#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00279 Uniform title: dīkṣottara Main title: dīkṣottara of the nisvāsakārika Manuscript : IFP Transcript T0017B from page 795 to end Description: IFP Transcript T0017B from folio 795 to the end. The Dīkṣottara of the Nisvāsakārika which is the fifth section of the Niśvāsatattva saṃjitā. An important early Agama of the śaivasiddhānta . Notes: Revision 0: December 16, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### प्. ७९५) निष्कलं परमं तत्वं तृटिगात्रं प्रकीर्तितम् | कथं विज्ञायते शंभो एतदिच्छामि वेदितुम् || १ || ईश्वरः - शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् | तदहं संप्रवक्ष्यामि हिताय तव सुवृते || १ आ || भुवनाध्वा कलाध्वा च तत्वाध्वा च वरानने | वर्णमन्त्र पदाध्वा च कथयाम्यनुपूर्वशः || २ || प्राणैके संस्थिता देवि वेदितव्यं हि देशिकैः | भुवनाध्वा तु यत्प्रोक्तो मया पूर्वं हि सुव्रते || ३ || षड्विंशत्तत्वैराक्षिप्तं वेदितव्यं प्रयत्नतः | प्. ७९६) पुनश्चाष्टादशैस्तत्वैः कलाभेदैः पुनस्थितम् || ४ || पुनश्च नवभिस्तत्वैः कथितं सुरसुन्दरि | तत्सर्वञ्चाष्टभिर्भेदैराक्षिप्तं पुनरेव तु || ५ || एकेषु **? ल्कं तत्वं तत्वयुक्तं समुद्वहेत् | षट्त्रिंशदङ्गुलञ्चारं यन्मया कथितं तव || ६ || हृत्पद्माद्यवधिं देवि वेदितव्यं प्रयत्नतः | आपादतलमध्वानमुत्सहेत वरानने || ७ || भुवनाध्वा स विज्ञेयो देशिकेन महात्मना | तत्त्वाध्वा च वरारोहे तेषाञ्चोर्ध्वं व्यवस्थितः || ८ || कलिकालिक्तमात्मानमुच्छ्वसन्तं बहिस्थितः | प्. ७९७) कलाध्वा तु स एवेति कथितस्तत्र पूर्वशः || ९ || एवमन्योऽपि देवेशि वेदितव्यः प्रयत्नतः | षट्तृंशाङ्गुलं परित्यज्य क्रमवच्च सुमध्यमे || १० || तृटिमात्रं स विज्ञेयो देहमुक्तस्तु निष्कलः | स्वामिभावं तु यत्तस्मिन् द्वादशान्तमवस्थितः || ११ || संयुक्तशक्तिना बुद्धं तृटिमात्रस्तु निष्कलः | शक्त्या देहस्थितो ह्यात्मा निष्कलः परमेश्वरः || १२ || तत्वस्थो व्यापयेद्देवि देहान्मुक्तस्तु निष्कलः | सुसमिद्धे यथा वह्नौ शिखालिहति चांबरे || १३ || देहस्य तद्वरारोहे लीलायति तत्पदे | प्. ७९८) दीक्षाकालेऽभिमानन्तु तद्वत् कुर्यात्तु देशिकः || १४ || अहमेव परं तत्वं तत्वलीनस्तथैव च | शक्त्यारणिभूताया पुनस्तत्र क्षिपाम्यहम् || १५ || एवं यो वेत्ति तत्वेन वह्निवद्देहमध्यतः | अतीतश्शिव तद्वह्नेः स तु योजयते परे || १६ || शक्त्या तावत्स युज्येत यावत्तत्वन्न विन्दति | उदिते तु परे तत्वे तत्रस्थोऽपि न वार्यते || १७ || बन्धमुक्तः परेशान्ते परे लीयन्ति शाश्वते | लीनस्सर्वगतो देवि धर्माधर्म विवर्जितः || १८ || हृत्पद्माद्यावत्तत्पद्मं पृथक् संहारलक्षितम् | प्. ७९९) यावद्वक्त्रमनुप्राप्तं द्विभागं त्यजते तु सः || १९ || तृतीयं त्यजते स्वल्पो त्र्यंशैर्मुक्तस्तु निष्कलः | अतीतं द्वादशान्ते तु शक्तिपद्मं प्रकीर्तितम् || २० || तत्रस्थं तृटिमात्रन्तु कालं तस्य प्रकीर्तितम् | निष्कलश्शक्तिपद्मे तु प्रबुद्धस्तत्र तिष्ठति || २१ || अतीतस्सुप्रबुद्धस्तु उन्मनत्वं यदा प्रिये | न कालं न कलाचारं न तत्वा न च देवता || २२ || सुनिर्वाणं परं शुद्धं गुरुवक्त्रे प्रतिष्ठितम् | तं प्राप्य न निवर्तन्ते भयसंसारबन्धने || २३ || न तस्य चामराख्यातं निष्कलावस्थितस्य तु | प्. ८००) एतत्ते निष्कलं तत्वमुक्तमेव समासतः || २४ || चतुर्विधं मया देवि कथितं तत्वमुत्तमम् | त्रिविधं तु परित्यज्य शक्त्यन्तं यस्तृटि स्मृतः || २५ || तृटौ पटौ तु स्थित्वा वै षोडशांशे व्यवस्थितः | स भोक्ता सर्वतत्वानां शक्त्यन्ते यस्तृटिस्मृतः || २६ || स भोक्ता सर्वतत्वानां शक्तिना सहसंयुतः | शक्त्यतीतो वरारोहे तत्वेन सह युज्यते || २७ || चतुः पद्मं भवेत्पद्मं व्यापिणी कर्णिकास्थिता | तत्र शक्तिचतुष्कन्तु सूक्ष्माख्यं परिकीर्तितम् || २८ || श्रुत्वा बुध्वा विमुच्यन्ते नात्र कार्या विचारणा | प्. ८०१) सर्वतन्त्रेषु सामान्यं तत्रस्थं विषुवं स्मृतम् || २९ || प्राणस्य तल्लयं देवि तत्रस्थोऽपि निवर्तते | सकलं निष्कलञ्चैव मयनञ्च तृतीयकम् || ३० || प्रशान्तं प्राप्य देवेशि निष्कलं विषुवं स्मृतम् | त्रिभागभाजिते चारे निष्कलः प्रणवः स्मृतः || ३१ || प्रशान्तस्तु स्मृतो बिन्दुः निष्कलः प्रणवस्य तु | स चेतस्य स्मृतो जीवो यदा शक्त्या तु युज्यते || ३२ || अन्यथा निष्कलोह्यात्मा सुषुप्ताविव लक्ष्यते | चिन्मात्रन्तु स्मृतो हुत्वा चेता शक्तिः प्रकीर्तिता || ३३ || श्रुत्वा बुध्वा विमुच्यन्ते नात्र कार्या विचारणा | प्. ८०२) सर्वतन्त्रेषु सामान्यं तन्त्रस्थे विषुवं वदेत् || ३४ || प्राणस्य तल्लयं देवि तत्रस्थेन निवर्तते | तथा युक्तमिदं सर्वं नानाचेष्टानि कारयेत् || ३५ || तत्स्थाने लीयते ज्ञानी ज्ञे * * *? परं लयम् | कल्पनारहितं ज्ञां सर्वतत्वविवर्जितम् || ३६ || व्यापकं सर्वतत्वानां पारंपर्येण संस्थितम् | एतत्ते निष्कलञ्चारं कथितन्तु मयाखिलम् || ३७ || न देयञ्च त्वया देवि अन्यायपथवर्तिने | कपटेनोपपन्नाय श्रवस्यपि न दापयेत् || ३८ || व्यापिनी व्योमरूपा च अनन्ता नायका स्मृता | प्. ८०३) मूर्तिदेवस्य विख्याता शक्त्या देवभुवस्य तु || ३९ || पञ्चव्योमस्मृताह्येते शून्यावस्था तु देवता | ब्रह्मादीनां वरारोहे शून्यदेहः परः स्मृतः || ४० || एतत्ते देवतायोगं प्रथमं परिकीर्तितम् | शक्त्यवस्थान्तरी भूतास्सूक्ष्माद्याः परिकीर्तिताः || ४१ || तत्स्थचेतात्मका देवाश्शब्दरूपाः प्रकीर्तिताः | तृतीया तु वरारोहे ज्ञातव्या देशिकेन तु || ४२ || द्विविधस्थान्तरे देवि ज्योतीरूपं विचिन्तयेत् | त एवमनुरूपन्तु पञ्चमां कथितं तव || ४३ || ईशवक्त्रे तथा घोरे वामस्सद्यस्तथैव च | प्. ८०४) त्रिविधं मन्त्रदेहन्तु वेदितव्यं प्रयत्नतः || ४४ || ब्रह्माविष्णुस्तथा रुद्रो ईश्वरस्तु सदाशिवः | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ४५ || शून्यस्पर्शस्तथा शब्दो ज्योतीरूपं तथैव च | मन्त्ररूपं तथैवेह कथितं तत्वतो मया || ४६ || स्थूलात्स्थूलतरैर्भावैः सूक्ष्मात्सूक्ष्मतरैः पुनः | पञ्चब्रह्माणि देवेशि वेदितव्यानि यत्नतः || ४७ || शून्यस्पर्शस्तथा शब्दो ज्योरूपं तथैव च | तत्वरूपं तथैवेह पञ्चब्रह्माः प्रकीर्तिताः || ४८ || एवं ज्ञात्वा च बुध्वा च मुच्यते पाशबन्धनात् | प्. ८०५) व्रजते शिवसायुज्यं शिवेन सहमोदते || ४९ || षट्पदार्थमिदं देवि मन्त्राणां कथितं तव | वेदितव्यं प्रयत्नेन सिद्धिमोक्षार्थकाङ्क्षिभिः || ५० || एवं सर्वेषु मन्त्रेषु कथितं तव शोभने | इति निश्वासकारिकायां दीक्षोत्तरे प्रथमः पटलः || देव उवाच- शृणु देवि प्रवक्ष्यामि साधकानां हितावहम् | येन विज्ञातमात्रेण विधिमुक्तं लभेद्धृवम् || १ || षड्विधस्तु शिवो ज्ञेयो योगिना सुमहात्मना | प्. ८०६) शब्दव्योमतया ज्योतिः विग्रहो भुवनस्तथा || २ || मन्त्रमूर्तिस्तु परमः षड्विधस्तु शिवोऽव्ययः | मन्त्रमूर्तिं विदित्वा तु मन्त्रसिद्धिमवाप्नुयात् || ३ || भुवनेशत्वमाप्नोति भुवनासक्तमानसः | ब्रह्मादीनां सुरेन्द्राणां साधने विग्रहं स्मरेत् || ४ || योगिनामधिपत्यर्थं ज्योतिस्थो योगमभ्यसेत् | शब्दतत्वे परे लीनः शब्दान्तर्गतमानसः || ५ || परमेमाक्षमाप्नोति शब्दात्सर्वार्थसिद्धये | तस्यातीतं परं देवि शक्तिव्योमप्रकीर्तितम् || ६ || तस्य ध्यानाद्भवेत्सिद्धिः मुक्तिश्चैव न संशयः | प्. ८०७) विग्रहो भुवनो ज्योतिः शब्दच्छामन्तथैव च || ७ || एते परप्रकाशन्तु शिवध्यानपरश्शिवः | शिवमेवं विधं ज्ञात्वा साधकस्तु समाहितः || ८ || प्राप्नोति विविधां सिद्धिं मुक्तिञ्चैव न संशयः | मन्त्रमूर्तिपरं ज्ञात्वा सिद्धिं मुक्तिमाप्नुयात् || ९ || जपे होमार्चनाध्यानात् सिद्धयश्च यथार्थतः | भुवनन्तु भुवनाकारं ब्रह्माण्डादि यथाक्रमम् || १० || नानारत्नमयं दिव्यमनौपम्यगुणान्वितम् | इन्द्रनीलमहानीलैः राजतैश्च विभूषितम् || ११ || पद्मरागमयस्तंभैः नानारत्नोपशोभितम् | प्. ८०८) दिव्यसृग्गन्धवस्त्राढ्यं दिव्यैश्वर्यसमन्वितम् || १२ || भुवनं देवदेवस्य ज्ञात्वा तल्लयमाप्नुयात् | विग्रहं विग्रहाकारं शिववर्णादिलक्षणम् || १३ || शशाङ्कार्धधनं त्र्यक्षं नागयज्ञोपवीतिनम् | शून्यहस्तं वृषारूढमुमादेहार्धसंयुतम् || १४ || शङ्खकुन्देन्दुधवलं सहस्रादित्यवर्चसम् | विग्रहं देवदेवस्य सर्वकामार्थसाधनम् || १५ || साधनं सर्वमन्त्राणां भूम्यर्थे च स्मरेत्सदा | ज्योतिध्यानात्सदायोगी योगसिद्धिमवाप्नुयात् || १६ || अणिमादिगुणैश्वर्यं योगी क्रीडादिलक्षणम् | प्.८०९) व्यालाकारमनाकारं व्योमव्यापी परश्शिवः || १७ || सर्वव्यापिनमीशानं चिन्तया शिवमाप्नुयात् | निर्गुणं साञ्जनातीतं गृहनक्षत्रवर्जितम् || १८ || शुद्धस्फटिकसङ्काशं परं व्योम विचिन्तयेत् | व्योमलीनमनाः सम्यक् व्योमस्थो व्योमतन्मयः || १९ || परं मोक्षमवाप्नोति यत्र शब्दे लयं गतः | शब्दध्यानात् परोमोक्षः सिद्धयश्च न संशयः || २० || तस्मात् सर्वप्रयत्नेन शब्दध्यानं समाश्रयेत् | वामपार्श्वे इडा तस्य चिञ्चिणीशब्दमुत्तमम् || २१ || प्राकृतं नाम चैतद्धि स्थूलश्च परिकीर्तितः | प्. ८१०) दक्षिणेन सुषुम्ना हि चिरव्यक्रिनी स्मृता || २२ || पौरुषन्नाम चेत्युक्त सूक्ष्मस्य परिकीर्तितम् | घण्टानादविरामान्तान्त्यमध्यपरं स्मृतम् || २३ || निरालंबो निराधारः तदेव परमं पदम् | चिञ्चिणीचारवक्यन्ते निरालंबो निराश्रयः || २४ || घण्डानादविरामान्ते शिवोऽहं या निराश्रयः | हृदिस्थं मन्त्रसङ्घातं कृत्वा मूर्तिन्यसेद्बुधः || २५ || ब्रह्मादिभिः कलैस्तत्वैः सर्वसिद्धिकरस्मृतः | स तु चिन्तयते नित्यं तत्रस्थं बिन्दुमीश्वरम् || २६ || चित्रस्थ ईश्वरो नादः स तु साक्षाच्छिवस्मृतः | प्. ८११) हंसाख्यश्चैव बिन्दुश्च नादो नादान्त एव च || २७ || एवं ज्ञात्वा भवेन्मन्त्री शिवः साक्षादलेपकः | एतत्तत्परमं गुह्यमेतत्तत्परमं शिवम् || २८ || एतत्तत्परमं गुह्यमेतत्तत्परमं पदम् | एतत्तत्परमं ज्ञानमेतत्तत्परमाक्षरम् || २९ || नातः परतरो ध्येयो नातः परतरं शिवम् | विदिते संयगेवं हि मुच्यते नात्र संशयः || ३० || साधकस्य विधिह्येषा सर्वकामार्थसिद्धिदा | एतेषां परतो देवः शब्दरूपविवर्जितः || ३१ || व्यापकस्सर्वतत्वानां मया पूर्वमुदाहृतम् | प्. ८१२) तं विदित्वा विमुच्यन्ते सिध्यन्ते नात्र संशयः || ३२ || इति निश्वासकारिकायां दीक्षोत्तरे द्वितीयः पटलः | देव्युवाच - भगवन् श्रोतुमिच्छामि शून्यभेदमनुत्तमम् | कथं विज्ञायते शंभो रतिगुह्यतरं परम् || १ || ईश्वरः - विशून्यं सर्वतत्वेषु गीयते सुरसुन्दरि | तस्याहं संप्रवक्ष्यामि लक्षणन्तु सुरार्चिते || २ || व्यापकेन समायुक्तमयनं तत्प्रकीर्तितम् | प्. ८१३) दिवारात्र्योश्च मध्ये तु वेदितव्यं प्रयत्नतः || ३ || न रात्रिर्न दिवा चैव न निन्दुकलकला तथा | पञ्चधा तु परित्यज्य प्रशान्तं शून्यमुच्यते || ४ || देहातीतं तृतीयन्तु निष्कलेति विभाव्यते | नासायान्तु यदातीतं तच्छून्यञ्च तृतीयकम् || १५ || घटिकान्तु परिच्छेदं यावत्तन्मुखमण्डलम् | अयनं शून्यमित्युक्तं कथितं ज्ञानमुत्तमम् || ६ || रसानां शून्यतस्थाप्य विज्ञानमुपजायते | अधस्तात्तु परित्यज्य पञ्चधा परमेश्वरि || ७ || प्रशान्तं शून्यमित्युक्तमूर्ध्वं किञ्चिन्न संस्पृशेत् | प्. ८१४) एतत्प्रशान्तशून्यन्तु ज्ञात्वा मुच्येत बन्धनात् || ८ || गमागममयोगेन तृतीयं परिकीर्तितम् | विदितं तद्वरारोहे देहमुक्तमिदं स्मृतम् || ९ || तदेवं कथितं देवि शून्यमुक्तं शिवागमे | ऊर्ध्वशून्यमधश्शून्यं मध्यश्शून्यं तृतीयकम् || १० || निरामयं चतुर्थन्तु कथितं ह्यनुपूर्वशः | सा मया कथिता ह्येते चतुर्थन्तु निरामयम् || ११ || सा माया अपि देवेशि तत्वावस्थेन संस्थिता | तेन दोषाय वर्तन्ते शेषं महानुलक्षणम् || १२ || चतुर्थं यन्महच्छून्यं विज्ञप्तिः सा तु कीर्तिता | प्. ८१५) न तस्य कल्पना देवि पारंपर्येण संस्थितः || १३ || तं ज्ञात्वा कथ्यते ज्ञेयं ज्ञानी शेषेषु कथ्यते | क्रियातीतन्तु तत्तत्वं गीयते सर्वतश्शुभे || १४ || तस्यागमी तु संप्राप्तिः यस्य तुष्टा स एव च | एवं त्रिशून्यभेदन्तु कथितं तव सुवृते || १५ || चतुर्थं यन्महच्छून्यं विज्ञप्तिः सा तु कीर्तिता | न तस्य कल्पना देवि पारंपर्येण संस्थितः || १६ || तं ज्ञात्वा कथ्यते ज्ञेयं ज्ञानी शेषेषु कथ्यते | क्रियातीतन्तु तत्तत्वं गीयते सर्वतश्शुभे || १७ || तस्यागमी तु संप्राप्तिः यस्य तुष्टा स एव च | प्. ८१६) एवं त्रिशून्यभेदन्तु कथितं तव सुव्रते || १८ || चतुर्थं यन्महच्छून्यं सर्वं तच्च प्रबोधकम् | तेन ज्ञातेन संज्ञेयी दीक्षानुग्रहकृत् भवेत् || १९ || अन्यथा न गुरुर्ज्ञेयो न दीक्षा न च मुक्तिदा | पञ्चव्योमाः पुरा प्रोक्ताः ते त्वया विदिताः शुभे || २० || ना ज्ञातेन विमुच्यन्ति स्वे स्वे विविधगोचरे | ब्रह्माणमादितः कृत्वा यावद्देवः सदाशिवः || २१ || पञ्चव्योमाः समाख्याताः संहारेण वरानने | एकैकं पञ्चधा देवि वेदितव्यं प्रयत्नतः || २२ || शून्यभेदं परं तेषां उक्तावस्था तु कीर्तिता | प्. ८१७) स्वभाववर्णतो देवि ज्ञेयं विज्ञायते यथा || २३ || तथा ते कथयिष्यामि तन्मे निगदतः शृणु | अणवस्त्रयमाख्यातं हृत्कर्णं तालुमाश्रितम् || २४ || निम्नवत्तद्वरारोहे वर्णो भवति नित्यशः | ब्रह्माविष्णस्तथा रुद्र अभावः सूत्रवत्स्मृताः || २५ || चतुर्थस्त्वीश्वरश्शान्तो वेदितव्यं प्रयत्नतः | तच्छब्दो नाद इत्युक्तः स जीवः कथितस्तव || २६ || स्पर्शस्त्वस्मिंस्तु देवेशि सा शक्तिः परिकीर्तिता | तत्क्षयेन न किञ्चित् स्यात् गुरुवक्त्रं सदुच्यते || २७ || संयोगमेवमेवं स्यात् व्याख्यातं तव शोभने | प्. ८१८) मन्त्रास्तथैव ज्ञातव्या देशिकेन महात्मना || २८ || नादं बिन्दुं तथा देवं वाङ्मयं स चराचरम् | श्रूयते उच्यते चैव शिवशक्तिविचेष्टितम् || २९ || एवं ज्ञात्वा च बुध्वा च मन्त्रास्तस्य वशो भवेत् | सिध्यते नात्र सन्देहः शिवशक्त्युपबृंहितः || ३० || अज्ञात्वा तु वरारोहे शिवशक्तिविचेष्टितम् | मन्त्रास्तस्य न सिध्यन्ति न च याति परं पदम् || ३१ || इति निश्वासकारिकायां दीक्षोत्तरे तृतीयः पटलः | देव्युवाच - प्. ८१९) सृष्टिसंहारभेदेन देव देव त्वया पुरा | कथितं तत्र सद्भावं तन्मया विदितं प्रभो || १ || पुनश्च श्रोतुमिच्छामि भगवन् वक्तुमर्हसि | के च कस्मिन् गृहादेव दीक्षिता देवदानवाः || २ || ऋषिविद्याधरास्सिद्धा गन्धर्वाप्सरसः प्रभो | यक्षराक्षसभूताश्च पिशाचोरगकिन्नरा || ३ || गुह्यकाश्च महादेव क्रूराश्चैव विनायकाः | स्वान्तेन दीक्षितादेव यस्य सिद्धि ध्रुवं भवेत् || ४ || तदहं श्रोतुमिच्छामि भगवन् कथयस्व मे | कोटिभेदाः समाख्याताः शाखाभेदाश्च शङ्कर || ५ || प्. ८२०) शिवभेदञ्च देवेश सर्वमेतद्ब्रवीहि मे | ईश्वरः - शृणु देवि प्रवक्ष्यामि तन्त्रभेदमनुत्तमम् || ६ || मन्त्रमण्डलसंख्याञ्च शास्त्राणाञ्चैव सङ्ग्रहम् | दीक्षितानि मया यस्मिन् न शङ्काश्च यथा पुरा || ७ || सर्वेषामेव मन्त्राणां शैवानां मन्त्रमूर्तिना | प्रकाशितं पुरा देवि ममेदं परमेष्ठिना || ८ || सर्वजगतश्चेह सृष्टा च परमेश्वरः | संहर्ता च न सन्देहः मन्त्रमूर्तिः परश्शिवः || ९ || अवतारमहं वक्ष्ये नामसङ्ग्रहनिर्णयम् | प्. ८२१) दीक्षाविधिनियोगञ्च कृतं पूर्वं यथाश्रुतम् || १० || मन्त्रयोगप्रभेदञ्च प्रवक्ष्याम्यनुपूर्वशः | तस्यादिर्भगवान् देवश्शिवो वै मन्त्रमूर्तिमान् || ११ || मन्त्रतन्त्रप्रणेता च मन्त्रतन्त्रप्रकाशकः || ११ १/२ || तेन प्रकाशितं पूर्वं शिवेनानन्दमूर्तिमान् || १२ || तदेव वचनं ज्ञानं मम वक्त्रे निवेशितम् | मयापि तत्वदेवेशि त्वया दत्तं पितामहे || १३ || ब्रह्मणापि सुराध्यक्षे विष्णवे प्रतिपादितम् | विष्णुनापि हुताशाय तेन दत्तन्तु वायवे || १४ || वायुनापि पुरादत्तं सूर्याय च न संशयः | प्. ८२२) सूर्येण चापि सोमाय कथितं पुनरेव तु || १५ || सोमेनैव तु देवेशि धर्माय प्रतिपादितम् | एवं तद्दशधा ज्ञानं शिवोक्तं तत्र सङ्ग्रहे || १६ || ख्यापितं तत्वमीशेन मन्त्रमूर्तिनिवेशितम् | स एव जगतश्चास्य मन्त्रमूर्तिर्महेश्वरः || १७ || तत्प्रसादादिदं सर्वं ज्ञानविज्ञानमुत्तमम् | प्राप्यते देवदेवेशि मोक्षञ्च भुवि दुर्लभम् || १८ || सार्वकामिकमित्येवं प्रोवाच भगवाञ्च्छिवः | लोकोद्भवेति रुद्रेण पुनरेव प्रकीर्तितम् || १९ || देव्यायणं यदा ज्ञानमजितेति प्रकीर्तितम् | प्. ८२३) कारणं भगवान् ब्रह्मा अजितेति जनार्दनः || २० || दीप्ताभेति यथाग्निश्च वायुः सूक्ष्मेति वै पुनः | सहस्रांशेति धर्माय अंशुमानिति भास्करः || २१ || सुव्रताः चन्द्रमाः प्रोक्तो दशतन्त्रप्रकाशकः | शिवशक्तिमधिष्ठाय विभिन्नं वै पुनस्थितः || २२ || दशधा नामभेदेन लोकानां हितकाम्यया | एवमेति सुरास्सर्वे शिवज्ञानस्य पारगाः || २३ || अवतारं पुनश्चैव बहुधा परिकीर्तितम् | अस्यैव ज्ञानमुख्यस्य शिवज्ञानस्य सांपृतम् || २४ || भेदमष्टतरं प्रोक्तं तथाऽष्टादशधा पुनः | प्. ८२४) अष्टादशविधैर्भेदैः तत्र भेदैः पुनस्थितः || २५ || आजगाम सुवर्लोकभुवर्लोकक्रमागतः | तस्य भेदा भवन्त्येते संज्ञा च परिकीर्त्यते || २६ || ऋषिभिस्तत्र कल्पज्ञैः विदितं तत्र मुत्तमम् | विजयं प्रथमं तेषां निश्वासं तदनन्तरम् || २७ || स्वायंभुवमतश्चैव वातुलं तदनन्तरम् | वीरभद्रमिति ख्यातं रौरवं माकुटं तथा || २८ || ंंंंंंंं विमलं चन्द्रभागञ्च ज्ञानञ्च मुखवालकम् | प्रोद्गीतं ललितञ्चैव सिद्धिसन्तानमेव च || २९ || शर्वोद्गीतञ्च विज्ञेयं किरणं पारमेश्वरम् | प्. ८२६) ईश्वरः प्रथमः प्रोक्तो देवी च तदनन्तरम् || ३० || ब्रह्मा च षण्मुखश्चैव वीरभद्रस्तथैव च | नन्दीश्वरो महाकाल ईशानं चन्द्रमास्तथा || ३१ || बृहस्पतिः समाख्यातो देवी वीका च वासवः | ललिता चैव चण्डश्च शान्तपाणी तथैव च || ३२ || सनत्कुमारो विष्णुश्च पारमेश्वरमेव च || ३२ १/२ || विजयमीश्वरज्ञानं देव्या निश्वाससंहिताम् || ३३ || ब्रह्मा स्वायंभुवश्चैव कुमारो ज्ञेयवातुले | वीरेण वीरभद्रस्तु नन्दीरौरवमेव च || ३४ || मकुटेति महाकालं विसन्नरमुशनसा | प्. ८२७) चन्द्रमाश्चन्द्रभासञ्च ज्ञानञ्चाङ्गिरसं तथा || ३५ || दधीची मुखभिन्नन्तु प्रोद्गीतं कवचमेव तु | ललितं ललिता देवि दण्डहस्तं तथैव च || ३६ || सन्तानं नाशपाणिः स्यात् शर्वोद्गीतञ्च विष्णुना | किरणं ब्रह्मणा चैव परमेशे पारमेश्वरम् || ३७ || एते तन्त्राः पूर्वं शिवज्ञानस्य पारगाः | ते चाप्यन्ते महाभागाः क्रमाराद्याश्शचीपतिः || ३८ || मन्त्रसिद्धास्तथा चान्ये ऋषयश्च तपोधनाः | मन्त्रभेद प्रणेतारो मन्त्रकल्पकरास्तथा || ३९ || एभिरेव शिवज्ञानं स्थापितं वसुधातले | प्. ८२८) नामभेदप्रसंख्यातमाराध्य परमेश्वरम् || ४० || मन्त्रकल्पे तथा ख्यातं भूतकल्पे तथैव च | गणगुह्यकभेदैश्च रुद्रभेदैश्च संज्ञितम् || ४१ || तस्य भेदाः स्मृताः पूर्वं दशधा परिकीर्तिताः | पुनश्चैव समाख्याता नष्टा दशविधास्तथा || ४२ || विजये भगवान् रुद्रः प्रोवाच ब्रह्मणे पुरा | तस्मिन् मन्त्राः समाख्याताः श्रूयतां वरवर्णिनी || ४३ || अष्टौ मन्त्रसहस्राणि तथा पञ्चशतानि च | एकपञ्चाशतञ्चैव तथा वै सप्तसप्ततिः || ४४ || देवैर्ज्ञातमिदं देवि किञ्चित्तस्मादिहागतम् | प्. ८२९) विजये तु समाख्यातं तस्मिन् ब्रह्मा तु दीक्षितः || ४५ || त्रीणि मन्त्रसहस्राणि नियुतं त्रीणि चापरे | अष्टौ चैव तु लक्षाणि दशभिर्मण्डलैस्थितम् || ४६ || निश्वासे तु समाख्यातं नन्दीशो यत्र दीक्षितः | शुक्रः कुबेरो वरुणो यमश्चैवाश्विनावपि || ४७ || गणाश्चैव महाभागा रुद्राश्चैव तु दीक्षिताः | निश्वासे तु परे तन्त्रे कथितं तव शोभने || ४८ || सहस्रमेकं विज्ञेयं नियता षष्टिसङ्ग्रहम् | शतमेकं तथा चान्यं मन्त्राणां परिसंख्यया || ४९ || एकादशविधैर्भेदैः तथा सप्तविधैः पुनः | प्. ८३०) सप्तविद्याधरं तन्त्रं तथा स्वायंभुवेति च || ५० || नामद्वयं समाख्यातं दक्षाद्या यत्र दीक्षिताः | प्रजानां पतयश्चैव तथा ब्रह्मसुताश्च ये || ५१ || दीक्षिताश्च नियुक्ताश्च असुराश्चैव सन्ततम् | यक्षराक्षसगन्धर्वाः पिशाचोरगकिन्नराः || ५२ || गरुडाद्यो द्विजाश्चैव ये च लोकेषु संस्थिताः | सहस्रमेकं मन्त्राणां त्रिंशद्भिर्मण्डलैः स्थितम् || ५३ || पञ्चधा भेदभिन्नन्तु आग्नेयो यत्र दीक्षिताः | गातरोधे गृहाश्चैव ये च विघ्नादयो गणाः || ५४ || आग्नेयमिति तन्त्रेऽस्मिन् तेजस्संभवसे भवम् | प्. ८३१) एकादश सहस्राणि कोटित्रीणि च संग्रहे || ५५ || मण्डलानां शतञ्चैव अष्टधा वरणे स्थितम् | अष्टादश विधैर्भेदैः लोके मन्त्रगणान् बहून् || ५६ || बहुधा परिसंख्यातं पञ्चगर्भपुरस्सरम् | विसर्पितञ्च संबोधैः कूटमुद्भूतकारणैः || ५७ || अतिशयान्वितश्चैव गोह्यगुह्यकसंभवैः | अत्र ते ऋषयंस्सिद्धाः बलखिल्यास्तपोधनाः || ५८ || अयने दक्षिणे देवा ये च वै उत्तरे स्थिताः | अनेन चैव सिद्धान्ते देवा वै मानवादयः || ५९ || तत्साध्यस्तन्त्रमेतत्तु वीरभद्रेऽत्रसंज्ञितम् | प्. ८३२) कोटिरेकं सहस्रञ्च मन्त्रमण्डलविंशकम् || ६० || द्विविधं नामसंज्ञाभिः रौरवेति च विश्रुतम् | पञ्चमन्त्रशता ज्ञेयाः चतुर्मूर्तिव्यवस्थिताः || ६१ || मकुटेति समाख्यातो निधनक्षेत्रवादिभिः | नलान्तर्मातृकल्पैश्च ऋषिभिः सेव्यते सदा || ६२ || शतमेकन्तु विज्ञेयं भिन्नश्चापि तथा विधाः | मण्डलाष्टकसंयुक्तं विसरन्नामनामतः || ६३ || दशमन्त्रसहस्राणि दशभिर्मण्डलैर्युतः | दशभेदाः समाख्याताः चन्द्रभासमिति स्मृतम् || ६४ || शतार्धमेकमन्त्राणां एकवीरप्रतिष्टितम् | प्. ८३३) एकमण्डलगूढन्तु नारसिह्मेति विश्रुतम् || ६५ || यत्रेते दीक्षिता दैत्याः नलिनो देवकण्टकाः | मयाद्या नलिनश्चैव नलिनाद्याश्च यत्र वै || ६६ || रसक्षेत्रक्रियापादा विज्ञेया बहुभेदतः | मन्त्रैर्द्वादशभिर्युक्तं मण्डलद्वयसंयुतम् || ६७ || द्विधावस्थेन देवेशि मुखबिंबमिति स्मृतम् | द्विसहस्रे शते द्वे च मण्डाश्च त्रिसप्ततिः || ६८ || सप्तशाखाप्रभेदश्च प्रोद्गीतन्नाम नामतः | योगिनां परमो यत्र मन्त्रभेदः प्रवर्तते || ६९ || एकवीरधरैर्मन्त्रैः जपकर्मादिसिद्धये | प्. ८३४) त्रयस्त्रिंशत्समायुक्तं विद्याशक्तिविचेष्टितम् || ७० || महामहादिप्रमुखैः विद्याभिश्च सुसंस्कृतैः | महाव्रतविधानञ्च दीक्षाविधिसमुद्भवः || ७१ || कपालोत्तरकल्पैश्च सिद्धिकल्पैश्च योजितः | नाडीसञ्चारसंयुक्तं ललितं पञ्चमं चलम् || ७२ || आज्ञासिद्धिस्तु विज्ञेया मन्त्राणां शतयोजितम् | दशधा मण्डलाख्यातं सिद्धमित्येव संज्ञितम् || ७३ || त्रीणि मन्त्रसहस्राणि विंशतिश्चैव मण्डलाः | कोटिद्वयन्तु मन्त्राणां शतानां परिकीर्तितम् || ७४ || मन्त्रपञ्चसमायुक्तमेकमण्डलपूजितम् | प्. ८३५) त्रिमण्डलमथाज्ञेयं गूढदेवैस्तु कीर्तितम् || ७५ || मन्त्राणान्तु सहस्रे द्वे शताः पञ्चशतानि च | मण्डलानां शतञ्चैव शर्वोद्गीतमिति स्मृतम् || ७६ || शृणु मन्त्रसहस्राणि मण्डलाश्चापि विंशतिः | किरणे हि समाख्यातमादित्यो यत्र दीक्षितः || ७७ || कोटिसप्तसमाख्यातमादित्यो यत्र दीक्षितः | कोटिसप्तसमाख्यातं मन्त्राणां नियुतं तथा || ७८ || मण्डलानां सहस्रन्तु सङ्ग्रहः परिकीर्तितः | संख्याता मन्त्रभेदाश्च शाखाभेदाश्च तत्वतः || ७९ || मण्डलाश्चापि मन्त्राणां सर्वतन्त्रोत्तराणि च | प्. ८३६) शिवप्रोक्ता स्मृतांह्येते तन्त्रकल्पबहु स्मृताः || ८० || अनित्यता च भूतानां दृष्ट्वा लोकानिमान् पुरा | *? तत्वं याति संज्ञाश्च विद्यातत्वं शिवात्मकम् || ८१ || देवासुरमनुष्याश्च मन्त्रसिद्धाश्च ये स्मृताः | गन्धर्व यक्षरक्षाश्च पिशाचा ऋषयस्तथा || ८२ || सर्वे ते मन्त्रसिद्धास्तु तेषामायुस्तु मन्त्रजाः | मन्त्रजापेन सिद्धास्तु सर्वे ते साधकाः स्मृताः || ८३ || तत्वं विज्ञाय मुक्तिस्तु सत्यमेतन्महेश्वरि | इदं सारमिदं सारं यस्सर्वं ज्ञातुमिच्छति || ८४ || अपि वर्षसहस्रान्ते शास्त्रान्तेनाधिगच्छति | प्. ८३७) विज्ञायाक्षरतन्मात्रं गुरुमाराध्य यत्नतः || ८५ || प्रार्थयेत महादेव गुरुं तत्वविशारदम् | तत्प्रसादाद्भवेन्मुक्तिः संसारभवबन्धनात् || ८६ || इति निश्वासकारिकायां दीक्षोत्तरे तन्त्रावतारः चतुर्थः पटलः | देवी - भगवन् श्रोतुमिच्छामि किञ्चित्कौतूहलान्विता | तत्वमाचक्ष्व देवेश यदि स्याद्वरदो मम || १ || बिन्दुनादं तथा शक्तिनाडीत्रयमिदं शुभम् | यत्र तत्वञ्च देवेश उत्क्रान्तिसिद्धिसाधनम् || २ || प्. ८३८) एकादशविधञ्चैव नवात्मे सर्वमाश्रितम् | तेन सर्वमिदं कार्यं तेन सर्वमिदं ततम् || ३ || दृश्यते च कथं बिन्दुः कतिरक्षरयोजितः | कस्मिन् कस्मिन् प्रदेशे तु द्रष्टव्यं बिन्दुमीश्वरम् || ४ || करण एव कथं तस्य येन दृश्यते तत्वतः | नादञ्चैव तथा शक्तिः हृल्लक्षस्य च दर्शनम् || ५ || सर्वमेतद्यथा न्यायं कथयस्व प्रसादतः | ईश्वरः - शृणु देवि परं गुह्यं रहस्यमिदमुत्तमम् || ६ || तदहं संप्रवक्ष्यामि साधकानां हितावहम् | प्. ८३९) नवात्मकेन सर्वेशि यथा भवति तच्छृणु || ७ || वर्णाष्टकं धृवं देवि बिन्दुव्यापक उच्यते | नादं तस्य शिखा प्रोक्ता शक्तिस्तु परमं स्थिता || ८ || एकादश पदार्थन्तु कारणं परमस्ति च | गुरुवक्राच्च लभ्येत यथा तेनैव चोदितः || ९ || अकार उकार भेदेन मकारेण तथैव च | यथा कर्माणि कुरुते