#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00245 Uniform title: dīkṣāpaddhati Manuscript : Manuscript no.: 2379 Research Library J. and K. Govt. Shrinigar Description: Contains a Kashmiri initiatory rite. Here as in other liturgical works from Kashmir we learn about the deities of the Kashmiri Hindus. It is a very intensely tantric pantheon, reminiscent of what we find in Nepal. Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G.Dyczkowski. This manuscript contains copious additions written in smaller characters on the margin on both sides as well as above and below. These noted in round brackets. Revision 0: Feb. 5, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### मय बे विएwएद् ओन्ल्य ओन्लिने ओर् दोwन्लोअदेद् fओर् प्रिवते स्तुद्य. ओं नमः शिवाय ओं श्रीमद्भवार्णवनिमग्नसमस्तजनतोद्धरण दक्ष परमेश्वरप्रसादाल्लब्धवरेभ्योगुरुवरेभ्यो नमः || (देवगुरुशिष्यद्रव्याणां भाविदीक्ष्येचित योग्यतात्मक संस्कार परिग्रहः || यागगृहाधिकरणवसनं चाधिवसः ||) ओं परपदारोहणैक प्रवीणाय श्रीगुरवे कमलाकरस्वामिने नमः || ओं यत्र गलंत्युर्मिषिते शेषास्संसारवासनाविस्राः | अधिवासोसौ सर्वोजयतिधरानन्दनिष्यन्दी || (दीक्षोपयोगिसर्ववस्तूनां योज्यतापादनात्मासंस्कारोधिवासः ||) (भवे भवे नाडिभवेत्यत्रार्यायः प्रकृतितत्वमभिव्याप्यक्षिति तत्वपर्यन्तमवस्थितिर्भवो नामजन्महेतुत्वात् | पुरुषतत्वमभिव्याप्यमायातत्वपर्यन्तमवस्थितिरभवाख्यं मुक्तिहेतुत्वात् मायातत्वमतिमतिक्रम्यशिवतत्वान्तावस्थितिरति भवोनाम ऐश्वर्यलाभकारणत्वात्) (स्नातोधिकारी भवति दैवे पैत्र्ये च कर्मणीति वचनादादौ कृतस्नातः ||) ओं तत्र स्नातः कृत्यं सन्ध्यावन्दनादि अथ च परभैरवैक्यपरिपूर्णः कृतनित्य कृत्यो द्वादशाङ्गुलोष्णीषाद्याभरणालङ्कृत देहः | (जानूर्वोरन्तरे कृत्वा सम्यक्नादतले उभे | ऋजुकायोवसेद्योगी स्वस्तिकं तत्प्रचक्षते ||) साङ्गुलीयककरः स्वस्तिकाद्याऽसनबन्धपूर्वं | पूर्वशिरस्कोर्ध्वलोमाजिनाद्याऽसनोपविष्टः | (सद्योजातं प्रपद्यामि सद्योजातायवै नमः | भवे भवे नाडिभवे भजस्वसांभवोद्भवेति मन्त्रेण सुगन्धिगन्धलिप्ताङ्गः) (सुगन्धीत्यादिनेदमाह यस्य सुभावेन शिवभावना परत्वं नास्ति | सबाह्योपसाचरेणापि चेतः प्रसाद्य सुभावितः शिवावेशोन्मेषमयः स्यात् || यतो न चावज्ञा क्रियाकाले संसरोद्धरणं प्रतिमन्त्रदानव्रतादेशिशिष्यद्रुङ्नारकी भवेदित्यास्नातत्वात् || उक्तं दिक्षोतरे चैतद्ब्राह्मणाः क्षत्रियाविशः नपुंसकास्त्रियशूद्राये चान्येपितदर्थिनः | ते दीक्षाः या न मीमांस्या ज्ञानकाले विचारयेत् | ज्ञानमूले गुरुः प्रोक्तः सप्तमंत्री प्रवर्तयेत् || मुद्रालङ्कारभूषित शिखाकर्णप्रकोष्ठप्रतिष्ठापितपञ्चमुद्रः ||) सुगन्धिगन्धलिप्ताङ्गः सुप्रसन्नः सुभावितः सुधुपितः सताम्बूलः | (ओं जुं सः अमृतेश्वरभैरव मां रक्ष २ सः जुं ओं | इति मन्त्रेण हारकटककेयूराङ्कितः ||) चन्दनागुरुचर्चितः हारकटककेयूराद्यङ्कितविग्रहपूर्वः | महाभैरवमुद्राष्टा दशकमुद्रित देहो | (दक्षिणस्यां मूर्तौ जानुभ्यां स्थित्वैवं विधां विज्ञप्तिं कुर्यात् | पूर्वमेवेति भगवन्भवतैव गुर्वधिकरणेन ममाभिषेककाले नियमो दत्तो यथामच्छक्त्याधिष्ठिताश्शिष्या अनुग्राह्यास्त्वया सदेति | तदमी तथा भूता एवेति मया यथावत्परीक्षिताः ममचोपाध्यन्तरा न पेक्षयैते दययैवानुग्राह्यत्वेन व्यवस्थिता इति भगवानेवसर्वज्ञत्वाद्विजानाति | तन्मम विशेषाधिष्ठानं भगवान्करोतु | येन त्वया सहैककारकीभूयानुग्रहमेषां सम्पादयामि | यतस्त्वदधिष्ठानं विनानन्तादयोपि विद्येशास्त्रच्छक्त्यानादिनिरुद्धत्वान्नविमोक्तुं शक्नुवन्तीति विज्ञप्य तदुत्तरभूतामीश्वराज्ञामेवं विधां भावयेदेवं करोम्यनुतिष्ठमद्विहितमिति ||) जानुभ्यां धरणीं गत्वा धरणीं गतस्य स्वसविधस्थस्य शिष्यस्य हस्तं सङ्गृह्य मानसेन विधिना तावत् पूजितस्य श्रीशम्भोरिमां विज्ञप्तिं कृत्वा आज्ञां ग्राहयेत् | ओं पूर्वमेवत्वया शम्भो नियुक्तोहं शिवाध्वरे | गुरुः परापरे स्थित्वा लोकानुग्रहकृद्भव || त्वच्छक्त्याऽघ्रात हृदयस्तदऽयं भगवन्मया | दृष्टोद्याऽस्याऽनुग्रहार्थं प्रवृत्तोऽहं न लोभतः || त्वमेवचाऽत्र भगन् प्रमाणं सर्वकर्मणां | साक्षिभूतः स्वयंकर्ता परमः शङ्करः शिवः || तद्विशेषेणमामेव समऽधिष्ठाय सन्निधिम् | कुरुष्व येन त्वत् पाद समान क्रियता मियाम् || त्वदाऽज्ञां हृदये कृत्वा करोमि निखिलाः क्रियाः | अन्यथा कर्तुमीशाहि विद्येशा अपि किं प्रभो || स्च्. ३ प्. २) विभोरावेदयिष्यामि यद्यत्कर्मकरोम्यहम् | इति प्रतिशिष्यं प्रत्येकं पठेत् || (पूर्वशास्त्रे || सितोष्णीषं ततो बद्ध्वा सप्तजप्तं नवात्मना || ओं र हरक्षमलवयरूं||) तदयमिति स्थाने अयममुक | इति शिष्यनामपठनीयम् | इत्थं शम्भोराज्ञां गृहीत्वा | ओं हरक्षमलवयरूं विद्याराजभैरवाय नमः | इति विद्याराजभैरवमन्त्रसप्तजप्तोष्णीषः || भावनयाश्रित शिवाहं भावोनुग्राह्यः | परंपदं प्राप्स्यतीति मुदितमनः || यागधाम्नि कलशवेदिकानाम्नि स्फाटिक सकल भट्टारकरूपं देवबिम्बं | तदभावेरीति मयं वा भद्रपीठोपरिसंस्थाप्य पूजामारभेत् | ओं नौमि स्वात्म प्रकाश प्रशमित विषमक्लेशराशिं महेशं वन्दे वाग्देवतां तां कलयति किलया मूलतो वाग्लतायाः | विघ्नग्रासप्रबन्धादिव बृहदुदरं नौमि विघ्नाधिराजं दर्त्तप्राग्दीक्षमेकं गुरुवरमपरं ज्ञानदं च प्रपद्ये || ओं ह्रीं सः पवित्रकमर्पयामि नमः | ओं प्रसरच्छक्तिकल्लोलजगल्लहरीकेलये | भवसम्पन्निधानायभैरवाम्भोधये नमः | ओं त्रायतां मोहमत्तेभमदहूङ्कार हुङ्कृतम् | स्वच्छन्दभैरवस्योग्रधाम्नः पञ्चाननस्य वः || विश्वैक रूप विश्वात्मन्विश्वसर्गादि कारणं | परप्रकाशवपुषं स्तुमः स्वच्छन्दभैरवम् || विश्वातीतं विश्वमयं भैरवाऽष्टकसंयुतम् | सकलं निष्कलं शान्तं वन्दे स्वच्छन्दभैरवम् || एकैव बोधजलधेः शक्तिशुक्तिर्जयत्यऽसौ | यदन्तर्निखिलं भाति मुक्तामयमिदं जगत् || स्मृतिमात्र विनिर्धूत निःशेषा ज्ञानकिल्विषाः | स्च्. ४, प्. ३) गुरुतीर्थ वरस्फारा विजयन्ति जगत्त्रये || ओं ब्रह्मादिकारणातीतं स्वशक्त्यानन्दनिर्भरम् | नमामि परमेशानं स्वच्छन्दं वीरनायकम् || ओं त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् | चन्द्रकोटिप्रतीकाशं चन्द्रार्ध कृतशेखरम् || पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् | वृश्चिकैरग्नि सङ्काशैर्हारेण तु विराजितम् || कपालमालाभरणं खड्गखेटकधारिणम् | पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम् || वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् | वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम् || वज्रदण्डकृताटोपं परश्वायुधहस्तकम् | मुद्गरेण विचित्रेण धृतेन तु विराजितम् || सिंहचर्म परीधानं गजचर्मोत्तरीयकम् | अष्टादशभुजं देवं सर्वकारणकारणम् || ऊर्ध्ववक्त्रं महेशानि स्फाटिकाभं विचिन्तयेत् | आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम् || दक्षिणं तु विजानीयाद् वामं चैव विचिन्तयेत् | दाडिमी कुसुमप्रख्यं कुङ्कुमोदकसन्निभम् || चन्द्रार्बुधप्रतीकाशं पश्चिमं तु विचिन्तयेत् | स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम् || ध्यायेद्वैयस्तु युक्तात्मा क्षिप्रं सिद्ध्यति मानवः | पूर्वं या सा मयाअख्याता ह्यघोराशक्तिरुत्तमा || यादृशं भैरवं रूपं तस्यास्तादृशमेव हि | भैरवं पूजयित्वा तु तस्योत्सङ्गगतां स्मरेत् || ईषत्करालवदनां गम्भीरविपुलस्वनाम् | प्रसन्नास्यां सदाध्यायेद् भैरवीं विस्मिते क्षणाम् || (ज्ञान) बहुरूपाय विद्महे | (ध्यान) कोटराक्षाय धीमहि | (समावेशः) तन्नोऽघोरः प्रचोदयात् ३ | बहुरूपायै विद्महे | अघोरेश्वर्यै धीमहि | तन्नोरुद्रः प्रचोदयात् ३ | ततः आत्मासनाय नमः | इत्यासनं सम्पूज्य | स्वदक्षेऽस्त्रमन्त्रेण सप्तवाराभिजप्तेनास्त्रपात्रं कुर्यात् | तेन सर्वद्रव्य प्रोक्षणम् | यथा आंधूम्र २ जीव २ सः सर्वासां पुष्पजातीनां जीवः प्रविशतु स्वाहा | इति पुष्पेषु | ओं गन्धमादिनि गन्धं जीवापयतु स्वाहा | चन्दने | ह्रीं स्वाहा | कुङ्कुमे | लां पृथिव्यै धरित्रि शक्त्यै नमः | अर्घ्ये | व्लीं वरुणराजानकाय नमः | जले | ओं कालाग्नि रुद्राय जगद्धूम सुगन्धिने | सर्वगन्ध वहाय धूपाय नमः | धूपे | जगज्ज्योतीरूपाय स्वप्रकाशात्मने दीपाय नमः | दीपे | ततोदिङ्मातॄ पूजा | ध्यानमाह | सुधाकलश सत्पुष्पमालाहस्तास्सुशोभनाः | आकाशमातरश्चैक वक्त्रादेवस्य सम्मुखाः || ओं उमायै नमः | पूर्वे | ओं दुर्गायै नमः | अ | ओं भद्रकाल्यै | ओं स्वस्तये | ओं स्वाहायै | ओं शुभङ्कर्यै | ओं श्रियै | ओं गौपै? | ओं लोकधात्र्यै | ओं वागीश्वर्यै | इति दिङ्मात्यदशकं पूर्वादारभ्य दक्षिणावर्त क्रमेण पूजयम् | (अथा कोटचतुष्टये द्वारेशाः) ओं गां गणपतये नमः || पद्मद्वयं च दन्तं च लड्डुपात्रं परश्वधम् | विभ्राणं गणपं वन्दे सर्वदेव नमस्कृतम् || ओं ग्लूं गां गणपतये नमः || ओं द्वारस्थितां सर्वविघ्ननाशिनीं काम पूरिणीं वरदाभयहस्तां च शिवमार्गप्रदायिनीं || पद्मस्थितां पद्महस्तां पद्मसद्मादि पूजिताम् | पद्मपूज्यां विष्णुयुतां धनधान्यप्रदायिनीम् | ओं द्वारश्रियै नमः || त्रिनेत्रां सुसितां देवीं वीणापुस्तकाधारिणीम् | त्रिलोक जननीं वन्दे वररूपं सरस्वतीम् || ओं सरस्वत्यै नमः पूर्वे || ओं तं ध्यात्वा कालसूर्याभं जटामुकुटधारिणम् | (नन्दिनं सव्यशाखायां महाकालं च वामतः | तद्वच्च गङ्गाय मुने देहेलीं पूजयेदठः || इति गुरुपुस्तिकायां) | त्र्यक्षं चतुर्भुजं भालं शूलटंकगदाधरम् | वज्रिणं वज्रहस्तं च नन्दिरुद्रं नमाम्यहम् || ओं नन्दिने नमः || सनालाब्जकरां पाणि द्वये कलशधारिणीम् | वरहस्तां स्वश्वेतां च गङ्गां मकरवाहिनीम् || ओं गङ्गायै नमः स्वदक्षे || ओं महाकालं चतुर्बाहुं व्यावृतास्यं भयानकम् | शूलखट्वाङ्गसद्दण्डकाद्याड्यं कृष्णपिङ्गलम् || ओं महाकालाय नमः | वामे || पाणिद्वयेन कलशं धारयन्तीं यमानुजाम् | वरदोत्पलहस्तां च श्यामां मकरवाहिनीम् || ओं यमुनायै नमः | वामे | ओं चण्डाय नमः | ओं प्रचण्डाय नमः | तद्वत्सव्य वामयोः | ओं दिण्डिने नमः | ओं महोदराय नमः | तद्वत् सव्यवामयोः || ओं सिंहारूढां श्यामलाङ्गीं खड्गखेटकधारिणीम् | अधस्ताद्देहलीं वन्दे पश्चिमास्यां सुरक्षिणीम् || ओं देहल्यै नमः | अधः | ओं ऊर्ध्वोडम्बराय नमः || ओं नन्द्यादिसंयुतं देववरैः पूजितविग्रहम् | भृङ्गिरूपधरं त्र्यक्षं भृङ्गीशं देववल्लभम् || ओं भृङ्गीशाय नमः || ओं श्वेतस्त्रिनेत्रो वृषभो दीप्तस्त्रिशूलवांस्तथा | ध्यातव्यः पापहश्चैव वराभयलसत्करः || ओं वृषभाय नमः | ओं त्रिशूलाय नमः || ओं देवदेवेश्वरीं पूज्यपादां देशप्रपूजिताम् | सर्वेषां हितकर्त्रीं च सिद्धसाधक पोषिणीम् || ओं अम्बिकायै नमः || अत्रैव कुमार पूजनम् | कार्तिकेयाय विशेनाधिपत्ययेधी तन्नः कुमारः प्र ३ | अर्धचन्द्रकृताटोपं शिखि कुकूटवाहनम् | षण्मुखं भालवेशं च कुमारं चिन्तयेद्बुधः || ओं क्लूं कां कुमाराय नमः | कामित्यङ्गानि || ओं एकवक्त्रं चतुर्बाहुं सर्वविघ्नविनाशनम् | प्रभामण्डलकं दीप्तं भास्वरं तं विचिन्तयेत् || ओं प्रभामण्डलाय नमः || तत्रैव सूर्यपूजनम् | तत्पुरुषाय वि | सूर्यज्ञानाय धी | तन्नः सूर्यः प्रचोतयात् ३ | धवलाम्भो रुहारूढं दाडिमीकुसुमप्रभम् | स्फुरद्रक्तमहातेजो वृत्तमण्डलमण्डितम् || अंसासक्त स्फुटश्वेत सनालाब्जकरद्वयम् | एकास्यं चिन्तयेद् भानुं द्विभुजं रक्तवाससम् || बद्धपद्मासनोदेवः प्रपन्नजनवत्सलः | सप्ताश्वस्सप्तरज्जूश्च द्विभुजः पातुनो रविः || ओं ह्रां ह्रीं सः सूर्याय नमः || ओं अं हृद | ओं अर्काय शिर | ओं भूर्भुवः स्वः ज्वालिन्यै शिखा | ओं हुं कव | ओं भां नेत्रे | ओं रः अस्त्राय || ओं रां विस्फुरायै नमः | ओं रामित्यङ्गानि || ततो देवाग्रे मातॄ मण्डलोपरि पुष्पं दध्यात् | ओं ब्रह्मणे नमः | ओं सितं त्र्यक्षं सौम्यमुखं द्विभुजं वास्तु पूरुषम् | अक्षमालाशूलकरं चिन्तयेद्विघ्ननाशनम् | ओं वास्तुपुरुषाय नमः || ततः दूतीं सौम्यां चतुर्बाहुं स्वघोषां मन्त्रघोषिणीम् | अक्षमालापुस्तक स्रग्वराभयकरां यजेत् | ओं हूं शुद्धविद्यायै मन्त्रमात्रे दूत्यै नमः | आत्मनोविश्वमयत्वं भावन या | इति शाम्भव व्याप्त्यादूतीं पूजयेत् | ओं ह्रीं श्रीं शिवादूत्यै नमः | विश्वोत्तीर्णत्वेनात्मनः | (सुशोभनं अस्मदनुग्रहपरमागमनमस्त्विति स्वागतं ||) इति शाक्तव्याप्त्यादूतीं वादयेत् | स्वागतं २ सपरिवारस्य भोभगवत | इति सम्मुखीकरणं | हुं फट्कार प्रयोगेन यागधासान्तः पुष्पं प्रक्षिप्य | अपसर्पन्तु ते भूता ये भूतादि विसंस्थिताः | ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || मध्याङ्गुष्ठयोगेन नारा च मुद्रया | पुष्पप्रयोगानन्तरं कोटिकाभिस्तालाहति पार्ष्ण्या घातत्रयेण दिव्यान्तरिक्ष भौमान्विघ्नान्निवार्य | कोटिकाभिः दशदिग्बन्धनं कुर्यात् | अनन्तरं प्रविश्य | भूतानि यानीहवसन्ति भूतले बलिं गृहीत्वा विधिवत् प्रयुक्तम् | अन्यत्र वासं परिकल्पयन्तु क्षमन्तु चान्यत्र नमोस्तुतेभ्यः | इति पठित्वाभूतापसर्पणं कृत्वा | उत्तरदिशिशलभ रुद्रं सशक्तिं तन्मन्त्रेण पूजयेत् | ओं अष्टापदं पक्षिति मूलराजद्वज्राङ्कुरं हाटक पक्षकुटम् | हेमाङ्गसङ्गी कृतपद्मरागं चुञ्चुपटोल्लासिमुखारविन्दम् | सूर्यानिलेन्दु द्युतिराजमाननेत्र त्रयोल्लासितपद्मरागम् | नीलाश्म दीप्ताखिल रोमसङ्गं श्वेतां शुखण्डोज्ज्वलितोत्तमाङ्गम् || ओं नमो भगवते शलभ शाल्वाय पक्षिराजाय मम शत्रून्नाशय २ हां घः घः हूं फट् स्वाहा | श्रीशलभ श्रीपादुकां पूजया || तद्वामे | ओं नमो भगवति शलभिशाल्वि मम शत्रुन्नाशय २ हूं फट् स्वाहा | श्रीशलभी देवी श्रीपादुकां पूजयामि नमः | इति शलभमिथुनं सम्पूज्य || स्च्. ८, प्. ७) पूर्वेसु दर्शनास्त्रं पूजयेत् | यथा ओं कल्पान्तार्क प्रकाशं त्रिभुवनमखिलं तेजसापूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् | चक्रं शङ्खं गदां च पृथुतरमुसलं चापपाशाङ्कुशान्वै | विभ्राणं दोर्भिराढ्यं मनसिमुररिपुं भावयेश्चक्र संज्ञम् || ओं सहस्रार हुं फट् | सुदर्शनाय नमः | इति सम्पूज्य || दक्षिणदिश्यघोरास्त्रं पूजयेत् | ओं सजल घनसमानं भीमदंष्ट्र्यं त्रिनेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् | परुशुडमरुखड्गान्खेटकं बाणपासौ त्रिशिखनरकपालं बिभ्रतं भावयामि || ओं ह्रीं प्रस्फुर २ स्फुर २ घोर घोरतर तनुरूप चट २ प्रचट २ कह २ वम २ बन्ध २ घातय २ हूं फट् | अघोरास्त्राय नमः | इति सम्पूज्य || पश्चिमे वनदुर्गां पूजयेत् | ओं सौवर्णाम्बुजमध्यगां त्रिनयनां सौधामिनी सन्निभां शङ्खं चक्रवराभयानिदधतीमिन्द्रोः कलां विभ्रतीम् | ग्रैवेयाङ्गदहारकुण्डलधरां माखण्डलाद्यैः स्तुतां | ध्यायेद्विन्द्ध्यानिवासिनीं शशिमुखीं पार्श्वस्थ पञ्चाननाम् | उत्तिष्ठपुरुषि किं सुपिषि भयं मे समुपस्थितम् | यदिसक्यमशक्यं वा तन्मे भगवति शमय स्वाहा | इति सम्पूज्य || विदिक्षुपाशुपतास्त्रं पूजयेत् | ओं मध्याह्नार्क समप्रभं शशिधरं भीमाट्टहासोज्ज्वलं त्र्यक्षं पन्नगभूषणं शशिशिखाश्मश्रू स्फुरन्मूर्धजम् | हस्ताब्जैस्त्रिशिखं समुद्गरमशिं शक्तिं दधानं विभुं दंष्ट्राभीम चतुर्मुखं पशुपतिं दिव्यास्त्ररूपं भजे || ओं श्लीं पशु हूं फट् | पाशुपतास्त्राय हूं फट् | इति सम्पूज्य || मध्ये गणपतिं पूजयेत् | ओं विभ्रद्दक्षिणेति ध्यानं | ओं ग्लूं गां गणपतये नमः | इत्थं सम्पूज्य | (ततो रक्षार्थमस्त्रं च दशदिक्षु विनिक्षिपेत् | विघ्नानां प्रवेशावकाशनाशाय ||) अनन्तरं प्रविश्य | वज्र शक्ति दण्ड खड्ग पाश ध्वज गदा त्रिशूल पद्म चक्र रूपास्त्र प्राकारं सर्वरक्षार्थं संचिन्त्य || ततो दक्षदिक्सूः | उत्तराभिमुखः | (समस्तभेद प्लोषकाघोरवक्त्रसंमुखत्व स्यानु रूपात् |) सौम्यास्यः पापप्लोष सामक्त्यादघोरवक्त्रसाम्मुख्येनोपविश्य | ओं इन्द्राय वज्रहस्ताय फट् | अग्नये श | यमाय दण्ड ह | निर्-ऋतये खड्ग | वरुणाय पाश | वायुवे ध्वज ह | स्च्. ९, प्. ८) (करन्यासमाह || गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् | कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु || परां शक्तिं तु सङ्क्षोभ्य || गन्धेन कुलकादिना दिग्धौ लिप्तौ परिशोधयेत् क्रियाशक्तित्वं प्रापयेत् | परां द्वादशान्तस्थ शिवचन्द्रचन्द्रिका रूपां शक्तिं संक्षोभ्य अनङ्गधेनवी युक्त्या प्रसरोन्मुखीं कृत्वा अमृतेन परमानन्दरसेन प्लावयेदाच्छुरयेत् | पश्चात् तथा रूपता रक्षार्थं कवचमन्त्रेणावगुण्ठ्य | ततो नन्तं प्रकल्पयेत् | करशुद्धि विधाने तत्तन्मन्त्रन्यास उचित एव कार्यः | तेनोपबाहुदण्डाग्रगग्रन्थि प्रान्तवर्ति विद्यापद्मोर्ध्वावस्थितानाश्रित प्रेतान्तमनन्तासनं प्राङ्निर्णीततत्त्वं प्रणवेण कल्पयेत् | मूर्तिं न्यस्यानु वक्त्राणि स्वच्छन्दं परिकल्पयेत् | मूर्तिं ब्रह्मकवाटकला वक्त्रन्यासादि प्रागेव निर्णीतं | अतो यत्र यत्रा याति तत्र तत्र प्रथमपटलनिर्णीतव्याप्तिरनुसन्तव्यः स्वच्छन्दमिति सकलं अनन्तरं | अङ्गुष्ठादि कनिष्ठान्तं विन्यसेदङ्ग पञ्चकम् | उभयोरपि करयोः पद्ममुद्रामाविष्टयोरस्त्रं नखेष्विति गुरवः ततः || भैरवानपि संकल्प्य परं तत्वमनुस्मरन् | भैरवान्कपालेशानष्टौ वामतर्जनी दक्षिणतर्जन्यन्तं परं तत्वं निष्कलनाथं साङ्गं स देवी कमर्थात् स्फारिताङ्गुष्ठयोरनुस्मरेत् | विश्वानु गामित्वेन सन्दद्यात् | यद्यपि करयोः पिण्डावयव त्वाद्भावि पिण्डन्यासे नैव न्यासः सम्पद्यते | तथापि सर्वकर्मप्रवृत्ति प्रथमाङ्कुर कल्पयोः भगवन्क्रिया शक्तिमयत्व प्रत्यभिज्ञानाय तयोर्देहन्यासात्पूर्वं सर्वागमेषु न्यास उद्यमान उपपन्न एव शिवहस्तुस्त्वन्य दृगेव विशिष्टविधि विषयः ||) कुवीराय गदा | ईशानाय त्रिसूल ह | ब्रह्मणे पद्म ह | विष्णवे चक्र हस्ताय फट् | इति दिबन्धनं विधाय | ततः कलश वेद्यां पूर्वादिक्रमेण भूतपूजा || ओं लौंक्षिरये नमः | रौं अग्नये | शौं यजमानाय | र्वौं सूर्याय | वौं वरुणाय | यौं वायवे | सौं सोमाय | हौं अकाशाय नमः || ततः करन्यासमारभेत | गन्धदिग्धौ करौ कृत्वाऽस्त्रेण प्रोक्षितो | ओं हूं अवगुण्ठयामि नमः | इति कवचेनावगुण्ठितौ मूलेन करशुद्धिं विधाय | अमृतेना प्लावयेत् | यथा कन्दस्थानादुत्थितां शक्तिं ध्यात्वा द्वादशान्तं यथा प्राप्तां चिन्तयित्वा | तत्स्थानाद मृतं गृहीत्वा | हृदयादारभ्य नासिक्य द्वादशान्तं || नासिक्य द्वादशान्तेन निर्गतां ध्यात्वा करा वा प्लावयेत् | अनन्तरं धारण या पद्ममुद्रां बद्ध्वा | अङ्गुष्ठमूले | आधारशक्तिमग्रे पद्मं तदुपरि मूर्तिं | [मूर्तिं ब्रह्म कवटकला वक्त्र्यन्यासादि ||] तत्र द्वात्रिंशदक्षरं ध्यायेत् | अङ्गुष्ठादि कनिष्ठान्तमङ्गपञ्चकमस्त्रं नखेषु | दक्षिणतर्जन्या आरभ्य | वामतर्जन्यन्तं भैरवाष्टकं | वामतर्जन्या आरभ्य दक्षिण तर्जन्यन्तं भैरवाष्टकं | निष्कलं साङ्गं सदेवीकमङ्गुष्ठयोर्न्यसेत् | इति करन्यासः | लिङ्गमुद्रां बद्ध्वा | त्रिशूलमुद्रया देहमालम्व्य | (अपसव्येन पूर्येत सव्ये नैवर्त रेचयेत् | नाडीसंशोधनं चैतन्मोक्षमार्गपथस्य च || सव्येन दक्षिणनामापथेन रेचयेद् रेचकं कुर्यात् | अपसव्येन वामेन तु पूर्येत वायु पूरकं कुर्यात् | एवमनवरतं क्रियमाणमेतन्नाडीनां मोक्षमार्गपथस्य मध्यधामूः शोधनमाहति प्रशमनं भवति || रेचनात् पूरणाद्रोधात्प्राणायामस्त्रिधा स्मृतः | प्राणम्यायमनं यथा स्थित वाहव्यजनेन स्वायत्तता नयनं || सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः | तानाह || अभ्यन्तरेण रेच्येत पूर्येताभ्यन्तरेण तु | निष्कम्पं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः || मध्यपथेन रेचनं | द्वादशान्ते पूरणं | हृदिनिष्कम्पं कुम्भकं निरायासं प्रशान्तकुम्भकमित्यर्थः || कार्या इति निवर्तनीया भवन्त्यथ || नाभ्यां हृदय सञ्चारान्मनश्चेन्द्रिय गोचरात् | प्राणायामश्चतुर्थस्तु सुप्रशान्त इति श्रुतः || निष्कम्प कुम्भकानन्तरं हृदयसञ्चारादिति शनैः शनैः हृदयादधस्सञ्चारयुक्त्या प्राणं नाभ्यामेव नियम्ये त्यर्थः | तथा मन इन्द्रियगोचरादिति तत्प्रत्याहार युक्त्या नाभ्यामेव नियम्यमनोनियम पूर्वं प्राणे नाभौ नियच्छतः सुप्रशान्तः प्राणायाम भवति || सन्निरुद्धे तु वै प्राणे मूर्ध्निगत्वा निवर्तते | सतद्घात इति प्रोक्तो ज्ञातव्यो योगिभिः सदा || प्राणायामेन स्थूलशरीरशुद्धि रुपकर्षः || ऊर्ध्वरेचकेन सूक्ष्मशरीरशुद्धिरपकर्षः ||) रेचक पूरककुम्भकशोषणदाहोत्प्लावनाप्लावन विमलीकरण दिव्यदेहोत्पादनादि धारणा विधाय वक्ष्यमाणन्यासं कुर्यात् | लं रेचकं करोमि नमः | इति मन्त्रेणा शुद्धं प्राणवायुं द्वादश प्रणवोश्चारकालं यावद्दक्षिणनासापुटेन बहिः क्षिपेत् | ओं वं पूरकं करोमि नमः | इति शुद्धं श्वेतं प्राणवायुं चतुर्विंशत्प्रणवोश्चारकालं यावदन्तवामनासापुटेन प्रवेशयेत् | ओं रं कुम्भकं करोमि नमः | तमेव प्राणवायुं जलभृतकुम्भवदचलस्थित्या षट्त्रिंशत्प्रणवोश्चारकालं यावदन्तर्निरोधयेत् | यं ऊर्ध्वरेचकं करोमि नमः | इति तमेव कुम्भितं हृत्कण्ठतालुभ्रूमध्य ब्रह्मरन्ध्र भेदनक्रमेण नो वा शक्यत्वाच्छनैः शनैर्वामनासापुटेन बहिः क्षिपेत् || इत्युर्ध्व रेचकः || ओं हं व्योमात्मानं स्थापयामि नमः | हृत्पद्म स्थितं आत्मनं सूक्ष्मं खद्योतनिभं स्फुरत्तारकाकारं | हृत्कण्ठतालु भृऊमध्य ब्रह्मरन्ध्र भेदनक्रमेण द्वादशान्ते विनियोज्य | मनोहङ्कार बुद्धीर्विलोप्य | परतत्वे विलाप्य शून्यं शरीरं ध्यात्वा सूक्ष्मशरीरशुद्धिः | स्च्. १०. प्. ९) अथ स्थूलदेहशुद्धिं शोषणादि धारणाभिः कुर्यात् | क्ष्यूं इमां तनुं शोषयामि नमः | इति स्वशरीरं शुष्कतरुरूपं चिन्तयेत् | इति पार्थिवी | न्क्ष्र्यूं इमां तनुं दाहयामि नमः | इति दक्षिणपादाङ्गुष्ठाङ्कालाग्निमुत्थितं ध्यात्वा तज्ज्वालाभिस्स बाह्याभ्यन्तरं शरीरं भस्मीभूतं भावयेत् | इत्याग्नेयी यलूं तनोरुत्प्लावनं करोमि नमः | इति शारीरं भस्मवायुनादशदिग्गतं भावयेत् | इति वायवी | वं तनुमाप्लावयामि नमः | इति द्वादशान्त पतित चिद्बिन्दु स्रुतामृतधाराभिस्तत्स्थानं क्षालितं भावयेत् | इति वारुणी | विषस्येवमारकत्वं मन्त्रशक्त्या निवार्यते | न स्वरूपं देहाहम्भावस्य विलापनं न स्वरूप नाशः | इति भावः | एवं षाट्कोशिके शरीरे निवृत्ते परमानन्दमयमात्मानं भावयेत् | ओं हंसं विन्मयोस्मि नाहमस्मि न चान्योस्ति देयं चात्र न विद्यते | आनन्दपदसंलीनं मनस्समरसीगतम् | इत्याकाशी | ततः कर्मात् प्रभृति हृदन्तमासनपक्षं न्यसेत् | ओं आधारशक्त्यै नमः || क्षीरोदार्णवाय नमः | चन्द्रमण्डलाय नमः | पद्मासनाय नमः | यथोर्ध्वरेचकेन नीतं | तथैवोर्ध्व पूरकेन ब्रह्मरन्ध्र भ्रूमध्यतालुकण्ठक्रमेण हृत्पद्मे आत्मानं विन्यस्य | ओं जुं सः तनुममृतीकरोमि नमः | इति द्वादशान्तचिद्बिन्दु स्रूतामृतधाराभिराप्लाव्य सञ्जीवितं | ओं माया दिक्षित्यन्तैक त्रिंशत्तत्वरूपाय शुद्धदेहाय नमः | इति शुद्धं देहमुत्पन्नं भावयेत् | ततः ओं ब्रह्मणे नमः | ओं वास्तु पुरुषाय नमः | ओं हं मूर्तये नमः | इति श्वेतां मूर्तिं संचिन्त्य | ओं क्षं ईशान मूर्ध्ने नमः | ओं यं तत्पुरुषवक्त्राय नमः | ओं रं अघोरहृदयाय नमः | ओं वं वामदेवगुह्याय नमः | ओं लं सद्योजातगुह्याय नमः | इति दण्डभङ्गिः | (शरीरं न्यासविभगोदण्डभङ्गिः पादाङ्गुष्ठादि स्कन्दान्तं भङ्गि न्यासक्रियात्मिका क्रियते यत्साधकेन दण्डभङ्गिरिति स्मृता || ब्रह्मपञ्चकनाम्ना तु वक्त्रपञ्चक रूप या | क्रियते या साधकेन मण्डभङ्गिरिति स्मृता ||) ओं क्षं ईशानवक्त्राय नमः | ईशे यं तत्पुरुषवक्त्राय नमः | रं अघोरवक्त्राय नमः | दक्षिणे | वं वामदेव वक्त्रां गुह्याय नमः | उत्तरे | लं सद्योजात वक्त्राय नमः | पश्चिमे | इति मुण्डभङ्गिः | (भङ्गिर्विभागः शिरसिन्यासविभागो मुण्डभङ्गिः) | ओं क्षं तारादिभ्यः | स्च्. ११, प्. १०) ईशानकलाभ्यो नमः | मूर्ध्नि | यं शान्तादिभ्यस्तत्पुरुषकलाभ्यो नमः | मुखे | रं तमादिभ्यः अघोरकलाभ्यो नमः | हृदये | वं रजादिभ्यो वामदेवकलाभ्यो नमः | गुह्ये | ओं लं सिद्ध्यादिभ्यः सद्योजातकलाभ्यो नमः | सर्वदेहे | इति सङ्क्षिप्तकलान्यासः | (कला न्यासः षट्त्रिंशत्तत्वव्याप्त्या ||) ओं क्षं सुतारिण्यै नमः | ऊर्ध्वकवाटे क्षं तारयन्त्यै नमः | पूर्वे | क्षं तारण्यै नमः | दक्षे | क्षं सुतारायै नमः | उत्तरकवाटे | क्षं तारायै नमः | पश्चिमे | इतीशानकलाः ५ | यं शान्तायै नमः | पूर्ववक्त्रे नासाग्रे | यं विद्यायै नमः | दक्षे | यं प्रतिष्ठायै नमः | वामे | यं निवृत्तये नमः | पश्चात् | इति तत्पुरुषकलाः ४ | ओं रं उमायै नमः | हृदि | रं मोहायै नमः | ग्रीवायाम् | रं क्षधायै नमः | दक्षांसे | रं निद्रायै नमः | वामांसे | रं मृत्यवे नमः | नाभौ | रं मायायै नमः | पृष्ठे | रं भयायै नमः | जठरे | रं जरायै नमः | उरसि | अघोर कलाः | ओं वं रजायै नमो | गुह्ये | वं रक्षायै नमः | गुदे | वं रत्यै नमः | दक्षोरौ | वं पाल्यै नमः | वामोरौ | वं काम्यायै नमः | दक्षजानौ | वं कृष्णायै नमः | वामजानौ | वं मतये नमः | दक्षिण जङ्घायाम् | वं क्रियायै नमः | वामजङ्घायाम् | वं ऋद्धिकायै नमः | दक्षस्फिजि | वं रात्र्यै नमः | वामस्फिजि | वं भ्रामण्यै नमः | कट्यां | वं मोहिन्यै नमः | दक्षपार्श्वे | वं मनोन्मन्यै नमः | वामपार्श्वे | वामदेवकलाः १३ | लं सिद्ध्यै नमः | दक्षपादे | लं ऋद्ध्यै नमः | वामपादे | लं द्युतये नमः | दक्षहस्ते | लं लक्ष्म्यै नमः | वामहस्ते | लं मेधायै नमः | नासायाम् | लं कान्त्यै नमः | शिरसि | लं सुधायै नमः | दक्षभुजे | लं स्थित्यै नमः | वामभुजे | इति सद्योजातकलाः ८ | इत्यष्टात्रिंशत्कलान्यासः || (नवतत्वन्यासः वामादि शक्ति नवक व्याप्त्या कपालेशादि स्वच्छन्दभैरवव्याप्त्या च ||) || ओं शिवतत्वाय नमो | मूर्ध्नि | ओं सदाशिवतत्वाय नमो | वक्त्रे | ओं ईश्वरतत्वाय नमः | कण्ठे | ओं विद्यातत्वाय नमो | हृदि | ओं माया तत्वाय नमः | नाभौ | स्च्. १२. प्. ११) ओं कालतत्वाय नमः | गुह्ये | ओं नियति तत्वाय नमः | ऊर्ध्वोः | ओं पुरुषतत्वाय नमः | जानुनोः | ओं प्रकृतितत्वाय नमः | पादयोः | इति तत्व नवकन्यासः | (त्रितत्वन्यासः शुद्धात्सोन्मनापरतत्वव्याप्त्या ||) ओं शिव तत्वाय नमः | मूर्ध्नि | ओं सदाशिव तत्वाय नमः | कण्ठे | ओं आत्मतत्वाय नमः | हृदि | इति तत्वत्रयन्यासः | ओं स्वच्छन्दभैरवं मूर्ध्नि विन्यस्य | ओं क्ष्मर्यूं कपालेश भैरवाय नमः | वक्त्रे | ओं ह्रूं शिखिवाहनभैरवाय नमः | कण्ठे | ओं क्षूं क्रोधराजभैरवाय नमः | हृदि | ओं रध्रू-औं विकरालभैरवाय नमः | नाभौ | ओं ह्वू-औं मन्मथभैरवाय नमः | गुह्ये | ओं ह्र्यूं मेघनादभैरवाय नमः | ऊर्ध्वोः | ओं हुं सोमराजभैरवाय नमः | जानुनोः | ओं ह्र्क्ष्मल्व्यूं विद्याराजभैरवाय नमः | पादयोः | इति भैरवाष्टक न्यासः | ओं क्षीं क्रियाशक्तये नमः | दक्षिणपार्श्वे | ओं सूं ज्ञानशक्तये नमः | वामपार्श्वे | ओं हां इच्छाशक्तये नमः | मध्ये | ओं र्क्ष्रः क्षुरिकायै नमः | कट्यां | ओं अघोरेभ्यस्सर्वात्मने हृदयाय नमः | (ननु कथमस्य माया प्रमातृत्वे सत्य भेदो यदान्तरीयकं शिवात्मकत्वं स्यादित्या शङ्क्याह || माया प्रमाता तद्रूपविकल्पाभ्यासपाटवात् | शिव एव तदभ्यास फलं न्यासादि कीर्तितम् ||) ओं थ घोरेभ्यो ब्रह्मशिरसे | ओं घोरघोरतरेभ्यश्च ज्वालिन्यै शिखा | ओं सर्वतः शर्वसर्वेभ्यः | पिङ्गलाय कवच | ओं जुं सः ज्योतीरूपाय नेत्रेभ्यो | ओं नमस्ते रुद्ररूपेभ्यो दुर्भेद्याय पाशुपतास्त्राय फट् | इत्यङ्ग षट्कोन करन्यासं देहन्यासं च विधाय | मूर्ध्नः | पादतलं यावन्मूलं व्याप्त्या परामृशेत् मृशेश्च | ओं हूं अघोरेभ्यो थ घोरेभ्यो घोरघोरतरेभ्यश्च | सर्वतश्शर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यो हूं नमः | इति सकलभट्टारक मूलविद्या | ओं हूं ह्रीं अघोरेश्वरि हूं फट् | ओं हामित्यङ्गानि | ओं हूं निष्कलस्वच्छन्द भैरवाय नमः | वक्त्राङ्गानि श्रीदेवीवत् | इत्थं सकलन्यासं निष्कलन्यासं च विधाय | अघोरेश्वरीं ललाटे विन्यस्य | मनोयागार्घपात्रं स्वात्मपूजान्तमीश्वराहम्भावनया कर्म कुर्यात् | तद्यथा करन्यासः | हृदयमङ्गुष्ठयोः | शिरस्तर्जन्योः | शिखामध्यमयोः कवचमनामिकयोः | नेत्रे कनीयस्योः अस्त्रं नखेषु | अथ देहन्यासः | हृदयं हृदये देशे शिरः शिरसि विन्यसेत् | स्च्. १३, प्. १२) शिखायां तु शिखां चैव कवचं स्कन्दयोस्तथा | नेत्रं तु नेत्रयोर्न्यसेदस्त्रं सर्वशरीरगम् || इति देह न्यासः | अङ्गन्यासावसरे मुद्रा षट्कबन्धः कार्यः | इति गुरवः | तत्र हृदि निलीनाङ्गुष्ठामुष्टिः सैवोच्छ्रिताङ्गुष्ठाशिरसि | उच्छ्रित तर्जनीका शिखायां परस्परान्तरिताङ्गुलि पाणिद्वयं कवचे | मध्यमातर्जन्यनामिकाभिर्नेत्रत्रय स्पर्शो नेत्रे | तर्जन्यङ्गुष्ठच्छोटिकादर्शनमस्त्रे | (हृत्प्रतिबिम्बरूपां पद्ममुद्रां करयोर्बध्नीयादिति गुरवः || अशेष विश्वस्फारण स्वस्वरूपाभिप्रायाम् |) ततः पद्ममुद्रां बद्ध्वा | स्वच्छन्द भैरवं दक्षिणाऽऽगुष्ठे | वामे भैरविं न्यस्य | दक्षिण तर्जन्या | वामतर्जन्यन्तं | भैरवाष्टकं न्यसेत् | आदावासनं कुर्यात् | यथा ओं आधारशक्त्यै नमः कन्दे || धात्र्यै नमः नाभ्यावधि | पयोर्णवाय नमः नाभौ | मूलाय नमः | नालाय नमः | हृदयावधि हृदि | धर्मादिचरण सहितं योगपीठासनं संचिन्त्य | तदुपरि | मध्ये कमलासनमष्टपत्रं सकेसरं सकर्णिकं ध्यायेत् || पत्रेभ्यो नमः | सूर्यमण्डलाय नमः | पत्राणि शुक्लानि ध्यायेत् | तदधि पतये ब्रह्मणे नमः || ब्रह्माणं चतुर्मुखं ध्यायेत् || केसरेभ्यो नमः | सोममण्डलाय नमः | केसराणि श्वेतपीतानि ध्यायेत् | तदधिपतये विष्णवे नमः | विष्णुं श्यामवर्णं ध्यायेत् | कर्णिकायै नमः | वह्निमण्डलाय नमः | कर्णिकां सुवर्णवर्णां ध्यायेत् | तदधिपतये रुद्राय नमः | रुद्रं श्वेतं ध्यायेत् | तदुपरि | ईश्वराय नमः | ईश्वरं पाटलं ध्यायेत् | तदुपरि ओं सदाशिवाय महाप्रेतासनाय नमः | तदुपरि भगवन्तं स भैरवं ध्यायेत् | (कपालेशाष्टकं अष्टपत्रेषु यथा?) ओं हं कपालेश भैरवाय नमः | (दक्षिण तर्जन्यां) ओं रं शिखिवाहनभैर | ओं क्षं क्रोधराजभैरवा | ओं सं विकरालभैरवा | ओं लं मन्मथभैरवाय | ओं वं मेघनादभैरवा | ओं यं सोमराजभैरवा | ओं ऊं विद्याराजभैरवाय नमः | (वाम तर्जन्यां) | अघोरेश्वर्यै नमः | ततो ध्यायेत् | वामे खेटक पाशसार्ङ्गवरसद्दण्डांश्च वीणाटिके विभ्राणं ध्वजमुद्गरौ स्वनिभदेव्यङ्कं कुठारं करे | दक्षेस्यङ्कुशकन्दलेषु डमरून्वज्रं त्रिशूलाभया क्रद्रस्थं शरवक्त्रमिन्दुधवलं