | हंसारूढस्समा यातुत्वासीनो द्वि * * * तः || इति ध्यात्वा आहां वास्त्वधिपतये ब्रह्मणे नमः | इत्याभ्यर्च्य पाद्यादिना संपूज्य तृणाद्याच्छादित यागगृहश्चेत् कंपेषु - ओं पृथिवी तत्वाय नमः | त्रिणेषु ओं हां जलतत्वाय नमः | ओं हां अग्नितत्वाय नमः | वंशेषु | ओं हां वायुतत्वाय नमः | अंघ्रिषु ओं हां आकाशतत्वाय नमः | विताने - ओं हां चन्द्राय नमः | तरंगे | ओं हां जाह्नव्यै नमः | दर्भमालायाम् | ओं हां वासुकये नमः | इत्यभ्यर्च्य मपवेद्यरालेषु | ब्राह्मणादीनां स्वस्वस्व जात्युक्तत्वेष्तमंगलन् | पूजयेत् | तदुक्तम् | करणे - देवाष्टमंगुलञ्चैव द्विजामष्टमंगुलम् | नृपाष्टमंगुलञ्चैव वैश्यानामष्टमंगलम् | इन्द्राष्टमंगलञ्चैव सर्वेषामष्टमंगलम् | देवाष्टमंगलं प्रस्तुतत्वान्नोक्तम् | पताकाशंख चक्रञ्च पूर्णकुंभं सपत्नकम् | छत्रं लक्ष्मी प्रदीपञ्च द्विजानामष्ट मंगलम् || नृपाष्टमंगलागौरी वृषगजश्चैव चामरे केसरीद्मषः | पताका च प्रदीपञ्च भूभुजामष्टमंगलम् | छत्रके तु पताका श्री भेरी कुंभञ्च दीपिका || प्. १३७४) कल्यावर्तञ्च एताद्यैवैश्यानामष्टमंगलम् | दर्पणं पूर्णकुंभञ्च पताकाच्छत्रभेरिका || श्रीवत्सं स्वस्तिकं पद्मं शूद्राणामस्टमंगलम् | एवं भेदविधिं ज्ञात्वा कर्म कुर्यात् | विचक्षणः | लोहजै वीरुजैर्वापि कारयेदस्टमंगलम् | अथ चाष्टांगुलं तारमायामं षोडशांगुलम् || अथ पद्मस्य पीठन्तु तच्चतुर्थांशमानतः | पद्मोर्द्धे दर्पणादीनि कारयेदथ लेखयेत् || कामिके विशेष उक्तः - रुद्रांगुल समारभ्य सार्धांगुल विवर्द्धनात् | विंशत्येकोनमात्रान्तमयमादित्रयन्त्रयम् || हित्वाष्टमंगुलं वाथ तत्स्थाने तान्प्रपूजयेत् | शैवोस्टमंगुलं कुर्यात् देवान्वाथवर्णनाम || ग्रामादौ स्वगृहे वापि यजमानानुरूपतः | पूर्वदर्पण कुंभौ च दक्षिणे वृष चामरौ || पश्चिमे स्वस्ति लक्ष्मी च उत्तरे शंखदीपकौ | इत्येते वेदिका प्रान्तेषु अष्टमंगलपंक्तयः || हित्वाष्टमंगलं वाथ तत्स्थाने तान् प्रपूजयेत् | ऊर्वशी मेनका चैव रंभा चैव तिलोत्तमा || सुमुखी सुन्दरी चैव कामिनी कामवर्द्धिनी | प्. १३७५) एतात्वप्सरसः प्रोक्तात्वष्टमंगुलधारिणम् || दर्पणे - ओं हां स्कन्दाय नमः | पूर्णकुंभे | ओं हां लंबोदराय नमः | वृषभे | ओं हां वीरभद्राय नमः | युग्मचामरे | ओं हां गंगायै नमः | श्रीवत्से | ओं हां महालक्ष्म्यै नमः | स्वस्तिके ओं हां रुद्राय नमः | शंखे | ओं हां चन्द्राय नमः | दीपे ओं हां शौर्यै नमः | इत्यभ्यर्च्यास्त्र प्रकारकवचाव कुण्ठनाभ्यां यागमण्टपं संलक्ष्य मण्टपे बेराद्दक्षित कूर्मासने प्रसानादिनाद्यन्यतमं विन्यस्योपरिश्चद्वयोर्जानू च जंघे द्वे पादाग्रञ्चैव कारयेत् | कामिको विशेषार्ध्यन्ततः कुर्यात् | संघृष्टम् | ईषन्नासाग्रदृष्टिस्तु देहि दीर्घञ्च तत्र वै | रूचिरासनमाख्याता सर्वपूजार्हकं विदुः || एवं स्थित्वा कर्म कुर्यात् | तथांशुमति - विदिका दक्षिणे भागे चोत्तराभिमुखस्थितः | नित्यवद्भूतशुद्धयादि सकलीकरणं कुरु || दभंगी वक्त्रभंगी वा ढाभंगी यथा श्रमम् | अष्टत्रिंशत्कलाभंगी मातृकादीन्यथा न्यसेत् || विद्यादेहञ्च नेत्रञ्च हृदयादीनि विन्यसेत् | अन्तर्यागञ्च भवनं समाधिञ्चैव कारयेत् || कामिके - प्. १३७६) विशेषार्ध्यन्ततः कुर्यात् यवसिद्धार्थकादिभिः | शिवत्वव्याप्तिक मष्टांग उतम् | शिवार्ध्यञ्च विद्यातत्वान्त व्याप्तिकञ्च रोधोख्यञ्चात्मतत्वान्तव्याप्तिकं पशुप्रोक्षणार्थ पश्वर्ध्यञ्च मन्त्रसंहितया त्रयं संपाद्य शिवार्ध्येणात्मानं संप्रोक्ष्य यागोपकरणद्रव्य जातमस्त्रेण संप्रोक्ष्य | कवचेनाभ्युक्ष्य हृदयेनाभिमन्त्र्य कवचेनावकुण्ठयामृती कुर्यात् | ततश्चन्दनेन ललाटे तिलकं मूलमुच्चार्य न्यस्त्वात्मानमभ्यर्च्य मन्त्रशुद्धिं कृत्वोष्णीषादिन स्ववपुरलं करणं कुर्यात् | तथा दीप्ते - स्थापने प्रोक्षणे यागे वह्निकार्ये जपे तथा | उष्णीषञ्चोत्तरीयञ्च धारयेस्तु शिवद्विजः || सितं सूक्ष्मं च सुश्लक्ष्णं सदशञ्चाष्ट हस्तकम् | पञ्चभागैक विस्तारं सप्तभागमथापि वा || एकद्वित्रि कृवाद्वह्ने पुरितः परिवेष्टयेत् | तस्याग्रं दक्षिणे कर्णे बन्धयेत्तु विचक्षणः || सुप्रभेदे - अन्वाधस्तात् शिरोन्तं यत् कर्णौ सञ्च्छाद्ययत्नतः | शिरो वेष्टनकं नाम मृदुना शुक्लवाससा | दीप्ते - उष्णीषार्द्धं परिग्राह्य द्वौ द्वौ पुच्छे तु बन्धयेत् | प्. १३७७) यज्ञोपवीतवद्धार्यमुत्तरीयं विचक्षणम् | अग्निदग्धं तथा जीर्णं चिन्नं तत्र विवर्जयेत् || कामिके - सोत्तरीयन्तु विप्राणां शूद्राणां केवलन्तु वत् | कारणे - उष्णीसञ्चोत्तरीयञ्च स्त्री शूद्राणां विवर्जयेत् | चिन्त्यविश्वे - श्वेतोस्णीषम् न्यसेन्मूर्ध्नि मूलमन्त्राभि मन्त्रितः | उत्तरीयन्तु गायत्र्या सद्यो जातेन वाससः || कर्पूरक्षोदसंयुक्तैश्चन्दनैः कुसुमैस्तथा | भस्मना गन्धयुक्तेन स्वात्मानं भूषणैस्तथा || अंकुरा च विशेषेण देशिकोत्यन्त निर्मलः | क्षौमैश्च शुद्धवस्त्रैश्च विविधाभरणैर्युत || अंशुमति - अर्हते नैव वस्त्रेण आच्छाद्य स समाहितः | एवं वपुरलं कृत्यानन्तरं शिवहस्तं विदध्यात् || तद्यथा - स्वदक्षिण हस्ततले वामांगुष्ठेन च लेपिते तन्मध्ये आसनमूर्तीं विन्यस्यांगुष्ठादिकिअनिष्ठान्तेष्वीशानादि पञ्चकं विन्यस्य विद्यादेहनेत्रमूलन्यासौ विधाय शिवमावाह्यांगानि कनिष्ठादि विन्यस्य परमीकृत्य शिवहस्तं संकल्प्य तेनोरूपं ध्यात्वा स्वशिरस्यधिरोप्यानेनतमपटलुच्छेदयेत् | षट्त्रिंशद्दर्भसंग्राह्य ज्ञानखट्गं प्रकल्पयेत् | प्. १३७८) तालमात्र समोपेतकारयेद्वेणि बद्धवत् || अग्रन्तु द्वयंगुलञ्चैव ग्रन्थिरेकांगुलं भवेत् | यद्वा - उपभेदकारणे - द्वात्रिंशद्दर्भसंग्राह्यन्तु चतुरंगुलम् | गन्थिद्वयंगुलैर्युक्तं ना * * वेणिरूपवत् || ग्रन्थिरग्रे समायुक्तं रत्निमात्रं सुदैर्ध्यकम् | अष्टादशांगुलं देयमथवा द्वादशांगुललम् || शूले तु कण्ठमानं तु चतुरंगुलमेव च | ऊर्ध्वाधस्तां शयोश्चैव पञ्चत्र्यम्गुलमेव वा || एवं लक्षण संयुक्तं सप्तधास्त्रजप्तं ज्ञानखडगं देशिको दक्षकट्यां बन्धयेत् | कुंभस्त्वग्निमध्यस्थो लिंगस्थो मण्डलस्थितः | आचार्य हृदयस्थश्च पञ्चस्थः पाशमोचक || सर्वेषां कर्म * * क्षिमण्डलस्यस्सदाशिव | यज्ञस्य रक्षकः कुंभे * * क होमकर्मणि || शिष्ये तु पाशनाशाय मद्देहं पाशमोचक | इत्युक्तत्वात् स एवाहमिति शिवोहमित्यैक्यं भाव्य | ऐशान्यां नैरृत्यां वा पञ्चगव्य स्थापनार्थं एकहस्तं द्विहस्तं वा स्थण्डिलं गोमयेनालिप्य तस्मिन् पूर्वाग्रमुत्तराग्रं पञ्चसूत्रं प्रसाध्य मध्ये चतुस्पथत्वेकार्थं विलोम्य - प्. १३७९) पूर्वादि द्विद्वि पदे द्विमेकपदं प्रकल्प्य आग्नेर्ययादि विदिक्षु एकैकमेवं नवकोष्ठ प्रकल्प्य कोष्ठप्रति उत्तमादि भेदेनाढकमर्धं तदर्धं वा शालीन्विन्यस्य तदुपरितण्डूलन्दर्भानास्तीर्य तन्मध्ये ओं हां शिवतत्वकोष्ठाय नमः पूर्वे ओं हां सदाशिवतत्वकोष्ठाय नमः | दक्षिणे ओं हां विद्यातत्वकोष्ठाय नमः | उत्तरे ओं हां पुरुषतत्वकोष्ठाय नमः पश्चिमे ओं हां कालतत्वकोष्ठाय नमः | ऐशान्ये ओं हां प्रकृतितत्व कोष्ठाय नमः इति कोष्ठपूजां विधाय तेष्वारोपितेषु पात्रेषु मध्यादि क्रमेण ओं हां सुप्रतिष्ठपात्राय नमः ओं हां सुशान्तपात्राय नमः तेजोत्पात्राय नमः रक्तोदकपात्राय नमः रक्तोदकपात्राय नमः अमृतात्मपात्राय नमः | अव्यक्त पात्राय नमः | इति पात्रपूजां विधाय तेषु क्षीरदधिघृतगोजल गोमयकुशोदकान्निक्षिप्य ईशितत्पुरुषाघोर वामजातगायत्र्या मूलेन वा यथाक्रमेण संपूज्यार्ध्य बीजं निक्षिप्य ईशानदि एकद्वित्रि चतुः पञ्चमूलेनषोडशवार मभिमन्त्र्य गोमयादि संहारमार्गेण पञ्चब्रह्ममुच्चरन्निक्षिप्यान्ते कुशोदकमूलमन्त्रेण मध्यपात्रे संयोज्य तत्र कूर्चं क्षिपत्वा पुनः कुशसहितेन दक्षपाणिना विधाय संहितया गायत्र्या वाभिमन्त्र्य संरक्ष्यावकुण्ठ्यामृती कृत्य धूपदीपादिकन्ददेत् | तिलसर्षपलाजभस्म - प्. १३८०) कुसुमकुशाक्षतान् सप्तसंख्याद्विकिरान् हुंफडन्तास्त्रेण सप्तधाभिमन्त्र्यनेत्रपटपाश सूत्रादीनि कर्तर्याद्यागोपकरण विशेषद्रव्याणि प्रत्येकं मूलेनाभिमन्त्र्य मण्टपर्नैऋत्या मीशानाभिमुखस्थित्वोर्ध्वकायो पञ्चगव्याभामर्ध्याभ्यामस्त्रेण यागगृहं संप्रोक्ष्य निरीक्षणादि चतुष्पदान्त संस्कारै स्थानशुद्धिं कुर्यात् | मण्टपानान्तु सर्वेषां संस्कारोष्टादश स्मृतः | वीक्षणादि समायुक्तो गुरुशल्यानिवृत्तये || तदुक्तं सूक्ष्मे - निरीक्षणा हृदयेनैव प्रोक्षणन्त्वीश मन्त्रतः | ताडनं हुं फडन्तेनाभ्युक्षणं शिरसायुध || घननञ्चास्त्रमन्त्रेण उद्धारं घोरमन्त्रतः | पूरणं वामदेवे न सद्यो नैव समं कुरु || शिखायां सेचनं कुर्यात् कुट्टनञ्चैव वर्मणा | मार्जनं नेत्रमन्त्रेण लेपनं पुरुषेण तु || निवृत्यादि कलानान्तु कल्पयेत् तत्स्वनामतः | त्रिसूत्रं वर्तुलं कुर्यात् बीजमुख्येन मन्त्रतः || मूलेनैव समभ्यर्च्य ईशेरेखात्रयं न्यसेत् | वज्री करणमस्त्रेण चतुष्कं मूलमन्त्रतः || विकिरान्य स * त्र च विकीर्य कुशकूर्चकैः | प्. १३८१) संगृह्य शिवगायत्र्या विशेदीशानगोचरे || आसनञ्चास्त्रवर्द्धन्या कल्पयेत्कल्पवित्तमः | विधातस्मिन् ज्वलदस्त्रभूताद्विकिरान् हुं फडन्तास्त्रेणान्तरिक्षविघ्न प्रशमनार्थं विकीर्य प्रदक्षिणक्रमेण भूतगतविघ्न निवारणार्थं हस्तगते दर्भेणोल्लिख्य तत्संहृत्य वर्द्धन्यासनाय ऐशान्यां संस्थाप्य पश्चिमे वरुणस्योत्तरकुंभे - पद्मासनासीना पद्माभं पद्महस्तनी | हेमरत्नोज्वलन्बक्रकुण्डलं कर्णभूषणम् || शोभनांबरसंनाभ शोणी च विपुता मता | मेखला कटिसूत्रांगी लक्ष्मी लक्ष्मी विवर्द्धनी || इति ध्यात्वा ओं हां महालक्ष्म्यै नमः | पद्यादिना संपूज्य | ऐशान्यान्तिलादि सप्तधान्यस्थे वस्त्रे शोणितां भसा पूरिते चूताश्वत्थ पल्वलं वा नालिकेरमातुलंग फलं वा कूर्चाद्यलं मुखे चामीकर निष्कप्रमान रत्नौषधि लोहादिगर्भिते पश्चिमानने मूर्तिभूते कुंभे | वृषासमे | पूज्य अनन्तधर्म ज्ञानवैराग्यैश्वर्य पद्मभूत चलासनकल्प्य तस्मिन् मूर्तिं संपूज्य - चतुर्भुजं त्रिणेत्रञ्च कृष्णपिंगोर्ध्व केशकः | अक्षपाशदह्रन्देवं ज्ञानखट्गगतान्वितम् || ध्यात्वा पाशुपतं देवं सांगं संपूजयेद्बुधः | प्. १३८२) इत्यावाह्य भगवन्तं शक्त्याद्यावरणसहितं पूज्य तद्दक्षिणतः पूर्वोक्तालं कृतयुताम् | प्रत्यङ्नालयुतां निष्कार्धवर्णादिगतां मुष्टिमात्रान्तरिता वर्द्धनी वीरस्या सिंहस्वरूपामाधार रूपिणी ईश्वरीमासनं कल्प्य तस्योपरि चलासनं पूज्य ओं पाशुपतास्त्राय हुं फण्णमः इत्यासनं संपूज्य तदुपरि ओं पाशुपतास्त्रमूर्तये हुं फण्णमः इति मूर्तीम् | रक्तवर्णोज्वलत्केशां खट्गखेटकधारिणम् | ध्यात्वा चास्त्रेश्वरन्देवीं गन्धपुष्पादिनार्चयेत् | ओं श्लीं पशुं फट् पाशुपतास्त्रमूर्तये हुं फण्णमः इत्यावाहनादिना संपूज्य वस्त्रोभयं प्रत्येकन्दत्वा पाद्यादिना पूजयेत् | कारणोक्त प्रकारेण वा पूजयेत् शिवमादशात् | शिव कुंभञ्च वर्द्धन्यां स्थापयेत्पद्ममध्यतः | पाद्याचमनं चार्ध्यं पञ्चगव्यं चतुर्दश | पुष्पं गन्धोदकञ्चैव बिल्वोदक कुशोदकम् || विदिक्षु सपापयेत्तत्र क्रमेणैव तु देशिकः | शिवकुंभे शिवं पूज्य वर्धन्यान्तु मनोन्मनीम् || विद्येश्वरन्तु परितः पूजयेत् स्थापकोत्तमः | उत्थाय मण्टपाभ्यन्तरे प्राच्याद्दिग्विदिक्षु स्थापयेत् | इन्द्रादीन्पूजयेन्महाकाल सूर्ययोर्मध्ये ओं हां इन्द्राय नमः | अग्नि कुंभे ओं हां कुबेराय नमः | ईशान कुंभे ओं हां ईशानाय नमः | प्. १३८३) तत्कुंभस्य दक्षिण कुंभे - ओं हां ब्रह्मणे नमः नैऋतस्योत्तरकुंभे - ओं हां विष्णवे नमः | इन्द्रादि लोकपालान्सर्वान् समभ्यर्च्य विशेषतः | इन्द्राय परिवाराय सायुधाय सवाहनम् | तेषा मायुधान्यर्चयेत् | वज्रध्वजं गदापद्मं चक्रहस्तप्रमाणतः | शक्तिदण्डं कृपाणञ्च पाशं शूलं तदब्धितः || स्वदिग्भागस्थितान्यत्र निष्पाद्यास्त्राणि यत्ततः | संपूजयत्ततो भक्त्या यस्तु दीक्षां समाचरेत् || वज्रं शक्तिञ्च दण्डञ्च खट्गं पाशं तथांकुशम् | गदात्रिशूलं पद्मञ्च चक्रञ्चेति गधायुते || इति ख्याता कीर्तिता चास्त्रमूर्तयः | जायाशक्ति गदाविद्युत् पाशपद्मनपुंसकौ | शेषा पुमानिति ख्याता कीर्तिताचास्त्र मूर्तयः || एकवक्त्रं द्विनेत्रञ्च करण्डमकुटान्वितम् | कृताञ्जलि पुटोपेतं द्वि बाहुं सर्वलक्षणम् || लोहानि दारुणानीह वज्रादीनि दशक्रमात् | एतेष्वेकतमं कृत्वा आत्ममन्त्रेण वार्चयेत् || तदुक्तम् | ओं भ्रूमिति द्वयोपेतं वज्राय च तथैव च | हुं फण्णमोन्तमन्त्रैश्च मन्त्रैरेतान्समर्चयेत् || प्. १३८४) ओं ह्रूं वज्राय हुं फण्णमः | एवमितरेषां मन्त्रमुच्चार्यार्चयेत् | तदनु | गुरुवर्द्धनीमादाय शिवकुंभाग्रगामिनीम् | अविच्छिन्न पयोधरां भ्रामयेत्तां प्रदक्षिणम् || नमस्सन्नात्मकामेत्युक्त्वा मूलमन्त्रं पठन् | अस्त्रदर्भमनुस्मरन् ओं यज्ञसंरक्षणार्थाय विघ्नानाध्वंस हेतवे | यूयं स्वाहानमस्तेस्तु सन्नद्धास्यस्तु रक्षक || शिवयागप्रवृत्तोयं तद्भक्तानां शिवाज्ञया | रक्षणीयोत्तरायेभ्यो लोकपालान् समहिताः || यद्वा - भो भो शक्र त्वया सास्यान्दिशि विघ्न प्रशान्तये | सावधानेन यागान्तं यावत् स्थेयं शिवाज्ञया || इति शिवा ज्ञानं प्रत्येकं पठित्वा स्वस्थाने पूर्व कुंभं पश्चात् वर्द्धनीञ्च संस्थाप्य शिवकुंभे शक्त्यादि शक्तिपर्यन्तं स्थिरासनार्थं पूज्या मूर्तिविद्यादेहं नेत्रं विन्यस्य अहवशुद्धि सहितं दीक्षा चेत् | सृष्टिक्रमेण पञ्चकलांन्यस्त्वा मूलेनावहनादि आवरण सहितं पूज्य पश्चिमाभिमुखायां वर्द्धन्याय स्थिरासनार्थमासनं पूज्य हृदयादि स्थानेषु | ओं हां हृदयाय हुं फण्णमः | ओं श्लीं शिरसे हुं फण्णमः | ओं पं शिखायै हुं फण्णमः | ओं शूं कवचाय हुं फण्णमः | प्. १३८५) ओं हूं नेत्रेभ्यो हुं फण्णमः | ओं हुं फडन्तास्त्राय हुं फण्णमः | इत्यंगानि विन्यस्य रक्षावकुण्ठनामृतीकर्रणं विधाय पाद्यादिसर्वोपचारं दत्वा | सावरणं संपूज्य ओं हां हं शिवशक्तिभ्यां नमः | इति भगलिंग समायोगं विभाव्य | अंगुष्ठोर्ध्वागतम्मुष्टिं कृत्वा वामेन वेष्टयेत् | लिंगमुद्रेति विख्याता तत्कुंभेतु प्रदर्शयेत् | भुक्त्यै तु तद्विपर्येण संस्पृशेत् | ममायै भगरूपिण्यै लिंगरूपधराय च | शंकराय नमस्तुंभ्य इति स्तुत्वा नमोद्य च || ओं यज्ञस्यास्य पतिस्त्त्वं हि मूर्तिरेषा तवाचला | एषते ज्ञान निस्त्रिंशस्तद्गृहाणस्त्वमायुधः || इति विज्ञाप्य यागरक्षार्थं देव्यवस्य सर्वहस्ते हुं फडन्तास्त्रेण ज्ञानखड्गं समर्प्य | मूलेनाष्टोत्तरशतं जप्त्वा कुंभे निवेद्य च | वर्द्धन्यान्तर्द्ददंशेन जप्त्वा निवेद्य मया प्रवर्तते यागो यज्वना भवतु क्रतुः | रक्षणीयस्त्वया तर्हि समप्तिर्यावदस्य हि | यज्ञरक्षो धुरं तस्मिन् एवमारोत्य देशिकः || इति यागरक्षां विज्ञाप्य निरोधार्ध्य मघोरेण दत्वा तत्पात्रं संस्थाप्य वायव्यं पूर्वे त्रिः पदमध्य कुभेत् | प्रणम्य दण्डवद्भूमौ विज्ञाप्य यस्सुरेशा स्वरोस्माभि पशून् गृह हेतवे | प्. १३८६) प्रवर्तितः प्रयात्वन्तः विघ्नश्च तव सन्निधौ | इति विज्ञाप्य | ओं हां गणपतये नमः | ऐशान्यः पश्चिम त्रिपदमध्यस्त कुंभे - प्रणम्य दण्डवद्भूमौ विज्ञाप्य गुरुसन्निधौ | देव देवं जगन्नाथ जगदानान्दकारण | शिवाध्वर प्रवर्तोयं तवाज्ञां कुरुते मम | एवमविज्ञाप्य - ओं हां सदाशिवादिसप्तगुरुभ्यो नमः | इति संपूज्य तदाज्ञां लब्ध्वा इष्टलिंगपूजार्थं वेदिकायां दक्षिणतस्थित्वा नित्योक्तवत् स्वेष्टलिंगेविशेषपूजार्थं पञ्चगव्यादिना पूजयेत् | तथा कामिके - मन्डले स्थण्डिले वापि लिंगे वा शिवमर्चयेत् | विशेष स्नपनोपेतं पञ्चामृत समन्वितम् || पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् | प्रणम्य प्रार्थ्य देवेशं लब्ध्वानुज्ञो गुरुस्तथा || मण्डल यजनार्थं मध्ये कृतवेदिकां सर्वाधारण कृत सर्वकामिक पद्मं वा स्वस्वजात्युक्तं सर्वतो भद्रादि मण्डलेवा | एतस्मिन्मण्डले सावरणमावहनादि जपान्तमर्चयेत् | तथा सुप्रभेदे मध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् | प्. १३८७) आदौ गर्भावृतं पूज्यपूज्य विद्येशावरणन्तथा गणेशावरणं पश्चात् लोकेशावरणन्तथा | अस्त्रावरणमन्ते च पूजयेत्तु यथाविधि | सूक्ष्मे - यथा तन्त्रोक्तदेवानां तथाअ तन्त्रोक्तवद्यजेत् | मण्डपं पूजयित्वा मणक्तदतै चाग्नि पुपूजनम् || अथाग्निकार्यार्थमध्येष्वार्थानुज्ञोग्निकार्यान्विदध्यात् | कारणे - तत्पूर्वेशानभागेवा कुण्डेवा स्थण्डिलेथवा | अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् || तद्यथा - सार्ध्य हस्तः - कुण्डनाभिं पुरस्कुर्वन् उत्तरास्योपविश्य च | अथस्थले तु पृष्ठन्तु ऊर्ध्वशिरसि मेखला || वदतम् | लंबमोष्ठञ्च पादोपरि समेखला | पद्मनाभिं समाख्यातं मेखलोपरिस्थितम् | पातालं कुक्षिरित्याहुः कुण्डरूपमिहोच्यते || इति कुण्डरूपं विभाव्यानामिकां गुष्थाभ्यां न्यस्तचक्षुषा कुण्डं ओं हां शिवाय नमः इति निरीक्ष्य हुं फडन्तास्त्रेण खननोद्धारणे हृदयेन पूरण समीकरण वर्मणा सेचन हुंफडन्तास्त्रेण कुट्टनं संमार्जनोपलेपनौ विधाय | ओं हां शान्त्यतीत कलाय नमः इति कुण्डमध्ये कुण्डाभ्यन्तर पूरे | ओं हैं शान्तिकलायै नमः | दक्षिणे | ओं ह्रूं विद्या कलायै नमः | प्. १३८८) इति भौतिकदीक्षायां सृष्टिक्रमेण कलामन्त्रान्यस्य कुण्डं कलामयं कल्पयेत् | नैष्ठिकदीक्षायां कुण्डाभ्यन्तरे पश्चिमोत्तरायां पूर्वकुण्डमध्येषु कलामन्त्रान्संहारक्रमेणोच्चारयेत् | ओं हैं कवचाय नमः त्रिसूत्रे कुण्डं संवेष्टय ओं हां कलामयाय कुण्डाय नमः इति संपूज्य ओं हां अस्त्राय हुं फडिति कुण्डमध्यो दक्षिणोत्तरं रेखात्रय पश्चिमात्पूर्वान्तमेकं एवं रेखा चतुष्टयं तिर्यक् रेखा सहितं उभयत्र त्रिशूलाकृतिना कुशत्रयेण वज्रीकरणं विधाय | ओं हां हृदयाय नमः पूर्वोत्तराग्र कुशद्वयेन चतुष्पथन्यासं कृत्वा | ओं हैं कवचाय नमः | कुण्डस्याभ्यन्तरे समन्तादुत्थितैः कुशैरक्सपाटि कृत्वा एवमष्टादश संस्कारान्विधाय कुण्डमध्ये ओं हां वागीश्वरी वागीश्वराय नमः | इति कूर्चरूपं विष्टरविन्यस्य | ओं हां वागीश्वरी वागीश्वरमूर्तिभ्यां नमः | इति विन्यस्य तौ ध्यायेत् | वागीशी सा भवद्गौरी वागीशस्या महेश्वर | त्रिणेत्रश्चतुर्भुजो देवः पद्मराग समद्युतिः || वरदाभयहस्त्रश्च शूलपाशधरंकरैः | वागीशी पुण्डरीभा चतुर्वक्त्र धनस्तनी || व्याख्याय पुस्तकाभ्याञ्च कमण्डल्वक्षधारिणी | प्. १९८९) ध्यायेत्तु विशेषेण ऋतु स्नातां सु यौवनाम् | नीलोत्पलदलाभासा ध्यायेत्कर्मोक्तवत्सुधीः || यद्वा - वागीश्वरन्तु रक्ताभं त्रिणेत्रं चतुर्भुजम् | अभयवरदो पेतं पाशशूल धरान्वितम् || देवीमावाहयेद्विद्वान्विधिवद्विश्वमातरम् | श्यामां ऋतुमतीं ध्यात्वा सद्वस्त्रो माल्यभूषणाम् || प्रसन्नवदनां पद्म पत्राभनयन प्रभाम् | वागीं वागीश्वरन्ध्यात्वा आवाहयेत्स्वस्वमन्त्रतः || इति ध्यात्वा आवाह्य गन्धपुष्पादिनार्चयेत् | तदन्वग्नि मुत्वादयेत् कारणे - सूर्ये कान्तोद्भवं श्रेष्ठं काष्ठजे मध्यमं भवेत् | श्रोत्रिया कारणं वह्निः कन्यसन्त्विति कीर्तितम् || चिन्त्यविश्वे - सन्ध्यासनाजपो होम देवतानाञ्च पूजनम् | आतिथ्यं वैश्वदेवञ्च षट्कर्माणि दिने दिने || षट्कर्म निरतो विप्रः श्रोत्रियस्समुदाहृतः | तथा भारते - विद्वान्वै श्रोत्रियः प्रोक्ता ज्ञानि श्रोत्रिय उच्यते | सूर्यकान्तोद्भवाभावे काष्ठजन्मनि मधरा || प्रकारमत्रोच्यते तथा कारणे - शमीवा पिप्पलं वाथ गृह्यसारतरुं पुरः | प्. १३९०) चिन्त्यविश्वे - शमी गर्भोद्भवं ग्राह्यं अश्वत्थाश्शुभलक्षणम् | मध्यदेशे स्वशास्त्रेण सुशितेन शनैश्शनैः || छेदयेत्सकली भूत्वा पुष्पमभ्यर्चयेत्ततः | दैर्ध्योक्ता हस्तप्रमाणन्तु अथवाद्वादशांगुलम् || अष्टांगुल समुत्सेधा समाचनि घृणां शुभाम् | आरणीं कल्पयेन्मन्त्री यथावच्चपरिस्फुटाम् || खादिरं निर्वृणं कार्यं मद्धान द्वादशांगुलम् | षडंगुल परीणाहमानुपूर्व्यामयं शुभम् || तथा कारणे - मण्डनस्याग्रके मूले स्वधा पट्टेन वेष्टयेत् | युगांगुलेन मूले तृकीलनेन च सन्धयेत् || एवं दृढतरे दण्डे कीलं कुर्वीत चाग्रके | सप्तांगुलन्तु विस्तारं तदर्द्धं वनमुच्यते || उभयोः पार्श्वयोश्चैव मुष्टिरष्टांगुला भवेत् | भूतांगुल परीणाहं सर्वत्रैव सुवृत्तकम् || पञ्चविंशांगुलायामं त्रिवृट्गोवाल रज्जुकः | तन्तुना वाथकर्तव्यं कनिष्ठांगुलिनाहकम् || किरणे - वायमामन्त्र प्रद्योक्तं गोवालै स्तत्कृतं भवेत् | उदङ्मुखस्थमघ्नीयात् शिवबीज मनुस्मरन् || प्. १३९१) गायत्री धारिणीदीप्तस्याम्नन्धानं हृदिनार्पयेत् | भ्रमणं क्रमशो दद्यात् छत्रं खड्गेण योजयेत् || शिखायो वक्त्रकं युज्यात् शिरसा हस्त वेष्टनम् | एवं कृतोद्भवं वह्नि द्विजमदिरगोथवा || सूर्यकान्तोद्भवा वा स्यात् सामान्यग्रहणोपि वा | एवं प्रकल्पितमग्निं ताम्रपात्रे मृण्पात्रे वा पञ्च ब्रह्ममन्त्रेण समानीय कुण्डस्याग्न्येययामैशान्यां नैरृत्यां वा स्थाप्य हुं फडन्तास्त्रेण क्रव्यादंश अग्निखण्डं निरृतिकोण निस्सार्य निरीक्षणादि चतुस्संस्कारैर्वह्निं संशोध्य ओं हां हं वह्निमूर्तये नमः इति स्फुरतारकारं भूताग्निं पूरकवायुना संहारमुद्रया गृहीत्वा ललटमध्यस्थ बिन्द्वाग्निना नैकीकृत्य पतत्पतंगनिभेन नाभिकुण्ठस्थ जाठराग्निना हृदयेन कुंभकेन एकीकृत्य शरावादिपात्रस्थ वह्नौ सन्निर्धूमांगाराग्नि ज्वालामाला कुलं मध्यान्हादिनिभं रेचकेन पिंगलया वन्हिं ओं ह्रूं वन्हि चैतन्याय नमः | इत्युद्भवमुद्रया निस्सार्य भौतिक जठरब्दैवाग्नित्रयेणैवा षडंगेनाभिमन्त्र्य संहितया संपूज्य रक्षावकुण्ठादि कृत्वा भूमिषु जानुमूलेनात्म सम्मुखं कुण्डे स्थण्डिले वा तौ ईशादिग गत शिरसा भूत्वा | विभाव्य वागीश्वर गर्भनाड्यां वागीश्वरेणातं विभाव्य कुण्डमध्यस्थ पद्मभूते नाभौ वन्हिं निरीक्ष्य नाभौ हृदयेन समूह्य परिधानस्य संप्रतिञ्च विभाव्य | प्. १३९२) शौचा च नोक्त्थं अर्ध्य जलबिन्दुं हृदानिक्षिप्य कवचेन सदिग्ध नैराच्छाद्य हुं फडन्तास्त्रेण व्यजनेन च मन्यो वा अग्निं प्रज्वाल्य ओं ह्रां ह्रूं गर्भाग्नये नमः | इति गर्भाग्निं संपूज्य | हुं फडन्तास्त्रेण सप्तवारमभिमन्त्र्य | तं कुशं कंकणं वागीश्वरी दक्षहस्ते तद्गर्भरक्षार्थं बध्वा गर्भाधानाय सद्यो जातेनाभ्यर्च्य स्वाहान्तं हृदयेन तिलाहुति पञ्चकं दत्वा | तृतीये मासि पुंसवनार्थं वामदेवनाभ्यर्च्य स्वाहान्त शिरसा तिलाहुति पञ्चकं हुत्वा | ओं हां पुर्यष्टकः देहाय नमः इति सामान्यार्ध्यं दत्वा सीमन्तोन्नयन निमित्तं षष्ठेमासि अघोरेण संपूज्य स्वाहान्त शिख्या तिलाहुति पञ्चकं दत्वा अवयसीमार्थं साहान्त शिखया पञ्चदश तिलाहुतिर्हुत्वा दशमे मासि तत्पुरुषेण संपूज्य स्वाहान्तकवचेन स्वाहुति पञ्चकन्दत्वा जातेगर्भमलापनोदघ्ननार्थं वर्मणा कुशैरग्निं सन्धुक्ष्य हुंफडन्तास्त्रेण सद्यस्सूतकनिवृत्तये अर्ध्य जलेन कुण्डबाह्याभ्यन्तरं संप्रोक्ष्य दर्भेणास्त्रेण ताड्यकवचेनाभ्युक्ष्य देविहस्तस्थं कंकणं त्यक्त्वा हृदाभ्यर्च्य स्वर्णकंकण बन्धन कृतमिति ध्यात्वा - त्रिंशद्दर्भदलै श्यामे गृहीत्वा बाहुमातृका | वेणीं वेष्टिकापिविष्टरा परिकीर्तिता || प्. १३९३) तन्मानात्रतवच्छाद्रास्सपलाश तरुत् भवेत् | अंगुष्ठपरिणाहेन युक्ता परिधय स्मृता || इत्थमग्नि शिशुरक्षार्थं पूर्वान्दिशि मेखलासु पूर्वाग्रानुत्तराग्रान् दर्भान् हुं फडन्तास्त्रेणास्तीर्य | तेषु पूर्वपश्चिमयोम्यात्तरदिक्षु हृदा परिधिविष्टरान् क्रमेण हृदयेन संस्थाप्य वक्त्राणां लालापनोदनायाग्ने पुष्टये च पलाशदि समिधं पञ्चसमिधं गृहीत्वा घृताक्त मूलाग्रं स्वाहान्तास्त्रेण हुत्वा कुण्डस्य पूर्वादिस्थित परिधौ पूर्वे ओं हां ब्रह्मणे नमः | पश्चिमे | ओं हां विष्णवे नमः | दक्षिणे ओं हां रुद्राय नमः उत्तरे ओं हां अनन्ताय नमः इति परिधिस्थान् देवान् संपूज्य विष्टरेषु पूर्वादीशान्तक्रमेण ओं हां इन्द्राय नमः ओं हां अग्नये नमः ओं हां यमाय नमः | निरृतये नमः | वरुणाय नमः | वायवे नमः | कुबेराय नमः | ईशानाय नमः | ऐशान्या दक्षिणे ओं हां ब्रह्मणे नमः | नैऋत्यामुत्तरे ओं हां विष्णवे नमः | इति संपूज्यार्ध्ययित्वा भो भो दिक्पालकमिमं शिवाज्ञया विघ्नौ निवार्य अग्निकुमारं रक्षतेति शिवाज्ञां श्रावयेत् | अथ सुक्स्रुव लक्षण पूर्वकन्तस्य संस्कारविधिरुच्यते | तथा मोहशूरोत्तरे - स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते कालोत्तरे - न्यग्रोधचूतवृक्षं वा शमी औदुंबरं तथा | प्. १३९४) देवदारुमयं वापि रक्तचन्दनमेव च || शान्तिके पौष्टिके चैव नित्य नैमित्तिकेपि वा | मृगेन्द्रे - ब्रह्माश्वत्थशमीपर्णी शिषुंपादिमहीरुहा | तथा सुप्रभेदे - खदिरश्च शमीबिल्वं पलाशप्लक्षचन्दनम् | अथवा यज्ञवृक्षेषु यथा संभवतं कुरु || किरणे - चूतचन्दन जाता च षट्त्रिंशदंगुलं यता | कारणे - संग्राह्यमध्यसारं तु द्विधा कृत्वा तरुः पुनः | तत्पार्श्वे बलिमाख्यातं बकं निर्वृणं दृढम् || मूलस्रुक्स्रुवयोर्दण्डे वृक्षाग्रे पुष्करं मतम् | पुष्करशब्देन अग्रमुच्यते - क्वचभाभागे बलिं प्रोक्तं वृक्षवाम सजागृत | वृक्षदक्षां संभूत स्रुवलक्षणमीरितम् || षट्त्रिंशदंगुलायाम मष्टांगुलन्तु विस्तृतः | उत्सेधेन षडंगुल्यं फलकाञ्चैव कारयेत् || कामिके - लोहजं यादिदारूढन्नयेत् षट्त्रिंशदांगुलम् | उक्तञ्च पराख्ये - षट्त्रिंशदगुला वाममुत्तरासृगुदीरिता | प्. १३९५) मध्यमा कन्यसा ज्ञेया द्वि द्वयंगुल विहीनता || किरणा - षडंगुलपरीणाहो दण्डस्याद्विविदंगुलम् | तथा पराख्ये - उत्तमादि त्रयाणाञ्च दण्डस्याद्विंशदंगुलम् | कारणे - कर्मांगुलन्तु नाहस्यामधस्तात्पद पादयुक् | शारदातिलके - विंशत्यंशैर्भवेद्दण्डे विदेकाचाष्टभिर्भवेत् | एकांशेनमितः कण्ठस्सप्तभागमिदं मुखम् || वेदी त्रिंशेन विस्तारः कण्ठस्य परिकीर्तिता | अग्रं कण्ठसमानस्यात् मुखे मार्गं प्रकल्पयेत् || कारणे - बिलादूर्ध्वमुखात्खात्वा कनिष्ठांगुलि मानतः | तरेण वाथताम्रेण नालकेत्वासुयोजयेत् || कामिके - वेदिकाष्ठांगुलायामं विस्तारस्सदृढो भवेत् | त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते || बिलपाहे तु परितः पट्टिकाध्यांगुलेन तु | श्वभ्रस्य परितः कुर्यात् पद्ममष्टदलं शुभम् || कारणे - वेदिकायास्तु परितः पट्टिका त्रियवाकहनः | मृगेन्द्रे - वेदवृत्तादि पयुत संस्थिति त्रितला वटा | शरदातिलके - दण्डमूलाग्रयो कुंभौ गुणवेदांगुलैः क्रमात् | प्. १३९६) गण्डीयमयुगांशैस्याद्दण्डस्याग्रे तु ईरिता || सूक्ष्मे - दण्डं षडंगुलञ्चाहं गण्डाख्यो गण्डिकात्रयम् | अर्धांगुलाप्रवृध्या तु तन्नाहं चतुरंगुलम् || मृगेन्द्रपद्धत्याम् - सप्तांगुल परीणाह घटाष्षण्णाह दण्डके | सूक्ष्मे - द्वयंगुलन्तु भवेद् कुम्भं नाहं विद्याद्दशांगुलम् | कारणे - धर्मांगुलन्तु नाहं स्यात्तस्याधस्तन्तु वेदिका | अथः पद्मपृष्ठाकार स कर्णिकम् गजोष्ठसदृशमास्यं पृष्ठं कूर्माकृतिर्भवेत् | तथा शारदातिलके | षड्भिरंगे पृष्ठभागो वेद्याः कूर्माकृतिर्भवेत् | हयस्य वा हस्तिनो वा पोत्रिणो वा मुखं भवेत् | कामिके - स्रुक्स्यां स्रुवोपि तद्योनि तन्मानं हस्तते भवेत् | तथा वीरतन्त्रे - स्रुवस्य लक्षणं वक्ष्ये चतुर्विंशति चांगुलम् | दीर्घमेवं समाख्यातं वृत्तञ्चैव षडंगुलम् || दण्डं त्र्यंगुलन्नाह मानुपूर्व्यात् क्षयो भवेत् | शारदातिलके - दण्डमूलाग्रयो गण्डी भवेत् कंकण भूषिता | वीरतन्त्रे - दण्डाग्रे चैव विप्रेन्द्र नाहञ्चैव षडंगुली | मोहशूरोत्तरे - पृष्ठे कुंभद्वयो पेतं पाके गोष्पदवाद्यथा | द्वयंगुलं पुष्करन्तस्य दण्डमेकांगुलं विदुः || प्. १३९७) कर्षधारवटोगण्ड मूलेग्रहिकगण्डिका | कामिके - नूतनं करणं श्रेष्ठ पुराणन्तदभावतः | पुराणकरणं ग्राह्य देशिको द्विजसत्तम || तदाज्ञापूर्वकं यस्मात् भोग्य करणन्तथा | सहस्राघोरजापस्य पुराणकरणं गृहेत् || येन शास्त्रेण वत्स्थाने क्रिया पूर्वं प्रवर्तते | तत्र तच्छास्त्र संसिद्धं करणं विहितं बुधः || अनुत्तमन्यतो ग्राह्यमुत्सवा करणादिषु कर्मसु | एवं लक्षण युक्तौ सृक्स्रुवौ सकुशादूर्ध्व पदनाधोमुखौ गृहीत्वा निरीक्षणादि चतुस्संस्कारबुद्धि विधायास्त्रेण संप्रोक्ष्य कवचेनाभ्युक्ष्य अवकुण्ठयाग्नौ काष्ठत्व निरासार्थं हृदयेन परत्रयं अग्न्यौ प्रताप्य भ्राम्य हुं फडन्तास्त्रेण कुशाग्रमध्यममूलै क्रमैस्रुक्स्रुवाग्रमध्यमूलानि स्पृष्ट्वा ओं हां शिवतत्वाय नमः ओं हां शिवतत्वाधिपतये रुद्राय नमः इति स्रुक्स्रुवाग्रे | ओं ह्रीं विद्यातत्वाय नमः ओं हां विद्यातत्वाधिपतये विष्णवे नमः | इति मध्ये ओं हां आत्मतत्वाय नमः | ओं हां आत्मतत्वाधिपतये ब्रह्मणे नमः इति तन्मूले इत्थं तत्वत्रयाव्याप्य मुमुक्षुश्चेत् संहारक्रमेणाभ्यर्च्य ओं हं हौं हं शिवशक्तिभ्यां नमः शिवशक्ति शिवा इति संपूज्य सृक् स्रुवौ कवचमन्त्रेण त्रिसूत्रवेष्ठितग्रीवौ स्वदक्षिणे कुशोपरिपूर्वं शक्तिमयी सृजं शिवमयम् स्रं संस्थाप्य हृदा गन्धपुष्पादिनार्चयेत् || प्. १३९८) || अथ आज्य संस्कारविधिः || आज्यस्थाल्यां प्रणीतायां प्रमाण द्रव्यपात्रवत् | आस्यां षडंगुलन्तारं ओष्ठमेकांगुलं भवेत् || अग्रमेकांगुलं प्रोक्तं जठरद्वादशांगुलम् | इत्थं क्षणयुक्तं ताम्रादि पात्रस्थं गव्यव्रतं निरीक्षणादिभि स्संशोध्य आत्मानं ब्रह्ममयं ध्यात्वा कुण्डोपरि त्रिधापरिभ्राम्य कुण्डस्याग्नेय कोष्ठो घृतबिन्दुमादाय ओं हां ब्रह्मणेसाहेति जुहुयात् | दि स्थापनम् | तत स्वदेहं विष्णुमयं ध्यात्वा तद्धृतमीशान कोणे धृत्वा ओं ह्रीं विष्णवे स्वाहा कुशाग्रेणाज्य बिन्दुन्दद्यात् | इत्यधि श्रवणम् | तत स्वदेहं रुद्रमयं ध्यात्वा कुण्डनाभौ घृतं धृत्वा ओं हां रुद्राय स्वाहा कुशाग्रेणाज्यबिन्दुं जुहुयादित्युद्वास्यतम् | ओं हां हृदयाय स्वाहेति कुशद्वयं प्रदेश मात्रं ब्रह्मग्रन्थियुतं द्वि हस्तांगुष्ठानामिकाभ्या गृहीत्वा ओं हैं कवचाय स्वाहेत्यग्नि स्वज्वलोमुखं त्रिरुत्प्लवेत् | पुनस्तत्तथाविधं कुशद्वयेन गृहीत्वा ओं हां हृदयाय स्वाहेति आत्मसंमुखं त्रिधा कृत्वा तत्कुशद्वयमपि पवित्रग्रन्थि मुन्मुत्त्याग्नौ निक्षिपेदिति संप्लवनम् | तेषामेव विघ्नानां सर्वायायोगमनं संप्लवनमिति क्वचिदेत्रयम् | प्. १३९९) प्रोक्तं हृश्चिरश्चूलिकाणुभिरिति | ओं हां हृदयाय नमः इत्यभिमन्त्रितं कुशोल्कमस्त्रेण घृतेक्षिप्त्क वह्नौ निक्षिपेरिति पवित्रीकरणम् | ओं है कवचाय नमः | इति दीप्तेनान्येन निराज्याग्नौ तत्कुशं क्षिपेत् इति नीराजनम् | हुं फडन्तास्त्रेणापरेण दीप्तकुशेन वह्नौ क्षिपेत् | इत्युद्योतनम् | एवं घृतस्य प्रणवेन प्रदेशमात्रं मध्यग्रन्थियुतं कुशद्वयं गृहीत्वा अग्नये नेगत्रये च तद्वक्त्रे च तत्प्रभोधनाय होमयेत् | अत्र होमत्रकारस्तु कारणागमेत्युक्तः | तद्यथा - दक्षिणोत्तरेणैव अनामितु सु पर्वकम् | अंगुष्ठञ्च सुपर्व स्यात् तर्जनी मह्यमांगुली || संयुक्ता पुच्छतो द्वौ तु युता च कनिष्ठिका | तोरैः कारस्तुणैतानि मन्त्रस्सूवेणैतेन होमयेत् || स्रुक्स्रुवाभावे पलाशपत्रादीन् गृहीत्वा संस्कृताज्य जुहुयात् | तत्रैव - अभावे तु स्रुवञ्चापि पलाशोदंबरैर्दलै | किंशुकस्य दलैर्वापि स्रुवं स्रुत्यैक वा दले || आज्यदक्षिणभागगतान् स्रुवेणादाय ओं हां अग्नये स्वाहा इत्यग्निदक्षिणनेत्रे हुत्वा शिष्टमाज्यं स्वाहा इति घृतभागे निक्षिप्य आज्यमध्यभागादादाय ओं हां अग्नीषोमाभ्यां स्वाहा - प्. १४००) इत्यग्निललाट नेत्रे हुत्वा वशिष्टमाज्यं स्वाहा इति घृतमध्यभागे निक्षिप्य आज्यमध्यभागादादाय ओं हां अग्नीषोमाभ्यां स्वाहा इत्यग्नि ललाटनेत्रे हुत्वा वशिष्टमाज्यं हा इति घृतमध्यभागे निक्षिपेत् | सव्य भागाद्धृतमादाय ओं अग्नये स्विष्ट स्वाहा वक्त्रे हुत्वा शिष्टमाज्यं हा इति घृतभागत्रये निक्षिपण शुक्लपक्ष कृष्ण पक्षे तु वामदक्षिण पूर्ववत् कुर्यात् ओं हां सोमाय स्वाहा इत्यग्नि वामनेत्रे हा इति घृतवामभागे ओं हां अग्नये स्वाहा इति घृतमध्यभागे ओं हां अग्नये स्विष्टकृते स्वाहा इत्यग्नि वाम दक्षिण मध्ये नेत्रेषु मुखे वा हां इति घृतभागत्रये क्षिप्त्वाज्यसहितायाभिमन्त्र्यास्त्रेण संरक्ष्य कवचेनावकुण्ठय मूलेन धेनुमुद्रया मुद्रयामृती कृत्य शक्तिमन्त्रेण महामुद्रां प्रदर्श्य मूलेन पूज्य संस्कृत्याज्य लवसंस्कृत सर्पिषि शोधनार्थं क्षिपेत् | अजिते असंस्कृतेष्वन्नाग्नौ च हुतं भवति | निष्कलम् | तस्मात्कुण्डादि संस्कारान् कुर्यान्मन्त्रेण देशिकः | स्रुवेण घृतमादायाग्नेः पश्चिमास्ये ओं हां सद्योजावाय स्वाहा उदङ्मुखे | ओं हिं वामदेवाय स्वाहा | दक्षिणास्ये ओं हुं अघोराय स्वाहा | पूर्वास्ये | ओं हें तत्पुरुषाय स्वाहा | प्. १४०१) ऊर्ध्वास्ये ओं हों ईशानाय स्वाहा इत्येकैकया तिसृबिराज्या हुतिभिर्वक्त्राभिधारम् | अथ सन्धानम् | ओं सद्योजात वामदेवाभ्यां स्वाहा | ओं हिं हुं वामदेवा घोराभ्यां स्वाहा | ओं हूं हें अघोरतत्पुरुषाभ्यां स्वाहा | ओं हें हों तत्पुरुषेशाभ्यां स्वाहा इति तिसृभि राज्याहुतिभिर्वसन्धान मथवक्त्रसन्धानम् | ओं हां हिं हुं हें हौं अघोर तत्पुरुषेशानाभ्यां स्वाहा | इत्यग्नि कोण मारभ्य वायुकोणान्तन्नैरृति कोणमारभ्य ईशानान्तं आज्याधारापतनेन वज्रैकीकरणम् | मुक्तिविषये | ओं हों हें हुं हिं हं ईशान तत्पुरुषाघोर वामदेव सद्योजातेभ्य स्वाहा | ईशानादि वामदेवान्त वक्त्र चतुष्टयस्य सद्योजाते लयं विभावयेरिति नित्यकर्मणि वक्त्रैकीकरणम् | ओं हों हुं हं हिं हें ईशानस्थाने विभाव्य नित्यनैमित्तिकेन काम्यादिकम् कार्यम् | वक्त्रैकीकरणं यस्य वक्त्रस्य मुख्यत्वं तद्वक्त्रं स्वस्वदिगवलोकनेयुतञ्चिन्तयेत् | यद्वा कर्मानुरूपेण वक्त्र निरूपणमुक्तम् | प्. १४०२) कालोत्तरे - ईशानमुक्तये होमपुरुषे चाणिमादिकम् | प्रायश्चित्तादिकं घोर तथा स्यात् क्रूरकर्मणि || वश्याकर्षण होमार्थं वामदेवेन होमयेत् | नित्यकर्म विधानन्तु वक्त्रेस्मिन् पश्चिमे हितम् || एवं ज्ञात्वा महासेन संकल्प्यः कुण्डमानतः | वक्रैकीकरणं ह्येवं नान्यथा कारयेत्सुतः || होमस्तु मुख्य भूतास्ये गौणान्यान्य मुखानि तु | तथोक्तम् - ध्यात्वा वक्त्राणि पञ्चाग्ने येन यत्कर्म वाञ्चितम् | तन्मुखन्तूर्ध्व कुर्वीतवाने चोर्ध्वे गतं मुखम् || अन्तर्भावान्यवक्त्राणि तच्च कुण्डप्रमाणतः | तस्मिन् वक्त्रैव जिह्वाभिसारणं विदध्यात् || तद्यथा - हिरण्या कनका रत्ना कृष्णातदनु सुप्रभा | अतिरिक्ता बहूरूपा च सप्तजिह्वा प्रकीर्तिता || हिरण्या वारुणी जिह्वा कनका मध्यमे स्थिता | रक्ता चोत्तर जिह्वा स्यात् कृष्णा याम्यदिशिस्थिता || सूप्रभा पूर्व जिह्वा स्यादतिरिक्तानिले स्थिता | बहुरूपे च जिह्वा स्यात् जिह्वा स्थानं प्रकीर्तितम् || प्. १४०३) जिह्वेति यत्र निर्दिष्टा ज्वाला सा स्याद्धविर्भुज | हिरण्या तप्तहेमाभा कनका रजत प्रभा || सुप्रभा मौक्तिक प्रख्यातरिक्ता पद्मरागवत् | चन्द्रकान्त शरच्चन्द्रप्रभे च बहुरूपिणी || हिरण्याद्यास्त्वविज्ञाय यो जिह्वा वह्नि सन्निधौ | होतुश्चोपक्रमेन्मुखस्सभवेत् ब्रह्मघातकः || बीजानी सप्तहोमार्थं लिख्यते तानि तद्यथा | यादिरान्त विना रेफषष्ठिस्वरसमन्वितम् || नेदबिन्दु शिखायुक्तौ जिह्वा बीजान्यनु क्रमात् | तत्प्रकारः | ओं इं हिरण्यायै स्वाहा | ओं हूं कनकायै स्वाहा | ओं हूं रक्तायै स्वाहा | ओं ष्ट्तं कृष्णायै स्वाहा | ओं षं सुप्रभायै स्वाहा | ओं हुं अतिरिक्तायै स्वाहै | ओं हूं बहुरूपायै स्वाहा | ओं लूं इं लूं हिरण्य कनकाभ्यां स्वाहा | लूं लूं कनकरक्ताभ्यां स्वाहा | ओं ब्रूं श्रूं रक्तकृष्णाभ्यां स्वाहा | ओं श्रूं ष्रूं कृष्णसुप्रभाभ्यां स्वाहा | ओं ह्रूं स्रूं सुप्रभाति रिक्ताभ्यां स्वाहा | ओं स्रूं ह्रूं ह्रूं इं अतिरिक्त बहुरूपाभ्यां स्वाहा | ओं सुं इं इं अतिरिक्त बहुरूपायै स्वाहा इति सप्तजिह्वा मन्त्रप्रतियोगे मन्त्रप्रतियोगेनैतैर्मन्त्रैर्हिरण्यादि सप्त जिह्वा इष्ट्वा स्वाहान्तैर्मन्त्रैर्घृतेनैकाहुति दानेन दीपनम् | एतै बीज मन्त्रसंपुटिनेनैकैकाहुतिदानेन जिह्वासन्धानम् | प्. १४०४) तथोक्तम् | एकैकाहुति दानेन वा दीपनमाचरेत् | द्वाभ्यां द्वाभ्यां तु सन्धानं हुत्वा मध्येलयं नयेत् | यथाभिलषितं वक्त्रं कुण्डप्रमाणं भावयित्वा हिरण्यादि षट् जिह्वां मध्य जिह्वायां लयं भावयेत् | इति जिह्वैकीकरणम् | नामकरणार्थं वह्निमध्ये पश्चिमाननासीनकन्ध्यात्वा ईशाने संपूज्य सपुष्पमर्ध्यन्दत्वा स्वाहान्तास्त्रेणाहुति पञ्चकं दत्वा ओं हां शिवाग्निस्त्वं हुताशनेति नामकरणं कृत्वा पितरौ संपूज्य स्वाहान्तेन तन्मन्त्रेण प्रत्येकं दशाहुतिं हुत्वा हृदयेनाभ्यर्च्य पितरौ विसृजेत् | इति नामकरणम् | उपनिष्क्रामणान्नप्राशन चौलोपनयन प्राज्यत्य सौम्याग्नेय वैश्य देवोत्सर्ग पञ्चत्वपराणगोदान समावर्तन विवाहान्त शरीरसंस्कार कर्म सिध्यर्थं हृदातिलैः प्रत्येक माहुति त्रयं हुत्वा मूलेन पूर्णां विदध्यात् | पूर्णाहुति लक्षणम् | अजिते प्रतिपादितम् | अभ्युक्ष्य स्रुवमस्त्रेण सर्पिषापूर्य तद्बिलम् | प्रणवेन ततः पुष्पं साक्षतं सकुशं सृचि || विन्यस्य स्रुवमारोप्य तन्मध्ये चाप्यथोमुखम् | दण्डमूलाग्रयोः पश्चात् गृहीत्वा सृक्स्रुवेण युक् || सेव्यताकराभ्यां पाणिभ्यां विन्यस्यास्यतु शंखवत् | ऋजुकायस्समुत्थाय स्थितास्संपन्न सत्व युक् || प्. १४०५) नाभिदघ्नतयोः कृत्वा तन्मूलं कारयेत्ततः | दक्षिणान्तरयोः कुर्यात् नवम्यावनतन्तयोः || यवधाराग्निमध्ये तु पातयेत्वेकधा सुधीः | पूर्वाहुतिन्तु मूलेन इत्य सम्यक् समाचरेत् || एतत्पूर्णाहुतिप्रदानेन औन्नत्य मुत्त मादिभेदेन त्रिविधं कालोत्तरे प्रतिपादितम् | तद्यथा | द्वात्रिंशदुंगुलोत्सेध माहुतिश्चोत्तमं भवेत् | षोडशांगुल मात्रन्तु चाहुतिर्मध्यमं भवेत् || अष्टांगुलन्तु चोत्सेधं अविच्छिन्नं घृताहुति | अधमं तद्विजानीया स्रुवेण च षडानन || तदनु पविश्य च सर्वार्थं धूपदीपार्थ मोदनार्थञ्च | कुण्डताग्निं विभज्य स्थानान्तरे संरक्षशिवाग्नेरकारादि षोडशस्वरैः पलाशादिना षोडशांगुल युक्तान् सत्मान् आज्यक्तानिध्मान् षोडशान् जुहुयात् | तदुक्तं कामेके - इध्मास्सत्व च सा प्रोक्त षोडशांगुल दैविका | इति समिल्लक्षणमत्रैवोक्तम् | याज्ञीय वृक्षजाश्शस्ता समिधोद्वादशांगुला | सत्वचास्समच्छेद वक्रग्रन्थ्यादि वर्जिता || तथा कारणे - समित्कनिष्ठिका मात्रा दशांगुल दैर्धिका | प्. १४०६) सान्द्रस्निग्धा समच्छिन्ना कृमिलोकोदरवर्जिता || इति शैवाग्नि ध्यानम् | कामिके - शैवाग्निः कथ्यते विप्र शृणु तस्मिन् समाहिता | पञ्चवक्त्र समायुक्तं सप्तजिह्वा विराजितम् || दशहस्तं त्रिणेत्रञ्च सर्वाभरणभूषितम् | रक्तवस्त्रपरिधानां पंकजोपरि संस्थिताम् || बद्धपद्मासनासीनन्दशायुध समन्वितम् | कनका बहुरूपा च अतिरिक्ता ततः परम् || सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी | ऊर्ध्ववक्त्र स्थितास्तिस्रो शेषा प्रागादितः क्रमात् || वैदिकमिश्रान्यो स्वरूपमन्त्येष्टि प्रकरणे वक्ष्यामः | इति शिवाग्निं ध्यात्वा ओं हां शिवाग्नये नमः इति संपूज्य अग्नेत्वमैश्वरन्तेजः पावनं परमं मतः | तस्मात् त्वदीय हृत्पद्मे संस्थाप्य तर्पयाम्यहम् | इति प्रार्थयित्वा - तं देवं हृदयंबुजे योगपीठं प्रपूजयेत् | विन्यस्य कलये मूर्तिं भास्वरां सपरापराम् || आवाहनादिभिस्तस्यां सन्निधीकृत्य कारणम् | पूजयित्वा बहिस्तस्मिन् भोगांगानि प्रपूजयेत् || आश्रयो बाधिते ज्ञात्वा भास्वराणि पृथक् पृथक् | प्. १४०७) प्ररोप्य परमीकृत्य शिववक्त्राग्नि वक्त्रयोः || कृत्वा सन्धानमग्नेस्तु ज्योतिर्नासा विनिर्गतम् | अनुदितेन विशान्तिता निर्गता मुदितेन तु | आत्मनोनुदितेनैव विशन्तिं चिन्तयेद्गुरुः || एवं कुंभस्थयागाग्नि शिवेनात्मानं ऐक्यस्थं नादीसन्धानं कृत्वा सामान्य विशेष तर्पणार्थं मूलमन्त्रस्वाहान्तेनाष्टोत्तरशतं प्रत्येकं हुत्वा ब्रह्मांगानां तद्दशांशं वौषडन्तमूलेन पूर्णां विधाय देशापातन कालापतन दिव्यान्तरिक्ष भौगतदुर्निमित्त प्रोत्सारणाय सुनिमित्तापातनार्थं मूलेन फट्कार सहितं बहुरूपेण वा शतं शतं पूर्णा सहितं जुहुयात् | तथा कालोत्तरे - देवाविमानैर्दृश्यन्ते नित्यं तत् शुभदं मतम् | असामानि विचित्राणि यदा व्योम्नि पतन्ति च || शस्त्रच्छेन्द धनुः पुंसांसौ विशिष्ट विशेषतः | पांसुपातनवर्षं वा आकाशो शकुनाहितम् || शिखि हंस शुकादीनां मधुरालाप इष्यते | भानुरग्नि समायोगात् अंभसः पतनंशुभम् || शंख दुन्दुभिजीमूत वक्लकीनाध्वनिश्शुभम् | आचार्य विप्र नारीणान्नरेन्द्राणाञ्च दर्शनम् || हेमन्तु तत्सदाशस्तं मधुमांसादि यत्नतः | प्. १४०८) अंबुजानाञ्च पुष्पाणा प्रषभस्यश्चदर्शनम् || तथा हस्त तुरंगाणां दर्शनञ्चाति शस्यते | खरोष्ट्रमहिषव्याल वृतीनन्नादशे शुभा || वाक्प्रशस्तं यदा दुष्टो नेष्यतेद्धनि | अकस्मात्कलहो नेष्टः प्रमादाद्दारुणेरव || प्रसादाकारवृक्षाणां साधूनान्दर्शनन्तथा | यागकर्यां शुभेष्वेवमशुभे तु गृहस्य तु || अघोरेण शतं होम्य फ.