कथयामि तवाखिलम् || १० || सर्वज्ञानपरं सूक्ष्मं सर्वज्ञानं सुदुर्लभम् | अनादिपरमं ज्ञानं अनादि परमव्ययम् || ११ || बिन्दुनादं तथा शक्तिं सूक्ष्मं परमव्ययम् | प्. ८४०) यथा प्राप्स्यसि तन्नादं बिन्दुश्च भुवि दुर्लभम् || १२ || न मया कस्यचित्ख्यातं तत्ते वक्ष्यामि सुव्रते | भ्रुवोर्मध्ये समाख्यातं देवदेवं महेश्वर || १३ || शुद्धस्फटिकसङ्काशं सर्वतत्वप्रकाशकम् | वर्जितं दर्शतत्वैश्च दर्शतत्वप्रकाशकम् || १४ || दृश्यते च तदा तेजो ज्वलन्तं स्वेन तेजसा | दीपौ तस्य समाख्यातौ उभौ तौ शशि भास्करौ || १५ || अवस्था स्थिता चेताख्यातयन्तौ सन्ततः | इडा दृश्यति वामेन सुषुम्ना दक्षिणेन तु || १६ || ताभ्यां मध्ये परं स्थानं यत्र बिन्दुर्व्यवस्थितः | प्. ८४१) घटमध्ये यथा दीपः तद्घटं वै प्रकाशते || १७ || उपदेशविहीनस्तु परं तत्वं न दृश्यते | यथाऽदर्शो मलैर्ग्रस्तः प्रतिबिंबं न दृश्यते || १८ || तद्वद्योगविहीनस्य प्रत्यक्षं न च दृश्यते | उभयोरपि पाणिभ्यां धारसंस्थाप्य बुद्धिमान् || १९ || उपदेशसमायोगात् दृश्यते बिन्दुरीश्वरः | नासा श्रोत्रं तथा चक्षुः उभयोरपिच्छादयेत् || २० || षड् द्वाराणि च संस्थाप्य पश्यते बिन्दुमीश्वरम् | छादनात् त्यज्यते बिन्दुः शुद्धस्फटिकनिर्मलः || २१ || विधुं निर्मलं बिन्दुं स बिन्दुं तेजसान्वितम् | प्. ८४२) शब्दनादविनिर्मुक्तं ध्यातव्यं परमं शिवम् || २२ || बिन्दुलीनमनः कृत्वा ध्यायेद्बिन्दुसुयन्त्रितः | यथा सर्वगतो वायुं पीठस्थो न च दृश्यते || २३ || एवं सर्वगतो बिन्दुः योगहीनो न दृश्यते | अरणिस्थो यथा वह्निः विद्यमानो न दृश्यते || २४ || योगहीनस्तथा बिन्दुः न तु दृश्यति सुन्दरि | संयोगेन तथा बिन्दुः प्रत्यक्षो दृश्यते तदा || २५ || सर्पिः क्षीरे यथाऽव्यक्तं विद्यमानं न दृश्यते | तद्वत् सर्वगतो बिन्दुः योगहीनो न दृश्यते || २६ || यथा सर्पि च अग्निश्च प्रयोगेण तु सुन्दरि | प्. ८४३) प्राप्यते च तथा बिन्दुः योगिनाञ्च महात्मनाम् || २७ || तोयकान्तो मणिर्यद्वत् प्रक्षिप्तोऽपि महाहदे | प्रकाशयति तत्तोयं आत्मकीडेन तेजसा || २८ || उद्धृतेन मणिर्यद्वत् जलमग्नौ प्रकाशके | तद्वद्योगविहीनस्य बिन्दुश्चैव न दृश्यते || २९ || ध्यानात्सा जायते बिन्दुः संयोगाद्दृश्यते पुनः | ध्यानं योगं समाख्याय पश्यते बिन्दुमीश्वरम् || ३० || योगिनां प्रत्ययो बिन्दुः प्रत्ययात्प्राप्यते परम् | परत्वादपरं नास्ति नित्ययुक्तं सदा भवेत् || ३१ || कारणेन तु संप्राप्तिः प्रयोगाच्चैव सुन्दरि | प्. ८४४) कथितं स रहस्यन्तु ज्ञातव्यं योगिभिस्सदा || ३२ || दृष्ट्वा बिन्दुर्ज्वलन्तं तु नेत्र मध्ये व्यवस्थितः | विज्ञेया च सदा देवि शिखा तस्यैव मध्यतः || ३३ || दृश्यते तत्परं सूक्ष्मं बिन्दुकोटिसमप्रभम् | तल्लयस्सततं योगी लक्षयेत्सुसमाहितः || ३४ || शृणुष्वावहिता देवि नादञ्च बिन्दुदुर्लभम् | नव तत्वानि देवेशि यान्युक्तानि नवात्मके || ३५ || तेषां मध्ये यकाराद्याः सप्तबीजाः समाहिताः | आदिहुङ्कारसंयुक्तः सप्तैते भुविदुर्लभाः || ३६ || फट्कारेण समायुक्ताः सद्योद्भ्रमण विश्रुताः | प्. ८४५) सद्यस्सङ्क्रामणन्त्येते एकमेव नियोजिताः || ३७ || षष्ठञ्च यत्परं बीजं वर्गान्ते च व्यवस्थितः | हाकाररूपसंयोगात् चिन्त्यमानस्तु सोत्क्रमात् || ३८ || एवमन्ये समाख्याताः पञ्चबीजं समासतः | अकारादिमकारान्ता मकारोकारयोजिताः || ३९ || सद्योत्क्रामकराह्येते कथितास्तव शोभने | एतास्सप्तसमाख्याताः क्षुरिकाः प्राणहारिकाः || ४० || लक्षञ्जपेन्न सन्देहः सत्यं देवि वदाम्यहम् | सप्तानान्तु समाख्यातमष्ट ओङ्कार उच्यते || ४१ || हुंफट्कारसमायुक्ताः सद्य उत्क्रामयेत्प्रभुः | प्. ८४६) ओङ्कारं सर्वदेवत्यं सर्वव्यापी परश्शिवः || ४२ || त्र्यक्षरञ्च त्रिदेवत्यं त्रिमात्राद्यधिकं तथा | तत्र चोत्पद्यते शंभुः शब्दातीतस्तु निष्कलः || ४३ || परस्सूक्ष्मतरो देवः सर्वपाशविमोचकः | नानामार्गस्थितो व्यापी सर्वलोकस्य दुर्लभः || ४४ || त्रीणि स्थानानि देहेऽस्मिन् यत्र नादो व्यवस्थितः | हृदये चैव कर्णे च भ्रुवोर्मध्ये तथैव च || ४५ || यत्र सूत्राकृतिः सूक्ष्मं शुद्धस्फटिकसप्रभम् | तुर्यद्वारमिति प्रोक्तं देवयानमिति स्मृतम् || ४६ || मार्गत्रयमिति प्रोक्तं नाडीत्रयमिति स्मृतम् | प्. ८४७) देवतानां त्रयञ्चैव शक्तित्रयमिति स्मृतम् || ४७ || फलत्रयमिति ख्यातं देहेऽस्मिन् परमेश्वरि | सर्वगः सर्वतो व्यापी सर्वमापूर्यतिष्ठति || ४८ || अकारं हृदि मध्ये तु जागर्तीत्यवस्थितः | पद्मस्य कर्णिकामध्ये ब्रह्मा तत्र व्यवस्थितः || ४९ || उकारं कर्णमाश्रित्य ब्रह्मस्थानं तदुच्यते | तालुजिह्वमिति ख्यातं द्वितीयं स्थानमुच्यते || ५० || अकारन्नेत्रमाध्ये तु सुषुप्तपदमुच्यते | लवं कस्य तु तत्स्थानं कथितं तव शोभने || ५१ || अर्धमात्रपदे तस्य तुर्यब्रह्मपदे स्थितः | प्. ८४८) मूर्ध्नि स्थानं परं सूक्ष्मं मोक्षमार्गप्रदायकम् || ५२ || तुर्यातीतं परं देवि सुसूक्ष्मपदमव्ययम् | तं ज्ञात्वा मुच्यते जन्तुः भवेत्संसारबन्धनात् || ५३ || तुर्यातीतमिति प्रोक्तं यत्र गत्वा न शोचति | एवं व्याप्तमिदं सर्वं वाङ्मयं स चराचरम् || ५४ || एतेषां नादमध्ये तु शिवं तत्र व्यवस्थितः | हृदयं देहमध्ये तु तत्र पद्मं व्यवस्थितम् || ५५ || कर्णिकापद्ममध्ये तु अकारं तस्य मध्यतः | तस्य मध्ये विनिष्क्रान्तं नादं परमदुर्लभम् || ५६ || उकारञ्च मकारञ्च भित्वा नादो विनिर्गतः | प्. ८४९) तुर्यद्वारविनिष्क्रान्तं द्वयन्तस्य विचिन्तयेत् || ५७ || अकारे तु समुत्थाय ब्रह्मद्वारसमुद्गतम् | एष शब्दस्समाख्यातो मोक्षमार्गप्रदायकम् || ५८ || एतद्ध्यानवरं दिव्यं सेवितव्यं प्रयत्नतः | ध्यानेन तु किमन्येन तपसोग्रेण वा पुनः || ५९ || किं तीर्थगमनैर्वापि ध्यानैर्वापि सुपुष्कलैः | विदन्ते नादसद्भावे बिन्दुदेवे च शोभने || ६० || यद्येकं विदितं नादं सूक्ष्ममेकं परापरम् | अथापि दीपदेहस्तु आकाशे तु यथा शिवा || ६१ || लीना सर्वगता तद्वत् न दृश्यति चांबरम् | प्. ८५०) एवं सूक्ष्माति सूक्ष्मस्य नादतत्वस्य निर्णयः || ६२ || एष नादः समुद्दिष्टः सर्वतन्त्रेषु चोत्तमः | सूर्यरश्मिसहस्राभा मध्ये नाडी प्रकीर्तिता || ६३ || सहिता सर्वतत्वैश्च शक्तिना सह संयुता | सा नाडी सर्वशब्दानां तत्वानाञ्चैव शोभने || ६४ || सङ्गृह्य समुदायेन शिवतत्वे तु लीयते | सूक्ष्मा च सर्वगा चैव ज्ञात्वा ज्ञानी विमुच्यते || ६५ || हित्वा सूर्यञ्च सोमञ्च सर्वगः स शिवो भवेत् | * * * * * * * * * * * * ##? * * * * * * ? सा तु नादं तस्यां तु लीयते | प्. ८५१) सूर्यमण्डलमध्ये तु अकारस्तु व्यवस्थितः || ६७ || तत्र चोत्पद्यते शब्दो विश्रमेच्छशिमण्डले | स्वयं विष्णुस्समुत् * * * * * * * * * * ? || ६८ || * * * * ? परं स्थानं वह्निमण्डलमुत्तमम् | मकारेति च विख्यातो भित्वा नादो लयं स्थितः || ६९ || पिङ्गलामार्गमापन्ना तुर्यद्वारेति विश्रुता | अर्धमात्रा तु * * * * * * * * * * * ? || ७० || ध्यायेत्तु परमं नादं तुर्यद्वारेण योगवित् | लयं तस्य तु देवेशे यत्रासौ परमश्शिवः || ७१ || तदेव निष्कलं तत्वं चिन्त्यते मोक्षवादिभिः | प्. ८५२) * * * * * * * ? न्ते शिवतत्वविदो जनाः || ७२ || देव्युवाच - मण्डलानाञ्च देवानां तत्वानाञ्च महेश्वर | हृल्लक्षः परमो ज्ञेयो योगिनाञ्च तथैव हि || ७३ || तस्मिन् प्रवर्तते सिद्धिः योगञ्च भु * * * * ? | * * * * * * * * * * * * * ? मर्हसि || ७४ || ईश्वरः - सबीजनिर्बीजविभागेन नवमात्मा परिकीर्तितः | ह्रासह्रासविभागेन नानासिद्धिफलप्रदा || ७५ || षडक्षरपरञ्चैव पञ्चाक्षरपरं शुभम् | प्. ८५३) चतुरक्षरं विजानीयात् * * * * * * * ? || ७६ || * * * * * ? देवेश अङ्गानि कथितानि तु | संपूर्णः शिव इत्युक्तः स एव परमेश्वरि || ७७ || एकैकह्रसिता ये तु बिन्दुरुकारयोजिता | हृदयादि समुद्दिष्टा ज्ञातव्यास्तु वरानने || ७८ || * * * * ? एते सर्वे उद्य उत्क्रमणा स्मृताः | हृल्लक्षदर्शनं देवि अचिरादेव जायते || ७९ || इदमन्यत्परं देवि कथिताम्यनु * * * ? | * * * * * * * * * * * ? श्च तथैव च || ८० || यकार उकारसंयुक्तं वर्णत्रयविवर्जितम् | प्. ८५४) ध्यायमानो वरारोहे बीजदीपेन बोधितः || ८१ || सप्तरात्रेण पश्येत हृल्लक्षं परमेश्वरि | विष्णुलिङ्गानि सङ्का * * * * * * * * * ? || ८२ || * * * * * ? ते योगी पीतनीलान्यनेकशः | कृष्णशुक्लांस्तथा चान्यान् पश्यते रक्तवर्णकान् || ८३ || निजैर्दीपितहृल्लक्षं संहरेत्सप्तमेऽहनि | ज्वलते हृदि पद्मे तु निजदीपसुबो * * ? || ८४ || * * * * * * * * * * * * ##? ज्वलते दीप्तवद्देवि हृदयं निजदीपितम् || ८५ || हृल्लक्षमेवं विख्यातं ज्ञातव्यं योगिभिस्सदा | प्. ८५५) नाभेरूर्ध्वं वितन्तुकम् * * * * * * * * ? || ८६ || * * * * * * * * * * * * * * * * ? | कर्णिकापद्ममध्ये तु बिन्दुस्तस्यैव मध्यतः | ज्वलते भगवान् बिन्दुः दीपस्योर्ध्वशिखोपमः || ८७ || हृदयं षडक्षरं प्राप्तं बीजं परमदुर्लभम् | * * * * * * * * * * * ? त्तो यथा कविः || ८८ || एवमन्येऽपि ये प्रोक्ता वेदितव्या हितैषिभिः | कथितं ते महाज्ञानं सर्वज्ञानेषु चोत्तमम् || ८९ || इदं तत्परमं * * * * * * * * * * ? | सुवर्णेन सहैकत्वं गच्छते नात्र संशयः || ९० || प्. ८५६) ज्ञानसिद्धिस्तथा देवि पशुर्याति परं पदम् | शिवेन च संहैकत्वं गच्छते * * * * * ? || ९१ || * * * * ? दशाहाद्वा पश्यते नात्र संशयः | दशाहान्नपरं लङ्घेत् पश्यते नात्र संशयः || ९२ || एतल्लक्षपरं दिव्यं सेवितव्यं प्रयत्नतः | हिताय स * * * * * * * ? तव शोभने || ९३ || नवशक्तिसमायुक्तं धर्मज्ञानसमन्वितम् | आसनं कल्प्य देवेशि तत्र न्यासन्तु कारयेत् || ९४ || पूजयेत्सकलं देवि पञ्चब्रह्म समन्वितम् | एकनावरणेनैव पूजनीयो महेश्वरः || ९५ || प्. ८५७) सर्वसिद्धिकरो देवः पूज्यमानो दिने दिने | एवं पूज्य यथा न्यायं जपेध्यायेत्प्रयोगवित् || ९६ || दशलक्षेण देवेशि मनसा यद्यदीप्सितम् | तत्तत्प्राप्नोत्ययत्नेन साधको नात्र संशयः || ९७ || इति निश्वासकारिकायां दीक्षोत्तरे बिन्दुनादयोगप्रकरणे पञ्चमः पटलः - देव्युवाच - भगवन् श्रोतुमिच्छामि यजनञ्चानुपूर्वशः | येन विज्ञातमात्रेण सिध्यते नात्र संशयः || प्. ८५८) ईश्वरः - प्रकृतिञ्चादितः कृत्वा शिवतत्वमपश्चिमम् | आद्यमध्ये तु ये तत्वाः कथयामि यथाक्रमम् || २ || आदिवक्त्रं लिखेत्पद्मं केसरालं स कर्णिकम् | तस्मिन् सर्वमशेषन्तु विधिं कुर्याद्वरानने || ३ || देवतमण्डलांश्चैव त्रितत्वेन समन्वितं | प्रकृतिर्विन्यसेन्मध्ये मूर्तिना सहसंयुतम् || ४ || सकलीकृततत्वैस्तु शिवस्यावाहनं कुरु | अनन्तं हृदयं तस्य व्योमरूपं शिरस्मृतम् || ५ || व्यापिनी तु शिखा प्रोक्ता अनायकं कवचं स्मृतम् | प्. ८५९) अनासिताभवेदस्तं शिवाङ्गाः परिकीर्तिताः || ६ || मकारं हृदयं प्रोक्तमुकारन्तु शिरस्मृतम् | ईकारन्तु शिवा देवि आकारं कवचं विदुः || ७ || अंकारमस्त्रमित्युक्तं कथितं ह्यनुपूर्वशः | ब्रह्माणमस्त्रदैवत्यं कवचं विष्णुदैवतम् || ८ || * * * ? हृदयं रुद्रं शिरं ईशानदैवतम् | शिवा तु देवदेवेशि त्वमेव परिकीर्तिता || ९ || नवात्मानं शिवं विद्यात् सर्वतः परिकीर्तिताः | पुरुषं पूर्वतोन्यस्य आग्नेययां नियतिं न्यसेत् || १० || कालं दक्षिणपत्रे तु मायां वै नैरृते दिशि | प्. ८६०) विद्या पश्चिमतः प्रोक्ता ईश्वरं वायुगोचरे || ११ || सदाशिवं परं तत्वं उत्तरेण तु विन्यसेत् | शिवतत्वं परं शुद्धमीशान्यं परिकल्पयेत् || १२ || एष ते यजनं देवि प्रकृतेः परिकीर्तितः | स्वतत्वं मध्यतः कृत्वा यष्टव्यानि दिने दिने || १३ || एवं तत्वान्यजेद्देवि प्रकृत्यादिशिवात्मिकाम् | शिवाङ्गा ये जनाः प्रोक्ताः कर्णिकायां व्यवस्थिताः || १४ || केयूराः पुष्कलान्तैस्तु कार्या नित्यं सदा बुधैः | एष एव विधिर्देविः प्रकृत्यादि शिवान्तिकाः || १५ || विधिमेवं सकृत् ज्ञात्वा न भूयो जन्मभाक् भवेत् | प्. ८६१) उत्तिष्ठन्तर्धाने च पादचारे तथैव च || १६ || खड्गे च पादुके चैव अञ्जने रेचने तथा | गुडिकाकाशगमने दन्तकाष्ठे पवित्रके || १७ || विद्वेषाकर्षणेचैव शान्तिके पौष्टिके तथा | पूर्वसूत्रेण तु ये प्रोक्ताः तत्सर्वं लभते नरः || १८ || एकैकं जपतो मन्त्री जपेन्नानेन मन्त्रतः | पुनश्च शृणु देवेशि यजनं कथयामि ते || १९ || चिरावरणसंयुक्त * * * * * * * * ? | सकलीकृत्य देवेशि निष्कलेन शिवं स्मरेत् || २० || चोदिताः पूर्वसूत्रे तु शिवाङ्गाः कथयामि ते | प्. ८६२) सकलं हृदयं देवि सकलाढ्यं शिरस्मृतम् || २१ || खमलन्तु शिखा प्रोक्ता क्षपणं कवचं तथा | क्षयान्तमस्त्रमित्युक्तं शिवाङ्गाः परिकीर्तिताः || २२ || शून्येनैव तु देवेशि तेन तत्वं विचिन्तयेत् | विद्याङ्गास्ते तु विज्ञेयाः पूर्वसूत्रे तु ये स्मृताः || २३ || हृदयं मध्यतो न्यस्य शिरः पूर्वदले न्यसेत् | दक्षिणेन शिखां दद्यात् कवचं पश्चिमेन तु || २४ || उत्तरेणास्त्रमित्युक्तं विन्यसेत्तु यथाक्रमम् | विद्याङ्गा हृदयं देवि आग्नेययां परिकल्पयेत् || २५ || ईशान्यान्तु शिरो दद्यात् एवमादिक्रमेण तु | प्. ८६३) द्वितीयावरणे मन्त्रतत्वानि परिकल्पयेत् || २६ || पूर्वमादिक्रमेणैव विन्यसेत्तु यथाक्रमम् | एषते कथ्यते देवि तत्वानां यजनं प्रति || २७ || प्रकृत्यादि विभागेन यजेत्तमनुपूर्वशः | एवं यष्ट्वा तु तत्वानि जपेच्चैव नवात्मकम् || २८ || लक्षैकैकं जपेन्मन्त्रं सर्वसिद्धिमवाप्नुयात् | मनसा चिन्तितं सर्वं संपादयति मन्त्रिणः || २९ || सूत्रेणैव तु यत्प्रोक्तं तत्सिद्धिफलमाप्नुयात् | द्विरावरणमेतद्धि यजनं समुदाहृतम् || ३० || पुनश्च यजनं वक्ष्ये तत्वानां वरवर्णिनी | प्. ८६४) त्रिभिरावरणैस्तत्वान्यष्ट्वा सिद्धिमवाप्नुयात् || ३१ || पञ्चब्रह्मसमायुक्तं शिवाङ्गैश्च समन्वितम् | गर्भावरणमेतद्धि कर्तव्यं सुरसुन्दरि || ३२ || द्वितीयं तत्वभिः कार्यं विद्याङ्गैश्च तृतीयकम् | एवं तत्वगणान् देवि यष्ट्वा सिद्धिमवाप्नुयात् || ३३ || चतुरावरणेनैव यष्टव्या तु तवध्यति | यं यष्ट्वा सिध्यते मन्त्रं मुच्यते नात्र संशयः || ३४ || तत्वानि सिद्धितान्येव कर्मणा मनसा गिरा | नानेन सदृशं यागं त्रिषु लोकेषु विद्यते || ३५ || साधकानां हितार्थन्तु कथितन्तु तवाखिलम् | प्. ८६५) पञ्चब्रह्म शिवाङ्गैश्च गर्भमेतत्तु कल्पयेत् || ३६ || सकलादि शिवाङ्गा ये द्वितीयावरणे न्यसेत् | पूर्वसूत्रे तु यत्प्रोक्ता अङ्गाश्चैव नवात्मके || ३७ || तृतीयावरणे ते तु यष्टव्या सुसमाहितैः | नवात्मपञ्चभिर्भेदैः यन्मया परिकीर्तितम् || ३८ || चतुरावरणे ते तु यष्टव्याः साधकोत्तमैः | एवं यष्ट्वा ततो मन्त्री जपयोगं समारभेत् || ३९ || एष ते कथितो देवि चतुरावरणेन तु | बुध्वा स्मृत्वा च मुच्यन्ते साधकाज्जन्मबन्धनात् || ४० || पुनरेव प्रवक्ष्यामि शृणु देवि समाहिता | प्. ८६६) यन्न कस्यचिदाख्यातं कथयामि तवाखिलम् || ४१ || आवाहरोधसान्निध्यविसर्जनविसर्जितम् | न्यासमात्रेण मुच्यन्ते साधकाज्जन्मबन्धनात् || ४२ || पूर्वोक्तन्तु विधिं कृत्वा साधकः परमेश्वरि | परमाक्षरं न्यसेत्तत्र कर्णिकायान्तु मन्त्रिणा || ४३ || सकलादि क्रमेणैव पूर्वादारभ्य विन्यसेत् | परमाक्षरस्य योगोयमेवं ते समुदाहृतम् || ४४ || सकलं पूर्वदिग्भागे कर्णिकायान्तु विन्यसेत् | पूर्वपत्रे पुनर्देवि विन्यसेत्परमाक्षरम् || ४५ || आग्नेययां निष्कलं तत्र शून्यतत्वन्तु दक्षिणे | प्. ८६७) कलाढ्यं नैऋते चैव खमलं पश्चिमे तथा || ४६ || क्षपणं वायुदेशे तु क्षयान्तञ्चोत्तरे तथा | ईशान्यां विन्यसेन्मन्त्री कण्ठोष्ठं परमेश्वरि || ४७ || सकलं पद्मपीठन्तु कथितं ह्यनुपूर्वशः | आग्नेययां निष्कलं तत्र कर्णिकायान्तु विन्यसेत् || ४८ || पूर्वपत्रे तु सकलमाग्नेययां परमाक्षरम् | दक्षिणे शून्यतत्वन्तु कलाढ्यं नैर्-ऋतेन तु || ४९ || पश्चिमे खमलं प्रोक्तं क्षपणं वायुगोचरे | क्षयान्तमुत्तरेणैव कण्ठोष्ठं नैशगोचरे || ५० || निष्कलं पद्मपीठन्तु आग्नेययां परिकल्पयेत् | प्. ८६८) दक्षिणे कर्णिकायान्तु शून्यतत्वन्तु विन्यसेत् || ५१ || समलं पूर्वपत्रे तु आग्नेययां निष्कलं न्यसेत् | परमाक्षरं न्यसेद्देवि दक्षिणे समुदाहृतम् || ५२ || कण्ठोष्ठ्यं नैर्-ऋते चैव खमलं पश्चिमे न्यसेत् | क्षपणं वायुदेशे तु विन्यसेत्समुदाहृतम् || ५३ || शून्यस्य पद्मपीठन्तु कथितं ह्यनुपूर्वशः | नैर्-ऋते कर्णिकायान्तु कलाढ्यं विन्यसेच्छुभे || ५४ || पूर्वपत्रे तु सकलमाग्नेययां निष्कलं न्यसेत् | शून्यं दक्षिणतो न्यस्य नैर्-ऋत्यां परमाक्षरम् || ५५ || पश्चिमे खमलं प्रोक्तं आग्नेययां क्षपणं स्मृतम् | प्. ८६९) क्षयान्तमुत्तरेणैव कण्ठोष्ठमीशगोचरे || ५६ || चतुर्थन्ते समाख्यातं पञ्चमं शृणु सांप्रतम् | पश्चिमे कर्णिकायान्तु खमलः परिकीर्तितः || ५७ || पूर्वपत्रे तु सकलमाग्नेययां निष्कलस्मृतः | दक्षिणे शून्यतत्वन्तु कलाढ्यं नैर्-ऋतेन तु || ५८ || परमाक्षरन्तु देवेशि पश्चिमेव तु विन्यसेत् | वायव्यां क्षपणं चैव क्षयान्तञ्चोत्तरेण तु || ५९ || कण्ठोष्ठमीशदेशे तु पञ्चमं कथितं तव | वायव्यां कर्णिकायान्तु क्षपणः परिकीर्तितः || ६० || सकलं पूर्वपत्रे तु आग्नेययां निष्कलं न्यसेत् | प्. ८७०) शून्यञ्च दक्षिणे चैव कलाढ्यं नैऋतेन तु || ६१ || खमलं पश्चिमेनैव वायव्यां परमाक्षरम् | उत्तरे तु क्षयान्तञ्च कण्ठोष्ठ्यमीशगोचरे || ६२ || षष्ठ एष समाख्यातः पीठस्ते परिकीर्तितः | उत्तरे कर्णिकापीठे क्षयान्तं तत्वविन्यसेत् || ६३ || पूर्वतः सकलं देवि आग्नेययां निष्कलं परम् | दक्षिणे शून्यमित्युक्तं कलाढ्यं नैऋतेन तु || ६४ || पश्चिमे खमलञ्चैव वायव्यां क्षपणं स्मृतम् | परमाक्षरन्तु देवेशि उत्तरेण तु विन्यसेत् || ६५ || कण्ठोष्ठ्यं परमं तत्वमीशान्यां परिकल्पयेत् | प्. ८७१) सप्तमं ते समाख्यातं तत्वं सुखरार्चिते || ६६ || ईशान्यां कर्णिकापीठे कण्ठोष्ठ्यं परिकल्पयेत् | पूर्वपत्रे तु सकलमाग्नेययां निष्कलं परम् || ६७ || शून्यं तु दक्षिणे पत्रे कलाढ्यं नैऋतेन तु | खमलं पश्चिमे चैव क्षपणं वायुगोचरे || ६८ || क्षयान्तमुत्तरे चैव ईशान्यां परमाक्षरम् | अष्टमं ते समाख्यातं पीठं परमदुर्लभम् || ६९ || नवभागं स्मृतो यागः सर्वभागेषु चोत्तमः | न मया कस्यचित्ख्यात याग एष सुदुर्लभः || ७० || यष्टेनानेन यागेन कृतार्थच्छिन्नसंशयः | प्. ८७२) व्रजते शिवसायुज्यं निर्मलो विगतज्वरः || ७१ || शोध्यं दशदशाहुत्या विंशपञ्चाधिकेन तु | पञ्चांशेन शतेनैव दीक्षां कुर्वीत देशिकः || ७२ || त्रिशक्तिदीपनं कृत्वा शान्तिके पौष्टितर्पणे | कर्तव्यं देशिकेन्द्रेण होमकर्म यथाक्रमम् || ७३ || विस्तरे विस्तरं कुर्याद्वित्तशाठ्यन्न कारयेत् | स्वचित्तस्यानुसारेण यजनन्तु समारभेत् || ७४ || सर्वसंहितसामान्यं सर्वतन्त्रेषु चोत्तमम् | एकाशीति विभागन्तु कथितं तव शोभने || ७५ || करणैस्सह संयुक्ता पृथिव्यादिरनुक्रमात् | प्. ८७३) एकेनावरणेनैव यजेन्नित्यं समाहितः || ७६ || कालयासस्स विज्ञेयः सह तत्वेन सुव्रते | एवं * * * * ? यागाः कथिता ह्यनुपूर्वशः || ७७ || एवं योजयते देवि साधकस्तु समाहितः | पृथिवी तेन सकला सराष्ट्रा नापसंयुता || ७८ || यजितं तेन सुश्रोणि भवते नात्र संशयः | स ज्ञानी भूतले नित्यं साधकः स शिवं नयेत् || ७९ || येन दीक्षितमात्रास्तु पशवः शिवसंमुखाः | प्रयान्ति नात्र सन्देहो ज्ञानविच्छिन्नबन्धनात् || ८० || सदाशिवशिवश्चैव नादशक्तिस्तथैव च | प्. ८७४) चत्वारो हि महायागाः अकथ्येया वरानने || ८१ || तदहं संप्रवक्ष्यामि तदेकाग्रमना शृणु | स्थण्डिले मण्डले वाऽपि वायुराकाशमेव च || ८२ || अग्निरप्सु च देवेशि यागहोमं समारभेत् | मनसा चक्षुषा चैव वचसा च न संशयः || ८३ || धारणा कर्मयोगेन मोचयेन्नात्र संशयः | एभ्यः प्रवर्तते सर्वं अस्मिन् सर्वमिदं स्मृतम् || ८४ || एभ्यः सिद्धिश्च मुक्तिश्च भिक्षिता जायते शुभे | पूर्वोक्तन्तु विधिं कुर्यात् कर्णिकायां महेश्वरि || ८५ || मूर्तिं विन्यस्य तत्रैव सकलीकरणं ततः | प्. ८७५) पञ्चब्रह्मकलैश्चैव शिवाङ्गैश्च समन्वितः || ८६ || आवाहरोधसंयुक्तं ध्यानयोगसमन्वितम् | पञ्चभिः ब्रह्मभिश्चैव विधिं कुर्यादशेषतः || ८७ || चतुरावरणैर्युक्तं यजेत सुसमाहितः | ईशानं मध्यतो दद्यात् पूर्वं तत्पुरुषं न्यसेत् || ८८ || अघोरं दक्षिणेचैव वामदेवं तथोत्तरे | सद्योजातन्तु देवेशि पश्चिमेन तु विन्यसेत् || ८९ || आग्नेययां हृदयं न्यस्य शिर ईशानगोचरे | नैऋत्यान्तु शिखां देवि वायव्यां कवचं न्यसेत् || ९० || गर्भावरणमेतद्धि कथितं तव सुन्दरि | प्. ८७६) द्वितीयावरणं देवि कथ्यमानं मया शृणु || ९१ || घोषं पूर्वेण विन्यस्य रावमग्निं दिशि न्यसेत् | स्वनं दक्षिणतो न्यस्य शब्दं नैऋतके न्यसेत् || ९२ || स्फोटं पश्चिमतो दद्यात् ध्वनिशब्दन्तु वायवे | उत्तरेणैव झङ्कारं ध्वङ्कृतंत्वीशगोचरे || ९३ || नवमं यन्महच्छब्दं मध्ये कर्णिकया न्यसेत् | उकारादि स्मृता ये तु घोषादीनाञ्च वाचकाः || ९४ || तृतीयावरणे देवि कथ्यमानं मया शृणु | सकलं पूर्ववक्त्रे तु आग्नेययां निष्कलं न्यसेत् || ९५ || शून्यं दक्षिणतो दद्यात् कलाढ्यं नैऋते न्यसेत् | प्. ८७७) खमलं पश्चिमेनैव क्षपणं वायुगोचरे || ९६ || क्षयान्तमुत्तरेचैव कण्ठोष्ठन्तु ईशगोचरे | परमाक्षरन्तु देवेशि मध्यदेशे तु विन्यसेत् || ९७ || तृतीयावरणं देवि कथितं तव शोभने | चतुरावरणं देवि प्रकृत्यन्तं तु विन्यसेत् || ९८ || पूर्वमादिक्रमेणैव विन्यसेत् यथाक्रमम् | एष यागपरं देवि कथितं ह्यनुपूर्वशः || ९९ || सर्वस्वं गोपितं ह्येतत् साधकानां हितावहम् | सिद्धिदं मुक्तिदञ्चैव नानेन सदृशं भवेत् || १०० || निन्दाश्चतुष्कलश्चैव शृणु देवि वदाम्यहम् | प्. ८७८) शान्त्यतीतन्तु हृदयं आग्नेययां परिकल्पयेत् || १०१ || सकलाद्याः पुनःपश्चान्नवतत्वा यथाक्रमम् | एष सादाशिवो योगः कथितस्तव शोभने || १०२ || नादस्यैव प्रवक्ष्यामि कथ्यमानं निबोध मे | इडिका दीपिका चैव रेचिका मोचिका तथा || १०३ || ऊर्ध्वगामिनि संयुक्तं गर्भमावरणं स्थितम् | ऊर्ध्वगामिनि देवेशि न्यसेदाग्नेयगोचरे || १०४ || मोचिकेशानदिग्भागे रेचिका नैऋते दले | दीपिकान्तु महाभागे वायव्यां परिकल्पयेत् || १०५ || हौङ्कारं हृदयं तस्य हुङ्कारन्तु शिरस्मृतम् | P. ८७९) हुङ्कारन्तु शिखा प्रोक्ता हैंकारं कवचं भवेत् || १०६ || हःकारमास्त्रमित्युक्तं चतुर्दिक्षु च विन्यसेत् | गर्भावरणमेतद्धि कथितं सुरसुन्दरि || १०७ || शेषं पूर्ववद्देवेशि आचरेच्च यथाक्रमम् | अस्य गुह्यतरं वक्ष्ये शक्तियागमनुत्तमम् || १०८ || अस्मात्समाप्यते योगमस्मात्सर्वं प्रवर्तते | नानेन कथिता मर्त्या दीक्षानुग्रहकारकाः || १०९ || न शक्तिरहितासिद्धि न च याति परं पदम् | तस्माच्छ्रेष्ठोपरिष्ठश्च नाख्येन परिदीक्षणे || ११० || न रजोमण्डलश्चैव न लुप्ते तु परिग्रहम् | प्. ८८०) अधिवासनञ्चैवत्रि सर्वशेषविवर्जितम् || १११ || सानुमेतत्समाख्यातं साधकानां हितावहम् | सर्वसंहितसामान्यं यन्महत्सर्वतोमुखम् || ११२ || आवाहरोधसान्निध्य विसर्जनविवर्जितम् | न्यासमात्रेण मुच्यन्ते साधकाजन्मबन्धनात् || ११३ || चतुष्वक्त्रं लिखेत्पद्मं केसरोज्वलसकर्णिकम् | आसनं कल्पयेन्मन्त्री तत्र न्यासन्तु कारयेत् || ११४ || पञ्चब्रह्मशिवाङ्गैश्च शिवेन सहसंयुतम् | पूजयित्वा विधानेन देवदेवं महेश्वरम् || ११५ || ईशानं मध्यतो दद्यात् पूर्वे तत्पुरुषं न्यसेत् | प्. ८८१) अघोरं दक्षिणे चैव वामदेवं तथोत्तरे || ११६ || सद्योजातन्तु देवेशि पश्चिमेन तु विन्यसेत् | आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरो न्यसेत् || ११७ || नैऋत्यां तु शिखां देवि वायव्यां कवचं न्यसेत् | अस्त्रं दिशासु विन्यस्य मकाराद्यास्तु ये स्मृताः || ११८ || परमाक्षरं न्यसेन्मध्ये कर्णिकायां महेश्वरि | दक्षिणे कर्णिकापीठे विन्यसेच्च नवात्मकं || ११९ || विद्याङ्गा हृदयं तस्य विन्यसेत्सुरसुन्दरि | शिरः शिखा च कवचमस्त्रञ्चैव यथाक्रमम् || १२० || प्रकृतिः दक्षिणे पत्रे पुरुषं नैऋतेन तु | प्. ८८२) पश्चिमे नियतिं दद्यात् वायव्यां कलविन्यसेत् || १२१ || मायातत्वोत्तरेणैव ईशान्यां विद्य एव तु | ईश्वरं पूर्वतत्वं आग्नेययां तु सदाशिवम् || १२२ || पश्चिमे कर्णिकामध्ये शान्त्यतीतन्तु विन्यसेत् | आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरोन्यसेत् || १२३ || नैऋत्यान्तु शिखां देवि कवचं वायुगोचरे | उत्तरे कर्णिकायान्तु प्रणवः परिकल्पयेत् || १२४ || शान्त्यतीतन्तु हृदयं शान्तिश्च शिर उच्यते | विद्याशिखा समाख्याता प्रतिष्ठां कवचं विदुः || १२५ || निवृत्तिरस्रमित्युक्तं शिखाङ्गाः परिकीर्तिताः | प्. ८८३) घोषन्तु पूर्वदिग्भागे आग्नेययां रवमेव च || १२६ || दक्षिणे तु स्वनः प्रोक्तः शब्दं नैऋतगोचरे | पश्चिमेन स्मृतः स्फोटो ध्वनिः वायव्यतो न्यसेत् || १२७ || झङ्कारमुत्तरेणैव ध्वंकृतं शैवगोचरे | पूर्वतः कर्णिकामध्ये रुद्रोङ्कारन्तु विन्यसेत् || १२८ || आग्नेयां हृदयञ्चैव ईशान्यान्तु शिरो न्यसेत् | नैऋत्यान्तु शिखा प्रोक्ता वायव्यां कवचं तथा || १२९ || अस्त्रे हस्तप्रदेशे तु ह्रस्वं वै संप्रयोदयेत् | शान्तिं पूर्वदिशाभागे विद्यां दक्षिणतो न्यसेत् || १३० || प्रतिष्ठामुत्तरेणैव निवृत्तिः पश्चिमेन तु | प्. ८८४) शान्त्यतीतं