#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00625 Uniform title: dakṣiṇāmūrtisaṃhitā Manuscript : manuscript 1633K Dharmartha Trust at Raghunath Temple, Jammu, JandK Description: Title page: N0: 1633K dakSiNAmUrtisaMhitA> Extent: 83 patra Age: saṃ 1950 Subject: tantram Link to original manuscript on archive.org: https://archive.org/download/DakshinamurtiSamhitaAlm27Shlf160221633kDevanagariTantra/Dakshinamurti%20Samhita_Alm_27_shlf_1_6022_1633k_Devanagari%20-%20Tantra.pdf Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Revision 0: June 9, 2023 Revision 1: Nov. 29, 2023 diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ६०२२ णोः - १६३३क टित्लेः - दक्षिणामूर्तिसंहिता Exतेन्त्ः - ८३ पत्र आगेः - सं० १९५० षुब्जेच्त्ः - तन्त्र द०मू० पृ० १अ) ओंश्रीगणेशायनमः श्रीमच्छीकोशहृदयंपं चसिंहासनात्मकम् फलंकल्पलतानांचपंच रत्नस्फुरत्कलं १ चतुरायतनानंदिचतुरन्वय कोशगम् नित्यानंदिपरब्रह्मधामनौमिसु खाप्तये २ श्रीदेव्युवाच कृपांकुरुमहादेवक थयानन्दसुन्दर किंतद्ब्रह्ममयंधामश्रीतुमि च्छामितत्वतः कथंश्रीसहितंदेवश्रीकोशहृ दयकथम् पंचसिंहासनेसेव्यंकथंकल्पलता त्मकम् ४ कथंरत्नात्मकंदेवकथमायतना त्मकं कथमान्प्रापसंसेव्यंकथंनित्यात्मकंप्र भो ५ श्रीईश्वरुवाच एतत्सर्वात्मकंवस्तुत्रि पुरापरमेश्वरी चतुर्लक्ष्मीसेव्यमानातदाका मदुघावरा ६ श्रीविद्याचतथालक्ष्मीर्महालक्ष्मी स्तथैवच त्रिशक्तिःसर्वसाम्राज्यलक्ष्मीःपंचप्र कीर्तिताः ७ वारुणातंवह्निसंस्थंदीर्घनेत्रसम न्वितम् विंदुनादात्मकंवीजंलक्ष्मीमंत्रुदाहृ तः ८ ऋषिर्भृगुर्निवृच्छंदस्तथाश्रीदेवताप्रिये शतुर्यौवीजशक्तीचकीलकंरेफुच्यते ९ द्वितीयेनचतुर्थेनषष्टेनार्केणसुंदरि इन्द्रे णचन्द्रकलयाविद्यांसंसेव्यसुंदरि १० षडंगा पृ० १ब) नित्यसेन्मंत्रीहृछिरश्चशिखाततः कवचंने त्रमस्त्रंचनमःस्वाहाक्रमेणच ११ वषठुं वौषडस्त्रंचफडेभिःसहविन्यसेत् अष्टपत्रं लिखेयंत्रंवहिर्भूविंवमालिखेत् १२ मध्येपु ष्पंविनिःक्षिप्यपीठशक्तिःसमर्चयेत् विभू तिरुत्ततिःकांतिःसृष्टिःकीर्तिश्चसन्ततिः १३ व्युष्टिरुत्कृष्टिऋद्धिश्चवसुदिक्षुप्रपूजयेत् म ध्येसिंहासनंपूज्यंसर्वशक्तिमयंप्रिये १४ ध्या येत्ततःश्रियंरम्यांसर्वदेवनमस्कृतां तमका र्तस्वराभासांदिव्यरत्नविभूषिताम् १५ असिं च्यमानाममृतैर्मुक्तारत्नद्रवैरपि शुभ्राभा भेभयुग्मेनमुहुर्मुहुरपिप्रिये १६ रत्नौघ वद्धमुकुटांशुद्धक्षौमांगरागिणीं पद्माक्ष्मीं पद्मनाभेनहृदिचिन्त्यांस्मरेद्वुधः १७ एवं ध्यात्वायजेद्देवींपद्मयुग्मधरांसदा वरदा भयशोभाढ्यांचतुर्बाहुंत्रिलोचनाम् १८ आ वाहनादिमुद्राश्चक्रमेणैवप्रदर्शयेत् उच्चां जलिमधःकुर्यादिहमावाहनीभवेत् १९ इयंतुविपरीतास्यात्तदावैस्थापनीभवेत् उ र्द्धांगुष्टौमुष्टियुगंतदेयंसन्निधापनी २० अं द०सू० पृ० २अ) तरंगुष्टमुष्टिभ्यांतदेयंसन्निरोधिनी तर्जनी भ्यांपरिभ्राम्यसकलीकरणंभवेत् २१ अंजलीं चार्घ्यवत्कृत्वापरमीकरणंभवेत् परिवर्त्यक रौमंत्रीतर्जनीचकनिष्टिके २२ मध्यमाना मयुगलेस्थापयेतुपरस्परं अमृतीकरणं देविमुद्रेयंधेनुरूपिणी २३ एतासामान्यमु द्रास्तुदर्शयित्वायजेत्प्रिये गंधपुष्पादिभिःस म्यक्सर्वकामार्थसिद्धये २४ अग्नेशासुरवा यव्यमध्येदिक्ष्वंगपूजनं चलाकाविमला चैवकमलाचनमालिका २५ विभीषिकामा लिकाचशांकरीचसुमालिका पुरस्तादिक्र मेणैवप्रादक्षिण्येनपूजयेत् २६ इंद्राग्निय मनैरृत्यवरुणानिलसंज्ञकान् कुवेरेशान लोकेशान्भूर्विवेचक्रमाद्यजेत् ब्रह्माविष्णु श्चलोकेशश्चोर्द्धाधःक्रमतोयजेत् अर्कलक्षं जपेन्मंत्रंतद्वशांशेनहोमयेत् २८ पद्मैस्त्रिम धुमिश्रैस्तुपुरश्चारीततोभवेत् एवंसंसिद्ध मंत्रस्तुसर्वसाम्राज्यदोभवेत् २९ इतिश्रीद क्षिणामूर्तिसंहितायांएकाक्षरलक्ष्मीपूज नविधिःप्रथमःपटलः १ ईश्वरुवाच अ पृ० २ब) वक्ष्येमहेशानिलक्ष्मीहृदयमुत्तमं यस्यवि ज्ञानमात्रेणपलायंतेमहापदः १ प्रणटं पूर्वमुच्चार्यहरीमात्मकमक्षरं श्रीपुटंवाथ कमलेव्रह्माभानुस्तथैवच २ लापेमध्यग तांभूमिंरुद्रस्थानेतुयोजयेत् प्रसीदयुगलं पूर्ववीजानिसंपुटेनच ३ महालक्ष्मीहृदंतो यमष्टाविंशतिवर्णवान् दक्षप्रजापतिश्चा स्यृषिःछंदस्तथैवच ४ गायत्रीदेवताल क्ष्मीहृदयंपरिकीर्तितं द्वितीयंचतृतीयंच वीजशक्तेक्रमेणच ५ प्रणवःकीलकंदेवि ततोंगानिप्रविन्यसेत् अंगानिपूर्ववद्देविन्य सेन्मंत्रीसमाहितः ६ रलोघद्दसुपत्रांतपद्म युग्मंचहेमजं अग्नरवलीराजदादर्शंदध तींपरां ७ चतुर्भुजांस्फुरद्रत्ननूपुरांमुकु टोज्ज्वलां ग्रैवेयांगदहाराढ्यांकिंकिणीरत्न कुंडलां ८ पद्मासनसमासीनांदूतीभिर्मंडि तांसदा शुक्लांगरागवसनांमहादिव्यांगना ननां ९ एवंध्यात्वाच्चयेद्देवींपूर्वयंत्रेचपूर्व वत् आदावंगानिसंपूज्यपूर्ववत्परमेश्वरी १० भारतींपार्वतींचंडींशचींदिक्षुप्रपूजयेत् द०स० पृ० ३अ) श्रीधरश्चहृषीकेशोवैकुंठोविश्वरूपधृक् ११ विदिक्षुपूजयेदेताःसर्वसिद्ध्यर्थहेतवे अनु रागोविसंवादोविजयोवल्लभोमदः १२ हर्षोब लंचतेजस्वीपुरारभ्यपूजयेत् इंद्रादींश्चैव संपूज्यपुनर्द्देवीयजेत्सुधीः १३ लक्षत्रयंजपे न्मंत्रंनियमेनतुसाधकः तद्दशांशेनपद्मैस्तु हुनेत्संपतिमिच्छता १४ महागजतुरंगाश्च जायंतेतस्यमंदिरे सुवर्णरत्नभूषादिमंडि तःसाधकोभवेत् १५ इतिश्रीदक्षिणामूर्ति संहितायांमहालक्ष्मीपूजनविधिःद्वितीयः पटलः २ ईश्वरुवाच त्रिशक्तियजनंवक्ष्ये सर्वसिद्धिप्रदंनृणां श्रीवीजंचपरावीजंका मवीजंसमालिखेत् १ इयंत्रिशक्तिर्देवेशि त्रिषुलोकेषुदुर्लभा ऋषिर्व्रह्मास्यगायत्रीछं दोपिकथितंप्रिये २ त्रिशक्तिर्देवतांगानिद्वि रावृत्याजपेत्प्रिये अथयंत्रंप्रवक्ष्यामिसाधका नांहितायच ३ षट्कोणंपूर्वमालिख्यमध्येतु विलिखेत्सुधीः वीप्सयातांतुषट्कोणेकोणे षुक्रमतोयजेत् ४ वाह्येवसुदलंकुर्याद्दीर्घस्व रविभूषितं चतुरस्रंचतुर्द्वारंभूषितंमंडलंलि पृ० ३ब) त् ५ मध्येसमावाह्यदेवींध्यायेत्सर्वसमृद्धि दां नवहेमस्फुरद्भूमिरत्नकुद्धिममंडपे ६ महाकल्पवनांतस्थेरत्नसिंहासनेवरे क मलासनशोभाढ्यांरत्नमंजीररंजितां ७ स्फुरद्रत्नलसन्मौलिंरत्नकुंडलमंडितां अ नंतरत्नघटितनानाभूषणभूषितां ८ द धतींपद्मयुगलंपाशोंकुशंधनुःशरान् ष ड्भुजामिंदुवदनांदूतीभिःपरिवारितां ९ चारुचामरहस्ताभारत्नादर्शसुपाणिभिः तां वूलस्वर्णपात्रीभिर्भूषापेटीसुपाणिभिः १० तप्तकार्तस्वराभासांपूर्वोक्तेमंडलेयजेत् उ पचारैःसमाराध्यततोंगावरणंयजेत् ११ पूर्व वत्परमेशानिपरिवारांस्ततोर्चयेत् लक्ष्मींह रिंचगिरिजांशिवंरत्यंगजौक्रमात् १२ अग्र कोणादिसंपूज्यततःषट्कोणपार्श्वयोः शं खपद्मनिधीपूज्यौवसुपत्रेषुमातरः १३ व्रा ह्मीमाहेश्वरीचैवकौमारीवैष्णवीतथा वारा हीचैवमाहेंद्रीचामुंडासप्तमीभवेत् १४ म हालक्ष्मीर्महादेवीपुरस्तादिप्रपूजयेत् इं द्रादयस्तुसंपूज्याकामिनीरूपधारिणः १५ द०स० पृ० ४अ) उत्तंगयौवनोत्मत्तादेव्याराधनतत्पराः ल क्षत्रयंजपेन्मंत्रीनियमेनजितेंद्रियः १६ तद्दशांशेनदेवेशिकिंशुकैर्होमयेत्सुधीः अनेनविधिनामंत्रीपुरश्चारीभवेत्प्रिये १७ इतिश्रीदक्षिणामूर्तिसंहितायांत्रिशक्तिल क्ष्मीयजनविधिस्तृतीयःपटलः ३ ईश्वरुवाच अथवक्ष्येमहादेविसर्वसाम्राज्यदेवतां य स्याआराधनाद्विष्णुरभूल्लक्ष्मीपतिःस्वयं १ चंद्रशमादनंक्ष्मेशवह्निर्दीर्घाक्षिमंडितं वि दुकूटेश्वरीयुक्तंविद्येयंवैष्णवीप्रिये २ श्रीवी जसंपुटंकुर्यात्सार्वसाम्राज्यदायिनी ऋषि र्हरिस्तथाछंदोगायत्रीचास्यसंमता ३ देवता मोहिनीलक्ष्मीमहासाम्राज्यादायिनी वीजंकू टंसमाख्यातंशक्तिश्रीवीजमुच्यते ४ षड्भि रायैःस्वरैर्भित्वाषडंगानिप्रविन्यसेत् अतसी पुष्पसंकाशांसर्वरत्नविभूषितां ५ शंखच क्रगदापद्मशार्ङ्गवाणधरांकरैः खड्गिःक राभ्यांदेवेशिवरदाभयशोभितां ६ एवम ष्टभुजांध्यात्वारविलक्षंजपेद्बुधः तद्दशां शेनपद्मैस्तुहुनेत्साम्राज्यसिद्धये ७ पृ० ४ब) जितेंद्रियःसविधिवद्यंत्रोद्धारंशृणुप्रिये त्रिकोणंचाष्टयंत्रंचभूविंबंचततोलिखेत् ८ चतुर्द्वारंसुशोभाढ्यंयंत्रमेतत्समालिखेत् अस्मिन्समावाह्यदेवींपूजयेदुपचारकैः ९ पूर्ववत्परमेशानिषडंगाचरणंयजेत् गा यत्रीचैवसावित्रीसरस्वत्यग्रभागतः १० क्रमेणपूजयेद्देविब्राह्म्यायाश्चस्वरैःपृथक् अष्टपत्रेषुभूविंवेत्वेकोच्चारेणपूजयेत् ११ अष्टादशमहाकोटियोगिनीभ्योनमोलिखेत् अनेनमनुनापश्चादिंद्रादीन्पूजयेत्ततः १२ पुनर्देवींसमभ्यर्च्यगंधपुष्पाक्षतादिभिः व टुकक्षेत्रपालेभ्योयोगिनीभ्योवलिंहरेत् १३ इतिश्रीदक्षिणामूर्तिसंहितायांसाम्राज्यविद्या यजनंनामचतुर्थःपटलः ४ ईश्वरुवाच अथश्रीकोशविद्यानांचतुष्कंशृणुपार्वति य स्यविज्ञानमात्रेणपुनर्जन्मनविद्यते १ श्री विद्याचपरंज्योतिःपरंनिष्कलदेवताः अ जपामातृकाचैवपंचकोशाःप्रकीर्तिताः २ प्रणवंपूर्वमुच्चार्यमायाहंसःपदंलिखेत् त तःसोहंशिरोदेविवसुवर्णेयमीरिताः ३ द०श० पृ० ५अ) प्रणवश्चित्कलाज्ञेयामाययाव्यामरूपिणी हंसःपदेतदेवेशिसाक्षादात्मस्वरूपिणी ४ तत्रत्यविंदुत्रितयासृष्टिस्थितिलयात्मिका प्रसूतेविंदुनादेनवामेयंब्रह्मरूपिणी ५ विंदुनाथद्वितीयेनपालयंतीजगत्त्रयम् ज्येष्टेयंवैष्णवीमायाआद्यासत्वगुणाप्रिये ६ त्र्यंशेनविंदुनासर्वंग्रसंतीतमसावृता रौद्री विंदुत्रयेदेविप्रसूतेचांविकातदा ७ आत्मा नंदर्शयत्येषाहंसाख्यासंहृतिर्यदा तदे र्यदर्पणाकाराततोज्योतिर्मयीभवेत् वर्णा भ्यांवह्निजायायाःपरंज्योतिरियंप्रिये एवं विचारयन्मंत्रीसाक्षाद्व्रह्मभवेतुसः ९ ऋषिर्ब्र ह्मास्यमंत्रस्यगायत्रीछंदुच्यते परंज्योति र्मयीसाक्षाद्देवतापरिकीर्तिता १० प्रणवां त्यद्वयंवीजंशक्तीशेषंचकीलकं स्वाहातु हृदयंसोहंशिरोहंसःशिखाभवेत् ११ मा ययाकवचंतारवीजेननयनत्रयम् स्पृष्ट्वा मंत्रेणदेवेशिसमग्रेणासुकंभवेत् १२ ज्ञा नाग्नौमातृकावर्णहविषाचाक्षराहुतीः अ नेनमनुनाहुत्वाक्षणंनिर्वाणगोभवेत् १३ पृ० ५ब) इतिश्रीदक्षिणामूर्तिसंहितायांमात्माष्टाक्ष रपरंज्योतिर्विधानंनामपंचमःपटलः ५ ईश्व रवाच अथवक्ष्येमहादेविपरनिष्कलदेवतां यस्याःस्मरणमात्रेणविदानंदायतेतनुः १ अ नुग्रहादिदेवेशिविंदुनादकलात्मकं पर निष्कलदेवीयंपरब्रह्मस्वरूपिणी २ शुक्लांव रपरीधानाशुक्लमाल्यानुलेपना ज्ञानमुद्रां कितायोगीपतिवृंदेनसेविता ३ ऋषिर्ब्र ह्मास्यगायत्रीमनोःछंदःक्रमाद्भवेत् ब्रह्मै वदेवतावीजंशक्तिस्तत्रक्रमेणतु ४ मका रकीलकंमोक्षफलज्ञानप्रदायिनी स्वरद्वं द्वस्यमध्येतुक्षिप्त्वात्यक्ताचतुष्टयम् ५ ऋ ऋऌॡचदेवेशिषडंगानिप्रविन्यसेत् त तोयंत्रंलिखेन्मंत्रीत्रिकोणंचाष्टपत्रकम् ६ चतुरस्रंचतुर्द्वारमंडितंज्ञानदंभवेत् ब्र ह्मरंध्रेविचिंत्याथतत्रावाह्यपरमेश्वरीम् ७ गंधपुष्पादिभिःसम्यङ्मनोज्ञैरुपचारकैः अग्नीशासुरवायव्यमध्यदिक्ष्वगपूजनम् ८ अकारेणचृग्रूपंब्रह्माणंपुरतोयजेत् सामवेदेनसहितमुकारेणहरिंयजेत् ९ द०स० पृ० ६अ) देवीदक्षिणतःपश्चादंत्यकोणेशिवंयजेत् यजुःस्वरूपंकालेनत्रिकोणेकथितंप्रिये १० अष्टपत्रेचतुर्दिक्षुपुरादिक्रमेणतु आत्मां तरात्मापरमज्ञानात्मानोयजेत्प्रिये ११ निवृ त्तिश्चप्रवृत्तिश्चविद्याशांतिचतुष्टयम् विदि क्षुपूजयेन्मंत्रीततोब्रह्मादिकान्यजेत् १२ तेष्वेववसुपत्रेषुचतुरस्रेततःपरम् इं द्रादींल्लोकपालांश्चपूर्वादिक्रमतोयजेत् गंधपुष्पादिनैवेद्यतर्पणैःपरितोषयेत् ज्ञानरूपोभवेन्मंत्रीमोक्षस्तस्यकरेस्थितः १५ इतिश्रीदक्षिणामूर्तिसंहितायांप्रणववि चारनिष्कलदेवतापूजाविधिर्नामषष्टःपट लः ६ ईश्वरुवाच अजपाराधनंदेविकथया मितवानघे यस्यविज्ञानमात्रेणपरब्रह्मैवदे शिकः १ हंसःपरंपरेशानिप्रत्यहंजपतेनरः मोहवद्धोनजानातिमोक्षस्तस्यनजायते २ श्रीगुरोःकृपयादेविज्ञायतेजप्यतेतदा उ च्छासनिश्वासतयातदाबंधःक्षयोभवेत् ३ उच्छासेचैवनिश्वासेहंसित्यक्षरद्वयं तस्मा त्प्राणस्तुहंसाख्यःआत्माकारेणसंस्थिताः ४ पृ० ६ब) षष्टिश्वासैर्भवेत्प्राणःषट्प्राणानाडिकामताः षष्टिनाड्यास्तुहोरात्रंजपसंख्याजपामनोः ५ एकविंशतिसाहस्रंषट्शताधिकमीश्वरि जपतेप्रत्यहंप्राणेसदानंदमयींपराम् ६ उत्पत्तिर्जपारंभोमृतिरस्यनिवेदनम् वि नाजपेनदेवेशिजपोभवतिमंत्रिणः अज पेयंततःप्रोक्ताभवपाशनिकृंतनि श्रीगु रोःकृपयादेविलभ्यतेनान्यथाप्रिये एनं जपंमहेशानिप्रत्यहंविनिवेदयेत् गणे शब्रह्मविष्णुभ्योहरायचमहेश्वरि जीवात्म नेक्रमेणैवतथैवपरमात्मनि षट्शतानि सहस्राणिषडैवंचतथापुनः षट्सहस्रा णिविमलेसहस्रंचैकमेवहि ११ पुनःसह स्रंगुरवेक्रमेणैवनिवेदयेत् आधारेस्वर्ण वर्णेस्मिन्वादिशांतानिसंस्मरेत् १२ द्रुत सौवर्णवर्णानिवर्णानिपरमेश्वरि स्वाधि ष्टानेविद्रुमाभेवादिलांतानिसंस्मरेत् १३ विद्युत्पुंजप्रभाभानिसलिलेमणिपूरके उफांतानिमहानीलप्रभानिचविचिंतयेत् १४ पिंवर्णेमहावह्निकर्णिकाभानिचिंतयेत् दं०सं० पृ० ७अ) कादिगंतानिवर्णानिचतुर्थेनाहतेप्रिये १५ विशुद्धेधूम्रवर्णेतुरक्तवर्णान्स्वरान्न्यसेत् आज्ञयांविद्युदाभायांशुभ्रौहंक्षौविचिंतयेत् १६ कर्पूरद्युतिसंराजत्सहस्रदलनीरजे नादा त्मकंब्रह्मरंध्रेजानीहिपरमेश्वरि १७ एते षुसप्तचक्रेषुस्थितेभ्यःपरमेश्वरि जप न्निवेदयित्वातुमहोरात्रभवंप्रिये १८ स हजंपरमेशानिन्यासंकुरुविचक्षणे ऋ षिर्हंसोव्यक्तपूर्वगायत्रीछंदुच्यते १९ देवतापरमात्मातुहंसोहंवीजमुच्यते सः शक्तिःकीलकंसोहंप्रणवस्तत्वमेवहि २० नादस्थानंतथाश्वेतोवर्णस्तुपरमेश्वरि उ दातःस्वरित्येवंमनोरस्यप्रकीर्तितः मो क्षार्थीविनियोगःस्यादेवंजानीहिपार्वती त तःषडंगविन्यासंकुर्यादेहस्यशुद्धये सूर्यं सोमंतथादेविनिरंजनमतःपरम् निरा भासंचतुर्थ्यंतस्वाहांतान्क्रमतोन्यसेत् २३ कवचांतानिविन्यस्यततोनंतपदंस्मरेत् त नुसूक्ष्मचतुर्वर्णानुक्तादेवीप्रचोदयात् २४ स्वाहांतेनैचनयनमव्यक्तपदपूर्वकः पृ० ७ब) प्रवोधात्माचतुर्थ्यग्निजपांतोस्त्रेनिगद्यते २५ प्राणानायम्यविधिवन्मंत्रीसम्यक्समाहितः मूलमंत्रेणदेविशिवामेनापूर्यचोदरम् २६ कुंभकेतन्निरावृत्यदक्षिणेनचरेचयेत् कनिष्टानामिकांगुष्टैर्यन्नासापुटधारणं २७ प्राणायामःसविज्ञेयःस्तर्जनीमध्यमेविना अस्यहंसस्यदेविशिनिगमागमपक्ष्मकौ २८ अग्नीषोमावथोवापिपक्ष्मौतारःशिरोभवेत् विंदुत्रयंशिखानेत्रेमुखेनादःप्रकीर्तितः २९ शिवशक्तिपदंद्वंद्वंकालाग्निपार्श्वयुग्मकं अयंपरमहंसस्तुसर्वव्यापीप्रकाशवान् ३० सूर्यकोटिप्रतीकाशःस्वप्रकाशोनभासते संसाररूपीहंसोयंविवेकंदर्शयत्यपि ३१ अजपानामगायत्रीत्रिषुलोकेषुदुर्लभा अ जयांजपतोनित्यंपुनर्जन्मनविद्यते ३२ ष ट्शतान्यधिकान्यत्रसहस्राण्येकविंशति अहोरात्रंचरेद्वायुःसजयोमोक्षदायकः ३३ इतिश्रीदक्षिणामूर्तिसंहितायांमजपावि धानंनामसप्तमःपटलः ७ ईश्वरुवाच अथवक्ष्येमहेशानिमातृकांलोकमातरम् द०सू० पृ० ८अ) अकारादिक्षकारांतांवर्णावयवदेवतां १ ऋषिर्व्रह्मास्यमंत्रस्यगायत्रीछंदुच्यते मा तृकादेवतादेविहलोवीजास्तुशक्तयः २ स्वरास्तुपरमेशानिजाताव्यक्तस्तुकीलकं अनिर्वाच्याहलोवर्णाशक्त्याव्यक्ताभवंतिहि ३ शक्त्याविनाशिवेसूक्ष्मेनामधामनविद्यते अ सद्रूपाहलोवर्णाःशक्त्यासत्तापराङ्मुखाः ४ स्फुरन्मात्रासदोच्चार्यासंमुखाव्यक्तिवर्णकाः ॠऌॡपरित्यज्यषण्मुखस्वरमध्यगाः ५ वर्गाषट्कक्रमेणैवसप्तमःक्रोधसंयुतः अंतेनिक्षिप्यदेवेशिषडंगानिप्रविन्यसेत् ६ कलापत्राम्वुजेकंठेस्वराःसम्यक्प्रविन्यसेत् सूर्यपत्रांम्वुजेनित्येनाहतेद्वादशन्यसेत् ७ मणिपूरेमहादेविदशपत्रेप्रविन्यसेत् द शवर्णांलिंगमध्येषट्दलेषट्तथेश्वरि ८ चतुर्दलेतथाधारेचतुर्वर्णांस्तथान्यसेत् भ्रूमध्येद्विदलेहंक्षौविचिंत्यमातृकांन्यसेत् ९ व्रह्मरंध्रेतथाचक्रवेष्टनेनयनद्वये श्रु तिनासापुटद्वंद्वेगंडोष्टद्वयकेषुच १० दंतयुग्मेचमूर्द्धास्यद्वयेषोडशविन्यसेत् पृ० ८ब) दीःपत्संधिषुसाग्नेषुपार्श्वयुग्मेन्यसेत्क्रमात् पृष्टनाभिद्वयेचैवजठरेविन्यसेदथ त्वगसृ ङ्नासमेदोस्थिमज्जाशुक्राणिधातवः १२ प्रा णजीवौचपरमौपकारादिषुसंस्थितः क्र मेणदेवेदेवेशिन्यस्तव्याएतदात्मकाः १३ हृदोमूलेषुसंन्यस्यतथापरगलेन्यसेत् क क्षाद्वयेहृदारभ्यपाणिपादद्वयेतथा जठ राननयोर्व्यामिन्यसेदित्यर्णरूपिणीम् अने नन्यासरूपेणमंत्रीवर्णस्वरूपवान् १५ ध्या येद्वर्णास्वरूपाढ्यांस्वरवक्रांक्रमेणहि क चवर्गकरारम्यांतदवर्गपदांवुजं १६ पव र्गचारुपार्श्वांगलसच्छातोदरींपराम् य * वर्गांगशुभर्गापीनोजतघनस्तनीम् १७ नि तंवविंवगहनांशुक्लाक्षींक्षाममध्यमाम् शुक्लमाल्यानुरागांगीमक्षसृक्कटिशोभितां १८ चिंतालिखितसत्पाणिंसमग्रवरदायिनीम् एवंध्यात्वाततोदेवींयजनंचसुधीश्वरेत् १९ आदौवृत्तंकर्णिकाख्यंहंसानुग्रहसर्गवान् वाह्येष्टदलमालिख्यकेसरेषुस्वरान्न्यसेत् २० युग्मयुग्मप्रभेदेनततोवसुदलेषुच कादि द०सं० पृ० ९अ) वर्गाष्टकंपीत्यलक्षांतंपरमेश्वरि २१ चतु रस्रंततःकुर्यात्सिद्धिदंदिक्षुसंलिखेत् ठकाराणांचतुष्कंचरेखांतंवाह्यतस्तथा २२ वारुणंचसमालिख्यदेवीमावाहयेत्सुधीः आदौपीठेर्चनंकृत्वानवशक्तिपुरस्कृतं २३ मेधाप्रज्ञाप्रभाविद्याधीर्धृतिस्मृतिवुद्धयः विद्येश्वरींचपूर्वादिदिक्षुमध्येप्रपूजयेत् २४ पश्चादावाह्यगंधादीनुपचारान्प्रकल्पयेत् अग्नीशास्त्ररवायव्यमध्यदिक्ष्वंगपूजनं २५ नियोज्यस्वरयुग्मांतेनमस्कारंपृथक्पृथक् अष्टधापूजयेद्देविकेसरेषुपृथक्पृथक् २६ तथैवकादिवर्गेषुनमस्कारंक्षिपेत्पृथक् अष्टधावर्गपूजेयंततोव्राह्म्यादिभिर्यजेत् २७ लोकपालैस्ततोदेवींसमासद्ययजेत्सुधीः लक्षमात्रंदशांसेनहुनेत्पालाशपुष्पकैः त्रि मध्वक्तैर्मिताहारःपुरश्चारीततोभवेत् २९ इतिश्रीदक्षिणामूर्तिसंहितायांमातृकावि धिर्नामाष्टमःपटलः ८ ईश्वरुवाच पं चसिंहासनगताविद्याजप्यामहेश्वरि म यातत्पुरुषास्येनजप्यतेतछृणुप्रिये १ पृ० ९ब) अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा ए वार्यविंद्वनादसहितंकुरुसुव्रते २ एतद्वा ग्भवमुच्चार्यसकलंकामवीजकम् वामने नेत्रेनुविन्दन्तसर्गवान्भृगुरव्ययः ३ अनुग्र हेणसंयुक्तोविद्येयंत्र्यक्षरीभवेत् ऋषिस्तु दक्षिणामूर्तिःशिरसिविन्यसेत्ततः ४ छंदः पंक्तिस्तुविज्ञेयंमुखेविन्यस्यदेवताम् हृदये परमेशानिवाग्भवंवीजमुच्यते ५ शक्तिवी जंशक्तिरेवकामवीजंचकालकं एषाविद्या महेशानिपुरुषार्थप्रदायिनी ६ पादादिना भिपर्यंतमायंनाभेस्तथागलम् मध्यमंशक्ति वीजंचगलादामस्तकंन्यसेत् ७ वामपादत लेतद्वदक्षपाणौद्वयंन्यसेत् करयोःसंपुटे चैवमेवंन्यासद्वयंभवेत् ८ एतत्संपुटितां पश्चात्मातृकांविन्यसेत्सुधीः नवयोन्यंकितं न्यासेकुर्यात्कमललोचने ९ कर्णयोश्चिबु केदेविशंखास्येषुदृशोर्नसि अंसयोर्हृदये द्देविन्यसेत्कूर्परकुक्षिषु १० जानुद्वयांधुप द्वंद्वगुह्येषुक्रमतोन्यसेत् पार्श्वहृत्स्वस्त नद्वंद्वकंठेष्वपिचविन्यसेत् वीजत्रकंक्र सं०दं० पृ० १०अ) मेणैवनवधाविन्यसेत्प्रिये वीप्सयांगानि विन्यस्यपंचवाणान्न्यसेत्सुधीः १२ दकारं तुसमालिख्यद्विधावह्निसमन्वितम् अ नंतवामनेत्राभ्यांद्विविंदुपरिभूषितम् १३ कामवीजंचकालादितवादिपृथिवीयुतं दी र्घकर्णेतुविंद्वाढ्यमजपातंक्रमात्लिखेत् ललाटगलहृन्नाभिमूलाधारेषुविन्यसेत् पुनरेतेषुवीजानिपंचसंख्यानिविन्यसेत् १५ ह्रींक्लींमात्मकवावीजंचतुर्थंवाणमालिखेत् ततस्त्रीमात्मकंपंचकामाएतेप्रकीर्तिताः १६ एवंविन्यस्तदेहःसन्प्राणानायम्यपार्वति ध्यायेद्देवींमहेशानिकदंबवनमध्यगाम् १७ रत्नमंडपमध्येतुमहाकल्पवनांतरे मुक्ता तपत्रच्छायायांरत्नसिंहासनेस्थिताम् १८ अनर्घ्यरत्नघटितांमुकुटांकुंडलोज्वलाम् हारग्रैवेयसद्रत्नचित्रितांकंकणोज्वलाम् १९ हारमुक्तालसद्भूषांशुद्धक्षौमविराजिताम् हा रमंजीरसुभगांरक्तोत्पलपदांबुजां २० शु द्धांगरागसुभर्गाकर्पूरसकलोज्वला पु स्तकंचाभयंवामेदक्षिणेचाक्षमालिकां २१ पृ० १०ब) वरदानरतांदेवींसम्यक्सारस्वतप्रदाम् ए वंध्यात्वाजपेन्मंत्रंवर्णलक्ष्यंसमाहितः २२ अथवादेवदेवेशनन्दवेयंयदाभवेत् तदा सर्वार्थदाविद्याभुक्तिमुक्तिफलप्रदाः २१ श्री गुरोःक्रपयालव्धासर्वकामार्थसिद्धये अ थवादेवेदेवेशिपद्मरागप्रभांस्मरेत् २३ र क्तवस्त्रंपरीधानांरक्ताभरणमंडितां हका रार्द्धस्वरूपांचविंदुत्रययुतांशिवे २४ एवं कामकलाध्यानंसदांवापाःसमुद्यतम् त दशांशेनजुहुयात्किंशुकैस्त्रिमधूत्कटैः तर्पणंचदशांसेनलक्षंचायुतसंख्यया व र्णानुक्रमयोगेनगंगातोयेनवाप्रिये तर्प णंचतथाभूयःकर्पूरवासितैर्जलैः अथ वक्ष्येन्महेशानियंत्रंसर्वार्थसिद्धिदं २७ आ दौशक्तिंसमालिख्यतस्यानुपरिसंलिखेत् तामेवविस्तृतांकिंचित्संपुटीकृत्यवह्निना संधिभेदक्रमेणैवनवयोनिर्यथाभवेत् हसौंकारंलिखेन्मध्येकामाख्यंचाष्टयोनिषु २९ वह्निर्वृतंसमालिख्यदलैराजितमष्टभिः केशरेषुस्वरान्योज्यद्वन्द्वशःपरमेश्वरि क दं०स० पृ० ११अ) चटास्तपयावर्णःसलक्षापरमेश्वरी अ ष्टपत्रेषुसंलिख्यततःशूलाष्टकंलिखेत् ३१ पत्राग्रेषुततोमंत्रीलिखेद्वर्णान्क्रमेणतु तेषुशूलेषुखगद्यान्पूर्वतःक्रमतोलिखेत् ३२ ङछजानग्निदिग्भागेझञठान्दक्षिणेलिखेत् डढणान्नैऋतेभागेथदधान्पश्चिमेलिखेत् नफवान्वायुदिग्भागेभमरानुत्तरेलिखेत् लवशानीशदेशेतुतत्तोवृत्तंसमालिखेत् ३४ वृत्तंमातृकयावीजंततोभूविंवमालिखेत् चतुर्द्वारविशोभाढ्यंमध्येपुष्पंविनिक्षिपेत् ३५ पीठार्चनंततःकुर्यान्मंत्रीदेविमनोहरम् वा माज्येष्टाचरौद्रीचअंविकेच्छाततःपरम् ३६ ज्ञानाक्रियाकुञ्चिकाचविश्वादेवीविषघ्निका दूतरीवतथानंदासंपूज्याःअभितःप्रिये ३७ सिंहासनंचसंपूज्यमध्यवीजेनमंत्रिकः सदाशिवमहाप्रेतपद्मासनपदंलिखेत् ३८ ङेंतंनमोंतकंदेवियजेत्सिंहासनंप्रिये मु क्ताछत्रंशरच्चंद्रचंद्रिकाकारचामरे ३९ उ शीरक्षिप्तसच्चन्द्रकलाव्यजनयुग्मकम् प्रां तमुक्तावलीराजन्स्वर्णादर्शंचपीठिकां ४० पृ० ११ब) अलंकारमयींपेटींकरंडंशशिपूरकं क र्पूरक्षोदभरितंचषकंस्वर्णकंकती ४१ सत्पुष्पापूर्णकाश्मीरपात्रंचदधतीक्रमात् ध्यात्वावामादिकापश्चाद्देवीमावाहयेत्प्रिये ४२ उपचारैःसमाभ्यर्च्यतर्पणानिसमाचरेत् लयांगंविन्यसेद्देविदेहेमुद्राश्चदर्शयेत् ४३ अग्नीशास्त्ररवायव्यमध्यदिक्ष्वंगपूजनं क्र मेणपुरारभ्यरतिप्रीतिमनोभवाः त्रि कोणाग्रेषुदेवेशितद्वाह्येबाणदेवताः दे वतायादक्षिणेद्वेद्वेवामेएकमग्रतः अनं गानंगकुसुमातथाचानंगमेखला अनंग मदनादेवीसुभगाचभगातथा भगसर्पि ण्यथोदेवितथाचभगमालिनी पुरार भ्यदेविशिप्रादक्षिण्येनपूजयेत् अष्टको णेषुतद्वाह्येवसुपत्रेषुचार्चयेत् असितां गंतथाव्राह्मींरुंरुंमाहेश्वरींतथा ४४ चं डंकौमारिकांचैवक्रोधचैचतुवैष्णवीम् उ न्मत्तंचैववाराहींतथाचैवकपालिनीं ४५ माहेंद्रीभीषणंदेविचामुंडांचततःपरम् सं हारभैरवंदेविमहालक्ष्मींक्रमाद्यजेत् ४६ दं०सं पृ० १२अ) युग्मायुग्मप्रभेदेनस्वरैर्दैवीस्तुभैरवान् का मरूपंतथादेविमलयंचद्वितीयकम् ४७ पीठंकोलगिरिंपीठंकुलांतकमतःपरम् चौहारंचैवदेवेशिजालंधरमतःपरम् ५० कपालिनंचैकपादंभीमरूपमतःपरम् अ चलंहाटकंचैवपुरारभ्यपूजयेत् ५१ अ धूर्द्धस्ततोदेविचतुरस्रेक्रमेणतु इंद्रादय स्तुसंपूज्यास्ततस्तुवटुकादयः ५२ वटुकं योगिनींक्षेत्रेपालंगणपतिंयजेत् पूर्वादि दिक्षुकोणेषुवसूनर्क्काक्रमात्प्रिये ५३ रु द्राश्चसर्वभूतांश्चपुनर्देवीसमर्चयेत् वन स्पतिरसोत्पन्नोगंधाढ्योगंधुत्तमः ५४ आघ्नेयःसर्वभूतानांधूपोयंप्रतिगृह्यताम् एवंमनुंत्रिवीजांतेधूपमंत्रुदाहृतः सुप्र काशोमहादीपःसर्वतस्तिमिरापहः सवा ह्याभ्यंतरंज्योतिर्दीपोयंप्रतिगृह्यताम् ५६ तथैवदीपमंत्रोयंशृणुचारार्तिकंप्रिये सम स्तचक्रसुद्रस्मिन्मंडलेब्रह्मरूपिणी ५७ आरार्तिकंगृहाणेदंत्रिपुरेममसिद्धये आ रार्तिकेमिदंदेविविद्यांतेमनुरीरितः ५८ पृ० १२ब) हेमपात्रगतंदिव्यंपरमान्नंसुसंस्कृतम् पंचधाषड्रसोपेतंगृहाणपरमेश्वरि ५९ उपहारमनुर्देविविद्यंतेस्वयमीरितः य थाशक्तिजपंकृत्वानित्यहोमंसमाचरेत् ६० पंचाहुतिस्तुमूलेनषडंगानिचहोमयेत् नित्यहोमप्रकारोयंसर्वविघ्नतपोहयेत् ६१ यथान्यासंप्रवक्ष्यामिसर्वविघ्ननिवृत्तये अ ग्निराक्षसवायव्यशिवकोणेषुमंत्रवित् ६२ त्रिकोणवृतभूविंवमंडलातिसमालिखेत् मंडलानिचचत्वारितत्रपात्राणिसंक्षिपेत् ६३ षट्कायनमोह्यंतेगांतेगणपतिंतथा आ द्यौसविंदूपंचैवयोगिनीभ्योनमःस्मरेत् ६४ (मेवशंचानयःप्रांतेततःसर्वोपचारतः स) (हितंचवलिंगृह्णगृह्णस्वाहामनुःप्रिये) क्षमंतेक्षेत्रपालायनमोमंत्रचतुष्टयम् ए वंमंत्रैर्वेदसंख्यैर्मंडलानिप्रपूजयेत् एह्ये हिदेवीपुत्रांतेवटुकांतेचनाथच कपि लांतेजटाभासुरांतेत्रिनेत्रच ६६ ज्वाला मुखततःसर्वविघ्नान्नाशयंनाशय सर्वो पचारसहितंवलिंगृह्णपदद्वयम् ६७ द०स० पृ० १३अ) वह्निजायान्वितोमंत्रोवटुकस्युदाहृतः ऊ र्द्धंब्रह्मांडतोवांतेदिव्यंतेगगनेतिच ६८ तलेभूपदमालिख्यतलेचैवतुनिष्कले वापातालेतलेवांतेसलिलांतेचवालिखेत् पवनांतेचयोर्यत्रकुत्रांतेचस्थिताइति वा क्षेत्रेचैवपीठोयपीठादिषुचसंलिखेत् ७० ततःकृतपदाधूपदीपादिचपदंलिखेत् केनप्रीताश्चदेव्यश्चसदानःशुभसंलिखेत् ७१ वल्यंतेविधिनाचैवपातुदेवेंद्रसंलिखेत् वं द्याश्वयांसमुच्चार्ययोगिनीभ्योग्निवल्लभा ७२ सर्वांतेयोगिनीतांचकवचास्त्राग्निवल्लभा योगिनीनामयंमंत्रःक्षेत्रपालमनुंशृणु ७३ षड्दीर्घस्वरभेदेनक्षकारंभेदयेत्प्रिये क वचंस्थानशब्दांतेक्षेत्रपालसमालिखेत् धूपदीपादिविहितंवलिंगृह्णद्विधालिखेत् सर्वान्कामान्पूरयाग्निवल्लभाक्षेत्रयोमनुः ७५ गांगींगूंसमालिख्यगणपांतेततोलिखेत् वरशव्दंद्विधादांतेततःसर्वजनंपदम् ७६ मेवशंचानयःप्रांतेततःसर्वोपचारतः स हितंचवलिंगृह्णगृह्णस्वाहामनुःप्रिये ७७ पृ० १३ब) गणेशस्यवरारोहेमंत्रैरेभिर्बलिंहरेत् व टुकस्यतुतर्जन्यासहांगुष्टेनवाप्रिये ७८ वामांगुष्टानामिकाभ्यांक्षेत्रपालस्यकथ्यते तर्जनीकेवलाचाथगणेशस्यतुमध्यमा जगवक्त्राकृतिर्देवियोगिनीनांतुकथ्यते तर्जनीमध्यमानामयोन्याकारेणयोजयेत् बलिदानविधौमंत्रीमुद्रांसुंदर्शयेत्क्रमात् स्तुत्वानत्वापुनर्देवीदेवीमात्मनियोजयेत् ८० आत्मविद्याशिवैस्तत्वैर्गुरुंसंतोष्यदेवताम् आनंदसहितोमंत्रीसर्वकर्माणिसाधयेत् ८१ इतिश्रीत्रिपुरासमाराधनविधिः ईश्वरुवाच महासिंहासनगताविद्येयंत्रिपुरेश्वरी पू र्वाम्नायेश्वरीवंद्याविद्येयंपरमेश्वरी १ शि वचंद्राग्निवामाक्षिविंदुनादमयंप्रिये श क्तिःकलाभ्यांमंतेचतुर्यवीजमुदाहृतम् २ श्रीवीजंकुरुतार्तीयंविद्यावेदाक्षरीभवेत् उन्मनीनामविद्येयंपूर्वाम्नायाधिदेवता ३ अनयाविययादेविदेवीसंमानिताप्रिये पूर्वसिंहासनगताभोगमोक्षफलप्रदा मधैषापूर्ववक्त्रेणजप्यतेद्यापिसुंदरी इ द०स० पृ० १४अ) तिश्रीदक्षिणामूर्तिसंहितायांपूर्वाव्रायसिंहा सनविद्यावर्णनंनामनवमःपटलः ९ ईश्व रुवाच दक्षिणास्येनदेवेशिललितात्रिपुरापु राकामेश्वरीरक्तनेत्रामद्याद्यापिप्रजप्यते १ श क्तिवीजंवाग्भवेतुकामराजंतुपूर्ववत् अंत्यं शिवसमायुक्तंत्रिपुरापरमेश्वरी इयंतुल लितादेवीमहासौभाग्यवर्धिनी न्यासपू जादिकंसर्वंत्रिपुरेशीवनान्यथा ३ ध्यान मस्याःप्रवक्ष्यामिसाधकानांतुसिद्धये उद्य त्सूर्यसहस्राभांमाणिक्यमुकुटोज्वलां ४ रत्नकुंडलमुक्तालीपदकांगदभूषिताम् र त्नमंजीरसुभगांरक्तवस्त्रानुलेपनां ५ पा शांकुशौपुस्तकंचदधतीमक्षमालिकाम् सर्वांगसुंदरीध्यायेत्सर्वसंपत्तिहेतवे ६ इतिललितापूजाविधिः १० ईश्वरुवाच केवलंकामवीजंतुकामेशीवीजमुच्यते ऋ षिःकामोस्यमंत्रस्यगायत्रंछंदुच्यते १ कामेश्वरीदेवतास्यात्कर्तुर्येवींजशक्तिके पृथ्वीवीजंकीलकीक्तंमहावश्यकरीपरा २ षट्दीर्घस्वरभेदेनषडंगानिप्रविन्यसेत् पृ० १४ब) पूर्वोक्तपंचवाणांश्चपूर्ववद्विन्यसेत्प्रिये ३ जपाकुसुमसंकाशांधनुर्बाणधरांस्मरेत् नानालंकारसुभगांमोहयंतीजगत्त्रयम् ४ अर्कलक्षंजपेन्मंत्रंवंधूककुसुमैर्हुनेत् तद्दशांशेनदेवेशिपुरश्वारीततोभवेत् अथयंत्रंप्रवक्ष्यामित्रैलोक्याकर्षणक्षमं त्रिकोणंचाष्टपत्रंचततोभूविंवमालिखेत् ६ मध्येविदर्भितंवीजंसाध्यसाधकलक्षितं कोणत्रयाग्रेविद्यांचपृथगष्टदलेषुच ७ दलाग्रेषुचसंलिख्यचतुरस्रेष्टधालिखेत् त्रैलोक्यमोहनंयंत्रंत्रिषुलोकेषुदुर्लभं ८ मध्येपुष्पंविनिक्षिप्यततःपीठार्चनंचरेत् मोहितीक्षोभिणीचैववशिनीस्तंभिनीतथा आकर्षिणीद्राविणीचतथैवाह्लादिनीपरा क्लिन्नाचक्लेदिनीचैवदिक्षुमध्येतुपूजयेत् १० ततःसिंहासनेपश्चाद्देवीमावाहयेत्प्रिये उ पचारैःसमाराधागुह्यमुद्रांप्रदर्शयेत् ११ अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनं त्रि पुरेशीचवर्णानामर्चनंपरमेश्वरि १२ आदावनंगरूपांचअनंगमदनांतथा अ द०सं० पृ० १५अ) नंगमन्मथांचैवअनंगकुसुमांप्रिये १३ पंचमींचयजेत्तद्वदनंगकुसुमातुरां अनं गशिशिरांचैवतथाचानंगमेखलां १४ अनंगदीपिकामष्टदलेषुक्रमतोयजेत् इंद्रादयश्चसंपूज्यापुनराराधयेच्छिवां १५ इतिश्रीदक्षिणामूर्तिसंहितायांकामेश्वरी पूजाविधिर्नामदशमःपटलः १० ईश्वरुवाच रक्तनेत्रांप्रवक्ष्यामिसर्वकामफलप्रदाम् त्रिपुरेशींसमालिख्यवाग्भवेशशिमंडितां १ जीवाग्निमंडितांकामवीजेचाथक्रमोंतके र क्तनेत्रामहाविद्याविद्याचत्रिपुरेश्वरी ललि तावदिमांध्यायेल्ललितातुकुमारिका इयं तुयौवनप्रौढापीनोन्नतघनस्तनी नितंवि नीक्षाममध्याप्रांतरक्तसुलोचना पूजान्या सादिकंसर्वंत्रिपुरेशीवसुंदरि ४ इतिरक्त नेत्रापूजाविधिः इतिश्रीदक्षिणामूर्तिसंहि तायांदक्षिणसिंहासनविधिरेकादशमःप टलः ११ ईश्वराउवाच अथवक्ष्येमहादेविद क्षिणाम्नायदेवतान् ऐमुक्ताचततःक्लिन्ने कामवीजंततोलिखेत् १ मदद्ववेकुलेचो पृ० १५ब) ल्कात्रिपुरेश्यासनंप्रिये वह्निमद्वद्रवर्णेयं दक्षिणाम्नायदेवताम् २ भोगिनीनामविद्ये यंत्रिषुलोकेषुविश्रुता अनयाविद्ययादेवि देवाःसम्मानितास्त्रयः ३ ध्यानपूजादिकं सर्वंवालावत्समुदाहृतम् इतिश्रीभोगिनी विद्याविधिः ईश्वरुवाच देविपश्चिमवक्त्रे णमयाद्यापिप्रजप्यते विद्याचतुष्टयंसा क्षादमृतानंदविग्रहम् महासिंहासनग तांतत्रसंजीवनींशृणु शक्तिवीजंसमालि ख्यशिवचंद्रौसमालिखेत् २ अनुसारविसर्गा भ्यांमंत्रितौक्रमतःप्रिये संजीवनिचजूंजी वंप्राणग्रंथिस्यमालिखेत् ३ कुरुशब्दंभृगुः सर्गीवक्तिजायान्वितोमनुः विंशत्यर्णृषिः शुक्रोगायत्रंछंदुच्यते संजीवनीदेवतास्या च्छक्तिरंत्यादिवीजकम् तृतीयंचचतुष्कंच द्वितीयंपंचकंतथा चतुर्द्धिकंचक्रमतःष डंगानिप्रविन्यसेत् भूर्जेक्षीरेणविलिखे त्षट्कोणेमंडलंसुधीः कर्पूराभांहार मुक्ताभूषणैर्भूषितांपरां ज्ञानमुद्राक्षमा लांचदधतींचिंतयेत्परां एवंध्यात्वावाह्यम दं०सं० पृ० १६अ) ध्येपूजयेदुपचारकैः आदावंगानिसंपूज्य षट्कोणेषुचपूजयेत् संजीवनीतथाबु द्धिंपूर्वसंजीवनींततः अहंकारमयींतद्व त्सतुसंजीविनींप्रिये सर्वसंजीविनींचैव राजसंजीनींक्रमात् शक्तिवीर्जनदेवेशि ङेनमोन्ताःप्रपूजयेत् वर्णलक्षंजपेन्मंत्रं पुरश्चरणहेतवे तद्दशांशेनजुयादूर्वात्रि मधुरान्विताः इतिसाधारणीपूजाविशेषं शृणुपार्वति इतिपूजांपुराकृत्वात्वन्यदाव रणंशृणु प्राणापानतथाव्यानमुदानंचस मानकं अग्निकोणेततश्चैवविततंचतथाद्य नं ८ सुखिरंवैखरीशद्वंद्वितीयेकोणकेयजे त् पृथिव्यप्तेजाख्यातंवायवाकाशौतृतीय के शव्दस्पर्शश्वरूपंचरसगंधौचतुर्थके इच्छाज्ञानाक्रियाचैवपरामायाचपंचमे भू र्भुवःस्वस्तपःसत्यंषष्टकोणेक्रमाद्यजेत् स र्वस्यांतेवदेदेविद्विठःसंजीविनीपदम् त्रि शःसंजीवनीपूजामृत्युसंजीविनीतथा इ तिसंजीविनीपूजाविधिः ईश्वरुवाच अ थवक्ष्येमहेशानिमृत्युंजयपरांपरां वद पृ० १६ब) द्वंद्वंवादिनीतिवाङ्मुध्येनिक्षिपेत्प्रिये १ स हस्रंवान्भवेदेविक्लिन्नेक्लेदिनिचालिखेत् महाक्षोभंकुरुद्वंद्वंशिवचंद्रकलानलात् वामाक्षिविंदुनादांकांस्तारवीजंततोवदेत् मोक्षंकुरुयुगंहंसःशक्रस्वरविसर्गमत् ३ इयंसंजीविनीदेविऋषिरस्यासितप्रिये गा यत्रंछंदाख्यातंदेवतेयंतुभैरवी ४ आ दिकूटंभवेद्वीजंमध्यकूटंतुकीलकं अन्य कुटंभवेच्छक्तिःसाक्षान्मृत्युविनाशिनी ५ नवशक्राष्टवर्णैस्तुन्यसेद्धृदिशिरःशिखां क्रमेणानेनचोच्चार्ययपुनरंत्यत्रयंन्यसेत् ६ अथत्रिकोणमालिख्यततःषट्कोणमालिखे त् वहिरष्टदलंपद्मंचतुरस्रंचसंलिखेत् ७ वसुपत्रेकामपीठंषट्कोणेजालपीठकम् ओड्डियानंत्रिकोणेतुविद्याभागत्रयेणतु ८ ध्यात्वाचावाहयेद्देवींकदंबवनमध्यगां पु स्तकंवामहस्तेचदक्षिणेचाक्षिमालिकां ९ विभ्रतींकुंदधवलांकुमारींचितयेत्परात् सर्वोपचारैःसंतर्प्यषडंगाचरणंयजेत् १० वसंतंमदनंचंद्रंविद्याभागत्रयेणतु त्रिको द०स० पृ० १७अ) णेपूजयेन्मंत्रीप्रादक्षिण्येनचाग्रतः ब्रह्म विश्वीशशव्दांतेयजेत्संजीविनीत्रयम् इति संजीविनीषट्कंत्रिकोणेपूजयेत्सुधीः १२ धर्मार्थकाममोक्षांतेजपांतेविज्जपांतिके सं जीविनीपदंचोक्ताषट्कोणेषुप्रपूजयेत् १३ अष्टकांतेतुमातृणांकुर्यात्संजीविनीपदम् अनेनविधिनाविद्वान्पूजयेद्वसुपत्रके १४ नियोज्यलोकपालांतेपदंसंजीविनीतिच क्रमेणानेनदेवेशिपूजयेच्चतुरस्रके १५ तारवीजंशक्तिवीजंश्रीवीजंचादिमंकुरु इतिजप्त्वामहेशानिपुरषार्थप्रदाभवेत् १६ पुनश्चाराधयेद्देवींगंधपुष्पादिभिःप्रिये पु रश्चरणरीतिस्तुपूर्वसंजीविनीवहिः १७ इतिश्रीभैरवीसंजीविनीविधिः ईश्वरुवाच परांक्लिन्नेवाग्भवंचकरोमात्मकमक्षरम् ततोनित्यमदप्रांतेद्रवेमायांचसंलिखेत् १ वज्रेशीरविवर्णेयंऋषिर्ब्रह्मास्यसन्मनोः छन्दोविराट्चवज्रेशीदेवतापरिकीर्तिता २ पंचपंचचतुर्थंचवीजशक्तीक्रमेणतु तार्त्ती यंकीलकंदेव्यास्तुतोंगानिप्रविन्यसेत् ३ पृ० १७ब) आद्यंतवीजंसंत्यज्यद्विकंचैकंचरूपकम् द्विकंद्विकंद्विकंदेविषडंगानिप्रविन्यसेत् ४ वृतंकृत्वामनोरम्यंकर्णिकाष्टकशोभितम् कामवीजेनतन्मध्येमहासिंहासनंयजेत् ५ रविपत्रविशोभाढ्यंतत्रविद्यांसमालिखेत् चतुरस्रंततःकृत्वामध्येपुष्पंविनिःक्षिपेत् ६ ध्यात्वाचावाहयेद्देवींकदंववनमध्यगां र क्तांचंद्रकलाचाहमुकुदांवरभूषणाम् ७ महातारुण्यगर्वाढ्यांलोचनत्रयभूषिताम् शोणिताव्धितरत्योतमहायंत्रोपरिस्थितां दाडिमीसापकंचैवपाशंचैवसृणिंतथा चा पंकलापंदधतीशोणमालानुलेपनाम् ९ स्मरेद्रत्नभरांदेवींमुपचारैःसमर्चयेत् आदा