ट्कारान्तेन शान्तयेत् | अस्त्रेणैव शतं हुत्वा तद्दोष विनिवृत्तये || तथा मोहशूरोत्तरे - देशकाल निमित्तार्थं दुर्निमित्त प्रशान्तयेत् | शतं शतन्तु होतव्यं पूर्णाच्छिन्ना शतक्रतो || इति ततश्शिष्य प्रवेशार्थं प्रतिशिष्यं मूलेन शतं शतं पूर्णाहुति सहितं हुत्वा स्वाहामूलाद्यस्त्रकान्तरैकैकाहुति दानेन मन्त्रतर्पणं शिखा संपुटितारा हुंफडन्त मूलाद्यस्त्रान्तैस्तिसृस्तिसृभि राज्याहुतिभिर्मन्त्रदीपनञ्च विदध्यात् | तद्यथा - ओं हां शिवाय स्वाहा | ओं हों ईशानमूर्द्धाय स्वाहा | ओं हें तत्पुरुषवक्त्राय स्वाहा | ओं हं अघोर हृदयाय स्वाहा | ओं हिं वामदेव गुह्याय स्वाहा | ओं हं सद्योजात मूर्तये स्वाहा | प्. १४०९) ओं हां हृदयाय स्वाहा | ओं हिं शिरसे स्वाहा ओं हां शिखायै स्वाहा | ओं हैं कवचाय स्वाहा | ओं हौं नेत्रेभ्य स्वाहा | ओं हः शस्त्राय स्वाहा | इति तर्पणम् | ओं हूं हौं हूं शिवाय हुं फड् | ओं हूं हों हूं ईशानमूर्द्धाय हुं फट् | ओं हूं हें हूं तत्पुरुष वक्त्राय हुं फट् | ओं हूं हं हूं अघोर हृदयाय हुं फट् | ओं हूं हीं हूं वामदेव गुह्याय हुं फट् | ओं हूं हं हूं सद्योजात मूर्तये हुं फट् | ओं हूं हां हुं हूं अस्त्राय हुं फट् | इत्थं मूलाद्यस्त्रान्तदीपन क्रेथ्यात् | तथा चिन्त्यविश्वे - शिखाद्यस्त्रान्तमन्त्राणां स्वाहान्तं तर्पणं सकृत् | शिखा संपुटितैर्मन्त्रैर्हुं फडन्तैश्च दीपनम् || मोहशूरोत्तरे - मन्त्रतर्पणं कृत्वा पूर्णान्दद्यान्निवेद्य च | || अथ स्थालीपाकविधिः || ततः पात्रलक्षणन्दीप्त तन्त्रे - चरुपात्रविधिं वक्ष्ये जठरन्तु षडंगुलम् | अष्टादशांगुलन्नाहं गंभीरं चतुरंगुलम् || ओष्ठमेकांगुलं प्रोक्तं कण्ठमेकांगुलोच्छ्रयम् | कण्ठानाहं दशांगुल्यं पिधानं पूर्ववद्भवेत् || प्. १४१०) शराव मुखविस्तारं पञ्चांगुलमुदीरितम् | द्वयंगुलस्स्यात्तदुत्सेधं ओष्ठमध्यांगुलं भवेत् || एवं लक्षणयुक्तां स्थाली सापिधानान्ताम्रमयी मृण्मयीं वा व्रणादि दोषरहितां अस्त्रेण वारिणा प्रक्षाल्य कवचेनावकुण्ठ्य निरीक्षणादि चतुस्संस्कारै स्संस्कृत्य चंदनादिभिरालिख्य धूपदीपयित्वा शस्त्रकवचादिभिर्जप्त्वा त्रिसूत्री कृतसूत्र कुशाभ्यान्तत्कंठैर्वर्मणा संवेष्ठय वेद्या दक्षिण दिक्भागेयं देवस्य संनिधौ - भुद्वय समायुक्ता पूर्वे शिरसि संयुता | पश्चिमाभिमुखी कार्या चैकैक पर्वतांगुला || अग्रेत्वंगुल विस्तारा चुल्लिरत्र विचित्रिता | इत्थं लक्षणसंयुक्तां चुल्लिकां संस्थाप्य तन्मध्ये कुण्डवदुल्लेखनादिकं कृत्वा पश्चा चरुपुरोडाश पञ्च संस्कार संस्कृते | शिवाग्नेपूर्वक घृतमग्नेकदेशं विन्यस्य तत्समीपे गोमयेनोपलिप्तमण्डले अस्त्रे प्रोक्षिते कवचेना वकुण्ठिते स्त्रविन्यस्तदर्भे षडुत्थासनं पूज्य तस्मिन् मूर्तिभूता स्थालीं विन्यस्य तद्गर्भे वस्त्रवेष्ठित मुखे सांगं शिवं लयान्तपर्यन्त मभ्यर्च्य पुष्पं निस्सार्यास्त्रजप्तगव्याज्येनालभ्य वस्त्रपूते निरीक्षणादि शुद्धेन शिवमन्त्राष्टशतञ्जप्त्वा कापिलेन तदन्येन दुग्धेन चापूर्य याज्ञीय तण्डुलान् श्यामादिकान्या एकशिष्य दीक्षायां किं वा पञ्च - प्. १४११) प्रसृति सम्मितान् द्वितीयादिषु शिष्येषु एकै प्रसृति वृद्धि युक्तान् अन्यस्मिन् पात्रे तान्प्रगृह्य हृदयेन षट्प्रकारं क्षालयित्वा तत्कुक्षौ निक्षिप्यास्त्रेण चुल्लिं संप्रोक्ष्य कवचेनावकुण्ठय संमृज्योपलिप्य तस्मिन् ओं हां चुल्लिकायै नमः | इति संपूज्य तद्दक्षिणवामबाह्यो ओं हां धर्माय नमः | ओं हां अधर्माय नमः | इति संपूज्य पश्चिमास्यायां चुल्लिकायां प्रणवासनं दत्वा | भू पूर्वास्यो भूत्वा स्थालीमारोप्यास्त्रेण विधाय क्रिमिकोटरादि वर्जितकाष्ठेन संदीप्य चालनोद्धारनमस्त्रेण कृत्वा अंभुं स्मरन् विलोकनं नेत्रमन्त्रेण पुनः कवचेनावकुर्वन् | ओं हां शिवाय नमः | इत्युचार्य चरुं स्वपक्वं पचेत् | यद्वा हृच्छिराश्शिवा गायत्र्या वा पाकस्यातिपक्वापक्वत्वे मरणं व्याधिश्च भवति | तच्छान्त्यर्थमस्त्रेण शताहुतिं हुत्वा ततः स्वाहान्तं संहितया स्त्रेणाज्येन स्वेति पाकशिवाग्नौ हेति चुल्लिकास्थ चरौ शीताभिधारं कृत्वा शीतलो भवेत्युक्त्वा हृदयेन संहारिण्या चुल्लिका मध्यस्थमग्निं विसृजेत् | तथा कामिके - उष्णे तप्ताभिधारं स्यात् शीते शीतोभिधारणम् | स्वाहान्तया मन्त्रसंहृत्यामग्निं व्यवहे पुरा || हविष्यग्ने च हेत्युक्त्वा स्विस्विन्नो भव इत्यपि | तप्ताभि धारमेव स्यात् द्वितीये मण्डले ततः || प्. १४१२) तस्माभि धारमेव स्यात् द्वितीये मण्डले ततः | प्रोक्षणादि समायुक्ते पूजितेत्यवरोप्यतः || सुशीतलो भवेत्येवं षट्पल्लवया तथा | शीताभिधारमेवं स्यात् मन्त्रसंहितया लभेत् || ततः स्थालीं बहिर्मृज्जलाभ्यामुन्मृज्य क्षालयित्वा त्रिपुण्ड्रं धृत्वा कुण्ड पश्चिमभागकृतमण्डले पूर्ववत् षडुत्थासनं संकल्पयते स्थालीं संस्थाप्य हृदा संपूज्य ओं हों हें हुं हिं हं हां हिं हूं हों हं शिवाय स्वाहेत्यग्नौ हेति चरपुर परिशेषमाज्यं स्रुवं धून्वन् एवमष्टोत्तरशतमेकशतमेक विंशति वारं संपातहोमं विधायाधिवासन पक्षे कामिके - कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणी कृतम् | अस्त्रप्रोक्षितं वर्मकुण्ठितं मूलामर्चितम् || दीप्ते - षडंगुलमथायामं तर्द्धं विस्तृतं शुभम् | आयसने तु कर्तव्यं नालं तु चतुरंगुलम् || द्वादशांगुलमानेन विवकमत्र संयुतम् | क्षुरकर्तरिके प्रोक्तौ दीक्षाकर्मणि योजयेत् || एवं लक्षणसंयुक्तन्तदनु सूत्रकर्तृभ्याञ्च पूर्वोक्तमण्डल निर्माणार्थि पञ्चवर्णराजाश्च होमद्रव्यादि पञ्चसंपातेन संस्कुर्यात् | तथा मृगेन्द्रे - धर्विकां कुसूत्राणां कर्तरी रजसा सहा | प्. १४१३) कार्यस्तथैव संपात तिलब्रीह्यादिकस्य च || एवं संपातसंस्कृतान् सर्वान्वौषडन्त संगेनाभिमन्त्र्य रक्षावकुण्ठनादिकं कृत्वा सिद्धोयमिति भाव्य स्थण्डिलेस्थ कुंभस्थ चललिंगे परिवार वह्न्यात्मार्थं समुदायेनवन्त्रिचतुर्भागं वा दर्व्या विभज्य त्रपक्षस्थण्डिल कुंभेशयेरेकभागञ्चललिंग परिवारयोरेकं एवं मधुप्लुतम् | देवार्थं कस्य होमार्थं शीघ्रत मधुसम्मिश्रम् | आत्मभागं केवलं घृतमिश्रितमिश्रं कुर्यात् || तथा किरणे - शिवाग्ने शिवकुंभस्य कल्प्यशेष यथात्मनः | कृत्वा होमं प्रणम्येशं बलिं तत्र समाचरेत् || ज्ञानरत्नावल्याम् - * * भागत्रयं कृत्वा भागमेव मधुप्लुतम् | शिवाय शिव कुंभाय वर्धन्यैश्च निवेदयेत् || द्वितीयं सघृतं भागं स्वशिष्येभ्यश्च कल्पयेत् | तृतीयं चरुभागं तत् सघृतं समधुप्लुतम् || हुत्वा चान्तर्बलिन्दद्यात् समाचम्य प्रसन्नधीः | चतुर्भागपक्षे मण्डलस्थादि देवांश मेकभागां होमकर्मार्थं द्वितीयं भागं परिवारार्थं एकभागदेशिक शिष्ययोरेकभागं निवेद्य पाद्यं दत्वा धूपादि जपान्तं कर्म निर्वर्त्य शेषमेकभागमाचार्य शिष्य प्राशनार्थं संरक्षयेत् | तथा कामिके - प्. १४१४) शिष्य प्रवेशम् - आद्यांशो देविकं प्रोक्तः द्वितीये होम कर्मणी | परिवारे तृतीयं स्यात् चतुर्थां देशिका हि || पृथक् चरश्चेन्नैवेद्यं देवेशाय निदापयेत् | प्रायश्चित्तार्थमस्त्रेणाष्टोत्तरशतं हुत्वा पूर्णां दत्वा बलिद्वयं कृत्वा प्रणम्य क्षमापयेत् | चिन्त्ये - कुण्डदक्षिण पार्श्वे तु मण्डलद्वितये पि च | अन्तर्बलिर्बहिं कुर्यात् पूर्वोक्तेन विधानतः || चरुप्राशनविधान निर्वाण दीक्षायां वक्ष्यमाणवत् प्राशयेत् | इष्टलिंगान्तिकं गत्वा वह्निस्थं कलशस्थञ्चाष्टपुष्पिकया संपूज्य शिवं विज्ञापयेत् | यदर्थोयं महादेव भगवन्याग वर्तितः | त इमे पशवश्शान्तः द्वारितिष्ठन्तवारिता || कृत्येत्यत्राहमाज्ञप्तो भवता गुरुमूर्तिना | एषामनुग्रहन्तस्मात् मामतिष्ठाय संप्रत || करोतु भगवानेव मुत्किमुक्ति प्रदः प्रभुः | इत्येवं विज्ञापयेत् | तदनु शिवहस्तमकल्पयेत् | ततो दक्षिणहस्तेन स्वर्गन्धैर्निर्मलं गुरुः | तन्मध्ये विन्यसेद्यतान् ब्रह्मांग सहितं शिवम् | गन्धपुष्पपवित्राद्यैः पूजयेत्परमेश्वरम् || तस्मिन्तेनपरन्ध्यात्वा पूजयेत्परमेश्वरम् | प्. १४१५) शिवमन्त्रेण तन्यस्त्वा तेष्ठान्निजमस्तके || शिवहस्तमिति प्रोक्तं पाशानां नाशने शुभम् | ईशाद्विभिन्नामात्मानं कर्तारं भावयेत्तदा || साक्षिभूतो निरीक्षेत कर्माण्यपि च मण्डले | कुंभेमान्तु प्लवयति वह्नावधिकरणन्तथा || पाशौ धमोचनं कुर्यात् शिष्ये तत्र विशेषतः | एवमस्त्वित्यनुज्ञातः शिवेनाधिष्ठितस्वयम् || अद्वैतं भावयेत्तेन पञ्चाधिकरण मात्मना | चिन्त्यविश्वे - अतस्नातं विशुद्धं च शुद्धवस्त्रैश्च संयुतम् | निराहारञ्च श्रद्धालुं शिष्यमग्रे निधाप्य च || अस्त्रमन्त्रं समुच्चार्य प्रोक्षयेच्छिष्यविग्रहे | तस्य दक्षिण हस्ते तु रक्षासूत्रं प्रकल्पयेत् || यागेश्वो भाविते न्यादौ कर्तव्यमधिवासनम् | पौष्करे - वचनाद्यागस्य पूर्वेद्युश्शिष्याधिवासनार्थं मण्टप पूजां कृत्वा कौतुकं धृत्वा विवासयेत् | तथा चिन्त्ये - निर्दिष्ट दिवसात्पूर्व रात्रौधिवासनम् | अभावे तद्दिने वापि क्रियापूर्वेथवा सुधी || सुवर्ण क्षौम कार्पासमुत्तमादीनि सूत्रकम् | तद्विधानमुत्तमम् | सूक्ष्मे - प्. १४१६) स्थालिकां स्थण्डिलैः पूर्व तांबुलञ्चोपदंशकम् | तन्मध्ये विन्यसेत्सूत्रं भस्मधार समन्वितम् || श्वेततांबूल संयुक्तं पूठाबीज समन्वितम् | नालिकेरफलोपेतं तण्डुलोर्ध्वे तु विन्यसेत् || अस्त्रमन्त्रमुच्चार्यप्रोक्षयेत्तु शिवां भसा | आत्मतत्वं न्यसेत्पात्रे विद्या तत्वाक्षते न्यसेत् || भस्मधारे तु मायाख्यं भसिते लकुलीश्वरम् | अनन्तं सूत्रके न्यस्त्वा गण्ड्याद्यैर्चयेत्क्रमात् || कामिके - पादप्रक्षालनं कृत्वा मण्टपे नैरृते दिशी | शिष्यं स्थित्वा तु तत्काले रक्षासूत्रं प्रबन्धयेत् || चिन्त्यविश्वे - अस्त्रमन्त्रं समुच्चार्य प्रोक्षयेत्तु शिवांभसा | उत्तराभिमुखो भूत्वा नैष्ठिकोत्कुटिकासनम् || भौतिकं पूर्व दिक्वक्त्रं पश्चिमास्यमथापि वा | तण्डुलैर्दीक्षितकरं पूर्य सूत्रन्तु भस्मना || अभिमन्त्र्यगुरुस्पृश्य सर्वांगुष्ठविवर्जितम् | तत्वन्तु त्रिगुणीकृत्य शिष्य हस्ते तु वर्द्धयेत् || कवचेनैव तद्धाम भस्मना रक्षणं भवेत् | ब्रह्मादि कारणान्पूज्य हृदयेनैव शास्त्रवै || नैषिकत्वीशमन्त्रेण भौतिकं पुरुषेण तु | प्.१४१७) मकुटे - आपादयेत् स्त्रियश्शूद्रान् सव्य हस्ते तु बन्धयेत् | सव्य दक्षिणवामयोरित्यमरकोशे उक्तत्वात् तद्वा हस्तेन वद्वर्जनं कार्यं तदुक्तं कामिके - अग्नि कार्यन्तु संपूज्य कौतुकं बन्धयेत्क्रमात् | चरुं हुत्वा चयेनैव कारयेदरिवासनम् || शिष्याणान्दक्षिण हस्तेनारी * वामहस्तके | गुरुस्ततः पश्वकरे गृहीत्वा यागमन्दिरात् वहिर्निणत्य विप्रादीनामुत्तरं इत्युत्तरद्वारे वा सर्वसाधारण पश्चिम द्वारे वा मण्डलं कुर्यात् | तथोक्तम् | विप्रस्य चोत्तरद्वारं पूर्वद्वारं नृपस्य तु | याम्ये वैश्यस्य विज्ञेयं शूद्रस्यैव तु वारुणम् || सर्वेषां पश्चिमद्वारं अथवा सम्यगाचरेत् | मकुटे शेष उक्तः - पूर्वद्वारं प्रशस्तन्तु ब्राह्मणानां विशेषतः | क्षत्रियदक्षिणद्वारं वैश्यानामुत्तरं शुभम् || शूद्राणां पश्चिमद्वारं विशेषन्तु महेश्वर | सर्वेषामपि वर्णानां दक्षिण द्वारमुत्तमम् || एवं द्वारनियमस्योक्तत्वां कामिके सामुदायिकेन नोक्तम् | तथा द्वारस्य सम्मुखे तत्र प्रणवे कुशमण्डले इति | तत्तदनुगुण्ये द्वाराग्रे तस्य मुखं करमानं कान्तं चतुरश्र - प्. १४१८) दक्षिणोत्तरस्थं स्थानमण्डलद्वयं गोमयेनास्त्रमुच्चार्य विलिप्यो दगग्रान् कुशाक्षतान् पूर्वाग्रान्वा विन्यस्यात्र षडुत्थासनं प्रणवासनं वा प्रकल्पयेत् | यद्वा सुप्रभेदे - समालिप्य शिवाग्रे तु चतुरश्र समन्ततः | पिष्टचूर्णैरलंकृत्य दर्भैरास्तीर्य पुष्पकैः || ईशानमध्यमे स्थाने वक्त्रमैन्द्रे तु बुद्धिमान् | अघोरं दक्षिणे चैव पश्चिमे सद्यमेव तु || उत्तरे वामदेवन्तु आग्नेययां हृदयेन तु | देवशिष्यस्तु नैऋत्यां शिमास्तु वायुदेशके || कवचत्वीश दिग्भागे तत्तन्नाम्ना समर्चयेत् | एतेषाञ्चैव शिष्याणां एकैकन्तु पृथक् पृथक् || तदूर्ध्वे स्थापयेच्छिष्यान् शिवध्यान परायणानिति | भौतिकशिष्यं पूर्वाननं पश्चिमाननं वा नैष्ठिकश्चोत्तराननम् | विन्यस्य स्वयं तदन्याभिमुखास्थित्वा शिष्य शरीरशुध्यर्थं सकुशं पञ्चगव्यं त्रिधा प्राशयित्वान्यमण्डल चाचम्य गुरु मूलमन्त्रेण दिव्यदृष्टया मूर्धादिपादान्तं भुक्तिकामालोकयेत् | पादादिमूर्द्धानां मुक्तिकाममवलोक्य हुं फडन्तास्त्रेण मन्त्रस्थानार्थं अर्ध्यांबुना संप्रोक्ष्य वौषडन्त कवचेनाभ्यक्ष्यास्त्रेण दर्भाग्रेण नाभेरूर्ध्वी मार्जनाय त्रिवारमुल्लेखयेत् | नाभ्यथस्तात्कुशमूलेनास्त्रेणा घमर्षणाय त्रिवारमुल्लिख्य शिष्य - प्. १४१९) हृत्पद्मे मण्डलत्रयं विभाव्य तत्रस्फुरतारकारं जीवमादिवाहिक देहास्थितं विभाव्य हुं फडन्तास्त्रेण सर्वगुणसंपत्यर्थं आत्मानं संताड्य ओं हां हं हां आत्ममूर्तये नम इति तन्निरुध्य तत् शरीरं संहितया विन्यस्य शिष्यमस्तक शिअमष्टपुष्पिकया अर्चयित्वा ललाटे तिलकन्दद्यात् | सन्ताने - देवांगैश्च दुकूलैर्वा रक्तपटटेन वा पुनः | अथ कार्पासकैर्वापि अत्र बद्धन्तु कारयेत् || नेत्र बन्धन्तु कर्तव्यं प्रासादेन तु मन्त्रतः | श्वेतञ्चैवोत्तमं विद्यात् रक्तवस सन्तुमध्यमम् || अधमं कृष्णवस्त्रन्तु तस्मात् कृष्णं विवर्जयेत् | कालोत्तरे - जीर्णेन स्फुटितेनैव दग्धेन मरणं भवेत् | तस्मात्सर्व प्रयत्नेन शुद्धवस्त्रेण बन्धयेत् || वीरतन्त्रे - उत्तमद्वादशं हस्तं मध्यमं दशहस्तकम् | अधमञ्चाष्टहस्तञ्च पञ्चतालन्तु विस्मृतम् || सदा दशाहवस्त्रेण नेत्र बद्धन्तु कारयेत् | तल्लक्षण मत्रोच्यते - ईसद्धौतं नवं श्वेतं सदशं यत्तधारितम् | अहतं तद्विजीयार्च सर्वकर्मसुपाचनम् || प्. १४२०) सन्ताने - षडंगेन तु मन्त्रेण प्रोक्षयेत्तु शिवांभसा | नेत्रमन्त्रं जपेत्तत्रनववस्त्रेतु देशिकः || वस्त्रयुग्मेन देवेशि नेत्रबद्धन्तु कारयेत् | इत्थं पटंनिरीक्षणादिशुद्धिविहाय मूलेनाभिमन्त्र्य षडंगेन वर्मणावकुण्ठयास्त्रेण संरक्ष्य नेत्रे समाच्छादयेत् | तदनु - उत्तमन्दश निष्कञ्च मध्यमञ्चाष्टनिष्ककम् | अधमं पञ्च निष्कञ्च स्वर्ण पुष्पन्तु कारयेत् || दरिद्राणान्तु सर्वेषां यथा लाभेन योजयेत् | चिन्त्यवेश्वे - शिष्याञ्जलि पुटे पुष्पं क्षिप्यस्यैव सुवर्णकम् | एवं कृतमेकतमं स्वर्णपुष्पादिकं तद्धस्ते निक्षिप्य दक्षिणहस्तं गृहीत्वा गुरुर्यागमण्टपं त्रिधा प्रदक्षिणी कृत्य तत्तज्जातीत्युचित द्वारेण तं प्रविश्य देवस्य धाम्ने षडुत्थासने प्रणवासने वात्वे * क्तव्य वसितं शिष्यमरियोपवेशयेत् | सदा नेत्रपट्टोयस्तदन्येषां दर्शयेत् पश्मनद्वासनायै वपाशबीजायते पुनः | तेन तन्तेत्रं बध्यात् पशुपाश विघट्टनम् | इति स्मृत्वा नेत्रपटं प्रसारयेत् | अयमात्मा शिवत्वाहश्शिथिली तत्रबन्धनः | निजशक्त्या मयेवायं पाशवृतोपि मद्वशः | प्. १४२१) तदमृत् ताम्रसंस्थानं स्वगुणोदयं योग्यकम् || स्पर्शयै मणि प्रख्यश्शिवोहञ्च परं प्रभुः | संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् || करोमि गुणसंपन्नयथा शास्त्रमनिन्दितम् | इति विज्ञाप्य मण्डलेशस्य दक्षिणे विप्रक्षत्रियोस्थितम् | वामे वैश्यशूद्रयोः कुर्यात् | तदुक्तं ब्रह्मशंभुवादैः | तद्दक्षिणे ततस्तिष्ठेत् ब्राह्मणः क्षत्रियस्तथा | वामांगभागे वैश्यस्तु शूद्रश्चैवाज्ञयो गुरोरिति || विषासोत्तरे विशेष उक्तः | ईशान्यां यतयः स्थाप्य विप्राचोत्तरतस्थिता | शिवाद्दक्षिणतस्थाप्य क्षत्रवर्णसमुद्भवम् || वैश्याः पश्चिम दिग्भागे शूद्रावै निर्-ऋतेन तु | शिवा द्वर्ध्यस्य दिग्भागे संस्थाप्य योजयेदयम् || एवं संस्थाप्य विधिवत् कुर्यात् पुष्पाञ्जलिक्रियाम् | एवमुक्त क्रमेण स्थित्वा पुष्पक्षेपं कारयित्वा शिष्याय मण्डलं दर्शयेत् | ईशानेन तु मन्त्रेण पुष्पाञ्जलि समाहरेत् | प्रदक्षिणत्रयं कृत्वा वाममन्त्रेण दापयेत् || यस्मिन् वक्त्रे वसेत्पुष्पं नामगोत्रं तदात्मकम् | तन्मन्त्रं सिध्यते तस्मात् कुरुते वा प्यतुग्रहम् || प्. १४२२) ईशानस्य दले व्यधी* ग्नेययां शोकजन्तु वा | नैरृत्यां श्रीकरं प्रोक्तमनायुष्यन्तु वायवे || चतुर्दिक्षु च विप्रेन्द्र तच्छरीरमिति कर्णिके पतिते पुष्पे सुखञ्चैव भवेत्तदा | एकाध्वरीक संस्कारमिहतां गृहमेधिनाम् | सदारापत्यपत्यानां नियोगः परिकीर्तिता || गृहमेधिमये यागे पुष्पपातं विवर्जयेत् | अत्रैव विनियुक्तस्य त्रिधा च नतु कारयेत् || स्वानिने पतिते पुष्पे स्त्रियस्वपतये यदा | महादोषमवाप्नोति मखेन परिपालिते || सर्पिषा होमयेदग्नौ शिवेनतु शता हुनेत् | अनेन विधिना देवी दोषहीना भवेद्गुरुः || तत्पात स्थानमन्त्राद्यं शिवदेवकण्ठगणान्तक मनुलोमानां तदुपजीतमसच्छूद्राणाञ्च सर्वेषां शिवनामाथवापितृवत् सर्वासां स्त्रीणां नामकरणं विदध्यात् | तथा कामिके - तत्पात सूचितस्थानपूर्वं शिवपदोत्तरम् | नाम आचार्य विप्रस्य देवकण्ठ गणान्तकम् || क्षत्रिय विट्छूद्रजातीनां स्त्रीणां शक्त्यन्तसंज्ञितम् | शिवनामाथ सर्वेषां सर्वस्सर्वत्रवा मतम् || प्. १४२३) ज्ञानरत्नावल्याम् - देवान्तं कुलजे शूद्रे असत् शूद्रे गणान्तकम् | श्रीमन्मृगेन्द्रे - शिवं विप्रनृपन्देवं वैश्यं गणविभावयेत् | शूद्राणां सर्वनामानि कारयेद्देशिकोत्तमः || कारणे - शिवान्तं ब्राह्मणानाञ्च देवान्तं वै नृपस्य तु | धर्मान्तं वैश्यजातीनां शूद्रस्य तु गणान्तकम् || सर्वेषामनुलोम्ताञ्च सिद्धान्तं शिवस्य ते | शिवान्तं वाथ सर्वेषां अथवा समुदीरितम् || तत्तज्जात्युक्त नारीणां स्त्रीलिंगान्तन्तु पूर्ववत् | मृगेन्द्रे - शिवान्तिक द्विजेन्द्राणा मितरेषां गणान्तकम् | चिन्त्यविश्वे विशेष उक्तः | देवान्तं सर्वजातीनां नामथेयेविधिर्भवेत् | ब्रह्मक्षत्रियजातीनां सिश्वान्तं नामधेयकम् || तयोस्सञ्जातयोगानां शिवान्तं नामधेयकम् | वैश्यशूद्रसुतानाञ्च देवान्तन्नामधेयकम् || गणान्तं वाथयेदेवमन्येषां पितृवद्भवेत् | अकारश्च इकारश्च उकारश्च तथैव च || एकारश्च तथोकारं पञ्च स्वरमिदं भवेत् | आयुरारोग्य लक्ष्मीञ्च क्षयमंरणमेव च || प्. १४२४) यथासंख्यं भवेत्सिद्धि तस्माद्देवं विचारयेत् | शिस्यपूर्वाभिधानस्य नामाद्यक्षर निश्चयम् || ज्ञात्वायुरायुत्रितये येषामेकन्तु दापयेत् | क्षयं मरण कारिण्यौ द्वौ तत्र परिवर्जयेत् || दद्यान्नाम शिष्याणां स्वेच्छया वा गुरुत्तमः | भक्तानाञ्च गणानाञ्च नामधेयञ्च कारयेत् || अंगनानां विशेषेण शक्ती नाम च दापयेत् | हृदयाद्यावरणञ्च तत्स्थाने पुष्पपातनञ्चेत् || तत्तदनु गुण्येन विप्रादीनां नामधेयं कुर्यात् | इत्थं नामधेयं कृत्वा शिवस्य दक्षिणे पूर्वे वा मण्डलं विधाय तत्र प्रणवासनं कल्प्य देवस्याभिमुखं शिष्यमुन्नतदेहकं प्रवेश्य हुं फडन्तास्त्रेणांगुष्ठतर्जनी प्रेषित पुष्पेण शिष्य हृत्पद्मे सन्ताड्य नाडी मार्गेणीतद्देहं प्रविश्य संहारमुद्रया तच्चैतन्यं संहृत्य ओं हां हं हां आत्मने नमः तस्य हृदय कमल कर्णिकायां निरुध्य संरक्ष्य पृथिव्यादि पञ्च धारणादिभिर्हृत शुद्धिवच्छुद्धदेहं संशोध्याप्लाव्य सकलीकृत्य शिहस्तं कल्पयेत् | अनेनारब्धमात्रस्तु पशवः पाशगौरवात् | निष्कान्ताशिवतां यांति स्वच्छन्दा विगतज्वरा || इति रुद्रेश्वरपददायकम् | शिवहस्तं शिष्यमस्तके विन्यस्य - प्. १४२५) तेजोरूपं ध्यात्वा प्रासादोच्चारणेन सह पाशे संहारानुगुणं हृद्बिन्दुं ब्रह्मबिलं द्वादशान्तं नीत्वा पाशसंहारा * * गुणसमस्त पाशनिवह निवारणम् | शिष्यमस्तके संनिवेश्य नेत्रपटमावक्ष्य तच्छिष्यदक्षिण कर्णे शिवमन्त्रमुपदिश्य तत्पटमवसार्य सर्वांगालंबनं कृत्वा | ततः मण्डलं कुण्भस्थञ्च तेनैव पुष्पाञ्जलिन्दापयित्वा प्रदक्षिण त्रयसहितं साष्टांगं प्रणम्य कुण्डसमीपं शिष्यं नीत्वा दक्षिणदिग्भागे गोमयेन मण्डलं कल्प्य तत्र प्रणवासने भौतिकं शिष्यं स्थाप्य नाडीसन्धानर्थं मूलमन्त्रेण दर्भमूलं शिष्यहस्तं दत्वा तदग्रं देशिक स्वजंघासन्धौ संयोजयेत् | नैष्ठिकश्चेत् कुश्म्मूलं स्वजंघायां विन्यस्य मूलमंत्राभिमन्त्रितं कुश तदद्धैस्तेन दत्वा कुशच्छलेन बिसतन्तु निभां शिष्य नाडीं पिगलया विनिर्गत्य स्वानाड्या मिडया प्रविश्य कुंभकेन विलीनेति विभाव्य स्वस्मिन् तान् रेचके कुंभस्थण्डिल बाह्यं शैरपि परया नाडीं सन्धाय तत्सन्धानार्थं मूलेन ओं हां इडायै स्वाहा ओं हां पिंगलायै स्वाहा ओं हां सुष्म्नायै स्वाहा इति नाडत्रयं सन्तर्प्य शिष्यशिरसि संहिताया संपात होमं विधाय शिवकरकल्पनुस्थोर्यार्थं मूलेनाष्टोत्तरशतं हुत्वा ब्रह्मान् गान्तद्दशांशतो हुत्वा पूर्णां विधाय प्रयश्चित्तार्थं मूलेनाष्टोत्तरशतं पूर्णान्तं हुत्वा संहितया मन्त्रानुपदिश्य तेन प्. १४२६) शिवार्चनं कारयित्वा ततो गुरुं नमस्कृत्वा पश्चात् शरीरादीन् समर्पितस्यानुष्ठेयार्थान् समयान् ब्रूयात् | तथा चिन्त्यविश्वे - विनीतं शिष्यमाचार्य करुणादवलोकयेत् | मदीयाज्ञा प्रसादेन कर्तव्यं त्रितयस्तु तत् || दान धर्म तपश्चर्यात् कुर्वीत्येते ददेद्गुरुः | वंशं वृक्षञ्च गोत्रञ्च गोचरञ्च तथैव च || सन्तानं पञ्चकञ्चैव मेवं शिष्याय सद्गुरुः | मर्मामर्दकं वृक्षं वटं गोत्रं तथैव च || शुद्धतत्वा समाख्यातं गोचरं शिवमुच्यते | सन्तानं तन्दिकेशारव्यं श्रावयेत् शिष्यकान् प्रति || आमर्दकमठात्रीणि मठानिरभद्रगोलकीपुष्प गिरीत्येत त्रयाणां तत्तत्सन्तानुगुण्येन शिष्यमठादि पञ्चकं श्रावयेत् | प्रोक्षयेत् कुंभतोयादि तत्तन्मन्त्रेण देशिकः | कामिके - सामान्य समय * स्तु तस्तु माहेश्वर स्मृता | जात्युद्धार विहीनो यस्सामान्यस्समयी भवेत् || शिवलोकं नभो गच्छेच्छिवहस्त प्रभावतः | यथा दीक्षायां शिवार्चनस्य शिष्यशुश्रूषणायां योग्यो भवति | सामान्य दीक्षेति कथ्यते | तथा बालज्ञानरत्नावल्याम् - सामान्यस्समयीत्येवं कुर्यात् शुश्रूषणार्चने | प्. १४२७) तथा सौ शर्वयागेषु प्रवेशाद्यधिकारभाक् || इति व्याघ्रपुरवासि वामदेवात्मज वेदज्ञानविरचित दीक्षादर्शे समय दीक्षाविधिः | || अथ संस्कारदीक्षा विधिः उच्यते | यथा तु निर्णात्युद्धारणे वा बोद्धारणे वा शिष्य संस्कृयते सांसंस्कार दीक्षायतोनैर्वाणकीनस्याद्विजत्वापातनं व ना | अतस्तस्य द्विजत्वञ्च यथाशास्त्रं निगद्यते | उक्तञ्च नाडिजो युज्यते सि * न्न च निर्वाणमश्नुते | ननु यस्य वैदिकं द्विजत्वं नास्ति तस्य द्विजत्वमिह युक्तमपादयितुम् | यस्य पुनर्वैदिकद्विजत्वं विद्यते तस्य पुनरपि द्विजत्वापातनमयुक्तम् | अव्यवस्था हेतुत्वात् | सत्यम् | तद्वैदिकद्विजत्वं शरीरस्यैवोक्तं तन्न चात्मनस्तथा च स्मृतिः | कार्यश्शरीरसंस्कार पावन प्रेत्यहादिति च | गाहैहोमैजातकर्मवौलमौजाति बन्धनैरिति श्रीमत् पराख्ये | असंस्कृतस्य विप्रस्य यतोनाध्ययनं भवेत् | तावत् शूद्रसमस्तस्य यावच्चासौ न संस्कृतः || जातिमानपि यो विप्रो यस्मान्नात्र स्वपाकग | * * * पतनाचारस्तद्गतस्तत्समो भवेत् || प्. १४२८) तेन संस्कारमुख्यत्वं वेदे विप्रतिपादितम् | किं पुनश्शिवशास्त्रेस्मिन् अपेक्षा रहिता परे || ततस्तत्संस्कारेणात्र प्रयोजनन्नस्ति यतस्तस्मिन् वैदिकद्विजत्वे सत्यपि कर्मायत्तागतिरित्यथा च स्मृतिः | जन्मना ब्राह्मणो वा स्यात् शूद्रजो वान्त्यजोपि वा | भविष्यकर्मणा क्रान्ता तत्कर्म कृतवृद्धयः || शान्ता क्रूराश्च चेष्टन्ते स्वर्गाय नरकाय च | मृतो प्रसव चण्डालो ब्राह्मणो वा भवेत्स च || तथा महाभारते - पशवोपि यथा देव देवाश्च पशवस्तथा | ब्राह्मणाश्च तथा श्वान् श्वानश्च ब्राह्मणास्तथेति || तस्मादत्रात्मसंस्कारोप्यभिमत न श्रीरस्य इत्थं शैवेन देहस्य संस्कारिदेतस्य जडत्वान्नसंयोगवियोगयोः निकृष्टबान्धवादि संबन्धासंबन्धयोर्न संस्कारः | जात्यन्तर परिणामात् | न चोत्पत्ति नाशाभ्यां साधकविशिष्टस्य शरीरादेरुत्पत्यर्थन्निकृष्टस्य च विनाशार्थन्न संस्कारः | नापि जाते स्संस्कारो विधीयते तदेतस्मिन् क्षितेखिलदीक्षा संभवात् | अपि तु ब्राह्मण्यं न चात्मनः देवादिरूपता स्वभावात् संभवति न जातियुक्त श्रीरसंयोगाच्च चेतनस्य चित्त्च्छक्ति युक्तस्यापि शुद्धस्याण्वादिमलत्रय युक्तस्य क्षेत्रस्य शरीरिण स्वभावात्मकर्तुस्तस्यैव संस्कार इति | प्. १४२९) तथा किरणे - भगवानुवाच - न जानेर्न शरीरस्य संस्कारप्रणनो मतः | यदि जाते तदेकस्मिन् दीक्षिते खिलदीक्षितः || तेन जातेर्न वक्तव्य स्तत्वानां न तनोर्मतः | चिद्रूपानुग्रहः प्रोक्त सर्वानुग्राहकाश्शिवः || तथा श्रीमद्रौरवे - न शरीरस्य संस्कारो न संयोगवियोगयोः | न चोत्पत्ति विनाशाभ्यां नापि जातेर्विधीयते || चेतनापि शुद्धस्य क्षेत्रज्ञस्य शरीरिणः | ज्ञस्वभावात्मनः कर्तुस्तस्य संस्कार इष्यते || तथा कालोत्तरे - न शरीरस्य संस्कारो न जातेर्न च कर्मणः | आत्मनः कारयेद्दीक्षा मनादिमलकुण्ठितः || शिरोधस्तस्य कर्तव्यो मन्त्रैश्च विषशक्तिवत् | दीक्षैव मोक्षदापुंसां चिदचिद्वयक्ति कारिणी || एवं विशिष्टस्यात्मनः शिवतत्वाभिव्यक्तये संस्कारः | अथ संस्कारदीक्षार्थं दिनान्तरपक्षे समयोक्तवत् || शिष्यप्रवेशादि नाडि सन्धानार्थं कृत्वा विशेषदीक्षां आरभेत् | एकाहपक्षे समयदीक्षानन्तरं कार्यम् | प्. १४३०) चिन्त्यविश्वे - अथ क्रमेण संस्कार दीक्षालक्षणं शृणु | मण्टपं मण्डलं कुण्डं स्थण्डिलं लिंगपूजनम् || यथा समयदीक्षा च कलशेत्वाभिषेचनम् | अष्टविद्येश्वराद्बाह्ये शेषं पूर्ववदाचरेत् || पूर्वशिष्योक्तसंस्कार * वादं श्रद्धापूर्वं कृतं यदि | अक्रोध भक्तिविश्वास गुर्वाज्ञापालनं सदा | चतुष्टय समायुक्तस्सर्वक्लेश विवर्जितः || गुरुद्रोह शिवद्रोह समयद्रोहकर्मकृत् | अदीक्षितेन बन्धुत्वं कृतघ्नत्वा विवेकतः || गुरुदोषावलोञ्च एतैरष्टगुणैर्हीनाश्शिष्यस्संस्कारमर्हति | विपरीतगुणं शिष्यं दीक्षयेत् समये पुनः | पश्चात्संस्कार दीक्षायां अन्ते वासि भविष्यति || मण्डलाद्यग्नि पूजान्तं कृत्वा वै देशिकोत्तमः | अथमधीयपर्यंके शुद्धतत्वोपधानके || कुटिलास्तरणे शुद्धविद्यादीपक्रियात्मिकम् | शक्तिं वागीश्वरीन्देवीं वागीशञ्च सदासदाशिवः || इत्युक्तत्वादीदृक्भूतौ पितरौत्वा शिष्यमस्त्रांबुनास्त्रेण प्रोक्ष्य ओं हं हुं फडिति सप्ताभिमन्त्रित कुसुमेन शिष्यहृत् प्रदेशे पाशानां शैथिल्य हेतवे ताडयित्वा ओं हुं इति प्. १४३१) वामनास्य हृदयेन भेदनञ्च रेचकेण शिष्यहृदयं प्रविश्य तत्तं स्फुरत्तारकारशिष्यचैतन्यं विचिन्त्य ओं हां हं हूं फडिति ज्येष्ठया विश्लेष्य ओं हां हं हां आत्मने नम इत्यंकुश मुद्रया गृहीत्वा तदीयं चैतन्यं द्वादशान्तं नीत्वा तृणाग्र बिन्दुरूपं जीवं विभाव्य ओं हां हं हां आत्मने नम इति संहारमुद्रया संहृत्य पूरकेण स्वहृदि संनिवेश्य कुंभकेनात्म शिरो समरसीकृत्य हृदादिग्रन्थि भेदेन ज्वल ज्वलनकिरणोपेतं मूलमन्त्राग्रस्थ मूर्ध्वशक्त्यन्तं नीत्वा तृणा ब्रह्मादि कारणत्याग पुरस्सरंगत्वा द्वादशान्ते समरसीकृत्य पूरकेण संहारिण्या ओं हां हं हां आत्मने नम इत्युद्भवमुद्रया द्वादशान्तात् संगृह्य सृष्टया * * * मानीय दक्षिण नाड्या निस्सार्य ओं हां हं हां आत्मने नम इति वागीशि योनौ वागीश्वरेण शिवबीजमित्यात्मानं ध्यात्वाक्षिप्यमाणं विभाव्य गर्भाधानादि संस्कारानापादनाय शिवं संपूज्य शिष्यस्य भू * नि भविष्यन्ति च | शुभाशुभाकर्माण्यग्नि वर्णशब्दगन्धशिखेन लक्षणैरूह्यते तदुक्तं श्री कालोत्तरे - आदित्यो भयवर्णाभं सिन्दूरसदृश प्रभम् | इन्द्रकोपि निभं प्रख्यं काश्मीर सदृश प्रभम् || एते षोडशसद्वस्तु सिद्धिदाजातवेदसा | प्. १४३२) वीणा किन्नरवच्छब्दं मुरजध्वनिरेव च | उडुकास्वरप्रधानन्तु फलकास्वरमुत्तमम् || वंशध्वनि प्रधानन्तु घण्टाध्वनि शुभं भवेत् | कर्पूरागरुगन्धन्तु चन्दनं पूरकेशकम् || काश्मीर मृगनालञ्च कुष्ठं पालकमेव च | जातितके काल कटुक कुटी च मीन गन्धकम् || पत्रं कुसुमगन्धञ्च शुभगन्ध हुताशनम् | अर्चिष्मात् पिण्डितशिखी शुद्धकाञ्चन सप्रभम् || स्निग्धप्रदक्षिणावर्तो जातवेदास्तु सिद्धिदम् | अर्चिष्मान् पिण्डितशिखी शुद्धमाणिक्कस प्रभः || महासिद्धिमवाप्नोति मृत्युं जित्वा न संशयः | पूर्वे वा वारुणे वापि सौम्ये वापि शिखा भवेत् || पूर्वे तु चार्थसिद्धिस्तु वारुणे शान्तिकं भवेत् | सौम्ये वै मृत्युनाशन्तु ऊर्ध्वे सर्वार्थकामदः || आग्नेययामग्नि दग्धन्तु शिखा याम्यन्तु मृत्युदा | नैऋत्यां युद्धमरणं वायव्यां कलहो भवेत् || ज्ञानोयोग प्रदैशान्यं शिखा निष्क्रान्ति लक्षणम् | ऋषभध्वनिको वन्हिरगम्यागमने भवेत् || मृगदूर्ध्वरवच्छब्दं स्नषयागमने भवेत् | मण्डूकवद्भवेच्छब्दं दुहित्रागमनं भवेत् || प्. १४३३) ख वच्छब्दो भवेद्वन्हि मात्रा च गमनं भवेत् | बिलालध्वनिभच्छब्दो गुरुतल्पमवाप्नुयात् || चकटध्वनिते वन्हि सुपुत्री मरणं भवेत् | सुवर्णस्य भवेच्छब्दं वर्णसप्तमेव च || तटिन्निभध्वने वन्हि श्रुत्वाहुति च कर्मणि | भार्या मरणमाप्नोति नात्र कार्या विचारणा || समुद्रघोषवच्छब्दं महाशब्दमथापि वा | या सा मरणमाप्नोति इति सत्यषडानन || लशुनं गन्धस्याग्निक्षयरोगमावाप्नुयात् | हिंगुगन्धो भवेदग्नि पाण्डुरोगमवाप्नुयात् || शुभाशुभमिहप्रोक्तं एवं शिष्यस्य षण्मुख | तथा दीप्ते - वर्णगन्धञ्च शब्दञ्च धूमञ्चाग्निशिखे रणम् | षट्चिन्हानि च वन्हेस्तु ज्ञात्वा कर्मसमाचरेत् || वर्णमेकादश ज्ञेयं गन्धञ्चैव त्रयोदश | शब्दञ्च पञ्चधा ज्ञेया चतुर्थद्धूमलक्षणम् || पञ्चधा वै शिखाञ्चैव ईणद्वादशं स्मृतम् | सिद्धासिद्धिञ्च लिंगानि पञ्चादशभिधीयते || ग्रन्थ विस्तरभीत्या तु लक्षणं नात्र लिख्यते | इत्येवमादि चिन्हैश्शिष्यकलमषं गुरुज्ञाय पापभक्षणं देवं ध्यात्वा तन्मन्त्रेण जुहुयात् | प्. १४३४) तथा | पापभक्षण देवस्य रूपं भिन्नाञ्जन प्रभम् | लेलिहानन्दुराधर्षं मेघनाद सुदुर्जयम् || विव्रतास्यं महादंष्ट्रं रक्तवस्त्रं त्रिलोचनम् | रक्तमुक्त जटा चूड सर्पमण्डलमण्डितम् || शूलकासिधरं भीतं वरदाभयपाणिनम् | व्याघ्रचर्मपरीधानं नागयज्ञोपवीतिनम् || बद्धपद्मासनासीनं ध्यायेद्धोराघनाशनम् | इति ध्यात्वा - ओं सक्षहं विधाय स्वाहा | इति नवात्ममन्त्रेण लघु पापनाशनार्थं शतं जुहुयात् | गुरुञ्चेत् | ओं खड्गहस्त कमलं रूण खट् पट् पापभक्षणाय स्वाहा | इत्यनेन मन्त्रेण सहस्रञ्जुहुयात् | शिथिली भूत बद्धस्यात्मन श्शक्तादुत्कर्षणं रुद्रपुत्रत्वं गर्भाधानं स्वातन्त्र्यात्मगुणाभिव्यक्ति पुंसवनमायात्मनोर्विवेकं सीमन्तोन्नयनम् | शिवादिवस्तुवीकरणञ्जननं शिवत्वाहस्य शिवत्वन बोधनम् | नम इत्याभिश्शिव वाक्यैरुक्तत्वात् विप्रादीनां तत्तज्जात्युक्त मन्त्रेण जात्युद्धारं विदध्यात् | संकीर्ण जायश्शोध्याश्शिवास्त्रेण महौजसा वर्मणाशूद्रश्शतिस्तु विट्जातिशिखया हुनेत् | संशोध्यं क्षत्रजातिस्तु शिरसाणोर्विपश्चिता पञ्चाहुति समायोगा द्विप्रजाति स्तु जन्मनाम् | प्. १४३५) स्कन्दकालोत्तरे - अवान्तरशैवानां जात्युद्धारणानन्तरं षोडशक्रियाकार्या इत्युक्तम् | जात्युद्धारण होमन्तु एकैकन्तु शतं शतम् | दुहेद्वै शूद्रजातिस्तु अनलेन तु षण्मुख || सत् शूद्रत्वं योजयित्वा क्रियां वै षोडशं कुरु | साक्षाद्विप्रत्वमाप्नोति पश्चाद्दीक्षां कुरुष्वथ || वर्णानाञ्चैव मेवन्तु कारयेद्विधिना बुधः | इति तत्प्रकारस्तु कामिके - विप्रादयोपि शूद्रा स्यात् गुणतस्तस्मात्समुद्धरेत् | शूद्रजातिसमुद्धृत्य स्वाहान्तेनैव मूलतः || हुत्वा हुतित्रयं पश्चात् शिवं प्रतिपदेदितम् | आहारभाव दोषाभ्यां योनिबीजशरीरतः || शुद्धाद्विजो भवत्वात्मा भगवन् परमेश्वर | शूद्रांशापतनेत्येवमाहुति त्रयमा चरेत् || अयं रुद्रो भवत्वात्मा भगवन् त्वत्प्रसादतः | इति विज्ञप्य शूद्राभावं द्विजत्वापातनया रुद्रांशत्वा पातनया पृथक् पृथक् स्वाहान्त मूलेनाहुतित्रयं वा पञ्च ब्रह्मशतं वा जुहुयात् | तस्मच्छिव धर्मानुष्ठातानां पृथक् पृथक् जात्युदीरणन्नारकी भवति | तथा स्वच्छन्दे - पुत्रकाणां धायकानां समयिनामपि | प्.१४३६) प्राक्जात्युदीरणादेवी प्रयश्चित्तं भवेन्नरः || दिनत्रयन्तु रुद्रस्य पञ्चाहं केशवस्य तु | पितामहस्य पक्षेन पाके पच्यते तु सः || ब्राह्मणक्षत्रिया वैश्याश्शूद्रा वा परमेश्वरी | आचार्यत्व नियुक्ताश्च ते सर्वे तु शिवा स्मृता || अन्यथा प्राक् स्वरूपेण ये पश्यन्ति नराधमाः | नरके ते प्रपच्यन्ते सदारैर्वत्सर त्रयम् || देविकालोत्तरे - वर्णावण विचारो यस्सनरः पातकी भवेत् | शिवधर्मे - स्थवरं जंगमञ्चेति द्विविधं लिंगमुच्यते | स्थावरं स्थापितं लिंगं जंगमं दीक्षितं विदुः || जंगस्यावमानेन स्थावरे निष्फलं भवेत् | तस्माल्लिंगद्वयं प्राज्ञो नावमन्येत सर्वदा || कृतावमानो यो मोहात् स पशुर्नात्र संशयः | तथा चिन्त्यविश्वे - स्थावरं जंगमञ्चैव द्विविधं लिंगं पूजनम् | लिंगादि पूजनं तत्र स्थावरं नन्दिकेश्वर || लिंगादिपूजनं तत्र जंगमाराधनं परम् | पूजाकाले तु सान्निध्यं स्थावरे शिवतेजसि || प्. १४३७) जंगमे सर्वकालेव सान्निध्यं कुरुते शिवः | जंगमस्यावमाने तु स्थावरं निष्फलं भवेत् || दीक्षा योग्यस्तु जातीनां दीक्षितस्य विशेषतः | जाति भेदविशेषोस्ति दीक्षितानान्तु सर्वदा || वागीश्वरीगर्भगेहात् गतत्वाच्छिव पुत्रत | तस्यापत्यत्व सिद्धित्वाच्छैव इत्यभिधीयते || शिवलिंगे शिला बुद्धिं कुर्वाण इव पातकी | श्रेष्ठत्वं विद्यते तस्य दीक्षितस्य विशेषतः || यस्य चित्तं शिवेलिंगे तस्य जात्यादिन स्मरेत् | रजतं ताम्रकञ्चापि सीसमायसकन्तथा || पूर्वरूपन्तु संज्ञानं चिन्हत्वं नामभेदकम् | हेमत्व सिद्धौ सर्वञ्च समानत्वं प्रपद्यते || तस्माद्विप्रादिशूद्रान्त दीक्षितानान्तजातिकम् | चिन्त्ये - जातिभेदो न विद्यन्ते सर्वं मानुषदीक्षया | समुद्रोमत्स्यकूर्माश्च कुंभीककटमेव च || सर्वेषां जन्तुगर्भस्य जले चैवोद्भवन्तथा | एवं वै मानुषञ्चैव दीक्षितानां विधीयते || लक्षण समुच्चये - वागीशीञ्जननई यस्य व्योमव्याप्ताया शिवमन्त्रै श्शिवाधवरे जातः स शूद्रः स्यात् | प्. १४३८) कथं भवेत् मृद्बावानां घटादीनां संस्कारान्नमृदो यथा | तथैव पाशहानाश्च न प्राकृत्यस्तु जातयः | नराणां शिवसंस्कारात् शिवत्व न भवेद्यदि || न भवेयुक्तदा नूनं द्विजदेवादि देशिकः | मन्त्रसंस्कारदीक्षाभिस्संस्कृतं गुरुणा सदा || चराचरं प्रपद्येत शिवत्वं तत् क्षणद्ध्रुवम् | अलमति विस्तारेण | इत्थं संस्कार दीक्षायां जात्युद्धारेणाशुद्धजातौ गतायाम् | पुनर्व्यवहाराय तत्तज्जाति मन्त्रेण हुत्वा शुद्धजातिं पकल्पयेत् | तथा कालोत्तरे - व्यवहाराय सर्वेषां शुद्धजाति प्रकल्पते | अशुद्धिं पूर्वजातीनां नाशयित्वा षडानन || ब्राह्मण्यं कल्पये शुद्धिं क्षत्रियञ्च वैश्यताम् | शूद्राताञ्चेति सर्वेषां फलभेद व्यवस्थया || कैवल्यं केवलं राज्यं वित्तं धान्यादि वर्द्धनम् | क्रमादेतत्फलं ज्ञेयं मोक्षसाधारणः पुनः || शक्तिपातस्ततः शुद्धां जातिरेषाञ्च संक्रमे | उद्भवस्तु पुनस्तस्यां सर्वेषां सांप्रतं गुह || पुरुषेणाष्टशतं हुत्वा ब्राह्मण्यं तत्र कल्पयेत् | क्षत्रियत्व मधोरेण वामदेवेन वैश्रुतम् || प्. १४३९) सद्येन शूद्रता योज्या पूर्वोक्ताहुति कल्पना | तथा ब्रह्मशंभुपादोप्युक्तम् - अग्रामाद्यमुपादानं शक्तिः कुण्डलिनी पुरा | तस्यां यस्यात्मनो जन्म साग्रजन्मेहनेतरा || शूद्रत्वं पाशबृंहित्वाशोक द्रोहभवात्मकम् | ब्राह्मणः परमो सद्यो जायते मन्त्रसंस्कृतः || ब्रह्मत्वाद्ब्रह्मस्सदाशिवी तनुः | तत् जन्मा ब्राह्मणस्तत्ज्ञो जानातीति स यस्ततः | एवं शुद्धजात्युदये सति प्राकृतं कुलं नश्यति | शिवादि चतुष्कलं विप्रादीनाञ्चतुर्णां दीक्षितानां क्रमेण भविष्यति | तथा कालोत्तरे - शिवश्शाखा तथा ज्योतिन्नादात्सावित्र संज्ञितम् | दीक्षाकाले यथा मन्त्रो लीयते च शिवादिषु || तत्तद्वरवशान्तत्तत् क्रमात्कुल चतुष्टयम् | क्रमादेतत्रयं ज्ञेयं ब्राह्मणादि चतुष्टयम् || शुद्धजात्युदये नश्येत् प्राकृतं यत्कुलस्थितम् | लक्षण समुच्चये - शिवो विप्र शिवा राजा ज्योतिर्विट्च्छूद्रजातिका | सवित्र इत्यमी वर्णा प्राकृतानो शिवागमे || मोहशूरोत्तरे - शिवाकुलस्थितं शाखे कुले सावित्र संज्ञितम् | प्. १४४०) चतुर्णां संस्थितं क्रौञ्चे चातुर्वर्ण व्यवस्थया | शिवाख्यं शाल्मलिद्वीपे पुष्करं ज्योति संज्ञितः | प्रजानुग्रह हेत्वर्थं एवं कुल चतुष्टयम् || शैव पुराणे वा ईश्वरः | गतं शूद्रस्य शूद्रत्वं द्विजत्वं ब्राह्मणस्य तु | शिव संस्कारसंबन्धात् जातिभेदो न विद्यते || न जीवस्येह विप्रत्वं विप्रस्याप्यथ मन्यसे | मृदे निर्द्दहनादेद्देहे ब्रह्महत्या तदा भवेत् || तेपि पूर्व विचारेण तत्वतो द्विजता नहि | तस्मान्नैवं विचार्यं वै पूर्वजातिश्शिवाज्ञया || जातिभेदः कृतोयेन नायस्तेन शिवाज्ञया | तस्माज्जाति विभेदस्तु कर्तव्यो न शिवाश्रमे || कुलीनं अकुलीनं वा भूतिरुद्राक्ष धारणम् | दृष्ट्वोन्नतासनोस्थित्वा रौरवं नरकं व्रजेत् || शिवदीक्षाभिजातस्य पूर्वजातिं न चिन्तयेत् | सुप्रतिष्ठित लिंगे तु न यथा पूर्वभावना || चिन्त्यविश्वे - नैष्ठिकस्य विशेषेण जातिभेदं न चिन्तयेत् | तत्रैव जातिनिर्णये - दीक्षितो विधिनालिंगी नैष्ठिकोपि विशेषतः | प्. १४४१) तस्य जातेस्तु संबन्धास्त्येवं नन्दिकेश्वर || भौतिकस्य विशेषेण लोकाचारसमन्वयात् | पूर्वजात्या तु वक्तव्यमिति शास्त्रस्य निश्चयः || तदनु विप्रादीनां स्वस्व जात्यभिमन्त्रितम् | वर्णानुगुणसारं वा यज्ञोपवीतं दत्वा मूलेन शतं सहस्रं वा जुहुयात् | कामिके - दद्यात् यज्ञोपवीतन्तु मूलमन्त्राभिमन्त्रितम् | शतं सहस्रं वा हुत्वा पूर्णां दत्वा शिवेन तु || तल्लक्षणं तत्रैवोक्तम् | कार्पासनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् | सूत्रं तदेकं शूद्राणां वैश्यानां द्वितीया भवेत् || त्रिसरं क्षत्रियाणान्तु विप्राणां सप्तसंख्यकम् | यद्वा पञ्चशरन्तेषां नव सूत्रमथापि वा || पुरुषाघोर वामजा मन्त्रा विप्रादिषु क्रमात् | स्वस्वजात्युक्तमन्त्रेण धार्यन्तदुपवीतकम् || क्षत्रविट्छूद्रजातीनां यदुक्तं चोपवीतकम् | पूजादिमात्रकाले तु कार्यं नो धार्णमेव वा || अनुलोमादि वर्णानां युक्तायुक्तं विचार्य तु | तथा षट्सहस्रिकायाम् | * * * * नृपादीनां त्रिद्वेद्येकसरं क्रमात् | प्. १४४२) पूजातं मातृकं धार्यं नोक्तं तेषां विधारणम् || अंशुमान् भेदे माहेन्द्रे - यज्ञसूत्रं प्रदातव्यं ब्रह्मवर्गैर्हि शिष्यशेः | क्षत्रियाणां त्रितन्तु वैश्यजातिद्वितन्तुकम् || शूद्राणामेकतन्तुश्च दीक्षाकाले विधीयते | अन्यकाले तु कर्तव्यं शूद्रजातीन्विशेषतः || सर्वज्ञानोत्तरे - यज्ञोपवीतसूत्रन्तु धारयेद्यज्ञसूत्रन्तु तेजोबलविवर्धनम् | नाभेरुर्ध्वमनायुष्यमधस्तात्तु तपक्षयः | तस्मान्नाभिसमं कुर्यात् उपवीतन्द्विजोत्तमाः || तत्र शूद्रस्य यज्ञोपधारणस्य सामान्यशास्त्रे प्राप्तत्वात् | गृहस्थशूद्रस्य धारणे तत्रैव कालनियमे उक्तः || तद्यथा - अर्चनायामग्निकार्ये वा सन्ध्याकाले च नान्यथा | सुप्रभेदे - ब्राह्मणी राजपुत्री वा वैश्यकन्या यथा पुनः | तिसृभिर्निर्मितं सूत्रमथवा शूद्रकन्यया || अन्यत्र निर्मितं सूत्रं वर्ज्जितव्यं प्रयत्नतः | यज्ञसूत्रञ्च शूद्रस्तु कर्मोपि परिधारयेत् || गोत्रगोचरसन्तान ना चरेत्तान् प्रयत्नतः | नैष्ठिकस्तु सदो कुर्यात् गृहस्थस्य सदा नहि || इत्युक्तत्वात् अस्य गृहस्थस्य सन्ततन्धार्यं चिन्त्यं गोत्रनिर्णयमस्माभिः कृतशैवसमयाचारपद्धत्यां प्रपञ्चितन्त्रावधार्यताम् | प्. १४४३) किञ्च कालोत्तरे - द्विजातीनां अयं धर्मस्त्रीणामेवं प्रकल्पयेत् | स्त्रीणाञ्चैव तु सर्वेषा मनुग्रहार्थं शिवो भवेत् || उमांशत्वात् स्त्रिय सर्वा द्विजत्वादयं विदुः | उपनयनञ्च दीक्षायां कालेचैव विवाहकम् || उपनयनन्तु कारयेत्तु षडानन | आराधन विधानेन शिखा यज्ञोपवीतकम् | द्विजस्त्रीणाञ्च सर्वासां शिखा चैवोपवीतकम् || अधिकारंशिवेनोक्तं द्विस्त्रीणां विशेषतः | तस्मात्सर्व प्रयत्नेन नृणाञ्चैवो पवीतकम् || अग्निष्टोमादिभिर्यज्ञै यजमानः पत्निभिस्सह | मन्त्रेण समिधाक्षेपं मन्त्रेणैव चरुभक्षणम् || वयोव्रतश्च मन्त्रेण सर्वयज्ञेषु चैव हि | शिखा यज्ञोपवीताभ्यां विनायज्ञ क्रियाश्रितः || मूलमन्त्रे च देवे च अधिकारश्चोपवीतकम् | उपवीतं विना सर्वं स्त्रीणां यागन्तु निष्फलम् || शिखा यज्ञोपवीतञ सर्वमेवं विधीयते | एवं विधिं प्रगृह्याथ पश्चाद्यज्ञञ्च कारयेत् || अत्र प्रसंगाच्छिखास्थान लक्षणञ्च निरूप्यते | त * * चा | प्. १४४४) भ्रूमध्यादि नवांगुल्य दत्रे पूर्वशिखास्थलम् | शिखास्थानमिति प्रोक्तं शिवः पूर्वापरक्रमे || एतत्सामान्यमुद्दिष्ट प्रतिनश्च विशेषतः | तत्संख्या प्रमाणमुक्तम् | तथा शतानां स्त्रीगुणामष्टोत्तरशता वा आपिवा | केशानमपि संख्यानां शिखैका परिकीर्तिता || चिन्त्यविश्वे - वैदिकं शैवमित्येवं व्रतं हि द्विविधं भवेत् | त्रैवर्णिकानां कर्तव्य मुपवीतादि वैदिकम् || शिवदीक्षा प्रधानन्तु शैवमत्यन्तमुत्तमम् | तस्माच्छिवाश्रममनुप्रेवशाभिलाषिणे व्रतिने वस्त्रोपवीताजिन दन्तकाष्ठ दण्डकौपीन भस्मशिखामणि जटादिका निरीक्षणादि विशुद्धानि पृथक् पृथक् पात्रेष्वेक पात्रेवमन्तमुक्तम् | संस्थाप्य सद्यादिमन्त्रैरभिमन्त्र्य स्वाहान्त संहितया संपाताहुत्या शुद्धिं कृत्वांगद्रव्यं स्थण्डिलेशस्य संनिधौ दर्शयित्वा कुंभस्याग्रेधिवासयेत् सद्योधिवास पक्षे क्षणमात्रं संस्थाप्य सद्यादिमन्त्रै रभिमन्त्र्य भगवन्तन्त्वस्मै व्रतं दद्याहि आज्ञाप्य देहीति विज्ञाप्य लब्धानुज्ञ तस्मै व्रतांगानि दद्यात् | तथा ज्ञानरत्नावल्याम् - व्रतिनेथ व्रतांगानि पञ्चभूत जिगीषया | प्. १४४५) दण्डकौपीन भस्मानि संयमञ्च शिरोमणिम् || वीक्षणादि शुद्धानि मन्त्रितानि पवित्रकैः | संपाताहुति शुद्धानि कुंभाद्यः क्षणमात्रकम् || निधाय दायशुद्धाय प्रणताय निवेदयेत् | चिन्त्यविश्वे - व्रतांगमेषासर्वेपि योग्यमेव जटाजिनम् | भस्मदण्डञ्च कौपीनन्तथैव च कमण्डलु || पञ्चब्रह्मषडंगैश्च परिजप्य यथोदितम् | न्दिहाय पात्रे स्वाहान्त सहितामन्त संहितान् || तथा कालोत्तरे - वस्तकञ्चोपवीतञ्च अजिनं दन्तकाष्ठकम् | मेखलोष्णीष कञ्चैव कौपीनं भस्म चैव हि || व्रताभिव्यक्त हेतुत्वा व्रतमेतत्तपस्विना | वामदेवेन मन्त्रेण * * * सृञ्च मेखलाम् || अघोरेण तु मन्त्रेण उपवीतञ्च दापयेत् | तत्पुरुषेणैव मन्त्रेण दन्तकाष्ठञ्च दापयेत् || कौपीनं वामदेवेन भस्म ईशेन दापयेत् | तत्पुरुषेण तु मन्त्रेण रुद्राक्षं धारयेत्स्वयम् || द्विजादीनामयं धर्म स्त्रीणामेवं प्रकल्पयेत् | सोपि महाप्रसाद मित्युक्त्वा नन्दाश्रुपूर्णदृक् गृहीत्वा धृत्वा प्रणमेत् | प्. १४४६) प्रणम्य दण्डवद्भूमौ भक्तियुक्तो दृढव्रतः | समादाय व्रतांगानि धारयेत् शिष्योपि संयुता || अथ जटाधर विधिः | विप्रादीनाञ्चतुर्णां क्रमेण जटाधारण क्रममुच्यते | सर्व ज्ञानोत्तरे - ब्राह्मणस्य जटाश्लक्षणाः कनका परिकीर्तिताः | स्थूल तद्विगुणा ज्ञेया क्षत्रियस्य व्ययन्तरा || वैश्यस्येका शिखास्थाने तथा शूद्रस्य कीर्तिताः | हृत्वा श्लक्ष्णाक्ष संयुक्ता संयतस्य जितेन्द्रियः || ननु ब्राह्मणानां जटाभस्म धारादिनास्तीति केचिद्वदन्ति | तदसत् | श्रुतिस्मृतिपुराण विरोधात् | तथा गौतमीयसूत्रे | चौलकर्म द्विजादीनां त्रयाणां विशेषतः | प्रथमाब्दे जटा वापि कर्तव्या श्रुति चोदिता | तथा वायविये सावर्ण्य संहितायां - स्वायं भुवाद्यामनवश्चतुर्दशमहोदयाम् | कनकानद्धसर्वांगा शुभ्र यज्ञोपवीतिनः || त्रिपुंड्रालं कृताश्चांग जटारुद्राक्ष धारिणा | कमण्डलु धरास्सर्वे ह्यक्षमालाविराजिता || इति लोकाक्षिसूत्रे | मानस्तोकेन मन्त्रेण मन्त्रितं भस्मधारयेत् | त्रिपुण्ड्रं ब्राह्मणो विद्वान् मनसापि न लंघयेत् || प्. १४४७) श्रुत्या वधीयते तस्मात् तत्यागी पतितो भवेत् | इति वचनैर्जटाभस्मादिकमवश्यन्धार्यमेव | मृगेन्द्रे - जटा न शूद्रो विनयोन्नाज्ञो न पि प्रमादवत् | न योषिन्नवयोन्तस्थो न रोगी विपुलो हि वा || जटा चैका शिरो देशे शूद्रस्यावर्ण निर्णये | न रुद्रस्य जटा कार्या कुर्यादेकामथापि वा || अष्टतालसमायामं विस्तारञ्चांगुलित्रयम् | शृणुदेवी परं गुह्यं जटालक्षणमुत्तमम् || शिरः केशविहीनानां कबरी केशमुच्यते | जटा विच्छक्तिरुद्दिष्टा जगतः कारणात्मिका || यो वेत्तिसजटीत्युक्तो न जटा बन्धनाज्जटी | कालतत्व पवित्राणि शक्तिमन्त्रेश संख्यया || विभज्य शोकन् संपाद्य प्रत्येकं संहिताणुभिः | मतेश्वरस्य पुरतो बध्नीया * व तेजसा || कला शब्देनाष्टत्रिंशदुच्यते | तत्वशब्देन षट्त्रिंशत् पवित्राणुशब्देन शुद्धान सद्योजातादि पञ्चकम् | शक्तिशब्देन वामादि नवरक्तयः मन्त्रेशः विश्वेशः एकादश ईशाः | मन्त्राणामीश्वरः ज्ञात्वा गुरुत्तमस्सम्यगत्यथा दोषभाक् भवेत् | मन्त्रिणस्साध्यमन्त्रेण हृदापुत्रक योग्ययोः | अह व्रतीनां जटावृध्यर्थं तत्रैव विशेष उक्तः | प्. १४४८) क्रिमिवन द्रव्यमिश्रेण भस्मना त्रैफलोचन | साधुवर्णेन वा पुष्टिं न योक्तां भौतिक व्रति || अस्यार्थः कटुतैल विटंक वटादि द्रव्य रसन्तत् कुक्षौ निक्षिप्यास्त्रेण संप्रोक्ष्य कवचेनावकुण्ठय समृज्योपलप्य तस्मिन् ओं हां चुल्लिकायै नमः इति संपूज्य तद्दक्षिण वाम * * * ओं हां धर्माय नमः ओं हां अधर्माय नमः | इति संपूज्य पश्चिमास्यायां चुल्लिकायां प्रणवासनं दत्वा पूर्वास्यो भूत्वा स्थालिमारोप्यास्त्रेण विधाय क्रिमिकीयदि वर्जितकाष्ठेन संदीप्य चानलोत्पाद मस्त्रेण कृत्वा शंभुं सारं विलोकनं नेत्रमन्त्रेण पुनः कवचेन कुर्वन् ओं हां शिवाय नमः इत्युच्चार्य चरुस्वपक्वं पचेत् | यद्वा यच्छिरश्शिखा गायत्र्या वा पाकस्यातिपक्वापक्वत्वे मरणं व्याधिंश्च भवति | तच्छान्त्यर्थं अस्त्रेण शतं हुत्वा तत स्वाहान्तं संहितयास्त्रेणाज्येन स्वाहेति पाकशिवाग्नैति चुल्लिकास्थचरौ पातहोमं तप्ताभिहार्य स्वस्वं नो भवेत्यभिधाय नर्मण्डलान्तरे संस्कृते कृत प्रणवासने स्थाली * रोप्यनिधाय वौषडन्तया मन्त्रे संहितया चरौ शीताभिधारं कृत्वा शीतलो भवेत्युक्त्वा हृदयेन संहारिण्या चुल्लिकामध्यस्थमग्निं विसृजेत् | तथा कामिके - उष्णे तप्ताबिधारं स्यात् शीते शीताभिधारणम् | प्. १४४९) स्वाहान्तं मन्त्रसंहृत्यामग्निं व्यवहे पुरा || हविष्यञ्चेव हेत्युक्त्वा स्वस्मिन्नो भव इत्यपि | तप्ताभि धारमेवास्य द्वितीये मण्डले ततः || प्रोक्षणादि समायुक्ते पूजितेप्यवरोप्यतम् | सुशीतलो भवेत्युक्त्वा हृदयेन संहारिण्या चुल्लिकामध्यस्थमग्निं विसृजेत् | तथा कामिके - उष्णे तप्ताभिधारं स्यात् शीते शीतोभिधारं स्वाहान्तमन्त्रसंहृत्य भवेत्येव वै षट्पल्लवताया तथा | शीताभिधारमेवं स्यान्मन्त्रसंहितया लभेत् | तत स्थालीं बहिर्मृज्जलाभ्यामुन्मृज्य क्षालयित्वा त्रिपुण्ड्रं धृत्वा कुण्डपश्चिम भागकृत मण्डले पूर्ववत् षडुत्थासनं संकल्प्यते | स्थालीं संस्थाप्य हृदा संपूज्य ओं हों हें हुं हिं हां हीं हां हीं हैः हों हः | शिवाय स्वाहेत्यग्नौ हेति चरुपरिशेष माज्यं स्रुवं धून्वन् एवमष्टोत्तरशतं एकविंशति वारं संपात होमं विधायाधि वासन पक्षे कामिके - कन्याविनिर्मितं सूत्रं त्रिगुणं त्रिगुणी कृतम् | अस्त्र प्रोक्षितमद्वर्म कुण्ठित * लमर्चितम् || षडंगुलमथायामं तदर्धं विस्मृतं शुभम् | आसनेन तु कर्तव्यं नालन्तु चतुरंगुलम् || द्वादशांगुल मानेन विवक्रामत्र संयुतम् | प्. १४५०) क्षुरिकर्तरिके प्रोक्तौ दीक्षाकर्मणि योजयेत् || एवं लक्षणयुक्त तदनुसूत्र कर्तरीभ्याञ्च पूर्वोक्तमण्डल निर्माणार्थं पञ्चवर्णरजाश्च होमद्रव्यादिकञ्च युक्ते न हरीतक्यां बल विहीतकभस्मना शस्त्रपूर्णामिश्रेण भौतिको प्रतीतविशेष संस्कारसिध्यर्थं ततः पूर्णां प्रदापयेत् | पश्चाज्वालाग्नि कोणोपमात्मानं संहारमुद्रया समादाय पूर्ववन्निजहृदयांबुजे विधाय कुंभकेन मूलमन्त्रमुदीरयन् आत्मशिवयोःस्समासी भावं विधाय शिष्य पुनस्संहारिण्या गृहीत्वा ब्रह्मादिकारणत्यागक्रमा द्रेजयोगेन शिवान्तमात्मानं नीत्वा उद्भवमुद्रया ओं हां हं हां आत्मने नमः इत्यन्ते वासितन देहे हृदयां भोज कर्णिके निक्षिप्याप्यनाय शिष्यशिरसि जलबिन्दुं क्षिप्त्वा चरुं हुत्वा पितरौ संपूज्य पूर्णां दत्वा प्रायश्चित्तार्थं मूलेन वास्त्रेण शतं सहस्रमर्धंवा पूर्णान्तं हुत्वाग्निस्थ शिवमर्चापथित्वा प्रणितिञ्चात्मने कारयित्वा शिराभं * * य शिवगुरुपूजासु शिवागमाध्यायने च निर्वाणदीक्षायाञ्च योग्यत्वं जात इत्युक्त्वा शिष्यहस्ते शिवलिंगं दद्यात् | पूर्वोक्त समयांश्च यथाश्रमं श्रावयेत् | गुरुसत्तम शिष्याय दा * * लिंगमन्त्रमुद्रा समन्वितम् | तद्दिन माणान्तन्तु प्रतिज्ञां कुरु पूजनम् | त्रिकालं वा द्विकालं वा एककालमथापि वा || प्. १४५१) पूजयेत्तु विशेषेण अर्चनोक्तं क्रमाद्विधिः | चिन्त्यविश्वे - शिष्य स * * * यान् पूर्वान् श्रावयेत् गुरुसत्तम् | न निन्देत् कारणमेवं ज्ञानं निन्दान्तथा चरेत् || साधकं ज्ञानवृद्धं च ज्येष्ठे भक्ति समन्वितः | आचार्य ज्येष्ठगेच्छायां लिंगच्छायां न लंघयेत् || निर्माल्यन्तु न भुञ्जीत शिभक्तं न भोजयेत् | शिवाग्नि गुरुपूजा च कर्तव्यं जीवितावधि || अक्रोध भक्त विश्वासो गुर्वाज्ञा पालनन्तथा | नियमेन तु कर्तव्यं चतुष्टयमपि * * त् || तदनु समयाचारानुष्ठानां शक्तस्य दीक्षानन्तरं बालबालीश वृद्ध स्त्री भोगभुक् | व्याधितात्मानां यथा शक्ति समां पाशान् शोधयेत् | तद्यथा - ओं हां नन्दये नमः | ओं हां महाकालाय नमः | ओं हां भूरिणे नमः | ओं हां गणपतये नमः | ओं हां वृषभाय नमः | ओं हां देव्यै नमः | ओं हां चण्डाय नमः | इत्यग्नौ संपूज्य स्वाहान्तया एकैकया संतर्प्याग्नि शिष्य समयाचार पाशान् शोधयेत् | तथागमः | अग्नौ चण्डादि नद्यादि चण्डान्तान् गणान् संपूज्य तर्पयेत् | हुत्वा पञ्चशतं मूलं पूर्णान्ते तां निरोधयेत् | प्. १४५२) भगवन्न क्षमश्चायं समयाचारपालनम् || तस्मादानेन होमो तत्सर्वञ्च क्षमापय | विद्येश्वरगणेशान् लोकपालाश्च साक्षिणः || कृत्वैवं शोधयेत्तस्य समयादेशिकोत्तमः | येनासौ समयी भूत्वा क्रिया संस्कारमर्हति || श्रवणेध्ययने योग्यः पूजायामहयेत्तथा | एवं निष्ठाप्रतिष्ठस्य शक्तिपातसु निश्चलः || इति ज्ञात्वा परादीक्षां कुर्यान्तिर्वाणदामथ | एवं समयसंस्कारयुक्तो यस्तु शिवार्चने || होमे चाध्ययने चैव तन्त्राणां श्रवणेपि च | योग्यस्यादैश्वरं रुद्रपदं प्राप्नोति मानवः || तानिर्वाणदीक्षायां अधिकारी भवेद्विजः | इति श्रीमद्वयाघ्रपुरवासि वामदेवात्मज वेदज्ञान विरचित दीक्षादर्शे विशेष दीक्षाविधिः || || अथ कर्मनिर्वाण दीक्षा विधिः || कामिके - निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् | अथ उभाभ्यान्दीक्षा - संस्कृतशिष्यस्य मलपरिपाकं शक्तिपातं च ज्ञात्वा संपूर्ण कल्पितार्थान् विप्रादिक्रमेण - प्. १४५३) परीक्षा संयुक्तान् पुनस्संस्कारदीक्षां कृत्वा एककालीनश्चेत् पूर्ववत्तर्पणदीक्षापानान्तं निर्वत्याचार्यो निर्वाणदीक्षां कुर्यात् | चिन्त्यविश्वे अधिकारणमुक्तम् | तद्यथा - संस्कारदीक्षा शिष्याणां वर्जितञ्चाष्टकन्तथा | एकोन विंशत्कर्तव्य मित्युक्तं सद्गुणादिकम् || कर्तव्यं गुणसंयुक्तो द्विजात्याद्याभिमानिकैः | विहिनो रुद्रपुत्रत्व भवयुक्तोभियोग्यकम् || एतैर्गुणैर्विहीनश्चेत् निर्वाणस्यात्ययोग्यकः | पुनस्संस्कारदीक्षाञ्च कृत्वा निर्वाणमाचरेत् || अथ पृथक् कर्मश्चेत् मण्टपपुरस्सरं कुर्यात् | पृथक् मण्डलं कुर्यादलं कारैरलंकृतः || सप्ताहे पञ्चरात्रे वा त्रिदिने सद्य वा भवेत् | दीक्षा पूर्वे तु कर्तव्य मयुग्मन्यं कुरार्पणम् || कामिके - आचार्यः कृतनित्यस्तु ततो मन्त्रादि तर्पणम् | कृत सूर्यार्चनश्शुद्धः सकलीकृत विग्रहः || सामान्यार्ध्य करोद्वार द्वारापश्चान् संयुतः | पश्चिमद्वारमार्गेण स प्रविश्यमुखालयम् || कृतब्रह्मार्चनक्षेत्रे रक्षां कृत्वा विधानतः | प्. १४५४) भूतशुद्धमणो न्यासं विशेषार्ध्यञ्च नित्यवत् || कृत्वा ज्ञानाख्य खड्गञ्च पञ्चगव्यं विधाय च | विक्रिरानभि मन्त्र्याथ भूतशुद्धिं विधाय च || विक्षिप्य च विहाराश्चक्रशैरीशे समाहरेत् | कुंभञ्च वर्धनीन्तत्र संपूज्य परितो गुरुः || लोकपालनथाभ्यर्च्य तेषामाज्ञान्तु सावयन् | भ्रामयित्वा घटास्त्रांबु ज्ञानखड्गं समर्ध्य च || अग्न्याधानादिकं सर्वं अग्नि कार्योक्तमाचरेत् | चरुं संपातयेत्तत्र होमाग्नौ तेन वन्हिना || कामिके - आत्मनस्सय भागे तु कृत्वा शिष्यस्य वेशनम् | नाडी सन्धानकं कर्म तर्पणं पूर्णया सह || कृत्वा शिवादिमन्त्रेण दीपनं सम्यगाचरेत् | अघोरे संपुटं कृत्वा शिवं संगं फडन्तकम् || कुटिलभ्रूसमायुक्तं करालवदनान्वितम् | आहुतीनां त्रयं कुर्यात् मन्त्राणां दीपनञ्चयत् || क्रियाकाण्डे - इत्येवं दीपनं कुर्यात् सर्वस्मिन् क्रूरकर्मणि | शान्तिके पौष्टिके वश्ये वौषडन्तादिनाणुना || वषड्ध्वौषट् समोपेतौ * कारस्योपरिस्थिते | प्. १४५५) भुवनं शंबरैः कुर्यात् सर्वत्रात्ययनादिषु || तथा चिन्त्यविश्वे - दीक्षा तु पाशच्छेदं हि तत्कार्यं क्रूरकं भवेत् | क्रूरकार्येषु सर्वेषु मन्त्राणांदीपनं मुखे || पौष्टिके वश्यके शान्तौ वौषट्कारान्तमन्त्रकैः | वौसट्ध्वौषट्समोपेतैसुधो बीजोपरिस्थितैः || मन्त्रैश्च होमकर्तव्यं सर्वत्राप्ययनादिके | द्विशति कालोत्तरे - उद्धारे प्रोक्षणे चैव ताडनेव तथैव च | हुं फट् कारसमायुक्तं कर्तव्यञ्चानुपूर्वशः || तथा मतंगदीक्षा प्रकरणे प्रतिपादितम् | तद्यथा | * मन्त्रिणे संनिधाने पशुकार्ये च नित्यशः | हुं कारश्चात्र संहारे ग्रहणेषु प्रकल्पयेत् || शिरसा हि तथा शस्तं फट्कारे कोवियोजयेत् | संयोजने वषट्कारो वौषडयात्यायने मतः || स्वधाकारं पितॄणां स्यात् ततस्तं स प्रपूजयेत् | बल्योपहारधूपेषु प्रदीपेषु च नित्यशः || योक्तव्या देशिकेन्द्रेण स्वाहान्तामन्त्र नायका | न्यासार्चन जपध्यान कर्माह्यक्ता महामुने || नमस्कृ * रावसानान्तु मन्त्रास्सर्वार्थसाधकाः | प्. १४५६) ततः प्रदक्षिणक्रमेण शिवान्तिकं सिश्येणसार्द्धं गत्वा शिवमभ्यर्च्य तद्दर्शयित्वा तत्सन्निधौ विज्ञापयेत् | परीक्षितसमर्थेयं निर्वाणार्थमुपस्थितं उत्कृष्ट जातिरीशां समयेषु व्यवस्थितः | क्लिष्टो निर्वाण कांक्षीव भव दुखार्थश्शिषुः | तदेतस्मिन् विमोक्षाय प्रसादक्रियताम्मम | एवं भवत्वनुज्ञातः परेशेनेति भावयेत् | द्विजकन्या विनिर्मितं सूत्रञ्च निरीक्षणादिभिस्संस्कृत्य संपाताहुत्या संशोध्य कुंभस्थ शिवाय संनिधौ स्थाप्यास्त्रेण प्रोक्ष्य कवचेनावकुण्ठय मूलेन पूजयेत् | कामिके - कन्याविनिर्मितं सूत्रं त्रिगुणं त्रिगुणी कृतम् | अस्त्रेण प्रोक्षितं वर्म मकुण्ठितं मूलमन्त्रितम् || मृगेन्द्रे - अक्लेशादिमदग्रन्थि कन्यया क्रीर्तितं समम् | प्रसारयेच्छिखाप्रान्त मंगुष्ठ द्वितीयावधि || दीप्ते - षडंगुल समायामन्तदर्धा विस्मृतं भवेत् | आयसेन तु कर्तव्यं नालञ्च चतुरंगुलम् || कश्चिद्विशेषस्सुप्रभेदे उक्तः अष्टांगुलमथायामन्तदर्धं विस्मृतं तथा | आयसेन तु कर्तव्यं तन्नालञ्चतुरंगुलम् || द्वादुरांगुलमानेन विवक्रमग्र संयुतम् | प्. १४५७) क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् || मृगेन्द्रे - घ्ऽतिकाशं कुसूत्राणां कर्तरी रजसा तथा | कार्यस्तथैव संपातस्त्रिलव्रीह्यादिकस्य च || तदनु शिवग्नेद्दक्षिणमण्डले दर्भकृत प्रणवासने षडुत्थासनं कल्प्यो दङ्मुखस्वोध्वकाय मञ्जलि हस्तं शिष्यं संस्थाप्य शिरोवक्त्र हृदिगुह्यपादेषु शान्त्यतीतात् कलाबीजं संहारक्रमेण न्यस्य सुषुम्नामयं सूत्रं विभाव्य पूर्वापरशिखां ज्ञात्वा द्वादशांगुलायां शिखायामग्रे चतुरंगुलोदयां गुलं वाक्यत्वा संहारिण्या संगृह्य पादांगुष्ठादि शिखान्तं मूलेन बध्वा दक्षभागे प्रलंबयेत् | मुक्त्यै संहारक्रमेण बध्वा वामे प्रलंबयेत् | ओं हां शक्तये नमः | इति सूत्रे संपूज्य तेनैव बध्वा वामे प्रलंबयेत् | सद्योधिवासन पक्षे सूत्रञ्च कर्तव्यादिञ्च संपाताहुतिञ्च हुत्वा संस्कृत्य कुंभस्थाय शिवाय निवेश्य पूर्ववत् बध्वा दन्तकाष्ठ चरु विनाकुर्यात् | तथा पौष्करे - सद्योधिवासकं कार्यं त्वत्कृतोधिवासने | पूर्वोक्तविधानेन दन्तकाष्ठकरुर्जितम् || यागश्शोभावितेन्यादौ कर्तव्यमधिवासनम् | ततस्तत् शिष्यदेहे ओं हां इडायै नमः || ओं हां पिंगलायै नमः | इति संपूज्य सुषुम्नायां पद्मन्तु निभां विभाव्य | ओं हां सुम्नायै नमः | इत्यनेन शिष्य - प्. १४५८) देहादादाय सूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठय संनिधानार्थं मूलेनाहुतित्रयं दत्वा तसां ओं हां वामायै नमः | ओं हां ज्येष्ठायै नमः | ओं हूं रौद्र्यै नमः | इति सच्चिन्त्याभ्यर्च्याग्नावपि संपूज्य सन्तर्पणार्थं सान्निध्यार्थञ्च स्वाहान्तेन प्रत्येकं पञ्चाहुत्या हुत्वा पुनस्सूत्रे निरोध्यवकुण्ठय ताभि पाशविश्लेषादिकं स्मृत्वा तत स्तद्भावित निखिल देहसन्तान प्रतिरूप सूत्रेहृत् प्रदेशे ओं हां सूर्य सोमाग्निमण्डलान्वितहृत् पद्माय नमः तस्मिन्महाकर्तये नमः इति विन्यस्याभ्यर्च्यहनध्यावकुण्ठयाग्नौ वपि सन्तर्प्य ओं हां विद्यादेहाय नमः | व्यक्त ज्योतिरूपं विभाव्याभ्यर्च्य ततश्शिष्यमस्त्रेण संप्रोक्ष्य सप्तस्त्र जप्तपुष्पेण तद्धृदयं प्रविश्य ओं हां हं हां आत्मने नमः | हं हुं फडिति संताड्य हुं कारमुच्चरन् आत्मनो रेचकेण निसृत्य शिष्यहृत् पद्मकोशात् किञ्चिच्चलितमात्मानं विभाव्य तस्य वामनाड्या पूरकेण तद्धृदयं प्रविश्य तच्छेतद्यं स्फुरत्तारकाकार संसबीजस्वं ओं हां हं हां आत्मानां गृण्हामि हः हुं फडिति ज्येष्ठा वियोज्य ओं हां हं हां स्वाहेत्यं कुशमुद्रयोत्कृष्य द्वादशान्तं नीत्वा तृणाग्र बिन्दुरूपं जीवं सञ्चिन्त्य आत्ममन्त्रेण संहारिण्या संगृह्य पूरकेण स्वहृदि संनिवेश्य कुंभकेन समस्सीविभाव्य प्. १४५९) मूलमन्त्र मनुस्मरन् आत्ममन्त्रेण मन्त्रादिकारण त्यागक्रमेण स्वस्य द्वादशान्तं नीत्वा ततश्शिव्य सृट्या भ्रूमध्यादीनि यद्दक्षिणनाड्यरेक चकेण निस्सार्य ओं हां हं हां आत्मने नमः | इति सूत्रे संयोज्य आत्मानं सूत्रे व्यापकं संभाष्या वकुण्ठय सन्निधानार्थं मूलेनाहुतित्रयं जुहुयात् | तथा ताडनं देह विश्लेष कर्षणं गृहणं तथा | योजना तन्तु वागीश्यां मायायां जननं पुनः || अधिकारस्ततो भोगो लयो निष्कृतिरेव च | पाशक्षेदोथ निक्षेपद्धस्तामुद्धारणं पचेत् || छेद्या भेद्यास्तु ते पाशा सूत्रस्था न तु विग्रहे | तस्मात्सूत्रमयं देहं भावनीयं प्रयत्नतः || पुनस्तदानीं शिष्यस्य शिरसि कृष्णरूपमणो मलमिति विचिन्त्ये | ओं हां लौकिकादि कर्म पाशेभ्य सुखदुःखभोक्तृत्व कारणेभ्यो नमः | अथ मायाकार्यं कर्बुरञ्चित्ररूपं विभाव्य ओं हां मायापाशाय शरीरेन्द्रविषय कारणाय नमः | ओं हां पाशाधिष्ठात्र्यै शिवशक्तये नमः | इत्युपाधिभेदेन ततो रूपं ध्यात्वा शिष्य देहादादाय सूत्रस्यै संयोज्याभ्यर्च्य निरुध्या वकुण्ठयावग्नौ ग्रावभ्यर्च्य सन्निधानार्थं प्रत्येकं स्वाहान्तेनाहुतित्रयं दद्यात् | अत्र शिवशक्ति कथं पाशरूपत्वं भवति सत्यं शोध्य शोधकत्वेन अनुरक्तापाश इत्युपचारेणोक्तम् | प्. १४६०) तथा मृगेन्द्रे - तासां माहेश्वरी शक्ति सर्वानुग्राहिकश्शिवा | धर्मानुवर्त्मनादेव पाश इत्युपचर्यते || ततः विद्यादेहं | ओं हां विद्यादेहाय नमः | इति सूत्रे विन्यस्य तत्सन्निधानार्थं विद्यादेहाय स्ववहेत्या हुतित्रयं हुत्वा शान्त्यातीत कलादीनिमन्त्रिण पदवर्णादीन् व्याप्य व्यापकभावं ज्ञात्वा सूत्रस्थत्व चैतन्यं योजयेत् | तथा ज्ञानरत्नावल्याम् - व्याप्य व्यापकतो ज्ञेयो दीक्षाकालेप्युपस्थिते | पतेष्वन्तर्गतामन्त्राः पदाध्वा वर्णमध्यगा || भुवनान्तर्गता वर्णा तानितत्वोषधानि च | कलावन्तर्गतानिहतानि तत्वान्यनुक्रमात् || कलयतो विवयं यत्र व्याप्नुवन्तीति ता कलाः | शक्तस्ता पराशक्तेः पञ्च भेद व्यवस्थिताः || कामिके - व्याप्य व्यापकभावञ्च कुर्यात्तत्र विचक्षणम् | मन्त्राः पदानि वर्णाश्च तत्वानि भुवनानि च || व्याप्यानि व्यापका कर्ममलमाधेय बन्धना | व्याप्यामलादयश्चापि व्यापकस्तु कलास्मृता || तासाञ्च संग्रहे तस्मात् सर्वेस्यु स्वीकृता इह | प्. १४६१) स्थापिता विश्वशुद्धाभि रिहोपस्थापिता अपि शुद्धा भवन्ति सर्वेस्युस्तस्माच्छुद्धिरितीप्यते || स्वायं भुवे अस्य प्रयोजनमुक्तम् | अथात्मबद्धसन्तान पशुत्वस्य निवृत्तये | व्यक्तये च शिवत्वस्य षड्विधोर्ध्वेवकीर्त्यते || तत्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मिका | मन्त्राध्वा च कलाध्वा च विंशत्येकं शिवंपदम् || चिन्त्यविश्वे - तत्वाध्वा च पदाध्वा च वर्णाध्वा वर्ण एव च | भुवनाध्वा च कलाध्वा च षडध्वानां क्रमान्न्यसेत् || तारं हृद्बीजमाद्येषु चतुर्थ्यन्त नमोन्तकम् | सूत्रे षडध्वमध्वानां विन्यस्य शिवभावयुक् || तथा कालोत्तरे - पदाध्वा तत्पुरुषेन्यस्य तत्त द्ब्राह्माण संयुतम् | प्रणवादिपदं मध्ये नमस्कारान्तकं यजेत् | अत्र सूत्रे पुरुषभावनाय बन्धनीयत्वात् पुरुष इत्युक्तम् | अत्र सृष्टिक्रमेण सूत्रस्थाने बन्धं कार्यम् | ओं हां शान्त्यातीत कलायै नमः | इत्यवलोकयेत् | ओं हां शिवतत्वाय नमः | ओं हां शक्तितत्वाय नमः | इति तत्वे द्वे | ओं ह्रां अनाश्रितायै नमः | ओं हां अनाथाय नमः | ओं हां अनन्तायै नमः | प्. १४६२) ओं हां व्योमरूपायै नमः | ओं हां व्यापिन्यै नमः | इति शक्तिकला खनानि पञ्च | ओं हां ऊर्ध्वगामिन्यै नमः | ओं हां मोचिकायै नमः | ओं हां रोचिकायै नमः | ओं हां दीपिकायै नमः | ओं हां इद्धिकायै नमः | इति नादकला भुवनानि | पञ्च शिवतत्वे | ओं हां शान्त्यातीतायै नमः | ओं हां शान्त्यै नमः | ओं हां विद्यायै नमः | ओं हां प्रतिष्ठायै नमः | ओं हां निवृत्तये नमः | इति शक्तितत्वे बिन्दुकलाभुवनानि | ओं हां अकाराय नमः | ओं हां इकाराय नमः | ओं हां ईकाराय नमः | ओं हां उकाराय नमः | ओं हां ऊकाराय नमः | ओं हां ऋकाराय नमः | ओं हां ऋकाराय नमः | ओं हां ऌकाराय नमः | ओं हां ॡं काराय नमः | ओं हां एकाराय नमः | ओं हां ऐकाराय नमः | ओं हां ओकाराय नमः | ओं हां औकाराय नमः | ओं ह्रां अंकाराय नमः | ओं हां अःकाराय नमः | इति वर्णाष्षोडश | ओं हां ओं नमः | इति पदमेकः | ओं हां शिवाय नमः | ओं हां ईशानाय नमः | ओं हः अस्त्राय नमः | इति मन्त्रास्त्रद्यः | ओं हां नादाय नमः | ओं हां हकाराय नमः | इति बीजद्वयम् | ओं हां शाखिन्यै नमः | ओं हां आह्ये नमः | प्. १४६३) इति नाडी द्वौ | ओं हां सञ्जयाय नमः | ओं हां देवदत्ताय नमः | रुतद्वौ | ओं हां श्रोत्राय नमः | ओं हां वाचाय नमः | इतीन्द्रियौ द्वौ | ओं हां शब्दविषयाय नमः | ओं हां ध्वनिगुणाय नमः | ओं हां सितास्वरूपाय नमः | वज्रांकिताय व्योममण्डलाय नमः | ओं हां तुर्यातीता वस्थाय नमः | ओं हां सदाशिवकारणेश्वराय नमः | एतैर्युक्तां शान्त्यतीतकलां ध्यात्वा | ओं हां शान्त्यतीतकलायै हः हुं फडिति पुष्पेण शिष्यशिरसि सन्ताड्य पूरकवृत्या संहारिण्या गृहीत्वा | ओं हां शान्त्यतीतकलायै नमः | इति चूडादिललाटान्तं सूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठय तत्सन्निधानार्थं ओं हां शान्त्यातीत कलायै स्वाहेत्याहुतित्रयं जुहुयात् | तदनु शान्तिकलायाम् | ओं ऐं शान्तिकलायै नमः | ओं सदाशिव तत्वाय नमः | ओं हां ईश्वरतत्वायै नमः | ओं हां शुद्धविद्यातत्वायै नमः | एतानि तत्वत्रयाणि तेषु क्रमेण भुवनानि | ओं हां सदाशिवतत्व भुवनाय नमः | इत्येक भुवनम् | ओं हां सिखण्डिनो नमः | ओं हां त्रिमूर्तये नमः | ओं हां एकरुद्राय नमः | ओं हां एकनेत्राय नमः | ओं हां शिवोत्थाय नमः | ओं हां सूक्ष्माय नमः | ओं हां अनन्ताय नमः | इति ईश्वरतत्वे भुवनाष्टकम् | ओं हां मनोन्मन्यै नमः | प्. १४६४) ओं हां सर्वभूतदमन्यै नमः | ओं हां बलविकरिण्यै नमः | ओं हां बलप्रमथन्यै नमः | ओं हां कलविकरणयै नमः | ओं हां काल्यै नमः | ओं हां रौद्र्यै नमः | ओं हां ज्येष्ठायै नमः | ओं हां वामायै नमः | शुद्धविद्यातत्वेन वा निभुवनानि | ओं हां ककाराय नमः | ओं हां खकाराय नमः | ओं हां गकाराय नमः | इति वर्णास्त्रयः | ओं हां व्यापिन्यै नमः | व्योमरूपायै नमः | सों हां सर्वव्यापिने नमः | ओं हां शिवाय नमः | ओं अनुय * नमः | ओं हां अनाथायै नमः | अनाश्रितायै नमः | ओं हां धूपाय नमः | शास्वताय नमः | ओं हां योगपीठ संस्थाय नमः | ओं हां नित्ययोगिने नमः | ओं ध्यानहाराय नमः | इति द्वादशपदानि | ओं हों तत्पुरुषाय नमः | ओं हां कवचाय नमः | मन्त्रौ द्वौ | ओं हां बिन्दवे नमः | ओं हां धकाराय नमः | बीजद्वयम् | ओं हां अलंबुषायै नमः नड्यौ द्वौ | ओं हां कृकराय नमः | ओं हां कूर्माय नमः | इति वायू द्वौ | ओं हां त्वक् तत्वाय नमः | ओं हां पाणि तत्वाय नमः | इन्द्रे द्वे | ओं हां स्पर्शविषयाय नमः | ओं हां शब्दायै नमः | गुणौ द्वौ | ओं हां तुर्यायै नमः | अवस्था | ओं हां कृष्ण स्वरूपा षट्कोणाय नमः | प्. १४६५) षट्बिन्दु कलान्वित मण्डलाय नमः | ओं हां शब्दायै नमः | कारणेश एतैस्सहितां शान्तिकलां विभाव्य ओं ह्यै शान्तिकलापाशाय हुं फडिति ललाटात् गलान्त प्रदेशे सन्ताड्य पूरकवृत्यया संहारमुद्रया संगृह्य इति मुख सूत्रे संयोज्याभ्यर्च्यवष्ठय स्वाहान्तं सन्निधानाहुतित्रयं जुहुयात् | तदनु विध्यकलायां | ओं ह्रूं विद्याकलायै नमः | इत्यवलोकयेत् | ओं हां मायायै नमः | ओं हां कालायै नमः ओं हां नियत्यै नमः | ओं हां कालायै नमः | ओं हां विद्यायै नमः | ओं हां रागाय नमः | पुरुषाय नमः | इति सप्त विद्याकलायाम् तत्वानि | ओं हां त्वष्टमत्राय नमः | ईशानाय नमः | एतत्पिंगलेक्षणाय नमः | उद्भावायै नमः | विद्यायै नमः | भवायै नमः | वामाय नमः | ओं हां महातेजाय नमः | इति मायायां भुवनाष्टकम् | ओं हां शिखेदाय नमः | एकवीराय नमः | इति कालतत्वे भुवनाद्वौ | पञ्चान्तकाय नमः | ओं हां * * यान्तकाय नमः इति नियति तत्वे भुवनौ द्वौ | ओं हां संवर्तकाय नमः | ओं हां ज्योतिषिकायै नमः | इति कलान्त तत्व भुवनौ द्वौ | ओं हां पिण्डाय नमः | क्रोधाय नमः | इति विद्यातत्व भुवनौ द्वौ | एकशिखाय नमः | ओं हां अनन्ताय नमः | ओं हां अजाय नमः | उमापतये नमः | प्रचण्डाय नमः | प्. १४६६) इति रागतत्वभुवनानि पञ्च | ओं हां * क वीराय नमः | ईशानाय नमः | ओं हां भवाय नमः | ओं हां उग्राय नमः | ओं हां भीमाय नमः | ओं हां वामदेवाय नमः | ओं हां चाराय नमः | इति पुरुषतत्व भुवनानि षत् | एवं सप्तवि * वनानि रुद्रैस्समान नामानि | ओं हां यकाराय नमः | ओं हां दकाराय नमः | ओं हां चकाराय नमः | छकाराय नमः | ओं हां जकाराय नमः | अकाराय नमः | इति वर्णानि सप्त शु * * हां नमशिशिवाय नमः | ओं हां सर्वप्रभवे नमः | शिवाय नमः | ओं हां ईशान मूर्धाय नमः | तत्पुरुषवक्त्राय नमः | ओं हां अघोर हृदयाय नमः | ओं हां वामदेव गुह्याय नमः | ओं हां सद्योजातमूर्तये नमः | ओं नमाय नमः | ओं हां ओंन्तमः | ओं हां सर्वविद्याधिपतये नमः | ओं हां ज्योतिरूपाय नमः | ओं हां गुक्षादिगुह्याय नमः | ओं हां गोप्त्रे नमः | ओं हां अनिधनाय नमः | ओं हां सर्वयोगाधिकृताय नमः | ओं हां परमेश्वराय नमः | ओं हां चेतनाचेतनाय नमः | ओं हां व्योमिन्व्योमिन्नमः | इत्येक विंशति पदानि | ओं हुं अघोराय नमः | ओं हि शिखायै नमः | इति मन्त्रौ द्वौ | ओं हां मन्नमः | ओं हां रन्नमः | इति बीजौ द्वौ | ओं हां पुरुषाय नमः | प्. १४६७) ओं हां हस्तिजिह्वाय नमः | इति नाडीद्वौ | ओं हान्तागाय नमः | ओं हां व्यानाय नमः | इति द्वौ | ओं हां चक्षुस्तत्वाय नमः | ओं हां पादतत्वाय नमः | इति इन्द्रियौ द्वौ | ओं हां रूपविषयाय नमः | ओं हां शब्दरूपगुणेभ्यो नमः | ओं हां वन्हिमण्डलाय रक्तस्वरूपाय दाहकात्मने स्वस्तिकलाच्छिन्नाय नमः | ओं हां सुषुप्त्यवस्थाय नमः | ओं हां रुद्राकारणेश्वराय नमः | एतैस्सहितां विद्याकलां सञ्चिन्त्य ओं ह्रूं विद्याकलायै हः हुं फडिति पुष्पेण गलान्नाभ्यन्ते सन्ताड्य संहारमुद्रया पूरकवृत्या संगृह्य ओं ह्रूं विद्याकलायै नमः इति सूत्रे संयोज्याभ्यर्च्य निरुध्यावकुण्ठय स्वाहान्तं संनिधानाहुतिं जुहुयात् | तदनु | ओं ह्लीं प्रतिष्ठाकलायै नमः इत्यवलोकयेत् | ओं हां प्रकृत्यै नमः | ओं हां गुणाय नमः | ओं हां बुद्धये नमः | ओं हां हं काराय नमः | ओं हां अनाय नमः | ओं हां श्रोत्राय नमः ओं हां त्वक् तत्वाय नमः | ओं हां चक्षुस्तत्वाय नमः | ओं हां जिह्वातत्वाय नमः | ओं हां घ्राणतत्वाय नमः | ओं हां वाक्तत्वाय नमः | ओं हां पाणितत्वाय नमः | प्. १४६८) ओं हां पादतत्वाय नमः | ओं हां वायुतत्वाय नमः | ओं हां उपस्थतत्वाय नमः | ओं हां शब्दतत्वाय नमः | ओं हां स्पर्शाय नमः | ओं हां रूपाय नमः | ओं हां रसाय नमः | ओं हां गन्धाय नमः | ओं हां आकाशाय नमः | ओं हां वाक्तत्वाय नमः | ओं हां तेजस्तत्वाय नमः | ओं हां अप्तत्वाय नमः | इति चतुर्विंशति तत्वानि | ओं हां श्रीकण्ठाय नमः | ओं हां औमाय नमः | ओं हां कौमाराय नमः | ओं हां वैष्णवे नमः | ओं हां ब्रह्मणे नमः | ओं हां भैरवाय नमः | ओं क्रू * य नमः | इति योन्यष्टकम् | प्रकृतौ गणे च | ओं हां ब्रह्मणे नमः | ओं हां व्रजेशाय नमः | ओं हां सौम्ये नमः | ओं हां इन्द्राय नमः | ओं हां गन्धर्वाय नमः | ओं हां क्षयाय नमः | ओं हां राक्षसाय नमः | ओं हां पैशाचाय नमः | इति देवयोन्यष्टकम् | प्रकृतौ बुद्धितत्वे | ओं हां स्थलेश्वराय नमः | अहंकारेश्वराय नमः | स्थूलेश्वराय नमः | मनसी बुद्धिन्द्रिय पञ्चके च | ओं हां शंकु कर्णाय नमः | कूर्मेन्द्रिय पञ्चके | ओं हां कालाञ्जनाय नमः | ओं हां कुण्डलेश्वराय नमः | ओं हां माकोटाय नमः | ओं हां द्विरण्डकाय नमः | इति तन्मात्र पञ्चके | पञ्चभुवनानि प्. १४६९) ओं हां स्थाणवे नमः | ओं हां स्वर्णाक्षाय नमः | ओं हां भद्रकर्णाय नमः | ओं हां गोकर्णाय नमः | ओं हां महालयाय नमः | ओं हां अविमुक्ताय नमः | महेन्द्राय नमः | ओं हां अट्टहासाय नमः | ओं हां विमलेश्वराय नमः | ओं खलाय नमः | कुरुक्षेत्राय नमः | ओं हां गयायै नमः | इत्यष्तक वायुतत्वे | ओं हां भैरवाय नमः | ओं हां केताराय नमः | ओं हां महाकालाय नमः | ओं हां मध्यमेश्वराय नमः | श्री शैलाय नमः | ओं हां हरिश्चन्द्राय नमः | इत्यष्टकन्तेजस्तत्वे | ओं हां लकुलेश्वराय नमः | भारभूतिकाय नमः | ओं हांडिण्डिन्यै नमः | मुण्डये नमः | आषाढाय नमः | ओं हां पुष्कराय नमः | ओं हां नैमिशाय नमः | ओं प्रभासाय नमः | अमरेशाय नमः | इत्यष्टकमप्तत्वे | एवमस्टकैस्सप्तभिष्वट्भि पञ्चाशद्बिर्वनानि रुद्रैस्समानमाननीति विज्ञेयः | ओं हां टकाराय नमः | ओं हां ढकाराय नमः | ढुकाराय नमः | ढकाराय नमः | णकाराय नमः | ओं हां वकाराय नमः | थकाराय नमः | दकाराय नमः | धकाराय नमः | ओं हां नकाराय नमः | प्. १४७०) पकाराय नमः | ओं फकाराय नमः | बकाराय नमः | भकाराय नमः | मकाराय नमः | मकाराय नमः | यकाराय नमः रेफाय नमः | लकाराय नमः | वकाराय नमः | शकाराय नमः | षकाराय नमः | सकाराय नमः | हकाराय नमः | इति वर्णास्त्रयो विंशति ओं हां व्यापिन व्यापिन्नमः | ओं हां अरूपिन्नरुपिन्नमः | ओं हां प्रथमप्रथमाय नमः | ओं हां तेजस्तेजसाय नमः | ज्योतिर्ज्योतिन्नमः | ओं हां अरूपाय नमः | ओं हां अनग्ने नमः | ओं हां अधूमाय नमः | ओं हां अभस्माय नमः | ओं हां अनादे नमः | ओं हां नाना नाम्ने नमः | ओं हां धू धू धू धू नमः | ओं भूनमः ओं भुवन्नमः | ओं सुवन्नमः | ओं हां अनिधनाय नमः | ओं निधनोद्भवाय नमः | ओं शिवाय नमः | ओं शर्वाय नमः | ओं परमात्मने नमः | महेश्वराय नमः | महादेवाय नमः | ओं सद्भावेश्वराय नमः | ओं हां तेजाय नमः | ओं योगाधिपतये नमः | ओं मुञ्चमुञ्चाय नमः | प्रथम प्रथम प्रथमाय नमः | ओं शर्वशर्वाय नमः | इत्यष्टा विंशति पदानि | ओं हिं वामदेवाय नमः | ओं हीं शिरसे नमः | इति मन्त्रौ द्वौ | ओं हां उकाराय नमः | ओं हां वकाराय नमः | बीजौ द्वौ | ओं हां गन्धायै नमः | सुषुम्नायै नमः | नाडी द्वौ | ओं हां उदानाय नमः | ओं हां समानाय नमः | प्. १४७१) इति वायौ द्वौ | ओं हां रसाय नमः | वायवे नमः | इतीन्द्रिये | न साख्यो विषय | ओं हां शब्दस्पर्शरूपगुणाय नमः | ओं हां शुभ्रार्धचन्द्र पद्मांकमंडलाय नमः | ओं हां स्वप्नावस्थाय नमः | ओं हां विष्णुकारणेश्वराय नमः | एतैस्समोपेता प्रतिष्ठाकलामवलोक्य ओं हिं प्रतिष्ठाकलायै हः हुं फडिति शिष्यस्य नाभ्यधस्ताज्जान्वन्ते पुष्पेण संताड्य पूरक संहारिण्या गृहीत्वा ओं ह्लीं प्रतिष्ठा कलायै नमः | इति सूत्रे संयोज्याभ्यर्च्यावकुण्ठय संनिधानाहुतित्रयं जुहुयात् | तदनु | ओं हां निवृत्तिकलायै नमः | इत्यवलिकयेत् | ओं हां पृथिवीतत्वाय नमः | एकम् | ओं हां भद्रकाल्यै नमः | इति ब्रह्माण्दस्योपरि भुवनद्वयं ओं हां त्रिलोचनाय नमः | ओं हां लिप्साये नमः | ओं हां नभाय नमः | ओं हां विवाहाय नमः | स्वाहाय नमः | ओं हां त्रिदशेश्वराय नमः | त्रियक्षाय नमः | गणाध्यक्षाय नमः | ओं हां विभवे नमः | ओं हां शंभवे नमः | इत्यूर्ध्वेदश | ओं हां दंष्ट्राय नमः | ओं हां इन्द्राय नमः | ओं हां फणीन्द्राय नमः | ओं हां औदुंबराय नमः | ईशानाय नमः | ओं हां ग्रसनाय नमः | मारुताशनाय नमः | क्रोधाय नमः | अनन्ताय नमः | विषधराय नमः | इत्यधो दश | ओं बलिप्रियाय नमः | भूतपालाय नमः | ओं हां ज्येष्ठाय नमः | प्. १४७२) शर्वाय नमः | सुरेशाय नमः | वेदपारगाय नमः | ज्ञानभुगेशाय नमः | ओं हां सर्वज्ञाय नमः | प्रसादाय नमः | ओं हां ईशानाय नमः | विद्याधिपाय नमः | इतीशाने दश ओं हां प्रकामदाय नमः | प्रसादाय नमः | श्रीधराय नमः | रक्तधराय नमः | लक्ष्मीधराय नमः | ओं हां जटाधराय नमः | ओं हां सम्यदेहाय नमः | ओं हां धान्याय नमः | रूपाय नमः | निधीशाय नमः | इत्युत्तरे दश | ओं हां मेधवाहनाय नमः | ओं हां कपर्दिने नमः | पञ्चशिखाय नमः | ओं हां पञ्चान्तकाय नमः | ओं हां क्षयान्तकाय नमः | ओं हां तीक्ष्ण सूक्ष्माय नमः | ओं हां वायुवेगाय नमः | लघुश्रीघ्राय नमः | इति वायुदश | ओं हां सुनादाय नमः | मेघनादाय नमः | ओं हां जलान्तकाय नमः | दीर्घबाहवे नमः | ओं हां जयभद्राय नमः | ओं हां श्वेताय नमः | महाबलाय नमः | पाशहस्ताय नमः | ओं हां अतिबलाय नमः | बलाय नमः | इति वारुणे दश | ओं हां दंष्ट्राय नमः | ओं हां लोहिताय नमः | धूम्राय नमः विरूपाक्षाय नमः ऊर्ध्वशेषाय नमः | भयानकाय नमः | क्रूरदंष्ट्रये नमः | ओं हन्त्रे नमः | ओं हां मारणाय नमः | ओं हां निरृतये नमः | इति नैरृते दश | ओं हां धर्मपतये नमः | प्. १४७३) ओं हां धर्माय नमः | वियोक्त्रे नमः | ओं हां संयोक्त्रे नमः | कर्त्रे नमः | विधात्रे नमः | धात्रे नमः | ओं हां हाराय नमः | ओं हां मृत्यवे नमः | याम्याय नमः | इति याम्ये दश | ओं हां क्षयान्तकाय नमः | भस्मान्तकाय नमः | ओं हां बभ्राय नमः | दाहनाय नमः | ओं हां ज्वलनाय नमः | हराय नमः | ओं हां खादकाय नमः | पिंगलाय नमः | हुताशनाय नमः | ओं हां अग्निरुद्राय नमः | इत्यग्नि दश | ओं हां त्रिदशाधिपाय नमः | पिनाकिने नमः | शास्त्राय नमः | अव्ययाय नमः | विभृत्यै नमः | प्रमर्दनाय नमः | वज्रदेहाय नमः | ओं हां बुद्धये नमः | अजाय नमः | कपालीश्वराय नमः | इति पूर्वे दश | ओं हां रुद्राय नमः | विष्णवे नमः | ओं हां ब्रह्मणे नमः | हाटकेश्वराय नमः | ओं हां कूश्माण्डाय नमः | ओं हां कालाग्नये नमः | इति दशकम् | ब्रह्मण्डमध्ये एव मष्टा * * वनशतम् | रुद्रसमानाभिधानम् | ओं हां क्षकाराय नमः | इति वर्णः | ओं हां भवभवाय नमः | भवोद्भवाय नमः | ओं हां सर्वभूत संप्रदाय नमः | सर्व सान्निध्यकराय नमः | ओं हां ब्रह्मविष्णुरुद्रपराय नमः | ओं हां अनर्चितार्चिताय नमः | अस्तुतास्तुताय नमः | ओं हां पूर्वस्थित पूर्वस्थिताय नमः | ओं हां साक्षित् साक्सिन्नमः | प्. १४७४) ओं हां कुरुरु नमः | पतंग पतंगाय नमः | पिंगपिंगाय नमः | ज्ञानज्ञानाय नमः | शब्द शब्द नमः | ओं हां सूक्ष्म सूक्ष्म नमः | ओं हां शिवाय नमः | ओं हां शर्वाय नमः | ओं हां शिवाय नमः | ओन्नमो नमः | इत्यष्टाविंशति पदानि | ओं सद्योजाताय नमः | ओं हां हृदयाय नमः | इति मन्त्रद्वयम् | ओं हां अकारबीजाय नमः | लकारबीजाय नमः | इति चौ द्वौ | ओं हां पिंगलाय नमः | ओं हां इडाय नमः | इति नाडी द्वौ | ओं हां अपानाय नमः | ओं हां प्राणाय नमः | वायौ | ओं हां घ्राणाय नमः | ओं हां उपस्थाय नमः | इन्द्रिये द्वौ | गन्धो विषय नमः | ओं हां शब्दाय नमः | ओं हां स्पर्शाय नमः | ओं हां रूपाय नमः | ओं हां रससय नमः | गन्धाय नमः | गुणपीतञ्चतुरश्रं व कमण्डलं जाग्रदवस्था | ओं हां ब्रह्माकारणेश्वराय नमः | एतैर्व्याप्तिग्नि वृत्तिकलां सञ्चिन्त्य ओं हां निवृत्तिकलायै हं हुं फडिति शान्वधः | पुष्पेण संताड्य पूरकेण संहारमुद्रया संगृह्य ओं हां निवृत्तिकलायै नमः | इति सूत्रे संयोज्याभ्यर्च्यावकुण्ठ्य संनिधानाहुतित्रयं दत्वा सोमसूर्याश्रय वामदक्षिण प्रवाह परित्यागं सुषुम्नमयीं पाशात्मिका मात्मन सन्निधिस्थान भूतान्तासनादि - प्.१४७५) सकलकर्मार्हकां सूत्रमयीं स्मृत्वा न तु देहे तस्मात्तस्मिन् एवं कलानामवलोकनताडनग्रहणग्रहण संयोजनानि कुर्यात् | सबीज दीक्षायां वर्तमान शरीरारंभधर्मादिष्टा पूर्तादिकान् सानुषंगोत्समयाचारपाशाच्चान्यत् बन्धकं कर्मकलानां अन्तस्मृत्वा सूत्रगतं भावयेत् | नि बीजदीक्षाया देहारंभकधर्मान् सानुषंगि काञ्चान्यत् समयाचारसहितं सर्वसूत्रगतं भावयेत् | तथा सोम शंभुपादैरप्युक्तम् | स बीजान्तु दीक्षायां समयाचारपाशतः | देहारंभक धर्माच्च मन्त्रसिद्धि फलादपि || इष्टा पूर्तादिधर्माच्च व्यतिरिक्तं प्रबन्धकम् | चैतन्य रोधकं सूक्ष्मकलानामन्तरे स्मरेत् || समानतन्त्रे - पाशच्छेद्या तथाद्याह्य सूत्रस्था न तु विग्रहे | इत्थं व्याप्यं व्यापकभावं सूत्रगतम् भाव्या बुभुक्षुः | दीक्षायाशान्त्यादि कलादीपनार्थं प्रत्येक माहुतिं कुर्यात् | तथा | तासाञ्च दीपनं कार्यं ओं कारादि फडान्तकम् | ओं ह्रूं हौं हूं शान्त्यतीत कलायै हुं फडिति तत्सूत्रं कलदिस्थानेषु कुंकुमेन वा गोरोचने न वा लञ्च्छयित्वा तस्मिन् सांगं शिवं संपूज्य ओं हां अस्त्राय हुं फडिति प्. १४७६) शिष्यशिरसि सूत्रे सपुष्प नाराचमुद्रया संताड्य ओं हां शान्त्यातीत कलायै नमः इति प्रविश्य गृहीत्वा तम्मन्त्रेण स्वाहान्तेनाहुतित्रयन्दत्वा ओं हौं हौं हौं भगवन् शान्त्यतीत कलापाश मलकर्ममयशाक्ततत्व भुवनादि व्यापकं बद्धबद्ध हुं फडिति सूत्रे ग्रन्थिं कृत्वा इत्यं शान्ति कलादि कलादिस्थानेषु प्रत्येकं ग्रन्थिं कुर्यात् | तथा कामिके - भगवन् शान्त्यतीताख्यं मलकर्म समन्वितम् | व्यापकं शाक्त तत्वादेः पाशबद्धपदद्वयम् || हुं फडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् | शिवं सं पुटितं स्वं स्वं बीजञ्च भगवन्पदम् || कला चतुष्टयं पाशं मलतत्वादि व्यापकम् | बद्ध बद्ध पदञ्चोक्त्वा हुं फडन्त समन्वितम् || पृथक् पृथक् समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् | चिन्त्यविश्वे - तत्सूत्रे मुपदेश्याथ शिष्यं से च निवेशयेत् | विस्मृताद्य घनाशाय मूलेन च शतं हुनेत् || पुरुषस्य शतावन्तस्ताड्यास्तु परितो हरेत् | हृदास्त्र संपुटे नैव निधाय तदनन्तरम् || मृगेन्द्रे - ततस्तात्कृत संपातान् पाशानावेद्य शंभवेत् | प्. १४७७) रक्षस्वेति पते विद्वान् निदध्यात् कुंभसंनिधौ || मुक्त्वा दभांसमुत्थाय वन्हिधाम्ने घटे गुरौ | शिवं संपूजयेत् शिष्य सप्रणाम प्रदक्षिणम् || कामिके - आचार्य शिष्य सहितो मखमण्टपात् | पञ्चगव्यं चरुन्तेभ्य प्रदद्याद्दन्त धावनम् || निर्णिक्तपादपाणिभ्यां प्रयतेभ्यो यथाक्रमम् | अन्तर्जपे विशेषेभ्यस्सकुशे दक्षिणे करे || चिन्त्यविश्वे - प्रणवार्ध्यं गृहीत्वा तु देशिको यागमन्दिरात् | बहिर्गत्वा ततः कुर्यान्मण्टप त्रितयं क्रमात् || नैष्ठिकान् भौतिकांश्चैव सौम्यास्यैग्नैन्द्र वक्तृकान् | क्रमेणावेश्य शिष्यांश्च प्राशयेच्छृणु कर्तयम् || पञ्चगव्यन्तु पूर्वं स्यात् पाणिना कुशया सह | मध्ये मध्ये चाचमनं वित * * न्नकेश्वर || द्वितीयं चरुकं प्रोक्तं ग्रासत्रय समन्वितम् | अष्टग्रासमितिर्वापि दर्शनस्पर्श वर्जितम् || पालाशपत्रैर्मृक्त्यर्थं भुक्त्यर्थं पिप्पलैर्दलैः | कारणे विशेष उक्तः | प्रत्येकं पञ्चपिण्डानि ग्रासमात्र प्रमाणतः | प्. १४७८) अभिमन्त्र्य च पिण्डानि ब्रह्मांगैश्च सकृत् सकृत् || आचम्या चम्यविधिना दन्तैरस्पृश्य भोजयेत् | प्राणापानादिमन्त्रैश्च पञ्चकेन समन्वितम् || कामिके - प्रथञ्चकञ्च नैवेद्य * * * * निवेशयेत् | प्राणाग्नि होत्रं कर्तव्यं सधकैः कालकांक्षिभिः || एतेषा मन्यथा भावे शर्वो भवति नान्यथा | चिन्त्यविश्वे - पश्चादाचमनं कुर्यात् शुद्धैरेव जले पुनः | शुद्धिज्ञो दन्तकाष्ठञ्च क्ष * * क्षसमन्वितम् || कनिष्ठां गुलं स्थूलं ऋजुस्सत्वमनिर्घृणम् | मंगलाकांगुलन्दैर्ध्यं पक्षेयेदन्तधावनम् || दन्तकाष्ठ हृदा दत्वा दन्तशोधनकं तथा | जलेन शोधयेत्पश्चात् धौतमूर्ध्वमुखं क्षिपेत् || पतितादिक्षु जानीयानिष्टानिष्ट विवेकवान् | हरीन्द्रवरुणेशान दीक्ष्वाभीष्ट फलोदय || विना विघ्नमतोन्यास्युर्जुहुयासिना शतम् | ततस्त्रयोन्यन्तराय शमनाय शतत्रयम् || शिवेन वा सतांगेन विघ्नध्वंसिना सिना | तर्पणे मन्त्रमुमुख्यानां पूर्णाहुत्यान्तिकं मतम् || प्. १४७९) अत्र प्रसंगात् गुरुणासनोत्थानादिकं प्रमादादेके कुतञ्चेद्वयाहृति होमं भीम संहितायां प्रतिपादितम् | तद्यथा | आसनोत्थापने क्रोधे क्षुते निष्ठीवने क्रमात् | वायु चारे भयोत्पन्ने वासने व्याप्यदीक्षिते || लोष्टोत्कारे च सन्तप्ते क्रियाभूस्मृति संभवे | मन्त्रोक्ते मन्त्रकार्ये तु व्याहृत्याहुति माचरेत् || चिन्त्यविश्वे - मूलेन भूमिं संशोध्य चरुषेशन्तु होमयेत् | लोक पालाश्च कलशान् पूजयित्वा निरुध्य च || बाह्य रक्षा भवेद्यस्तु विसृजेद्गण पालकान् | संक्षेपेण क्रमेणैव लोकपालबलिं क्षिपेत् || आग्नेये वारुणे वापि स्नात्वा यागालयं विशेत् | सुप्रभेदे - दशाक्षरं जपयित्वा तु विद्यांगैर्ब्रह्माभिर्युतम् | बीजमुख्यं ततो जप्त्वा क्षुरिकायां विशेषतः || ततः प्रतिसरन्धृत्वा शिष्याचार्यकं पृथक् | गन्धपुष्पादिनाभ्यर्च्य शिव पार्श्वे स्वपेन्निशि || अयागकर्मसन्तानपर्यन्तोयं त्वया विभो | पशूनां पाशनाशाय होतव्यो नात्र संनिधिः || देवस्य दक्षिणे भागे गोमयेनोपलेपिते | प्. १४८०) शिष्यांस्तु वासयेर्मन्त्रैर्मण्टपस्य च दक्षिणे || कुशभस्म पटच्छन्ने भुक्तिमुक्तिव्यपेक्षया | पूर्वदक्षिण शीर्षान्तं संनिवेश्य शिशुं गुरु || तथा चिन्त्यविश्वे - नैष्ठिकान् भस्मशययांश्च हृदादक्षिणेशीर्षकान् | भौतिकान्दर्भशययायां पूर्वमाल्यस्त्र रक्षितान् || शिखाबद्धशिखान् सर्वान् तिन्वा रक्षितान् पुनः | स्वप्नाधिपतिमन्त्रञ्च गुरुस्तत्रोपदेशयेत् || हिलि हिलिं शूलपाणये स्वाहा नमः | एवं मन्त्रञ्च शिष्याणां * न्तञ्चापि पश्चिमम् | ओं हिं हिलि हिलि शूलपाणये स्वाहा | खट्वांगं वरमुद्राञ्च त्रिशूलमभयन्दधत् | स्वप्नमाणवकं पिङ्गो जटाचन्द्रार्धशेखरः || तथा चिन्त्यविश्वे - ओन्नमश्शंभो त्रिणेत्राय पिंगलाय महात्मने | वामाय शंभुरूपाय स्वप्नाधिपतये नमः || आचक्ष्व देवदेवेश प्रसन्नोस्मि तयान्तिकम् | स्वप्ने सर्वाणि कार्याणि हृदिस्थानि इहानि मे || ओं हिलि हिलिने शूलपाणये नमः | एवं मन्त्रञ्च शिष्याणां उपदिश्याथ शोधयेत् || यद्वा काश्मीरतन्त्रे - शिष्योपवासके नैव शतं कुण्डस्य पूर्वके | प्. १४८१) कामिके - वस्त्रैशच्छादितान् शिष्यान् तिलसर्षपभूतिभिः | अस्त्राभ्यमभिमन्त्रिता सति सो * रेखा संकल्प्य बाह्यतः || कालोत्तरे विशेष उक्तः - शिष्योधिवासयेत्तत्र मण्डलस्य तु दक्षिणे | कलशं नव विन्यस्य नवरत्नन्तु विन्यसेत् || स्वस्त्रां सापिधानांश्च स कूर्चान्सूत्रवेष्टितान् | धान्यराशौ निधातव्यं * * नोदकं पुरितान् || दर्भ शयया समा इमाः शिवध्यानपरायणः | स्वप्नमाणवकञ्जप्त्वा * * द्रात्रौ गुरोस्सह || तथा मतंगे - यागभूमौ स्वपेद्विद्वान् शिष्यैस्सार्द्धं महीतले | तिलदर्भ प्रविस्तीर्णे कृतक्षेत्रे प्रधूपिते || सकलीकृत सर्वांग्यो मौनमास्थाय देशिकः | मृगेन्द्रे - संरक्ष्यारोपयेच्छिष्यं शिखाप्तं शिखहृदा | वासवा वर्मजप्तेन प्रच्छाद्य बहिशलिखेत् || रेखातिस्रोस्त्र दीप्तैस्तैस्त्रिलसर्षप भस्माभिः | कामिके - दत्वा बाह्यबलिदिक्षु दिक् पतिभ्यो यथाक्रमम् | प्. १४८२) चरुन्दन्तधवारिष्ट प्रतिकूलोपशान्तये | विषमा विष्मादीप्य हुत्वा चैकैकतश्शतम् || प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरशतम् | प्रक्षालितांघ्रिहस्तन्तु स्वाचान्त स्नानमंभसा || निर्व * भस्मना वा वापि परिवर्त्यसितां शुके | शिवीकृततनुं ध्यात्वा समस्ताध्वतनुं शिवम् || परुकं पञ्चगव्यञ्च प्राशयेद्दन्तधावनम् | पूर्ववत् प्रयतो भूत्वा शुद्धस्वयमपि स्वपेत् || आचम्याथ * * न्वा कुर्याद्दन्तैरस्पृश्य भोजनम् | प्राणापानादि मन्त्रैश्च पञ्चब्रह्ममनुस्मरन् || भोजयित्वा क्रमेणैव शयनं कारयेत्ततः | विन्त्यविश्वे - यद्वा | हृदा तु सकलाग्रा सभोजयेद्देशिकोत्तम | पश्चादावमनं कार्यं शुद्धैरेव जलैः पुनः || निश्वासे - अग्निना तप्यमानस्य शृणु तस्य उपद्रवत् | कण्ठे शोष स्मृतार्त्तस्य मूच्छातीव्राश्च जायते || तेनार्तो न लभेत्तत्वं मन्त्रतत्वं पशोरपि | तस्मात्तृषादिभूतस्य दीक्षाहोमं न कारयेत् || हविष्य भोजनं कृत्वा घृतक्षीर परिप्लुतम् | प्. १४८३) पायसं वा स भुक्त्वा तु ततो दीक्षां समाचरेत् || मृगेन्द्रे - गव्यपूर्णञ्चरुप्राश्य शुद्धवस्त्रशुचिग्रहे | तत्रैव शययामास्तीर्य प्रागुक्तविधिना स्वपेत् || स्वायंभुवे - चरमे स्थण्डिले भूमौ स शिष्यस्तु गुरुस्वपेत् | शिष्याधिवासनं विप्र कथितन्तु म * * * || नृत्तगीत समायुक्तं विनोदं कारयेत्सदा | इति वामदेवात्मज वेदज्ञानविरचित दीक्षादर्शे निर्वान दीक्षाधिवासन विधिः | अथोत्थाय गुरुत्यक्त प्रतिसरं स्नातं सन्ध्याद्वयं निर्वर्तितं शिष्यमाहूयशुभाशुभस्वप्न श्रुत्वा स शुभे शान्तिं कुर्यात् | कारणे - त्यक्त्वा प्रतिसरं धीमान् कृत्वा स्नानन्तु शिष्यकम् | चिन्त्यविश्वे - नित्यनैमित्तिकं कृत्वा प्रविशेद्यागमण्टपम् | आचम्य विधिवच्छुद्धिं सोष्णषोभूषणान्वितम् || मण्टपं पूववत्पूज्य वर्धनी भ्रमणं विना | तोरणद्वारपालानां कलशस्याधिदैवता || चिन्त्यविश्वे - यथाद्रक्षन्तु स्वप्नं हि पृच्छेच्छिष्यं तदा गुरुः | प्. १४८४) ध्वजश्चक्रं