स्वच्छन्दनाथं नुमः || इति ध्यात्वा | मानसैः पाद्या (इति भावाभिन्नात्मरूपेण ध्यात्वा) स्च्. १४, प्. १३) (मन्त्रसन्धानमाह || अस्त्राणि लोकपालांश्च भैरवाष्टकमेव च | पञ्च ब्रह्माण्यथाङ्गानि एतान्यावरणा निहि | क्रमेणोश्चारयेत् सर्वान्यावत्तद्गर्भमैश्वरं | मन्त्रसन्धानमेतद्धि || शूलहस्तायेशाय नमः | इति प्रातिलोम्य क्रमेण सकलान्तमुत्तरोत्तरलीनताक्रमेणोश्चारणं मन्त्रसन्धानं पञ्चब्रह्माण्यथाङ्गानीति प्रातिलोम्य क्रमे प्यानुलोम्येन पाठः | वक्त्राङ्गानामेकावरणहेतुतयेतित्र्यावरणो यथा क्रमः | अथ | परमीकरणं शृणु | तश्चारयेत् ततो देवं ह्रस्वदीर्घप्लुतान्वितं | तावदुश्चारयेन्मन्त्रं यावन्निर्वाण गोचरम् || देवं द्योतनादि स तत्वं निष्कलभट्टारकं ह्रस्वेत्यादि | ह्रस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं परं शिवमिति | पञ्चप्रणवाधिकार वक्ष्यमाण स्थित्या | अकारोकारमकर बिन्दुनादवर्णकलास्व ह्रस्वादि मात्ररूपास्व वक्ष्यमाण न व्याप्यनुसारेण विश्रम्य निर्वाण गोचरं द्वादशान्तं यावन्मन्त्रमुच्चारयेदित्यर्थः | अत्रैवेति कर्तव्यतां पूरयैति | अधः सक्तेर्यावदूर्ध्वं सोमसूर्य पथान्तरा | पिङ्गलामध्यमार्गेण वर्णोच्चारक्रमेण तु देवता पञ्चकं शक्तिं व्यापिनीं समनोन्मने भेदयित्वा क्रमात् सर्वं यावद्वै निधनान्तिकम् | निस्तरङ्गं निरध्वख्यं सकलव्यापिचोन्मनम् | वक्ष्यमाणदिव्यकरण क्रमेण | अध इति कन्दात्प्राणशक्तिं हृदयं प्रापयय वामदक्षिण वाहमध्ये पूर्वनिर्णित दिशा पिङ्गलानाम्ना मध्यमार्गेण | हकाराकारादीन्नादपर्यन्तं | ह्रस्वादिरूपवर्णोच्चार क्रमेण | ब्रह्मादि सदाशिवन्तं देवतापञ्चकं | तदुपरित न सुसूक्मतम मन्त्राशैश्च शक्त्याद्युन्मनान्तं च भेदयित्वा ग्रन्थिरूपता विदारण युक्त्या परवाग्रूपमन्त्रपरामर्शं शेषं कुर्वन्निधनान्तिकं सर्वोपशान्ति प्रदं द्वादशान्तं यावन्मन्त्रमुच्चारयेदित्यर्थः कीदृशं निस्त्ररङ्गं | तरङ्गेभ्यो भेदकल्लोलेभ्यो निष्क्रान्त निष्क्रन्ता उल्लसिताः वर्णमन्त्राद्य ध्वनामाख्याः प्रथायतस्तादृशं तथा सकलस्या शेषस्य व्यापकं ईदृशं कथमेकं वस्तु भवतीत्याह उन्मनं मननं सर्वं सङ्कुचितं संवेदनमुत्क्रम्यस्थितं स्वतन्त्रमित्यर्थः | अथ तदध्यास्य | तन्निष्कलं तत्वं गाढावष्टम्भेन किञ्चित्कालं समाविश्य | अनुलोमेन हृत्पद्मे विनिवेशयेत् || द्वादशान्तात् प्रभृति | तत्वं च उन्मना चैव समना | इत्यादि वक्ष्यमाण दृष्ट्या मन्त्रप्रमेय सृष्टि क्रमेणावरुह्य हृत्पद्म प्रतिष्ठापित श्रीसकलभट्टारक व्यापकत्वेन भावयेत् | किं च || सर्वेष्वावरणेष्वेवं देवि तद्व्यापकं न्यसेत् | एवमित्येकेन प्रयत्नेन | तेन चाधिष्ठिताः सर्वे सर्वकामफलप्रदाः | तद्रस्मि पुञ्जात्मकत्वात् सकलादि मन्त्राणां चो ह्यर्थे | अथ पूर्वोक्तं ध्यानादिस्मारयति | यथा स्वरूपसंस्थानवर्णाये कथिता मया | तथा ते विनियोक्तव्या मानसे मानसेन तु || स्वरूपं मूलब्रह्माङ्गादि रूपं | संस्थानमाकृतिः वर्णः सितादिः कथित इत्यादि द्वितीये पटले | मानसे इति यागे | मानसेन चित्तेन | ततश्च || कर्णिकायां तु संस्थाप्य द्विधावस्थं तु भैरवम् | शुद्धस्फटिकसङ्काशं सर्वमन्त्रैरलङ्कृतम् || द्विधा सकलनिष्कल भावेन | अवस्थामनुग्राह्यानुग्रहाय | स्वस्वातन्त्र्येणावस्थितिर्यस्य | सकलंसिताकारं निष्कलं तु प्रकाशमात्र तत्वं | अलङ्कृतमिति रस्मिवत्परिवृतम् | एवं द्वात्रिंशदक्षरापेक्षया यद्यपि मूलमन्त्रस्य निष्कलत्वं | तथाप्यकारादि कलोश्चारेसति सकलत्वमप्यस्तीति | यत्सत्यतोनिष्कलं तत्वं तन्निर्दिशति | तत्रापि परितो ज्ञेयमनिर्देश्यमनामयं | तत्र तयोः सकलनिष्कलयोरुपरिपरितः परं परिपूर्णेन रूपेण भैरवस्वरूपं ज्ञेयं स्वतः प्रकाशमानं प्रत्यभिज्ञेयमित्यर्थः यतस्तदनिर्देश्यं इदन्तायाः न विषयः यस्मादनामयं | सूक्ष्मतमेनाप्यामयेनाख्यात्यात्मक महामाया स्पर्शेन शून्यं तथा च | यत्र नास्ति द्विधाभावः | श्री निष्कलसकलाद्यशेषसामरस्यात्मकत्वात् | न मन्त्रादि प्रकल्पना | ओंकार बिन्दुनादानां विलयं तं विनिर्दिशेत् | सर्वमन्त्रप्रमेय विश्रान्ति प्रदं तज्जानीयादित्यर्थः यद्वक्ष्यति | यावदुच्चार्यते वाचा तावत्स सकलः स्मृत इति | तथा | अक्षरेषु कुतो मोक्षः परं तत्वमनक्षरमिति | अतश्च | तत्स्थानं दुर्लभं ज्ञात्वा सम्भवेन्न कदाचन | यस्य नाग्रं च मूलं च न दिशोविदिशस्तथा || न शब्दो नापि चाकाशं ध्यात्वा तत्तु विमुच्यते | तिष्ठत्यस्मिन्सवमिति स्थान | माकृति शून्यत्वान्मूलाग्राह्य भावः | वर्णात्मक मन्त्ररूप शून्यत्वान्न शब्दः | इत्युक्तमेवमपि न तच्छून्यमित्याशयेनोक्तं नाकाशमिति ध्यात्वेति अकृतकाहं विमर्शविश्रान्त्या समाविध्य विमुच्यते | जीवन्मुक्तिराप्यते ||) चमनीयार्घ पुष्पसमालभनोपवीतहारकुण्डलमुकुटनूपुराद्युत्तरीयाधरी य पुष्पमाल्यताम्बूल षड्रसास्वादमुखवासा चमनीय वितानच्छत्र चामरनृत्तगीत जपसमाधि होमादिभिर्देवं सन्तुष्टं भावयेत् | एवं सन्तोष्य कन्दस्थाने ज्वलद्भास्वराकारं वह्निं ध्यात्वा | द्वादशान्तपतितामृतद्रवेण स्वाहान्तेनाघोरमन्त्रेण होमं विधाय | भ्रूमध्ये पूर्णचन्द्राकारं देवं ध्यात्वा | नाडीसन्धानमन्त्रसन्धान परमीकरणानि कुर्यात् | यथा श्रीनिष्कलमन्त्रमुच्चार्य तेजोमयीं स्वहृदो नाडीं वामेन रेचयित्वा | स्वचैतन्यं विकृष्य भैरवस्य दक्षिणनाड्यान्तः प्रविश्य | पुनस्तस्यवामनाड्यानिर्गत्या | वरणानामेवमेव प्रवेशनिर्गमक्रमेण दक्षिणनाड्या स्वान्तः पूरकेन प्रविश्य मध्य एव सन्धयेदिति नाडीसन्धानम् | अथ मन्त्रसन्धानम् | क्रमपाठतोत्रमन्त्रः | आत्मानं शचक्रे विष्णो सचक्रं विष्णुं सपद्मे ब्रह्मणि सपद्मं ब्रह्माणं सत्रिशूलास्त्रे ईशाने अनु सत्रिशूलास्त्रमीशानं सगदे धनदे नुसन्दधे नमः | एवं विष्णवं तु स गदास्त्रं धनदं (प्रथमं मानसं यागं पश्चाद्द्रव्यसमन्वितम् | य एनं सततं कुर्याद् दैशिको यागतत्परः || स्वहस्ते सूण्डिले लिङ्गे मण्डले चरुके तथा | जले चाग्नौ च सम्पूज्य सम्यग्दीक्षा फलं लभेत् || मानसस्य प्राथम्यं शिवी भावं विनाशिवयागेधिकारा भावादित्युक्तत्वात् | दैशिक उपदेश प्रयोजन आचार्यः सततमिति नित्यार्चार तत्वात् | स्वहस्ते इति शिवहस्तदानावसरे | सूण्डिले इति अधिवाससमये | लिङ्गे इति लिङ्गशब्देन विद्वांसः सृष्टिसंहारकारणमित्यादि निरुक्ते प्रस्तावोचिते शिष्यचैतन्ये | बाह्येपि वा बाणादि रूपे भाक्ते | मण्डले वक्ष्यमाणरूपे | चरुके हविर्विशेषात्मनि | जले कलशस्थे | वह्नौ पाशदाहके | दीक्षायाफलं शिष्याणां भैरवात्मक स्वरूप प्रत्यभिज्ञानं | लभेत् तत्र हेतु कर्तृत्वसामर्थ्यमासादयत्येव | एवं च सर्वथा शिवीभावात्मक मानसयाग पूर्वं बाह्ययागं निवर्तयेत् | अन्यथा | अकृत्वामानसंयागं योन्यं यागं समारभेत् | अशिवः स तु विज्ञेयो न मोक्षाय विधीयते | अशिव इति मानसयागकार्य शिवीभावा भावाभावात् तथा भूतश्च पशुर्मोक्षाय न विधीयते तदर्थमधि क्रियते इत्यर्थः यतः || आत्मयागे कृते चैव देहशुद्धिः प्रजायते | चोह्यर्थे | एव शब्दो जायते शब्दादनन्तरं योज्यः तेन यस्माद्यागादनन्तरं बाह्यान्तरोभय रूपस्य देहस्य शिवीभावावेशात्मा शुद्धिर्जायते एव तस्मादसाववश्यकार्य इत्यर्थः | तथा सति हि | अधिष्ठितं शिवे नैव तमाचार्यं विनिर्दिशेत् | शिवेन सहचारित्वादाचार्य इति वक्ष्यती किं च | आत्मनिर्दहनं चैव मानसं च यदुक्तवान् | अहमित्यर्थः आत्माहविविधे देहः | विदित्वासम्यगाचार्यः पाशहास शिवः स्मृतः | सम्यग्वेदनं देहाद्यहन्ता प्रशमनेन शिवाहम्भावावेशः यागस्यास्य प्रभावमाह | यत्र यत्र स्थितो देशे यश्चैवं तु विधिं यजेत् | ब्रह्महापि समुच्येत किं पुनः शिवतत्परः || विहित महापातकोपि | भगवदिच्छा प्रचोदनाद्ये विधिमिमंमभिसन्धाय | यजेच्छ्रीभगवन्तमर्चयेत् | सोपि मुच्येत | किञ्च | सर्वावस्था गतश्चैव विषयैरनुरञ्जितः | सकृत्सम्पूज्यमुच्येत किं पुनर्यो दिने दिने || सर्वावस्थागत | इत्यादिना समयपालना समर्थो | भोगभुगपि सकृन्निर्बीजदीक्षायामर्चनान्मुच्यते | तस्मात् सततमेतदर्शनं पुत्रकाद्यैर्विधेयमित्येवं परमे तत् |) सध्वजे वायौ अ | सध्वजं वायुं | सपाशे वरुणे अ | सपाशं वरुणं सखड्गे नैर्-ऋते || सखड्गं नैर्-ऋतिं सदण्डे यमे | सदण्डं यमं सशक्तौ वह्नौ || सशक्तिं वह्निं सवज्रे इन्द्रे | सवज्रं शक्रं विद्याराजे | विद्याराजं सोमराजे सोमराजं मेघनादे | मेघनादं मन्मथे | मन्मथं विकराले | विकरालं क्रोधराजे क्रोधराजं शिखिवाहने | शिखिवाहनं कपालेशे | कपालेशमस्त्रे | अस्त्रं नेत्रे | नेत्रं कवचे | कवचं शिखायां | शिखां शिरसि | शिरो हृदि | हृदयमघोरे श्वर्यां | अघोरीश्वरीमऽघोरे | अघोरं निष्कले | निष्कलं स्वात्मनि संलीनं भावयेत् | इति मन्त्रसन्धानम् | अथ परमीकरणम् | रसां कृत्वा निरालम्भां समकायशिरोधरः | नासाग्रे दृष्टिमाधाय दिव्यं करणमुच्यते | इत्थं दिव्यकरण पूर्वं कन्दाच्छक्तिमुद्व्योध्य हृदयं प्रापयय | प्रवाह द्वयं भित्वा | सौषम्णं धामावालम्ब्य | कारणवाचक | अकार उकार मकार बिन्दु अर्धचन्द्र निरोध नाद नादान्त शक्तिव्यापिनि समना उन्मनान्तवर्णकलास्व (ब्र) ह्रस्वं (वि) दीर्घं (रु) प्लूतं (ई) सूक्ष्ममति(सदा)सूक्ष्मं परं शिवमिति | (अलोकेपि || एवं शिवो भूत्वा शिवं यजेदित्यादि दृशा प्राणादावात्मनि शिवीभावं भावयित्वा बाह्ययागं कुर्यादित्याह | इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजं शिवीभाव्यार्चना योगात् ततो बाह्यं विधिं चरेत् | इत्थमित्यन्तर्यागक्रमेण | व्योमेति शून्यम् | नन्वन्तश्चेद्यागः कृतस्तत्किं बाह्ये नेत्याशङ्क्याह | बहिर्यागस्यमुख्यत्वे सिद्ध्यादि परिकल्पिते अन्तर्यागस्संस्क्रियायै ह्यन्यथार्चयिता पशुः यस्तु सिद्धादि विमुखस्स वहिर्यजते प्रभुम् | अन्तर्महायाग रूढ्यैतयैवासौकृतार्थकः | मुख्यत्वे हेतुस्सिद्ध्यादि परिकल्पिते इति | संस्क्रिया यायिति प्राणादेः अन्यथेति यदुक्तमकृत्वा मानसं यागं योन्यं यागं समारभेत् | अशिवस्सतु विज्ञेयो न मोक्षाय विधीयते इति | तयैवेत्यन्तर्महायाग रूढ्यादेहस्य हि न्यासादिनाशिवीभावोवृत्त | प्राणबुद्धि शून्यानां त्वन्तर्यागेनेति किमवशिष्यते यद्बहिर्यागेन कार्यमिति || इहा रुरुक्षूणां बाह्यक्रमेणान्तरी रूढिर्जायते इति ||) स्च्. १५, प्. १४) (परां वृत्तिमनुध्यायन्द्रव्याण्यादौ विलोकयेत् | परामन्तर्यागनिष्पन्न भैरवावेश मयीं वृत्तिं स्फुरत्तामवलम्बमानो यागद्रव्याणि प्रोक्षणादि कल्पितसंस्कारेभ्यः पूर्वं पराद्वय ज्ञानापादितैक्यात्म महाशुद्धीनि कुर्यात् | तान्युद्दिशति || सितचन्दनकर्पूरं सुधूपं सितवाससी | पुष्पाणि दिव्यगन्धीनि तिलब्रीहि घृतादिकं || चूतपल्लवदर्भांस्तु सिद्धार्थाः खटिकां तथा | करणीं कर्तरीं चैव पाशबन्धनसूत्रकम् || वार्धानीं शिव कुम्भं च तथेद्मान्परिधीरपि | समिधो दन्तकष्टं च चरुस्थालीं स्रूवं स्रूचं || तण्डुलांश्च तथा क्षीरमेवमादीन्यनेकशः || दीक्षायाः शिवत्वा पादनात्मनः शुद्धेः कार्यत्वात्तदौचित्येन सितगुणस्य प्रधानत्वं | सितवाससी चूतपल्लवाश्च कलशवार्धान्यर्थं व्रीहयो विकिरार्थं | सिद्धार्थाः शययाद्यवसरे रक्षार्थं | खटिकाकरण्यो मण्डलार्थं | कर्तरी पाशसूत्रच्छेदाय | वार्धान्यस्र यागाय | इध्माः प्रागुक्ताः हस्तमात्राश्चतुर्विंशतिः ससिद्धस्याग्नेस्तृप्त्यर्थं | परिधयो हस्तप्रमाणाः सपत्राः शाखाः चतुस्रः कुण्ड बाह्ये दिक्षु विघ्नप्रवेशरक्षार्थं समिधो यज्ञ वृक्षोत्थाः सत्वचो? निर्वृणाः शुभाः प्रादेशमात्राः स्थौल्येन कनिष्ठाभ्यधिकाश्च या इत्युक्तः ताश्चाग्नेर्दीप्त्युत्पादनाय | दन्तकाष्ठं शिष्यार्थं | तण्डुलं क्षीरचरुं देवगुर्वर्थं | स्पष्टमन्यत् | एवमादीन्यादि शब्दान्मण्डलार्थं रजांसि | शिष्यार्थं पञ्चगव्यनेत्त्र पट्टाद्यपीति एवं द्रव्याण्यवलोक्य || सितचन्दन १ कर्पूरं २ सुधूपं ३ सितवासः ४ पुष्पाणि ५ तिल ६ व्रीहि ७ घृतं ८ चूतपल्लव ९ दर्भा १० सिद्धार्थाः ११ खट्विका १२ करणी १३ कर्तरी १४ पाशसूत्र १५ वार्धानी १६ शिवकुम्भं १७ इध्मा १८ परिधिः १९ समिधो २० दन्तकाष्ठं २१ चरुस्थाली २२ स्रूवं २३ स्रुचं २४ तण्डुलाः २५ क्षीरं २६ रजांसि २७ पञ्चगव्यां २८ ततस्त्रेपट्टानि २९ || ततोर्घपात्रमादायक्षालयेदस्त्र वारिणा | कवचेनावगुण्ठ्यैव प्रणवेन तु पूजयेत् || उदकादिभिरष्टाङ्गैः पूरये तद्वरानने || उदकं | क्षीरं | कुसुमं | कुशसर्षपतण्डुलाः सयवा अष्टाविर्याष्टमूर्तेरर्घ्यं पुर्यष्टकार्थं || अथ | प्रणवेणामनं सर्वं ततो मूर्तिं न्यसेत् प्रिये | भैरवावरणैर्युक्तां पूजयेत् तां यथा क्रमं || गन्धै पुष्पैस्तथा धूपैर्मन्त्रसन्धानपूर्वकं || भैरवेणावरणैश्च युक्तां न्यसेत् | मन्त्रसन्धान पूर्वकं पूजयेत् | किं च || स्मर्तव्यं परमं तत्वं ततश्चैवामृती भवेत् || परमं तत्वं निष्कलं पूर्वोक्त युक्त्या जपन्नमृत मुद्राप्रदर्शनेनामृती कुर्यादित्यर्थः | अर्घपात्रार्थं च || मन्त्राणां त्रितयं कल्प्यं निरोधार्थे विधौ तथा | पश्वर्घे च || विध्यर्घ पात्रं पूजार्थं निरोधार्घ पात्रं तु निरोधविसर्जनाद्यवसरोपयोगि | सुरयाकर्तव्यं यदवोचत् | पश्चादर्घः प्रदातव्यः सुरयासु सुगन्धया | पशोस्तु प्रोक्षणाद्यर्थं पश्वर्घपात्रं |) ह्रस्वादि मात्रासु प्रविश्य शक्त्यादीन्परमशिवान्तान्हित्वा द्वादशान्तावधि | श्रीनिष्कलमन्त्रोच्चार पूर्वं | गुरुमुख युक्त्या | निस्तरङ्गं धामाविश्य | ततः प्रभृति उन्मना समना व्यापिनी शक्ति नादान्त नादनिरोध अर्धचन्द्र बिन्दु मकार उकार अकार क्रमेणावरुह्य हृत्पद्मप्रतिष्ठार्पित सकलभट्टारक व्यापकत्वेन भावयेदेवं सर्वावरणेष्विति परमी करणम् || अथ प्राणापानेन्द्रियैस्समं तुटिस्थाने नासाग्रे प्रविश्य ज्योतीरसमवलम्ब्योर्थाय | परज्योतिर्मयेक्षणाभ्यां | सकलसम्भारं मायीयत्वापनुत्तये | वलोकयेदिति परदृष्ट्यावलोकणम् | अथ परावस्था | यन्निरावरणं सम्यक् सतत्वं कल्पनोज्झितम् | तत्पदं कठितं देवि साकाष्ठा सा परागतिः | इति परावस्था || अथ विधिनिरोध पश्वर्घ पात्र पूजनम् | अथ पात्रत्रयं हेमादिमृण्मयान्तं शुक्त्यादि वास्त्रेण संप्रोक्ष्य | कवचेनावगुठ्य | ओं पात्रत्रयाय नमः | इति प्रणवेण सम्पूज्य | ओं हौं पात्रत्रय मवगुण्ठयामि नमः | इत्यवगुण्थ्य | तत्र विध्यर्घ निरोधार्घ पश्वर्घ पात्राणि क्रमेण संस्थाप्य | आदौ स्ववामे मूलेन आत्मविद्या शिव प्रकृति पुरुष तत्वपञ्चकेन सम्पूज्य | तत्र क्षिति रुद्र धातृ केशव सावित्री सोम पितृ वाचां मनुभिस्तण्डुल सर्षप यवा कुसुम कुश जल तिलाक्षीरान् स्समन्त्र्य पूरयेत् | संहितया पूजामेतेषु भावनाभेदेन धूपेन निर्मलत्वाय कुर्यात् | अष्टाङ्गत्वमिहार्घस्य पूर्यष्टकार्पणाभि प्रायात् | तान्मन्त्रान्यथा | लां पृथिव्यैजगद्धात्र्यै नमः | तण्डुलान् | ओं त्रिजटोर्ध्व पिङ्गलाय रुद्राय नमः | सर्षपान् | ओं ब्रह्मणे सुरज्येष्ठाय नमः | यवान् | ओं नमो विष्णवे सुरपतये महाबलाय नमः | पुष्पान् | ज्रीं सावित्रि पापभक्षिणि हूं फट् | दर्भान् | स्वां स्वां सोमाय स्वाहा | जलं | ओं तत्सदों पितॄभ्यो नमः | तिलान् | ओं हूं वागीश्वरि वाक्प्रदे सरस्वत्यै नमः | क्षीरं | ओं फट् अस्त्राय फट् | घृतं | ओं यां रां लां वां सर्वोत्तम द्रव्योभ्यो नमः | सर्वद्रव्यान् | स्च्. १६. प्. १५) (प्रोक्ष्यस्तेन समासतः यागार्थो द्रव्यसंघातः || परा कर्त्यावष्ठम्भेनावलोक्येति शेषः | प्रोक्षणमत्र तेजो मयत्वा पादनम् ||) एतानि पात्रेषु क्षिपेत् | तेन सर्वद्रव्यप्रोक्षणं || तन्निकटे केवलेन मूलेन निरोधार्घं विभोर्यागावसानान्तं कुर्यात् || तन्निकटे पृथक् स्वदक्षे पश्वर्घपात्र पूजनम् | ओं श्लीं | पशु हूं फट् | पाशुपतास्त्राय फट् | शिष्यप्रोक्षणाय पश्वर्घपात्र पूजनम् | तन्निकटे पृथक्छिवाम्बुकार्यं | ओं हूं शिवाय नमः | इति शिवाम्बुपात्रपूजनम् | इति विधिनिरोध पश्वर्घ शिवाम्ब्वस्त्राम्बु पूजनम् | तेषु मृत मुद्रया अमृतीकरणम् | स्वात्मानं शिवस्वरूपं गन्धपुष्पादिभिस्संपूज्य | अथ शिवहस्तम् | शिवाम्भसाकरतलमभ्युक्ष्यावगुण्ठ्य | प्रक्षाल्यगन्धतोयेन हस्तं हस्तेन केनचित् | गन्धदिग्धे यजेद्देवं साङ्गमासन वर्जितम् || ब्रह्मपञ्चक संयुक्तः शिवेनाधिष्ठितः शुभः | पाशच्छेदकरः सौम्यः शिवहस्तः प्रकीर्तितः || गन्धोदकेन हस्तौ प्रक्षाल्य | ओं सोममण्डलाय नमः | वामकरे | ओं सूर्यमण्डलाय नमः | दक्षकरे | तत्करमध्यमाङ्गुष्ठाभ्यामितरकरार्पित कुसुमं अनासनं साङ्गं सवक्त्रं मूलं सम्पूज्य नाडीसन्धान मन्त्रसन्धान परमीकरणानि कुर्यात् | तद्यथा हृद (किमर्थं शिवहस्तः कार्यस्तदाह | इहलौकिके दीक्षाकर्मणि शिवात्मनाचार्येण प्रस्थूयमाणे अविशिष्टेन करेण कथं करणं इत्यस्य नित्यकर्मन्याससंस्कृत स्यापि सातिशय पाशक्षपण शिवत्वदानात्मकनैमित्तिक कर्मविशेष विसिष्टां साधकं ८ मतामादात्तं दीप्तमन्त्रचक्रन्यास तत्स्वात्मैक्यानुसन्दिध्यासित शिवात्मक कर्तृवीर्यावष्टम्भसारा शिवहस्तता प्रथममवश्यमेव विधातव्येति ||) (मन्त्रसन्धाने मुख्य प्रकारमाह || मूलमन्त्रमनुस्मृत्य हृत्कण्ठतालुमध्यगं | भ्रूमध्यं शब्दकूटं तत्तुर्यस्थानं विभेदयेत् || वामदक्षिण मध्येन विषुवत्मून? भेदयेत् | द्वादशान्तं परं नीत्वा करस्थो मन्त्रविग्रहः || अनुसन्धेय इति शेषः | परं मूलमन्त्रं | शब्दकूटमशेष वाचक शब्दात्मकं मन्त्रराशिरूपमन्तः स्वीकृतमन्त्रग्रामं | शब्दानुरूपं च कुटं | परनादात्मक नित्यस्वरूप मनुस्मृत्य वक्ष्यमाण करणबन्धमात्रार्थानुसन्धिसान्स्वेनाचार्यः | हृत्कण्ठतालु भ्रूमध्यात्मकं तुर्यस्थानं च भेदयेत् | कथमित्याह | वामेत्यादि | मध्यमार्गेण | भ्रूमध्यं यावत्करण क्रमेण | भ्रूमध्यदत्तचित्तः सव्येतरनासापुटं संस्फारण युक्तिलब्धमध्यप्राणतीक्ष्णमूच्यग्रेण बिन्दुग्रन्थिं भित्वा नायासेन नादादि ग्रन्थीनपि भिन्द्यादित्यर्थः भविष्यति चैतत् ततो द्वादशान्तं मन्त्रं नीत्वा करस्थो मन्त्रविग्रह शुद्ध्याप्त्यैवानुसन्धेयः | यथा करणस्य कर्तृवीर्यसारता भवति | नाडीसन्धानमध्याह | तस्याप्यनेन न्यायेन विलोमेन विशेद्धृदि | आत्मनो रेचके नैव पूरकेन विशेद्धृदि || नाडीसन्धानमेतद्धि श्रीशिवेन प्रकीर्तितम् | आत्मन ऊर्ध्वरेचकेन गत्वा | तस्यापीतिकरस्थस्य श्रीभगवतो विलोमेनेति द्वादशान्ताद्धृदि विशेत् पुनः | तत उल्लास्य तद्द्वादशान्तं प्राप्यते नैव पूरकेन हृदि स्वस्मिन्विशेदिति | एतनाडीसन्धानं | पूर्वोद्दिष्ट नासाक्रम नाडीसन्धान विलक्षणं | श्री शिवेन परिकीर्तितमित्यनेनास्या भेदव्याप्ति प्रदर्शकस्यो पादेयत्वमिति ध्वनति | एवं नाडीसन्धानेन स्वहृदयं प्रविश्य || व्यापकं तु शिवं ध्यायेन्मन्त्र मूर्तिमधिष्ठितम् | अन्तर्बाह्ये शिवहस्ते च स्थितां सर्वां मन्त्रचक्रमूर्तिमधिष्ठाय स्थितं श्रीशिवनिष्कलनाथं व्यापकं ध्यायेत् ||) यान्मध्यधाम्नि सौषुम्णा यथा मन्त्र मुदीरयन् भ्रूमध्यस्थं बिन्दुं भेदयित्वा | सर्वग्रन्थिविदारण पूर्वं परमं धाम द्वादशान्तमाविश्य | पुनः द्वादशान्तादवरुह्य भ्रूमध्यक्रमेण | वामनासापुटमार्गेण करस्थमन्त्रवृन्दं ज्वलद्भास्वराकारं गृहीत्वा तेनैव यथा | वामनासापुटमार्गेण भ्रूमध्यं प्रापध्य | भ्रूमध्यादपि | सूच्यग्रेणैव करन्ध्रं भित्वा | द्वादशान्तं प्रापयेदिति मन्त्रसन्धानम् | पुनः द्वादशान्ताद्भ्रूमध्यं प्रापयय भ्रूमध्याद्दक्षिणनासापुटमार्गेण रेचकं कृत्वा | करस्थमन्त्ररूपस्य विभोर्हृदि प्रविश्य तस्यकरस्थस्य विभोर्हृदयक्रमेण द्वादशान्तं प्राप्य ततः पूरकं कृत्वा | दक्षिणनासापुटेन स्वहृदये प्रविशेदिति नाडीसन्धानम् || ततः स्वहृदयात् तद्द्वादशान्ते तद्धृदये च सर्वत्र शक्र चापवत् स्वहृदयात्करन्ध्रं तावन्निष्कलभट्टारकं दीप्तं भावयेत् | इति परमीकरणम् | एवं ज्वलन्मन्त्रगणपरिपूर्णपाणिं विभाव्य मूलमुच्चार्य दक्षिणं हस्तं हृदिस्थापयेत् | वामाद्दक्षिणहस्ते पुष्पं दत्वा | स्वशिरसि स्थापयेत् | इति भास्वरशिवहस्त विधिः | स्च्. १७, प्. १६) इत्थं शिवहस्तं विधाय स (य) एवायं शिवः मण्डले हेतु कर्तृतया | वह्नौ च दीक्षाकर्मणोधिकारत्वेन शिवहस्ते च तत्कारण तया | कलशे च सर्वविघ्नविध्वंसकत्वेन | शिष्यदेहे तत्पाश शैथिल्याय स्थितः | सोहमेव साक्षाद्दीक्षा कर्तृत्वेनावस्थिअः | ये चास्य मन्त्राः साक्षाद्दीक्षा कारणत्वेन परापराः | ते ममैव | यश्चास्य कर्तव्यमनुग्राह्याणां भुक्ति मुक्त्यात्मकं तन्ममैव | इत्येवं गृहीत शिवाहम्भावः | पञ्चगव्यं साधयेत् | अथ पञ्चगव्यविधिः | मर्यादयाशालिचूलेनवा कोष्ठनवकं कृत्वा हेमादिमृण्मयान्तं पात्र नवकमानीय (पात्र सप्तकमानीय) | ओं हः फट् पात्राणि शोधयामि हः फट् | इति सप्तवारास्त्र मन्त्रित ज्ञानखड्गेन पात्राण्याभिषिच्य | शिवाम्भसा प्रोक्ष्य | ओं हैं पात्राणि वेष्टयामि हुं | ओं अनन्तासनाय नमः | इत्यासनं परिकल्प्य | ततः मध्यकोष्टादारभ्य पूपूर्वादि क्रमेण पूजयेत् | ओं शिवतत्वाय नमः | मध्ये | ओं सदा शिव तत्वाय पू | ओं ईश्वरतत्वाय आ | ओं विद्यातत्वाय द | ओं मायातत्वाय नै | ओं काल तत्वाय नमः | पश्चि | (पञ्चगव्यसंस्कारं वक्तुमाह | दर्भं सङ्गृह्यचास्त्रेण सप्तवाराभि मन्त्रितम् | पञ्चगव्याय पात्त्रं तु शोधयेत् तु शिवाम्भसा || पवित्राः परमागवः सर्वदैवत विग्रहाः गोमूर्ते स्वः सरिन्मुख्या तटस्था मृश्चगोमयं अमृतं तत्पयोदिव्यं तद्विकारोदधि स्थितम् | तद्घृतं तद्गतः सारस्तत्सदामरतर्पणमिति श्रीमत्पराख्य संहितोक्तातिशयानि पंचगव्यानि समाह्रियन्ते यस्मिंस्तत्पञ्चगव्यं कुशोदकं शोधयेदिति क्षालयेदित्यर्थः | अस्त्रेण क्षालयेत् तच्च कवचेनावगुण्ठयेत् | तस्य च दर्भासनं ध्रूवेणैव मण्डलं तु प्रकल्पयेत् | वर्तुलं स्वस्तिकं वा | तस्योपरि न्यसेत् पात्रं गोमयादीनि चाहरेत् | पृथक्पात्र स्थितान्येव प्रोक्ष्यास्त्रेण शिवाम्भसा | अथ || गोमयं तु हृदामन्त्र्य गोमूत्रं शिरसादधिः | शिखया वर्मणा क्षीरमस्त्रेणाज्यं कुशोदकम् || धाम्ना तु मन्त्रयेत् पश्चाद् गोमयादीनि योजयेत् | तथा पूर्वसंस्कृत पात्रे तु स्वमन्त्रैः || यै एव पृथक् पात्रेषु मन्त्रिता तैरेवाभिमन्त्र्य योजयेत् | गोमयादिकं | संयोज्य मन्त्रयेत्पश्चात्तैरेव हृदयादिभिः सर्वैरेव युगपदेव संस्कृतोप्यत्र विशेष संस्कारार्थमासन पूर्वमन्त्रन्यासमाह | प्रणवेन तु सङ्कल्प्य अनन्तं मूर्तिविग्रहं | धामाङ्गानि च बाह्ये तु सम्पूज्या वरण स्थितम् || मन्त्रसन्धानकं कृत्वा अमृतीकरणं तथा | शिवामृतं तत्सिञ्चिन्त्य सम्पूज्यस्थापयेत् ततः || मूर्तिश्चिद्रूपा विग्रहः श्रीसकलभट्टारकः धाममूलमन्त्रः || आलोके || गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेत्मुखैः | ऊर्ध्वान्तैरङ्ग षट्केन कुशाम्ब्वेन्ने?न चोक्षयेत् || भूमिं शेषं च शिष्यार्थं स्थापयेत् पञ्चगव्यकं | पञ्चगव्यानि यत्रास्मिन् कुशाम्बुनि तदुश्यते || मन्त्रयेदित्यर्थात् पृथक्पृथक्पात्रस्थं | ऊर्ध्वान्तैरिति | तेन गोमूत्रं सद्योजातेन यावदीशानेनाज्यमिति क्रमः ||) ओं नियतितत्वाय वा | ओं पुरुषतत्वाय उ | ओं प्रकृति तत्वाय ईशाने | इति नव पद्यां नवकोष्ठेषु अन्तस्तत्व नवकं विन्यस्य || मध्य पूर्वदक्षिण पश्चिमोत्तरेषु न्यसेत् | ओं सुप्रतिष्ठाय नमः मध्ये | ओं सुशान्ताय नमः पूर्वे | ओं तेजोवत्यैन दक्षि | ओं अमृताख्याय पश्चि | ओं शुक्रोदयाय उत्तरे | इति पूजितेषु पञ्चसु पात्रेषु | वरुण | कुवीरेन्द्र | यम दिङ्मध्य पदगेषु गोमय गोमूत्र | घृतदधिदुग्धानि | अर्धाङ्गुष्ठैक द्वित्रिचतुष्पलमितानि | यदिवा | गोमय घृते अर्धाङ्गुष्ठमिते | पलं पलमन्यत् स्थापयित्वा | ईशानदिशि पलमात्रं कुशाम्बु च स्थाप्यं | ततः एक द्वित्रि चतुः पञ्चवारं नेत्रमन्त्रं विनाङ्गैः गोमय गोमूत्र दधिदुग्ध घृतानि अभिमन्त्रयेत् | यथा | (एकवारं) ओं हां हृद गोमये पश्चे | (द्विवारं) ओं हीं शिरसे गोमूत्र उत्तरे | (त्रिवारं) ओं हूं शिखादध्नि पूर्वे | (चतुर्वारं) ओं हैं कवदुग्धे मध्ये | (पञ्चवारं मन्त्रयेत्) ओं हः अस्त्राय घृत दक्षे | ओं हौं नेत्रेभ्यो कुशोदके || ईशाने || अथवा ओं लं सद्योजात वक्त्राय नमः गोमये | ओं वं वामदे गोमूत्रे (सोमशम्भौ गोमयस्यार्धमङ्गुष्ठं गोमूत्रं पलसम्मितम् | दध्नः पलत्रयं प्रोक्तं क्षीरं पञ्चपलानि च || पलद्वयं घृतस्यैव प्रमाणं पाञ्चगव्यकम् | कृष्णायागोमयं मूत्रं नीलायाः कापिलं घृतं | सुरभेदधि शुक्लायास्ताम्रायाक्षीरमाहरेत् || अभावे सर्ववर्णानां कपिलैका प्रशस्यते | सौवर्ण रौप्य पालाशं पात्रं ताम्रस्य वा शुभं || पञ्चगव्यविधानेन शिवकूर्चमिदं स्मृतम् || कु शो हौं ५ दधि ह्नं ३ गोमू हीं २ क्षीरं हैं ४ घृर्तं ६ हः गोम हां १ गोमयं तु हृदा पश्चे गोमूत्रं शिरसोत्तरे | दधि (९) प्राच्यां शिखया (१) तु क्षीरं मध्ये तु वर्मणा || नेत्रेणोदकमीशाने घृतमस्त्रेण दक्षिणे | क्रमेण सर्वं मूलेन मीलयित्वा शिवं यजेत् || श्रीमत्पराख्यसंहितायामपि गोमयं गोपा?लं सर्पि?दधिक्षीरं तु पञ्चमम् | सद्योजातेन वामेन रूपिणा पुरुषेण च | ईशानेन यथासङ्ख्यं गोमयाद्यभिमन्त्रयेत् || कुशोदकं तु गायत्र्या धाम्ना (निष्कलन) संहितयाथवा (अङ्गषट्केन) || स्च्. १८, प्. १७) (अत्र च श्रीविश्वावसुगुरवः || पञ्चगव्यविधयेथ सम्भवात्पात्र सप्तकमुपाहरेच्छुभं | मृण्मयावधि मणेः समुक्षितं चास्त्रतः कवचो तवगुण्ठितं | प्राच्यथोनवपदीं शिवादिना प्रार्च्यतत्वनवकेन मध्यतः | सुप्रतिष्ठित सुशान्ति दीप्तिमत्मामृतात्मकमथोसरत्रवत् | पात्रपञ्चकमथात्रमध्यगे वर्ममन्त्रितपयः शिवाणुना | पूर्वगे दधि घृतं च दक्षगे चास्त्रमन्त्रपरिमन्त्रितं न्यसेत् | अप्यगे हृदणुनाथगोमयं गोजलं च शिरसात्रसौम्यगे | ईशगे कुशजलं च नेत्रतः सप्तशः समभिमन्त्रितं न्यसेत् | पलानि वेदाग्नि भुजेन्दु संख्या न्यङ्गुष्ठतोर्ध्वं क्रमशोपि दध्यात् | हृदादिभिः सप्तमभाजनेथ संमिश्रयेत् तानि कुशासनस्थे || कुशो ह्नं ६ दधि वं ४ गो मू यं २ क्षीरं लं ५ घृ तं रं ३ गो म क्षं १ ओं रं अघोर सर्पिषि | ओं यं तत्पुरु दध्नि | ओं क्षं ईशान क्षीरे | ओं साङ्गेन धाम्ना कुशोदकं मन्त्रयेत् | ततः संयोजन विधिः | ओं हां लं अमृतात्मानं गोमयं | ओं हीं वं रत्नोदयात्मनि गोमूत्रे योजयामि नमः | ओं हीं वं रत्नोदयात्मानं गोमूत्रं ओं हः रं तेजोवदात्मनि घृते योज || ओं हः रं तेजो वदात्मानं घृतं ओं हूं यं सुशान्तात्मनिदध्नि योज | ओं हूं यं सुशान्तात्मदधि | ओं हैं क्षं सुप्रतिष्ठात्मनि क्षीरे योजयामि नमः | इति स्वं स्वं मन्त्रमुदीर्यगोमयादीनि क्षीरान्तानि संयोज्य तत्सहितक्षीरपात्रं कुशाम्बुनि मूलेन संयोजयेत् || ततः | ओं ईश्वरतत्वं | मायातत्वे मायातत्वं नियतितत्वे नियतितत्वं प्रकृतितत्वे सन्दध्यात् | तदपि सर्वं पृथक् कृतपद्मोपरि पूर्वं संस्कृते पात्रे क्षिप्त्वा पात्राधः | ओं अनन्ताय नमः | इत्यासनं दत्वा | पुनरङ्गषट्केनालोडयेत् | एवमालोड्य संहितयाभिमन्त्र्य | अमृतमुद्रयामृतीकृत्य | तत्र शिवं सावरणं अर्चयित्वा मन्त्रसन्धानादि कृत्वा | अनेन सर्वं द्रव्यजातं यागधाम च संस्कुर्यात् | इति पञ्चगव्यविधिः || ततः स्ववामे ऊर्ध्वोर्ध्व पङ्क्तिक्रमेण गुरुपूजा कार्या | अत्रैव श्रीगणपतिपूजनं | ओं गूं गां गणपतये नमः | ओं गीं सः गणपति वल्लभायै नमः | ओं गुरवे नमः | (पंचोपयोगात्पात्राणि पवित्राण्यस्त्रमन्त्रतः | मध्य स्थिते पयः | पात्रे वर्मणा || शिखयादधि प्राक्स्थे? स्त्रेण घृतं याम्ये || हृदा गोमयमाप्यगे || गोमूत्रं शिरसा सौम्ये || पञ्चगव्यस्य पाक्षिकः तुलाप्रमाण नियमो नेत्रे नैशे कुशोदकम् | इति श्रीगुरुपुस्तिकायाम् |) इत्यादि | ओं वां वागीश्वर्यै नमः | वायौ | ओं क्षां क्षेत्रपालाय नमः (उदङ्मुखः) || अत्रैव कलशपूजनं | अथदक्षदिक्स्थः सौम्यास्यः | यागभूमावस्त्रेण सप्ताभिमन्त्रितदर्भविष्ठरेण प्रोक्षणम् | अथ मनसा | ओं हः फट् | उल्लेखनं करोमिहः फट् | एवं मृत्स्नोद्धारं क | शल्यापनयनं | मौक्तिका पूरणं क | समीकरणं क | ओं हैं कवचाय हुं सेचनं क | आकोटनं क | सम्मार्जनं करोमि हः फट् | एवं मनसा कृत्वा | लेपनं पञ्चगव्यगन्धोदकाभ्यां | ओं हः फट् | लेपनं करोमि हः फट् | इति *? शुद्धिः | (तदुक्तं मतङ्गे तिलालाजायवाश्चैव दूर्वासिद्धार्थकाः शुभाः | कुसुमानि च शुक्लानि सुगन्धीनि च भूरिशः || ईषश्चन्दनपङ्केनमिश्रोयं विकिरः शुभः |) ततः पुष्पचन्दन सिद्धार्थ दूर्वालाजातिलयवाम्बुभिरस्त्रेण विकरक्षेपं कुर्यात् | भूमिं मुक्ताफल परिपूर्णां ध्यायेत् | दर्भचामरेण यागस्थण्डिलस्य ईशानकोणे डौकनम् | गन्धाम्भः पञ्चगव्याभ्यां स्थण्डिलमभ्युक्ष्य | श्रियं द्वाराभिमुखीं विष्टरोपरि पूजयेत् | श्रियोध्यानं | ओं ध्रूवेण श्रीयमावाह्य पद्महस्तां सुलोचनां | शुक्लपुष्पानिमुञ्चन्तीं सर्वलक्षणसंयुतां || निलोत्पलदलश्यामां यागहर्म्यावलोकिनीम् | ब्रह्मस्थानोपविष्टां च द्वाराभि मुख भद्रगां || स्च्. १९, प्. १८) (ऐशानीं दिशमाश्रित्र पञ्चगव्येन मण्डलं | गन्धोदकेन संलिप्य शिवाम्भोस्त्रेण प्रोक्षयेत् || अनन्ताद्यासनं दत्वा ध्रूवेणामण्डलावधिः | सर्वदोष विनिर्मुक्तं कुम्भं चन्दनलेपितं || स्वस्तिकाद्यैश्चर्चयित्वा यवसिद्धार्थ धूर्वभिः | सितसूत्रेण संवेष्ट्य वस्त्रपूतेन चाम्भसा || सम्पूर्य सर्वतच्छन्नं चूताश्वत्थादि पल्लवैः | रत्नगर्भौषधी युक्तं सहदेवादिभिर्गणैः || प्रोक्ष्यचास्त्रेण सङ्गृह्य कवचेनावगुण्ठितं | आसनस्यो परिन्यसेत् मूलमन्त्रमनुस्मरन् || अमण्डलावधीति परव्याप्त्या ब्रह्मविलशक्तिव्यापिन्यात्मकानि ब्रह्मविष्णुरुद्राधिष्ठिता नियानि सूर्यादि मण्डलानि | तदन्तं न तु शिवान्तं | मन्त्रशक्तिभिरुग्राभिः शोषनिर्दहनादिभिः | शरीरं शोधितं यस्मात् तदर्थमभिषेचनमिति भाविनीत्या प्यायनप्रयोचानस्योपसंहार प्रधानशिवान्तासनत्वानुपपत्तेः | यवादि भिरन्तर्गतैरुपलक्षितं | सूत्रेण वर्मभूतेनेति | रत्नगर्भमौषधीयुक्तं च सहदेवादिभिर्गणैरिति ओषधीनां वरैकैव सहदेवाशिवागम इति सारसङ्ग्रहे कथितत्वात्सहदेवा प्रधानौषधि लोहधातु बीजपुञ्जैर्युक्तमित्यर्थः मूलमन्त्रेत्यादिना कलशस्य परचिन्मूर्त्तिमयत्व मुक्तम् || द्वाराभिमुखस्य यागधम प्रविशतः शिष्यादेः कल्याण कारिणीं मोक्षलक्ष्मीं सम्पूजयेत् ||) गन्धपुष्पादिभिः पूज्य शिवकुम्भं प्रपूजयेत् | ओं हुं हां हुं श्रीलक्ष्मी आगच्छेत्यादि | ओं हां श्रीं श्रियै नमः | श्रामित्यङ्गानि | न ऋ ॠ ऌ ॡ थ च ध ई ण उ ऊ ब क ख ग घ ङ इ ह व भ य ड ढ ठ झ ञ ज र ट प क ल अ स अः ह ष क्ष म श अं त ए ऐ ओ औ द फ ह्रीं मालिन्यै नमः | इति मन्त्रेण पुष्पाञ्जलि क्षेपः | तत ईशाने स्वस्तिक द्वयं लिखेत् | द्वारार्चादिग्बन्धनादि सकलीकरणं मन्त्रार्घपात्रं स्वात्मपूजा गुरुपूजा आसनपक्षस्यो | (सुतन्त्रे अनन्ताद्यासनं दत्वा ध्रूवेणामण्डलावधि | आमण्डलावधीति परव्याप्त्या ब्रह्म विलशक्ति व्यापिन्यात्मकानि ब्रह्मविष्णुरुद्राधिष्ठितानि यानि सूर्यादि मण्डलानि तदन्तं न तु शिवान्त मासनं |) ओं अनन्ताय नमः | आधारशक्ति कदा अङ्कुर नाला धर्माय नमः इत्यादि | अधर्माय इत्यादि | ऋग्वेदाय इत्यादि | कृतयुगा इत्यादि | अधच्छादनाय मध्यच्छादनाय ऊर्ध्वच्छादनाय पद्मादलेभ्यो केसरेभ्यो कर्णिकायै सूर्यमण्ड पत्रेषु सोममण्डला केसरेषु वह्निमण्डला कर्णिकायां | ओं विद्यापद्म कर्णिकायै नमः | तदूर्ध्वे | ओं ग्लूं गां गणपतये नमः | गामित्यङ्गानि वुभुक्षोस्वत्रै | वासने | ओं श्लीं पशु हूं फट् पाशुपतास्त्राय फट् | ततः | ओं इन्द्राण्यै वज्रहस्तायै नमः | ओं आग्नेययै शक्तिह | याम्यै दण्ड ह | निर्-ऋत्यै खड्ग ह | वारुण्यै पाश ह | वायव्यै ध्वज ह | कौवीर्यै गदा ह | ऐशान्यै त्रिशूल हस्तायै नमः | (विजये || षड्डर्थ?