वंगानिसंपूज्यरविपत्रेप्रपूजयेत् १० हृल्ले खांक्लेदिनींनन्दांक्षोभिणींमदनातुराम् नि रंजनांरागवतींक्लिन्नांचमदनावतीम् ११ खेचरींद्राविणींचैवक्रमाद्वेगवतींयजेत् कामवीजेनसंपूज्यसंप्रदायांतरंशृणु वि रव्यभूमिविंबंहिअष्टपत्रंसमालिखेत् मा तरस्तत्रसंपूज्याभूविंवेलोकपालकान् १३ द०स० पृ० १८अ) पुनर्देवींसमभ्यर्च्यवर्णलक्षंजपेछुचिः त दशांयोनजुद्रपादंबुजैरक्तसुन्निभैः १४ इ तिवज्रेशीपूजाविधिः ईश्वरुवाच अथव क्ष्येमहेशानिभैरवींत्रिपुरांपराम् पंचमुद्रा समासीनांमुंडमालाविभूषिताम् १ आता म्नार्कायुताभासांरत्नभूषणभूषिताम् पा शांकुशभयवरांसाक्षाद्भुवनमातृकाम् २ हंसाद्यंवाग्भवंवह्निवचंद्रकलापराम् त्रि पुरेशीशक्तिवीजंशिवाद्यैभैरवीमनुः ३ सर्वमस्याविधानंतुत्रिपुरेशीवविद्धिहिः अनयासदृशीविद्यात्रिषुलोकेषुदुर्लभा ४ इतित्रिपुराभैरवीपूजाविधिः ईश्वरुवाच एतच्चतुष्टयंदेविपश्चिमाम्नायसागरे वा ग्भवंशक्तिवीजंचश्रीवीजंहसफानलम् १ रुद्रस्वरेणसंमेद्यंविंदुनादांकितेहसौः ए तत्संपुटितांविद्यांद्वात्रिंशार्णालिखेद्वुधः २ नमोभगवतिप्रातेचतुर्थंप्रणवंलिखेत् ई श्वराख्यंक्रमेणैवकुब्जिकायैपदंततः ह्री मात्मकंपदंपश्चाद्रुमात्मकमतःपरम् अघोरे यघोरेपश्चादघोरमुखिसंलिखेत् ४ पृ० १८ब) छींछींकिणियुगंविच्चेकुव्जिकासांभवीपरा पश्चिमान्नायदेवेशिभोगमोक्षप्रदायिनी ५ महासिंहासनाख्यंतुकथितंयच्चतुष्टयम् अनयाविद्ययागौरीसम्यक्संमानितासदा ६ इतिश्रीदक्षिणामूर्तिसंहितायांपश्चिमाम्नाय सिंहासनविद्याविवरणंनामद्वादशःपटलः १२ ईश्वरुवाच उत्तरास्येनदेवेशिमयाद्यापिप्र जप्यते महासिंहासनगतौभैरवीडामरीश्वरी १ पूर्वोक्तभैरवीदेव्याःकामकूटेपरांशिवं हि त्वोच्चरेतदाविद्यामहासिंहासनेश्वरी २ उत्तरा म्नायविद्येशीभोगमोक्षफलप्रदा वंधूककु सुमप्रीतांवंधूककुसुमार्चिताम् ३ वंधूककु स्वमाभासांपंचमुंडाधिवासिनीम् स्फुरच्चंद्र कलारत्नमुकुटांमुंडमालिनीम् ४ त्रिनेत्रां रक्तवसनांपीनोन्नतघनस्तनीम् पुस्तकंचा क्षमालांचवरदंचाभयंक्रमात् ५ दधतींसं स्मरेन्नित्यमुत्तराम्नायमानिताम् मदनांत फरेमात्ममहाचंडंसमालिखेत् ६ योगेश्व राग्न्यक्षियुतावियेयंकालिकामता नवाक्ष रींमहेशानिस्मरेदुत्तरनायिकां अनयावि द०स० पृ० १९अ) द्ययादेविसम्यक्रसंमानिताभवेत् न्यासपू जादिकंसर्वंत्रिपुरेशीवसुंदरि महासंप त्प्रदादेविमहाभयविनाशिनी ९ इतिश्री दक्षिणामूर्तिसंहितायांमुत्तराम्नायसिंहास नेश्वरीडामरश्वरीभैरवीविधानंनामत्रयोदशः पटलः १३ ईश्वरुवाच चतुःसिंहासनेष्टाया भैरव्याःपरमेश्वरि वाग्भवंसर्वसाम्राज्यदापि न्यामध्यमंलिखेत् १ दक्षिणाम्नायरुद्रार्णास र्वात्पंचसमालिखेत् चैतन्यंभैरवींध्यायेत्पाशां कुशकपालिकाम् २ रक्तमुंडस्रजांचैवपंच प्रेतासनस्थिताम् कामेश्वरींचसंपूज्यपूर्वसिं हासनाश्रयाम् ३ इतिचैतन्यभैरवीविधिः ई श्वरुवाच उरक्ष्मामादनंजीवःशिवेवत्रिधालि खेत् अर्कतूर्येन्द्रकलयाक्रमात्तत्पिंडितंकुरु विंदुनादात्मकंचाद्यंयुग्मसत्यंविसर्गवत् ध्या नंत्रिभुवनेश्वर्याभैरव्याइवसुंदरि ५ षट्कूटा भैरवीदेवीदक्षिणाम्नायसेविता त्रिकोणंचै वषट्कोणंवस्रपत्रंक्षमात्मकम् ६ ऋष्या दित्रिपुरेशीवपूजाचैवनिग द्यते || पृ० १९ब) त्रिकोणेक्रमतोदेविरतिप्रीतिमनोभवाः ७ डाकिनीशाकिनीचैवलाकिनीकाकिनीतथा राकिनीहाकिनीचैवषट्कोणेषुयजेत्क्रमा त् ८ अष्टपत्रेषुदेवेशितथानंगादिपूजनम् मातरोभैरवःसार्धंतथापीठादिभैरवाः इंद्रा दयश्चसंपूज्यादक्षिणाम्नायमानिता इतिषट् कूटभैरवीविधिः ईश्वरुवाच षट्कूटभै रवीवर्णात्संहारक्रमतोलिखेत् तथासंयो ज्यनित्येयंभैरवीभयहारिणी ११ षट्कूट भैरवीयच्चविधानपूजनादिकम् पश्चिमा म्नायसामर्थ्याद्कु?र्वितेपीसुरीश्वरी १३ अनयास दृशीविद्यात्रिषुलोकेषुदुर्लभा इतिनित्याभै रवीविधिः ईश्वरुवाच डामरैश्वरभैरव्या कादिहित्वासुरेश्वरि विंदुनादकलाक्रांतंश क्तिवीजंसमुच्चरेत् भयविध्वंसिनीनामभैर वीपरिकीर्तिता उत्तराम्नायगंभीराडामरे शीचपूजयेत् १५ इतिभयविध्वंसिनीविधिः ईश्वरुवाच हसास्वांतेफरेमात्मवीजंसंलि ख्यमंत्रवित् भयविध्वंसिनीनामभैरव्याद्रू पमालिखेत् १६ मध्यमंचातिमंचैवविद्येयं द०सं० पृ० २०अ) भोगमोक्षदा अघोरभैरवीदेवीश्यामामुंड ह्मगाकुला १७ दक्षिणोत्तरयोःप्रौढापंच मुंडाधिवासिनी पुस्तकंचाक्षमालांचपाशं चैवांकुशंतथा १८ खट्वांगंडमरुंचैवकपा लंशूलमेवच दधतींपरमेशानींषट्कूटा मिवपूजयेत् १९ इतिघोरभैरवीत्रिधिः ईश्व रुवाच चतुःसिंहासनसमांश्रीसंपद्भैरवींय यजेत् भयविध्वंसिनीनामभैरवीपूर्वमालि खेत् २० आद्येत्रितीयेदेवेशिवह्निवीसमास नम् इयंसंपत्प्रदानामत्रिषुलोकेषुदुर्लभा २१ चतुःषष्टिमहाकोटिद्योगिनीशासनंक्षमा अ ताम्रार्कसहस्राभांचंद्रमंडलसन्मुखीं २२ चं द्रखंडस्फुरद्रत्नमुकुटांक्षाममध्यमां नितं विनींस्फुरद्रक्तवसनांरक्तभूषणाम् २३ उन्मत्त यौवनप्रौढांपीनौन्नतघनस्तनीम् असृक्यं काढामुंडस्रक्मंडितांगींसुभूषणां २४ पु स्तकंचाभयंवामेदक्षिणेचाक्षमालिकां वरंचदध तींपूज्यात्रिपुरेशीचनान्यथा २५ इतिदक्षिणामू र्तिसंहितायांभैरवीवर्णनंनामचतुर्दशःपटलः १४ ईश्वरुवाच अथेशानेनवक्त्रेणमपायापिप्र जप्यते विद्यानांपंचकंदेवित्रिषुलोकेषुदुर्लभां १ वाग्भवंशिवसंयुक्तंवाग्भवंमध्यमंशृणु || पृ० २०ब) हकलांतेमहेशानिशिववीजत्रयंलिखेत् २ रेफवामाक्षिविद्धिंदुघटितंतुतृतीयकं ह सानुग्रहसर्गाद्यंविद्यैकासुंदरीप्रिये ३ अ हसान्योजपेन्मंत्रीरवितुर्यमनुस्वरैः अंत्यंस सर्गमायेद्धेविंदुनादकलात्मके ४ इयंद्वि तीयादेवेशिसुंदरीपरिकीर्तिता केवलंवा ग्भवंदेविवाग्भवेमध्यमेशृणु ५ हसरा हसहस्रांशुवाग्भवेनचयोजयेत् हत्रयं कलहृल्लेखाशक्तिकूटंशृणुप्रिये ६ चतु ष्कंशिववीजानांरेफानुग्रहसर्गमत् इयं तृतीयादेवेशिसुंदरीचतुरक्षरा ७ कलंति शिवयुग्मंव्रुतथावीजत्रयेशिवम् परया पिंडितंकुर्यात्क्रूटमेतत्त्रिधाप्रिये ८ वाग्भ वेकामवीजेचशक्तिवीजेचसंलिखेत् च तुर्थीसुंदरीख्याताभोगमोक्षप्रदायिनी ९ जीवःशिवयुगंजीवःक्ष्माक्षकारशिवेनुमत् एतदाद्यंचमध्यंचहसयुक्ष्माक्षमेंदुमत् १० अन्यंतुहसलक्षेन्दुहेन्द्वाकाशविभूषितं त्रिपुरेशीमनोरेखापंचमीसुंदरीस्मृता ११ संपत्प्रदांभैरवींचध्यायेत्पंचकमुत्तम् ऋ द०सं० पृ० २१अ) ष्यादिपूजाविज्ञेयात्रिपुरेशीचनान्यथा १२ इ तिश्रीदक्षिणामूर्तिसंहितायांसुंदरीपूजनं नामपंचदशःपटलः १५ ईश्वरुवाच अथव क्ष्येमहेशानिविद्याकल्पलताप्रिये यासावि ज्ञानमात्रेणपलायंतेमहापदः १ श्रीविद्यापारि जातेशीपंचकामेश्वरीतथा पंचवाणेश्वरीदेवी कुमारीपंचकीर्तिताः २ संपत्प्रदायाभैरव्यावा ग्भवंवीजमालिखेत तारेणपरयादेविसंपु टीक्रतुमंत्रवित् ३ सरस्वतीहृदंतोयंरुद्रार्णै र्मनुरीरितः ऋषिऽस्याद्दक्षिणामूर्तिर्गायत्रीछं दुच्यते ४ पारिजातेश्वरीवाणीदेवतापरि कीर्तिता द्वितीयेचतृतीयंचवीजशक्तीचतार कं ५ कीलकंचमहेशानिमहासारस्वतप्रद म् षड्दीर्घस्वरसंभिन्नवीजेनांगानिसंन्यसे त् ६ ब्रह्मरंध्रेभ्रुवोर्मध्येनेत्रश्रोत्रपुटेक्रमा त् नासारंध्रयुगेजिह्वांलिंगयापुषुविन्यसे त् ७ वर्णान्वितास्यदेवेशींध्यायेत्सारस्वतप्र दां हंसारूढांलसन्मुक्तांधवलांशुभ्रवाससं ८ शुचिस्मितांचंद्रमौलिंवज्रमुक्ताविभूषणां विद्यांवीणास्वधाकुंभमक्षमालांचविभ्रतीं ९ पृ० २१ब) एवंध्यात्वाजपेन्मंत्रंरविलक्षंसमाहितः हु नेत्सहस्रदशकंसितपद्मैःप्रसन्नधीः १० अथवादेवदेवेशिजुहुयान्नागपंचकैः मातृकावल्लिखेयंत्रंपीठेतद्वत्प्रपूजयते् तत्रावाणींसमावाह्यपूजयेदुपचारकैः आ दावंगानिसंपूज्यपरिवारान्समर्चयेत् १२ पार्श्वर्योर्देवतायास्तुसंस्कृतांयजेत् प्र जामेधास्तुतिःशक्तिःस्मृतिर्वागीश्वरीतिच सुमतिस्वस्त्रिरित्येतावसुपत्रेषुपूजयेत् श्वातरस्तुदलाग्रेषुसंपूज्यापरमेश्वरि इंद्रा दयश्चभूविंवेपुनर्देवीसमर्चयेत् पारिजा तेश्वरीविद्यादुर्लभाभुवनत्रये १५ इतिपा रिजातेश्वरीवाणीयजनविधिः ईश्वरुवा अथवक्ष्येमहेशानिपंचवाणीश्वरीशिवां तैरेवपंचभिर्वाणैर्विद्यापंचाक्षरीभवेत् १६ ऋषिरस्यास्तुमदनोगायत्रीछंदुच्यते का मेश्वरीववीजानिदेवताचेयमीश्वरि १७ व्यस्तैःसमस्तैरंगानिवाणैःपंचभिरर्चयेत् पूर्ववत्पंचवर्णानांन्यासंकुर्वादिचक्षणः १८ पंचकामांश्चविन्यस्यपूर्ववत्परमेश्वरि उ दं०स० पृ० २२अ) द्यदिवाकराभासांनानालंकारभूषिताम् १९ वंधूककुसुमाकाररक्तवस्त्रांगरागिणीम् इक्षुकोदंडपुष्पेषुविराजितभुजद्वयाम् एवंध्यात्वाजपेन्मंत्रंवर्णलक्षंसमाहितः त द्दशांशेनजुहुयाद्वंधूककुसुमैःप्रिये का मेश्वरीवसंपूज्याविशेषोवाणपूजनम् (त्रि पुरेशीवसंपूजनम्) त्रिपुरेशीवसंपूज्यमो हयेजगतीमिमाम् २२ इतिपंचवाणेश्वरीय जनविधिः ईश्वरुवाच अथवक्ष्येपंचकामना पिकांविश्वमातरां पूर्वोक्तपंचकामैस्तुपंच कामीश्वरीभवेत् २३ ऋषिःसंमोहनोनामगा यत्रंछंदुच्यते देवतेयंकाममाद्यंवीजंशक्ते तुकीलकं २४ अंत्यमेतैर्न्यसेन्मंत्रीव्यस्तैश्चै वसमस्तकैः अंगानिपूर्ववत्कामवाणन्यास द्वयंयजेत् २५ रक्तांरक्तदुकुलांगंलेपनांर क्तभूषणां पाशांकुशौधनुर्वाणान्पुस्तकंचा क्षिमालिकान् २६ वराभीतिंचदधतींत्रैलोक्य वशकारिणीम् अन्यत्सर्वंपूजनादिपंचवाणे श्वरीचतु २७ पंचकामैःपरिवृताविशेषोयंनिग द्यते इतिपंचकामेश्वरीयजनविधिः ईश्वरु० पृ० २२ब) अथवक्ष्येमहेशानिकुमारींविश्वमातरम् का मेश्वरींभगवतींत्रैलोक्याकर्षणक्षमाम् २९ वाग्भवंत्रिपुरेशान्यांहित्वातत्संक्षिपेत्सुधीः कामशक्तिद्वयांतस्थंविद्येयंद्व्यक्षरीभवेत् ३० त्रिपुरेशीचृष्यादिवीजशक्तीक्रमेणतु आद्यंतेकीलकंसध्यंमहावश्यकरीप्रिये ३१ द्विरावृत्याषडंगानिपंचवाणान्प्रविन्यसेत् पंचकामांश्चविन्यस्यमूलेनव्यापकंन्यसेत् कामेश्वरीमहायंत्रमध्येदेवींप्रपूजयेत् वि शेषंशृणुतत्रैववाणस्थानेषुपार्वति ३३ पं चकामान्प्रपूज्याथरत्यादित्रितयंयजेत् त तोनंगायगाद्यष्टकंस्याद्भैरवैःसहमातरः ३४ अष्टपत्रेषुचाग्रेषुयजेत्पीठाष्टकंप्रिये इंद्रा दयश्चसंपूज्यामध्येदेवींसमर्चयेत् ३५ पु रश्चरणकृत्यंतुत्रिपुरेशीवसुंदरि एतांस्म रन्महेशानिमोहयेजगतीमिमाम् ३६ उद्य त्सूर्यसहस्राभांमाणिक्यवरभूषणान् स्फुरद्रत्नदुकूलाढ्यांनानालंकारभूषणां ३७ इक्षुकोदंडवाणांश्चपुस्तकंचाक्षिमालिकां दधतींचिंतयेन्नित्यंसर्वराजवशंकरीम् ३८ द०स० पृ० २३अ) इतिकुमारीयजनविधिः इतिश्रीदक्षिणामू र्तिसंहितायांकल्पलताकथनंनामषोडशः पटलः १६ देव्युवाच पंचरत्नमहाविद्यासूचि तानप्रकाशिता श्रोतुमिछामिदेवेशकृपांकुरु महेश्वर १ ईश्वरुवाच सिद्धविद्यांप्रवक्ष्यामि स्मरणेनापिसिद्धिदाम् कामदामत्तदानित्यंस र्वैश्वर्यप्रदाप्रिये २ श्रीविद्यासिद्धविद्याचमातं गीभुवनेश्वरी वाराहीतिचसंप्रोक्तापंचरत्नंप्र कीर्तितम् ३ शिवाग्निवामनयनविंदुनादक लात्मकं श्रीकामयुगलंचोक्ताहृदंतेभगवत्य पि ४ माहेश्वरीचतुर्वर्णमत्रपूर्णंततोलिखे त् चतुवर्णंवह्निजायाताराद्योमनुरीरितः ५ द्विदशार्णंमहेशानिप्रातरेवसमर्चयेत् अ स्याःस्मरणमात्रेणपलायंतेमहापदः ६ ऋषिर्ब्रह्मास्यमंत्रस्युष्णिक्छंदोभिधीयते अन्नपूर्णेश्वरीसिद्धविद्येयंदेवताप्रिये ७ वीजशक्तीःकीलकंचहृल्लेखादिकमुच्यते षड्दीर्घस्वरसंभिन्नंहृल्लेखांकुरुपार्वती ८ एभिरंगानिविन्यस्यवर्णन्यासंसमाचरेत् ब्रह्मरेध्रेचसीमंतेभालेभ्रूमध्ययोर्नसि ९ पृ० २३ब) वक्त्रेकंठेचहृदयेकुक्षिनाभिषुलिंगके आ धारेस्फिक्द्वयेचोरुद्वयेजानुद्वयेतथा १० पादयोर्देवदेवेशिपदन्यासंततोन्यसेत् न वद्वारेषु(हृदयेकुक्षिनाभिषुलिंगके आ) (धारेस्फिक्द्वयेचोरुद्वयेजानु) देवेशिपद न्यासमुदाहृताः ११ मूलेनव्यापकंन्यासंकु र्याद्देहस्यशुद्धये अथयंत्रंप्रवक्ष्यामिभोगमो क्षफलप्रदम् १२ त्रिकोणंषोडशारंचततोष्ट दलनीरजं भूविंवंपरमेशानितारंमध्येवि निक्षिपेत् १३ कोणत्रयेत्रिवीजानिप्रादक्षिण्ये नयोजयेत् अग्रमारभ्यपूर्वादिकलापत्रेशृ णुप्रिये १४ अवशिष्टात्कलावर्णान्पूर्वादि क्रमतोलिखेत् अष्टपत्रस्यपत्रेषुलिखेदीर्घ स्वरात्प्रिये १५ एतत्पीठंसमभ्यर्च्यप्रणवेन त्रिधावुधः तत्रावाह्यान्नदांदेवींमुद्रासाधारणं यजेत् १६ गंधपुष्पादिभिःसम्यगभ्यर्च्यपरि तोयजेत् अग्नीशासुरवायव्यमध्यदिक्ष्वंगपू जनम् १७ ध्यात्वादेवींसिद्धविद्यांमहाक्षीरार्ण वेवुधः रत्नद्वीपेलसद्वर्णप्राकारभवनोज्व ले १८ कल्पद्रुमविशोभाढ्यसिंहासनसमन्विते द०स० पृ० २४अ) उद्यत्सूर्यसमाभासांविचित्रंवसनोज्वलां १९ चंद्रचूडामन्नदाननिरतांरत्नभूषिताम् सु वर्णकलशाकारस्तनभारभरोलताम् २० रुद्रतांडवसानंदंद्विभुजांपरमेश्वरीम् व रदाभयशोभाढ्यामन्नदानरतांसदा २१ अ थवादक्षिणेहस्तेदर्वीध्यायेत्सुवर्णजाम् दु ग्धान्नभरितांपात्रंदिव्यरत्नादिभूषिताम् २२ वामहस्तेमहेशानिध्यात्वेमांपरमेश्वरीम् पु रतस्तांडवप्रौढंरुद्रंसंपूजयेत्प्रिये २३ द्वि तीयेनतुवीजेनतृतीयेनहरिंयजेत् ब्रह्मा णंतुर्यवीजेनकलापत्रंततोयजेत् २४ आदौ नतसुरामोक्षदायिनीभयहारिणी गति हंसीवराक्षीचतीर्थरूपाततःपरम् २५ मा नदाहेमदास्वर्णदात्रीरिपुनिकृतनी अन र्थध्वंसिनीदेवीमननानंददायिनी २६ पू तमूर्तिऋणघ्रीचस्वामिनीहरसुंदरी शोड शांतेंन्नपूर्णायैनमस्कारक्रमेणतु २७ वर्ण देवींसमभ्यर्च्यवसुपत्रंततोयजेत् ब्राह्म्य ष्टकेनदेवेशिचतुरस्रेततोयजेत् २८ लोकपालैःपुनर्देवींगंधपुष्पादिभिर्यजेत् पृ० २४ब) लक्ष्यंजपेत्सुनियमंस्तद्दशांशेनहोमयेत् २९ रम्यपापससर्पिभ्यांसिद्धिदंभवतिध्रुवम् इतितेकथितासिद्धविद्यात्रफलदायिनी ३० इतिश्रीदक्षिणामूर्तिसंहितायांमन्नपूर्णाय जनंनामसप्तदशःपटलः १७ ईश्वरुवाच अथातःसंप्रवक्ष्यामिमातंगींरत्नदेवताम् वा ग्भवंकामवीजंचसर्गवान्भृगुरुत्तमे १ अनु ग्रहेणसंयुक्तःपुनराद्यंपरांलिखेत् श्रीवी जंतारकंचैवनमोभगवतीतिच २ मातं गीश्वरिसर्वांतेमनोहरिजनादिके सर्वरा जवशंचांतेकरिसर्वनुखांतकं ३ रंजनीति ततःसर्वस्त्रीशव्दंचततोवदेत् पुरुषांतेवशं चोक्ताकर्यंतेसर्वदुष्टच ४ मृगंनेवशमा लिख्यसर्वलोकपदंवदेत् ततश्चवशमा लिख्यकरिशव्दंततोलिखेत् ५ परांश्रियंका मवीजंवाग्भवंचततोलिखेत् सप्ततिश्चत्रयो वर्णामातंगीविग्रहाप्रिये ६ इयंसमस्तवि द्यानांराज्ञीमोक्षार्थसिद्धिदा ऋषिर्मतंगोभ गवान्गायत्रंछंदुच्यते ७ देवतानादमू र्तिस्तुमातंगीपरमेश्वरी कामवीजंवाग्भवंच द०स० पृ० २५अ) वीजशक्तीचकीलकम् ८ तार्तीयंदेवदेवेशि षडंगान्यथविन्यसेत् आद्यवीजत्रयेणैवद्वि रावृत्याषडंगकम् अंभोजार्पितदक्षाघ्रिंक्षा मांध्यायेन्मतंगिनीं कणद्वीणालसन्नादश्ला घ्यांदोलितकुंडलाम् दंतपंक्तिप्रभारम्यांशि वांसर्वांगसुंदरीम् कदंवपुष्पदामाघ्यांवी णावादनतत्पराम् ११ श्यामांगींशंखवल यांध्यायेत्सर्वार्थसिद्धये अथयंत्रंप्रवक्ष्यामित्रि कोणंपंचकोणकम् १२ वसुपत्रंकलापत्र वसुपत्रंचतुर्दलम् चतुरस्रंचतुर्द्वारमेवंमं डलमालिखेत् १३ आवाह्यदेवतांसम्यगुप चारैःसमर्चयेत् अग्नेशासुरवायव्यमध्यदि क्ष्वंगपूजनं १४ अथवक्ष्येमहेशानिचरप्रत्य पूजनम् अग्रद्वाराचतुर्दिक्षुप्रादक्षिण्येनपू जयेत् सरस्वतींचलक्ष्मींश्चशंखपद्मनिधी प्रिये विदिक्षुवामभागादिप्रादक्षिण्येनपूर्वव त् १६ वटुकंगणराजंचक्षेत्रपालंचयोगिनीः ततश्चतुर्दलाग्रेषुसिद्धमातंगिनींक्रमात् १७ महालक्ष्मीमयींसिद्धलक्ष्मीमातंगिनींयजेत् महामातंगिनींदेवींप्रादक्षिण्येनपूजयेत् १८ पृ० २५ब) अष्टपत्रेमहेशानित्वसितांगादिभैरवान् अ सितांगोरुरुश्चंडःक्रोधुन्मत्तभैरवः १९ कपालीभीषणश्चैवसंहारश्चाष्टभैरवाः प्रादक्षिण्येनदेवेशिपुरारभ्यपूजयेत् २० वामाज्येष्टाचरौद्रीचशांतिःश्रद्धाचपंचमी वा गीश्वरीक्रियाशक्तिर्लक्ष्मीःपुष्टिस्तथैवच २१ मोहिनीप्रमथास्वासाचीचीवैविंदुमालिनी स्व रानंदानागवुद्धिरेताःषोडशकीर्तिताः २२ पुरारभ्यदेवेशिप्रादक्षिण्येनपूजयेत् षो डशारेततोदेविलक्ष्मीचैवसरस्वति रतिः प्रीतिःकीर्तिशांतिःतुष्टिपुष्टिश्चपूर्ववत् प त्राष्टकेषुदेवेशिमातृणांचाष्टकंयजेत् पू र्ववत्पंचपत्रेषुद्राविणोशोषिणीतथा स्तं भिनीमोहिनीचैवतथाचाकर्षकारिणी २६ त्रिकोणेपिहिदेवेशियजेदग्रेपिपूर्ववत् प्रा दक्षिण्येनमनुनारतिप्रीतिमनोभवाः २७ पुनःसंपूज्यदेवेशींसर्वोपस्करकैःप्रिये पुनश्चरणकार्येषुलक्षत्रयमुदाहृतम् २८ प्रवालमालयादेविदशांशेनतुहोमयेत् वंधूककुसुमैर्मंत्रीत्रिकोणेकुंडकेशुचिः २९ द०स० पृ० २६अ) एवंसंशुद्धमंत्रस्तुसर्वकर्माणिसाधयेत् रा ज्यार्थीमल्लिकाजातीपुन्नागैःश्रीफलछदैः ३० श्रीकामुकःशुभ्रपद्मैःपंकजैर्वापिशुप्रभे उ त्पलैर्भोगकामस्तुलक्ष्मीपुष्पश्चसुब्रते ३१ जपावंधूकवकुलकिंजल्कैर्वशकारिणी व श्यार्थीमधुसंयुक्तैर्मधूककुसुमैर्हुनेत् ३२ आकर्षणेतुलवणतिलैस्त्रिमधुसंयुतैः वं जुलैर्वृष्टिकामस्तुधनार्थीहेमपुष्पकैः ३३ वश्येकदंवकुसुमैराज्यार्थीधान्यतंडुलैः साज्यान्नैरलकामस्तुवश्येकुंकुमरोचनैः गंधद्रव्यैस्तुसौभाग्येनन्द्यावर्त्तैस्तुवाङ्मुये करिपुष्पैःसंपदर्थीपालाशैस्तेजसेहुनेत् कापिलेनघृतेनाथतेजस्वीहवनाद्भवेत् उ न्मादनकरोहोमुन्मत्तकुसुमैर्भवेत् वि