च पद्मञ्च गजं वृषभमुत्तमम् || क्षीतं मांस दधिञ्चैव मधुमद्यं जलं तथा | गजाधारोहणञ्चापि शुक्ल माल्यानुलेपनम् || दीपमुज्वलमग्निञ्च ब्राह्मणं वेदपारगम् | समानञ्च वधूं वापि विश्यां वा सर्वलक्षणाम् || पित्रोश्च दर्शनं वापि गुरोर्दर्शनमुत्तमम् | रत्नहेमांगुलीयादि भूषणं स्वप्नमुत्तमम् || तैलाभ्यंगमषीलेपमं गच्छेदन्तथैव च | विधवा दर्शनञ्चापि नववस्त्रा वकुण्ठनम् || मृद्भाण्डनवकञ्चापि पैत्रिको महिषादिभिः | मर्दनन्दर्शनञ्चापि कृष्णपुरुष दर्शनम् || भुजगदर्शनं वापि बाधकाश्चैव मादिशेत् | काकं करोति दीनानां दर्शनं त्वशुभावहम् || कालोत्तरे शुभविषये विशेष उक्तः | नराणां ब्राह्मण श्रेष्ठ नृपमध्यममादिशेत् | पक्षीणां चापि सर्वेषांशुकं हस्य प्रशंस्यते || मृगाणामपि सर्वेषां हरिणी सिंहमुत्तमम् | पशूनामपि सर्वेषा वृषभं गजौत्तमम् || प्. १४८५) सरीसृपानां सर्वेषां श्वेतं सर्वं प्रशस्यते | गन्धपुष्पफलं सख्यं वस्त्रमाभरणं शुभम् || यस्तु पश्यति स्वप्नान्ते तस्य चिन्तां विनिर्दिशेत् | स्वप्नस्तु प्रथमे यामे वत्सरत्रयपाकिन || द्वितीयेनद्वये पाक तृतीयेप्येकवत्सरः | यामे स पश्चिमे वत्स षण्मासात्सिध्यति ध्रुवम् || उसः पूर्वे द्वादशाहात् ब्राह्मे पञ्चदशदिनम् | अरुणोदय बेलायांसप्तहात्सिद्धिमाप्नुयात् || सुदुस्वप्नं श्रावयेद्बाहु सुस्वप्नं गृहयेन्नरः | शुभञ्चेत्प्रविशेद्दीक्षां शुभाहोमं समाचरेत् || शिष्यान् पृष्ट्वा निरीस्वप्नान् सुस्वप्ने शान्तिमाचरेत् | घृत दूर्वामधुक्षीरै शतहोमञ्च कापिलैः || शुभे तु प्रविशेद्दीक्षामशुभे होममाचरेत् | इति मन्त्रं जपित्वा तु दूर्वा शिरसि निक्षिपेत् || सर्वज्ञानोत्तरे - स दुस्वप्नदर्शने मन्त्रं होमेनाष्ट सहस्रकम् | कृत्वा दीक्षां प्रकुर्वीत भौतिकस्सिद्धिवर्जिताः || देशिकश्शोध्यमध्वानं पूर्वोक्तञ्चात्मनां न्यसेत् | भास्वरं शिवहस्तञ भावयेन्नन्दिकेश्वर || कुंभे शिवञ्च संपूज्य सर्वावरण संयुतः | प्. १४८६) इन्द्रादीशापि दिक्पालान् पूजयित्वा समहितः || स्थण्डिले मण्डले वापि पूजयेच्छिवमव्ययम् | पावकं पूजयेत्पश्चात्तर्पणपूर्वकावधि || दुस्वप्नं शान्तयेत्पश्चान्मूलमन्त्रंशतं हुनेत् | हुंकारं संपुटेनैव हुत्वा मन्त्रस्य दीपनम् || कुंभमंडलयोर्मध्ये चान्तर्बलि विधीयते | शिष्याणाञ्च प्रवेशाय लब्ध्वा चाज्ञां बहिर्भवेत् || पूर्ववन्मण्डलारोहं कुर्यात् सयवत्तदा | संपातहोमतन्नाडी रूपमकरांगकम् || मूलेन सन्निधानार्थं जुहुयादाहुति त्रयम् | स्थण्डिलेशमथाभ्यर्च्य पाशसूत्रमयाहरेत् || आचार्य दक्षिणे भागे चोत्थाप्याभ्युत्थितश्शुभम् | नाडीसूत्रञ्च बध्नीयात् केशात् पादान्तलंबितान् || ततः पशोरनु * * करोमीति विज्ञाप्य शिवादनुज्ञां शिरसा वाहयित्वा आदेहवन्हिमण्डल कुंभशिष्येषु बोध्यमध्वानं परध्वनोपि व्यापकं मृत्वा अन्योन्य सन्धानार्थं मूलेन शतं जुहुयात् | तदनु ओं हां आधार शक्तये नमः | इति वन्हौ विन्यस्य पूज्य संनिधानाहुतित्रयं दत्वा शिष्यदेहसूत्रभेदेन जान्वधो निवृत्तिस्थानीयभूते तद्वयाप्तिमालो भवेत् | ओं हां निवृत्तिकलायै नमः | प्. १४८७) ओं हां निवृत्तिकलायै नमः | ओं हां पृथिवी तत्वाय नमः | ओं हां कालाग्निरुद्राय नमः | ओं हां कूश्माण्डाय नमः | ओं हां हाटकेश्वराय नमः | ओं हां ब्रह्मणे नमः | ओं हां विष्णवे नमः | ओं हां रुद्राय नमः | ओं हां कपालीशाय नमः | ओं हां अजाय नमः | ओं हां बुद्धाय नमः | ओं हां व्रजदेहाय नमः | ओं हां प्रमर्दनाय नमः | ओं हां विभूतये नमः | ओं हां अव्याय नमः | ओं हां शास्त्रे नमः | ओं हां पिनाकिने नमः | ओं हां श्री दशाधिपाय नमः | अग्निरुद्राय नमः | ओं हां हुताशनाय नमः | ओं हां पिंगलाय नमः | ओं हां खादयित्वाय नमः | ओं हां हराय नमः | ओं हां ज्वलनाय नमः | ओं हां दहनाय नमः | ओं हां बभ्रवे नमः | ओं हां भस्मान्तकाय नमः | ओं हां क्षयान्तकाय नमः | ओं हां धर्माय नमः | ओं हां मृत्यवे नमः | ओं हां हराय नमः | ओं हां धात्रे नमः | ओं हां विधात्रे नमः | ओं हां कर्त्रे संज्ञाय नमः | ओं हां सव्योक्त्रे नमः | ओं हां पित्रे नमः | ओं हां धर्माय नमः | ओं हां अधर्मपतये नमः | ओं हां निरृतये नमः | ओं हां मारणाय नमः | ओं हां मन्त्रे नमः | ओं हां क्रूरदृष्टये नमः | ओं हां भयानकाय नमः | ओं हां ऊर्ध्वेशाय नमः | प्. १४८८) ओं हां विरूपाक्षाय नमः | ओं हां धूम्राय नमः | ओं हां लोहिताय नमः | ओं हां दंष्त्राय नमः | बलाय नमः | ओं अतिबलाय नमः | ओं हां पाशहस्ताय नमः | ओं हां बलाय नमः | श्वेताक्षाय नमः | जयभद्राय नमः | ओं हां दीर्घबाहवे नमः | ओं हां जलान्तकाय नमः | मेघनादाय नमः | ओं हां सुनादाय नमः | ओं हां शीघ्राय नमः | ओं हां लघवे नमः | ओं हां वायुवर्गाय नमः | ओं हां सूक्ष्माय नमः | तीक्ष्णाय नमः | ओं हां क्षयान्तकाय नमः | पञ्चान्तकाय नमः | ओं हां शिवान्तकाय नमः | कपर्दिने नमः | मेघवाहनाय नमः | निधीशाय नमः | रूपवते नमः | ओं हां धन्याय नमः | सौम्यदेहाय नमः | जटाधाराय नमः | ओं हां लक्ष्मीघृते नमः | रत्नघृते नमः | ओं हां श्री घृते नमः | प्रासादाय नमः | विद्यार्धिपेशाय नमः | ईशाय नमः | सर्वज्ञाय नमः | ज्ञानभुजे नमः | वेदपारगाय नमः | ओं हां सुषुम्नशाय नमः | शर्वाय नमः | ओं हां ज्येष्ठाय नमः | ओं हां भूतपालाय नमः | बलिप्रियाय नमः | वृषाय नमः | वृषधराय नमः | अनन्ताय नमः | क्रोधाय नमः | मरुतार्शनाय नमः | ग्रसनाय नमः | उदुंबरीशाय नमः | फणीन्द्राय नमः | वज्राय नमः | दंष्ट्रे नमः | शंभवे नमः | विभवे नमः | गणाध्यक्षाय नमः | प्. १४८९) त्रियक्षाय नमः | त्रिदशेश्वराय नमः | संवाहनाय नमः | विवाहनाय नमः | नभसे नमः | लिप्सवे नमः | त्रिलोचनाय नमः | ओं हां वीरभद्राय नमः | ओं हां भद्रकाल्यै नमः | ओं हां क्षकाराय नमः | इति तत्वम् | ओं हां ओं नमो नमः | शिवाय नमः | ओं नमः सर्वदाय नमः | शर्वाय नमः | ओं हां शिवाय नमः | सूक्ष्मसूक्ष्माय नमः | शब्दाय नमः | ज्ञानज्ञानाय नमः | पिंगपिंगाय | पतंग पतंगाय नमः | ओं हां कुरु कुरु नमः | ओं हां साक्षिन् सक्षिन् नमः | पूर्वस्थित पूर्वस्थिताय नमः | अस्तुतस्तुताय नमः | अनन्विवार्चितये नमः | ओं हां ब्रह्मविष्णुरुद्रपदाय नमः | ओं हां सर्वसान्निध्यकराय नमः | सर्वभूत सुखप्रदाय नमः | ओं हां भवोद्भवाय नमः | भवभवाय नमः | शर्वशर्वाय नमः | प्रथम प्रथमाय नमः | मुञ्चमुञ्चाय नमः | ओं हां योगाधिपतये नमः | ओं हां देवाय नमः | ओं हां तेजसे नमः | सद्भावेश्वराय नमः | इति पदार्थानां विंशति | ओं हां हृदयाय नमः | ओं हां सद्योजातमूर्तये नमः | ओं हां लकाराय नमः | ओं हां लकाराय नमः | ओं हां इडाय नमः | पिंगलाय नमः | प्राणाय नमः | अपानाय नमः | उपस्थाय नमः | ज्ञानेन्द्रियाय नमः | गन्धविषयाय नमः | गन्धगुणाय नमः | रसगुणाय नमः | ओं हां रूपगुणाय नमः | प्. १४९०) स्पर्शगुणाय नमः | शब्दगुणाय नमः | ब्रह्मणे कारणेशाय नमः जाग्रावस्थाय नमः | पीतञ्चतुरश्रन्वकिताय नमः | पृथिवीमण्डलाय नमः | ओं हां * * न यो * नमः | प्रक्षयोनये नमः | पशुयोनये नमः | सरीसृपाय नमः | स्थावरयोनये नमः | मानुष्य योनये नमः | पैशाच योनये नमः | राक्षसयोनये नमः | यक्षयोनये नमः | * र्वे योनये नमः | ऐन्द्रयोनये नमः | सौम्य योनये नमः | प्रजेश योनये नमः | ओं हां ब्रह्मयोनये नमः | ओं हां चतुर्दर्शये नमः | एतैस्समस्तैर्गर्भितान्तिवृत्तिकलायै विलोक्य शोधयेत् | अथवा नरयोने द्विजश्शोध्या मृगयोनेर्मृगाधिपः | पशुयोने कामधेनु पक्षियोने खगेश्वरः | वासुकी सर्पयोने स्यात् स्थावरसप्तवर्णकः || ओं हां निवृत्ति कलायै हः हुं फडिति जान्वधः | पुष्पेण संताड्य | ओं हां ह्लां निवृत्तिकलायै स्वाहेत्यंकुश मुद्रया पूरकेणाकृष्य ओं हां हां हां ह्लां हां हौं निवृत्ति कलायै हुं फडिति संहारमुद्रया कुंभकेन संगृह्य ओं हां ह्लां हां निवृत्तिकलायै नमः | रेचकेणोद्भवमुद्रया कुण्डेशक्तावधार रूपिण्यान्निवेशयेत् | ओं हां ह्लां निवृत्ति कलायै नमः | इति संपूज्यार्ध्यन्दत्वा अनेन सन्निधानाहुतित्रयन्दत्वा पाशत्रयमलकर्म माया धाररूपं भोक्तृत्व भोग शरीरादि जनकं भावयेत् | प्. १४९१) तदनु | ओं हां ब्रह्मणे नमः | इति ब्रह्माणमावाह्य संपूज्य सन्निधानाहुति त्रयं स्वाहान्तेन दत्वा ओं ब्रह्मन्तवाधिकारिस्मिन्मुक्षिर्दीक्षयाम्यहम् | भाव्यं त्वयानुकूलेन विधिं विज्ञापयेदिति || इति शिवाज्ञां श्राव्य ततस्तस्यां कलायां स्थावरादि ये निरनन्तास्संकल्प्य तद्व्यापिनीं वागीश्वरं - आवाहयेत्ततो देवीं रक्तां वागीश्वरीन्तया | इच्छा ज्ञान क्रियां रूपां षड्विधाध्वैक कारिणीम् || पूजयेत्तर्पयेद्देवीं भक्तिभाव समन्वितः | तथा वागीश्वरन्देवं योनिसंक्षोभदक्षकम् || इति ध्यात्वाभ्यर्च्य सन्तिधानाहुतित्रयन्दत्वा भगवन्तौ पशोरनुग्रहाय सन्निधी भवतमिति प्रार्थ्य शिष्यमस्त्रेण संप्रोक्ष्य ओं हां हां हां हुं फडिति हृद्देशे सपुष्पानाराच मुद्रया संताड्यात्मनो रेचकेन तस्य देहे हुं कारेण प्रविश्य ओं हां हं हां हुं फडिति ज्येष्ठया वियोज्य ओं हां हं हां स्वाहेत्यं कुशमुद्रया पूरकेणा कृस्य आत्ममूलमन्त्र मनुस्मरन् तद्वादशान्तं नीत्वा तृणाग्रबिन्दुरूपं जीवं सञ्चिन्त्य ओं हां हं हां आत्मने नम इति संहार मुद्रया संगृह्य पूरकेण वृत्या स्वहृदि सन्निवेश्य कुंभकं कृत्वा मूलमन्त्र मनुस्मरन् ओं हां हं हां आत्मने नमः | प्. १४९२) इति ब्रह्मादि कारणत्यागेन क्रमेण स्वद्वादशान्तं नीत्वा संगृह्य पूर्वोक्त क्रमेण निस्सार्ये पिर्त्रोस्संयोगं विभाव्य वामयोद्भवमुद्रया ओं हां हं हां आत्मने नम इति सर्वयोनिष्वनेक व्यक्तिरूपेणात्मनो युगपद्गर्भ निष्पत्तिं कुरु कुर्विति ततस्तज्जननार्थं मूलेनाहुति त्रयम् विधाय भगवन्नस्यात्मनस्सर्वगर्भाणाञ्जननं कुरु कुर्विति ततोधिकारार्थं सशरीराणां युगपद्वृद्धिं संभाव्य भोगनिस्पत्तये व्यापि कूपतटा प्रपादिलौकिक कर्मफलं प्रागागमी च कर्मैकस्थं सर्व योनिशरीरेष्टभोगान्नस्यात्मनो नानाभोगदायकं कर्मार्जनं कुरु कुर्विति | तदनु देशकाल शरीरविषयभेदे नानारूपं प्रागागामिकर्मवासना जनितं भोक्तृत्वलिंगिन्यात्मनि सुःखदुःख वेदनात्मकं भोगं सञ्चिन्त्य मूलेनाहुतित्रयं दद्यात् | भगवन्तस्यात्मनस्सर्वत्र भोगनिष्पत्तिं कुरु कुर्विति विज्ञापयेत् | अत्रान्तरे भूलोकगर्भाधानादिनाम्नायोक्तान् चत्वारिंशत् संस्कारान् घृताहुतिभिस्तिसृभिस्तिसृभिः पञ्चभिर्वा आपादयेत् | तद्यथा - गर्भाधानादि पुंसवनं सीमन्तोन्ननयनं तथा | जातकर्मनामकरणं उपनिष्क्रामणं तथा || अन्न प्राशनकादीनि पूर्वन्नव प्रभाषितम् | प्. १४९३) इत्थं संस्कारानापाद्य तत्प्रतिबन्धकं हृदाहुति त्रयेण तथैव विनिवर्तयेत् | तदनु भोगेषु परमाप्रीति योगं लयमनुसन्धाय मूलेनाहुतित्रयं दत्वा भगवन्तस्यात्मनो भोगेषु परमाप्रीतियोगं लयं कुरुकुर्विति मायाकार्यारंभ प्रवाहरूपाणां भुक्तस्यान्नपथां स्रोतसां शुद्धये मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनो मायाकार्यारंभे प्रवाहशुद्धिं कुरुकुर्विति विज्ञापयेत् | भोगहेतौ कर्मणि भुक्तेपि पुनस्तदप्रसत्वहेतवे निवृत्तितत्वशुद्धौ हृदयाहुतित्रयं कार्यम् | निष्कृतौ जाति भोगसंस्कारादि शुध्यर्थं सर्वदामूलेन सपाशुपतेनाहुति त्रयं दत्वा भोक्तृत्वविषयासक्ति रूपं मलकार्यं विभाव्य तत्तिरोधानार्थं मूलेन पाशुपतेनाहुतिदशकं हुंकारमलाद्विश्लेषं संकल्प्य पुनर्मूलेन तथैवाहुति तथैवाहुति त्रयं जुहुयात् | कर्मणो भुक्तस्यात्यन्तर्भाव रूपविश्लेषं संभाव्य मूलेन सपाशुपतेनाहुतित्रयन्दत्वा माया कर्मरूपस्य विश्लेषं कुरुकुर्विति तदनु सप्तधास्तजप्तया कर्तर्या ओं हां ह्लां हौ निवृत्तिकलापाशाय हुं फडिति अनेन मन्त्रेण स्वस्वरनिवृत्ति कलापाशवधौ विद्यात् | ततो बन्धक निवृत्तये हस्ताभ्या मस्त्रेण विमृज्यवर्तुली कृत्य घृतपूर्णायां स्रुचि ध्यात्वा आज्य सहितं तेनैव मन्त्रेणाग्नौ दहेत् | केवलास्त्रेणाष्टा हुत्वा शेषशरीरविनाशे चैतन्यस्यैकत्वं संभावयेत् | प्. १४९४) तदनु बीजं दीक्षायान्तत्र ब्रह्माणमाबाह्य संपूज्य संतर्प्य शिवपदगमन प्रबन्धकारणार्थं विज्ञाप्य विसृजेत् | एवं प्रतिष्ठा कलायां कुर्यात् | यद्वा ब्रह्माणमावाह्य संपूज्याहुति त्रयं दत्वा पुर्यष्टकशुध्यर्थं ओं हां ब्रह्मन् शब्दस्पर्शौ शुष्कं गृहाणेति स्वाहाहुति त्रयं हुत्वा विज्ञापयेत् | भो भो ब्रह्मन्त्वया नाड्या चापदं नामयं प्रति | बन्धो विधातव्य इत्याज्ञा पारमेश्वरीति शिवश्राव्य ब्रह्माणं विसृजेत् | एवं शुद्धतत्वाग्र संस्थितं शुद्धस्फटिक मणिनिभं निवृत्तिकला जालनिर्मुक्तमात्मानं सञ्चिन्त्योद्धारणार्थं मूलेनाहुति त्रयं हुत्वा निवृत्तिपाशन्दुद्धार भगवन्तस्य * व कुरु कुरु कुर्विति संहारमुद्रया पूरकेण ओं हां हं हां आत्मने नम इति रौद्रात्मानं संहारिण्याग्नेरुद्धृत्य वामया पूरकेण राहुमुक्तैकदेश चन्द्रबिंब सदृशमात्मानं हूयमानीय पूर्वद्वादशान्तस्थं कृत्वा रेचकेणोद्भवमुद्रया शिष्य देहे सूत्रे नियोज्य संपूज्याप्यायनाय मूलेन वौषडन्तेनार्ध्य जलबिन्दुं शिरसि दत्वा स्थिरीकरणार्थं मूलेन वाहुति त्रयं दत्वा पश्चात् पितरौ संपूज्याहुति त्रयेण संताड्यार्ध्ययित्वा वौषडन्तमूलेन पूर्णां विदध्यात् इति निवृत्तिकला शुद्धिः | प्. १४९५) प्रतिष्ठाकला शोधनम् - चिन्त्यविश्वे - निवृत्तिं शोधनं ह्येतत् प्रतिष्ठामारभते क्रमात् | तत्तद्वयस्य सन्धानं शुद्धाशुद्धस्य वै भवेत् || ह्रस्वदीर्घ प्रयोगेण सान्तान्तन्दान्त संयुतम् | शुद्धामायान्तमुच्चार्य शुद्धान्नादान्त मुच्चरेत् || ओं हां ह्लीं निवृत्ति प्रतिष्ठा कलाभ्यां नमः | इति संपूज्याहुति त्रयं दत्वा शुद्धमशुद्धे विमानं संभाव्य द्वितीयां कलामुपस्थापयेत् | ओं हां आधारशक्तये नमः | इति संपूज्याहुति त्रयं हुत्वा सूत्रदेहे प्रतिष्ठा स्थाने तद्वयाप्तिं विचिन्त्य ओं ह्लीं प्रतिष्ठा कलायै नमः | इत्यवलोकयेत् | ओं हां अप्तत्वाय नमः | ओं हां तेजस्तत्वाय नमः | ओं हां वायुतत्वाय नमः | ओं हां आकाशतत्वाय नमः | ओं हां गन्धतत्वाय नमः | ओं हां रूपतत्वाय नमः | ओं हां स्पर्शतत्वाय नमः | ओं हां शब्दतत्वाय नमः | ओं हां उपस्थतत्वाय नमः | ओं हां वायुतत्वाय नमः | ओं हां पादतत्वाय नमः | ओं हां वाणितत्वाय नमः | ओं हां वाक्तत्वाय नमः | ओं हां घ्राणतत्वाय नमः | ओं हां जिह्वातत्वाय नमः | ओं हां चक्षुस्तत्वाय नमः | ओं हां त्वक् तत्वाय नमः | प्. १४९६) ओं हां श्रोत्रतत्वाय नमः | ओं हां मनस्तत्वाय नमः | ओं हां अहंकारतत्वाय नमः | ओं हां बुद्धितत्वाय नमः | ओं हां गुणतत्वाय नमः | ओं हां प्रकृतितत्वाय नमः | इति चतुर्विंशति तत्वानि | ओं हां अमरेशाय नमः | ओं हां प्रभासाय नमः | ओं हां नैमिशाय नमः | ओं हां पुष्कराय नमः | ओं हां आषाढाय नमः | ओं हां मुण्डये नमः | ओं हां भारभूताय नमः | ओं हां लकुलीशाय नमः | इत्यष्टभुवनानि अप्तत्वे | ओं हां हरिश्चन्द्राय नमः | ओं हां श्रीशैलाय नमः | ओं हां जल्पेश्वराय नमः | ओं हां आम्रादिकेश्वराय नमः | ओं हां मध्यमेश्वराय नमः | ओं हां महादेवाय नमः | ओं हां केदाराय नमः | ओं हां महादेवाय नमः | ओं हां केदाराय नमः | ओं हां भैरवाय नमः | इत्यष्ट तेजस्तत्वभुवनानि ओं हां गयायै नमः | ओं हां कुरुक्षेत्राय नमः | ओं हां नाखलाय नमः | ओं हां न खलाय नमः | विमलेश्वराय नमः | अट्टहासाय नमः | ओं हां महेन्द्राय नमः | ओं हां भीमेश्वराय नमः | इत्यष्टौ वायुतत्व भुवनानि | ओं हां वस्त्रापदाय नमः | ओं हां रुद्रकोट्यै नमः | ओं हां अविमुक्ताय नमः | महालयाय नमः | ओं हां गोकर्णाय नमः | ओं हां भद्रकर्णाय नमः | स्वर्णाक्षाय नमः | ओं हां स्थाणवे नमः | प्. १४९७) इत्यष्टौ आकाशतत्व भुवनानि | ओं हां चण्डाय नमः | ओं हां द्विरण्डाय नमः | महाकोटाय नमः | मण्डलेश्वराय नमः | ओं हां कालाञ्जनाय नमः | इति तन्मात्र पञ्चके | पञ्चभुवनानि ओं हां शंकुकण्ठाय नमः | ओं हां स्थलेश्वराय नमः | इति कर्मेन्द्रिय पञ्चके | ओं हां स्थूलेश्वराय नमः | इति बुद्धिन्द्रिय पञ्चके | ओं हां स्थलेश्वराय नमः | इत्यहंकारतत्वभुवने | ओं हां पैशाचाय नमः | ओं हां राक्षसाय नमः | ओं हां यक्षाय नमः | गन्धर्वाय नमः | ऐन्द्राय नमः | ओं हां सौम्याय नमः | ओं हां प्रजेशाय नमः | ओं हां ब्रह्मणे नमः | इति योन्यष्टकं बुद्धि तत्व भुवने | ओं हां अकृताय नमः | कृताय नमः | भैरवाय नमः | ओं हां ब्रह्मणे नमः | विष्णवे नमः | ओं हां कौमाराय नमः | ओं हां औमाय नमः | श्रीकण्ठाय नमः | इति देवयोन्यष्टकं प्रकृतौ इति षट्पञ्चाशत् भुवनानि | ओं हां हकाराय नमः | षकाराय नमः | ओं हां शकाराय नमः | वकाराय नमः | लकाराय नमः | रेफाय नमः | यकाराय नमः | ओं हां मकाराय नमः | भकाराय नमः | बकाराय नमः | फकाराय नमः | पकाराय नमः | ओं हां नकाराय नमः | धकाराय नमः | दकाराय नमः | धकाराय नमः | तकाराय नमः | णकाराय नमः | प्. १४९८) ढकाराय नमः | डकाराय नमः | ठकाराय नमः | टकाराय नमः | इति वर्णा त्रयोविंशति | ओं हां शर्वशर्वाय नमः | ओं हां प्रथम प्रथमाय नमः | ओं हां मुञ्च मुञ्चाय नमः | ओं हां योगाधिपतये नमः | ओं हां महातेजसे नमः | ओं हां सद्भावेश्वराय नमः | ओं हां महादेवाय नमः | परमात्मने नमः | शर्वाय नमः | शिवाय नमः | ओं हां निधनोद्भवाय नमः | निधनाय नमः | अनिधनाय नमः | स्वधाय नमः | भुवाय नमः | भुवे नमः | ओं हां धू धू धू धू नमः | ना ना ना ना नमः | अनादे नमः | अभस्माय नमः | अधूमाय नमः | अनग्ने नमः | अरूपाय नमः ज्योतिर्ज्योतिन्नमः | तेजस्तेजाय नमः | प्रथम प्रथमाय नमः | अरूपिन्नरूपिन्नमः | व्यापिन् व्यापिन्नमः | इत्यष्टविंशत्पदानि | ओं हां हिं शिरसे नमः | ओं हां हिं वामदेवाय नमः | इति मन्त्रौ द्वौ | ओं हां उकाराय नमः | ओं हां वकाराय नमः | इति बीजौ द्वौ | ओं हां सुषुम्नाय नमः | गान्धाराय नमः | इति नाडी द्वौ | ओं हां समानाय नमः | शब्दगुणाय नमः | उदानाय नमः | वा द्वौ | ओं हां ईशासनाय नमः | इतीन्द्रिये | ओं हां स्वप्नावस्थाय नमः | ओं हां विष्णवे कारणेश्वराय नमः | इत्येतैः समस्त्रैर्गर्भितां प्रतिष्ठाकलां शिष्यदेहं - प्. १४९९) सूत्रभेदेन मनसा सञ्चिन्त्य ओं हां ह्लीं हां प्रतिष्ठा कलायै हुं फडिति संहारिण्या कुंभकेन संगृह्य ओं ह्रां ह्लीं प्रतिष्ठाकलायै नमः इति रेचकेणोद्भवमुद्रया कुण्डे शक्तावाधाररूपिण्या निवेशयेत् | ओं हां ह्लीं प्रतिष्ठाकलायै नमः | इत्यभ्यर्च्यार्ध्यन्दत्वा स्वाहान्तेन सन्निधानाहुति त्रयन्दत्वा पाशत्रयमलकर्माया रूपं भोक्तृत्व भोग शरीरादिजनकं भावयेत् | तदनु ओं हां विष्णवे नमः | इति विष्णुमावाह्याभ्यर्च्य संनिधानाहुति त्रयन्दत्वा ओं विष्णवे तवाधिकारेस्मिन्मुमुक्षुर्दीक्षयाम्यहम् | भाव्यन्त्वयानुकूलेन पारमेशनि योगतः | इति शिवं श्रावयित्वा तस्यां कलायां नानायोनिरूपं संकल्प्य तद्वयापकं वागीश्वरीं वागीश्वरञ्च पूर्ववदभ्यर्च्य सन्निधानाहुति त्रयन्दत्वा भगवन्तो पशोरनुग्रहाय संनिधी भवतामिति प्रार्थ्य शिष्यमस्त्रेण संप्रोक्ष्य ओं हां हुं फडिति हृद्देशे सपुष्पानारा च मुद्रया संताड्यात्मनो रेचकेण तस्य देहे हुं कारेण प्रविश्य ओं हां हं हां हः हुं फडिति ज्येष्ठया वियोज्य ओं हां हं हां स्वाहेत्यंकुश मुद्रया चोत्कृष्य मूलमन्त्र मनुस्मरन् तद्वादशान्तं नीत्वा संगृह्य पूर्वोक्त क्रमेण निस्सार्य पित्रोस्संयोगं विभाव्य वामयोद्भवमुद्रया ओं हां हं हां आत्मने नमः | प्. १५००) इति सर्वयोनिषु अनेक व्यक्तिरूपेण आत्मनो युगपत्संयोगं कृत्वा मूलेन संपूज्याहुति त्रयं दत्वा | भगवन्नस्यात्मनस्सर्वासु योनिषु युगपद्गर्भनिष्पत्ति कुरु कुरु कुर्विति विज्ञाप्य सर्वगर्भनिष्पत्तये मूलेनाहुतिं दत्वा | भगवन्न स्यात्मनस्सर्वस्सस्र्वासु योनिषु युगपद्गर्भ निष्पत्ति कुरु कुर्विति विज्ञापयेत् ततस्तु जननार्थं प्रसादेनाहुति त्रयं विधाय भगवन्नस्यात्मनस्सर्व गर्भाणां जननं कुरु कुर्विति ततोधिकारार्थं सर्वशरीराणां युगपद्वृद्धिं संभाव्य भोगनिष्पत्तये सोमसंस्थादि वैदिककर्म कृच्छ्र जात्यं प्रागामि च कर्मैकसंस्थं सर्वयोनि शरीरेषु भोगदायकं कर्मार्जनञ्च भावयित्वा मूलेनाहुति त्रयं जुहुयात् | भगवन्नस्यात्मनो नाना भोगदायकं कर्मार्जनञ्च कुरु कुरु कुर्विति | तदनु देशकालशरीरविषय भेदेन नानारूप प्रागादिकर्म वासना जनितं भोक्तृत्व लिंगिन्यात्मनि सुख दुःख वेदनात्मकं सञ्चिन्त्य मूलेनाहुति त्रयं दत्वा भगवन्नस्यात्मन स्सर्वासु भोगनिष्पत्तिं कुरु कुरु कुरिति भोग्येषु परम प्रीतिरूपं लयं सञ्चिन्त्य मूलेनाहुति त्रयं दत्वा भगवन्नस्यात्मनो भोग्येषु परमप्रीतिरूपं लयं कुरु कुरु कुर्विति मायाकार्यारंभ प्रवाहरूपाणां भोक्तृस्थान पाशां स्रोतसां शुद्धये मूलेनाहुति त्रयं हुत्वा भगवनस्यान्नस्यात्मनो - प्. १५०१) माया कार्यारंभ प्रवाहशुद्धिं कुरु कुरु कुर्विति भोग हेतौ कर्मणि भुंक्तेपि पुनस्तदप्रसवित्व हेतवे प्रतिष्ठातत्व हृतिकार्यं निष्कृतौ जात्यायुर्भोग संस्कारादि शुध्यर्थं शिरसा मूलेन शताहुतिं हुत्वा भगवन्नस्यात्मनो निष्कृत्य सर्व कर्मसु शुद्धिं कुरु कुरु कुर्विति भोगाभावे माया पाशात् बहिर्निष्क्रमणरूपं विश्लेषं संभाव्य मूलेन पाशुपतेनाहुति त्रयं हुत्वा भोतृत्व विषयासक्ति रूपं मल * * भोव्य तत्तिरोधानार्थं स पाशुपतेन मूलेनाहुति दशकं हुत्वा मलाद्विश्लेषं संकल्प्य पुनर्मूलेन तथैवाहुति त्रयं जुहुया कर्मणो भुक्तस्याप्यत्यन्ताभावरूप विश्लेषं संभाव्य मूलेन सपाशुपतेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनो मायामलकर्मरूपस्य पाशत्रयस्य विश्लेषं कुरु कुरु कुर्विति विज्ञापयेत् | तदनु सप्तधाभ्र जप्तया कर्तर्या ओं हां ह्वीं हौं प्रतिष्ठाकलापाशाय हः हुं फडित्यनेन मन्त्रेण सस्वरं प्रतिष्ठाकला कलशावयौच्छिद्यात् | ततो बन्धकत्व निवृत्तये हस्ताभ्यां वस्त्रेण विमृज्या वर्तुलीकृत्य घृतपूर्णायां स्रुचन्यस्त्वाज्यसहितं तेनैव मन्त्रेण हुत्वा दहेत् | केवलास्त्राहुति त्रयेण भस्मसात्कुर्यात् | भगवन्नस्यात्मन प्रतिष्ठाकला - प्. १५०२) पाशच्छेदं कुरु कुर्विति विज्ञाप्य पुनः पाशांकुर निवृत्तये हुं फडन्तास्त्रेणाहुति पञ्चकं हुत्वा प्रायश्चित्तार्थं अस्त्रेणाहुति त्रयन्दत्वा विज्ञापयेत् | भो भो विष्णोत्वया नास्या या तु पदमनामयम् | प्रतिबन्धो विधातव्य इत्याज्ञा पारमेश्वरीति || विष्णुं विस्र्जेत् | एवं शुद्धतत्वाग्रस्थं शुद्धस्फटिक मणि निभप्रख्यं प्रतिष्ठाकलाजाल निर्मुक्तमात्मानं विचिन्त्योद्धाराय मूलेनाहुति त्रयं दत्वा भगवन्नस्यात्मनः | प्रतिष्ठा कलापाशद्धारं कुरु कुरु कुर्विति विज्ञाप्य ओं हां आत्मने नमः | इति रौद्रात्मानं संहारिण्याग्नेरुद्धृत्य वामया पूरकेणाहुतिरर्द्ध चन्द्र निभामात्मान मात्मनि हृदयं रेचकेणोद्भवमुद्रया शिष्यसूत्रदेहे नियोज्याभ्यर्च्याप्याय नाय मूलेनार्ध्यजलबिन्दुं शिरसिदत्वा स्थिरीकरणार्थं मूलेनाहुति त्रयं दत्वा तदनु पितरौ संपूज्याहुतित्रयं दत्वार्ध्ययित्वा विसृज्य वौषडन्तमूलेन पूर्णान्दद्यात् | इति प्रतिष्ठाकला शुद्धिः || चिन्त्यविश्वे - विद्या सन्धान कार्यत्वं पूर्वोक्त कलया सह | तत्व वर्णादिकं सर्वं पूर्ववन्नन्दिकेश्वर || अत्र क्रमः | शुद्धां प्रतिष्ठाकलां ह्रस्वमुच्चार्य शुद्धां विद्याकलादीर्घ मुच्चारयेत् | प्. १५०३) ओं हां हूं प्रतिष्ठा विद्या कलाभ्यां नमः | इति संपूज्याभ्यर्च्याहुति त्रयं दत्वा शुक्लं शुद्धे विलीनं संभाव्य विद्याकलामुपस्थापयेत् | ओं हां आधारशक्तये नमः | इत्यवलोकयेत् | ओं हां पुरुष तत्वाय नमः | ओं हां रागतत्वाय नमः | तद्वयाप्तिं विचिन्त्य | ओं ह्रूं विद्याकलायै नमः | ओं हां कालतत्वाय नमः | ओं हां नियति तत्वाय नमः | ओं हां कलातत्वाय नमः | ओं हां माया तत्वाय नमः | इति सप्ततत्वानि | ओं हां वामाय नमः | ओं हां भीमाय नमः | ओं हां उग्राय नमः | ओं हां भवाय नमः | ओं हां ईशानाय नमः | ओं हां एकवीराय नमः | इति पुरुषतत्वानि भुवनानि | ओं हां प्रचण्डाय नमः | ओं हां उमापतये नमः | ओं हां अजाय नमः | ओं हां एकशिखाय नमः | इति रागतत्व भुवनानि | ओं हां क्रोधाय नमः | ओं हां चण्डाय नमः | इति विद्यातत्व भुवने द्वौ | ओं हां महातेजसे नमः | ज्योतिषे नमः | संवर्ताय नमः इति कलातत्व भुवने द्वे | ओं हां शूराय नमः | पञ्चान्तकाय नमः | इति नियति तत्व भुवने द्वे एकवीराय नमः | शिवोदयाय नमः | इति कलातत्व भुवने द्वे | ओं हां महातेजसे नमः | वामदेवाय नमः | ओं हां भवाय नमः | उद्भवाय नमः | पिंगेक्षणाय नमः | प्. १५०४) ओं हां ईशानाय नमः | भुवनेशाय नमः | अष्टमात्राय नमः | इति माया तत्व भुवनाष्टकनि | तथा कामिके - षट् पञ्च पञ्चकञ्चैव युग्मे मयुग्मद्वयम् | अष्टकं पुरुषादौ तु मायान्ते तु पुराणि तु | ओं हां ञकाराय नमः | ओं हां लकाराय नमः | जकाराय नमः | छकाराय नमः | चकाराय नमः | ओं हां दकाराय नमः | ओं धकाराय नमः | इति वर्णास्सप्त | ओं हां व्योमिन् व्योमिन्नमः | अचेतना चेतनाय नमः | ओं परमेश्वराय नमः | ओं हां ज्योतिरूपाय नमः | सर्वविद्याधिपाय नमः | सर्वयोगाधिकृताय नमः | ओं हां अनिधनाय नमः | गोप्ते नमः | गुह्याति गुह्याय नमः | ओं हां ओन्नमो नमः | ओम् हां सद्योजातमूर्तये नमः | ओं हां वामगुह्याय नमः | अघोरहृदयाय नमः | तत्पुरुष वक्त्राय नमः | ईशानमूर्द्धाय नमः | ओं हां शिवाय नमः | ओं हां सर्वप्रभवे नमः | शिवाय नमः | नमो नमः | ओं हां ओन्नमः | इति विंशत्पदानि ओं हां हूं शिखायै नमः | ओं हां अघोराय नमः | इति मन्त्रौ द्वौ | ओं हां मकाराय नमः | रेफाय नमः | इति बीजौ द्वौ | ओं हां पुरुषाय नमः | ओं हां हस्ति जिह्वाय नमः | इति नाडी द्वौ | ओं हां विधाय नमः | ओं हां स्पर्शगुणाय नमः | प्. १५०५) शब्दगुणाय नमः | रुद्राय कारणेश्वराय नमः | ओं हां रक्तग्रयश्रं स्वस्तिकाञ्चिताय नमः | मण्डलाय नमः | ओं हां सुषुप्त्यवस्थाय नमः | इत्येतैस्सर्वैर्गर्भितां विद्याकलां शिष्यदेहे सूत्रैक्येन चेतसावलोक्य ओं हां ह्रं विद्याकलायै हः हुं फडिति संहारिण्या कुंभकेन संगृह्य ओं ह्रां ह्रूं हां विद्याकलायै इति रेचकेणोद्भवमुद्रया | कुण्ठे शक्तावाधार रूपिण्यां निवेशयेत् | ओं हां ह्रूं हां विद्याकलायै नमः | इत्यभ्यर्च्यार्ध्ययित्वा संनिधानाहुतिर्हुत्वा पाशत्रयम्मलत्रयकर्माय रूपं भोक्तृत्व भोगशरीरादि जनकं भावयेत् | तदनु | ओं हां रुद्राय नमः | इति रुद्रावाह्याभ्यर्च्य संनिधानाहुतिर्हुत्वा | रुद्रस्त्वधिकारेस्मिन् मुमुक्षुर्दीक्षयाम्यहम् | भाव्यं त्वयानुकूलेन सदाशिव नियोगतः || इति श्रावयित्वा तस्यां नानारूपायोनिस्सं कल्प्य तद्वयापिकां वागीश्वरीं वागीश्वरञ्च पूर्ववदभ्यर्च्य संनिधानाहुतिर्हुत्वा भगवन्तौ पशोरनुग्रहय संनिधी भवतामिति प्रार्थ्य शिष्यमस्त्रेण संप्रोक्ष्य ओं हां हुं फडिति हृद्देशे स पुष्प नाराच मुद्रया संताड्यात्मनो रेचकेण तस्य देहं हुं कारेण प्रविश्य ओं हां हं हां हः हुं फडिति ज्येष्ठया नियोज्य ओं हां हं हां स्वाहेत्यं कुशमुद्रया चोत्कृष्य - प्. १५०५) मूलमन्त्र मनुस्मरन् द्वादशान्तं नीत्वा तृणाग्रबिन्दुरूपं जीवं सञ्चिन्त्य ओं हां हं हां आत्मने नम इति संहारमुद्रया संगृह्य पूरकवृत्या स्वहृदिंनिवेश्य कुंभकं कृत्वा मूलमन्त्र मनुस्मरन् ओं हां हं हां आत्मने नम इति ब्रह्मादि कारणत्याग क्रमेण द्वादशान्तं नीत्वा संगृह्य दक्षिण नाड्या निस्सार्य पित्रोस्संयोगं विभाव्य वमयोद्भव मुद्रया ओं हां हं हां आत्मने नमः इति सर्वयोनिषु नैक व्यक्तिरूपेणात्मनो युगपत्संयोगं कृत्वा मूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनस्सर्वासु योनिषु युगपत्संयोगं कुरु कुरु कुविति विज्ञाप्य सर्वगर्भनिष्पत्तये मूलेनाहुति त्रयं दत्वा ततस्तु जननार्थं मूलेनाहुति त्रयं हुत्वा ततोधिकारार्थं शरीराणां युगपद्वृद्धिं संभाव्य भोगनिष्पत्तये आध्यात्मिकं वैराग्य जन्यं प्रागागामि च कर्मैकस्यं सर्व योनि शरीरेषु नानाभोग दायकं कर्मार्जनं भावयित्वा मूलेनाहुति त्रयं जुहुयात् | भगवन्नस्यात्मनो नाना भोगदायक कर्मार्जनं कुरु कुरु कुर्विति तदनु देशकालशरीरविषयबेह्देन नानारूपं प्रागागामिकर्म वासनाजनितं भोक्तृत्वलिंगात्मनि सुख दुःखेनात्मकर्मभोगं सञ्चिन्त्य मूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनो सर्वत्र भोगनिष्पत्तिं कुरु कुरु कुर्विति भोग्येषु परमप्रीतिरूपं संभाव्य मूलेना - प्. १५०६) हुति त्रयं हुत्वा भगवन्नस्यात्मनो भोग्येषु परमप्रीतिरूपं लयं कुरु कुर्विति मायाकार्यारंभ प्रवाहरूपाणां स्रोतसां शुद्धये मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनो मायारंभ प्रवाहशुद्धिं कुरु कुरु कुर्विति भोगहेतु कर्मणि भुञ्क्तेपि पुनस्तदप्रसवित्वहतवे विद्यातत्वशुद्धहृदाहुति त्रयं जुहुयात् | निष्कृतौ जात्यादि भोग संस्कारादि शुध्यर्थं शिखा पुरस्सरं मूलेनाहुतिशतं हुत्वा भगवन्नस्यात्मनो निष्कृत्य सर्वकर्मासु शुद्धिं कुरु कुरु कुर्विति भोगाभावे माया पाशात् बहिनिष्क्रमणरूपं विश्लेषं संभाव्य मूलेन स पाशुपतेनाहुति त्रयं हुत्वा भोक्तृत्व विषयासक्ति रूपं मलकार्यं विभाव्य तन्निरोधाय पाशुपतेनाहुति दशकं हुत्वा मलाद्विश्लेषं संकल्प्य मूलेन तथैवाहुतित्रयं जुहुयात् | कर्मणो भुक्तस्यात्यत्यन्ताभावं विश्लेषं विभाव्य मूलेन पाशुपतेनाहुति त्रयं हुत्वा भवगन्न स्यात्मनो मायामलकर्मरूपस्य पाशत्रयस्य विश्लेषं कुरु कुरु कुर्विति विज्ञापयेत् | तदनु सप्तधास्त्रजप्तया कर्त्र्या ओं हां ह्रूं हं विद्याकला पाशाय हं हुं फडिति मन्त्रेणानेन सस्वरं विद्याकला पाशावधौ छित्वा बन्धक निवृत्यर्थं हस्ताभ्यामस्त्रेण विमृज्य वर्तुलीकृत्य घृतपूर्णायां स्रुचि न्यस्त्वाज्यसहितन्तेनैव मन्त्रेणाहुति हुनेत् केवलास्त्राहुति त्रयेण भस्मसात्कुर्यात् | भगवन्नस्यात्मनो विद्याकलापाशच्छेदं - प्. १५०७) कुरु कुरु कुर्विति विज्ञाप्य पुनः पाशांकुरनिवृत्तये हुं फडन्ता स्त्रेणाहुति पञ्चकं हुत्वा प्र्रायश्चित्तार्थं अस्त्रेणाष्टाहुतिं कृत्वा शेष शरीर विनाश वैतन्यस्यैकत्वं विभाव्यरुद्रमावाह्य संपूज्याहुतित्रयं दत्वा पुर्यष्टकविशुध्यर्थं ओं हां रुद्ररूप गन्धौ शुल्कं गृहाण स्वाहेत्याहुतित्रयं दत्वा भो भोरुद्रत्वया नस्या यातु पदमनामयम् | प्रतिबन्धो विधातव्य इत्याज्ञापारमेश्वरीति विज्ञाप्य विसृजेत् | एवं शुद्ध तत्वाग्रस्थं शुद्धस्फटिकमणिनिभं विद्याकलाजाल निर्मुक्त मात्मानं विभाव्योद्धाराय मूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनो विद्याकलापाशादुद्धारं कुरु कुरु कुर्विति विज्ञाप्य ओं हां हं हां आत्मने नम इति रुद्रात्मानमग्ने रुद्धृत्य वामया पूरकेण संहारिण्या राहुमुक्तार्ध चन्द्रसदृशमात्मानमात्महृदयमानीय रेचकेणोद्भवमुद्रया शिष्यदेहे नियोज्याभ्यर्च्याप्यायन शिष्याशिरसिमूलेनार्ध्योदक विन्दुं शिरसि क्षिप्त्वास्थिरी करणार्थं मूलेनाहुतित्रयं दत्वा पितरौ संपूज्याहुतीनान्दत्वार्ध्ययित्वा विसृज्य वौषडन्त मूलेन पूर्णा दद्यात् | इति विद्या कलाशुद्धिः | || अथ शान्तिकला शुद्धिः || शुद्धां विद्या कलां ह्रस्व मुच्चार्य शुद्धां शान्तिकला दीर्घमुच्चारयेत् | ओं ह्रूं ह्यैं विद्या शान्तिभ्यां नमः | प्. १५०८) इति समभ्यर्च्य स्वाहान्तेनाहुति त्रयं दत्वा शुद्धं शुद्धे विलीनं विभाव्य शान्तिकलामुपस्थापयेत् | ओं हां आधारशक्तये नमः | इत्यभ्यर्च्याहुतित्रयं दत्वा सूत्रदेहे शान्तिकलास्थाने तद्व्याप्ति ओं ह्यैं शान्तिकलायै नमः | इत्यवलोकयेत् ओं हां शुद्धविद्यातत्वाय नमः | ओं हां ईश्वरतत्वाय नमः | ओं हां सदाशिवतत्वाय नमः | इति तत्वानि त्रीणि | ओं हां वामाय नमः | ओं हां ज्येष्ठायै नमः | रौद्र्यै नमः | काल्ये नमः | कलविकरणयै नमः | बलविकरणयै नमः | बलप्रमथन्यै नमः | ओं हां सर्वभूतदमनयि नमः | ओं हां मनोन्मन्यै नमः | इति शुद्धविद्या तत्वेनवानि भुवनानि | ओं हां अनन्ताय नमः | सूक्ष्माय नमः शिवोत्तमाय नमः | एकनेत्राय नमः | त्रिमूर्तये नमः | श्री कण्ठाय नमः | शिखण्डिने नमः | इति ईश्वरतत्वे भुवनानि | ओं हां सदाशिव तत्व भुवनाय नमः | इति त्रयो वर्णा | ओं ध्यानाहाराय नमः | ओं हांअ हकाराय नमः | ओं हां खकाराय नमः | ओं हां ककाराय नमः | ओं हां शाश्वताय नमः | ओं ध्रुवाय नमः | ओं हां अनाश्रिताय नमः | ओं हां अनाथाय नमः | नित्ययोगिने नमः | ओं हां योगपीठसंस्थाय नमः | ओं हां शाश्वताय नमः | ओं हां ध्रुवाय नमः | ओं हां अनन्ताय नमः | शिवाय नमः | ओं हां सर्वव्यापिने नमः | प्. १५०९) व्योमरूपाय नमः | व्योमव्यापिने नमः | इति द्वादशपदानि | ओं हां हैं कवचाय नमः | ओं हां हैं तत्पुरुषवक्त्राय नमः | इति मन्त्रे द्वे | ओं हां बिन्दवे नमः | वकाराय नमः | इति बीजे द्वे | ओं हां यशसे नमः | ओं हां अलं पुरुषाय नमः | इति नाडीद्वे | ओं हां कुर्माय नमः | कृकराय नमः | इति वायूद्वे | ओं हां पाणये नमः | त्वगीन्द्राय नमः | इन्द्रिये द्वे | ओं हां स्पर्शविषयाय नमः | स्पर्शगुणाय नमः | शब्दगुणाय नमः | ईश्वरकारणेश्वराय नमः | तुर्यावस्थाय नमः | ओं हां कृष्णषडश्रं षट्बिन्दुकलाञ्चित मण्डलाय नमः | इत्येतैस्समस्तैर्गर्भितां शान्तिकलां शिष्यदेह सूत्रैक्येन चेतसा बलोक्य ओं हां ह्यैं हां शान्तिकलायै हः हुं फडिति भ्रूमध्याधस्तात् पुष्पेण सन्ताड्य ओं हां ह्यैं हां शान्तिकलायै स्वाहेत्यं कुशमुद्रया पूरकेणा कृष्य ओं हौं हां शान्तिकलायै नमः इत्यभ्यर्च्य हुं फडिति संहारमुद्रया कुंभकेन संगृह्य ओं हां हैं हां शान्तिकलायै नमः | इति रेचकेणोद्भवमुद्रया कुण्डेशक्तमाधाररूपिण्यान्निवेशयेत् | ओं हां ह्यैं हां शान्तिकलायै नमः | इत्यर्भ्यच्यार्ध्ययित्वा स्वाहेन्तनाहुति त्रयं दत्वा पाशत्रयमधिकारमल सुविशुद्धकं महा मायारूपं भोक्तृत्व भोगशरीरादि जनकं भावयेत् | तदनु | ओं हां ईश्वर कारणेश्वराय नमः | इत्यभ्यर्च्याहुतित्रयं दत्वा - प्. १५१०) ईशत्वदधिकारेस्मिन् मुमुक्षुर्दीक्षयाम्यहम् | भाव्यं त्वयानुकूलेन सदाशिव नियोगतः || इति विज्ञाप्य तस्यां कलायां नानायोनिस्संकल्प्य तद्वयापकं वागीश्वरी वागीश्वरञ्च पूर्ववदभ्यर्च्य सन्निधानाहुतिर्हुत्वा भगवन्तौ पशोरनुग्रहाय संनिधीभवतमिति प्रार्थ्या शिष्यमस्त्रेण संप्रोक्ष्य ओं हां हुं फडिति हृद्देशे सपुष्पनारा च मुद्रया संताड्य आत्मनो रेचकेण तस्य देहे हुंकारेण प्रविश्य ओं हां हं हां हः हुं फडिति ज्येष्ठया वियोज्य ओं हां हं हां स्वाहेत्यंकुश मुद्रया चोत्कृष्य मूलमन्त्रमनुस्मरन् द्वादशान्तं नीत्वा तृणाग्रबिन्दुरूपं जीवं सञ्चिन्त्य ओं हां आत्मने नम इति संहारमुद्रया संगृह्य पूरकवृत्या स्व हृदि संनिवेश्य कुंभकं कृत्वा मूलमन्त्रमनुस्मरन् ब्रह्मादित्यागकारणद्वादशान्तं नीत्वा संगृह्य पित्रोस्संयोगं विभाव्य वामयोद्भवमुद्रया ओं हां हं हां आत्मने नमः | सर्वयोनिषु नेकव्यक्तिरूपेणात्मनो युगपत् संयोगं कृत्वा मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनस्सर्वासु योनिषु युगपत्संयोगं कुरु कुरु कुर्विति सर्वगर्भनिस्पत्तये मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनो सर्वासु योनिषु युगपद्गर्भनिष्पत्तिं कुरु कुरु कुर्विति ततस्तु जननार्थं मूलेनाहुति त्रयं दत्वा भगवन्नस्यात्मन स्सर्वगर्भाणां जननं कुरु कुरु कुर्विति ततोधिकारार्थं प्.१५११) सर्वशुद्धशरीराणां युगपद्वृद्धिं संभाव्य भोगनिष्पत्तये अतिमार्गकं योगजन्यं प्रागागामि च कर्मैकस्थं सर्वयोनि शरीरेषु | भोगदायकं कर्म जननञ्च भावयित्वा मूलेनाहुति त्रयं जुहुयात् भगवन्नस्यात्मना नानाभोगदायकं शुद्धकर्मजनं कुरु कुरु कुर्विति | तदनु | देशकाल शरीर विषये भेदे नानारूपं प्रागागमि कर्म वासना जनितं भोक्तृत्वलिंग * त्मनि सुख दुःख वेदनात्मकम् | भोगं सञ्चिन्त्य मूलेनाहुति त्रयं दत्वा भगवन्नस्यात्मनस्सर्व भोगनिष्पत्तिं कुरु कुरु कुर्विति भोग्येषु परमप्रीतिरूपं लयं सञ्चिन्त्यमूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनो भोग्येषु परमप्रीतिरूपं लयं कुरु कुरु कुर्विति महामाया कार्यारंभ प्रवाहरूपाणां भुक्तस्थानपथां स्रोतसां शुद्धये मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनः महामाया कार्यारंभप्रवाहशुद्धिं कुरु कुरु कुर्विति भोगहेतौ कर्मणि भुक्तेपि पुनस्तदप्रसवित्वहेतवे शान्तितत्व शुद्धौ हृदाहुतिं कार्यम् | निष्कृतौ जात्यायुर्भोग संस्कारादि शुध्यर्थं कवचपूर्व प्रासादेनाहुतिशतं हुत्वा भगवन्नस्यात्मनो निष्कृत्या सर्वकर्मसु शुद्धिं कुरु कुर्विति भोगभावान्माया पाशात् बहिनिष्क्रमणरूपं विश्लेषं संभाव्य मूलेन सपाशुपतेनाहुति त्रयं हुत्वा भोक्तृत्व विषयासक्तिरूपं अधिकार मलकार्यं विभाव्य तत्तिरोधानार्थं मूलेन सपाशुपतेनाहुतिशतं हुत्वा तस्माद्विश्लेषं संकल्प्य सपाशुपतेनाहुतित्रयञ्जुहुयात् | प्. १५१२) शुद्धकर्मणोभुक्तस्यात्यत्यन्ताभावरूपं विश्लेषं संभाव्य मूलेन पाशुपतेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनो महामायाधिकारमलं शुद्धकर्म रूपस्य पाशत्रयस्य विश्लेषं कुरु कुरु कुर्विति विज्ञापयेत् | तदनु | सप्तधास्त्रजप्तया कर्तर्या ओं हां ह्यैं हौं शान्तिकलापाशाय हः हुं फडिति मन्त्रेणाग्नेन संस्पर्शशान्तिकलावधौछिद्यात् | ततो बन्धक निवृत्तये हस्ताभ्यामन्त्रेण विमृज्य वर्तुलीकृत्य घृतपूर्णायां स्रुचिन्यस्त्वाज्यसहितं तेनैव मन्त्रेण हुत्वा दहेत् | केवलास्त्रेणाहुति त्रयेण भस्मसात्कुर्यात् | भगवन्नस्यात्मनो शान्तिकलापाशच्छेदं कुरु कुरु कुर्विति विज्ञापयेत् | पश्चात्पाशांकुर निवृत्तये हुं फडन्तास्त्रेणाहुति पञ्चकं हुत्वा प्रायश्चित्तार्थ मस्त्रेणाष्टाकृतिं कृत्वा शेष शरीर नाशे चैतन्यस्यैकत्वं विभाव्य ईश्वरमावाह्य संपूज्य सन्निधानाहुतीर्हुत्वा शरीरशुध्यर्थं ओं हां ईश्वर बुध्यहंकारौ शुल्कं गृहाण स्वाहेत्याहुति त्रयन्दत्वा विज्ञापयेत् | भो भो ईश त्वया नास्य यातुः पदमनामयम् | प्रतिबन्धो विद्यातव्यं इत्याज्ञापारमेश्वरीति || विसृज्य एवं शुद्धतत्वाग्रस्थं शुद्धस्फटिक मणिप्रख्यं शान्ति कला जालनिर्मुक्तं आत्मानं संचिन्त्योद्धारय मूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनश्शान्ति कलापाशादुद्धारं कुरु कुरु कुर्विति विज्ञाप्य ओं हां हं हां आत्मने नमः | प्. १५१३) इत्यात्मानं संहारिण्या रौघ्राग्नेरुद्धृत्य वामया पूरकेणै वात्मानञ्चन्द्रमण्डल सदृशमात्मानमात्म हृदयमानीय रेचकेणोद्भवमुद्रया शिष्यसूत्रदेहे नियोज्याभ्यर्च्याप्यायनायशिष्यशिरसिमूलेनार्ध्योदक बिन्दुं निक्षिप्य स्थिरीकरणार्थं मूलेनाहुतित्रयं दद्यात् | ततस्तु पितरौ संपूज्याहुति त्रयं हुत्वार्ध्ययित्वा वौषडन्तमूलेन पूर्णां सन्तर्पयेत् | इति शान्तिकला शुद्धिः | || अथ शान्त्यातीत कला शुद्धिः | चिन्त्यविश्वे - शान्त्यायां शान्त्यतीतकलायां सन्धानात्तु विशुद्धया | पूर्ववत्तत्र कुर्वीत तत्र वर्णादिकं क्रमात् | अत्र क्रमः | शुद्धां शान्तिं ह्रस्वमुच्चार्य अशुद्धां शान्त्यतीतां दीर्घमुच्चरेत् | ओं ह्यैं हौं शान्ति शान्त्यतीताभ्यां नमः | इति संपूज्याहुति त्रयं हुत्वा शुद्धमशुद्धविलीनं संभाव्य शान्त्यतीत कलामुपस्थापयेत् | ओं हां आधारशक्तये नमः | इति संपूज्या हुति त्रयं दत्वा सूत्रदेहे शान्त्यातीत कलायास्था तद्वयाप्ति ओं हौं शान्त्यतीत कलायै नमः | इत्यवलोकयेत् | ओं हां सक्तितत्वाय नमः | ओं हां शिवतत्वाभ्यां नमः | प्. १५१४) इति तत्वौ द्वे | ओं हां निवृत्तिकलाभुवनाय नमः | प्रतिष्ठाकलाभुवनाय नमः | विद्याकलाभुवनाय नमः | शान्तिकला भुवनाय नमः | शान्त्यातीत कला भुवनाय नमः | शान्त्यातीत कला भुवनानि पञ्च | ओं हां इन्धिकाय नमः | ओं हां दीप्तिकायै नमः | ओं हां रोचिकाय नमः | ओं हां मोचिकाय नमः | ओं हां ऊर्ध्वगामिन्यै नमः | इति नादकला भुवनानि पञ्च | ओं हां व्यापिन्यै नमः | ओं हां व्योमरूपाय नमः | ओं हां अनन्ताय नमः | ओं हां अनाथाय नमः | ओं हां अनाश्रिताय नमः | इति शक्तिकला भुवनानि पञ्च | एतद्दशकं शिवतत्वे | ओं हां अनमः | ओं हां अं नमः | ओं हां औं नमः | ओं हां ओ नमः | ओं हां ऐ नमः | ए नमः | ओं हां लु नमः | ऌ नमः | ऋ नमः | ॠ नमः | ओं हां ऊ नमः | ओं हां उन्नमः ईन्नमः | इन्नमः ओं हां आ नमः | ओं हां अनमः | इति षोडशवर्णानि | ओं हां ओन्नमः | इति पदमेकम् | ओं हां हों ईशानाय नमः | ओं हों हं अस्त्राय फट् * * शिवाय नमः | इति मन्त्रास्त्रयः | ओं हां नादाय नमः | ओं हां हकाराय नमः | इति बीजे द्वे | ओं हां कुहवे नमः | ओं हां शंखिन्यै नमः | इति नाडी द्वे | ओं हां देवदत्ताय नमः | ओं हां धनञ्जनाय नमः | प्. १५१५) इति वायू द्वे | ओं हां वचनाय नमः | ओं हां श्रोत्राय नमः | इतीन्द्रिये द्वे | ओं हां शब्दविषयाय नमः | शब्दगुणाय नमः | ओं हां सदाशिवकारणेश्वराय नमः | तुर्यातीतावस्थाय नमः | इति श्वेतरूपं वृत्तं अमृतबिन्दुभूषित मण्डलाय नमः | इति गर्भितां शान्त्यातीतशान्त्यां कलां सञ्चिन्त्य ओं हां हौं हां शान्त्यातित कलायै हः हुं फडिति ब्रह्मरन्ध्राधस्तात् पुष्पेण संताड्य ओं हां हौं शान्त्यातीतकलायै नमः स्वाहेत्यंकुशमुद्रया पूरकेणाकृष्य ओं हां हौं हां शान्तयतीत कलायै हुं फडिति संहारमुद्रया कुंभकौ संगृह्य ओं हां हौं हां शान्त्यातीतकलायै नमः | इति रेचकेणोद्भवमुद्रया कुण्डे शक्तामाधार रूपिण्यान्निवेशयेत् ओं हां हौं हां शान्त्यतीत कलायै नमः | इत्यभ्यर्च्यार्ध्ययित्वा स्वाहान्तेनाहुतिं हुत्वा पाशत्रयमधिकारमलं सुविशुद्धकं महामाया रूपं भोक्तृत्वं भोगशरीरादि जनकं विचिन्तयेत् | ओं हां सदाशिव कारणेश्वराय नमः | इति सदाशिव मावाह्याभ्यर्च्य सन्निधानाहुतिर्हुत्वा - स देशतो धिकारेस्मिन् मुमुक्षुर्दीक्षयाम्यहम् | भाव्यं त्वयानुकूलेन भक्त्या विज्ञापयेदिति || इति विज्ञाप्य तस्यां कलायां नानारूपयोनिरनन्तारसंकल्प्य - प्. १५१६) तद्वयापकं वागीश्वरी वागीश्वरञ्चावाह्याभ्यर्च्य सन्निधानाहुतीर्हुत्वा भगवन्तौ पशोरनुग्रहाय सन्निधी भवतमिति प्रार्थ्य शिष्यमस्त्रेण संप्रोक्ष्य ओं हां हुं फडिति हृद्देशे सपुष्पनारा च मुद्रया संताड्यात्मनो रेचकेण तस्य देहे हुं कारेण प्रविश्य ओं हां हं हां हः हुं फडिति ज्येष्ठया वियोज्य ओं हां हं हां