मासनं न्यस्य प्रणवेण ततोपरि | गामित्यनेनविघ्नेशं गन्धपुष्पादिभिर्यजेत् || अस्याङ्गानि गकारेण षट्दीर्घस्वरयोगतः | त्रिनेत्रमुदितं ध्यात्वा गजास्यं वामना कृतिम् || विसृज्यसिद्धिकामस्य महास्त्रमनु पूजयेत् | दत्वानन्तं तथाधर्मं ज्ञानं वैराग्यमेव च || ऐश्वर्यं कर्णिकां चेति षडरूमिदमासनं | अस्योपरि न्यसेद्ध्यात्वा खड्गखेटकधारिणं || विकरालं महादंष्त्रं महोग्रं भ्रुकुटी मुखम् | स्वाङ्गषट्कसमोपेतं दिङ्मात्र्यपरिवारितम् || सार्णैरेवाङ्ग सट्कं तु फट्कार परिदीपितम् | तद्रूपमेव संचिन्त्य ततो मात्रष्टकं यचेत्? || इन्द्राणीं पूर्वपत्रेष्वेति ||) इति देव्यष्टकं तत्र रक्षार्थं पूजयेत् | इति स्थण्डिलशुद्धिः | तद्दक्षिणे कुमारश्च पूज्यः | ओं क्लूं कां कुमाराय नमः | कामित्यङ्गानि || तत्रैशाने पञ्चगव्यसुगन्धसलिलशिवाम्भोभिरुपलिप्ते स्वस्तिकादिमण्डलके हेमादि मृण्मयान्तं वस्त्र प्रतोददका पूरितं | (आपूरणं अशेष विश्वमयभावनम् |) शूताश्वर्थपल्लवबीजौषधि दुर्वाक्षत समन्वितं | फलरत्नगर्भं सोपवीतं सप्तदर्भकृत विष्टरसहितं | शिवकलशमानीय | अस्त्रेण | ओं हः फट् प्रोक्षयामि नमः | इति संप्रोक्ष्य | ओं हैं अवगुण्ठयामि नमः | इति कवचेनावगुण्ठ्य | मूलेनाभ्यर्चयेत् | एतद्वामेस्त्र वार्धानीमेवं भूषितां | अस्त्रेणाभ्यर्च्य | षट्त्रिंशद्दर्भपिञ्जरनिर्मितं तालमितं ज्ञानखड्गमानीय | ओं हः फट् | षट्त्रिंशत्तत्वरूपाय ज्ञानखड्गाय नमः | इति संपूज्य | वेणीबोधासिमेतयोर्न्यस्य | अङ्गुष्ठेन कुम्भं मुष्ट्यावार्धानीं | इति भुक्तौ | ततो मुक्तौ | वार्धानीमादौ मुष्ट्या | परतः कुम्भमङ्गुष्ठेन स्पृष्ट्या | नेत्रस्पर्शः कार्यः | कलशं वास्त्रककलशं गृहीत्वा | यागवेस्मनिजलधारापातं नयन्भ्रमेत् | इति यागवेश्मरक्षा यतः (आलोके | उपयाम ऊर्ध्वग्रन्थिर्ज्ञानखड्गतया प्रतीतोवेण्याकारोदार्भस्सन्निवेशः | यदाहुः | दर्भाणां तालुमानेन कृता षट्त्रिंशता दलैः | सप्तजप्ता शिवास्त्रेण वेणीबोधासि रुत्तमः || आलोके || नन्वेवं कुम्भपूजनेन किं स्यादित्याशक्याह | कुम्भस्थाम्बु समापत्ति वृंहितं मन्त्रवृन्दकं | तेजोमात्रात्मनाध्यातं सर्वमाप्यायये द्विधिम् || अतः कुम्भे मन्त्रगणं सर्वं सम्पूजयेद्गुरुः | त्रिकं या मलतैक्राभ्यामेकं वा मन्त्रदैवतम् || सर्वं विधिं इति वक्ष्यमाणं अत इति सर्वविध्याप्यायकारित्वात् ||) स्च्. २०, प्. १९) कलश तत्क्षिप्तः तत्र तं स्थापयेत् | इति स्थिरासन क्रमः | ततश्चलासन क्रमः | विकराणामायुध कुपाणामिवोपरि अस्त्रकलशस्य स्थितिः | अनन्तरं नाडीसन्धानं | मन्त्रसन्धानं | परमीकरणं च कुर्यात् | वामनासापुटेन हृदयं प्रविश्य | सूक्ष्मवायुं विश्रान्तिं लब्ध्वा तद्दक्षिणनासापुटेन निर्गच्छेत् | तथैव देवी वक्त्राङ्गनां प्रवेश विश्रान्ति निर्गमनानि कृत्वा | तज्जीवांशके वह्नौ समभि वाहनीय स्वजीवांशं देवान्तस्ततोलीनं भावयेत् | ध्यात्वा | तद्वामेन निर्गत्य स्ववामेन स्वहृदयं प्रवेशयेत् | स्वात्मदेवात्मनोरेकी भावचिन्तनं कुर्यात् | इति नाडीसन्धानम् | आत्मानं विष्णौ विष्णुं ब्रह्मणि | ततो ब्रह्माणं लोकपालं ब्रह्ममन्त्रं पठन्तमीशाने लीनं भावयेत् | ईशानं वै श्रवणे | वै स्रवणं | वायौ | वायुं वरुणे वरुणं नैर्-ऋते | नैर्-ऋतं यमे | यममग्नौ अग्निमिन्द्रे | इन्द्रमस्त्रे अस्त्रं नेत्रे | नेत्रं कवचे | कवचं शिखायां शिखां शिरसि सिरो हृदये हृदयं देव्यां देवीं परमेश्वरे परमेश्वरमात्मनिलीनं ध्यायेदिति मन्त्रसन्धानम् | ततः स्वहृदयान्मूलमुच्चार्य हृत्कण्ठतालु भ्रूमध्य ब्रह्मरन्ध्र भेदनक्रमेण अकार उकार मकार बिन्दु अर्धचन्द्र निरोध नाद नादान्त शक्तिव्यापिनी समना उन्मना क्रमेण द्वादशान्ते विश्रान्तिमनुभूय | तथैव देवान्तर्मन्त्रं सर्वपरिमाणाधिष्टकल्पं चित्स्वरूपं प्रसादाभिमुखं कृत्वा वतारं चिन्तयेत् | पुनः मूलाङ्गैः कलशद्वय पूजनम् | ततो निष्कलमन्त्रस्याष्टोत्तर शतं जपं कुर्यात् | निष्कलास्त्रस्याप्येवमेवजपं कुर्यात् | विकरानस्त्रकलशस्य लोकेशास्त्ररूपान्ध्यायेत् | ततो वार्धान्यस्त्रं भगवतो दक्षिण हस्तस्थं गर्जन्तं कल्पान्ताग्नि ज्वालाभीषणं अनेकवक्त्रायुधधारिणं विघ्न विध्वंसाय ध्यायेत् || घृतं क्षीरं शर्करं च क्षोद्रं द्राक्षा तथैव च | पञ्चामृतं तु नैवेद्यं दत्वा विज्ञापयेद्विभुम् || इति नैवेद्यं निवेद्य | भूमिस्थ जानुरञ्जलिं बद्ध्वा देवदेवं विज्ञापयेत् | ओं आगच्छसन्नीधिंभज रक्ष मुखं पूरयाशुच्छिद्राणि | हरदुरितं परमेश्वर | विश्वात्मन्विश्वशक्तिस्त्वं | ओं भगवंस्त्वत्प्रशादेन यागं निर्वर्तयाम्यहम् | सन्निधानं सदा मह्यमविघ्नार्थं विभो कुरु | स्च् २१, प्.२०) तथा | ओं गुरुस्थेन त्वयै वाह आज्ञप्तः परमेश्वर | अनुग्राह्यास्त्वया शिष्याः शिवभक्ति प्रचोदिताः || तदेतद्विविधाः प्रोक्तास्त्वमेषां कुर्वनुग्रहम् | मदीयां तनुमाविश्य ये नाहं त्वत्समो भवे || यथेदं कृत यत्नेन भगवन्मुखमन्दिरं | रक्षणीयं जगन्नाथ सर्वाध्वरवरं त्वया || इति भगवन्तं विज्ञाप्य वस्त्र द्वयेनाच्छादयेत् | ततः कलशमण्डलपूजा | यथा आवरण त्रयान्वित स्वस्वचिह्नाङ्कितान्दिगीशान्ग्रहान्भैरवांश्च विलिख्य | द्वारदेशाग्रतो गणेश कुमारौ दक्षिण वामयोः श्रियं च तयोर्मध्ये पूजयेत् | आदौ वायौ गणेशपूजा | आदिध्यानं | ओं ग्लूं गां गणपतये नमः | गामित्यङ्गानि || दक्षे कुमारपूजा | ओं क्लूं कां कुमाराय नमः | कामित्यङ्गानि तयोर्मध्ये श्रियं पूजयेत् | ओं ह्रीं श्रीं श्रिये नमः | ह्रां श्रामित्यङ्गानि | ततो बहिः स्ववामे ऊर्ध्वोर्ध्व क्रमेणाक्षोटेषु गुरुपूजा | ततो मध्ये सकलभट्टारकं सदेवीकं निष्कल सहितं पूजयेत् | ओं त्रिपञ्चनयनमित्यादि ध्यानं | श्रीमदघोरमन्त्रेण निष्कलेन च स देवी केन सामृतेश्वरेण मध्यपद्मं पूजयेत् | (येषां देवानां मन्त्रोदयो विशेषतः शास्त्रेषु नास्ति | तेषां प्रणवस्तन्नामयुक्तः कार्यः || यद्यपि कपालेशादि मन्त्राणां वक्त्राणि नोक्तानि तथाप्याराधकैर्नैष्कल वक्त्राङ्गानि प्रयोज्यानि इत्यस्मन्गुरुवरसम्प्रदायः ||) ओं कपालेश भैरवाय नमः | पूर्वे | ओं शिखिवाह आग्ने | ओं क्रोधराजभैः दक्षे | ओं विकरालभै | नैरृ | ओं मन्मथभै पश्चि | ओं मेघनादभै वायौ | ओं सोमराजभै उत्त | ओं गूं विद्याराजभै ईशाने | ततो आदौ ग्रहपूजा ततो लोकपाल पूजा | ओं लूं इन्द्राय वज्रहस्ताय नमः पूर्वे | ओं अग्नये शक्ति | ओं यमाय दण्ड ह | ओं निर्-ऋतये खड्ग ह | ओं वरुणाय पाश ह | ओं वायवे ध्वज ह | ओं कुवीराय गदा ह | ओं ईशानाय त्रिशूल ह | ओं ब्रह्मणे पद्म ह | ओं अनन्ताय हलहस्ता | ततोग्रहपूजनं | आदौ मध्ये मूलेन (२) सूर्यः | ओं रं अग्नये (१) नमः | ओं चन्द्रमसे (२) नमः | ओं वूं वरुणायपाशहस्ता | ओं अङ्गारकाय (२) नमः | ओं कुंकुमाराय (१) नमः | ओं बुधाय (२) नमः | ओं हूं विष्णवे (१) नमः | ओं जीवाय (२) नमः | ओं लूं इन्द्राय (१) नमः | ओं भार्गवाय (२) नमः | ओं ऐं वद २ वाग्वादिनि (१) स्वाहा | ओं शन्नैश्चराय (२) नमः | ओं प्रंप्रजापतये (१) नमः | ओं राहवे (२) नमः | ओं गां गणपतये नमः | ओं केतवे (२) नमः | ओं नमो भगवते रुद्राय | ओं ह्रीं उत्तानपादात्मजाय (२) ध्रूवाय नमः | ओं आं ब्रां व्रं ब्रह्ममणे नमः | ओं ह्रीं अगस्त्याय (१) नमः | ओं ह्लां (१) अनन्ताय हलहस्ताय नमः | स्च् २२, प्.२१) इति ग्रहावरणम् | ततः सुदक्षे | ओं अग्न्यादित्याभ्यां नमः | ऊर्धोर्ध्वपंक्तिक्रमेण कलशमण्डलाद्बहिः ग्रहावरणं पूजयेत् | ओं ह्रां क्षं क्षूं हेरुकाय नमः पू | ओं ऐं ह्रीं लां क्षें त्रिपुरान्तकाय नमः अग्ने | ओं ह्रीं हूं क्षीं अग्निवेतालाय नमः द | ओं ह्रीं क्षूं हूं अग्निज्विह्वाय नमः नै | ओं ह्रीं ह्रीं हूं कुर्पुराय नमः पश्चि | ओं कालाय नमः वा | ओं क्षां युक्षीं करालिने नमः उत्तरे | ओं अयुं क्ष्मीं एकपादाय नमः ऐ | ओं क्षूं युं क्षां भीमरूपाय नमः मध्ये | ऊर्ध्वे डामराय नमः | अधः हाटकेश्वराय नमः ||) अन्यान्यपीष्टदेवता मन्त्राणि परिवारतया सम्पूज्य | ततो नैवेद्यं निवेद्य | निरोधार्घं दत्वा | योनिमुद्रया नमस्कारं कुर्यात् | इति कलशस्थापनविधिः || ततो यजमानमानीय पूजां कुर्यात् | ओं नौमि स्वाञ्मे?त्यादि | ओं ह्रीं सः पवित्रकमर्पयामि नमः | आशीर्वादेन तिलकं कङ्कणं च बद्ध्वा | स्वात्मने शिवस्य रूपाय समालभनं गन्धो नमः | अर्घो नमः | पुष्पं नमः | संसार मरुकान्तारेति धूपे | कालाग्नि रुद्ररूपेति दीपे | द्विभूजं चैक वदनमिति सूर्ये | स्वात्मने शिवस्वरूपाय धूपदीपसङ्कल्पात्सिद्धिरस्तु धूपो नमः | दीपं नमः || अद्य तावत् | महागणपतये कुमारायेत्यादि धूपो नमः | दीपं नमः | ततः पृच्छामारभेत् | ओं गायत्र्यै नमः | ओं भूः भुवः स्वः तत्सवितुरित्यादि | बहुरूपाय वि | कोटराक्षाय धी | तन्नो घोरः प्र ३ | इत्यादि | अद्य तावत् | महागणपतेरित्यादि | षडध्वदीक्षाफलप्राप्त्यर्थं कलशपूजनं यागपूजनमर्चामहं करिष्ये | ओं कुरुष्व | तिलसर्षपयवान्विकीर्य || ओं महागणपतेः | इदमासनं नमः | पूर्ववत्सर्वं पठित्वा | आसनं दद्यात् || पुनः दर्भकाण्ड द्वयं गृहीत्वा | ओं महागणपतये | इत्यादि | युष्मान्धा पूजयामि || ओं महागणपतिमित्याद्यावाहयिष्यामि | ओं आवाहय | तिलान्विकीर्य | ततः आवाहनानि पठेत् | ओं आवाहयाम्यहं देवं गणेशं स्वरपूजितम् | सदैव विघ्नहन्तारं सर्वकामफलप्रदम् || रक्तवर्णं महातेजरक्तस्रग्धामभूषितं | बलिः पुष्पं चरुश्चैव धूपोयं प्रतिगृह्यताम् || ओं ग्लूं गां गणपतये नमः | ओं आवाहयाम्यहं देवं कुमारं षण्मुखं शुभम् | मयूरासनमारूढं भक्तानामभ्यप्रदम् || रक्तवर्णं | बलिपुष्पं | ओं क्लूं कां कुमाराय नमः || आवाहयाम्यहं देवीं श्रियं लक्ष्मीं सरस्वतीं || तथैव विश्वकर्माणमन्याश्च द्वारदेवताः | नानारूपधरा देव्यो नानास्रग्वस्त्रभूषिताः || बलिः पुष्पं ओं श्रीं श्रियै नमः || ततो मध्ये स्वच्छन्दभैरवमावाहयेत् | ओं आवाहयामि वसुचन्द्रभुजं महेशं स्वच्छन्दमच्छमणिशुभ्रपरात्मरूपम् | रुद्रासनं त्रिनयनं शशिखण्डशुभं पञ्चाननं परमकारुणमप्रमेयम् | स्च्. २३, प्. २२) ओं हूं अघोरे | इति मूलं | ओं आवाहयामि शशिखण्डकिरीटमीशं श्रीमत्कपालिनमुपात्तकपालमालम् | पञ्चाननं त्रिनयनं दशबाहुरम्यं चन्द्रार्धचूडशरणं मखरक्षणार्थं | ओं क्ष्म्र्यूं कपालेश भैरवाय नमः १ | आवाहयामि शिखिवाहनभैरवं तं रक्तप्रभं ललितबालकपालमालम् | पञ्चाननं त्रिनयनं दशबाहुरम्यं चन्द्रार्धचूडशरणं मखरक्षणार्थं | ओं ह्रूं शिखिवाहन भै २ | ओं आवाहयामि नवमेघनिभप्रभःभिस्तं क्रोधराज ममलं स कपालमालम् | पञ्चाननं | ओं क्षूं क्रोधाराजभै ३ | आवाहयामि विकरालमथेशमूर्तिं वह्निप्रभं ललितबालकपालमालं | पञ्चाननं | ओं झ्रूं विकराल भै ४ | ओं आवाहयामि भगवन्तमथेश मूर्तिं तं मन्मथं ललितबालकपालमालं | पञ्चाननं | ओं ह्वू-औं मन्मथ भै ५ | ओं आवाहयामि धृत धूम्रशरीरकान्तिं उं मेघनादममलं सकपालमालम् | पञ्चान | ओं ह्र्यूं मेघनाद भै ६ || आवाहयामि धृतो समनिभप्रभाभिस्तं सोमराजमधिकं सकपालमालम् | पञ्चाननं | ओं हुं सोमराज भै ७ | ओं आवाहयामि सितरत्ननिभं च विद्याराजं विराजितशिरस्थकपालमालं | पञ्चाननं || ततो तद्बहिः ग्रहाणामावाहनानि | ओं आवाहयामि दिननाथमहं वहन्तं दक्षेक्ष सूत्रमथ धूम्रपदं ध्वजं च सप्ताश्वगं करयुगेन च रस्मिं पुञ्जं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थं | ओं ह्रां ह्रीं सः सूर्याय नमः १ | इति मध्ये || ओं आवाहयामि शशिनं परिधारयन्तं दक्षेक्षसूत्रमथधूम्रपदं ध्वजं च | वामे करे मृग युगेन च रश्मि पुञ्जं त्र्यक्षं त्रिनेत्रशरणं मखरक्षणार्थं | ओं स्रूं चन्द्रमसे पूर्वे २ | आवाहयामि धरणी तनयं वहन्तं दक्षेक्षसूत्रवलयं शिखिवाहनस्थम् | वामेकमण्डलुधरं सितवर्णरम्यं त्र्यक्षं | ओं ह्रूं अङ्गारका आग्ने ३ | आवाहयामि सितमातु किरीटहारं दक्षेक्षसूत्रवलयं गरुडः सनस्थं वामे कमण्डलुधरं सितवर्णरम्यं त्र्यक्षं | ओं स्ह्र्यूं बुधाय दक्षे ४ | आवाहयामि धृतमेक गुरुं सुराणां दक्षेक्षसूत्रवलयं गजवाहनस्थं | वामे कमण्डलुधरं धृतपीतवर्णं त्र्यक्षं | ओं र्सूं जीवाय स्च्. २४, प्. २३) आवाहयामि कविमीश्वरमुग्ररूपं दक्षेक्षसूत्रवलयं कवि (शिखि) वाहनस्थं | वामे कमण्डलुधरं धृतशुक्लवर्णं त्र्यक्षं | ओं ह्रीं भार्गवा ऊतरे ६ | आवाहयामि शनिमन्तकमुग्ररूपं दक्षेक्षसूत्रवलयं नरवाहनस्थं | वामे तथैव कलशं परिधारयन्तं त्र्यक्षं | ओं क्षमरयरूं शनैश्चरा नैर्-ऋते ७ | आवाहयामि धृत कुण्डलमालिकं तं शीर्षा कृतिं कृतस्वधाहरणं च राहुं सिंहासन स्थितमतीव करालवक्त्रं त्र्यक्षं | ओं धूं राहवे वौधौ ८ | आवाहयामि भुजगैर्दशभिस्समेतं दक्षेक्षसंयुतमथो कलशं च वामे | केतुं तमोनिकर कृष्णतनुं सुदीर्घं त्र्यक्षं | ईशाने ९ || ओं आवाहयामि ध्रूवराजमहं सुरेयं तारापतिं धृतसहस्रगुणं सुशुद्धं | देवादिदेवगण चर्चित पादपीठं त्र्यक्षं | ओं ह्रीं उत्तनपादात्मजायध्रूवाय नमः | ऊतरे | आवाहयामि द्विजराजमगस्त्यमीशभक्त्यान्वितं कृत समुद्र सहर्षपानं | भक्तानुकम्पकमथो परमेशभक्तं त्र्यक्षं | ओं ह्रीं आगस्त्याय नमः | दक्षे || एतद्बहिः लोकपालानामावाहनानि कुर्यात् | ओं आवाहयामि सुरराजमहं गजस्थं दक्षेक्षवज्रधरमर्चित चन्द्रशुभम् | छत्रं च शक्तिसहितं परिधारयन्तं वामेत्रिनेत्रममलं मखरक्षणार्थम् | ओं लूं इन्द्राय वज्रहस्ताय नमः || १ || ओं आवाहयामि दहनं धृतवेदमुद्रासाक्षस्रजं शुकगतं निजदक्षहस्ते | वामेग्नि कुण्डसहितं च तथैव दण्डं त्र्यक्षं त्रिलोचनपरं मखरक्षणार्थं | ओं रूं अग्नये शक्ति ह || २ || ओं आवाहयामि यममीशपरं त्रिशूल वज्राङ्कितं महिष पृष्ठगतं त्रिनेत्रं | वीणां च दण्डसहितां परिधानयन्तं वामे चतुर्भुजमहं मख | ओं टूं य मख || ३ || ओं आवाहयामि निर्-ऋतिं शशिखण्डमौलि पूजापरं च सृणिखड्गकरं सुदक्षे | वामे च खेटकसुपाशसमन्वितं तं वृस्यासन स्थितमह मख | ओं क्षूं निर्-ऋत || ४ || ओं आवाहयामि वरुणं शशिखण्डमौलि पूजापरं च सृणि खड्गकरं सुदक्षे | वामे च खेटकसुपाश समन्वितं तं नक्रासनस्थितमहं मख | ओं वूं वरुणा यपा || ५ || आवाहयामि धृतवायुपुटं स्वहस्तयुग्मेन दक्षिणत ईश परं च वायुम् | वामे तथाक्ष सहितं स्वकमण्डलुं च चञ्चन्मृगासनगतं मख | ओं यूं वायुवे || ६ || प्. २४) ओं आवाहयामि धनदं नरवाहनस्थं चिन्तामणिं निजकरेण तथाक्षसूत्रम् | सिंहध्वजेन सहितं शिवपुस्तकं च विभ्रन्तमीश्वर परं मख | ओं कुं कुवीरा || ७ || ओं आवाहयामि शशिखण्डकिरीटमीशमक्ष त्रिशूलमपि दक्षभुजे वहन्तं | वा लिङ्गददर्पणकरं च तथैव वामे गोवाहनं त्रिनयं मख | ओं मूं ईशाना || ८ || आवाहयामि कमलासनसंस्थितं तं मुद्रां श्रुतेः परिवहन्तमथाक्षसूत्रं | दण्डं कमण्डलुमथो सततं वहन्तं ब्रह्माणमीश्वरपरं मख | ओं आं ब्रां व्रं ब्रह्मणे पद्म || ९ || ओं आवाहयामि सततं निजदक्षं भागे विभ्रन्तमक्षसहितं सहलं च विष्णुम् | वालिङ्गसंयुतमथोमुसलं च वामे कूर्मासनं शिवपरं माधर | ओं ह्लां अनन्ता || १० || अथ देवीनाम् | आवहयाम्यहं देवीं महात्रिपुरसुन्दरीम् | सूर्यकोटि प्रतिकाशां कामेश्वरसमन्विताम् || पं पं पं महात्रिपुरसुन्दरी पाडकभ्यो नमः || ओं आवाहयाम्यहं दुर्गां शूलचक्रासिसाधकान् | विभ्रतीं च धनुः शङ्खखेट तर्जनिकां मखे || ओं ह्रीं दुं दुर्गायै नमः | ओं आवाहयाम्यहं देवीं शारिकां परमेश्वरीम् | कारिकां सर्वसिद्धीनामस्मिन्यज्ञे मनोरमे || ओं ह्रीं श्रीं हूं फं आं शां सारिकायै नमः || ओं आवाहयाम्यहं देवीं शारदां वरदां मखे | शाण्डिल्ये नार्चितां नित्यां श्रीशैलस्थां च षड्भूजाम् || ओं श्म्रीं शारदायै सुधा | ओं आवाहयाम्यहं देवी ज्वालापर्वतवासिनीं | ज्वालामुखीं महायज्ञे महादेव समन्विताम् || ओं ह्रीं श्रीं हुं ज्वालाभगवत्यै नमः | ओं आवाहयाम्यहं लक्ष्मीं देवीं सर्वसमृद्धिदाम् || पद्मासनां पद्मनाभवक्षसूलसमाश्रयाम् | ओं हूं सर्वेषां हस्तान्समठनं देहि हूं वित्तलक्ष्म्यै स्वाहा || ओं आवाहयाम्यहं देवीं वेडां भगवतीं मखे | शीधुपात्रकरां हारभूषणां हसिताननाम् || ओं ह्रीं ह्स्रूं ऐं क्रं मं वीडा भगवति हंसरूपिणि स्वाहा | ओं आवाहयाम्यहं देवीं राज्ञीं राज्य प्रदायिनीम् || भूतीश्वरार्ध देहस्थां सिंहासन कृत स्थितिम् | ओं ह्रीं श्रीं रां राज्ञी भगववत्यै नमः || ओं आवाहयामि भुजगैस्तु विराजमान मयाम्भरं त्रिनयनं च त्रिशूलहस्तम् | श्यामाननं दुरितदुःखहरं सुरेशं क्षेत्त्रेशमद्भुततरं मख रक्षणार्थम् | ओं क्षां क्षेत्रपालाय नमः || ततः | ओं फट् | अस्त्राय फट् | कुङ्कुमा गुरु | महागणपतये इत्यादि पाद्यं नमः || पुनः | ओं फट् | अस्त्राय फट् | स्वां स्वां सोमायेत्यादि | महागणपतये | इदं वः अर्घ्यं नमः || महागणपतये गन्धार्घपुष्पं नमः | धूपो नमः | दीपो नमः | वसो नमः | एतासां देवतानामर्घ्य | अन्नं नमः २ || अपोशानं | दक्षिणा | एतादेवता सद | ततो गुडशर्करा घृतदधि नानाफलान्नैवेद्यं निवेद्य | अष्टोत्तरशतं जपं कुर्यात् || ततः पुर्वोक्त क्रमेण पूजितांल्लोकेशान्स ग्रहान् स भैरवान् | श्रीसकलभट्टारकाज्ञां स्रावयेत् | ओं भोः भोः गणेश्वर स्थानं निर्विघ्नं कुरु साम्प्रतम् | हरार्चनं करिष्यामि शिष्यस्यत्राण हेतवे भगवन्तो ग्रहास्सर्वे येन्ये चोपग्रहामताः | ते सर्वे सन्निधानं मे कुर्वन्तां विघ्नशान्तये || ओं भोः भो इन्द्रत्वया स्वस्यां दिशि विघ्नोपशान्तये | सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया || ओं लूं इन्द्राय वज्रहस्ताय नमः || भोः भो अग्ने | भोः भोः यम | भोः निर्-ऋते | भोः वरुण | भोः भोः वायो | भोः कुवीर | भो ईशान | भोः भोः ब्रह्मन् | भोः भोः विष्णो | इत्थं मन्त्रैर्लोकेशान् शिवाज्ञां संश्राव्य नैवेद्यं निवेद्य | निरोधार्घं दत्वा | श्रीनवनाभयागलिखनोपयोग्य वेदिका रूपां यागभूमिं यायात् || तत्र याग भूमौ पात्रत्रयं विधिनिरोध पश्वर्घरूपं विधाय | प्रागुक्त विधिना स्वस्वमन्त्रेण सम्पूज्य यागभूमिं विध्यर्घतः संप्रोक्ष्य | कवचेनावगुण्ठ्य | अस्त्रेण सन्ताड्य | अमृत मुद्रयामृती कृत्य || (२) पूर्वे ईशानादाग्नेयान्तं ओं गुरवे नमः | परमगुरवे | परमेष्ठि गु | परमाचार्याय | आदिसिद्धेभ्यो | इति श्रीगुरुपूजां विधाय (२) || वायव्यकोणे (१) श्रीगणेशं पूजयेत् | ओं ग्लूं गां गणपतये नमः | गामित्यङ्गानि | इत्थं श्रीगणेशं संपूज्यं (१) || यागवेदि मध्ये आसनं विन्यसेद् यथा | ओं अनन्ताय नमः | ओं आधार श कन्दा अंकुरा नाला ऋं धर्मा ॠं ज्ञाना ऌं वैराग्या ॡं ऐश्वर्या | एते पादुकास्सितरक्तपीतकृष्णाः अग्नेरीशान्तं सिंहरूपास्त्रिनेत्राः पूजनीयाश्च | ओं अधर्मा अज्ञाना अवैराग्या अनैश्वर्या एते गात्रकास्सितरूपास्सिंहासन पट्टिकारूपाः पूर्वाद्युत्तरान्तम् | ऋग्वेदाय यजुर्वेदा सामवेदा अथर्व एतद्वेदचतुष्टयं गात्र पादुकाभ्यां सहसन्धान कीलकरूपं विभाव्य विन्यस्य च पूज्यम् | ओं कृतयुगाय त्रेतायुगा द्वापर्युगा कलियुगा इतीशानादि कोणेषु | ओं अधच्छादनाय तमोगुणाय नमः | स्च् २७; प्. २६) (सादरं सम्मुखी भावमावाहनमिहोच्यते || १|| भक्त्यानिवेशनं चैव स्थापनं कथितं बुधैः || २ || जगन्नाथ तवास्मीति यत्स्वीकारोपदर्शनम् | विभुक्त्वेपि तदेशस्य सन्निधानं न चान्यथा || ३ || आकर्मकाण्डपर्यन्तं सन्निधायो परिक्षयः | सशम्भोर्व्यापकत्वेपि निरोधः परिगीयते || ४ || शिवस्यानन्द बोधस्य बोधानन्द मयस्य च | अभक्तेष्व प्रकाशोयस्तद्भवेदवगुण्ठनम् || ५ || सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकताम् | अङ्गानामङ्गिनासार्धं विदद्यादमृती कृतिम् || ६ || आधारशक्त्यादि प्रेतान्तं श्रीपरमेश्वरस्य योगशब्दवाच्य स्वशक्तिरूपपीठमासनं |) मध्यच्छा रजोगुणा ऊर्ध्वच्छा सत्वगु इत्यम्बुजकर्णिकाधस्तदासनयोगपीठं (१) प्रेतन्तमिष्ट्वा | ओं सदाशिवाय महाप्रेतासनाय नमः | इत्थं विन्यस्य तत्र सकलभट्टारकं स देवीकमावाहयेत् | ओं भगवंस्साङ्गसवक्त्र सपरिवारसकलनिष्कलभट्टारक स देवीक आगच्छ २ सन्तिष्ठ २ सनीधत्सु २ सन्निरुद्धो भव २ अवगुण्ठनं करोमि नमः | अमृतीकरोमि नमः | इत्यावाह्य पूजयेत् || प्रथमं श्रीसकलभट्टारको (सवक्त्रः साङ्गः) नेत्रनाथ सहितो पूज्यः | तत अघोरेश्वरी | ततो निष्कलभट्टारकस्स षडङ्गः | ओं विद्येश्वरेभ्यो नमः | | गणेश्वरेभ्यो लोकेश्वरेभ्यो मातृभ्यो गृहेभ्यो नागेभ्यो अस्त्रेभ्यो इति सङ्क्षिप्त सप्तावरण पूजां विधाय | अन्यान्यपीष्ठदेवतामन्त्राणि परिवारतया सम्पूज्य मन्त्रसन्धान नाडीसन्धान परमीकरणानि कुर्यात् | यथा | आत्मनो दक्षिणनासापुटेन निरीय देवस्य वामनासापुटेन प्रविश्य | तद्धृदयं प्रापयय तद्द्वादशान्त क्रमेणामृतं गृहीत्वा | देवस्य वामेन निरीय स्वहृदयं प्रविशेदिति नाडीसन्धानम् || अत्मानं लोकपालावरणे लीनं भावयित्वा | तं भैरवावरणे | तं षडङ्गे | षडङ्गानि श्रीदेव्यां | देवीं सकलभट्टारके | तं निष्कलभट्टारके लीनं भावयेत् | इति मन्त्रसन्धानम् | ततस्स्वहृदयान्मूलमुच्चार्य हृत्कण्ठतालु भ्रूमध्य ब्रह्मरन्ध्र भेदनक्रमेण | अकार उकार मकार बिन्दु अर्धचन्द्र निरोध नादनादान्त शक्ति व्यापिनी समना उन्मना पर्यन्तं प्रापयय | तत्र द्वादशान्ते शिवपदे स्थाप्य | पुनस्तेनैव क्रमेण | हृदयं प्रापयय | तत्र स देवीकं साङ्गं | सपरिवारं चिन्तयेत् | इति परमीकरणं | इत्थं नाडीसन्धान मन्त्रसन्धान परमीकरणानि कृत्वा | ओं घोरे जुं थघोरे | सः घोरघोरतरे | ह्रीं सर्वतः सर्वसर्वे | नमस्ते रुद्ररूपे अस्त्राय फट् | इत्यघोरोत्कीलनविद्यां पठित्वा | भूततृप्तिं क्षेत्रेश पूजनं च विधाय | आचमनं कृत्वाग्नि कुण्डसमीपं यायात् | अथाग्नि कुण्डलक्षणम् | तत्राग्नि कुण्डं गुरु सव्यकराङ्गुष्ठपञ्चविंशतिविस्तृतं (२५) | मध्ये वृत्तमस्यार्धतः (१२) खातं | तद्बहिः मेखलात्रयं सर्वसममूर्ध्वे चतुरङ्गुला (४) तदधस्त्र्यङ्गुला (३) | तदधोद्व्याङ्गुलामेखलेति (२) | चतुरस्रं चतुरङ्गुलं (४) सर्वसमं एवं सर्वमेक पञ्चाशदङ्गुलमेव || (चतुरस्राचतुरङ्गुलोच्छ्रितावेदिः || अथाग्निकार्यं संक्षिप्य वामदेवस्य कल्पयेत् | नैकधाम्नि पृथग्द्वारार्चास्तेत्यन्येन चापरे | गुरुसव्यकराङ्गुष्ठैः पञ्चविंसतिभिर्मतं | वृत्तमस्यार्धतः खातं मेखलात्रितयोच्छ्रिति | चतुर्भिरङ्गुलैरग्र्या? त्रिभिर्मध्यापराद्वयैः | व्यासश्चैवमधो वेदिचतुरङ्गुलिसस्स्मिता | नाभिरश्वरूपत्त्राभाव्यासोच्छ्राय नवाङ्गुला त्र्यङ्गुलाग्रे कुण्डं नित्ये प्रशस्यते || अथान्य शास्त्राभिप्रायः || हस्तमात्रे ततः कुण्डे षडंशेनोर्ध्वमेखला | मध्यमाद्विचतुष्केन द्वादशांशाधमा भवेत् || दैर्घ्याश्च पार्श्वतस्तद्वत् षण्मध्याग्रेङ्गुल त्रयम् | हस्तस्य षडंशेनाङ्गुल चतुष्टयेन ऊर्ध्वमेखला | मध्यमाद्विचतुष्केनाष्टमांशेनाङ्गुलत्रयेणेत्यर्थः | अधस्तनी द्वादशां शाद्ध्यङ्गुला भवेत् | खातमधश्शून्यम् | ओष्टमेखलाखातान्तरालेन्तर्दृश्यमानावयव विशेषः अश्वरूपत्त्रसदृशीं नाभिं योन्याकारां नाभिः पुरस्तादवयव विशेषः दैर्घ्याश्च | पार्श्वतश्च नवाङ्गुलाम् | षडङ्गुलानि मध्ये अग्रे च अङ्गुलत्रयं यस्यास्ताम् | एतश्च कुण्डम् | उक्तं साहस्रिके होमे | सहस्रसङ्ख्याक इत्यर्थः | द्विगुणं चायुते मतं | चस्त्वर्थे अयुते दशसाहस्रे | त्रिपञ्चायुतहोमे तु द्विगुणं तद्विधीयते कुण्डं वै लक्षणोपेतं लक्षहोमे प्रशस्यते || त्रिंशत्पञ्चाशत्सहस्रपर्यन्ते होमे द्विगुणमिति चतुर्हस्तम् | लक्षहोमे ततोपि द्विगुणं अष्टहस्तं द्विगुणमिति काकाक्षिवत् लक्षणोपेतं हस्तमानानुसारो चित्रमेखलादिमानं || इति गुरुपुस्तिकायां अमृतेश विधाने चोक्तम् ||) स्च् २८; २७) (श्रीसोमशम्भौ | तिर्यग्जातिसमं खात मूर्ध्नमेखलया सह | बहिरेकाङ्गुलः कण्ठो द्व्यङ्गुलः क्वचिदागमे || तद्बहिर्मेखलास्तिस्रो वेदवह्नि यमाङ्गुलैः | षड्बाणाब्धि त्रिपक्षैर्वा क्रमशः पञ्चमेखलाः || अङ्गुलैष्षड्भिरेकैर्वा कुण्डकारा इमे मताः | तासामुपरि योनि स्यात् मध्येश्वरू?दलाकृतिः || उच्छ्रायणाङ्गुलं तस्या विस्तारेणाङ्गुलाष्टकम् | दैर्घ्यं कुण्डर्धमानेन कुण्डेकण्ठसमोदराः || ) नाभिरश्वरूदलाकारा द्वादशाङ्गुलोच्छ्रिता | नवाङ्गुला विस्तृता | मध्ये षडङ्गुला | अग्रे त्र्यङ्गुला | ओष्ठं एकाङ्गुलं चेति | एतदेकहस्तं कुण्डं | द्रव्यवृद्धौ सत्यां द्विहस्तं कुण्डं | तत्र सर्वं द्विगुणं कुर्यात् | (नालमेखलयोर्मध्ये परिधेस्थापनाय च | रन्ध्रं कुर्यात्तथा विद्वान्द्वितीयमेखलोपरीति ||) (कलश गृहाद्यदि परगृहे अग्निकुण्डं स्यात् तदा द्वारपूजां वास्तुपूजां च कुर्यात् | यद्येकस्मिन्नैव गृहे कलशाग्नि कुण्डौ स्यातां | तदा द्वारपूजादि न कुर्यात् | तदुक्तं अथार्चालयतो न्यत्र वह्नि धाम यदा तदा | द्वारपालार्चनं कुर्याद् दिग्बन्धना वगुण्ठनं | यदात्वर्चालये होमस्तदैतन्नोप युज्यते इति || अपरे तु कार्यमेवेति वदन्ति ||) इत्यग्निकुण्डलक्षणं | इत्थं सिद्धाग्निकुण्डसमीपं गत्वा कलशस्थ स्वरेशादाजां गृहीत्वा | हुडुङ्कार नमस्कारान्कृत्वा | (भक्तिर्वैवश्योन्मिषन्नादामर्शमयोध्वनिः मुख वाद्या परपर्यायः हुडुङ्कारः||) उदग्रासने उपविश्य | ओं आत्मासनाय नमः | इत्यासन शुद्धिं कृत्वा | स्वदक्षेस्त्रार्घपात्रं कुर्यात् | कुण्डस्य परितः पूजयेत् | ओं उमायै नमः | इत्यादि | द्वारपूजां कुर्यात् | गां गणपतये नमः | इत्यादि | एवं द्वारपूजां कृत्वा | प्राणायामं स्वात्मपूजां च कृत्वा | मूलेन साङ्गेन विद्यार्घं पूर्ववत्पूजयेत् | तन्निकटे केवलेन मूलेन निरोधार्घं पू० | (मुष्टी बद्ध्वावरारोहे अङ्गुष्ठौ तलमध्यगौ | निष्ठरेति समाख्याता मुद्रेयं रोदिनी विभोः |) निष्ठुर मुद्रां च प्रदर्शयेत् | ततः स्वदक्षे नाभिसमीपे मूलेन साङ्गेन पाशुपतास्त्रेण शिष्यप्रोक्षणार्थं पश्वर्घं कुर्यात् | तन्निकटे | ओं हूं शिवाय नमः | इत्यनेन शिवाम्बपात्रपूजनम् | इति कलशपञ्चकं स्वैः स्वैर्मन्त्रैस्संपूज्य | ओं हः फट् षट्त्रिंशत्तत्त्वरूपाय ज्ञानखड्गाय नमः | इति ज्ञानाखड्गं सम्पूज्य | (ज्ञानखड्गेन) तेनास्त्रार्घ पात्रात्कुण्डसंस्कारान् कुर्यात् | यथा | ओं हः फट् प्रोक्षणं करोमि फट् || १ || (प्रोक्षण विशेषणात्सन्ताडनं सङ्गृहीतम् |) (अवगुण्ठनं रक्षार्थं |) ओं हैं अवगुण्ठयामि हुं | इति लिङ्गमुद्रया वगुण्ठनं | इति संस्करद्वयं साक्षात् || २ || (एते च प्रोक्षणादयः शोषणान्तास्त्रयोदश कुण्डनिष्पत्यवसरे निष्पन्नेपि वा तत्र क्रियाशक्त्यात्म परमेश्वर रूपसम्पत्तये भावनया कर्तव्याः |) अथ भावनया | ओं हः फट् | उल्लेखनं करोमि फट् | (खननं उल्लेखनम्) || ३ || ओं हः फट् मृत्स्नोद्धारं क (अशुद्धमृदपासनम्) || ४ || ओं हः फट् प्रोक्षणं क (परदृगवलोकनानन्तरं प्रोक्षणं शुद्ध्यर्थम्) || ५ || ओं हः फट् | पूरणं क || ६ || ओं हः फट् | समीकरणं (समीकरणं लेपः) क || ७ || ओं हः फट् | सेचनं क (अद्भिर्योजनम्) || ८ || ओं हः फट् | कुट्टन क (काठिन्यापनयनं कुट्टनम्) || ९ || ओं हः फट् | सम्मार्जनं क || १० || ओं हः फट् उपलेपनं (गोमयेनोपलेपनम् |) || ११ || ओं हः फट् | पुनः प्रोक्षणं क || १२ || ओं हः फट् शोषणं करोमि हः फट् || १३ || (अलोके || शिवस्य या क्रियाशक्तिस्तत्कुण्डमितिभावनात् | परमः खलुसंस्कारो विनाप्यन्यैः क्रियाक्रमेः |) (अथात्र वागीश्वर्यवतारयोग्यतां कर्तुमस्त्रेणाभिमन्त्रण वज्रीकरणगृहीकरणानि || आलोके || शिवस्यया क्रियाशक्तिस्तत्कुण्डमिति भावनात् परमः खलुसंस्कारो विनाध्यन्यैः क्रिय ध्रूमैः) | इति कुण्डसंस्काराः | ओं क्रियाशक्त्यात्मने कुण्डाय नमः | इति प्रणवेण कुण्डपूजा (गन्ध पुष्पाभ्यां संपूज्य) | ओं हः फट् कुण्डमभिमन्त्रयामि नमः | इत्यस्त्रेणाभिमन्त्रणम् || १ || ओं हः फट् वज्रीकरणं करोमि फट् || २ || (वज्रीकरणमस्त्रेण रेखा पूर्वापरास्त्रयः | यामसौम्य मुखी चैकावज्रमेतत् प्रकीर्तितम् || उल्लेखनव्यापारेणैवैतत्कार्यं यद्वा पूर्वापरखातदर्भ त्रय मध्ये दक्षिणोत्तरायतं दर्भकाण्डमेकं क्षिप्त्वावज्रसंस्थानेन कुण्डस्य दार्ढ्यं जनयेत्) ओं हः फट् | बहिरन्तश्च दर्भाच्छादनं करोमि फट् || ३ || (किं चासिनैवाग्नि कुण्डं दर्भैः पूर्वाग्र संस्तरैः स बाह्याभ्यन्तरं च्छाद्यं गृह हेत्वर्थमीश्वरि | निर्विघ्न गृहं सम्पादयितुं ||) इति उभौ संस्कारौ चैवं || १६ || (वागीश्या महत्तरकस्यासनं शुद्धगोमयेति) ततः कुण्डदक्षे | शुद्ध? गोमयगोलकमध्ये | पूर्वरचितं | चतुष्पञ्चासद्दर्भमयं ब्रह्माणं स्थापयेत् | तत्र पुष्पं तत्र | (कुण्डस्य दक्षिणे भागे शुद्धगोमयमासनं | दर्भेण विष्टरं पुष्पं प्रणवेण प्रकल्पयेत्) ओं ब्रह्मासनाय नमः | ततः ओं ब्रह्मनां आगच्छ २ सन्तिष्ठ २ सन्निध्त्स्व २ सन्नि रुद्धोभव || २ || स्च् २९; प्. २८) ओं अवगुण्ठयामि नमः | ओं अमृतीकरोमि नमः | ब्रह्मना पाद्यं गृहाण नमः | इत्यादि | अथ ध्यानम् | ब्रह्माचतुर्मुखो रक्तः चतुर्बाहुविभूषितः | कृष्णाजिनोत्तरीयस्तुराजीवासनसंस्थितः || कमण्डलुधरो देवि दण्डहस्तस्तथैव च | अक्षमालाधरो देवः पद्महस्तस्सुलोचनः || ध्यात्वापत्त्रेषु तं न्यसेत् सर्वकिल्विषनासनम् | ओं ब्रह्मन् सन्निहितो भव नमस्ते | अथवा ओं ह्लां भगवते चतुर्वेदेश्वराय गायत्री सहिताय ब्रह्मणे नमः | इति पाद्यादिना पूजयेत् | (पूर्वसौम्याग्र भागाभ्यां विष्टरं तस्य चोपरि | पुष्पं तस्योपरिष्टात्तु हृदये नैव पूजयेत् || वागीशीं च समाहूय प्रणवादि नमोन्तगाम् |) (त्रिकोणं षट्कोणं वृत्तं लिखेत् | एतद्वागीशी आसनम् | अन्यशास्त्र कथितमपि | गृहमध्यलाभाय चतुष्पथम्) तदनुदर्भद्वयेन कुण्डमध्ये चतुष्पथे कल्पिते विष्टरोपरि पुष्पं तत्र | (वागीशस्येयं वागीशी पराशक्तिः) ओं वागीश्यासनाय नमः | इति प्रणवेणासन पूजां विधाय | ओं हां भगवति वागीश्वरि | आगच्छ २ | सन्तिष्ठ २ | सन्निधत्स्व २ | सन्निरुद्धा भव २ | ओं अवगुण्ठयामि नमः | ओं अमृती करोमि ननः | ततः | (पादार्थम्भम्भः पाद्यम्) ओं हां भगवति वागीश्वरि पाद्यं गृहाण नमः | इति पाद्यादिना सम्पूज्य | ध्यानम् ओं नीलोत्पलदलस्यामामृत्तमश्चारुलोचनाम् | सर्वलक्षण सम्पूर्णां सर्वावयव वभूषिताम् || ध्यात्वा चैवं विधां देवीं स्थाप्येत् कुण्डमध्यतः | ऋतुकाल इवोत्तानां शिरसैशानसंयुताम् || पूजयेद्गन्धपुष्पाद्यैर्भवमन्त्रमनुस्मरन् | ओं हूं हां वागीस्यै नमः | (देवीं द्योतमानां वाक्शक्तिं कुण्डस्य क्रियाशक्त्यात्मनो मध्ये स्थापयेत् | अवस्थितिं बन्धयेत् | उत्तानां ऊर्ध्वधाम्नि प्रसरात्मक तननरूपां | अत-एव चारुलोचनं प्रकाशो यस्या | नीलोत्पलदलस्यामत्वं मायीय रूपां पेक्षमस्या ऋतुकालः शुद्धविद्यात्मवह्न्यादि जननोन्मुख्यं शिरसापरारूपेणैशाने स्वातन्त्र्य भट्टारके संस्थितां नित्यसम्बद्धामीशानदिशि निष्ठशिरसं च किं कुर्वन् | भवति तेन तेन सकल ब्रह्मभङ्ग्यादि रूपेणेति श्रीभवो निष्कलभट्टारकस्तस्य मन्त्रमनुस्मरन् | तत्सत्तासमाविष्टः ||) (मध्यमे कुटिले कृत्वा तर्जन्युपरि संस्थिते | अनामिका मध्यगते तथैव हि कनिष्ठिके || सर्वा एकत्र संयोज्योथङ्गुष्ठ परिपीडिता | एषा तु प्रवरामुद्रा योनि मुद्रेति या स्मृता ||) इति गन्धादिभिः पूजयेत् | ईशशिरस्कामुत्तानामृत्तमतीं भावयित्वा वागीश्याः सन्निधानाय योनि मुद्रां प्रदर्शयेत् | ततोग्निमरणि दव सूर्यकान्ताढ्य द्विजगृहोपनीतमानीय | (ताम्रपात्रे शरावेवा आनये ज्ञातवेदसम् | शिवशुक्रमिति ध्यात्वा विद्या योनौ विनिक्षिपेत् ||) (क्रव्यादः श्मशानिकोग्निः) ओं हः फट् क्रव्यादं निष्कर्षयामिहः फट् | इति दर्भकाण्ड द्वयं प्रज्वाल्य नैर्-ऋते क्षिपेत् | ओं भैरवाग्नेः क्रव्यादशुद्धिरस्तु स्वाहा | इत्याहुति पञ्चकं तिलैः | एवं क्रव्यादशुद्धिं विधाय | ओं हः फट् संप्रोक्षयामि नमः | इति सम्प्रोक्ष्य || १ || ओं हैं अवगुण्ठयामि नमः | इत्यवगुण्ठ्य || २ || ओं रं अग्नये नमः | इति सम्पूज्य || ३ || (परामृता पादनरूपं पूजनमस्य कुर्यात् |) शुक्रवद्ध्यात्वा || ४ || (अयमग्निः शुक्ररूप एव इति ध्यानं कृत्वा) || मूलमुच्चार्य वामनासापुटेनाग्निं शुक्ररूपं हृदि पूरकेन प्रविश्य | स्वचैतन्यैकीकारं नीत्वा दक्षिणनासापुटेन बहिः पात्रे रेचयेत् | ओं चैतन्यमर्पयामि नमः | इति मन्त्रः || ५ || इति चैतन्यार्पणम् | ओं हूं ज्ञानशक्त्यात्मने अग्नये नमः | (इति पूजनम्) ओं हामित्यङ्गानि || ६ || ओं हूं अमृती करोमि नमः | इत्यमृत मुद्रयामृतीकरणम् | वामे खेटक ध्यानेन स्वात्मानं भैरवरूपं ध्यात्वा | प्. २९) (आलोके एतदेव व्याप्तिगर्भीकारेण प्रपञ्चयति | इच्छातः क्षूभितं ज्ञानं विमर्शात्म क्रियापादे | रूढं ज्ञात्वादि पंचाङ्गविस्पष्टं जाज्वलीत्यलं || इह परानन्दोल्लास चमत्कार मयादौत्सूक्त्याज्जातक्षोभं सङ्ज्ञानं स्वविमर्शनमात्रसारायां स्वातन्त्र्य लक्षणायां क्रियायां विश्रान्तं | सर्वज्ञस्सर्वकर्ता च व्यापकः परमेश्वरः | स एवाहं शैवधर्म इति दार्ध्याच्छिवो भवेदिति भङ्ग्य सर्वज्ञत्वादिभिरनन्तशक्तित्वस्य स्वतन्त्रतयैव स्वीकारात्पञ्चभिर्गुणैर्विस्पष्टं जाज्वलीति सर्वत्र परप्रमातृतयैव प्रस्फुरतीत्यर्थः | अथ च परस्पराभिष्वङ्गानुबन्धिनोभिलाषादुल्लसितं वीर्यरूपं संकल्प रूपिण्या वागीश्वर्याः क्रियात्मके सृष्टिधामन्यलंप्राप्तप्ररोहं सत्सर्वज्ञत्वादि रूपैः प्ंचभिर्विद्यांगैस्संस्कार्य तया परामृष्ट जाज्वलीति | गर्भाधानक्रमेण नामकरणपर्यन्तं बहिस्सिद्धिमियादित्यर्थः ||) स्वयमेवाहं शिवः | इति दार्ढ्येन भैरवाभिमानं गृहीत्वा || ७ || वह्निं शुक्ररूपं ध्यात्वा | वागीशीं मायारूपां ध्यात्वा | ओं भ्रामयामि नमः | इति कुण्डो परित्रिः परिभ्राम्य || (योनिक्षोभाक्त?