षवृक्षैश्चनिवैश्चश्लेष्मांतकविभीतकैः उ लूकगृद्ध्रकाकैस्तुनिंवतैलपरिस्तुतैः हो मयेद्रिपुनाशायनराश्रेवह्निकुंडके यमा शाभिमुखोनग्नोभूत्वादृष्टिमलीमसः ३८ उच्चाटनंवायुभागेविद्धेशोरक्षसोभवेत् इंद्राग्नेयविभागेपिशांतिकेप्राङ्मुखोभवेत् पृ० २६ब) पश्चिमेस्तंभनंचोक्तमुत्तरस्यांतुदेशिकः साधयेत्सर्वकर्माणिपौष्टिकादीनिसाधकः ४० पायसैर्गुडखंडैश्चकुर्यादिक्षुरसैरपि पि त्तशांतिकरोहोमस्तन्यंकेवलमेवच ४१ उन्मादनाशनंतूर्णंपायसंघृतसंयुतं म रीचतिलतैलाक्तंकासश्वासहरंभवेत् ४२ निर्गुंडीमूलहोमेनवातदोषविनाशनं शृण्वथाकर्षणंशीघ्रमाकृतित्रितयंकुरु ४३ जीवन्यासंततःकृत्वामृदाचक्रीगृहोत्थया मधूच्छिष्टेनचान्यापिलुवणेनापिपुत्रिका ४४ कृत्वातन्नामसंकल्पमृद्रूपांकुंकुमेन्यसेत् सप्तांगुलमधःपश्चाल्लावणीमेखलागतां लंवयेदूर्द्धतःपश्चाद्वृक्षेमाक्षिकसंभवाम् ल वणंपेष्यमधुनालावन्याहोमयेत्सुधीः आ रभ्यदक्षिणंपादंवामपादावधिप्रिये मनु जानामयंहोमःस्त्रीणांदेविविपर्ययः ४७ सप्तरात्रान्महादेविक्षुभ्यंतिविरहातुराः प तंतिसाधकस्यांकेभयलज्जाविवर्जिताः ४८ लवणंनिंवतैलेनहोमयेछत्रुनाशने ह रिद्राचूर्णसंयुक्तंलवणंस्तभनेहुनेत् ४९ द०स० पृ० २७अ) पूर्वाह्नेपूर्वरात्रौचशुभार्थंचयजेद्वुधः मध्याह्नेमध्यरात्रेतुकुर्यादुच्चाटनादिकं मातंगीविग्रहोभूत्वासर्वकर्माणिसाधयेत् आवेशनंततःकुर्यात्कंन्यानांसन्निधःसुधी ५१ कन्यापूजाचकर्तव्यायोगिनीनांविशेषतः अष्टाष्टाकंसमभ्यर्च्यमार्तगीतृप्तिकृत्सुधीः वलिंनिवेदयेत्पश्चात्मातंग्यास्तुवरानने दे विशक्तिनमश्चांतेभगवत्यपिसंलिखेत् ५३ मातंगीचततोब्रूयाच्चंडालीचसमालिखेत् ततःसर्वजनंचोक्तमेवशंवसमालिखेत् आनयेतिचसंलिख्यद्विठांतोमनुरुच्यते अनेनबलिदानंस्यान्मातंग्यासिद्धिहेतवे ५५ वटुकादिवलिंतद्वत्सम्यगुक्षिप्यमांत्रिकः साधयेत्सर्वकर्माणिमातंग्यास्तुप्रसादतः ५६ इतिश्रीदक्षिणामूर्तिसंहितायांमातंगीश्व रीरत्नयजनंनामाष्टादशःपटलः १८ ईश्व रुवाच शृणुदेविप्रवक्ष्यामिभुवनानंदमंदि रं यस्यविज्ञानमात्रेणपलायंतेमहापदः १ शिवंवह्निसमारुढंवामाक्षिपरिभूषितम् ऋषिःशक्तिर्वसिष्टस्यसुतछंदोत्रकथ्यते २ पृ० २७ब) गायत्रीदेवतावोधवाचिसंवित्कलापरा शिवतूर्येवीजशक्तीकीलकंरेफुच्यते ३ ददातिभुवनेशानीपुरुषार्थचतुष्टयं अ नंतवामनेत्राभ्यांवामश्रुत्याधरेणच ४ अनुग्रहविसर्गाभ्यांविद्यांसंभेद्यमंत्रवित् षडंगानिचविन्यस्यहृल्लेखादिमनुन्न्यसेत् ५ अकारायर्णपर्यंतंविपरीतक्रमेणच मा तृकांसंहरेन्नद्वन्नद्वद्वर्गैविलोमतः ६ गु रूपदेशविधिनाविलोमस्वरमार्गतः सं हारमातृकान्यासोव्रह्मानंदरसोज्वलः ७ एवंभूत्वाततोमंत्रीषडंगैरंगुलीर्न्यसेत् पु नरंगानिविन्यस्यचिदानंदेनतेजसा ८ का स्यहृद्गुह्यपादेषुन्यसेत्पंचपरेश्वरी हृल्ले खांगगनांरक्तांचतुर्थींचकरालिकां ९ महोक्षुष्मांप्रविन्यस्यतिस्रःशक्तिश्चविन्यसेत् गायत्रींचैवसावित्रींतृतीयांचसरस्वतीम् १० कंठेवामस्तनेदक्षस्तनेदेवत्रयंत्ततः ब्र ह्माविष्णुशिवाख्यंचवामांशेहृदयेतथा ११ दक्षांशेचततोन्यासंमातृणांविन्यसेत्प्रिये ललाटेत्येवामभागेपार्श्वेकुक्षौचदक्षिणे १२ दं०स० पृ० २८अ) कुक्षौपार्श्वेचकेशांतेमूलेनव्यापकंन्यसेत् पाशांकुशवराभीतिमुद्रासन्नद्धविग्रहः १३ कुंकुमादिभिरन्यच्चसुद्रव्यैर्विलिखेत्पटे सु वर्णरौप्यताम्रादिरचितेदेशिकोत्तमः १४ इंद्रराक्षसवायव्यरेखाभिर्वह्निमंडलं त न्मध्येसाध्यनामांकंशक्तिंसंलिख्यमांत्रिकः १५ ठकारवेष्टितंकृत्वाकोणाग्रेषुपरालिखेत् स्थानत्रयेपिवंधस्तुकथ्यतेसिद्धिदायकः १६ तद्वीजत्रयरेखाग्रंप्रादक्षिण्येनवेष्टयेत् इ तरत्रितयेचास्यमायाग्रेणैववेष्टयेत् १७ अन्योन्यकलयारम्याशक्तिवंधुदाहृतः त्रिकोणस्यांतरालेषुवामनेत्रंसविंदुकं १८ प्रत्येककोणपार्श्वेषुहर्पर्णंचहराक्षरं पु नरेतद्भयंमध्येतुर्यंचसविसर्गकम् १९ इत्यर्णैवेष्टयेद्वाह्येवृत्तंकृत्वावहिस्ततः पद्मंविरव्यवस्वस्रंकेसरस्थानकेपुनः २० हर्पणंचहरार्णंचलिखेत्प्रतिदलंसुधीः तुर्यस्वरंहरंतुर्यंहरिरित्यपिसंलिखेत् २१ दलेषुचदलाग्रेषुवानेत्रंचसंलिखेत् एतत्रिगुणितंयंत्रंवहिरास्वर्णवेष्टितं २२ पृ० २८ब) कामदंमोक्षदंरम्यंसर्वैश्वर्यप्रवर्तकम् अस्मि न्संपूजयेत्पीठेशक्तीःसर्वार्थसिद्धये २४ ज यांचविजयांचैवअजितांचापराजिताम् नि त्यांविलासिनींदोग्ध्रींमघोरांसर्वमंगलां २५ अभ्यर्च्यपरितःपीठंनंदिनंपीठमूलगम् ध्यात्वाकुंडलिनींरूपांमुद्यत्भास्वत्समद्युतिः २६ पाशांकुशावराभीतिचतुर्वाहुत्रिलोचनं २७ अभ्यर्च्यपरिवाह्ययजेद्देवीमुपचारैर्मनोहरैः आवाहनादिमुद्रांश्चदर्शयेदेशिकोत्तमः अ ग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनम् २८ पूजयेद्देशिकवरोभोगांगंभोगसिद्धये उ ऊओगजडावर्णादवललास्तुपार्थिवाः २९ ॠऔघफढावर्णाधभवाःशश्चनीरजाः इईऐखछवाथश्चफरक्षावह्निसंभवाः ३० आएकचटा १ तश्चपयषावायुसंभवाः ऌ ॡअंङञणनमसहानाभसामताः ३१ उर्द्धे न्द्रयाम्यसौम्यादिप्रत्यक्दिक्षुप्रपूजयेत् व र्णान्समाहितोमंत्रीहृल्लेखाद्यंततःपरं ३२ पंचकंपूजयेतेषुस्थानेषुनिजसिद्धये ऐ न्द्रनैऋत्यवायव्यकोणेषुक्रमतोयजेत् ३३ द०सं० पृ० २९अ) गायत्र्यादित्रयंपश्चाद्व्राह्म्यादित्रयमर्चयेत् आग्नेयवारुणेशानंदिक्षुपूज्यास्ततःपरं दलेषुमातरःपूज्यालोकपालार्चनंततः इ तिभुवनीश्वरीत्रिगुणितयंत्रोद्धारः ईश्वर उवाच अथातःसंप्रवक्ष्यामियंत्रंषट्गुणितं प्रिये यस्यविज्ञानमात्रेणसर्वसिद्धिश्वरोभवे त् ३६ पुटितंवह्निमालिख्यमध्येशक्तिंनियो जयेत् तछक्तिरेफभागेतुसाध्यनामाक्षरंलि खेत् ३७ तुरीयस्वरभागेतुसाधकस्यवशंकुरु साध्यस्योपरिसंस्पृष्टंविलिखेत्सर्वसिद्धये ३८ टकारवेष्टितंकृत्वावहिःशक्तिंतुपंचधा वि लिख्यतद्वहिस्तद्वच्छ्रीवीजंकामवीजकं ३९ पंक्तिशःपंचधालिख्यततःषट्कोणसाधनं षट्कोणकोणषट्केपिवामनेत्रंसविंदुकं ४० षट्कोणसंधिषुपुनःशक्तिवीजंसमालिखेत् पूर्ववच्छक्तिवीजस्तुकार्यःसंस्पर्शवर्जितः ४१ ऊर्द्धकोणत्रयस्यांतेरालेषुविलिखेद्वुधः सा धकस्यसविदूतिनामोर्णानिततःपरम् ४२ शक्तिश्रीकामवीजानिलिखेतत्रैवदेशिकः अधःकोणेत्रयस्याथत्वंतरालेषुमंत्रवित् ४३ पृ० २९ब) साध्यक्षराशिशक्तिश्रीकामवीजानिचक्रमात् सविसर्गानिसंलिख्यविदर्भ्यगुरुसेविकः ४४ कोणपार्श्वेषुसर्वत्रहरिवर्णहराक्षरैः वि लिख्यचततोवाह्येवृत्तंपूर्णेन्दुवत्कुरु ४५ अनुलोमेनतद्वृत्यमध्येपंचाशदक्षराः त द्वृत्तवाह्यतस्तद्वद्विलोमेनचमातृका ४६ विक्षेपावेष्टनेदेविततोभूयुगलंलिखेत् संपुटत्वेनदेवेशिवसुकोणंतदाभवेत् ४७ मध्येदिक्षुनृसिंहस्यवीजमंत्रंसमालिखेत् क्षौमात्मकंनृसिंहस्यवीजंजानीहिपावति ४८ रक्षत्रपवनार्षीशमनुस्वरविभूषितः विंदु नादकलाक्रांतअयंचिंतामणिःप्रिये ४९ कोणेषुविलिखेन्मंत्रीततस्तुकोणसंधिषु विलिख्यशूलान्प्रणवैस्ततःपद्मंसमालिखेत् ५० हलैर्द्वादशभिरम्यंराश्यर्णपरिजृंभितं एतत्वद्भुणितंयंत्रंसर्वैश्वर्यप्रवर्तकं ५१ तत्रपीठंसमभ्यर्च्यसमावाह्यचपूर्ववत् उपचारैर्गंधपुष्पैर्धूपैर्दीपैर्मनोहरैः ५२ आवाहनादिमुद्राश्चदर्शयित्वार्चनंभवेत् षट्कोणाग्नीशनैरृत्यवायुमध्येचदिक्षुच ५३ द०सं० पृ० ३०अ) षडंगावरणंकुर्याद्वितीयाचरणंततः व्रह्म णासहगायत्रीसावित्रीविष्णुनासह ५४ सरस्वतीशिवेनैवश्रीस्तुथाधनदेनच म दनेनरतिःपुष्टिर्गणपेनसमर्चयेत् ५५ षट्कोणपूर्वकोणादिप्रादक्षिणोनपूजयेत् रक्तानंगादिकुसुमातृतीयाकुसुमेतरा ५६ नित्यानंगादिमदनाषष्टीतुमदनातुरा गौ रीचगगनाचैवतथागगनवेगिनी ५७ प द्माभयप्रमथिनीतथाचशशिशेखरा ए ताद्वादशपात्रेषुपूर्वादिक्रमतोयजेत् ५८ चतुर्दलानिसंपूज्यदिक्षुब्राह्म्यादिकायजेत् भूगृहेलोकपालाश्चेतत्षड्गुणितंप्रिये ५९ वागादिसिद्धयःसर्वाजायंतेसाधकस्यतु पुनराराध्यनैवेद्यमुखैराराधयेत्पराम् ५९ इतिश्रीदक्षिणामूर्तिसंहितायांभुवनेश्वरी षट्गुणितयंत्रोद्धारः ईश्वरुवाच अथा र्कगुणितंवक्ष्येयंत्रंसर्वोत्तमोत्तमम् यस्य विज्ञानमात्रेणभुवनाधीश्वरोभवेत् ५८ षट्कोणंपूर्वमुद्धृत्यपश्चातत्संधिदेवता षट्कोणांतरमुत्पाद्यभवेद्वादशकोणकं ५९ पृ० ३०ब) तन्मध्येशक्तिमालिख्यपूर्वौक्तेनविधानतः ठकारमध्येतद्वाह्यवेष्टयेत्प्रतिलोमतः सम्यग्व्याहृन्निभिर्मंत्रास्ततःषट्कोणसंधिषु विलिख्यभुवनेशानींद्वादशस्थानजृंभितं पूर्ववच्छक्तिवंधस्तुकुर्याद्वादशधाप्रिये ए कैकांतरितंकुर्वन्मनोज्ञमंडितंकुरु ६२ द्रुमात्मकंद्वादशारेसविंदुंतूर्यमालिखेत् तदूर्द्धंरविकोणेषुसर्वकामार्थसिद्धये ६३ अथद्वादशकोणस्यसंधिवीजांतरालकः शूलानिविलिखेन्मंत्रीततःकोणकपोलयोः ६४ एकैकस्यचकोणस्यगायत्रींचसमालिखेत् तत्प दंसवितुर्वीतेणियंरेव्युत्क्रमालिखेत् ६५ भर्गो देवस्यधीमहिधियोयोनःप्रचोदयात् एतदष्टा क्षरंदेविमह्यादिपरिकीर्तितम् ६६ चतुर्विंशा क्षरेचेयंगायत्रीदेवमातृकां द्वंद्वंशोविलिखे द्वर्णान्गायत्र्यास्तुविलोमतः ६७ तद्वहिःको णपार्श्वेषुविलोमाग्नेयसन्मुखम् प्रणवंभू र्भुवःस्वोग्नेर्लिखेदेतत्षडक्षरं ६८ जातवेदि हालिख्यवहसर्वचतुष्टयम् कर्माणिसाध यस्वाहाविद्याग्नेयस्यदुर्लभा ६९ लिखेत्ततः दं०सं पृ० ३१अ) परंदेविसर्वकार्यार्थसिद्धये अनुलोमंवि लोमंचमातृकांवेष्टयेत्ततः ७० भूपुटंपूर्व वद्वीजमंडितंमंडलंलिखेत् तद्वहिस्तु कलापत्रंद्वात्रिंशत्केसरान्वितम् ७१ महा र्कगुणितंदेविनिगमागममंदिरम् पूर्व वत्पीठमभ्यर्च्यदेवीमावाह्यपूर्ववत् ७२ परिवारार्चनंकुर्यादादावंतेर्चनंप्रिये हृल्ले खापंचकंवर्णसहितंपूर्ववद्यजेत् ७३ ब्रह्मादियुगषट्कंतुपृथग्द्वादशधायजे त् कोणेषुपूर्वकोणादिकलास्त्राणिततोयजेत् करालीविकरालीचतथोमाचसरस्वती दुर्गा शचीतृषालक्ष्मीश्रुतिस्मृतिधृतित्रयम् ७५ श्रद्धामेधाधृतिःकांतिरार्याषोडशकीर्तिताः पूर्वादिक्रमतःपूज्यादलाग्रेषुचसंधिषु ७६ श्रीह्रीःपुष्टीःप्रजाश्चैवशिनीवालीकुहूस्तथा रुद्रवीर्यप्रभानंदाषोषणीशुद्धिदातथा ७७ कालरात्रीमहारात्रीर्भद्रकालीकपालिनी वि कृतिर्नंदिनीचैवमुडिंनीचततःपरम् ७८ इंद्रखंडाशिखंडिन्योनिशुंभमथिनीतथा मर्दिनीमहिषस्यापितथैन्द्राणीततःपरं ७९ पृ० ३१ब) रुद्राणीशंकरर्द्धादिशरीरिण्यपिकीर्तिता नारीनारायणीचेयंत्रिशूलिन्यपिपालिनीं ८० अम्विकाह्लादिनीज्ञेयंद्वात्रिंशच्छक्तिमंडलं तद्वहिःपिंगलाक्षीचविशालाक्षीततःप्रिये ८१ सबुद्धिवृद्धीचस्वधास्वाहाश्रद्धातथैवच नि त्यावसुंधराचैवधात्रीत्रैलोक्यपूर्विका ८२ गायत्रीचैवसावित्रीतथाचत्रिदिवेश्वरी सु रूपावररूपाचतथाचबहुरूपिका ८३ स्कं दमाताच्युतप्रीतिविमलाचामलातथा अरु णीवारुणीचैवप्रकृतिर्विकृतिस्तथा ८४ सृष्टिस्थितिःसंहृतिश्चसंध्यामातासतीतथा * * * वर्दिकाचज्रीपरदेवादिमातृका ८५ तथाभगवतीचैवदेवकीकमलासना त्रि मुखीचतथासप्तमुखीदेशिकवंदिते ८६ सुरास्वरादिसहितामर्दिनीचततःपरम् लंवोष्टीचोर्द्धकेशीचवहुशीर्षावृकोदरी ८७ वृकोदरीतथारेखारथादिशशिरेखिका अ परागमनादिश्चवेगापवनवेगिका ८८ तथाभुवनपालाचतथाचमदनातुरा अ नंगानंगमदनातथानंगादिमेखला ८९ दं०सं० पृ० ३२अ) अनंगकुसुमाचैवविश्वरूपाभयंकरी असुरा णातथाक्षोभ्यातथावैसत्यवादिनी वसुरूप तराचैवसुवृत्तापरमेश्वरी वरदाचैववागी शीचैताःशक्तीस्तुपूजयेत् प्रादक्षिण्यक्रमेणै वसर्वकामार्थसिद्धिदा चतुःषष्टिमहाशक्ति पूजनंकथितंतव ९२ तद्वहिर्लोकपालांश्च भूविंवेपूजयेत्सुधीः पुनर्देवींसमभ्यर्च्यनै वेद्यादिसमर्पयेत् इतितेकथितंसम्यग्देवा नामपिदुर्लभम् ९४ इतिश्रीदक्षिणामूर्ति संहितायांभुवनेश्वरीद्वादशगुणितयंत्रो द्धारकथनपूजाविधिर्नामेकोनविंशः पटलः १९ ईश्वरुवाच मुखवृत्तंविंदुना दकलाढ्यंपाशुच्यते सामाग्नितारसहित मंकुशंविद्धिपार्वति १ एतन्मध्यगताविद्या यदापूज्यासुरेश्वरीः प्रक्षरावापंचवर्णाता भ्यांसंपुटितंप्रिये २ तदाद्यगर्गलोद्धारःक थितोभुविदुर्लभः येनानुष्टितमात्रेणत्रै लोक्याकर्षणंभवेत् ३ संप्रदायेनदे विशिश्रीगुरोऽकृपयान्वितः सम्यक्सू त्रेणरचयेत्सुवृत्तंवृत्तमुत्तमम् ४ पृ० ३२ब) ततोभूविंवयुगलंसंपुटीकृत्ययोजयेत् अ ष्टकोणंतथादेवीजायतेदिङ्मनोहरम् ५ अष्टदिक्षुतदंशाभ्यारेखेआकृक्ष्यमांत्रिकः रे खाभ्यामर्गलंदेविजायतेतीवसुंदरः ६ ए कैनैवतुमानेनरचयेदर्गलाष्टकम् वृत्तं तदग्रेचंद्रस्यविंचवद्रचयेद्वुधः पुनरेखा समाकृष्यपूर्ववृत्तमुत्तमम् विरच्यसाधके न्द्रस्तुवसुकोष्टयुगंक्रमात् ८ व्यक्तंयथा भवेद्देविकेसराणांवसुद्वयम् अर्गलानि चरम्यानिवथीसम्यग्भवंतिहि ९ तथाका र्यंमहेशानित्रैलोक्याकर्षणंभवेत् शक्तिवी जंसाध्यन्ममसाधकेनसमन्वितम् १० पा शांकुशमहावीजयुगसंपुटितंचयत् क र्णिकायांमध्यवृत्तेसंलिखेत्साधकोत्तमः ११ अष्टकोणेषुविलिखेत्षडंगानियथाक्रमं अग्नीशासुरवायव्यकोणेषुमनुवित्तमः १२ क वचांतानिसंलिख्यमध्येनेत्रंयजेद्वुधः चतु र्दिगंतकोणेषुचतुर्द्धास्त्रंलिखेत्प्रिये १३ वृ त्तादिवसुकोणांतंलिखेद्वस्वर्गलेषुच वी जर्वृदंमहेशानिसंप्रदायक्रमेणहि वन्हि द०स० पृ० ३३अ) शक्तिपरित्यज्यतत्रभूभूषितंकुरु तद्वी जंस्वरसंभिन्नंॠऌॡविवर्जितं १५ एवंद्वादशधातत्रचतुर्धाकुरुसुंदरी आ द्यत्रिकंपूर्वमुखंलिखेदुत्तरतःप्रिये १६ द्वितीयंपूर्वमुखांतुलिखेदक्षिणतःसुधीः तृतीयंपश्चिमेभागेतथादक्षिणतोलिखेत् १७ चतुर्थमर्गलंतद्वत्पश्चिमेतूत्तरांतकः भू वंहित्वार्कवीजानांतत्रवायुंनियोजयेत् १८ अग्न्यार्गलायांत्रितयमाद्यंपूर्वतालिखेत् तथापश्चिमतोप्यन्यतत्रिकंलिष्यमांत्रिकः १९ मारुतार्गलकेतद्वल्लिखेत्पश्चिमतत्प्रिये पू र्वतोपिचदेवेशिसर्वकार्यार्थसाधकः २० य मार्गलायांदेवंशिकथयामिवरानने वायुं हित्वार्कवीजानांवरुणंतत्रःनिःक्षिपेत् २१ पूर्वतस्त्रितर्ययाम्येद्वितीयंपश्चिमांतगं ततोत्ररर्गलायांचलिखेत्पश्चिमतःसुधीः २२ चतुर्थंपूर्वतोदेविगुरुमार्गेणसुंदरि नीरं हित्वार्कवीजानांरेफंतत्रविनिक्षिपेत् २३ लिखेद्रक्षोर्गलायांतुत्रिकमाद्यंत्रिकंपरं द क्षिणोत्तरतोमंत्रीक्रमाच्छैवार्गलंपुनः २४ पृ० ३३ब) आदावुत्तरतोदेविपश्चाद्दक्षिणमार्गतः अं तराष्टसुकोष्टेषुकेसुराख्येषुसंलिखेत् २५ पाशश्रीभुवनेशानीकामवीजचतुष्टयं वि परीतंचमंत्रज्ञोवस्वर्णमिदमालिखेत् २६ अंत्यपाशंपरित्यज्यशृणिंसयोज्यसाधकः तद्वहिर्वसुकोणेषुविलिखेतुक्रमेणहि २७ कामिन्यंतेरंजिनीस्थात्ततोग्रेप्यत्रिवल्लभा अ ष्टवर्णानुक्तरूपापराकेसरेषुच २८ अंतको ष्टस्वरूपेषुचंद्रकात्यानीमनुं शक्तिगौरि त्रिकेरुद्रदयितेपंचवर्णकम् २९ योगीश्व रींसमालिख्यकवचास्त्राग्निवल्लभा चंडीका त्यायनीदेवीत्रिषुलोकेषुदुर्लभा अथातः संप्रवक्ष्यामिवहिरस्येववेष्टतत् ३० हंसः पदंवामनेत्रंविद्विंदुपरिभूषितम् पुनर्हं सपदंचैतत्पंचार्णमनुमालिखेत् ३१ स्व रद्वंद्वोदरगतंसप्तार्णंचाष्टधाभवेत् वहिः पद्मंचाष्टपत्रमतिसुंदरमालिखेत् ३२ दलेषु कर्णिकामंत्रीस्त्रियंत्मांचाष्टसुक्रमात् पाशां कुशाभ्यांतद्वाह्येवृत्ताकारेणवेष्टयेत् ३३ अनुलोमप्रकारेणमात्रिकावेष्टनंलिखेत् द०सं० पृ० ३४अ) तथैवप्रतिलोमंचमातृकावेष्टनंप्रिये ३४ एतत्सर्वंठकारेणवेष्टयेन्महताप्रिये घटार्ग लंमहायंत्रंपुरुषार्थफलप्रदं अस्मिन्समावा ह्यदेवीमुपचारैःसमर्चयेत् आदार्वगानिदेवेशि करांगेषुचविन्यसेत् ३६ आनंदरूपिणींध्यात्वामु द्रासमद्धविग्रहः परिवारार्चनंकुर्यात्प्रथमा चरणंशृणु ३७ हृल्लेखापंचकंचायंद्वितीयांगा दतिप्रिये कोणाष्टकेयथापूर्वंततःपद्मदलेषु च मातरोदेवदेवेशिपूर्वादिपरिपूजयेत् लो कपालांश्चतद्वाह्येपुनरंवाममर्चयेत् उपचा रैर्मनोरम्यंस्तांवूलांतैःपृथक्पृथक् यथाश क्तिजपंकृत्वानियमेनतुसुंदरि ४० अयंनित्य प्रकारस्तुपुरश्चरणकंशृणु रविलक्षंजपेद्वि द्यांतद्दशांशेनहोमयेत् त्रिमध्वक्तैःक्षीरवृक्षैः सुमिद्भिश्चतथातिलैः समासेनहुनेत्सम्यक् पुरश्चारीततोभवेत् ४२ जातीपुष्पैर्वश्यकामो संपत्यैकमलैःप्रिये समिद्भिःपुष्टिकामस्तुखा दिरैर्जुहुयात्प्रिये एकाक्षरेपिदेवेशिसंत्यत्रभुव नानितु व्योमवीजेमहेशानिकैलासादिप्रतिष्टि तं ब्रह्मबीजान्न्यवर्णादिनिष्पन्नंबहुधाप्रिये पृ० ३४ब) तेनायंवर्ततेलोकेभूमंडलसमस्थितिः ४५ तुर्यस्वरेणपातालेशेषरूपेणधार्यते महा भूमंडलंतस्मात्पातालस्यापिनायिका ४६ अतेवमहेशानिभुवनाधीश्वरीभवेत् हकारेव्योमतुर्येणस्वरेणानिलसंभवाः ४७ विकारेसतिरेफेणसाक्षाद्वह्निस्वरूपिणी व ह्निवीजंवसुज्ञेयंतस्माद्रेफंवस्वंधरा ४८ अतेवमहेशानिरन्तयोःसमताभवेत् विं दुश्चंद्रामृताद्देवीप्लावयंतीजगत्त्रयम् ४९ द्रवरूपाभवेतस्मात्सृजंतीचार्द्धमात्रया अ तेवमहेशानिभुवनेशीतिकथ्यते ५० इ तिश्रीदक्षिणामूर्तिसंहितायांजूटार्गलयंत्रोद्धा रसाधनंनामेकोनविंशतितमःपटलः १९ ईश्वरुवाच पंचमींरत्नविद्येशींकथयामिशृ णुप्रिये यस्याःस्मरणमात्रेणपवनोपिस्थिरो भवेत् १ वाग्भवंवीजमुच्चार्यगलानुग्रहविंदु भिः नादेनभूषितंवीजंपार्थिवंचोच्चरेत्ततः २ पुनराद्यंनमोंतेभगवतीतिसमालिखेत् वा र्तालियुग्मंवाराहिपुनरेतत्त्रयंलिखेत् वा राहमुखिचद्वंद्वंसंधिहीनंततःपरम् ३ द०सं० पृ० ३५अ) अंधेचांधिनिसप्तार्णंहृदंतेनभवेत्प्रिये रुंधे रुंधिन्यतोहृच्चजंभेजंभिनिहृतथा ४ मो हेमोहिनिहृच्चापिस्तंभेस्तंभिनिहृततः ए तदुक्त्वामहेशानिसर्वदुष्टान्प्रदुष्टच ५ स हानन्तेनाकारेणवर्ततेइतिसानन्तम् सा नंतंनांचसर्वेषांसर्ववागितिचित्तच चक्षु र्मुखगतिंप्रोक्ताजिह्वास्तंभंकुरुद्वयं शीघ्रं वश्यंकुरुद्वंद्वंवाग्भवंपार्थिवंपुनः टका रस्यचतुष्कांतेकवचास्त्राग्निवल्लभा चतु र्दशोत्तरशतंमन्वर्णाचभवंतिहि ८ च तुश्चत्वारिंशतिभिःपदैर्न्यासस्तुकीर्त्यते मा तृकांविन्यसेद्वक्रीपदानिदशमंत्रवित् ९ दोःपत्संधिषुसाग्रेषुन्यसेद्विंशतिसंख्यकान् यदार्णान्यपिविन्यस्यपार्श्वयोरेकमुत्तमं १० अनेनैवप्रकारेणमातृकांविन्यसेत्सुधीः ततःषडंगविन्यासंकुर्याद्देहस्यशुद्धये ११ वार्ताल्यास्तुपदद्वंद्वंहृदयेचततःपरम् वा राहियुगलंदेविशिरोमंत्रुदाहृतः १२ वाराहमुखियुग्मंतुशिक्षासप्ताक्षरंततः कवचंततःसप्तवर्णैर्नेत्रंन्यसेत्क्रमात् १३ पृ० ३५ब) ततःसप्ताक्षरंचासुंषडंगानिन्यसेत्प्रिये स र्वेणव्यापकंन्यासंआचरेत्सर्वसिद्धये १४ यं त्रोद्धारंप्रवक्ष्यामियेनत्रैलोक्यमोहनं ताम्रे वाराजतेस्वर्णमयेवैभूर्जपत्रके १५ लिखे द्रोचनपावापिकुंकुमागुरुचंदनैः हरिद्र यावरुणयालिखेच्चक्रंमनोहरं १६ त्रिकोणं पंचकोणंचषट्कोणंवसुपत्रकं शतपंत्रं सहस्रारंगतोभूविंवमालिखेत् १७ चतुर्द्धा रंविशोभाढ्यंमध्येसिंहासनंयजेत् वाणी भूवीजयुग्मेनसंपूज्यासर्वमातरः १८ स्फ टिकाचलमध्यस्यंपीठमेतद्विचिंतयेत् देवी मावाहयेत्तत्रध्यानंकुर्ययाद्विचक्षणः १९ प्र त्यग्रारुणसंकाशपद्मांतर्गर्भसंस्थितां इंद्र नीलमहातेजःप्रकाशांविश्वमातरम् २० कदंवमुंडमालाढ्यांनवरत्नविभूषितां अ नर्घ्यरत्नघटितंमुकुटश्रीविराजितां २१ कौ शेयद्वारुकांचारुप्रवालमणिभूषणां हले नमुशलेनापिवरदेनाभयेनच २२ विरा जितचतुर्वाहुंकपिलाक्षींसुमध्यमां नि तंविनीमुत्पलाभांकठोरघनसत्कुचां २३ द०स० पृ० ३६अ) कोलाननांयजेद्देवींउपचारैःसहेतुभिः गं धपुष्पादिभिःसम्यक्सर्वकामार्थसिद्धिदां २४ सप्ततिश्चसहस्राणिपुरश्चरणसिद्धये त द्दशांशेनहोमस्तुतिलैर्वंधूकपुष्पकैः २५ त्रिमधुक्तैर्हेतुभिश्चहरिद्राखंडकैर्हुनेत् लाक्षागरुपुरद्रव्यैःपिसितैर्विविधैरपि सि द्धिर्भवतिदेवेशिमंत्रिणोनात्रसंशयः शृ णुपूजाविधानंतुदेवीमावाह्यसिद्धये २७ आदावंगावृतिंयष्ट्वात्वग्नीशासुरवायुषु म ध्येदिक्षुत्रिकोणांतस्त्रिषुकोणेषुसंशृणु २८ वामवामेत्तराग्नेषुक्रमेणत्रितयंयजेत् जंभि नीस्तंभिनीचैवमोहिनीसर्वसिद्धये २९ रुं धिन्याद्यास्तुदेवेशिस्तंभिन्यास्तान्प्रपूजयेत् पंचकोणेमहादेविपुरादिक्रमेणतु ३० मत्युस्थानेतुतद्वाह्येततोमात्रार्चनंभवेत् षडारेपुरारभ्यप्रादक्षिण्येनपूजयेत् ३१ डाकिनीराकिनीदेवीलाकिनीकाकिनीतथा साकिनीहाकिनीचैवततःषटकोणकेयजेत् ३२ षट्कोणपार्श्वयोःपूज्येदेव्यौसर्वार्थसिद्धये ह लंकपालंदधतींक्रोधिनींवामतोयजेत् ३३ पृ० ३६ब) मुशलेष्टकरांदेवींस्तंभिनीदक्षिणेयजेत् चंडोच्चंडमहेशानिषट्कोणपुरतोयजेत् ३४ नागंकपालंडमरुंत्रिशूलंदधतंप्रिये न ग्नंनीलजटाराजन्मस्तकंपंचमीसुतं ३६ ततोष्टदलपत्रेषुवार्ताल्याषष्टकंयजेत् शृ णुत्वमेवतस्यार्येपूजयेन्महिचाष्टकं श्रृंगा यांतांत्ररिक्तानिकुक्षिचक्रनिकृंतनं नील जीमूतसंकाशंरिपुंभूयतक्षमं ३८ शतंप त्रंक्रमात्पूज्यंरुद्रार्कवसुदसुकैः त्रयस्त्रिं शद्दलगतैःत्रिवारोच्चारितैःपृथक् ३९ अवशिष्टदलेयोज्यास्तंभिनीजंभिनीयुता श तादग्रेमहेशानिमहासिंहंसमर्चयेत् ४० स हस्रपत्रेसंपूज्यावाराहीनांसहस्रकं अंकु शातेमहादेविवाराह्यैनमालिखेत् ४१ अनेनमनुनादेविपूजयेतुसहस्रधा भूविं बवटुकंक्षेत्रंयोगिनींगणपान्यजेत् ४२ पुनर्देवींसमाध्यगंधपुष्पादितर्पणैः अ क्षमालाहरिद्रायामुख्यास्तंभनकारिणी ४३ स्फाटिकीवाथपद्माक्षरुद्राक्षारिसमुद्रवा पुरश्चरणकार्यार्थंजपेद्विद्यांतदात्मिकां ४४ द०सं० पृ० ३७अ) इतिश्रीदक्षिणामूर्तिसंहितायांपंचमीक्र मार्चनविधिर्नामविंशतिमःपटलः २० ई श्वरुवाच अथातःसंप्रवक्ष्यामितर्पणंभुवि दुर्लभं तिलमैरेयवंधूककुसुमैस्तर्पयेच्छिवां १ मनोहरेसुवर्णादिपात्रेसंपूज्यपूर्ववत् अनेनविधिनाविप्रोप्रियोभवतिनिश्चयात् २ एतस्याएवविद्यायाकुंडोस्तिपरमेश्वरि वि शेषःकथ्यतेसोत्रसर्ववैरिनिकृंतनः ३ एकहस्तमितंकुंडमधोहस्तेनविस्तरम् हस्तखातंमनोरम्यंहोमश्चात्रनिगद्यते ४ स्तंभनेशिवदिग्भागेनिग्रहेयमदिग्भवेत् अस्मिन्कुंडेमहेशानिभैरवाग्निंप्रपूजयेत् ५ लौकिकामिंयजेत्मंत्रैर्वक्ष्यमाणैःपरेश्वरि हृ दयंभुवनेशान्याभुवनेशींचसंलिखेत् ६ तस्याएवशिखांदेविवीजत्रयमिदंप्रिये उ क्ताभैरवमुच्चार्ययचतुर्थ्यंतेनमोलिखेत् ७ इत्यग्निपूजनंकृत्वाततोग्नेराहुतिंयजेत् पू र्ववीजत्रयंभैरवाग्नयेद्विठमालिखेत् ८ अनेनैकाहुतिंदत्वानीलोत्पलशुभानने नीलोत्पलैर्भैरवाग्निंतापिछैरपिवायजेत् ९ पृ० ३७ब) तापिछैःस्तंभनेहोमेविज्ञेयस्तुचतुःशतं दे वदारुतिलैर्लाक्षाहरिद्राभिस्तथाभवेत् १० त्रिसप्तमध्यरात्रेषुप्रत्येकंसाष्टयुक्शतं हरिणीमुद्रयाहोमकथितस्तत्रसुंदरि ११ दक्षिणेहोमकुंडस्यहस्तिमात्रतिलात्प्रिये प्रसार्पभांडेस्वर्णादिमृज्जीवालोहसंभवैः १२ कृष्णशाटीपरिछिप्तोत्पलतापिछपुष्पिणीं तिलमिश्रैरंवुभिस्तंपूजयेन्मनुवित्तमः १३ वाग्भवंधरणीमुक्त्वाकर्षणादिहलायच न वाक्षरमिदंचोक्तंहृदंतंमंत्रमालिखेत् १४ अंकुशंक्रोधितंदेविमुशलायनमोलिखेत् सप्तविंशतिकृत्वातुदेवीमंत्रसमुच्चरेत् १५ घटंस्पृष्ट्वाहृदिध्यात्वापंचमींपरमेश्वरीं तद्घ टस्थोदकैःशत्रुमभिषिंचेद्विचक्षणः १६ क फान्वितःछयीवैरिवश्योभवतिनिश्चयात् अथतिग्रहहोमस्यविधिंवक्ष्येशृणुप्रिये ख रमेषांगरक्तेनलाजाश्चूर्णतिलैःसह मि श्रंपिंडंतुपिंडेनमेलयेद्धेतुनाप्रिये १८ पि शितैःगंधपुष्पायैःधूपदीपैश्चसाधकः त र्पयेद्योगिनीपिंडंपरमानंदसुंदरं १९ स दं०सं० पृ० ३८अ) पलवेश्मसंकल्पमृदावालोहकेनवा निवे द्यंकुंडवक्त्रेचाहुतेल्लाजरजःकणैः २० अयु तंसंजपेद्देवित्रिपक्षक्षणदांहुतेत् त्वगसृ ग्मांसमेदोस्थिमज्जाशुक्राणिवैरिणः २१ यो गिनीनांमुखेदेविपतंत्यत्रनसंशयः अथा तःसंप्रवक्ष्यामिसाधकानंदकारकं २२ प्रण वंप्रणवेनैवसंपुटीकृत्ययोजयेत् औभ्यांग्लौ भ्यांचसाध्याख्यंठकारेणचवैष्टयेत् २३ अष्ट भिःकुलिशैहुत्वाग्लौंक्रौंइतितदंतरे कुलि शाग्नेतारवीजंपार्थिर्वमंडलंततः २४ कुलि शांतेलिखेत्साध्यंवाह्यंविद्यांसमालिखेत् चतुरंकुशसंरुद्धंसर्वमेववरानने २५ रुद्र स्वरेसमारोप्यपीतपुष्पैःसमर्चयेत् पंच मीशकटंयंत्रंत्रिषुलोकेषुदुर्लभं २६ सह स्रसंख्ययाजप्तंनिशाभांडेक्षिपेद्वुधः खने द्रात्रौभुर्जपत्रेलिखित्वास्थापयेत्स्वधीः श्या मलोहितमंत्रज्ञोरक्तपुष्पैःसमर्चयेत् प्रेत धूमानलेक्षिप्त्वायजेद्गुरुविधानतः २८ सौवर्णेराजतेताम्रेक्रमेणैतत्समर्चयेत् कटकार्थीहरिद्राभैःपुष्पैराराधयेच्छिवां पृ० ३८ब) धान्यराशौचसायाह्नेविनिक्षिप्यचतद्भवेत् नूततेकुंभकारस्यखर्प्परेयंनुमालिखेत् अंजनाभैःसमभ्यर्च्यकुसुमैःपथिदेशिकः उच्चाटयेत्तदाशीघ्रंकोटस्थंसुस्थिरंरिपुं त द्भांडेतुमशीद्रव्यैर्भिन्नंभिन्नांजनप्रभैः स मुद्धृत्यसमभ्यर्च्यलोहकारगृहेक्षिपेत् वा ध्यमानोरोगजास्वैर्मरणंप्राप्नुयाद्रिपुः ३२ निशाचेपटहेवाद्येविलिखेन्मनुवित्तमः युद्धेतध्वनिमाकर्ण्यपलायंतेमहाबलाः ३३ धूम्रभित्तौसमालिख्यधूम्राभैरर्चयेत्प्रिये नश्यंतिदृष्टयस्तेषांशत्रूणांनान्यथाभवेत् ३४ हरिद्रायाशिलामध्येसमालिख्यार्चयेत्प्रिये पीतपुष्पैश्चतद्यंत्रंअधोचक्रंविनिक्षिपेत् ३५ वाक्स्तंभोजायतेशीघ्रंवादीनांपरमेश्वरी अथसीसेसमालिख्यशमीपुष्पैर्यजेत्प्रिये ३६ शिलाधस्तादिनिक्षिप्यव्यवहारीजयीभवेत् सर्वलोहमयेपात्रेसितपुष्पैःसमर्चयेत् ३७ वाक्यनिर्जायतीमंत्रीपंचसारेथसंलिखेत् पंचवर्णैःप्रसूनैश्चपूजयेत्सर्वकर्मकृत ३८ अथातस्तिमिरामिश्रेसीसयुग्मेलिखेद्वुधः द०सं० पृ० ३९अ) अभ्यर्च्यकुसुमैरम्यैःप्रेतभूमौप्रजापयेत् ३९ तेनाकृष्टिर्भवेदाशुयूनांवायोषितामपि वृ क्षगर्भेन्यसेच्चक्रंसीसपात्रेषुरंजितं २० वहि ष्टाग्रामभागेभ्यसंप्रविष्टाभवंतिहि साध्य नक्षत्रवृक्षस्यगर्भेचक्रंप्रविन्यसेत् ४१ वृष स्ययत्कृतंदेविसाध्यस्यभवतिस्फुटं जलेक्षि प्तंदोषदायिवह्नौक्षिप्तंतुतापकृत् ४२ रोगदं भस्मनिक्षिप्तंहितदंभूमिगंप्रिये अन्नगंका मिनींदध्यात्कुंभेक्षिप्तंसुतप्रदं ४३ पूर्वस्यां दिशिनिक्षिप्तंरिपूणांभयदंभवेत् आग्नेयेय मदिग्भागेवैरिणीमृत्युदंभवेत् ४४ तथानै रृतिदिग्भागेशत्रून्मादनकारणं पश्चिमेरो गदंतेषांगदितंवायुदिग्गतं ४५ धनदंचोत्त रेभागेभागेसाधकस्यनसंशयः ईशानगं भ्रांतिकरंवैरिणांपरमेश्वरि ४६ मध्यगंस र्वकार्याणिशत्रूणांनाशयेध्रुवं एतस्याएववि द्यायामध्यरात्रेर्चनंभवेत् ४७ अन्यथादेवता शापोजायतेतीवदुस्तरः तस्मादेनांमध्यरात्रे जपेत्संपूजयेदपि ४८ इतिश्रीदक्षिणामूर्तिसं हितायांपंचमीशकटयंत्रोद्धारोनामैकविंशःपटलः २१ पृ० ३९ब) ईश्वरुवाच पंचरात्रेमहातंत्रेकथितावैष्णवा गमः एनामाराध्यदेवीशींपालकोभूजगत्त्र?ये १ विद्याकदेवचक्रस्थाःशिवविद्यामयेरिताः ताःसंतिवैंदवेचक्रेतस्माच्छिवमयीशिवा २ सिद्धरत्नेमहातंत्रेकथितागणपागमः सप्त कोटिमहातंत्रैर्मंडितस्तन्मयीशिवा ३ वा मदेवमहातंत्रैसौरज्ञानप्रकाशकाः मन वस्तुन्मयीदेवीज्ञानशक्तिरितीरिता ४ अ तःसंसेव्यतेदेवीचतुरायतनैःसदा सिंहा सनप्रसंगेनचतुरान्वयदेवताः ५ कथि ताःपरमेशानिसंपदेषांनसंशयः यस्याः स्मरणमात्रेणपलायंतेमहापदः ६ इति श्रीदक्षिणामूर्तिसंहितायांचतुराम्नायवि वरणंद्वाविंशःपटलः २२ ईश्वरुवाच अथवक्ष्येमहादेविनित्याविवरणंक्रमात् कामेश्वरीमंत्रभेदाःवहवःसंतिपार्वति १ तत्रकामेश्वरीविद्याकथ्यतेभुविदुर्लभा त्रि पुरेशींसमुच्चार्यतारांतेहृत्पदंततः २ का मेश्वरिपदंचोक्ताइच्छाज्ञानफलप्रदे सर्व सत्ववशंचोक्ताकरिसर्वजगत्पदं ३ क्षो दं०सं० पृ० ४०अ) भणांतेकरिहुंहुंचाणश्चत्रिपुरेश्वरीं विप रीतंसमालिख्यविद्याषट्त्रिंशदक्षरीं ४ आ द्यभागत्रयेणैवद्विरावृत्याषडंगकं कामेश्व रीचृष्यादिध्यानयंत्रार्चनादिकं ५ इतिश्री कामेश्वरीनित्याविधिः ईश्वरुवाच अथव क्ष्येमहेशानिविद्यांश्रीभगमालिनीं वाग्भ वंभगशब्दांतेभगेवान्भवमेवच १ भगिन्यं तेवान्भवंचभगोदरिचवाग्भवं भगमालेवा ग्भवंचवाग्भवादौभगावहै २ भगंगुह्येवा ग्भवंचभगयोनिचवाग्भवं भगन्यंतेपाति नीतिवाग्भवंभगसर्वच ३ पदंवाग्भवमा लिख्यततोभगवशंकरि वाग्भवंभगरूपेत द्भगिन्येचैववाग्भवं ४ भगक्लिन्नेवाग्भवंच भगश्चांतेसमालिखेत् रूपेसर्वभगानीतिमे ह्यानयचवाग्भवं ५ वाग्भवादौभगवतिभ गवांतेवदेच्चतत् भगरेतेवाग्भवंचभगेषु चसमालिखेत् ६ रेतेवाग्भवमालिख्य भगक्लिन्नेथवाग्भवं भगक्लिन्निवेचां तेभगवांतेवदेच्चतत् भगंद्रावयचा लिख्यभगमोंधेभगेतिच || पृ० ४०ब) विच्चेभगंक्षोभयेतिसर्वसत्वान्भगेश्वरि ८ वाग्भवंचभगक्लंचवाग्भवंगजेंलिखेत् वा ग्भवंचभगब्लूंचवाग्भवंभगभेंलिखेत् ९ वाग्भवंभगब्लूंचवाग्भवंभगमालिखेत् वाग्भवंभगंचैववाग्भवंभगमोंलिखेत् वा ग्भवंचभगब्लूंचवाग्भवंभगहेलिखेत् भ गक्लिन्नेचसर्वाणिभगन्यथचमेलिखेत् व शमानयचालिख्यभगपंचकमन्मथा भू विंवेलोकपालास्युःपुनर्देवींप्रपूजयेत् इ तिनित्यातृतीयेयंभोगमोक्षप्रदायिनी क थितादेवदेवेशित्रैलोक्यवशकारिणी भ गांतरेभगांतेचहरन्लेमात्मकंलिखेत् भगां तेपंचमंकामंततोवैभगमालिनीं ११ ङेता मुच्चार्यविद्येयंत्रैलोक्यवशकारिणी चतु राधिकविंशत्याद्विशतेनचमंडिता १२ व र्णानांभगमालेयंनित्यासकलसिद्धिदा ऋ षिरस्यास्तुसुभगोगायत्रीछंदुच्यते देव तेयंचवीजंतुहरन्लेमात्मकंप्रिये शक्ति स्त्रीवीजकंन्लूंतुकीलकंपरमेश्वरि षड् दीर्घस्वरभेदेनन्यसेदंगानिदेशिकः काम द०सं० पृ० ४१अ) न्यासंतथावाणन्यासंकुर्यातुपूर्ववत् १५ कदंववनमध्यस्थामुद्यत्सूर्यसमयुतिं ना नाभूषणसंपन्नांत्रैलोक्यकर्षणक्षमा १६ पाशांकुशौपुस्तकंचतौलिकीनखलेखिनीं वरदंचाभयंचापिदधतींविश्वमातरम् एवं ध्यात्वाततोलक्षंजिताहारोजपेन्नरः तदशां शेनवंधूकैस्त्रिमध्वक्त्रैर्हुनेद्वुधः त्रिकोणं चैवषट्कोणंततःषोडशपत्रकं ततोष्टप त्रंभूविंवमेवंमंडलमालिखेत् १९ मध्य देवींसमभ्यर्च्यततोंगावरणंयजेत् विद्या दिशक्तित्रितयंत्रिकोणेषुप्रपूजयेत् २० चाग्र मारभ्यकोणस्यपुनस्तेषुसमर्चयेत् शुभ गांचभगांचैवतथाचभगसर्पिणीं २१ वाणां श्चदेवितत्रैवपूर्ववत्पूजयेत्सुधीः भगमा लादिषट्कंचकोणषट्केप्रपूजयेत् व शंकरीचरूपांचनित्याक्लिन्नास्वरूपिणीं त थाभगवतींचैववरदांपरमेश्वरीं २३ रे तांस्वरेतांक्लिन्नांचतथाक्लिन्नद्रवामपि अमोघांचैवविद्यांचतथैवक्लिन्नदेवतां २४ एताषोडशदेवेशिभगशव्देनयोजयेत् पृ० ४१ब) अष्टपत्रेषुदेवेशिमातरःपरिपूजयेत् इं द्रादयस्तुभूविंवेपुनर्देवींसमर्चयेत् २५ इतिभगमालिन्याविधिः ईश्वरुवाच भु वनेशींसमुच्चार्यनित्यक्लिन्नेमदद्रवे वह्नि जायांश्चविद्येयंरुद्रवर्णामहोत्कदा १ ब्रह्मा ऋषिःसमुदिष्टोविराट्छंदितीरितं नित्य क्लिन्नादेवतोक्तावनिताद्राविणीपरा वीज माद्यंवह्निजायाशक्तिर्न्तेकीलकंमतम् ए केनचतथाद्वाभ्यांद्वाभ्यांद्वाभ्यांक्रमात्प्रिये द्वाभ्यांद्वाभ्यांषडंगानिविन्यसेदेशिकोत्तमः २ रक्तांगींरक्तवसनांचंद्रचूडांत्रिलोचनां स्वि यद्वक्त्रांमदाचूर्णलोचनांरक्तभूषणां ३ पाशांकुशौकपालंचमहाभीतिहरंतथा दधतींसंस्मरेन्नित्यांपद्मासनविराजितां ४ वर्णलक्षंजपेन्मंत्रंतद्दशांशेनहोमयेत् तिलैस्त्रिमधुसंमिश्रैपुरश्चारीभवेद्वुधः ५ मधूकपुष्पैर्वाहोमोहविषावाथनीरजैः त्रिकोणंचाष्टपत्रंचततोभूविंवमालिखेत् ६ आदौदेवींसमभ्यर्च्यततोंगाचरणंयजेत् त्रिकोणेपूजयेदेवीनित्यांक्लिन्नांमदद्रवां दं०सं० पृ० ४२अ) मातरोदलमूलेषुदलमध्येषुपूजयेत् नि त्यानिरंजनांक्लिन्नांक्लेदिनींमदनातुरां म दद्रवांद्राविणींचक्षोभिणींचप्रपूजयेत् ९ इतिनित्याक्लिन्नानित्याविधिः ईश्वरुवाच अ थवक्ष्येमहेशानिभेरुंडांपरमेश्वरीं भरौका रंसमुच्चार्यत्वंकुशाभ्यांसुवेष्टितं अंत्यहीनं चवर्णंचचतुर्द्धारेफमंडितं अनुग्रहेंदुविं द्वाढ्यंतारस्वाहोदरस्थितः २ मनुर्दशार्णो देवेशिमहाविषहरोभवेत् ऋषिरस्यामहा विष्णुर्गायत्रीछंदुच्यते ३ देवतेयंपराश क्तिस्तृतीयंवीजमुच्यते वह्निजायातुशक्तिः स्यात्कीलकंशृणिरेवच ४ षड्दीर्घस्वरभे देनवीजेनैवषडंगकं चंद्रकोटिप्रतीका शांस्रवंतीममृतद्रवैः ५ नीलकंठीत्रिने त्रांचनानाभरणभूषिताम् इंद्रनीलस्फुर त्कांतिशिखिवाहनशोभितां ६ पाशांकुशौक पालंचछुरिकांचवराभयौ विभ्रतींहेम संवह्यगरुडोद्गारभूषिताम् ७ एवंध्यात्वा जपेद्वर्णलक्षंतुविजितेंद्रियः तद्दशांशे नजुहुयात्स्वेतपद्मैःसुरेश्वरि ८ पृ० ४२ब) त्रिकोणंचाष्टपत्रंचततोभूविंवमालिखेत् म ध्येप्रणववीजेनत्रिकोणस्यचपार्श्वयोः ९ शृणिद्वयंत्रिकोणेषुपंचमादित्रयंन्यसेत् अ वशिष्टंत्रिकोणाग्रकोट्यग्रेषुचसंलिखेत् १० मालामंत्रंक्रमेणैववसुपत्रेषुविन्यसेत् वस्व क्षरविभागेनचतुःषष्ट्यर्णविग्रहां ११ भेरुंडां संलिखेन्मंत्रीमहाविषहरांप्रिये भुवनेशींस मुच्चार्ययततास्त्रिभुवनेतिच १२ विद्येनमस्त तःसिद्धेत्वजितेलोकपूजिते भ्रमभ्रममहा मोहेद्विधाहूमात्मकंलिखेत् १३ विच्चेयुगंकु लेकौलेकुरुमालेततःपरं भेरुंडेशिखिचालि ख्यवाहिनीतिततःपरम् १४ नीलकंठेचरौ द्रेचततोवेतालसोमच मातकेभुवनेशीचच तुःषष्टार्णविग्रहः १५ छंदोनुष्टुपृषिर्ब्रह्मा वीजंतुभुवनेश्वरी भेरुंडादेवताज्ञेयापुरुषा र्थप्रदायिनी १६ षड्दीर्घस्वरभेदेनवीजेनैव षडंगकं ध्यानंतुपूर्वदेविपूजाद्वंद्वेसमालिखे त् महीविंचेमातृकायावर्णालेख्याक्रमेणतु तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् १७ अंगानांपूर्ववत्पूजात्रिकोणेषुततःशृणु त्रि दं०सं० पृ० ४३अ) शिखांनीलकंठींचैंद्रीचैवक्रमाद्यजेत् १८ त्रिकोणपार्श्वयोःपूज्येवैतालींसोममातृकां ततस्त्रिभुवनेशानींसिद्धांचैवाजितामपि लोक पूज्यांमहामोहांकुलांकौलांतथैवच कुस्वमा लामष्टपत्रेपुरादिप्रपूजयेत् २० ततश्चमा तरःपूज्यावसुपत्रेषुसुंदरि इंद्रादयस्तुभूविं वेपुनर्देवींसमर्चयेत् २१ इतिभेरुंडानित्यावि धिः ईश्वरुवाच शृणुदेविप्रवक्ष्यामिनित्यां चवह्निवासिनीम् परांविलिख्यवह्न्यंतेवासि न्यैनमित्यपि अष्टार्णोयंमहेशानिपुरुषार्थ प्रदोमनुः ऋषिरस्यवसिष्टःस्यात्गायत्रीछंद उच्यते २ विद्वद्भिःकथितादेविदेवतावह्निवा सिनी आद्यंतेवीजशक्तिःस्यात्कीलकंमध्येव च ३ देवीपदत्रयेनैवद्विरावृत्यांगकंन्यसेत् प दत्रयंदेहभागेत्रयेविन्यस्यदेशिकः ४ ध्याये त्तप्तसुवर्णाभांनानालंकारभूषिताम् पाशां कुशौस्वस्तिकंचशक्तिंचवरदाभयौ ५ दध तींरत्नमुकुटांत्रैलोक्यतिमिरापहा म् वर्णलक्षंजपेन्मंत्रंतद्द शांशेनहोमयेत् ६ पृ० ४३ब) घृतात्केनवरारोहेततःसिद्धोभवेन्मनुः अ ष्टपत्रंलिखेत्पद्मंविद्यांप्रतिदलेलिखेत् ७ एकैकाक्षरभेदेनततोभूविंवमालिखेत् मध्येपीठंसमभ्यर्च्यदिक्षुमध्येचपार्वति ८ पीतास्वेतारुणाकृष्णाधूम्रातीव्रास्फुलिंगिनी