स्वाहेत्यंकुशमुद्रया चोत्कृस्य मूलमन्त्रमनुस्मरन् द्वादशन्तं नीत्वा तृणाग्रबिन्दुरूपं जीवं सञ्चिन्त्यात्ममन्त्रेण संहारमुद्रया संगृह्य पूरकवृत्या स्वहृदि संनिवेश्य कुंभकं कृत्वा मूलमन्त्रमनुस्मरन् आत्ममन्त्रेण ब्रह्मादिकारणत्यागक्रमेण द्वादशान्तं नीत्वा संगृह्य पित्रोस्संयोगं विभाव्य वामयोद्भवमुद्रया ओं हां हं हां आत्मने नमः | इति सर्वयोनिष्वनेकव्यक्तिरूपेणात्मनो युगपत्संयोगं कृत्वा मूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनस्सर्वासु योनिषु युगपत् संयोगं कुरु कुरु कुर्विति विज्ञाप्य सर्वगर्भनिस्पत्तिं मूलेनाहुतित्रयं दत्वा भगवन्तस्यात्मनस्सर्वासु योनिषु युगपद्गर्भनिष्पत्तिं कुरु कुरु कुर्विति विज्ञापयेत् | ततस्तु जननार्थं मूलेनाहुतित्रयं विधाय भगवन्तस्यात्मनस्सर्वासु योनिषु ततोधिकारार्थं सर्वशरीराणां युगपद्वृद्धिं संभाव्य भोगनिष्पत्तये शैवज्ञानजन्यं प्रागागामि च कर्मैकस्थं सर्वयोनि शरीरेषु भोगदायकं कर्मार्थनं च भावयित्वा मूलेनाहुति त्रयं जुहुयात् | प्. १५१७) भगवन्नस्यात्मनो नाना भोगदायकं कर्मार्जनञ्च कुरु कुरु कुर्विति तदनु देशकाल श्रीरविषय भेदेन नानारूपं प्रागागामिकर्मवासनाजनितं भोक्तृत्व लिंगिन्यात्मनि सुखदुःख वेदनात्मकं भोगं सञ्चिन्त्य मूलेनाहुति त्रयं दत्वा भगवन्नस्यात्मनस्सर्वभोग निष्पत्तिं कुरु कुरु कुर्विति भोग्येषु परमप्रीतिरूपं लयं कुरु कुरु कुर्विति महामाया कार्यारंभ प्रवाहरूपाणां भुक्त स्थानपथां स्रोतसां शुद्धये मूलेनाहुति त्रयं हुत्वा भगवन्नस्यात्मनो मायारंभ प्रवाह शुद्धिं कुरु कुरु कुर्विति भोगहेतौ कर्मणि भुक्तेपि पुनस्तद प्रसवित्व हेतवे शान्त्यातीत तत्वशुद्धौ हृदाहुतित्रयं कार्यं निष्कृति जात्यायुर्भोग संस्कारादि शुध्यर्थं मूलेनाहुतिशतं हुत्वा भगवन्नस्यात्मनो निष्कृत्या सर्वकर्मसु विशुद्धिं कुरु कुरु कुर्विति भोगाभावे महामाया पाशात् बहिनिष्क्रमणरूपं विश्लेषं विभाव्य स पाशुपतास्त्रेण मूलेनाहुतित्रयं हुत्वा भोक्तृत्वरूपविषया सशक्तिरूपमधिकारमल्पकां विभाव्य तत्तिरोधानार्थं मूलेन पाशुपतेनाहुतिदशकं हुत्वाधिकारमलाद्विश्लेषं संकल्प्य मूलेन सपाशुपतेनाहुतित्रयं कृत्वा शुद्धकर्मणो भुक्तस्याप्यत्यन्ताभावरूपं विश्लेषं विभाव्य मूलेन सपाशुपतेनाहुति दशकं हुत्वा धिकारमलाद्विश्लेषं - प्. १५१८) संकल्प्य मूलेन सपाशुपतेनाहुतित्रयं कृत्वा शुद्धकर्मणा भुक्तस्याप्यत्यन्ताभावरूपं विश्लेषं विभाव्य मूलेन स पाशुपतेनाहुतित्रयं हुत्वा भगवन्तस्यात्मनो महामायाधि कार्यमलकर्मरूपस्य पाशत्रयस्य विश्लेषं कुरु कुरु कुर्विति विज्ञापयेत् | तदनु सप्तधास्त्रजप्तकर्तर्या ओं हां हं हां शान्त्यातीत कलापाशाय हः हुं फडित्यनेन सस्वरं शान्त्यातीत कलापाशावधौछिन्द्यात् | ततो बन्धक निवृत्तये हस्ताभ्यामस्त्रेण विमृज्य वर्तुलीकृत्य घृतपूर्णायां स्रुचिन्यस्त्वाज्यसहितं तेनैव मन्त्रेणाग्नौ हुत्वा दहेत् केवलास्त्राहुतित्रयेण भस्मसात्कुर्यात् | भगवान्नात्मनो शान्त्यतीतकलापाशच्छेदं कुरु कुरु कुर्विति विज्ञाप्य पाशांकुर निवृत्तये हुं फडन्तास्त्रेणाहुति पञ्चकं विधाय प्रायश्चित्तार्थं अस्त्रेणाष्टाहुतीर्हुत्वा अशेषशरीर विना * * चैतन्यस्यैकत्वं विभावयेत् | ततो निर्बीजदीक्षायां पूर्णान्दकारयेत् | समयं समयाचारशक्तौ पाशात्मकं न्यसेत् | समयं समया चार पाशाधिपगणाञ्जपन् || चतुर्थमयजेद्धीमान् नमोन्त प्रणवादिकम् | आहुतीनां त्रयंदद्यात् संनिधानाय देशिकः || शतमष्टोत्तरं हुत्वा शिअमन्त्रेण पूर्णया | समयं समयाचार पाशशुद्धिं महेश्वर || प्. १५१९) शिष्यस्य कुरु कुर्वीतेत्यक्त्याशुल्कं समर्पयेत् | शिवबीजं समुच्चार्य सदाशिव पुनः पुनः || मनो गृहाणास्वाहेति आहुतित्रयमाचरेत् | इत्थं शुल्कं दत्वा विज्ञापयेत् | अयं शिवकरोत्कृष्टो विलंघित भवोद्भवः | कृतकृत्योधुनान्वाणुं निरोद्धव्योनुकंपया | एवं शुद्धतत्वोग्रस्यमत्यन्तनिर्मलमात्मानं विभाव्य पश्चादुद्धाराय मूलेनाहुतित्रयं दत्वा भगवन्नस्यात्मनं ब्रह्महृदय मानीय रेचकेणोद्भवमुद्रया शिष्य सूत्रदेहे नियोज्याभ्यर्च्याप्यायनायना शिष्यशिरसि मूलेनार्ध्यजल बिन्दुक्षिप्त्वा स्थिरीकरणार्थं मूलेनाहुति त्रयं जुहुयात् | तदनु पितरावभ्यर्च्याहुति त्रयं दत्वा खेदितौ शिष्यदीक्षायै यमया पितरौ यम कारुण्यात्तत् क्षमित्वामे प्रजातां स्थानमात्मनः | इति विज्ञाप्यविसृज्य वौषडन्त मूलेन पूर्णान्दद्यात् | || इति शान्त्यातीत कलाशोधनम् || || अथ शिखाच्छेदविधिः || निर्वाणदीक्षा शिवधर्मिणी लोकधर्मिणी चेति द्विविधा निर्वाण दीक्षा द्विविधा लौकिकी शिवधर्मिणी गृहिणां लौकिकी ज्ञेया लिंगिणां शिवधर्मिणी | प्. १५२०) शिखाच्छेदो न यत्रास्ति दीक्षा सा लोकधर्मिणी | प्राग्वद्खण्डेन संयुक्ता दीक्षा सा शिवधर्मिणी || ओं हां हौं हां शान्त्यतीतकलां शक्तिभ्यां नमः | इति शुद्धां शान्त्यातीतां शुद्धया शिखारुपिण्या तिरोधानं शक्त्या संधाय पाश्चात्माया तत्वान्तमात्मतत्वं ओं हां आत्मतत्वाय शिवाय नमः | इत्युपस्थाप्याभ्यर्च्य मूलेन भाष्योच्चारेण विधिवैकल्यं शुध्यर्थं अष्टोत्तरशतं हुत्वा सदाशिवतत्वं विद्यातत्वं ओं हीं विद्यातत्वाय नमः | इत्युपस्थाप्यभ्यर्च्यमूलेनोपांशूच्चारणेन मन्त्रोच्चार वैकल्यं शुद्धयेष्टोत्तरशतं हुत्वा शक्तितत्वान्तं शिवतत्वं ओं हां शिवतत्वाय नमः | इत्युपस्थाप्याभ्यर्च्य मूलेनमानसवैकल्यं शुद्धये साष्टाशतं जुहुयात् | तत्तिरोधानशक्तेस्रितोधायकत्व निवृत्तये मूलेनाष्टोत्तरशतं जुहुयात् | कामिके - अर्धान्तस्थ च सर्वाध्व पदवी कामकारणाम् | ध्यात्वा शिवां तदग्रस्थां शुद्धस्फटिक सन्निभाम् || स चिन्त्य शिष्य चैतन्यं कर्तरीं शिवया लभेत् | ज्ञानरत्नावल्याम् - कर्तरी ज्ञानशक्ति स्यात् तया पाशच्छिनत्यसौ | सा शिखा परमा सूक्ष्मा मन्त्राणां बोधनी पराम् || कर्तरी कर्तृरूपेण ज्ञातव्या देशिकोत्तमैः | प्. १५२१) निश्वासे - सप्तधा शिखया मन्त्री कर्तरीमभिमन्त्रयेत् | तदेव मुद्रया गृह्य छेद्ये तच्च विचक्षणः || अंगुष्ठाद्या च चत्वारो चोदनीयास्तु सुव्रते | शिखा च्छिद्यात्तथा शक्त्या रोधशक्तिस्वरूपिणीम् || कारणं सर्वपाशानां सावयेद्वादशांगुलात् | अन्यस्याष्टांगुलादूर्ध्वा निबीजाख्य स बीजयेत् || मध्वाज्य साज्य संयुक्तं नीत्वागोपिश गोलकः | पूर्णाहुत्या शिखान्दत्वा शस्त्रेणाहुति पञ्चकैः || आज्येन हुं फडन्तेन शिखा कुर्याच्च भस्मसात् | शिखाञ्च बहि न्स्सृत्य स्रुक्स्रुवौ कर्तरीमपि || प्रक्षाल्या चम्य शुद्धस्तु शिष्य स्नानं समाचरेत् | कुर्यात्तत्र विशेषेण भावभक्ति समन्वितः || गुरुरन्तः प्रविश्याथ शिवं दृष्ट्वा च वद्नितम् | अध्वशुद्धि शिखाच्छेदत्वत्प्रसादान्मया कृतः || यत्वयं परमन्धाम भगवन्परमेश्वर | शिष्यं संयोजयाम्येन आज्येदानीं विधीयते || एवं कुर्वीत्यनुज्ञातः प्रहृष्टोर्ध्यकरो गुरुः | समाहूय शिशुं यायात् शिययुक्तोग्नि संमुखम् || स्रुक् स्रुवौ चापि संस्कृत्य योजनार्थं स्वदीप्य च | शिष्यस्य प्रोक्षणञ्चैव सकलीकरणन्तथा || प्. १५२२) ततो नामञ्च सन्धाय सन्धानं मन्त्रतर्पणम् | सकलीकरणं मन्त्रमेकैकाहुतिदानतः || सकलीकरणं शुद्धिं च कृत्वा संयोजयेच्छिवे | तदन्याचार्यो पूर्णाहुत्यार्थंशिवभावा * त्तं विधिवत् | सदाचार्यो बिन्दु क्षिप्तासनस्थिता | इन्धिकादीपिकाश्चैव रोचिका मोचिका तथा | ततोर्ध्व गामिनी चेति सूक्ष्मा सूक्ष्मा मृता मृता || बिन्दुशक्तिरिति प्रोक्त नादशक्ति कला द्विजा | अभिकलाभिसंकॢप्ता देहयुक् देशिकोत्तमः || व्यापिनी व्योमरूपा च अनन्ताह्य परामता | आत्मतत्वोन्मनाश्शैवे समापूरित देह युक् || कृत्वा कुम्भकपूरौ च जीवासंबन्धता च युक् | ईषद्वयवर्तितास्सन् दन्तैर्दन्ता न संस्पृशन् || सम्यगुन्नतकायस्तु शिवं संयोज्य चात्मनि | नाडीं सुषुम्नां प्राणाख्यं वायुमेनकीकृतां स्मरन् || समन्त्रं शिष्य चैतन्यं शुद्धस्फटिक संन्निभम् | संभाव्य मन्त्रमुच्चार्य कारणत्याग योगतः || शिवे संयोजयेच्छिष्यं पूर्णायां कुंभकेन तु | अत्र योजनावसरे स्रुक्स्रुवयोः पञ्चाधिकरणस्थ तत्वं कलाभावना * * यत् | पञ्चाधिकरणो देवो सोहमेव सदाशिव दण्डाय कलशो योयं दण्ड दण्डः कलान्तक | प्. १५२३) दण्डाग्र संपुटामाया वेअविद्यान्वित स्मृता | चित्र पत्र गतामन्त्रा कोणास्रोतो निबन्धना || सुषिरं यत्तदाधारं पद्ममासन संस्थितम् | तत्कर्णो नादसंस्थान स्रुङ्मुखं शक्तिरूपकम् || सर्वाध्वा व्यापिकाशक्तिरेषां सृगिति कल्पितः | स्रुक् सूत्राकृतिपद्दण्डो बिन्दुवृत्ति परिभ्रमः || स्रुक् स्रुव व्यपदेशे न शक्तिपिण्डसदाशिवः | यद्वा मृगेन्द्रे - स्रुचिमध्वान मारोप्य कलश स्कन्ध गण्डिमा | वेदिग्रीवा मुखाशेषु निवृत्यातिदि विभागशः || इत्थं स्रुक् स्रुवं विभाव्य शंखसंनिभ मुद्रया गृह्य गुरुपदिष्ट प्रकारेण सप्तद्विषुवं ज्ञात्वा सप्तमेतत्वविषुवान्त शान्त्यातीते द्वादशान्ते परमानन्दस्वरूपे प्रलीनमात्मानं भावयेत् | चिन्त्यविश्वे - प्रथमं प्राणविषुवन्मन्त्रस्य विषुवत्ततः | नाडिका विषुवं पश्चात् प्रशान्त विषुवन्ततः || पञ्चमं शक्तिविषुवं कलाख्यं विषुवन्तु षट् | सप्तमं तत्वविषुवं लयाख्यं परमं विदुः || मूलमन्त्रोच्चार प्रकारस्तु प्रासादमन्त्रगतानां मध्ये हौकार सहितस्य कालस्य मूलाधारा दारभ्य हृत्पुण्डरीकावधि व्यप्तिः | प्.१५२४) तदनन्तरं ब्रह्मणेपि व्यप्तिः | तदूर्ध्वं यागषष्ठस्य व्याप्तिः | विष्णोस्तदनन्तर व्याप्तिः | तदूर्ध्वं सकद्रस्य तालु मध्येत्यागतः तत ऊर्ध्वमीश्वरस्य बिन्दो भ्रूमध्य ध्यान्तं व्याप्तिः | तदूर्ध्व मेकांगुल ललाटमध्ये अर्धचन्द्रस्य व्याप्तिः | तदूर्ध्वं एकांगुलन्निरोधिव्याप्यन्त्या व्याप्तिः | तदूर्ध्वं ब्रह्म बिलान्तन्नादस्य सदाशिव वाचकस्य व्यप्तिः | ब्रह्मबिलादेकां गुलमानेन नादान्तस्य व्याप्तिः | तदूर्ध्वत्र्यंगुले शक्ति व्याप्तिः | तदूर्ध्वे द्वयंगुले व्यापिन्या व्याप्तिः | तदूर्ध्व द्वयंगुलेनामाना व्याप्तिः | नादादारभ्य उन्मन्यन्तशक्तिस्थानन्तदूर्ध्व स्वनिष्ट घनचिन्मयं शिवं स्थानं चिन्त्यविश्वे - विषुवं तत्व संज्ञातं तस्मिन्तस्यां वियोजयेत् | पूरकं कुंभकं ध्यात्वा प्यादाय मुख मुरुतान् || उच्चरेत्क्रमशोमूलं शिष्यादाशुमनोलयम् | मनोलयात्तदा मुक्तिरिति शास्त्रस्य निश्चयः || दि * पिपिलिकास्पर्शं तस्मिन् संभूयति क्षणात् | अनुभूय च तत्सर्वं द्वादशान्तं ततः क्रमात् || निर्गुणे निर्मले शुद्धे वाच्य वाचक वर्जिते | नित्यानन्तमये सूक्ष्मे भावाभावविवर्जिते || कैवल्य चिद्धने शान्ते शिवे तु परिभाषयेत् | प्. १५२५) शिष्यात्मानञ्च तत्रैव यजमानं विभावयेत् | आज्यधारञ्च जुहुयात् ज्वालान्ते तु परेशिवे || सायुज्यस्य स्थिरत्वाय मूलेन जुहुयात्तदा | वौषडन्तं समुच्चार्य पूर्णाञ्च विधिना हुनेत् || कामिके - व्यावृत्ततन्मनः प्राण नादशक्ति कलात्मनः | समीपे स्रुक्स्रुवौ मुञ्च द्रुतं संहारमुद्रया || शुद्धमुद्यच्छिखा कल्पं वन्दे नादाय पुद्गलः | पूजये दस्त्रबीजेन शरीरे तस्य पूर्ववत् || तत्र युक्तोप्यसौ तेन न समानगुणीकृतः | यावत्तावत्प्रधानस्य तत्व व्याप्ति यथा विभुः || साम्रज्यागमोप्युच्चैर्नृपसूनो कृतार्थतः | षाट्गुण्याननभिज्ञस्य शतस्यापि न राजते || षट्गुण व्यक्तये तेन स्रुवेनाज्याहुतिस्तु षट् | गुणांस्तु होमयेद्धीमान् प्रयोगेणा मुना तथा || ओं हां आत्मन् सर्वज्ञो भव स्वाहा | ओं हीं हीं परितृप्तो भव स्वाहा | ओं हां आत्मन् अनादिबोधे भवस्वाहा | ओं हैं आत्मन् स्वतन्त्रो भव स्वाहा | ओं हौं आत्मन् अप्त शक्तिर्भव स्वाहा | ओं हिं आत्मन् अनन्तशक्तिर्भव स्वाहा | इत्थं षट्गुणमात्मानं गृहीत्वा परमाक्षरात् | विधान भावेनोपेतश्शिष्य देहेन योजयेत् | प्. १५२६) तदनु सूर्यबिंबो परमं निर्मलमात्मनं दिव्यदृशावलोक्य संहारमुद्रया हृदानीय रेचकेणोद्भव मुद्रया शिष्यहृदि देहारंभकर्मफलभोगाय पुनस्संयोजयेत् | तीव्रशक्ति निपातेन जनित श्रान्तिशान्तये | अर्ध्यामृतोदबिन्दूनि शिष्यमूर्ध्नी च सेचयेत् | शिवकुंभादिकान् सर्वान् पदयेच्च क्रमाद्गुरुः || ईशस्य दक्षिणे भागे मण्डले तन्निवेश्य च | उत्तरास्य स्वयञ्चापि दक्षिणेतु विभावयेत् || तथा चानुगृहीतोयं मूलमास्थायमाह किम् | देवे वन्ह * शै तस्मात् भक्तिनाथास्य वध्वया || अव्यं छिन्न क्रिया निष्ठस्त्वत्प्रसादादयं भवेत् | भोः प्रमादा पराधो स्यामभूद्बन्धन कारणम् || इति देवस्य विज्ञाप्य प्रणम्य च गुरुस्वयम् | श्रेयस्तावस्विति ब्रूयात्तदा शिष्यमादरात् | गुरुस्सशक्तेरुद्दीप्यैस्त्त्वागृहाद्युपशान्तये || दीक्षये स्वं यथा ज्ञानात् कलापाशाल्यं स्मरन् | सकृन्मूल समुच्चाराच्छिवे योगं विभावयेत् || ततोग्निस्थं शिवं संतर्प्य प्रायश्चित्ताय मूलेनाष्टोत्तरशतं हुत्वा नैवेद्यं नम कटुकां हुत्वा चमन चन्दन तांबूलादीनि वेद्याष्टपुष्पासंपूज्यार्ध्यन्दत्वा पूर्ववत् शिवं - प्. १५२७) विसृज्यान्तर्बहिर्बलिं कृत्वा पुनर्मण्डलस्थ शिवमष्टपुष्प्या संपूज्यानुष्ठितं कर्मफलं निवेद्य प्रणिपत्योक्तवत् संगृह्य कुंभस्थे संयोज्य तन्मन्त्राच्छिवे संयोज्य सापेक्षं क्षमस्वेत्युक्त्वा निरुद्धयेत् || || अथ चण्डयागविधिः || चण्डयागार्थं चण्डकुंभाग्रे अर्धचन्द्राकार मण्डले स्थण्डिले व प्रणवासने नित्यवच्चण्डं संपूज्य निर्माल्यन्निवेदयेत् | भीमसंहितायाम् - चण्डयागमथो वक्ष्ये सर्वकर्मार्थ साधनम् | गणानामपि सर्वेषां तस्य पूजा फलप्रदा || पद्मं वा सर्वतो भद्रं स्वस्तिं वापि च कारयेत् | तथा मृगेन्द्रे - ततश्चण्डेशनाथस्य पुरं पञ्चांगवर्जितम् | विधाय मण्डलं यागः कार्यश्शिव पदेन तु || अस्यार्थः | पञ्चांगवर्जितञ्चतुरश्रं क्षेत्रमानं गृहीत्वा तावता सूत्रेणर्द्धनुक्रमेण मण्डलन्तन्मध्ये पद्मं कृत्वा मुख्य यागविधिना चण्डयागः कार्यः | तथोक्तं स्वायंभुवे - आत्मातस्य हिमानस्य भागं त्यक्त्वा तु पञ्चमम् | शेषमानं समं क्षेत्रं भ्रामयेदर्धवेदवत् || तसमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् | प्. १५२८) द्वात्रिंशदंगुल समं करमान मथापि वा || योगपीठं विन्यस्य विन्यसेत् | सर्व शर्व पदस्थन्तु एवं चण्डेश्वरं कुरु | विद्यांगानि तत स्तस्य विन्यसेद्विधिगत्पुनः || आग्नेयादि दलेष्वेव दिक्ष्वस्त्रं विन्यसेत्पुनः | संपूज्य गन्धपुष्पाद्यैर्भक्ष्य भोज्य विभूषणैः || तर्पयेद्यज्ञशेषेण अष्टोत्तरशतेन तु | हृदियादीनि सर्वाणि पश्चादेकैकशः क्रमात् || विंशत्याहुति होमेन तर्पयित्वा क्षमापयेत् | चण्डेश्वरोचितं यस्तु पूजयैव प्रकल्पयेत् || रजोरेशेन्तरस्सन्तु भोज्यं सिद्धिमिच्छताम् | तस्मादन्यदपि द्रव्यं देवाय विनिवेशयेत् || अगाधेंभसि तत्पुष्पं चण्डेशाय विनिक्षिपेत् | अथोन्यथा प्रवृत्तानांशिवाज्ञाभंगकारिणम् || शास्ता चण्डेश्वरस्तेषां दीक्षितानामपि प्रभुः | चण्डेश्वरं प्रपञ्चायेन तेषां भयकारणम् || तस्मादाराधनक्षुण्णा शैवं पत्थानमाश्रिता | तथा कालोत्तरे - चण्डयागन्ततः कृत्वा शास्त्रदृष्टेन कर्मणा | चण्डेश्वरस्य यागेन निर्व्याधिनिरुपद्रवम् || प्. १५२९) दीक्षान्ते यत्नतः कुर्यात् यागं चण्डेश्वरस्य तु | शिष्यं तदग्रे संस्थाप्य समयान् श्रावयेत्ततः || न शिवं शिवशास्त्रञ्च शिवाग्निं साधकं गुरुः | निन्द्यानलमर्पयेत्तेषां * यामपि विशेषतः || निर्माल्य भोजनं दानं लंघनञ्च विवर्जयेत् | सूतिकं प्रतिकंञ्चान्नं पुष्पवत्या च वर्जयेत् || अहिंसा सत्यमस्तेयं ब्रह्मचर्य मकल्कता | अक्रोधो गुरुशश्रूषा शौच सन्तोष मार्जवम् || इत्याचारं गणेशैव सर्वसाधारणेपि सन् | पालनीयो यथा शक्ति भुक्ति मुक्ति फलार्थिना || अत्र हेतुर्मृगेन्द्र प्रतिपादितम् | तथा येन विप्रतिमापन्नं ब्रह्मादिव्यक्ति शक्तिका | चण्डरूपस्वरूपंनिरुणद्धि विनिष्कृतिम् || लंघनन्दीक्षितच्छायाशिवार्चांगबलिसृजाम् | तद्दान भक्षणे चेशं स्वशब्दाधिगतस्य च || तञ्जीवी सूतिकाप्रेत पुष्पवत्यं न शोभनम् | महासमगर्तास्युरिमां पतनभीरुणा परिहृत्य विभक्तव्य मितीशस्वयमब्रवीत् | अतोन्ये समयाचारा शैवे चात्मनितिष्ठताम् | चर्यापादेभिधास्त्यन्ते चर्या वै चरणं यतः || प्. १५३०) ततोग्ने यज्ञशेषेण सहस्रो च शतेन वा | तर्पयित्वा क्षमस्वेति चण्डनाथं विवर्जयेत् || ततो भूरादिभिर्हुत्वा शिवाग्निं विसृज्य लोकपालयि विसृजेत् | शिष्यं स्वस्तिकिते प्रशस्त दकृते मण्डले वर्धनितो पूर्वकं शिवकुंभेनावभृतस्नानार्थ मभिषिञ्चेत् | तत्रैव | ततः प्रशस्तदिग्भागे भूतले * स्तिकांकिते | कुर्यादवभृतं शंभुकुंभेनास्त्रांबु पूरकम् || तदास्तां दुरितध्वंसि मन्त्रोच्चाराभिसिद्धिमत् | विप्रषोपि तदुद्भूतानुकूल्यां पशुशान्तिभिहिः || तथा स्वायंभुवे - ततो यागसमाप्ते तु भूदेशे स्वस्तिकांकिते | कुर्यादवभृथस्नानं आत्मनो दीक्षितः सन् || अथ गुरु यागं कुर्यात् | तथा षट्सहस्रिकायाम् | गुरुयागं प्रवक्ष्यामि संक्षेपार्वती सुतः | देवता दर्शने कार्यं तथा सौ सिद्धिसाधने || विवाहयात्रसमये तथा दुस्वप्नदर्शने | स्वप्ने प्राप्ते तथा मन्त्रे यागारंभे तदन्तके || कर्तव्यमिति शेषः | षट्त्रिंशदंगुलाशनं योगपीठं पुरोदितम् | तस्यासनन्तु संकल्प्य मूर्तितस्योपरि न्यसेत् || प्. १५३१) शिवमावाहयेत्तत्र सब्रह्मांग समन्वितम् | गन्धपुष्पादिभिः पूज्य हृन्मन्त्रेण प्रयत्नतः || गुरु सदाशिवं ध्यात्वा प्रणिपत्य पुनः पुनः | यद्वा स्वायंभुवे - सातं संपूजयेत्पश्चात् गुरुं चानुचरं बुधः | कालोत्तरे - आचार्यं पूजयेत्तत्र मकुटं कुण्डलादिभिः | गृहोपकरणैश्चान्यैर्हृदयेन तु दापयेत् || ईशानेन तु मन्त्रेण पूजयेद्देशिकोत्तमः | एवं पूज्यविधानेन प्रणिपत्य क्षमापयेत् || किरणे - यागान्ते गुरु यागं स्यात् यागादावा प्रपूजयेत् | चिन्त्यविश्वे - सर्व दीक्षा च ज्ञानञ्च गुर्वनुग्रहतो भवेत् | तस्मात्सर्व प्रयत्नेन गुरुशश्रुषणं परम् || नैर्यन्तर्येण भक्त्या च शुश्रूषा च भवेत्पुनः | गुर्वनुग्रहणं पश्चात् शश्रूषा चेद्भवेत्परम् || निर्वाण दीक्षितश्शिष्यो गुरुसंसृष्टियोग्यकः | परार्थलिंग पूजायां अधिकाअरो सविद्यते || मतंगे - दीक्षानलं पष्टमनस्य जन्तोस्वाख्यं व्यक्तिमुपेति योगात् | शक्त्याविभोश्चुंबितहृत् देशेनान्येपुंसोपि निवृत्तिमेति || || इति निर्वाण दीक्षा विधिः || प्. १५३३) अत्र प्रतिष्ठाशब्देन चललिंग प्रतिष्ठामात्र एवाधिकारिणेति बोध्य एतेषु न पि कल्पोयं कर्तव्यं नयान्मनीषिभिः शिव एवेति तं ध्यायेत् प्रतिपत्तिं समावशेत् | तथा कालोत्तरे - गृहस्थस्सर्ववर्णेषु श्रेष्ठो गुरुरुदाहृता | तथोक्तं सिद्धान्ते - चतुर्णामपि वर्णानां लिंगिनां ग्रहिणामपि | आचार्यत्वं शिवेनास्मिन् सिद्धान्ते प्रतिपादितम् || चिन्त्यविश्वे - विज्ञानदीक्षा रहितो गुरुभक्तिविवर्जितः | अहंकारी कृतघ्नश्च समयाचारदूषकः || एवमादिगुणैर्युक्तो न पूज्योहि महीतले | अस्यैवाचार्य नामत्वमभिषेकं न कारयेत् || प्रमादादभिषेकन्तु कृतञ्चेद्दोषमाप्नुयात् | तथा त्रिधासारपद्धत्याम् - व्योभिचारणदीक्षा शिष्ये दीक्षयेत् स्वेच्छया गुरुः | आचार्यस्सन्न शिष्यैस्तु पच्यते नरकार्णवे || शिष्या शिवगुणोपेतमाचार्य स्वगुणच्युतम् | दीक्षितानान्तमुच्यन्ते दीक्षा को नरकं व्रजेत् || आचार्य स्वगुणो पेतो दीक्षिता व्यभिचारिणः | दीक्षिता नरकं यान्ति देशिकश्शिवतां व्रजेत् || प्. १५३४) तदनु गुरुस्स्सकाशात् निर्वाणदीक्षितस्य विकलाचारस्य शिष्टस्य पुनर्निर्वाणदीक्षा पुरस्स्सरमाचार्यभिषेकं कुर्यात् | तथा कामिके - लुलप्त क्रियान्विते शिष्य यदि संस्तुत्य दीक्षया | बहिरन्तर्बलिन्दत्वा विधानमिष्ट माचरेत् || स्वस्वकाशान्निर्वाणदीक्षितस्याचार वैकल्यरहितस्योक्तानुष्ठान पूर्णस्याभिषेकमारभेत् | एकस्मिन् काले निर्वाण दीक्षाभिषेकद्वयकामस्या शिष्यस्यापि प्रथमं पृथक् निर्वाण दीक्षा समाप्य तन्मण्टपे दीक्षोप युक्तं सर्वकलशादिकं चन्डयागकृतत्वात् || || अथाभिषेकार्थं मण्टप निर्माणविधिः || परित्यज्य पुण्याहपुरस्सरं मण्टपशुद्धिं विधाया पुनः पूर्ववत् नूत न कलशादिकं संहृत्य मण्टप पूजाधिवासमभिषेक दीक्षामारभेत् | तथा सुप्रभेदे - एवं समाप्यतां दीक्षामभिषेकमथा चरेत् | तथा ज्ञानरत्नावल्यामप्युक्तम् | तथा चार्यशुभदेशे काले लग्ने कृतक्रिया | यागं पूर्ववदापाद्य इति | तथा बालरत्नावल्याम् | अपरदिने नित्यादिकं निर्वर्त्य नैमित्ति पूजाञ्च कृत्वा संहितापारगं शिष्यमभिषेचयेत् | यागं कृत्वा यथोद्दिष्टं दीक्षां निर्वत्यमन्त्रवित् | प्. १५३५) ततोभिषेचयेत्तन्तुयुक्त्या युक्त्यविचारकम् || देवालये मठे चैव गुरुशिष्यगृहे तथा | दीक्षा स्थाने तु कर्तव्यं मण्टपन्तु प्रकल्पयेत् || रौरवे - देवालये मण्टपञ्च प्रपांवापि विशेष्यतः | मध्यमे वेदिकां कुण्डं पूर्वोक्तन्तु यथाक्रमम् || निश्वासे - मण्टपस्येश दिग्भागे कुर्याद्वै चतुरश्रकम् | तथा कामिके - शताभिषेक प्रकरणे | कूटे वापि प्रपायां वा शुद्धदेशे मनोरमे | पञ्चादि पञ्चपञ्चाशत् करसीमा समन्विते || मुखायामयुते वापि चतुद्वारसमन्विते | एकादि पञ्चपञ्चाशत् भक्तिभिः परिमण्डिते || ब्राह्मणं क्षत्रियं वापि वैश्यं शूद्रमथापि वा | तत्तज्जाति समुद्भूतां स्त्रियं वा शिवपूजकम् || तत्रैव - पूर्वस्याय चैशान्यं पश्चिमायान्तु दिश्यथ | मण्टपे सौम्य वक्त्रे तु वितानाद्युपशोभिते || ज्ञानरत्नावल्यां विशेषः | एवं कुर्वीत्यनुज्ञातो बहिः पूर्वेथ चोत्तरे | ईशाने पश्चिमे वापि मण्टपे प्रत्यगानने || पञ्चागं भूषणोपेतस्त्वभिषेकं समाचरेत् | तथा सन्ताने - मण्टपं वा त्रपां वापि द्वात्रिंशद्धस्तमेव वा | प्. १५३६) षोडश दशहस्तं वा नवहस्ताष्टहस्तकम् || स्तंभैस्समन्वितं देवि वितानोपरिशोभितम् | दर्भमालाभिरावेष्टय दिग्ध्वजैश्च प्रलंभयेत् || मतंगे - संसितेन वितानेन प्रविसारित खेतले | पताकाभिर्विचित्राभिध्वजैश्चधवलैश्शुभैः || दिक्विदिक् संस्थितैश्चैव तोरणैश्चापि निन्दितैः | निश्वासकारिकायाम् | चतुर्भिस्तोरणैश्चैव पताकध्वजशोभितैः | वितानबुद्बुदैश्चैव वेदिस्थानं सुशोभितम् || मण्डितं पुष्पपत्रैश्च चूतपल्लवशोभितम् | स्वस्तिकैपद्मकैश्चैव सिद्धार्थक समन्वितम् || कामिके - अर्धहस्तोच्छृतं तद्वत् युगश्रं वेदिकाश्रयम् | चतुर्हस्त प्रविस्तारं दक्षिणोत्तरदिग्गतम् || स्वस्तिकेन चतुर्दिक्षु राजितञ्च पराजितम् | यद्वा चिन्त्यविश्वे - अष्टांगुलोच्छ्रितावेदी द्वौ द्वौ हस्तौ च कारयेत् | रौरवे - उत्सेधं चतुरंगुल्यं द्विहस्तायामतं भवेत् | यद्वा क्रियासारपद्धत्याम् | पूर्वपश्स्चिम संस्थानां वेदिकाद्वितयं शुभम् | चतुर्हस्तो क्वचित्प्रोक्तं द्वादशांगुलमुन्नतम् || प्. १५३७) लिप्तं स्वसिक पद्मादि पुष्पप्रकार शोभितम् | || अभिषेकपीठनिर्माण विधिरुच्यते | सर्वज्ञानोत्तरे - द्वात्रिंशांगुल विस्तारमुच्छ्रायं तावदेव हि | चतुरश्रं समं शुद्धं मध्येकजल भूषितम् || पूर्ववत्पीठविन्यासं तस्मिन् संस्थाप्य पूजयेत् | मतंगे - सारदारुमये पीठे शीपर्णी तरुसंभवे | श्वेतवस्त्रकृताटोपे संनिवेश्य पुराकृतम् || तथा चिन्त्यविश्वे - श्रीपर्णाद्यासनं तत्र विन्यस्यानन्तमासनम् | अदीवदगृहीतान्य दारवः कथितः || तथा कामिके | भद्रपीठे पयो वृक्ष जातेवान्य समुद्भवेत् | पनसे बिल्वजे ब्रह्मवृक्षजे वाभिषेचयेत् || निश्वासे मानविशेष उक्तः | चतुर्हस्तं भवेत्पीठं समन्तादुपशोभितम् | उच्छ्रायं हस्तमात्रन्तु कर्तव्यं सुसमाहितैः || पूर्वोक्तयागमण्टपवेदिकायां अनन्तविजय मण्डलं कुर्यात् | तथा स्वायंभुवे - अथाचार्याभिषेकार्थमनन्तविजयं यजेत् | काम्यानाञ्च प्रसिध्यर्थं निधिहूतमिदं यतः || प्. १५३८) द्विहस्तपीठगर्भस्यं मध्ये पद्मं समालिखेत् | षडंगुले पुरोभागे प्रथमे कर्णिकां लिखेत् || केसराणि द्वितीये तु दलानां सन्धयो परे | चतुर्थे तु दलाग्राणि पद्ममेव प्रकल्प्यतु || द्विहस्तमालिखेद्विधिं पीठस्य परितस्थिताम् | वीथ्यर्द्धेन पृथक्कार्यन्देवतावरुणं बहि || वीथीमुख्याष्टविच्छेद भागाष्टकविकल्पिता | विथीमुखाध्वानिर्वर्त्त बहिर्द्वारार्द्ध संयुतम् || सूत्रयित्वा ततः पश्चित् त्वचांसि च निपातयेत् | तानि संप्रति तान्येव यथार्थं विभवानि तु || पातयेत्सूत्रमार्गेण सितादीन्यनुपूर्वशः | सितरेखास्तु निर्वृत्तं रक्तादिभिबहिष्कृतम् || ऋजुमार्गाष्टकोपेतं अनन्तविजयं भवम् | अस्य दर्शनमात्रेण महापातकिनोपि ये || निर्मलास्तेपरुद्रत्वं पाप्यामोद्दिश्य शंकिता | देव दानवगन्धर्व यक्षरक्षोगणेश्वर || पश्यन्त्यनन्त्यविजयं यागभूमे बहिस्थिताः | साधकाभिषेक मण्टप निर्माणे विदिकायां नव नाभमण्डलं कुर्यात् | तथा षट्सहस्रिकायाम् | अथाचार्याभिषेकार्थं नव नाभं वर्तयेत् | प्. १५३९) काम्यानामपि सर्वेषां नवनाभं फल प्रदम् || मण्डलं नवनाभाख्य कभ्यमानं शृणुष्वमत् | अष्टहस्तं समक्षेत्रं दशहस्तमथापि वा || चतुस्सप्तति दर्भाख्यैस्समन्ताद्विभजेत्पुरम् | समन्तादष्टभिर्गात्रैर्मध्यमे कलहं भवेत् || पथिका वीथिकार्याद्वारं पद्मार्द्धमानतः | कर्णोपकर्णयुक्त कण्ठवत्यद्दिपट्टिकम् || इत्येकं कमलं वीथीद्वारसमन्वितम् | कथितं तेनमासेन तद्बाह्ये वीथिका मता || पञ्चभागमिता सा तु समन्ताद्दशभागिकम् | दिग्विदुक्षुवतः कार्यमष्टपद्मं पूरोक्तवत् || पद्माष्टकविधानेन वीथिद्वारसमन्वितम् | मध्ये तत्कमलं शुक्लमापीतं पूर्वपंकजम् || तद्बाह्ये पञ्चपटिका वीथिका पत्रभूषिता | पद्मवद्वार कण्ठन्तु पट्टिकं नृपकण्टकम् || कपोलपट्टिकं कार्यदिक्षुद्वारत्रयं स्फुटम् | कोणबन्धं त्रिपदिकापदं वज्रवद्भवेत् || मध्ये तत्कमलं शुक्ल मापीतं पूर्वपंकजम् | पद्मगौरमथो वापि रक्तगौरमथापि वा || प्. १५४०) व्योमव्यापि शिवस्यैव नवाध्वरविधौ हितम् | नवनाभं समाख्यातं प्रासाख्यं शिवस्य तु || यद्वा मतंगोक्त प्रकारेण कुर्यात् | विभज्य सतभिर्भागैर्मध्ये पद्मं प्रकल्पयेत् | द्वात्रिंशदंगुलसमं सुविभक्तन्तु पूर्ववत् || भागमेकं परित्यज्य दिक्ष्वष्टासु यथाक्रमम् | मध्यांबुज प्रमाणानि पद्मान्यष्टसमालिखेत् || चतुर्वीथ्युज्वलं भद्रं अष्टद्वारमथोदितैः | रजोभिपूरये सम्यक् यथा भवति शोभनम् || तथाचार्यै रप्युक्तम् | क्षेत्रे सप्तदीकृतेन शिवपदा वीथी समन्तात् पदैर्दिक्ष्वष्टासु च पंकजाति परितो वीथीन्तु भागेन च | द्वाराष्टकजान्तरस्थितपदैरन्तस्थिते गात्रकम् | पद्मं स्यान्नव नाभमण्डलमितवं श्रीमन्मतंगोदितम् || अथ कलशस्थापनम् | तथा कारणे - सहस्र कलशैर्वाय तदर्धकलशैरपि | शतार्द्धकलशैर्वापि इत्थं कुंभन्तु कल्पयेत् || तथा सन्तान संहितायाम् | सहस्रं * * * र्द्वावातदर्धं वापि कार्येत् | अष्टोत्तरशतं वापि एकाशीतिरथापि वा || प्. १५४१) पञ्चविंशतिभिर्वापि नवभिः पञ्चभिस्तु वा सुप्रभेदे - सहस्रा चैकपर्यन्तं यथा वित्तानुसारतः | स्नपनस्य विधानेन स्थापयेत्कलशानि वै | वीरतन्त्रे - मध्यमे शिवकुंभन्तु स्थापयेच्छिवमन्त्रतः | वर्धनीं तस्य वामे तु स्थापयेद्गौरिबीजतः || पूर्वादीशानपर्यन्तं स्थापयेदष्ट कुंभकान् | प्रधानकांशे ईशञ्च वर्धन्याञ्च मनोन्मनीम् || अ * न्तेश्च सूक्ष्मश्च शिवोत्तमश्चैक नेत्रकम् | रुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः || तथा चिन्त्यविश्वे - स्थण्डिलोपरिमध्ये तु विन्यसेच्छिव कुंभकम् | वर्धनीन्तस्य वामे तु विन्यसेच्छिव संयुताम् || विद्येशानुष्ट कुंभेषु तस्य बाह्ये तु विन्यसेत् | क्षारक्षीरोदधिस्सर्पिरिक्षु कादम्बरी रसा || गर्भो * श्च * मादष्टौ न्यस्तव्या तेषु सिन्धवः | चतुर्दिक्ष्वथवा कुंभे रक्तनील सितारुणान् || अनन्ताद्येक नेत्रान्तान् आग्नेययादि घटेपुनः | एकनेत्रान् शिखण्ड्यन्तान् सितासृङ्नीललोहितान् || प्. १५४२) पञ्चास्याश्चतुरास्यान्वा शिवायुध धरान्यजेत् | वर्धनी सहितस्थापनं भुक्ति कामविषयम् | वीरतन्त्रे - अधिदेवास्समाख्याता द्रव्याणि च ततश्शृणु | प्रधानकलशे विप्र नव * क्षयश्चित्त * || वर्धनीं गौरीबीजेन स्वर्णन्तत्र विनिक्षिपेत् | सौवर्णं राजतन्ताम्र मायसन्त्रपुसीसकम् || आरकूटञ्च विपुलं कांस्य पूर्वे न्यसेत्ततः | आग्नेय कलशे तत्र नवधानञ्च विन्यसेत् || हरितालश्च गन्धश्च गन्धञ्चैव मनश्शिला | माक्षिकञ्चैवराष्ट्रञ्च रसं वै गौरीकन्तथा || रसेन्द्र नवमञ्चैव विन्यसेत्तु विशेषतः | अक्षत्वचञ्च विप्रेन्द्र दक्षिणे कलशे न्यसेत् || पालाशाम्रञ्च खदिरं प्लक्षन्यग्रोधमेव च | पिप्पलं पनसं बिल्वंशिरीषत्वचमेव च || नैरृते स्थापिते कुंभे मृदन्तु नव विन्यसेत् | नद्याश्चोभयतीरे च नाकवल्मीक गोष्ठके || क्षेत्रे हृदे गिरौ चैव * ग्रहे चैवसागरे | वारुणे स्थापिते कुंभे पुष्पाणि नवकन्यसेत् || चन्द * * पङ्कजं चन्दनञ्चैव कुमुदं नीलमुत्पलम् | पाटलं करवीरञ्च रक्तञ्चोत्पलमेव च || प्. १५४३) नन्द्यावर्तञ्च व्याघातं नव पुष्पमिहोच्यते | वायव्ये स्थापिते कुंभे गन्धानां नवकं न्यसेत् || चन्दनं कुंकुमं लोहं खटगजातिवानरम् | तक्कोलं कटकं पत्रं विन्यसेत्स्वस्व नामतः || सौम्यायां स्थापिते कुंभे नव बीजानि विन्यसेत् | यववेणु प्रियंगुश्च शालि नीवारमेव च || गोधूमे तिलमुद्गञ्च सर्षपञ्च यथाक्रमम् | ऐशान्यां स्थापिते कुंभे औषधीन्नव विन्यसेत् || लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तं नृपं बलात् | इन्द्रवल्लिशंखपुष्पी सूर्यावर्तञ्च गण्डिका || विन्यसेत्तु विशेषेण स्वस्वनामे तु मन्त्रतः | रत्नाभावे न्यसेद्वज्रं लोहभावे तु काञ्चनम् || बीजाभावे यमस्व स्तन्धात्वा भावे च तालकम् | ओषधीनामभावे तु सहदेवीं विनिक्षिपेत् || अथ दरिद्राणां अभिषेकविधानेत्वनु कल्पविधानमुक्तम् | कारणे - दरिद्राणान्तु सर्वेषां यथालाभघटं भवेत् | पञविंशतिभिः कृत्वा अथवा नवपञ्चकैः || तथा सर्वज्ञानोत्तरे - पञ्चभिः कलशैर्वापि पूर्वोक्तविधिकल्पितैः | प्. १५४४) तत्र कुंभान्यथापूर्वं पूर्वादारभ्य कल्पयेत् | शिवकुंभ विधानेन मन्त्रदेवत संयुतम् || अष्टविद्येश्वरामन्त्रीनेकस्मिन् विनियोजयेत् | द्वितीये पञ्चब्रह्माणि तृतीयेंगु चतुष्टयम् || अस्त्रयुक्तं चतुर्थन्तु शिवकुंभन्तु पञ्चमम् | अभिमन्त्र्य यथा संपूर्ववत् स्नानमाचरेत् || प * पक्षे सहदेव्यादि पुनर्नत्वा तान् विंशतिमौषधीञ्च ब्रह्मादिधान्यानाञ्च स्वर्णलोहादीनि च ह्रितालधातूंश्च रसादिगन्धशश्च सर्वपूर्वोक्त पञ्चौषधीपञ्चरुत्पञ्चशालिन्या एकैकशः क्रमेण पञ्चकुंभेषु निक्षिप्य निवृत्यादि कलान्यासपूर्वं सद्यादि ब्रह्म पञ्चकं न्यसेत् | तथा मृगेन्द्रे - प्राग्वदिक्ष्वामहेशादि दिक्षुकुंभेषु विन्यसेत् | सहदेव्यामथ ब्राह्मीं त्रायन्तीं लक्षणावतीम् || शंखपुष्पी बलाबीजा ज्योतिस्मत्यपराजिता | विष्णुक्रान्तबलामोटा बिल्वधात्री भयामृता || शताह्वा पारिबादूर्वा कुशभ्याघ्री पुनर्नवा | यवादीनि च बीजानि रसांश्च लवणादिकान् || रत्नानि सर्वगन्धांश्च लोहान्यपि च शास्त्रवत् | रसशब्देन लवणादिषड्रस मुक्तम् | चिन्त्यविश्वे - पञ्च कुंभेषु विद्येशान् द्वौ द्वौ कुंभंप्रतिन्यसेत् | प्. १५४५) समुद्राणां द्वयञ्चापि तद्वद्देवन्तु विन्यसेत् || मध्ये च शिवकुंभे तु शिवांभोधिं तथैव च | तत्पार्श्वे वर्धनीञ्चापि शक्त्यंभोधि समन्वितम् || सर्वज्ञानोत्तरे प्रकारान्तरमुक्तम् | चतुर्भिर्या यथा कुंभैरभिषेकं समाचरेत् | विद्येश्वरान्यथा पूर्वं ब्रह्मांगानि च मन्त्रवित् || एकस्मिन् कलशे योज्यमस्त्रयुक्तं तृतीयकम् | निश्वासे - एक कुंभमुक्तम् | अथवा कलशैकेन अभिषेकन्तु कारयेत् | सर्वतत्वैश्च मन्त्रैश्च समुद्रैश्च समन्वितान् | एकस्मिन् कलशेनैव विधिरेषोत्र कारयेत् | अथवात्येक कुंभेन तादृशेनाभिवेचनम् || अभावेत्वेकमेवं वा आचार्यस्याभिषेचनम् | ब्रह्मपत्रपुटे वापि शंखशुक्त्यथवा भवेत् || अभिषेकं प्रकुर्वीत ततो न ज्ञापयेत् | कारणे - मण्टपे कल्पिते वेद्यां स्थण्डिले शालिनिर्मिते | कर्णिकाष्टदलोपेतं नलिनन्तु समालिखेत् || तण्डुलैश्च तिलैश्चैव तमास्तीर्य कुशैस्तथा | द्रोणार्धतोय संपूर्णां मृण्मया दोषवर्जितान् || त्रिसूत्र विष्टितान् कुंभान् नव वर्धनि संयुतान् | सर्वगन्धांबु तोयैश्च संपूर्णान् कूर्चसंयुतान् || प्. १५४६) कामिके - नवधा पञ्चधा वापि सर्वधान्योपरि स्थितान् | घटान्वा कलशान्वाथ सकूर्चान् सपिधानकान् || सन्नद्धान् सोदकान् गन्धान् रत्नस्वर्णविराजितान् | चूताश्वत्थपलाशास्यान् बीजपुष्पफलान्वितान् || सदेशाख्येन विद्येशैन्नवपक्षे पवित्रकैः | पञ्चपक्षे निवृत्यादि कलाभिर्वाभिमन्त्रयेत् || शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् | कारणे - पूववत्स्थाप्य कलशान् पूर्ववच्छिवपूजनम् || इत्थं यागसंभारं संहृत्य पूर्वस्मिन् दिने अंकुरानर्पयेत् | कामिके - अभिषेकं ततः कुर्यादंकुरार्पणपूर्वकम् | रौरवे - पूर्वेदिनें कुरञ्चैव ऐशान्याञ्चोत्तरेपि वा | तदनु पञ्चांग भूषस्त्वाचार्यस्सूर्य पूजां निर्वत्य समानास्यहस्तो मण्टपात् बहिस्थित्वा तोरण द्वारपालानभ्यर्च्यान्तः प्रविश्याचार्य पूजान्तं कृत्वा गुरुमध्ये शिष्यमण्डलेश्वरं पूजयेत् | अनन्तविजये मध्य पद्ममारभ्य परमशिवादीन् पूज्ये | तथा स्वायंभुवे | तस्य मध्ये न्यसेद्देवं कर्णिकायां परं शिवम् | ईशानं मूर्ध्नि विन्यस्य वक्त्रं पूर्वदले न्यसेत् || प्. १५४७) दक्षिणे तु तथाघोरं वामदेवं तथोत्तरेम् | पश्चिमे तु दले सद्य पदव्यूह दलक्रमात् || अंगादीनामनेनैव विदिशो सुसमारभेत् | आग्नेय दलमूले तु प्रणवं हृदये न्यसेत् || ईशानेन शिरश्चैव निर्-ऋते च शिखान्यसेत् | वायव्यां कवचन्तद्वत् दलाग्रेस्मिन् तथोत्तरे || सर्वात्मानं शिरोष्टार्णं ज्वालिनीं पिंगलन्तथा | नेत्रं पूर्वदलाग्रे तु दक्षिणेस्त्रं प्रविन्यसेत् || गायत्रीं पश्चिमेस्थाप्य विद्यांगानि तु पूर्ववत् | दलान्तरेषु सर्वेषु ततः पाशुपतं न्यसेत् || ऐन्द्रे पीठं ततोनन्तं याम्ये सूक्ष्मन्तु विन्यसेत् | आवाह्या दर्ध्यपात्रैश्च वारुणे च शिवोत्तमः || एकनेत्रं ततो देवमुत्तरे स्थाप्य पूज्य च | ऐशान्ये तु न्यसेद्दिमान् एकरुद्रं समाहितम् || त्रिमूर्तिमग्निकोणे तु श्रीकण्ठं नैर्-ऋते तथा | शिखण्डिने च वायव्ये पीठे संपूजयेत्क्रमात् || तथा तो विद्येश्वरी शक्तिं मूलविद्येश्वरश्रुतः | आद्यामूर्तिश्शिवस्यैषा मपूज्या यागकर्मणि || प्. १५४८) वर्गद्वयमनन्तस्य दक्षिणोत्तरपार्श्वयोः | विभिन्नां पूजयेद्देवीं सूक्ष्मादीनां ततः क्रमात् || एवं वर्गाष्टकावस्था चतुर्दिक्षु व्यवस्थिता | संपूज्य पूजयेदस्त्र द्वारस्यानाष्टक स्थितिम् || अथवा नवमण्डले मध्यपद्मादि नवपद्मेषु क्रमेण शिवञ्च लोकपालान् अस्त्राणि च पूजयेत् | तथा षट्सहस्रिकायाम् - मध्यपद्मे शिवं पूज्य लोकेशाञ्चापरेषु च | अस्त्राणि बाह्यवीथौ तु भक्त्या संपूज्य यत्नतः || तदनु कुण्डान्तिकं गत्वा मन्त्रतर्पणान्तं कुर्यात् | देशकाल दोषदन्निमित्तशान्तये प्रायश्चित्त होमं कृत्वा शिवं ज्ञापयेत् | भवतैवमहन्नाथ आदिष्टो गुरुमूर्तिनः | दीक्षा व्याख्या नियोगोयमविच्छेदाय सुव्रत || सम्यक् जातिपरिज्ञान वृत्ताकारवते * य | दातव्यो निजशिष्योयं शिवस्येकादनन्तरम् || तदानुभावतस्सोयं ममेदानी मुपस्थितम् | तदेतस्मै प्रयच्छामि न योगं भवताज्ञया || एवं कुर्वीत्यनु ज्ञातं शिष्यं प्रवेश्य च | तेन शिवमर्चायित्वा पूर्वोक्तवत् प्रतिसरबन्धनं विधाय दर्भाग्रे नववस्त्रपरिवृते शालिभिः कृते स्थण्डिले शिव सन्निधौ पूर्ववच्छयनं कारयेत् | तथा रौरवे - प्. १५४९) (स्वप्नञ्च तथा चैव सुस्वप्नञ्च) शिवेनमूलमन्त्रेण प्रतिशिष्यन्तु बन्धयेत् | दानेन शयनञ्चैव नववस्त्रेण वेष्टयेत् || शिवमन्त्रं शतञ्जप्त्वा निद्राञ्चैव च कारयेत् | यद्वा सद्यांकुरं कृत्वा शिष्यं सद्याधिवासयेत् || || इत्यभिषेकदीक्षाधिवासन विधिः || ततो गुरुशिष्यौ काले समुत्थाय स्नानादि नित्यश्शिष्य दुस्वप्ननाशयेदष्टोत्तरशतमस्त्रेण कृत्वा पूर्वमण्टप पूजां विधाय इन्द्रादि पञ्चब्रह्म षडंगमूल व्याहृति होमान्विधाय मूलेनादि द्रव्यादि * * रौरवे - दुस्वप्नञ्च तथा चैव सुस्वप्नञ्च परीक्षयेत् | तद्दोष शमनार्थाय होममष्टशतं कुरु || उषः काले दिने चैव नित्यकर्म समाचरेत् | इन्द्रादीशान्त * * * * विधाय पश्चात् पूर्वकृत यागमण्टपकृतवेदिकायां कलशान् वंशत् * * त्वा व्याहृतिञ्च हुनेत्क्रमात् | यवतण्डुललाजैश्चापूपसिद्धार्थसर्षपैः स्थापयित्वा तेषु वायव्यवेदिका संस्थद्रव्याणि निक्षिप्य तत्तदानुगुण्येन देवान् संपूज्य सद्यादिक्रमेण प्राद * * * षकार्थं - प्. १५५०) मण्टपविधान पुरस्सरं विधाय तत्र विद्यातत्वान्त व्याप्तिकं भद्रपीठं सिंहासनं वा विन्यस्य तस्मिन् श्वेतवस्त्रं प्रसार्य विप्रादीन् क्रमेण संस्थाप्य अभिषिञ्चेद्विजानाथ पूर्वस्यान् क्ष * * * श्यान्दिशि यमस्य तु | शूद्रांस्तु पश्चिमाशायां सर्वान्वा ऐशदिक् स्थितान् | यद्वा सर्वान्यागमण्टपदीन्यान्दिश्यभिषेकार्थं मण्टपं विधाय तत्र वेदिकाद्वय दक्षिणोत्तरमुक्तवत् | * * * ण कलश संस्थाप्योत्तरे शिष्यमवस्थाप्य भिषिञ्चेत् | तथा मृगेन्द्रे - ऐशान्यां कल्पिते पीठे सवितानेस्त्त्वलं कृते | मन्त्रपीठत्वमापन्ने लग्नांशे सौम्य वीक्षिते || कामिके - नवपञ्च घटानेन * * * शिव संयुतम् | दक्षवेद्यान्तु संस्थाप्य सौम्ययायान्तु शिशुन्यसेत् || भद्रपीठे शिवेनैव सांगेनाधिष्ठितन्तथा | रौरवे - ततो सिंहासनञ्चैव ऊर्ध्वे पद्मासनन्तथा | आसनं पूजयेत्तत्र योजयेच्छिष्यमेव च || पूर्वाशाभिमुखं स्थाप्य संप्रोक्ष्य स्थाप्य मन्त्रितम् | ज्ञानरत्नावल्याम् - निकृतत्यकृतस्नानं सित वस्त्रमुपोषितम् | भुक्तेः पूर्वाननं शिष्यं मुक्यै सौम्यानन स्थितः || प्. १५५१) चिन्त्यविश्वे - शिष्यं निवेश्य पूर्वास्यं सकलीकृत विग्रहम् | देहशुध्यर्थं प्रथममश्वत्थादिर्लेपनं पश्चात् काञ्चिकोदनाष्ट द्रव्याणि प्रत्येकमाहृत्य वज्राद्यस्त्रात्मकन्ध्यात्वा वर्मणा निर्मानद्रव्यं निक्षिपेत् | तथा रौरवे - अश्वत्थं वटबिल्वञ्च कुशमूलमृदांग्रहेत् | गोमूत्रेण तु सम्मिश्रं लेपयेत्सद्यमन्त्रतः || तदनु निर्मार्जनं कुर्यात् | काञ्चिकोदक्भस्म दूर्वागोलकैः गोमयगोलकम् | सिद्धार्थं दधि तोयैश्च वज्रदंष्ट्रैस्त्रात्मकैः क्रमात् || तदनु तनुत्राणैश्च निर्मार्ज्यं क्षिपेत्पूर्वादिदिक्षुग | * मंगल्येर्विविधैस्तेन निर्मर्ज्य च पुनः पुनः || कामिकेनीराजन प्रकरणे | देशिकस्याभिषेकन्तु दीपादीपविवर्जितम् | तण्डुला विहितास्तत्र रौद्राचेद्दीपसंयुतम् || आचार्यस्योत्तरास्यो वा भूत्वा सुषुम्नायां इडायां वा प्राणशक्तिस्वरूपेण यजमानात्मनि परमेश्वरे प्रसक्त सम्यगमृतधारणयायुक्तश्शिवमन्त्रमुच्चरन् | क्षिब्धशक्ति परिस्रुवस्रबहलामृतरूपेण कलशान्निसृतजलं स्मरन् | नवकलशपक्षे विघ्ननिर्हरणाय प्रथममस्त्रेण वर्धनी तोयमभिषिच्यपञ्च - प्. १५५२) कलश पक्षे सद्योजातादीशान्तं ब्रह्ममभिमन्त्रितैर्घटैस्सांगं शिवमुच्चरन् | तन्तन्मन्त्रैरभिषिञ्चेत् | चतुराधेकान्तपक्षे तु तम्मृत तत्रन्यस्तमन्त्रैरेवाभिषिञ्चेत् | तथा मृगेन्द्रे | सुषुम्नायमिडायां वा प्रवृत्तोपरमेश्वरः | निवेश्य सेचयेद् कुभे सद्याद्यैरीशपश्चिमैः | शिवं समुच्चरन्सांगं तन्मन्त्रेण पृथक् सुधीः || कालोत्तरे - निर्विकल्पेन भावेन सर्वमन्त्रैष्षढानन | अभिषेकं प्रकुर्वीरन् देशिको पूर्व संस्थितः || तत्काले पूर्वदिग्भागे यस्तु स्तोत्रं पठेत्तु यत् | इत्थमध्ययनं कृत्वा शंखकाहलघोषकैः || अभिघोषैर्निनादैश्च तथा मंगलावाचकैः | जयशब्दस्तथास्तुत्यैर्नृत्तगान् समन्वितैः || विशेषाद्ब्राह्मणानान्तु स्तोत्रमंगलवाचकैः | शैवान् पाशुपतांश्चैव महाव्रतधरान्तथा || बौद्धमार्हतानाञ्च सर्वपाषण्डिनामपि | कृपणानान्तथा चैव अनेनपरिघोपेत् || प्. १५५३) रौरवे - शंखघोषञ्चशृंगञ्च वीणावेणु समाकुलम् | काहली ध्वनि संयुक्तं स्तोत्रमंगल वाचकैः || मद्दली पटहाद्मल्लि घंटा ढंक्कञ्च घोषयेत् | ज्ञानरत्नावल्याम् - उद्धृत्य कलशात्पूर्वं क्षारोदाद्यैरनुक्रमात् | साधकादिभिरार्यैश्च अष्टविद्येशमूर्तिभिः || रथाराणाय सेकः कार्योयं शिवधर्मिणः | अनन्तादिमखण्डयन्त कलशैर्लोकधर्मिणः || शिवकुंभाम्बुना पश्चात् गुरुणा शिवमूर्तिना | रौरवे - सुमंगली वाचसंयुक्तं गोत्राभिषेकान् | अन्यैश्च विविधैः स्थाप्य कुंभैश्चेवाभिषेचयेत् || कामिके - शु * * दके संस्थाप्य तस्माद्देशान्तरे पुनः | परिवर्तितवस्त्राद्यं सोत्तरीयं सुमालकम् || सितचन्दनलिप्तांगो भस्मोद्धूलितमेव वा | रौरवे - स्वर्ण यज्ञोपवीतञ्च अथवा रजतं भवेत् | लाभे कार्पास तन्तूनां द्विगुणं त्रिगुणीकृतम् || दिव्यां बरं परीधाय भूषयेद्भूषणैरपि | मकुटं कुण्डलञ्चैव हारकेयूरमेव च || कटकञ्च नवीरञ्च तथा चोदरबन्धनम् | दिव्यगन्धं समप्पैवं गन्धमा * मवलंबयेत् || प्. १५५४) धूपयेद्दीपयेद्वत्स जयघोषखान्वितम् | शिवोहमिति सोप्यत्र चिन्तयेत्सततं गुरुः || ज्ञानरत्नावल्याम् | अलंकृत्य यजेच्छिष्यमारात्र्यादि प्रविस्तरैः | हारिद्रोदन पिण्डानि दधिदूर्वाक्षतानि च || समुत्ताय क्षिपेद्दिक्षु त्रिधावेष्टयं बुधा स्यात् | रोचनाचमनन्दूर्वा कुसुमं दधिपायसम् || सक्षौमश्वेतसिद्धर्थ मंगलायाभिवन्दयेत् | तस्य सव्यकरं सव्यं पाणिना ग्र्ह्यदेशिकः || सप्रदक्षिन मादाय गाय सद्मनियोजयेत् | मृगेन्द्रे - शिवपीठाभिधे याम्ये प्रणवासन संस्थितम् | वारिणा शंखमापूर्य लोहधातुरसौ सुधीः || स रत्नानि च बीजानि गन्धांश्चादाय विन्यसेत् | कलाः पञ्च निवृत्याद्या ब्रह्माद्यै रसहकारिणैः || मूलविद्या शिवं सांगं पञ्चकृत्य निधाय च | ओं सृष्टिकृत्याय नमः | ओं स्थिति कृत्याय नमः | ओं संहार कृत्याय नमः | ओं तिरोभावकृत्याय नमः | ओं अनुग्रह कृत्याय नमः | पूर्वोक्त भावना युक्तो शंखमुद्धृत्य गुरुरभिषिञ्चेत् | तदनु | देवस्य वारुण्यां मण्डल मालिख्य तन्मध्यादिक्रमेण परापरसन्तानिकान् गुरु संपूजयेत् | प्. १५५५) सर्वज्ञानोत्तरे - शास्त्रोपदिष्टमार्गेण वारुण्यामीश्वरस्य तु | पद्मसंस्था न्यसेन्मन्त्रिमण्डले दृष्टमासनम् || सदाशिवमनन्तञ्च विद्यारुद्रं सहोमया | विष्णुदेवं तथा देव ब्रह्माणं स्कन्दमेव च || स्वगुरुं शास्त्रोपदिष्टेन मार्गेणैव समर्चयेत् | कारणे - शरीरमर्थं प्राणञ्च सद्गुरुभ्यो निवेदयेत् | प्रणम्य दण्डवत् भूमौ उत्तरे शिरसि स्थितः || कृतशिष्यस्य मूर्ध्नीह शिवपादं प्रदापयेत् | प्रदापयेत्तत्काले शिवहस्तं विशेषतः || तस्य दक्षिणकर्णे तु शिवमन्त्रं समुच्चरन् | सर्वमन्त्रं समुच्चार्य तिन् शिष्यन् कृताञ्जली || तदनु शिवं विज्ञापयेत् - अभिषिक्तां त्वया नाथ कृपया गुरुमूर्तिना | शिष्योर्षयं भवतस्तस्मै दीक्षायाम शिकारिता || दाव्ययोग्यमापेक्षा प्रेरिताय विभोधुना | इत्याज्ञातोगुरुर्दद्यात् | अधिकारमिहोच्यते | एवमधिकारयुक्त शिष्यस्य उष्णीषादीन्दद्यात् | कामिके - ततो दद्यादाचार्यश्शिष्यस्योष्णीषकादिभिः | करणीं कर्तरीन्तद्वत् घटिका स्रुवत्स्रुवौ पुनः || प्. १५५६) दर्भञ्च पुस्तकान्यक्षसूत्रान्मकुट कुण्डलः | पादुकं चामरछत्रं हस्त्यश्वं शिबिकादिकम् || राजां कमन्यत्तत्काले दद्यात् श्रद्धासमन्वितः | चिन्त्यविश्वेभुक्तिमुक्तिव्यपेक्षायां विशेस उक्तः || उष्णीषमकुटञ्छत्रं पादुका चामराणि वै | नैष्ठिकाचार्य वर्याय ददेत्तत्र तु भौतिकैः || गजाश्चाकञ्चकरणीं कर्तरीं घटिकान्तथा | उभयोर्योगकञ्चैव मन्यन्तस्मात्तु दापयेत् || अक्षमालां कुशञ्चापि स्रुक्स्रुवौ पुस्तकादिकम् | सुप्रभेदे - उष्णीषं बन्धयेत्सूक्ष्मं सितं शुद्धेन वासाअ | ललाटपट्टं दातव्यं यथा राज्ञा प्रकीर्तितम् || मकुटं कुण्डलाद्यैस्तु सर्वैराभरणैर्युतम् | छत्रञ्चोपरिसन्धाञ्च चामरञ्च विधानवित् || दरिद्राणामप्यभावे तु दर्भैरेतानि कल्पयेत् | अथवा मानसस्सर्वं शिवमन्त्रेण चिन्तयेत् || कालोत्तरे - तत आरभ्य चोष्णीषं गलकण्ठावृतं शुभम् | आचरेत्सोपि नित्यञ्च उत्तरासंगमेव च || उपवीत द्वयञ्चैव उत्तरीयेण संयुतम् | प्. १५५७) धारयीतस्सदाया नवहनन्नाति दूष्यति || चिन्त्यविश्वे - अधिकारगुरुस्तस्मै शिष्याय विनिवेदयेत् | तत्राचाराणि श्रावयेत् | कामिके - आज्ञाञ्च श्रद्धया यावदद्यप्रदुतिशिकैः | दीक्षाव्याख्यादिकं ज्ञात्वा परीक्षा विधिना कुरु || सुप्रभेदे - शिवार्चनादिकार्यञ्च जपध्यानञ्च शक्तितः | व्याख्यामाग्रहः कार्यमेवमेवतु सर्वदा || कारणे - आदीक्षितानान्द्विजातीनां सर्वेषाञ्च न संस्पृशेत् | आदीक्षितानां प्रयत्नेन चण्डाली न समंस्पृशेत् || गुरोस्सन्निधानैन पत्रपादुक * न धायमतिशक्तितः | सर्वज्ञानोत्तरे प्रदिपादितम् | तद्यथा - छत्रं नैवाग्रतोधार्यञ्चोष्णीषं न च पादुके | किरीटाद्युज्वलञ्चैव न कुर्यात् गुरु सन्नैधौ || नाध्यापनं प्रकुर्वीतं व्याख्यानं शिष्य विग्रहौ | गुरोश्चैव समीपस्थो गुरुशिष्य प्रबोधनम् || आसनं शयनं यानं नारोहोद्गुरु संनिधौ | गुरुनिम्नासनो भूत्वा सतिष्ठेत्तत्परायणम् || एतेषां वर्ज्यानि कान्नियाचार पद्धत्यां विस्तरेणोक्तन्तत्रावधार्यताम् | सुप्रभेदे - ममरूपं सदा स्मृत्य शिवमन्त्रं सदा जपेत् | प्. १५५८) रुद्राक्षमुपवीतञ्च वारयोच्छिष्यमेव च || उपवीतञ्चोत्तरीयञ्च स्त्री शूद्राणां विवर्जयेत् | एवं कारणोक्तनिषेध वचनञ्चतुर्थस्य कथमुपवीत धारणमितिचेत् | दैवं देवमन्त्रै शिखासूत्रं शूद्रो धारणमात्रता | वैपरीत्य क्रमान्तेन राजराष्ट्रं विनश्यति | अस्य निषेधस्य वेदमन्त्रस्य वेदधारण विषयत्वमेव न त्वागममन्त्रेण धारणविषयत्वम् | यथा कामिके - पुरुषाघोरवामाजा मन्त्रा विप्रादिषु क्रमात् | स्वस्व जात्युक्तमन्त्रेण धारयन्तदुपवीतकम् || अथ शिष्यान् प्रबोधयेत् | तथा निश्वासे - अद्यप्रभृतिरात्मीयाचार्यश्शिवमन्त्रस्य मतः | कर्तव्योनुग्रहो नित्यं चतुराश्रम वासिनाम् || व्याख्यानमर्चनञ्चैव गुरुशिष्य प्रबोधनम् | सोपि प्रतिवचन तथेत्युक्त्वा तमाज्ञां शिरसा हियात् || अधिकार समर्पणञ्चेत्तं शिष्यमभिसांध्यात्मईय करणी कर्तरिपुस्तकम् | व्यादिना सुपूज्यतमे दिवार्पयेत् | अद्य प्रभृति संक्रान्तो योधिकारो मयास्त्वयि | स कर्तव्यस्त्वा तावत् यागसंक्रमतोन्यतः || निश्वासे - करणीं कर्तरीञ्चैव सहिता स्रुकस्रुवादिकम् | अस्यादिभिस्समभ्यर्च्य अधिकारं समर्पयेत् || प्. १५५९) अधिकारसमर्पणस्या चार्यस्य विशेषं सर्वज्ञानोत्तरे उक्तम् | एवं करोधिकारो ये यावत् संक्रमतेन्यतः | संक्रामिताधिकारस्तु कर्मसञ्चासमाचरेत् || तदुक्तं कालोत्तरे - स्वाधिकारं समर्प्याथ स्वयायोग सदाभ्यसेत् | शून्याकारे वने वापि संगृहीतोय निस्पृहा || सापेक्ष समर्पणे तु अन्य प्रभृतियश्चिताधिकार इति श्लोक पाठनीयन्तत्र तु नमस्कारो न विधेयः | अधिकार समर्पण कृतोपि पुनरप्यधिकारनिर्हरणे इच्छासेच्छवज्रं लब्ध्वा आत्मदीक्षत्वा कृत्वा शिवेन सहस्रं हुत्वानेनलब्ध्वाकारो भूत्वा दीक्षान्तमाचरेत् | आहुतीनां सहस्रन्तु जुहुयाद्वा शि * णुना | अधिकारं पुनर्दत्वा शंकरेण तु वर्त्मना || त्वया यत्सतु कर्तव्य मधिकारं यथेच्छया | यावद्देहावसानान्ते मया दत्तं यथा विधि || ज्ञानरत्नावल्याम् | अधिकारसमर्पित अधिकारयोः फलं उक्तम् | तस्मादधिकारस्य सायुज्यं परमे पदे | अधिकारपदस्तस्य भोगस्सदाशिवे पदे | तदन्ते शाश्वतीमुक्तं इति शास्त्रस्य निश्चये || ततो गुरु शिवं प्रणम्य - प्. १५६०) अभिषेकत्वमादिष्टत्वयान्तं गुरुमूर्तिना | संहितापारगस्सोय मभिषिक्तो मया शिव || त्वत्प्रसादादविप्प्ने मधिकारकरोत्विति | विज्ञापयेत् | सोपि शिवमभ्यर्च्या विघ्नमस्त्विति विज्ञापयेत् | ततो गुरुस्तमग्नि सन्निधिन्नीत्वा संहितया पञ्च पञ्चाहुतिभिस्संतर्प्य निवृत्यादि कलापञ्चकं सेश्वरमवलोक पञ्चपञ्चाहुतिर्हुत्वा चैवं ब्रूयात् | तथा मृगेन्द्रे - इधाय भूमयस्सर्वे भवन्त्यस्याधिकारिणः | विषयत्वं प्रपद्यध्वमनुजानीत नायकः || ततः पूर्णाहुतिं दद्यात् | कृतमोमस्य देशिकः | अस्यार्थः - हे हस्व भूतमयतत्वं भुवनाधिकलारूपा अस्याधिकारिणम् | ईश्वरानुज्ञया यूयं विषयत्वद्दिष्ट दीक्षादि व्यापारजिष्टोरस्य गोचरलतं भजध्वम् | तथा हे कलातत्व भुवनाधिपत एवं स्वकर्माद्यसन्तममनुजानी कुरुत्वमिति मन्त्रव्य पूर्णान्दत्वा शिवमन्त्र सहिताभिकरांगुलिस्त ऊषरत्वनिवृत्यर्थं दुलमुकाग्रेण पासच्छेदादि हेतवे मन्त्रसन्दीप्त्यै खट्गवद्दग्द्ध हस्तस्योद्दीपनं कुर्यात् | तथा मृगेन्द्रे - शिवादिभिकरस्याग्र मूलमुकाग्रेण संस्पृशेत् | खट्गवन्मन्त्र सन्दीप्त्यै पाशच्छेदादि हेतुतः || प्. १५६१) तस्मात्तेनेह हस्तेन होमयित्वाचार्यस्समग्रे होमकर्मतायै पूर्णाहुतिर्दत्वा तद्धस्ते कुसुमादीत्तदत्वा कुंभनले मण्डले स्वस्मिन् प्रणामं कारयित्वा शिवाग्रे नीत्वा तन्नामगोत्रादिक मादिशेत् | सुप्रभेदे - प्रक्तिप्य मण्डले पुष्प प्रासादं समनुस्मरन् | यस्मिन्मन्त्रे पतेत्पुष्पं नामगोत्रा तदात्मकम् || ईशानवक्त्र विद्येश घोरब्रह्मस्यसद्यकः | रुद्रोवामश्च हुंकारो नवधा नव उच्यते || श्वेतादीनां समन्ताहि रुद्राणान्तु गणान्तकम् | रौरवे - पां * पर्याय नामाभिकीर्तनीया यथाक्रमम् | स्त्रीलीन्नपुंसकञ्चैव वर्जयेत्तु विशेषतः || पुल्लिंगं नैव सर्वेषां घोषयेद्बुध वाचकैः | श्वेतानान्तु विशेषोस्ति * परं गोत्र सूत्रकम् || शिवेश्शिखा तहा ज्योतिस्सावित्री व्योमगोचरः | काश्यपादि ऋषीणान्तु तद्वर्गं गोत्रमुयते || चयापाते तु यत्प्रोक्तं तत्पूर्वं शिवभाषया | * पर्यागोचरं गोत्रं सूत्रं तस्यं विधीयते || कामिके - क्षत्रियाणान्तु वैश्यानां गोत्रमाचार्य लक्षणम् | नैवशूद्रस्य गोत्रः स्यात् एवं गोत्रविधौ मतम् || प्. १५६२) अनुग्राह्यस्त्वया * * शास्त्रदृष्टेन कर्मणा | श्रोतव्यञ्च शिवं ज्ञानं श्रावणीयं तदर्थिनाम् || संवत्सरोषते शिष्ये दीक्षा निर्वर्त्तयेद्बुधः | मृगेन्द्रे - व्याख्येयं श्रुतमर्थिभ्यः श्रोतव्यञ्चत्वयान्वितः | बहुया बहुच ज्ञानं कृत्यं कार्यं सुवर्चतम् || त्यक्त्वालस्यञ्च याचार्य कार्योभक्तेष्वनुग्रहे | प्रतिष्ठाय शिवादीनां तेषां प्रर्थनवा भृशम् || स्वल्पहोम जपेज्याभिरलुप्त नियमोन्वहम् | वसेत् लौकिकेनापि स्वामोदश्च विरोधिना || धन्यञ विहितं किञ्चित् निषिद्धञ्चोपदेष्यते | तत्सर्वमनुसर्तव्यं यत्तव्यानुवर्तिषु || रौरवे - क्षणादि प्रतिष्ठान्तं प्रतिष्ठादुत्सवान्तकम् | उत्सवादि निशात्यन्तं कर्तव्यन्तु शिवाज्ञया || सतथेति प्रतिज्ञाय देशिकानुमतस्सुधीः | पूर्णाहुतिं तदारभ्य प्रायश्चित्तन्तु कारयेत् || अत्र यागं विसृजेत् | अग्निं प्रदक्षिणं कृत्वा अचार्यन्तु नमस्कारेत् | सुप्रभेदे - दक्षिनां गुखे दता वित्तशाम्यविवर्जितम् | वज्रमाभरणञ्चैव मकुटं कुण्डलन्तया || हेमयज्ञोपवीतञ्च हेमपुष्पोपकारकम् | प्. १५६३) मृगशययासनादीनि आचार्याय प्रदापयेत् || रंगे वा शिबिकायां वा हयेनागे नरेथवा | ग्रामप्रदक्षिणं कृत्वा स्वगृहं प्रविशेत्तदा || मौन मौनी तृषवण स्नायीद्वारभिज्ञस्सुसं यदि | शंकरं वरधरश्शान्त श्शुक्लामाल्यानुलेपनः || योगपट्टाक्षसूत्री च मौञ्ज्याजिन पवित्रसत् | सन्ताने - शैवान् सुपूजयेत्तत्र वस्त्रहेमांगुलीयकैः | ब्राह्मणान् भोजयेत्तत्र शैवान् संभोजयेत्तदा || समयान् भोजये द्देवीजनान्सर्वांश्च भोजयेत् | एवं प्राप्ताभिषेकञ्च आचार्यो मन्त्रसिध्यर्थमाचरेत् | तथा स्वायं भुवे - आचार्य व्रतमाचरेत्सर्व व्रतोत्तमम् | सद्यादि शिवपर्यन्त दभ्यसेन्मन्त्र संहिताम् | पक्षत्रयमयशायी नक्ताशी चरु भुक्सदा || जपञ्च नित्यहं कुर्यादनुद्विघ्न सहस्रकम् | होमं प्रतिदिनं कुर्यात् जपान्ते रक्षितः क्रमात् || घृतेन वा घृताक्तै वा तिलक्षीरेण तण्डुलैः | व्रीहिभिर्वा समिद्भिर्वा दघ्ना वापि यवैस्तु वा || श्रीफलैर्बिल्वपत्रैर्वा पुष्पैर्वा याज्ञिकैश्शुभैः | ततो व्रतसमाप्तौ तु पूर्वन्तु मण्डलं यजेत् || प्रारंभावसाने च त्रिदिनं पञ्चगव्यकम् | प्. १५६४) कामिके - शक्तिमूर्तिं शिवं सांगं अभ्यसेत् शक्तितो गुरुः आचार्य व्रतमेव स्यात् व्रतानामुक्तोत्तमम् | तदन्ते अनन्तविजयं मण्डले शिवमिष्ट्वात्मानमेकेन शिवकुंभेनाभिषेकोक्तवदभिषिञ्चेत् | तदा तत्फलमाप्नुयुः | तथा क्रियारे व्रतग्रहणकाले च देशिकस्साधकस्तथा | अभिषिच्यात्मानमनन्त विजये बुधः | तथाभिषेकयोग्यासानान्यधा तु कदाचन | पाशान् हसामर्थ्याद्गुशेस्तेन प्रशस्यते | व्रतमेतत्पुण्यं सिद्धाश्च विनियोजयेत् | इति दीक्षादर्शे आचार्याभिषेक विधिः || || अथ साधकाभिषेक विधिरुच्यते || तदुक्तं सर्वज्ञानोत्तरे - आचार्यस्साधकश्चैव द्वौवेतौ तुल्यमंगलौ | समाप्तविद्या कर्तव्यौ गुरुसाधक एव च || स * मस्साधको ज्ञेयो निष्कामो देशिकस्मृतः | एक एवक्रियाकारो भाव एव पृथक् तयोः || स्वल्प होम जपध्यानं कुरुते देशिकस्सदा | कर्मनिष्ठा प्रतिष्ठा हि सततं साधकोत्तमम् || कामिके - अनेनैव प्रकारेण साधकस्याभिषेचनम् | किन्तु साध्याणुसंलब्धैर्घटैरस्याभिषेचनम् || तहा स्वायंभुवे - साधकस्याभिषेकन्तु मन्त्रहोमादनन्तरम् | प्. १५६५) कार्यसिद्धिविधानज्ञस्सिद्धिकामस्य देशिकः || निश्वासोत्तरेसाधकलक्षणमुक्तम् | स एवमन्त्र कल्पज्ञो मन्त्रिमन्त्रविधान वित् | मन्त्रकल्पसवेत्ता च देशकालविधानवित् || जपयोग विधानज्ञस्तत्वस्यास्य विधानवित् | सर्वज्ञश्च कृतज्ञश्च शौचाचार समन्वितः || समर्थश्च परित्यागी जपसक्त सदामना | चतुष्पात् संहिताभिज्ञः संकरप्रोक्तलक्षणम् || तद्रव्यमानं संक्षेपात् निबोधद्विजसत्तम | चिन्त्यविश्वे - अभिषेकं साधकानां वक्ष्येहं नन्दिकेश्वर | पूर्ववन्मण्टपादींश्च पूजनञ्चाग्नि कार्यकम् || अत्र पूवोक्तवर्त्मन्नव नागमण्डलं निर्माय तस्यार्चनं कुर्यात् | साधकं दीक्षायां निवृत्यादि कलात्रयं पूर्ववच्छान्तिकालान्तञ्च विशोध्य सदाशिव माह्येष्वा सन्तर्प्य विसृज्य शान्त्यातीता शान्तिकलाद्वयं सन्धाय शुद्धशस्तौ शिष्य चैतन्यं संयोज्याणिमाद्यष्टशक्तिस्थं मन्त्रोच्चार्य उक्तः | पूर्णाहुत्यात्मानं स्वाभिलषितभोग प्राप्ति स्थानभुवन साध्य मन्त्रदेवतायां नियोज्य शिष्यान्नैष्ठिकात्मनोष्टगुणानापाद्य सदाशिवं ध्यात्वा मूलेन पूर्णां विदध्यात् | तथा प्.१५६६) चिन्त्यविश्वे - निवृत्यादि कलानाञ्च त्रयं विद्यान्तमेव च | शान्त्यातीतान्तमानीय शोधयेन्नन्दि केश्वर || ततस्सदाशिवं ध्यात्वा मूलमन्त्रेण पूर्णायाशक्तौ संयोज्य कुर्वीत गुणापादानमष्टधा रामनाथ पद्धत्याम् | यस्मिन् वा भुवने भोगनात्माभोगानात्माभोक्तुं पञ्चपाञ्छति | तल्लोकाधिकसायुज्यं तन्नीत्वा घृतिशोधिते | आपादयेद्गुणानष्टौ प्रत्येकं पूर्णया सह | स्त्रवम्मूलमुदीर्यात्मन्यणिमादो भवन्त्विति || स्वाहेत्यन्तगुणानन्यानप्येवं मन्त्रमुच्चरन् | अत्र होमक्रमः | ओं हां आत्मन् अणिमादो भवन्तु स्वाहा | प्राकाम्यन्ते भवतु स्वाहा | ओं हां आत्मन् लिपिमाधि * ते भवतु स्वाहा | ओं हां आत्मन प्राप्तिस्ते भवतु स्वाहा प्राकाम्यन्ते भवतु | महिमा ते भवतु स्वाहा | ओं हां आत्मन् प्राप्तिस्ते भवतु स्वाहा | ईशित्वं ते भवतु स्वाहा | वशित्वं ते भवतु स्वाहा | कामानन्ते भवतु स्वाहा | एवमापदितात्मानां साधकाभिषेक विधिनाभिषिञ्चेत् | निश्वासोत्तरे - कलशाष्टदलेनैव पञ्चदशेन वा | अभिषेकं प्रदातव्यं देशिकेन महात्मना || प्. १५६७) संपुटीकृत्य विद्या * कलशं सुरसुन्दरी | अभिषिञ्चेत्ततश्शिष्यं विधिदृष्टेन कर्मणा || गुरु वत्साधकस्य सर्वमभिषेक विधानं समानं किन्तु पञ्च कुंभपक्षे निवृत्यादि कलापञ्च कुंभेषु विन्यस्य साध्य मन्त्रेण संपूज्य मूलेनाष्टोत्तर शतमालभ्यञ्जपित्वा निवृत्यादिमन्त्रैस्साध्यमन्त्रेण च प्रत्येकं शतं शतञ्जप्त्वा भद्रपीठस्य शिष्यसाध्यमन्त्रन्यासं विधाय निवृत्या त्रिभिः कुंभैस्त्रिभिः | प्रथममभिषिच्य शान्त्यातीत कुंभेनाभिषिच्यान्ते शान्तिकुंभेनाणिमादिकं स्मरन् | साध्यमन्त्रेण रेचकोद्भवमुद्रयाभिषिञ्चेत् | तथा चिन्त्यविश्वे - निवृत्यादिकला प्राग्वन्न्यसेत् कुंभेषु पञ्चसु | साध्याणुञ्च तथाभ्यर्च्य मूलेनाष्टोत्तरशतम् || आलभ्याय निवृत्यादि क्रमात्साध्यणुकाशतम् | साध्यमन्त्रासनस्थं साध्यैक गतमानसम् || अभिषिञ्चेत्रिभि कुंभैः शान्त्यातीतात्मकेन च | पश्यन्तश्शान्ति कुंभेन हृदि स्मृत्वाणिमादिकम् || विन्यस्याष्टसमुद्रैर्वा साध्याणि शतमन्त्रितैः | पूर्वोक्तैरभिकुंभै रेचकोद्भवमुद्रया || उदङ्मुखासनस्थस्य चित्ते कृत्वाणिमादिकम् | तदिदं साअध्यमन्त्रेण साधकस्याभिषेचनम् || प्. १५६८) देवस्य दक्षिणे प्राग्वत् संस्थाप्य तदुदङ्मुखम् | उष्णीष कर्तरीहीनं सर्वमन्युत्समर्पयेत् || अधिकारञ्च तत्रैव दापयेन्नन्दिकेश्वर | साध्यमन्त्रं समुच्चार्य प्रणवाद्यन्तदीपनम् || रेचकोद्भवया दद्यात् पुष्पादि युतमञ्जलिम् | महत्प्रसाद्यमित्युक्त्वा शरदिन्दु समुज्वलम् || पूरकेण हृदांभोजे साधकस्तन्निवेशयेत् | सन्तर्प्य पावके भक्त्या साध्यशंबरसंहिताम् || नवनाभ मण्डलञ्चैव अर्चयेत्पूर्ववत्तदा | तन्मध्ये साध्यमन्त्राणि पूजयेन्नन्दिकेश्वर || गुरोराज्ञां समासाद्य प्राणायाम क्रमात्पुनः | सुलग्ने शोभने काले मन्त्राराधन माचरेत् || अणिमादि प्रसिध्यर्थं गुड्गुला पायसोथवा | घृतस्य वा सहस्रन्तु शतं वा होममाचरेत् || तथा स्वायंभुवे - अष्टोत्तरशतहोमं तदर्धं पादमेव च | आहुतीनान्तु विज्ञेयो मन्त्राणामनुरूपतः || आज्यक्षीरं तिलं वाथ घृतेन मधुनाप्लुतम् | श्रीफलानि घृताक्तानि समयो ब्रह्मवृक्षजान् || आमली फलमन्त्रन्तु महा * स्य च गुल्गुलोत् | प्. १५६९) हुताक्तगुलकौ श्रेष्ठ होमयेत्सिद्धभाक्भवेत् || षट्सहस्रिकायाम् - उत्तमाधमसिद्धीनां जप्तव्या सिद्धिमिच्छता | अस्य लक्षार्धकल्पेन रुद्रतुल्यो भवेन्नर || नित्यहानुग्रहे शक्तस्सभवेन्नान्यथा सुत | होमस्तु जपवत्कार्य मस्त्रजापेषु सर्वदा || तदा समर्थो भवति साधकस्सिद्धि साधकोगुरु | सर्वज्ञानोत्तरे - साधकस्याभिषेकस्तु एवं वत्स विधीयते | यथा पूर्वं यागं विसृजेत् पूर्ववत्सन्ते * * त् || चिन्त्यविश्वे - आगमार्थानुयायी च पारं पर्यक्रमानुगः | सद्गुरोपदेशेन सर्वं सिध्यति तत्क्षणात् || || अथ साधकव्रत विधिः || आचार्य व्रतमाचर्यश्चरोदाचार्य सन्निधौ | * * मन्त्रव्रतं मन्त्रलिंगाग्रे मण्डलेथवा || ज्ञानरत्नावल्याम् | श्रीशैलादि गिरौ पुण्ये क्षेत्रे वा सरितान्तटे | पत्रपुष्प फलोपेत मृत्कुशो पचिते शुभे || श्री माहेश्वर संकीर्णे स्थाप्योथ मनोरमे | प्. १५७०) व्याधि चोरमृगोपेते धूर्तस्त्री नास्ति कान्वितम् || बद्धादन्याश्रमक्षेत्रं सिद्धिस्थानं परित्यजेत् | तत्र प्रत्यङ्मुखं लिंगं प्राङ्मुखं तदभावतः || सर्वावयव संपूर्णं स्वयं भूतं समाश्रयेत् | स्थापितं मुनिसिद्धायै स्वयं वा परिकल्पितम् || कीलितं वर्जयेद्धीमान् ब्रह्मविष्ण्विन्द्र मातृभिः | उमामहेश्वरस्कन्दक्षेत्रपाल गणेश्वरैः || शतलिंगं सहस्रांगं मुखलिंगञ्च वर्जयेत् | याम्यकौबेरवक्त्रञ्च वर्जयेत्तत्क्षणैर्युतम् || परिगृह्येप्सितं लिंगं तद्याम्यै जगती बहि | मठे मनोरमे स्थित्वा सायं * य प्रसन्नधीः || स्फेटलिंगं समीपे वा कायसिद्धिं समाचरेत् | मृगेन्द्रे - गुरोरनुज्ञामासाद्य भक्त्या संप्रणम्य च | पुण्यकाले मुहूर्ते च मन्त्राराधन माचरेत् || अणिमादि प्रसिध्यर्थं गुड्गुलोपयसो * * | घृतस्य वा सहस्रन्तु शतं वा होममाचरेत् || तथा स्वायंभुवे - अष्टोत्तरशतं होम मर्धञ्चमेववा | आहुतीनान्तु विज्ञेयो मन्त्राणामनुरूपत || आज्यं क्षीरं तिलंवाथ घृतेन मधुनाप्लुतम् | प्. १५७१) श्री फलानि घृताक्तानि समिधो ब्रह्मवृक्षजाम् || आमली फलमात्रन्तु महिषाक्षस्य गुल्गुलो | घृताक्तागुलकाश्रेष्ठा होमयेत् सिद्धिभाक् भवेत् || आगमार्थानुयायी च पारंपर्यक्रमानुगम् | सद्गुरोरुपदेशेन सर्वं सिध्यति तत्क्षणात् || षट्सहस्रिकायाम् | उत्तमाधमसिद्धीनां जप्तव्या सिद्दिकांक्षिणः | अस्य लक्षार्थदापेन रुद्रतुल्यो भवेन्नरः || निग्रहानुग्रहेशक्तस्सभवेदन्यया सुत | होमस्तु जपवत्कार्य शास्त्रजापेषु सर्वदा || तदा समर्थो भवति साधकस्सिद्धि साधने | तथा कालोत्तरे - शिवं ब्रह्माणि चांगानि जप्तव्यानि शिवालये | संनिधाम्येन्द्रिया श्यामं वर्षमेकं शुचिष्मत || नित्यं भक्तं भुजाशुद्धकुशप्रस्तरशायिना | पूजाग्निहवनाद्युक्त चेतसा भावितात्मना || विद्यांग वर्णलक्षे तु समाप्ते मण्डलं गुरुः | नव पद्मकृतं ह्येवं यजनीयञ्च पूर्ववत् || साधकश्चात्मशुध्यर्थं सर्वदावृतमाचरेत् | इति व्याघ्रपुरनिवासिवामदेवात्मज वेदज्ञान विरचित दीक्षादर्शे || साधकाभिषेक विधिः || प्. १५७२) || अथास्त्राभिषेकविधिः रुच्यते || चिन्त्यविश्वे - अथ वक्ष्ये विशेषेण अस्त्रेणैवाभिषेचनम् | वध्यानां मृतवत्सानां स्त्री प्रसूनाञ्चयोषिताम् || दुर्भगानामबीजानां पुंसामपिहिता * हा | नृपाणां भोग्य हीनानां रिपुभिः पीडितात्मनां || लक्ष्मी विजयसौभाग्य धर्मकर्मत्व कारणम् | पूर्ववद्यागमापाद्य सकलीकरणं कुरु || तथा सार्धत्रिंशतिकायाम् | पूर्वोक्तभूतले शुद्धे गोमयेनोपलेपिते | मन्त्रद्रव्य समायुक्तं कलशं वारिपूरितम् || दिग्यैशान्यां स्थापयेत्तन्निच्छिद्रंकारणं परम् | ततः पद्मं समालिख्य स्थण्डिले वा समरयेत् || रजस्सुबहवो विघ्नो निर्विघ्नास्थण्डिले गुह | तस्मात्सर्व प्रयत्नेन कार्योस्तस्य महात्मना || सर्वत्र विस्तृतश्शास्त्रं स्थण्डिले यागौत्तमम् | चिन्त्यविश्वे - पद्ममष्टदलयुक्तं ध्यात्वा चास्त्रा समर्चयेत् | इत्थं कृतमण्डले षडुत्थासनं पूज्य तस्योपरि ओं पाशुपतास्त्राय नमः | इत्यासनं संपूज्य पञ्चास्यं दशकर्णञ्च प्रतिवक्त्रं त्रिलोचनम् | प्. १५७३) दुर्द्दर्शमतिभीमञ्च दशबाहुसमप्रभम् | सर्वांगं भुजगोपेतं नागयज्ञो पवीतिनम् | दक्षिणेग्निञ्च वेतालं शूलं शक्तिं तथांकुशम् || वामे सर्पञ्च कुन्दञ्च चक्रञ्चक्रञ्चमुद्वरम् | एवं पाशुपतास्त्रञ्च विघ्नसंघात नाशनम् || ओं पाशुपतास्त्रमूर्तये नमः | अष्टत्रिंशत्कलां न्यस्त्वा | इति संपूज्य ओं हुं नेत्रेभ्यो हुं फडिति नेत्रं संपूज्य प्रथमं प्रणवं बीजं श्रीकण्ठं शक्रं ईश्वरः | बीजनादसमायुक्तं विनाताभ्याञ्च प * कम् | बिन्दुषष्ठस्वरोपेतं श्रीकण्ठं मन्त्र नायकम् || हुं फट्कार समायुक्तं नवबीजमिदं गुह | इति महापाशुपतं मन्त्रं समुच्चार्या वाहिन्या वाह्य स्थापनादिकं विधाय ओं अस्त्रहृदयाय हुं फण्णमः | ओं ह्रीं अस्त्र हृदये हुं फण्णमः | ओं पं अस्त्रशिखायै हुं फण्णमः | ओं हूं अस्त्रकवचाय हुं फण्णमः | ओं हूं अस्त्रनेत्रेभ्यो हुं फण्णमः | ओं फट् अस्त्राय हुं फण्णमः | इत्यंगानि विन्यस्य रक्षावकुण्ठनामृती करण पाद्यादिभिस्संपूज्य तद्बाह्ये वस्त्रादीन् दिशदिक्षु समर्चयेत् | ओं वज्राय हुं फण्णमः | ओं शक्तये हुं फण्णमः | ओं दण्डाय हुं फट् | ओं * गाय हुं फट् | ओं पाशाय हुं फट् | प्. १५७४) ओं अंकुशाय फट् | ओं गदाय फट् | ओं त्रिशूलाय फट् | ओं पद्माय फट् | एवमावरणं जपान्तं संपूजयेत् | वृत्तं कुर्वन्तु कुण्डन्तु तस्योर्ध्वे चतुरंगुलम् | चतुर्नेमि समायुक्तं हस्तमात्रसमं ततः || पूर्वे कामप्रदं वृत्तमस्त्रयागे विशेषतः | स्थण्डिलं वा प्रकर्तव्यं कुण्डं वाथ सलक्षणम् || शोधनं तस्य कुर्वीत प्रागुक्तेन तु षण्मुख | जननं निष्कृतान्तञ्च विधिं कुर्याद्वि चक्षणम् || होमं कुर्वीत मतिमान् शास्त्रदृष्टेन कर्मणा | ततस्संहिताय मन्त्रतर्पणं विधाय त्रिमधुना राजेनाष्टोत्तरशतं सांगानान्दशांशतो होमं कुर्यात् | चिन्त्यविश्वे - तथाविधं विधानेन पूर्वं कलशपूरणम् | प्रणवासनञ्च संपूज्य पूर्ववन्नन्दिकेश्वर || अष्टोत्तरशतास्त्रेण अभिमन्त्र्यास्त्र पूजितम् | पूर्ववद्धयानयुक्तस्तु स्नापयेच्छिष्यमूर्धनि || वेदघोषैश्च वादित्रैस्तोत्रैर्मंगल वाचकैः | ददे शिष्यस्य वस्त्रादि हेमरत्नादि भूषितम् || देशिकाय नमस्कृत्य * * प्रीत्यर्थसिद्धये | सार्धत्रिशतिकायाम् | प्. १५७५) अस्त्रदीक्षां समाप्येवं सर्वं छिद्रनिकृन्तनम् | योजनीयं शिवर्त्वे तु निर्वाणकरणीं परम् || चिन्त्यविश्वे - एवमस्त्राभिषेकञ्च महापापौघनाशनम् | || इति दीक्षादर्शे अभिषेकविधिः || || आत्मदीक्षाविधिरुच्यते || शूद्रं हि दीक्षयित्वा तु विधानेनाग्रजन्मनः | सोपि शूद्रत्वमाप्नोति दीक्षादात्मानमात्मना || कामिक सूत्रोक्तत्वादाचार्यस्तत् शान्त्यर्थमात्मदीक्षां रौरवोक्त प्रकारेण विदध्यात् | तद्यथा | अथातस्संप्रवक्ष्यामि आत्मदीक्षा विधिक्रमम् | भाषितन्देव देवेन श्रीकण्ठेन माहात्मना || एतत्पवित्रं परमं महापातकनाशनम् | स्त्रीशूद्रा दीक्षयेद्यस्य विधानेनाग्र जन्मना || निर्माल्यं भक्षयित्वा तु आपत्सु शिवयज्ञवित् | आत्मानं वा समतिक्रम्य शास्वतीं पारमेश्वरी || आत्मदीक्षामिमां कुर्याद्विधिवत्संशितव्रत | पूर्वमण्टपकल्पेन शिवमावाहयेत्सदा || ब्रह्मभिस्सहितन्देवं विद्यांगैश्च संयुतः | प्. १५७६) यथोक्तेन विधानेन आत्मदीक्षां समारभेत् || पूर्वोक्तेन विधानेन इष्ट्वा शिवमनन्यया | सन्निगृह्ये च यद्ग्रामं पश्चाद्दीक्षां प्रयोजयेत् || वषट् कारेण संयोज्य यज्ञं सम्यक् प्रयोजयेत् | वौषट् कारेण कर्तव्यं मण्डलस्य निवेशनम् || स्वस्य यत्नेन निर्दिष्टं कल्पनञ्चात्मनस्सदा | स्वधाकारेण सन्धानमात्मनि प्रतिकल्पयेत् || आलोक्यमामपांगेन पशोः कुयाद्विचक्षणः | व्योमेन साधनं कुयात् विष्टनं सकलस्य तु || निष्कलस्य तु युञ्जीत तद्भूरित्येव बन्धनम् | स्पृशेत् घोरेण मनसा शौर्यादेवात्म यज्ञवित् || व्योमचक्रे पदादर्ध्यमाधूपपवित्रकम् | उद्वेष्टनञ्च कर्तव्य मजरायेति नित्यशः || छिन्दभिन्देति पाशादि दीपनं परिकल्पयेत् | उल्कायेति च मन्त्रेण गर्भाधान विधिक्रमम् || दमनीशेन संयोगो वागीश्वर्याः प्रकीर्तिताः | अवलोकनं शिवेनैव ब्रह्मभिर्होममेव च || आत्मदीक्षाविधिप्रोक्तो आचार्यश्शिवसंभवः | ज्ञानरत्नावल्याम् - अज्ञात्वा शा * संभावं ज्ञानतत्व समुच्चयम् | प्. १५७७) दीक्षां करोतु यो मोहात् पश्चात्तापं करोति चेत् || पञ्चलक्षणं जपेद्धोरं यदिवाञ्छति भोजनम् | स्वगुरोर्यो भवेद्भ्राता गुरुपुत्रो विशेषतः || दीक्षा तैरेव कर्तव्या पवित्रारोहणन्तथा | गुरुपुत्रं यथायोग्यं त्यक्त्वान्यं परिकल्पयेत् || निष्फला तस्य वै दीक्षा महाकल्पं व्रेजत्यथा | इति वेदज्ञान विरचित दीक्षादर्शे आमदीक्षा विधिः || अत्र पूर्वानुष्ठितैश्शैवधुरन्धरैराचार्यै शैवसन्यासदीपिकायां प्रपञ्चितम् | तथापि लेशादत्र संलिख्यते | अत्राधिकारिणः | आचार्याभिषेक सम * * धिकार समर्पित गुरुरधिकारविराग्यात् तस्य शैवसन्यासं विदध्यात् इति कालोत्तरे | श्रूयमाणत्वत् शैव सन्यासं कुर्यात् | तथा चिन्त्यविश्वे - यतयः त्रिविधा ज्ञेयास्तपस्वी विद * * था | विद्वानिति त्रिधाप्रोक्ता तेषां लक्षणमुच्यते || तपोनिष्ठस्तपस्वीति तस्य वृत्तिस्तु सुव्रत | नाध्येतव्यन्त संकल्पो न श्रोतव्यं कथञ्चन || शिष्याणां संग्रहञ्चैव शैव विद्या * * शनम् | न वदेत्संस्कृतां भाषां न च दण्डिकमण्डलः || लिंगं क्षणिकमभ्यर्च्य भक्तिमन्त्रेण संयुतः | प्. १५७८) एकाकी वृक्षमूले वा वने वा जनवर्जयेत् || जनात् भीति समायुक्ता * सेद्बाहूपधानकः | वसनं येन केनापि तथैवाशनपानकैः || पाणि पात्रोदरे पानो याचितान्नेन जीवनम् | इत्युक्तस्तपस्वी स्यात् साधको यतिनामवान् || विदुषञ्च यतेश्चापि वर्तते नन्दिकेश्वर | अध्यापनञ्चाध्ययनं श्रवणं चिन्तनन्तया || एतच्चतुष्टयन्तस्य विदुषोश्च विशेषतः | विद्वद्यतेर्विशेषोस्ति व्याख्यानं चिन्तनं भवेत् || सदाचार्याभिषेक * युक्तो विद्वत्समाख्यक | यतीनां त्रिविधं प्रोक्तं शैवानाञ्चतुराश्रमे || तत्रैव तद्विधानमुक्तम् | पूर्वोक्तं पञ्चपद्मेषु पूजां कृत्वा विशेषतः | ईशानादिक्रमेणैव मध्यपद्म पञ्चके || पञ्चब्रह्मस्वरूपेण पूजयेद्देशिकोत्तमः | पादादि मूर्तिपर्यन्तं दिव्यदृष्टया निरीक्षयेत् || शिष्यं विमुक्तिसिध्यर्थं संहारन्यास पूर्वकम् | जटिनं शिखिनं वापि कुण्डिनं वा विधायतम् || उपवीत न्यसेद्भूमौ जले सन्यस्त मन्त्रतः | मातरं पितरं पुत्रं कलत्रमुपवीतकम् || प्. १५७९) शिवं विहायञ्च सन्यस्त मिहतान्मया | एवं मन्त्रं पठन् पञ्चवारं सद्गुरुसन्निधौ || सधोमन्त्रेण कौपीनं काषाय वसनन्तथा | वैणवं दग्धमस्त्रेण भूतिकोशं शिवेन च || भिक्षापात्रञ्च शिरसा कवचेनावकुण्ठनम् | एतैर्मन्त्रैश्च संसाध्य शिष्याय प्रदेद्गुरुः || कौपीनादिक्रमाय धारयेच्छिष्यमादरात् | बाणलिंगं शिवज्ञान पुस्तकञ्च प्रदापयेत् || यावत्कालं शिवज्ञानं भवति तस्यवै | तावत्कालञ्च कर्तव्यं श्रवणादि विशेषतः || एवं वदेत्तु तं शिष्यं देशिकं कृपया युतः | प्रणामं कारयेत्पश्चात् तस्य नामचकारयेत् || अभिषेकं ततः कृत्वा पूर्वन्नन्दिकेश्वर | || इति शैवसन्यास विधिः || || अथ योगदीक्षाविधिरुच्यते || कालोत्तरे - योगदीक्षां प्रवक्ष्यामि संक्षेपान्नतु विस्तरात् | तथा चिन्त्यविश्वे - युजिर्योगेति धात्वर्थे यज्जीवश्शिवयोरपि | प्. १५८०) संश्लेषो योगैत्युक्तस्सहमार्ग इति स्फुटः | असद्भावक्षयकरं ज्ञान सद्भावभावकम् | शिवतत्वेति संयोगो योगदीक्षेति कथ्यते || मण्डलम्मण्डपं कुंभं देवार्चनादिकम् | पूर्वोक्त विधिसंयुक्तं यमैर्नयमभिर्गतम् || अत्यन्त शिवसंप्राप्ति वाञ्चायुक्तमलोलुपम् | एवं विधगुणैर्युक्तं दीक्षयेच्छिष्यमुत्तमम् || मन्त्रदीपनतृप्तादि पूर्ववन्नन्दिकेश्वर | अग्निकार्यन्तु यत्सर्वं पूर्वोक्तविधिनाचरेत् || वागीश्वरञ्च वागीशं पूर्ववत्पूजयेद्गुरुः | शिष्यवक्षसि पुष्पेण भेदनादि च पूर्ववत् || गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् | ततशिष्यस्यदेहेपि दशनाडीश्च चिन्तयेत् || इडा च पिंगलाचैव सुषुम्ना च तथा भवेत् | गान्धारी हस्ति जिह्वा च पूषाचैव यशस्विनी || अलंबुषा कुहश्चैव शंखिनी दशमीस्तथा | प्राणादि वायवश्चैव चतुर्दश समन्विता || प्राणश्च प्रथमो वायुरपानो व्यान एव च | उदानश्च समानश्च नागकूर्मश्च सप्तमः || कृकरो देवदत्तश्च धनञ्जय इतीरिता | प्. १५८१) वैशान्तो मुख्यकश्चैवमन्तर्यामि प्रपञ्चकम् | एवञ्चतुर्दशप्रोक्ताः प्राणाद्या वायवस्वमी | तासां नाडीषु * * * वायवो विचरन्ति च || स्वस्वस्थानेषु वायूनां नाडीनां स्थापनं भवेत् | प्रणवेन च शक्त्या च शिवबीज जपादिभिः || स्थापयेत्पूजयेद्धयात्वा शिवरूपन्तु भावयेत् | नाडीनाञ्च त्रयोमुख्या सुषुम्नेडाचपिंगला || तासामपि सुषुम्नायां मुख्यत्वञ्च प्रकीर्तितम् | तन्मध्ये ब्रह्मनादीति शिवशक्त्यालयं परम् || मूलाधारं समारभ्य ब्रह्मरन्ध्रावसान्कम् | अस्यास्थितिश्च विज्ञेया नवाधारोपलक्षिता || गुदमेड्रान्तरञ्चैव लिंगमूलमनन्तरम् | नाभिश्च हृदयं पश्चात् कण्ठमूलमनन्तरम् || तालुमूलञ्च कोदण्डे भ्रुवोमर्ध्यमनन्तरम् | ललाटं ब्रह्मरन्ध्रञ्च नवधारा इतीरिता || मूलाधारञ्चतुष्पत्रं तदूर्ध्वं षट्दलं भवेत् | अष्टपत्रन्तु तत्स्थान मनार्हृत मितिर्मतम् || कण्ठञ्च द्वादशं प्रोक्तं षोडशं तालु मूलकम् | तद्वल्ललाटं भ्रूमध्यं शिवस्थानमनन्तरम् || षष्ठयुत्तरं त्रिशतकं वर्णभेदात् क्रमात् स्मरेत् | प्.१५८२) हेमाभं स्फटिकाभञ्च वन्हिरूपमनन्तरम् || तरुणादित्य संकाशं भास्करद्युति सन्निभम् | वर्षतेजोमयापश्चात् मनोपचारमगोचरम् || स्थानेषु ब्रह्महत्यादीन् कारणांश्च प्रकल्पयेत् | ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || क्रियाशक्तिज्ञानशक्तिरिच्छाशक्तिशिवं परम् | वन्हिसूर्येन्दुबिम्बानां स्थानं तत्रैव भावयेत् || वन्हिमण्डलकं नागौ हृदये सूर्यमण्डलम् | कोदण्डद्वय मध्ये च चन्दमण्डलमीरितम् || क्रियाशकिताञ्च बिन्दुञ्च न शक्तौ तु नादकम् | इच्छाशक्तौ कला प्रोक्ता तत्रैव परमामृतम् || तदूर्ध्वन्तु शिवस्थाने चानन्दामृतमुत्तमम् | एवं ध्यात्वा तु तन्मध्ये मन्त्राणां नवकं स्मरेत् || अस्य तोयेन संप्रोक्ष्य शिष्य देहे तु देशिकः | कुण्डस्थवन्हिजवलनं वायुना तु यथा भवेत् || तद्वदाधारदेशस्थितन्तन्मन्त्रमुदीरयेत् | मालाधारे च तारञ्च मरालं शक्तिशंभुयुक् || नवदर्भाग्रकोणे वा नववारं जपेत्क्रमात् | बिन्दुनादकलायुक्तं ब्रह्मरन्ध्रावसानकम् || बिसतन्तु निभाज्योतिरुच्चरेद्देशिकोत्तमः | प्. १५८३) ज्वलद्दीपशिखाकारं मन्त्ररूपं विभावयेत् || अन्योन्यं विद्युतद्योतं सूत्रप्रोतापरिस्मरेत् | एवं ध्यात्वा तु संपूज्य स्वस्मिन् पूज्य च शिष्यके || पूजयित्वा विधानेन सूत्र विन्यासमाचरेत् | शिखादि पञ्च सूत्राणां परिमाणञ्च भावयेत् || बिन्दुकान्तं हृदान्तञ्च नाभ्यन्तं विष्णुदेहकम् | ब्रह्मदेशगतञ्चैव पञ्च सूत्राणि विन्यसेत् || एवं पञ्चविधं सूत्रं शिष्यस्य हृदयान्वितम् | श्रोत्रादिचैव वागादि शब्दादि वचनादिकम् || तत्वानां विंशतिञ्चैव मुखसूत्रेतु विन्यसेत् | हृत्सूत्रे तु मनो बुद्धिमहंकारत्रयं न्यसेत् || चित्तञ्च रागमायाञ्च कलात्रं नाभिसूत्रके | विधाञ्च नियतिं कालं सदाधिष्ठानसूत्रके || शुद्धमाया शुद्धकलां द्वितत्वं विन्यसेत्क्रमात् | प्रोक्षणं ताडनञ्चैव हेतिना च विशेषतः || संप्रविश्य च कारं युक्तरेचक योगतः | अजपान्तं स्वचैतन्यं विशेषं पूर्ववद्भवेत् || संहारमुद्रया * त्रै मुखे चैव नियोजयेत् | ओं हां हां आत्मने नमः व्यापकं रक्षणञ्चैव संनिधानाहुतिन्तथा | प्. १५८४) निर्वर्त्यालोकनञ्चैव पूजनं पूर्ववद्भवेत् | एवमन्येषु सूत्रेषु नाडीभूतेषु योजयेत् || शिष्य चैतन्यमाकृष्य स्वात्मन्येव नियोजयेत् | पूर्ववत्पात्रसंयोगो भावयेन्नन्दिकेश्वर || गर्भाधानादि संस्कारं पूर्ववद्विधिना चरेत् | ततो विसृज्य वागीं वागीशञ्च तथैव च || कमलासनमावाह्य ब्रह्माणं पूजयेत्ततः | तस्मै शुक्लायवै दद्यात् श्रोत्राद्यानन्दकावधि || तत्वानां विंशतिश्चैव मुखसूत्रे तु विन्यसेत् | ओं ह्रीं हं सब्रह्मणे घ्राणं सोहं स्वाहा ओं ह्रीं हं सब्रह्मणे त्वचसोहं स्वाहा | ओं ह्रीं हं सब्रह्मणे चक्षुस्त्वोहं स्वाहा ओं ह्रीं हं सब्रह्मणे सोहं स्वाहा | ओं ह्रीं हं सब्रह्मणे त्वचसोहं स्वाहा | वाक्सोहं स्वाहा | पाणिसोहं स्वाहा | पादौ सोहं स्वाहा | पायुस्सोहं स्वाहा | ओं सोहं स्वाहागमनस्सोहं स्वाहा | विसर्गस्सोहं स्वाहा | स्पर्शस्सोहं स्वाहा | रूपस्सोहं स्वाहा | रसस्सोहं स्वाहा | गन्धस्सोहं स्वाहा | वचस्सोहं स्वाहा | आदानस्सोहं स्वाहा गमनस्सोहं स्वाहा | विसर्गस्सोमं स्वाहा | आनन्दस्सोहं स्वाहा | एतैर्विंशतिभिर्मन्त्रैर्ब्रह्मशुल्कं निवेदयेत् | प्. १५८५) निश्शेषदग्धपाशस्य शिशोस्त्विहन | बुधाय पुनस्सेयं शिवाज्ञां श्रावयेदिति || मुखसूत्रं समादाय वर्तुलीकृत्यपूर्ववत् | आज्यपूर्णस्स्रुवे दत्वा चास्त्रमन्त्रेण होमयेत् || कुंभस्त सव्यनाड्या च ब्रह्माणं विसृजेत्तदा | मूलाधारे च संस्थाप्य पूजयेन्नन्दिकेश्वर || कलंकपञ्चमांशेन विमुक्तञ्चन्द्रमण्डलम् | जाग्रत् स्थानात्पुनस्वप्ने विष्णुसूत्रे नियोजयेत् || पूर्ववत्ताडनं वेशवागीशीगर्भवेशनम् | संस्कारं पूर्ववत्कुर्यात् विष्णुमावाहयेत्पुनः || पूजनं तर्पणं सर्वं पूर्ववन्नन्दिकेश्वर | विष्णोस्तवाधिकारेण मुमुक्षुर्दीक्षयाम्यहम् || भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति | विष्णुं ततः कुर्यात् मनोबुद्धमहं कृतिम् || ओं ह्रीं सं सः विष्णवे नमस्सोहं स्वाहा | ओं ह्रीं हं सः विष्णवे बुद्धिः सोहं स्वाहा | हं कारस्सोहं स्वाहा | एवं शुल्कं प्रदद्यात् | गोविन्दं विसृजेत्तदा | अधिष्ठाने मावाह्य स्थापयेत्पूजयेत्क्रमात् | हृदन्तसूत्रमानीय वतुलीकृत्य पूर्ववत् || घृतपूर्णे स्रुवे दत्वा हेतिमन्त्रेण होमयेत् | प्. १५८६) कलंक पञ्चकंशमुक्त चन्द्रनिभं शुभं भावयेत् | ततो येन सुषुप्तौ तु नियोजयेत् | नाभिसूत्रेण चैतन्यमर्ध्यतोयेन पूजयेत् | तासानादिकं सर्वं संस्कारन्तु पूर्ववत् || रुद्रमावाह्य स्थिरत्वास * * * * * * तः | निश्शेषदग्धपाशस्य शिशोस्त्वया || न बद्धा पुनस्सोयं शिवाज्ञां श्रावयेदिति | भद्राय पूर्ववत् शुल्कं भक्तियुक्तं प्रदापयेत् || चित्तरागममायाञ्च कलां तत्रैव दापयेत् | ओं ह्रीं हं रुद्राय चित्तं सोहं स्वाहा | ओं ह्रीं हंसः रुद्राय रागं सोहं स्वाहा | एवं मन्त्रैष्कञ्च दापयेत् भक्ति संयुतम् | मणिपूरकदेशे तु रुद्रन्तं स्थापयेत्क्रमात् || कलंकत्रयंश हीनेञ्च चन्द्रबिंब समप्रभम् | सुषुप्तावणर्मावाह्य पूजयेद्धृदयोणुना || निश्शेष दग्धपाशस्य पशोरस्य शिशोस्त्वया | वद्धनाय पुनस्सेयं शिवाज्ञां श्रावयेत्तदिति || ईश्वर * पुनश्शुल्कं दापयेनन्दिकेश्वर | विद्याञ्च नियतिकालं पूर्ववन्मन्त्रसंपुटम् || ओं ह्रीं हं सः विद्या सोहं स्वाहा | ओं ह्रीं हं सः ईश्वराय नियतिं स्वोहं स्वाहा || प्. १५८७) ओं ह्रीं हः सः कालं सोहं स्व * * एतैश्शुल्कप्रदानञ्च कुर्यात् भक्ति समन्वितः | तस्मादीश्वर मावाह्य स्वापयेद्धृदयांभजे | स्थापयित्वा विधानेन भक्तियुक्तो जितेन्द्रियः | अधिष्ठानगतं सूत्रमादायोअन्मृज्य पूर्ववत् || आज्य पूर्णसृगग्रे तु निधायास्त्रेण होमयेत् | पाशांकुर निवृत्यादि पूर्णाहुतिविधिं चरेत् || कलंक चतुरञ्चैव हीनं चन्द्रसमप्रभम् | तुरीयात्तु तदन्ते तु योजयेदात्मरूपकम् || ताडनादि विधानञ्च संस्कार * * पूर्ववत् | सदाशिवान्तमावाह्य पूजयेद्भक्तिपूर्वकम् || शुद्धमायां शुद्धकलां शुल्कं दद्यात्समाहितः | मूलमन्त्रेण संयोज्य पूर्वं मन्त्रैश्च होमयेत् || ओं ह्रीं हं सः ओं हौं सदाशिवाय शुद्धमाया सोहं स्वाहा | ओं ह्रीं हं सः हौं सदाशिवाय शुद्धकलासोहं स्वाहा | एवं शुल्कप्रदानञ्च कर्तव्यं नन्दिकेश्वर | दग्ध निश्शेषपापस्य पशोरस्य शिशोस्त्वया | सन्धाय न पुनस्थेयं शिवाज्ञां श्रावयेदिति || विशुद्धदेहे चावाह्य सदावन्तत्वमुत्तमम् | स्थापनं पूजनञ्चैव कारयेद्भक्ति संयुतम् || प्. १५८८) अथ सूत्रं समादाय वतुलीकृत्य पूर्ववत् | सृगग्रे घृतपूर्णे तु जुहुयाद्धृदयाणुना || कलंकै रखिलैर्मुक्तश्शरद्राजसमप्रभम् | शुद्धतेजोघनमयं चैतन्यं भावयेत्पुनः || हंसमन्त्रान्समादाय प्रणवेन तु योजयेत् | प्रणवच्छक्तिबीजे तु तस्मान्मूलेन योजयेत् || ओं सः ओं ह्रीं हौं चैतन्याय हौं एतन्मन्त्रं समुच्चार्य मूलाधारे नियोजयेत् | ओं सः ओं ह्रीं हौं चैतन्याय हौं एतन्मन्त्रं समुच्चार्य मूलाधारे नियोजयेत् | चिद्धने निर्मले शान्ते नित्ये सर्वविवर्जिते | शुद्धमात्मानमप्यसन्योजयेच्छिवभाव युक् || मूलाधारं समारभ्य द्वादशान्तान्तकं स्मरेत् | नवात्ममन्त्रकं रूपमुच्चरन्नाद संयुतम् || अनेनैव तु मन्त्रेण दर्भाग्रेण संस्पृशेत् | मूलाधारं समारभ्य द्वादशान्ते नियोजयेत् || गन्धपुष्पादिभिः पूज्य प्रणामादिंश्च कारयेत् | अभिषेकं ततः कृत्वा शिवोहं भावयेद्गुरुः || पुनर्गन्धादिभिः पूज्य शेषापूर्ववदाचरेत् | योगपट्टादिकं दद्युत्कवचेन विधानवित् || ज्ञानेन योगदीक्षायामधिवासो न विद्यते | प्. १५८९) शिवयागञ्च विसृजेत् गुरुपादं समर्चयेत् || योगदीक्षा समायुक्तश्शिवस्साक्षान्महीतले | इति वामदेवात्मजवेदज्ञानविरचितदीक्षादर्शे * क्षा विधिः || || अथ योगज्ञानदीक्षाविधिरुच्यते || चिन्त्यविश्वे - ज्ञानदीक्षां प्रवक्ष्यामि सत्यमुक्तिलैकृतम् | यत्नञ्च शिवव्याप्तबोधकंम्मोहवर्जितम् || पूर्वदीक्षा समोपेतं शिष्याणामुत्तमं तथा | श्रीरभेदकमात्रं यं प्राणभेदो न किञ्चन || एवं गुरुभक्त्या च ज्ञानदीक्षाञ्च कारयेत् | आणवं शक्तिसंभूतं शांभवं त्रिविधं भवेत् || शाक्तशंभव दीक्षा तु क्रियते तत्वयमया | अन्यैराणवदीक्षा तु मन्दतीव्रादि भेदतः || मण्डपं मण्डलादिञ पूर्ववन्नन्दिकेश्वर | विचित्रमण्टपं कृत्वा चोक्तद्रव्यैर्विशेषतः || अधिवासनवर्जं वै दध्यरात्रे विशेषतः | सुगन्धपुष्पैर्धूपैश्चं शिष्यमाभरणादिभिः || सुगन्धमक्षतं पुष्पं धूपदीपं चरुन्तथा | सर्वद्रव्य समायुक्तं सत्संगैश्च समन्वितम् || प्. १५९०) द्रव्यशुद्धिं तथा कृत्वा पूर्वोक्तेन विधानतः | मण्डलं पूजयेत्तत्र मध्यरात्रे विशेषतः || अलंकृत्यासने स्थाप्य वज्राख्येव विशेषतः | शिवचित्तं यथालब्धं कालाध्वान्तं तथैव च || भूतविद्या प्रवेष्टव्या ततो यतेनन देशिकः | शिवभक्ति सदा योगात् स्थापनञ्चामृतन्तदा || शिवमन्त्रेण शक्त्या च जपेत्सम्मार्ग नायक | यावत् ज्ञानमिवे बुध्या स्थिरत्वं तावदन्तकम् || जपित्वा परमानन्दं गुरुन्दूरासना परम् | भावनाद्यत्र तद्बूउतं शिष्यवक्त्रे निधापयेत् || कारितञ्चैव तन्त्रैव सरसं शिष्यगोचरम् | प्रासादं शिवमन्त्रं स्यात् वागीशी शक्तिमन्त्रकम् || पूर्वमेव तु संसाध्य मासाम्मन्त्रेण होमयेत् | स्वसंवेद्याद्बह्वेत् ज्ञानं सदेरदमखद्युतिम् || योगा रससमायुक्ता मण्डलं मुद्रयान्वितम् | नृत्तगीतञ्च वाद्यञ्च स्वेच्छा क्रीडा प्रवर्तते || सदानन्दोद्भवे देहे क्षुधो निद्रा तथा नहि | नृत्तं क्षालितायञ्च धावनं स्वच्छया चरेत् || सप्तसोपान संपन्नं सोपानगुण संयदम् | प्रथमं त्रिगुणं प्रोक्तं द्वितीयमर्थ पञ्चकम् || प्. १५९१) पञ्चाभिज्ञास्त्रितीयन्तु चतुर्थं सिद्धिरष्टकम् | द्विपञ्च प्रत्यरं पञ्च षष्ठन्दशपलं भवेत् || आनन्दं सप्तमं सिध्यं ते च विचिन्तया | आणवं कंपनादि स्यात् शान्तन्तु कविता द्वयम् || केशादिवर्जितं चित्तं शांभवं त्रिविधं मतम् | मरीचिप्रथमुखदो प्रदीपगमनन्तथा || स्वयञ्चमेषणात्सर्वं प्रवेशेदीपपञ्चकम् | वर्द्धपर्ययो ज्ञान स्मृतिपूर्वेषितस्य च || दिव्य चक्षुश्च श्रोत्रञ्च पञ्चाभिज्ञानवन्दि च | अणिमाद्यष्टसिद्धिञ्च ज्ञानरूपेण सिध्यति || निर्बीजकारणञ्चैव व विषात्प्रहरणन्तथा | वन्हैरुज्वलनञ्चैव नाड्या वायोर्जयन्तथा || यद्बिन्दुनादममलं देहं संक्रमणन्तथा | धूमज्योतिर्दर्शनञ्च स्वच्छन्दं मृत्युकार्यकम् || दशप्रत्यमेवाहि अष्टादशबलं शृणु | आयुष्कर्म परिष्कारे मुक्ति प्रणतिरुद्धया || उत्पत्तिञ्च बलन्तावत् धर्मचिन्तपरं फलम् | तत्परञ्च महत्तादि साध्य सत्यक्रमेण वै || लभेते ज्ञानवद्धादेरेतैर्दशगुणं विदुः | सहजं वाञ्चनोतीतं अखण्डितं घोदयम् || प्. १५९२) सरसि * * * सर्वं त्रैलोक्यैत्वसुनायक्षु | योगसिद्धिञ्च शिष्यस्य तीव्रातीव्रतरं भवेत् || निपतिश्चापि दण्डे च कलावति गुणेन च | विद्याधरस्य वेदेन नाशमारब्धकर्मण || शाक्तोपायमिदं प्रोक्तं शांभवं * * * * ते | सदाख्य चापदण्डे वै व समौ तु विराजते || शुद्धविद्याधराद्वेधा शांभवोपायमीरितम् | शिष्यस्य यादृशी भक्तिस्तादृशीयप्रदायक || एनैरेद्विजनीयाक प्रत्ययैराणवादिकान् | ज्ञात्वालोक्य तु कृपया शिवहस्तञ्च दापयेत् || प्रणामं कारयेत्पश्चात्तस्य नाम च दापयेत् | पद्मदण्डादनादिश्च पूर्ववद्दापयेद्गुरुः || अग्निकार्यं कृतावापि नाग्निकार्यकृतं भवेत् | शरीरमण्डलं प्राणञ्च गुरवे सन्निवेदयेत् || शरीरप्राणकञ्चैव गुर्वनुज्ञासपुरस्सरम् | तदाज्ञयावानुभवं सततं भक्तिसंयुतः || वित्तन्तु सकलन्तस्मै गुरवे तु समर्पयेत् | स्वस्वातन्त्र्यञ्च विभज्यने सा तदा || वाचा च कर्मणा चैव गुर्वर्थन्तु चरेद्बुधः | अभिषेकं ततः कृत्वा पूर्ववन्नन्दिकेश्वर || प्. १५९३) सर्वाभरणगन्धादि वस्त्राद्याभरणानि च | अलंकुर्यात्पुनश्शिष्यं प्रणतिं कारयेद्गुरुः || यागदेवादिकाञ्चैव विसृजेनन्दिकेश्वर | || इति योगज्ञानदीक्षा विधिः || || अथ विज्ञानदीक्षाविधिरुच्यते || तथा चिन्त्यविश्वे - अतः परं प्रवक्ष्यामि दीक्षां विज्ञान संयुतः | विशेषज्ञानपूर्वत्वात् वीचीतत्वविजृम्भणात् || विज्ञानदीक्षा सा प्रोक्ता दीक्षामुत्तमोत्तमाम् | मन्त्रहीनं क्रिया हीनं ध्यानहीनादि दीक्षिते || परिपूर्णत्व सिद्धित्वात् दीक्षाणान्तु पवित्रिणी | दीयते तच्छिवत्वं हि सर्वदा श्रवणोत्सुकम् || सर्वदा गुरुशुश्रूषा वाञ्च्छा युक्तम्मलालुपम् | आज्ञापालन संयुक्तं सुखे वा दुःख एव वा || अस्वातन्त्र्यञ्च तद्देशे कौलालीकमृदादिवत् | समुद्रपतने चैव वन्हौ संपतनेपि च || व्याघ्रसर्पातिपतनेप्याज्ञा वेदवि चारितम् | सर्वस्वजतासात् क्षिप्तुं भक्ति चेत्तेन भाषितम् || तत्कार्येषु प्रवीणत्वं कर्तव्यो निरसं सदा | प्. १५९४) भूमौ निक्षिप्य वित्तादीननुयात् ज्ञनमार्गणम् || मातरं पितरं पुत्रं भातॄञ्जादी * * | यत्कृपया पूर्णो गुरुस्सर्वार्गदायकः || मनोव्यापारमन्त्रेण या * * विद्यते क्रमात् | सा दीक्षाज्ञानदीक्षा तु विज्ञानाख्या सवैभवेत् || मनोरम्ये शुभे देशे मनोरम्ये तु कालके | मनोरमास्ववस्थासु उभयोस्सुखसाम्ययोः || तदानीमेव सा दीक्षा * * * सारनाशिनी | पञ्चाधारस्थिताश्चापि गुरुर्द्देहव्यव्स्थितः || शिरोध्वमण्डले चैव गुरुमण्डलमुत्तमम् | सर्वसाक्षिमयं यत्तु शिवं परमकारणम् || पश्चाद्गुरुः प्रसादेन मन्त्रान्यास * * र्ववत् | गुरोः पाणितले चैव स्थितस्सकल तीर्थकम् || अंगुष्ठमूले ब्राह्यं हि कराग्रे देवमन्त्रयोः | देवर्षिस्तु सुसंसेव्य मंगुलिपर्वसन्धिकम् || मनुष्याणा मृषीणाञ्च कनिष्ठाम्लतीर्थकम् | हस्तमूले तु भूतानां तीर्थमित्यभिधीयते || तर्जन्यंगुष्ठयोर्मध्ये पितृतीर्थं व्यवस्थितम् | सप्ततीर्थन्तु यद्धस्ते विद्या दानं विभावयेत् || बिन्दुरूपाणि तीर्थानि भावयित्वा * * क्षणः | प्. १५९५) तस्य दक्षिणहस्तन्तु शिवमन्त्रेण व्यापितम् || वामन्तु युक्तिमन्त्रेण व्यापितं भावयेद्गुरुः | गन्धैः पुष्पैश्च दीपैश्च रूपैश्शिष्यञ्च कारयेत् || सुखासने समावेश्य तद्दृष्टि * * * नसम् | एवं विधो भवेत् शिष्यो भवेद्गुरुरनन्तरम् || मूलधाराग्नि कुण्डोत्थं शिवाग्निं भावयेत्तदा | * * स्थाने च सर्पींषि चन्द्रमण्डलगां सुधाम् || शिवन्तु मण्डले चैव * * ग्निं स्थाप्य देशिकः | मनुस्सृक् बुध्यस्स्रुवं समिधश्च कलास्तथा || मूलकुण्ठधनुर्बाहुतालुमुद्यम्य चोर्ध्गतः | शुद्धञ्च पिंगलञ्चापि सोमसूर्यञ्च भावयेत् || नादस्वरूपदर्भेण चाज्य ऋद्धिं विधाय च | पूर्वमेवाग्नि सिद्धित्वात् विना चाग्नि मुखन्तथा || तारशक्त्यजपाञ्चैव शिवञ्चात्यन्य संपुटम् | पुष्पान्तमन्त्रमेवं स्यात् ज्ञानाहुतिरनुत्तमा || ओं सं सें सूर्यसोम * शा न तत्पुरुषाभ्यां सोहं हौं स्वाहा | ओं ह्रीं हं सः ओं पिंगलनाडीमार्गेण मूलाधारे च होमयेत् | प्. १५९६) ओं ह्रीं हं सः ओं हां ईश्वरमय सोहं स्वाहा | उमाय हुनेत्पश्चात् जलाधारे च होमयेत् | ओं ह्रीं हं सं हं रं सूर्य सोमाग्निभ्यां सोहं हौ स्वाहा | ओं ह्रूं हौं स्वाहा | ओं ह्रीं हं सं सोहं हौं स्वाहा | ओं ओं हं हं स तत्पुरुषाभ्यां सोहं स्वाहा | ओं ह्रीं हं सदहं वामदेवाय सोहं स्वाहा | ओं ह्रीं हं सदघोर वामदेवाभ्यां स्वाहा | सोहं हौं स्वाहा | ओं ह्रीं हं सः सं सद्योजाताय सों हं हौं स्वाहा | सद्योजातवामदेवाघोरदेवाभ्यां स्वाहा | तत्पुरुषेशानेभ्य स्वाहा | एवं विधैश्चमन्त्रैश्च एकीकृत्य तु होमयेत् | ओं ह्रीं हं सं सोहं हौं स्वाहा | अनेनैव तु मन्त्रेण तृप्यन्तं होममाचरेत् | दशांशमंशमन्त्रेण होमयेन्नन्दिकेश्वर || ओं ह्रीं हं सः निवृत्तिकलायै सोहं हैं स्वाहा | ओं ह्रीं हं सः प्रतिष्ठाकलायै सोहं हौं स्वाहा | ओं ह्रीं हं सः विद्याकलायै सोहं ओं हौं स्वाहा | ओं ह्रीं हं सः शान्तिकलायै सोहं हौं स्वाहा | प्. १५९७) शान्त्यातीतकलायै सोहं हौ स्वाहा | वागीश्वर्यास्तु बीजेन होमयेन्नन्दिकेश्वर | प्रासादेन तु मन्त्रेण पूर्णाहुतिमथाचरेत् || शिष्यचैतन्यमाकृष्य मूलाधारेण च होमयेत् | तस्मात्प्रदेशादाकृष्य ब्रह्मनाड्यन्तरे पुनः || गुरुमण्डलमध्ये च सदानन्दोम्र्दोज्वले | शिष्यात्मा नञ्च संयोज्य क्रमात् संमा * नायक || शिवरूपमिदं ध्यात्वा पुनर्मूलेन योजयेत् | तलादि सत्यलोकान्तं भुवनानि तु होमयेत् || मायादि भूमिपर्यन्तं एकत्रिंशच्च तत्वकम् | अकारादि ककारान्त मक्षराणाञ्च मनामकम् || विलोमेन च तत्सर्वं प्रत्येकं होममाचरेत् | भवादिप्रणवान्तञ्च चतुर्ण्णवती पदम् || ओं ह्रीं हं सः भव सोहं हौं स्वाहा | ओं ह्रीं हं स भवेत् भवसोहं हौं स्वाहा | इत्येवमादि होमञ्च मनसा जुहुयाद्गुरुः | निवृत्यादिकलाश्चैव होमयेन्नन्दिकेश्वर | पूर्णाहुतिंशिवे नैव होमयेच्छिव भावतः | नेत्रत्रयं गुरुस्साक्षात् कृपानन्दोज्वलाकृति || शिवशक्त्यादिकं बुध्वा शिष्यदेहां निरेक्षयेत् | प्. १५९८) स तत्रं शिवयागार्थं जपमन्त्रसंस्कृतिः || चन्द्रार्क नाशनञ्चापि सततं योगबन्धनम् | जाग्रतस्वप्नतो वापि तिष्ठतश्चगमागमे || सततं शिवया तेन नित्यं तिष्ठति तिष्ठति | शिष्.