माभ्राम्य) योनिमुद्राकार करद्वय गृहीत पात्रस्थितमग्निं तस्या वागीश्या योनौ | ओं हूं योजयामि नमः | इति कुण्डे वह्निं क्षिपेत् | संस्काराः || ९ || (तदुश्च मेखला संस्थैः प्रागग्रैरुदगग्रगैः हुतभुग्वेश्मनोदर्भै अक्षवाटं प्रकल्पयेत् | योनि प्रच्छादनं कुर्यात् |) ततोस्त्रेण कुण्डं संप्रोक्ष्य || १ || ओं वागीश्याः योनिं प्रच्छादयामि नमः | इति प्रागग्रैरुदगग्रैः दर्भैर्योनि प्रच्छादनं || २ || ओं हः फट् | (देव्यागुप्त्यर्थमक्षवाटंजवनिका स्थानीयं रक्षार्थमूर्ध्वमुखैर्दर्भैर्न्यसेत् |) अक्षवाटकरोमि हः फट् | इत्यष्टसुदिक्षूब्धमुखैर्दर्भैरक्षवाटः || ३ || ओं हः फट् | वागीश्याः कङ्कणं बध्नामि नमः | इति सप्तास्त्रमन्त्रेण दर्भविष्टरं कङ्कण रूपं वागीश्यादक्षहस्ते चिन्तयेत् (दक्षहस्ते पुंगर्भार्थं कङ्कणबन्धः) || ४ || इति संस्कार चतुष्टयं कृत्वान्यान् संस्कारांस्तिलाहुतिभिस्त्रिभिस्त्रिभिः कुर्यात् | ओं हां अग्निगर्भाय नमः | (इति पूजनम्) ततस्तिलैः | (अथगर्भाधानं) ओं लं अग्नेः गर्भाधानं करोमि स्वाहा || ३ || ओं हां अग्नेः गर्भाधानं सम्पद्यतां स्वाहा ३ | संस्कारः (इति गर्भादानं) || १ || (अथ पुंसर्वनम्) ओं हां अग्ने पुमान्भव नमः | (आलोके तेनाङ्ग पंचकेनैव हुतिं दध्यात् सकृत् सकृत् | जन्माद्यखिल संस्कार शुद्धोग्निस्तावता भवेत् || जन्मन आदिगर्भाधानादि नखिलसंस्कारस्तच्चादिर्यस्य नामकरणादेरित्येक शेषः | तेन गर्भाधान पुंसवन सीमन्तोन्नयन जातकर्म नामकरणाख्यस्य संस्कार पञ्चकस्यानेन सिद्धिरिति || नन्वेतावतैव कथमेवं स्यादित्याशङ्क्याह | पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः ||) (पुंसवनमाह | हृदा वै जल बिन्दुं तु दर्भाग्रेणात्र पातयेत् | गन्धपुष्पादिभिः पूजां शिखयाकारयेत् ततः || त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् | पुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते | जलबिन्दुं पुर्यष्टक रूपं जीवमभिसन्धान्तं | पुमान्भवनम इत्यन्तेन प्रयोगेन अत्रेत्याहिते गर्भेक्षिपे च्छिखया नैष्कल्या | ऊत्तरेणेति वकारेण | पुंस्त्वमुपचयः कार्ये शक्तत्वं | अपचयः स्त्रीत्वं ||) इति कुशाग्रस्थाप्कणेन सिक्त्वा | (जलबिन्दुं पुर्यष्टकरूपं जीवमभिसन्धान्तं ||) ओं हूं अग्नये पुंसे नमः | इति सम्पूज्य | ओं वं अग्नेः पुंसवनं करोमि स्वाहा ३ | ओं हूं (शिखया) अग्नेः पुंसवनं सम्प (इति पुंसवनम् २) ३ | संस्कारौ २ | (शिरसा चाहुतित्रयम् चकारोनेनैवादौ पूजां कुर्यात् इति प्रस्ताव पूरणं ध्वनति |) (अथ सीमन्तो नयनम् |) ओं हीं अग्ने विभक्तावयवो भव नमः | इति पूजा | (पुर्यष्टकोपरि स्थूल देह प्रविभागमात्र सिहसीमन्तः ||) ततः कुशाग्रेण वह्निशरीरं मन्त्रैः कल्पयेत् | यथा | ओं रं अग्नेः ग्रीवां कल्पयामि नमः | ओं रं अग्नेः अंसौ क | ओं रं अग्नेः बाहू क | ओं रं अग्नेः कटिं | ओं रं अग्नेः जङ्घे क | ओं रं अग्नेः अङ्गप्रत्यङ्गानि कल्पयामि नमः | (प्रत्यङ्गानि करोदर चरणाङ्गुल्यादीनि ||) इति कुशाग्रेण सीमन्तो नयनाय कल्पयित्वा | (पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेत् | मुखहृत्पाददेशांस्तु होमात्तश्च त्रितत्वकम् |) ओं हीं अग्नेः भागत्रयकल्पनां करोमि स्वाहा ३ | एवं सम्पद्यतां ३ | ओं हीं अग्नेः मुखे शिव तत्वं कल्पयामि स्वाहा ३ | सम्पद्य ३ | ओं हीं अग्नेः हृदि विद्यातत्वं कल्प ३ | सम्पद्य ३ | ओं हीं अग्नेः पादयोरात्मतत्वं कल्प ३ | सम्पद्य ३ | कवाटेषु क्षकारेण प्रयोगः | यथा | ओं क्षं अग्नेः | ऊर्ध्वे | (शिरांसिपञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः कल्पयेत् | शिरांसि कवाजानि ऊर्ध्वास्येन क्षकारेण ||) ईशान कवाटं कल्प ३ | सम्प ३ | ओं क्षं अग्नेः पूर्वे तत्पुरुष कवाटं कल्प ३ | सम्पद्यतां ३ | स्च् ३१; प्. ३०) ओं क्षं अग्नेः दक्षे अघोरकवाटं कल्प ३ सम्प ३ | ओं क्षं अग्नेः उत्तरे वामदेवकवाटं कल्प ३ सम्प ३ | ओं क्षं अग्नेः पश्चिमे सद्योजात कवाटं कल्प ३ सम्प ३ | इति कवाटन्यासः | प्रत्येकं तिलाहुतित्रयं | वक्त्रेषु वक्त्र निष्कृतिषु वक्त्र नेत्रकल्पनासु ऊर्ध्ववक्त्र वर्जं यकारेणैव प्रयोगः | ओं क्षं अग्नेः ऊर्ध्वे ईशानवक्त्रं कल्प ३ संपद्य ३ | ओं यं अग्नेः पूर्वे तत्पुरुष वक्त्रं कल्प ३ संपद्य ३ | ओं यं अग्नेः दक्षे अघोरवक्त्रं कल्पया ३ संपद्य ३ | ओं यं अग्नेः उत्तरे वामदेववक्त्रं कल्प ३ संपद्य ३ | ओं यं अग्नेः पश्चिमे सद्योजातवक्त्रं कल्प ३ संपद्य ३ | इति वक्त्रकल्पनं | ओं क्षं अग्नेः ऊर्ध्ववक्त्र निष्कृतिं करोमि स्वाहा ३ संप ३ | ओं यं अग्नेः पूर्वे तत्पुरुषवक्त्रनिष्कृतिं करो ३ सम्प ३ | ओं यं अग्नेः दक्षे अघोरवक्त्र निष्कृतिं करो ३ संपद्य ३ | ओं यं अग्नेः उत्तरे वामदेववक्त्र निष्कृतिं करो ३ संप ३ | ओं यं अग्ने पश्चिमे सद्योजात वक्त्रनिष्कृतिं करो ३ संप ३ | इति वक्त्र निष्कृतिकल्पनम् | ओं क्षं अग्नेः ईशानवक्त्रे ओं जुं सः ज्योतीरूपनेत्रत्रय कल्पनां करोमि स्वाहा ३ | एवं सम्पद्यतां स्वा ३ | (वक्त्राणां निष्कृतिं तद्वदाहुतीनां त्रिसङ्ख्यया || निष्कृतिः स्फुटी भावः तद्वदिति ययोक्तमन्त्र क्रमेण ||) ओं यं अग्नेः पूर्वे | तत्पुरुषवक्त्रे ओं जुं सः ज्योतीरूपनेत्रत्रय कल्पनां करो ३ सम्पद्यतां ३ | ओं यं अग्नेः दक्षे अघोरवक्त्रे ओं जुं सः ज्योतीरूपनेत्रत्रय कल्पनां करो ३ सम्पद्य ३ | ओं यं अग्नेः उत्तरे वामदेववक्त्रे ओं जुं सः ज्योतीरूप नेत्रत्रय कल्पनां करो ३ संपद्य ३ | ओं यं अग्नेः पश्चिमे सद्योजातवक्त्रे | ओं जुं सः ज्योतीरूपनेत्रत्रयकल्पनां क ३ सम्पद्यतां ३ || ततोग्नेरष्टात्रिंशत्कला पादनं कुर्यात् | (तिलैरेव ||) यथा | ओं क्षं अग्नेः ऊर्ध्वकवाटे सुतारिणीं कलां कल्पयामि स्वाहा ३ | एवं सम्पद्यतां ३ | ओं क्षं अग्नेः पूर्वकवाटे तारयन्तीं कलां कल्पया ३ संपद्य ३ | ओं क्षं अग्नेः दक्ष कवाटे तारिणीं कलां कल्प ३ संपद्य ३ | ओं क्षं अग्नेः वामकवाटे सुताराकलां कल्प ३ सम्पद्य ३ | ओं क्षं अग्नेः पश्चिम कवाटे ताराकलां कल्प ३ संपद्य ३ | इतीशानकलापञ्चकम् | ओं यं अग्नेः ऊर्ध्ववक्त्रे शान्त्यतीता कलां कल्प ३ संपद्य ३ | स्च् ३२; प्. ३१) ओं यं अग्नेः पूर्ववक्त्रे शान्ताकलां कल्प ३ संप ३ | ओं यं अग्नेः दक्षिणवक्त्रे विद्याकलां कल्प ३ संप ३ | ओं यं अग्नेः वामवक्त्रे प्रतिष्ठाकलां कल्प ३ संपद्य ३ | ओं यं अग्नेः पश्चिमवक्त्रे निवृत्तिकलां कल्प ३ संपद्य ३ | इति तत्पुरुषकलापञ्चकम् ५ | ओं रं अग्नेः हृदितमाकलां कल्पयामि स्वाहा ३ एवं सम्पद्यतां ३ | ओं रं अग्नेः ग्रीवायां मोहाकलां कल्प ३ संपद्यतां ३ | ओं रं अग्नेः दक्षांसे क्षुधाकलां कल्प ३ संपद्य ३ | ओं रं अग्नेः वामांसे निद्राकलां कल्प ३ संपद्य ३ | ओं रं अग्नेः नाभौ मृत्युकलां कल्प ३ संपद्य ३ | ओं रं अग्नेः जठरे मायाकलां कल्प ३ संपद्यतां ३ | ओं रं अग्नेः पृष्ठे भयाकलां कल्प ३ संपद्यतां ३ | ओं रं अग्नेः उरसिजराकलां कल्प ३ संपद्य ३ | इत्यघोरकलाष्टकम् | ओं वं अग्नेः गुह्येरजा कलां कल्पयामि स्वाहा ३ | एवं संपद्यतां स्वा ३ ओं वं अग्नेः गुदे रक्षाकलां कल्प ३ संपद्य ३ | ओं वं अग्नेः दक्षोरौरतिकलां कल्प ३ संपद्य ३ | ओं वं अग्नेः वामोरौ पाल्या कलां कल्प ३ संपद्य ३ | ओं वं अग्नेः दक्षजानुनिकाम्याकलां कल्प ३ संप ३ | ओं वं अग्नेर्वामजानुनित्यष्णाकलां कल्प ३ संप ३ | ओं वं अग्नेर्दक्षजङ्घायां मतिकलां कल्प ३ संप ३ | ओं वं अग्ने वामजङ्घायां क्रियाकलां कल्प ३ संप ३ | ओं वं अग्नेर्दक्षस्फिजि ऋद्धि काकलां कल्प ३ संप ३ | ओं वं अग्नेर्वामस्फिजिरात्रि कलां कल्प ३ संपद्य ३ | ओं वं अग्नेः कट्यां भ्रामणी कलां कल्प ३ संपद्य ३ | ओं वं अग्नेर्दक्षपार्श्वे मोहिनी कलां कल्प ३ संपद्य ३ | ओं वं अग्नेवामपार्श्वे मनोन्मनी कलां कल्प ३ संपद्य ३ | इति वामदेवकलात्रयोदशकम् १३ | ओं लं अग्नेः दक्षपादे सिद्धिकलां कल्पया ३ संपद्यतां ३ | ओं लं अग्नेर्वामपादे ऋद्धि कलां कल्प ३ संपद्य ३ | ओं लं अग्नेः दक्षहस्तेद्युति कलां कल्प ३ संपद्य ३ | ओं लं अग्ने वामहस्ते लक्ष्मी कलां कल्प ३ संपद्य ३ | ओं लं अग्नेः नासायं मेधा कलां कल्प ३ संपद्य ३ | ओं लं अग्नेः शिरसिकान्ति कलां कल्प ३ संपद्य ३ | ओं लं अग्नेः दक्षभुजे सुधाकलां कल्प ३ संपद्य ३ | स्च् ३३; प्. ३२) ओं लं अग्नेः वामभुजे स्थिति कलां कल्प ३ संपद्य ३ || ८ || प्रत्येकमाहुतित्रयं त्रयं तिलैः | इति सद्योजातकलाष्टकं त एवं कलाः ३८ | ततो उपांशु पठेत् (आत्मना श्रूयते यत्तुतमुपाशुं विजानते ||) ओं अग्नेः अघोरेभ्यो सर्वात्म हृदयं कल्प ३ संप ३ | ओं अग्नेः थ घोरेभ्यो ब्रह्मशिरः कल्प ३ संपद्य ३ | ओं अग्नेः घोरघोरतरेभ्यश्च ज्वालिनीं शिखां कल्प ३ सं ३ | ओं अग्नेः सर्वतः शर्वशर्वेभ्यः पिङ्गलं कवचं कल्प ३ संप ३ | ओं अग्नेः नमस्ते रुद्ररूपेभ्यो दुर्भेद्यं महापाशुपतास्त्रं कल्पया ३ संपद्य ३ | प्रत्येकमाहुतित्रयम् | नेत्रस्य पूर्वोक्तत्वादप्रयोगः | ओं रं अग्नेः सीमन्तोन्नयनं करोमि स्वाहा ३ | ओं हीं सीमन्तोन्नयनं सम्प ३ | इति सीमन्तोन्नयनम् संस्काराः ३ || (रकारेण त्रिराहुतिं दक्षिणेन निष्कलेन शिरसा च त्रिराहुतिं सीमन्तोन्नयनं ह्येवं ||) ओं हः फट् अग्निं वीजयामि स्वाहा ३ | ओं हः फट् अग्ने प्रसवाभिमुखोभव नमः | इति पूजा वागीश्या अग्निः संजात इति विभाव्य | ओं यं अजात कर्मकरोमि स्वाहा ३ | ओं हः फट् | जातकर्मसम्पद्यतां स्वाहा ३ | इति जातकर्मसंस्काराः || ४ || ओं हः फट् अग्नेः सूतक शुद्धिर्भवतु स्वाहा ३ || १ || ततः सूतकशुद्धये अस्त्रेण कुण्डपार्श्वानि विध्यर्घतः समभ्युक्ष्य | (अस्त्रेण वीजयेदग्निं अस्त्रेणैव तु पूजयेत् | तिराहुतिं पूर्वेण अस्त्रेणैवाहुतित्रियम् || एवं मन्त्रद्वयेनैव जातकर्मकृतं भवेत् | बीजनं प्रसवाभिमुखी करणं | पूर्वेण यकारेण |) (अपादित शिवभावोपि दीक्षादि सम्पत्यर्थं यतोग्निः शरीरं ग्राहितः | ततश्चिदात्मनो देहग्रहः सूतकरूपः सर्वाशुद्धि प्रथमाङ्कुरः शोध्य एव ||) ओं क्षं अग्नेः ऊर्ध्ववक्त्रे वक्त्रोद्घाटनं करोमि स्वाहा ३ | (वक्त्राण्युद्घाटयेत्पश्चाद्वक्त्रेणैवा हुति त्रयात् | उद्घाटनं विकासः ||) ओं यं अग्नेस्तत्पुरुषवक्त्रे वक्त्रोद्घाटनं करो ३ | ओं रं अग्नेः अघोरवक्त्रे वक्त्रोद्घाटनं करोमि स्वहा ३ | ओं वं अग्नेः वामदेववक्त्रे वक्त्रोद्घाटनं क ३ | इति वक्त्रोद्घाटनम् | २ | ओं लं अग्नेः सद्योजातवक्त्रे वक्तोद्घाटनं क ३ | ततः स्वस्वमन्त्रपरामर्शेणास्त्रान्तेन वक्त्रशोधनं कुर्यात् | यथा | ओं क्षं अग्नेः ईशानवक्त्रं शोधयामि हः फट् स्वा ३ | (वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः | प्रतिवक्त्रं स्वमन्त्रेण परामृष्यशोधयामीत्यूहान्तेस्त्रमुच्चार्यत्रिर्जुहुयात्) ओं यं अग्नेः तत्पुरुषवक्त्रं शोधयामि हः फट् स्वाहा ३ | ओं रं अग्नेः अघोरवक्त्रं सोधयामि हः फट् स्वाहा ३ | ओं वं अग्नेः वामदेववक्त्रं शोधयामि हः फट् स्वाहा ३ | ओं लं अग्नेः सद्योजातवक्त्रं शोधयामि हः फट् स्वाहा ३ | (इति वक्त्रशोधनम् ३) ओं क्षं अग्नेः ईशानवक्त्रे वक्त्राभिघारं करोमि स्वाहा ३ | ओं यं अग्नेः तत्पुरुषवक्त्रे वक्त्राभिघारं करोमि स्वाहा ३ | ओं रं अग्नेः अघोरवक्त्रे वक्त्राभिघारं करोमि स्वाहा ३ | ओं वं अग्नेः वामदेववक्त्रे वक्त्राभिघारं करोमि स्वाहा ३ | ओं लं अग्नेः सद्योजातवक्त्रे वक्त्राभिघारं करोमि स्वाहा ३ | (वक्त्राभिघोरो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयं | वक्त्रेष्वभि घारोदीप्तिः त्रयं त्रयमाहुतीनां दद्यादिति शेषः || इति वक्त्राभिघारं ४ |) प्. ३३) (अद्भिश्चान्द्रेण हस्तेन प्राग्यास्यां प्रत्यगेव तु | तेनैव तु परीत्योदक्करपृष्ठमदर्शयन् || नग्नैवैश्वानरोभूयो लज्जमानः पराङ्मुखः | कुशवस्त्रं परीधाय विमुखः सम्मुखो भवेत् ||) (आलोके पूर्वादि दिक्कूट्यानां ब्रह्मविष्णु सदाशिवशिवाना साधार शक्तिरूपाश्शस्ता यज्ञकर्म वृक्षोत्थालताहस्तमात्रास्सत्व चश्चतुस्रश्शाखाः परिधयः | तत्र द्वे पूर्वानने द्वे सौम्यानने याभिः कुण्डबहिश्चतुरस्रसन्निवेशो जायते ||) (अङ्गुष्ठ तर्जनी मध्ये ज्ञानखड्गं न्यस्य || प्रोक्षयेत् कुण्डपार्श्वाणि सास्त्रेणैव शिवाम्भसा ||) ओं हः फट् अग्निमभ्युक्षामिहः फट् | इति शिवाम्भः पात्रेण प्रोक्षणं कुर्यात् | इति कुण्डपार्श्वान्यस्त्रेणाभ्युक्ष्य | एवमेवास्त्रार्घपात्रतः | (परिसमुहनं सम्मुखीकरणं पर्युक्षणं निर्विघ्नत्वा पादनं || परिषेचनं वशीकरणम् ||) ओं हः फट् शिवाग्निं पर्युक्षामिहः हट् ३ | ओं हः फट् शिवाग्निं परिषिञ्चामिहः फट् ३ | ततस्तरं न्यासः (कुण्डबहिस्तेजः पुञ्जमयैः कुशैरास्तरणं सुरः |) ओं हः फट् शिवाग्निमास्तृणामिहः फट् | (स्वतन्त्रे परिधयोहस्तप्रमाणाः सपत्राः साखाः चतुस्रः कुण्डबाह्ये दिक्षु विघ्नप्रवेशरक्षार्थम्) पुरस्तात् त्रीणि | दक्षिणतः पञ्च | उत्तरतः पञ्च पश्चिमे त्रीणि काण्डानिक्षिपेत् | ततः ओं हः फट् सदर्भान्परिधीनास्तृणामिह फट् | इति चतुसृषु दिक्षु परिधिन्यासं कुर्यात् || तथैव विष्ठरन्यासं चतुसृषु दिक्ष्वस्त्रमन्त्रेण कुर्यात् || ५ || तदुपरि | (रक्षार्थं जातबालस्य ब्रह्माद्याः पूजतास्तु ये) ब्रह्मरुद्रविष्णु सदाशिवान् गन्धाद्यैर्यजेत् | यथा | ओं ब्रह्मणे नमः पूर्वे | ओं रुद्राय नमः दक्षिणे | ओं विष्णवे नमः पश्चिमे | ओं सदाशिवाय नमः उत्तरे | इति पूजा | इति विष्टरोपरि ब्रह्मादीन्देवानिष्ठ्वा अग्नि || ६ || (पूर्वे त्रयः पुनः पञ्चपञ्चापि चोत्तरास्त्रयः प्रक्षेप्या अस्त्रमन्त्रेण आचार्यर्यज्ञ सिद्धये || दर्भानास्तीर्य पूर्वाग्रान्दक्षिणोत्तर संस्थितान् सौम्याग्रान् पूर्ववारुण्यैः परिधीन्विष्टरांस्तथा || हस्तमात्राः शाखाः परिधयः ससंध्यग्रन्थिर्दार्भमासनं विष्टरः ||) कुण्डमेखलोपरि लोकेशांश्च गन्धाद्यैः पूजयेत् | यथा | ओं वज्रहस्तं सदा पूर्वे गजारूढं शचीपतिं | सहस्राक्षं शिवाज्ञस्थमिन्द्रं सञ्चिन्तयाम्यहम् || इति ध्यानं | इन्द्र आगच्छ २ इत्यादि | ओं लूं इन्द्राय वज्रहस्ताय नमः | पूर्वे | ओं शक्तिहस्तं शुकारूढं स्वाहया सहितं सदा | आग्नेययां नवज्विह्वं च वह्निं सञ्चिन्तयाम्यहम् | ओं रूं अग्नये शक्तिहस्ताय नमः | आग्नेये २ | ओं दण्डहस्तं कृष्णवर्णं यामीयुक्तं तथैव च | महिषासनमारूढं यमं सञ्चिन्तयाम्यहम् || ओं हुं यमाय दण्डहस्ताय नमः दक्षिणे | ओं खड्गहस्तं सदेवीकं वृस्यासनगतं सदा नैर्-ऋते | शिवपूजार्थं निर्-ऋतिं चिन्तयाम्यहम् | ओं क्षूं निवृतये खड्गहस्ताय नमः निर्-ऋते | ओं पाशहस्तं महौजस्कं मकरासनसंस्थितम् | सदेवीकं मखेशं च वरुणं चिन्तयाम्यहम् || ओं वूं वरुणाय पश्चिमे | ओं ध्वजहस्तं मृगारूढं सदेवीकं द्विलोचनम् | त्रिलोचनाज्ञा कर्तारं वायुं संचिन्तयाम्यहं || ओं यूं वायवे वायौ | स्च् ३५; प्. ३४) ओं गदापाणिं नरारूढं सदेवीकं शिवप्रियम् | यक्षाधिपं निधीशं च कुवीरं चिन्तयाम्यहं || ओं कुं कुवीराय उत्तरे ७ | ओं त्रिशूलपाणिं देवेशं वृषारूढंमुमापतिम् | शुद्धस्फटिकसङ्काशं ईशानं चिन्तयाम्यहम् || ओं सूं ईशानाय त्रि ईशाने ८ | ओं पद्महस्तं चतुर्वक्त्रं चतुर्वेद प्रवर्तकम् | गायत्री सहितं देवं ब्रह्माणं चिन्तयाम्यहम् || ओं आं ब्रां ब्रं ब्रह्मणे ऊर्ध्वे || ९ || ओं चक्रहस्तं मेघनिभं रसया पूजितं हरिं | गरुडासनमारूढं विष्णुं संचिन्तयाम्यहम् || ओं ह्लां अनन्ताय हल अधः || १० || ततो स्वदक्षे कुण्डवामे च मसंप्रणीत(सपवित्रं) पात्रं पुष्पाक्षत तिलैस्सम्पूर्य तत्र श्रीविष्णुमर्चयेत् | (केचित्कुण्डदक्षे विष्णुं पूजयन्न स्वदक्षे तदुक्तम् | कुण्डस्य दक्षिणे भागे विष्टरस्य च बाह्यतः | प्रणीतं कल्पयेत् तत्र चमसंवारि पूरितं || अस्मद्गुरवस्तु कुण्डस्योत्तरे विष्णुमर्चयेदित्येव वदन्ति || इत्यन्येषां मतम् ||) तत्र पूजाविधिः | ओं अतसी पुष्पसङ्काशं शङ्खचक्रगदाधरम् | पीताम्बरधरं देवं वनमालाविभूषितम् || स्फुरन्मुकुटमाणिक्य किङ्किणि जालमण्डितम् | दिव्यकुण्डलधर्तारं गरुडासनसंस्थितम् || आवाहयामि देवेशं विष्णुं विघ्नौघशान्तये | इति ध्यानं स्मृत्वा | वासुदेवाय विद्महे | लक्ष्यर्धायधी || तन्नोविष्णुः प्रचो ३ | इति गायत्री | ओं भगवन्विष्णोः आगच्छ २ | (स्वतन्त्रे कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः | प्रणीतं कारयेत् तत्र चमसंवारिपूरितम् || पुष्पाक्षततिलैर्मिश्रं पवित्रं तत्र विन्यसेत् | सुअनामपदसंयुक्तं सुध्याने नमोन्तगं || आमन्त्रणपदे नैव विष्णुं संस्थाप्य पूजयेत् || विष्टरस्य रुद्राश्रयस्य च मसंदारुपात्रं तत्र च यज्ञध्वंसासिनो विष्णोरासनार्थं || इत्यस्मद्गुरुवरसम्प्रदायः ||) सन्तिष्ठ २ | सन्निधत्स्व २ | सन्निरुद्धो भव २ | हैं अवगुण्ठयामि नमः | ओं अमृतीकरोमि नमः | भोः विष्णो चमसस्थस्वागतं भो | ततो विध्यर्घ पात्रात् | ओं हं हं हं विष्णोपाद्यं गृहाण नमः | एवमाचमनीयार्घ्य | पुष्पधूपदीपान् | ओं हूं विष्णवे नमः | इति गन्धादिभिः पूजयेत् | पूजितं विष्णुं विज्ञापयेत् | (पश्वर्थं नैमित्तिके दीक्षा विधानार्थं नित्ये भगवन्काम्ये इति योज्यम् ||) ओं पश्वर्थं यज्ञ आरब्ध आत्मार्थं वापि साधकैः | भगवंस्त्वत्प्रसादेन यागे निच्छिद्रतास्तु नः || ततो ज्वाला लिङ्गोपरि सजलकलशे सप्तदर्भकृत विष्ठरसहिते शान्तिकलशे विभुं यजेत् | ओं सुधाकुम्भं विधुं शैव वरं चाभयमेव च | हस्तैर्वहन्तं पद्मस्थं भैरवं चिन्तयाम्यहम् || ओं रुद्रसंस्थममलं त्रिलोचनं पञ्चवक्त्रममृतां शुमौलिनम् | दक्षिणैश्च नवभिर्वृता युधैर्वामतोपि च तथा विधैः भुजैः || मण्डितं नरकपालमालिनं शालिनं सुरनदीस्रजा सदा | भूतभूतिकरभूति मण्डनं नागनायक विनायकार्चितम् || चन्द्रचन्दनरजः सुगन्धयावन्दितं गिरि जया संस्थया | स्च् ३६; प्. ३५) नन्दिमुख्यगणनाथसंस्तवैस्तोषितं शिवमहं श्रिये श्रये || इति ध्यानं स्मृत्वा | ओं भगवन्सकलभट्टारक स्वच्छन्द भैरव आगच्छ २ सन्तिष्ठ ३ सन्निधत्स्व २ सन्निरुद्धो भव २ हैं अवगुण्ठयामि नमः | ओं हुं अमृतीकरोमि नमः | इत्यमृती कृत्य ओं हूं ज्वालारूपाय ज्वालालिङ्गस्थाय अघोरभैरवाय नमः | तज्ज्ञानमये शुद्धज्योतीरूपे आत्मनि जाज्वल्यमानांस्तडिल्लेखामिवा घोरेश्वरीं ध्यात्वा | सकलमन्त्रेणाघोरेश्वरीमपि पूजयेत् | तत्पात्रे ज्वलद्वह्निकणोपमं संहितामन्त्रं विचिन्त्य श्रीभैरवं विज्ञापयेत् | यथा | ओं भगवंस्त्वत्कटाक्षैकभागेनापि सुरेश्वराः | प्रार्थयन्ते प्रसादं ये ते मया वाहितामखे | भवत्सन्निधिमात्रेण सन्नद्धास्ते भवन्ति हि | कुर्वन्ति मख रक्षां च येन प्राप्नोत्य यं शिशुः || अनामयं पदं देवमयात्वत्कृपया यथा | इति शान्तिकलशे पूजा || ७ || ततो वागीश्याः कङ्कणमोक्षः | ओं हूं वागीश्या कङ्कणमोक्षं करोमि स्वाहा ३ सम्पद्यतां ३ | इति कङ्कणरूपं पूर्वं कृतं विष्टरं मोचयेत् || ८ || (गर्भस्य जात त्वाद् रक्षान्तरस्य च विहितत्वाद्गर्भरक्षाया अधिकारो निवृत्त इति कङ्कण मोक्षः |) (एवं सूतकशुद्धिवक्त्रोद्घाटन वक्त्रशुद्धि वक्त्राभिघार विष्टरन्यास देवतास्थापन तदर्चन कङ्कणमोक्षणाष्टा ववान्तरसंस्कारान् कृत्वानामकरणाख्यः पश्चिमसंस्कारः) ओं हौं अग्नेः निष्क्रामणं करोमि स्वाहा ३ संपद्य ३ | ओं हौं अग्नेः आदित्यदर्शनं करोमि स्वाहा ३ संपद्य ३ | (आलोके एवं संस्कृतेग्नौ शिवत्वामापादयितुमाह | तथा मन्त्रेश युक्सत्यसंकल्प सहसा ज्वलन् | वह्निस्तच्छिव संकल्प तादात्म्याच्छिवता मयः || तथा पूर्वोक्तेन प्रकारेण मन्त्रैरीशेन च युक्तस्य तदैक्यमापन्नस्याचार्यस्य यस्सङ्कल्पितार्थ सम्पत्या सत्यश्शिवो भवेत्येवमात्मा सङ्कल्पस्तस्यमहसा माहात्म्येन ज्वलन्यथा यथमुत्कर्षा सादनेन दीप्यन्वह्निस्तेन सङ्कल्प्य मानेन शिवेन तादात्म्याच्छिवात्मक सुद्धन्मैव भवेदित्यर्थः || एतश्चास्माभिर्गुरुपरम्परोपनतमभिहितमिति विवेचन योग्यमित्याह || इत्येतत्संस्क्रिया तत्वं श्रीशम्भुर्मे न्यरूपयन् | मयापि दर्शितं शुद्ध बुद्धयः प्रविविश्यताम् ||) ओं हूं शिवाग्निर्भव नमः | इति विज्ञप्तिः | इति नामकल्पयेत् | ओं हैं शिवाग्नये नमः | इति पूजा | ओं क्षं शिवाग्नये स्वाहा ३ | ओं हैं शिवाग्नये स्वाहा ३ || ९ || एवमवान्तरसंस्कारसहितो नामकरणाख्यः संस्कारः || पूर्वै सह संस्काराः प || ततः ब्रह्मणे नमः | इति सम्पूज्य | ओं ब्रह्मणे स्वाहा ३ | इति सन्तर्प्यक्षमापयेत् | ब्रह्मन् क्षम्यतां | ओं शिवाग्नेरस्य भो ब्रह्मन् कृतारक्षात्व या विभो | इदानीं नोपरोद्धव्यं गच्छदेव स्वविष्टपम् || इति पूर्वदिग्विष्टरं विमोचयेत् || ओं रुद्राय नमः | ओं रुद्राय स्वाहा ३ | रुद्र क्षम्यताम् | ओं शिवाग्नेरस्य भो रुदुर कृतारक्षा त्वया विभो | इदानीं नोपरोद्धव्यं गच्छ देव स्वविष्टपम् || दक्षिणविष्टरं विमोचयेत् || ओं विष्णवे नमः | ओं विष्णवे स्वाहा ३ | विष्णो क्षम्यतां | ओं शिवाग्नेरस्य भो विष्णो कृतारक्षा त्वया विभो | इदानीं नोपरोद्धव्यं गच्छ देव स्वविष्टपम् || पश्चिमविष्टरं विमोचयेत् || स्च् ३७; प्. ३६) ओं सदाशिवाय नमः | ओं सदाशिवाय स्वहा ३ | सदाशिव क्षम्यतां | ओं शिवाग्नेरस्य सादाख्य कृता रक्षा त्वया विभो | इदानीं नोपरोद्धव्यं गछदेव स्वविष्टपम् || इति ऊतरविष्टरं विमोचयेत् | ओं हूं वागीश्वर्यै नमः | इति पूजा | ओं हूं वागीश्वर्यै स्वाहा || १०८ || वागीश्वरि क्षम्यताम् | ओं सृष्टिस्थितिलये दक्षे भोगमोक्ष प्रदे शिवे | वागीश्वरि नमस्तेस्तु गच्छ देवि स्वविष्टरम् || इति विसृजेत् || ततः प्राशनार्थमग्नेः चतुर्विंशत्यङ्गुल चतुर्विंशतिध्मा हं मः | ओं हूं शिवाग्निं तर्पयामि स्वाहा २४ | अथ श्रुक्स्रवसंस्कारः | ओं हः फट् तापनं करोमि (तापनं काष्ठादि भवनिवारणाय ||) हः फट् | स्रुक्स्रवावग्नौ तापयेत् || १ || ओं हः फट् प्रोक्षणं करोमि हः फट् | इति शिवाम्भसा प्रोक्षयेत् || २ || ओं हैं अवगुण्ठयामि हूं कवचेनावगुण्थयेत् || ३ || अग्नौ ओं हैं भ्रामयामि नमः त्रिःभ्रामयेत् || ४ || ओं हः फट् प्रोक्षणं करोमि हः फट् || ५ || दर्भाग्रेण तदग्र स्पर्शः || ६ || ओं हैं भ्रामयामि नमः | त्रिःभ्रामयेत् || ७ || ओं हः फट् प्रोक्षणं करोमि हः फट् | इति शिवाम्भसा प्रोक्षणं || ८ || मध्येन मध्यस्पर्शः || ९ || (धाम्नै वेध्मास्तु होतव्या हस्तमात्र प्रमाणतः | चतुर्विंशति संख्याताः शिवाग्नेस्तर्पणाय च || धाम्ना निष्कलेन इध्मा अस्फुटिताः ऋज्व्यः सत्व चः साखाः | एवं तिलैः संस्काराणुरक्त्वा आज्यकार्यान् संस्कारान्प्रस्तोत्तमाज्य प्रक्षेपकरणं स्रुक्स्रवसंस्कारार्थमाह || स्रुक्स्रवौ संप्रताप्याग्नौ शिवाम्भोस्त्रेण प्रोक्षयेत् | कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत् त्रिधः || अस्त्रेणमार्जयेदद्भिर्भाग्रेणाथ संस्पृशेत् | पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा || दर्भमध्ये न् संस्पृश्य भूयोग्नौ भ्राम्यतापयेत् | शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् ||) स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत् तावुधो मुखौ | दर्भाणां पृष्टतः पूज्यो दक्षिणेग्नेः सदाबुधैः || मार्जनं प्रोक्षणमेव तापनं काष्ठादि भावनिवारणाय | यथोक्तं तापयेत् तेजसि त्रिधा सञ्जातौ तेन सन्तप्तो काष्टभाव पराङ्मुखाविति | सृष्टि क्रमेणात्र दर्भस्याग्र मध्यमूलैस्तदग्र मध्यमूलस्पर्शेन त्रिभ्रामणेन च इच्छादि शक्तित्रय मयत्व मनोयोर्जायते स्रुक्स्रवाभ्यामिति स्रुक्स्रुवयोरित्यर्थः संस्कार द्वादशकानन्तरं पूज्यावधो मुखाविति सृष्ट्युन्मुखत्वाभि प्रायेण) ओं हैं भ्रामयामि नमः | त्रिःभ्रामणं || १० || ओं हः फट् तापनं करोमि हः फट् शिवाग्नौ तापनं || ११ || ओं हः फट् मार्जनं करोमि हः फट् || १२ || शिवाम्भसामार्जनं || मूलेन मूलस्पर्शः || १३ || (सोमशम्भुः || गृहित्वा श्रुक्स्रुवावूर्ध्ववदनाधो मुखौ क्रमात् | प्रताप्याग्नौ त्रिधादर्भैर्मूलमध्याग्रगं स्पृशेत् || कुशपृष्टप्रदेशेषु आत्मविद्या शिवात्मकम् | क्रमात् तत्व त्रयं न्यस्य हां हीं हूं शम्भरैः क्रमात् || स्रुचिशक्तिं स्रुवेशम्भुं विन्यस्य हृदयाणुना | त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिना ||) ततो शिवशक्तिरूपौ पूजयेत् | ओं हां आत्मतत्वाय नमः मूल देशे | ओं हीं विद्यातत्वाय नमः मध्ये | ओं हूं शिवतत्वाय नमः अग्रे | अधोमुखौ कृत्वा (ज्ञानखड्गौ परि अध?मुखौ कृत्वा |) (पूज्यवधो मुखाविति सृष्ट्युन्मुखत्वाभिप्रायेण अग्नेर्दक्षिणे होतुर्वामे इति दीप्त्याप्यायनाभ्या मयोर्युगपत्सम्बन्धेनाग्नीषोममयत्वापत्तिः ||) ओं शिवाय नमः | ओं शक्तये नमः | ऊर्ध्वमुखौ कृत्वा | ओं शिवशक्तिभ्यां नमः | समाल अर्घो पुष्पं नमः | दक्षिणां नमः || अधि उपरि अग्नेः श्रयणं पाकं प्रथमं कुर्यात् | अथाज्य संस्कारः || आज्यस्याधि श्रयणं प्रस्रुतस्य संप्रोक्षिते पात्रे स्थापनं || भाण्डे तापनं वा अधिश्रयणमुच्यते | ओं हः फट् प्रोक्षणं करोमि फट् शिवाम्भसा प्रोक्षणं || १ || ओं हैं अवगुण्ठयामि हुं लिङ्गमुद्रयावगुण्ठनं || २ || ओं हः फट् तापयामि फट् अस्त्रेण शिवाग्नौ तापयेत् || ३ || ओं हैं तद्वासनं करोमि हुं इति कवचेनोद्वासनं || ४ || ओं हः फट् भ्रामयामि फट् | इति कुण्डस्योपरितः अस्त्रेण त्रिःभ्रामणं || ५ || ओं हीं स्थापयामि नमः | इति योनौ स्थापयेत् || ६ || (प्रसारिताङ्गुष्ठ तर्जनीमानं प्रादेशम् ||) प्रादेशमात्रं दर्भद्वयं नागपाशाकारं करद्वयानामाङ्गुष्ठाभ्यामादायाज्यस्य त्रिवारमस्त्रेण पराङ्मुखानयनमुत्प्लवनं (आज्यसंस्कारणं कुर्यादाज्याधिश्रयणादिकम् | अधिश्रयणं संप्रोक्षिते पात्रे प्रस्रुतस्यस्थापनं || क्वचिदधिश्रयमिति पाठः तत्राधिकरणभाण्डे तापनमित्ययमर्थः | आदिशब्द सूचितान्संस्कारानाह | आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् | शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचे न तु || कुण्डस्योपरितो देवि त्रिधा भ्राम्य तु स्थापयेत् | योनिस्थं चाज्यपात्रं || तापनं दीप्त्यर्थमाग्नेययां दिशि उद्वासनमग्ने ऊर्ध्वधारणं दीप्तेः स्फुटतार्थं || किं च || तदुत्प्लवं संप्लवं ततः || तस्याज्यस्य उत्प्लवं संप्लवं च कुर्यादित्यर्थः || केनेत्याह || दर्भाग्र द्वयमाधाय प्रादेशं मध्यग्रन्थितम् | पवित्रमेतद्विहितमुत्प्लवं तेन संप्लवम् || प्रसारिताङ्गुष्ठ तर्जनीमानं प्रादेशं | कथमित्याह || अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकम् | पराङ्मुखं तु त्रीन्वारान्संमुखं? त्रींस्तथैव च || अस्त्रेणैव तु मन्त्रेण || असारभागापनयनायोत्प्लवं | सारभागाहरणाय च संप्लवं || किं च || अवद्योतः शिवाग्निना | अस्त्रेणैव कार्य इति शेषः | तं व्याचष्टे ||) स्च् ३८; प्. ३७) (दर्भोल्मुकं तु सङ्गृह्य आज्यपात्रं निरेक्षयेत् | तेन प्रकाशयेत् | अत्र चावसरे स्वनेत्त्रतोजोनिरेक्षणेन परतेजो मयं चाज्यं कुर्यादित्यर्थः | नीराजनं ततः कुर्यात् | निश्शेषेण राजनं ज्वलितेन दर्भेण सर्वतो भ्रामितेन दीपनमस्त्रेणैव || पर्यग्निकरणं ततः | कथं | धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत् | धाम्नामूलेन सह परितः समन्तादग्निकरणं तेजोमयतापत्तिः ततः | धाम्नैव विधिनामन्त्री प्रोक्षयेदस्त्रवारिणा | विधिश्शिवाभेदाभिसन्धिः किं च | अभिमन्त्र्यषडङ्गेन अमृतत्वं शिवेन तु | निष्कलेन साङ्गेनाभि मन्त्रणमेवामृतत्वममृतमुद्रया | एवमाज्यप्रोक्षणावगुण्ठन तापनोद्वासन भ्रामणोत्प्लव संप्लवावद्योत नीराजन पर्यग्निकरणप्रोक्षणामृतत्वाख्य संस्कारान् द्वादश कृत्वा | सकृदुच्चारयोगेन पूजयेद्भैरवेण तु | निष्कलेनैव || कर्त्रपादान करणाधिकरण कर्मणां यष्टर्घपात्रस्रुगादि स्थण्डिलाग्न्याज्यादीनां संस्कारैः संप्रदानात्मक भैरव देवतैक्या पादनं कृत्वा || प्राङ्मुखानयनं संप्लवनं चा सारभागापनयनाय सारभागाहरणाय कुर्यात् | यथा | ओं हः फट् (उदूर्ध्वं प्लवनं नयनं उत्प्लवनम् ||) उत्प्लवनं करोमि फट् | इति मन्त्रेण पराङ्मुखं दर्भद्वयं नयेत् | (सम्यगात्माभिमुख्येना नयनं संप्लवनं) ओं हः फट् संप्लवनं करोमि फट् | इति मन्त्रेण संमुखं दर्भद्वयं मध्यग्रन्थिसहितमानयेत् || ७ || तदनु | ओं हः फट् अस्त्राय फट् | इत्यस्त्रमन्त्रेण दर्भोल्मुकं प्रज्वाल्य आज्यपात्रमीक्षेत | स्वनेत्र तेजो निरीक्षणेन परतेजो मयमाज्यं कुर्यादित्यवद्योत नानामसंस्कारः || ८ || ओं हः फट् नीराजनं करोमि फट् | तेनैव ज्वलद्दर्भोल्मुकेन (निश्शेणराजनं ज्वलितेन दर्भेन सर्वतो भ्रामितेनदीपरम्) सर्वतो भ्रामितेन नीराजनं कुर्यात् || ९ || तदेव ज्वलद्दर्भोल्मुकं तेजो मयता पत्तये मूलेनाग्नौ क्षिपेत् | ओं हूं हः फट् पर्यग्नी करणं करोमि नमः | (परितः समन्तादग्निकरणं तोजोमयतापत्तिः ||) इति वह्नौ क्षिपेत् || १० || ओं हूं प्रोक्षणं करोमि नमः | इत्यस्त्रवारिणाप्रोक्षणं || ११ || ओं हूं हां हीं हूं हैं हौं हः इति मूलेनाङ्गैश्चाभि मन्त्र अमृतमुद्रयामृतीकृत्य || १२ || (अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेनेतु || निष्कलेन साङ्गेनाभि मन्त्रणमेव || अमृतत्वममृत मुद्रया ||) इत्येवं द्वादश संस्कारान् कृत्वा मूलेनाज्यमर्चयेत् || १३ || (नैष्कलेन) इत्याज्यसंस्कारः | ततस्तिलाहुतिभिःस्तिसृभिः वक्त्रसन्धानं कुर्यात् | यथा | ओं लं सद्योजातवक्त्रेण (तिलैरेव होमोनत्वाज्येन तत्संस्काराणामसमाप्त त्वात् | पश्चिम प्रमुख मूर्द्धे विश्रान्ति कार्या मुमुक्षुन्प्रत्यस्यैव प्राधान्यादित्यर्थः || मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु च | मुक्तिकामस्य दीक्षाया मूर्द्ध्ववक्त्रस्य मुख्यता ||) ओं वं वामदेववक्त्रमनुसन्धधे स्वाहा ३ | ओं वं वामदेववक्त्रेण | ओं रं अघोरवक्त्रमनुसन्धधे स्वाहा ३ | ओं रं अघोरवक्त्रेण | ओं यं तत्पुरुषवक्त्रमनुसन्धधे स्वाहा ३ | ओं यं तत्पुरुषवक्त्रेण | ओं क्षं ईशानवक्त्रमनुसन्धधे स्वाहा ३ | इति प्रत्येकमाहुतित्रयं तिलैः || (इदानीमाज्यवह्न्योः क्रमेण त्रिधामत्वापादनार्थमाह | तत इति मध्यस्थ दर्भद्वयदानाद्वर्त्मनां त्रयाणां मार्गाणां कल्पनाकार्यानाडीत्रयरूपेण वर्त्मनामार्गत्रयेणभैरवमुच्चार्याज्यगतभागत्रये तिष्ठया प्राणशक्त्या इच्छाज्ञानक्रियात्मना ससंपातं विश्रान्तिं कृत्वा वह्निसोमसूर्यात्मक धामत्रय मयं भागत्रयं न्यसेदनुसन्दधीत् |) ओं हूं नाडित्रयकल्पनां करोमि नमः | इति पूर्वाग्रदर्भद्वयक्षेपादाज्य पात्रे नाडित्रयकल्पना तत्राज्य मध्ये | ओं हां इच्छाशक्तये नमः | ओं ओं वह्निधाम्ने सुषुम्णायै नमः | इति मध्ये | ततः स्ववामे | ओं हूं क्रिया शक्तये नमः | ओं सः सोमधाम्ने इडायै नमः | इति वामे | ततः स्वदक्षे | ओं हूं ज्ञानशक्तये नमः | ओं जुं सूर्यधाम्ने पिङ्गलायै नमः | इति दक्षे || ततो वह्नेरपि | ओं हूं नाडित्रय कल्पनां करोमि नमः | इत्यग्नौ पूर्वमुखं समिधा द्वयं संस्थाप्य नाडीत्रयं ध्यायेत् | तत्राग्नि मध्ये | ओं हां इच्छाशक्तये नमः | ओं ओं वह्निधाम्ने सुषुम्णायै नमः || ततः स्वदक्षे वह्नि वामे | ओं हूं क्रियाशक्तये नमः | ओं सः सोमधाम्ने इडायै नमः | ततः स्ववामे वह्निदक्षे | ओं हूं ज्ञानशक्तये नमः | ओं जूं सूर्यधाम्ने पिङ्गलायै नमः | स्च् ३९; प्. ३८) (एवमाज्यं त्रिधाममयी कृत्य तद्धोमाद्वह्निमपि तन्मयी कर्तुमाह | अग्नये स्वाहेति ||) ततः शुक्लपक्षे | आज्य दक्षभागादग्निक्षभागे | ओं हूं अग्नये स्वाहा || आज्य वामभागाद्वह्नि वामभागे | ओं हूं सोमाय स्वाहा || आज्य मध्यभागाद्वह्नि मध्यभागे | ओं हूं अग्निषोमाभ्यां स्वाहा | इति शुक्लपक्षे || ततः कृष्णपक्षे | सोमस्थाने सूर्यः कार्यः | (सोमभागे भवेत् सूर्यो ह्यग्नि संज्ञा तु पूर्ववत् | अग्नेः सूर्यस्य मध्ये वै आहुतिं प्रति पादयेत् || यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छसी |) यथा | आज्य दक्षभागादग्नि दक्षभागे | ओं हूं अग्नये स्वाहा | आज्यवामभागादग्नि वामभागे | ओं हूं सूर्याय स्वाहा || आज्य मध्यादग्नि मध्ये | ओं हूं अग्निसूर्याभ्यां स्वाहा || ततः आज्येन || (प्राशनं भाविपाश भक्षणाद्यो चित्याधानम् ||) ओं हूं क्षं अग्नेः ईशानवक्त्रे प्राशनं करोमि स्वाहा ३ | ओं हूं यं अग्नेः तत्पुरुषवक्त्रे प्राशनं करोमि स्वाहा ३ | ओं हूं रं अग्नेः अघोरवक्त्रे प्राशनं करोमि स्वाहा ३ | ओं हूं वं अग्नेः वामदेववक्त्रे प्राशनं करोमि स्वाहा ३ | ओं हूं लं अग्नेः सद्योजातवक्त्रे प्राशनं करोमि स्वाहा ३ | (समिधाष्टादशाङ्गुलामतङ्गेभिहिताः) तत्रादौ समिधायवतिलादिषु सर्वेषु द्रव्येषु मूलेन साङ्गेन सम्पातं कुर्यात् | ततः शिष्यानामाज्यदर्शनं कारयेत् | यथा || आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परं | आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः || (वेदाकरेण मन्त्रेण यजमानः सपत्निकः सानन्दं दर्शये च्छीर्षं पुत्रपौत्रजयावहम् | स्वमात्मानं घृते पश्येद् यदीच्छेच्छुभमात्मनः | तिलत्तण्डुलसौवर्ण रौप्यताम्रयवादिभिः || आज्यदर्शनसंस्कारं कारयेद्विधिना द्विजः |) दिव्यान्तरिक्षभौमादि यत् ते किल्विषमागतं | तत्सर्वमाज्य संस्पर्शान्निर्नाशमुपगच्छतु || षडध्वदीक्षाफलप्राप्त्यर्थमिदमाज्यमर्पयामि नमः || अथ सर्वेषामाशीर्वादं स तिलकपुष्पं दद्यात् | ओं बध्नामिकङ्कणं ते बद्धमतिर्भवभयोच्छित्यै भजनिपुणमचलममलिनमभवायेह शाश्वतं स्थानं | प्राणापानौ चक्षुः श्रोत्रे घ्राणं मनः शिरोहस्तौ | प्रकृतावपि यदुपात्तं तत्ते देवः शिवः पातु पापहरस्ते भगवांच्छिवो शुभं हरतु | सर्वभूतगणाश्चान्त्यै भवन्तु यत्नाद्धृदयं नारायणः पातुं || (आदिशब्दादुपनयनादयो बालस्य ब्रह्ममाचिणोन्ते ये संस्थिताः उद्वाहादयः तदन्तम् |) || ततो वामे खेटकेति ध्यानं स्मृत्वा पूर्णादेया | ओं हूं श्वाग्नेः चूडाद्याः ब्रह्मचारि व्रतान्ताः सर्वे संस्काराः संपूर्णाः सन्तु वौषट् स्वाहा | इति पूर्णा || ततोग्रिमदिने क्षीरार्थमग्निमुद्धृत्य नवपात्रे | (श्राप्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते | अनाहूत शिवे वह्नौ होमस्त्वा वाहिते शिवे | इति) | ओं हैं अवगुण्ठयामि हुं | इत्यवगुण्ठ्य | सुरक्षितं स्थापयेत् | यथा ते नैवाग्निनाग्रिमदिने क्षीर चरुपाकसिद्धिर्भवति || पुनः चमसपात्रपूजा पूर्वोक्ता || ततः वुभुक्षोः सद्योजातवक्त्रं | मुमुक्षोरीशानवक्त्रं (मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु च | मुक्तिकामस्य दीक्षाया मूर्ध्वव्क्त्रस्य मुख्यता || ध्यात्वावक्त्राणि पंचादौ येन यत्कर्मवांछितं | तन्मुख्यवक्त्रं संकल्प्येति ||) स्च् ४०; प्. ३९) मुख्यं वक्त्रं संकल्प्य | ततो जिह्वाज्वालालिङ्गोपरि पूजयेत् | यथा | ओं प्रभायै नमः | दीप्त्यै नमः | प्रकाशायै | अर्चायै | मरीच्यै | स्तापिन्यै | रुच्यै | करालायै लेलिहानायै नमः | इति नवजिह्वा ज्वालालिङ्गोपरि ज्वालारूपाश्चिन्तयेत् | अथ कुण्डेन व जिह्वापूजयेत् | ओं राज्यार्थायै नमः पूर्वे | ओं दाहजनन्यै नमः आग्नेये | ओं मृत्युदायै नमः दक्षे | ओं शत्रुकारिण्यै नमः नैर्-ऋते | ओं वशीकर्त्र्यै नमः पश्चिमे | ओं उच्चाटिन्यै नमः वायौ | ओं धनदायै नमः उत्तरे | ओं मुक्तिदायै नमः ईशाने | ओं सर्वसिद्धिप्रदायै नमः मध्ये | एवं स्वाहान्तेन होमः | ओं राज्यार्थायै स्वाहा | इत्यादि | ओं मध्यप्राणेति ध्यानं स्मृत्वा | ओं हूं अग्नेः जिह्वाः कल्पयामि वौषट् | इत्येकापूर्णा | ओं वामे खेटकेति ध्यानं स्मृत्वा | ओं हूं अग्नेः जिह्वासन्निधिरस्तु स्वाहा वौषट् | इति द्वितीया पूर्णा || अथ वह्नेश्चैतन्य तया कल्पितं ज्वालाग्रं | ओं हां सृङ्गृह्णामि नमः | इति हृन्मत्रेण संगृह्य | वामनासापुटेन पूरकेन स्वीकृत्य हृद्गतचैतन्यानले नैकी भावेन भैरवी कृत्य ब्रह्मरन्ध्रं गच्छेत् | तत्रानङ्गधेनुं द्विस्तनीं दुग्ध्वा तस्याक्षीरं निर्मथ्य ह विरहं घृतं निर्गतं विभाव्य तद्घृतं गृहीत्वा हृदयमवरुह्य | वाह्याग्निज्वालैकीभूते चैतन्यानले हृदि मनसा | स्वाहान्तेना घोर (स्वतन्त्रे - अथ वह्नेः परमसंस्कारकरण पूर्वं अनन्तादीन्प्रकल्पयेदिति यदुपक्षिप्तं तन्निर्वाहयति | ज्वालाग्रं तु हृदागृह्य वह्नि चैतन्य कल्पितं | आत्म हृत्स्थं तु सङ्कल्य योगपीठं तु कल्पयेत् || मध्यजिह्वानुसारेण अग्निनाभौतुकन्दगं | नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत् || वह्नि चैतन्य रूपतयाकल्पितं भावितं ज्वालाग्रं हृदा हृन्मन्त्रेणा गृह्यनासापुटेन स्वीकृत्य हृद्गत चैतन्यानलैकी भावेन भैरवी कृत्य बाह्य वह्नेः सूक्ष्मदेहस्यापि भैरवतां कर्तुं | योगोस्य शक्तयः स्वाक्या विस्फूर्जन्ति समन्तत इति मतङ्गोक्त नीत्या योगपीठमन्तादि सदाशिवान्तं शक्तिरूपं आसनमस्य कल्पयेत् कथम् | मध्यजिह्वेति || पत्राष्टकसमोपेतं सितवर्णं सुतेजसं | अनन्तं कल्पयेत् तत्र धर्मादि चरणान्तिकम् || ओंकारेण शिवान्तं च || गतार्थं मेतत् || ततः || अग्निमूर्तिं प्रकल्पयेत् | प्राग्बद्धं साक्षरेणैव | ततोपि || शिखा हृदि स्थिता या तु ध्रूवेणोत्कीलयेत्पुनः | रेचकेन क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका || ध्रूवेण निष्कलेन तत्कीलयेत् स्वचैतन्य भैरवे नैकी कृतामुद्धरेत् | ततो दक्षिणनासापुटेन बाह्य वह्निमूर्तौ क्षिपेत् | एवमेषामूर्तिर्भैरवात्मिका भवति | अथ | मूर्तिभूतं प्रकल्प्यैवमष्टात्रिंशत्कला युतम् | शोध्याध्यानं तु विन्यसेद् दिक्षाकाले वरानने || अष्टात्रिंशत्कलाः पूर्वोक्ताः दण्डवक्त्र भङ्ग्याद्युपलक्षण पराः शोध्याध्वानमिति येनाधुना श्रीगुरुर्दीक्षां चिकीर्षति | एवं कृत्वा || भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा | शास्त्रदृष्टेनेति यथोक्तावरणान्तं मानसेनार्घादिक्रमेण ||) मन्त्रेण होमं विधाय | पूर्णादेया | ओं हूं धर्माधर्महविन्दीप्ते स्वात्माग्रौमनसा सूचा | सुषुम्णावर्तमनानित्यमक्षवृत्तीः जुहोम्यहं स्वाहा वौषट् || एवं मानसिकं होमं विधाय | तं चैतन्यानलं भैरवी क्रियते | यथा वामे खेटक ध्यानेन भैरवरूपं चैतन्यानलं हृत्पद्मे स्मृत्वामानसैः पाद्यादिभिस्संपूज्य | इत्थं चैतन्यानलं भैरवी कृत्यबाह्यवह्नेः सूक्ष्मदेहस्य भैरवतां कर्तुं योगपीठमनन्तादि सदाशिवान्तं | सर्वसिद्धिप्रदाख्यमध्यजिह्वानुसारेणासनं कल्पयेत् | मानसेन विधिनाभावयेदित्यर्थः | यथा | मध्यजिह्वानुसारेण अग्निनाभौ ओं कन्दाय नमः | नाभेः हृदयावधि ओं नालाय नमः | हृदये पद्मंसितमष्टपत्रं तेषु पत्रेषु | ओं वामायै नमः | ज्येष्ठायै | रौद्र्यै काल्यै कलविकरण्यै वलविकरण्यै | सर्वभूतदमिन्यै | मध्ये मनोन्मन्यै नमः | इति देवता भावयित्वा | ओं धर्मय नमः | ज्ञानाय वैराग्याय ऐश्वर्याय | एतान्पादुकान्सितरक्त पीतकृष्णान्विभाव्य | ओं अधर्माय अज्ञाना अवैराग्या अनैश्वर्या | एतान्गात्रकान्सिंहासन पट्टिकारूपान्विभाव्य | ओं ऋग्वेदाय यजुर्वेदा सामवेदा अथर्ववेदाय | एतान्गात्रपादुकाभ्यां सहसन्धान स्च् ४१; प्. ४०) कीलकरूपान्विभाव्य | ओं कृतयुगाय त्रेतायु द्वापर्युग कलियुगा | ओं अधच्छादनाय तमोगुणाय नमः | मध्यच्छादनाय रजोगु | ऊर्ध्वच्छादनाय सत्वगुणा | ओं सदाशिवाय महाप्रेतासनाय नमः | एतानम्बुजकर्णिका धस्ताद्विभाव्य | ओं हां अग्निमूर्तये नमः | (हंसाक्षंरेण प्रणवेन तथा च श्रीस्वच्छन्दे | ओं कारेण शिवान्तं च अग्निमूर्तिं प्रसादयेत् ||) इत्यग्निमूर्तिं हं साक्षरेण कल्पयित्वा || स्वहृदयात्प्राङ्निवेशितां ज्वालां निष्कलमन्त्रेण उन्मूल्य दक्षिणनासापुटेन रेचकेन बाह्य वह्नौ भावितासनोपरिक्षिपेत् | एवमेषाग्नि मूर्तिर्भैरवात्मिका भवेत् || एवमष्टात्रिंशत्कलायुतं मूर्तिभूतं वह्निं प्रकल्प्य शोध्याध्वन्यासं कुर्यात् | यथा | मन्त्राध्वने पदाध्वने नमः | वर्णाध्वने भुवनाध्व | तत्वाध्वने कलाध्वने | इति शोध्याध्वन्यासं कृत्वा | भैरवं सदेवीकं सावरणं साङ्गं मानसेन विधिनार्घ्यादिना पूजयेत् || ततः आज्येन | ओं लं सद्योजाताख्य भैरववक्त्रं शिवाग्नि सद्योजातवक्त्रेनु सन्ददे स्वाहा ३ | ओं वं वामदेवाख्य भैरववक्त्रं शिवाग्नि वामदेव वक्त्रेनु सन्दधे स्वाहा ३ | ओं रं अघोराख्य भैरववक्त्रं शिवाग्न्यघोरवक्त्रेनु सन्दधे स्वाहा ३ | ओं यं तत्पुरुषाख्य भैरववक्त्रं शिवाग्नि तत्पुरुषवक्त्रेनुसन्दधे स्वाहा ३ | ओं क्षं ईशानाख्य भैरववक्त्रं शिवाग्नीशान वक्त्रेनुसन्दधे स्वाहा ३ | एवं जिह्वाश्च | ओं लं सद्योजाताख्य भैरववक्त्र जिह्वां शिवाग्नि सद्योजातवक्त्रजिह्वायामनुसन्दधे स्वाहा ३ | ओं वं वामदेवाख्य भैरववक्त्रजिह्वां शिवाग्नि वामदेववक्त्रजिह्वायामनु सन्दधे स्वाहा ३ | ओं रं अघोराख्य भैरववक्त्रजिह्वां शिवाग्न्यघोरवक्त्र जिह्वायामनुसन्दधे स्वाहा ३ | ओं यं तत्पुरुषाख्य भैरववक्त्र जिह्वां शिवाग्नि वामदेववक्त्रजिह्वाया मनुसन्दधे स्वाहा ३ | ओं क्षं ईशानाख्य भैरववक्त्रजिह्वां शिवग्निं ईशान वक्त्रजिह्वायामनुसन्धधे स्वाहा ३ | प्रत्येकमाहुतित्रयम् | ततो नाडीसन्धानम् | आदौ स्वात्मानं शिवाग्निचैकमेवविभाव्य | ओं हूं निर्गच्छामि नमः | ततः अग्निहृदयात्मूलमन्त्रमुच्चार्य तद्दक्षिणेन निर्गत्य स्थण्डिले शस्य वामेन प्रविश्य दक्षिणेन निर्याया देवमेव सर्वावरणेषु प्रवेशनिर्गम क्रमेणानुसन्धाय (नाडीसन्धिरतो भवेत् | तमाह || मूलमन्त्रं समुच्चार्य अग्निना सा विनिर्गतं | स्थण्डिलस्थ शिवालीनमेकाथं चैव सन्धयेत् || अग्निहृदयाद्भावनया मूलमन्त्रमुच्चार्य तद्दक्षिणेन निर्गत्य स्थण्डिले शस्य वामेन प्रविश्य दक्षिणेन निर्यायादिति क्रमेण सर्वावरणमन्त्रेष्वनुसन्धाय अग्नेर्वामेन प्रविशेत् | एकार्थमित्यभिन्नं श्रीस्वच्छन्दभैरवात्मकं वाच्यदेवतारूपम् ||) स्च् ४२; ४१) वह्नेर्वामेन प्रविशेदिति नाडीसन्धानम् | (समिधो यज्ञ वृक्षोत्थामत्वचोनिर्व्रणाः शुभाः प्रादेशमात्रास्थौल्येन कनिष्ठाभ्यधिका स्मृताः ताश्चाग्ने दीप्तये होम्यास्सप्तसप्तवरानने) ततोग्नि दीप्त्यर्थं ससिद्धोममाहुतिभिः सप्तभिः सप्तभिः कुर्यात् | तत्राघोराघोरीश्वरी निष्कलयोः सप्तकं वक्त्राङ्गनां भैरवलोकपालानां गणेशादीनां च तिस्रः तिस्रः अभावादेकैका देया || यदि दिनस्याधिक्यं तदा गणेशादीनामन्नादि द्रव्यहोमं कुर्यात् | (स्वदक्षे मण्डलकं कृत्वास्थालीमवतार्य ओं हूं सम्पातं करोमि स्वेति चरौ हेत्यग्नौ ||) स्वल्प दिने शेषे सत्ये तावदेव || ततोनुग्रहा विमुखी (आदौ समिद्धोमः ततोन्नहोमः ततः आज्यहोमः) करणायाज्याहुतिशतसष्टोत्तरं मूलस्य दद्यात् | (स्वतन्त्रे - शुद्धाज्येनाहुति शतमष्टोत्कृष्टं वरानने भैरवस्य तु होतव्यं वक्त्राङ्गनां दशांशकं भैरवाष्टकलोकेशान्दशमांशेन होमयेत् ||) देव्याभैरवादर्ध | वक्त्राङ्गानां भैरवाष्टकलोकेशादीनां च दशमांशेन होमयेत् | ततः पूर्णात्रयं दद्यात् | (मूलमन्त्र समुच्चार्य पूर्णामेकां प्रदापयेत् || सर्वमन्त्रचक्र तर्पणाय | ततोपि प्रधानभूतमूलतृप्त्यर्थं द्वितीयां पूर्णां दद्यादित्याह || भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् || ततोपि || पुनर्न्यूनातिरिक्तार्थे निच्छिद्रकरणाय च || मूलेनैव पूर्णां पातयेदिति शेषः | न्यूनातिरिक्तनिवृत्त्यर्थमेव निच्छिद्रकरणम् ||) आदौ ध्यानं | ततो | ओं हूं सर्वमन्त्रचक्र तृप्तिरस्तु स्वाहा वौषट् | इत्येका | ततो द्वितीया | ओं वामे खेटकेति | ओं हूं भैरवाप्यायनमस्तु स्वाहा वौषट् | इति द्वितीया | ततः तृतीया | ओं मध्यप्राणेति | ओं हूं न्यूनातिरिक्त विधिपूरणं चास्तु स्वाहा वौषट् | इति पूर्णात्रयम् || ततो न्यतोग्निमानीय | वैश्व देवं कृत्वा नैवेद्यं निवेद्य (आलोके || य ऊर्ध्वे किलसम्बोधः कुण्डेसप्रतिबिम्बितः | वह्निः प्राणस्स्रुक्स्रुवं च स्नेहस्संकल्पचिद्रसः || इत्थं ज्ञात्वादितः कुण्ड स्रुक्स्रुवाज्यमनून्भॄशं | द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् || यः किलोर्ध्वे स्थितसम्बोधस्सोर्थादधः कुण्डे प्रतिबिम्बितो वह्निः | यश्चैवं विधः प्राणस्तौ स्रुक्स्रुवौ यश्चैवं भेदपरामर्शात्मा चिद्रसः स स्नेह इत्यनुसन्धाय प्रथमं कुण्डादीन्द्वादशान्त विबोधाग्नौ भृशं रुद्ध्वा बिम्बप्राये तत्र तत्रारोह क्रमेण सामरस्यं प्रापयय पूर्णाहुतिं क्षिपेद्यथा प्रतिबिम्बप्रायाणां बाह्यानामेषामधोध एवाव स्थितिस्स्यात् || ननु बिम्बस्योर्ध्वोर्ध्वमवस्थाने प्रतिबिम्बस्याधोध स्थिति भवेदिति कोयं नय इत्याशङ्कां गर्भीकृत्य दृष्टान्तयति || यथा यथा हि गगनमुत्पतेत्कलहंसकः | जलेबिम्बं व्रूडत्यस्य तथेत्यत्राप्ययं विधिः || बिम्बमिति प्रतिबिम्बरूपम् |) भगवन्यक्ष्मेत्यन्तं कृत्वा गुरुब्राह्मण पूजनं कुर्यात् | यथा तन्महेशायेत्यादि अन्याच्च गायत्रीः पठेत् | अद्यतावदित्यादि गुरोश्शिवस्य तथा पूर्वोक्त कलशयागार्चि तदेवतानां दीक्षाफल प्राप्त्यर्थं गुरुपूजनं करिष्ये | एवं क्रमेणा सनादि दक्षिणान्तं प्रत्यहं कुर्यात् | तत्कृत्वा पूर्णां दद्यात् || ओं हारमनोहरवक्षसमायत चक्षुषमहीशकृतभूसं पञ्चवदनं सितरुचिरुचिरं शिशिखण्डमण्डित शिखण्डं | उद्यमनपाशविशिखासन वरखट्वाङ्गवल्लकी घण्टा दण्डद्रुघनाभ्यां सहवहन्तमिह वामबाहुनवकेन | खड्गाङ्कुशविशिखाभय कपाल डमरुत्रिशूलपविपरशून् | दक्षैर्दोर्भिर्नवभिः कलयन्तं चिन्तयेश्च भगवन्तं | सितमुपरितनं वदनं पुरतः पीतं च मेचकं दक्षं | वाममरुणं सितरुचिरुचिरं देवस्य पश्चिमं वक्त्रम् | एवमुद्भासितामेषभवगद्वेशशालिनीम् | चिन्तयेदस्य चोत्सङ्गगामघोरीश्वरीमपि | ओं हूं न्यूनाधिकान्यथा कृतकर्मप्रायश्चित्त निवृत्तिविधिपूरणं | चास्तु स्वाहा वौषट् | इति पूर्णा || ततो दिग्बलि भूततर्पणादि कृत्वा चम्यनिरोधार्घं दत्वा (निरोधस्तत्रैवा विचलत्वेनावस्थानम् |) शेषमहः शिवकथाविनोदेन नयेदिति | अधिवासदिने प्रथमाहः कृत्यमिति प्रथमदिनविधिः || प्. ४२) ओं श्रीगुरवे परमशिवस्वरूपाय नमः || ओं अथ द्वितीयेहनिप्रातः कलशपूजां प्राग्वद्विधाय कुण्डसमीपं यायात् | तत्रात्मासनाय नमः | इत्यासनं सम्पूज्यास्त्रार्घ पात्रं पूजयेत् | द्वारदेवताः दिग्देवताश्च सम्पूज्य | विधिनिरोध पश्वर्घशिवाम्बु च संपूज्य | सुदक्षे ग्रहेभ्यो नमः | स्ववामे गुरुभ्यो नमः | कुण्डमध्ये योगपीठासनाय नमः | तत्र शिवं सावरणं सम्पूज्य | ततः कुण्डदक्षे कुशस्तम्भे | ओं हूं ब्रह्मणे नमः || ततः पूर्वादि क्रमेण प्राग्वल्लोकपालार्चां कुर्यात् | ततः सुदक्षे चमसे | ओं हूं विष्णवे नमः | ततः ज्वालालिङ्गोपरिकलशे | ओं हूं शान्तिकुम्भाय नमः | इत्थं सङ्क्षेपेण पूजां विधाय || ततस्तिलैः | ओं हूं ब्रह्मणे स्वाहा ३ | ओं हूं विष्णवे स्वाहा ३ | ओं हूं रुद्राय स्वाहा ३ | ओं हूं ईश्वराय स्वाहा ३ | ओं हूं सदाशिवाय स्वाहा ३ | ततो नैमित्तिक विधानाय तिलैः | ओं हूं भैरव शिवाग्नौ सन्निधानं कुरु स्वाहा | तिलैरष्टोत्तरशतं हुत्वा | नैमित्तिकविधानाय शतं सहस्रं वामूलेन हुत्वा | ततो स्रुक्स्रुवाज्यसंस्कारान्विधाय | सर्वेषां तिलकं कृत्वा | आज्यदर्शनं कारयेत् | षडध्वदीक्षाफलप्राप्यर्थमिदमाज्यमर्पयामि नमः | वामे खेटकेति ध्यानं स्मृत्वा | ओं हूं शिवाग्नेः सर्वमन्त्रचक्र तृप्तिरस्तु स्वाहा वौषट् | ओं हूं शिवाग्नये स्वाहा ३ | ओं हूं भैरवशिवाग्नौ सन्निधानमस्तु स्वाहा वौषट् | इति पूर्णा | ततः परोडासंमत्स्यमांससहितमानीय संपातं कुर्यात् | ओं हूं सम्पातं करोमि स्वाहा इत्यग्नौ | हेति चरौ ३ | एवं सम्पातं कृत्वा | कलश यगाग्नीनां नैवेद्यं निवेद्य | दीक्षाकर्मान्तं प्रारम्भसमये प्रत्यहमेवं विधिः | तत्रैतद्दिवस वर्जमन्यदिनेष्वन्नहोमः | आदौ समिद्धोमः | ततः परमाज्य होमः | ततोर्यवतण्डुलहेमः | ओं हूं अमुकस्य दीक्षाविधौ सर्वमन्त्रचक्र सन्निधानमस्तु स्वाहा वौषट् | इत्यन्नहोमान्ते पूर्णास्मिन्दिवसेन्न होमस्य न प्रयोगः | अत्र क्षीर चरावेव होमः || (आलोके - ततः प्राक्स्थापितान्यस्तमन्त्र संस्कृतवह्निना चरुस्साध्यो || अन्यस्तमन्त्रेति | यदुक्तं | श्राप्याश्चरुपुरोडाशाः पञ्चसंस्कार संस्कृते अनाहूत शिवे वह्नौ होमस्त्वा वाहिते शिवे इति ||) अथ चरुसाधन विधिः (समाचरण) || तत्र स्थालीं निर्व्रणां शिवाम्भसाक्षालितां | ओं हैं अवगुण्ठयामि नमः हुमित्यवगुण्ठ | ओं ह्रीं स्थाल्यैष ड्रमपाचिन्यै नमः | इति) चन्दनाद्यैश्चर्चयित्वा | मृष्टधूपेन धूपयेत् | ओं हैं स्थाल्या गलके सूत्रं वध्नामि हुं नमः | इति गले सूत्रं बध्नीयात् | सदर्भास्त्र मण्डलके वर्तुलाकारे शिवाम्भसा प्रोक्षिते | ओं अनन्ताय नमः | इत्यादि | (स्वतन्त्रे - ततश्चरुं तु श्रपयेत् || पचेत्पाचयेद्वातद्वा कथं | स्थालीं सङ्गृह्य निर्वणां शिवाम्भसा तु प्रक्षाल्य कवचेनावगुण्ठयेत् | चन्दनाद्यैर्विलिम्पेत्तां मृष्टधूपेन धूपयेत् | सूत्रेण वेष्टयेत् कण्ठे वर्मभूतेन सुव्रते | अथ स्थाल्याः || दर्भेणास्त्रस्वरूपेण कल्पयेन्मण्डलं प्रिये | प्रोक्ष्य चैव शिवाद्भिस्तु कवचेनावगुण्ठयेत् || आसनं तत्र विन्यसेदनन्तादि शिवान्तगं | तत्र च | मूर्तिभूतां न्यसेत् स्थालीं तत्रस्थं भैरवं यजेत् | त्रिरावरणसंयुक्तं गन्धपुष्पैरनु क्रमात् | मानसेन प्रयोगेन भावपुष्पैर्वरानने || चरोः पुष्पादि सङ्कीर्णतया विरसतामाभूदिति पूजात्र नोक्ता ||) स्च् ४४; प्. ४३) (चुल्लिं शंप्रोक्ष्य चास्त्रेण कुण्डवच्चार्चयेत् ततः | प्रोक्षणं कुण्डोक्त संस्कारानन्तरोपलक्षणाय || ततः स्थालीं समारोप्य पश्चादग्निं न्यसेदधः | पूर्वसंस्कृतोद्धृतम् अथ स्थाल्यां | क्षीरं प्रोक्ष्य शिवाद्भिस्तु तण्डुलांश्च समासतः | मन्त्रेणाष्टशतेनैव प्रक्षिप्य पचयेश्शन्नैः || मूलमन्त्रेणदेवेशि एकचित्तः समाहितः | शनैरिति यथा स्थालीन भश्याते? | तत्र च | चालनोद्घाटनादीनि अस्त्रमन्त्रेण कारयेत् || कारयेदिति पूर्वदीक्षितशिष्येण ||) ओं सदाशिवासनाय नमः | इत्यन्तम् | इत्यनन्तादि शिवान्तमासनपक्षं न्यस्य | तदुपरि मूर्तिभूतां स्थालीं संस्थाप्य | तत्रास्यां भैरवं | सवक्त्राङ्गभैरवावरणं | सास्त्रलोकपालावरणं च भावपुष्पै | तण्डुलैर्वा पूजयेत् || (चरोः पुष्पादिसङ्कीर्णतया विरसतामाभूदिति भावपुष्पै पूजा ||) तत्राग्नि दक्षे चुल्यां | प्रत्यग्वा दक्षिण वक्त्रायां कुण्डवत्संस्कारः अस्त्रार्घ पात्रात् | यथा | ओं हः फट् प्रोक्षणं करोमि हः फट् | अस्त्रेण प्रोक्षणं | ओं हैं अवगुण्ठयामि नमः | इत्यवगुण्ठ्य | ओं हः फट् | उल्लेखनं करोमिहः फट् | एवं मृत्स्नोद्धारं | प्रोक्षणं पूरणं समीकरणं सेचनं कुट्टनं सम्मार्जनं उपलेपनं पुनः प्रोक्षणं शोषणं करोमि हः फट् | इत्येवं संस्कृतायामस्त्रमन्त्रजप्तायां | सप्ताभिमन्त्रित गव्याज्यमार्जितां स्थालीमारोप्य | तदधः पूर्वदिने कुण्डदुद्धृतं पृथग्रक्षितं | ओं हूं रं अग्निं प्रक्षिपामि हुं हः फट् | इत्यग्निं चल्ल्यां क्षिपेत् | एतश्चुल्या धस्ततरणादि यद्यपि संस्कारद्वयं पे? सर्वेषु स्तकेषु दृष्टं तथाप्युक्ष्यम् | सुतन्त्रतन्त्रालोक गुरुपुस्तिकादिषुशास्त्रेषु दर्शनात् | अस्मद्गुरुपारम्पर्या भावाश्च विरुद्धत्वाच्चेति || ओं हूं चल्यग्निं तर्पयामि श्वाहा | आन्येन आ १० | ततस्तण्डुलं चतुर्वारक्षलितं क्षीरं च शिवाद्भिः संप्रोक्ष्य | ओं हः फट् क्षालयामि नमः | क्षीरं चास्त्रेणैव वस्त्रपूतं कृत्वा | ओं हैं जलक्षीरे क्षिपामि हुं नमः | इति | स्थाल्यां क्षिपेत् | ततः प्राग्दीक्षितः अष्टोत्तर शतं जप्त्वा लब्धमन्त्रवीर्यः || समाहित एकचित्तः | तदभावे तत्कुलजो वा जपं कुर्वन् | शनैः शनैः पचेत् | ओं हैं क्रियाशक्त्यात्मिकां दर्वीं वेष्टयामि हुं नमः | इति दर्व्यासूत्रं बध्नीयात् | ततः | ओं हः फट् चालनोद्घाटनादीनि करोमि फट् | इति चालनोद्घाटनादीनि पूर्वदीक्षित हस्ते न कारयेत् || एकशिष्यविधौ तण्डुलं प्रसृति पञ्चकमितं तथैकैकाधिक्येन प्रसृति त्रयं त्रयमधिकं कल्पयेत् | तत्र च || आमेरोगभयं दग्धे मृत्युभयं | इति विचिंत्य सुष्टु कृत्वा पचेत् || ततोर्ध्वश्विन्ने चरौ तप्ताभिघारमग्नि व्याप्त्या चर्वमृत सेचनोद्दीपनात्मकमस्विन्नतादोषोपशमनाय अङ्गैस्त्रिभिस्त्रिभि कुर्यात् | स्रुवेण चरार्धेव क्षिपेन्नत्वग्नौ | यथा | ओं हां सुतप्तो भव स्वाहा ३ | ओं हीं सुतप्तो भव स्वाहा | ओं हूं सुतप्तो ३ | ओं हैं सुतप्तो ३ | ओं हौं सुतप्तो ३ | ओं हः सुतप्तो ३ | इति स्रुवेण तप्ताभिघारहोमः | (तप्ताभिघारमस्विन्ने अङ्गैश्चैव प्रकल्पयेत् | त्रिभिः त्रिभिः घृते नैव श्रुवेण जुहुयात् प्रिये || तप्तश्चासावग्नि व्याप्त्याभिघारश्च आज्यामृतसेचनेनोद्दीपनात्मा धात्वर्थानुसारादेष च दीप्तस्वाहान्तमन्त्रैः स्थाल्यां होमोस्विन्नता दोषनाशाय ||) प्. ४४) (अथ || भूमौ मण्डलकं कृत्वा प्रणवेणावतारयेत् | स्थालीमाज्योपलिप्तां तु शीताघारं होमयेत् || भैरवेण षडङ्गेन वषड्जाति युतेन च | शीत इति सोमव्याप्त्या अतिस्विन्नता दोषनाशाय अत्रान्तरे स्वा इति चरौ हा इत्यग्नौ उच्चार्य जुहुयादिति श्रीगुरवः | एवं चाग्निषोममयश्चरुः संस्कारतः सम्पन्नः | यथोक्तं स्रुतौ | योहवै तद्धविरग्नीषोमीयमाज्यं जुहोति | तस्यै तदमृती भवतीति | मृगेन्द्रोत्तरेपि | अग्नीषोमात्मकावेता वा घारौ विहितौ चरौ | अमृतत्वाप्तये तत्स्यादग्नीषोमात्कं यतः ||) चरावेवक्षिपेत् | ततो भूमौ कुण्डदक्षे सदर्भमण्डले | ओं हीं स्थालीमवतारयामि नमः | इति स्थाली मवतार्य | ओं लां लेपयामि नमः | इति लेपन मन्त्रः | लेपनं कृत्वा | शीताभिघारं सोमव्याप्त्याति स्विन्नता दोशोपसमनाय मूलेन षडङ्गेन वषड्जाति युतेणाहुतीं द्यद्यात् | स्वेति चरौ हेन्यग्नौ | यथा | ओं हूं स्वशीतो भव वषट्स्व इति चरौ | हा इत्यग्नौ | ओं हां स्वसीतो भववषट् स्वाहा ३ | ओं हीं स्वशीतो भव वषट् स्वाहा ३ | (मण्डलं कुण्डसामीप्ये कृत्वा दर्भासनं न्यसेत् | स्थालीं तस्योपरि न्यस्य सम्पातं मन्त्रसंहितां || जपनेकैक याहुत्या पातयेद् भैरवेण तु || निष्कलं तदङ्गवक्त्रोश्चार पूर्वं स्वा इत्यग्नौ | हा इति चराब्धिश्चार्य जुहुयादिति सम्पात क्रमः |) ओं हूं स्वसीतो भव वषट् स्वाहा ३ | ओं हैं स्वशीतो भव वषट् स्वाहा ३ | ओं हौं स्वशीतो भव वषट् स्वहा ३ | ओं हः स्वशीतो भव वषट् स्वाहा ३ || ततः स्वदक्षे कुण्डलसमीपे मण्डलके सदर्भे आसन पक्षं न्यसेत् | ओं आधार शक्त्यै नमः | ओं योगपीठासनाय नमः | ततः स्थालीं वह्नौ भ्रामयित्वा मण्डलोपरिसंस्थाप्य | निष्कलेन साङ्गवक्त्रेणैकैक या हुत्या सम्पातं कुर्यात् | (आलोके - एवं ह्यग्नौ स्वा इति सोमभागः सोमात्म निचरौ हा इत्यग्नि भागश्च न्यस्तो भवेद्येनोभयमप्यग्नीषोमात्मकं सम्पद्यते ||) यथा | ओं हूं सम्पातं करोमि स्वा | इत्यग्नौ | हा इति चरौ | ओं हां सम्पा | ओं हीं सम्पा० | ओं हूं सम्पा० | ओं हैं सम्पा० | ओं हौं सम्पा० | ओं हः सम्पा० || ओं क्षं सम्पातं | ओं यं सम्पा | ओं रं सम्पातं | (आलोकै || सम्पात शब्दस्यान्वर्थतां दर्शयति | सममेकानुसन्धानात्पाततो भ्यक्त्य भोग्ययोः अन्योन्यत्र च संपातात् सङ्गमाश्चेत्थमुच्यते | अत्र तुल्यकालार्थत्वं चा वयवार्थः सङ्गसार्थत्वं तु समुदायार्थः ||) ओं वं सम्पा० | ओं लं सम्पातं० || पुनर्निष्कलेनाष्टोत्तर शतजपेन परमामृतमनुस्मरन् | चरावेवाज्याहुतिं क्षिपेत् | इत्यग्नी षोमात्मकश्चरुर्भवेत् | (प्रसङ्गादग्नीषोमताभिव्यक्तये सर्वत्र सम्पात होममाह |) इति चरुसाधनम् || (खट्टिकाकरण्यौ मण्डलार्थं |) ततः करणी खटिकारजः कर्तर्याज्यतिलादीनां यज्ञाङ्गानां मूलेन सषडग्नेन प्राग्वत्स्व | इत्यग्नौ | हा इति करणी खटिकादिषु संपातं कुर्यात् || ततश्चरुं त्रिधा विभज्य कुम्भस्थण्डिल वह्निस्थाय विभवेग्र्यं भागं || ओं ठः ठः द्रव्यस्वरूपिणे ठः ठः इति निवेदयेत् | तत्र विभु नैवेद्ये यं विशेषः | पात्रे चरुं सङ्गृह्य भैरवेण पूजयेत् | पुष्पधूपादिभिस्सांपूज्य भैरवेण विभवे निवेदयेत् | ओं हूं परमामृतं चरुं विभवे निवेदयामि नमः | (भैरवस्य शतं होम्यमङ्गानां तु दशांशकम् | साधकेभ्यस्तु यच्छेषं पिधाय स्थापयेत् प्रिये | शेषमित्यवशिष्टभागरूपं स्थापयेदिति साधकाणां शिष्याणामद्याप्यसंस्कृतानां संस्कृत चरुभोजनेन धिकारात् |) कलशेपि सपरिवारेप्येवमेव विधिः | दशांशमावरणेभ्यो निवेदयेत् || द्वितीयं भागं मूलेन शतं जुहुयात् | दशांशमङ्गैः || तस्मात् तृतीयं भागं गुरुशिष्ययोः कृते स्वरक्षितं स्थापयेत् | ततो होमः || भैरवस्य शतमज्ञानां दशांशं जुहुयात् | ओं गां विनायकं तर्पयामि स्वाहा || १०८ || ओं हां भूत धात्रीं तर्पयामि स्वाहा १०८ || स्च् ४६; प्. ४५) ओं श्रीं श्रियै स्वाहा || १०८ || ओं हूं भैरवं तर्पयामि स्वाहा || १०८ || ओं हः फट् अस्त्रं तर्पयामि स्वाहा || १०८ || ओं हूं सम्पत्तिरस्तु स्वाहा || १०८ | ओं हूं अधिवाससिद्धिरस्तु स्वाहा || १०८ || ओं हूं अधिवाससिद्धिरस्तु स्वाहा || १०८ || ओं श्रीं श्रीं श्रीं हूं हूं हूं ह्रीं ह्रीं ह्रीं विलोमशान्तिरस्तु स्वाहा ३ | (विलोम व्युत्क्रम न्युनातिरिक्ता कृतदुष्कृतेषु प्रत्येकमाहुति त्रयं त्रयं दद्यात् ||) एवं व्युत्क्रमशान्तिरस्तु ३ | अकृतदुष्कृतशान्तिरस्तु ३ | न्यूनाति रिक्त दोषशान्तिरस्तु ३ | ततः श्री पूर्वे भैरव त्रय देवी त्रय गणेशादीनां होमः | यथा | ओं झ्क्ष्यूं सद्भाव भैरवाय नमः | इति पूजा | एवं स्वाहान्तेन होमः | ओं क्ष्रं ऊर्ध्वव | ओं यरं पूर्व | ओं त्रं द ओं व्रं उत्त | ओं ल्रं पश्चिमव | ओं आं हृद | ओं ईं शिर | ओं ऊं शिखा | ओं ऐं कव | ओं औं नेत्रे | ओं अः अस्त्राय फट् || ओं हसहरफरें मातृसद्भावभैरवाय नमः ३ | ओं अं ऊर्ध्व | ओं इं पूर्व? | ओं उं द व | ओं एं उ व | ओं ओं पश्चिमव | ओं आं ह्य | ओं ईं शि | ओं ऊं शिखा | ओं ऐं कव | ओं औं ने | ओं अः अस्त्रा | एवं स्वाहान्तेन होमः || ओं रहरक्षमलवय-ऊं नवात्मभैरवाय नमः | ओं क्षं ऊर्ध्ववक्त्राय नमः | ओं यं पूर्वव | ओं रं दक्षिण | ओं वं उत्तर व | ओं लं पश्चिम व | ओं आं हृद | ओं ईं शिर | ओं ऊं शिखा | ओं ऐं कव | ओं औं नेत्रे | ओं अः अस्त्राय | एवं स्वाहान्तेन होमः || ओं रयलव-ऊं रति शेखरभैरवाय नमः | एवं स्वाहा ३ | ओं अं पूर्व व | ओं इं द व | ओं उं उ व | ओं एं प व | ओं ओं ऊ व | ओं आं हृद | ओं ईं शिव | ओं ऊं शिखा | ओं ऐं कव | ओं औं नेत्रे | ओं अः अस्त्रा | एवं स्वहा ३ || ओं ह्रीः सौः परायै नमः | ओं सं पूर्व | ओं सीं द व | ओं स्थं उ व | ओं सें प व | ओं सों ऊर्ध्व व || ओं सां हृद | ओं सीं शिर | ओं स्थं शिखा | ओं सैं कव | ओं सौं नेत्त्रे | ओं सः अस्त्राय | एवं स्वाहान्तेन होमः ३ || ओं ह्रीं हूं फट् अपरायै नमः ३ | ओं सं पू | ओं सिं द | ओं स्तं त | ओं सें प | ओं सों ऊर्ध्व व | ओं सां हृद | ओं सीं शिर | ओं स्थं शिखा | ओं सैं कव | ओं सौं नेत्रे | ओं सः अस्त्राय | एवं स्वाहा ३ | ओं अघोरे ह्रीः परमघोरे हुं | घोर रूपे हः | घोरमपि भीम भीषणे व म पि व हे रु रु | स्च् ४७; प्. ४६) र | र | फट् हुं हः फट् | परापरायै नमः || ओं सं पू | ओं सिं द | ओं स्तं उ | ओं सें प | ओं सों ऊर्ध्व | ओं सां हृद | ओं सीं शिर | ओं स्थं शिखा | ओं सैं कव | ओं सौं नेत्रे | ओं सः अस्त्रा | एवं स्वाहान्तेन होमः | ततः आहुति त्रयेण गणेशादीनामपि होमः | ओं हां ब्रह्मणे स्वाहा ३ | ओं हां वास्तुपुरुषाय स्वाहा ३ || (अनुलोमस्य विधिक्रमस्य विलोमः अन्यथात्वं | तत्रन्यूनाधिके च यत्प्रायश्चित्तं प्रायः तपसि चित्तं निश्चयः तदर्थम् | मूलेन प्रायश्चित्ताय जुहोमि स्वाहा | इत्यन्तेन होमः प्रायो नाम तपः प्रोक्तं चित्तं निश्चय एव च | तपो निश्चय संयुक्तं प्रायश्चित्तं विदुर्बुधाः |) अनुलोमविलोमन्यूनाति रिक्तानां च || ओं हूं प्रायश्चित्ताय जुहोमि स्वाहा || १०८ || ततः पूर्णा आदिक्षान्तेति ध्यानं | ओं हूं अधिवाससिद्धिरस्तु स्वाहा वौषट् | इति पूर्णा || इत्यधि वासारम्भः || अथ शिष्यसंस्कारः | तत्र कलशे भैरवं पूजयित्वा | कुण्डान्तिकमागत्य | मूलस्य शतं हुत्वा | वामे खेटक ध्यानेन पूर्णां मूलेन दत्वा | यागमण्डपं प्रविशेत् || तत्र विधिनिरोध पश्वर्घ पात्रत्रयं संपूज्य | विशेषेण भगवतः पूर्ववत् पूजां कृत्वा जानुनी भूतले निधाय | शिष्यान् स्वान्तिके उपविश्य तांश्च हस्तग्राहिक या गृहीत्वा श्रीभगवदनुज्ञां ग्राहयेत् | यथा | ओं पूर्वमेवत्वया शम्भो नियुक्तोहं शिवाध्वरे | गुरुः परापरे स्थित्वा लोकानुग्रह कृद्भव | त्वच्छक्त्या घ्रात हृदयस्तदयं भगवन्मया दृष्टोद्यास्यानुग्रहार्थं प्रवृत्तोहं न लोभतः | त्वमेवचात्र भगवन्प्रमाणं सर्वकर्मणां | साक्षिभूतः स्वयं कर्ता परमः शङ्करः शिवः | तद्विशेषेणमामेव समधिष्ठाय सन्निधिम् || कुरुष्व येन त्वत्पाद समान क्रियतामियाम् | त्वदाज्ञां हृदये कृत्वा करोमि निखिलाः क्रियाः || अन्यथा कर्तुमीशाहि विद्येशा अपि किं प्रभो | त्वदा देशाद्दीक्षणीयः शक्त्या विष्टो मयामुकः || विभोरावेदयिष्यामि यद्यत्कर्म करोम्यहम् | देह्याज्ञां मे जगन्नाथ प्रसीदभगवन्मम् || इति प्रति शिष्यं चैतदाज्ञा ग्रहणं | इति गृहीताज्ञः यागमण्डप द्वारि वर्तलं मण्डलं कुर्यात् | यदि तत्र स्थानं नास्ति तदा यागमण्डपान्तरे द्वारसमीपे मण्डलकं कुर्यात् | एवं विचार्य मण्डलं कृत्वा | दर्भोपरि शिष्यमुपोषितं सौम्या (उदङ्मुखं) स्यमुत्थितं प्रसन्नवदनं गुरुः पूर्वाभिमुखः कन्दस्थानोत्थितार्चिषावलोक्य | ओं हः फट् प्रोक्षयामि नमः | इति शिवाम्भसा अस्त्रेण प्रोक्ष्य | ओं हैं अवगुण्ठयामि नमः हुं | इति कवचेनावगुण्ठ्य प्. ४७) ज्ञानखड्गेन शिरसि त्रिः सन्ताड्य | (निर्भी?