परं तत्वमस्त्रं देवस्य कीर्तितम् || १३१ || सूक्ष्मवायुदिशाभागे सुसूक्ष्मा नैऋतेन तु | अमृताचाग्निदिग्भागे कथिता तत्वशोभने || १३२ || अमृता मृता तु ईशान्यां कथिता तु वरानने | एष यागवरो देवि नामृतः कस्यचिन्मया || १३३ || मम प्रियेति भक्तेति तेन ते कथितो मया | एवं यष्ट्वा तु विधिना दीक्षां कुर्याद्विचक्षणः || १३४ || शतेन पञ्चविंशेन पञ्चाशेन दशेन तु | पञ्चस्वशिखां हुत्वा दीक्षानिर्वाणगामिनी || १३५ || इति निश्वासकारिकायां दीक्षोत्तरे यागाधिकारः षष्ठः पटलः - प्. ८८५) देव्युवाच - भगवन् श्रोतुमिच्छामि दीक्षाविधिमनुत्तमम् | प्रक्रियाशून्यमन्त्राणां शासनं ग्रहणं तथा || १ || तद्वरञ्च महादेव कस्मिन् कार्यं महेश्वर | छेदनं कुत्र वा तेषां शुद्धतत्वस्य शङ्कर || २ || सकलं निष्कलञ्चैव तथा सकलनिष्कलम् | त्रितत्वं परतत्वञ्च तदेव कथयस्व मे || ३ || मन्त्राध्ययनकर्माणि अमृतीकरणं तथा | प्. ८८६) यानि श्रेयस्तमानिस्युः कथयस्व प्रसादतः || ४ || अन्यत् गुह्यतिमन्देव यन्नोक्तं न प्रचोदितम् | तदस्मिन् सर्वमस्माकं कथयस्व प्रसादतः || ५ || ईश्वरः - शृणु देवि परं गुह्यं कथयामि तवाखिलम् | गुह्यात् गुह्यतरं देवि नाख्यातं कस्यचिन्मया || ६ || प्रक्रिया सूत्रमन्त्राणां यथावदनुपूर्वशः | अनन्तमादितः कृत्वा शिवतत्वमपश्चिमम् || ७ || कथयामि समासेन संख्याध्वानस्य यावती | अधस्तात्परमेशानो ह्यनन्तः परमेश्वरः || ८ || प्. ८८७) तं हुत्वा देवदेवेशि कालाग्नं समुपक्रमेत् | याम्ये श्रोता तव प्रोक्ता तस्य ते भुवना स्मृताः || ९ || अनुक्रमेण तान् सर्वान् सहसैवाधिकारिभिः | तस्योपरि समाख्याता नरका घोररूपिणः || १० || शतमेकन्तु देवेशि चत्वारिंशत्तथैव च | अनुक्रमेण तान् सर्वान् शोधयेत् परमेश्वरि || ११ || उपरिष्टात्तु देवेशि पातालास्सप्त एव तु | शोधनीयास्तु देवेशि क्रमेण वरवर्णिनी || १२ || भुवना भुवनाधीना भुवनान्तर्निवासिनः | कथितास्तु समासेन एकविंशदनुक्रमात् || १३ || प्. ८८८) उपरिष्टात्तु भूर्लोकं आदितः कथयाम्यहम् | त्रिगुणेन स्थिता देवि पातालेन समासतः || १४ || अष्टधा देवयोन्यस्तु पञ्चधा तिर्यगादयः | एकधा चैव मानुष्या ज्ञेयं संसारमण्डलम् || १५ || ब्रह्मादिमुद्धरेद्देवि यावद्ब्रह्मादिमागतम् | एवं संसारचक्रन्तु कथितं तव शोभने || १६ || गर्भाधानादिमारभ्य तथा देवव्रतानि तु | हविर्यज्ञाः पाकयज्ञाः सोमसंख्यास्तथैव तु || १७ || संस्काराश्च समाख्याताश्चत्वारिंशत्क्रमेण तु | अष्टाधिकाश्च ज्ञातव्यं देशिकेन तु || १८ || प्. ८८९) एतान् हुत्वा ततो मन्त्री सहस्रक्रतवो न्यसेत् | पदं प्राप्य परित्यज्य अन्त्येष्टस्तदनन्तरम् || १९ || अन्त्येष्टिञ्च ततो हुत्वा ऊर्ध्वं कृत्वा नियोजयेत् | भोगस्थानेषु संयोज्य तस्माद्भोगाद्वियोजयेत् || २० || वियोजयित्वा तद्भोगान् पुर्यष्टकसमन्वितान् | भूर्लोके तु ततो योज्य भुवर्लोकं ततो नयेत् || २१ || एवमादिक्रमेणैव ब्रह्मणि स्वासने तथा | रुद्रासने ततो योज्य सद्धि दण्डक्रमेण तु || २२ || ध्यात्वा पाशुपतं देवि अस्त्रं परमदुर्जयम् | तेन चाहुतयस्सप्त दद्याच्छुध्यर्थकारणात् || २३ || प्. ८९०) शतरुद्रे तु संयोज्य शतस्थाने यथाक्रमम् | एवन्तु पृथिवी शुद्धा शतरुद्रस्तु योजिता || २४ || अनन्तमादितः कृत्वा पातालं हेमसंज्ञितम् | शतमेकोनषष्टिञ्च कथितं तव शोभने || २५ || भुवनान् भुवनाधीशान् भुवनान्तर्निवासिनः | प्रीणयित्वा कृतान् प्राज्ञः तत्वे तत्वे यथाक्रमम् || २६ || ओं भुवनाय नमः | ओं भुवनाधिपतये नमः | ओं भुवनान्तर्निवासिभ्यः | भुवव्यूहहोमन्तु कर्तव्यं देशिकेन तु | भुवनान्तर्निवासीनां शिखेनैवाहुतिं हुनेत् || २७ || प्. ८९१) एवं स शोधनार्थस्तु देशिकेन महात्मना | पार्थिवावरणं देवि अनन्तादिरनुक्रमात् || २८ || कथयामि समासेन भुवनानां वरानने | शतद्वयं समाख्यातं तथा चैकोन सप्ततिः || २९ || कूश्माण्डेन सहैकत्वं कथितन्तु समासतः | पञ्चाष्टकं पुनश्शोध्यं पञ्चधावरणैः क्रमात् || ३० || येन येनाष्टकञ्चैव योगाष्टकमतः परम् | क्रोधाष्टकन्तु ज्ञातव्यं देशिकेन महात्मना || ३१ || तानेव शोधयेद्देवि तेजोष्टकमतः परम् | तेजोष्टके तु संशुद्धे शिवद्वादशकं पुनः || ३१ || प्. ८९२) महादेवाष्टकञ्चैव वीरभद्रं तथैव च | मण्डलाधिपतिञ्चैव कथितं तव शोभने || ३२ || एतान् शोध्यविधानेन प्रधानमुपरि हुनेत् | गुणत्रयं बुद्धितत्वं शोधनीयं यथाक्रमम् || ३३ || बुध्या च तत्वपर्यन्तं प्रधानस्य तदन्तरे | क्रोधतेजोष्टकं शोध्यं योगिभिः स शिवैस्सह || ३४ || वीरभद्रेण संयुक्तं मण्डलाधिपतेन तु | गुरुपङ्क्तित्रयं देवि गुरोरन्तरितास्तथा || ३५ || साम्यावस्था गुणानान्तु तत्प्रधानं प्रवक्ष्यते | एतत्प्रधानमित्युक्तं बहुविस्तरतः स्थितम् || ३६ || प्. ८९३) कथितन्तु समासेन वेदितव्यं वरानने | तयो रूपाः समाख्याताः तत्वानान्तु पुरा मया || ३७ || तेन रूपेण तान् रुद्रान् ज्ञात्वा शोध्येन सुवृते | अनन्तमादितः कृत्वा प्रधानान्तस्तथावधि || ३८ || शतानि चतुरः प्रोक्ताः चतुश्चत्वारिंशत्पुनः | अतः परतरञ्चैव पुरुषं कथयामि ते || ३९ || येन विज्ञातमात्रेण मुच्यन्ते नात्र संशयः | अंभाद्याः शोधने तत्र पौरुषे तु यथाक्रमम् || ४० || मणिमातरमंभानां कथयामि समासतः | धर्मो दशविधः प्रोक्तः तव देवि न संशयः || ४१ || प्. ८९४) विकारषोडशः प्रोक्ताः बुद्धिरष्टविधा स्मृताः | अहंकारस्तु त्रिविधो गुणत्रयमुदाहृतम् || ४२ || प्राणः पञ्चविधश्चैव विद्धि विद्याष्टकं तथा | विग्रहाष्टकसंयुक्ता शोधनीयाः प्रयत्नतः || ४३ || कामक्रोधश्च लोभश्च जन्ममृत्युजरास्तथा | व्याधिश्च शाश्वतो लोके क्षुत्तृष्णाशोकमेव च || ४४ || विवादश्च भयश्चैव मदमोहस्सुदारुणः | राणश्शोकश्च मोहश्च मदमात्सर्यमेव च || ४५ || धर्माधर्मश्च तृष्णा च अस्वतन्त्रा सदा तनुः | एते बन्धात्मका पाशाः गणपाशीमतोऽन्यथा || ४६ || प्. ८९५) तत्वपाशाश्च विविधा तत्वे तत्वे व्यवस्थिताः | देशपाशास्तु ये तस्य शिवेन परिकीर्तिताः || ४७ || वौषट्कारन्तु युक्तेन शोधनीयास्तु देशिकैः | शतपञ्चाशतेनैव पञ्चविंशेन वा पुनः || ४८ || दशपञ्च दशेनापि त्रयः पञ्चद्वयेन वा | एकाहुत्या तु देवेशि शोधनीयाः शिवाध्वरे || ४९ || एष ते होमभेदस्तु कथितो वरवर्णिनी | ध्यात्वा भक्तिमयं शिष्यं दीक्षां कुर्यात्तु देशिकः || ५० || भुवनानान्तु या संख्या शिवेन कथिता पुरा | शतमेकन्तु विख्याता नियत्यां भुवनाधिपाः || ५१ || प्. ८९६) सर्वे पद्मासनासीनाः विद्याविद्येश्वरैर्व्रताः | शुक्लकृष्णविभागस्थां ध्यात्वा शोध्येत मोक्षकः || ५२ || शुद्धबुद्धप्रबुद्धश्च दशैते भुवनाधिपाः | कालतत्वे तु विख्याता कोट्यनेकपरिग्रहाः || ५३ || रागतत्वे दशप्रोक्ताः भुवनेशा महाबलाः | सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनिः || ५४ || एवमादिक्रमेणैव वेदनीयो मुमुक्षुभिः | अतः परतरेणैव विद्येशानाः प्रकीर्तिताः || ५५ || कल्याणः पिठलो हंसाः एवमादि प्रकीर्तिताः | विद्यातत्वे तु ज्ञातव्याः देशिकेन महात्मना || ५६ || प्. ८९७) कालतत्वे तु विज्ञेया ये रुद्रा भुवनाधिपाः | विधिना शोधनीयास्तु देशिकेन महात्मना || ५७ || वामज्येष्ठः तथा भीमः एवमादि प्रकीर्तिताः | गोपतेश्च तदोर्ध्वन्तु ग्रथिद्वारे व्यवस्थिताः || ५८ || असंख्या रुद्रकोटीभिः गोपतिः परिवारितः | अतः परतरेणैव त्रिकालः क्षेमीश एव च || ५९ || एवमादिक्रमेणैव पञ्चरुद्राः प्रकीर्तिताः | योगक्षेमप्रदातारा दीक्षाध्वानविशोधिताः || ६० || अत ऊर्ध्वमनन्तेश पाशाश्चैव तु संस्थिताः | मदमोहसमायुक्तं एवमादिमहाशये || ६१ || प्. ८९८) पुना ऋषिकुले प्रोक्तं ततो वागीश्वरी पुनः | छङ्कारसाध्यमोङ्कार दातारदवनेशिकम् || ६२ || ध्यानाहारञ्च भस्मेशं परिवार्य विचक्षणः | प्रमाणाष्टकमेवापि मायावरणसंस्थितः || ६३ || रुद्राङ्कुशन्तु प्रथमं व्यूहमन्त्रे प्रतिष्ठितम् | एवमादीनि हुत्वा तु मुनेत्मनां विधानवित् || ६४ || नियमादितः कृत्वा मायातत्वमपश्चिमम् | एभ्यो मध्ये तु ये रुद्राः कथयाम्यनुपूर्वशः || ६५ || नियत्यां दश रुद्रास्तु कालतत्वे दश स्थिताः | रगेऽपि च दश प्रोक्ताः विद्यायां न पुनर्दश || ६६ || प्. ८९९) कालतत्वे दश प्रोक्ताः ग्रन्थेरेकः प्रकीर्तितः | उपरिष्टात्पुनः पञ्चमायातत्वा तु संस्थिताः || ६७ || अत ऊर्ध्वमनन्तेशपाशाश्चैव तु संस्थिताः | मदमोहादि संयुक्ताः पाशहस्ता महाबलाः || ६८ || एवमादिक्रमेणैव यावन्मायान्त संस्थिताः | संख्या वै भुवनानान्तु सप्ततिः सप्तचाधिकाः || ६९ || आत्मतत्वमिदं प्रोक्तमशुद्धं परिकीर्तितम् | अनन्तमादितः कृत्वा मायातत्वमपश्चिमम् || ७० || येभ्यो मध्ये तु ये रुद्रास्तान् प्रवक्ष्यामि संख्यया | एकसंशीकृतास्सर्वे कथयामि तवाखिलम् || ७१ || प्. ९००) शतास्तु षट् समुद्दिष्टा चत्वारिंशत्तथैव च | भुवना सप्तचाधिक्यं कथितं तव शोभने || ७२ || एवं ध्यात्वा विधानन्तु शोधयेदविशङ्कितः | आत्मतत्वमिदं ख्यातं मायान्तं सुरसुन्दरि || ७३ || वेदितव्यं प्रयत्नेन विद्याया शृणु सांप्रतम् | अनन्तेशादितः कृत्वा होतव्यमनुपूर्वशः || ७४ || भुवने संस्थितास्सर्वे बोधनीया विचक्षणैः | ईश्वरे शोधनीयास्तु मायाञ्जनविवर्जिताः || ७५ || अतो रूपचतुष्टयं होतव्यमनुपूर्वशः | वामाज्ज्येष्ठादयस्तस्मात् शक्तयः परिकीर्तिताः || ७६ || प्. ९०१) अतो ज्ञानक्रियाशक्तिः ज्ञातव्याः पुनरेव हि | तां विदित्वा महादेवि देशिकः पाशहा भवेत् || ७७ || तेजीशश्च ब्रवीशश्च प्रमाणे परमं पदम् | द्वौ रुद्रौ तु समाख्यातौ योगमोक्षफलप्रदौ || ७८ || ततः प्राणः स्मृतो देवि ब्रह्मदत्तं ततः पुनः | चत्वारस्तु स्मृता रुद्राः योगमोक्ष फलप्रदाः || ७९ || एकाहः पिङ्गलो हंसो रुद्रत्रयमुदाहृतम् | अतोपरि ध्रुवं देवि रुद्रैकादशकं पुनः || ८० || ब्रह्मदत्तादि संयुक्ता जंभिकान्ताः प्रकीर्तिताः | तेषां तु परतो देवि ध्रुवश्चैव तृतीयकः || ८१ || प्. ९०२) सप्तकोटिपरीवारा स्थिता भुवननायकाः | अतो निरञ्जनं प्रोक्तं तस्य संख्या न विद्यते || ८२ || निरञ्जनमतिक्रम्य इच्छाशक्तिर्व्यवस्थिता | अतश्चैवोपरिष्टात्तु अष्टौ ते भुवनेश्वराः || ८३ || प्रतिराद्या स्मृता देवि प्रद्यतान्ताः प्रकीर्तिताः | शोधनीया वरारोहे योगक्षेमप्रदायकाः || ८४ || संस्थिता सूक्ष्मरूपेण प्रतिच्छाया विधायिनी | अतः परं निरालंबं सर्वध्यान विवर्जितम् || ८५ || स्वशक्तिकिरणायानं सर्वं व्याप्य व्यवस्थितम् | नापरं न परञ्चैव परापरविवर्जितम् || ८६ || प्. ९०३) सर्वज्ञानपरातीतं निस्संदिग्धमवस्थितम् | पारंपर्येण संस्थञ्च निर्मलं परमं पदम् || ८७ || न तस्य शक्यते वक्तुं विज्ञेयो निष्कलश्शिवः | तेन सर्वमिदं व्याप्तं कल्पनातीतलक्षणम् || ८८ || न च वस्त्वन्तरं किञ्चित् न्यस्तत्वाद्ध्वनिरुच्यते | ओतप्रोतमनाद्यन्तं सर्वतत्वावभासकम् || ८९ || एतत् ज्ञानं परातीतं ज्ञानसद्भावमिष्यते | एतत्ते कथितं देवि भुवनानां समासतः || ९० || संक्षेपेण मया प्रोक्तं भुवनाध्वा तु शोभने | विद्यातत्वे तु देवेशि भुवनेशाः प्रकीर्तिताः || ९१ || प्. ९०४) ईश्वरेऽपि तथैवाह तथा चैव सदाशिवे | तान् प्रवक्ष्याहं देवि गुणतत्वेन सुव्रते || ९२ || अतीतभुवनाः प्रोक्ताः विद्यातत्वे समासतः | विदित्वा शोधने देवि देशिकः तत्वपारगः || ९३ || शिवतत्वे तु ये प्रोक्ताः शिवेन परमात्मना | एकसंख्यैकतः कृत्वा प्रवक्ष्यामि वरानने || ९४ || शतं वै सप्तदेवेशि भुवनानां प्रकीर्तिताः | विंशद्वयञ्च ज्ञातव्यं देशिकेन महात्मना || ९५ || अमनस्का इति सहस्रेण भुवनाध्वानि शुद्ध्यति | पूर्णाहुत्या शतेनापि विशुद्ध्यते नात्र संशयः || ९६ || प्. ९०५) निष्कलेन दशेनैव शून्ये पञ्चाहुतिस्तथा | प्रशान्तेन त्रयः प्रोक्ताः सर्वाध्वानमशेषतः || ९७ || षट्त्रिंशत्तत्वैरध्वानं सकलेन तु होमयेत् | प्रणवेन समाख्यातं शान्त्यतीतेन वा पुनः || ९८ || परमाक्षरेण होतव्यं परात्मनो महेश्वरि | कालाध्वनं वरारोहे भुवनाध्वेन होमयेत् || ९९ || तथा ध्वनेषु तज्जेता होमयेच्च शतं शतम् | कलाध्वाने तथैवेह कथितं तव शोभने || १०० || एवं संक्षेपतः प्रोक्तं तत्वाध्वानं विशेषतः | वेदितव्यं प्रयत्नेन देशिकेन महात्मना || १०१ || प्. ९०६) समयी पुत्रको वाऽथ साधकाचार्य एव च | उपपन्नाय दान्ताय गुरुदेवरताय च || १०२ || तेषामनुग्रहं कार्यमाचार्येण महात्मना | पूजयित्वा विधानेन देवदेवं महेश्वरम् || १०३ || अग्नौ हुत्वा यथा न्यायं हस्ते यागं यजेद्बुधः | सव्यहस्ते तु यष्टव्यं वामहस्तेन संव्रते || १०४ || पूजयित्वा विधानेन अध्वाधः क्रमशो न्यसेत् | गन्धैः पुष्पैः यथा न्यायं पूजयित्वा विधानवित् || १०५ || ध्यात्वा देवं महेशानं शिष्यमाहूय मन्त्रवित् | आत्मन्येवं वशीकृत्य शिष्यस्य परमेश्वरि || १०६ || प्. ९०७) आलभ्य शिवहस्तेन तस्य देहं समन्ततः | तत्वानि देहतोऽन्यस्य स्थानन्तु शिरसि न्यसेत् || १०७ || ज्वालामालाकलाकारं ध्यात्वा देवं महेश्वरि | ध्यात्वा देवं महेशानं भूमिमध्ये तु तत्ववित् || १०८ || पुण्यपापं दहेत्तस्य ध्यात्वा देहं न संशयः | एवं कृते ततो देवि शिवहस्तेति स स्मृतः || १०९ || शिवहस्तप्रदानेन समयी स विधीयते | अनेन विधिना देवि कुर्यात्तस्याप्यनुग्रहम् || ११० || सायुज्यमीश्वरे तत्वे भवते नात्र संशयः | भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्समाधिपे || १११ || प्. ९०८) पन्नकेभ्यस्तु सुश्रोणि अवध्यस्त्रिदशैरपि | अध्वानं कुरुते सोहि न तु न व्यापयेत्परम् || ११२ || समयी सर्वतन्त्रेषु भवते नात्र संशयः | पुत्रको येन देवेशि कथ्यते शिवयोगिभिः || ११३ || तदहं संप्रवक्ष्यामि कथ्यमानं निबोध मे | गणयागादितः कृत्वा दृष्ट्वा खेर्मण्डलानि तु || ११४ || हुत्वा तु विधिवद्देवि तत्वपाशैर्वियोजितः | योजितस्तु परे तत्वे पुत्रकस्स विधीयते || ११५ || स एव मन्त्रकल्पज्ञो मन्त्रतन्त्र विधानवित् | मन्त्रकल्पसुवेत्ता च देशकालविधानवित् || ११६ || प्. ९०९) जपयोगविधानज्ञः तत्वज्ञश्च विधानवित् | तापने दीपने चैव छेदने च तथैव च || ११७ || मोहनस्तंभने चैव संपुटज्ञस्तथैव च | परमन्त्रविभेदज्ञो मन्त्राप्यायनतत्परः || ११८ || देशजातिविभेदज्ञः योजनाय च तत्परः | पातने दैत्यभूतेभ्यः सिंहविद्याधरेष्वपि || ११९ || सर्वज्ञश्च कृतज्ञश्च शौचाचार समन्वितः | समर्थश्च परित्यागी जपासक्तस्सदा मतः || १२० || चतुष्पात् संज्ञिताभिज्ञः कलाभिज्ञस्तथैव च | उत्साहवान् सदा दक्षः साधकस्स विधीयते || १२१ || प्. ९१०) कलशाष्टदशेनैव नवपञ्चदशेन वा | अभिषेकप्रदातव्यं देशिकेन महात्मना || १२२ || संपुटीकृत्य विद्याख्यं कलशं सुरसुन्दरी | अभिषिञ्चेत्ततः शिष्यं विधिदृष्टेन कर्मणा || १२३ || पृथिव्यादि समारभ्य मायातत्वमपश्चिमम् | संपुटीकृत्य पश्चात्तु विद्याख्येनाभिषेचयेत् || १२४ || एवञ्चैवाभिषिक्तस्तु साधकस्स विधीयते | पृथिवीमादितः कृत्वा निर्वाणान्तेन शोभने || १२५ || अभिषिक्तस्तु देवेशे आचार्यस्स विधीयते | मण्डलस्येशभागे तु कुर्याद्वै चतुरङ्गकम् || १२६ || प्. ९११) चतुर्हस्तसुविस्तारं हस्तमात्रसमुच्छ्रितम् | तोरणैस्सपताकैश्च दिशासु विदिशासु च || १२७ || पीठमेवं विधं कृत्वा आचार्यस्सुसमाहितः | अकालमूलकलशैश्चन्दनेनोपलेपितैः || १२८ || चूतपल्लवसंयुक्तैः दूर्वाङ्कुरसमन्वितैः | सर्वोषधि समायुक्तैः एकैकं कलशं कुरु || १२९ || पञ्चब्रह्म शिवाङ्गैश्च शिवेन सहसंयुतम् | एकैककलशे देवि विन्यसेत यथाक्रमम् || १३० || समुद्रास्सप्त सप्तैव एकैककलशे न्यसेत् | पृथिव्यादीनि कलशे विन्यसेत यथाक्रमम् || १३१ || प्. ९१२) कौतुकैर्मङ्गलैश्चैव स्त्रीसङ्गीतकसंयुतैः | वेदशब्दजयाकारैः पूर्वादारभ्य शोभने || १३२ || अभिषिञ्चेच्च मतिमान् पृथिव्यादि समायुतम् | निर्वाणकलशं यावत् एष एव विधिस्मृतः || १३३ || अभिषिक्तं तदा शिष्यं आनयेच्छिवसन्निधौ | अर्घ्यादिभिस्समभ्यर्च्य अधिकारं समर्पयेत् || १३४ || संहितां सुक् स्रुवञ्चैव करणीं कर्तरीं तथा | कर्तव्योऽनुग्रहं नित्यं चतुराश्रमसंयुतम् || १३५ || व्याख्याचानुग्रहश्चैव गुरुशिष्यप्रबोधनम् | स्वल्पमह्नि जपं कार्यं स्वल्पमन्हौ तु होमयेत् || १३६ || प्. ९१३) स्वल्पं वै ध्यानमुत्तिष्ठेत् सत्रमेतत्सदा गुरौ | एतेऽधिकारा ये प्रोक्ताः शिवज्ञाने विकल्पिताः || १३७ || एवन्तु श्रावयेद्देवि आचार्यस्तत्वपारगाः | एवं कुर्वामहे तात यत्त्वया कथितं मम || १३८ || सुविकल्पेन मे कार्या शिवाज्ञा यत्त्वयोदिता | एवं त्वं पूजयित्वा तु आचार्यः सुमहामतिः || १३९ || प्रणिपत्य यथा न्यायं ततो देवं विसर्जयेत् | विसर्जिते ततो देवि गुरुपूजामुपक्रमेत् || १४० || मण्डलं हस्तमात्रन्तु लिखित्वा तु समाहितः | तत्रस्थं स्थाप्य पूज्येत यथाविधि पुरस्सरम् || १४१ || प्. ९१४) मन्त्रैकादशकेनैव पूजयेत यथाक्रमम् | यथा भगवतः पूजां कुर्यादाचार्यकस्य तु || १४२ || वित्तशाठ्यन्न कुर्वीत आचार्यं प्रतिसाधकः | शिववत्पूजयेद्देवि आचार्यं तन्त्रपारगम् || १४३ || तेन पूजितमात्रेण शिवो भवति देशिकः | तत्प्रसादाद्भवेत्सिद्धिः मुक्तिश्चैव शिवोदिता || १४४ || तस्मात्पूज्येत देवेशि आचार्यं तत्र पारगम् | कर्णिकाकटकैर्वस्त्रैः मेखलैर्मकुटैस्तथा || १४५ || ग्रामदेशप्रदानैश्च विषयाखेटकैस्तथा | हस्त्यश्वरथयानैश्च रुक्मभेदैश्च संयुतम् || १४६ || प्. ९१५) बस्त्रखण्ड समायुक्तां धेनुं दद्यात् सुशोभनाम् | येन येन सुतुष्टेन न तत्तत् दद्यात्तु पुत्रकः || १४७ || प्रदक्षिणं ततः कृत्वा आत्मानन्तु निवेदयेत् | निवेदिते ततो देवि अनृणो जायते गुरोः || १४८ || संपूज्य विधिना देवि गुरुञ्च सुसमाहितः | भोजयेद्गुरुभक्तांश्च दीनानाथांश्च तर्पयेत् || १४९ || शुक्ला तु दक्षिणा दद्यात् भोजयित्वा विधानतः | वक्तव्यन्तु ततो देवि प्रीयतां भगवाञ्च्छिवः || १५० || एवं यः कुरुते देवि स सिद्धिफलभाक् भवेत् | अन्यथा कुरुते यस्तु आचार्यं प्रतिसाधकः || १५१ || प्. ९१७) दीक्षाज्ञानं गुरुत्वञ्च हित्वा नरकगामिकः | आचार्यं शिववन्मन्ता विद्याच्चैश्वरसाधकम् || १५२ || पुत्रकं भ्रातृवच्चैव समं चैव तथैव च | मान्याः पूज्याश्च देवेशि अन्योन्यप्रीतितां व्रजेत् || १५३|| एवं विदिविधानज्ञो लभते शाश्वतं पदम् | तत्वेनापि विधिज्ञेन दीक्षितः शिवतां व्रजेत् || १५४ || स्वच्छन्दः सर्वगो भूत्वा विचरेत्तु यथा सुखम् | न तस्य हन्यते सिद्धिः यावद्देवः सदाशिवः || १५५ || साधकस्य विधिः ख्यातः सर्वकामार्थसाधकः | आचार्यस्य तु देवेशे समयी पुत्रकस्य च || १५६ || प्. ९१८) सर्वेषान्तु समाख्यातं यथाविधिपुरस्सरम् | सर्वथा सर्वमानोऽपि तत्वविन्मोचयेत्पशुम् || १५७ || तत्ववित् स शिवः साक्षात् तस्मात्तं प्रतिपूजयेत् | मानुषीं तनुमासाद्य शिवे ज्ञातं प्रयच्छति || १५८ || तस्मात्तत्वविदाचार्यः शिववत् पूजयेत् सदा | माया तस्य न कर्तव्या कृत्वा मायां व्रजत्ययम् || १५९ || इति निश्वासकारिकायां दीक्षोत्तरे सप्तमः पटलः | ईश्वरः - अतः परं प्रवक्ष्यामि मन्त्राणां परमेश्वरि | प्. ९१९) प्रत्येकं संस्मृता मन्त्राः मया प्रोक्तास्तु सुव्रते || १ || साधारणविशेषाणि शिवेन कथितानि वै | पञ्चब्रह्मशिवाङ्गैश्च विद्याङ्गानि तथैव च || २ || गायत्री चैव सावित्री तथैव परमाक्षरम् | शान्त्यतीतञ्च प्रणवं तथा चैव नवात्मकम् || ३ || विद्येशा लोकपालाश्च ज्ञेयास्साधारणानि वै | यत्र प्रत्येकहोमस्यात् तत्र साधारणैर्यजेत् || ४ || प्रत्येकशस्तु देवेशि तास्तु तत्रैव पूजयेत् | प्रणवे कथिता ये तु ते तु प्रत्येकशस्मृताः || ५ || निवृत्याद्याः कलायास्तु तासु प्रत्येकशस्मृताः | प्. ९२०) पदभेदविभागेन अष्टत्रिंशत्कलैस्तथा || ६ || मातृकायां तथा देवि प्रत्येकं समुदाहृतम् | शोध्यशोधकभावेन तथा चान्ये प्रकीर्तिताः || ७ || एवं ज्ञात्वा वरारोहे होमकर्म समारभेत् | दशया दीपितैर्मन्त्रैः कर्मकुर्याद्यथेप्सितम् || ८ || ओङ्कारदीपिता मन्त्राः नमस्कारान्तयोजिताः | हुङ्कारमादियोगेन स्वाहान्तेन तु मन्त्रिणम् || ९ || आकर्षयन्ति भूतानि दिव्यमानुषपन्नगाः | ओङ्कारमादितः कृत्वा वौषडन्तेन मन्त्रिणः || १० || शान्तिकं फलदं श्रेष्ठं कथितं तव शोभने | प्. ९२१) ओङ्कारदीपिता मन्त्रा नमस्कारान्तयोजिताः || ११ || अर्चने तु प्रयोक्तव्या अग्नौ स्वाहान्तयोजिताः | सुवौषट्कारसंयुक्तं पुष्यर्थे विनियोजयेत् || १२ || वषट्कारेण संयुक्तममृतीकरणं हितम् | मनोन्मनेति मन्त्राणां इन्द्यनार्थं प्रयोजयेत् || १३ || उत्सादने प्रयोक्तव्यं फट्कारेण समन्वितम् | मारणे फट् फडित्येव मन्त्रं कुर्याद्विचक्षणः || १४ || आदिहुङ्कारसंयुक्तं मध्ये मन्त्रसमन्वितम् | फट्कारमन्त्रयोगेन पाशच्छेदकरस्मृतिम् || १५ || एष मन्त्रप्रयोगस्तु कथितस्तव शोभने | प्. ९२२) अविदित्वा न सिध्येत न च याति परं पदम् || १६ || तस्मान्मन्त्रपदस्यैव भेदनन्तु प्रयोजयेत् | सिध्यन्ते साधकेन्द्रास्तु प्रयोगैर्मन्त्रयोजितैः || १७ || या योगेन सिध्यन्ते न च यान्ति परं पदम् | दीक्षा होमं सदा कुर्यात् स्वाहाकारान्तिकं पदम् || १८ || हुंफट्कारकृतेनैव पाशच्छेदन्तु कारयेत् | वौषडन्तेन देवेशि पूर्णाहुत्यान्तु दापयेत् || १९ || एकाक्षरस्मृतो मन्त्रो द्व्यक्षरत्र्यक्षरो परः | पञ्चषट् सप्तचाष्टौ तु बह्वक्षरमयः परः || २० || एकाक्षरस्य मन्त्रस्य प्लुतेनोच्चारमिष्यते | प्. ९२३) आपादतलमूर्धान्तं व्यापयित्वा व्यवस्थितः || २१ || हृदि पादकलं यावत् ब्रह्मा तत्र व्यवस्थितः | चतुर्विंशतिभिस्तत्वैः प्रकृतिभिः परिकीर्तितः || २२ || एतद्ब्रह्माधिदैवत्यं व्याख्यातं तव शोभने | भुवनार्थं चतुर्विंशत् व्याख्यातानि शिवेन तु || २३ || पुरुषञ्चादितः कृत्वा मायातत्वञ्च पश्चिमम् | कथितं विष्णुदैवत्यं हृदयात् कर्णिकावधि || २४ || अस्मिन् मध्ये तु ये रुद्रा कीर्तिता भुवनैस्सह | विष्णुना सह मोदन्ते विष्णुतुल्यपराक्रमाः || २५ || तालुमध्ये गतोच्चारो रुद्रस्तत्र प्रकीर्तितः | प्. ९२४) विद्याविद्येश्वरैश्चैव तत्र ते भुवनैस्सह || २६ || तं विदित्वा महादेवि रुद्रतुल्यपराक्रमः | क्रीडते रुद्रलोके तु रुद्रतुल्यबलो भुवि || २७ || मूर्ध्नि स्थानगतोच्चारमैश्वरं तं विनिर्दिशेत् | स तत्र ईश्वरो देवः आधिपत्येन संस्थितः || २८ || तच्छब्दन्तु यथा भिन्नं विद्यातत्वं ततोपरि | तत्र देवः सदाख्यस्तु आधिपत्येन संस्थितः || २९ || शक्तित्रयं कृताधारो द्विधावस्थेन संस्थितः | स्थूलसूक्ष्मविभागेन विदित्वा मोक्षमाप्नुयात् || ३० || चतुर्थावस्थितं सूक्ष्मं स्थूलमेकविधं स्मृतम् | प्. ९२५) इडिकादीपिका चैव रोचिका मोचिका तथा || ३१ || स्थूलमेतत्स्मृतो नादः विदित्वा मोक्षमाप्नुयात् | कलाह्येतास्तु चत्वारः एकत्वे तु यदा स्थिताः || ३२ || यथा स्थूलं स्मृतन्नादं मया ते कथितं शुभे | सूक्ष्ममेकविधञ्चैव ऊर्ध्वगामीति विश्रुतम् || ३३ || तत्रस्था देवताः सर्वास्समुदायेन संस्थिताः | व्याप्तियोगेन ज्ञातव्या देवताह्यघनाशनाः || ३४ || तस्मात्परतरा शक्तिः पञ्चधा संव्यवस्थिताः | सूक्ष्मा चैव सुसूक्ष्मा च अमृता च मृतामृता || ३५ || सूक्ष्मभावा स्मृता ह्येताश्शक्तेस्तु परमेश्वरि | प्. ९२६) तस्यापि परतः सूक्ष्मा व्यापिनीत्यभिधीयते || ३६ || तस्याः परतरो देवि गुरुपारंपरागतम् | तं विदित्वा विमुच्यन्ते नरास्संसारसागरात् || ३७ || मया ते कथिता देवि शक्तिः परमकारणा | तस्मिन् शून्यलयं देवि विघ्नन्तीं विनिर्दिशेत् || ३८ || उच्चारेण विना देवि वर्णा निजलयं गतः | कण्ठस्थो विरमेच्छब्दः अर्धचन्द्र इति स्मृतः || ३९ || तस्य शब्दस्य यच्छब्द ऋषिमन्तं विभाव्य ये | निरोधी सा विनिर्दिष्टा ललाटे तु लयं विदुः || ४० || भिन्नमेतद्यदा देवि तदा नादं विनिर्दिशेत् | प्. ९२७) अभिन्नो घाटमित्युक्तं ललाटे तु लयं विदुः || ४१ || भिन्नं तद्वद्यदा देवि तदा नादं विनिर्दिशेत् | अभिन्नो घाटमित्युक्तं ललाटस्थो निवर्तते || ४२ || बिन्दोः परतरेणैव नादतत्वं लयं व्रजेत् | नादतत्वलये लीना स परत्वेन गच्छति || ४३ || परत्वे संस्थिता शक्तिः तच्छेष व्यापिनी तथा | तस्माद्गुरुतरो देवि गुरुपारंपरागतः || ४४ || कालदेशविनिर्मुक्तमुच्चारालंबना ऋतम् | जपयोगविनिर्मुक्तं करणाधारवर्जितम् || ४५ || बिन्दुमात्रविनिर्मुक्तं हेतुवादविवर्जितम् | प्. ९२८) क्लिश्यन्ते देवतास्सर्वे ऋषयः सांशतव्रताः || ४६ || तं प्राप्य न निवर्तन्ते ये चान्ये भुवि मानवाः | एतत्सर्वं परत्वेन कथितं तत्वमुत्तमम् || ४७ || मन्त्रस्य विषुवं देवि शृणुष्व कथयामि ते | मन्त्रमुच्चारतो देवि यावन्नान्यमनो भवेत् || ४८ || तावन्मन्त्रयतीरात्मा देहमध्ये व्यवस्थितः | नमस्कारं ततः प्रोक्तं स्वाहाकारान्तयोजितम् || ४९ || बिन्दुद्वयं यदातीतं तन्मन्त्रं विषुवं स्मृतम् | प्राणे तु तच्चतुर्थी तु विभेदवरवर्णिनी || ५० || प्रशान्तं प्राप्य देवेशि निष्कलं विषुवं स्मृतम् | प्. ९२९) उत्तरायणपूर्वाह्णे द्वितीये दक्षिणायनम् || ५१ || उभयोर्मध्यदेशे तु कालेन विषुवं स्मृतम् | चत्वारो विषुवा देवि जानीते देशिकोत्तमः || ५२ || स विमोचयते बन्धं क्षिप्रं संसारबन्धनात् | एतत्सर्वं समासेन मया तु कथितं तव || ५३ || मन्त्रे समरसो भूत्वा तिष्ठते परमेश्वरि | मन्त्रं समरसो देवि शिवेन परिकीर्तितः || ५४ || नाडिमध्यगतोह्यात्मा शिवभक्तिभिरीश्वर | नाडीसमरसो देवि कथितस्तव शोभने || ५५ || भूतेषु व्याप्य देवेशि तिष्ठते परमेश्वरः | प्. ९३०) स भूतसमरसो देवि मया ते परिकीर्तितः || ५६ || सर्वेषां समरसानान्तु श्रेष्ठं सर्वगुणोद्गतम् | तत्वं समासतो देवि शिवेन कथितं मम || ५७ || तत्वं समासयेत्तत्तु दुर्लभं त्रिदशैरपि | न मया कस्यचित्ख्यातं तत्वं समरसं शुभम् || ५८ || चत्वारः समरसा देवि कथितास्तु ततो मया | तत्वसन्धानदेवेशि तत्वतः कथयामि ते || ५९ || मन्त्राणां सन्धानञ्चैव अध्वरे तु यथा शृणु | शिवादि तर्पणं कृत्वा अनुपूर्वेण मन्त्रवित् || ६० || प्रायश्चित्तं ततो हुत्वा आत्मनश्च तु देशिकः | प्. ९३१) नातिचित्रमपायस्य सूत्रच्छेदं तथैव च || ६१ || कृशे स्थूले रजे चैव प्रायश्चित्तन्तु होमयेत् | एतान् हुत्वा ततो मन्त्री मन्त्राणां दीपनं हुनेत् || ६२ || पशोह्यालंभनं कृत्वा प्रायश्चित्तन्तु होमयेत् | हुङ्कारमादिमध्येषु अन्ते चैव प्रयोजयेत् || ६३ || फट्कारं तत्परत्वेन दापनन्तु प्रकीर्तितम् | एवं सन्दीपनं कृत्वा पशोरथे वरानने || ६४ || ततस्तु सन्धयीन्मन्त्री त्रितत्वञ्च यथाक्रमम् | शिवतत्वे तु विद्याख्यामात्मतत्वञ्च विद्यया || ६५ || विद्यातत्वात्मतत्वेन एकीकृत्य तु बुद्धिमान् | प्. ९३२) ततस्तु शिवतत्वेन सन्धयीत विचक्षणः || ६६ || ततस्त्रितत्वसन्धानं मन्त्राणां सन्धनं शृणु | विद्येशां शिवतत्वेन लोकेशान् विद्यसंज्ञिते || ६७ || अस्त्राणि चात्मतत्वे तु सन्धयेत् परमेश्वरि | एवन्तु सन्धानं कृत्वा पूर्णाहुत्या तु पातयेत् || ६८ || पात्यमाने विकाराणि अग्निमध्ये स पश्यति | स धूमश्चिटचिटाशब्दो विष्णुलिङ्गैर्विराजितः || ६९ || एवन्तु लक्षणं ज्ञात्वा ब्रह्मघ्नं तं विनिर्दिशेत् | नीलमम्रनिभाकारं स धूमं शालिका मतः || ७० || श्रूयमाणे यदा वह्नौ सुरापन्तु विनिर्दिशेत् | प्. ९३३) अस्मिन् धेयने हव्ये चैव परिप्लुते * * *? || ७१ || क्षणाज्ज्वलननिर्वाति स्तेयकारं विनिर्दिशेत् | विस्तरं घोररूपञ्च स धूमञ्च लिखेन्महीम् || ७२ || एवं लक्षणविज्ञाने कृतगुर्वङ्गनागमः | सर्वेषां रूपमाधत्ते कृष्यमानोऽपि पावकः || ७३ || स तु संयोगिको देवि पातकं तस्य निर्दिशेत् | उपपातकिनाश्चान्ये तान्येवमुपलक्षयेत् || ७४ || ध्याक्षस्वरस्तथा रूक्षकाकोलूकश्वरश्वरः | उष्ट्रगृध्रस्वराघोराः शिवावानररावकाः || ७५ || स धूमन्धूमलन्नीचयो भूम्याञ्च विलिखेत्सकृत् | प्. ९३४) जलते क्रधुका शब्दः फट्कारश्च सकृत् सकृत् || ७६ || एवं वै लक्षणं ज्ञात्वा उपपातकिनो नराः | दृष्ट्वैतान्यपचिह्नानि दीक्षाकर्म न कारयेत् || ७७ || कोणदेशे च तं स्थाप्य तमुद्दिश्य च देशिकः | होमयेद्दीपनञ्चैव नवतत्वालयं प्रभुः || ७८ || खट् खटेति च चत्वारः फट् फटेति पुनः पुनः | पश्चात्तत्वकृतं तत्वं पुनर्होमकृतेन तु || ७९ || शुध्यते तु किमाश्चर्यं ततो होमेन पातयः | यथा विषं महाघोरं सप्तधातुगतं हरेत् || ८० || एवं हरति तत्पापं तत्ववित्पापकर्मणाम् | प्. ९३५) ब्रह्महत्यादिपापानि उपपातकिनां तथा || ८१ || शतमष्टशतेनापि शोधयेन्नात्र संशयः | एवं संशोध्य शिष्यन्तु दीक्षाकर्म समारभेत् || ८२ || न तु सङ्कीर्तयेत्पापमन्येषां देशिकोत्तमः | कथया दोषमायाति तस्मात्क्रुद्धं विवर्जयेत् || ८३ || कथितं मन्त्रसद्भावं सर्वेषामुत्तमोत्तमम् | इति निश्वासकारिकायां दीक्षोत्तरे अष्टमः पटलः | ईश्वरः - अतः परं प्रवक्ष्यामि श्रूयतां सुरसुन्दरि | प्. ९३६) प्रक्रियासूत्रयोगञ्च पाशानां ग्रहणं तथा || १ || यद्यविज्ञाय कर्तव्यं कथयामि तवाखिलम् | कन्या कर्तृत्वसूत्रेण त्रिगुणीत्रिगुणी कृते || २ || पञ्चगव्येन चाभ्युक्ष्य गन्धतोयेन वा पुनः | अर्च्येकादशकेनैव तत्सूत्रन्तु विचक्षणः || ३ || अर्चयित्वा तु तत्सूत्रमाचार्यस्सुसमाहितः | पादाङ्गुष्ठप्रदेशे तु सूत्रं कृत्वा प्रधारयेत् || ४ || प्रसारयेत्ततः सूत्रं शिखाग्राद्यावस्थितम् | सकलीकृत्य तत्सूत्रं सर्वमन्त्रैर्विचक्षणः || ५ || यश्शिवः पूजितो देवि देशिकेन महात्मना | प्. ९३७) तेन पाशानि संगृह्य सूत्रग्रन्थ्या तु कारयेत् || ६ || संपुटीकृत्य तं पाश गृहेत्संहारमुद्रया | तत्वेन बन्धयेद्भूयः तान् पाशांस्तु विचक्षणः || ७ || क्रमेण सर्वपाशानि बन्धयेद्देशिकोत्तमः | बध्वा पाशं यथान्यायं वासयेद्देव संयुतम् || ८ || गन्धैः पुष्पैः समभ्यर्च्य देवदेवेन संमतः | दीपयेत ततः पाशां हुंफडन्तः क्रमेण तु || ९ || एकैकमाहुतिं दत्वा पाशे पाशे न संशयः | प्रभाते विमले मन्त्री प्रदीप्तेहनि सुवृते || १० || संहारक्रमयोगेन हुनेत्तत्वान्यथाक्रमम् | होमान्ते तु ततो मन्त्री पाशच्छेदन्तु कारयेत् || ११ || हुंफडन्तशिवेनैव छित्वा तेनैव होमयेत् | प्. ९३८) हुत्वा पाशां ततो मन्त्री पूर्णाहुत्या तु पातयेत् || १२ || पूर्णाहुति क्रमेणैव सर्वतत्वान् समुद्धरेत् | तत्स्थानात्ततः पाशान् तत्वं तत्वेन सन्धयेत् || १३ || शुद्धतत्वं भवेद्ध्रस्वमशुद्धदीर्घसंयुतम् | विलीनमानं संचिन्त्य सन्धीतकरणान्वितम् || १४ || एवं क्रमेण तान् सर्वान् हुनेत्सन्धेन सुव्रते | पृथिवीमादितः कृत्वा शिवतत्वमपश्चिमम् || १५ || एष एव विधिः प्रोक्तः पाशानां छेदनं प्रति | तत्वानां सन्धनञ्चैव एष एव विधिस्मृतः || १६ || भुवनाध्वकलाध्वे च तत्वाध्वे च वरानने | प्. ९३९) वर्णाध्वे च पदाध्वे च मन्त्राध्वे च तथैव हि || १७ || यश्शिवः कल्पितस्तत्र तेन पाशानि छेदयेत् | भुवनाध्वे ततः कुर्यात् कथयामि समासतः || १८ || तत्वं संस्थापयेत्पूर्वं ततो भुवनजल्पनम् | गन्धैर्धूपैः समभ्यर्च्य ततो योनिविकल्पनम् || १९ || गन्धपुष्पैः समभ्यर्च्य ताडनञ्च पशोस्मृतः | शिखया ताडनं कृत्वा ग्राह्यसंहारमुद्रया || २० || शक्त्या संताडिते पुंसि तत ऊर्ध्वं प्रयात्यसौ | द्वादशान्तमनुप्राप्तं ततो ग्राह्यं विचक्षणः || २१ || वामया योजयेन्मन्त्री तेन दद्यात्तु आहुती | प्. ९४०) अधिकारे दशा दद्यात् भोगे दद्याद्दशाहुतिः || २२ || लये दद्याद्दश प्राज्ञः ततस्तत्वाद्वियोजयेत् | वियोज्य मन्त्रवित् प्राज्ञः पाशच्छेदन्तु कारयेत् || २३ || वियोजनन्तु ज्येष्ठ्यायां शिवः पाशन्निकृन्तति | पूर्णाहुतिं ततोन्ते तु रौद्रं तस्मात्तु उद्धरेत् || २४ || एष एव विधिः प्रोक्तः सर्वाध्वानमशेषतः | विधिमेवं सकृत् ज्ञात्वा मोचयेन्नात्र संशयः || २५ || तत्वाध्वाने तु मन्त्रज्ञः कथयामि तवाखिलम् | तत्वमावाहयेद्देवि ततो होमं प्रकल्पयेत् || २६ || गन्धैः पुष्पैः समभ्यर्च्य ताडनन्तु ततः पुनः | प्. ९४१) शिवेन योजयेत्तत्र हुनेत्तेनैव सुवृते || २७ || * * *? शतं शतञ्च पूर्णाहुत्यां प्रति प्रति | त्रितत्वाध्वरशुद्धे च शिखाच्छेदन्तु कारयेत् || २८ || तत्वात्मस्थं पशुं कृत्वा योजयेत् परमे पदे | योजिते तु परे तत्वे स्तौम्यमाहुतयो हुनेत् || २९ || ओं सर्वज्ञतायै च परिपूर्णेति च परम् | परितृप्तो भवस्वेति निर्वाणं भवस्वेति च || ३० || यथा सर्वंगतोह्येवमाहुतिः प्रतिपादयेत् | सर्वव्यापीति होतव्यं देशिकेन महात्मना || ३१ || भवेत्सर्वज्ञता देवि स पशुः कारणाज्ञया | प्. ९४२) यदुक्तं देवदेवेन तद्भवेन्नात्र संशयः || ३२ || कलास्तथैव ज्ञातव्याः पदेनैव तथैव च | वर्णाध्वाने तथा प्रोक्तं कर्तव्यं देशिकेन तु || ३३ || वर्णा एव स्मृतास्तत्वा वर्णयोनिस्तथैव च | प्रणवे योजनञ्चैव ताडने प्रणवस्मृतः || ३४ || ग्रहणं प्रणवेनैव उत्क्षेपः प्रणवेन तु | वर्णाध्वाने यथा प्रोक्तं पदाध्वाने तथैव च || ३५ || कलाध्वाने तथैवेह आचार्येण महात्मना | मन्त्राध्वानं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् || ३६ || गायत्री तु भवेद्योनिः तया मन्त्रान्विशोधयेत् | प्. ९४३) सावित्र्या ताडनं कुर्यात् ग्राह्यं तेनैव मन्त्रतः || ३७ || योजनं तेन कर्तव्यं तथा चैव वियोजनम् | उत्कर्षणन्तु तेनैव सावित्र्या तु विचक्षणः || ३८ || पाशच्छेदं शिवेनैव कर्तव्यं देशिकेन तु | पूर्णाहुतिः प्रदातव्या योजनाय परे शिवे || ३९ || वसोर्धाराप्रयोगेन पातयेत्तु विचक्षणः | एष एव विधिर्देवि कथितो ह्यनुपूर्वशः || ४० || ज्ञातव्यं देशिकेनैव योजनाय परे शिवे | सर्वसंहितसामान्यं कथितं तव शोभने || ४१ || दीक्षा पञ्चविधा देवि कर्तव्या देशिकेन तु | प्. ९४४) तदहं संप्रवक्ष्यामि साधकानां हितावहम् || ४२ || आसनं प्रणवेनैव कर्तव्यं देशिकेन तु | अनन्तधर्मज्ञानञ्च वैराग्यैश्वर्यमेव च || ४३ || नवधा शक्तिदेवेन प्रणवं विन्यसेद्बुधः | पद्मञ्च चन्दनं तेन कर्णिकान्तेन कारयेत् || ४४ || पुष्करान्तेन कर्तव्या मण्डलान्तेन कारयेत् | देवतान्तेन कर्तव्या मूर्त्यन्तेनैव कारयेत् || ४५ || पञ्चब्रह्मा तु तेनैव अष्टत्रिंशत्कलैर्युतः | आवाहनन्तु तेनैव कर्तव्यं सुरसुन्दरि || ४६ || ब्रह्मणस्तु न सन्देहो देशिकेन महात्मना | प्. ९४५) निवृत्तिस्तु शिरस्तस्य इडिकाहृदयं विदुः || ४८ || सूक्ष्मां शिखान्तु विज्ञेया सद्यस्तु कवचं भवेत् | पृथिवी तु भवेदस्त्रं ब्रह्मणाङ्गाः प्रकीर्तिताः || ४९ || पूर्वेण प्रणवं दद्यात् दक्षिणेन तथैव च | पश्चिमेनोत्तरेणैव मध्ये प्रणवसंयुतम् || ५० || आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरस्मृतम् | शिखा नैऋतदिग्भागे कवचं वायुगोचरे || ५१ || रुद्रोङ्कारेण कर्तव्यं रुद्रतत्वस्य शोभने | इकारस्तु शिखा देवि अकारस्तु शिरस्मृतम् || ५२ || गकारो हृदयञ्चैव सद्यस्तु कवचं विदुः | प्. ९४६) लकारमस्त्रमित्युक्तं ग्राहकाः परिकीर्तिताः || ५३ || हन्ताख्य भेदयेत्तैस्तु ग्राहकैस्सुरसुन्दरि | भूतत्वं ब्रह्मतत्वस्य प्रणवेन तु होमयेत् || ५४ || एवं हुत्वा विधानेन पूर्णाहुत्या तु पातयेत् | योजने साधकेन्द्राय प्रजनत्वमपाश्रिते || ५५ || तस्मिन् युक्तं ततो मन्त्री ब्रह्मसायुज्यतां व्रजेत् | ब्रह्मणे तु यथा प्रोक्तं विष्णवेऽपि तथा स्मृतम् || ५६ || प्रतिष्ठा तु शिवस्यैव आकारः परिकीर्तितः | रुकारो हृदयं प्रोक्तमीकारस्तु शिखा स्मृता || ५७ || वामन्तु कवचं प्रोक्तं वकारोस्त्रं प्रकीर्तितम् | प्. ९४७) पूर्वोक्तेन विधानेन कुर्यादावाहनं बुधः || ५८ || सायुज्यं तादृशं प्रोक्तं शिवेन परमात्मना | अनाद्ये तु पदे देवि विष्णुसायुज्यतां व्रजेत् || ५९ || तस्मिन्युक्तमया देवि विष्णुतुल्यपराक्रमः | विद्याशिरस्समाख्यातमङ्गारं नाम नामतः || ६० || ऋकारं हृदयं तस्य कथितं तव शोभने | अघोरं कवचं देवि रुद्रतत्वस्य शोभने || ६१ || ब्रह्मणे विष्णवे यद्वत् तद्वत्कुर्यात्तु देशिकः | आसनेऽयं विधिर्देवि मया ते परिकीर्तिताः || ६२ || अमृता तु शिखा तस्य इकारः परिकीर्तितः | प्. ९४८) विद्याशिरस्समाख्यातं मकारं नाम नामतः || ६३ || आकारं हृदयं तस्य पुरुषं कवचं विदुः | यकारमस्त्रमित्युक्तमङ्गान्येतानि चेश्वरि || ६४ || यो विधी रुद्रतत्वस्य ईश्वरेऽपि तथा स्मृताः | अनन्ता रुद्रतत्वस्य निर्वाणं परमं पदम् || ६५ || ईश्वरे व्योमरूपा तु कथिता तव शोभने | निधनेन तु कर्तव्यं तत्वेन तु सदाशिवे || ६६ || यथा पूर्वं मयाख्यातमत्रापि विधिरेव सः | परमाक्षरं शिखा तस्य शान्त्यतीतं शिरस्मृतम् || ६७ || बिन्दुदेवन्तु हृदयं ईशानं कवचं विदुः | प्. ९४९) शून्यतत्वं हकारस्तु अस्त्रं तत्परिकीर्तितम् || ६८ || सायुज्यं पूर्वमेवोक्तं यथा कुर्यात्तु नान्यथा | एते पञ्चमहायागा नाख्याता कस्यचिन्मया || ६९ || नैष्ठिका ब्रह्मचर्येषु स्थिता भुवि च मानवाः | तेषामुद्धरणार्थाय मया तु कथितं तव || ७० || लिङ्गोद्धारविधिह्येष कथितस्तव सुव्रते | नैष्ठिकानान्तु कर्तव्यं लिङ्गोद्धारं समीरितम् || ७१ || स्वजातीयपदे स्थाप्य ततो दीक्षान्तु कारयेत् | अथवा ब्रह्मविद्ये तु अभियुक्तस्तु साधकः || ७२ || तत्र दीक्षा तु कर्तव्या अभिषेकन्तु शोभने | प्. ९५०) वैष्णवेऽपि तथैवेह कथितं परमेष्ठिना || ७३ || रुद्ररुद्रगणानान्तु साधनं परिकीर्तितम् | गणगुह्यकमन्त्रेषु साधनेनैव साधकः || ७४ || विनायकानां सर्वेषां तत्र दीक्षान्तु कारयेत् | डाकिन्यो मातरश्चैव योगिन्योऽपि तथा पराः || ७५ || अस्मिंस्तु दीक्षितेनैव साधकस्स विधीयते | ईश्वरे पाशुपत्यानां उद्धारे तु विचक्षणः || ७६ || लिङ्गोद्धारविधानन्तु कर्तव्यं देशिकेन तु | शुद्धायुक्तस्तु एतस्मिन् दीक्षितेन मुक्तिमिच्छता || ७७ || सर्वतत्वफलोपेतं सर्वतत्वफलोदयम् | प्. ९५१) यजेद्देवादिदेवेशं सर्वेषां फलमाप्नुयात् || ७८ || एष सर्वोदयो नाम सर्वमुक्तिफलप्रदः | एष ते योग आख्यातः पञ्चव्योमात्मकश्शुभः || ७९ || शिवयागं प्रवक्ष्यामि सर्वयागमनौपमम् | चतुरावरणैर्यागं कर्तव्यं देशिकेन तु || ८१ || पञ्चब्रह्म शिवाङ्गाच्च गर्भमेतदुदाहृतम् | द्वितीयावरणे देवि कला शक्त्यात्मकानि तु || ८२ || दिशासु विन्यसेद्देवि शक्तेस्तु विदिशाः कलाः | नादस्येककला यास्तु दिशासु विदिशासु च || ८३ || य * * *? द कला देवि निन्दोश्चौ तथैव च | एष ते याग आख्यातो दुर्लभस्त्रिदशैरपि || ८४ || सर्वस्वं गोपितं ह्येतत् व्याख्यातं तव शोभने | प्. ९५२) एष सर्वादयो यागाः कथितास्तव शोभने || ८५ || ज्ञात्वा बुध्वा च यष्ट्वा च मुच्यते नात्र संशयः | प्रणवं ह्यासनं कृत्वा मातृकां तु यजेद्बुधः || ८६ || मुक्तिन्तु प्रणवं कृत्वा योजयेत् सुसमाहितः | दक्षिणे योजयेद्बीजं वामे योनिन्तु विन्यसेत् || ८७ || सकलीकरणं ह्येतत् कथितं तव शोभने | अवर्गं पूर्वपत्रे तु कवर्गञ्चाग्निगोचरे || ८८ || चवर्गं दक्षिणे चैव टवर्गं नैऋतेन तु | तवर्गं पश्चिमे चैव पवर्गं वायुगोचरे || ८९ || यवर्गमुत्तरेणैव शवर्गन्त्वीशगोचरे | प्. ९५३) एष वै मातृकायागः कथितं तव शोभने || ९० || अवर्गं प्रथमं तत्वं कवर्गं पुरुषं स्मृतम् | एवं वर्गक्रमेणैव शिवतत्वन्तु मातृकान् || ९१ || ओङ्कारमात्मतत्वन्तु प्रथमं परिकीर्तितम् | रुद्रोङ्कारेण देवेशि विद्यातत्वन्तु कारयेत् || ९२ || निधनेन तु होतव्यं शिवतत्वं समाहितैः | एवन्ते मातृकायागो दुर्लभस्त्रिदशैरपि || ९३ || कथितं सुरहस्यन्तु न मया गोपितं तव | इति निश्वासकारिकायां दीक्षोत्तरे नवमः पटलः || प्. ९५४) देव्युवाच - दीक्षाकाले समुत्पन्ने आचार्यैश्शास्त्र तत्परैः | कथं तस्मिन् प्रदेशे च शिष्यास्स्थाप्या महेश्वर || १ || कस्मिंस्तु यतयस्थाप्या ब्राह्मणाश्च महेश्वर | क्षत्रियाणान्तु यत्स्थानं वैश्यानां वद शङ्कर || २ || शूद्राणां स्थानमाख्याहि स्त्रीणाञ्चैव तथैव हि | ग्रहमेधि यथा कार्यो दीक्षाकाले महेश्वर || ३ || एतत्सर्वं यथान्यायं ब्रूहि मे भक्तवत्सल | ईश्वरः - शृणु देवि प्रवक्ष्यामि नियोगविधिमुत्तमम् || ४ || येन विज्ञातमात्रेण सर्वदोषैर्न लिप्यते | प्. ९५५) ईशान्यां यतयस्थाप्या विप्राश्चोत्तरतः स्थिताः || ५ || शिवाद्दक्षिणतः स्थाप्या क्षत्रवर्णसमुद्भवाः | वैश्याः पश्चिमदिग्भागे शूद्रा वै नैऋतेन तु || ६ || शिवा वायव्यदिग्भागे संस्कारे योजयेत्स्त्रियम् | एवं संस्थाप्य विधिवत् कुर्यादालभनक्रियाम् || ७ || स्वदारापत्यभृत्यात्मा गृहमेधी यदा भवेत् | तस्य संस्कारयोगोऽयमतिरुद्धा समाचरेत् || ८ || प्रणवं विनियुञ्जीयात् गुरवे गृहमेधिने | गृहस्थं शिववद्भावं तद्भार्यामग्निकातनौ || ९ || कुमारं तदपत्यानां सुहृदा मन्त्रनायके | प्. ९५६) दिक्पालैः कुलजान् गृह्यात् शेषानस्त्रगणान्यसेत् || १० || एकाध्वरिकसंस्कारमीहतां गृहमेधिनाम् | सदारापत्यपत्यानां नियोगः परिकीर्तितः || ११ || गृहमेधीमये यागे पुष्पपान्तं विसर्जयेत् | अत्रैव विनियुक्तस्य स्त्रियायानन्तु कारयेत् || १२ || स्वामिने पतितैः पुष्पैः स्त्रियस्वपतये यदा | महादोषमवाप्नोति चर्यायुः परिपाल्यते || १३ || चर्यादोषसमुत्पन्ने जायते गुरुतल्पगः | गुरुतल्पसमं पापं हृष्टसंस्कारपापकृत् || १४ || प्राप्नोति नरकं शिष्यः पर्याया दुहिता क्रिया | प्. ९५७) पुष्पलातचितानस्य क्रिययोः परिपूरणम् || १५ || सर्पिषा होमयेदग्नौ शिवेन तु शताहुतिम् | अनेन विधिना देवि दोषहीनो भवेद्गुरुः || १६ || याग संपूर्णतामेति हुतं मोक्षफलावहम् | ग्रहिणान्तु विधानोऽयं कथितस्तव शोभने || १७ || यतीनामादितः कृत्वा मान्या शिवसंहिता | होमः कार्यस्तु देवेशि आचार्येण महात्मना || १८ || मन्त्राध्ययनयोग्यस्तु शिवहस्तेन जायते | शिवमन्त्रस्य समयी मन्त्रतन्त्रोत्तरो भवेत् || १९ || दीक्षां प्राप्य ममासिध्यो महासिद्धारुहो भवेत् | प्. ९५८) त्रितत्वविनिविष्टस्तु मोक्षयोग्यः प्रजायते || २० || लब्धानुज्ञोऽभिषिक्तस्तु बिन्दुस्थो योगसिद्धिभाक् | प्रत्ययानि यथा सम्यक् अणिमादिगुणाष्टकम् || २१ || नादस्थः समवाप्नोति ततो भयविवर्जितः | विशोकः परमं स्थानं यत्र गत्वा मृती भवेत् || २२ || य एवं वेत्ति तत्वेन गुरुकर्म विनिश्चयम् | स दीक्षां कर्तुमर्हेत अन्यथा पापकृत् भवेत् || २३ || एवं कृत्वा तु विन्यासं शिष्याणान्तु महेश्वरि | अग्निस्थानमुपक्रम्य कर्म निर्वर्तयेद्गुरुः || २४ || अग्निकर्मविधानज्ञो जिह्वालक्षण तत्ववित् | प्. ९५९) सिद्धासिद्धविभागज्ञो वर्णरूपहुताशने || २५ || अग्निस्तु देवतास्सर्वा अग्निरूपो महेश्वरः | तस्य मन्त्राः परा मूर्तिः आद्यं वै सोमसंभवम् || २६ || लक्षयेत्सप्तजिह्वास्तु हुताशनमुखैस्तथा | सप्तजिह्वाविधानज्ञो होमकर्म समारभेत् || २७ || जिह्वाभेदनतत्वज्ञो जुहुयाद्यो हुताशने | यथा दाहरते कर्म तत्सर्वं सफलं भवेत् || २८ || हुत्वास्याग्निं विधानेन पूज्याहुत्य प्रतर्पितम् | तुष्यते यजमानस्य सन्तुष्ठो वृषभध्वजः || २९ || अङ्गुष्ठपर्वविस्तीर्णा बहुहव्येन्धनोचिता | प्. ९६०) एकीभूतास्तु तिष्ठन्ति स्वलहव्येन्धनेन तु || ३० || तत्कुण्डानप्रमाणेन मुखमेतद्धुताशने | ज्वालामालासहस्रैस्तु पातालं वदनं स्मृतम् || ३१ || अग्नेः प्रबोधनं कृत्वा जिह्वानां लक्षयेत्तदा | देवतारूपकञ्चैव फलं तस्यैव यादृशम् || ३२ || पूर्वपश्चिमतो जिह्वा ग्रहास्तत्र प्रतिष्ठिताः | होमकाले प्रयत्नेन द्वे जिह्वे परिवर्जयेत् || ३३ || प्रथमा धर्मजिह्वा तु नीलवर्णेन संस्मृता | द्वितीया यक्षदैवत्या ताम्राकारसमप्रभा || ३४ || तृतीया सोमदेवत्या शुक्ला सा चामृतोद्भवा | प्. ९६१) पञ्चमी विष्णुदेवत्या अतसीपुष्पसन्निभा || ३५ || षष्ठी च सूर्यदेवत्या शुक्ला रक्ता च सा स्मृता | सप्तमी बहुदेवत्या सर्वरूपैस्तु दीप्यते || ३६ || प्रथमा निष्फला जिह्वा द्वितीयार्थप्रदायिका | तृतीया प्रणयेत्सर्वां जननं स्थाप्य सङ्गमान् || ३७ || यमजिह्वा जयं गोत्रं पञ्चमी कुलवर्धिनी | षष्ठी तु सूर्यदेवत्या आरोग्यं सा प्रयच्छति || ३८ || सप्तमी धर्मकामार्थान् ददाति विधिपूजिताः | तस्मात्सर्वप्रयत्नेन मध्ये होमं प्रशस्यते || ३९ || गृहजिह्वा यमजिह्वा पूर्वपश्चिमतस्थिता | ९६२) तस्मात्सर्वप्रयत्नेन द्वे जिह्वे परिवर्जयेत् || ४० || अग्निवर्णा दशप्रोक्ताः कर्मसिद्धिमयावहा | आदित्योदयवर्णाभा स्निग्धवैडूर्यसन्निभा || ४१ || घृतवर्णनिभाश्चैव लोहवर्णास्तथैव च | तप्तायससवर्णाभा कुसंभरससन्निभाः || ४२ || हरितालनिभाश्चैव धूम्रवर्णास्तथैव च | इन्द्रायुधसवर्णाभा इन्दुगोपकसन्निभाः || ४३ || बहुहव्येन्धनैश्चैव स समिद्धे हुताशने | विधूमे लेलिहाने च होतव्यं कर्मसिद्धये || ४४ || अर्चिष्मान् पिण्डितशिखः तप्तकाञ्चनसन्निभः | प्. ९६३) स्निग्धः प्रदक्षिणावर्तस्सर्वकर्मफलप्रदः || ४५ || एवं विज्ञाय विधिवत् गुरुणा साधकस्य तु | संस्कारयोगः कर्तव्यो यथावत्तन्निबोधये || ४६ || कृत्वा सूत्रमयान् पाशान् नवात्मेनाभिमन्त्रितान् | उच्चार्य नवतत्वानि अकारेण तु भेदितान् || ४७ || मूर्ध्नि कण्ठे च हृदये नाभिरूरुः कटिस्तथा | जङ्घे गुल्फे तथा पादे सर्वत्र विनियोजयेत् || ४८ || बाहुभ्यां हस्तयोश्चैव सर्वदेहन्तु वेष्टयेत् | नवात्मनाहुतिशतं स्वाहाकारेण पातयेत् || ४९ || विद्यते न तु देवेशि पश्चाच्छून्येन होमयेत् | प्. ९६४) सान्निध्यबन्धनार्थन्तु एवं भवति शोभने || ५० || बध्वा पाशं यथा न्यायं छेदनञ्च तथोच्यते | योजितव्यं शिवे पश्चात् पुत्रको देशिकेन तु || ५१ || शोधयित्वा महात्मा तु पूर्वोक्तविधिना गुरुः | गर्भाधानादितः कृत्वा चत्वारिंशाष्टकं क्रमात् || ५२ || संस्कारं विधिवत्कृत्वा मन्त्रैः ब्रह्मोद्भवैः क्रमात् | निक्षेपोद्धारयोगादीन् संस्कारांश्च यथाक्रमम् || ५३ || ततश्च्छेदन्तु पाशानां अनेन विधिना भवेत् | नकारसंपुटं देवि पकारोकारयोजितः || ५४ || मस्तकं बिन्दुनाक्रान्तं शिष्यदेहे नियोजयेत् | प्. ९६५) शिवेन सह देवेशि नात्रकार्या विचारणा || ५५ || अतिगुह्यमिदं देवि नाख्यातं कस्यचिन्मया | एष सर्वविधानन्तु श्रेष्ठसर्वगुणोत्तमम् || ५६ || सर्वसंहितसामान्यं कथितन्तु तवाखिलम् | इति निश्वासकारिकायां दीक्षोत्तरे दशमः पटलः | देव्युवाच - भगवन् श्रोतुमिच्छामि मातृकाध्वानमुत्तमम् | निस्संशयकरञ्चैव निर्वाणफलसाधनम् || १ || ईश्वरः - प्. ९६६) शृणु देवि परं गुह्यं कथयामि तवाखिलम् | तेन विज्ञातमात्रेण प्राप्नोति परमं पदम् || २ || मातृकायान्तु होतव्यमध्वानन्तु यथाक्रमम् | षकारं शतरुद्रे तु दशधा परिकल्पयेत् || ३ || पञ्चाष्टके शकारन्तु वकारो योनिरष्टके | योगाष्टके यकारस्तु सुशिवेरं प्रभुस्मृतः || ४ || पङ्क्तित्रये यकारस्तु मकारं पञ्चविंशके | भकारस्संहितस्साध्ये बकारश्शिवसङ्करे || ५ || असाध्ये तु फकारो वै वकारो हरिरुद्रके | दशघाते नकारस्तु पञ्चशिष्ये च य स्मृतः || ६ || प्. ९६७) महादेवे दकारस्तु थकारो गोपति स्मृतः | शिवब्रह्मपदे तन्तु णकारो नन्दहेमके || ७ || ढकारस्याद्दृषिकुले महामाया दृढप्रभुः | वागेशान्ते ठकारस्तु टकारः प्रतिपाधिपः || ८ || साधुस्थाने तृकारस्तु झकारो विमले स्थितः | ध्यानाहारे झकारो वै विज्ञेयं साधकोत्तमैः || ९ || दमने फस्तु विज्ञेयं चकारञ्चैव रुद्रके | धातारो वै दकारश्च घकारं भस्ममीश्वरे || १० || प्रणवाष्टगकारन्तु महविद्याष्टके च खम् | ककारो मूर्तिरष्टासु ओष्ठान्तो रूपकं विदुः || ११ || प्. ९६८) शक्तित्रये बिन्दुयुतं द्वे विद्ये औ तु कीर्तितम् | ओङ्कारोप्यस्त्रमित्युक्तमैङ्कारं कवचं विदुः || १२ || ए शिखा तु समाख्याता शिरं रूकार उच्यते | हृदयन्तु ऌ विज्ञेयं ऋ सावित्री निगद्यते || १३ || गायत्री तु ऋकारन्तु धर्मादि ऊ प्रकीर्तितम् | आसने उ इति ज्ञेयं विज्ञेयं ई ति कर्णिका || १४ || इकारः शक्तिसंसक्तः आकारं पञ्चमीश्वरे | सदाशिवं विजानीयादकारः परमश्शिवः || १५ || पञ्चाशदक्षरैह्येतैः अध्वानं यस्तु विन्दति | स ज्ञानात् स शिवस्साक्षात् स योगी स शिवं विदुः || १६ || प्. ९६९) पञ्चपञ्चभिराहुत्यैर्दशभिर्दशभिस्तथा | विंशविंशतिभिश्चैव पञ्चविंशतिभिस्तथा || १७ || पञ्चाशच्च शतञ्चैव ज्ञात्वा शक्तिबलाद्बलम् | दीक्षाकार्या तु मन्त्रज्ञः पशूनाञ्च यथेच्छया || १८ || निष्कले चतुराहुत्या शून्ये चैव त्रयं पुनः | प्रशान्तेन द्वयं दद्यात् तत्तु एकाहुतिं हुनेत् || १९ || सर्वाध्वानमशेषस्य एष एव विधिस्मृतः | एतद्रहस्यं परमं गोपितं न प्रकाशितम् || २० || दीक्षिताय प्रशान्ताय अभिषिक्ताय धीमते | गुरुप्रियाय दातव्यं शिवभक्तिरताय च || २१ || प्. ९७०) अन्यथा नैव दातव्यं शिवभक्तिरताय च | अन्यथा नैव दातव्यं दीक्षाज्ञानमिदं शुभम् || २२ || सर्वसंहितसामान्यं सर्वतन्त्रेषु चोत्तमम् | विदित्वा ज्ञानविज्ञानं मोचयेन्मुच्यतेति च || २३ || विस्तरं कथितं यत्तु सकलेन तु होमयेत् | वर्णमन्त्रपदेनैव कलया च चतुर्विधम् || २४ || भुवनाध्वा कलाध्वा च तत्वाध्वा च वरानने | ज्ञानाध्वा च पदाध्वा च वर्णाध्वा च यथा पुनः || २५ || षट् प्रकारमिदं देवि अध्वानं परिकीर्तितम् | एषामेकदशं शोध्यं देशिकेन महात्मना || २६ || प्. ९७१) पूर्णाहुतिस्तु दातव्या योजनाय परे शिवे | वसोर्धारप्रयोगेन दातव्यं देशिकेन तु || २७ || मन्त्रद्रव्यप्रयोगेन युज्यते पशु तत्पदे | तस्मान्मन्त्रञ्च तत्वञ्च महिमानञ्च शोभने || २८ || देवतानां परित्यागं स्वशरीरे यथाक्रमम् | बिन्दुनादलयञ्चैव लयातीतं परं पदम् || २९ || एवं क्रमेण देवेशि योजयेत्परमं पदम् | अतः संक्षेपतो देवि कथयामि तवाखिलम् || ३० || न रजो नाधिवासञ्च न भूक्षेत्रपरिग्रहः | यत्र यत्र प्रदेशे तु पूजयित्वा महेश्वरम् || ३१ || प्. ९७२) अध्वानं मनसा ध्यात्वा आचार्यस्तन्त्रपारगः | भुवनाध्वा तु यः प्रोक्तो मया तु तव सुवृते || ३२ || तं ध्यात्वाह्यात्मदेहे तु पशुदेशे तथैव च | होमयेत्तन्त्रवित्प्राज्ञः तत्वमार्गविचक्षणः || ३३ || आहुतीनां सहस्रन्तु अमनस्केन देशिकः | सहस्रेण तु युध्येत अमनस्केन शोभने || ३४ || भुवनाध्वैष विख्यातः शिवेन परमात्मना | स्रुवानुपूरणं यावत्तावत्कालं समादिशेत् || ३५ || अमनस्केन संयुक्तो देशिकः परमेश्वरि | सर्वमन्त्रमयः प्रोक्तः सर्वतत्वमयस्तथा || ३६ || प्. ९७३) सर्वदेवमयश्चैव सर्वभूतमयस्सदा | एतं हुत्वा तु पातव्यं पूर्णाहुत्या तु शोभने || ३७ || अन्ते तु योजनं कृत्वा शिवसायुज्यमिच्छता | एवं हुत्वा महादेवि लभते शाश्वतं शिवम् || ३८ || सर्वदीक्षामयं सारं शोभनं गोपितं मया | अन्याया कथिता दीक्षा एकाहुत्या तु शुध्यति || ३९ || एकाहुत्यापि देवेशि नियुज्येत्परमे पदे | किं पुनर्बहुधा हुत्या शुध्यतेति किमद्भुतम् || ४० || आहुतीनां सहस्रेण शुध्यते नात्र संशयः | अत एवं पुनर्वक्ष्ये संक्षेपं शृणु सुव्रते || ४१ || प्. ९७४) परमाक्षरेण होतव्यं सर्वाध्वानमशेषतः | पूर्णाहुतिशतेनैव शुध्यते च शिवाध्वरे || ४२ || एवं विधेन देवेशि दीक्षा निर्वाणगामिनी | निष्कलेन मया ख्यातं शून्येनैव तथा पुनः || ४३ || प्रशान्तेन समाख्यातं तत्वेनैव तथैव च | अकथ्येयमिदं शुद्धं गोपनीयं