रुचिराज्वालिनीचैवततःसिंहासनंयजेत् ९ दे वीमावाहयेमत्रुपचारैःसमर्चयेत् आदा वंगानिसंपूज्यवसुपत्रेषुपूजयेत् १० जात वेदाःसप्तजिह्वोहव्यवाहनेवच अश्वोद रभवश्चैवतथावैश्वान्नरःप्रिये ११ कौमार तेजादेवेशितथाविश्वमुखःक्रमात् ततो मुखोदेविवसुपत्रेषुपूजयेत् १२ व्राह्म्याद यस्तुसंपूज्यावसुपत्रेषुदैशिकः इंद्रादय स्तुभूविंवेपुनर्देवींसमर्चयेत् १३ साक्षाद्व ह्निमहापीठकलादशकमंडितां इतिव ह्निवासिनीनित्याविधिः ईश्वरवाच अथव क्ष्येमहादेविमहाविद्येश्वरींपरां नित्यक्लि न्नांसमालिख्यमुखेतारंसमालिखेत् १ हृल्लेखांतेफरेमात्माचंद्रवीजंविसर्गवान् चतुर्दशाक्षरीविद्याऋषिर्ब्रह्मानिगद्यते २ द०सं० पृ० ४४अ) गायत्रीछंदाख्यातंदेवतापरमेश्वरी आद्यं तेवीजशक्तेचहृल्लेखाकीलकंभवेत् ३ चतु ष्केनचयुग्मेनयुग्मेनयुगलेनच युगले नचयुग्मेनन्यसेदंगानिदेशिकः ४ जवा कुसुमसंकाशांरक्तांशुकविराजितां माणि क्यभूषणांनित्यांनानाभूषाविभूषिताम् ५ पाशांकुशौकपालंचसुरपापरिपूरितं अभ यंदधतींध्यात्वाच्चतुर्लक्षंजपेत्सुधीः दशां शेनैवजुहुयाद्वविषातिलतंडुलैः त्रिकोणं वेदपत्रंचवसुपत्रंचभूगृहं ७ एवंमंडल मालिख्यमध्येदेवींसमर्चयेत् आदावंगा निसंपूज्यत्रिकोणेषुप्रपूजयेत् ८ ब्रह्मा णीवैष्णवीरौद्रीततोवेदास्त्रपूजनं वेदमा ताचहृल्लेखायोगिनीचंद्रशेखरा ९ पुर आदिक्रमेणैववेदास्रेषुप्रपूजयेत् नित्या निरंजनाक्लिन्नाक्लेदिनीमदनातुरा १० म दद्रवाद्राविणीचक्षोभिणीवस्वरेर्चयेत् मा तरश्चैवसंपूज्याभूविंवेलोकपालकाः ११ इतिमहाविद्येश्वरिविधिः ईश्वरुवाच अथदूतींप्रवक्ष्यामित्रैलोक्याकर्षणक्षमां पृ० ४४ब) भुवनेशींसमुच्चार्यशिवदूत्यैनमोलिखेत् १ सप्तार्णाशिवदूतीयंत्रैलोक्यस्वामिनीप्रिये ऋषीरुद्रस्तुगायत्रीछंदःस्याद्देवताशिवा २ आद्यंतेवीजशक्तीचमध्यंकीलकमुच्यते वि द्याभागत्रयेणैवद्विरावृत्यांगकंन्यसेत् ३ दुर्वानिभांत्रिनेत्रांचमहासिंहासनासनां शं खारिचापवाणांश्चशृणिपाशौवराभये ४ दधतींचिंतयेन्नित्यंसप्तलक्षंजपेत्ततः त द्दशांशेनजुहुयातिलैर्मधुघृताप्लुतैः ५ अष्टपत्रंलिखेत्पद्मंबहिर्भूविंवमालिखेत् त त्रदेवींसमभ्यर्च्यसोपचारैःसमर्चयेत् ६ आ दावंगानिसंपूज्यवसुपत्रेषुपूजयेत् जया चविजयाचैवकीर्तिःप्रीतिःप्रभातथा श्रद्धा मेधाधृतिश्चाष्टौभूविंबेतुदिगीश्वराः पुन र्देवींसमभ्यर्च्यसुखीभूयान्नरेश्वरः ८ इति शिवदूतीनित्याविधिः ईश्वरुवाच अथ वक्ष्येमहादेवींत्वरितांसिद्धिदायिनीम् ता रंपरांचकवचंखेचछेक्षःसमालिखेत् १ स्त्रींहूमात्मकमुच्चार्ययक्षेपरामस्त्रकंलिखेत् त्वरितारुद्रवर्णेयंभोगमोक्षफलप्रदा २ दं०सं० पृ० ४५अ) ऋषिरीशोविराट्छंदोदेवतीयंचपार्वती क वचंस्त्रीशक्तिवीजेकीलकंचप्रकीर्तितं ३ चच्छेयुगंहृच्छिरस्तुछेक्षयुग्मंशिखाततः क्षस्त्रीयुगंचकवचंस्त्रीहूमात्मयुगंतथा ४ ह्वंक्षेनेत्राणिविन्यस्यक्षेफुस्त्रंप्रकीर्तितं श्या मांगीरक्तसत्पाणिचरणांवुजशोभितां ५ वृष लाहिसुमंजीरांस्फणारत्नविभूषितां स्वर्णां शुकांस्वर्णभूषांवैश्यादिद्वंद्वमेखलां ६ तनु युग्मांपीनवृत्तकुचयुग्मांचराभये दधतींशि खिपिच्छानांवलयांगदशोभितां ७ गुंजारु णांतृपाहीशकेयूरांरवभूषणां द्विजनागस्फु रत्कर्णभूषांमत्तारुणेक्षणाम् ८ नीलकुंचि तधस्मिल्लवनपुष्पांकपालिनीं कैरातींशि क्षिपत्राक्षनिकेतनविराजितां ९ स्फुरत्सिं हासनप्रौढांस्मरेद्भयविनाशिनीम् रविल क्षंजपेन्मंत्रंतद्दशांशेनहोमयेत् १० मधूक पुष्पैर्देवेशींपुरश्चारीततोभवेत् अष्टप त्रंलिखेत्पद्मंवहिर्भूविम्वमालिखेत् ११ प्रत्येकंवसुकोणेषुकवचंचाष्टधालिखेत् मध्येतुभुवनेशानींवेष्टयेन्मातृकांवहिः १२ पृ० ४५ब) सर्वरक्षाकरंनामचक्रमेतदुदाहृतं तत्रा वाह्यमहेशानीमुपचारैःसमर्चयेत् १३ आदावंगानिसंपूज्यवसुपत्रेषुपूजयेत् हुं कारीखेचरींचंडांछेदनींक्षेपणींतथा १४ स्त्रियंहुंकारिणींक्षेमकारिणींक्रमतोयजेत् श्रीवीजेनैवदेवेशिलोकपालस्ततःपरं १५ अग्नेफट्कारिणीपूज्यासरासनधराप्रिये स्वर्णरत्नमयीवेत्रयष्टिहस्तेसुभूषिते १६ द्वारपार्श्वेयुगेपूज्येविजयाचजयातथा कृ ष्णोवर्वरकेशश्चलकुटेनविराजितः १७ किंकरःपुरतःपूज्यस्तद्वहिःपूजयेत्क्रमात् धातारंचविधारंचपुनर्देवींसमर्चयेत् १८ गंधपुष्पादिनैवेद्यैर्महारक्षाकरीयजेत् १९ इतिनित्यात्वरिताविधिः ईश्वरुवाच अ थवक्ष्येमहेशानिविद्यांश्रीकुलसुंदरीम् अथवक्ष्येपरांनित्यांपुरुषार्थप्रदायिंनी २ त्रिपुरेशींसमुच्चार्यनित्याख्यांभैरवींतथा हुं कारत्रितयंवाणविद्येयंवासवाक्षरी ३ त्रि पुरेशीवयंत्रंतुऋष्यादियजनंप्रिये पंचा क्षरीवाणवीजोनित्येयंपरमाभवेत् ४ द०सं० पृ० ४६अ) इतिनित्याद्वयविधिः ईश्वरुवाच अथव क्ष्येमहेशानीं विद्यांनीलपताकिनीं तारं हृत्पदमाभाष्यकामेश्वरिपदंततः १ का मांकुशेपदंचोक्ताततःकामपताकिके भ गवत्पथनीलांतेपताकेतिभगांतिके २ व तिहृन्मंत्रमालिख्यततोस्त्रीतिचतेलिखेत् प रमांतेतथागुह्येहुंकारत्रितयंलिखेत् ३ म दनेमदनांतंथदेहेत्रैलोक्यमालिखेत् द्रा वयेतितथालेख्यंकवचास्त्राप्रिवल्लभा ४ षष्टार्णापरमेशानीदेवीनीलपताकिनी का मेश्वरीवयंत्रंतुध्यानमस्यानिगद्यते ५ रक्तां रक्तांशुकप्रौढांनानारत्नविभूषितां इंद्रनी लस्फुरन्नीलपताकांकमलेस्थितां ६ का मग्रैवेयसंलग्नश्रृणिंचवरदाभये दधतीं परमेशानींत्रैलोक्याकर्षणक्षता ७ ध्यात्वा जपेच्चतुर्लक्षंदशांशेनतिलैर्हुनेत् एषावि द्यावरारोहेकामेशीचप्रपूजयेत् ८ इतिनी लपताकानित्याविधिः ईश्वरुवाच अ थवक्ष्येपरांविद्यांजयदांविजयांसदा शि वचंद्रस्वर्याताग्निरुद्रस्वरविभूषितं १ पृ० ४६ब) विंदुनादकलाक्रांतंविजयायैनमोलिखेत् ऋषिरस्याहंछंदोगायत्रीदेवतास्वयं २ वीजहृन्मध्यवर्णास्ववीजशक्तीतुकीलकं षड्दीर्घस्वरसंभिन्नंवीजेनैवषडंगकं ३ एकवक्त्रांदशभुजांसर्पयज्ञांपवीतिनीम् दंष्ट्राकरालवदनांनरमालाविभूषितां ४ अस्थिचर्मावशेषांतांवहिकूटसमप्रभाम् व्याघ्रचर्मांमहाप्रौढांशवासनविराजितां ५ रणेस्मरणमात्रेणभक्तेभ्योविजयप्रदाम् शूलंचर्मघटंकासिशृणीघंटाशनिद्वयं ६ पाशमग्निमभीतिंचदधतींजयदांसदां लक्ष त्रयंजपेन्मंत्रंतद्दशांशेनहोमयेत् ७ म हापद्मैस्त्रिमध्वक्तैस्ततःसिद्धाभवेदियम् त्रिकोणंचैवषट्कोणंवसुपत्रंमहीगृहम् मध्येवीजंसमालिख्यत्रिकोणेषुचवीजकं षडक्षराणिषट्कोणेवस्वपत्रेषुवैस्वरान् ९ युग्मयुग्मप्रभेदेनपत्राग्रेषुचवैलिखेत् नारसिंहंमहावीजंमातृकांवेष्टयेत्ततः १० अत्रावाह्यमहादेवीमुपचारैःसमर्चयेत् आदाषडंगावरणंत्रिकोणेपूजयेत्ततः ११ द०सं पृ० ४७अ) ब्रह्मविष्णुमहेशांश्चषट्कोणेषुततोयजेत् षडयोगिनीरष्टपत्रेमातरःपूजयेत्क्रमात् १२ चतुरस्रेलोकपालान्पुनर्देवींसमर्चयेत् इतिविजयानित्याविधिः ईश्वरुवाच अ थवक्ष्येमहानिनित्यांवैसर्वमंगलां जीव वारुणताराढ्यंसर्वांतेमंगलापदं १ ङेतं हृदयमालिख्यनवार्णासर्वमंगला ऋषि श्चंद्रोमहेशानिगायत्रीछंदुच्यते २ देवी यंवीजशक्तीतुवीजंहृदयमेवच विद्याभा गत्रयेणैवद्विरावृत्याषडंगकं ३ शुभ्रपद्मा सनांरम्यांचंद्रकुंदसमद्युतिं सुप्रसन्नांच वरदांनानारत्नविभूषितां ४ अनंतमुक्ता भरणंश्रवंतीममृतद्रवं वरदाभयशो भाढ्यांस्मरेत्सौभाग्यवर्दिनीं ५ एवंध्या त्वाजपेद्वर्णलक्षंविजितमन्मर्थः तद्दशां शेनजुहुयाच्छुभ्रपद्मैर्घृतस्वतैः ६ अष्ट पत्रंचभूविंबंतत्रावाह्यसुरेश्वरीम् उपचा रैःसमभ्यर्च्यषडंगाचरणंयजेत् ७ अ ष्टपत्रेषुसंपूज्यापुरादिक्रमेणतु रा काक्रमुद्वतीनंदाशुद्धासंजीविनीक्षमा ८ पृ० ४७ब) अध्यापिनीचंद्रिकाचह्लादिनीपुरतोयजेत् ततोव्राह्म्यादयःपूज्याभूविंवेककुचीश्वराः ९ पुनःसंपूज्यवहुदाचंद्रमंडलवासिनी १० इतिसर्वमंगलानित्याविधिः ईश्वरुवाच ज्वालामालांप्रवक्ष्यामिपुरुषार्थप्रदांपरां ओं कारवीजमुच्चार्यनमोभगवतीतिच १ ज्वा लामालिनीदंवीतिसर्वभूतंतुसंलिखेत् हारिकारिचकेजातवेदसीतिज्वलंतिच २ ज्वलयुग्मंप्रज्वलेतियुगंहुनात्मकंद्विधा व ह्निंद्विदाचकवचमस्त्रंचापिसमालिखेत् ३ चत्वारिंशद्वर्णरूपास्ववर्णाचक्रमाद्भवेत् ऋ षिस्तुकश्यपछंदीगायत्रीदेवतात्वियं ४ रे फास्त्रेवीजशक्तीचकीलकंकवचंप्रिये र विसूर्ययशरर्ययष्टवेदैरंगानिविन्यसेत् ५ चत्वारिंशद्दलंपद्मंचतुराधिकमीश्वरि व हिरष्टदलंपद्मंवाह्येभूविंवमालिखेत् ६ कर्णिकायांमहाविद्यांदलेषुक्रमतोलिखेत् दुर्गावर्णास्तुतोदेवीवसुपत्रेस्वरान्लिखेत् ७ द्वंद्वशःपरमेशानिवह्निवर्णेनवेष्टयेत् जातवेदसालिख्यपुनवामचमोमम रा द०सं० पृ० ४८अ) तीयतोनिदहातिवेदःसनश्चालिखेत् ९ वर्षांतेदतिसंलिख्यदुर्गाणीतिसमालिखेत् विश्वानावेचसिंधुंचद्वरितात्यग्निरालिखेत् १० एषादुर्गावरारोहेजातवेदस्वरूपिणी अस्मि न्यंत्रेसमासीनांज्वालामालांप्रपूजयेत् आदौ पीठंसमभ्यर्च्यदिक्षुमध्येचशक्तिभिः जया चविजयाभद्राभद्रकालीसमुख्यपि १२ दुर्मुखीचतथाव्याघ्रमुखीसिंहमुखीतथा दुर्गाचैतासुसंपूज्यदेवीमावाह्यपूजयेत् १३ आदावंगानिसंपूज्यततोदेवींसमर्चयेत् जा गतीतापिनीवेदगर्भादहनरूपिणी १४ सेतुखंडायातुहंत्रीनरमुखीतथाचवै वा गीश्वरीमदवहासोमरूपामनोजया १५ मरुद्वेगाचरात्रिश्चतीब्रकोपायशोवती तोयात्मिकाचनित्याचदयावत्यथहारिणी १६ निरस्कृयावेदमातातथाचमदनप्रिया स माराध्यानंदिनीचपराचरिपुमर्दिनी वरामु खीदंडिनीतिदुर्गागायत्रिकातथा निरव द्याविशालाक्षीश्वासोद्वाहाचनंदिनी १८ वेदनावह्निगर्भाचसिंहवाहातथैवच पृ० ४८ब) धुर्याचदुर्वहाचैवरिरंसातापहारिणी १९ त्यक्तदोवानिसंपलापुरादिप्रपूजयेत् अष्टारेमातरःपूज्याभूविंवेककुचीश्वराः २० पुनर्देवींसमभ्यर्च्यस्वर्णाभरणभूषितां उद्यद्विद्युल्लताकांतिंस्वर्णांषुकविराजितां २१ महासिंहासनेप्रौढांज्वालामालाकरालिनीं अरिशंखंखड्गखेटेत्रिशूलंडमरुंतथा २२ पानपात्रंचवरदंदधतींसंस्मरेद्यजेत् ज्वा लामालामहाविद्यारिपुहंत्रीनसंशयः २३ इतिज्वालामालिनीनित्याविधिः ईश्वरुवाच अथवक्ष्येमहेशानिविचित्रांविश्वमातरं य स्याःस्मरणमात्रेणपलायंतेमहापदः च कानुग्रहविद्विंदुभूषितंमनुमालिखेत् ऋ षिर्ब्रह्मास्यमंत्रस्यगायत्रीछंदुच्यते २ चित्राचदेवतावीजंककारःकीलकंचत ता रानुजस्तुशक्तिःस्यात्पुरुषार्थप्रदायिनी ३ षड्दीर्घस्वरभेदेनन्यसेदंगानिदेशिकः यंत्रेतुमातृकायास्तुपूजादेव्यास्तथाभवेत् मातरीलोकपालांश्चपूज्यदेवींजपेद्वुधः रविलक्षंदशांशेनहुनेद्वृततिलैर्यवैः ५ दं०सं० पृ० ४९अ) स्तंभनेपीतवर्णेयंवश्येवंधूकसन्निभा मारणेश्यामलांगीयमुच्चाटेधूम्रसन्निभा ६ शुभ्रांगीज्ञानदानित्यंविचित्रवसनासदा विचित्रभूषणानित्यंविचित्रकुंकुमोज्वलां ७ वरदाभयशोभाढ्यानानावस्त्रधराक्वचित् क्रमेणकथितानित्यासर्वसौभाग्यदाप्रिये ८ इतिश्रीदक्षिणामूर्तिसंहितायांनित्यावि वरणंनामद्वाविंशःपटलः २२ ईश्वरुवाच एतत्सर्वात्मकंवस्तुत्रिपुरेत्यभिधीयते ए षासत्वान्वितादेवीजाग्रदित्यभिधीयते त देयंशक्तिरूपात्मासृजंतीभुवनत्रयं उत्प त्तिर्जागरोवोधोव्यावृत्तिर्मनसःसदा २ कलाचतुष्टयंजाग्रदवस्थायांव्यवस्थितां एषैवतुसमायुक्ताशिवरूपांनिगद्यते ३ मरणांविस्मृतिर्मूर्छानिद्राचतमसावृत्ता सुषुप्तेषुकलाज्ञेयासुषुप्तिःशिवरूपिणी पदाद्वंद्वात्मिकादेवीरजोरूपाभयात्मिका संयोगःसत्वतमसोरजित्यभिधीयते ५ सुषुप्त्यंतेजागरादौस्वप्नावस्थारजोमयी अभिलाषंभ्रमच्चिंताविषयेषुमनःस्मृतिः ६ पृ० ४९ब) कलाचतुष्टयंस्वप्नावस्थायांतुविधायते गु णातीतापदादेवीसातुर्येत्यभिधीयते ७ सुषुप्त्यादौजागरांतेस्फुरतामात्रलक्षणा अवस्थाशेषतांप्राप्तातुर्यातुकमलाकला ८ भावाभावविनिर्मुक्तागुणातीतानिगद्यते वैराग्यंचमुमुक्षुत्वंशमादिविमलंमनः ९ सुदसद्वस्तुनिर्द्वारस्तुर्यायास्तुकलाइमाः तुर्ययैवपरिपाकेनकलासप्तदशीभवेत् १० कतुरंभाफलादीनांपाकेनमधूरोरसः अ तेवमहेशानीकलासप्तदशीभवेत् ११ उच्चार्ययमाणायेमंत्रास्तेमंत्रावाचकांप्रिये उ च्चाररहितंवस्तुचेतसैवविचिंतयेत् १२ चिंतनात्सामरस्येनसाच्छाद्व्रह्मैचकेवलं अतेवमहाविद्यातूर्यरूपावरानने १३ क लाषोडशकंचैतछीविद्यार्णेषुसंस्थितं निःसरंतिमहामंत्रामहाग्नेर्विस्फुलिंगवत् १४ तथैवमातृकावर्णानिःसृतावाग्भवात्प्रिये अतेवतदेवास्यावीजंवाग्भवमुच्यते १५ तेनैववाड्मयेनासौत्रैलोक्यंसचराचरम् मो हयंतीतदादेवीकामेशीवीजरूपिणी १६ दं०सं० पृ० ५०अ) पुरुषस्त्रीमयेनासौस्फुरंतीविंदुमातृकां महामोहेनदेवेशिकीलयंतिजगत्त्रयं १७ अतस्तत्कीलकंदेवितेनसौभाग्यगर्विता पालयंतिजगत्सर्वंतेनेयंशक्तिरुच्यते १८ एवंकूटत्रयकलामहासाम्राज्यदायिनी तदालक्ष्मीमयीदेवीजागर्तिभुवनत्रये १९ महाकोशेश्वरीवृंदमंडिताभुवनेश्वरी ए षैवकोषसंपन्नाकामान्पूरयतेपरा २० कामेश्वरीतदादेवीकामान्पूरयतेसदा म हासिंहासनप्रौढाविश्वगाविश्वरूपिणी अकथादिमहापीठेहलक्षवर्णरूपिणी त दाकल्पलतादेवीवाक्पुष्पाज्ञानमत्कला सौभाग्यदायिनीनित्यंरत्नतेजोविभूषिता २१ जीवानुग्रहसर्गेणस्फुरंतीविश्वमातृका चतुरायतनेनैवचतुर्वेदनमस्कृतां साम्रा ज्यभूत्तदादेवीभुवनानंदमंदिरा अतस्त्रै लोक्यसाम्राज्यप्रदानित्यात्मिकाप्रिये २३ एतत्सर्वंपुरस्कृत्यवर्ततेत्रिपुराशिवा प्र पंचमध्येदेवेशिकेवलाब्रह्मरूपिणी अतेवमहादेवीकलासप्तदशीभवेत् पृ० ५०ब) षोडशार्णस्वरूपापिनित्याषोडशत्कात्मिका २५ इतिनित्याविवरणम् पार्वत्युवाच त्रिपुरा परमेशानीसर्वमंत्रमयीशिवा संविद्रूपा त्ककथिताकथंपूज्यांसदाशिव १ ईश्वरु वाच प्रातरुत्थायशिरसिसंस्मरेत्पद्ममुज्वलं कर्पूराभंस्मरेतत्रश्रीगुरुंनिजरूपिणं २ स्वप्रसन्नंलसद्रूपंमंडितंशांतिभूषितं व राभयकरंनित्यंनमस्कृत्यामुनायजेत् ३ हस्रौमात्मकमालिख्यहसक्षमलवातिलान् वह्नियुक्तांस्त्रिधालिख्यस्विधासंभूष्यचस्वरैः ४ मुखवेष्टनवामांगश्रुतिनेत्रैश्चमंडितैः वी जत्रयमिदंभद्रेविंदुनादकलात्मकं ५ श्रीपरांतेपावकेतिसर्वाराधापदंलिखेत् सर्वमूर्द्धपुरीतेचनाथसर्वगुरुस्वयं ६ गुरुश्रीगुरुनाथांतेहसक्षमलवपान् रे फदीर्घश्रुतिगुतान्विंदुनादकलात्मकान् पिंडीकृत्यलिखेदाद्यंचतुर्थंचततोलिखेत् ९ तृतीयंपूर्ववल्लेख्यंद्वितीयमपिपार्वति त तःश्रीशंभुगुर्वंतेपुनराद्यंसमालिखेत् आ द्यकूटचतुष्कांतेचाद्यतार्तीयमालिखेत् व दं०सं० पृ० ५१अ) सुसंख्यैश्चदेवेशिचत्वारिंशद्भिरक्षरैः मंडितो यमनुर्देविस्मरेन्निजगुरुंप्रिये १० मूलादि ब्रह्मरंध्रांतंविषतंतुनीयसीं उद्यदादित्यरु चिरांस्मरेदशुभशांतये ११ क्लीमात्मकंकाम देवसर्वांतेजनमालिखेत् प्रियादिहृदयां तोयंमनुर्दंतविशुद्धये १२ चतुर्लक्ष्याणुना वक्त्रंक्षालयेत्सिद्धिहेतवे स्नानकर्मततःकु र्यान्मूर्द्धानंप्रोक्षयेत्तनुं १३ संप्रोक्ष्यगुह्यमुद्रा ढ्योमंत्रीपापनिकृंतनः आत्मविद्याशिवैस्त त्वैराचमेद्विद्ययात्रिधा १४ त्रिविधंतर्पणंकु र्याद्देवर्षिपितृपूर्वकं विद्यपाथततोमंत्रीस र्वालंकारभूषणः १५ रक्तवस्त्रांगरागंतुरक्ता सनगृहेस्थितः विद्यायातत्वरूपिण्यात्रिधा चम्पाभिषेचनं १६ विद्ययैवत्रिधादेविचुल कीनोदकंसुधीः गृहीत्वाचिंतयेत्तत्रवह न्नाडीगतंप्रिये १७ वामकुक्षिगतंपापंपु रुषंकज्जलप्रभम् ब्रह्महत्याशिरोयस्य स्वर्णस्तेयकटिद्वयं १८ सुरापानहृदं गानिपातकानिबहून्यपि उपपातकसं घ्रास्तुरोमापिपरमेश्वरि १९ पृ० ५१ब) नानापातकसंघास्तुसर्वांगानिविचिंतयेत् खड्गचर्मधरंदेविमनसाचिंतयेद्वुधः २० भूमौवज्रशिलांध्यात्वाघातयेतत्रसुंदरि अ थार्घ्यंरवयेदद्यात्रिधासौरमनुंस्मरन् २१ हृल्लेखाहृदयंदेविशिरोहंसस्ततोवदेत् वेदाक्षरीमहाविद्यासर्वसौराधिदेवता २२ भास्वद्रत्नौघमुकुटांस्फुरच्चंद्रकलाधरां स द्यःसंतप्तहेमाभांसूर्यमंडलरूपिणीं २३ पाशांकुशाभयवरास्मरन्नथजपेत्ततः गायत्रीशुभगायास्तुत्रिधावीजस्वरूपिणी २४ वाग्भवांतेलिखेद्देविवाग्भवेश्वरिविद्महे द्वितीयकूटमुच्चार्यकामिनीश्वरिधीमहि २५ तृतीयंकूटमुच्चार्यततःशक्तिप्रचोदयात् य थाशक्तिजपंकुर्याच्छ्रीविद्यांचततोजपेत् २६ अथयागगृहंयायादलक्तकविभूषितं अनेकचित्रशुभगंभूमौगोमयचर्चितम् २७ उपरिष्टालसत्पुष्पशुभगंधूपधूपितं दी पमालावलीरम्यंविकीर्णकुसुमोज्वलं २८ तत्रागत्ययजेद्विद्वान्मौनीज्ञानीसदाशुचिः सर्वाभरणसंपन्नंत्रिपुरार्चनमंडपं २९ दं०सं० पृ० ५२अ) ङेनमोंतेनपूजास्यात्मंडपस्यसुलोचने गणपंक्षेत्रपालंचधातारंचविपूर्वकं ३० गंगांचयमुनांचैवतथाशंखनिधिंक्रमात् ततःपद्मनिधिंचेष्ट्वावास्तंतेपुरुषंयजेत् ३१ द्वारश्रियंगणेशंचपूजयेच्चसरस्वतीम् देहलीमपिसंपूज्यपूजयेद्वारमंडले ३२ हृल्लेखांचश्रियोवीजमादौसंयोजयेत्ततः नामांतेश्रीपदंवाच्यंपादुकांपूजयामिच ३३ अनेनक्रमयोगेनसंपूज्यासर्वमातरः र क्तासनोपविष्टस्तुचक्रोद्धारंसमाचरेत् ३४ शक्त्योपरिष्टाछक्तिंतुविलिखेद्विस्तृतांसकृत् वह्निनातेपुटीकुर्यात्संधिभेधक्रमेणतु ३५ अग्नीशासुरवायव्यरेखांविस्तार्ययोजपेत् दशकोणंयथादेविजायतेतद्वदेवहि ३६ मध्यकोणचतुष्कस्यरेखेआकृष्यवुद्धिमान् तत्तत्संधिविभेदेनमन्वस्रंजायतेतथा ३७ समत्रिकोणशक्त्यैकंसुखदंनेत्रयोर्यथा सुश्रीकंसंधिभेदेनृजुरेखाविजृंभितं वहिरष्टदलंपद्मंसुवृत्तेनसमालिखेत् ३९ तद्वत्षोडशपत्रंहिविलिखेत्पद्ममुत्तमं