य चैतन्यमादाय गुरुमण्डलमध्यगे || संयोज्य तत्र संलीनं शिवरूपञ्च भावयेत् | शिष्यदेहे च संयोज्य शिवमूर्तिञ्च भावयेत् || संहारक्रममारभ्य षडध्वानो विशेषतः | सर्वे शिवेपि लीनञ्च कुर्यात् सम्मार्गदायक || वाच्य वाचक शून्यन्तु मनो वाचामगोचरम् | अप्रमेय मसादृश्यमप्रपञ्च मलक्षयम् || आद्यन्तशून्यकैवल्यं महानन्द मानन्तकः | परात्परातरमौनमद्वैताद्वैतवर्जितम् || एवं ध्यात्वा महाज्ञानी शिस्यमालिन्य निर्भयम् | तं मूर्ध्न्या प्राय तत्कालेत्यखण्डितवपुं स्मरन् || आनन्दस्तवतस्यैव जायते च न संशयः | कंपस्स्वेदञ्च पुलकस्सर्वज्ञानस्य चोदयम् || संपद्यते च तत्रैव शिवरूपी च शिष्यकः | पुष्पमालाञ्च तस्यैव मूर्ध्नीत्यादाय निक्षिपेत् || हस्ताभ्यामभिषेकञ्च कुर्या सन्मार्गदर्शक | प्. १५९९) शैवसिद्धान्तयुक्तस्य संज्ञां सम्यक् प्रबोधयेत् || मुखं दैवं मठञ्चापि दर्शनं वासनं तथा | पञ्चमन्तु गुहां वापि वृक्षञ्च वनमेव च || गोत्रगोचर सन्तान द्वादशंज्ञानको भवेत् | ज्ञानावरणकत्वे वा तस्य नाम पृथक् पृथक् || मुखमीशानकञ्चापि दैवं शिवमिहोदितम् | मठं ब्रह्म च विख्यातं सन्मार्गं दर्शनं भवेत् || ज्ञानादि त्रयमित्याहुरावासं पर्वतं तथा | मनोभवा * मतुलं सिद्धमन्त्रं गुहं तथा || गजवृक्षा वनं भूतं गोत्रं शुद्धञ्च सत्वकम् | गोचरं शिवसंज्ञा तु सन्तानन्तन्मयं भवेत् || एवमादींश्च संज्ञा तु सत्पुत्राय परंपराम् | बोधयेत्सर्वविज्ञानमनेनैव विचारणात् || दीक्षाशतसहस्रन्तु स्वरूपो न विशिष्यत | विज्ञानदीक्षा हीनश्चेत् कुतो मोक्षः कुतश्शिवः || एवं विज्ञानदीक्षायां - दीक्षितश्शिवशिष्यो दीक्षोत्तरकालं वातुलोक्तरीत्या ज्ञानपूजां समारभेत् | तथा वातुले - इत्थ पूजाज्ञानवति अकारोद्भक्ति मान्नरः | इहैव धनवान् श्रीमान् सोन्तेमोक्षमवाप्नुयात् || इति दीक्षादर्शे योगज्ञानदीक्षाविधिः प्. १६००) || अथ रुद्रगणिकादीक्षाविधिरुच्यते || कामिले - प्रतिष्ठोत्सवकर्मादौ अन्ते नित्योत्सवस्त्य च | सौख्य कर्मप्रकर्तव्यं यथावत् शृणुतद्विजः || सौख्यञ्चरुत्कन्याभिकर्तव्यस्तद्विना मुने | ससजात्सरसोरुद्रः कौशिकः प्रीतिकारणम् || तस्यां चिरन्तनैकञ्च तद्रुद्रगणिका कुलम् | अस्पृश्य प्रतिलोमाद्यै रजायतसनातन || ता एव रुद्रकन्यास्तु कथ्यन्ते वैर्द्विजोत्तमाः | देवदारुवने पूर्वं विनोदार्थं मया पुरा || कल्याणं वपुरास्थाय प्रविष्टो द्विजसत्तमा | तत्रस्था मुनिपल्यो या दृष्टा सादरक्षमा || विश्लिष्टकेशवस्त्राद्या बभूवुर्मदना तुरा | तथा विद्याश्चतास्सर्वा दृष्टा खलुमया दरा || तदालोकनमात्रेण दधिरे गर्भलक्षणम् | तत्तद्गर्भभवायाश्च ता रुद्रगणिका मता || तदर्चनन्तु यच्छ्रेष्ठन्तत्सौख्य सहितं यदि | प्. १६०१) तदेश शुद्धनृत्तन्तल्लक्षणं भरतोदितम् || पूजाकाले नियोज्यन्तद्यत्प्रीत्यर्थन्दिने दिने | स्त्रीभिस्तद्वंश जाताभि पञ्चाचार्य समन्वितम् || इत्येवं शंकरेणोक्ते प्रणेमुस्तामहीतले | मया तुष्टेन ता सर्वादीक्षया दीक्षिता खलु || संख्यातस्तत्कुलोत्थाभिश्शुद्धं नृत्तं प्रव * त | नर्तको मर्दनश्चैव गायकोवांशकस्तथा || तथामौरविकश्वैव पञ्चा चार्या प्रकीतिता | चातुर्वण्यानुलोम्योत्थनाट्यवेदकृतश्रमा || पुनर्दीक्षा विधेया स्यात् सा च लेशान्निगद्यते | आनुकूल्यं दिने स्वस्य पञ्चसंवत्सराधिअकाः || पञ्चाशद्वत्सरान्ताश्च योग्या नेवेतराः क्वचित् | मण्टपं सौख्य नृत्ताख्यं कारयेलक्षणान्वितम् || सर्वे च मण्टपं कार्य निवृत्यादि कला मया | तन्मध्ये विद्यातव्यं शुद्धनृत्तं यथा विधि || नटेश मण्टपेभ्यर्च्य सांगं गन्धादिभिस्तथा | आहूयरुद्रगणिकाः प्रोक्षयेच्छंख वारिणा || पञ्चाक्षराभिजप्तेन देवाग्रे लेपिते पुरा | आसनं प्रणवन्तत्र कल्पयेत्तस्य मध्यमे || कालितं वेत्रमादाय मूर्द्धादिक्रमशो न्यसेत् | प्. १६०२) शिवाय नम इत्येव समस्तशिरसि न्यसेत् || गन्धादिना समभ्यर्च्य प्राग्वेत्रं पुनरर्चयेत् | नामोक्ता नन्दिपूर्वन्तु संबुध्यन्तं यथा भवेत् || नामान्तरञ्च दासादि दण्डान्तमहत्तरम् | तामादाय ततो दद्यात् गुरवे जलसंयुतः || पुनरादाय पुष्पाणि शिवाय निवेदयेत् | मदीयोत्सवकालादौ तावत्तस्यानुरूपतः || एवं प्रसाद्य तद्धस्ते प्रक्षिपेत्पुष्पसंगमे | ततः पञ्चनटीत्यादि नृत्तं यद्भरतेदितम् || शिवप्रीतिकरं सौख्यं कारयेच्छिवसन्निधौ | एवं स्त्रीणान्तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते || देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे | देशान्तरवारंगेशं समभ्यार्च्यागं संयुतम् || विन्यस्य तत्पुरः कुंभं स्व वस्त्रादिसंयुतम् | पञ्चाक्षरेण शतशस्तत्तोयमभिमन्त्रयेत् || पञ्चार्यान् कृतस्नाता शुक्लवस्त्रादिभिर्युतान् | तदंभसा तु संप्रोक्ष्य * रः कूर्चेन संस्पृशेत् || पञ्चाक्षर समोपेतं तदा कर्माधिकारितः | प्रवेशे रुद्रकन्यानां आदौ संक्षिप्य कथ्यते || निर्दिष्ट दिवसेत्पूर्वं मंगलांकुरमाचरेत् | प्. १६०३) प्रासादस्य चतुर्दिक्षु पूर्वं स्यान्मण्टपद्वयम् || विधाय मध्ये पीठे * * * * वशान्नयेत् | पूर्वस्मिन् मण्टपे कुण्डं स्थण्डिलं वा तदग्रतः || निष्पाद्य देवदे * * * * * * * * * * | * * * * * * * * * * * * * * * * || प्रायश्चिन्तु कर्तव्यमस्त्रेण विधिना भवेत् | ओं हां विष्णो बुध्यहंकाररूप शुल्कं गृहाण स्वाहा | प्रतिबन्धाय विज्ञाप्य विष्णोर्विसर्जनं भवेत् | आत्मन्यादाय चैतन्यं सवात्मन्येव विशेषतः || सशिरस्सूत्रमध्ये च योजये नन्दिकेश्वर | अर्ध्यामृतांबु बिन्दूनि शिष्यमूर्ध्नि विनिक्षिपेत् || विद्यातत्वस्य शुध्यर्थं पूर्णाहुतिविधिञ्चरेत् | सन्ध्याया तदद्धेन शिवतत्वं विलोकयेत् || शिरच्छिखान्तं विन्यस्य व्यापकं षड्विधं भवेत् | सन्ताड्य तत्वमादाय वन्हौ निक्षिप्य तर्पयेत् || शिवस्यावाहनं पश्चात् पूजनं तर्पणं चरेत् | तवरुद्राधिकारेस्मिन् मुमुक्षुन्दीक्षयाम्यहम् || रुद्रं विज्ञापयेदिति | शिष्यचैतन्यमादाय प्रविश्यान्ततो गुरुः | प्. १६०४) स्वात्मन्येव स्थितं कृत्वा गुरुम्मण्डलकं यजेत् || उद्भवेन समादाय वागीशी गर्भनालके | नियोजयेत्क्रमाद्भूयो जनस्यास्याहुतित्रयम् || मूलेन पश्च * गश्च हेतिना होममाचरेत् | तिरोधानाय पाशानां शोधनाय विशेषतः || पाशानाञ्च्छेदनार्थाय प्रायश्चित्तञ्चपूर्ववत् | रुद्रस्य पूजनं कृत्वा तस्या शुल्कसमर्पणम् || ओं हां रुद्रमनो बिन्दुस्वरूपशुल्कं गृहाण स्वाहा | संपूज्य * * र्थाचेशं विसृजेत्तदनन्तरम् | स्वस्मिन् शिष्यस्य चैतन्यं निवेस्यक्षणमादरात् || रेचकेणाति संशुद्धं शिष्यदेहे नियोजयेत् | अमृतोपममर्ध्यञ्च शिष्यमूर्ध्नि निक्षिपेत् || शिवतत्वस्य शुध्यर्थं पूर्णाहुति मथाचरेत् | ओं हं शिखायै हुं फडिति मन्त्रेण जप्तया कर्तर्या हेतिना चैव छेदयेत् पूर्ववच्छिखां - गोमयान्तं निवेश्यैनामाज्यपूर्णस्रुचि स्थिताम् | तच्छिखाञ्च विधानेन होमयेत् क्षालयेत्स्रुचौ || दिशिकोपि तत स्नायात् भस्मना भावसंयुतम् | वारिभिस्नापयेच्छिष्यं क्रमारक्त विधानतः || योजनाय तदात्मानं पुनराज्यं नियोज्येत् | पूर्वोक्त विधिनादाय स्रुक्स्रुवादूर्ध्व विग्रहः || प्. १६०५) ब्रह्मादिकारणत्याग क्रमान्मूलं समुच्चरन् | शिवोहमित्यहंकारी बोधरूपे परेशिवे || आज्यधाराञ्च विसृजेच्छिष्यात्मानं नियोजयेत् | षट्गुणापादानं कृत्वा यथापूर्ववदाचरेत् || तच्चैतन्यं शिरोदेशे समाप्तेन नियोजयेत् | पूर्वोक्तैश्च गुणैस्सर्वै प्रपञ्च चारवर्जितः || आगमोक्तगुणैर्युक्तो गुरुध्यान परायणः | एवमात्मनि तस्योक्तं बहिस्तदभिषेचयेत् || एवं त्रितत्वपक्षान्ते प्रोक्तन्तत्सर्वमाचरेत् | समयाचार इति शेषः | इति दीक्षादर्शे त्रितत्वकर्मदीक्षा विधिः || || अथैकतत्व दीक्षाविधिरुच्यते || तथा चिन्त्यविश्वे - समयातीततत्वानां प्रोक्तादीक्षा विशेषतः | साधारणगुणानाञ्च शिष्याणामभिधीयते || अतीव गुणसंपन्नो व्रती शिष्यो विशेषतः | एकतत्व क्रियान्तस्य कुयाद्वै पाशमोचनम् || यदिवा सर्वदीक्षाञ्च कारयेन्नन्दिकेश्वर | प्रयश्चित्तार्थकत्वेपि देशिकस्वेच्छयापि या || मण्डलं मण्डलं कुंभं लिंगार्चन विधिस्तथा | प्. १६०६) अग्निकार्यञ्च चार्ध्यञ्च मन्त्राणान्दीपनादिकम् || पूर्ववत्कर्मकुर्वीत देशिको भावसंयुतः | पूर्ववत्सूत्रबन्धञ्च कुर्याच्छीष्यस्य मूर्ध्नि || कालाग्न्यादि शिवान्तन्तु कल्पयेत्तत्वकं क्रमात् | पाशाधिष्ठात्रिकक्षं शक्तिं ज्ञानरोधा तथामतः || ततः पञ्चकलाव्यापीतं शिवत्वे नियोजयेत् | ओं हां हूं हां मन्त्रपदादिगर्भिताय शिवतत्वपाशाय नमः | ताडनादिभिस्संयोज्य सूत्रेबन्धनमाचरेत् | शिवमिष्ट्वा मूर्ध्नि शतं हुत्वाधिवासयेत् | ओं हां हौं रुद्रस्पर्शरूपं बुध्यहंकारमनो बिन्दुरूपशुल्कं गृहाण स्वाहा इति प्रार्थ्य निवृत्यर्थमात्मानं योजयेत्ततः | विसृज्य पूर्वान्दत्वा तत्वं शिवाणुना | ओं ह्रां ह्रूं ह्यैं हां शिवतत्व शिवशक्तिभ्यान्नम इति सन्धाय शिखायां शिखां हुत्वा वगाहयेत् | तत्रापि पूर्ववत्कृत्वा भूत शुध्यादिकं कुरु | संयोज्य पूर्णमात्मानं गुणानापाद्य पूर्ववत् | मूलेन पूर्णाञ्जुहुयात् प्रातो पगर्भितम् | पाशनिर्वाणमेवं हि शिवसायुज्य सिद्धये || शतं मूलेन जुहुयात् अतस्थित्वा पाशनाशने | पूर्णाहुतिं पुरा कुर्यादभिषेक मथाचरेत् || मण्डलस्यावलोकनञ्च नामाचारादिपूर्ववत् | प्. १६०७) शरीरमर्थं प्राणञ्च सद्गुरुभ्यो निवेदयेत् || येनकेन प्रकारेण गुरुसन्तोषणं परम् | यागञ्च विसृजेदेकमेकतत्व विधिक्रमः || एवमादिक्रिया दीक्षा संपन्नो गुणसत्तमः | || इति एकतत्वदीक्षाविधिः || || अथ व्रतोद्धारविधिरुच्यते || अधुना सावधौ सम्यक् व्रतोद्धारश्च कथ्यते | अवधौ पूजितो शिष्यो गुरोर्वापयेदिदम् || यथासामर्थ्यमेतावत् कालं निर्वहितं व्रतम् | ममेदानी मशक्तस्य कृपयाकार्य तर्पणे || इति यागं विधायाथ शिष्याभ्युक्षणतो गुरुः | तदुक्तं चिन्त्यविश्वे - द्विविधं ब्रह्मचर्यं हि नैष्ठिकं भौतिकं तथा | आजन्म ब्रह्मचर्यन्तु यथाश्रम्मरणान्तिकम् || सत्यवाद्यर्पितश्शाधीक्षमाशक्तो दृढव्रतः | भिक्षाशी देहरक्षार्थमेककालं गुणोर्गृहे || गुरोस्थाने वसेन्नित्यमन्यगेहे न च स्वपेत् | स्वस्वादिकं हित्वा गुरुस्वातन्त्र्य संयुतः || नैष्ठिकं ब्रह्मचर्यं हि भौतिकानां विधिं शृणु | प्. १६०८) कालं संकल्प्यविधिना पूर्ववद्ब्रह्मचारिकम् || अन्ते व्रतेश्वरं यागं कृत्वोद्वाहन्तु तच्चरेत् | गृहस्थाचरणं कुर्याद्विविधं ब्रह्मचर्यकम् || तथा निश्वास कारियाम् | नैष्ठिकं ब्र्ह्मचर्ये तु स्थिता इव च मानवाः | तेषामुद्धारणार्थाय मया तु कथितन्तव || लिंगोद्धार विरोद्धयैषा कथितस्तव स्रुव्रते | नैष्ठिकानान्तुकर्तव्यं लिंगोद्धारं समीरितम् || कालोत्तरे - लिंगोद्धारं प्रवक्ष्यामि नैष्ठिकानान्तु षण्मुख | पञ्चार्धकालवक्त्राणां सर्वपाषण्डिनामपि || त्रिरात्रं पञ्चरात्रं वा क्षपयित्वाधिवासयेत् | हृन्मन्त्रेण तु कुर्वीत व्रतसंभार बुद्धिमान् || मात्रकं विन्यसेत्तत्र विधिदृष्टेन कर्मणा | चिन्त्यविश्वे - तद्व्रतेश्वरयागन्तु शृणुत्वं नन्दिकेश्वर | यागस्थानमलं कृत्य पुष्पमालातिशोभितम् || गोमयालेपनं कृत्वा मण्टपं चतुरश्रकम् | मण्टपलक्षणं कालोत्तरे प्रतिपादितम् | पञ्चाब्जं संप्रवक्ष्यामि व्रतानाञ्च समर्पणे | प्. १६०९) लिंगोद्धारे च कर्तव्यं अणिमादिकसिद्धये || पञ्चहस्तसमेक्षेत्रे समन्तादिन्द्रभाजिते | द्विपदं कमलं दध्ये वीथिका पठिका तथा || चतुर्दिक्षु चतुः पद्म मध्यवत्परिवर्तयेत् | तद्बहिः पथिका वीथी द्वाराणि द्विपदानि च || कण्ठोपकणयुक्तानि विचित्रं कोणसंगमम् | मध्याब्जं सुस्थितं कार्यं वीतकर्णिककेसरम् || आपीनं पूर्वपद्मन्तु वैडूर्याभन्तु दक्षिणम् | उक्तन्दरदाभञ्च कुन्दाभं वारुणांबुजम् || रक्ताभं प्रथमावीथी काञ्चनाभा परामता | लोकेश प्रतिरूपाणि द्वाराणि शिखि वाहन || चिन्त्यविश्वे - ईशानाद्यक्रमेणैव मध्यपद्मादिपञ्चके | पञ्चब्रह्मस्वरूपेण पूजयेद्देशिकोत्तमः || षट्सहस्रिकायाम् - द्विभुजांस्त्वेक वक्त्राश्च त्रिणेत्राः पद्ममध्यगाः | ध्यातव्यास्साधकेन्द्रेण सवर्णैदिक्षु संस्थिताः || त्रिपद्मनयनान्याय तथा दशभुजं स्मरेत् | एवं व्रजेश्वराः प्रोक्ताः पूजनीयास्तु पूर्ववत् || स्नानञ्चोपोषितं शिष्यं पञ्चमुद्रा समन्वितम् | प्. १६१०) प्रवेश्य यागपूजापि तेन कुंभेन पावकान् || स्थण्डिलेशं प्रणम्याथ गुरुर्विज्ञापयेदिति | भगवन् स * धेरस्य व्रतं तत्वव्यया पुरा || व्रतोद्धारञ्च कर्तव्यो मामधिष्ठाय सांप्रतम् | एवंस्त्वित्यनुज्ञाय शिवाधिष्ठित विग्रहः || व्रतांगसंख्यया हुत्वा प्रत्येकन्तुशतं शतम् | चिन्त्यविश्वे - तत्तन्मन्त्रं शतं जप्त्वा भक्तियुक्तो व्रतेश्वरम् | विज्ञाप्य व्रतमीशाय व्रतपूर्णत्वं * तवे || पञ्चभिः कलशैश्चैव पञ्चब्रह्मादि साधितैः | तेनैव स्नापयेच्छिष्यं व्रतमुक्त्यै च देशिकः || व्रतेश्वरं नमस्कृत्वा अत्यन्तं श्रावयेद्व्रतम् | तदभावाज्जपेल्लिंगन्तदभावाद्विशेषतः || अञ्जनं मृद्भवश्चिअव गोमयोद्भूतलिंगकम् | बीजं शैकतोद्भूतं नदीतीरादिकोद्भवम् || संपूज्य भक्तिसंयुक्तो व्रतं स्त्वन्तकारणान् | व्योमव्याप्यशिवेनैव जलेनैव विनिक्षिपेत् || वपनं वर्जयित्वा तु अन्यत्सर्वं समंभवेत् | ब्रह्मचर्य व्रतस्नान मौक्तिरत्राभिधीयते || पूर्वोक्त पञ्चपद्मेषु सद्योजातादिपूजयेत् | प्. १६११अ) षट्सहस्रिकायाम् - तर्पयित्वा प्रणम्येशं व्रतमेषां समर्पयेत् | जटासमर्पणं कार्यमीशानेन प्रयत्नतः || दण्डञ्चैव तु कौपीनं पुरुषे च समर्पयेत् | भस्माधारमघोराय भिक्षापात्रन्तथोत्तरे || ब्रह्मचर्यं प्रयत्नेन सद्योजाताय निर्वपेत् | व्रतं समर्पयित्वाय तेन तेन विसर्जनम् || व्रतांगं पञ्चकं ह्येतत् प्रत्येकन्तु शतं हुनेत् | पञ्च ब्रह्म षडंगैश्च होमयेद्देशिकोत्तमः || उपोषित शिरोभृंगो उपनीयांभकानि वै | सद्योजातादिभिर्मन्त्रैश्चण्डनाथाय दापयेत् || समर्प्य विधिना चैव प्रवाहेन तु विन्यसेत् | किरणे - इति क्रियाविधिर्वासेत् द्वितीयेन्हि पुनः क्रमः | गृहस्थस्य यथाचेह तहा तेनैव तत् स्थितिः || चिन्त्यविश्वे - आहतं वस्त्रयुग्मञ्च दद्याच्छिष्याय देशिकः | कन्यकामनुरूपाञ्च कुलीनां परिणेष्यति || एवं मुक्त्वा कृतं शिष्यं गार्हस्थ्ये नियोजयेत् | वानप्रस्थो गृहस्थोय ब्रह्मचर्य युतोपि वा || सन्यासव्रत सिध्यर्थं पूर्वाश्रम विमुक्तये | प्. १६११ब्) || अथ लिंगिनां व्रतविधिरुच्यते || तथोक्तं सर्वज्ञानोत्तरे - योह्यस्मिन्नाश्रितो लिंगी तदा तं पूजयेत्ततः | तर्पयित्वा तु तत्सम्यक् प्रायश्चित्तं विशोधयेत् || पञ्चरात्रं त्रिरात्रं वा क्षपयित्वा षडानन | पश्चादष्टसहस्रन्तु अस्त्रबीजेन होमयेत् || भूयोप्यष्ट सहस्रन्तु मूलमन्त्रेण होमयेत् | हुत्वा दीक्षा पराकार्या संसारार्णवतारिणी || एषां पुनर्निर्वाण दीक्षाकार्येत्यर्थः | इति लिंगिनां भूतविधिः || अथ बौद्धादीनां व्रतोद्धारविधिरुच्यत् | तथा चिन्त्यविश्वे - शैवानान्तु * * तीतौ संक्षेपात् कथितं क्रमात् | बौद्धादन्यान्यलिंगस्थात्तत्तत् समयकल्पितात् || व्रतमुक्ति विशेषांश्च शैवप्राप्तिं शृणु क्रशत् | बुद्धितत्वे स्थिता बौद्धा जटिना गुणमस्तके || वेदाज्ञास्तु तद्द्योनौ पुरुष भगवन्मुख | माया * * पाशुपता विद्यातत्वे महाव्रताः || अमीषां व्रतचिन्हन्तु लिंगोद्धारविधीर्यथा | बुद्धितत्वावृथावन्तं तत्वं व्रतं पृथक् पृथक् || उपस्थाप्य संज्ञाभिरेकैकं वा प्रपूजयेत् | प्. १६१२) स्वस्वनाम्ना च मन्त्रेण हुत्वा स्न्मार्गनायकम् || बहि नामयैतेषान्नाडी योजनपूर्वकम् | कृत्वा ताडनविश्लेषमात्मर्षं स्वात्मनिस्थितम् || सहस्रन्तेन मूलेन तद्योतञ्जातवेदसि | इष्टन्देवार्चनं पुण्यफलध्वंसाय होमयत् || अस्त्रेणाष्टसहस्राणि लिंगिनं लिंगिनं प्रति | पञ्च पञ्च च मूलेन प्रतितत्व विमुक्तये || उद्धृत्य बुद्धि तत्वादि व्याज्यन्तत्तन्नियोजयेत् | पूर्वाचारञ्च जातञ्च समुद्धृत्य नियोजयेत् || पूर्णान्तु मूलमन्त्रेण यजेदष्टोत्तरं शतम् | व्रतांगानि जलानि क्षिप्त्वा तदा पाशुपदेन च || पश्चाद्वस्त्रयुगन्दत्वा दीक्षाकर्म समाचरेत् | यतीनामाश्रमे चैनं गार्हस्थ्यैवा नियोजयेत् || पूर्वाचारञ्च जातञ्च समुद्धृत्य नियोजयेत् | पूर्णान्तु मूलमन्त्रेण यजेदष्तोत्तरं शतम् || तत्तदीइक्षानुसारेण दीक्षयेत्तं विशेषतः | स्थण्डिले चाग्रमन्त्राणि विसृज्यास्त्रेणशोधयेत् || तथा पञ्चार्ध कालवक्तादीनां लिंगोद्धार विधानं षट्सहस्रिकायां प्रदर्शितम् | तद्यथा ईश्वरः - प्. १६१३) लिंगोद्धारं प्रवक्ष्यामि नैष्ठिकानान्तु षण्मुख | पञ्चार्धकालवक्त्राणां सर्वपाषण्डिनामपि || पञ्चरात्रं त्रिरात्रं वा क्षपयित्वाधिवासयेत् | हृन्मन्त्रेण तु कुर्वीत व्रतसंभारबुद्धिमान् || मातृकां विन्यसेत्तत्र विधिदृष्टेन कर्मणा | अष्टपत्रं लिखेत्पद्मं विधिका चरभूषितम् || सहस्रारक्रमयोगेन मातृकां तत्र पूजयेत् | पूजयित्वा विधानेन पूर्ववद्धोममाचरेत् || पञ्च पञ्चाहुतिर्दद्यात् प्रतिवर्णा यथाक्रमम् | हृन्मन्त्रेण प्रकुर्वीत संसारेणाथ बुद्धिमान् || एवं कृत्वा यथापूर्वं जनयेत्तत्र नैष्ठिकम् | इति संहारिकीं स्कन्दकृत्वा वै नैष्ठिकस्य तु || सृष्टि संहारयोगेन कृत्वा बुध्यति नैष्ठिकम् | आसक्तो विषये वापि कर्मदोषैर्न लिप्यते || इति पाषण्डिकानान्तु यतीनां भावितात्मनाम् | लिंगोद्धारः प्रकर्तव्यो गृहीश्चापादनाविति || || इति दीक्षादर्शे व्रतोद्धारविधिः || || अथ मृतकीदीक्षाविधिरुच्यते || तथा चिन्त्यविश्वे - दीक्षाहीनस्य भक्तस्य मृतौ दीक्षायुतस्य च | प्. १६१४) जीवन्तोपि च वाञ्च्छा चेत् मृतदीक्षा विधीयते || तथा सर्वज्ञानोत्तरे - नाप्राप्तोपि परां दीक्षां गुरुभक्तोपाः नतः | कालेनाणुस्थितो यस्मास्यान्तस्य मोक्षः कथं भवेत् || किं वृथा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः | कथञ्चिद्विद्यते कर्म तस्य यन्मोक्ष साधनम् || गुरुभक्ताय दान्ताय सत्याचाराय सुव्रत | मृतस्यापि वरंस्कन्द दीक्षाकर्म विधीयते || अस्यैव देवान्तरे विपन्नस्या प्राप्तदीक्षस्यापि मृतकदीक्षाञ्चान्त्येष्टिञ्च प्रकृतौ कुर्यात् | देवान्तरे मृतस्यापि अन्त्येष्टिर्दीक्षितस्य तु | मृतप्रतिकृतिं कृत्वा कर्तव्या च कुशैरपि || चिन्त्यविश्वे - ततः कुशैश्च तरुभिः पलाशैश्वत्थैश्च पल्लवैः | षट्त्रिंशदन्वितैः कुर्याः प्रतिमायान्तु लक्षणम् || पिष्टेन पञ्चगव्येन कराभिस्ताञ्च सेचयेत् | सर्वज्ञानोत्तरे - अथवा व्योमसंस्थाने गोमयेन षडनन | सम्मिश्रं पञ्चगव्येन कृत्वा तस्मिन्नियोजयेत् || चिन्त्यविश्वे - मदक्षिण भागे तु प्रतिमांकुसुमासने | संस्थाप्य करवीरोत्थ मुकुलैन्यासमाचरेत् || प्. १६१५) अथवा व्योमसंस्थेति गोमयेन च भस्मना | पञ्चगव्येन संस्नाप्य साम्नान्तत्र तु भावयेत् || वामां ज्येष्ठाञ्च रौद्रीञ्च शक्तित्रयं हृदि न्यसेत् | यमधर्माश्च कर्माणि सर्वाण्यपि च विन्यसेत् || महाजालक मन्त्रेण संस्थिताय कुत्र कुत्रचित् | ओं हां हं हां हूमात्मने नमः | अनेनमन्त्रेणाकृष्य आणवमायेय कर्माख्य मलत्रयम् | एतत्तर्पणबन्धाय स्वस्वनाम्ना च होमयेत् | पञ्चपञ्चाहुतीर्हुत्वा विन्यसेन्मस्तकादितः | सर्वज्ञानोत्तरे - ततस्तु मूर्ध्नि आरभ्य यावत्पादान्तिकं न्यसेत् | सर्वतत्वानि तद्यथा - ब्रह्मरन्ध्रोर्ध्वे ओं हां रोधशक्तये नमः | ब्रह्माण्ड - ओं हां बिन्दुरूपाय शिव तत्वाय नमः | ओं हां शिवतत्वशिवाय शिवाय नमः | ब्रह्मरन्ध्राधोमुर्ध्नि ओं हांशक्तितत्वाय नमः | ओं हां शक्तितत्वाधिपतये शक्तिमते नमः | मूर्ध्नायो वर्णिकोर्ध्वे ओं हां सदाशिवतत्वाय नमः | सदाशिव तत्वाधिपतये ब्रह्मणे नमः | घण्टिकाधः स्कन्दपर्यन्तम् | ओं हामीश्वर तत्वाय नमः | ईश्वरतत्वाधिपतये शक्तिमते नमः | ओं हां शुद्धविद्यातत्वाधिपतये शंबराय नमः | वामपार्श्वे ओं हां मायातत्वाय नमः | मायातत्वाधिपतये प्.१६१६) गर्हनेशाय नमः | दक्षिणपार्श्वे - ओं हां कालतत्वाय नमः | कालतत्वाधिपतये कालनाम्ने नमः | उरसि - ओं हां कलातत्वाय नमः | कलातत्वाधिपतये ज्ञानबिन्दवे नमः | हृदये - ओं हां नियति तत्वाय नमः | नियति तत्वाधिपतये नियामकाय नमः | ओं हां विद्यातत्वाय नमः | विद्यातत्वाधिपतये विज्ञानाय नमः | ओं हां रागतत्वाय नमः | रागतत्वाधिपतये कामदाय नमः | ओं हां पुरुषतत्वाय नमः | पुरुषतत्वाधिपतये सूक्ष्मदेहाय नमः | उदरे - ओं हां प्रकृति तत्वाय नमः | प्रकृति तत्वाधिपतये वृथानकाय नमः | पृष्ठवंशे - ओं हां गुणतत्वाय नमः | गुणतत्वाधिपतये त्रिदेहाय नमः | नाभिमेढ्रान्तरे - ओं हां बुद्धितत्वाय नमः | बुद्धि तत्वाधिपतये बुद्धाय नमः | त्रिसंधिषु ओं अहंकरतत्वाय नमः | अहंकारतत्वाधिपतये अहंकृते नमः | ओं हां मनस्तत्वाय नमः | मनस्तत्वाधिपतये संकल्पाय नमः | श्रोत्रे - ओं हां श्रोत्रतत्वाय नमः | श्रोत्र तत्वाधिपतये व्योमचराय नमः | त्वचि - ओं हां त्वक्तत्वाय नमः | त्वक् तत्वाधिपतये सर्वांगाय नमः | चक्षुषि - ओं हां चक्षुस्तत्वाय नमः | चक्षुस्तत्वाधिपतये प्रकाशाय नमः | प्. १६१७) जिह्वायाम् - ओं हां जिह्वातत्वाय नमः | जिह्वा तत्वाधिपतये महावक्त्राय नमः | नासायाम् - ओं हां नासातत्वाय नमः | महानासाधिपतये विलिंपकाय नमः | वाचि - ओं हां वाक्तत्वाय नमः | वाक्तत्वाधिपतये दुन्दुभये नमः | पाण्योः - ओं हां पाणितत्वाय नमः | पाणितत्वाधिपतये समादानाय नमः | पादयोः - ओं हां पादतत्वाय नमः | पादतत्वाधिपतये गमनाय नमः | पायौ - ओं हां पायुतत्वाय नमः | ओं हां वायुतत्वाधिपतये कुक्कृते नमः | उपस्थे - ओं हां उपस्थतत्वाय नमः | उपस्थतत्वाधिपतये घनानन्दाय नमः | नाभौ - ओं हां शब्दतत्वाय नमः | शब्दतत्वाय सूक्ष्मनादाय नमः | ओं हां स्पर्शतत्वाय नमः | स्पर्शतत्वाधिपाय बलवत्तराय नमः | ओं हां रूपतत्वाय नमः | रूपतत्वाधिपाय भानुमते नमः | ओं हां रसतत्वाय नमः | रसतत्वाधिपाय जलदाय नमः | ओं हां गन्ध तत्वाय नमः | गन्धतत्वाधिपाय गन्धांगाय नमः | योन्याम् - ओं हां व्योमतत्वाय नमः | व्योम तत्वाधिपाय सूक्ष्माय नमः | ओं हां वायुतत्वाय नमः | वायुतत्वाधिपाय मातरिश्वने नमः | योन्याभ्यन्तरे दिक् स्थाने | ओं हां अग्नितत्वाय नमः | अग्नितत्वाधिपायत्विबान्निधये नमः | योन्यधः जानुमण्डलावधि | ओं हां जलतत्वाय नमः | प्. १६१८) जलतत्वाधिपाय जलेशाय नमः | जान्वधः | ओं हां पृथिवीतत्वाय नमः | पृथिवीतत्वाधिपाय श्रीकण्ठाय नमः | गुल्पादिकलके - ओं हां ब्रह्मलोकाय नमः | ब्रह्मलोकाधिपाय ब्रह्मणे नमः | ओं हां विष्णुलोकाय नमः | विष्णुलोकाधिपाय विष्णवे नमः | ओं हां शिवलोकाय नमः | शिवलोकाधिपतये शिवाय नमः | गुल्पाद्यः पादपृष्ठे - ओं हां पातालाय नमः | पातालाधिपतये हाटकेश्वराय नमः | ओं हां नरकाय नमः | नरकाधिपतये कूश्माण्डाय नमः पादांगुष्ठे - ओं हां कालाग्नये नमः | कालाग्न्याधिपतये ईश्वराय नमः | परशिवादि कालाग्निरुद्रान्तं विन्यसेत् क्रमात् इत्थं ध्यात्वा सृष्टिक्रमेण पूज्य शुद्धिस्तु प्राग्वत्संहारक्रमेण पादादारभ्य कर्मकुर्यात् | तथा सर्वज्ञानोत्तरे - पादादारभ्य तान्सर्वान् अग्नौ संस्थाप्य शोधयेत् | यागं यथोचितं कृत्वा तैस्तैर्योनि मनुक्रमात् || कल्पयित्वा यथा पूर्वं पं वं संहृत्य योजयेत् | गर्भाधानादितः कृत्वा सर्वकर्माणि पूर्ववत् || कृत्वा तु सर्वतत्वेषु तथा संगच्छेच्छिवे | क्षीराज्य दधि संइश्रान् सूच्यग्रे स व्यवस्थितान् || कृत्वाग्नौ होमयेत्पश्चात् तान्तु पुन्तलिकां बुधः | अर्चयित्वा क्रमेणैव तस्य हृदयमध्यमे || प्. १६१९) बोधनानुक्रमञ्चैषा पशुमाश्रित्य सुस्थितम् | सञ्चिन्त्य पूर्ववद्रूपं यथा नाडीं विचिन्तये || शक्तित्रयं न्यसेत्तासु धर्माधर्मा च षण्मुख | तदान्यात्मनं नाना महाजाल प्रयोगेणावाह्य सुस्थाप्य पूर्ववन्दे - जनिकान्तं सर्वं विधाय पूर्ववद्दहेत् | संधायतत्वाग्नि यथा कृत्वा शिवं नयेत् || कालोत्तरे - यत्र कुत्रचिदाचार्य पदेवा संस्थितं ततः | तदन्ते मृतजीवन्तु व्योमशेनां सह स्मरेत् || अग्निं विसृज्य तद्भस्म गंगेंभस्मि निक्षिपेत् | एवं दीक्षात्रयस्योक्ता जीवज्ञीपीह षण्मुख || || इति मृतकदीक्षाविधिः || || अथान्त्येष्टि विधिः || सर्वज्ञानोत्तरे - एवं दीक्षात्वया ख्याता मृतानामपि शंकरः | अथ दीक्षासमायुक्तो भवत्या चारवर्जितः || श्रीकालोत्तरे - क्षत्रिय विट्छूद्र प्रश्चेशात्यन्य जातिषु | सर्वेषान्नैव दीक्षाया सा दीक्षा प्रथमेष्टिका || भूतान्ते चैवकर्तव्या अन्त्येष्टिरभिधीयते | प्रायश्चित्तमकृत्वा तु विपन्नो मुच्यते कथम् || प्. १६२०) अतः परं प्रवक्ष्यामि समयाचार लंघने | तथा विशुध्यते देही विपन्नोपि षडानन || अज्ञानात् ज्ञानतो वापि कृतेत्वन्त्येष्टि कर्मणि | एवं विमुच्यते देही समयादि विलंघने || कामिके - ब्राह्मणः क्षत्रियो वाथ वैश्यशूद्रानु लोमजाः | आचार्यास्साधका वास्स्युः पुत्रकास्समयास्थिताः || गतासवो यदा तेषां कार्यान्त्येष्टिस्तु दीक्षिते | आचार्यावित्रयाणां स्यात्तत्व शुद्धिसमन्विता || अन्त्येष्टिविधिरन्यस्य तत्वशुद्धि विवर्जिता | आचार्याद्यास्त्रयश्चैते यथाचारविवर्जिताः || प्रायश्चित्तमकुर्वाणामृ * सत्वन्त्येष्टि कर्मणा | तत्वशुध्यादि नित्यादि कर्मसम्यगनुष्ठितम् || परिहृत्य निषिद्धञ्च यैस्तेषाम प्रमादिनम् | तत्वशुद्धि विहायैव केवलान्त्येष्टिरुच्यते || देशः कृता विद्य उत्क्रान्ति ब्रह्मरन्ध्रादि भेदतः | योगविद्भिन्नतेषाञ्च कथ्यते तत्वशोधनम् || अत्रोत्क्रान्तिलक्षणं षट्सहस्रिकायामुक्तम् | आसनं पद्मकं बध्वा यथासुखमथापि वा || * * कं कुंभकं कृता योगसिध्यवसानकम् | हंसचैकभेदेन कपालं भेदयेत्सुधीः || प्.१६२१) क्रमादुल्लंघ्य तत्वानि शुल्कन्दत्वा च वन्हिना | नादरेचक योगेन प्रविशेत्पदमव्ययम् || इति संक्षेपतः प्रोक्ता उत्क्रान्तिस्तवसुव्रत | सार्धत्रिशतिकायाम् - मूर्ध्नि चित्तं समास्थाय मनसोच्चारयेद्धरम् | शनैश्शनैः समाकृष्य बाह्यनाड्यां व्यवस्थितम् || रुद्रभक्त्या सतो ध्याये कुण्डल्यग्रेरुणप्रभम् | यावृतं घटिकामार्ग ततो हिक्कां च कारयेत् || संपूज्य प्रक्षिपेत्स्कन्द वायुं श्रोत्रे व्यवस्थितम् | निश्शोध्योर्ध्वन्तु कुर्वीत यावत्तत्स्वस्तिकं गतम् || सदाशिवन्तु तस्योर्ध्वं बिन्दुनादं ततो परि | बिन्दुनादं परित्यज्य ततश्शक्तिमनुव्रजेत् || शक्तिं त्यक्त्वा व्रजेत्यन्तं शिवं परमकारणम् | तत्र गत्वा न जायेत प्रतिज्ञा न तु पुत्रक || षट्सहस्रिकायाम् - न च पिण्डक्रिया कुर्या न च तस्योदकक्रिया | किन्तु शिष्यैस्सदाकार्यमनृणार्थं शिवार्चनम् || पतितानान्दहनक्रिया नास्तीति कूर्मपुराणे प्रतिपादितम् | तद्यथा - पतितानाज्नदाहं स्यान्तान्त्येष्टिर्नास्थिसञ्चयः | ना चाश्रुपातं पिण्डञ्च कार्यं श्राद्धादिषु क्वचित् || प्.१६२२) विशिष्टसमयिनोपि निर्वाण दीक्षार्थिनो गुरुशूश्रूषण परस्याप्राप्तदीक्षस्य मृतस्याध्वशुद्धि सहिता कार्या | तदुक्तं कामिके - विशिष्ट समयस्यस्य हीनस्योत्तरदीक्षया | निर्वाण दीक्षाकर्तव्या ममेत्याहित चेतसः || विपन्नस्यापि पातत्व शुध्यन्त्येष्टिरिहोच्यते | निश्वासे - दीक्षा संशुद्धदेहो पञ्चत्वे समुपागते | समयाचारदोषस्य प्रमादात् स्खलितस्य च || अन्त्येष्टिस्तु शिवेनैव प्रायश्चित्तविशुद्धये | षट्सहस्रिकायाम् - अमुक्त संशयानान्तु समयानां विशेषतः | शास्त्रान्तरप्रपन्नानां तथा सुप्तक्रियासु च || अन्त्येष्टिस्तु ततः कार्या नान्यथा परमाप्नुयात् | तथा सार्धत्रिशति कायाम् | दीक्षितस्तूत्तरे काले समयान्यस्तु लाघते | देवस्य च गुरुणाञ्च माहापातकभाक् भवेत् || अमुक्तसंशया ये चान्ये समलात्मकाः | तेषां पापापनोदार्थमन्त्येष्टिर्विहिता गुह अस्य निर्वचनं वातुले प्रदर्शितम् | अन्त्यन्तु परन्तत्व मिष्टिस्तत्व प्रवेशनम् | विधिना योगमार्गेणात्यन्त्येष्टिरभिधीयते || प्. १६२३) कामिके - अस्य प्राणवियोगाख्यकाले जन्तोस्स्समागते | विधानस्नानमाग्नेय मन्तस्सन्नद्धविग्रहः || मुमुक्षोश्च तथा ज्ञेयं मन्त्रकार्यं विधाय च | मन्त्रकायस्य शब्देन अंगन्यासादिरुच्यते || अष्टपुष्पिकयादेव मर्चयित्वासु मुमुक्षवे | स्वकरोन्यकृताभ्यां वा कराभ्याञ्चन्दनादिभिः || सुस्थाप्य तस्य हृदये लिंगरूपं महेश्वरम् | स्पर्शयित्वाञ्जलिन्तस्य मस्तके सन्निधाप्य च || तदर्थमेतद्वाक्यञ्च देवदेवेश सन्निधौ | दीक्षितोयन्त्वया देव शिवाज्ञापरिपालकः || देवे शिवत्वमाचारात् सपिण्डाकरणोत्ताम् | एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् || एकधा बहुधा वापि क्रियामेनां समाचरेत् | पथेद्युत्क्रान्ति समये कर्णोपान्तेणु संहिताम् || विशेषाच्छिवमन्त्रञ्च मन्त्रं पञ्चाक्षरन्तु वा | एतत्सर्वं विधधद्देशिकेने तरेण वा || तद्गोत्रजेनानेनैव वक्ष्यमाणञ्च कर्मयत् | कालोत्तरे - म्रतिनं चैव तत्काले मन्त्रं दक्षिणकर्णके | स्त्रीणान्तु वामकर्णे तु उपदेशोविधीयते || तत्रैव दत्तानुग्रहपटले - शिवाधिष्ठितदेहस्तु मरणं याति यो नरः | प्. १६२४) स नरश्शिव एव स्यात्सर्व पाश विनिष्कृतः || तस्मादुत्क्रान्तिकाले तु स्पष्टं लिंगन्तु संस्प्पृशेत् | प्राणान्मोक्षञ्च कुर्याद्यस्सशिवो नात्र संशयः || कालोत्तरे - मृतिग्रहन्तु कर्तव्यं सर्वालं कारसंयुतम् | सैकतं तण्डूलं कृत्वा शयनन्दर्भसंयुतम् || कारणे - दर्भमूलाग्र संयुक्तन्दक्षिणे मस्तकन्तया | उत्तरे पादसंयुक्तं स्थण्डिले शाधयेच्छिवम् || वातुले - ततश्च प्रेतशुध्यर्थं वपनं कुर्याद्विशेषतः | कामिके - गतप्राणेशवेतस्य स्नानार्थं तीर्थसंभवम् | जलघटशताद्यैस्तु संस्नातैः परिगृह्य च || तैस्नापयेद्गृहस्थश्चेल्लौकिकं स्नानमाचरेत् | विविधैव घटान्वापि कलशान् स्थापनोक्ततः || संस्थाप्यवर्धने हीने केवलोदक संयुतम् | स्थण्डिलाद्यं सवस्त्रञ्च सहिरण्यं सकूर्चकम् || विधानाक्षतसंयुक्तं विद्यांग हृदयान्वितम् | स्नापयेद्वा ग्रहे दीक्षां श्मशाने वा समाचरेत् || कालोत्तरे - अस्त्रमन्त्रादिजप्तेन गोमयेन मृदा भसा | रगन्धामलकै स्नाप्य नानापुष्पैश्च वेष्टयेत् || सर्वविधुदकेनवित् | तथा चिन्त्ये - प्. १६२५) कृत्वा शरीरशुध्यर्थं रजन्यामलकादिभिः | सर्वज्ञानोत्तरे - मृदांबुना तु संशोध्य अस्त्रजप्तेन मन्त्रवित् | आलिप्य रजन्यामलकै स्नापयित्वा शिवांभसा || भस्मस्नानं विलोमेन कृत्वा तु परिधापयेत् | गन्धपुष्पैरलंकृत्य उदुक्पादन्निवेदयेत् || कामिके - कृत्वा संहारमार्गेण कौपीनं वसनन्तु वा | परिवृत्याक्षमालाद्यै भूषणैर्भूषणार्हकैः || चन्दनेन समालिप्य नानापुष्पैश्च वेष्टयेत् | सुरक्ते वा सिते तत्र वास्तुरह्यधरोत्तरे || प्रयोक्तव्योपवीतन्तु सोत्तरीयं यथा नवम् | सर्वज्ञानोत्तरे - उत्तरीयन्तुशूद्राणां किन्तु तत्र विवर्जितम् | पवित्रकञ्च यस्तास्मिन् दर्भा * न्त्यं गुलद्वये || विद्वेषण संहितायाम् - हृदयेन ततो बध्वा पादौ हस्तौ तथैव च | गन्धपुष्पैरलं कृत्या वितानैर्दर्भमालिकैः || * * * * * * * * उदक्पादन्नियोजयेत् | वातुले - गृहांकणे प्रपां कृत्वा गृहाग्रे वीथिकेप * | विधिना दर्भमालातद्येः प्रपालंकार संयुतम् || स्नानशुद्धिन्ततः कृत्वा गोमयेनानुलेपयेत् | प्. १६२६) दीपैः पुष्पैरलंकृत्य वितानैर्दर्भमालिकैः || सर्वालं कारसंयुक्तं चूर्णोत्सवमथाचरेत् | सिकतैस्थण्डिलं कृत्वा * व प्रमाणेन देशिकः || दर्भैरुपरि विन्यस्य तत्रोपरि विन्यसेत् | हृदयेन ततो बध्वा पादौ हस्तौ च तन्तुभिः || || अथ चूर्णोत्सवविधिरुच्यते || तथारौरवे - अथ वक्ष्ये विशेषेण चूर्णोत्सव विधिक्रमम् | दीक्षितानां यथान्येषां शिवशासन धारिणाम् || अन्येषाञ्च यथायोग्यं रात्रिचूर्णन्तु तैलयुक् | अन्त्येष्टिं मृतदीक्षा स्यात् तत् षडध्वविशोधनात् || मृतस्य दीक्षितस्यापि चूर्णोत्सवञ्च कारयेत् | देवनामुत्सवान्ते तु विसर्जनमिदं भवेत् || यागस्य शिववागस्य मृतयागस्य तन्मयम् | चूर्णोत्सवमिदं कुर्यात् मंगला चरणार्थकम् || न कुर्याच्चेद्गुरुस्तत्रमंगलोन भवत्तदा | सर्वमंगलार्थन्तु चूर्णोत्सवञ्च कारयेत् || कालोत्तरे - शिवोत्सवञ्च जीवान्ते यत्र पूर्णन्तु दापयेत् | पाण्डवाद्युपचारन्तु सर्वदेदशार्थकम् || अन्त्येष्टिर्मृतदीक्षा स्यात्षष्ठध्वन्तु विशोधनात् | प्. १६२७) गुरुश्शिवपदाप्राप्ति श्शिवभूतस्य तस्य च || मंगला चरणार्थन्तु चूर्णोत्सवमिदं भवेत् | वैदिकी च तथा शैवमनयं कारयेत्क्रमात् || चिन्त्ये - गृहद्वारां कणस्थाने चूर्णोत्सव मथाचरेत् | अथवा तु चितास्थाने चूर्णोत्सवमथाचरेत् || पादप्रक्षालनं कृत्वा आचार्यो मन्त्रग्रहः | नव वस्त्र * * * श्च शुक्लयज्ञोपवीतकः || अपसव्योपवीतस्तु उत्तरीयञ्च बुद्धिमान् | भस्मोद्धूलादिकं कृत्वा त्रिपुण्ड्रं विधिना तथा || संहारन्यासमत्रोक्तं स्थानसंशोधनं कुरु | चूर्णोत्सवविधिं वक्ष्ये प्रेताग्रे मण्डलत्रयम् || कालोत्तरे - आचार्य हस्तमानेन स्थण्डुलं कारयेद्बुधः | अष्टद्रोणैंश्च शालीभिस्साष्टपत्रं सकर्णिकम् || तन्मध्ये उलूखलं स्थाप्य तत्पूर्वे भेरिसंयुतम् | पश्चिमे कुंभं संस्थाप्य चतुष्कोणेषु बुद्धिमान् || अस्त्रमूर्तिञ्च कुंभे तु स्थापयेद्देशिकोत्तमः | इन्द्रभस्मयमे तैलं वरुणे तांबूलमेव च || सोमे तु धौतकौपीनं तत्तद्दिक्पालकान् न्यसेत् | यद्वा - दूर्वाक्षतञ्च तांबूलं तैलं हरिद्र चूर्णकम् | स्वर्णभस्म च कौपीनं पूर्वादीशान्तकं न्यसेत् || प्.