प्रयत्नतः || ४४ || एवं वै यो न जानाति न हि मोचयते पशुम् | न चासौ देशिकः प्रोक्तो न च योज्यः शिवाध्वरे || ४५ || इति निश्वासकारिकायां दीक्षोत्तरे शिवयागपटलः एकादशः | प्. ९७५) ईश्वरः - अतः परं प्रवक्ष्यामि सकलं परमेश्वरि | यस्मिन् प्रतिष्ठितं सर्वं त्रैलोक्यं स चराचरम् || १ || सिद्धयो विविधाश्चैव यस्मिन् देवि प्रतिष्ठिताः | स ज्ञेयस्सकलो देवो वर्णरूपधरः प्रभुः || २ || सितरक्तञ्च कृष्णञ्च कपिलं नालमेव च | पीतस्वच्छकपोतञ्च शबलं कर्बुरं तथा || ३ || मूर्धा चतुः पञ्चवक्त्रं दशबाहुं त्रिलोचनम् | सर्वायुधधरं शंभुं जटाभारविभूषितम् || ४ || पद्मासनस्थं देवेशं ध्यायेत्सकलविग्रहम् | सर्वसिद्धिकरं देवं साधकानां न संशयः || ५ || प्. ९७६) उत्तिष्ठे चातर्वामे च पादलेपाञ्जने तथा | गुलिकाकाशगमने दन्तकाष्ठपरित्रके || ६ || सर्वसिद्धिकरं देवं मनसा यद्यदीप्सितम् | सर्वं संपद्यते सम्यक् जपतः सकलं प्रिये || ७ || ध्यायतः सकलं देवं तस्य सिद्धिर्न दूरतः | पूजयेत्सकलं देवं जपेत्सकलनिष्कलम् || ८ || ध्यायेज्ज्योतिर्मयं सूक्ष्मं कलाभिन्नन्तु तर्पयेत् | पूजयेच्छकलं देवं शिरः पाण्यादिभिर्युतम् || ९ || पञ्चमूर्ध्नि तु संयुक्तं पूजाकाले सदा स्मरेत् | जपकाले सदा देवं कुर्याच्छकलनिष्कलम् || १० || प्. ९७७) सकलं मन्त्ररूपन्तु कलारूपन्तु निष्कलम् | ध्यायेज्ज्योतिर्मयं सूक्ष्मं रक्तं पीतं सितासितम् || ११ || एवं ध्यानपरो भूत्वा योगसिद्धिमवाप्नुयात् | तर्पणे सर्वमन्त्राणां स्वाहाकारसमन्वितम् || १२ || वौषट्कारवषट्कार सुवौषट्कारमेव च | हुंकारः फट्कृतश्चैव द्विरभ्यस्तं भवेदिव || १३ || सुवषट्स्वाहा नमश्चैव ज्ञात्वा कर्मणि योजयेत् | स्वाहाकारे यदाभिन्नो प्रतिष्ठा नाम सा कला || १४ || हुत्वा मात्रनिवृत्तिश्च प्रतिष्ठादि सभेदिता | विद्याबिन्दुसमायुक्ता शान्तिस्तु स विसर्गतः || १५ || प्. ९७८) तर्पणं सर्वमन्त्राणां कथितं तव शोभने | साधकानां हितार्थाय शिवेन कथितं पुरा || १६ || विपरीता कला या तु मरणोच्चाटने स्मृता | उच्चाटने च विद्वेषस्तंभने च प्रयोजयेत् || १७ || सकलं देवदेवेशि कथितन्तु समासतः | पञ्चतत्वमयं देवं सर्वतत्वमयं तथा || १८ || सर्वभूतमयञ्चैव सर्वतः पर्यवस्थितम् | यस्मिन् यस्मिंश्च देवेशि ज्ञायते सु परिस्फुटम् || १९ || तदहं संप्रवक्ष्यामि तन्मे निगदतः शृणु | सप्ततत्वपरं देवि तत्वमेकादश प्रभुम् || २० || षोडशावयवमात्मानं एकविंशात्मकं प्रभुम् | प्. ९७९) षट्त्रिंशात्मा तु विज्ञेयं कलातत्वं स एव तु || २१ || मातृकात्मा तु विज्ञेयमेकाशीति पदात्मकम् | मन्त्रात्मा तु स विज्ञेयो भुवनाध्वा स एव तु || २२ || पञ्चविंशः स विज्ञेयः सांख्यानां परमेश्वर | षट्त्रिंशकस्सविज्ञेयः ईश्वरः परमेश्वरः || २३ || वेदान्तविदुषैश्चैव गीयते परमेश्वरः | पञ्चरात्रं तु तत्वज्ञैः स एव परिकीर्तितः || २४ || वैमलाकारकश्चैव तथा पाशुपताश्च ये | बौद्धश्चार्हताश्चैव न्यायवैशेषिकास्तथा || २५ || इतिहासपुराणज्ञा धर्मशास्त्रपरायणाः | प्. ९८०) सर्वे मोक्षविदो देवि स्वसंज्ञाप्रतिपादिताः || २६ | सेवन्ते देवदेवेशं वेदवेदाङ्गपारगाः | स एव कथितो हंसः सकलः परमेश्वरि || २७ || तिष्ठते देवदेवेशि सकलः कलसंयुतः | शक्तिनादार्धचन्द्रश्च बिन्दुदेवस्तथैव च || २८ || अकारश्च उकारश्च वर्णस्सकलस्मृतः *? | एष देहे समाख्यातः सकलस्य विनिर्णयः || २९ || अथवाचान्यभेदेन सकलः परमेश्वरः | कथयेद्देवदेवस्य तन्निबोध समासतः || ३० || विकारः प्रथमः प्रोक्त अकारस्तद्वितीयकः | प्. ९८१) उकारस्तु तृतीयस्तु मकारस्तु चतुर्थकम् || ३१ || पञ्चमो बिन्दुनादस्तु ईकारः षष्ठ उच्यते | एभिर्वणैर्यदा हीनं निष्कलं परमेश्वरम् || ३२ || अकारेण भकारेण इकारेण तु शोभने | त एते संस्थितैकस्थो हुकारः परिकीर्तितः || ३३ || तुष्टा या तु यदा युक्तो मकारः परिकीर्तितः | यदा बिन्दुगतो शंभुः नासिकायां प्रवर्तते || ३४ || ककारान्तं विजानीयात् तिरोधयति योगिनाम् | नाभिवर्णैर्यदा हीनं तदा शून्यं विनिर्दिशेत् || ३५ || आकारश्च हकारश्च ईकारस्सह संयुतः | प्. ९८२) अकारः कथितो देवि बिन्दुनादपरे स्थितः || ३६ || तस्यापि परतरेणैव शक्तिस्तु परिकीर्तिता | शक्त्यातीतं यदा देवि किञ्चिच्छेषमवस्थितम् || ३७ || व्यापिनी सा विनिर्दिष्टा सार्णो यद्वत्पिपीलिका | सकलानुग्रहेणैव कथितं तव शोभने || ३८ || सकलाल्लभते सर्वं यत्किञ्चिद्भुवि दुर्लभम् | एष देवि समाख्यातो देहे यस्मात्प्रतिष्ठिता || ३९ || स योगेन समायुक्तः उच्चारः स तु कीर्तितः | देहयुक्तस्तु देवेशे सकलः परिपठ्यते || ४० || ब्रह्माविष्णुस्तथारुद्र ईश्वरश्च सदाशिवः | प्. ९८३) ईकारसहसंयुक्तं देहं तस्य वरानने || ४१ || एतत्त्यक्तो यदात्मा तु निष्कलस्स तु पठ्यते | कथितं पूर्वसूत्रे तु तत्त्वया विदितं पुरा || ४२ || स्वयं निष्क्रमते देवो देहं त्यक्त्वा स मारुतः | निष्कलस्स समाख्यातो वेदितव्यः सुशोभने || ४३ || पञ्चदेव विनिर्मुक्त आत्मानं यत्तु विन्दति | आत्मज्ञानेन संयुक्तो गच्छते स सदाशिवे || ४४ || ऊर्ध्वगामी कलाह्येका कलाशक्ति चतुष्टयम् | व्यापिन्या तु यदायुक्तं षड्वर्णरहितश्शिवः || ४५ || शुद्धस्फटिकसंकाशं विद्युत्कोटिसमप्रभम् | प्. ९८४) असंख्यानञ्च सूर्याणां उदितोदितसुप्रभम् || ४६ || ऊर्ध्वगामी तदेतद्धि कथितं तव शोभने | तत्स्थाने तु यदाह्यात्मा तद्रूपः प्रतिभाति सः || ४७ || सूक्ष्मा नामकला या तु शुद्धस्फटिकनिर्मला | तस्यां मध्ये तदाह्यात्मा तद्रूपः प्रतिभाति सः || ४८ || अमृता नाम कला या तु अनेककिरणप्रभा | तस्मिंस्थाने तदाह्यात्मा तद्रूपप्रतिमो भवेत् || ४९ || अमृतामृतेति या प्रोक्ता तस्या रूपं यथा शृणु | चन्द्रातपप्रतीकाशा अमृतं स्रवते सदा || ५० || अमृतामृतेति सा प्रोक्ता कलाशक्तिचतुर्थिका | प्. ९८५) तत्स्थाने तु तदाह्यात्मा तद्रूपः प्रतिभाति सः || ५१ || एतत् षड्वर्णमुद्दिष्टं मया ते वरवर्णिनी | एभिर्वर्णैर्यदाहीनं षड्वर्णरहितश्शिवः || ५२ || एवं ज्ञात्वा वरारोहे देशिकः पाशहा भवेत् | षट्पदार्थमिदं ज्ञानं कथितं परमेष्ठिना || ५३ || एतत्स्थानवरं दिव्यं ज्ञात्वाह्यात्मा प्रकीर्तितः | येन येन च ते तत्तत् भावाभावमवाप्नुयात् || ५४ || स्फटिकोपलवद्देवि आत्मा तु परिकीर्तितः | यद्यद्रूपेण संयुज्येत् तद्रूपं प्रतिभाति च || ५५ || रूपवर्णविनिर्मुक्तः करणेन्द्रियवर्जितः | प्. ९८६) तस्मात्करणसंयुक्तो बध्यते मुच्यतेति च || ५६ || बुध्यमानो परो भूत्वा ज्ञान यज्ञं स विन्दति | ज्ञानेन तल्लयं ज्ञेयं ज्ञेयं सर्वगतो भवेत् || ५७ || ज्ञानज्ञेयः सदाह्यात्मा ज्ञात्वा मुच्येत मोचयेत् | ज्ञात्वा ह्यात्मा विनिर्दिष्टो ज्ञानज्ञेयं स जानते || ५८ || विदित्वा मुच्यते जन्तुः संसारभवबन्धनात् | एवन्ते ज्ञानमाख्यातं षड्वर्णं परमेश्वरि || ५९ || एतेषां परतो देवि अरूपाख्यो निरामयः | न तस्य शक्यते वक्तुं पारंपर्येण संस्थितम् || ६० || तं विदित्वा महादेवि दीक्षकस्स गुरुर्भवेत् | प्. ९८७) ज्ञानविज्ञानवान् सो हि मोचकस्स गुरुस्सदा || ६१ || स चानुग्रहकर्ता च पाशहा देशिकोत्तमः | ब्रह्मादयस्मृतास्ते तु ये रूपाः कथिता मया || ६२ || व्यापिनी तु पराशक्तिः सर्वतत्वप्रबोधिका | एतद्देवि मया ख्यातं तत्वं परमदुर्लभम् || ६३ || त्वया गुह्यतरं कार्यं न दद्याद्यस्य कस्यचित् | सकलं निष्कलञ्चैव तथा सकलनिष्कलम् || ६४ || ब्रह्माविष्णुस्तथा रुद्रस्त्रिभिस्तु सकलस्मृतः | बिन्दुदेवं परं तत्वं ज्ञेयं सकलनिष्कलम् || ६५ || सदाशिवं महात्मानं विज्ञेयं निष्कलं शिवम् | प्. ९८८) आत्मतत्वे त्रयो देवा विद्यातत्वे तथैव च || ६६ || शिवतत्वेऽथवा देवि विज्ञेयस्तु सदाशिवः | शक्तिस्तु परमा देवि त्रितत्वपरमा स्थिता || ६७ || सर्वतत्वपदातीतः तत्वानां योऽव्ययः परः | तस्मात् सर्वमिदं देवि ततो सर्वमिदं ततम् || ६८ || इति निश्वासकारिकायां दीक्षोत्तरे सकलविचारो नाम द्वादशः पटलः | देव्युवाच- भगवन् श्रोतुमिच्छामि सकलस्य विनिर्णयम् | व्याप्तिर्बहुविधा प्रोक्ता समया नावधारिता || १ || प्. ९८९) पञ्चदेवमयं देवं कथं नु सकलः प्रभुः | सर्वतत्वमयञ्चैव सर्वभूतमयं कथम् || २ || सप्ततत्वधरं देवं तत्वमेकादशात्मकम् | षोडशावयवात्मानं एकविंशात्मकं कथम् || ३ || षट्त्रिंशात्मकमेवोक्तं कलातत्वस्स एव तु | मातृकात्मेति यत्प्रोक्तं एकाशीति पदात्मकम् || ४ || मन्त्रात्मा सर्वमन्त्राणां भुवनाध्वा स एव तु | पञ्चविंशसविज्ञेयः षड्विंशकस्तथैव च || ५ || वेदान्तवादिनो देवस्त्वमेव परमेश्वरम् | पाञ्चरात्रिकतत्वज्ञः स एव परमं पदम् || ६ || प्. ९९०) वैमलाकारकाश्चैव तथा पाशुपताश्च ये | सर्वेषु संस्थितं देवं सकलः परमेश्वरः || ७ || बौद्धाश्चैवार्हताश्चैव न्यायवैशेषिकास्तथा | इतिहासपुराणज्ञा धर्मशास्त्ररताश्च ये || ८ || सर्वमोक्षविदो ये तु वेदवेदाङ्गपारगाः | सेवन्ते देवदेवेशं सकलं परमेश्वरम् || ९ || एतदेव त्वया प्रोक्तं न मया विदितः प्रभो | सर्वमेतदशेषन्तु विस्तरेण ब्रवीहि मे || १० || स्वकीयान्तत्र युक्त्या तु ब्रूहि देव सविस्तरम् | ईश्वरः - प्. ९९१) शृणु देवि प्रवक्ष्यामि सकलस्य विनिर्णयम् || ११ || अनुक्रमेण वक्ष्यामि चोदितस्तु यथा त्वया | पञ्चदेवमयं देवि ब्रह्मविष्णुमहेश्वराः || १२ || ईश्वरञ्च तथा प्रोक्तं तथा देवं सदाशिवम् | पञ्चदेवा स्मृता ह्येते सर्वतः पर्यवस्थिताः || १३ || अकारं ब्रह्मदेवत्यं मकारं रुद्रदेवतम् | ऊकारं विष्णुदेवत्यं बिन्दुदेवं तथेश्वरम् || १४ || नादरूपी तु यत्तस्य विज्ञेयन्तु सदाशिवम् | सकलं निष्कलञ्चैव कलाढ्यं शून्यमेव च || १५ || खमलं क्षपणञ्चैव क्षयं कण्ठोष्ठ्यमेव च | प्. ९९२) एते भूतास्समाख्याताः करणैः सहसंयुताः || १६ || विकाराष्षोडश प्रोक्ताः सप्तप्रकृति सूक्ष्मगाः | गुणत्रयं तथा देवि भूतात्मकमिदं स्मृतम् || १७ || भूताः प्रकाशमायान्ति तेन भूतात्मका स्मृताः | भूतैः परिवृता यस्मिन् करणाशेषशोभने || १८ || एतद्भूतात्मकं सर्वं कथितं तव शोभने | विद्याचेश्वरमाया च कालो नियतिरेव च || १९ || पुरुषः प्रकृतिश्चैव सप्तैते कथितानि तु | ईश्वरस्तु शिरश्चैव विद्यादक्षिणरेखिणी || २० || मायावामेन विज्ञेया त्रिलोका च संस्थिताः | प्. ९९३) नियतिः कालोऽधस्तात्तु बोद्धव्यमनुपूर्वशः || २१ || पुरुषं वक्त्रदेशे तु तस्याधः प्रकृतिस्थिता | सप्ततत्वधरं देवमेष ते समुदाहृतम् || २२ || तत्वमेकादशात्मेति यदुक्तं हि मया पुरा | शृणुष्वावहिता देवि कथयामि तवाखिलम् || २३ || सप्ततत्वोपरिष्ठात्तु ज्ञेयं तत्वं सदाशिवम् | उपरिष्टाच्छिवं तत्व मूर्ध्वशक्तिप्रतिष्ठितम् || २४ || व्यापिनी तु परा तस्य तत्वमेकादशात्मकम् | षोडशावयवात्मानं यदुक्तं हि मया पुरा || २५ || कखाख्या षोडशा देवि ज्ञातव्या देशिकेन तु | प्. ९९४) तृटिर्लवं निमेषस्तु कलाकाष्ठा मुहूर्तता || २६ || रात्र्यहः पक्षमासर्तु अयनं वत्सरं तथा | युगं मन्वन्तरं कल्पं महाकल्पस्तथैव च || २७ || षोडशावयवं ह्येतत् कालस्सप्तदश स्मृतः | षट्त्रिंशात्मेति यत्प्रोक्तं शृणु तस्य वदाम्यहम् || २८ || पृथिवीमादितः कृत्वा प्रधानान्तं तु सुव्रते | चतुर्विंशति तत्वं हि पुरुषं पञ्चविंशकम् || २९ || षड्विंशकस्तु नियतिः कालः सप्ताधिको भवेत् | अष्टाविंश स्मृतं रागं विद्या ज्ञेया तथा परा || ३० || ऊनत्त्रिंशस्तु विज्ञेयं देशिकेन महात्मना | प्. ९९५) त्रिंशतस्तु कलातत्वं कथितं हि शिवेन तु || ३१ || एकत्रिंशद्वरारोहे मायातत्वं प्रकीर्तितम् | द्वात्रिंशकस्मृता विद्या त्रयस्त्रिंशाधिकेश्वरम् || ३२ || सदाशिवं चतुस्त्रिंशत् पञ्चत्रिंशच्छिवास्मृता | शिवष्षट्त्रिंशमाख्याता शिवेन परमात्मना || ३३ || षट्त्रिंशात्मा समाख्यातो यथावत्तव शोभने | कला चतुर्थी सा ज्ञेया देशिकेन महात्मना || ३४ || प्रथमं पञ्चब्रह्माणमष्टत्रिंशत्क्रमात् स्मृतम् | सद्या कलाभिरष्टाभिः वामदेवस्त्रयोदशम् || ३५ || अघोरमभिचाष्टाभिः चतुर्भिर्वदनं स्मृतम् | प्. ९९६) ईशानं पञ्चधा देवि तस्य देहाद्विनिस्सृताः || ३६ || ब्रह्मादीन् पञ्चधा **? पञ्चब्रह्मा प्रकीर्तिताः | बिन्दुदेवे च चत्वारः कला देवि वदाम्यहम् || ३७ || निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च | कलाह्येतास्तु चत्वारः स एव परमेश्वरः || ३८ || नादस्य याः कला प्रोक्ता शक्त्यायाश्च महेश्वरि | सूक्ष्मासूक्ष्मतरैर्भावैः सकलः परमेश्वरः || ३९ || कलातत्वं सचैवेह कथितं तव शोभने | मातृकात्मेति यत्प्रोक्तं मया ते सुरसुन्दरि || ४० || अकारादिक्षकारान्ता मातृका परिकीर्तिताः | प्. ९९७) स कामस्य तु देवेशि देहो ज्ञेयास्सदा बुधैः || ४१ || प्रणवे संस्थिता तस्मिन् ज्ञातव्या तु वरानने | एकाशीति पदात्मे तु यदुक्तं परमेश्वरि || ४२ || नवभेद विभागेन कथितं विदितं त्वया | मन्त्रात्मा तु क्रिया प्रोक्तः स एव परमेश्वरः || ४३ || कला षोडशमित्युक्तं सर्वतन्त्रेषु गीयते | ताभ्यो बिन्दुद्वयमन्ते ताभ्यां ते अलिकद्वयम् || ४४ || बिन्दुद्वयस्य मध्ये तु एकं मध्ये नियोजयेत् | द्वितीया बिन्द्वधस्तात्तु मन्त्रात्मा स तु कीर्तितः || ४५ || स जीवः सर्वमन्त्राणां कथितं तव शोभने | प्. ९९८) तेन सर्वमिदं देवि त्रैलोक्यं स चराचरम् || ४६ || व्यापितं परमेशेन नात्र कार्या विचारणा | तिर्यङ्मृगनराख्यानां स जीवः परिकीर्तितः || ४७ || तेन सर्वमिदं व्याप्तं पयसीव यथा घृतम् | सर्वेषामेव मन्त्राणां कथितं तव शोभने || ४८ || एतत् ज्ञानपरं देवि अविज्ञातं सुरैरपि | संज्ञेयस्सर्वमन्त्रेषु सर्वतन्त्रेषु शोभने || ४९ || उच्छवसेद्देव देवेशे हंसः परमकारणम् | एष ते ज्ञानसद्भावं मन्त्रसद्भाव एव च || ५० || मन्त्रसद्भावमित्युक्तं जीवसद्भावमुत्तमम् | प्. ९९९) गोपितव्यं प्रयत्नेन ज्ञानमेतत्सुदुर्लभम् || ५१ || अविदित्वा इदं देवि जीवसद्भावमुत्तमम् | नैव मन्त्राः प्रसिध्यन्ति जप्ताः कोटिशतैरपि || ५२ || गीयते सर्वलोकेषु जीवं परमदुर्लभम् | सुभाषितमिदं वाक्यं कलानार्हन्ति षोडशी || ५३ || यस्मात्परतरं देवि ज्ञानज्ञेयं वरानने | सर्वस्वं गोपितं ज्ञातं न ख्यातं यस्य कस्यचित् || ५४ || देयं दान्ताय शान्ताय गुरुभक्तरताय च | सर्वतन्त्रविधिज्ञाय साधकाय च धीमते || ५५ || अभिषिक्ताय दातव्यमाचार्यस्य महात्मनः | प्. १०००) अन्यायै गृह्यते ये तु नाभिनन्दन्ति ये गुरुम् || ५६ || ज्ञेनं ज्ञेयं विदित्वा तु प्रायश्चित्तीयते नरः | तस्मात् ज्ञानं गुरुञ्चैव अ * * * * *? वृते || ५७ || ज्ञानवित् तत्वविच्चैव शिवश्चैव वरानने | विभक्तिञ्चैव कुर्वीत परमेशेन भाषितम् || ५८ || एष ते कथितं देवि मन्त्रात्मा परमेश्वरः | विदित्वा सर्वकर्माणि कुरु देवि यथेच्छया || ५९ || सर्वतन्त्रेषु सामान्यं कथितं तव शोभने | नातः परतरं ज्ञानं सत्यं देवि वदाम्यहम् || ६० || भुवनाध्वा स एवोक्तः सकलः परमेश्वरः | प्. १००१) तत्प्रवक्ष्याम्यहं देवि संक्षेपान्न तु विस्तरात् || ६१ || पञ्चधा पञ्चदेवत्वं सकलं पर्यवस्थितम् | ते मया पूर्वमाख्यातं यथा तु विदितं त्वया || ६२ || अनन्तमादितः कृत्वा प्रधानान्ते च शोभने | ब्रह्मा तत्राधिपत्येन संस्थितं परमेश्वरि || ६३ || पौरुषमादितः कृत्वा कलातत्वमपश्चिमम् | विष्णुस्तत्वाधिपत्येन संस्थितं परमेश्वरि || ६४ || ग्रन्थ्या तु आदितः कृत्वा कलातत्वमपश्चिमम् | रुद्रस्तत्वाधिपत्येन संस्थितः परमेश्वरः || ६५ || विद्या तु आदितः कृत्वा यावत्तत्वं सदाशिवम् | प्. १००२) ईश्वर आधिपत्येन संस्थितो नात्र संशयः || ६६ || उपरिष्टाच्छिवं तत्वं तत्र देवं सदाशिवम् | व्यापिनं पञ्चधा देवि भुवनाध्वमशेषतः || ६७ || पञ्चविंशति तत्प्रोक्तं मया पूर्वं वरानने | तदहं संप्रवक्ष्यामि तदेकाग्रमना शृणु || ६८ || परिसंख्यानुपूर्वेण संक्षेपात्कथयाम्यहम् | पृथिव्यापस्तथा तेजो वायुराकाशमेव च || ६९ || कर्मेन्द्रियस्तथा पञ्चपञ्च बुद्धीन्द्रियाणि च | तन्मात्राणि तथा पञ्च कतितं तव शोभने || ७० || बुद्धिर्मनस्वहङ्कारं प्रधानं सहसंयुतम् | प्. १००३) चतुर्विंशत् स्मृतं क्षेत्रं क्षेत्रज्ञः पञ्चविंशकः || ७१ || स एष परमो देवि क्षेत्रभुक् कारणं स्मृतम् | व्यक्ताव्यक्तविज्ञानात् ज्ञात्वा कुच्यति बन्धनात् || ७२ || व्यक्ता बुद्धिस्समाख्याता अव्यक्ता प्रकृतिः स्मृता | ज्ञस्वभावो भवेदात्मा पुरुषं पञ्चविंशकम् || ७३ || तुर्यरूपस्वभावस्थं स एष परमं पदम् | निष्क्रियं तत्स्वभावेन अकर्ता कर्मणः प्रभुः || ७४ || कर्ता प्रधानमित्याहुः क्षययुक्तं गुणान्वितम् | एवं वदन्ति देवेशि षष्टितन्त्राध्ववादिनः || ७५ || महदादिक्रमेणैव भूतादिविधिवाचकैः | प्. १००४) विषयेन्द्रियतन्मात्रैः गुणादिविधिवाचकैः || ७६ || प्रकृतिस्सा तु विज्ञेया भेदैर्नामाङ्गलक्षणैः | भोक्ता तु पुरुषः प्रोक्तः चिन्मात्रो गुणवर्जितः || ७७ || पञ्चविंशकमित्युक्तं सांख्यज्ञानार्थवादिभिः | निष्कलत्वेन मन्यन्ते सर्वज्ञं सर्वतोमुखम् || ७८ || निर्गुणं गुणसंयुक्तं चिन्त्यते सांख्यवादिभिः | इत्येतत्पौरुषं तत्वं सांख्यानां परमं पदम् || ७९ || अस्य दोषं शृणु देवि स्वसिद्धान्ते यथा भवेत् | यैर्बद्धः पशुतानैति अज्ञत्वञ्च प्रजायते || ८० || भोक्तृत्वा नित्यता चैव अकर्ता निष्क्रयस्तथा | प्. १००५) अर्थित्वं पारतन्त्रञ्च धर्माष्षट् पौरुषास्त्विमे || ८१ || भोक्ता यस्स अतृप्तस्तु मर्त्यधर्मा अनित्यता | निष्क्रयत्वादुदासीनो अकर्ता अज्ञता पुनः || ८२ || मध्यस्थता पराशीति पारतन्त्र्यदरिद्रता | धर्माह्येते स्मृतास्तस्य मातृकैः प्रतिपादिताः || ८३ || सर्वज्ञता न च तस्य निर्गुणत्वं न चैव हि | निष्कलत्वं न तस्यैव शक्त्याग्रकलना श्रुतः || ८४ || गुणैस्सुप्रतिबद्धस्तु मुक्तिस्तस्य न शाश्वति | किञ्चित्कालं भवेन्मुक्तिः प्रधानगुणबन्धनात् || ८५ || स्वाकयं भावं कला तस्य चैतन्येन समन्विता | प्. १००६) रोगमानन्दभावेन विद्याह्यर्थविवेकिनी || ८६ || त्रिविधं बन्धनाख्यातं पुरुषस्य महात्मने | मायात्मकमिदं देवि अधोभागप्रवर्तकम् || ८७ || एष ते देवि आख्यातः सांख्यज्ञानस्वनिर्णयम् | सकलं व्यापयित्वा तु संस्थितं तन्तु सुव्रते || ८८ || षड्विंशेति यथा प्रोक्तं मया पूर्वं हि सुवृते | तदहं संप्रवक्ष्यामि तदेकाग्रमनाः शृणु || ८९ || कलाधस्तात्कर्मकला पुरुषः परिकीर्तितः | नराणां नयने सूक्ष्मे योगी नारायणेश्वरः || ९० || सा निष्ठा वेदवादीनां योगिनाञ्च निगद्यते | प्. १००७) स चैव पठ्यते तैस्तु षडूर्मिरहिता तनुः || ९१ || वदन्ते नैव जानन्ते अन्यार्थेन वदन्ति ते | अस्मिन्नेव शृणु देवि षडूर्मिरहितं यथा || ९२ || ब्रह्माविष्णुस्तथा रुद्रो ईश्वरश्च सदाशिवः | शक्तिना रहितं देवि षडूर्मिरहितं शिवम् || ९३ || मूलतत्वं समाख्यातं विज्ञानानन्दकारकम् | नेति नेति च हंसाख्यं परमं ब्रह्मवाचकम् || ९४ || इदं तत्त्परमं तत्वमिदं तत्परमं पदम् | इदं सा परमामुक्तिः या सा वेदविदो ध्रुवम् || ९५ || त्रिप्रकारेण भेदेन योगिभिः समुदाहृतम् | प्. १००८) आत्मानमन्तरात्मानं परमात्मानमेव च || ९६ || एवं त्रिधा वदन्त्येव हंकारं तथापरे | बुद्धिमन्ये तथा देवि प्रधानगुणगोचरम् || ९७ || पञ्चविंशञ्च षड्विंशं वेदमन्ये तथा परे | बद्धा वदन्ति बहवः ऋषयस्संशितव्रताः || ९८ || एकं तत्सकलं देवमुपास्यं विदिवौकसः | ऋषयो यक्षरक्षांसि पिशाचोरगकिन्नराः || ९९ || गन्धर्वासुरदैत्याश्च तथा विद्याधरादयः | सिद्धाश्चैव तथा देवि ये चान्ये भुवि मानवाः || १०० || ह्रस्वं दीर्घं कृशं सूक्ष्मं सूक्ष्मात्सूक्ष्मतरं तथा | प्. १००९) स्थूलात्स्थूलतरं देवं कल्पयन्ति मनीषिणः || १०१ || अरूपं रूपवान् देवं कल्पयन्ति अनेकधा | हरितं कपिलञ्चैव मञ्जिष्ठः सगरेव च || १०२ || बभ्रुः पिङ्गः कपोतश्च धूम्रश्शबलकं तथा | श्यामं तदुलमान्त्रन्तु आपबद्धे च पुष्करे || १०३ || खद्योताभनिभञ्चैव तारामात्रं तथैव च | चन्द्रबिंबनिभं केचित् आदित्योदयसन्निभम् || १०४ || इन्द्रनीलनिभञ्चैव पद्मरागनिभं तथा | एवं बहुविधं देव सकलं परमेश्वरि || १०५ || सकलं सर्वविद्यानां आधारं परिकीर्तितम् | प्. १०१०) अस्मात्प्रभूयते सर्वमस्मिन्नेव लयं पुनः || १०६ || अस्मात्सिद्धिश्च मुक्तिश्च संस्थिता नात्र संशयः | उत्तिष्ठमादितः कृत्वा विद्वेषाकर्षणं तथा || १०७ || करोति साधकेन्द्रस्तु यस्तत्वं जपते सदा | किं तस्य बहुभिर्मन्त्रैः ज्ञातैस्तु वरवर्णिनी || १०८ || चिन्तामणिरिव परं तत्वं सकलं सर्वतोमुखम् | यागे यागे जपे होमे यथा सिध्यन्ति योगिनः || १०९ || यथा च यजनं कुर्यात् शृणु देवि समासतः | यागस्थं सकलं देवं शिरः पाण्यादिलक्षणम् || ११० || त्र्यक्षं दशभुजं देवं सर्वायुधधरं तथा | प्. १०११) एवं जपं तथा ध्यायन् पूजयेत्परमेश्वरम् || १११ || न रूपेण विना सिद्धिः तस्माद्रूपं विचिन्तयेत् | चिन्त्यमानस्य देवेशे सर्वविघ्नक्षयो भवेत् || ११२ || निर्विघ्नस्सिध्यते मन्त्री कथितं सर्वतो मया | योगकाले तथा देवि ध्यातव्यं सकलं प्रिये || ११३ || पूर्वमुच्चारयेत्तत्वं सकलं यत्प्रकीर्तितम् | बिन्दुस्थं शब्दलीनन्तु ज्योतीरूपं शिखान्वितम् || ११४ || ध्यानकाले तु योगीभिः ध्यातव्यं सकलं सदा | जपकाले जपं कुर्यात् एवं सकलनिष्कलम् || ११५ || नमस्कारस्य अन्ते तु ज्ञेयं बिन्दुद्वयं बुधः | प्. १०१२) बिन्दुद्वयात्परो देवि स वै निष्कलमुच्यते || ११६ || होमकाले यथा होमः कर्तव्यः साधकेन तु | स्वाहाकार समायुक्तं होमकाले तु होमयेत् || ११७ || प्रतिष्ठा नाम सा ज्ञेया बिन्दुदेवकला प्रिये | तया होमविकल्पस्तु कर्तव्यन्तु सदा बुधैः || ११८ || *? ने बिन्दुसमायुक्तं मन्त्रं कुर्याद्विचक्षणः | शान्त्यर्थे वौषडित्येवं पुष्ट्यर्थे नमसुवौषट् || ११९ || अमृतीकरणे चैव वषट्कारेण होमयेत् | मारणे ताडने चैव इच्छा देवि विचक्षणम् || १२० || फट् फट्कार समायुक्तं होमं कुर्याज्जपं तथा | प्. १०१३) एवं विज्ञाय कर्तव्यं जपयोगं समाधिना || १२१ || अन्यथा नैव सिध्येत कल्पकोटिशतैरपि | सकलं जपमानस्तु निष्कलं जपितं भवेत् || १२२ || निष्कलं जपते यस्तु सकलस्योपरि स्थितम् | अचिराद्देवि सिद्ध्येत परमेशेन भाषितम् || १२३ || नैव पुण्यं भवेत्तस्य नैव पापं कथञ्चन | कथितं स रहस्यन्तु न मया गोपितं तव || १२४ || त्वयापि देवदेवेशि गोपनीयं न संशयः | अन्याये पृच्छते यस्तु गुरुवुत्क्रान्तिगोचरम् || १२५ || तस्य देवि न दातव्या आज्ञैषा परमेश्वरि | प्. १०१४) धर्मशीलविनीतस्य गुरुभक्तस्य धीमते || १२६ || ज्ञानमेतत्प्रदातव्यं ममाज्ञापरिपालके | तस्माच्छ्रेयार्थिभिर्नित्यं पूजनीयो गुरुस्सदा || १२७ || इति निश्वासकारिकायां दीक्षोत्तरे सकलविचारो नाम त्रयोदशः पटलः || ईश्वरः - अतः परं प्रवक्ष्यामि अधिवासनमुत्तमम् | तिथिनक्षत्रयोगाश्च इतरानुकूलमेव च || १ || तारा चन्द्रकलेनैव कुर्याद्भूमिपरिग्रहम् | प्. १०१५) पूर्वेण ब्रह्मणे कुर्यात् क्षत्रियस्योत्तरेण तु || २ || वैश्यस्य वसुधा पीता कृष्णा शूद्रस्य कीर्तिता | ब्राह्मणे मधुरास्वादा कषाया क्षत्रियस्य तु || ३ || वैश्यस्य षड्डूसा ज्ञेया शूद्रस्य कटुका स्मृता | आज्यगन्धाद्विजे भूमीरक्तगन्धा तु क्षत्रिये || ४ || धान्यगन्धाविशे भूमी शूद्रस्य क्षारगन्धिनी | परीक्ष्य निपुणो भूमिं वारयोगविधानवित् || ५ || पूजयित्वा विधानज्ञो रिक्तां राशिगणैस्सह | होराद्द्रेक्काणि अंशाश्च तारा चैव बलाबलम् || ६ || प्. १०१६) लौकिकं धार्मिकाश्चैव कलज्ञानविचक्षणः | यदि स्याल्लौकिको देवि कालज्ञानं न जानति || ७ || तदात्वाध्यात्मिकं कालं परीक्षेत विचक्षणः | ततस्संपूज्य देवेशं लक्षयेच्च क्रमाद्बुधः || ८ || दिव्यान्तरिक्षभौमानि प्रञ्चान्तरिनितराणि च | लक्षयित्वा विधानेन आचार्यस्सुसमाहितः || ९ || शङ्घदुन्दुभिनिर्घोषैः वेदशब्दादिमङ्गलैः | गीतवाद्यरवोद्घोषं जयशब्दसमन्वितम् || १० || सिंहनादरवञ्चैव कुमारीजनक्रीडनम् | भौमान्येतानि शब्दानि अन्तरिक्षाः प्रकीर्तिताः || ११ || प्. १०१७) मेघस्तनितनिर्घोषं मेघसञ्जनमंबरम् | स्निग्धविद्युल्लतारम्यं सर्वसंपत्करं शुभम् || १२ || प्रशान्तानि तु गृह्णीयात् अप्रशस्तानि वर्जयेत् | काकवृद्धचलोलूकश्वानमार्जारकूजितम् || १३ || उष्ट्रगर्दभशब्दानि वानरं ऋक्षसूकरम् | एतेषाञ्चैव यश्शब्द प्रशस्तन्तु शोभने || १४ || पूजति ग्रहचक्रे तु सङ्क्रमाद्गृह्य यत्नतः | खातयेज्जानुमात्रन्तु पांसुमुद्धृत्य पूरयेत् || १५ || पांसुरभ्यधिको यत्र सा भूमिः सर्वकामदा | ज्ञात्वा भूमिर्विधानज्ञो वास्तुयागं यजेद्बुधः || १६ || प्. १०१८) विद्याङ्गावरणं यष्ट्वा हुनेदष्टशतं क्रमात् | वास्तुयाग स्मृतो ह्येषः ततो भूम्यां विशोधनम् || १७ || शोधयित्वा ततो भूमिं कीटकेशास्थिवर्जिताम् | सेचयेत्पञ्चगव्येन तां भूमिं सुपरीक्षिताम् || १८ || प्रशस्ततरमुद्भूतैः पलाशाश्वत्थमुद्गरैः | कोष्टयेत् सुदृढां भूमिं निम्नोन्नतविवर्जिताम् || १९ || पर्वोत्तरप्लुवा कार्या यागभूमिस्सुशोभना | समं सर्वत्र कर्तव्यं भूमिभागमिदं शुभम् || २० || एवं कृत्वा विधानेन परितः परिवारयेत् | पुरुषाया न कर्तव्यमिष्टकं मृण्मयञ्च वा || २१ || प्. १०१९) द्वारमेकन्तु कर्तव्यं सकवाटार्गलान्वितम् | एवं कृत्वा ततो देवि विष्णुभूमिपरिग्रहम् || २२ || गणयागं यजेदादौ ततो भूमिपरिग्रहम् | पञ्चाङ्गञ्च शिवं यष्ट्वा जुहुयादष्टशतं क्रमात् || २२ || गणयागे त्रिकोणन्तु मण्डलं पद्मलाञ्छितम् | पीठोङ्कारसमायुक्तं