जपुत्रकं ब्रह्मचारिणं |) नैष्ठिकं भस्मना च अथोर्द्ध्वमुखैर्दर्भैः | त्रिः नाभेः शिरोन्तं स्पृशेत् | यथा | ओं हः फट् इच्छाशक्तिमुद्दीपयामि हः फट् | एवं क्रिया शक्तिमु | ज्ञानशक्तिमु | इति तान्दर्भानग्नौ क्षिपेत् || पुनरधोग्रैः दर्भैः | ओं हः फट् आणवपाशं दलामिहः फट् | एवं मायीय पाशं || कार्मपाशं | इति त्रिः नाभेः पादान्तं स्पृशेत् तांश्चाग्नौ क्षिपेत् | ओं हः फट् शिष्यं प्रोक्षयामि नमः हः फट् | इति मन्त्रेणाधस्त्रीन्वारान्मलत्रयोत्पुंसनाय ऊर्ध्वं त्रीन्वायात् शक्तित्रयोद्दीपनाय पश्वर्घपात्रात् संसिञ्चेत् | ज्ञानखड्गेनेति गुरवः || तत शिष्यशरीरस्तच्छरीरे साङ्गं शिवं विन्यस्य भैरवेण पुष्पादिभिः शिष्यं पूजयेत् || अथ नेत्रपट्टोपयोगी त्रिरावृतं | सितं सदशं वस्त्रमानीय | अस्त्रेण संप्रोक्ष्य कवचेनावगुण्ठ्य | सुधूपितं मूलार्चितं कृत्वा | ओं हौं अमुकस्य नेत्रे वध्नामिहौं नमः | इति मन्त्रेण नेत्रयोर्बध्नीयात् || ततो हस्तद्वयावष्टम्भेन सिष्यमन्तः कलशवेदि समीपं प्रवेशयेत् | देवाभिमुखं कृत्वा | मूलेन पुष्पं (एकमेव) पाणौ दत्वा (करणानां बहिष्प्रसरनिवारणायान्तर्विन्यस्त भैरव प्रकाश प्रत्यङ्मुखीकरणाय च बुद्धीन्द्रियाश्रयस्य मुखस्य प्रच्छादनं || बुद्धिन्द्रिय कर्मेन्द्रियाणां संयमनाय तत्प्रधान पाण्यवष्टम्भ पूर्वं शिष्यं प्रवेशयेत् || हस्ताभ्यां तं गृहीत्वा तु विशेज्जवनिकान्तरं | ततोपि || देवस्याभिमुखं कृत्वा तस्य च पुष्पं पाणौ प्रधापयेत् | एकमेव पुष्पं मूलाभिमन्त्रितं | पुष्पपातस्य सस्यङ्निर्णयाय दत्वा | ततश्च | प्रक्षेपये तत्तोधाम्नाक्षिप्तपुष्पमिति तं प्रयुञ्जीत | तत्पातावसरे च मूलमुच्चारयेद् गुरुरित्यर्थः || विभवेसति योनिभान्नकुर्याद्विधि विस्तरं नासौ फलमवाप्नोति जातुचित्परमेश्वरीति श्रीगमशास्त्रोक्त त्वात् || आलोके - नेत्रमन्त्रित सद्वस्त्रबद्धनेत्रा न चञ्चलान् अनन्य हृदयी भूतान् बलादित्थं निरोधतः मुक्तारत्नादि कुसुमसम्पूर्णाञ्जलिकान्गुरुः | प्रवेश्य स्थण्डिलोपाग्रे उपवेस्यैव जानुभिः | प्रक्षेपयेदञ्जलिं तं तैश्शिष्यैर्भावितात्मभिः | अञ्जलिं पुनरापूर्य तेषां लाघवतः पटम् | दृशोर्निवारयेत् सोपि शिष्योरधटिति पश्यति | तैरित्येवं प्रवेशितैः प्रयोज्य कर्तृभिः लाघवत इति यथाम्यरधदित्येव स्थण्डिल दर्शनं भवेदिति भावः || आलोके - एवं मण्डलदर्शने नास्य किं स्यादित्या शंक्याह | झटित्यालोकिते मन्त्र प्रभावोल्लासिते स्थले | तदावेश वशाच्छिष्यस्तन्मयत्वं प्रपद्यते || एतदेव दृष्टान्तोपदर्शनेन हृदयं गमयति || यथा हि रक्त हृदयस्तांस्तान्कान्तागुणान्द्वयम् | पश्यत्येवं शक्ति पातसंस्कृतो मन्त्रसन्निधिम् || स्वयमिति न रूपायान्तरापेक्षणेन | तथात्वे हि झटित्येव तद्दर्शनमस्य न स्यात् || ननु लावण्या दयः कान्ता गुणा दृश्या इति ता ननु रक्त हृदयः पश्यतां नाम मन्त्राः पुनरदृश्य त्वात् सन्निहित त्वेपि कथ सर्वाग्दृशां चक्षुरादीन्द्रियगोचरतामासादयेयुरित्या संक्याह || चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता || चक्षुरादीन्द्रियाणां हिता दृशे शक्तिपातलक्षणे सहकारिणि सति | प्रागत्यन्तमदृष्टेप्यनु भवसंस्काराभावाद्विकल्पस्य ज्ञानस्या विषयेपि मन्त्रादौ दृशि क्रियाकारण तायां योग्यता जायेत तथा सम्भावनीयमित्यर्थः || किमत्र प्रमाणमित्यासंक्याह | कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलं | प्रतिमादि च पश्यन्तो विदुस्सन्निध्य सन्निधी || || स्वतन्त्रे || मुखमुद्घाट्य दर्शयेत् | विद्यामन्त्रगणैः सार्धं कारणं स सदाशिवम् || कारणमिति श्रीनिष्कलनाथं सहसदाशिवेन श्रीसकलभट्टारकेन वर्तमानं | अथासौ || अज्ञानपटनिर्मुक्तो प्रबुद्धः पशुरीक्षते | दण्डवद्धरणीं गत्वा प्रणीपत्य पुनः पुनः || अज्ञानेत्यनेन पटापाशने व्याप्ति रुक्ता प्रागवस्थो यः पशुः स इदानीमेव प्रबुधः अत एव जन्मसहस्रा पूर्वभगवत् स्वरूपावलोकनाद्विस्मयाविष्टः पुनः पुनर्भगवन्तमीक्षते | दण्डवद्गमनेन देहादि प्रमातृता पहस्तनाच्छ्रीशिव समावेशानुसरणे योग्यतास्य दर्शिता | अत एवासौ || कृतकृत्यः प्रहृष्टात्मा || तं च || प्रहृष्टनयनं शिशुं | उत्थाप्यहस्तात्संगृह्य दक्षिणां मूर्तीमानयेत् || चिदानन्दात्मक स्वरूपस्पर्शात् प्रहृष्टनयनमुत्थाप्येति चिरतरं देहादि भूमिमग्नं तत उन्मज्ज्य युक्त्येत्यर्थः दक्षिणामनु कूलां शिवात्मिकामेव न तु पाशवीं देहमयीं श्रीमदघोरभट्टारकसम्मुखं च ||) स्थापयेत् | ततः तत्पुष्पं स्थण्डिले प्रक्षिपेत् तत्पातावसरे गुरुर्मूलमन्त्रमुदीरयेत् | ततोस्य नेत्रपट्टमुन्मोच्य | स्थण्डिलार्चित (कलशार्चित) मन्त्रवृन्दं दर्शयित्वा | तं दण्डप्रणतिं कारयेत् | (नेत्रपटमोचनस्तज्ञानपटनिर्मुक्तिः ||) ओं नमोस्तु सर्वयोगिभ्यस्सिद्धेभ्यश्च नमो नमः | मूर्तामूर्तेश्वर ग्राहिन्नमः शक्तिगणायते | तमुत्थाप्य बद्धनेत्र पट्टं यागवेद्यग्रमेवमेवनीत्वा | नेत्रपट्टमुन्मोच्य स्थण्डिलस्थं देवगणं मान्त्ररूपं दर्शयित्वा दण्डप्रणतिं कारयेत् | नमोस्तु सर्वेति | एवमुक्त्वा प्रणमेन्नेत्रपट्टं विनैव गुरुः हस्तग्राहिक याग्नेः समीपं गत्वा निजदक्षे साक्ष तदर्भमण्डले स प्रणवासने वर्तुलाकारे शिष्यमुदङ्मुखं निवेश्य | अत उपरिसंस्कारः प्रतिशिष्यं पृथक्पृथग्यत्नेन विधेयः | समाप्ति पर्यन्तं शिष्यस्य आचर्यत्व करणे अवश्यमेव पृथक्संस्कारः कार्यः || साधकानां तु समुदाये प्येक एव कदाचिद विलम्बा येति गुरवः || यथा | ओं हः फट् ताडयामि (विद्यर्घादस्त्रेण ताडनम्) हः फट् इत्यस्त्रेण संताड्य | ओं हः फट् प्रोक्षयामि हः फट् | इति शिवाम्भसा प्रोक्ष्य | ओं हैं अवगुण्ठयामि नमः हुं | इत्यवगुण्ठ्य अमृतमुद्रया मृतीकृत्य (तत्र यागवेदि समीपे निजदक्षे साक्षतदर्भमण्डले शिष्यमुदग्वदनमुपवेश्य यदि सङ्घट्टत्वाद्यागवेद्यग्रे स्थानं नास्ति तदाग्नि समीपे मेव नये देवं विचार्य प्रोक्षणादीनि कुर्यात् | उदङ्मुखस्य विध्यर्घार्ताडितोस्य क्षितस्य चेति गुरुपुस्तिकायां |) स्च् ४९; प्. ४८) तत्र मण्डलकं कृत्वा पुष्पेन प्रणवासनं | तस्योपरि शिशुं न्यस्य ऊर्ध्वकायमुदङ्मुखं || गुरुः पूर्वाननः स्थित्वा प्रोक्षणादीनि कारयेत् || आदिशब्दात्ताडनालम्बने प्राग्वत् | कारयेदिति कुर्वतो मन्त्रांस्तद्वीर्यानु प्रवेशेन प्रयुञ्जीत अथात्रासने | उपवेश्य ततः कृत्वा सकलीकरणे विधिं | विष्लेषफलसिद्ध्यर्थं मुमुक्षोः साधकस्य वा || सामान्येन कृत संस्कारस्य दृष्टभगवत् स्वरूपस्यापि शिवपूजाग्नि कार्यादौ सकलीकृतविग्रहः नान्यथा प्राक्स्वरूपेणेति वक्ष्यमाणत्वात् पुनर्यथा योगं भोगाय मोक्षाय वा श्रीशिवार्चाद्यर्हत्व निशेषफलसिद्ध्यर्थं सकलीकरणेस्य विधिं कृत्वा कलाध्वानं न्यसेत् पश्चादिति व्यवहितेन सम्बन्धः सकलीकरणं क्रमेणादि शति | गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत् | कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु || गन्धादिग्धाविति गन्धेन कुलकादिनादिग्धौ व्याप्तौ शिवार्चाद्यर्हत्वात्मक विशेषफलसिद्ध्यर्थं सकलीकरणम् || तयोरेव च | अनन्तमासनं कल्प्य भैरवाङ्गानि विन्यसेत् | भैरवश्चाङ्गानि चेति द्वन्द्वः |) विशेषफलार्थिनो मुमुक्षोः साधकस्या वा सकलीकरणमित्थं कुर्यात् | गुरुशिष्यमपि करौ गन्धदिग्धौ कृत्वा अस्त्रेण परिशोध्य | कवचेनावगुण्ठ्य अमृतेनाप्लाव्य | ओं अनन्तासनाय नमः | पद्मासनाय | सदाशिवासनाय | इत्यासनन्यास पूर्वं स्वं मन्त्रं हस्तयुगलमध्ये न्यस्य | परज्योतिर्मये क्षणाभ्यां शिष्यं संवीक्ष्य रेचकेन शिष्यहृदयं प्रविश्य | तस्य हृदयात् तदात्मानं द्वादशान्तं प्रापयय भावनया सिष्यस्य शोषणादीनि कुर्यात् | यथा | ओं क्ष्यूं शिष्यतनुं शोषयामि नमः | इति सूर्यरूपं प्रणवं सर्वदेहव्यापकं संचिन्त्य तेन शरीरं शुष्कतरुप्रख्यं चिन्तयेत् | ओं रक्षरय-ऊं शिष्यतनुं दाहयामि नमः | इति दक्षिणपादाङ्गुष्ठात्कालाग्निमुत्थितं ध्यात्वा | तज्ज्वालया शरीरं भस्मीभूतं चिन्तयेत् | ओं यलूं तनोरुत्प्लावनं करोमि नमः | इति शारीरं भस्मवायुनादशदिग्गतं भावयेत् | ओं वं तनुमाप्लावयामि नमः | इति चिद्बिन्दुश्रुतामृतधाराभिस्तत्थानं क्षालितं भावयेत् || यथा विषस्येव मारकत्वं मन्त्रशक्त्या निवार्यते | न स्वरूपं तथा देह प्राणाहन्ताधारणाभिर्विगाल्यते || ततो शिष्यदेहं व्योमवश्चैतन्यकनकाग्निवत्संचिन्त्य व्योम्नि शून्ये जीवं तडिदाकारं भावयेत् | पुनर्वैन्दवामृत सम्पूर्णां तनुं दिव्यां विभाव्य (स्वच्छन्दोक्त नीत्या) शिष्यस्य कन्दाधः | ओं आधारशक्त्यै नमः | इति शक्तिं विन्यस्य शक्त्युपरि | ओं पद्मासनाय नमः | इति प्रणवेण कमलं विन्यस्य कमलोपरि ज्योतिर्मयं आत्मानं ध्यात्वा | मूर्तिमत्वेन मूर्तिभूतं कल्पयेत् || (गुरुपुस्तिकोक्त नीत्या) अथवा || उपविष्टस्य शिष्यस्य कन्दाधः | ओं आधारशक्त्यै नमः | इत्याधारशक्तिं भावयित्वा नाभौ | ओं धात्र्यै नमः | धात्र्युपरि | कलनापदे | ओं क्षीरार्णवाय | हृदिपद्मासनाय नमः | इति हृदिपद्मं | ओं चन्द्रमण्डलाय | इति बहिः सप्तधातुषु चन्द्रमण्डलवेष्टितं | अकार उकार मकारात्मकं आत्मतत्व विद्यातत्व शिवतत्व व्याप्तदलकेसरकर्णिकं | ओं ह्रीं अनन्ताय नमः | ओं झ्रूं सूक्ष्माय | ओं मूं शिवोत्तमाय | ओं क्रूं एकनेत्राय | ओं क्ष्यां एकरुद्राय | ओं यलूं त्रिमूर्तये | ओं ह्जूं श्रीकण्ठाय नमः | ओं श्रीं शिखण्डिने | इति विद्येश्वरपत्रं || मन्त्रकेसरं | ओं वामायै ज्येष्ठायै रौद्र्यै काल्यै स्च् ५०; प्. ४९) कलविकरण्यै | बलविकरण्यै | सर्वभूतदमन्यै | मनोन्मन्यै | इति वामादि नवबीजतत्वं | शक्तिकर्णिकं विद्याब्जं भावयित्वा | तदुपरि | ओं हूं हां हूं ओं शिष्यात्मानमवतारयामि नमः | इति शिष्यजीवं द्वादशान्तादवतार्य कमलोपरि शिष्यात्मानं ज्योतिर्मयं ध्यात्वा | ओं लं सद्योजातमुर्त्तये नमः | इति मूर्तिभूतं प्रकल्प्य अमृताप्लावैराप्याययेत् | इत्थं शिवीभूतस्य शिष्यस्य मनसान्यासं कुर्यात् | आदौ वक्त्रन्यासं अङ्गन्यासं संक्षेपेण कलान्यासं च | ओं क्षं तारादिभ्य ईशानकलाभ्यो नमः मूर्ध्नि | ओं यं शान्तादिभ्यः तत्पुरुषकलाभ्यो नमः वक्त्रे | ओं रं तमादिभ्यः अघोरकलाभ्यो नमः हृदये | ओं वं रजादिभ्यः वामदेवकलाभ्यो नमः गुह्ये | ओं लं सिद्धादिभ्यः सद्योजातकलाभ्यो नमः सर्वदेहे | इति मन्त्रन्यासानन्तरं शोध्याध्वन्यासं कुर्यात् | यथा || तत्र कला दीक्षायां पञ्चकलाः || निवृत्तिः प्रतिष्ठा विद्या शान्तिः शान्त्यतीताख्याः गर्भे कृते तराध्व पञ्चकाः सृष्टिक्रमेण न्यसेत् || ब्रह्मरन्ध्राल्ललाटान्तं शान्त्यतीता कला (न्यासः सृष्टिक्रमात् प्रोक्तः शोधनं त्वन्यथा क्रमात् ||) (स्फटिकाभा तथा कृष्णा रक्ता शुक्ला च पीतका | सांत्यतीतादिकाज्ञेयास्तत्वभूतास्तुता कलाः || तत्वभूता इति खादि पृथिव्यन्ताः तत्वरूपतां प्राप्ताः अत एवासां तथोचितमेवध्यान मुक्तमित्येष शुद्ध तत्व सृष्ट्यर्थं कलापञ्चक न्यसोत्राधिवासेत् वदुक्तः पुत्रकादीनां तु भावि पटले न्यथैव संहारक्रमेण दीक्षर्थमसौ भविष्यति इति नात्रा प्राकरणिकमेतदिति भ्रमितव्यम् ||) तस्या मण्डलं वृत्तं बिन्दुलाञ्छितं (ध्वजलाञ्छितं) स्फाटिकाभं ध्यानं | एकास्यं | वरदाभयपाणिं तस्यामन्तस्तत्वमेकं शिवतत्वं || १ || तत्र समनातः अर्धचन्द्र बिन्द्वन्तव्याप्तिकं भूमिका प्रमेय रूपं भुवन षोडशकं || तत्र समनायां महामायारूपायां तच्छक्तिमारूढः पञ्चविधकृत्यकारी शिवः तद्भुवनं || १ || तदनु व्यापिन्यां अनाश्रित भुवनं || २ || अनाथभुवनं || ३ || अनन्तभुवनं || ४ || व्योमरूपभुव || ५ || व्यापिभुव || ६ || शक्त्यावरणे | सूक्ष्मासुसूक्ष्मा अमृता अमृताख्य शक्ति चतुष्टय परिवृतं | पराशक्तिभुवनं || ७ || नादान्ते | सुषम्णेश परब्रह्माऽधिष्टितमेकं || ८ || नादावरणे ऊर्ध्वगा भु || ९ || रोचिका भु || १० || मोचिका भू || ११ || दीपिका भु || १२ || ऋन्दिका भु || १३ || ततो निरोधिन्यां रुन्धनी रोधिनी रौद्री ज्ञानबोधा तमोपहादि निजनिजलेप पञ्चक परिवृतं निरोधिनी भु || १४ || ततोर्धेन्दौ ज्योत्स्ना ज्योत्स्नावती कान्ति सुप्रभा विमलायुतं अर्धेन्दु भौव || १५ || बिन्द्वा स्च् ५१; प्. ५०) वरणे निवृत्ति प्रतिष्ठा विद्या शान्ता परिवृतं शान्त्यतीता भु || १६ || एवं भुवनानि || १६ || ओं इति पदं १ मन्त्रः धामत्रयमयनेत्राभिन्न ईशानः || वर्णा अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः || १६ || पुर्यष्टकांशो मनः | अत्रैव सूक्ष्मोध्वा | वीजे नादाहङ्कारौ | नाड्यौ कुहुशिङ्खिन्यौ | वायू देवदत्तधनञ्जयौ | इन्द्रिये वाक्श्रोत्रे | विषयः शब्दः शब्दतन्मात्रं च | गुणः शब्दः | अवस्था तुर्यातीता कारणं सदाशिवः | इति गर्भीकृते तराध्वानं शान्त्यतीताकलां न्यस्य || १ || अथ ललाटात्ताल्वन्तं शान्ताकलां गर्भीकृते तराध्वपञ्चकां सृष्टिक्रमेण भावयित्वा न्यसेत् | तद्यथा || अस्यामण्डलं वृत्तं कृष्णं षडश्रं बिन्दुलाञ्छितं ध्यानमेकास्यं वरदाभयपाणिस्तस्या गर्भे सदाशिव ईश्वर विद्याख्यं तत्वत्रयं तेष्वन्तः भुवनानि सप्तदश १७ सदाशिव तत्वे ब्रह्माङ्गसकलाद्यष्टक शिवरुद्रभेदावरण गतानन्तरुद्रभुवनव्यापकं सदाशिव भुव || १ || ईश्वर तत्वे रुद्रोङ्काराज्ज्ञानशक्त्यन्तं भुवनैकोन षष्ठ्या सह ज्ञानक्रियाशक्त्योः भुवनमेकं || २ || (सूक्ष्मावरणमूर्द्धोतस्तत्र शक्तित्रयं विदुः वामाज्येष्ठा च रौद्रा च शक्तयस्समुदाहृताः |) वामाज्येष्ठारौद्रीणां भुवनमेकं ३ | (अतो रूपमवस्थानं तत्र रुद्रान्निबोधमे | धर्मो ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ||) ऐश्वर्यभुव || ४ || वैराग्यभुव || ५ || ज्ञान भुव || ६ || धर्मभु || ७ || अनन्तेश भु || ८ || सूक्ष्मभु || ९ || शिवोत्तमभु || १० || एकनेत्रभु || ११ || एकरुद्रभु || १२ || (अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः | एकनेत्रैक रुद्रौश्च त्रिनेत्रश्च प्रकीर्तिताः || श्रीखण्डश्च शिखण्ड्डीश्च ज्ञेया विद्येश्वराः क्रमात् ||) त्रिमूर्ति भु || १३ || श्रीकण्ठ भु || १४ || शिखण्डिभु || १५ || ईश्वरतत्वे ईश्वर भु || १६ || शुद्धविद्या तत्वे भृगुणी ब्रह्मवेताली स्थाणुमती अम्बिका रूपिणीमन्दिनी ज्वालाख्यानां भुवनमेकं || १७ || (भृगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा | रूपिणी मन्दिनी ज्वाला सप्तसंख्यास्तदीश्वराः || विद्याराज्यः समाख्यात् ||) (प्रदत्वात्पदानि ||) पदानि ११ | हपदं | र पदं | क्ष प | म प | ल प | व प | य प | ऊं पदं | ह प | ओं प | र पदं एवं || ११ || वर्णा ३ कवर्णः | ख व | ग व ३ | अस्त्रमन्त्रः | पुरुषमन्त्रः || सूक्ष्मोध्वा चिद्रोधिनी | बीजौ बिन्दुयकारौ | नाड्यौ य शालम्बुसे | वायू कूर्म कृकरौ | इन्द्रिये त्वक्षाणी | विषयः स्पर्शः स्पर्श तन्मात्रं च | गुणौ शब्दस्पर्शौ | अवस्था तुर्या | पुर्यष्टकांसौ बुद्ध्यहङ्कारौ कारणमीश्वरः | इति गर्भीकृते तराध्वानं शान्तां कलां विभाव्यललाटात्ताल्वन्तं व्यप्य स्थितां भावयित्वा न्यसेत् || २ | स्च् ५१; प्. ५१) अथ विद्यायास्तालुनोनाभ्यन्तं व्याप्तिः || तस्याः मण्डलं त्र्यस्रं रक्तं स्वस्तिकलाञ्छितं ध्यानमेकास्यं वरदाभयपाणिः | अत्रान्तरे तत्वानि ७ | मायातत्वं १ | (गोपतिश्च ततो देवी अधोग्रन्थे व्यवस्थितः || ग्रन्थ्यूर्ध्वे संस्थितो विश्वस्त्रिकालः क्षेम एव च | ब्राह्मणोधिपतिश्चैव शिवश्चेति स पञ्चमः || अत-ऊर्ध्वमनन्तस्तु ||) कालत २ कलात ३ नियतित ४ विद्यात ५ रागत ६ पुरुषत ७ || भुवनानि २७ मायातत्वोर्ध्वे विश्वेशभुवनं १ | त्रिकालभु २ क्षेमभु ३ | ब्रह्माधिपति भुवनं ४ | शिवभु ५ | मायामध्ये अनन्तभु ६ मायाधः गोपति भु ७ कालकलातत्वयोः | (कालतत्वे महादेवि महादेव त्रयं स्थितम् | महादेवो महातेजा महाज्योतिः प्रतापवान् ||) महादेवभुव ८ | महातेजोभु ९ | महाज्योतिर्भु १० | नियति विद्ययोः मनोन्मनभु ११ | वामभु १२ | ज्येष्ठभु १३ | रौद्र १४ | कालभु १५ | सर्वभूतदमनभु १६ | कलविकरणभु १७ | बलविकरणभु १८ | बलप्रमथनभु १९ | रागपुरुषयोः | (विद्यातत्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु | वामो ज्येष्ठश्च रौद्रश्च कालो विकरणस्तथा || बलविकरणश्चैव बल प्रमथनस्तथा | सर्वभूतदमनश्च तथा चैव मनोन्मनः ||) अनन्तेशभु २० | सूक्ष्मभु २१ | शिवोत्तमभु २२ | एकनेत्रभु २३ | एकरुद्रभु २४ | त्रिमूर्तिभु २५ | श्रीकण्ठभु २६ | शिखण्डिभु २७ | पदानि २० | क्ष पदं | म प | ल प | व प | य प | ऊं प || र प | ह प | ओं प | क्ष प | म प | ल प | व प | य प | ऊं प || क्ष प | ह प | र प | ओं प | म प | एवं २० || वर्णाः ७ | घ वर्णः | ङ व | च व | छ व | ज व | झ व | ञ व || कवचा घोरौ मन्त्रौ || अथ सूक्ष्मोध्वा | चिद्रोधी || बीजौ रसौ | नाड्यौ हस्तिजिह्वा पूषे | वायू नागव्यानौ | इन्द्रिये चक्षुष्पादौ | विषयो रूपं रूप तन्मात्रं | गुणाः रूप स्पर्शशब्दाः | अवस्था सुषुम्णा | पुर्यष्टकांशौ गन्ध रूपे | कारणं रुद्रः | एवं गर्भीकृत समस्ताध्वानं विद्याकलां भावयित्वा न्यसेत् || ३ || अथ प्रतिष्ठानाभेर्गुल्फान्तं व्यप्यस्थिता | तस्यामण्डलमर्धचन्द्रा कृति पुण्डरी कलांकितं शुक्लं ध्यानमेकास्यं वरदाभयपाणिस्तस्या मन्तस्तत्वानि २४ || प्रकृति तत्वं १ बुद्धि त २ अहंकार त ३ मनस्त ४ श्रोत्र त ५ त्वक्त्वत्वं ६ चक्षुस्त ७ जिह्वा त ८ घ्राण त ९ वाक्तत्वं १० पाणि त ११ पादत १२ | पायुत १३ उपस्थ त १४ | शब्द त १५ स्पर्श त १६ | रूप त १७ रस त १८ गन्ध त १९ अकास त २० वायु त २१ तेजस्तत्वं २२ जल त २३ प्रकृतेश्च गुणसहभावात्तेन गुणतत्वं २४ | स्च् ५३; प्. ५२) प्रकृतेरारभ्य शतरुद्रान्तं श्रीकण्ठस्याधिकारः || (अकृतं च कृतं चैव भैरवं ब्राह्ममेव च | वैष्णवं त्वथ कौमारं औमं श्रीकण्ठमेव च ||) तत्र प्रकृतौ | श्रीकण्ठ भु १ | औमभु २ | कौमारभु ३ | वैष्णवभु ४ | ब्राह्मभु ५ | भैरवभु ६ | कृतभु ७ | अकृत भु ८ || इति योगाष्टकं || (छगलाण्डं द्विरण्डं च माकोटं मण्डलेश्वरम् | कालाञ्जनं शङ्कुकर्णं स्थूलेश्वर स्थलेश्वरौ || स्थाण्वष्टकं समाख्यातं) अथ बुद्धौ | पितामहभु १ | प्रजेशभु २ | अमृतभु ३ | विभूतिभु ४ | स्वरूप भु ५ | स्वभद्र भु ६ | करालभु ७ | सुनन्दभु ८ || इति देवयोन्यष्टकम् || (स्थाणुवत्तिष्ठन्त्यस्मिंस्तन्मात्रेन्द्रियाधिष्ठातृ द्वारेण सर्वाभोग सम्पदिति स्थाणु शब्दाभिधेयमष्टममेतत् | अहङ्कारादारभ्य गन्धतत्वान्तं व्यापि स्थिता च्छागलाण्डादि स्थूलेश्वरा रुद्राः ||) अहङ्कारादारभ्य गन्धतत्वान्तं व्याप्य स्थितं स्थाण्वष्टकम् | (आकाशेष्टौ रुद्रावस्त्रापदादि स्थाण्वन्ताः एतत् पवित्राष्टकं | पवित्रत्वमस्य निरावरण पदनिष्ठत्वेन पूर्वेभ्यो प्युत्कर्षात् ||) तद्यथा | च्छगलाण्डभु १ | द्विरण्डभु २ | माकोट भु ३ | मण्डलेश्वर भु ४ | कालिञ्जर भु ५ | शङ्कुकर्णभु ६ | स्थूलेश्वरभु ७ | स्थूलेश्वर भु ८ | सर्वाणि २४ || (वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् | गोकर्णं भद्रकर्णं च स्वर्णाक्षस्थाणुमष्टमम् || पवित्राष्टकमेतद्धि समासेन प्रकीर्तितम् |) आकाशतत्वे | वस्त्रापदभु १ | रुद्रकोटिभु २ | अविमुक्त भु ३ | महालयभु ४ | गोकर्णभु ५ | भद्रकर्ण भु ६ | स्वर्णाक्षभु ७ | स्थाणुभु ८ | इति पवित्राष्टकम् || (गयां चैव कुरुक्षेत्त्रं नाखलं कनखलं तथा | विमलं चाट्टहासं च माहीन्द्रं ममष्टमम् | गुह्याद्गुह्यतरं ह्येतद्वेदितव्यं प्रयत्नतः ||) वायुस्तत्वे | गयाभु १ | कुरुक्षेत्त्र भु २ | नाखलभु ३ | कनखल भु ४ | विमल भु ५ | अट्टहासभु ६ | महीन्द्रभु ७ | भीमभु ८ | इति गुह्यातिगुह्याष्टकम् || (हरिश्चन्द्रश्च श्रीशैलं जाल्ममाम्रातकेश्वरम् | महाकालं मध्यमं च केदारं भैरवं तथा | अतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमात् ||) अथ तेजस्तत्वे | हरिचन्द्रबु १ | श्रीशिल भुव २ | जाल्मभु ३ | आम्रातकभु ४ | महाकालभु ५ | स्वमध्यमभु ६ | केदारभु ७ | भैरव भु ८ | इत्यति गुह्याष्टकम् || (अमरेशं प्रभासं च नैमिषं पुष्करं तथा | आसाडिदिण्डिमुण्डं च भारभूतिं चलाकुलं | गुह्याष्टकमिदं ख्यातं जलावरणगं प्रिये ||) अप्तत्वे आमरेशभु १ | प्रभासभु २ | नैमिषभु ३ | पुष्कर भु ४ | आषाढभु ५ | दिण्डिमुण्ड भु ६ | भारभूतिभु ७ | लकुलेशभु ८ | इति गुह्याष्टकम् | सर्वाणि प ६ || पदानि २१ | ल पदं | व प | य प | ऊं प | म प | ह प | र प | क्ष प | ओं प | ल प | व प | य प | ऊं प | ल प | ह प | र प | क्ष प | म प | ओं प | व प | य प || २१ | वर्णाट्टादिहान्ताः २३ | ट वर्णः | ठ व | ड व | ढ व | ण व | त व | थ व | द व | ध व | न व | प व | फ व | ब व | भ व | म व | य व | र व | ल व | व व | श व | ष व | स व | ह व | इति वर्णाः २३ || शिखा शिरो वामदेवाः मन्त्राः ३ सूक्ष्मोध्वा चिद्रोधी | बीजे उ वौ | नाभौ सुषुम्णागान्धार्यौ | वायू उदानसमानौ २ | गुणाः रस | रू स | स्पर्शशब्दाः || विषयाणि सर्वाणि यथा शब्दविषयः | स्पर्शविषयः | रूपविषयः | रसविषयः | गन्धविषयः || इन्द्रियाणि सर्वाणि | यथा | स्रोत्रेन्द्रियं त्वगिन्द्रियं स्च् ५४; प्. ५३) चक्षुरिन्द्रियं | जिह्वेन्द्रियं | घ्राणेन्द्रियं | वागिन्द्रियं | पाणीन्द्रियं | पादेन्द्रियं | पाध्विन्द्रियं | उपस्थेन्द्रियं || तन्मात्राणि सर्वाणि | यथा | सब्दतन्मात्रं | स्पर्शतन्मात्रं | रूपतन्मात्रं | रसतन्मात्रं | गन्धतन्मात्रं || एतानि सूक्ष्मतनुस्थानि || कञ्चुक षट्कमपि सूक्ष्मतया स्थितं || अवस्था स्वप्नः || पुर्यष्टकांसो रसः | कारणं विष्णुः | इति समस्ताध्व गर्भां प्रतिष्ठां भावयित्वा न्यसेत् || ४ || अथ निवृत्तिकलायाः गुल्फात्पादान्तं व्याप्तिः | तस्यामण्डलं चतुरस्रं वज्रलाञ्छितं पीतं ध्यानं || वरदाभयपाणिरित्यादि | तदन्तः शतकोटिविस्तीर्णं योजनानां | पृथ्वीतत्वमेकं १ | भुवनानि १०८ || उपरिवीरभद्रस्वामी | तत्र च | शम्भुभुवनं १ | विभुभुवनं २ | गणाध्यक्षभु ३ | त्र्यक्षभु ४ | त्रिदशेशभु ५ | संवाहभु ६ | विवाह भु ७ | नभोभु ८ | लिप्सुभु ९ | त्रिलोचनभुव १० | इति ऊर्ध्वे (शम्भुविभुगेणाध्यक्षस्त्र्यक्षस्तु त्रिदशेश्वरः संवाहश्च विवाहश्च नभो?लिप्सु स्त्रिलोचनः ब्रह्मणो बलमाक्रम्य प्रभुशक्ति समन्विताः विचरन्ति महादेवा ब्रह्मणैव सुपूजिताः |) कपालेशभु १ अजभु २ ब्रध्न भु ३ वज्रदेह भु ४ प्रमर्दन भु ५ विभूति भु ६ अव्ययभु ७ शास्तृभु ८ पिनाकिभु ९ त्रिदशादि पतिभु १० || इति पूर्वे || (कपालेशो ह्यजोब्रध्नो वज्रदेहः प्रमर्दनः | विभुतिरव्ययश्शास्त्रा पिनाकी त्रिदशाधिपः || इन्द्रस्य बलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा इन्द्रेण च प्रपूजिताः ||) अग्निरुद्र भुव १ | हुताशभु २ | पिङ्गलभु ३ | खादकभु ४ | हरभु ५ | ज्वलनभु ६ | दहनभु ७ | वभ्रूभु ८ | भस्मान्तक भु ९ | यमान्तक भु १० | इत्याग्नेययां || (अग्निरुद्रो हुताशी च पिङ्गलः खादको हरः | ज्वलनो दहनो बभ्रू भस्मान्तक यमान्तकौ || अग्नेर्बलं समाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवा अग्निराज सुपूजिताः ||) याम्यभुव १ | मृत्युभु २ | हरभु ३ | धातृभु ४ | विधातृ भु ५ | कर्तृभु ६ | संयोक्तृ भु ७ | वियोक्तृभु ८ | धर्मपतिभु ९ | अधर्मपतिभु १० | इति याम्ये || (याम्यो मृत्युहरो धाता विधाताकर्तृसंज्ञकः | संयोक्ता च वियोक्ता च धर्माधर्मपतिस्तथा || यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा यमराज प्रपूजिताः ||) नैर्-ऋतभुवनं १ | मारणभु २ | हन्त्रिभु ३ | क्रूरदृष्टिभु ४ | भयान्तकभु ५ | ऊर्ध्वकेशिभु ६ | विरूपाक्षभु ७ | धूम्रभु ८ | लोहित भु ९ | दंष्ट्रिभुवनं १० | इति नैर्-ऋते || (नैर्-ऋतो मारणोहन्ता क्रूरदृष्टिर्भयान्तकः | ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहित दंष्टिकः || नैर्-ऋतं बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा नैर्-ऋतेन्द्र सुपूजिताः ||) बलभुवनं १ | अतिबलभु २ | पाशहस्तभु ३ | महाबलभु ४ | श्वेतभु ५ | जयरुद्रभु ६ | दीर्घबाहुभु ७ | जलान्तकभु ८ | मेघनादभु ९ | सुनादभु १० | इति पश्चिमे || (बलो ह्यति बलश्चैव पाशहस्तो महाबलः | श्वेतोथजयभद्रश्च दीर्घबाहुर्जलान्तकः || मेघनादीशु नादी च समासात् परिकीर्तिताः | वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः || विचरन्ति महादेवा वारुणेन्द्र प्रपूजिताः |) स्च् ५५; प्. ५४) (शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः | पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः || वायोस्तु बलमाश्रित्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा वायुराजसुपूजिताः ||) शीघ्रभु १ | लघुभु २ | वायुवेगभु ३ | सूक्ष्मभु ४ | तीक्ष्णभु ५ | यमान्तकभु ६ | पञ्चान्तकभु ७ | पञ्चशिखभु ८ | कपर्दिभु ९ | मेघवाहन भु १० | इति वायौ || (निधीशो रूपवान्धन्यो सौम्य देहो जटाधरः | लक्ष्मीरत्नधरः कामी प्रसादश्च प्रभासकः || सोमस्य बलमाक्रम्य प्रभुशक्ति समन्विताः | विचरन्ति महादेवाः सोमराज सुपूजिताः ||) निधीश भु १ | रूपवद्भु २ | धन्यभु ३ | सौम्यदेह भु ४ | जटाधरभु ५ | लक्ष्मीधभु ६ | रत्नधरभु ७ | कामिभु ८ | प्रसादकभु ९ | प्रभासकभु १० | इत्युत्तर || (विद्याधिपोय सर्वज्ञो ज्ञानभुग्वेदपारगः | शवः सुरेशो ज्येष्ठश्च भूतपालो बलि प्रियः || ईशानानु मता देवाश्चेष्ठन्ते सुर पूजिताः | विचरन्ति महादेवा ईशशक्त्या त्वधिष्ठिताः ||) विद्याधिपति भु १ | सर्वज्ञभु २ | ज्ञानभुग्भु ३ | वेदपारगभु ४ | शर्वभु ५ | सुरेश्वरभु ६ | ज्येष्ठभु ७ | भूतपालभु ८ | बलिप्रियभु ९ | ईशानभु १० | इति शाने || (वृषो वृषधरोरन्तः क्रोधनो मारुताशयः | ग्रसरो डम्बरेशश्च फणींद्रो वज्रदंष्ट्रकः || विष्णोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः | विचरन्ति महादेवा अनन्तेन सुपूजिताः ||) वृषभु १ | वृषधरभु २ | अनन्तभु ३ | क्रधनभु ४ | मारुताशिभु ५ | ग्रसनभु ६ | तडम्बरभु ७ | ईशभु ८ | फटीन्द्रभु ९ | वज्रदंष्ट्रिभु १० | इत्यधः || एवं भुवनानि १०० | अथ ब्रह्माण्डन्तरे | रुद्रभुवनं १ | विष्णुभु २ | ब्रह्मभु ३ | शर्वभु ४ | हाटकभु ५ | कुष्माण्डभु ६ | कालाग्निरुद्रभु ७ | अनन्तभुवनं ८ || अत्रान्तरे चत्वारिंशदधिकशतं प्रधाननरकाणामपि भाव्यम् | तच्छोधनावसरे लिक्ष्यते | इति सृष्टिक्रमेण भुवनानि || १०८ || ऊं पदं | व पदं | ह प | र प | क्ष प | म प | ल प | ओं प | य प | ऊं प | य प | ह प | र प | क्ष प | म प | ल प | व प | ओं प | ऊं प || ऊं प | ह प | र प | क्ष प | म प | ल प | व प | य प | ओं पदं | चैवं पदं २८ || वर्णः क्षकार एवैकः || हृदय सद्योजातो मन्त्रौ | सूक्ष्मोध्वा चिद्रोधी || बीजौ वलौ | नाड्यौ पिङ्गला इडा || वायू प्राणापानौ || इन्द्रिये घ्राणपायू || विषयोगन्धः गन्धतन्मात्रः || गुणाः गन्धरसरूपस्पर्शशब्दाः || अवस्थाजाग्रत् | पुर्यष्टकांशौ शब्दस्पर्शौ || कारणं ब्रह्मा || एवं निवृत्तिकलांस वाध्वगर्भां भावयित्वा विन्यास्य चानन्तरं शोध्याधोपरि शोधकवक्त्राङ्गैः कलान्यासं कुर्यात् || कलाश्चात्रादौ पञ्चतासां न्यासः शिष्यकार्यः यथा || ओं हः क्षं शान्त्यतीता कलायै नमः | प्. ५५) स्वतन्त्रे - शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं स्वजाज्वलं | धाम्नोश्चार्य च सन्धाय शिष्यमूर्ध्नि करं न्यसेत् || अधोमुखेन हृत्पृष्ठे शिवहस्तेन चालभेत् || विभुं व्यापकं स्वजाज्वलत्वं पाशदाहाय सन्धायेति पूर्ववन्नाडी मन्त्रक्रमेण ब्रह्मरन्ध्रहृदययोः श्रीभगवदधिष्ठानेपि पाशवृत्तत्वमस्तीति मूलभूमौ तत्र पाशदाहेन परमेश्वर स्वभावोद्दीपनार्थमङ्गुलि पञ्चकाभिव्यक्त चिचादि शक्तिपञ्चक व्याप्तिना श्रीशिवहस्तेन स्पर्शः || आलोके - ततस्सदक्षिणे हस्ते दीप्तं सर्वाध्व पूरितं | मन्त्रचक्रं यजेद्वाम पाणिना पाशदाहकं || तं शिष्यस्य करं मूर्ध्नि देहन्यस्ता ध्वसन्ततेः | न्यसेत् क्रमेण सर्वाङ्गं ते नैवास्य समं स्पृशेत् || नन्वेत्प्रकृते पूर्वशास्त्रेनोक्तमिति कुत आनीतमित्याशङ्क्याह || उक्तं दीक्षोत्तरे चैतज्ज्वालासम्पात शोभिना | दत्तेन शिवहस्तेन समयी स विधीयते || सायुज्यमीश्वरे तत्वे जीवितोधीति योग्यता || ज्वालासम्पातेति मन्त्रतेजस्सान्निध्यात् | यदुक्तं शिवहस्ते विभुं ध्यात्वा मन्त्रग्रामं सुजाज्वलमिति ईश्वरे इति विद्या तत्वोर्ध्व वर्तिनि | न तु पृथ्वी तत्वाधस्थिते कालाग्नि रुद्रे तथा श्रूतेरदर्शनात् | अधीतिरध्ययनं | तदुक्तं समयी संस्कृतो ह्येवं वाचनेस्फार्हता भवेत् | श्रवणे ध्ययने होमे पूजनादौ तथैव च | चर्याध्यान विशुद्धात्मा लभते पदमैश्वरमिति | न केवलमनेन समयदीक्षैव भवेद्यावन्निर्वाणदीक्षापीत्याह यस्त्वित्यादि यः पुनस्सद्य उत्क्रान्तिमिच्छुस्तं बहिः प्राणोचिते क्षेत्रादौ सम्पूज्यस्य तमेवं विधं शिवहस्तं प्राणैर्वियोजकं मूर्ध्नि क्षिपेत् तत्संस्पर्शादेवास्य सद्योनिर्वाणदीक्षा भवेदित्यर्थः | गुरुपुस्तिकायां अर्चेत्मासन मूर्त्यङ्गं शिवं शिष्यस्य हस्तयोः हृदये चावतार्यास्य शिवं मावरणं यजेत् | प्राधान्येन कृतं चैतन्मन्त्रसन्धान गर्भवत् | मध्यहस्ते मण्डलकं गन्धैः कृत्वार्चिते शिवे शिवहस्तार्चितं हस्तं ह्यदि दद्याश्च शुद्धये शिवहस्तार्चितं मन्त्रं स्थैर्याय शतशो जपेत् | सामान्य समयी तेन भवेत् सामान्य कर्मणीति || सोमशम्भौ तश्शरीरे शिवं साङ्गं सासनं विन्यसेत् ततः | पुष्पादि पूजितस्यास्य नेत्रे नेत्रेण वा हृदा || बद्धामन्त्रीत वस्त्रेण सितेन सदशेन च | प्रदक्षिण क्रमादेव प्रविश्य शिवदक्षिणे || षडर्थमासनं दत्वा यथावर्त निवेशयेत् | पूर्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके || शिवहस्तं प्रदातव्यं रुद्रेश पददायकम् | रुद्रशक्त्या तु तं प्रोक्ष्य देवाग्रे विनिवेशयेत् | भुजो तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् || तयैवास्यार्पयेत् पुष्पं करयोर्गन्धदिग्धयोः | निरालम्भौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् || रुद्रशक्त्या कृष्यमाणौ दीप्तयाङ्कुश रूपया || ततः सस्वयमादाय वस्त्रं बद्ध दृशिर्भवेत् | स्वयं च पातयेत् पुष्पं तत्पाताल्लक्षयेत् कुलं || ततोस्य मुख मुद्घाट्य पादयोः प्रणिपातयेत् | हस्तयोर्मूर्ध्नि चाप्यस्य देवी चक्रं समर्चयेत् ||) ऊर्ध्वे | ओं हैं यं शान्ताकलायै नमः | पूर्वे | ओं हूं रं विद्याकलायै नमः | दक्षिणे | ओं हीं वं प्रतिष्ठाकलायै नमः | उत्तरे | ओं हां लं निवृत्ति कलायै नमः | पश्चिमे | इत्थं कलान्यासं शिष्यस्य कृत्वा || ततः सासनं शिवं शिष्यहस्तयोः सम्पूज्य हृदये चावतार्य यजेत् || ततः सासनं सपरिवारं शिवं शिष्यात्मनि मानसयागवन्मनसार्चयेत् | ततो गुरुः स्वात्मीय करयो शिव हस्तं विधाय शिवहस्तं गुरुः शिष्यस्य शिरसि हृदये च दद्यात् | पुनरेवमेव शिष्यहस्तयोश्च शिवं संपूज्य | तन्त्रसारे || ततः स्वदक्षिणे हस्ते दीप्यतया देवता चक्रं पूजयित्वा | तं हस्तं मूर्ध हृन्नाभिषु शिष्यस्य पाशान्दहन्तं निक्षिपेत् || इति श्री आचार्याभि नवगुप्तपादाः ||) प्रग्वच्छिवहस्त पूजन मन्त्रसंक्रान्ती विदध्यात् || प्रक्षाल्य शिष्यहस्तौ गन्धदिग्धौ कृत्वा मूलेन स वक्त्रपञ्चकेन पूजयेत् || ततो मन्त्रसंक्रान्ति मन्त्रसन्धान नाडीसन्धान परमीकरणानि कुर्यात् | यथा | रेचकान्मध्यधाम्नि मन्त्रमुदीरयन्सौषुम्ण पथा बिन्दुं भेदयित्वा सर्वग्रन्थि विदारण पूर्वं परमं धामाविश्य करस्थ मन्त्रविग्रहमनुसन्धयेदिति नाडी सन्धानम् || हृदयाद्रेचकेन द्वादशान्तं नीत्वा कृष्यकरतलधाम्नो द्वादशान्तेन हृदयं रेचकेन प्रविश्य | पुनः पूरकेन ते नैव पथा स्वहृदयं प्रविशन्निष्कलमन्त्रं सर्वत्र व्यापकत्वेन ध्यायेदिति मन्त्रसन्धानम् || इति मन्त्रसंक्रान्त्या ज्वलन्मन्त्रगणपरिपूरितं पाणिं विभाव्य निजशिरसि न्यसेदिति शिष्यहस्ते पूजनमन्त्रसंक्रान्ती विधाय | शिष्यशिरसि हृदये च दत्वा | (हुतशेषश्चरुः कुक्षौ शिवहस्तश्च मूर्धनि यस्य सद्गुरुणादत्तो तस्य दीक्षाङ्ग पूरिणी ||) ऽऽ शिवहस्तार्पितं मन्त्रं शतशो जपेत् | सितवस्त्र बद्धसर्षप स्वर्णादि कङ्कणं | विश्वाससंहितोदितार्या त्रयेण शिष्यस्य दक्षिण पाणौ बद्ध्वा | तथा तद्धस्तात् कङ्कणं गुरुरपि बन्धयेत् | तदा पात्रयं यथा | पापहरस्ते भगवाञ्चिवो शुभं हरतु | सर्वभूतगणाशान्त्यै भवन्तु यत्नाद्धृदयं नारायणः पातु || प्राणापानौ चक्षुः श्रोत्रे घ्राणं मनः शिरो हस्तौ प्राकृतावपि यदुपातुं तत्ते देवः शिवः पातु || बध्नामि कङ्कणं ते बद्धमतिर्भवभयोच्छित्र्यै | भजनिपुणमचल ममलिनमभवायेह शाश्वतं स्थानम् || ततः प्रागुक्त वदध्वानं कलश स्थण्डिल (स्वहस्ते स्थण्डिले लिङ्गे मण्डले चरुके तथा | जले चाग्नौ च संपूज्य सम्यग्दीक्षा फलं लभेत् || स्वहस्ते शिवहस्त विधो | स्थण्डिलेधि वामसमये लिङ्गे शिष्य चैतन्ये बाणादि रूपे वा जले कलशस्थे ||) स्च् ५७; प्. ५६) वह्नि स्वशिष्येष्वैक्येन भावनयानुसन्धेयम् | यथा | निविष्टस्यैव शिष्यस्य ब्रह्मरन्ध्राल्ललाटावस्थित शान्त्यतीता कलान्तर्गत शिवतत्व स्थित समनात अर्धचन्द्रबिन्द्वन्तव्याप्ति | भूमिका प्रमेय रूप भुवनषोडशक पदैक मंत्रैक वर्णषोडशक कारण सदाशिव | पुर्यष्टकांशं मनः | सूक्ष्माध्व बीजद्वय नाडिद्वयेन्द्रिय द्वय शब्द विषय शब्द तन्मात्र शब्दगुण तुर्यातीता गर्भमध्वानं कलशस्थण्डिल पावक स्वसिष्येषु ऐक्येन योजयामि नमः || तथा ललाटान्त्ताल्वन्त स्थित शान्ताकलान्तर्गत सदाशिवेश्वर विद्याख्य तत्वत्रयान्तस्थ भुवन सप्तदशक पदैकादशक वर्णत्रय मन्त्रद्वय कारणेश्वर सूक्ष्माध्व चिद्रोधि बीजद्वय नाडिद्वय वायुद्वयेन्द्रियद्वय स्पर्शद्वय स्पर्शतन्मात्र शब्दगुण स्पर्शगुण तुर्यावस्था पुर्यष्टकांश बुद्ध्यहङ्कारगर्भमध्वानं || तथा तालुनोः नाभ्यन्तं विद्याकलान्तर्गत तत्वसप्तक भुवनसप्तविंशति पदविंशति वर्णसप्तक मन्त्रद्वय सूक्ष्माध्व चिद्रोधि बीजद्वय नाडिद्वय वायुद्वयेन्द्रियद्वय रूपविषय रूपतन्मात्र गुणत्रय सुषुप्त्यवस्था पुर्यष्टकांश गन्धरूप कारण रुद्रगर्भमध्वानं || ततः शिष्य मुक्ताप्य तथा नाभेः गुल्फान्तस्थित प्रतिष्ठान्तर्गत तत्व चतुर्विंशति भुवन षट्पञ्चाशति पदैक विंशति वर्णैक विंशति मन्त्रत्रय सूक्ष्माध्व चिद्रोधी बीजद्वय नाडीद्वय वायुद्वय गुण चतुष्टय विषय पञ्चकेन्द्रिय पञ्चक रसविषय रसतन्मात्र पञ्चक स्वप्नावस्था पुर्यष्टकां शरसकारण विष्णुगर्भमध्वानं || तथा गुल्फात्पादान्त स्थित निवृत्ति कलान्तर्गत पृथ्वीतत्वस्थ भुवनाष्टोत्तरशत पदाष्टा विंशति वर्णैक मन्त्रद्वय सूक्ष्माध्व चिद्रोधी बीजद्वय नाडिद्वय स्च् ५८; प्. ५७) (स्वतन्त्रे - उत्थाप्य दत्वा पुष्पं तु अञ्जलौ भैरवेण तु | प्रविश्याभ्यर्चयेच्छम्भुं | उत्थाप्येति तत्पूर्वस्य तिष्ठतेरीहार्थत्वात् | श्रीभगवत्पूजोद्योगं ग्राहयित्वेत्यर्थः प्रवेशः मण्डलेत्र श्रीशिवं पूजयित्वा ज्ञया भक्तिश्रद्धोन्मुखस्य तत्परत्वा पादनं यथा व्याकरणे प्रवेशित इत्यादि | अर्चयेदिति अर्चतेः णिच् | शिष्योपि तथा चार्येण शिक्षितमन्त्रः पुष्पं श्रीशिवमुच्चार्य निक्षिपेत् | अथ | निर्गत्यवन्दयेद्देवं दण्डवत्मण्डले तथा | त्रिः प्रदक्षिणम् | शिवकुम्भाग्नि मध्यस्थं स्थण्डिलस्थं च वन्दयेत् | त्रिरिति त्रिविधेपि कालाध्वनि दण्डवद्दक्षिणः स्वस्वरूप प्रथापरो मे भव इति वाञ्छया स्वदक्षिणमेव श्रीभगवन्तं कुर्वन्परिभ्राम्यन्स्तुवीत | एवं च | शिवपूजाग्नि कार्यादौ सकलीकृत विग्रहः | नान्यथा प्राक्स्वरूपेण पूजनार्हो भवेत् तु सः || भवेदिति वाक्य द्वये योज्यं आदिशब्दा जप ध्यानादौ || यज्ञरक्षाकर्मसाक्षी कर्माधारी मलावृतः | मोचकोनुग्रहीता च पञ्चाधिकरणो विभुः || कलशे मण्डले वह्नौ शिष्ये चिन्त्यो गुरौ क्रमात् | इति गुरुपुस्तिकायाम् || आलोके - एवं मण्डलकुम्भाग्नि शिष्यस्वात्मसुपञ्चसु | गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् ||) वायुद्वयेन्द्रियद्वय गन्धविषय गन्धतन्मात्र गुणपञ्चक जाग्रब्दवस्था पुर्यष्टकांसौ शब्दस्पर्शौ कारण ब्रह्मगर्भमध्वानं कलश स्थण्डिल पावक स्वशिष्येष्वैक्येन योजयामि नमः | इति मन्त्रेण भावनयानुसन्धेयम् || (तथा च सोमशम्भुः || मण्डले कर्मणां साक्षी कलशे यज्ञरक्षकः | होमादिनिरतो वह्नौ शिष्ये पाश विमोचकः || स्वात्मन्यनुग्रहीतेति पञ्चधायं स्थितो विभुः ||) कलशे यज्ञरक्षकः | स्थण्डिले कर्मसाक्षी | अग्नौ कर्माधारः | शिष्येपाशविमोचकः | गुरावनुग्रहीता | इति पञ्चाधिकरणो विभुश्चिन्त्यः || ततो गुरुर्मूलं स वक्त्राङ्गं जपञ्शिष्यं कलश स्थण्डिलादौ (गुरौ वह्नौ च) प्रत्येकं | नमोस्तु सर्वयोगिभ्य इति मन्त्रेण पुष्पाञ्जलिं दापयित्वा | दण्डप्रणतिं च कारयित्वा हस्तावियोगेन वह्न्यन्तकं नयेत् || तत्र कुण्डसमीपे स्वदक्षिणे मण्डलके प्रणवासन युक्ते | तं शिष्यं निवेश्य | विध्यर्घ पात्रतः अभ्युक्ष्य | भैरवमन्त्रितं दर्भमूलं सार्धहस्तत्रय परिमाणां वामावर्तेन आवेष्ट्य स्थितां दर्भनाडीं वा तस्य हस्त द्वय मध्ये दत्वा | तदग्रं स्वकटानुमध्ये जङ्घोपजङ्घावष्टम्भं कृत्वा तमेव दर्भमूलं (स्वतन्त्रे - विन्यस्तमन्त्र तेजसा ज्ञान क्रियाशक्ति स्फारमयेन स्वहस्तेनास्य निमग्ने ज्ञानक्रियाशक्ती हस्ताकर्षणयुक्त्या कर्षन्निति हस्ता वियोगार्थः आलोके - ततः कुम्भेस्त्र कलशे वह्नौ स्वात्मनितं शिशुं प्रणामं कारयेत् | आचार्य इत्युपलक्षणम् || दर्भाग्रं दक्षिणे तस्य निधाय करपल्लवे | तन्मूलमात्मजङ्घायामग्रं वेति मतान्तरम् || इति सोमशम्भुः || उपवेश्य करे दर्भं भैरवेण समर्पयेत् || दर्भस्य | मूलं शिष्यस्य हस्तस्थं साग्रमाचार्य जङ्घयोः | हस्तयोः प्रसारितयोः सव्येतरसाखारूपयोर्मध्ये तिष्ठतीति हस्तस्थं | जङ्गयोरिति जङ्घोपजङ्घयोः ऊरुजानुसन्धावित्यर्थः दर्भस्यव्याप्तिमाह || पिङ्गलामध्यमा नाडी शिष्य देहाद्विनिर्गता | सैवात्रदर्भभूता तु गुरुनाड्यां लयं गता || अथ | नाडी सन्धान हेत्वर्थं भैरवेणाहुतित्रयम् | तया नाड्या प्रवेष्टव्यं शिष्यस्य हृदये सकृत् || ग्रहणाकर्षणार्थं तु || ऐकात्म्य प्राप्तिरूपनाडीसन्धान पूर्वमेव ग्रहणाकर्षणे युज्यते यथोक्तं श्रीस्पन्दे अयमेवात्मनो ग्रह इति | अत एवाह | गृह्णन्मुञ्चन्पुनः पुनः दीक्षाकाले यतश्चैवं तदर्थं नाडि संहतिः || आचार्यः शिष्यात्मा भवतीति पूर्वपादान्त शेषः ||) मूलमन्त्रं समुच्चार्य स्वा इत्यग्नौ प्रपातयेत् | हेति शिष्यस्य शिरसि सम्पातः शिवचोदितः || सम्पातार्थं व्यचष्टे || शिष्य देहे तु ये मन्त्राः स बाह्याभ्यन्तर स्थिताः | कुण्डस्थाः पूजिता ये तु धामाद्यावरणान्तगाः || युगपत्तर्पणं तेषां सम्पातस्तेन कीर्तितः | एकैकस्यात्र मन्त्रस्य आहुति त्रितयेन तु || सम्पातो युगपत्सर्वत्राग्नीषोमात्मक स्वरूपोन्मीलनात्मा संस्कार इत्यर्थः | किञ्च | उत्थाप्य च ततः शिष्यं तदर्थं मन्त्रतर्पणम् | कुर्यादित्यर्थः | तत्र || भैरवाय शतं हुत्वा हृदा चौदशकं हुतिः | दशांशेन स्यादित्यर्थः अथ | धाम्नाचोत्थाय होतव्यं पूर्णाहुत्यानु तर्पयेत् | उत्थायेत्यनेन पूर्णाहुति प्रयोगं स्मारयति | एवं सामान्य समयदीक्षा विषयमधिवास मुक्त्वा पुत्रकादौ तद्विशेष साधातुं यः पाशसूत्र विधिर्भविष्यैति ||) दर्भनाडीं वा स्वकजङ्घोपजङ्घयोर्दत्वा | मध्यनाडीं सुषुम्णां शिष्यदेहान्निर्गच्छन्तीं गुरुरात्मनाड्यां लीनां भावयेत् || ओं हूं अमुकस्य मध्यनाडीमन्मध्यनाड्यां लीना भवतु स्वाहा || ३ || ओं हूं अमुकस्य मध्यनाडीमन्मध्यनाड्यां लीलासम्पन्नास्तु स्वाहा ३ || एवं प्रति शिष्यं तत्र प्रवेशनिर्गमत्यागग्रहणाकर्षण हेतवे नाडीसन्धानमिति गुरवः || ततः शिष्यस्य शिरो भैरवेण भूमौ निधाय शिष्य शिरसि संहितया स्वा इत्यग्नौ हा | इति शिष्य शिरसि प्रत्येकमाहुति त्रयेण त्रयेण सम्पातं कार्यम् | यथा | (इति मूलेन परमामृतरूपरसाज्याहुतिं शिष्य शिरसि क्षिपेत् |) ओं हूं सम्पातं करोमि स्वा इत्यग्नौ | हा इति शिष्य शिरसि घृताहुतित्यागः | एवं हृदयादिभिः | ओं हां सम्पातं करोमि स्वा इत्यग्नौ हा इति शिष्य शिरसि इत्यादि || अनन्तरं मूलस्य शतं हृदादीनां च दशांसं हुत्वा | ध्यानं स्मृत्वा | पूर्णादेया | ओं हूं सर्वमन्त्रचक्रसिद्धिरस्तु स्वाहा वौषट् | इति पूर्णां दत्वा || ततः सम्पत्ति चतुष्टयं प्रत्येकमाहुत्यष्टोत्तर शतं शतं हुत्वा | अत्रमन्त्रः || ओं हूं देशसम्पत्तिः सम्पद्यतां स्वाहा || १०८ || ओं हूं कालसम्पत्तिः सम्पद्यतां स्वाहा || १०८ || स्च् ५९; प्. ५८) (तत्र पाशानां बन्धनाय मन्त्रोद्दीपनं कर्तुमाह || मन्त्राणां दीपनं कुर्याद्धामाद्यस्त्रावधि क्रमात् | कथमित्याह | हुङ्कारद्वयमध्ये तु मूलमन्त्रं समुच्चरन् | प्रणवादि फडन्तेन आहुतीः प्रतिपादयेत् || एषैव || हृदादीनां च सर्वेषां जातिरुक्तात्र दीपने | जायते तत्तत्कार्यानुगुण्यमनयेति जातिः विसिष्टो मन्त्र प्रयोगः | हृच्छब्दो वक्त्रादीन्युपलक्षयति || एतच्च ||) ओं हूं दुर्निमित्तापसर्पणं सम्पद्यतां स्वाहा || १०८ || ओं हूं सुनिमित्तसम्पत्तिरस्तु स्वाहा || १०८ || ततो ध्यानं पठित्वा | मूलेन पूर्णां दद्यात् || ततो मूलाद्यङ्गान्तं मन्त्राणामाहुतित्रयेण त्रयेण दीपनं कुर्यात् | वक्त्राणां चेति | यथा ओं हुं हूं हुं फट् स्वाहा ३ | निष्कल स्थाने हृदादयः यथा | ओं हुं हां हुं फट् स्वाहा ३ | ओं हुं हीं हुं फट् स्वाहा ३ | ओं हुं हूं हुं फट् स्वाहा ३ | ओं हुं हैं हुं फट् स्वाहा ३ | ओं हुं हौं हुं फट् स्वाहा ३ | ओं हुं हः हुं फट् स्वाहा ३ | ओं हुं क्षं हुं फट् स्वाहा ३ | ओं हुं यं हुं फट् स्वाहा ३ | ओं हुं रं हुं फट् स्वाहा ३ | ओं हुं वं हुं फट् स्वाहा ३ | ओं हुं लं हुं फट् स्वाहा ३ || पाशानां बन्धनार्थं मन्त्रान्क्रूरान्भृकुटीकरालांश्चिन्तयेत् || अथाड्यद्विजसत्कन्या कर्तितं | शिष्यदेह परिमाणं | तत्वत्रय परस्पर लोलीभावतया वा | (शिवविद्यात्सतत्वाय) पाश त्रय तया वा | सत्वादि गुणत्रय मयतया वा | (पाशानां बन्धनार्थाय मन्त्राणां दीपनं स्मृतम् || ते च दीप्ताः सन्ताः || मन्त्राः करणभूतास्तु पशुकार्यस्य साधने || पशुकार्यं दीक्षायस्यैते करणानि समहा प्रभावः || आचार्यः कारणं प्रोक्तः || कर्तेत्यर्थः कथमस्य शरीरादि मतो मन्त्राः करणमित्याह | शिवरूपो यतः स्मृतः || सत्यपि देहे निरुपाधि चित्प्रकाश शिवाहम्भाव मय इत्यथः | ईदृशस्यैवानुग्रहेधि कृतत्वाश्चेत्याहुः | आचार्याधिकरणः शिवोदीक्षायां साक्षात्कर्तामण्डलस्थस्तु प्रयोजकः इति ततस्तेषां सरस्वती गर्भाधान समये श्री शिवः साक्षात्कर्ता प्रयोजकः आचार्य इत्यादि स्वोक्तेन व्याहन्यते न च प्रयोज्य प्रयोजक भावः कश्चिदत्र पूर्वत्र वा ग्रन्थेस्तीत्य सदेवैतत् | तस्मात्सर्वमन्त्रोदय प्रणय हेतुः चिद्घन शिवात्म मय एवाचार्योत्राधि कृतः मन्त्राणामुद्दीपनमवश्य कार्यमित्यर्थः || कन्याकर्तित सूत्रकम् | त्रिगुणं त्रिगुणी कृत्य || कन्या अनुपजात विकरा परशक्त्यानु कृत रूपेति | ततो मूलभूमेः प्रवृत्तानामाणव मायीय कार्मरूपाणां सत्वादिगुणत्रयात्मक प्रपञ्चव्याप्ति भाजां पाशानां भाविबन्धच्छेदनादिकं समूलमुन्मूलनार्थमिति कन्याकर्ति तत्वे त्रिगुण त्रिगुणत्वे चाशयः अथैतत् | पाशबन्धन सूत्रकं शिवाम्भोस्त्रेण संप्रोक्ष्य कवचेनावगुण्ठयेत् | पूजयित्वा विधानेन गन्धपुष्पादि धूपकैः | प्रसारयेद्गृहीत्वा तन्मूर्धाद्यङ्गुष्ठकावधि शिष्यतब्ध देहस्य || ओं पाश बन्धनसूत्राय नमः | इति पूजा विधानं सर्वाध्व व्याप्ति चिन्तनम् | शिष्यस्येति पुत्रकादेः न तु समयिनः | स्तन्धदेहता पाशानां बन्धाद्देहेन्द्रियादीनां निष्क्रियत्वानु व्याप्त्या तत्सूत्रं पुमान्दक्षिणेन स्त्रीवामेन करेण मूर्ध्निधारयेदित्य सत् | दीक्ष्यहस्तयोर्दर्भनाडी धारणे व्यापृतत्वमतः शिखायामेव पाशसूत्रं लम्भयेत् |) नवतन्तुकं पाशसूत्रं प्रोक्षितम् सुधूपितं तापितं अस्त्रशतजप्तं यथा - ओं हः फट् प्रोक्षयामि फट् | इति पश्वर्घपात्रादस्त्रेण प्रोक्षितं | ओं हैं अवगुण्ठयामि हुं | इत्यवगुण्ठितं || मृष्टधूपेनास्त्रेण धूपितं ओं हुं धूपया नमः | इति धूपितं कृत्वा || ओं हः फट् तापयामि फट् | इति वह्नौ तापितं | अस्त्रशतजप्तं च कृत्वा | ओं पाशबन्धन सूत्राय नमः | गन्धवर्जं पुष्पैः पूजितं || ऋजोत्थितस्य पुंसः सव्यात्पादाग्रात् | स्त्रीयो वामात्पादाग्रादारभ्य शिखान्तं मुक्त्यै || भुक्त्यै विपर्ययात् | शिखातः पादान्तं नासा वंशानु सन्धानेन प्रसार्यमिनित्वा शिखापाशं चतुरङ्गुलसम्मितं च अधिकमग्रे कार्यार्थं संरक्ष्य शिखायामेव बध्नीयात् | इति गुरवः || ओं हुं प्रविशामि नमः | इति वामनाड्या शिष्यस्य हृदयं प्रविश्य | ततो मध्यनाडीं विश्लेष्य संहारमुद्रया आदाय दक्षिण प्रवाहेण निरीय | ओं हां अमुकाणु सुषुम्णानाडीं हां पाशसूत्रे योजयामि नमः | इति सूत्रे नियोज्य | (एकैव क्रियाशक्तिः पारमेश्वरी रूं स्वरूपगोपनेन पाशरूपतया स्थितेत्येकत्वमिह पाशसूत्रस्य श्रीपूर्वादौ तु शक्तित्रयमेव त्रित्वेन स्थितमित्याशयेन त्रीणिसूत्त्राणीति प्रकृयामात्रभेदः | तश्चास्य सूत्रम् | नाडीभूतं विचिन्तयेत् | सा च | सुषुम्णामध्यमा नाडी सर्वनाडी समन्विता | ओंकारादि सुनाम्ना तु नमस्कारावसानकं || शिष्यदेह स्थितां नाडी सूत्रे सङ्गृह्य योजयेत् | भावनयेति शेषः सूत्त्ररूपायां नाड्यां सर्वनाडीभिस्समन्विता भावनया सङ्गता योजिता च | तां गन्धपुष्पादिभिः पूज्य कवचेनावगुण्ठयेत् | अत्रैव सन्निधानार्थं होममाह | सन्निधानाहुतीस्तिस्रः स्वनामपदजातिकाः || दद्यादितिशेषः ||) स्च् ६०; प्. ५९) ओं हूं अनेकनाडीकोटि परिवृतायै सुषुम्णा नाड्यै नमः | इति पाशसूत्रपूजा | कवचेनावगुण्ठयेत् | ओं हूं अनेकनाडीकोटि परिवृतायै सुषुम्णानाड्यै स्वाहा ३ | ओं हूं अनेक नाडीकोटि परिवृताया सुषुम्णानाड्याः सन्निधानमस्तु स्वाहा ३ || अथातः क्रियाशक्त्यात्मिकामाधारशक्तिमाधारतया विन्यस्य | ओं षडध्वगर्भीकारिणि आधारशक्ते आगच्छ २ | सन्तिष्ठ २ सन्निधत्स्व २ सन्निरुद्धाभव २ सन्निहिताभव २ | ओं षडध्वगर्भीकारिण्यै आधारशक्त्यै नमः | (इति पाशसूत्रे पुष्पं क्षिपेत्) | इति सम्पूज्य ओं षडध्वगर्भीकारिण्यै आधारशक्त्यै स्वाहा ३ || अथात्र पाशसूत्रे स्वरूपप्राप्तये अध्वषट्कं पूजयेत् | ओं कलाध्वने नमः | ओं तत्वाध्वने नमः | ओं भुवनाध्वने नमः | ओं वर्णाध्वने नमः | ओं पदाध्वने नमः | ओं मन्त्राध्वने नमः | इति पाशसूत्रे अध्वषट्कं सम्पूज्य | प्राग्वदध्वानं सूत्रे विन्यसेत् | यथा || ब्रह्मरन्ध्राल्ललाटान्तं शिवतत्व स्थित भुवनषोडशक वर्णषोडशक | मन्त्रैक पदैक कारण सदाशिव पुर्यष्टकांशमनः सूक्ष्माध्व | बीजद्वय नाडिद्वय वायुद्वयेन्द्रियद्वय शब्द विषय शब्दतन्मात्र शब्दगुण तुयातीतावस्थाव्यापिकायै शान्त्यतीतायै नमः || ततो ललाटात्ताल्वन्तं तत्वत्रयान्तस्थित भुवन सप्तदशक पदैकादशक वर्णत्रय मन्त्रद्वय बीजद्वय नाडिद्वय वायुद्वयेन्द्रियद्वय स्पर्शविषय स्पर्शतन्मात्र शब्दगुण स्पर्शगुण पुर्यष्टकाशौ बुद्ध्यहङ्कारौ तुर्यावस्था व्यापिकायै शान्ताकालायै नमः || तालुनोन्राभ्यन्तं तत्व सप्तक भुवनसप्तविंशति पदविंशति वर्णसप्तकमन्त्रद्वय सूक्ष्माध्व बीजद्वय नाडिद्वय वायुद्वयेन्द्रियद्वय रूपविषय रूपतन्मात्र गुणत्रय पुर्यष्टकांशगन्धरूप कारण रुद्र सुषुप्तावस्था व्यापिकायै विद्याकलायै नमः || ततो नाभेर्गुल्फान्तं तत्व चतुर्विंशति भुवनषट्पञ्चाशति पदैक विंशति | वर्णैक विंशति मन्त्रत्रय सूक्ष्माध्व बीजद्वय नाडिद्वय स्च् ६१; प्. ६०) (स्वतन्त्रे - शिवाम्भोस्त्रेण संप्रोक्ष्य शिष्यस्य हृदयं पुनः | ताडयेदस्त्र पुष्पेण | एवं च || हृदिचित्सं हृत् भवेत् || सर्वव्यापिकापि हृदयैक निष्ठीकृता भवतीत्यर्थः तदनुयोगक्रमेण भावनयापि वा || हुङ्कारोश्चार योगेन रेचकेन विशेद्ध्यदि | नाडीरन्ध्रेण गत्वा तु चैतन्यं भावयेत् पशोः || कदम्बगोलकाकारं स्फुरत्तारकसन्निभं | हृत्स्थं च्छित्वास्त्र खड्गेन हुं फट्कारान्त जातिना || श्रीनिष्कलास्त्रमेव खड्गस्तेन शिशोः पुर्यष्टकं रश्मिमात्रा वियोगेनाच्छित्वा | धाम्नाचाङ्कुशरूपेण कर्षेच्छक्त्यावधि क्रमात् || अङ्कुशेति पाश्चात्यकुटिलालकात्मना ख्यातेन शक्त्यवधि द्वादशान्तं तच्च नासिक्यमिह | ततः | द्वादशान्तात् तु सङ्गृह्य सम्पुट्य हृदयेन तु | संहार मुद्रया योज्यं सूत्रे नाडी प्रकल्पिते || व्यापकं भावयित्वात्र कवचेनावगुण्ठयेत् || प्रणवनिष्कलोश्चार पूर्वं देवदत्त चैतन्यं पाशसूत्रे योजयामि नमः | इति प्रयोगात्सूत्र देहे योजितस्यास्य व्यापकत्व भावना अथास्मै पूजां कृत्वा | भैरवेणाहुतीस्तिस्रः सन्निधानस्य हेतवे | दद्यादिति शेषः ||) वायुद्वय गुणचतुष्टय विषयपञ्चकेन्द्रिय पञ्चक तन्मात्रपञ्चक पुर्यष्टकांशरसकारण विष्णु सप्नावस्था व्यापिकायै प्रतिष्ठायै नमः || ततो गुल्फात्पादान्तं पृथ्वीतत्वस्थ भुवनाष्टोत्तर शतपदाष्टाविंशति वर्णैक मन्त्रद्वय सूक्ष्माध्व बीजद्वय नाडिद्वय वायुद्वयेन्द्रिद्वय गन्धविषय गन्धतन्मात्र गुणपञ्चक जाग्रदवस्था (२) पुर्यष्टकांशौ शब्दस्पर्शौ कारणं (१) ब्रह्मव्यापिकायै निवृत्यै नमः | इति पाशसूत्रे न्यासं कृत्वा || ततः शिष्यस्य पश्वर्घपात्रात्प्रोक्षण ताडने असिना विधाय | ब्रह्मरन्ध्राध्वना | मध्यनाड्या रेचकेन हृदि प्रविश्य | ओं हुं प्रविशामि नमः | इति प्रवेशमन्त्रः | (प्रसार्यदक्षिणं पाणिं कनिष्ठादि क्रमाच्छनैः | आकृष्टबन्धयेन्दृष्टिं अङ्गुष्ठेन प्रपीडयेत् || मुद्रासंहारिणी प्रेक्तेति || एवं क्रमेणैव संहार मुद्राकार्या नान्या ||) ओं हः हां अमुकात्मानं हृदि वियोजयामि हुं फट् | तारकाकारं शिष्यात्मानं रश्म्यवियोगेनासिना हृदया च्छित्वा || (रश्मिमात्रा वियोगतस्तेजोभि शिष्यदेहस्यावभासकं चिन्तयेद्येन चित्प्रकाशस्ततो वियुक्तो न भवेत् ||) ओं हूं हां आकर्षयामि नमः | इति शिष्य द्वादशान्तं प्रापयय | ततः संहार मुद्रयादाय (१) | (नासिक्यद्वादशान्तं | हृदयादारभ्य करन्ध्रपर्यन्तं नासिक्य द्वादशान्तम् |) ओं हूं हां अमुकात्मानं पाशसूत्रे योजयामि नमः | इति (अध्वावलोकनं पश्चाद्व्याप्यव्यापक भेदतः | भुवनव्याप्तिता तत्वेष्वनन्तादि शिवान्तके || अनन्तादिशि वान्तके | यानि भुवनानि तश्व्यापकत्वं तत्वेषु | तानि च तत्वानि || व्यापकानि च षट्त्रिंशत् || ये त्वन्येत्रयो ध्वानः || मन्त्रवर्णपदात्मकाः | वर्णाः पञ्चाशत्पदानि नवात्मसम्बन्धीन्येकाशीतिः || ते च | तत्वान्तर्भाविनः सर्वे | तत्वान्यन्तर्भावयन्तीति कृत्वा कथं वाच्यवाचकयोगतः | तत्वानि वाच्यानि मन्त्रादयो वाचकाः | यथा चायं वाच्यवाचक भावस्तथाग्रे भविष्यन्ति कलादीक्षायाः | प्रस्तुतत्वात्तदन्तर्भावं तावत्पञ्चानामध्वानामाह | कलान्तर्भाविनस्ते वै निवृत्याद्याश्च ताः स्मृताः || अस्य ग्रन्थस्यायं पिण्डार्थः ||) (अस्य सर्वस्याध्व ग्रन्थस्यायं पिण्डार्थः | परमेश्वरश्चिदानन्दघनः स्वतन्त्रभट्टारकः एकादशपटलनिरूपयिष्यमाण स्थित्या उन्मनाख्यया स्वस्वातन्त्र्य शक्त्या शून्यादाक्षित्यन्तमनन्तं वाच्यवाचक रूपं स्वभिर्तौ स्वानधिकमप्यधिकमिव युगपदवभासयति | तत्र वाचकं ग्राहक भागावस्थितं परसूक्ष्मस्थूल भेदेन वर्णमन्त्रपदात्मकं त्रिधा वाच्यमपि ग्राह्यभागाभि निविष्टं कलातत्व भुवनात्मकं तथैव वर्णा ह्यभेदविमर्शसाराः किञ्चित् स्थौल्येन भेदाभेद विमर्शनात्मक मन्त्ररूपतामाश्रित्य ततोपि स्थौल्येन भेदविमर्शावगसकपदरूपतया भान्ति | एवं वाच्यरूपा पारमेश्वरी कलाख्या शक्तिरुत्तरोत्तर वैशिष्ट्येन तत्व भुवनात्मतां गृह्णाति | वस्तुतश्चेयमक्रमैव पारमेश्वरी शक्तिः स्फुरति | तत्रापि च स्वस्वातन्त्र्याद्दर्पण नगरवत् क्रममध्या दर्शयति क्रमेपि च पूर्वमुत्तरत्र व्यापकतया स्थितं वृक्ष इव स्वबीज इति सर्वं सर्वात्मकमेव | अत एव पञ्च तत्वदीक्षाया मनाश्रित तत्वपर्यन्ता भूत व्याप्तिर्भविष्यति | एवं चैकैकोपि प्रमाता भावो वा वस्तुतः षडध्वस्फाररूप पारमेशशक्तिमयादिहान्तः परामर्शसाराहन्ता विश्रान्ति तत्वः परभैरवरूप एव | तथात्वा परिज्ञानात् तु तन्मायाशक्ति कृतादपूर्णं मन्यः | शब्दराशिकलाविलुप्तविभवत्वाद्वर्णादिभिः कलादिभिश्च तात्विक स्वरूपेणा स्फुरद्भिः प्रत्ययोद्भव क्रमेण देहादौ ग्राहिताहम्भावो विषयमात्रासु ग्राहित भोक्तृत्वाभिमानश्च खेचर्यादि चक्र चतुष्टयस्य भोग्यतां प्राप्तः बद्धः पशुः सम्पन्न इति अस्य पशुभावशमनाय पारमेश्वरी अनुग्राहिका शक्तिः शिवा रूपं मायीयं मलमुच्यते | अणुना मयमाणवः अपूर्णं मन्यतात्मा लोलिकारूपः | कर्मजाः कर्मयजन ब्रह्महननादिरूपं ततो जातमन्तर्वासनाधिरूढं धर्माधर्मरूपम् | एषां च चैतन्य प्रतिबोधकत्वं गुणभावापादनरूपं पाशत्वम् | शेषां कार्यकारणतां स्फुटयति | मलं कर्मनिमित्तं तु नैमित्तिक मतः परम् | मलः कर्मचेत्ये तद्द्वयं निमित्तं मलस्य कर्महेतुत्वात् कर्मणश्च मायीये कारणत्वादतः परं मायीयं नैमित्तिकं मलकर्मणोः कार्यमेवेत्यर्थः यद्यपि कार्मं भिन्नवेद्यप्रथारूपे मायीये सति भवति | तथापि न तद्धेतुकं पूर्णस्फाराणां ज्ञानिनां तत्सद्भावेपि तस्यादर्शनादित्य पूर्णं मन्यानामे वार्ज्यं मानं तद्भवतीति यथोक्तमेव ज्यायः || पाशसूत्रविधेः प्रयोजनमाह द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे बन्ध्याच्छेद्यास्तथा दाह्याः सूत्रस्थानेन विग्रहे || सूत्र स्थाने समस्तपाशाश्रयस्य समावृत्ति हेतोः प्राणे देहस्य परोक्षत्वेन सक्षाद्बन्धाद्य योगे तत्प्रतिकृतिरूपं भाविशोध्य देहा सूत्रणात् सूत्रदेहं गुरुः कल्पयित्वा तत्स्थान्पाशान्बध्नीयाच्छिन्द्याद्दहेश्चेत्यर्थः | इम इत्यनन्तरमेव वक्ष्यमाणा ये नेदं तद्धि भोगतः तान्यान्ना तत्वा दारब्धकार्ये दीक्षोत्तरकालं करावदर्शादि हेतो तु न दाहादि युक्तमित्याह | न विग्रहे || पाशानां संख्यामज्ञास्वरूपाणि क्रमेण कथयति | पाशास्तु त्रिविधाभाव्यामायीयाणव कर्मजाः | चैतन्यरोधकास्त्वेते कार्यकारण रूपिणः || मायोर्त्थ त्वं मायायां भवत्वं च मलान्तरेप्यस्तीति रूढ्यैव भिन्नवेद्य प्रथा भिन्ना आचार्य हृदये पारमार्थिकेन स्वरूपेण स्फुरन्ति शिष्यस्य सर्वमध्वानं सङ्कोचकत्व प्रशमनेन असङ्कुचित स्वशक्ति सारतया स्फारयन्ती शोधयति दीक्षा ज्ञानादि योगेन अत एवमाचार्य स्फारसारा मन्त्रादयः शोधकाः पश्चात्माभि निविष्टाः शोध्याः इति शोध्यशोधकभावेपि न काचित्क्षितिः | यतश्चैकस्याप्यध्वनः सर्वमयत्वमस्ति | अत एव तत्तदध्व प्राधान्येन दीक्षायामन्याध्व पञ्चकमन्तर्भावशोधनमुक्ति व्याप्ति स तत्वकार्यम् | उक्तं च श्रीस्पन्दे | सेयं क्रियात्मिकाशक्तिः शिवस्य पशुवर्तिनी | बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका || इत्यलं | केवलं यावन्नवेत्ति वै व्याप्तिं कुण्डस्यैवात्मनोपि वा | साध्यस्यैव पशोश्चैव पाशानां च षडध्वनः बालवत्क्रीडते तावत् कार्यं तस्य कथं भवेदिति मृत्युजित्युक्तत्वात् तत्र तत्र व्याप्ति प्रदर्शनायायमस्माकं भर इति न नो वाचालता कल्प्या स चेतोभिः ||) सूत्रे संयोज्य | ओं हूं हां हां हां अमुकात्मनः पाशसूत्रे सन्निधिरस्तु स्वहा || ३ || तदनुदेहगतं पाशत्रयं कारण कार्य व्यापकव्याप्य भावेन स्थितं सूत्रे भावयेत् | तर लोलिकात्मा सङ्कोच प्रवर्तको नियत पूर्वगतः आणवो मलः कारणं | एवं मायीय कार्मयोः परस्परं कार्यकारणता || तत्रादि सर्गे कर्मनास्ति आणव सहचरितो मायीयोस्ति | अतः कार्मस्य कारणतां याति || तदनु कार्मोमल आणव सहचरितो मायीय तनुपुरादौ कारणमेवेति पाशानां कार्यकारणता | प्रथमं व्यापकत्वं कलानां व्याप्यत्वं तत्वानां || व्यापकता तत्वानां व्याप्यत्वं भुवनानां कला मन्त्राणां व्याप्यत्वं वर्णानां व्यापकत्वं मन्त्राणां व्यापकत्व पदानां व्याप्यत्वम् कला तत्व भुवनानि वाच्यानि | मन्त्रवर्णपदानि वाचकानि | इति द्विधा वाच्यवाचकरूपं जगत् || वर्णाः कलाश्च पराः || सूक्ष्माः तत्वानि मन्त्राः स्थूलानि पदभुवनानि इत्यपरो भेदः || अथवा वर्णाः व्यापकाः मन्त्राः व्याप्याः || मन्त्राः व्यापकाः पदानि व्याप्यानि || कलाव्यापिकाः तत्वानि व्याप्यानि || तत्वानि व्यापकानि भुवनानि व्याप्यानि || अथवा || वाचकोध्वा वर्णादि व्यापकः || वाच्यः कला दिव्याप्यः स्च् ६२; प्. ६१) इति शोध्यपाशत्रयं सूत्रगमपरं शरीरमिहच्छेददाहादि योग्यं भवति | न तु देहस्थमिति पाशत्रय कल्पना || तत्र स बीजतायां प्रारब्ध्य देह समयपाशं विना त्रैकालिकं कर्मसर्वमन्तर्भाव्यं || शिवधर्मिणस्त्वत्रोपरिसाधित मन्त्रफलवर्जं | लोकधर्मिणः शुभफलवर्जं सथमन्तर्भाव्यं || आसन्नमृतेः सद्योनिर्वाणदीक्षायां सर्वमन्तर्भाव्यम् | निर्बीजपुत्रकस्य प्रारब्ध्यवर्जमेव सर्वमन्तर्भाव्यम् | ततः कलाध्व तत्वाध्व भुवनाध्व पदाध्व वर्णाध्व मन्त्राध्व रूपं शोध्याध्वानं शिष्यतनौ भावयित्वा | स्वस्वस्थानात्ताडन पूर्वं संहारमुद्रयादाय सूत्रे || (प्रसार्यदक्षिणं पाणिं कनिष्ठादि क्रमाच्छनैः | आकृष्य बन्धयेन्दुष्टिमङ्गुष्ठेन प्रपीडयेत् || मुद्रा संहारिणी प्रोक्तेति ||) तेष्वेव स्थानेषु स्वस्वमन्त्रैः क्रमेण न्यसेत् | (अमुकस्थ पाशेति साधीयान्पाठः स एव सर्वत्र प्रयोज्यः ||) ओं हूं हः अमुकात्मपाशव्यापिकायै शान्त्यतीतायै हुं फट् | इति पुष्पेण शिष्यशिरस्याताड्य | ओं हूं हः अमुकात्म पाशव्यापिकायै शान्त्यतीतायै हुं फट् | इति संहारमुद्रया शिष्यशिरस्त आदाय ग्रहणं || ओं हूं हः शान्त्यतीता (अथ कथं पाशानां कलाव्याप्तिः कथं च मायोर्ध्वस्था शान्ताशन्त्यतीता पदे पाशानां सत्तेत्याशङ्क्याह || त्रयाणां व्यापिका शक्तिः क्रियाख्या पारमेश्वरी | शान्त्यतीतादि भेदेन पञ्चसञ्ज्ञा प्रतिष्ठिता || ये यं परमेश्वरस्य नित्या वियोगिनी शक्तिस्सा क्रियाख्या ग्रहीत क्रियाशक्तिभूमिकासती दन्ता वैचित्र्योट्टङ्कनाच्छान्त्यतीतादि पञ्चधात्वं प्राप्तात्रयाणां मलानां व्यापिका तदुक्तं सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी बन्धयित्त्रीति | अत एव या वद्यावदिदन्ताभासस्य स्थितिस्तावत्तदौचित्येन पाशास्थिता इति शान्त्यतिता पदेपि तच्छोधनं युक्तम् | व्यापके च