१६२८) कालोत्तरे - स्थण्डिले तु प्रकर्तव्यं उखले मुसलन्तथा | कारणे - विंशत्यंगुलमायाममुत्तमन्तु प्रकीर्तितम् | स्मृत्यंगुलं भवेन्मध्य कन्यसन्तु कलांगुलम् || आयामं त्रिगुणीकृत्य तन्नाहन्तु विधीयते | चतुर्द्धा विभजेदायं त्रिभागं तस्य उच्यते || उत्सेधस्यार्धमानेन युवामूलस्य नाहकम् | ओष्ठवक्षांगुलंप्रोक्त मुत्तमस्य विशेषतः || पादं पादांगुलं हीनं मध्यमस्याधमस्य च | उलूखलस्यैव माख्यातं मण्डलस्य विधिं शृणु || सार्द्धत्रितालमधमं युगतालन्तु मध्यमम् | उत्तमं भूततालन्तु अन्याद्रिरन्ध्रिकांगुलम् || कन्यकादि परीणाहं वृत्तं सर्वत्रकीर्तितम् | अधस्य द्वयंगुलेनैव तन्मूले वेष्टयेद्दृढम् || तन्मध्ये मुसलं स्थाप्य पूर्वाग्रं चोतराकम् | चिन्त्ये - प्लक्षोदुंबरमश्वत्थं वटञ्चोलूखलं तथा | नव वस्त्रैरलं कृत्वोलूखलं मुसलन्तथा || संकल्प्योलूखले शक्तिमाधाराख्यां प्रपूजयेत् | मूसले पूजयित्वेशं रजनीं विन्यसेत्ततः || सु शुक्लां रजनीं शुद्धां चूर्णंकृत्वा दृढं तथा | तदर्धमध्यमं प्रोक्तं तदर्धमधमं भवेत् || प्. १६२९) कारणे - व्योमव्यापि समुच्चार्य चूर्णयेद्देशिकोत्तमः | मुसलं बादिरं विद्यात् प्रोक्षयेद्धृदयेन तु || योगजे - लूखलं ब्रह्मदैवत्यं मूसलं विष्णुदैवतम् | वसु पूर्वादि दैवत्यं दर्भपुष्पसमन्वितम् || वातुले - नव वस्त्रैरलं कृत्य लूखलमुसलन्तथा | ततो भक्ति जनैः सार्धं गणिकाभिस्समन्वितः || शिवदासी समभ्यर्च्य वस्त्रगन्धादिभिस्तथा | मूसलं पाणिसंयुक्तं लूखले च प्रवेशयेत् || रजनी चूर्णकार्थन्तु लूखलस्य तु मध्यमे | पाशच्छेदनिमित्ताय मर्द्दयेच्छिवदासिभिः || तांबूलं दापयेत्पश्चात् भक्तान्माहेश्वरानपि | शवे प्रोक्षणकं कृत्वा पाशबन्धन्तथैव च || इति दत्वास्त्रमन्त्रेण मुखवासस्तु दापयेत् | कारणे - लूखले भूमिदैवत्यं मूसलेस्कन्ददैवतम् | चूर्णे तु रुद्रदैवत्यं दमनं व्योममन्त्रकैः || तत्तद्देवञ्च संपूज्य भेरिताडनमारभेत् | तल्लक्षणमत्रोच्यते - आसनं चन्दनं वाथ वकुलञ्च शिरीषकम् | उशीरं व्याघ्रवृक्षं वा भेरीं कुर्याद्विचक्षणः || तथा वातुले - उशीरं घृतमित्युक्तं लक्षणेन समन्वितम् | प्. १६३०) दीप्ते - आयामन्तु चतुस्तालं तन्नाहं पञ्चतालकम् | आदित्य * गुलमानेन वक्त्रतारं विधीयते || मध्ये च सुषिरन्तस्य आमुखान्तं विशेषतः | धनमध्यांगुलन्तस्य आमुखान्तं सुवृत्तकम् || नवकीलसमायुक्तमधः पट्टेन वेष्टनम् | मध्येंगुल परीणाहं चलनं रज्जुवेष्टितम् || बन्धयेत्तु विशेषेण गोचर्मकृरज्जुभिः | भेर्यास्तु लक्षणं प्रोक्तं मानांगुल वशन्नयेत् || सिद्धतन्त्रे - नादं किरीटमित्युक्तं शूलास्तञ्च जपान्वितम् | शंखचक्रत्रिशूलाक्षं इत्यं दण्डायुधं करैः || सर्वलक्षण संयुक्तं त्रिपादं पद्मसंस्थितम् | चिन्तयेद्भोगरूपं ध्यात्वा नादाकृतिं सदा || वीरतन्त्रे - ततस्संपूजयेद्भेरीन्नववस्त्रेण वेष्टयेत् | तन्मध्ये दक्षिणे वामे शंभुविष्णुञ्चतुर्मुखम् || मातरस्सप्तकीलास्युश्चन्द्राकौषलयाधिपौ | चर्मसूत्रे भुजंगेन्द्रं स्कन्दं कोणाधिदैवतम् || संपूज्य गंधपुष्पाद्यैस्तत्तन्मन्त्रेण देशिकः || भीमसंहितायाम् - देशिकस्ताडयेद्भेरीं प्रङ्मुखोवाप्युदङ्मुखः || प्. १६३१) कामिके - भेरी ताडनकं कुर्यादस्त्रमन्त्रमनुस्मरन् | एकः प्रहारतं पूर्वं द्वितयं द्विप्रकारतः || तृतीयं त्रिप्रकारेण त्रयञ्चैव प्रकारतः | अजिते - वाद्यकञ्च समाहूय प्रोक्षयेत्तच्छिवांभसा | तस्य हस्ते तु सलिलं कुसुमादिञ्च दापयेत् || सोपि पुष्पं विनिक्षिप्य भेरीमुद्धृत्य वादयेत् | तत्पुरुषेण मन्त्रेण ताडयेद्वादक स्वयम् || अंगपूर्ण समायुक्तं शक्त्या सहितमेव च | अंगहीनं विशेषेण वर्जयेत्तु व * * क्षः || कारणे - अच्छपुटेन तालेन वाद्यकर्ता च वादयेत् | विप्रादीनां विशेषेण वेदमन्त्रेण ताडयेत् || डमश्च त्र्यंबकेनैव ताडयेत्प्रथमं शुभम् | इदं विष्णुरिति मन्त्रेण डडमन्ताडयेत्पुनः || नीयाडढ्ढमञ्चैव जब्रज्ञान मन्त्रतः | भेरी संताडनं कुर्यात् अस्त्रमन्त्र मनुस्मरन् || एकं प्रहारपूर्वं द्वितीयं द्विप्रहारकम् | तृतीयं त्रिः प्रहारेण त्रयं वैक प्रहारतः || कालोत्तरे - अन्येन ताडनं कृत्वा राजराष्ट्रं विनश्यति | विद्वेषण संहितायाम् - चूर्णगानावसाने तु तच्छुणुन्तैलपूर्वकम् | प्. १६३२) शंखध्वनि समायुक्तं दापयेत् प्रेतमूर्धनि || वातुले - तैलतांबूल चूर्णन्तु सर्वभक्तांस्तु दापयेत् | नानावाद्य समायुक्तं गायकानां विशेषतः || कामिके - दीक्षितानां तथान्येषां शिवशासनधारिणाम् | अन्येषाञ्च यथायोग्यमारो * न्तैल चूर्णयुक् || तांबूलसहितं सर्वजनेभ्यो दापयेन्नवम् | चूर्णोत्सवसमाप्तौ तु पश्चात्प्रेतावरोहणम् || शिवस्य तीर्थं भस्मादि गन्धमाल्यांदबरादियत् | दत्वा संभूष्य तत्प्रेतं नमयच्छीघ्रं श्मशानकम् || आसन्धिकालक्षण विद्वेषण संहितायाम् | गृहीत्वा याज्ञिकं वृक्षांध्वा सन्धिनामति | अथवा मुनिवृक्षैर्वा क्रमुकं वेणुकन्तु वा || वस्त्रेणोपरि संस्तीर्य अलंकृत्य विशेषतः | वातुले - औदुंबरेण आसबिंकारयेत्प्रेतमानतः | मालिकाकृति कूटं वा अन्यैर्वाथ विशेषतः || रथे वा शिबिकायां वा अन्यस्मिन्वा यथा रुचि | पुरुषायतमानश्च षडंगुलविवर्धनात् || त्रिहस्तन्तु समायामन्त्रिचतुः पञ्चमांशतः | सुविस्तार समायुक्त ओजसंख्यास्तु विष्टराः || आसन्धिकां समापाद्य कुटा * र्ध्व कृतिक्रियाम् | प्. १६३३) रक्तमालांबरक्लिप्तां वितानालंबमानतः || श्रीशैवसमयाचार पद्धत्यान्तु प्रकाशितम् | शुद्धविस्तारभीत्या तु विस्तरेण न भाषितम् || विद्वेशणसंहितायाम् - वस्त्रेणैव परिस्तीर्य अलंकृत्य विशेषतः | शिवयोगिविषये कश्चिद्विशेष उक्तः | तथा - इतरश्चेतोत्क्रान्त्या सुस्थिरञ्चैव योगिनः | निस्सारयेदलं कृत्य शुभैस्तत् * * * भूषणैः || आर्द्रवंशादिभिकॢप्ते विमाने पुत्रशोभिते | स्वर्गसोपानयुक्ते च शवमार्पयेत्ततः || अपसव्योपवीतीभिर्दीक्षितैस्तुल्य जातिभिः | समस्कन्धैश्शस्त्रमन्त्र जपयुक्तैश्च धारयेत् || कालोत्तरे - * * रजनमाहूय मन्त्रयेदुपवीतिकान् | कूर्चन्दत्वा विशेषेणवस्त्रकौपीन कन्ददेत् || षट्सहस्रिकायाम् - गृहीत्वायस्वजातीयैर्दीक्षितैर्न सुदीक्षितैः | संस्मृतास्थानमस्थ्यंगानि विवर्जितम् || विद्वेषण संहितायाम् - नदी तीरे तटाके वा आरामोद्यानकेपि च | अन्त्येष्टि स्थानं संकल्प्य देशिकस्तु विशेषतः || प्. १६३४) वातुले - प्रेताग्नि काष्ठदर्भञ्च अक्षतैस्तिलमोदनम् | लाजैश्च स्वर्णशकलैर्गड्डुकैर्वर्धनीयुतम् || घृतं पुष्पञ्च वस्त्रञ्च पञ्चवर्णैश्च तन्तुकम् | कलशं भस्मसर्वाणि श्मशाने पुरतो नयेत् || होमद्रव्यञ्च व्रीहीञ्च पञ्चगव्यञ्च स्रुक्स्रुवम् | धूपदीपसमायुक्तं घण्टा पञ्चांग भूषणम् || उपवीतं पवित्रञ्च अंगुलीययुतन्तु वा | रक्तवस्त्रद्वयोपेतं उत्तरीयं तथैव च || नालिकेरफलञ्चैव समिधा ताम्रपात्रकम् | तांबूलञ्च सुगन्धञ्च तैलञ्च तिलसंयुतम् || कलशान् षोडशैर्युक्तं युक्त्या तु कुंभवर्धनी | कुंभमध्ये तु तत्स्वर्ण निष्कं निष्कार्कमर्धकम् || वर्धन्यां रजतं प्रोक्त मुक्तमानप्रमाणकम् | कलशं दशभिस्वर्णैर्यथाशक्तिसमन्वितम् || व्रीहीणाञ्च द्विभारञ्च द्रोणद्रोणार्ध तण्दुलम् | तण्डुलार्धतिलञ्चैव लाजैश्च द्रोण संयुतम् || पीतं श्वेतं तथा रक्तं श्यामं कृष्णञ्च चूर्णयोः | पञ्चवर्णन्तु द्विप्रस्थं एकमेकञ्च कारयेत् || तदुक्तं विद्वेषण संहितायाम् - पञ्चवर्णमथो वक्ष्ये गैरिका शर्करा तथा | प्. १६३५) रजनी चूर्णकञ्चैव अंगारकसमुद्भवम् | शंखिनीपत्र चूर्णन्तु पञ्चपञ्चपदं प्रति | वातुले - प्रस्थं प्रस्थ समोपेतं पञ्चगव्य प्रमाणकम् | मुद्गमाषकुलस्थञ्च शिवंकाषाढसर्षपम् || होमद्रव्य समोपेतं प्रस्थं प्रस्थं घृतं शिवम् | चतुर्दशान्तं हस्तानां उत्सेधन्तु समन्तथा || अष्टतालञ्च विस्तारं प्रच्छन्न पटलक्षणम् | यावत्तन्मात्रकञ्चैव आचार्याय प्रदेत्सुधीः || तत्पादं कुंभवस्त्रं स्यात् तदर्धं वर्धनी स्मृतम् | तदर्धं लूखलं भेरी वस्त्र लक्षणमुच्यते || पक्वबिंब फलाकारं कृष्ण मण्डल वर्जितम् | द्वात्रिंशत्प्रस्थसंपूर्णं शिवकुंभं तदुच्यते || अतिश्यामञ्च वर्णञ्च जलद्रोणञ्च कर्करी | वज्रादीनां दशानान्तु कलशान् प्रस्थकत्रयम् || अस्थिरत्नं सिरा सूत्रं मांसमृत् तेन बुद्धिमान् | शोणताम्र * मज्जैव जलमेतत्तथैव च || कूर्चजिह्वा समाख्याता चर्मवस्त्रेण वेष्टितम् | सप्तधातुमयञ्चैव कलशेषु घटेषु च || जटाचाम्रकपत्रञ्च नालिकेरशिरस्तथा | द्रव्यं शरीरमित्युक्तं क्रियाणामंग मुच्यते || प्. १६३६) होमद्रव्याणि सर्वाणि कर्तारस्सन्निधीयत | नानावाद्य समायुक्तं प्रेताय पुरतो नयेत् || वीरतन्त्रे - नानादीर्घसमायुक्तं शूलदीपसमन्वितम् | चक्रदीपसमायुक्तं दीपाधार समन्वितम् || ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् | कालोत्तरे - गृहात् श्मशानमध्ये तु देशभूतबलिं क्रमात् | शंखकाहल घोषैश्च शिवमन्त्रं जपेत्सुधीः || सुक्षेत्रे चैव कर्तव्य मीशाने मण्टपं बुधः | षट्सहस्रिकायाम् - तन्नयेत्संस्कृतस्थानं अस्थ्यंगारविवर्जितम् | सर्वज्ञानोत्तरे- नीत्वा तु शंकरी दीक्षा शुद्धस्थाने निधापयेत् | अत्रमण्टपनिर्माण प्रकारः विद्वेषण संहितायाम् || अन्त्येष्टि मण्टपं वक्ष्ये धातुषट्पञ्च हस्तकम् | रविस्तं भसमायुक्तन्तन्मध्ये कुण्डसंयुतम् || कालोत्तरे - नव सप्त च पञ्चानां हस्तं चैव तु मण्टपम् | षोडश द्वादशस्तंभं युगस्तं भमथापि वा || यद्वा - चिन्त्ये - चतुर्विंशति तालं स्याद्विस्तारायाममेव च | चतुर्द्वार समायुक्त मध्ये नवपदं तथा || अथवान्यप्रकारेण चतुस्तं भसमन्वितम् | वातुले - मण्टपं नवधा कृत्वा नवकोष्ठन्तु संयुतम् | प्. १६३७) वायुकोष्ठं तु तन्मध्ये वेदिकाञ्चैक हस्तकम् || ऐशान्यां वर्धनीमध्ये अग्निकोष्ठे तु प्रेतकम् | पञ्चगव्यञ्च नैरृत्यां मध्यमेकेन कुण्डकम् || कालोत्तरे - अग्निकुण्डन्तु तन्मध्ये एकमेखलमेव च | षडंगुलोच्छ्रयं कुण्डं विस्तारञ्च तदंगुलम् || हस्तमात्रन्तु कुण्डं स्यात् तदूर्ध्वे योनि संयुतम् | वातुले विशेष उक्तः | हस्तमानप्रमाणेन एकमेव मयायुतम् | नाभियोनियुतं कृत्वा खातं तालप्रमाणकम् || कामिके - कृत्वा कुण्डं विधानेन हस्तकन्ताम्रदानले | कालोत्तरे - वायुस्थानेषु संकल्प्य वेदिकां हस्तमानतः | षडंगुलोच्छ्रयं कृत्वा निम्नोन्नत विवर्जितम् || ऐशान्यां स्तण्डिलन्तद्वद्विन्यसेदस्तवर्धनीम् | विद्वेषण संहितायाम् | वज्रादिस्थान दशके कुडय संधृष्णकम् | वितस्तिमात्रमायामं चतुरश्रसमन्वितम् || षडंगुलं तदुत्सेधं यथा शोभं प्रकल्पयेत् | चतुर्द्वारमेकद्वारं वा दक्षिणद्वारमुत्तमम् || पूर्वे च पश्चिमे चैव मध्यम द्वारमुच्यते | सौम्यद्वारेण संयुक्तं अधमद्वारमुच्यते || प्. १६३८) द्वारं प्रतिविशेषेण यजेदस्त्रेशमुक्तिकम् | तोरणद्वारकलशमायुधं वा समर्चयेत् || कालोत्तरे - दशैव कलशान् स्थाप्य मण्टपाभ्यन्तरे सुधीः | शूलादिवज्र * * न्तमपसव्य क्रमेण तु || ऊर्ध्वतरंग मावेष्टय वितानध्वजशोभितम् | चितास्थानन्तु संकल्प्य दक्षिणोत्तरामयतम् || आयाममष्टतालञ्च तदर्धं विस्तृतं भवेत् | दक्षिणोत्तरमायामं पूर्वपशिम विस्तृतम् || वस्वंगुलन्तु खातं स्यान्निम्नोन्नतविव * * | षट्सूत्रं दक्षिणाग्रन्तु पश्चिमाग्रन्तथैव च || पि * ग्रेतु चतुष्कोणे कीलं तत्रैव ताडयेत् | आग्नेयादिषु कोणेषु शुष्ककाष्ठीय कीलकान् || ऊर्ध्वमूर्धानधोग्र संस्तानस्तृलब्धान् सकृत् सकृत् | पञ्चरंगित सूत्रेण कवचेन चावेस्टयेत् || एवं मण्टप निर्माणा शक्तश्चेत्कीलादीना मण्टपं कुर्यात् | कालोत्तरे - अथवा खातशंकु * तन्तुत्रय समन्वितम् | चतुर्द्वयसमायुक्तं संघनं न समाचरेत् || तल्लक्षनं तत्रैव - द्वादशांगुल संयुक्तं द्वादशांगुल दीर्घकम् | अंगुष्ठनाहमानं स्यात्क्षीरवृक्षेण कीलकम् || प्. १६३९) अधोग्रस्य तु मूलं स्यात् मण्डपाद्बहिताडयेत् | इत्थं मण्टपं निर्माय कर्मकुर्यादतन्द्रितः || || इत्यन्त्येष्टिम * प विधिः || || अथ समयान्त्येष्टिविधिरुच्यते || गोमयेनोपलित्याय तत्समीपस्थितां भुवम् | शुद्धहुतो गुरुर्मन्त्र कायोस्त्रवर्धनीकरः || विद्वेषण संहितायाम् - वर्धनी जलमादाय वामबाहूर्ध्व संस्थितः | अपसव्यक्रमेणैव मण्टपात् बा * * * * || वर्धनी जलमादाय विवच्छिन्नपयोधरम् | ईशानादीशपर्यन्तन्तत्स्थाने वर्धनीं न्यसेत् || चिन्त्ये - ऐशान्यां वेदिकासव्य सुखासीनं समाचरेत् | विद्वेषणसंहितायाम् - भस्मन्यासकरन्यासं प्राणायामं ततः परम् | कलान्यासं ततः कुर्यादं * न्यासमतः परम् || मातृकान्याससंयुक्तं संहार क्रममेव हि | अत्र न्यासविपरीत क्रमः | अस्त्रेण तलपृष्ठे विपरीतेन संशोध्यमृतीकृत्य - प्. १६४०) हस्ततलयोरासनमूर्ती विन्यस्य कनिष्ठाद्व्यंगुष्ठान्तं सद्यादीशान्तं विन्यस्य विद्यादेह नेत्रमूलमन्त्रान्विन्यस्य हृदयादि मन्त्रान् न्यस्त्वा तालत्रय पुरस्सरमस्त्रेण दिग्बन्धनमप्रदक्षिणं कृत्वा मूलेन महामूद्रां दर्शयेत् | कृतान्तर्यजनोस्त्रेण समालभ्योस्त्रवर्धनीम् | तज्जलप्रोक्षितैर्द्रव्यैः पूजां संकल्प्य चात्मनि || पञ्चगव्य संकल्प्य चोर्ध्वरेदे देशिकोत्तमः | आवर्त्य संहितामन्त्रान् कलासंहारवर्त्मना || ब्रह्मादिकारणोपेता स्वस्मिन्विन्यस्य देशिकः | संहारहरहस्तञ्च कृत्वा स्मृत्वा शिवं सकृत् || विकीर्य विकीरांस्तत्र कुशभस्मादिकानथ | समाहृत्य विधाधैवं वर्धन्या मासनाय च || ततश्चितावास्तुं पूजयेत् | कालोत्तरे - तस्मिन्मध्ये पाशुपतं पृथिवीं ब्रह्माधिदैवतम् | पीतवर्णन्तु संकल्प्य लकारं बीजमेव च || ओं हां पृथिवी तत्वाय नमः | ओं हां पृथिवीतत्वाधिपतये ब्रह्मणे नमः | आपन्नैरृति संकल्प्य श्वेतं बीजं व कारकम् | विष्णुदैवं समाख्यातं अर्धचन्द्रं चतुष्पदम् | ओं हामप्तत्वाय नमः | अप्तत्वाधिपतये विष्णवे नमः | आग्नेरक्तं तथास्नानं त्रिकोणं बिन्दुकारकम् | प्.१६४१) दैवं रुद्रं तथास्थानं पूजयेत्तु चतुष्पदम् || ओं हां तेजस्तत्वाय नमः | तेजस्तत्वाधिपतये रुद्राय नमः | वायुस्थाने तु संकल्प्य वायव्यन्तु चतुष्पदम् | षट्कोणं * ष्णवर्णन्तु यकारं बीजमेव च || ईश्वरमधिदेवन्तु पूजयेत्तु विशेषतः | ओं हां वायुतत्वाय नमः | वायुतत्वाधिपतये ईश्वराय नमः | ईशे चतुष्पदञ्चैव आकाशं सितवर्णकम् | वृत्तं हकारबीजञ्च अधिदैवं सदाशिवम् || ओं हां माकाश तत्वाय नमः | आकाशतत्वाधिपतये सदाशिवाय नमः | ऐन्द्रेह्येकं पदं पीतं याम्ये कृष्णमिति स्मृतम् | पश्चिमेत्वेक पदाश्वेतं रक्तवर्णन्तदूत्तरे || पूर्वे इन्द्रं समभ्यर्च्य दक्षिणे यमं पूजयेत् | पश्चिमे वरुणोभ्यर्च्य उत्तरेसोममेव च || बिलान्तरे तु निक्षिप्य स्वाहान्तेन यथाक्रमम् | ओं हां इन्द्राय नमः | ओं हां यमाय नमः | ओं हां वरुणाय नमः | ओं हां कुबेराय नमः | ओं हां ब्रह्मणे स्वाहा | विष्णवे स्वाहा रुद्राय स्वाहा ईशाय स्वाहा | सदाशिवाय स्वाहा | इन्द्राय स्वाहा | यमाय स्वाहा | वरुणाय स्वाहा | कुबेराय स्वाहा | इत्थं बलिं दत्वा वर्धन्यामस्त्रार्चनमारभेत् | प्. १६४२) ऐशान्या * * वर्धन्यामिष्ट्वा पाशुपतन्ततः | शूलात्कुलिशपर्यन्तान् न्यष्टस्त्वान्यष्टदीक्षि च || द्वितीयं पूजयेदूर्ध्वमधः पत्युरुणावपि | अत्रक्रमः - ओं हां पाशुपतवस्त्रासनाय हुं फण्णमः | इत्यासनं संपूज्य पाशुपतास्त्रमूर्तये हुं फण्णमः इति मूर्तिम् | ओं श्लीं पशुं फट् पाशुपता वस्त्राय हुं फण्णमः | इति मूलम् | ओं ओं हृदयाय हुं फण्णमः | ओं श्लीं शिरसे हुं फण्णमः | ओं फट् शिखायै हुं फण्णमः | ओं शुं कवचाय हुं फण्णमः | ओं हां नेत्रेभ्यो हुं फण्णमः | ओं फट् अस्त्राय हुं फण्णमः | इति प्रागुक्तवद्धयात्वास्त्रं संपूज्य तदन्वीशानादि दिक्स्थि तेषु ओं हां शूलाय नमः | ओं हां गदाय नमः | ओं हां ध्वजाय नमः | ओं हां पाशाय नमः | ओं हां खट्गाय नमः | ओं हान्दण्डाय नमः | ओं हां शक्तये नमः | ओं हां वज्राय नमः | नैरृतेरुत्तरे ओं हाञ्चक्राय नमः | ईशानस्य दक्षिणे ओं हां पद्माय नम इति पूजयेत् | कामिके - सप्तवान्यस्थिते कुंभे सर्वशोभा समन्विते | अथवा - तिलदर्भान्तरे सम्यक् यजेत् स्थण्दिलके भवम् | ओं हामाधारशक्तये नमः | ओं हामनन्ताय नमः | ईशानाद्याग्न्योन्त कोणेषु ओं हां ऐश्वर्याय नमः | ओं हां ज्ञानाय नमः | प्. १६४३) ओं हां सर्वाय नमः | इतीष्ट्वा उत्तरादिपूर्वान्त दिक्षु ओं हामनैश्वर्याय नमः | ओं हां वैराग्याय नमः | ओं हां मज्ञानाय नमः | ओं हामधर्माय नमः | इत्यभ्यर्च्य ईशान नैरृत्ययोः | ओं हामूर्ध्वच्छदनाय नमः | ओं हामधच्छदनाय नमः | इति संपूज्य मध्ये कन्दबीजां कुरनालकेसर कर्णिका बीजपद्मानि - ओं हां पद्माय नमः | ओं हां बीजेभ्यो नमः - इत्थमाराध्य कर्णिकायामीशाने - ओं हां मनोन्मन्यै नमः | ईशानादि पूर्वान्ताष्टादलकेसरेषु ओं हां सर्वभूतदमन्यै नमः | ओं हां बलप्रमथिन्यै नमः | ओं हां बलविकरिण्यै नमः | ओं हां कलविकरिण्यै नमः | ओं हां कलविकरण्यै नमः | ओं हां काल्यै नमः | ओं हां रौद्यरै नमः | ओं हां ज्येष्ठायै नमः | ओं हां वामायै नमः | इति संपूज्य कर्णिकामध्ये ओं हां शक्तिमण्डलाय नमः | शक्तिमण्डलाधिपतये ईश्वराय नमः | कर्णिकाग्रे - ओं हां वन्हिमण्डलाय नमः | वन्हिमण्डलाधिपतये रुद्राय नमः | केसराग्रवृत्ते - ओं हां सोममण्डलाय नमः सोममण्डलाधिपतये विष्णवे नमः | दलाग्रे - ओं हां सूर्यमण्डलाय नमः सूर्यमण्डलाधिपतये ब्रह्मणे नमः | इत्यभ्यर्च्य - ओं हां शिवासनाय नमः | इत्यासनमभ्यर्च्य तदुपरि मूर्तिं न्यस्त्वा पादादि मूर्धान्तं सद्योवामा घोरतत्पुरुषे शानादि दंड भंग्या विन्यस्य विद्या देहनेत्रं - प्. १६४४) विन्यस्याध्वशुद्धि विषये निवृत्यादि कलापादादिस्थानेषु विन्यस्य मूलेन शिवमावाह्य पूर्ववत् स्थापनाद्युपचारैस्संपूज्य सद्योजातादिमन्त्रैर्ल्लयांगं संपूज्य प्रार्थ्य भोगांग पूजार्थं विज्ञाप्य पश्चिमोत्तर दक्षिण पूर्वेशानादि दलेषु सद्योजातादीना वाह्यनेत्र मैशान्यां आग्नेयेशाननैरृतवायव्य दलेषु हृदयादि मन्त्रांश्चतुर्दिक्ष्वस्त्रञ्चाभ्यर्च्य हुत्वा जपान्तं आवरणाष्टकलशे वा सहिते वा केवल कुंभेवा संपूज्याभ्यर्च्चयेत् | यद्वा - दहनक्रियायां कालग्निरुद्राधिकारत्वा तदेवतस्मिन्नावाह्याभ्यर्चयेत् | तदुक्तं विद्वेषण संहितायाम् - आवृतान् कलशानष्टौ हीनं वा कुंभमरयेत् | तन्मन्त्रेण ततो ध्यात्वा दिक्पालसहितं तथा || कालोत्तरे - तन्मध्ये स्थण्डिलं कृत्वा नलिनोपरिकुंभकम् | किआलाग्निरुद्रमावाह्य अपसव्यक्रमेण तु || तथा चिन्त्ये - कालाग्नि रुद्रमावाह्य वायव्यां कुंभमर्चयेत् | रक्तवस्त्र त्रिणेत्रञ्च द्विपादं नूपुरान्वितम् || चतुर्भुजसमायुक्तमीशकुञ्चितमूर्धनि | शूलमूलं तथा ग्रञ्च हस्तद्वयञ्च धारिणम् || अभयं वरदोपेतं सर्वाभरणभूषितम् | एवं ध्यात्वा विशेषेण पूजयेत्तु विशेषतः || प्. १६४५) अस्यामन्त्येष्टिरक्षासंबन्धस्यायोग्यत्वात् सृष्टिरक्षाहेतु वर्धनी सहित कुंभस्य स्थापना भावः - संहार हेतुभूतास्त्रवर्धनी मात्रस्य प्रधानस्यैव प्रयोगः | एवं दिक्पाल कुंभानमपि स्थापनाभावः | दशायुध कुंभानामपि प्रयोगः | पञ्चावरणपूजार्ह शिवकुंभस्य स्थापनं संहारक्रमेण पूजाविधानाद्यक्तमेवेति किञ्च प्रयोगस्य वचनीयकत्वात् न हि वाचनिकेर्थे युक्तोयं क्रम इति न्यायात् परमवागमवचन प्रतिपादितार्थेषु युक्तयो न विचारणीया इति बोध्यम् | चिन्त्ये - इत्येवं पूजयेत्पश्चात् अग्निकार्यविधिक्रमम् | अग्निकार्योक्तमार्गेण अग्नि संस्थापनान् || याज्ञीय वृक्षसमिधान् सद्योमन्त्रेण हूयते | जुहुयात्तत्स्वनाम्नेन हविषा चरुवर्मणा || तिलमस्त्रेण हुत्वा तु पवाय साकन्तनोत्रयत् | शतमर्धं तदर्धं वा प्रत्येकं वाहुतीर्हुनेत् || हृदये न तु मन्त्रेण जुहुयाच्छत संख्यया | पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत् || अत्र क्रमः - कुण्डसमीपं गत्वोपविश्य निरीक्षणादि संस्कारैस्संस्कृत्य वागीशी वगीशावभ्यर्च्य संस्कृतमग्निं त्रिः परिभ्राम्य वागीशीगर्भनाड्यान्निक्षिप्य गर्भाधानादि संस्कारन्नित्यव दापाद्य मेखलायामस्त्रेण दर्भा - प्. १६४६) विपरीतक्रमादस्तीर्य तेषु परिविष्तरान प्रदक्षिणन्दक्षिण पश्चिमाग्रान् विन्यस्य ल लत्पत्तये पञ्च समिधा हुत्वा परिधिषूत्तर दक्षिण पश्चिम पूर्वादि दिक्षु अनन्तं रुद्रं विष्णुं ब्रह्माणञ्च संपूज्य विष्टरेष्वीशानादि पूर्वान्तदिक्षु ईशानं सोमं वायुं वरुणं निऋतिं यमं अग्निमिन्द्रं निर्-ऋतेरुत्तरे | विष्णुमीशानदक्षिणे ब्रह्माणञ्चाभ्यर्च्याग्निरक्षां विज्ञाप्य सृक् स्रुवौ ओं हः अस्त्राय फडिति संप्रोक्ष्याग्नौ त्रिः परिभ्राम्य पूर्ववत् शेषं संस्कृत्याज्यसंस्कारवक्त्राभिधार वक्त्रसन्धान वक्त्रैकीकरण जिह्वैकीकरणादि पञ्चसंस्कारं पूर्ववद्विधाय नामकरणं पितर * * विसर्जनञ्च पूर्ववत्कृत्वा वन्हिहृदये स्थण्डिलवदावाह्याभ्यर्च्य मन्त्रतर्पणं विधाय पूर्णान्दद्यात् | ततो देशकालाद्यर्थं द्रव्यकालानुरोधेन मूलेन यथा शक्ति हुत्वा मन्त्रसंहितया सन्तर्प्य सद्नीप्य पूर्णां दद्यात् | अथवा पञ्चवर्णरचित स्थानं वीक्षणादि संस्कारैस्संस्कृत्य तन्मध्ये माहेन्द्रे पुरनिर्माणार्थं वीतरजसा चतुरश्रं समालिख्य तन्मध्ये त्रिकोणं रक्त रजसाविलिख्य चतुरश्रे ओं हामिन्द्राय नमः | त्रिकोणे ओं हामग्नये नम इति संपूज्य कामिके - शवशययाञ्च्छिते तत्र काष्ठैरास्तीर्य याज्ञिकैः | चन्दनागरुसम्मिश्रें विपरीत पटावृते || संपूज्य चास्त्र राजेन कुसुमैस्सकुशै स्थले | प्.१६४७) संपूज्य चास्त्र राजेन कुसुमैस्सकुसुमैस्थले || कृत्वामृतं मृतोद्धृष्टं गोमयेन सहांभसा | स्नापितं धूपितं तत्र भस्मना नयवर्त्मना || सब्रह्म सूत्र वसनं पूर्ववर्णानप्रेक्षया | आग्नेय शक्तिमिष्ट्वाग्ने द्दक्षिणस्यां कुशासने || वीक्षणादि विशुद्धस्य धारणाभिश्च पञ्चभिः | ततोस्य मन्त्रकार्यस्य हृदंभोरुहकोटरे || भोग्यकर्माशयारक्तं प्रारभ्दाधरदेहकम् | अत्रमहाजाल प्रयोगः | मृतशरीरेक्षतन्यासार्थं प्रणवोर्चारसमर्थितानादममुष्य द्वादशान्तं नीत्वा तेन नादेनेकी भूतहस्तस्वकर्मानुगुण्य मितस्ततोगच्छन्तमात्मानन्तदा कल्प्य नादशक्त्याजालमिव सर्वतः प्रसृत तथा गृहीतं विभाव्यात्ममन्त्रं सुसूक्ष्ममुच्चरन्नादरूपान्तर्जनीन्त्रिधा भ्राम्यन्दूरस्य मात्मानमासन्नं विभाव्य तमंगुष्ठ मूलकन्यासाद्यंगुलि संयोजनात् गृहीत्वा सृणि मुद्रया मन्त्रेण स्वहृदये समाकृष्य स्वनादान्तमात्मानं विभज्य ओं हां हं हाम्मुकात्मने नम इत्यात्म मन्त्रेण संहारमुद्रया गृहीत्वा प्राणप्रवाहेण बहिर्निस्सृत्य बाह्ये द्वादशान्ते पुनः संगृह्योद्भवमुद्रया तस्य हृदये संयोज्य क्षिपेत् | इत्थं कूर्ममहाजाल प्रयोगेण विन्यस्य मूलेनाहुतित्रयं दत्वा पाशत्रयं संभाव्य पादादिक्रमेण सद्यादि ब्रह्माणि विद्यादेहञ्च - प्. १६४८) विन्यस्य ततो नाडीं सन्धाय मुलेनाहुति त्रयं तत्सन्निधानार्थं हुत्वा ततस्समयिनस्वाचार वैकल्यशुद्धये मूलेन शतं हुत्वा पूर्णयारुद्राधिष्ठायकेन शिवेन संयोज्य स्थण्डिलेशं अग्नौ संयोज्य शवं चितामारोपयेत् | कामिके - कृतन्निश्शेष पाशान्तमिष्ट्वेशञ्च विवर्जयेत् | विद्यादेहञ्च तद्देहे संहृत्य स्वपदे गुरुः || स्थण्डिले शवमारोप्य संहृत्य स्वपदे गुरुः | पिता स्थाने तु संपूज्य वर्णानुद्बाहयेत्सुधीः || तत्र स्थाने चितां स्थाप्य प्रेतन्यासस्ततोपरि | सुप्रभेदे - प्रेतस्य दक्षिणे भागे शिवाग्निं पूर्ववद्बुधः | हृदयेन शतं हुत्वा तन्नाम्ना तु शताहुतिम् || होमेनेष्टयतेनैव चरुं क्षीराक्षतादिभिः | नाभिहृद्वक्रदेशेषु हृदयेन विनिक्षिपेत् || दत्वा हि रसशकलं नवद्वारेषु बुद्धिमान् | तदास्य चक्षुषी कर्णौ नासी द्वारंगुदन्तथा || लिंगं चेतिनवद्वारं हृदयेन च निक्षिपेत् | क्षीरं तण्डुलसम्मिश्रं दत्वा वामेन चास्य के || विद्वेषण संहितायाम् - देवसंबन्धशैवीञ्च अस्त्रेणैव तु योजयेत् | कामिके - अंगुष्ठताडनच्छेद मघोशस्त्रेण कारयेत् | प्. १६४९) स्निग्धोदञ्च तदा कुर्यात्सपिण्डा भ्रातृभिस्सह || अस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः | दाहकृत्पूर्ण कुंभञ्च समादायाप्रदक्षिणम् || त्रयाविधाय तद्वामे निक्षिपे दस्त्रमन्त्रतः | तोयं भिन्न कलापस्थं पूर्वस्थाने तु निक्षिपेत् || सुप्रभेदे - मूर्धादिपादपर्यन्त माज्यलेपं सुशोभनम् | पदद्वयञ्च संस्पृश्य स्मृत्वाग्नौ तु हविष्ववत् || चिन्त्यविश्वे - चितां सन्दीपयेत्पश्चात् कुण्डमध्यगताग्निना | शिरः प्रदेशेज्वलिते चोत्तरस्यो हुनेत्पुनः || कामिके - मधु सक्तैश्च सर्पीषिं प्रक्षित्योज्वलितेनले | सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् || गुरुस्थित्वा शिरो देशे सद्याशाभिमुखाननः | पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् || त्वमग्ने दक्षिणः कालः कालेनैवोपपादिताम् | गृहाण मन्त्रसंपूतां श्राव्यामेनां महाहुतिम् || अस्यार्थः - अग्निशब्देन रुद्रः अग्नेरधिपः कालशब्देन जन्म जन्मस्थितिः कालाहरं यस्संहर्ता स कालः | यद्वा - त्रुष्यादि महाप्रलयान्तं षोडशात्मकम् | यथा शक्त्युपरिच्छिनत्ति यश्शिवस्सकलात्मकः || प्.१६५०) कालात्मनात्वया देवेति मन्त्रलिंगात् अत एव दक्षिण अघोर इति दक्षिणघोरविधानात् | अघोरमूर्तेस्संहार कर्ता * * ष्यादिमन्त्रमूर्तिनां क्रमेण सृष्टिस्थिति निधन निग्रहानुग्रह कर्तृत्वात् | अत काले नैवोपपादिनां सार्धञ्च भोग्य कर्मभोक्तृत्वं कालेनोपपादितां भोजनौषधादि सान्निध्येन निष्पाद्यां मन्त्रसंपूतान्दीक्षोक्तरदन्वषम्मन्त्र न्यासादिभिः | पूतां संप्रत्यहं ते विहितमन्त्र संस्कार पूजाञ्च एनां महाहुतिन्नर शवस्वरूपां गृहाणेति मन्त्रार्थः | चिन्त्यविश्वे - वृक्षस्य सम्मुखन्तत्र - वैदिक शैवमन्त्रानुष्ठानवतां महा शैवानां पूर्वोक्तवत् वैदिकाग्निमुत्पाद्य शैवाग्नौ संयोज्य तेन मिश्राग्निना अन्त्येष्टिं कुर्यात् | तदुक्तं कामिके - शैवग्निलक्षणं पूर्वमुक्तम् | मिश्र वैदिकयोश्ग्ने स्वरूपं शृणुतद्विजाः | एकविग्रह संयुक्तो द्विवक्त्रं स्यादिनासिकः || षण्णेत्रो मेखलायुक्तः पादत्रयसमन्वितः | चतुरंग समायुक्तो द्विशिरो जटिलो मतः || उपवीती च मौञ्जी च सप्तहस्त समायुतः | सप्तजिह्वा समायुक्तो वृषवाहन संयुतः || हिरण्य कनकारक्ता कृष्णा जिह्वाक * * णे | सुप्रभावातिरिक्ता च बहुरूपा च बाममे || प्. १६५१) एवं जिह्वा समुद्दिष्टा मिश्राग्नौ वैदिकानले | हिरण्या वारुणी जिह्वा कनका मध्यमे स्थिता || रक्ता चोत्तरजिह्वास्या कृष्णो याम्यदिशि स्थिता | सुप्रभापूर्वजिह्वा स्यादतिरक्ताग्निदिक् स्थिता || बहुरूपेश जिह्वास्यात् जिह्वा स्थानं प्रकीर्तितम् | वैदिके केवलाग्नौ तु शिवमन्त्रान्नयोजयेत् || शिवाग्नौ वैदिकामन्त्राश्चान्ये वा संप्रकीर्तिताः | तथैव मिश्रवन्हौवै वैदिकाग्निस्तु कथ्यते || ब्रह्माविष्णुश्च लोकेशो देवाश्चान्ये तु ये स्थिताः | व्यासो बोधायनश्चापस्तंबश्चैवा वात्स्यायनः || सत्याषाढश्च ये चान्ये मतो देवांश्च सार्थकान् | शास्त्राण्यन्यानि श्रुत्वा तु पुराणानि स्मृतिस्तथा || सूत्रेस्तु नियमार्थस्तु व्यासस्संक्षेपकारिणः | तन्मतेन कृतो योग्निः वैदिकः परिपठयते || केवलं वैदिकैमन्त्रैर्विहितं वैदिकं भवेत् | प्रणीतं ब्रह्मकूर्चेन संयुक्तो वैदिकस्मृतः || तथैव मिश्रवन्हेस्तु शैवं स्ताभ्यां युतेन च | त्रिभिः परिधिभीश्चोर्ध्व समिद्भयां संयुतस्तु यत् || वैदिकाग्नि समुद्दिष्टो मिश्राग्निस्तूभयात्मकः | अदीक्षिताश्च विप्राद्या वैदिकं केवलन्तु वा || प्.१६५२) अधिकारिण इत्युक्ता दीक्षितास्सर्व योग्यकाः | उभयो मिश्रिणो ये तु कृत्वादौ वैदिकं पृथक् || कुण्डसंस्कारपूर्वन्तु शैवाग्निस्साधकोत्तमाः | मिश्रमित्येवमुद्दिष्टमुभयाश्रमयोग्यकाः || एवं मिश्रन्तु संपाद्य जुहुयात् सर्वमतन्द्रितः | एवमन्त्येष्टिकर्मादौ संस्कारलक्षणन्त्विह || आदोन्यत्र पृथक् कार्यं श्रद्धावित्तानुसारतः | तत्रैव - अप्रदक्षिण मानीय गृहीत्वा खटगमतन्द्रितः | उत्क्षिप्यारोप्यरामांसेछन्न मूर्धा पराङ्मुखीम् || साराविमुञ्च संसक्त स्वधर्मस्थैः प्रदक्षिणम् | अपसव्य क्रमान् गत्वा वर्धनीञ्च अधोमुखीम् || क्षिपेत्तत्र शिरो देशादुद्धृतां शस्त्रवर्धनीम् | विद्वेषण संहितायाम् - तोरणादि विसृज्याथ जलतीरे प्रवेशयेत् | तथा कामिके - ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् | तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा || स्कन्दपूर्वगणेशान्त नाम वा पश्चिमम् | तिलोदकन्तु दातव्यं मृतनाम्ना समन्वितम् || इत्यादि कर्मकर्तव्यं तत्वशुद्धि विहीनया | भूयः स्नात्वा जपेयुश्च सौम्यास्यो शिव संहिताम् || प्. १६५३) तत्र विशेष उक्तः | स्नानान्ते पञ्चगव्यं वा घृतं वा पीत्वा जपेच्छिवम्| विद्वेषण संहितायाम् - सूर्याभिमुख संयुक्तं प्रायश्चित्तं जपेद्गुरुः | सपिण्डानां स्वजातींश्च वैदिकं शैवमाचरेत् || कामिके - ब्रह्मचारी यतीनान्तु संन्यासक्रमयोग्यक | आशोषणात् स्नानवस्त्रं बहुरूपं शतं जपेत् || द्विगुणं स्कन्ददातारस्तथा तद्वाहका अपि | यथाशक्ति तदादानं कृत्वा वाहक दाहकयोः || षट्सहस्रिकायाम् - उदङ्मुखासने स्थित्वा अस्त्राणि शतं जपेत् | सहस्रं वा शतं साष्ट ध्यान युक्तेन चेत् * || बान्धवास्तु तदर्धन्तु तदर्धमथवाहक | कामिके - व्रतस्यमव्रतस्यं वा ब्राह्मणं शिवदीक्षितम् | विपिने यो वहेन्तस्य नाकाले मरणं भवेत् || चिन्त्ये - अनाथ प्रेतसंस्कार मश्वमेधफलं लभेत् | कामिके - शवाशौच विधायैवमागतश्चेत् स्वमन्दिरम् | विभक्ष्य निम्बपत्राणि नियतद्वारवेश्मनि || आचम्याग्निमुदकं गोमयं गरुरसर्षपम् | प्रवेशयेयुस्सं लभ्य कृत्वाशमनि पदं शनैः || षट्सस्हस्रिकायाम् - प्राप्ते नक्ते जपान्ते वा विशेषेण शिवं यजेत् | प्. १६५४) जपहोमावसाने तु समश्नीयात्ततो गुरुः || तद्बान्धवैस्सशिष्यैस्तु संवृतश्शोकशान्तये | इति वामदेवात्मज वेदज्ञान विरचित दीक्षादर्शे समयान्त्येष्टिविधिः | || अथ विशेषान्त्येष्टिविधिरुच्यते || चिन्त्ये - कृत्वासनञ्चन विश्लेषो जीवस्याकर्षणादिकम् | कर्ममानञ्च तत्रस्थ दीक्षा वत्सर्वमाचरेत् || अत्रक्रमः - पूर्वोक्तं सर्वं विधायाग्नि हृत्पद्मवागीशीवागीशावावाह्याभ्यर्च्य तत्सन्निधाय प्रत्येकमाहुतित्रयं दत्वा संश्लिष्टौ संभाव्य शिष्यमस्त्रेण संप्रोक्ष्य ओं हः हुं फडिति हृद्देशे सपुष्पनारा च मुद्रया संताड्यात्मनो रेचकेण हुंकाअरेण तस्य देहे प्रविश्य ओं हां हं हां हः हुं फडिति ज्येष्ठया वियोज्य ओं हां हं हां स्वाहेत्यंकुशमुद्रया द्वादशान्तं नीत्वा तृणाग्रबिन्दुरूपञ्जीवं सञ्चिन्त्य नमोन्तेनात्ममन्त्रेण संहारमुद्रया संगृह्य पूरकवृत्या स्वहृदि सन्निवेश्य कुंभकं कृत्वा मूलमन्त्रमनुस्मरन् ब्रह्मादिकारणत्यागक्रमेणात्म मन्त्रेण स्वद्वादशान्तं नीत्वा निस्सार्य पित्रोस्संयोगं विभाव्य वामयोद्भवमुद्रया आत्ममन्त्रेण वागीश्यां संयोज्य मूलेन शतं सहस्रमर्धं वा हुत्वा तमात्मानं पूर्णया ईश्वरवदधिष्ठायकेन शिवेन संयोज्य वागीशी वागीशौ सन्तर्प्य विसृज्य - प्. १६५५) प्रायश्चित्तार्थमस्त्रेणाष्टाधिकं शतं हुत्वा स्थण्डिलेशा वनिस्थेन संयोज्य शिवं विसृजेत् | ततश्श्वन्दक्षिण मस्तकंचितायामारोप्य विपरीतेनाज्यारतपटेनाच्छाद्य पूर्ववत् सर्वं विधाय इन्दह्नाद्यैरावृत्य कुण्डस्थाग्निना प्रज्वाल्य शिरोदेशे गुरुस्थित्वा सर्पिमधुपयः पूर्णांसस्रुवां स्रुचमुत्क्षिप्य पूर्णामेतं वाक्यमुदीरयन् क्षिपेत् | चिन्त्यविश्वे - त्वमग्ने दक्षिणः कालः कालेनैवोपपादिताम् | गृहाणमन्त्रसंपूतां शाव्यामेनां महाहुतिम् || अनेनैव तु मन्त्रेण हुत्वा पूर्णां भवान्तिकम् | वर्धनीं शस्त्रजप्तान्तु वामांशे सन्निवेशयेत् || तन्निवेश्य ततो यावत् प्रत्यक् धरामखण्डिताम् | सरितश्च तटंगत्वा पश्चादनव लोकयेत् || स्नात्वाप्रस्तीर्य सन्दर्भानपसव्यं विधाय च | ओं हां शुद्धात्मन् स्कन्दो भव स्वधा | ओं हां शुद्धात्मन् चण्डो भव स्वधा | ओं हां शुद्धात्मन् गणाधीशो भव स्वधा | इति भूमौ निवापाञ्जलित्रयं दत्वा पुनरपि स्नात्वा प्रायश्चित्तार्थ मघोरशतमावर्त्य स्कन्ददातारस्तदाहकाश्च द्विगुणं जप्त्वा निजाश्रयं गत्वा तदुद्दिश्यशेषं पूर्वोक्तवत् कुर्यात् | कालोत्तरे - स्वकाग्निकावसाने तु यजेत्पूर्वोक्तवत्प्रभुः | प्.१५५६) विशेषण हितेनैव कर्तव्यं त्वथलक्षणम् | || इति दीक्षादर्शेविशेषान्त्येष्टिविधिः || || अथ निर्वाणान्त्येष्टिविधिरुच्यते || आचार्यः पूवन्नाडीसन्धानान्तकं कर्म निर्वर्तयेत् | क्रियाक्रमद्योतिकादौ विस्तरेण प्रदर्शितः | ग्रन्थविस्तरभीत्यातु संक्षिप्य वर्ण्यते | तथा चिन्त्यविश्वे - विद्या देहञ सूक्ष्मे तु मस्तके वदने हृदि | नाभेरधश्शरीरे च शान्त्यतीतदितः कलाः || विद्यातत्वञ्च विन्यस्य शक्तितत्वं तथा शिवम् | चैतन्यसन्निधानाय मूलेन जुहुयाच्छतम् || निवृत्यादिसमादाय युगपद्वा क्रमेण वा | अग्नौ संयोज्य संपूज्य शिवाद्यावाहनादिकम् || कृत्वा ताडनविश्लेषौ जीवस्याकर्षणादिकम् | कर्मात्मस्थञ्च तत्रस्थं दीक्षावत्सर्वमाचरेत् || जन्माधिकारभोगाञ्च लयं स्रोतो विशोधनम् | निष्कृतिञ्च तिरोधानं पशोः पाशविमोचनम् || मर्द्दनं वर्तुलीकारं पाशदाहादिकाः क्रियाः | कारणावाहनं तद्वदधिकारसमर्पणम् || आत्मोद्धारण कर्मादि कृत्वा गुणविवर्जिते | प्.१६५७) योजयेद्भावनातीते शिवे चैतन्यमव्यये || कामिके - एवमेवोपरिष्टाच्च पादानन्यान्विशोधयेत् | उक्तायाः कर्मपद्धत्या तानतिवं शिवावधि || अन्यानुद्धृत्यहोमन्तं योजयेदमले पदे | यन्मुक्तो न पुनर्जातः पराधीनो भवेदणु || कृतनिश्शेष पाशानान्तमिष्ट्वेवं विसर्जयेत् | विद्यादेहञ्च तद्देहे संकल्पस्स्वपदे न्यसेत् || स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः | शवप्यन्तश्शययायामारोप्य प्रावृतं कुशैः || याम्यशीर्षमुदक्पादं मुक्तानां स्रूक्स्रुकादिकम् | आचार्यं साधकञ्चैव ताभ्यामन्यत्तदुज्क्षितम् || तुरुष्कागरुकपूर चन्दनोत्तर दारुभिः | सच्छाद्यानीय कुण्डाय मारोप्यग्निं विनिक्षिपेत् || मधुसन्तैलसर्पींषि प्रक्षिप्योच्चलितेनले | सर्पिर्मधुपयः पूर्णां सृचमुत्क्षिप्य पूज्यताम् || गुरुस्थित्वा शिरोदेशे सद्याशाभिमुखाननः | पावकस्योक्षिपेद्धारामिति वाक्यमुदीस्यन् || त्वमग्ने दक्षिणः कालः कालेनैवोपपादिताम् | गृहाणमन्त्रसंपूतां शाव्यामेनां महाहुतिम् | | चिन्त्यविश्वे - प्रक्षिप्य वाङ्मुखौ तत्र स्रुक् स्रुकावप्यनन्तरम् | प्. १६५८) नियुज्य सत्क्रियाकर्म कुशलांश्चतुरो गुरुः || अप्रदक्षिणमानीय गृहीत्वा खट्गवर्धनीम् | उत्क्षिप्यो वाङ्मुख वामांसे छन्नमूर्धा पराङ्मुखी || धरां विमुञ्च संयुक्तां स्वधर्मस्थैः प्रदक्षिणम् | अपसव्य क्रमाद्गत्वा वर्धनीन्तामधोमुखीम् || क्षिपेत्तत्र शिरो देशो दुष्कृतां शस्त्रवर्धनीम् | सरितञ्च तटं गत्वा पश्चादनवलोकयेत् || स्नात्वा प्रस्तीर्य सन्दर्भान् अपसव्यं विधाय च | ओं हां शुद्धात्मनी शोभव स्वधा - ओं हां शुद्धात्मन् सदाशिवो भवस्वधा - ओं हां शुद्धात्मन् शान्तो भव स्वधा - पितृतर्पणमेतैस्तु मन्त्रैः कुर्यात्समाहितः | स्नात्वा गुरुरघोरेण शतमावर्तयेज्जपम् | द्विगुणं स्कन्धदातारस्तोया स्यान्ति निजाश्रयम् | तत्र देवं समभ्यर्च्य तदुद्दिश्य विशेषतः | कालोत्तरे - आचार्ये दक्षिणान्दद्या द्वस्त्र हेमांगुलीयकैः | भूषणं स्वर्णदानञ्च गोदानञ्च ततः परम् || क्षेत्रदानं ततः कृत्वा गजदानाश्च दानकम् | छत्र चामरकञ्चैव पाद रक्षादिकन्तथा || कांसन्त्रिशूलदानञ्च शालीपर्यङ्कमेव च | परिवाराश्च विशेषेण यथा शक्तिञ्च दापयेत् || प्. १६५९) पुत्रकाणां प्रकर्तव्यमथवा शिष्य एव च | महेशा साधनं पश्चात् शिवानाञ्च प्रकल्पयेत् || एवं संकल्प्य विधिवदन्त्येष्टिन्तु प्रकल्पयेत् | इति वामदेवात्मज वेदज्ञानविरचित दीक्षादर्शे निर्वाण दीक्षान्त्येष्टि विधिः || अथास्थिसञ्चयन विधिरुच्यते || कामिके - द्वितीयेहनिशेषां दहनं कारयेन्नरः | घृतक्षीरसमायुक्तं सपिण्डैश्च समन्वितम् || तृतीयेत्यथवा देहि कुर्यात् सञ्चयनञ्चिते | हृत्वाथ मृण्मये पात्रे सक्षीरे पयसान्विते || अस्थिसंग्रहणं वाथ कुर्यात् सञ्चयनं विना | एकत्रिपञ्च सप्ताहे नवभाण्डे तु मृण्मये || अस्थि संग्रहणं विप्र प्रमुखाणां क्रमेण वा | सत्वन्त्यक्त्वा चतुर्दिक्षु पैशाचार्थं विनिक्षिपेत् || अंगैरंगानि संग्र्ह्य तन्मन्त्रेण विनिक्षिपेत् | कुग्रामाद्बाह्ये विनिक्षिप्य गंगादिक्षेपणादि च || तद्दिने वाथ पञ्चाहे मासान्ते वा त्रिमासके | षाण्मासाब्द संपूर्णे तदूर्ध्वे वाथ निक्षिपेत् || निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह | पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् || दानं कुर्याद्यथा शक्ति पिण्डन्दत्वा चतुर्भुवि | || इति अस्थिसञ्चयन विधिः || प्. १६६०) | अग्निपाषाण स्थापन विधिरुच्यते | कामिके - विप्रशुद्धिं दशाहं स्यात् क्षत्रियो द्वादशान्हिकः | दशपञ्च हिकाशुद्धिर्वैश्ये शूद्रे हि मासिकम् || इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् | ये च माहेश्वराश्शूद्राः भस्म रुद्राक्षधारिणः || तेषां पञ्चदशाहेन सू शुद्धिम्मृताव पि | ये च माहेश्वराश्शूद्रा इत्याद्याः परिकीर्तिताः || शिवगान विदां तद्वच्छिवाश्रमनिषेविणाम् | दिनैर्विंशतिभिश्शुद्धिर्द्देवदास्याः प्रकीर्तिताः || दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे | रौरवे - तपस्वी देवदासी च पक्षाहेन विशुध्यति | इत्यादि विवेचनमस्मत् शैवशौच दीपिकायां प्रपञ्चितन्तत्रावधार्यताम् | कामिके - आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् | अंकणे बाह्यदेशे वागारे पितृगृहन्नयेत् || पीठे पीठोक्तरीत्या वा | विप्रादीनां क्रमाद्वापि रुद्रात्पञ्चान्तसम्मितैः | दर्भेर्वा सकुशैः कूर्चान्दक्षिणाग्रक सम्मितम् || प्रणमवनासनन्दत्वा मूर्तिमावाहयेत्ततः | तद्गोत्रादि समोपेतमात्मानं प्रणबेन्यसेत् || प्. १६६१) पाद्यादीनि च नैवेद्य माढकादि विनिर्मितम् | तदर्ध निर्मितं वापि तस्य प्रीतिकरञ्च यत् || एतत्सर्वञ्च तन्नाभा स्वधान्तेन हृदान्वितम् | अथवार्ध्यजलन्दद्यात् अन्यत्रान्नं प्रकल्पयेत् || तमुद्वास्य च तत् स्थानात् पिण्डं पुष्पसमन्वितम् | आदोद्यसहितं वाथ निक्षिपेत्तिर्थमध्यमे || एतत्सर्वन्तु वा पुण्यस्थान नद्यादिके नयेत् | विप्रादीनान्तु सामान्यं विशेषस्त्वधुनोच्यते || अन्त्येष्ट्या च समोपेता स्तेषाम्माहेश्वरात्मनाम् | प्रत्यहन्तर्पणं कार्यं शक्तिदानादि नामतः || पृथक् पृथक् कुर्युः कार्यन्तर्पणं प्रथमेहनि | तर्पणान्ते बलिन्दद्यात् नद्यादौ वा गृहेपि वा || ब्रह्मणा दशपिण्डास्तु क्षत्रियाच्च देदस्तु वै | वैश्याः पञ्चदशः प्रोक्ताश्शूद्रास्त्रिंशत्प्रकीर्तिताः || आशौचं यावदेतेषां तावत्पिष्ट्वोदकक्रिया | दशाहेसमति क्रान्ते एकोद्दिष्टे तु कृते सति || पिण्डमेकं तदा देयं आशौचञ्च प्रधानतः | आशौचान्ते प्रकर्तव्य मेकोद्दिष्टमथद्विजः || एकादशे त्रिपक्षे च तथा च प्रतिमासकम् | विस्तारितञ्च यत्कर्म संवत्सरेण संयुतम् || प्. १६६२) षोडशश्राद्धमित्युक्तन्दानमेतेषु यत्कृतम् | एतद्वै षोडशश्राद्धमेकोद्दिष्टमितिस्मृतम् || यस्येतानि न कुर्वन्ति श्राद्धानि नवषोडश | पिशाचत्वं स्थिरत्वञ्च दत्तश्राद्धशनैरपि || एकोद्दिष्ट द्वितीयेन्हि सपिण्डी करणक्रिया | अर्वाक् सपिण्डीकरणं यस्य संवत्सरात्परे || तस्याप्यन्नं सोदकुंभन्दद्यात्संवत्सरं गुरौ | पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् || सपिण्डीकरणं कुर्यात् तदर्थं पूजयेच्छिवम् | भोजनञ्चैकवर्धनम् | समूह्य चैतकर्तव्य विशेषाद्देशिकात्मने | शिवाय च प्रदातव्यमथवा देशिकात्मने | कामिके - एकोद्दिष्ट क्रिअयान्ते तु पक्षश्राद्धं विशम्मतम् | पाक्षिकं मासिकं श्राद्धं शूद्राणाञ्च तथा भवेत् || अन्यत्सर्वं समानं स्यात् ब्राह्मणादि त्रिवर्णिनाम् | कामिके - नैष्ठिकस्य न कर्तव्यं प्रत्यहन्तर्पणं बलिम् | एकाहमेव दाहान्ते ईशादित्रिभिरेव च || तदर्थं तर्पणं कुर्यात् तदर्थं पूजयेच्छिवम् | आमश्राद्धं प्रकर्तव्यं पूर्वाण्हे द्विजसत्तम || आपाद्य नग्नौ तीर्थे च चन्द्रसूर्यग्रहेपि च | आमश्राद्धमशक्तौ स्यात् आर्द्राद्यैस्तु तथैव च || प्. १६६३) इत्येवमधिसन्धाय श्राद्धकर्म समाचरेत् | इत्यादि षोडशक्रिया प्रकाशिकायां विस्तरेण प्रदर्शितं तत्रावधार्यताम् | || इति पाषाणस्थापन विधिः || || अथ शैवसन्यासिना मन्त्येष्टिविधिरुच्यते || शैवसन्यासिनान्दहन देहान्त्येष्टिद्विविधमुक्तन्तथा चिन्त्यविश्वे - अथान्त्येष्टि विधिं वक्ष्ये दहनं खननन्द्विधा | ध्रुवज्ञानं तथा लब्धं संकल्पज्ञानसंभवम् || कालज्ञानोक्तमार्गेण तत्कालन्तन्निरीक्षयेत् | कालोत्तरे तु कर्तव्य मारभेद्देह मुत्सृजेत् || चिन्त्यविश्वे - तपस्सन्यासिनाञ्चैव दाहः परमहंसिनाम् | लोकाग्निमुदराग्नौ च समारोपणतः पुरा || बाह्याग्नि कार्याभावाच्च शाययेल्लवणैस्सह | खननेत्यवटत्मापि देर्ध्यं वेदकरं भवेत् || हस्तद्वयञ्च विस्तारमधः खातञ्चतुष्करम् | कामिके - यतीनां ज्ञानीनां वापि क्रिया स्यादवटात्मिकाः | योगिनान्दण्डमात्रेण खननद्दण्डार्धमात्रतः || चिन्त्ये - निर्जनन्देशमश्रित्य गोमयेनानुलेपयेत् | कृत्वा शरीरशुद्धिञ्च गन्धमाल्यै रलंकृतम् || सितास्तरणो दकन्तैर्नास्तिकोत्तरमन्तिकम् | प्. १६६४) चूर्णोत्सव समाप्तौ तु पश्चात् प्रेतावरोहणम् || कामिके - आरोप्य शिबिकादौ तु श्मशाने शुद्धभूतले | नदी तीरे तटाके वा मण्टपं समंलकृतम् || स्थण्डिलन्तत्र कर्तव्य शालितण्डुलका * * | पञ्चकुंभन्तु संग्राह्य वर्धनी संयतं भवेत् || ससूत्रान् सापिधानांश्च सवस्त्रान्वारिपूरितान् | शिवकुंभन्तु मध्ये तु वर्धनीन्तस्य वामके || चतुर्द्दिक्षु चतुः कुम्भान् स्थापयेत्तु विशेषतः | देवमन्त्रमनुस्मृत्य कुंभमध्ये तु विन्यसेत् || देवीमन्त्रं समाश्रित्य वर्धनी तोयकेन्यसेत् | चतुरश्रार्धचन्द्रञ्च त्रिकोणं षडश्रकम् || सुवृत्तञ्च पृथिव्यादिमण्डलाकृतयः क्रमात् | पीतं शुक्लं तथारक्तं कृष्णाभं धूम्रवर्णकम् || पृथिव्यादीनि बीजानि लवरयह कारकाः | पृथिव्यादीनि भूतानि सद्यादीशान्तं योजयेत् || कालोत्तरे तु कर्तव्यं * * * * * * * * | तत्तत्कुंभेन्यसेद्देवं संहारक्रममेव हि || अथवान्य प्रकारेण चक्रस्तंभ समन्वितम् | दशकील समायुक्तन्द्वारा द्वादश कीलकम् || क्षीरवृक्षसमायुक्तन्त्रिणेत्रेणैव वेष्टयेत् | प्. १६६५) कीलात्कील समोपेतं दशायुधं समर्चयेत् || कालाग्निरुद्रमावाह्य वायव्यां कुंभमध्यमे | सर्वोपचारैस्संपूज्य रौद्रं पाशुपतं तथा || इत्येवं पूजयेत्पश्चात् अस्त्रराजं यथा विधि | तत् स्थाने नयेभूमौ दक्षिणोत्तरमार्गतः || अष्टताल प्रमाणेन अर्धमात्रं सुविस्मृतम् | वामदेवेन संप्रोक्ष्य शास्त्रमार्गेण कारयेत् || याज्ञिकं वृक्षमादाय कीलं तत्रैव दापयेत् | वेष्टयेत्सूत्रमस्त्रेण अप्रदक्षिणतः क्रमात् || षट्कसूत्रसमायुक्तं विस्तारायाममेव च | पञ पञ्च पदन्तत्र मध्ये पञ्चपदं त्यजेत् || एवं पञ्चपदेत्वेकं पृथिवी पीतवर्णकम् | वरुण नैरृतयोर्मध्ये श्रुतीनां पदमेव च || एवं स्थाने विशेषेण आपायश्वेतवर्णकम् | अग्नौ श्रुतिपदं प्रोक्तमेकधूम्रस्यवर्णकम् || जीवे वेदपदं प्रोक्तमेवं कृष्णस्य वर्णकम् | ईशे वेदपदं प्रोक्तम्मेकधूम्रस्य वर्णकम् || ऐन्द्रान्तकमले सोमे पीतकृष्णं सितासितम् | चितास्थानमिदं प्रोक्त तत्तत्स्थानेर्चयेद्बुधः || ओं ह्लां निवृत्ति कलायै सद्यो जाताय नमः | इति मध्ये | प्. १६६६) ओं ह्रीं प्रतिष्ठाकलायै वामदेवाय नमः | निरृतौ - ओं हूं विद्याकलायै अघोराय नमः | ओं हां शान्तिकलायै तत्पुरुषाय नमः | वायव्ये - ओं हौं शान्त्यतीत कलायै ईशानाय नमः | ऐशान्ये - पूर्वपश्चिम दक्षिणोत्तरदिक्षु ओं हां इन्द्राय नमः | ओं हां यमाय नमः | ओं हां वरुणाय नमः | ओं हां सोमाय नमः | इत्येवमर्चयित्वा तु बलिं पश्चाद्विशेषतः | प्राङ्मुखन्तत्र कुर्वीत कल्पयेदासनादिकान् || आसनोपरि विन्यस्य गन्धाद्यैरर्चयेत्क्रमात् | शिष्यादीनामश्रुवाज्याय पूजयेल्लक्षणेन तु || चिन्त्यविश्वे - अग्निकार्यं विना सर्वं पूर्ववत्कर्म वारयेत् | शिवाग्निकार्य संयुक्तं यतीनां तेन वै दहेत् || खनने दहने चैव दण्डकौपीनं संयुतम् | कामिके - लवणेनाथवापूर्य भस्मना वा विशेषतः | चिन्त्यविश्वे - भद्रावा पूरयेत् स्निग्धं देव हस्तन्तु ताडयेत् | तदूर्ध्वे कल्पयेत्पीठं कूटन्तत्र प्रकल्पयेत् || तत्रवालय संयुक्तं पीठं वा लिंगमेव वा | बोधरूपस्वरूपं वा कृत्वा संस्थाप्य पूजयेत् || प्. १६६७) तत्र पिण्डोदकं श्राद्धं यदन्यदपि नेष्यते | चिन्त्यविश्वे - तत्र देशे तु लिंगादि प्रतिष्ठाञ्चैव कारयेत् | तन्मूर्तिं वापि पीठं वा भित्तिचित्रमथापि वा || कूटप्रासादकं वापि तत्र देशे च कारयेत् | आवाहनादि बल्यन्त दीपान्तमपि कारयेत् || इत्येवं खननं प्रोक्तं पूर्वोक्तवद्दहेत्पुनः | अप्रसंगाद्विप्रादीनां प्रतिमा प्रतिष्ठा प्रकार उक्तः | कामिके - ब्राह्मण क्षत्रियो वैश्यश्शूद्रा बाह्यन्तशलकाः | त्रयो विध्युक्तवत्तेषामभिषेकं नृपोथवा || भवभक्ति समोपेतं जीवन्तोपि मृतोस्तु वा | तेषां प्रकृतिकं कृत्वा प्रतिष्ठाप्य समापयेत् || शिवधर्मोत्तरे - दीक्षा विशेषगत पाशसमन्वितानां साक्षाच्छिवेन सदृशात्मगुणोज्वलानाम् | देहादि भारवहन श्रमदुःखितानां कल्याण हेतुरपरो नहि देहपातः || अनेन देहेन लभन्तिकेचित् सिद्धिञ्च लोकान् प्रल * च मुक्तिः | प्रलयान्ते तनुं त्यक्त्वा स्वात्मन्येषा गतिस्ठते || तथा शिवधर्मे - भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते | देहकञ्चुक मुत्सृज्य ज्ञानत्कैवल्यमाप्नुयात् || सर्वज्ञः परिपूर्णश्च स्वात्मन्येव व्यवस्थितः | प्. १६६८) सर्वाध्व परिपूर्णञ्च वेष्टयेत्पतिख्ययः || सूतसंहितायां ब्रह्मगीतासु आत्मन्येव रतिक्रीडां शुद्धात्मा कुरुते सदेति | चिन्त्यविश्वे - शिवभक्त प्रतिष्ठाञ्च यः कुर्यान्नर पुंगवः | तस्य श्री विजयोदर्चिरन्ते सायुज्यमाप्नुयात् || || इति शैवसन्यासिनामन्त्येष्टि विधिः || कैलास शिखरेरम्ये वटमूलनिवासिनम् | दक्षिणा मूर्तिरूपन्तु मुनिस्सस्मुपस्थिरे || अगस्त्यः काश्यपश्चैव भरद्वाजोथगौतमः | कौशिकोपरमेशानादागमार्थञ्च तत्वतः || ज्ञात्वा संप्रीतमनसास्ते सर्वे मुनयस्तथा | तेषां शिष्यास्सनन्ताद्या मुनयस्तानुपासिरे || केचिल्लब्धागमार्थन्तु माठापत्येन संस्थिताः | श्रीमत्कैलासपार्श्वे तु चतुर्था स व्यवस्थिता || आमर्दगः पुष्पगिरिर्गोलकीरणभद्रकः | सनत्कुमारो भगवा नामर्दक मठाधिपः || कदंब वृत्त एवस्यात्तस्य संतानिकश्च ये | पुष्पगिरिर्मठपतिस्सनको वृक्षमर्जनम् || तस्य सन्तानकाः केचित् गोलकीनग्नायकाः | प्. १६६९) सनातनो ऋषिर्वृक्षो जंबूपत्रै वतिष्ठति || रणभद्राधिपः प्रोक्तस्सनातन इति स्मृतः | न्यगोर्धवृक्ष इत्युक्तस्तस्य सन्तानि काश्चये || गोदावरी नदीतीरे तस्य सन्तानिकाश्शुभाः | पुरामण्डरकालादि तस्यां वसति शंकरः || उत्पत्तिं तस्य शैवानां आचार्याणां विशेषतः | तत्र मण्डराबी च महीदाश्च चतुर्मठाः | आमर्दकी पुष्पगिरि गोलकी रणभद्रका | राजेन्द्र चोल इत्याख्य चोलभूमौ महीपतिः || गंगा स्नात्वागमनार्थमागत्य दृष्ट्वा शैवपरांस्तदा | स्नात्वा प्रतिनिवृत्तस्सन् तस्यामादाय शैवकान् || स्वराज्ये स्थापयामस शैवाचार्य वरांस्ततः | काञ्ची मध्ये चोलभूमौ सरत्रैव प्रविस्तरनिति || श्री पुष्पगिरिसन्तानमठाधिपमहद्गुरुः | तत्संप्रदाय सिद्धानां बहवोत्र मुमुक्षवः || क्रमरक्तक मालाख्य पद्धतीञ्चाकरोत्ततः | विदया वादे षट्पदार्थं सौन्दराचार्य नामतः || तोण्डीर मण्डले तस्मिन् रुद्रकोटि महत् स्थले | आदिशैव इति ख्यातः पञ्चांगाचारवर्तितः || श्री व्याघ्रपुरनिवसि वामदेवो महत्ततः | प्. १६७०) तस्यानुजो महायोगी वेदज्ञान मुनीश्वरः || बृहत्सभेश मुद्दिश्य अनेकैश्शिष्यकैस्सह | श्रीमत्तिल्लिवनं प्राप्य चिरं कालमवर्धत || सदाशिवमहाराजे पृथिवीपालनक्षमे | आलयानामनेकेषां गोपुरादीन्यकल्पयेत् || वेदज्ञानमुनिश्रीमान् द्राविडादीन् केशव | शिवधर्मोत्तरादीनि शास्त्राणि परिकल्पयेत् || श्रीमत्तिल्लिवने चैव अरुणाद्रो महत्स्थले | श्री वृद्धाचलसंज्ञे च मध्यार्जुन महत्पदे || श्वेतेन पूजितं यत्र श्वेतारण्ये घटे पुरे | अन्त्येष्वनेक स्थानेषु स्थापयामास वागमान् || तस्य श्रोत्र सुतः कश्चित्तन्नामां कित पंडितः | दीक्षादर्श महाग्रन्थ पद्धतीञ्च महत्तराम् || दक्षिणा मूर्तिकृपयाह्यकरोत्सांप्रदायिकाम् | इति श्री व्याघ्रपुरनिवासी वामदेवात्मज वेदज्ञान विरचित दीक्षादर्शस्समाप्तः || श्रीमद्देवशिखामणिगुरुभ्यो नमः || श्रीमत् षण्मुखगुरवे नमः || ########### END OF FILE #######