त्रि पृ० ५२ब) वृत्तंपरमेशानिततोभूविंवमालिखेत् ४० च तुर्द्वारंविशोभाढ्यंपुष्पंतत्रविनिक्षिपेत् गंडकीभवपाषाणेस्वर्णेरजतताम्रजे का श्मीरदर्पणेभूर्जेअघीपीठंलिखेद्वुधः ४१ शलाकयासुवर्णस्यमिश्रयाचुसृणेंदुभिः सिंधूररजसामिश्रैःपट्टेधातुमयेलिखेत् ४२ अथवाभूतलेदेविसुरेखंकुंकुमेनवा सिंधू ररजसाचापिलिखेत्सर्वार्थसिद्धये ४३ ए तच्चक्रंमहेशानिमध्येविंदुविराजितं तत स्त्रिकोणंचाष्टारंदशारंचदशारकं ४४ म नुकोणंमहेशानिमध्यचक्रमिदंप्रिये वैंद वादष्टकोणांतंसर्वंमध्यंसुरेश्वरि ४५ च त्वारिंशद्भगैर्युक्तंत्रिभगैरपिपार्वति वसुप त्रंकलापत्रंचतुरस्रंक्रमात्प्रिये ४६ भगात्म कमिदंभद्रेनवयोन्यंकितंभवेत् यथोष्टा शामुखोमंत्रीतत्तत्कर्मविधौसुधीः ४७ प्रा ङ्मुखःसम्यगासीनोगुरुंनत्वानिजंततः पूर्वो क्तमनुनासम्यक्गुरुनामचसंस्मरेत् ४८ पार्ष्णिघातकरास्फोटैरुर्धाचक्रस्तुमांत्रिकः स्वर्वर्भूतानिसंत्रास्यकरशुद्ध्यादिकंचरेत् ४९ द०सं पृ० ५३अ) आद्यद्वितीयवर्णाभ्यांत्रिपुरेस्यंतिसंलिखेत् आद्यद्वयंविंदुनादकलास्त्रंत्रिपुराभवेत् ५० मंत्रमस्यामहेशानित्रिपुरेशीवनान्यथा म ध्यमादितलांतंतुकरशुद्धिविधौयजेत् ५१ ततात्मासनंदद्यात्सुंदर्यापरमेश्वरि वा ग्भवंत्रिपुरेश्वर्याहित्वातत्रविनिक्षिपेत् ५२ हृल्लेखांसुंदरींनामत्रिपुरेशीचपूजनं च क्रासनंततोदद्यात्पुरवासिन्यधिष्टितं ५३ शिववीजादिमंवीजंत्रयमेतदुदाहृतम् त्रि पुरेस्यास्तुविद्येयंत्रिपुरेशीवपूजनं ५४ त्रि पुरेशीहमाद्यास्याद्वीजयुग्मेतथांतिमे शिवा द्याश्रीरियंसर्वमंत्रासनविधौयजेत् ५५ सुंद र्याश्रंतिमंहित्वावलेमात्मकमक्षरं संयोज्य मालिनीदेवीसाध्यसिद्धासनस्थिता ५६ मंत्र मस्यामहेशानित्रिपुरेशीवसंभवेत् आत्मर क्षांप्रकुर्वीतत्रिपुरेश्यामहेश्वरि ५७ संपत्प्र दाभैरवीयमंतेसर्गसमन्विता मूर्त्यावाहन विद्यातुसिद्धांवापरमेश्वरी ५८ संपत्प्रदा भैरवीवयजनंपरमेश्वरि ५९ इतिश्रीदक्षि णामूर्तिसंहितायांकरशुद्ध्यादि पृ० ५३ब) विधिःपंचविंशतितमःपटलः २५ ईश्वरुवाच शिवचंद्रौमन्मथोरःशक्तिर्वैविंदुमालिनी क्षमाविंद्वर्द्धमात्राश्वनववर्णाभवंतिहि १ शिवाच्छून्यमयीदेवीव्योमाकारेणसंस्थिता विश्वंस्वात्मनिचिद्रूपेवहंतिसकलालया २ चंद्रेणद्रावयंतीयंमूलादिब्रह्ममंदिरात् आ प्लावयंतीसकलंसृजंतीविश्वमातृकां ३ मन्मथेनमनोरूपातस्मात्तेजोमयीततः वि स्तारयंतीसकलंविस्वयोनिरितीरिता ४ अंतःकरणवृत्यातुविश्वांतर्मातृकाभवेत् अंतर्मायेतिविख्याताययेदंधार्यतेजगत् ५ अतेवक्षमारूपाजगद्धात्रीपराभवेत् विंदु रूपापराशक्तिर्नादरूपामहेश्वरी ६ नादा तीताविचारेतुविचारागोचराततः एवंब्र ह्ममयैर्वर्णैर्जायतेत्रिपुरामनुः ७ नान्यैः वर्णैर्महामंत्राःसुभगायाभवंतिहि शुद्धा श्चसकलामंत्रास्तथाचोभयसंज्ञकाः ८ शुद्धविद्याशृणुप्रौढेसर्वाम्नायैर्नमस्कृताः कामाकासौशक्तितुर्यभूमायावाग्भवंयजेत् ९ अनेनचविलिख्यंतेविद्यासर्वागमेश्वरि म द०सं० पृ० ५४अ) दनानुजतःकामोमदनाग्रजुच्यते १० हित्वानुजंशिवंसाग्रंविद्येयंमनुहृद्गता कामःसहाग्रजोवापिशिवंकामानुजंविना ११ सहाद्यंमदनेशक्तौहसाद्यंकानुजंविना चं द्राराधितविद्येयंभुक्तिमुक्तिफलप्रदा १२ अनुजेनविनाकामोहसादिवाग्भवंस्मरेत् हसादिसहकःशक्तावहस्यितिगीयते १३ कुवेराधिष्टिताविद्याभुक्तिमुक्तिफलप्रदा हित्वाहंवाग्भवेकामेहसादिकोमहामनुः १४ तुर्यैकादशमेहित्वाशक्तिकुटेप्पयंलिखेत् कामानुजंत्रयंहित्वासहसाद्योअजस्तथा १५ लोपामुद्रोपाशितेयंभुक्तिमुक्तिफलप्रदा इ यंविद्याशक्तिकुटेसहकेनार्थसिद्धिदा १६ कामराजाराधितेयंभुक्तिमुक्तिफलप्रदा एतस्याएवविद्यायाःशक्तिविंदुमताद्वयं १७ हित्वाहसादिर्गदिताऽगस्त्याराधितदेवता धर्मार्थकाममोक्षाणांमालयंसंप्रदायतः १८ हित्वाद्ययुगलंवाचिसाद्यंकामेशिवादिकं शक्तिविंदुस्रजंत्यक्ताकामंतत्रविनिक्षिपेत् १९ शक्त्यावगस्त्यविद्येयंनंद्याराधितदेवता पृ० ५४ब) कानुजानांत्रयंत्यक्ताहसाद्यंवाचिमन्मथे २० सहाद्यमंतेसहयोर्मध्येकःसूर्यपूजिता अगस्त्यकुटत्रितयंसूर्यकामंसमालिखेत् २१ पुनस्तत्कलमध्येशंत्तार्त्तीयंचसमालिखेत् सहाद्यंविष्णुपूज्येयंषट्कूटापरमेश्वरि २२ अगस्त्याद्यंवाग्भवंस्यादेतदेवसकादिकं वि ष्णुविद्यापंचगंचस्कंदाराधितदेवता २३ अग स्त्यस्यद्विधाविद्यांविलिख्यमनुवित्तमः च तुर्थीपंचमीमायांत्यजेच्छिवहृदिस्थितां २४ वाग्भवंश्चचतुष्कंचकामराजस्यपंचकं श क्तिकूटत्रिकार्णंचकामराजस्यसंलिखेत् २५ मायास्थानेहरीवर्णयुगलंचक्रमालिखेत् दुर्वाससापूजितेयंपुरुषार्थप्रदायिनी २६ एतेद्वादशमंत्राःस्पुःशुद्धाःसर्वार्थसिद्धिदाः अन्येपिशुद्धभेदास्युःकथ्यंतेकृपयातव २७ भेदस्तुमनुविद्यायाःनास्तिसर्वागमेष्वपि शिवचंद्रकशक्तिस्तुहृल्लंखावाग्भवोभवेत् २८ जीवेशमादनेकारविंदुसृक्पृथिवीपरा ए तत्कामेचतार्तीयेद्वितीयाचंद्रपूजिता कु वेरशक्तिकुटंचकामकूटंसमालिखेत् दं०सं० पृ० ५५अ) वाग्भवेकामराजंचशक्तिवीजमथोलिखेत् ३० शिवकामेशशक्तिलपराधनदपूजिता वि ष्णंतिमवाविकामेसादिकामस्यमन्मथं स हकामांत्ययुग्मादिशक्तौनंदीशपूजिता भे दस्तुसूर्यविद्यायानास्त्येवपरमेश्वरि विष्णु विद्यांतरंवक्ष्येकूटत्रयविराजितं ३४ जीवे शक्ष्मापरावाचिकामेस्याद्विष्णुपंचमं शक्तौ कामांतिमंविद्याद्वितीयाविष्णुपूजिता ३५ हसशक्तिकभूमायाकूटमेतत्रिकंलिखेत् वाचिकामेतथाशक्तौस्कंदपूज्यापराभवेत् ३६ अगस्त्यस्यमनौज्ञेयापरावाचिहलांतगा का मत्रयांतेभूजीवौत्रिकुटाशिवपूजिता ३७ एतेभेदावरारोहेशुद्धाःसिद्धिप्रदायकाः शुद्धभेदद्वयंवक्ष्येभोगमोक्षफलप्रदं ३८ जीवेशकामभूमायावाचिकामेपिसंलिखेत् इदमेवपुनःशक्तौविद्येयंशक्तपूजिता ३९ कशक्तिर्विंदुमाललीशक्तीकूटंषडक्षरं वा चिकामेहकाकाशक्ष्माकासाग्निसमन्वितं ४० शक्तौकासकलाकाशवह्निमत्परमेश्वरि उन्मनीनामविद्येयंकेवलंमोक्षदायिनी ४१ पृ० ५५ब) एतेशुद्धाःसदाजप्याःसिद्धिदानात्रसंशयः अ थवक्ष्येमहेशानिमंत्रान्सकलसंज्ञकान् ४२ कामराजस्यविद्यायामध्यंजीवंविनोच्चरेत् अंतेजीवऽशिवस्यातुविद्यावरुणपूजिता ४३ एतस्याएवविद्यायाहित्वाविंदुत्रयंक्षिपेत् तत्रैवकामविद्येयंधर्मराजप्रपूजिता ४४ कसकक्ष्मादिहृल्लेखाहसलस्मरतक्षमाः हृल्लेखामन्मथेशक्तौसकलाग्नीमहीपरा ४५ वह्निनापूजिताविद्यामहाविघ्नौघघातिनी अगस्तिकूटयुगलंवह्निपूज्यांतिमंलिखेत् ४६ विद्यापन्नगराजेनपूजिताभुक्तिमुक्तिदा कशक्तिवह्नियुगलंभूवह्निभुवनेश्वरी ४७ हकलाग्निहलामायासरकक्ष्माग्निमंडिता मायावायुप्रपूज्येयंमहापापौघभंजिनी ४८ कशक्तिवैंदवीवह्निक्ष्मामायाकहालरा मा यासहकशक्राग्निमायेयंसौम्यपूजिता ४८ कामाकासक्षमामायाशिवकामहभूलरा मायाकामेशक्तिकूटेसकलाभुवनेश्वरी ४९ ईशानाधिष्टिताविद्यासर्वकामप्रपूरिणी कामराजस्ययुग्मांतेजीवक्ष्मामदनापरा ५० दं०सं० पृ० ५६अ) रत्याराधितविद्येयंसर्वकामार्थसाधिका का माधिष्टितविद्यांतेविलोमांतासमालिखेत् ५१ नारायणाधिष्टितेयंषट्कूटापरमेश्वरी का माद्यंवाग्भवेकामेहकहक्ष्मापराभवेत् ५२ शक्त्यावागस्त्यकूटंवाविद्येयंव्रह्मपूजिता अ गस्त्यंवाग्भवंवाचिव्रह्मविद्यांतिमद्वयं ५३ जीवार्चितामहाविद्यासर्वकामप्रपूरिणी ए तैर्द्वादशभिर्भेदैःसवलापरमेश्वरी ५४ शु द्धाशुद्धामहाभेदाज्ञातव्यापरमेश्वरि विद्या संलिख्यशुद्धास्तुविपरीतास्ततोलिखेत् ५५ ताएवहितथाशुद्धाशुद्धाभेदाभवंतिहि या वंतशुद्धभेदास्युःतावंतस्तुक्रमात्प्रिये ५६ त थैवसवलद्वंद्वंभेदादेविभवंतिहि भेदाःसर्वे त्वयापीड्यमाययातुर्यसंज्ञकाः ५७ सर्वा तिज्ञानगहनाव्रह्मरूपासुरेश्वरी ज्ञातव्या गुरुवक्त्रेणत्वन्यथापाशमाप्नुयात् ५८ अ थवक्ष्येमहेशानिचतुर्द्धाज्ञानमुत्तमं एक धाकथितंचैतत्प्रकारांतरमुच्यते ५९ य स्याःस्मरणमात्रेणवाजपेयशतंभवेत् व क्ष्यमाणंवीजयुग्ममादौसंयोज्यसंस्मरेत् ६० पृ० ५६ब) परासरेस्वरेंद्वादिद्वितीयेभेदुच्यते एतद्वे दादिसंसेव्यंतृतीयोभेदुच्यते स्वयंव्रह्मा महेशानिसकृदुच्चारणाद्बुधः ६१ अथतु र्यप्रकारश्चकथ्यतेभुविदुर्लभः यस्यस्मर णमात्रेणपलायंतेमहापदः ६२ स्वयंव्र ह्मास्वयंविष्णुःस्वयंरुद्रोनसंशयः किं पुनर्देवदेवेशिस्वयंकामेश्वरोविभुः ६३ अश्वमेधसहस्राणिवाजपेयस्यकोटयः नरमेधसहस्राणिसकृदुच्चारणात्प्रिये ६४ काश्यादितीर्थयात्रास्तुप्रादक्षिण्यंभुवस्तथा गंगास्नानसहस्राणिनामोच्चारणमात्रतः ६५ किंपुनर्देविसाछातुमंत्रीव्रह्मनसंशयः द्वि तीयस्यादियुग्मंतुविपरीतंलिखेत्सुधीः ६६ वालांचांतर्मुखंकृत्वाविलिखेत्तदनंतरं एत त्संपुटितांकुर्यातृतीयांपरमेश्वरि ६७ श्रीविद्येयंमयाख्यातावर्णितुंनैवशक्यते जिह्वाकोटिशतैर्देविवक्त्रकोटिशतैरपि ६८ पंचाश्येनकथंदेविवर्णितुंशक्यतेमया श्रीविद्यासर्वविद्यानांराज्ञीस्तोतुंनशक्यते ६९ षोडशाक्षरसंपन्नास्वयंपंचदशीकला ७० दं०सं० पृ० ५७अ) श्रीगुरोःकृपयालव्धाऋद्धिसिद्धिप्रदायिने अंतेनिरामयंव्रह्ममंत्रीभवतिनान्यथा ७१ व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकान् उपपातकलक्ष्याणिहंतिश्रीस्मरणंक्षणात् ७२ सर्वेकल्याणमंत्रास्तुभवंतिपरमेश्वरी एको नविंशद्वर्णस्त्वनारायणहरिद्वयोः ७३ शि वविद्यामहेशानिसिद्धिःसप्तदशाक्षरी द्वं द्वविद्यास्तुसकलाएकोनविंशदक्षरा ७४ नारायणीवैष्णवीचपंचविंशतिवर्णका ज्ञा तव्यागुरुवक्त्रेणचान्यथाशापमाप्नुयात् ७५ चतुःषष्टियतःकोट्योयोगिन्योमातृमंडलैः विनागुरूपदेशेनसाधकंनाशयंतिहि ७६ इतिश्रीदक्षिणामूर्तिसंहितायांश्रीविद्यामं त्रविवरणंनामषट्विंशःपटलः २६ ईश्व रुवाच श्रीविद्यामानसोभूत्वावामभागे महेश्वरि चतुरस्रंजलेनैवमंडलंपूरयेत् प्रिये १ गंधपुष्पाक्षतैःस्वत्रयंत्रिकांपूजये त्तथा शंखंतत्रतुसंस्थाप्यजलपूर्णंसहेतु कं २ सम्यगभ्यर्च्यतेनैवपुरतोमंडलंयजे त् चतुरस्रंयजेत्तत्रयंत्रिकास्थापयेत्सुधीः ३ पृ० ५७ब) त्रिकोणवृत्तषट्कोणमंडलंपूजयेत्क्रमात् स मस्तांव्यस्तरूपांचत्रिकोणेपूजयेच्छुचिः ४ द्विरावृत्याषडंगैस्तुषट्कोणेषुप्रपूजयेत् आ द्यवीजेनवह्निंतुयंत्राकारेणपूजयेत् ५ हेमा दिनिर्मितंपात्रंनारिकेलोद्भवंप्रिये महाशं खंविशेषेणभुक्तिमुक्तिफलप्रदम् ६ नारि केलोद्भवंपात्रंसर्वैश्वर्यसुखप्रदम् मुक्ति दंतुविशेषेणसर्वसंपत्करंसदा ७ गंधादि चर्चितंधूपधूपितंपात्रमुत्तमम् यंत्रिकायां प्रतिष्टाप्यपूर्वोक्तंयंत्रमालिखेत् ८ तथैव पूजयेत्कामकूटमुश्चार्यसुंदरि स्तर्प्यंपात्र मयंतत्रविशेषेणचपूजयेत् ९ भागत्रयं विशेषस्यभागमात्रंजलंक्षिपेत् तत्रापि संलिखेत्पूर्वयंत्रंपूजांचकारयेत् १० त्रि कोणेपूजयेद्विद्यांमयाकोणत्रयेततः कू टत्रयंक्रमेणैवयथाविद्यातथाविधां ११ श्रीविद्याविषयेदेविसंपुटत्वेनपूजयेत् स र्वत्रायंक्रमोदेव्यानात्रालस्यंचरेत्प्रिये १२ देवीमूलषडंगानिक्रमेणपरिपूजयेत् श क्तिकूटंसमुच्चार्यतज्जलंचंद्ररूपकम् १३ दं०सं० पृ० ५८अ) संपूज्यमध्येक्रमतःमातृकात्मकमाचरेत् पंच कोशमहाविद्यांसंस्मरेत्तत्रसुंदरि १४ तार्ती यंश्रीगुरोर्वीजंहंसविद्यामनुंजपेत् वारत्र यंचदेवेशिश्रीविद्यांसप्तधायजेत् १५ स्पृ ष्ट्वार्घ्यकंततोगंधपुष्पाद्यैरर्चयेत्ततः चिदा नंदमयंधामनेत्रद्वारगतंस्मरेत् १६ प्रोक्ष येत्तेनसकलंपूजाद्रव्यांतरंततः आत्मान मपिसर्वंतद्विधारूपंभवेत्प्रिये १७ अंगु ष्टानामिकाभ्यांतुवाममार्गेणसुंदरी तत्व मुद्रेयमाख्यातामहापापनिकृंतनी १८ अंगुष्टातर्जनीभ्यांतुज्ञानमुद्रेयमीरिता अ नयापुष्पपूजास्यात्तथातर्पणपूजने १९ भू तशुद्धिविधिंकुर्यात्मंत्रीदेहस्यशुद्धये वा युवीजेनदेहस्यधातवःपापसंयुताः २० संशोष्यवह्निवीजेनपापेनसहितंदहेत् पा पंविनापुनर्देहममृतीकृत्यजीवयेत् २१ जलवीजेनदेवेशिपार्थिवेनस्थिरीकुरु ततोदेहस्यसन्नाहंसम्यग्नासंसमाचरेत् २२ करशुद्धिविधिंकृत्वाचतुरासनदेवताः पा दयोर्जंघयोर्जान्वोर्मूलाधारेचविन्यसेत् २३ पृ० ५८ब) कनिष्टांगुष्टरहितैस्त्रिभिस्तुहृदिविन्यसेत् मध्यमानामिकाभ्यांतुन्यसेच्छिरसिमंत्रवित् २४ शिखांगुष्टेनविन्यस्यदशभिःकवचंन्यसेत् हृद्गतैर्नेत्रविन्यासंविन्यसेत्परमेश्वरि २५ तर्जनीमध्यमाभ्यांतुततोस्त्रंविन्यसेत्प्रिये आत्मरक्षाकरींविद्यांद्विरुश्चार्यन्यसेद्वुधः २६ व्यापकत्वेनमूर्तिंत्वविन्यसेत्सिद्धिहेतवे अ थवक्ष्येमहेशानिश्रीविद्यान्यासमुत्तमं सं पूर्णांचिंतयेद्विद्यांव्रह्मरंध्रेणसुप्रभां २८ स्रवत्सुधांषोडशार्णांमहासौभाग्यदांस्मरेत् वामांशदेशेसौभाग्यदंडिनीभ्रामयेत्ततः २९ रिपुजिह्वाग्रहांमुद्रांपादमूलेविनिक्षिपेत् त्रैलोक्यस्यत्वहंकर्ताध्यात्वैवंतिलकेन्यसेत् ३० संपूर्णामेववदनेवेष्टनत्वेनविन्यसेत् पुनः संपूर्णवदनेगलोर्धेविन्यसेत्तथा ३१ संपू र्णयाचदेहेत्वव्यापकत्वेनविन्यसेत् व्या पकांतेयोनिमुद्रांमुखेक्षिप्त्वाभिर्वद्यच ३२ त्रैलोक्यंक्षोभयत्याशुन्याससन्नद्धविग्रहः मुष्टिंवध्वोच्चरेन्मंत्रीतर्जनीदंडवत्तथा ३३ सौभाग्यदंडिनीनामरिपून्दंडयतेक्षणात् अं सं०दं० पृ० ५९अ) गुष्टंमुष्टिगंकुर्याद्रिपुजिह्वाग्रहाभवेत् ३४ संयोज्यहस्तौदेविशितर्जन्यानामिकांयजेत् तद्वद्वामेचसंघृष्ट्ययोन्याकारेणयोजयेत् ३५ उपर्ययंगुष्टयोगेनयोनिमुद्रेयमीरिता अन यामुद्रयादेवित्रैलोक्यंवशमानयेत् ३६ परिभ्राम्यानामिकांतुमूर्द्धानंपरितःप्रिये व्रह्मरंध्रेक्षिपेद्देविमणिवंधेन्यसेत्ततः ३७ ललाटेनामिकांकुर्यात्षोडशार्णांस्मरेत्प्रिये त्रैलोक्यमरुणंध्यायेन्न्याससंमोहनाभिधः पादयोर्जंघयोर्जान्वोकट्योरंधुनिपृष्टके ना भौपार्श्वद्वयेचैवस्तनयोरंशयोस्तथा ३९ कर्णयोर्व्रह्मरंध्रेचवदनेंधुनिपार्वति ततः कर्णप्रदेशेतुकरवेष्टनयोःक्रमात् ४० सं हारोयंमहान्यासोवीजैःषोडशभिःस्मृतः गोलकंचततःकुर्यात्रैलोक्यक्षोभकारकं ४१ मातृकांविन्यसेत्पश्चाद्गणेशग्रहरूपिणीम् नक्षत्रयोगिनीराशिपीठवर्णस्वरूपिणीं ४२ सकलाम्नायविद्याभीरंकितांविश्वमातरं शिरोललाटभ्रूमध्यकंठहृन्नाभिगोचरे ४३ आधारेव्यूहकंयावद्रहस्यायोगिनीर्न्यसेत् सृ पृ० ५९ब) ष्टिन्यासंततःकुर्यात्सर्वसिद्धिःप्रदायकं ४४ ब्रह्मरंध्रेलिकेनेत्रेश्रुतिघ्राणोष्टकेषुच ओ ष्टयोर्दंतयोर्देविजिह्वायांचोरकूपके ४५ पृष्टेसर्वांगहृदयस्तनकुक्षिषुलिंगके श्रीविद्यार्णैन्यसेद्देविमंत्रीसर्वसमृद्धये ४६ काननाक्षिश्रुतिघ्राणगंडोष्टेषुमुखांतरे ने त्रयोर्वदनेवर्णान्न्यसेत्सौभाग्यहेतवे ४७ क सीमंतललाटेषुभ्रूयुगेघ्राणवक्त्रयोः कर संधिषुसाग्रेषुशोडषार्णान्क्रमान्यसेत् ४८ शिरोललाटहृद्वक्त्रेजिह्वाषत्संधिकोटिषु षोडशार्णान्न्यसेद्वक्त्रेस्वरस्थानेषुचक्रमात् ४९ ललाटगलहृन्नाभिमूलाधारेषुपंचकं ४९ व्रह्मरंध्रेमुखेवस्तिवीजत्रयमथोन्यसेत् आधारेहृदयेव्रह्मरंध्रेवीजत्रयंततः ५० करपादेषुहृदयेपंचवीजानिविन्यसेत् व्यापकंगोलकंकुर्यात्महासौभाग्यहेतवे ५१ श्रीविद्यांहृदयेदेविसंपूर्णांविन्यसेत्सुधीः पुष्पैरनामयावापिमनसावान्यसेदणुः ५२ एवंविन्यस्तदेहःसन्मुद्राःसंचारयेत्क्रमात् पूर्वोक्तयोनिमुद्रायाःपृथक्खंडत्रयंकुरु ५३ सं०दं० पृ० ६०अ) गुंष्टाभ्यांकनिष्टाभ्यांमध्यमाभ्यांक्रमेणतु त्रिखंडानाममुद्रेयंत्रिपुराह्वानकर्मणि ५४ अनामाभ्यांकनिष्टाभ्यांमध्यमेरोधयेत्ततः अंगुष्टावनिजालग्नौदंडवतर्जनीद्वयं ५५ क्षोभिणीयंमहामुद्रा(तृतीयापरिकीर्तितो) द्राविणीयंनिगद्यते एतस्याएवमुद्रायाःत र्जनीमध्यमायुतं ५६ अंकुशाकाररूपेण योजयेत्परमेश्वरि त्रैलोक्याकर्षिणीमुद्रा तृतीयापरिकीर्तिता ५७ पुटाकारौकरौकु र्यात्तर्जन्यावंकुशाकृति परिस्पष्टक्रमेणान्य मध्यमेतदधोगते ५८ क्रमेनतेनमनुवित्क निष्टानामिकाद्वयं संयोज्याद्यर्षयेत्सर्वां गुष्टौचाग्रदेशगौ ६० सर्ववश्यकरीमुद्राच तुर्थीपरमेश्वरि संमुखौतुकरौयोज्यौमध्य मागर्भगेनुजे ६१ तर्जनीभ्यांवहिर्युक्तअ नामेसरलेकुरु मध्यमानखदेशेतुततों गुष्टौचदंडवत् ६२ उन्मादिनीनाममुद्रा पंचमीपरिकीर्तिताः ६३ एतस्याएवमुद्रा याःतर्जन्यौमध्यमानुजे कुर्वन्महांकुशा कारौमुद्रेयंतुमहांकुशा ६४ अंकुशाख्यं पृ० ६०ब) महावीजंमनुरस्याःप्रकीर्तितं वामोद क्षिणवाहौतुदक्षिणंसव्यहस्तगं ६५ वाहुंकुर्यात्ततोदेविहस्तौसंवर्त्तयेत्क्रमात् कनिष्टानामिकाद्वंद्वंमध्यमापृष्टगंततः ६६ तर्जनीमध्यगंकुर्यादुभयत्रमहेश्वरि अं गुष्टौसरलौकृत्वापार्थिवेयोजपेदिमां ६७ खेचरीयंमहामुद्रात्रैलोक्यक्षोभकारिणी विजयायंमहावीजंमनुरस्याःप्रकीर्तितः ६८ एषासमयमुद्रेयंसर्वासांपरिकीर्तितां परिस्पष्टकरौदेवित्वर्धचंद्राकुतौततः त र्जन्यांगुष्टयुगलंयुगपत्कारयेदथ ६९ अधःकनिष्टावेष्टत्वेमध्यमेचतुयोजयेत् अनामिकेचकुटिलेसर्वाधस्तुनियोजये त् ७० वीजमुद्रेमयाख्यातामनुरस्याहसौ मिति पूर्वोक्तयोनिमुद्रातुनवमीपरिकीर्ति ता ७१ शक्तिवृंदेस्फुरंतीयंतस्यात्साधारणी भवेत् वाग्भवंमनुरेतस्यातोविश्वस्यमा तृका ७२ इतिश्रीदक्षिणामूर्तिसंहिता यांयजनन्यासमुद्राविवरणंनामसप्तविं शतितमःपटलः २७ ईश्वरुवाच श्रीखं दं०सं० पृ० ६१अ) डरक्तश्रीखंडश्रीपर्णींसभवेपदे चक्रंसंस्था