शुद्धे व्याप्यस्य तत्प्राणस्य सम्यक्छुद्धिर्भवतीति | मलानामात्म भूतानां कलाव्याप्त्या तद्व्यपदेशैश्शोधनं तश्च नित्या वियोगि पारमेश्वर स्वातन्त्र्य शक्तिरूपतोन्मज्जनमेव | यथोक्तं स्वमार्गस्था ज्ञाता सिद्ध्युपयाधिकेति निर्णीतै तच्छक्ति वीर्यसारैरेव मन्त्रैर्निमग्नपारमार्थिक तद्रूपतया प्राप्तभेदानामिवासां शोधनमिति सर्वमुपपन्नं एवं च | आधेया ग्रह आधारं गृहीतं भावयेत् पशोः || आधेयाः कलाः आधारामलाः ||) कलापाशं अमुकाणोः सूत्रे कल्पयामि नमः | इति सूत्रे नियोज्य शिखा स्थाने कुङ्कुमेनरञ्जयेच्चिह्नं कुर्यात् || १ || ओं हूं हैं अमुकात्मस्थ पाशव्यापिकायै शान्ता कलायै हुं फट् | इति पुष्पेण शिष्यं ललाटे आताड्य | ओं हूं हैं अमुकात्म पाशव्यापिकायै शान्ताकलायै हुं फट् | इति संहारमुद्रया शिष्यललाटादादाय | ओं हूं हैं शान्ता कलापासं अमुकाणोः सूत्रे कल्पयामि नमः | इति ललाटे योजयित्वा कुंकुमेन चिह्नयेत् || २ || ओं हूं हूं अमुकात्मपाशव्यापिकायै विद्याकलायै हुं फट् | इति शिष्यं तालुनि पुष्पेणा ताड्य | ओं हूं हूं अमुकात्मस्थपाशव्यापिकायै विद्याकलायै हुं फट् | इति तालुनः संहारमुद्रयादाय | ओं हूं हूं विद्या कलापाशममुकाणोः पाशसूत्रे योजयामि नमः | इति तालुसूत्रे योजयित्वा कुंकुमेन चिह्नयेत् || ३ || ओं हूं हीं अमुकात्मस्थपाशव्यापिकायै प्रतिष्ठाकलायै हुं फट् | इति शिष्यं नाभौ पुष्पेणाताड्य | स्च् ६३; प्. ६२) ओं हूं हीं अमुकात्मस्थपाशव्यापिकायै प्रतिष्ठाकलायै हुं फट् | इति नाभिस्थानात्संहारमुद्रयादाय | ओं हूं हीं प्रतिष्ठा कलापाशं अमुकाणोः पाशसूत्रे कल्पयामि नमः | इति पाशसूत्रे योजयित्वा कुंकुमेन चिह्नयेत् || ४ || ओं हूं हां अमुकात्मस्थ पाशव्यापिकायै निवृत्तिकलायै हुं फट् | इति शिष्यं गुल्फे पुष्पेणाताड्य | ओं हूं हां अमुकात्मपाशव्यापिकायै निवृत्तिकलायै हुं फट् | इति शिष्य गुल्फात्संहारमुद्रयादाय | ओं हूं हां निवृत्तिकलापाशममुकाणोः पाशसूत्रे योजयामि नमः | इति गुल्फसूत्रे नियोज्य कुंकुमेन चिह्नयेत् || ५ || एवं कुंकुमचिह्नेषु मर्मसु इवशिष्यचैतन्यं भावनया योजयेत् || शिखान्तं मुख्यतया णव मलस्य स्थितिं ध्यात्वा | ततः आहुतिः | ओं हूं अमुकाणोः पाशसूत्रे आणवमलसन्निधिरस्तु स्वाहा ३ | मायीय मलस्य मायात्मक विष्ण्वाश्रित गलान्तां स्थितिं ध्यात्वा | ओं हूं अमुकाणोः (आलोके || एवं मण्डल कुम्भाग्नि शिष्य स्वात्मसु पञ्चसु गृहीत्वा व्याप्तिमैक्येन न्यस्या ध्यानं च शिष्यगम् || कुम्भत्यत्रार्थार्कर्तर्यप्यन्तर्गता येनोक्तं पञ्च स्विति || कार्ममायाणु मलिनत्रयं बाहौ गले तथा | शिखायां च क्षिपेत् सूत्रग्रन्थि योगेन दैशिकः सूत्रग्रन्थि योगेनेति तद्रूपतयेत्यर्थः || एषां च ग्रन्थिरूपतया प्रक्षेपेकोभिप्राय इत्याशङ्क्याह || तस्या तद्रूपताभानं मलोग्रन्थिः स कीर्त्यते | इति प्रतीति दार्ढ्यार्थं बहिः ग्रन्थ्युपकल्पनम् || तस्य पूर्णप्रकाशात्मनः परस्य ब्रह्मणोयदतद्रूपतयाभानं सङ्कुचितात्मतया प्रथनं स एव स्वरूपस्य तिरोधायकत्वान्मल इति प्रतिबोधकत्वाश्च ग्रन्थिरित्युच्यते | एतदेवद्रढयितुं बहिः पाशसूत्रादावेवं ग्रन्थीनामुपकल्पनम् || एवमप्येतद्बाह्वा देवकस्मादुक्तमित्याशङ्क्याह || बाहूकर्मास्पदं विष्णुर्मायात्मागलसंश्रितः | अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता || मायात्मेति तद्गर्भे स्याधिकारात् | अधोवहेति प्राणशक्ते हृदयान्तं ततः प्रसरणात् ||) (नन्वेवमपि सूत्रस्य त्रिस्त्रिगुणीकरणेन कोर्थ इत्याशङ्क्याह कोभिप्राय इत्यासङ्क्याह || नरशक्ति शिवाख्यस्य त्रयस्य बहुभेदतां | वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् || इदं हि नरशक्ति शिवात्मकमेव सर्वमिति भावः | अत्रैवशास्त्रान्तरीय प्रक्रिययापि व्याप्तिं दर्शयितुमाह || तेजो जलान्न त्रितयं त्रेधा प्रत्येकमध्यतः | श्रुत्यन्ते केप्यतश्शुक्ल कृष्णरक्तं प्रपेदिरे || श्रुत्यन्त इति यदुक्तं छान्दोग्योपनिषदि श्वेतके भूपदेशे एकस्मात् परब्रह्मणस्तेजो जायत | तत आपः ताभ्योन्नम् | तदेकैकं त्रिधासमभवत् | तत्राग्नेर्लोहितशुक्ल कृष्णानि रूपाण्य भवन् | यल्लोहितं तत्तेजः यश्शुक्लं तदापः यत्कृष्णं तदन्नम् | इति अत इति तेजो जलान्न त्रितयस्यैवं रूपत्वात् || इह साक्षाद्भोगादारे शरीरे पाशच्छेदादौ क्रियमाणे दाह शोषादयस्सम्भाव्येरन्निति तत्कृति कृतिप्रये मुख्य देहगतानन्त पाशादि सूचनात्तदुच्छेदो पायतया च त्राणात्सूत्र शब्दवाच्येस्मिन्पाशच्छेदादिकार्यमिति पाशसूत्रार्थः |) पाशसूत्रे मायीयमलसन्निधिरस्तु स्वाहा ३ || कर्ममलस्य कर्मकारण पर्यन्तां स्थितिं ध्यात्वा | ओं हूं अमुकाणोः पाशसूत्रे कार्ममलसन्निधिरस्तु स्वाहा ३ || ओं हूं हः शान्त्यतीता कलापाशाय नमः | इति पूजा | ओं हूं हैं शान्ता कलापाशाय नमः | ओं हूं हूं विद्याकला पाशाय नमः | ओं हूं हीं प्रतिष्ठाकलापाशाय नमः | ओं हूं हां निवृत्तिकलापाशाय नमः | इति पूजा || ओं हूं हः अमुकाणोः पाशसूत्रे शान्त्यतीता कलापाशसन्निधिरस्तु स्वाहा || ३ || ओं हूं हैं अमुकाणोः पाशसूत्रे शान्ता कलापाशसन्निधिरस्तु स्वाहा | ३ | ओं हूं हूं अमुकाणोः पाशसूत्रे विद्याकला पाशसन्निधिरस्तु स्वाहा | ३ | ओं हूं हीं अमुकाणोः पाशसूत्रे प्रतिष्ठाकलापाशसन्निधिरस्तु स्वाहा | ३ | ओं हूं हां अमुकाणोः पाशसूत्रे निवृत्तिकला पाशसन्निधिरस्तु स्वाहा | ३ | ओं हूं हः अमुकाणोः पाशसूत्रे शान्त्यतीता कलापाशं दीपयामि हुं फट् हूं स्वाहा ३ | प्. ६३) ओं हूं हैं अमुकाणोः पाशसूत्रे शान्ता कलापाशं दीपयामि हुं फट् हूं स्वाहा ३ | (विश्लेषकरणार्थं तु पाशानां दीपनं भवेत् ||) ओं हूं हूं अमुकाणोः पाशसूत्रे विद्याकलापाशं दीपयामि हुं फट् हूं स्वाहा ३ | ओं हूं हीं अमुकाणोः पाशसूत्रे प्रतिष्ठकलापाशं दीपयामि हुं फट् हुं स्वाहा ३ | ओं हूं हां अमुकाणोः पाशसूत्रे निवृत्तिकलापाशं दीपयामि हुं फट् हूं स्वाहा ३ || ततः प्रागुक्तन्यासवद्विभागदिशा प्रतिकलाव्याप्तिं विभिन्नां विभावयेत् | यथा करन्ध्राल्ललाटान्त शान्त्यतीता कला तस्यामण्डलं वृत्तं बिन्दुलांछितं स्फाटिकाभं ध्यानमेकास्यं वरदाभयपाणिं विभाव्य || १ || ततो ललाटात्ताल्वन्तं शान्ताकला तस्यामण्डलं कृष्णं षडश्रं षड्बिन्दुलांकितं ध्यानमेकास्यं वरदाभयपाणिं विभाव्य || २ || अथ विद्यायास्तालुनोनाभ्यन्तं व्याप्तिस्तस्या मण्दलं त्र्यश्रं रक्तं स्वस्तिकलांछितं ध्यानमेकास्यं वरदाभयपाणिं विभाव्य || ३ || प्रतिष्ठा नाभेर्गुल्फान्तं व्याप्यस्थिता तस्या मण्डलमर्धचन्द्रा कृति पुण्डरी कलांछितं शुक्लं ध्यानमेकास्यं वरदाभयपाणिं विभाव्य || ४ || अथ निवृत्तिकलायाः गुल्फात्पादान्तं व्याप्तिः | तस्यामण्डलं चतुरस्रं वज्रलांछितं पीतं ध्यानं वरदाभयपाणिं विभाव्य || बन्धने परिमाणं च कर्मणो विषयस्य चेत्याद्युक्त्या | न केवलं ग्रन्थीन्यावद्बन्धन समये कर्मणः शुभाशुभाद्यात्मनो विषयस्य भुवनादेः मायीय मलात्मनश्च शब्दादाणवमलस्य परिमाण नियतामध्वव्याप्तिं च कलपयेत् || तद्यथा || (मायीय मलात्मनः) विषयस्य तत्वभुवनान्तं विद्यान्तं (कार्ममलस्य) कर्मणो व्याप्तिः | (आणवमलस्य) मलस्यशान्त्यतीतान्तं संस्कारात्मना सूक्ष्मेणरूपेणास्तीवेत्ये तदनु सन्धाय ताडन (निवृत्तावेकं पार्थिवं तत्वं अष्टोत्तरशतं च कालाग्न्यादि भुवनानामिति विषयस्य परिमाणं भविष्यति | कर्मणो निवृत्ति प्रतिष्ठा विद्यान्तं यावद्व्याप्तेः मलस्य तु शान्ता शान्त्यतीतान्तमपि संस्कारात्मना सूक्ष्मेण रूपेण सता अस्त्वेवे तत्सर्वमनुसन्धधीत ||) (दीप्ताः पाशास्ततो बन्ध्यास्ताडनग्रहणादिना आदिशब्दाद्ग्रन्थिदानं अपुनः प्ररोहार्थमुद्दीपित वार्याणामेव पाशानां बन्धनं | शिष्यचैतन्यावरणे स्वातन्त्र्यापसारणम् |) पूर्वं सूत्रचिह्नेषु सक्तसुमान्ग्रन्थीन्दद्यात् | यथा || ओं हूं हः सान्त्यतीता कलाममुकात्मस्थ पाशसूत्रव्यापिकां बन्ध्नामिहः हूं ओं नमः | इति शिखा स्थाने सक्तसुमां ग्रन्थिं दद्यात् || १ || ओं हूं हैं शान्ताकलाममुकात्मस्थ पाशसूत्र व्यापिकां बन्ध्नामि हैं हूं ओं नमः | इति ललाटे सक्तसुमांग्रन्थिं दद्यात् || २ || ओं हूं हूं विद्याकलाममुकात्मस्थपाशसूत्रव्यापिकां बध्नामि हूं हूं ओं नमः | इति लालुनि सकुसुमां ग्रन्थिं दद्यात् || ३ || ओं हूं हीं प्रतिष्ठाकलाममुकात्मस्थ पाशसूत्रव्यापिकां बन्ध्नामि हीं हूं ओं नमः | इति नाभौ सक्तसुमां ग्रन्थिं दद्यात् || ४ || ओं हूं हां निवृत्तिकलाममुकात्मस्थ पाशसूत्रव्यापिकां बध्नामि हां हूं ओं नमः | इति गुल्फस्थाने सक्तसुमां ग्रन्थिं दद्यात् || ५ || इति स्वस्वमन्त्रैः स्वस्वस्थानेषु शिखा ललाट तालु नाभि गुल्फस्थानेषु ग्रन्थिदानम् || ततो निष्ठुरमुद्रां प्रदर्शयेत् | इत्थं निष्ठुरमुद्रया ध्वानं (मुष्ठीबद्धा वरारोहे ह्यङ्गुष्ठौ तल मध्यगौ | निष्ठुरीति समाख्याता मुद्रेयं रोधिनी विभोः ||) स्च् ६५; प्. ६४) (पाशान्संस्थाप्य पात्रे तु सम्पातं जुहुयात् सकृत् | पाशानिति पाशसूत्रं संस्थाप्येति शिष्यदेहाद्विमुच्येत्यर्थात् | सम्पात होमः सम्पातं सर्वमन्त्रैश्चेत्यादौ निर्णीतः अथैतान्पाशान् | पात्रसम्पुट मध्यस्थान्स्थण्डिले विनिवेदयेत् | पात्रमध्यस्थं वेद्यवेदकान्तरावस्थिता एते इत्याशयात् | कवचावगुण्ठनव्याप्त्या च | स्थण्डिल इति तत्रार्चिते भगवति विनिवेदयेदिति | एतस्य पशोः पाशस्त्वयैवमामिकां तनुमाविश्य बद्धा इति विज्ञप्तिं कुर्यादित्यर्थः तथैव च | नीत्वा समर्पयेत्कुम्भे | तत्स्थं भगवन्तं विज्ञापयेद्यथा | पाशान्संरक्षहे विभो | संरक्ष च भावि पुत्रकादि दीक्षच्छेद्यानामेषां साम्प्रतं स्वकार्यशक्तिबन्धनात्माधिवाससंस्कारः ततः | दर्भं विमोचये च्छिष्यं | नाडीसन्धानार्थं प्राक्परिकल्पितं अथास्मै | पुष्पं पाणौ प्रदापयेत् | तेन चासौ भगवन्तं समन्त्रकमेव | स्थण्डिले शिववकुम्भे च शिवाग्नौ च प्रपूजयेत् | चकाराद्गुरुमूर्तावपि | ततः प्रदक्षिणं कृत्वा दण्डवन्निपतेद्भुवि ||) निरोध्य पाशसूत्रमुन्मोच्य | ओं हां हः पाशसूत्राय हः हां | इति पात्रयुगे सम्पुटी कृत्य || स्त्रीणां प्रतीपास्त्रं विधाय यथा | ओं हः हां पाश सूत्राय हां हः | इति पात्रयुगे सम्पूटीकृत्य || ओं हां पाशसूत्राय नमः | इति संपूज्य || (गिरुपुस्तके - त्रिभिः संहितया कुर्यात्संपातं वह्नि शिष्ययोः | श्रुवाज्य शेष संस्थाप्य बिन्दुभिः स्वेह पावके |) पूर्ववत्संहितया वक्त्राङ्गैः सम्पातं कुर्यात् | ओं हां सम्पातं करोमि स्वाहा इत्यादि | पाशसूत्रं शिष्यकरे दत्वा तं शिष्यं यागवेदिसमीपं नयेत् | तत्र याग वेदौ विभुं मूलेन पूजयेत् || एतस्य पशोः पाशास्त्वयैवमामिकां तनुमाविश्य बद्धाः | इदं गुरुः ब्रूयात् | तं शिष्यं दण्डप्रणतिं कारयित्वा | तथैव पाशसूत्र पात्रहस्तं शिष्यं कुम्भ समीपं नयेत् | कुम्भे गुरुर्भगवन्तं मूलेनार्चयित्वा ओं हैं अवगुण्ठयामि नमः इत्यवगुण्ठ्य शिष्यं विज्ञप्तिं कारयेत् | ओं पाशान्संरक्ष हे विभो | इति रक्षणाय पाशसूत्रं भगवदन्तिके स्थापयेत् || नाडीसन्धानार्थं परिकल्पितं दर्भमूलं दर्भनाडीं वा विमोच्य | ओं दर्भनाड्यै नमः | इति सम्पूज्य | ओं भगवन्नाडीं मे रक्षे तिरक्षणाय दर्भनाडीमपि संपुटितपाशपत्रोपरि स्थापयेत् || (प्राक्पश्चादिति || गोमयेन शुचौ देशे कार्यं मण्डलक त्रयं | एकस्मिन् मण्डले विष्टः पञ्चगव्यं शिशुः पिवेत् || उपविष्ट द्वितीये तु चरुकं प्राशयेद्बुधः | आचम्य दन्तकाष्ठं तु तृतीये मण्डले स्थितः || भक्षयित्वा च देवेशि ततश्चैव विनिक्षिपेत् | विधवा स्त्री तदङ्मुखं रपवेश्या | अविधवां स्त्रीं पुंमां समपि पूर्वमुखमुपवेशयेत् | पञ्चगव्यं संस्कृतस्थापि चरुभाग भोजनयोग्यतायै | चरुकं तु इतः प्रभृति शिवमयभोग्य भोक्त्यत्वावसायाय दन्तकाष्ठं परां शुद्धिमभिव्यक्तुमश्नीयात् | आचम्येति पूर्वत्रापि योज्यम् ||) ततः त्रिःस्थे विभौ प्रदक्षिणं कारयित्वा | शिष्यं पुष्पाञ्जलिं दापयेत् | ओं नमोस्तु सर्वेत्यादि || शिवाग्नौ च पूजयेत् | ओं नमोस्तु सर्वेति || गुरुमूर्तावपि | नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् | शिरसायोगपीठस्थं मुक्तिकामार्थ सिद्धये | इति शुष्यो गुरोश्चरणपङ्कजे स्पृशेत् || अथ चरुप्राशन विधिः || प्राक्पश्चिममध्यप्रदेशे मण्डलत्रयं वृत्तं कारयेत् | तत्रादौ पश्चिममण्डले पदाक्रान्ते पञ्चगव्य चुलकत्रयं सकलमन्त्राभिमन्त्रितं पूर्वं पिबेत् शिष्यः || मध्ये द्वितीये मण्डलके कुकूटाण्ड प्रमाण चरुकग्रासाष्टकं अदन्त स्पृष्टं निङ्गलयित्वा || (मयूगण्डप्रमाणमित्यर्थः ||) वक्त्रशोधनाचमनानन्तरं | पूर्वे तृतीये मण्डले चिरबिल्वार्जुन आम्रोर्थेन तदभावे क्षीरवृक्षोत्थेन | (अत्र चिरबिल्वः करंजोनाम वृक्षः विदेशे | तथा चामरः | चिरबिल्वोनक्तमालः करजश्च करंजक इति | यत्पुनः दन्तधावन विधौ सारसङ्ग्रहे उक्तं | चिरबिल्वैकरंजैश्च खदिराम्रैस्तथार्जुनैरिति तत् | करंजस्य पूतीकरजाकरंजत्वाभि प्रायेण | तथचामरः पूतीकः पूतिकरजः प्रतीकः कलिमारकः ||) द्वादशाङ्गुलदीर्घकनिष्ठाङ्गुलि वर्तुलेन | दन्तधावनेन | दन्तशौचं कारयित्वा | प्रागुदङ्मुखो भुक्त्यर्थे प्राङ्मुखः सुक्त्यर्थे उदङ्मुखः | हस्तद्वय बद्धाञ्जलि मध्ये दन्तधावनं गृहीत्वा | ऊर्ध्वमुखं नासाग्र क्षेपादूर्ध्वमुखं सनैः सनैः भूमौ क्षिपेत् || (श्रीसोमशम्भो - मण्डलत्रितयं कृत्वा मुमुक्षूनुत्तराननान् | बुभुक्षून्पूर्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत् || प्रथमं पञ्चगव्यस्य प्राशयेच्चुलकत्रयम् | पाणिना कुशयुक्तेन आचमेन्नान्तरात्मना || चरुकं तद्द्वितीये तु ग्रासत्रितय सम्मितम् | अष्टग्रास प्रमाणं वा दशनस्पर्शवर्जितं || पलाश पुटके मुक्त्यै भुक्त्यै पिप्पलपत्रजे | हृदा सम्भोजयेद् दत्वा पूत आचमयेज्जलैः || दन्तकाष्ठं हृदादत्वा तद्दन्ताग्र विचर्चितं | धौत मूर्ध्वमुखं भूमौ क्षेपयेत् पात्रमुन्नयेत् || गुरुपुस्तके | प्राक्पश्चात्संहतं कुर्यात् त्रिपदं मण्डलत्रयं | तत्रैकस्मिन्मध्यपदक्रान्ते संवेशितं हृदा || पाययेत् पञ्चगव्यस्य संस्कृतं चुलकत्रयं | त्रिराचम्यान्तरान्यस्मिमष्टककं ग्रासानां दशनास्पृष्टं पालाशे दले भुक्त्यैमुक्त्यैश्च स प्राच्य चरोर्धाम्ना त्रिराचमेत् | द्वादशाङ्गुलिदैर्घ्येण कनिष्ठाङ्ग्लि वर्तुलं | चिरबिल्वार्जुना प्रोक्तं तृतीये दन्तधावनं || वामतः सव्यदंष्ट्रान्तं दन्तानस्त्रेण शोधयेत् | जग्द्ध्वात्यजेत् ||) स्च् ६६; प्. ६५) तदुक्तम् | ऊर्ध्वाननं यदा तिष्ठेद्राज्यं मोक्षमवाप्नुयात् | अधोमुखे तु मरणं हृदयेन शतं हुनेत् || पूर्वस्यां योगसंसिद्धिराग्नेययां व्याधिमादिशेत् | याम्यायां मरणं विन्द्यान्नैर्-ऋत्यां कलहो भवेत् || वारुण्यां धनसंपुष्टिर्वायव्योश्चाटनं भवेत् | सौम्यायां सिद्धिमाप्नोति मोक्षमीशान गोचरे || ऊर्ध्वे चेन्द्राप्य यक्षा सा पतितं मलकामदं | तापमृत्यु महारोग भ्रमाधः पातमन्यतः |) शुभाशुभं लक्षणं लक्षयेत् | तत्रफलम् | ऊर्ध्वाग्रे राज्यं | पूर्वाग्रे लक्ष्मी | आग्नेये शस्त्रघातः | दक्षिणे मृत्युः | नैर्-ऋते कलहः पश्चेर्त्थलाभः | वायाबुश्चाटना | उत्तरे सिद्धिः | ईशाने मुक्तिः || अत्र चाशुभदिक्पात्रे दन्तधावनस्य दृष्टे मूलेनाष्टोत्तरशतहोमः | यथा | ओं हूं दन्तधावन व्यञ्जिता शुभशुद्धिरस्तु स्वाहा | १०८ | अथवा | ओं हः फट् दन्तधावन व्यञ्जिता शुभशुद्धिरस्तु हः फट् || १०८ || इति दन्तधावन शुद्धि होमः || (तिलं तण्डुलमाज्यं च क्षीरं शर्करया सह | एतत् पञ्चामृतं होममपमृत्यु निवारणम् ||) ओं हूं न्यूनातिरिक्ता कृतदुष्कृत निवारण प्रायश्चित्तं भवतु स्वहा || १०८ || इति विलोमव्युत्क्रमन्युनातिरिक्ता कृतदुष्कृतनिवारणाय मूलेनाष्टोत्तर शतं प्रायश्चित्त होमं विधाय वामे खेटकेति पठित्वा || ओं हूं न्यूनातिरिक्ता कृत दुष्कृत निवारण प्रायश्चित्तं सम्पूर्णं भवतु स्वाहा वौषट् | इति पूर्णां दत्वा | यागवेदौ विशेष पूजां || सहस्रेण शतेन वा मन्त्रतर्पणं च | कृत्वा पूर्ववत्पूर्णात्रयं दद्यात् | ध्यानं | ओं हूं भैरवाप्यायनमस्तु स्वाहा वौषट् | १ | ध्यानं | ओं हूं सर्वमन्त्र चक्र तृप्तिरस्तु स्वाहा वौषट् || २ || ध्यानं | ओं हूं न्यूनातिरिक्त विधि पूरणमस्तु स्वाहा वौषट् | (अष्टोत्तरशतं हुत्वा प्रायश्चित्ताद्विशुद्ध्यति | अथ मूलविश्रान्तिमेवानुसन्धात्तं पश्चात्सन्तर्पयेद्धोमं सहस्रेण सतेन च | यावदस्य विश्रान्तिर्घटत इत्यर्थः अङ्गवक्त्रवाचिनः | मन्त्रांश्च च शभागेन अनन्तरमेषामेव वह्नौ नैवेद्यदापनम् विशेष पूजनं चार्घं मुद्राबन्धं वरानने स्तोत्रं वाद्यं ततः कृत्वा चरुं प्राच्य विसर्जयेत् | श्रीपरमेशमित्यर्थात् | निरोधार्घेन चार्घं तु दत्वा चैव वरानने | रेचकेन तु सङ्गृह्य भैरवं तमनुस्मरन् | मुष्टिना पूरितं नीत्वा पूजयित्वा वरानने अग्निष्टं वै | अग्निष्टं तमिति पूर्वोक्तं पूरितमिति पुरकेन मण्डलात् सङ्गृह्य रेचकेनाग्नि स्थितं कृत्वा तत्रापि तथैवार्चयित्वा पूरकेन गृहीत्वा स्थापयेत् पुनः तत्रस्थं पूजयित्वा च कलशे तु विनिक्षिपेत् | कुसुमादिभिरभ्यर्च्य कुम्भ एव तु भैरवम् |) इति पूर्णात्रयं दत्वा | निरोधार्घं दत्वा पात्रेभ्यस्तेजः पुञ्जमादाय यागवेदिमध्यस्थे विभौलीनं ध्यायेत् | पात्रेभ्यो विष्टराणि विमुच्य | पात्रस्थं जलादिकं निर्माल्ये प्रक्षिप्य | ततो यागवेदेन्मन्त्रोश्चार पूर्वं पूरकेन विभुं सपरिवरं तेजः पुञ्जरूपं मुष्टावादाय कुम्भे प्रक्षिप्यात्र कुम्भेर्चयेत् | (याग गृहमनधिष्ठितं माभूदित्याशयात्कुम्भे पूजा ||) वह्नेरपि पञ्चामृतेन व्याहृति होमं कृत्वा | (अन्यतोग्निमानीय) पूर्ववद्वैश्वदेवादिकं विदाय गुरुब्राह्मण पूजनं कृत्वा पूर्णां दद्यात् | ओं हारमनोहरेति ध्यानं | ओं हूं न्यूनाधिकान्यथा कृत प्रायश्चित्त निवृत्तिः विधिपूरणं चास्तु स्वाहा वौषट् | इति पूर्णां दत्वा भस्मतिलकं च कृत्वा | ततो दिग्बलिभूत तर्पणादि कृत्वा | सव्यापसव्यतो निरोधार्घं दत्वा अहो नयेत् || अस्यामेवारात्रौ यागो लेख्यः शिष्यपरोक्षमेव || (शिष्यानपि तत्रैव यज्ञगृहे पृथक् पृथक् स्थापयेत् || गुरुरपि तत्रैव पृथक्स्वपेदित्यस्मद्गुरवः ||) अथ शिष्यशययाविधिः || (यागंभूमेः) स्थण्डिलान्निर्माल्य मपसार्य पञ्चगव्येन स्थण्डिलमुपलिप्य अनन्तरं शिवाम्भसा प्रोक्षितायां दर्भशययायां | ओं जुं सः अमुकं सर्वोपद्रवेभ्यो रक्ष २ सः जुं ओं वौषट् इति मन्त्रेण मृगनाभिरोचनादि कृततिलकं स्च् ६७; प्. ६६) विहिततिलसर्षपादि प्राकारं कवचावगुण्ठितं | ओं हूं अनादिबोधशिखायै वौषट् | इति शिखामन्त्रेण सदर्भ कृत शिखा बन्धनं | भुक्तौ दर्भशययायां प्राक्शिरसं | मुक्तौ तु शैवाग्नि भस्मनि याम्यदिक्शिरस्कं शिष्यं प्रस्वाप्य | ओं हैं शष्योपरिप्रच्छादं क्षिपामि हुं नमः | इत्युपरि प्रच्छादं प्रक्ष्प्य | ततः शिष्यस्य वामप्रवा(नाड्य)हेनान्तः प्रविश्य | द्वादशान्तमधिरुह्य | तत्र क्षीणकलाजालतामनुभूय पुनर्हृदयेस्य पूर्णकलेवरुह्य विश्रमेत् | इति प्रवेशनिर्गमन क्रमेणास्य शुभाशुभ स्वप्नसंक्रान्तिर्भवतीति गुरवः || ततो निशाकलशंपूजयेत् | ओं हः फट् हिंशकेभ्यो फट् नमः | इति शतजप्तं शययाशिरः प्रदेशे पूजितं संस्थाप्य || ओं नमः शम्भो त्रिनेत्राय पिङ्गलाय महात्मने | वामाय विश्वरूपाय स्वप्नाधि पतये नमः | आचक्ष्व देवदेवेश प्रपन्नोस्मितवान्तिकम् | स्वप्ने सर्वाणि कार्याणि हृदिस्थानीहयानि मे | भव्यानि यानि सर्वाणि मामा चक्ष्व नमोस्तुते | ओं हिलि २ मातङ्गिनि शूलपाणये दुस्स्वप्नं हर २ शुभं दर्शय २ सर्वेश्वर भूतं भव्यं भविष्यन्मे प्रदर्शय २ ओं स्वहा || (ततो गुरुः पठेत्) ओं लिहिनि हिलिनि हंसिनि ह्रां ह्रीं सः स्व स्वप्नं दर्शय २ सः २ अमुकस्य दुःस्वप्नं नाशय २ हूं फट् || ओं कां कालिके कालनाशिनि त्रियामे यमदैवते हूं हूं अमुकस्य दीक्षासमये स्वस्वप्नं कुरु २ दुष्टस्वप्नं नाशय २ स्वः स्वः || इति स्वप्नमानवकं पठित्वा स्वप्नमानवकं पाठयेत् | ओं नमो भगवते वामनाय विकृताय त्रिनेत्राय हेमदण्डधराय डमरुहस्ताय एहि २ शिशुरूपाय दिगम्बराय स्वप्नं कथय विभो मे अतीता नागतवर्तमानं ओं ह्रीं ह्रां फट् स्वाहा (इति पाठयित्वा) इति स्वप्नमानवकमन्त्रः || ओं ये भूताः प्रचरन्ति दिवारात्रौ वा बलिमिच्छन्ति विदुरं प्रेष्ठास्तेभ्यो बलिं पुष्टिकामोहरामि मयिपुष्टिं पुष्टिपतिर्दद्या तु | इति वैदिक मन्त्रेण वा || (अत्र मध्ये ध्रुवादीत्ये तद्ध्रुवलोकपरामर्शाय | अथ च ध्रूवः प्रणवस्तदादि कृत्वायं मन्त्रः पठनीयः ||) ओं ये भूता विविधाकारादि विभूम्यन्तरिक्षगाः पातालतलसंस्थाश्च ऐन्द्राः याम्या स्थिताश्च ये | ध्रुवादि सर्वभूता(लोका)न्ता शिवयागे स्वभाविताः | प्. ६७) आहरन्तु बलिं तुष्टा प्रयच्छन्तु शुभं मम | इति मन्त्रेण भूतबलिं दत्वा | आचम्य न्यासं कृत्वा पञ्चगव्य चुलु(चरु)कादि प्राश्य सहायैस्सहितो मन्त्रसन्नद्धो याग एव गुरुः स्वपेत् | ध्यानपरो वा तिष्ठेदित्यधिवासः || (यागभूमौ स्वपेत्पश्चाच्छिष्येस्सह वरानने | श्रीभगवदधिष्ठिते यागगृहे गुर्वादीनां स्वापोदीक्ष्य विषयसमुचित स्वप्न दर्शनाय || भैरवध्यानयोगेन समाधौजाग्रदेव वा || गुरुर्भवेच्छिष्ट्यार्थमिति शेषः || पाशक्षपण शिव पददानरूपादीक्षा ||) आचार्य सत्ससमयि पुत्रकसाधकानां दीक्षा महाध्वरविधावधि वासकर्म | श्रीमान्मनोदगुरुरद्वय शास्त्रसारमाह्यत्य संशय शमायस्वतस्य चक्रे || लिखितं चैतदधि वासकर्म क्षीरचरुसाधनादि युक्तम् || अहः २ || ओं अथ तृतीय दिने सन्ध्यावन्दनादि निजकृत्यं विधाय | स्वप्नपरीक्षां कुर्यात् | स च स्वकीयो बलीयान् | न च शिश्यसत्कः || (श्रीमतङ्गे आचार्येणापि पृष्ठव्यास्स्वप्नाः स्वस्निग्धयागिरा ||) तत्र च पश्चिमप्रहर भवं शुभाशुभं द्रूतं सूचयति | तदेवाह स्वच्छन्दे | ओं प्रत्यूषे विमले कृत्वा शौचाद्यान्पूर्ववत्क्रमात् | (आदिशब्दात्मानादि) सकलीकरणं कृत्वा पूर्ववत्प्रविशेद्गृहम् | (पूर्ववत्प्रविशेदिति | द्वारदेवतार्चां कृत्वा ||) शिष्यश्च शुचिराचान्तः पुष्पहस्तो गुरुं ततः प्रणम्य शिरसा हृष्टगुरोः स्वप्नान्निवेदयेत् | शुभान्स्वप्नान्प्रवक्ष्यामि अशुभांश्च वरानने | स्वप्ने तु मदिरापानमाममांसस्य भक्षणम् | (आलोके - यत् प्रीत्यैस्यादपि प्रायस्तत्तच्छुभमुदाहृतम् | तं ख्यापये तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् | अतोन्यदशुभं तत्र होमोष्टशतिकोस्त्रतः || न शुभं नाशुभमिति शिष्येभ्यः कथयेद्गुरुः | रूढां हि शङ्कां विच्छेत् तं यत्नस्संघटते महान् || येषां तु शङ्कविलुपस्तेषां स्वप्नवशोत्थितं शुभा शुभं न किंचित्स्यात् || प्राय इति न हि शिरच्छेदादे प्रीतिकारित्वमस्तीति भावः | तमिति शुभं स्वप्नं अत इत्युक्तात् स्वप्नात् | अन्यदिति विपरीतं पक्षमांसाशनादि | अस्त्र त इत्यस्त्रमन्त्रेण अशुभ कथने द्वितीयार्धं हेतुः | तेषामिति विलीन शङ्कानां न हि निर्विकल्पस्य शुभाशुभविभाग एव भवेदिति भावः | त्रे गुण्यात्मकत्वाच्चैते स्वप्नेपि वैचित्र्यभाजो भवंतीत्याह || स्युश्चेत्थं चित्रता वशात् | स्फुटं पश्यति सत्वात्माराजसो लिङ्गमात्रतः | न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् || ननु यदि तामसःकिंचिदपि न पश्येत्तत्कुतोस्य शुभाशुभनिश्चय इत्याशङ्क्योक्तं तस्य सुखदुःखा च्छुभाशुभमिति || नन्विह तामसस्य दीक्षाकर्मण्यधिकार एव कुतस्य इत्याशङ्कां प्रदर्श्य निरा करोति || नन्वत्र तामसो नाम कथयोग्यो विधौ भवेत् | मैवमाविग्रहं कश्चित्क्वचित्कस्यापि वैगुणः || वै शब्दोवधारणे स च सर्वत्र सम्बन्धनीयः गुण इत्यर्थादुद्रिक्तः | एत देवदर्शयति || सर्वसात्विक चेष्टोपि भोजने यदि तामसः | किं ततः सोधमः किंक्वाप्युत्कृष्टसुद्विपर्ययः || तत इति भोजनमात्रेतामसत्वात् | तद्विपर्यय इति सर्वत्रतामसत्वे भोजनमात्र एव सात्विक इति || एतदेव प्रकृते योजयति || आयात शक्तिपातोपि दीक्षितोपि गुणस्थितेः विचित्त्रात्मा भवे देव मुख्येत्वर्थे समाहितः || गुणस्थितेरिति प्राकृतस्य देहस्य कं चित्कालमवस्थानात् | मुख्य इति दीक्षादिलक्षणे ||) क्रिमिविष्टानुलेपं च रुधिरेणाभिषेचनम् | भक्षणं दधिभक्तस्य श्वेतवस्त्रानु लेपनम् || श्वेतातपत्रं मूर्ध्वस्थं स्वेतस्रग्दमभूषणम् | सिंहासनरथैर्यानं ध्वजं राज्यभिषेचनम् || रत्नाङ्गाभरणादीनि ताम्बूलं फलमेव च | दर्शनं श्रीसरस्वत्योः शुभनार्यवगूहनम् || नरेन्द्रैर्-ऋषिभिर्देवैः सिद्धविद्याधरैः गणैः | आचार्यैस्सह संवादं कृत्वा स्वप्ने प्रसिद्ध्यति || नदीसमुद्रतरणमाकाशगमनं तथा | भास्करोदयनं चैव प्रज्वलन्तं हुताशनम् || ग्रहनक्षत्रताराणां चन्द्रमण्डलदर्शनम् | हर्म्यस्यारोहणं चैव प्रासादे शिखरेपि वा || नराश्व वृषपोतेभतरुशैलाग्र रोहणं | विमानगमनं चैव सिद्धमन्त्रस्य दर्शनं || (सिद्धोजपदि क्रमेण मन्त्रोयस्य) लाभः सिद्धचरोश्चैव देवादीनां च दर्शनं | गुटिकां दन्तकाष्ठं च खड्गपाद्वकरोचनाः || उपवीताञ्जने चैव अमृतं पारतौषधीः | शक्तिं कमण्डलुं पद्ममक्षसूत्रं मनः शिलां || (स्वप्नान्त इति न तु स्वप्न स्यादि मध्ययोः | यथोक्तं प्राङ्निमित्तं दिवाग्रायं रात्रौ ग्राह्य तु पश्चिमम् ||) प्रज्वलत्सिद्धद्रव्याणि गैरिकान्यानियानि च | दृष्ट्वासिद्ध्यति स्वप्नान्ते क्षितिलाभं भवेद्ध्रूवम् || (व्रणमिति स्वदेहेस्त्रजम् | क्षितिलाभं व्रणं तथेत्यपि पाठः ||) स्च् ६९; प्. ६८) क्षतजालवसंग्राम तरणं विजयं रणे | ज्वलत्पितृवनं रम्यं वीरवीरेशिभिर्वृतम् || वीरवीताल सिद्धैश्च महामांसस्य भक्षणं | (विक्रयमिति पाठः |) महापशोः संविभागं (महापशुः पुरुषपशुः) लब्ध्वा देवेभ्य आदरात् || आत्मना पूजयन्देवं जपन्ध्यायंस्तुवन्नपि | स्वहुतं चानलं दीप्तं पूजितं वा प्रपश्यति || हंससारस चक्राह्वमधूरशवरोहणं | (पितृभि) मातृभिर्भैरवैश्चैव मातृरुद्रगणैस्सह || (मातृरुद्रा देवविशेषाः) भैरवं भैरवीं दृष्ट्वा सिद्ध्यंत्यत्र न संशयः || (सिद्ध्यति तत्स्वप्नानुसारिणी मुत्तमादिरूपां सिद्धिं प्राप्नोतीत्यर्थः ||) दृष्टः श्रुतोनु भूतश्च प्रार्थितः कल्पितस्तथा | भावितो दोषजश्चेति स्वप्नः सप्तविधः स्मृतः || (इति निमित्तान्तरजोस्ति स्वप्नः तथापीह श्रीभगवद्गुर्वाधिष्ठिते यागधाम्निमन्त्रादि माहात्म्याद्भाविफलानुरूप एव दृश्यते सावधिवासे ||) शुभाः स्वप्नास्समाख्याता ह्यशुभांश्च निबोधमे | तैलाभ्यङ्गं तथापानं (तैलस्येव) विशनं च रसातले || अन्धकूपे च पतनमथ पङ्के निमज्जनं | वृक्षवाहन यानेभ्यः पतनं हर्म्य पर्वतात् || कर्तनं कर्णनाशानामथवाहस्त पादयोः | पतनं दन्तकेशानायक्षवानरदर्शनम् || वेतालक्रूरसत्वानां (क्रूरसत्वं व्याघ्रादिः) तथैव काल पुरुषं | कृष्णोर्ध्वकेशीमलिनाकृष्णमाल्याम्बरच्छदा || रक्ताक्षी स्त्री च यं स्वप्ने पुरुषमवगूहयेत् | म्रियते नात्रसन्देहो यदि शान्तिं न कारयेत् || गृहप्रासादभेदं च शययावस्त्रासनेषु च | आत्मनोभिभवं संख्ये संग्रामे (सङ्ख्ये आत्म) द्रव्यापहारणं || खरोष्ट्र श्वसृगालेषु कङ्क गृद्ध्रवकेषु च | महिषोलुक काकेषु रोहणं च प्रवर्तनम् || भक्षणं पक्वमांसस्य रक्तमाल्यानुलेपनम् | कृष्णरक्तानि वस्त्राणि विकृतात्मा प्रपश्यति || (हसनोद्वाहाद्यात्मनः || वल्गनं नृत्वम् ||) हसनं वल्गनं स्वप्ने म्लानस्रग्धामधारणं | स्वमांसोत्कर्तनं बन्धं कृष्णसर्पेण भक्षणं || (विघ्नव्याकुलचित्तः भीषणाकृतिर्वा ||) उद्वाहं च तथा स्वप्ने दृष्ट्वा नश्यति मानवः | अशुभा ह्येवमाख्याता विज्ञेयादैशिकोत्तमैः || (विज्ञेयेति कालस्वरूपादि कार्यानुसारेणैषां बलाबलचिन्ताकार्येत्यर्थः |) इति स्वप्नपरीक्षा || अशुभस्वप्न दृष्टौ कलशगते विभौ पूजां विधाय वह्नौ प्रायश्चित्तार्थं सन्तर्प्य | रात्र्यन्तजे अशुभे स्वप्ने शृष्टे सति सहस्रं | प्रथमयामभवे शतं | अर्धरत्रे पश्चिशतं हुत्वा | विशेषार्चा जपदूर्वाशमीहोमैर्दिनं नयेत् | शुभस्वप्न प्रदर्शने तु तस्मिन्दिवसे एव तन्त्रं प्रवर्तयेत् || तत्र च प्रस्तुतो नवनाभप्रस्तारविधिर्लिख्यते || तत्र षट्पंचाशदङ्गुल विस्तृतां चतुरङ्गुलोच्छ्रितां यागवेदिं कृत्वा | ओं रं अघोर हृदयाय नमः | इति पंचगव्येन स्थण्डिलमुपलिप्य | ओं हूं नमः | इति ब्रह्मस्थाने पूजां कुर्यात् | (ब्रह्मस्थाने मध्यदेशे इत्यर्थः ||) स्च् ७०; प्. ६९) करणखट्टिके मूले नाभिमन्त्र्यरजांसि कलाव्याप्तिकानि भावयित्वा | रजांस्या नयेत् | तान्याह || स्फाटिकं मौक्तिकं शङ्खं रजः शुभ्रं प्रकल्पयेत् | पद्मरागप्रवालैश्च रक्तं च पीलचूर्णकम् || सुवर्णपीतजं पीतमैन्द्रनीलमथासितं | शालिचूर्णं सितं ज्ञेयं राजास्संकृष्णवर्णजं || मध्यमेतत्समुद्दिष्टं मध्यमात्सिद्धिदायिकम् | सितभस्माश्मचूर्णं वासितं तत्कथितं रजः || तथा पक्वेष्टिकं रक्तं हरिद्राचूर्णपीतलम् | कृष्णंरजःस्तु षैस्निग्धैः प्रयत्नादपि कारयेत् || सिन्दूरं चैव रक्तं स्यात् सर्वोपद्रवनाशनम् | अभावाद्गैरिकं रक्तं पीतं जलतृणोद्भवं || (पिशिकिसोरा?) यथा तथा रजः कार्यं पञ्चरङ्गं सुशोभनम् | रजो विना तु शिष्यस्य समये ह्यभिचारणं || इति विचार्यरजसां प्रयत्नः कार्यः | रजांसि कलाव्याप्तिकानि भावयेत् | कथमित्याह | तत्र सुशीतेरजसि शान्त्यतीतां | कृष्णे शान्तां | रक्ते विद्यां | शुक्ले प्रतिष्ठां | पीते निवृत्तिं भावयित्वा | भैरव पादाङ्गुष्ठकलारूपाङ्गुलिव्याप्तिककरेण (धाम्नाभिमन्त्रितानां रजसां पश्चात्पातः निमन्त्रक एव अन्यथा भाविरजो दोषोक्त्यनुपपतीः) धामानुस्मृत्यारजः पातादि विधाय | शिष्यपरोक्षं यागमण्डलं | नवनाभसंज्ञं स्वतन्त्रादि प्रामाण्येन कारयेत् || यदुक्तं श्रीस्वच्छन्दे || ओं वद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः | नवहस्तं लिखेद्वेश्म अष्टपर्वादिकं बुधः || चतुर्विंशाधिकं ह्येतदङ्गुलानां शतद्वयम् | सवमेतश्च भुवनं नानाध्व प्रतिबिम्बितं || सप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितं | द्वात्रिंशदङ्गुलान्यत्र प्रतिभागं च कल्पना || चतुरस्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितं | मत्स्यबन्ध चतुकेन भवेत् पूर्वापरागतम् || सप्तभागी कृतं क्षेत्त्रं चतुरस्रं समन्ततः | कोष्ठकैकोन पञ्चाशत् सूत्रेण च समालिखेत् || मध्यमे कोष्ठके पद्मं द्वात्रिंशाङ्गुलसम्मितम् | समालिख्य महादेवि चतुर्भागविवर्जिते || प्रथमे कर्णिकां कुर्यात् केशराणि द्वितीयके | तृतीये दलसन्धिश्च दलाग्राणि चतुर्थके || दिक्षुरेखाष्टकं कृत्वा प्रतिदिक्षुस्तथैव च | भ्रामयेश्चतुरो वृत्तांश्चतुरङ्गुल सम्मितान् || द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं प्रकल्पयेत् | सूत्त्राग्रात् ततो भ्राम्यमर्धचन्द्रविधानतः || मध्यसूत्रे निधातव्यं किंजल्कस्थं विपश्चिता | पूर्वपत्रं प्रसाद्यैवमि ########### END OF FILE #######