पूजयेत गणेश्वरम् || २४ || वास्तुयागे चतुष्कोणं मध्ये पङ्कजभूषितम् | भूम्यां परिग्रहोह्येष कथितं तव शोभने || २५ || अधिवासनं ततः कुर्यात् शास्त्रदृष्टेन कर्मणा | संभारैः संभृतो मन्त्री अधिवासनमारभेत् || २६ || प्. १०२०) अष्टौ तु कलशान् कुर्याद्दिशासु विदिशासु च | एवं विन्यस्य यत्नेन शिवाख्यं कलशं न्यसेत् || २७ || हेमजं ताम्रजं वापि ऋग्मजं वापि कारयेत् | अथवा मृण्मयं वापि कारयेत विचक्षणः || २८ || अकालमूलकलशाश्चन्दनेनोपलेपितम् | सु सुगन्धैस्तथा गन्धैः कण्ठसूत्रविभूषितम् || २९ || अक्षतैः पञ्चगव्येन धूपैर्गन्धैस्तथैव च | आसनं कल्पयेत्तत्र ईशान्यादिशमाश्रितम् || ३० || कलशं स हिरण्यन्तु मूर्तिना सहसंयुतम् | पञ्चब्रह्मा न्यसेत्पूर्वं अष्टत्त्रिंशत्कलां ततः || ३१ || प्. १०२१) पृथिवीमादितः कृत्वा तत्वानि परिकल्पयेत् | एवं विन्यस्य तत्वानि त्रितत्वांस्तु त्रिधा न्यसेत् || ३२ || विद्याङ्गानि ततो दद्यान्नेत्रादि क्षुरिका न्यसेत् | एवं विन्यस्य यत्नेन शिवस्यावाहनं कुरु || ३३ || सद्येनावाहयेद्देवं वामदेवेन स्थापयेत् | अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु || ३४ || ईशानेन तु पुष्पाणि शिवस्य परिकल्पयेत् | हृदये हृदयं दद्यात् शिरः शिरसि विन्यसेत् || ३५ || शिखायान्तु शिखा दद्यात् कवचं सर्वगात्रिकम् | अस्त्रं हस्तप्रदेशे तु विन्यस्य परमेश्वरि || ३६ || प्. १०२२) एवं विन्यस्य देवेशि चिन्तयेच्छिवमव्ययम् | मन्त्रातीतं परं देवं तत्वातीतं परं पदम् || ३७ || अनेन विधिना पूज्य सकलं परमेश्वरि | अस्त्रं जप्त्वा ततो देवि विकिरान् सर्वतो दिशि || ३८ || विकिरेन्मन्त्रविच्चैव पञ्चगव्यं ततः पुनः | गन्धोदकेन संशोध्य कलशं भ्रामयेत्ततः || ३९ || वर्धन्यामस्त्रजप्तायां जपन्नस्त्रन्तु भ्रामयेत् | अच्छिन्नोदकधारान्तु दद्यात् बाह्ये तु मन्त्रवित् || ४० || चतुरस्रं तस्य मध्ये तु दर्पणञ्चैव बाह्यतः | वर्धनीमग्रतो गच्छेत् कलशं तस्य पृष्टतः || ४१ || प्. १०२३) शिवन्तु जपतश्चैव आचार्येण समन्वितः | भ्रामयित्वा ततो देवि पुनस्तत्रैव स्थापयेत् || ४२ || स्थापयित्वा ततो मन्त्री अर्घ्यं दद्यात्ततः पुनः | स्थण्डिलन्तु ततो गच्छेत् विधिना पूजयेत्ततः || ४३ || शिवं पूज्य ततो देवि गच्छेन्मन्त्र्यनलं पुनः | आग्नेययां दिशि आश्रित्य अग्निकुण्डन्तु कारयेत् || ४४ || हस्तमात्रप्रमाणन्तु कुण्डं कुर्यात्त्रिमेखलम् | चतुरङ्गुलमेकैका ह्रस्वा ह्रस्वतरा स्मृताः || ४५ || एवं कृत्वा विधानेन प्रोक्ष्या स्त्रेण विचक्षणः | उल्लेखनन्तु तेनैव उद्धृत्याभ्युक्षयेत् पुनः || ४६ || प्. १०२४) अवकुण्डन्तु अस्त्रेण गायत्र्यावोपलेपयेत् | उपलेपिते तु पश्चात् कुर्याद्रेखोपकल्पनम् || ४७ || रेखत्रयन्तु कर्तव्यं पूर्वपश्चिमतश्शुभम् | एका उत्तरतः कार्या दक्षिणायतमुत्तरा || ४८ || वज्र एष समाख्यातो द्रढीकरणमुत्तमम् | विष्टरं कुण्डमध्ये तु वागीश्वर्याः प्रकल्पयेत् || ४९ || नीलोत्पलदलश्यामां ध्यात्वा रूपवतीं शुभाम् | तस्मिन् ततो मन्त्री ऋतुमतीं विचिन्तयेत् || ५० || ताम्रपात्रे शरावे वा आनयेज्जातवेदसम् | अभ्यर्च्य पञ्चभिर्मन्त्रैः विद्याङ्गैश्च यथाक्रमम् || ५१ || प्. १०२५) अवकुण्ठनं तु कर्तव्यं कवचेन विचक्षणः | त्रिधा कुण्डन्तु तं भ्राम्य हृदयेन विधानवित् || ५२ || प्रक्षिपेद्योनिमार्गेण हेतिभूतं विचिन्तयेत् | गर्भाधानं प्रतिमन्त्री सद्येन तु त्रिधा हुतिः || ५३ || पुं प्रशान्ते त्रयं दद्यात् आहुतीनान्तु मन्त्रवित् | अर्घ्यं पाद्यं ततो दद्यात् गर्भाधानं कृतं भवेत् || ५४ || वामे पुंसुवनं कार्यं दद्यान्मन्त्री त्रयाहुतिः | रुद्राण्या तु त्रयं दद्यात् कृतं पुंसुवनं भवेत् || ५५ || अघोरेण त्रयं दद्यात् सीमन्तोन्नयनं बुधः | त्रयो ब्रह्मशिरेणैव अर्घ्यं पाद्यं ततः पुनः || ५६ || प्. १०२६) वक्त्रपञ्चकसंयुक्तं वक्तृनिष्कृतिमेव च | वक्त्रोद्घाटन्तु कुर्यादानुपूर्वेण मन्त्रवित् || ५७ || सद्याद्या ईशपर्यन्तं दद्यादाहुतयस्त्रयः | एकेनैव तु मन्त्रेण जुहुयान्नत्र संशयः || ५८ || अस्त्रेण निष्कृतिं कुर्यात् वक्त्राणान्तु वरानने | आहुतीनां त्रयं दद्यात् वक्त्रे वक्त्रे न संशयः || ५९ || उद्घाटन्तु तत्वेन दद्याद् वै आहुतित्रयम् | उद्घाटिते ततो वक्त्रे जातकर्मन्तु होमयेत् || ६० || आहुतीनां त्रयं मन्त्री दद्यात् तत्पुरुषेण तु | अस्त्रेणैव त्रयं दद्यात् आहुतीनां वरानने || ६१ || प्. १०२७) एवं हुते ततो मन्त्री जातकर्म कृतं भवेत् | जातकर्म कृते पश्चात् रक्षां कुर्याद्विचक्षणः || ६२ || पूर्वेण ब्रह्मा तत्रैव विन्यसेत् * * * * * ? | दक्षिणे रुद्रदेवत्यं कल्पयेद्विष्टरोपरि || ६३ || पश्चिमे विष्णुदेवत्यं कल्पयेत् स विष्टरम् | उत्तरेण शिवस्यैव कल्पयेत यथाक्रमम् || ६४ || एवं कृत्वा ततो मन्त्री नामकर्मन्तु कारयेत् | ईशानेन तु होतव्यं नामकर्म विचक्षणः || ६५ || कवचेन तथैवेह जुहुयादाहुतित्रयम् | हुत्वा ह्येवं ततो देवी शिवाग्निर्जनितो भवेत् || ६६ || प्. १०२८) संस्कारसिद्धिहेत्वर्थं पूर्णाहुत्या तु पातयेत् | संस्कारेण यदा शुद्धं अग्निमाहुत्य सुवृते || ६७ || चरुं श्रुपेत मन्त्रज्ञा विधिदृष्टेन कर्मणा | साङ्गेन देवदेवेन पञ्चब्रह्मयुतेन च || ६८ || सकलीकृत्य तां स्थालीं शिवं तत्रैव विन्यसेत् | त्रितत्वं विन्यसेत् पूर्वं शिवं तत्त्वात्तु विन्यसेत् || ६९ || घृतदिग्धान्तु तां कृत्वा क्षीरपूर्णाञ्च कारयेत् | यवगोधूमनीवारैश्शालिषष्टिकतण्डलैः || ७० || कङ्गुनावाथ कुर्वीत चरुकं सु समाहितः | मध्यमं पाकसंयुक्तं पाचयेत विचक्षणः || ७१ || प्. १०२९) यदा स्विन्नं विजानीयात् तदा तमवतारयेत् | चालनं घट्टनालेपं कुर्यादेकादशेन तु || ७२ || तप्ताभिधारणञ्चैव तथा भूताभिधारणम् | एकादशात्मदेवेन जुहुयादाहुतित्रयम् || ७३ || संपाताभिर्हुतञ्चैव कृत्वा मन्त्री विचक्षणः | विभागभाजितं कृत्वा चरुकं मन्त्रसंस्कृतम् || ७४ || भागं देवाय कल्पेत द्वितीयं होमकर्मणि | तृतीयं साधकेभ्यश्च पञ्चगव्यपुरस्सरम् || ७५ || विधिना कल्पितं देवि दद्याद्वक्त्राभिमन्त्रितम् | गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् || ७६ || प्. १०३०) अभिमन्त्र्य सर्वमन्त्रैस्तु अमृतत्वं शिवेन तु | पञ्चगव्यन्तु कर्तव्यं विधिनाऽनेन सुवृते || ७७ || आशु शुद्धिमतो वक्ष्ये शृणुष्व कथयामि ते | आज्याधिश्रयणं कुर्यादुद्वास्योप्लवनं ततः || ७८ || संप्लावनं ततः पश्चात् कुर्याच्चाप्यवद्योतनम् | नीरायणं ततः कुर्यात् आज्यशुद्धिं विधानवित् || ७९ || गायत्र्या कारयेत्सर्वमाज्यसंस्कारकं शोभने | संस्कारैश्शोधिते आज्ये आज्यभागन्तु होमयेत् || ८० || दक्षिणेनोत्तरेणैव मध्यदेशे तथैव च | ओं अग्नये नमः | ओं सोमाय नमः | ओमग्नीषोमाभ्यां नमः | प्. १०३१) ओमग्नये स्विष्टकृते नमः | आज्यभागविभागन्तु कथितं तव शोभने || ८१ || शुद्धे आज्ये ततो मन्त्रं बिन्दुं बिन्दुन्तु प्रक्षिपेत् | आज्यशुद्धिविधिर्ह्येषः कथितन्तु यथाक्रमम् || ८२ || आज्ये शुद्धे ततो देवि कुर्याद्वक्त्राभिधारणम् | सद्यादि ईशपर्यन्तमेकैकाहुतयो हुनेत् || ८३ || वक्त्राभिधारणं ह्येष कथितं वै शिवेन तु | अनेन सर्वकर्माणि कर्तव्यानि तु देशिकैः || ८४ || आज्याधिश्रयणे ब्रह्मा पूर्वं तत्रैव चिन्तयेत् | उद्वासने तु गायत्री उत्प्लवने विष्णुदैवतम् || ८५ || प्. १०३२) संप्लवेचैवमित्युक्तं रुद्रं तत्रैव चिन्तयेत् | अवद्योतस्वरो ज्ञेयो देशिकेन महात्मना || ८६ || निरात्मने तथा देवि स्वयं देवस्सदाशिवः | अभिमन्त्र्य समन्त्रैस्तु शिवं तत्रैव चिन्तयेत् || ८७ || सावित्र्या बिन्दुबिन्दुन्तु सर्वमाज्येषु प्रक्षिपेत् | कर्ममन्त्रप्रयोगेन अधिदेवैश्च संयुतम् || ८८ || सर्वकर्मप्रसिध्येत साधकस्य न संशयः | आसनं कल्पयेत्तत्र विधिदृष्टेन कर्मणा || ८९ || हृन्मध्ये कल्पयेद्देवि आसनं तव संज्ञितम् | अनन्तं विन्यसेत्पूर्वं धर्मज्ञानं तथैव च || ९० || प्. १०३३) नवशक्तिं तथा देवि कर्णिकापद्मसन्धिषु | अकारं विन्यसेद्देवि कर्णिकायां वरानने || ९१ || आदित्यमण्डलं तेन चिन्तयेत् सुसमाहितः | ह्रस्वोङ्कारसमायुक्तं सोममण्डलकल्पितम् || ९२ || उकारो ह्रस्वं देवेशि अग्निमण्डलमुत्तमम् | आकारं ब्रह्मदेवत्यमादित्यस्याधिदैवतम् || ९३ || इकारं विष्णुदेवत्यं सोममण्डलदैवतम् | उकारं रुद्रदैवत्यमग्निमण्डलदैवतम् || ९४ || एवं विन्यस्य यत्नेन मूर्तिं तत्रैव विन्यसेत् | ईश्वरेण समायुक्तं विन्यसेत वरानने || ९५ || प्. १०३४) बिन्दुस्तु ईश्वरो ज्ञेय आत्मा हंसः प्रकीर्तितः | न्यस्या तु देवदेवेशि पञ्चब्रह्माणि विन्यसेत् || ९६ || आदित्यं सोममग्निञ्च न्यस्तमात्मनि सुवृते | आत्मतत्वे तु वक्तव्यमात्मा तु परमेश्वरि || ९७ || ईशानः पुरुषेणैव अघोरेण तु सुवृते | वामदेवेन सद्येन लक्षमात्रं प्रकीर्तितम् || ९८ || अष्टत्रिंशत् कलाभिस्तु शिरोवक्त्रन्तु कल्पयेत् | अङ्गप्रत्यङ्गसंयुक्तं कर्तव्यं सुसमाहितैः || ९९ || सद्योजातकलाभिस्तु स्थिरत्वं परिकल्पयेत् | पञ्चमूर्धानमीशेन पूर्वादारभ्य मन्त्रतः || १०० || प्. १०३५) क्रमेण कल्पयेद्देवि ईशानस्य कला बुधैः | वक्त्रे तत्पुरुषस्यैव कलानि परिकल्पयेत् || १०१ || पूर्वमादिक्रमेणैव सकलं मूर्ध्नि विन्यसेत् | अघोरस्य कलां देवि हृदयादिविनिर्दिशेत् || १०२ || हृदि ग्रीवा च अंसौ च नाभौ च जठरे तथा | पृष्ठेह्युरसि मन्त्रज्ञ अघोरस्य कला न्यसेत् || १०३ || वामस्य गुह्यदेशे तु विन्यसेत यथाक्रमम् | गुदे चैव तु लिङ्गे च ऊरुभ्यां जानुनी तथा || १०४ || जङ्घे स्फिजौ च कट्याञ्च पादपार्श्वौ च तावुभौ | गुह्याङ्गक्रमयोगेन वामदेवकला न्यसेत् || १०५ || प्. १०३६) पादौ हस्तौ च नासायां शिरश्चैव भुजावुभौ | सद्योजातकला देवि सद्यः सर्वत्र मूर्तिषु || १०६ || एवन्तु सकलीकृत्य तत्वानि परिकल्पयेत् | तत्वान्यष्टादशं देवि नवतत्वान्यथापि वा || १०७ || पञ्चतत्वानि देवेशे तथा षट्तृंशमेव च | पञ्चतत्वानि विन्यस्य त्रितत्वमुपरि न्यसेत् || १०८ || विद्याङ्गानि ततो दद्यात् शिवस्यावाहनं कुरु | आवाहिते ततो देवि अङ्गानि परिकल्पयेत् || १०९ || हृदये हृदयं दद्यात् शिरे चैव शिरो न्यसेत् | शिखायान्तु शिखां दद्यात् कवचं सर्वगात्रकम् || ११० || प्. १०३७) अस्रं हस्तप्रदेशे तु विन्यसेत शुभानने | आवाहयेत सद्येन वामदेवेन स्थापयेत् || १११ || अघोरेण तु सान्निध्यमर्घ्यं तत्पुरुषेण तु | ईशानेन तु पुष्पाणि मकुटं कुण्डलानि च || ११२ || ईशानं मध्यतो दद्यात् पूर्वे तत्पुरुषं न्यसेत् | अघोरं दक्षिणेनैव वामदेवं तथोत्तरे || ११३ || सद्योजातन्तु देवेशे पश्चिमेन तु विन्यसेत् | आग्नेययां हृदयञ्चैव ईशान्यान्तु शिरो न्यसेत् || ११४ || नैऋत्यान्तु शिखां दद्यात् वायव्यां कवचं तथा | अस्त्रं द्वारप्रदेशे तु विन्यसेत यथा बुधः || ११५ || प्. १०३८) गर्भावरणमेतत्तु द्वितीयावरणं शृणु | अनन्तं पूर्वतो दद्यात् सूक्ष्मं दक्षिणतो न्यसेत् || ११६ || शिवोत्तमं तथा देवं पश्चिमेन तु विन्यसेत् | एकनेत्रोत्तरेणैव विन्यसेत सदा बुधः || ११७ || ईशान्यामेकरुद्रस्तु त्रिमूर्तिं ह्यग्निगोचरे | श्रीकण्ठं नैऋतेनैव शिखण्डिं वायुगोचरे || ११८ || द्वितीयावरणं ह्येवं कथितं तव शोभने | तृतीयावरणं देवि शृणुष्व कथयामि ते || ११९ || ऐन्द्रीन्तु दिशमाश्रित्य इन्द्राद्यास्तु यथाक्रमम् | एवं विन्यस्य यत्नेन चतुर्थेऽस्त्राणि विन्यसेत् || १२० || प्. १०३९) यष्ट्वा एवं विधं देवि दीक्षां कुर्वीत मन्त्रवित् | पूर्वोक्तेन विधानेन कुर्वीत विधिविस्तरम् || १२१ || अपरेऽहनि देवेशे यजेच्छण्डेश्वरं गुरुः | पञ्चाङ्गेन समायुक्तमर्धचन्द्रपुरोत्तरे || १२२ || त्रिभागहोमं कृत्वा वै विज्ञाप्यैवं महेश्वरम् | समयाष्टकदोषस्य कृतं होमं मया तव || १२३ || एवं विज्ञापयेद्देवि देशिकस्तु महात्मनः | समयाष्टकदोषेण साधकेनैव लिप्यते || १२४ || हुते चण्डेश्वरे पश्चात् गुरुपूजान्तु कारयेत् | पूजयेत्तद्गुरुं प्राज्ञो यथा विभवविस्तरैः || १२५ || प्. १०४०) ग्रामैर्हिरण्यगोश्वाद्यैः देशदानैस्तथैव च | कर्णिकाकटकेयूरैः पूजयेत सदा गुरुम् || १२६ || येन येन च सन्तुष्टः तत्तद्दद्यात्तु देशिकः | निवेदयेत्तदात्मानं तदा तु निनृणो भवेत् || १२७ || सर्वसंहितसामान्यं कथितं तव शोभने | षड्विधं यजते यस्तु आचार्यः सुसमाहितः || १२८ || तेन तुष्टेन तुष्टास्तु अशेषभुवनाधिपाः | शिववत्पूजयेद्देवि आचार्यं तत्वपारगम् || १२९ || यथाहं तादृशस्सोहि गुरुस्तत्वविशारदः | इति निश्वासकारिकायां दीक्षोत्तरे अधिवासनः पटलः चतुर्दशः | प्. १०४१) ईश्वरः - शरीरं सर्वजन्तूनां सर्वदेवमयं स्मृतम् | वेदितव्यं प्रयत्नेन साधकैस्तत्वचिन्तकैः || १ || तत्वानि चोदितान्यादौ मया तु तव शोभने | शरीरे तानि सर्वाणि ज्ञातव्यानि विपश्चितैः || २ || इडा चैव सुषुम्ना च पिङ्गला च तथैव हि | नासां सञ्चारयोगं वै ज्ञातव्यं तत्ववेदिभिः || ३ || कलानाञ्चैव सर्वासां नाडीनां वायुभिस्सह | सञ्चारं ह्येष तत्वानां भोक्ता भोज्यं तथैव च || ४ || प्. १०४२) कालवेलविभागानि सङ्क्रमानि तथैव हि | ज्ञात्वा सर्वमशेषेण साधकस्सविधीयते || ५ || दक्षिणेन सुषुम्ना तु यदा वहति सुवृते | विज्ञेयस्स सदा तज्ज्ञो उत्तरायणमुत्तमम् || ६ || इडायान्तु यदा देवि तिष्ठते परमेश्वरः | दक्षिणायनमित्येव कथितं तव सुवृते || ७ || मध्यस्थन्तु यदा देवि पिङ्गलायां व्यवस्थितः | विषुवं स तु विज्ञेयं योगकालः प्रकीर्तितः || ८ || सुषुम्नायां स्थितो ब्रह्मा अकाराक्षरसंयुतः | आदित्यः स तु विज्ञेयो ज्येष्ठा शक्तिः प्रकीर्तिता || ९ || प्. १०४३) ज्ञानशक्तिरिति ज्ञेया सत्वस्थं तं विनिर्दिशेत् | सांग्रत्स्थानं स विज्ञेयं दक्षिणेन व्यवस्थितः || १० || इडायां संस्थितो विष्णुरीकाराक्षरसंयुतः | सोमस्य तु स तु ज्ञेयो वामा शक्तिः प्रकीर्तिता || ११ || क्रियाशक्तिः स विज्ञेयो राजसं गुणलक्षणम् | स्वप्नस्थानं स विज्ञेयं वामतस्तु व्यवस्थितम् || १२ || मध्यमं रुद्रमित्याहुः उकारः परिकीर्तितः | रौद्री तन्तु विजानीयादिच्छाशक्तिः प्रकीर्तिताः || १३ || वह्निस्थानं हि यत्प्रोक्तं सुषुप्तं परिकीर्तितम् | तामसन्तु विजानीयात् मध्यमे तु व्यवस्थितम् || १४ || प्. १०४४) त्रिकालविषयं ज्ञानमेभ्यो देवि प्रकीर्त्यते | भूतं ब्रह्म विजानीयात् भविष्यं वैष्णवे पदे || १५ || वर्तमानं हि रुद्रत्वे सर्वशास्त्रे प्रतिष्ठिते | त्रिकालमेकतो देवि बिन्दुदेवं व्यवस्थितम् || १६ || सार्वकालं स*? वोक्तं ज्ञानकालस्वत स्मृतः | तस्यातीतं भवोन्नादं देवदेवं सदाशिवम् || १७ || त्रिकालज्ञानसंयुक्तं ज्ञात्वा भवति साधकः | पञ्चधा पञ्चदेवत्यं सकलं व्याप्य संस्थितम् || १८ || अनन्तमादितः कृत्वा प्रधानान्ते तु सुवृते | ब्रह्माणमाधिपत्येन वेदितव्यं प्रयत्नतः || १९ || प्. १०४५) पौरुषमादितः कृत्वा कालतत्वमपश्चिमम् | ज्ञातव्यं हि तत्वज्ञैः विष्णुस्तत्राधिदैवतम् || २० || ग्रन्थिन्तु आदितः कृत्वा विद्यातत्वमपश्चिमम् | विज्ञेयं तत्सदा तज्ज्ञैः रुद्रस्तत्राधिदैवतम् || २१ || ईश्वरमादितः कृत्वा यावत्तत्वं सदाशिवम् | ज्ञातव्यन्तु वरारोहे ईशस्तत्राधिदैवतम् || २२ || उपरिष्टाच्छिवं तत्वं तत्र देवं सदाशिवम् | एतत्सर्वमशेषेण ज्ञातव्यं देशिकेन तु || २३ || सर्वेषामेव तत्वानां शिवो व्याप्य व्यवस्थितः | ज्ञात्वा सर्वमशेषेण आचार्यस्स विधीयते || २४ || प्. १०४६) निवृत्तिः कथितो ब्रह्मा प्रतिष्ठा विष्णुरुच्यते | विद्या रुद्रस्समाख्यातः शान्तिरीश्वर उच्यते || २५ || शान्त्यतीतन्तु देवेशि देवदेवं सदाशिवम् | नादस्यैव क्रमेणैव देवता कथिता मया || २६ || इण्डिका दीपिका चैव रेचिका मोचिका तथा | *? नास्तु पञ्चमो ज्ञेयो निष्कलस्तु सदाशिवः || २७ || ब्रह्माणमादितः कृत्वा ज्ञातव्यानि वरानने | सूक्ष्मान्यायेन मया प्रोक्ता देवता ते प्रकीर्तिताः || २८ || एताः कलाः समाख्याताः देवता नाडयस्तथा | ज्ञातव्यं तत्वतो देवि साधकेन महात्मना || २९ || प्. १०४७) कलानां देवतानाञ्च व्यापयित्वा व्यवस्थितः | सञ्चारं कुरुते देवि स तु आत्मा विजानतः || ३० || अष्टतत्वा स्मृता देवि यैर्व्याप्तमखिलं जगत् | तस्मिंस्तैस्तु समायुक्तसञ्चरेत् परमेश्वरः || ३१ || तिर्यङ्मृगनराख्येषु तत्वभावेन्द्रियेषु च | इष्टसेत्सर्वभूतेषु तत्वैर्युक्तो न संशयः || ३२ || गमागमं ततो देवि विदित्वा साधको भवेत् | अविदित्वा न सिध्येत न च याति परं पदम् || ३३ || भोज्यं भोक्ता च दाता च तत्वैर्युक्तः करोति यः | देव्युवाच - प्. १०४८) भगवन् श्रोतुमिच्छामि भोक्ता भोज्यञ्च शङ्कर || ३४ || पानं पिबति कस्तत्र स्वादं गृह्णाति कः पुनः | को वा क्षिपति गर्भे तु ग्रासं गृह्णाति कः प्रभो || ३५ || रसानां विविधानान्तु विचारयति कः पुनः | एतत्सर्वमशेषेण कथयस्व प्रसादतः || ३६ || ईश्वरः - शृणु देवि प्रवक्ष्यामि समासात्साधकस्य तु | येन विज्ञातमात्रेण अन्नदोषे न लिप्यते || ३७ || दाता भोक्ता च मन्ता च सादाख्यपदमाप्नुयात् | अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः || ३८ || प्. १०४९) स्थितस्सर्वशरीरेषु भुङ्क्ते चैव ददाति च | यो विजानाति कर्तारं भोक्ता भोज्यञ्च हे प्रिये || ३९ || श्वपचेष्वपि भुञ्जानो न स पापे न लिप्यते | तत्वानि मनसा चिन्त्य स्वशरीरे यथाक्रमम् || ४० || कर्णौ च चक्षुषी चैव नासायां वदने तथा | दक्षिणे श्रवणे चैव खमलः परिकीर्तितः || ४१ || वामे चैव कलाढ्यन्तु श्रवणे परिचिन्तयेत् | सकलं निष्कलञ्चैव नासायां परिकल्पयेत् || ४२ || क्षपणं क्षयमन्तञ्च चक्षुषी तौ विचिन्तयेत् | शून्येन पश्यते चान्नं वेदितव्यं प्रयत्नतः || ४३ || प्. १०५०) ग्रासं गृह्णाति देवेशे कण्ठोष्ठः परमेश्वरः | ब्रह्मा च विष्णुश्श्रवणे रुद्रमीश्वरचक्षुषी || ४४ || घ्राणे वक्त्रे स्थितो नित्यमुक्तिश्चैव सदाशिवः | नासाशक्तिं विजानीयाद्वक्त्रे देवं सदाशिवम् || ४५ || षण्मुख एककरणं कथितं तव शोभने | एवं तत्वमयं ध्यात्वा शिवं परमकारणम् || ४६ || शिवोऽहमिति सञ्चिन्त्य भुञ्जमानो न लिप्यते | षण्मुखेनैव यागेन भुञ्जते सततं प्रभुः || ४७ || त्रिविधेन प्रयोगेन सलिलं पिबते सदा | खण्डखाद्यैश्च भुञ्जानः क्षपणे गृह्णते सदा || ४८ || प्. १०५१) बध्यते सकलेनैव निष्कलेन तु स्वाद्विति | ऊर्ध्वमुत्क्षिपते ग्रासन्न विद्यात्खमलं कृतम् || ४९ || अन्तस्थो मुच्यते ग्राहिं नात्र कुर्याद्विचक्षणः | शून्येनैव अन्नाद्य ग्रन्थेते सततं पुनः || ५० || भोजनञ्चैव अन्नस्थो अन्नञ्चैव विचारति | लेह्यं शोष्यञ्च पेयञ्च अन्नानि विविधानि च || ५१ || कण्ठोष्ठं परमेशानो वेदितव्यं प्रयत्नतः | एवं तत्वमयं दिव्यमाचार्यच्छिन्नसंशयः || ५२ || सकृद्भोजितमात्रेण कोटिर्भवति भोजितः | अथ तत्वविदश्चैव एवं भुञ्जते प्रिये || ५३ || प्. १०५२) परिसंख्या न विद्येत इत्याह भगवान् शिवः | अतत्वप्रतिबुद्धस्य ज्ञानिने कोटिरुच्यते || ५४ || ज्ञानितत्वविदश्चैव परिसंख्या न विद्यते | द्विजानां वेदविदुषां कोटिं संभोज्य यत्फलम् || ५५ || ज्ञानिने शान्तिचित्ताय सकृत् भुङ्क्ते तु तत्फलम् | भोज्यं मायात्मकं सर्वं कर्ता देवो महेश्वरः || ५६ || भोक्ता चैव शिवस्साक्षात् एवमेव न संशयः | एवं वै यो विजानाति देशिकस्तत्वपारगः || ५७ || तं दृष्ट्वा गृहमायान्तं क्रीडन्त्योषधयो गृहे | एवं भोज्यविधिं सम्यक् न तु सर्वत्र व्यापयेत् || ५८ || प्. १०५३) पुत्रस्यापि न दातव्यं ये नराः पापबुद्धयः | एवं वै यो विजानीयादज्ञानीचान्यथा भवेत् || ५९ || आभुङ्क्ते सततं देवि अन्नपाने न संशयः | ऊर्ध्वेन वहते प्राण आपानोधः प्रवर्तते || ६० || एवं ज्ञात्वा तु भोक्तव्यं मुच्यते सर्वकिल्विषैः | तेन भुक्तेन देवेशे दातरोडस्य कुलानि तु || ६१ || मुच्यन्ते यातना क्षिप्रं सुचिरं नरकार्णवात् | इति निश्वासकारिकायां दीक्षोत्तरे देवतातत्वभोज्यविधिः पञ्चदशः पटलः | प्. १०५४) देव्युवाच - पुर्यष्टकसमायुक्त आत्मा सर्वत्र युज्यते | तदहं श्रोतुमिच्छामि भगवन् वक्तुमर्हसि || १ || सुकृते कर्मभोक्तृत्वे दुष्कृते च तथैव हि | पुर्यष्टके यदाह्यात्मा वायुभूतो व्यवस्थितः || २ || विद्यमानेऽपि तद्देहे प्रत्यक्षेण तु दृश्यते | श्रूयते यातना तस्य नरकेषु अनेकधा || ३ || स्वर्गे च विविधं भोगमणिमाद्या महेश्वर | तनुभूतश्शरीरात्मा भोगान् भुञ्जति शङ्कर || ४ || नरके यातना तस्य कथयस्व प्रसादतः | ईश्वरः - प्. १०५५) शृणु देवि इदं गुह्यं कथयामि तवाखिलम् || ५ || स्वर्गे वा नरके वाऽपि यथा सुकृतदुष्कृतौ | भुञ्जते पूजितं कर्म कथयामि महेश्वरि || ६ || त्यक्ते स्थूलशरीरे तु लौकिके भूतसंभवे | पुर्यष्टके यदाह्यात्मा वायुभूतो व्यवस्थितः || ७ || शब्दस्पर्शं तथा रूपं गन्धादिविषयोरगः | त्रिधान्तः करणं देवि तैर्न मुच्येत्क्षणादपि || ८ || सर्वथा वर्तमानस्य गच्छन्तमनुगच्छति | तिष्ठन्तमनुतिष्ठेत धावन्तमनुधावति || ९ || न तैर्विना क्षणमपि आत्मा तिष्ठेत सुवृते | प्. १०५६) तैस्तु युक्तं पुनर्देहं संप्रपद्ये वरानने || १० || पूर्वदेहे विनिर्मुक्ते गच्छतस्तस्य देहिनः | अकस्माज्जायते देहं क्षणमात्रेण शोभने || ११ || पृथिव्यापस्तथा तेजो वायुराकाशसंयुतः | भूतात्मकं तदा देहं जायते परमाणुभिः || १२ || तदा भोगात्मकं देहं अणिमादिगुणाष्टकम् | ताराद्यं ज्ञानजं वापि अकृताद्यादिदेहजम् || १३ || पैशाचादिषु देहेषु तत्वेषु विविधेषु च | नरके च वरारोहे यातना तु पृथग्विधा || १४ || भूतेभ्यो जायते देहं प्राणिद्वयं न संशयः | प्. १०५७) ब्रह्मविष्ण्वात्मका भूता रुद्रात्मा ईश्वरात्मकाः || १५ || सदाशिवात्मका देवि तैरेव परमाणुभिः | विषयाश्चैव तेष्वेव ज्ञातव्यानि वरानने || १६ || तैर्युक्तन्तु संबध्येत तैर्विमुक्तस्तु मुच्यति | तस्मात्तु देवदेवेशे न्यसेद्देवि सदाशिवे || १७ || एवं न्यस्ते तदा योगी निश्चयं शिवतां व्रजेत् | सन्यास एष विख्यातः शिवेन परमात्मना || १८ || न्यासदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः | ब्रह्माणमादितः कृत्वा देवैश्च सहसंयुतः || १९ || पुर्यष्टकं न्यसेद्देवि परिवारेण देशिकः | प्. १०५८) पूर्वमादिक्रमेणैव शब्दादीनां यथाक्रमम् || २० || तेषान्तु तर्पणं कृत्वा शतमेकैव होमयेत् | एवं हुते शते देवि पूर्णाहुत्या तु पातयेत् || २१ || ततश्शब्दञ्च स्पर्शञ्च शुद्धे ब्रह्मणि विन्यसेत् | रसं वै विन्यसेद्विष्णोः रूपं गन्धस्तथैव च || २२ || रुद्रतत्वे तु कर्तव्यं देशिकेन महात्मना | अहङ्कारस्तथा बुद्धिरीश्वरे तन्तु विन्यसेत् || २३ || मनस्तु विन्यसेद्देवि तत्वे चैव सदाशिवे | न्यस्ते पुर्यष्टके देवि पूर्णाहुत्या तु पातयेत् || २४ || ब्रह्मोङ्कारेण देवेशे ब्रह्मविष्णू तु होमयेत् | प्. १०५९) पूर्णाहुत्या तु देवेशि पातयेत् सुसमाहितः || २५ || रुद्रञ्च ईश्वरञ्चैव रुद्रोङ्कारेण होमयेत् | सदाशिवस्य तत्वस्य निधनेन तु होमयेत् || २६ || पूर्णाहुत्या तु दातव्यं देशिकेन महात्मना | सकलादिक्रमेणैव ग्राहकाः परिकीर्तिताः || २७ || इयं सन्यासिनी दीक्षा कथिता तव शोभने | दीक्षा पञ्चविधा देवि कथिता तु समासतः || २८ || अन्यायकथिता दीक्षा तस्मिंस्थैर्ये नियोजयेत् | तत्र शुध्येन्न शुध्येत विशेषः कथितो मया || २९ || दीक्षा संशुद्धदेहन्तु पञ्चत्वे समुपागते | प्. १०६०) समयभेदे हेत्वर्थे अन्त्येष्टिन्तु समारभेत् || ३० || षड्विधाध्वानमार्गस्य यद्रौच्येत वरानने | एवं संहारयोगेन हुनेच्चैव यथाक्रमम् || ३१ || एकैकामाहुतिं जुहुयादन्ते पूर्णाहुतिं ददेत् | समयाचारदोषस्य प्रमादात्स्खलितस्य च || ३२ || अन्त्येष्टिस्तु शिवेनैका प्रायश्चित्तं विशुद्धये | अथवा मातृकाध्वानं क्षकारादि समासतः || ३३ || अकारान्तैस्तु देवेशि पञ्चपञ्चाहुतिं हुनेत् | एकैकेन तु वर्णेन होमयेत विचक्षणः || ३४ || समस्तेन तु मन्त्रेण मातृकेण विचक्षणः | प्. १०६१) तेन पूर्णाहुतिं दद्यादन्त्येष्टिन्तु समर्पयेत् || ३५ || दीक्षितस्येह **? र्या अन्त्येष्टिर्देशिकेन तु | अन्त्येष्टिः शुध्यते चैव प्रायश्चित्ताद्विशुध्यते || ३६ || शुद्धान्पूर्वमिवान् पाशान् साधकस्सुसमाहितः | सर्वाज्ञा लङ्घने चैव अन्त्येष्टि होमयेत्ततः || ३७ || ज्ञानविज्ञानसंपन्नः आचार्यस्तत्वपारगः | कालचक्रविधानज्ञः कालज्ञस्स विधीयते || ३८ || स वै मोचयतेजन्तु द्वारज्ञो नात्र संशयः | इति निश्वासकारिकायां दीक्षोत्तरे षोडशः पटलः | १०६२) देव्युवाच - भगवन् श्रोतुमिच्छामि कालचक्रमनुत्तमम् | कस्मात्प्रवर्तते कालः कथं कालो निगद्यते || १ || किमर्थं वर्तते कालः कः कालः प्रेरकस्तु कः | येन सञ्चोद्यमानस्तु कालः कलयते प्रभो || २ || कस्मिन् कस्मिन् प्रदेशे तु चरते काल ईश्वरः | लौकिकाध्यात्मिकञ्चैव कथं विज्ञायते प्रभो || ३ || गृहारिक्षास्तथांशाश्च होरादेक्काणधस्तथा | विनाविनावयश्चैव मुहूर्तानां तथैव च || ४ || वायव्यो नाडयश्चैव स्वराश्चैव कलास्तथा | प्. १०६३) घटिकानां समाख्या हि तत्वानाञ्च यथाक्रमम् || ५ || दक्षिणोत्तरसङ्क्रान्त्यो अयनं विषुवं तथा | लौकिकाध्यात्मिकञ्चैव कथयस्व प्रसादतः || ६ || शृणु देवि परं गुह्यं यत्त्वया परिपृच्छ्रितम् | तदहं संप्रवक्ष्यामि यत्सुरैरपि दुर्लभम् || ७ || लौकिकाध्यात्मिकञ्चैव यथा वै कालसञ्चरः | यथा वै ज्ञायते देवि लौकिकं कालमुत्तमम् || ८ || आध्यात्मिकं यथा कालं कथयामि विशेषतः | एतत्कालविधानज्ञो लभते शाश्वतं पदम् || ९ || सिध्यते नात्र सन्देहः कालज्ञस्तु महामते | प्. १०६४) लौकिकाध्यात्मिकं कालं यो वेत्ति निखिलेन तु || १० || स कालज्ञस्मृतो देवि लौकिके ख्यातिं च गच्छति | शुभाशुभञ्च देवेशे लोकस्यैव हिताहितम् || ११ || कथयेत्सर्ववृत्तान्त आश्चर्य अनेकधा | कालचक्रं समाख्यातमादित्यात् संप्रवर्तते || १२ || मुहूर्ता तिथयश्चैव अहोरात्रायनानि च | ऋतुर्मासस्तथा पक्षो गृहऋक्षाथराशयः || १३ || सर्वमेतन्महादेवि आदित्यात् संप्रवर्तते | अंशास्सन्ध्यस्तथा तारा होराद्द्रेक्काणयस्तथा || १४ || उदिते भास्करे चैव सर्वमेतत्प्रवर्तेते | प्. १०६५) स एष कथितः कालः लौकिकः परमेश्वरि || १५ || लौकिकेन तु कालेन यथा नाम व्यवस्थितम् | तथा ते कथयिष्यामि शृणुष्वायतलोचने || १६ || भास्करे उदिते चैव गृहचक्रं प्रवर्तते | भास्करेण समास्सर्वे राशयश्च न संशयः || १७ || भास्करः प्रथमः प्रोक्तः केतुरन्ते व्यवस्थितः | ग्रहान् पत्रेषु संस्थाप्य पूर्वादिदलसंस्थितान् || १८ || सोममादिक्रमेणैव केतुरन्ते वरानने | गृहचक्रं स्मृतो ह्येष ज्ञातव्यं कालवेदिना || १९ || सोमस्तु पूर्वदिग्भागे भौममाग्नेयदिग्दले | प्. १०६६) रजपुत्रं न्यसेद्देवि दक्षिणे सुसमाहितः || २० || शनैश्चरन्तु नैऋत्यां विन्यसेत यथाक्रमम् | बृहस्पतिं न्यसेन्नित्यं पश्चिमे सुसमाहितः || २१ || राहुं वायव्यतस्थाप्य शुक्रमुत्तरतो न्यसेत् | केतुमीशानस्थाप्य ततो मन्त्राः प्रकल्पयेत् || २२ || ब्रह्मस्थानन्तु यत्प्रोक्तं भास्करं तत्र विन्यसेत् | सकलं निष्कलञ्चैव शून्यतत्वं तथैव च || २३ || कलाढ्यं खमलञ्चैव क्षपणं क्षयमन्तकम् | कण्ठोष्ठ्यञ्चैव देवेशे गृहाह्येते प्रकीर्तिताः || २४ || सकलञ्चादितः कृत्वा यो जप्यानि वरानने | प्. १०६७) पराक्षरं परं देवं ब्रह्मस्थानेन विन्यसेत् || २५ || ब्रह्मस्थाने स्थितो नित्यं भास्करं सुरसुन्दरि | कर्णिके देवतान्यासं कर्तव्यं कालवेदिना || २६ || एवं गृहाणि विन्यस्य तत्र चारं समभ्यसेत् | सकलादिक्रमेणैव कथयामि समासतः || २७ || अयुते द्वे सहस्रञ्च षट्शतानि यथाक्रमम् | एते प्राणा स्मृता देवि विभजेत यथाक्रमम् || २८ || एकैकस्य तु कालज्ञस्सहस्रद्वयमेव च | शतानि सप्तविज्ञेयमेकैकस्य वरानने || २९ || गृहचारं समाख्यातं संक्षेपान्न तु विस्तरात् | प्. १०६८) पत्रे पत्रे तु संस्थाप्य गृहान् सर्वान् वरानने || ३० || तत्क्रमानि तथा देवि कालज्ञः प्रविचारयेत् | दीप्ताङ्गारिणि धूमा च स्थानत्रयमुदाहृतम् || ३१ || कर्णिकास्थस्थितस्सूर्यः त्रीणि पत्राणि लोकयेत् | आत्मना सह संयुक्तः कर्णिकास्थः प्रभु स्मृतः || ३२ || पूर्वे होमं विजानीयात् सौम्यं कर्म समारभेत् | रौद्रमाग्नेयदिग्भागे शान्तिं वै दक्षिणेन तु || ३३ || नैऋत्योच्चाटनार्थाय श्रीकामः पश्चिमेन तु | वायव्यां क्षिप्रनाशाय धनलाभाय चोत्तरे || ३४ || ईशान्यां ज्ञानलाभाय कथितं कालवेदिना | प्. १०६९) शान्तिके पौष्टिके चैव एवमादिक्रमेण तु || ३५ || ये च रन्ध्रोपरन्ध्राश्च पत्रान्ते च व्यवस्थिताः | अशुभमेकतः प्रोक्तं द्वितीयस्मिन् शुभं वदेत् || ३६ || यद्विरोधायते देवि साधकस्य गृहोत्तमः | तद्गृहं पूजयेन्नित्यं कर्णिकास्थं यदा बुधः || ३७ || तदा सौनुग्रहं याति स गृहो नात्र संशयः | एकैकस्य गृहो देवि होरात्राणि प्रकीर्तिताः || ३८ || तत्राऽपि चरते ह्यात्मा कथयामि समासतः | एकैकस्य तु होरायां शतानि नवसंख्यया || ३९ || प्राणानां देवदेवेशि ज्ञातव्यं कालवेदिना | प्. १०७०) एतत्ते चारमाख्यातं शिवेन परमात्मना || ४० || एतच्चारविधानज्ञः कालज्ञो नावसीदति | गृहहोरबलेनैव वक्तव्यन्तु शुभाशुभम् || ४१ || पापे पापमतिं विद्यात् शुभेन शुभमादिशेत् | एवं बलाबलं ज्ञात्वा आत्मनस्य परस्य वा || ४२ || कथनात्पुण्यमाप्नोति कालज्ञो नात्र संशयः | देहस्थं कथितं देवि होरचारमनुत्तमम् || ४३ || अतः परतरं वक्ष्ये राशिसञ्चारमुत्तमम् | राशौ राशौ यदाह्यात्मा चरते कथयाम्यहम् || ४४ || संवत्सरमयञ्चेति द्वादशारं सुशोभने | प्. १०७१) अकारः प्रथमो देवि मेषराशिः प्रकीर्तितः || ४५ || एवमादिक्रमेणैव वेदितव्यं प्रयत्नतः | तत्रस्थश्चरते ह्यात्मा यथावत्तन्निबोधमे || ४६ || एकैकस्य तु देवेशि शतान्यष्टादश क्रमात् | एष चारः समाख्यातः राशौ राशौ न संशयः || ४७ || योगमुत्पद्यते तस्य कालयोगविदस्य तु | यत्पत्रे पश्यते दोषं तन्मासे दोषमादिशेत् || ४८ || शस्त्रापातसुभिक्षञ्च दुर्भिक्षं नरकं तथा | क्षेममारोग्यार्थलाभं वदते कालयोगवित् || ४९ || राशौ राशौ पुनस्सर्वं द्रेक्काणन्तु समासतः | प्. १०७२) तद्रेक्काणे नवे राशौ चारं तेषां ददाम्यहम् || ५० || एकैकस्य तु द्रेक्काणे शतानि षट् प्रकीर्तिताः | एकैकोदयस्थावज्ञः सिध्यते नात्र संशयः || ५१ || योगमुत्पद्यते तस्य अचिरादेव योगिने | उत्तिष्ठे चादधाने च पादलेपेऽञ्जने तथा || ५२ || सिध्यते नात्र सन्देहः कालज्ञानविदस्य तु | गृहोपरागवन्मासे हृत्पद्मे तु स पश्यति || ५३ || चन्द्रसूर्योपरागे च सर्वं पश्यति योगिनः | शुभाशुभन्तु द्रेक्काणैः कथयेत वरानने || ५४ || अंशस्त्रयस्तु पञ्चैक एकैकस्य समासतः | प्. १०७३) अंशाद्रेक्काणहोरैश्च एकैकस्य समासतः || ५५ || अंशाद्रेक्काणहोरैश्च ग्रहराश्यादयो नव | तारचन्द्रबलेनैव शुभाशुभं न संशयः || ५६ || ताराचन्द्रबलेनैव शुभाशुभं न संशयः | वदते योगिनः श्रीमान् लोकस्यैव हिताहितम् || ५७ || एतेषु चरतेह्यात्मा तन्मे निगदतः शृणु | सहस्रद्वयं विज्ञेयं शतानि चतुरेव तु || ५८ || ताराणाञ्चारमाख्यातमंशानान्तु यथा शृणु | ताराणां यावती संख्या अंशानां तावती स्मृताः || ५९ || एष ते चारमाख्यातं चक्रे संवत्सरात्मिके | प्. १०७४) ज्ञानेन मुच्यते देवि नात्र कार्या विचारणा || ६० || एवं वै यो न जानाति कालज्ञानीत्थं भवेत् | आत्मा तु कथितः काल ईश्वरस्स तु कथ्यते || ६१ || तेन ज्ञातेन देवेशि कालज्ञो नावसीदति | अतः परं प्रवक्ष्यामि कालचक्रमनुत्तमम् || ६२ || नाडीवायुकलैस्सार्धं स्वरैश्चरससंयुतम् | तदहं संप्रवक्ष्यामि याथातथ्येन मे शृणु || ६३ || द्वात्रिंशमंशकां कृत्वा लिखेच्चक्रं समासतः | कला तु देवदेवेशे षोडशैव तु विन्यसेत् || ६४ || पूषा यशा च सुमना प्रीतितुष्टिरिति धृतिः | प्. १०७५) तथा चक्रधृतिकरी सौमरी चिच्छुभं तथा || ६५ || शशिनीत्वङ्गिरा चैव छाया संपूर्णमण्डला | दशपञ्च कला ज्ञेया अमृता चैव षोडशी || ६६ || कलाह्येतास्समाख्याता नाड्यो वै शृणु सांपृतम् | ज्वालिनी तु शमा धूम्रा कामदा विजया तथा || ६७ || अमृता य हुला पक्षित्वचवाहात्यलंबुषा | तालुजिह्वोपजिह्वा च तथा जिह्वावहा च या || ६८ || बुद्धिवाहा प्राणवाहा तथा चामृतवाहिनी | षोडशैतास्समाख्याताः मरुतादिरलङ्कृता || ६९ || कृकरो देवदत्तश्च पौण्डरीको धनञ्जयः | प्. १०७६) वेपथुस्संभ्रमश्चैव विभ्रमो भ्रम एव च || ७० || प्राणोपानसमानश्च उदानो व्यान एव च | ऋषयो नागकूर्मश्च षोडशैते महानिलाः || ७१ || अकाराद्या स्वरा देवि ते त्वया विदिताः पुरा | बिभज्य कथयेत्प्राणान् कलादीनां यथाक्रमम् || ७२ || सहस्रैकं समाख्यातमेकैकस्य वरानने | शतत्रयञ्च ज्ञातव्यं प्राणाः पञ्चाशदेव तु || ७३ || कलाध्वरं तथा वायुः नाडयश्च समासतः | एकोदयेन ज्ञातव्यं देशिकेन महात्मना || ७४ || नाडीवायुकलैस्सार्धं कथितं तव शोभने | प्. १०७७) अतः परं प्रवक्ष्यामि ऋक्षेषु चमरे यथा || ७५ || तथा ते कथयिष्यामि तन्मे निगदतः शृणु | शतानि सप्त विज्ञेयाः * *? प्राणास्तथैव च || ७६ || प्राणमेकादशश्चैव निमेषैकं तथैव च | लवमेकञ्च ज्ञातव्यं कालज्ञेन महात्मना || ७७ || तृटिश्च सप्तभागेन नक्षत्रे कथितं तव | अंशाध्वा दशमाख्याता ऋक्षाणां वरवर्णिनी || ७८ || शतमेकञ्च ज्ञातव्यं कालज्ञेन महात्मना | एभ्यश्चरति आत्मा तु कथयामि समासतः || ७९ || ऋक्षे ऋक्षे वरारोहे अंशाश्चत्वारि कीर्तिताः | प्. १०७८) यथा चरति विश्वात्मा शृणुष्व कथयामि ते || ८० || प्राणाश्शतं समाख्यातं प्राणायतिस्तथैव च | प्राणा द्वादश विज्ञेया निमेषद्वय संयुतम् || ८१ || लवद्वयं तथैवोक्तं शिवेन परमात्मना | द्वा नवति शतैकन्तु प्राणसंख्या प्रकीर्तिताः || ८२ || निमेषत्रयञ्च विख्यातं त्रिभागेन तृटिद्वयम् | तृटे शृङ्गाग्रमाख्यातं ज्ञातव्यं सुसमाहितैः || ८३ || सप्तविंशति नक्षत्रां शाह्यष्टोत्तरं शतम् | अशीति चतुरंशन्तु सर्वत्र परिकीर्तितम् || ८४ || कालं मध्यन्दिने देवि अवीची परिकीर्तिताः | प्. १०७९) कृत्तिकादिषु रत्नेषु ज्ञातव्यं कालवेदिना || ८५ || सर्वेषु सिद्धिदा देवी ची **? परिकीर्तिता | यस्यै तच्छुभऋक्षेण वीचायां व्रजते नरः || ८६ || सर्वसिद्धिमवाप्नोति धनिको नात्र संशयः | न तस्य अशुभं किञ्चित् व्याभीच्यां व्रजते तु यः || ८७ || एष ते चारमाख्यातं कालचक्रमुपासिनाम् | अहोरात्रेण ज्ञातव्यं कालज्ञेन महात्मना || ८८ || एतच्चारविभागज्ञो लभते शाश्वतं पदम् | दिने दिने स्थिरेद्यस्तु इदं चक्रं समाधिना || ८९ || स लोके पूज्यतां याति परत्र च शिवान्तिकम् | प्. १०८०) नैव पुण्यं भवेत्तस्य नैव पापं कथञ्चन || ९० || दर्शनात्तस्य कर्तव्यं ये केचित्पापकर्मिणः | अतः परं प्रवक्ष्यामि फलसंख्या यथैव च || ९१ || तत्परा कथिता षष्टिं विदुषः परिकीर्तिताः | विदुषाणि तथा षष्टिं बिन्दुरेकं प्रचक्षते || ९२ || षष्टिबिन्दुफलं प्रोक्तं कथितं तव शोभने | फलस्य एषा संख्योक्ता कालं वै लौकिकस्य तु || ९३ || पुनरेव प्रवक्ष्यामि अध्यात्मेन वरानने | तरुणस्य प्रधानस्य निरुद्धः प्राणिनः स तु || ९४ || षट् प्राणास्तु समाख्याता विना प्रीतिं समादिशेत् | प्. १०८१) षष्टिमिर्वी नाड्येका घटिका कथिता तु सा || ९५ || घटिकास्तु तथा षष्टि अहोरात्रं प्रचक्षते | मुहूर्ता स्त्रिंशदाख्याता अहोरात्रविदो विदुः || ९६ || अहोरात्रेण मर्त्यानां मुहूर्तास्त्रिंशत्कीर्तिताः | एतान्येकैव संख्यातं मातस्य सुरसुन्दरि || ९७ || मुहूर्ता नवशता ज्ञेयं कालज्ञेन महात्मना | द्वादशे गणितं मासं संवत्सरमिहोच्यते || ९८ || संवत्सरे मुहूर्तानि यावन्ति कथयामि ते | सहस्राणि दशप्रोक्ता स्तथाह्यष्टशतानि तु || ९९ || मुहूर्तानि वरारोहे मया ते कथितानि तु | प्. १०८२) मुहूर्ते नवये देवि तथैव कथयामि ते || १०० || शतानि सप्तदेवेशे विंशतिश्च न संशयः | एषचारं मया प्रोक्तं वेदितव्यं हितैषिभिः || १०१ || अनेन क्रमयोगेन जपसिद्धिमवाप्नुयात् | त्रिकालविषयं तस्य जायते जापिनस्य तु || १०२ || घटिका पञ्चदेवेशे राशौ राशौ न संशयः | घटिका पञ्चदेवेशे अकारस्योदयस्मृतः || १०३ || एवमादिक्रमेणैव वेदितव्यं प्रयत्नतः | लौकिकं प्रहरञ्चैव षट्भागं परिकीर्तितम् || १०४ || षण्मासास्तु समाख्याता उत्तरस्तु प्रचक्षते | प्. १०८३) दक्षिणे तावती ज्ञेया कालज्ञेन महात्मना || १०५ || यद्राशौ वर्तते कालः तस्यैव कथयामि ते | उदयं प्रथमो देवि राशिभिः कथितस्तव || १०६ || यस्मिन् राशौ स्थितो ह्यात्मा मासमादि करोति सः | मकरः कुंभमीनञ्च मेषञ्च वृषभस्तथा || १०७ || मिथुनः कथितो षष्ठो राश्यः षण्मासकीर्तिताः | कर्कटस्सिंह कन्यश्च तुलावृश्चिकमेव च || १०८ || धनुषी च समाख्यातो दक्षिणे ऋतवास्त्रियः | मासि मासि समाख्यातो यथावच्छृणु सुव्रते || १०९ || शतानि चैव चत्वारि प्राणाः पञ्चदशैव तु | प्. १०८४) मासि मासि समाख्यातो यथावत्तव शोभने || ११० || उत्तरे वर्तमानस्तु यदा दक्षिणतो व्रजेत् | यावन्तं क्रमते देवि मध्ये तु विषुवं स्मृतम् || १११ || एषा सङ्क्रान्तिराख्याता दक्षिणोत्तरतस्थिता | इन्द्रियार्थं परित्यज्य व्योमावस्थो भवेद्यदा || ११२ || विषुवन्तं विनिर्दिष्टं वेदितव्यं हितैषिभिः | यदा ऊर्ध्वत्वमायाति देवदेवो जगद्गुरुः || ११३ || अह एवं विनिर्दिष्टं सर्वतन्त्रेषु भाषितम् | अधोभागे स्मृता रात्रिः मध्ये तु अयनं भवेत् || ११४ || निश्चलोर्ध्वमधश्चैव मध्यस्थन्तु विजृंभिभिः | प्. १०८५) हिक्कामुदाहृता चिक्का अष्टधा तु क्रमेण तु || ११५ || ऊनरात्रं भवेद्धिक्का अधिमास्यो विजृंभिका | ऋणस्तु भवते कस्सो निश्वासो धन उच्यते || ११६ || एष चारः समाख्यातः कालचक्रमुपासिनाम् | एवञ्चारविधानज्ञो लभते शाश्वतं पदम् || ११७ || प्रेरितः शक्तिना देवि नाना चेष्टानि कारयेत् | चारसंयोगयोगेन आत्मानमुपचर्यते || ११८ || एतच्चारमिति प्रोक्तं शिवेन परमात्मना | सकालं कल्पनामन्तु शक्तिनां परमेश्वरि || ११९ || विकारित्वमुपायाति स चारैरुपचर्यते | प्. १०८६) अकालकलमित्युक्तं वादिनोऽपि द्विधोद्धृतम् || १२० || स्वयं साक्षात् स्मृतः कालो देवदेवस्सदाशिवः | नित्यावस्थमिदं कालं ब्रह्मादीनां वरानने || १२१ || तदेव चारयोगेन सञ्चारैरुपचर्यते | नित्यावस्थोऽन्यथा कालः केन तदुपचर्यते || १२२ || अनेन उपचारेण कालमेवमुपास्यते | चारेण ज्ञायते कालं चारात् सिद्धिर्न संशयः || १२३ || चारे भुक्तिश्च मुक्तिश्च चारज्ञो नावसीदति | तस्माच्चारमिदं देवि वेदितव्यं प्रयत्नतः || १२४ || स बाह्याभ्यन्तरं कालं यो विजानाति कालवित् | प्. १०८७) न कालज्ञस्स विज्ञेयो भवेन्नक्षत्र सूचकः || १२५ || ज्योतिर्ज्ञानमिदं देवि मया ख्यातं समासतः | वेदितव्यं प्रयत्नेन कालज्ञैस्स तु वेदिभिः || १२६ || अहर्वृद्धिक्षयं रात्रौ रात्रौ वृद्धिक्षयेऽहनि | अनेन उपचारेण लौकिकमुपचर्यते || १२७ || न रात्रिर्न दिवा यस्य अयनं विषुवं तथा | नित्यं नित्यस्थितो देवि स्वयं साक्षान्महेश्वरः || १२८ || इच्छा तस्य महादेवि उपचारैरुपचर्यते | एवं कालमिति प्रोक्तं सर्वतः संप्रवर्तते || १२९ || इति निश्वासकारिकायां दीक्षोत्तरे कालचक्रप्रकरणं नाम सप्तदशः पटलः | प्. १०८८) देव्युवाच - भगवन् श्रोतुमिच्छामि प्रसादात्कथयस्व मे | त्वन्मुखामृतसारन्तु पीतं ज्ञानामृतं मया || १ || कलाकलितसन्तानं जगज्जन्मलयोद्भवम् | श्रुतमेतन्मया सर्वं त्वत्प्रसादात् सुदुर्लभम् || २ || अधुना श्रोतुमिच्छामि प्रसादं कुरु शङ्कर | आयुः प्रमाणं यद्भोगं मनुजानां महेश्वर || ३ || विज्ञानं मरणं तेषां कथं ज्ञास्यन्ति मोहिताः | उत्पन्नस्य विनाशोऽस्ति कृतिरेषा तु कीर्तिताः || ४ || तद्विनाशे तु किं रूपं छिन्नं कालक्रमं यतः | प्. १०८९) अत्र मृत्युसमीपस्थं कथं विज्ञायते प्रभो || ४ || एतत्सर्वं समासेन कथयस्व प्रसादतः | ईश्वरः - साधु साधु पुनस्साधु प्रश्नमेतत्सुदुर्लभम् || ५ || पृष्टोस्मित्वत्प्रसन्नार्थं श्रूयतान्तु वरानने | यथा चासन्नमृत्युस्तु जायते तु परस्य तु || ६ || दिवसमुदासिदाद्वन्तु मुहूर्तं सद्य एव च | येन येन च चिह्नेन लक्ष्यते तु शृणुष्व मे || ७ || स च वै द्विविधो लक्ष्यो बहिरभ्यन्तरे नृणाम् | ऋक्षाचक्रं गृहैश्चैव अङ्गारिष्टा विपर्ययात् || ८ || प्. १०९०) बहिर्लिङ्गन्तु विज्ञेयं अन्तर्लिङ्गन्तु नादजम् | बहिर्लिङ्गानि वक्ष्यामि समासात्तु वरानने || ९ || नवकोष्ठं कृतं चक्रं कृत्वा तु गणयेद्बुधः | तत्रैव कोष्ठे कोष्ठे तु लिखेन्नक्षत्रमण्डलम् || १० || कृत्तिकादि भरण्यन्तं लक्षयेत गृहा हितम् | रिक्षात्रयस्मृतो जन्म तथा संपद्विपर्ययौ || ११ || क्षेमञ्च प्रत्यरञ्चैव साधनं नैधनं तथा | मैत्रं परममैत्रञ्च ताराचक्रं शुभाशुभम् || १२ || तं वै क्रूरग्रहाक्रान्तं जन्मादौ लक्षयेद्बुधः | आधानं कर्म जन्मैस्तु भौमादित्यशनैश्चरैः || १३ || प्. १०९१) एते क्रूरग्रहा देवि यस्य तिष्ठन्ति सो हतः | एते ग्रहा विरुद्धास्तु स नरो हि हतोद्धृवम् || १४ || एकोऽपि सौम्यसंपृक्तो भवते कृच्छ्रजीवनः | सौम्यद्वये कपालस्थ संपदस्तु पदे पदे || १५ || सौम्यत्रयेऽपि सुमना नित्यतुष्टो भवेन्नरः | यथा जन्मत्रये देवि क्रूरास्सौम्यशुभाशुभाः || १६ || वदन्त्येवं तथान्येऽपि वद्यन्तां तारसङ्गमम् | पापघ्नास्संपदस्थास्स्युपीपत्स्था पदकारकाः || १७ || क्षेमघ्ना क्षेमदाश्चैव प्रत्यरे बहुदोषजाः | विद्यासिद्धिञ्च कार्यञ्च साधकस्य भवन्ति ते || १८ || प्. १०९२) देहनाशं प्रकुर्वन्ति निधनस्थान संस्थिताः | मैत्रे तु मैत्रतां कुर्युः यद्यस्यान्यापि क्रौर्यता || १९ || गृहा हिंसन्ति भार्याञ्च गृहाः परममैत्रगाः | सौम्याः शुभं प्रयच्छन्ति एकद्वित्रिगुणोदयाः || २० || गुणक्रमाच्छुभं क्रूरा प्रयच्छन्ति गृहा यदा | एवं गृहगतिं बुध्वा आत्मनश्च परस्य वा || २१ || प्रबुध्यन्ति नरा देवि आत्मनश्च शुभाशुभम् | अङ्गारिष्टं प्रवक्ष्यामि शृणु देवि यथा स्फुटम् || २२ || शुष्ककण्ठोष्ठतालुश्च अकस्माद्रुधिरच्छविः | स्कन्धोऽपि वक्रतामेति विनाशं वत्सरान्तिके || २३ || प्. १०९३) अग्निलमण्डलं व्योम्नि पश्यते च दिने दिने | सितं हरितकृष्णञ्च वत्सरार्धायुषो हि सः || २४ || यदादित्यं विरश्मिञ्च चन्द्रं लाञ्च्छनवर्जितम् | सुषुम्णान्तारकाज्योति सोऽपि षाण्मासिकायुषः || २५ || हिरण्यवर्णं पुरुषं स्वप्ने वा कृष्णपिङ्गलम् | पश्यते वा शिरच्छायां ऋतुत्रयं स जीवति || २६ || तैलपानं तथाऽभ्यङ्गरक्तमाल्यांवरस्रजा | खरोष्ट्रयानमासीनगृध्रकाकशिवादिभिः || २७ || पश्येत्प्रेतपिशाचांश्च उद्वाहञ्चाङ्गभक्षणम् | स्वप्ने च लप्स्यते चैव सो दैकं यदि जीवति || २८ || प्. १०९४) शङ्खावर्तभुजे नृत्तज्जोममेधा गुल्फसन्धिषु | यदा निष्पन्दतां याति सोऽवश्यं वधमाप्नुयात् || २९ || अरुन्धतिधृवञ्चैव सोमार्कज्योतिमण्डलम् | न पश्य* * *? धानं सोऽवश्यं म्रियते नरः || ३० || अरुन्धती भवेज्जिह्वा न पश्येद्वर्षायुषः | अल्पायुर्नैव पश्येत नासिकाग्रन्थि वा स्मृतम् || ३१ || दु**? पाणिजैः कान्तै वक्ष्यले ज्योतिमण्डले | पश्येदर्कसोममण्डलं चतुर्मासायुषो हि सः || ३२ || तालुरन्ध्रगतं धूमं तन्म **? न मुच्यते | न तु पश्यति मूढात्मा ऋतुमेकं स जीवति || ३३ || प्. १०९५) अकस्माज्जायते स्थूलो अकस्माच्च कृशो भवेत् | अतिभीतोऽति सं* * *? र्षमेकायुषो हि सः || ३४ || लोहदण्डेन पाणिं कृष्णं कृष्णांबरच्छदम् | पुरुषञ्चाभिमुखं स्वप्ने ऋतुध्या * * * *? || ३५ || *? र्य वै स्नातमात्रस्य हृदयञ्चैव शुष्यति | अनुष्णञ्च भवेद्गात्रं द्वौमासायुर्गतायुषः || ३६ || अमेघविद्युदं पश्येद्दि * * * *? नुर्निशि | दृष्टे देशेऽपि दिग्दाहो मासत्रयपरायुषः || ३७ || न शृणोति स्फुटं शब्दं चक्षुषी श्रूयते सकृत् | गन्धमाघ्राति चाण्धान्य * * *? विगतायुषः || ३८ || प्. १०९६) पश्य जिह्वा भवेत्कृष्णा रक्तपद्मोत्पलं मुखम् | वर्णञ्च विविधाङ्गेषु उदयं रुदते सकृत् || ३९ || नाभिकंपो **? शोश्च सोऽर्धमासाद्विपद्यते | नाभिज्ञाय श्रीजिह्वं दीपमाघ्रानि पाषिषा *? || ४० || काकैश्च कृतमासीन चतुर्मासायुषो नरः | हिक्का * * *? ते नित्यं वक्त्ररन्ध्रानुगो मरुत् || ४१ || लंबकर्णैव पश्येत मासार्धे विगतायुषः | एवं विधैर्बहुलिङ्गैः बोद्धव्यं मृत्युचोदितैः || ४२ || अधुनाऽन्तर्गता देवि योगिनां नादजं शृणु | इदं त्रिनेत्र संप्रोक्तं योगिनो भास्करोदये || ४३ || प्. १०९७) तत्काले चात्मनो मृत्युं जीवितव्यं विचारयेत् | ततो योगी शुचिर्भूत्वा धीरो योगासने स्थितः || ४४ || बुध्यमानोत्मजन्नादं सुषुम्नान्तर्गतं बुधः | अप्रमत्तस्सदा तिष्ठेत् युक्तो नादैकतां गतः || ४५ || एकैकस्य तु नाड्यायाः प्राणान्नव शतं वहेत् | नवशक्तीति सङ्क्रान्ति काले वै कलयेत्सदा || ४६ || नाड्यावस्थः स्थितोह्यात्मा प्रकृत्या वहतीश्वरः | ये तु सङ्क्रान्तिके प्राणा सुषुम्ना तु स्थितो वहेत् || ४७ || विषु *? प्रवहे नाथ बुध्वा कालं समादिशेत् | अहोरात्रेण चाब्दैकं योगी जीवितुमिच्छमि || ४८ || प्. १०९८) अहोरात्रद्वयेनैव जीवेत्संवत्सरद्वयम् | **? रब्दन्तु विज्ञेयञ्चतुर्भिश्चतुरब्दिकम् || ४९ || भवेत् पञ्चाब्दिकं मृत्युर्यस्य पञ्चाहनिर्गमम् | षट्सप्ताष्टदिने व्यूढे तावद्वर्षाणि जीवति || ५० || अहोरात्रेणैव कालः कलयतेश्वरः * *? | कदाचिच्छकलेशानः सप्तप्रहरनिर्गमम् || ५१ || षण्मासायुर्भवेद्देवि त्रिमासं षट्प्रहारिकम् | पञ्चकोह्यर्ध * * *? चतुर्भिर्मासजीविनः || ५२ || अर्धमासायुषो मन्त्री प्रहरत्रयनिर्गमम् | प्रहरद्वयं तथा व्यूढं दिनान्यष्टौ स जीवति || ५३ || प्. १०९९) व्युढं प्रहरमेकन्तु जीवेत् * *? चतुष्टयम् | प्रहरार्धं वहेद्यस्य स जीवति दिनद्वयम् || ५४ || सद्यो मृत्युमवाप्नोति यस्य द्वित्रिपथं गतः | यं वा कालं समारुह्य प्रवहेत् * * * * ? यम् || ५५ || मासार्धाह्नसमालक्ष्येत्तत्काले निश्चयो भवेत् | उत्तरायणजे काले कथितं तव शोभने || ५६ || अथवाऽन्योऽपि देवेशि * * * ? योगिभिस्सदा | श्रोत्रमार्गकृताङ्गुष्ठौ घोषं न शृणुते नरः || ५७ || षण्मासाभ्यन्तरे देवि मारणं तस्य निर्दिशेत् | घोरमध्ये * * * * * * * *? न कारवम् || ५८ || प्. ११००) न शृणोति सदा तस्य प्राप्यमासं म्रियेत सः | उत्पाद्यञ्च तथाकर्ण्य मृत्युयोगं तथैव च || ५९ || लक्ष्येत्सततयुक्तन्तु यो * * *? स्य चिन्तकः | योगी वक्त्रान्तनिवहं कालसङ्क्रान्तिपञ्चकम् || ६० || उत्पाद्यमानमपर * * * * * ? रन्नयेत् | द्रव्यहानिर्मनोद्वेगं कुर्याद्रोगविवर्धनम् || ६१ || गृहभेदं सुहृन्नाशं तेजोहानिर्विवर्धनम् | नासिकादक्षिणपुटे दक्षिणायनजीविते || ६२ || सङ्क्रान्त्यष्टौ यदा याति करणयोगोदयो हि सः | कानल * * * * * * ? न ग्रन्थिभङ्गन्दरम् || ६३ || प्. ११०१) स्फोटिका शूलरोगांश्च उरो दोषः प्रकोपनम् | वामघ्राणपुटान्तस्थं सङ्क्रान्त्याह्यष्टपञ्चकम् || ६४ || ज्वररोगशिरोर्तिं वा शूलसंस्तंभनोरिषा | नीरोग प्रमेहञ्च मूत्रकृच्छ्रकापयेत् || ६५ || श्रेष्मलाव्याधिमर्धासंस्थो महेश्वरः * * *? | यत्काले वहते वायुः तत्काले दिवसे परे || ६६ || व्याधिभिः पीड्यते जन्तुर्वामयामे त *? नरे | अतोर्ध्वस्पर्शभं लक्षं नासाधस्तात्तु **? रि || ६७ || ऊर्ध्वेन ऊर्ध्वं विशशे तरुदोषाः पूर्वचोदिताः | दक्षिणे दक्षिणे स्पर्शि वा *? क्रोशपराभवम् || ६८ || प्. ११०२) मध्ये मध्यस्फुटस्पर्शि पराभिभवनं ययुः | साङ्क्रान्त्येको बहुधा प्रवहन्ते इतस्ततः || ६९ || तस्य ला * * * * * * * * * ? पू जनितम् | यदा तु मन्दं चारिस्यान्निबीजस्था समाश्रितः || ७० || धर्मैश्वर्याभिलाभं कुर्यात्प्रियसमागमम् | यदा द्वादश * * * * * * * * *? द्वये || ७१ || संवत्सरेण म **? प्राप्तवान्योगिनस्सदा | * *? रकविच्छेदान्मासैकैकन्तु छन्द * * ? || ७२ || नवशीति तु * * * * * ? प्राणक्षयो भवेत् | दिवसैकैकविच्छेदाद्यावत्त्रिंशत्समागताः || ७३ || प्. ११०३) यदा पूर्वेद्यु वेलायां मृत्युः प्रवर * * *? | * * * * * * * * * ? लमृत्युं समादिशेत् || ७४ || इडा सुषुम्नगेत्येवं बोद्धव्यं कालसञ्चरम् | दक्षिणायनजं कालं क* * * * * * * ? || ७५ || **? नां योगकाले तु शुद्धस्सप्राणगश्शिवः | सुषम्ना दक्षिणे प्राणे तद्वहे चैव * * *? || ७६ || * * * * * * * * * * * ? मयनस्मृतम् | त्रिरुच्छ्वासव *? ताभ्यां ते चैव विषुवायनम् || ७७ || मकरं कुंभमीनञ्च मेषञ्च मिथुनं तथा | सुषुम्ना * * * * * * *? यचोत्तरायणा || ७८ || प्. ११०४) कर्कसिंहकन्या च तुलावृश्चिर्धनुस्तथा | इडयान्तर्महादेवि राशयो दि * * * * ? || ७९ || **? नाड्योदये देवि तत्कर्कपरिकीर्तितः | मकरमादिसङ्क्रान्त्यै कैकेया बुधः || ८० || आदित्यादि भवे * * * * * * ? चतुर्दश | विज्ञेयः प्राणविक्षेपः प्रबुध्यन्ते च ते क्रमात् || ८१ || दिवाचारो भवेद्यस्य वेत्ता तस्य द्वयं भवेत् | प्र* * * ? मतिकालं समीपरार्धकल्पितम् || ८२ || पूर्वोदयात्समारभ्य प्राणसप्तदश क्रमात् | प्राणाष्षष्टिस्समाख्याता प्राणाश्चैकादशं पुनः || ८३ || प्. ११०५) निमेषैकं लवं ह्येकं तृटिमेकादश न्यूनकम् | कृत्तिकाद्या भवेच्चारं भरण्यान्तानि मोदिताः || ८४ || एवं शरीरजञ्चाररिक्षेषु कथितं तव | ज्ञात्वा योगी जपेन्मृत्युं ध्यात्वा दे* *? लक्षरम् || ८५ || स एव भगवान् काल अजयः कृष्णपिङ्गलः | नाडिकाग्रहसंस्थो हि कालः कलयते प्रभुः || ८६ || तत्र चित्तं समाधाय कालबीजं विचिन्तयेत् | शंभुमम्बुजपादञ्च बीजं कालेश्वरं स्थितम् || ८७ || नाडिकाग्रहसंस्थाने वृध्या तन्तु जपेत्कलम् | तदा प्रवर्तते तस्य त्रिकालज्ञानमुत्तमम् || ८८ || प्. ११०६) भूतं कथयते योगी भविष्यद्वर्तमानकम् | षण्मासाभ्यन्तरे युक्तः कालज्ञानं प्रवर्तते || ८९ || त्रिकालज्ञानसंसिद्धिः जायते योगिनस्य तु | कालात्मा जपतो देवि यतो वा वा महेश्वरि || ९० || न तस्य कलयते कालः काले स्वच्छां वृजेत् *? | हतमृत्युजरारोहि सर्वरोगविवर्जितः || ९१ || दूराच्छ्रवणविज्ञानं मननञ्चावलोकनम् | जायते नात्र सन्देहो योगी कालजयेषिणः || ९२ || एकचित्तस्समापन्नो नासिकारन्ध्रमाश्रितः | जायते योगिनस्सर्वं कालमृत्युर्महद्भयम् || ९३ || प्. ११०७) जपते ध्यायते योगी नात्र कुर्याद्विचारणाम् | मन्त्रं वा जपते यस्तु पञ्चाक्षरं महामतिः || ९४ || शतञ्च विंशतिं वाऽपि पञ्चाष्टकशतानि च | जपतो मन्त्रराजानः ओं जृंसश्शिवाय नमः || ९५ || एतन्मृत्युजयं श्रेष्ठं सर्वदुःखापहं परम् | नानेन सदृशो मन्त्रः त्रिषु लोकेषु विद्यते || ९६ || इदं पञ्चाक्षरं मन्त्रं सर्वदेवनमस्कृतम् | पूजितं त्रिदशैह्येतं मन्त्रराजं सुदुर्लभम् || ९७ || तस्यादौ तु त्रयो देवाश्चतुर्थमीश्वरं परम् | पञ्चमं देवदेवेशं सदाशिवं परं पदम् || ९८ || प्. ११०८) एतत्पञ्चात्मकं देवं जपितं सर्वदेवतैः | हुतञ्च सततं तैस्तु मृत्युजित् स तु ते सुराः || ९९ || अस्य मन्त्रप्रसादेन देवैर्मृत्युर्जितः पुरा | जरारोगविनिर्मुक्ताः परमैश्वर्यसमन्विताः || १०० || सर्वकामसमृद्धास्तु पाशानुग्रहकारकाः | निर्द्वन्द्वा निरहंकाराः प्रलये भिन्नदेहजाः || १०१ || न तेषां पुनरावृत्तिः गतास्तु परमां गतिम् | एतन्मन्त्रवरं प्राप्यात्मानं पठते सदा || १०२ || त्रिधा चैव बहुधा चैव पशुज्ञानाभिमानिनः | आत्मानं प्राकृतं तत्वं अन्तरात्मा तु पौरुषम् || १०३ || प्. ११०९) परमात्मा भवेद्विष्णुः योगी नारायणेश्वरः | आत्मा तु कर्मणः कर्ताऽन्तरात्मा तु कारकः || १०४ || परमात्मेत्वुदासीनं धृवं ते गुणयोगिनः | अणिमादिगुणैर्युक्तः परमात्मा महेश्वरः || १०५ || ध्यायन्ति नित्ययुक्ता वै सनकाद्यास्तु योगिनः | मोक्षं जानन्ति योगीनां व्याख्यातं तव शोभने || १०६ || वेदवादिनमप्येवं सकलस्यमुपासिनः | ओङ्कारवाक्यरूपेण ब्रह्मविद्यावदन्ति हि || १०७ || ब्रह्मविष्णुस्तथा रुद्रः त्रयो देवास्समेकतः | सत्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् || १०८ || प्. १११०) जाग्रत्स्वप्नसुषुप्तञ्च पदत्रयमुदाहृतम् | ऋग्यजुस्सामवेदाश्च त्रयो वेदास्स एव तु || १०९ || एष वै परमोङ्कारस्सर्वदेवमयं विदुः | आनन्दं परमं ब्रह्म साम्यावस्थं तमोमयम् || ११० || अग्निरग्नौ यदा क्षिप्तं तोये तोयमिव स्थितम् | मृत्पिण्डदण्डपाषाणन्निस्सुखं निष्प्रचेतनम् || १११ || निर्वाणं परमानन्दमेवं वेदविदो धृवम् | अधुना संप्रवक्ष्यामि सादरं शृणु सुवृते || ११२ || उपास्यते यथा देवं सकलं सर्वतो मुखम् | प्रद्युम्नमनिरुद्धञ्च तथा सङ्कर्षणो महान् || ११३ || प्. ११११) वासुदेवेति भगवान् सर्वावासो नरो हरिः | प्रद्युम्नकारको नाम कामो वै कामरूपिणः || ११४ || अनिरुद्धो निरुद्धा अहङ्कारः प्रपठ्यते | सङ्कर्षणो भवेद्बुद्धिः प्राणापानमयी पुरी || ११५ || वासुदेवेति प्रकृतिः गुणसाम्ये तमोमयी | गुणसाम्ये स्थिता यस्मात् निर्विकल्पे निरामयः || ११६ || * * * *? क्षेत्रज्ञानां तत्परं वास उच्यते | प्रधानकिमहोरात्रमुषित्वा प्राणिनस्तथा || ११७ || भूय एव व्रजन्त्ययं सृष्टिसंहारचोदिताः | वसन्ते सर्वभूतेषु स्वभावगुणवासना || ११८ || प्. १११२) वासनाद्वासना चैव वासुदेवेति गीयते | नासौ देवदेवेति पठ्यते पाञ्चरात्रके || ११९ || अकारोकारभेदेन मकारं माररूपिणम् | जाग्रत्स्वप्नसुषुप्ताख्यैः सत्वराजसतामसैः || १२० || रूपैरेतैस्समाख्याता वेदयोगमनीषिणः | तेषां यस्तुर्यनामानं तस्याधः प्रकृतिस्थिता || १२१ || सांख्यानां पुरुषस्यैव प्रागेवोक्तं मयानघे | एतत्ते कथितं सर्वं किं भूयः परिपृच्छसि || १२२ || वैमलाकारकाश्चैव तथा पाशुपता च ये | वैमलानां ध्रुवं देवं कारकाणां ततोपरि || १२३ || प्. १११३) ग्रन्थिध्रुवं मायीनां शिवसृष्टेरवस्थिता | तेषां तत्परमं स्थानं दीक्षाध्वानविशोधितम् || १२४ || ईश्वरं पाशुपत्यानां स्थानञ्चैवमुदाहृतम् | चर्याध्वानविशुद्धात्मा गच्छते नात्र संशयः || १२५ || अस्ति नास्ति तथास्तीति अर्हन्ता पुद्गलेति च | जीवाख्ये नियतं देवमुपास्यन्ते नात्र संशयः || १२६ || एष देवि समाख्यातं साक्याच्चारहतैस्सह | न्यायवैशेषिकाश्चैव नैश्रेयपदवादिनः || १२७ || पुराणपुरुषेत्येवमितिहासेषु गीयते | पुराणे कविरित्येवं पुरुषं परमेश्वरम् || १२८ || प्. १११४) देवं विश्वपतिं शुद्धमीश्वरं विश्वतोमुखम् | एकधा बहुधा चैव तथा शतसहस्रधा || १२९ || गीयते येऽतितत्वज्ञा देवदेवं महेश्वरम् | बहुभिर्नामभेदैस्तु ऋषिभिः परिगीयते || १३० || जीवं केचिद्वदन्त्येवं पुरुषेति तथा परे | प्राणिनः केचिदित्येवं पुद्गलं पशुरेव हि || १३१ || सूक्ष्मं सर्वगतेत्येवमजमन्ये मनीषिणः | आत्मानमन्तरात्मानं परमात्मा तथा परे || १३२ || * * * * * * * ? नमनन्ये धृतिकीर्तिताः | अतः परतरेणैव पातालानि यथाक्रमम् || १३३ || प्. १११५) कथयामि समासेन तन्निबोध वरानने | आभासतालसुतालञ्च श्रीतालञ्चगभस्तिकम् || १३४ || शिलोच्चयं समाख्यातं पातालं हेमसंज्ञकम् | एतेषामुपरिष्टात्तु भुवनास्सप्त कीर्तिताः || १३५ || भूलोकः प्रथमः प्रोक्तः यस्मिन् संस्कारमिष्यते | चतुर्दशविधश्चैव यस्मिन् संसारमण्डलम् || १३६ || उद्धरेत वरारोहे तथैव कथयामि ते | ब्रह्माणमादितः कृत्वा पैशाचान्तन्तु शोभने || १३७ || पशुस्तु प्रथमः प्रोक्तो मृगश्च तदनन्तरम् | पक्षिणश्च तथा प्रोक्ता तथा चैव सरीसृपः || १३८ || प्. १११६) स्थावरं पञ्चमं प्रोक्तं मानुष्यञ्च तथा पुनः | चतुर्दशविधं देवि ज्ञेयं संसारमण्डलम् || १३९ || एभ्यस्संसारतोह्यात्मा संसारी तेन स स्मृतः | मानुष्येषु पुनः पश्चात् जातिरुद्धरणं स्मृतः || १४० || अन्त्यजः प्रथमः प्रोक्तः शूद्रत्वं तदनन्तरम् | वैश्यक्षत्रं तथा ब्रह्मजातिरुद्धरणं कुरु || १४१ || ब्रह्मत्वे तु तथा योज्य कुर्यात् संस्कारकर्मणि | गर्भाधानादितः कृत्वा अन्त्येष्टिन्तु पश्चिमम् || १४२ || पूर्वमेव मया प्रोक्तं भूलोके चैव कारयेत् | क्रतुभिश्शुद्धदेहे तु भूलोके तु नियोजयेत् || १४३ || प्. १११७) भूलोकोऽथ भुवर्लोको स्वर्लोकोऽथ महत्तथा | जनस्तपस्तथा सत्यं क्रमेण पुनरुद्धरेत् || १४४ || लोकैश्शुद्धैस्तथा देवि ब्रह्मविष्ण्वासने तथा | रुद्रासनं तथा प्रोक्तं ब्रह्माण्डाभ्यन्तरे तथा || १४५ || नागाश्च गरुडाश्चैव सुराः किं पुरुषास्तथा | अग्निकुमारकाश्चैव मयश्चैव बलिस्तथा || १४६ || सप्तैते कथिता देवि पातालेषु व्यवस्थिताः | बलोह्यतिबलश्चैव बलवान् बलविक्रमः || १४७ || बलश्च बलनन्तश्च बलोग्रश्चैव कीर्तिताः | एतैस्सप्त समाख्याताः भुवनीशा महाबलाः || १४८ || प्. १११८) एतैश्शुद्धैरिमे शुद्धाः पातालास्सप्त एव तु | शर्वो रुद्रस्तथा भीमो भव उग्रस्तथैव च || १४९ || महादेवस्तथैशानो रुद्रलोकाधिपास्त्विमे | कापालीशोप्यजो बुद्धो वज्रदेहप्रमर्दनः || १५० || विभूतिख्ययः शास्ता पिनाकी त्रिदशाधिपः | दशरुद्रास्समाख्याता पूर्वायाः दिशि संस्थिताः || १५१ || अग्निरुद्रो हुताशी च पिङ्गलो खादको हरः | ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः || १५२ || आग्नेययां दिशि रुद्रास्तु कथितास्तव शोभने | यो धूम्रहरो धाता विधाता कर्त एव च || १५३ || प्. १११९) कालरुद्रश्च विख्यातो धर्मो धर्मपतिस्तथा | संयोक्ता च वियोक्ता च इत्येते कथिता मया || १५४ || याम्यायां दशरुद्रास्तु कथिताह्यनुपूर्वशः | नैऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः || १५५ || ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदृष्टवान् | नैऋते दशरुद्रास्तु कथिताह्यनुपूर्वशः || १५६ || बलोह्यति बलश्चैव पाशहस्तो महाबलः | श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः || १५७ || बडवामुखो भीषणेशो वरुणराज्ञा सुपूजिताः | वारुण्यां दशरुद्रास्तु कथिता ह्यनुपूर्वशः || १५८ || प्. ११२०) शीघ्रो लघुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः | पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः || १५९ || वायव्यां दशरुद्रास्तु कथिताह्यनुपूर्वशः | निधीशो रूपवान्धन्यः सौम्यदेहो जटाधरः || १६० || लक्ष्मीधृक् रत्नधृक् श्रीधृक् प्रसादश्च प्रकाशनः | उत्तरां दिशमाश्रित्य दशरुद्रा महाबलाः || १६१ || विद्याधिपोऽथ सर्वज्ञो ज्ञानभुक् वेदपारगः | सुरेश्वरश्च सर्वेशो भूतपालो बलिप्रियः || १६२ || सर्वविद्या विधाता च सुखदुःखकरस्तथा | ईशान्यां दशरुद्रास्तु कथिता ह्यनुपूर्वशः || १६३ || प्. ११२१) वृषो वृषधरोऽनन्तो क्रोधनो मरुताशनः | उग्रसेनोऽधिवीरश्च फणीन्द्रो वज्रदंष्ट्रवान् || १६४ || अधस्ताद्दशरुद्रास्तु कथिताह्यनुपूर्वशः | शंभुर्विभुर्गुणाध्यक्षः स्त्र्यक्षस्त्रिदशवन्दितः || १६५ || संवाहश्च विवाहश्च नभोलिप्सुर्विचक्षणः | ऊर्ध्वां दिशं समाश्रित्य दशरुद्रा महाबलाः || १६६ || भूर्लोके तु यदा प्राप्य कुर्यात् संस्कारकर्मणि | स्थावरं प्रथमं शोध्यं ततश्शेध्यं सरीसृपम् || १६७ || पक्षिणश्च मृगाश्चैव पशवश्चेत्यनुक्रमात् | देवयोनिर्पुनश्शोध्य एवमेव विपश्चितैः || १६८ || प्. ११२२) संसारोद्धरणं कृत्वा जातिरुद्धरणं कुरु | अन्त्यजः प्रथमं प्रोक्तश्शूद्रश्च तदनन्तरम् || १६९ || वैश्यक्षत्रक्रमेणैव ब्रह्मान्तमुद्धरेत् क्रमात् | सद्यादिवक्त्रपर्यन्तैश्शोधयेत यथाक्रमम् || १७० || अन्त्यजस्थमीशमन्त्रेण गायत्र्या देवयोनयः | ध्येयञ्च विविधं यत्तद्विद्याङ्गैश्शोधयेत् क्रमात् || १७१ || ब्रह्मत्वे योजयित्वा तु कुर्यात् संस्कारकर्मणि | गर्भाधानं पुंसवनं सीमन्तं जातकर्मणि || १७२ || नामनिष्क्रमणञ्चैवान्नप्राशनमेव च | चूडोपनयनञ्चैव वृतबन्धं तथैव च || १७३ || प्. ११२३) मेखलादन्तकाष्ठञ्च अजिनञ्च त्रियायुषम् | **? मग्निरुपासञ्च व्रतानि पुनरेव तु || १७४ || भूतेशं पाशुपत्यञ्च गणञ्चैव तृतीयकम् | गणेश्वरं चतुर्थन्तु उत्तमञ्चाधिसाककम् || १७५ || सप्तं * * * * * *? अपूर्वेण प्रकीर्तिताः | ऐष्टिकं दार्थकञ्चैव भौतिकं सौमिकं तथा || १७६ || देवव्रतास्समाख्याताश्चत्वारोह्यनुपूर्वशः | गोदानन्तु ततः कृत्वा पत्नीसंयोजनं तथा || १७७ || अष्टकापर्वणि श्राद्धं श्रावण्याश्रयणी तथा | चैत्री चाश्वयुजी चैव पाकयज्ञाः प्रकीर्तिताः || १७८ || प्. ११२४) आधेयञ्चाग्निहोत्रञ्च दर्शञ्चैव ततः पुनः | पौर्णमासीति विज्ञेया सौत्रामणी ततः परम् || १७९ || हविर्यज्ञा स्मृता ह्येते ज्ञातव्यास्तु यथाक्रमम् | अग्निष्टोमोत्यग्निष्टोममुथ्ययज्ञक्तृतीयकः || १८० || चतुर्थी षोडशी ज्ञेया वाजपेयोऽथ पञ्चमः | त्रिरात्रं षष्टमित्युक्तं अप्तोर्यामञ्च सप्तमः || १८१ || सोमसंस्थास्समाख्याताः सप्तचैव क्रमेण तु | हिरण्यपादः प्रथमो हिरण्यगुह्यमतः परम् || १८२ || हिरण्यमेढ्रं तृतीयन्तु हिरण्यपाणिश्चतुर्थकम् | हिरण्यगर्भस्तथा प्रोक्ता पञ्चमः परमेश्वरि || १८३ || प्. ११२५) हिरण्यश्रोत्रं तथा देवि षष्ठमेतत् प्रकीर्तितम् | हिरण्यत्वक् समाख्यातं हिरण्याक्षं तथाऽष्टमम् || १८४ || हिरण्यजिह्वो नवमो दशमोऽथ हिरण्यधृक् | आसहस्रस्य यज्ञस्य दशयज्ञाः परः स्मृताः || १८५ || एकैस्तु परिवारास्तु शतेन परिवारिताः | दशयज्ञोपरिष्टात्तु अश्वमेधन्तु होमयेत् || १८६ || एवं गृहस्थो भवति वानप्रस्थं तथा पुनः | पारिव्राज्यं ततो योज्य अन्त्येष्टिन्तु ततो हुनेत् || १८७ || अन्त्येष्टिन्तु ततो हुत्वा ऊर्ध्वं कृत्वा तु योजयेत् | पुर्यष्टकसमायुक्तं पश्चात्तत्वेषु योजयेत् || १८८ || प्. ११२६) जलानलानिलव्योम अहङ्कारं तथैव च | बुद्धिर्गुणस्तथाऽव्यक्तं क्रमशः कथयामिते || १८९ || अमरेशं प्रभासञ्च नैमिषं पुष्कलं तथा | अषडिञ्चैव दण्डिञ्च भारभूतिञ्च लाकुलम् || १९० || गुह्याष्टकमिदं प्रोक्तं शिवेन परमात्मना | हरिश्चन्द्रश्श्रीशैलं जल्पेश्वरमतः परम् || १९१ || आम्रातिकेशं महाकालं तथा मध्यमकेश्वरम् | केदारं भैरवञ्च अतिगुह्याष्टकं स्मृतम् || १९२ || गयाञ्चैव कुरुक्षेत्रं खलं नाखलं तथा | विमलञ्चाट्टहासञ्च महेन्द्रं भीममष्टमम् || १९३ || प्. ११२७) गुह्याद्गुह्यतरं ह्येतत् कथितन्तु मया तव | वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम् || १९४ || गोकर्णं भद्रकर्णञ्च स्वर्णाक्षं स्थाणुमष्टकम् | पवित्राष्टकमेतद्धि कथितं ह्यनुपूर्वशः || १९५ || फटलञ्च द्विरण्डञ्च माकोटं मण्डलेश्वरम् | कालञ्जरवनञ्चैव शङ्कुकर्णं स्थलेश्वरम् || १९६ || स्थूलेश्वरं तथा प्रोक्तं सर्वेषामुपरि स्थितम् | स्थानाष्टकमिदं ज्ञेयं अहङ्कारे व्यवस्थितम् || १९७ || पैशाचं राक्षसं याक्षं गान्धर्वञ्चैन्द्रमेव च | सौम्यन्त्वथ प्रजेशञ्च ब्राह्मञ्चैवाष्टमं स्मृतम् || १९८ || प्. ११२८) देवयोन्यष्टकं ह्येतत् बुध्यावरणमाश्रितम् | संवर्त एकवीरश्च कृतान्तो जननाशनः || १९९ || मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः | एते क्रोधेश्वराः प्रोक्ताः अनुपूर्वं यथाक्रमम् || २०० || तेजोष्टकं पुनर्वक्ष्ये कथ्यमानं मया शृणु | लोकाध्यक्षगणाध्यक्षं त्रिदशे त्रिपुरान्तकम् || २०१ || सर्वरूपश्च शान्तश्च निमेषो मेषणस्तथा | तेजोष्टकं समाख्यातं अनुपूर्वेण ते मया || २०२ || तेजोष्टकोपरिष्टात्तु स्थितं योगाष्टकं पुनः | अकृतञ्च कृतञ्चैव भैरवं ब्राह्ममेव च || २०३ || प्. ११२९) वैष्णवन्त्वथ कौमारभौमं श्रैकण्ट्यमेव च | योगिनः कथिता ह्येते यथावदनुपूर्वशः || २०४ || एतेषामुपरिष्टात्तु सु शिवा द्वादश स्मृताः | वामो भीमस्तथा रुद्र भवे * * * * * *? || २०५ || *? व एक विराट् चैव प्रचण्डश्च तथैव च | ईश्वरोऽथ अजेशश्च अनन्तैकशिवस्तथा || २०६ || सुशिवा द्वादशा ह्येते अनुपूर्वेण कीर्तिताः | सुशिवादुपरिष्टात्तु वीरभद्रः प्रकीर्तितः || २०७ || मण्डलाधिपतिश्चैव * * * * * * * * ? | वामदेवोद्भवश्चैव तथा चैव भवोद्भवः || २०८ || प्. ११३०) एकपिङ्गेक्षणेशान कथिता अनुपूर्वशः | अङ्गुष्ठमात्रसहिता महादेवाष्टकं स्मृतम् || २०९ || एतेषामुपरिष्टात्तु गुरुपङ्क्तित्रयं स्मृतम् | शिवप्रभु * * * * * * * ? व प्रतापनः || २१० || प्राणदः शिवभीमञ्च करालः पिङ्गलस्तथा | महेन्द्रो दिनकृच्चैव प्रदोदक्षण एव च || २११ || करेवरं तथा प्रोक्तं अनुपूर्वे यथाक्रमम् | कण्ठघण्टा बृहन्ता च नादाश्वेत एव च || २१२ || यजुर्वेदसमा * * * * * * * * * * ? | आचार्यश्शिवरूपश्च ज्येष्ठे नारायणस्तथा || २१३ || प्. ११३१) विप्रगण्डे दरश्चैव मयमाली तथैव च | गहनेशः पीडनश्चैव * *? पङ्क्तिरिष्यते || २१४ || श्वेतदामस्सुदामश्च लोका * * * * * * | अक्षसूत्र एकपादञ्च तथा गृध्रशिवेश्वरः || २१५ || * * * * * * * * * * * ? हुस्तथैव च | ऋषभश्चैव गोकर्णः तथा देवो गुहेश्वरः || २१६ || गुहावासी शिखण्डी च तथा च जटमायिनः | उग्रो भस्मश्शिखी शूली सुगीतिश्च तथैव हि || २१७ || सुफलोत् गहासश्च कारको लाङ्गविस्तरः | तथा त्रिदण्डी शवनं साज्यं लकुलीशं तथैव च || २१८ || प्. ११३२) द्वितीया पङ्क्तिराख्याता अनुपूर्वं यथाक्रमम् | देवा चरणा दीर्घं वा हरिभूश्चैव यथाक्रमम् || २१९ || रितिभूतिस्समाख्याता स्थाणुश्चैवमतः परम् | सद्योजातस्तथा रुण्डी षण्मुखश्चतुराननः || २२० || चक्रपाणिस्तथा कूर्म अर्धनारीश्वरस्तथा | मेषसंवर्तकश्चैव भस्मेशः कामनाशनः || २२१ || कपाली भूर्भुवश्चैव वषट्कारस्तथैव च | बुध्या घ्राणेन्द्रियः प्रोक्तो पृथिव्यान्ते || २२२ || * * * * * * * * * * * * ##? आपे तु रसतन्मात्रं विषयं रसमेव च || २२३ || प्. ११३३) कर्मेन्द्रियं ततः पायु बुध्य जिह्वेन्द्रिय स्मृतः | आपे तु शोधनीया तु अनुपूर्वं यथाक्रमम् || २२४ || तेजे तु रूपतन्मात्रं विषयं रूपसंज्ञकम् | कर्मेन्द्रिय स्मृतः पादः बुध्या चक्षुः प्रकीर्तितः || २२५ || तेजोवारणमेतत्तु शोधनीयं यथाक्रमम् | वायौ तु स्पर्शतन्मात्रं विषयं स्पर्शसंज्ञितम् || २२६ || कर्मेन्द्रियः स्मृतं पाणि बुध्या चैव त्वगीन्द्रियम् | वायुतत्वे तु संशोध्या अनुपूर्वेण देशिकः || २२७ || आकाशे शब्दतन्मात्रं विषयं शब्दसंज्ञितम् | कर्मेन्द्रियं स्मृतो वाचा बध्वा श्रोत्रेन्द्रिय स्मृतः || २२८ || प्. ११३४) आकाशे शोधनीयास्तु अनुपूर्वेण मन्त्रवित् | रोमाणि लोहितं मांसं मातृकर्तृक उच्यते || २२९ || मज्जास्थिशुक्लसङ्घातं पैतृकं तृक उच्यते | अन्नपानं मनश्चैव क्रमेण परिकीर्तिताः || २३० || पृथिव्यादिषु तत्वेषु एकैकेषु यथाक्रमम् | शोधनीयं यथान्यायं प्रकृत्यायान्तु या विधी || २३१ || एवं हुत्वा यथान्यायं हुनेद्योगाष्टकं पुनः | गुरुपङ्क्तित्रयं हुत्वा प्रधानन्तु ततो हुनेत् || २३२ || अतः परतरञ्चैव श्रूयतां सुरसुन्दरि | पौरुषे चैव तत्वे तु कथयाम्यनु पूर्वशः || २३३ || प्. ११३५) अंभा च सलिला चैव तुषावृष्टिस्तथैव च | सुतारा च सुपारा च सुनेत्रा च तथैव हि || २३४ || सुमारी उत्तमांभा चतुष्टयः परिकीर्तिताः | ताराद्या अधुना वक्ष्ये प्राप्यमान निबोधमे || २३५ || तारा चैव सुतारा च तरयन्ती तथैव च | प्रमोदा प्रमुदिता चैव मोदमाना तथैव च || २३६ || रम्यका च समाख्याता सदा प्रमुदिता च या | सिद्धिरष्टविधा ख्याता ज्ञातव्या देशिकेन तु || २३७ || अणिमा लधिमा चैव महिमा प्राप्तिरेव च | प्राकाम्यमीशितत्वञ्च वशित्वञ्च तथैव हि || २३८ || प्. ११३६) सर्वकामावसायित्वमैश्वर्यं कथितं मया | एतेषामुपरिष्टात्तु नाड्यो विद्याष्टकं हुनेत् || २३९ || इडा च चन्द्रिणी चैव गौरी शान्तिकरी तथा | माला च मालिनी चैव स्वहा चैव स्वधा तथा || २४० || नाडी विद्या समाख्यातं वेदितव्यं प्रयत्नतः | अत एव उपरिष्टात्तु कथितं विग्रहाष्टकं || २४१ || अनुग्रहार्थं लोकानां संस्थितं सर्वदेहिषु | कार्यञ्च कारणञ्चैव सुखं दुःखं तथैव च || २४२ || पुरुषत्वं स्मृता ह्येते ज्ञातव्यास्तु विचक्षणैः | अन्ये ये कथिता देवि भुवनाध्वेन ये पुरा || २४३ || प्. ११३७) देहपाशाह्यनेकानि वेदितव्यानि देशिकैः | पौरुषस्योपरिष्टात्तु * * * * * * * * ? || २४४ || * * * * ? भवेत्पाशं नियन्तं परमेश्वरि | सुखपाशो दुःखपाशन्तु शुक्लकृष्णावुभावपि || २४५ || अस्य तत्वे तु ये रुद्रा कथयामि निबोध मे | वामदेवोद्भवश्चैव तथा चैव भवोद्भवः || २४६ || * * * * * * * * * * * * * ? व स्मृतः | धातारः क्रमशश्चैव विक्रमश्च तथैव च || २४७ || प्रभेशानस्समाख्यातस्सुप्रभेशान एव च | नियत्यां संस्थिता ह्येते दशरुद्रास्समासतः || २४८ || प्. ११३८) अतोर्ध्वं संस्मृतः काल येस्मि रुद्र * * * *? | * * * * * * * * * * * * रमाक्षरः ? || २४९ || शिवश्च सुशिवश्चैव ध्रुवमक्षरमेव च | दशैते तु समाख्याता अनुपूर्वं यथाक्रमम् || २५० || कालतत्वे स्थिता * * * * * * * * * * ? | मातृका प्रक्षेपः विद्यते * * * * * * * ? || २५१ || * * * * * * * ? ह्येते ममान्यत्पलालवत् | नाडीत्रयमिदं देवि या प्रोक्तास्तत्र योऽक्षराः || २५२ || इडा च पिङ्गला चैव सुषुम्ना च त्रय स्मृताः | इच्छाज्ञानक्रिया चैव परं शक्तित्रयं स्मृतम् || २५३ || प्. ११३९) वामा ज्येष्ठा च रौद्री च अधिकारात्मिका त्रयः | गार्हपत्यो दक्षिणाग्निराहवनीयं तृतीयकम् || २५४ || यज्ञाधिकारिका ह्येते अग्नयस्त्रीणि कीर्तिताः | गुणत्रयन्तु त्रैरेव पदत्रयमुदाहृतम् || २५५ || त्रैलोक्यं व्यापितं तैस्तु ब्रह्मविष्णुमहेश्वरैः | ईश्वरं हि चतुर्थन्तु पञ्चमन्तु सदाशिवम् || २५६ || नमस्कारं भवेच्छक्तिः सर्वमन्त्रप्रबोधिनी | एष सर्वमयो देवि मन्त्रं परमदुर्लभम् || २५७ || जपतस्सिद्धिमायाति कालमृत्युजयो भवेत् | जपतस्तृप्तिमायाति अमृतीशसमो भवेत् || २५८ || प्. ११४०) एतद्देवि समाख्यातं कालमृत्युजयेषिणः | कथितं सरहस्यन्तु कालचक्रं समासतः || २५९ || सततं जपमानस्तु न मृत्युवशगो भवेत् | ध्यायते सततं यस्तु अमृतं मृत्युनाशनम् || २६० || अचिरेणैव कालेन सि मृत्युं विजयिष्यति | इति निश्वासकारिकायां दीक्षोत्तरे अष्टादशः पटलः - ईश्वर उवाच - प्रक्रियासूत्रमिति देवि उक्तवानस्मि यत्पुरा | तदहं संप्रवक्ष्यामि तत्समासेन मे शृणु || १ || प्. ११४१) अनन्तं कालरुद्रञ्च दिक् श्रोत्रं भुवनं तथा | तन्नाम पतयश्चैव आवीची रौरवं तथा || २ || महारौरवतामिस्रमन्धतामिस्रमेव च | शीत उष्णस्तथैवेह सञ्जीवसुजीवनम् || ३ || पद्मञ्चैव महापद्मकालसूत्रं तथैव च | सूचीमुखं तथा प्रोक्तं ज्वरवरासीपर्वतम् || ४ || असितालवनञ्चैव कुंभीपाकस्तथैव च | अंबरीषं तथा प्रोक्तं अङ्गारराशिमतः परम् || ५ || भुवनं तीक्ष्णायकां तुण्डं वक्रतुण्डं तथैव च | स कृमिश्च तथा प्रोक्तं मीनोदरवरोदरः || ६ || प्. ११४२) मशकः काकतुण्डश्च पि* * ? मम मेव च | वज्रग्रीवो महाकायो कालं वै वडवामुखम् || ७ || विशालञ्च अशालञ्च अस्थिभङ्गं तथैव च | तथापूय हृदञ्चैव भ्रमरामशकस्तथा || ८ || दंशं महामुखञ्चैव कूर्माढ्यं भीषणं तथा | कर्कटं कृकचञ्चैव गर्भं चैव तथापरम् || ९ || दीप्तिश्चैव तथा प्रोक्तं त्रिमुखञ्च तथैव हि | शताननं पञ्चमुखं जंबूकं पुनरेव हि || १० || सुतप्तऋतुपङ्कश्च पूयमांसहृदस्तथा | हुनञ्च हुनहस्तञ्च परशुद्धध्वमेव च || ११ || प्. ११४३) उच्छ्वासन निरुच्छ्वासं वंशमावान्तमेव च | दावाग्निरपरूपश्च आपको मध्यमेव च || १२ || मन्त्रयोणो विरूपञ्च रूपवर्धनमेव च | लंबोष्ठः कूपशाखश्च बहुशाखस्तथैव च || १३ || विशाखश्च तथा प्रोक्तः गूलशाल्मिमेव च | गविहेरस्मरश्या च लोहपञ्चरमेव च || १४ || गहनं वृश्चिकश्चैव काककण्टकमेव च | कवाटसङ्कुलश्चैव क्रिमिवैतरणी तथा || १५ || गृध्रश्च कुररश्चैव दुर्दुरो अलकस्तथा | वक्रनाशश्च विविधः खञ्जरीटकमेव च || १६ || प्. ११४४) वसनं तिलकञ्चैव काककङ्कमुखं तथा | शिवानादं गजनादं महानादं तथैव च || १७ || शिवोग्रवस्त्रजश्चैव कीटवानरमेव च | मूषिकं घोररूपञ्च कृष्णवर्तमधः शिरः || १८ || चक्रपिण्डालवर्तिश्च वाद्यकुक्षिकमेव च | इक्षु यन्त्रञ्च अशनि तथा गण्डोदर स्मृतः || १९ || कण्टं क्रदं पुनः प्रोक्तः तथा वै वालुकर्दमः | एतेषां भुवना रौद्रा स्त्रिकोणाः परिकीर्तिताः || २० || * * * * * * * * ? वेदितव्याः प्रयत्नतः | ऊर्ध्वं समाख्याता रुद्र * * * * * * * * ? || २१ || प्. ११४५) * * * * * * * * ? सुरूपो रूपवर्धनः | मनोन्मनस्समाख्यातस्तथा च सुमनोन्मनः || २२ || महावीरस्तथा वीरो विरोधश्च तथैव च | रागतत्वसमाख्यातश्शोधनीया विदुर्बधैः || २३ || अत ऊर्ध्वं समाख्यातं विद्यातत्वं वरानने | * * * * * * * * * * ? ण्याद्या महाबलाः || २४ || कल्याणः पिङ्गलश्चैव वभ्रुश्च वरदस्तथा | प्रवरो मेधातिथिश्चैवच्छेदको दहनस्तथा || २५ || शास्त्रकारी समाख्याता दशैते गुरवस्मृताः | विद्यातत्वे समाख्या * * * * * * * * *? || २६ || प्. ११४६) अत ऊर्ध्वं समाख्यातं कालतत्वं वरानने | वामाज्ज्येष्ठादयस्तत्र शोधनीया विपश्चितैः || २७ || वामो ज्येष्ठश्च रुद्रश्च कालश्चैव कलस्तथा | कलविकरणो देवो बलप्रमथन * * ? || २८ || * * * * * ? क्षेमीश ब्रह्मणोधिपतिस्तथा | सुशिवश्च शिवश्चैव कथिता अनुपूर्वशः || २९ || अत ऊर्ध्वं अनन्तेशं पाशाश्चैव तु संस्थिताः | मदो मोहो महामोहः चोषवैचित्र्यमेव च || ३० || * * * * * * * * * * * * ##? अत ऊर्ध्वन्तु ओङ्कारं वेदितव्यं प्रयत्नतः || ३१ || प्. ११४७) अत ऊर्ध्वं साध्योङ्कारं वा तार उदमनेशकम् | ध्यानाहारं समाख्यातं भस्मेशं तदनन्तरम् || ३२ || अनुक्रमेण शोध्यायां प्रमाणानि नोबोध मे | पञ्चार्थगुह्यकञ्चैव रुद्राङ्कुशमतः परम् || ३३ || हृदये लक्षणञ्चैव व्यूहमाकर्षकं तथा | आकर्षकस्समाख्यातो मया तत्वस्य मध्यतः || ३४ || माया तत्वोपरिष्ठात्तु विद्यातत्वन्तु कीर्तितम् | कथितं सर्वविद्यानां योनिभूतं महाधिया || ३५ || वामाज्ज्येष्ठा च रौद्री च कालीकलविकारिणी | तथा बलविकारणी बलप्रमथिनी * * ? || ३६ || प्. ११४८) * * * * * * * *? वेदितव्याः प्रयत्नतः | अतोर्ध्वं ईश्वरं तत्वं वेदितव्यं समाहितः || ३७ || अनन्तेशश्च सूक्ष्मश्च तथा चैव शिवोत्तमः | एकनेत्रैकरुद्रश्च त्रिमूर्तिश्चानलद्युतिः || ३८ || श्रीकण्ठश्च शिखण्डी च * * * * * * * *? | * * * ? न्तु प्रवक्ष्यामि रूपचतुष्टयं तथा || ३९ || धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम् | अत ऊर्ध्वन्तु देवेशि शक्तयस्त्रीणि कीर्तिताः || ४० || वामाज्ज्येष्ठा च रौद्री च शक्तयस्त्रीणि कीर्तिताः | पशोर्योजनविशेष उद्धारे च प्रकीर्तिताः || ४१ || प्. ११४९) अतो ज्ञानक्रियाशक्तिः वेदितव्याः प्रयत्नतः | उपरिष्टात्तु द्वे विद्ये वेदितव्याः प्रयत्नतः || ४२ || तेजीशश्च ध्रुवीशश्च वेदितव्यः * * * * ? | * * * * * * * * * * ? ज्ञानसमन्विताः || ४३ || तत्पदं परमं प्रोक्तं तथ्यमेतन्न संशयः | एतेषामुपरिष्टात्तु पुनश्च प्रणवस्मृतः || ४४ || ब्रह्मविष्णुप्रतोदञ्च मनवं परिकीर्तितम् | एतेषामुपरिष्टात्तु सौम्यं रू अनुपूर्वशः || ४५ || अत ऊर्ध्वं ध्रुवं प्रोक्तं कथितं तव शोभने | ध्रुवञ्चैवोपरिष्टात्तु रुद्रैकादशकं पुनः || ४६ || प्. ११५०) ब्रह्मदर्कोदण्डिमुण्डि सौरभे *? ज्ञ जृंभितम् | गुलके संस्थिता ह्येते वेदितव्याः प्रयत्नतः || ४७ || तृतीयन्तु पुनर्वक्ष्ये निरञ्जनमतः परम् | इच्छाशक्ति ततोर्ध्वे तु ऊर्ध्वं प्रीत्यादयस्मृताः || ४८ || प्रीति प्रमुदिताश्चैव प्रणीतस्सुखदुःखिनः | कथितं ते समासेन अष्टौ ते भुवनेश्वराः || ४९ || ततस्तु समयः क्षुद्रः प्रभवाद्याः प्रकीर्तिताः | परतोऽन्यघनो नाम रुद्रोङ्कारमतः परम् || ५० || * * * * * * * * * * * * * ? वस्थितः | परिवार्योऽष्टभेदेन मध्ये नादस्तु संस्थितः || ५१ || प्. ११५१) कर्णिकास्थस्थितस्तत्र चतस्रो योगभक्तयः | निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च || ५२ || उपरिष्टात्स्थितं नादं निरालंबो ततोपरि | कस्मिन् * * *? द्ध ज्ञेयं सर्वं व्याप्य व्यवस्थितम् || ६३ || अतः सुषुम्ना विज्ञेया सर्वाध्वानसमाप्तये | ततो ब्रह्मबिले लीना पद्मसूत्रनिभा स्थिता || ५४ || ध्यातव्यो योगिभिर्नित्यं तुषारकण धूसरः | अतो * * * * * * ? निरालंबो ततोपरि || ५५ || तस्मिन्युक्तस्समुच्चेन न पुनः पशुतां व्रजेत् | तस्मिन् युक्तो यदाह्यात्मा तत्तुल्यसमतां व्रजेत् || ५६ || प्. ११५२) प्रक्रियासूत्रमेतत्तु कथितन्तु यथाक्रमम् || ५६ १/२ || इति निश्वासकारिकायां दीक्षोत्तरे प्रकरणे एकोनविंशतिः पटलः | || समाप्तोऽयं संहिता इति || इदं पञ्चसूत्रोज्वलं समुदायेन द्वादशसाहस्रिकं समाप्तं निश्वासकारिकाख्यं तन्त्रम् || ओं नमो नमः | ओं हुं नमः | ओं हं स | ओं परमशिवेन लिखितम् निश्वासकारिकाख्यं तन्त्रम् | ओं हरिः ओं | ओं शिव शिव शिव | ########### END OF FILE #######