पयेद्देविनान्यत्रपरमेश्वरी १ एवंसन्यस्त देहःसन्ध्यायेद्व्रह्मांडमंडलम् क्षित्यंब्ब ग्न्यनिलाकाशचित्स्वरूपप्रकाशकं २ च तुरस्रंचकोदंडंत्रिकोणंतत्पुटंमुखं निरा लंवमितिख्यातःमेतद्वैमेरुमंडलं ३ अ स्योर्द्धेव्यापकंचक्रंवाक् षट्कपदजृंभृतं लीनावाग्वस्तुनिर्देशादपरायोगिषुस्मृता ४ पराश्रीसांभवेज्ञानेवानस्पत्यषुमध्यमा स र्वजंतुषुपश्यंतीवैखरीज्ञानयोनिषु ५ ए वंवाक्पदसंपन्नंसहस्रदलनीरजम् एत स्योर्ध्वेपरंचक्रंपरपीयूषमंदिरम् ६ चतु रस्रंद्यष्टपत्रंचतुःषष्टिदलंशुभम् शतप त्रंसहस्रारायुतारंलक्षपत्रकम् ७ कोटिप त्रंसुशोभाढ्यंदीप्यमानंनभस्तले तत्क र्णिकापीठमध्येसंस्मरेचक्रनायकं ८ म हाषडध्वजननंस्फुरंतंसर्वतोमुखम् ष डध्वरूपमधुनाशृणुयोगेषुसांप्रतम् ९ पदावाचक्रपत्रेषुभुवनाच्चात्रिसंधिषु व र्णाध्वामातृकापीठेसर्वमंत्रविजृंभिते षड्विं पृ० ६१ब) शतत्वभरितंचक्रमूलानुरूपतः १० पंच सिंहासनोन्नद्धःकलाध्वाचक्रशासनः नव धाचक्रभरितातथान्यापरयायुता ११ षोड शार्णास्वरूपाचचक्रंव्याप्यविजृंभते १२ मंत्राध्वेतितथाख्यातानीरजायतलोचने एवंषडध्वसंचारीश्रीचक्रंपरिचिंतयेत् १३ कर्णिकायांपरंवास्तुततश्चैतन्यमक्षरम् ततश्चात्मपरंतत्रस्फुरणंवैंदवंततः १४ ततःस्वरूपममलंततःसत्वादिसंभवम् चैतन्याकोशपीठंचस्वात्मकात्पंचशासनम् १५ स्फुरणावल्लभापीठंस्वधापीठंतुवैंदवात् स्वरूपाद्रत्नपीठंतुतत्वाद्विश्वंप्रकीर्तितं १६ श्रीविद्यापरमस्थानेचक्रपूर्वादितःप्रिये म हाकोशेश्वरींवृंदमंडितासनसंस्थिता १७ सर्वसौभाग्यजननीपादुकांपूजयामिच इत्युच्चार्यपरंज्योतिःपादुकांपूजयेत्सुधीः १८ अनेनैवप्रकारेणपूजयेत्पंचपंचिकाम् एतत्सर्वात्मकंवस्तुसंलीनंपरवस्तुनि १९ एतत्सर्वात्मकंवस्तुसर्वसौभाग्यसुंदरी विंदुत्रयसमायोगात्रिविधात्रिपुरास्थिता २० दं०सं० पृ० ६२अ) विंदुंसंकल्पयेद्वक्त्रंतस्याधस्तात्कुचद्वयं द धतःसपरार्धंचचिंतयेतदधोमुखम् २१ ए वंकामकलारूपासाक्षदक्षररूपिणी विंदु त्रयार्धमात्राभिःकेवलंविश्वमातृका २२ तत्तस्मात्कारणाद्देवित्रिपुराशक्तिरुच्यते अ न्यासांत्रैपुरंविंदुत्रयंनास्त्येवशाश्वते २३ तदिच्छयाभवेत्सृष्टिर्लयंतत्रैवगच्छति सैवदेवीमहेशानीस्वात्मानमितिचिंतयेत् ओजापूकामरूपाख्याभापीठोपरिसंस्थिते तिथिसंख्यफणाहीरमध्यमौलिसरोरुहे तत्रास्तेवैंदवीपीठेतत्तन्नित्याकलांवुजे त तुकामेश्वरीपीठेनिषण्णांतत्सधर्मिणीं २६ आज्ञालोकत्रयेशानींव्रह्मविल्वीशशासि नीं अकारादिक्षकारीतवर्णावयवसुंदरीं २७ मूलादिव्रह्मरंध्रांतंविसतंतुस्वरूपिणीं उ द्यद्भास्वत्समाभासांजपाकुसुमसन्निभां २८ सद्यःसंतप्तहेमाभांदाडिमीकुसुमोज्वलां सुंगधोद्दामकुसुमपूर्णधम्मिलराजितां तनुंकैशकसंराजन्नीत्वभ्रमरकुंतलां भं गरेखास्फुरन्मुक्तामाणिक्यतिलकोज्वलां ३० पृ० ६२ब) स्फुरद्रत्नावलीरम्यांमुकुटोज्वलकिंकिणीं अलक्तकस्फुरच्चंद्रवदनांविंदुमादरां ३१ राजश्चंद्रकलास्फुर्तितिलकांचापसंभुवं कर्णचुंविस्फुरन्नेत्रलोलभ्रूक्षेपसुंदरीं ३२ हीरमुक्तावलीराजत्स्वर्णटंकविराजितां कर्णभूषणतेजोभिःकपोलस्थलमंजरीं ३३ मुखचंद्रोज्वलच्छक्राकारमौक्तिकनासि कां स्मितमाधुर्यविजितव्रह्मविद्यारसप्रभां ३४ रक्तोत्पलदलाकारसुकुमारकरांवुजां क रांवुजनखज्योत्स्नावितानितनभस्थलीं ३५ सुवृत्तनिविडोतुंगकुचभारालसांशिवां नवमुक्तामहाहारपदकोन्नतवक्षसां ३६ शातोदरींनिम्ननाभींक्षाममध्यमसुंदरीं अनर्घ्यारत्नघटितमेखलारत्नकिंकिंणी ३७ नितंवविंवसुभगांरोमराजीविराजितां रक्तांशुकस्फुरत्तेजोव्याप्तत्रैलोक्यमंडलां ३८ दिव्यकंचुकसंराजद्रत्नचित्रविराजितां क दलीललितस्थंभसूक्ष्मोदरविराजितां ३९ नवरत्नस्फुरतेजोमंजीरव्याप्तदेवतां व्र ह्मविष्णुमहेशानस्फुरन्मौलिपदांवुजां ४० दं०सं० पृ० ६३अ) कर्पूरसकलोन्मिश्रतांवूलपूरिताननां प्र वालवल्लीघटितपाशक्षौमारुणान्वितां ४१ द्वितीयचंद्रलेखांकसृणिमाकर्षणक्षमां सद्विद्याभ्रमरीभूतगुणमिछुसरासनां ४२ कमलाकरसंराजत्पंचवाणांश्चविभ्रतीं महामृगमहोदारकुंकुमारुणविग्रहां ४३ सर्वाभरणशोभाढ्यांसर्वालंकारभूषितां सर्वदेवमयींदेवींसर्वमंत्रमयींपरां ४४ सर्वतीर्थमयींदेवींसर्वशास्त्रमयींपरां स र्वतीर्थमयींदेवीसवाधारस्वरूपिणीं ४५ सर्वसौभाग्यजननींसर्वसौभाग्यसुंदरीं ए वंध्यायेन्महादेवींकदंववनमध्यगां ४६ वहन्नाडिपुटद्वारेनिर्गताचिंतयेत्ततः का मेश्वरशिवस्यांकेस्थापयेत्कुलसुंदरीं ४७ विद्ययाह्वानरूपिण्यामुद्रयाचतयाप्रिये मुद्रासंदर्शयेद्विद्वांस्तर्पणंचत्रिधाचरेत् ४८ सर्वोपचारैःराराध्यमानसैःप्रकटैःशुभैः धुपैर्दीपैर्निवेद्यांतैःपुनर्मुद्रास्तुदर्शयेत् पुनःसंतर्प्यदेवेशितिथिनित्यांप्रपूजयेत् एत स्मिन्समयेदेवितत्तत्तिथिमयींयजेत् ५० पृ० ६३ब) प्रतिपत्पौर्णमास्यंतेमेकैकांपूजयेत्तुयः सौभाग्यंलभतेमंत्रीमहदैश्वर्यमाप्नुयात् ५१ एकादिवृध्याहान्याचदर्शांतंक्रमतोयजेत् विभाव्यचमहान्मस्रंस्वरैःपंचदशात्मकैः ५२ पंचपंचविभेदेनसर्वांत्यंमध्यमेयजेत् मध्येदेवींमयींदेविमहानित्यांप्रपूजयेत् ५३ कामेश्वर्यादिकानित्याविचित्रांताःक्रमाद्य जेत् विमलाजयिनीमध्येपूजयेद्गुरुमंडलं ५४ परादिव्यादिगुरवःसिद्धादेविपरावराः अ परामानवाज्ञेयामुनिवेदाष्टसंख्यया ५५ आनंदनाथशब्दांतापुरुषाःपरिकीर्तिताः आवांतागुरवोज्ञेयास्त्रीलिंगापरमेश्वरि ५६ कामराजस्यगुरवःकथ्यंतेशृणुसुंदरी प रप्रकाशसंज्ञश्चततःपरशिवोगुरुः ५७ पराशक्तिश्चकौलेशःशुक्लादेव्यंविकातथा कुलेश्वरस्तथादेविकामेश्वर्यांविकागुरुः ५८ अथभोगस्तथाक्लिन्नःसमयसहजस्तथा गगनोविश्वविमलोमदनोभुवनोगुरुः ५९ लीलास्वात्मप्रियादेविक्रमेणपरिकीर्तिताः लोपामुद्रागस्त्ययोश्चपरंपर्यसमोभवेत् ६० दं०सं० पृ० ६४अ) परमाद्यशिवःपश्चाकामेश्वर्यांविकाततः दि व्यौघाश्चमहौघाश्चसर्वश्चगुरवःक्रमात् ६१ प्रज्ञादेवीप्रकाशस्तुचतुष्कंकथ्यतेशृणु दि व्यश्चित्रश्चकैवल्यदेव्यंवाचमहोदयः ६२ चि द्विश्वशक्तिश्चरकःकमलश्चमनोहरः परस्वा त्मागुरुद्वंद्वंप्रतिभौष्टौतुमानवे ६३ अन्या सांसर्वविद्यानांसमानागुरवःक्रमात् अथो परमकाशश्चपरादिर्विमृशस्तथा ६४ तृ तीयःपरमेशानिकामेश्वर्यादिकांततः मोक्षंचामृतसंज्ञश्चपुरुषोघोरेवच ६५ अथवासद्गुरुश्चापिसिद्धौश्चश्चोत्तरक्रमात् उद्भवःपर * श्चैवसर्वज्ञःस्वस्थेवच ६६ सिद्धस्तथाचगोविंदशंकरोमानवौधकः ओद्यत्रयावसानेतुस्वगुरुत्रितयंभवेत् ६७ यदाद्वादशसंख्यातागुरवस्तुभवंतिहि मा नवौघाष्टकांतेतुयुग्मंसंकोचयेत्तदा ६८ गुरुत्रयंतदायोज्यमन्यथानष्टसंततिः जा तोमंत्रीतदादेविपंक्त्यर्होनभवत्यसौ ६९ अन्यथागुरुसंकोचोनकर्तव्यःकदाचन प रंपर्यविहीनायेज्ञानमात्रेणगर्वितः पृ० ६४ब) तेषांसमयलोपेनकिंकुर्वंतिमरीचयः गुरुं विनाक्रमंयस्तुकुरुतेपरमेश्वरि ७१ महा हानिस्तस्यदेविजायतेनात्रसंशयः आलि त्रयेणगुरवःसंपूज्यासिद्धिहेतवे गुरुमं त्रेणदेविशिनिजसंपूजयेद्गुरुम् ७२ इ तिश्रीदक्षिणामूर्तिसंहितायांध्यानविधि र्नामाष्टाविंशतितमःपटलः २८ ईश्वरुवाच अथवक्ष्येमहेशानिश्रीविद्याक्रममुत्तमम् अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनं १ स्वस्वमुद्राक्रमेणैवपूजयेन्मनुवित्तमः भूविंवंशोडशारंचवसुपत्रंक्रमेणतु २ सृष्टिचक्रंभवेदत्रपूजनंकथ्यतेप्रिये म न्वस्रंदशकोणंचद्वितीयंदशकोणकं ३ स्थितिचक्रंपूजनंचविभेदेनयजेत्तथा ४ अष्टकोणंत्रिकोणंचवैदवंसंहृतिर्भवेत् तृतीयःसकलापूज्यानाख्यंसकलंभवेत् ५ तुर्याविद्यास्तुसकलाःपूजयेत्क्रमतःसुधीः अनेनैवप्रकारेणविद्यावृंदंप्रपूजयेत् ६ श्रीकोशंसिंहासनगतंतथाकल्पलतात्म कं तथारत्नात्मकंदेविचतुरायतनात्मकं ७ दं०सं० पृ० ६५अ) चतुरन्वयगंभीरंसर्वंचपूजयेत्सुधीः त्रैलो क्यमोहनेचक्रेपंचाशद्वर्णविग्रहे ८ प्र| कटास्तत्रसंयोज्यासिद्धयोदशसुंदरि स द्यःसंतप्तहेमाभाःपाशांकुशधराप्रिये ९ महाभांडाररत्नानिससुवर्णानिवैनिधीन् प्रयछंत्यःसाधकभ्योपद्महस्तास्तुपूजयेत् अणिमालघिमासिद्धिर्महिमेशित्वरूपिणी वशित्वसिद्धिप्राकाम्याभुक्तिरिछाष्टमीभवेत् प्राप्तिसिद्धिसर्वकामासिद्धयःप्रकटायजेत् द्वा रदक्षिणभागेषुतथाकोणेषुचक्रमात् १२ अधूर्ध्वक्रमात्पूज्यापश्चिमाशादिदेशिकैः व्राह्मीमाहीश्वरीचैवतथेंद्राणीतृतीयके १३ कौमारीवैष्णवीचैवषष्टीवाराहिकाभवेत् चामुंडाचतथालक्ष्मीःअपरेणचभागतः १४ पाशांकुशधरासर्वाक्रमेणदधतीस्मरेत् वि द्यांशूलंचवज्रंचशक्तिंचक्रंगदांतथा १५ धैर्यांत्रमालिकंपद्मंक्रमेणपरमेश्वरि सर्वा भरणसंपन्नासंस्मरेत्सिद्धिहेतवे १६ सर्वा द्याक्षोभिणीचैवद्राविण्याकर्षणीतथा धै र्यांत्रमालिकंपद्मंक्रमेणपरमेश्वरि १७ स पृ० ६५ब) र्वाभरणसंपन्नासंस्मरेत्सिद्धिहेतवे सर्वा द्याक्षोभिणीचैवद्राविण्याकर्षणीतथा १८ वश्योन्मादांकुशाख्याचतथामुद्राचखेचरीं वीजयोनीत्रिखंडाचपूर्वपश्चिमभागतः १९ पद्मरागप्रतीकाशासिंदूरतिलकान्विताः रक्तवस्त्रपरीधानारक्तमालाविभूषिताः २० स्वस्वमुद्रांकिताःसर्वाःपाशांकुशलसत्कराः पूज्यामुद्राप्रयत्नेनस्वेष्टसंसिद्धिहेतवे २१ पश्चिमादिक्रमेणैवप्रकटाचतुरस्रके स र्वाशापूरकेचक्रेकलास्वरविजृंभृते २२ पश्चिमादिविलोमेनगुप्ताःसंपूजयेत्क्रमात् कामादिकर्षिणींनित्यांवुध्याकर्षणिकांतथा अहंकाराकर्षिणीचशव्दाकर्षणिकातथा स्पर्शाकर्षणिकातद्वद्रूपाकर्षणिकांतथा २४ रसाकर्षणिकांदेविगंधाकर्षणिकांतथा चित्ताकर्षणिकांतद्वद्वैर्याकर्षणिकांप्रिये २५ नामाकर्षणिकांचैववीजाकर्षणिकांतथा अमृताकर्षणींचैवस्मृत्याकर्षणिकांप्रिये २६ शरीराकर्षणींनित्यामात्माकर्षणिकांततः एतानित्याकलादेविचंद्रमंडलमध्यगा २७ सं०दं० पृ० ६६अ) स्वरलग्नाःस्मरेन्नित्यंश्रवत्पीयूषवर्षिणीः पाशांकुशसुधापूर्णकाश्मीरघटदानदा २८ सर्वसंक्षोभणेचक्रेकादिलक्षांतवर्गिणीः देवीगुप्ततरापूज्यावंधूककुसुमप्रियाः २९ पाशांकुशास्फुरल्लीलनीलोत्पलकरास्मरेत् पूर्वादिषुचतुर्दिक्षुकोणेष्वग्न्यादिषुक्रमात् अनंगकुसुमाचैवतथाचानंगमेखला त थानंगादिमदनानंगमदनातुरा ३१ अ नंगरेखाचानंगवेगाचानंगपूर्विका अंकु शाचतथानंगमालिनीपरमेश्वरी ३२ म हासौभाग्यदाचक्रेकटवर्णविराजिते सं प्रदायाख्ययोगिन्यःसर्वाभरणभूषिता ३३ इंद्रगोपनिभाःसर्वाःसगर्वोन्मत्तयौवनाः पाशांकुशौदर्पणंचपानपात्रंसुधामयं ३४ विभृत्यःसर्वसुभगाःपश्चिमादिविलोमतः शक्तीःप्रपूजयेद्देविसंप्रदायेनसिद्धये ३० सर्वसंक्षोभिणीशक्तिःसर्वविद्राविणीतथा सर्वाकर्षणिकाशक्तिःसर्वाह्लादकरीप्रिये सर्वसंमोहिनीशक्तिःसर्वस्तंभनकारिणी सर्वजंभनिकानामशक्तिःसर्ववशंकरी पृ० ६६ब) सर्वार्थरंजिनीशक्तिःसर्वोन्मादनकारिणी सर्वार्थसाधकोशक्तिःसर्वसंपत्तिरूपिणी ३३ सर्वमंत्रमयीशक्तिःसर्वद्वंद्वक्षयंकरी सर्वा र्थसाधकेचक्रेणभवर्णविशोभिते ३४ ज पाकुसुमसंकाशास्फुरन्मणिविभूषिता महासौभाग्यगंभीरापीनवृतघनस्तनी ३५ रत्नपेदीविनिक्षिप्तसाधकेप्सितभूषणान् नानारत्नमयान्दिव्यान्ददतीतिस्मिताननाः ३६ पाशांकुशौचदधतीसंस्मरेत्कुलयोगिनीः पश्चिमादिविलोमेनपूजयेत्सर्वसिद्धिदाः ३७ सर्वसिद्धिप्रदादेवीसर्वसंपत्प्रदाततः स र्वप्रियंकरीचैवसर्वमंगलकारिणी ३८ सर्वकामप्रदादेवीसर्वदुःखविमोचिनी सर्वमृत्युप्रशमनीसर्वविघ्ननिवारिणी ३९ सर्वांगसुंदरीदेवीसर्वसौभाग्यदायिनी सर्वरक्षाकरेचक्रेमक्षवर्णविभूषिते ४० पश्चिमादिविलोमेननिगर्भायोगिनीर्जपेत् उद्यद्भास्वत्सहस्राभामुक्तालंकारभूषिता ४१ पाशंटंकायुधज्ञानमुक्तावरलसत्कराः दे वीप्रपूजयेदेताःयथेप्सितफलप्रदाः ४२ सं०दं० पृ० ६७अ) सर्वज्ञासर्वशक्तिश्चसर्वैश्वर्यफलप्रदा सर्व ज्ञानमयीदेवीसर्वव्याधिविनाशिनी ४३ सर्वाधारस्वरूपाचसर्वपापहरातथा सर्वा नंदमयीदेवीसर्वरक्षास्वरूपिणी ४४ सर्वे प्सिताफलप्रदादशमीपरमेश्वरि सर्वरो गहरेचक्रेवर्गाष्टकविजृंभृते ४५ पश्चि मादिविलोमेनरहस्यायोगिनीर्यजेत् श्री पीठपरितोधस्ताद्दाडिमीकुसुमप्रभाः ४६ रक्तवस्त्रपरीधानारक्तगंधानुलेपनाः रक्त पुष्पाक्षतैःसम्यक्पूजयेत्सर्वसिद्धिदाः ४७ नानाभरणगंभीरापंचवाणधनुर्धराः पु स्तकंवरदानंचदधतीर्वर्गसंस्थिताः ४८ वर्गाष्टकमहावर्णेविंदुनादांकितालिखेत् अवर्गांतेरेफवक्ष्मावामकर्णेन्दुविंदुमत् ४९ देवीवाग्देवतापूज्यावशिनीनामसुंदरि क वर्गांतेकुलयुतांपरांकामेश्वरींलिखेत् ५० चवर्गांतेनवक्ष्माढ्यंवामनेत्रंशशीसमं अ नेनमोहिनीपूज्याटवर्गांतेततःपरम् ५१ वायुक्ष्मावामकर्णेन्दुनादमद्विमलांयजेत् तवर्गांतेजकालाग्निवामाक्षीदुकलात्मिकां ५२ पृ० ६७ब) अरुणांपूजयेद्देविपवर्गांतेथकथ्यते व्योम जीवमहीनीरवायुमर्घाशभूषितम् ५३ अनेनजपिनीपूज्यापवर्गांतेथकथ्यते फ रेफकालपवनश्रवणांतेनपूजयेत् ५४ सर्वेश्वरींसवर्गातेंक्षमावह्निसविंदुमत् अनेनकौलिनींदेवींपूजयेदष्टमींवुधः ५५ अष्टकांतेमहेशानिएतावाग्देवतायजेत् सर्वसिद्धिप्रदेचक्रेत्वकथैश्चमहाक्षरैः ५९ त्रिरेखासर्वशोभाढ्येसमस्तार्णविजृंभृते प रापररहस्याख्यायोगिनीपूजयेत्क्रमात् ५७ पश्चिमादिक्रमेणैवयुग्मयुग्मविभेदतः कामेशस्यचकामेशावाणाःसाधारणाप्रिये ५८ ततुर्यंतद्वितीयंचविंदुनादांकितंक्रमात् कामेश्वरस्यकामेस्याःचापयुग्मंयजेत्प्रिये ५९ अनंतोविंदुनामाढ्योहृल्लेखापाशवीजकं कामेश्वरस्यकामेश्याःक्रमेणपरमेश्वरी ६० अंकुशस्तुसमानंस्यादुभयोपूजयेत्सुधी च तुर्दिक्षुविशोभाढ्यायौवनोन्नतविग्रहाः ६१ रक्तविद्युल्लताकाराउदामकुसुमान्विताः न वरत्नविशोभाढ्यास्वस्वायुधकराःक्रमात् ६२ दं०सं० पृ० ६८अ) जंभमोहवशस्तंभपदमंत्रान्विताःशुभाः अं गाचरणवाह्येतुआयुधाष्टकमर्चयेत् ६३ कोणत्रयेषुसंपूज्यास्तिस्रःकूटत्रयान्विताः कामेश्वरीचवज्रेशीतृतीयाभगमालिनी ६४ कामेश्वरीशुक्लवर्णाशुक्लमानुलेपना मु क्ताफलस्फुरद्भूषानानाभरणभूषिता ६५ पुस्तकंचाक्षसूत्रंचवरदंचाभयंक्रमात् द दधतींचाग्रतःपूज्यारुद्रशक्तिःप्रकीर्तिताः वज्रेश्वरीकुंकुमाभ्यास्फुरद्रत्नविभूषिताः वालार्कवसनानीलकर्णकुंचितलोचना इक्षुकोदंडपुष्पेषुवरदाभयशोभिता व ज्रेश्वरीदक्षभारीविष्णुशक्तिर्महेश्वरि ६८ उत्तरेभगमालांवासद्यःसंतप्तहेमभा अ नर्घ्यरत्नरचितभूषणाभुवनेश्वरी ६९ पा शांकुशज्ञानमुद्रावरवाणकरांवुजा व्र ह्मशक्तिर्महेशानीतापत्रयनिकृंतिनी ७० सर्वानंदमयीनादरूपेशव्दातिगोचरे प रापररहस्याख्यायोगिनीरतिपूर्विका ७१ त्रिकूटायातुसंपूज्यामहात्रिपुरसुंदरी श्रीविद्यापूजयेद्देविचिन्मयींव्रह्मरूपिणीं पृ० ६८ब) तर्पणानिपुनर्दद्याद्गंधपुष्पाक्षतैर्यजेत् ७२ मानसैःप्रकटैर्देवींपूजयेद्वहुभिःप्रिये मुद्रा संदर्शयेन्मंत्रीवंधूककुसुमप्रभा ७३ ना नालंकारसुभगास्त्रैलोक्यवशकारिणी स्व स्वमुद्राःकराःसर्वाःश्रीविद्यासंमुखाःस्मरेत् ७४ प्रतिचक्रतुमुद्रास्तुक्रमाच्चक्रेश्वरींयजेत् ततश्चक्रस्यमध्येतुत्वाद्यपूजागताप्रिये ७५ त्रिपुरास्फटिकाभासामुक्तारत्नविभूषिता पुस्तकंचाक्षमालांचकलशंपद्ममुत्तमं ७६ दधतींचिंतयेन्नित्यांमहापापविनाशिनीं त्रिपुरेशीपूर्वरूपासुंदरीकुंकुमप्रभा स र्वालंकारसंपन्नापुस्तकंचाक्षमालिकां व राभयौचदधतींसामर्थ्यसुसिताननां ७८ अनयासदृशीदेवीध्येयात्रिपुरवासिनी आ रक्तलोचनाप्रांतेमहामदविघूर्णिता ७६ त्रिपुराश्रीर्महेशानिपीनवृत्तघनस्तनी उ द्यद्भासुत्सहस्राभादिव्यालंकारमंडिता ८० पुस्तकंजपमालांचवरदंचाभयंकरैः द धतीसकलानंदामलिनीकथ्यतेपुनः ८१ इंद्रगोपप्रभादेवीपाशांकुशकपालिनी म सं०दं० पृ० ६९अ) हाभीतिहरासम्यक्साधकानंददायिनी ८२ सिद्धांवापरमेशानिध्यायेद्विषविनाशिनीं संपत्प्रदाभैरवीचमहासिद्धिप्रदायिनी ८३ क्रमेणसिद्धिसहिताप्रतिचक्राधिदेवता अ त्युपह्वरमेवेदंज्ञात्वाचक्रंसमर्चयेत् ८४ पादुकांपूजयामीतिनमस्कारस्ततोभवेत् स्वाहाहोमेतर्पणेतुतर्पयामीतिसंस्मरेत् ८५ अथवारस्मयःसर्वादेवीरूपेणचिंतयेत् ८६ श्रीचक्रेपरमेशानिस्वमंत्रेस्वस्वसन्निभाः गोपितव्यंत्वयाभद्रेस्वयोनिरिवपार्वति ८७ इतिश्रीदक्षिणामूर्तिसंहितायांश्रीविद्या यजनविवरणंनामैकोनत्रिंशःपटलः २९ श्रीईश्वरुवाच नैवेद्यंषड्सोपेतंका मधेनुपवित्रितम् दत्वाकर्पूरसहितंतां वूलंपरशक्तये १ नित्यहोमंप्रकुर्वीत पूर्वोक्तविधिनाप्रिये यथाशक्तिजपंकु र्यात्स्तुतिंचपरमेश्वरि २ आदिश्लोक द्वयेनापितथासौभाग्यदेवताम् सुवर्ण रौप्यकांस्यादिपात्रेवसुदलंलिखेत् ३ गं धेनचरुकंमध्येमुद्रांवातत्रवैन्यसेत् पृ० ६९ब) वसुपत्रेषुचाज्येनपूरितातवदीपिकान् ४ भ्रामयेद्रत्नविद्याभिस्त्रिधाध्यात्वातुमस्तके मूलेनवास्मरेदंतेसर्वविघ्नोपशांतये ५ स मस्तचक्रचक्रेशीयुतेदेविनवात्मके आ रार्तिकमिदंदेविगृहाणममसिद्धये ६ मंडलंवामतःकुर्यात्साधकोभूमिजानुमा न् वहत्पुटेनहस्ताभ्यांमंडलोद्वारलक्षणं चतुरस्रेव्योमचक्रंमंत्रेणानेनपूजयेत् तारंचभुवनेशानीव्यापकादिचमंडलं ८ ङेतंवर्णचहृन्मंत्रोमनुःसूर्याक्षरोभवेत् अत्रोदमिश्रंभागेनसाधारंपुष्पपूजितं ९ संस्थाप्यपात्रंतत्रैवकलार्णेनवलिंहरेत् तारंपरासर्वविघ्नकृद्भयःसर्वंचभूलिखेत् १० तेभ्योहुंवह्निजायाच्चत्रिवारोच्चारणाद्वलिः पूर्वोक्तवलिदानंतुकुर्याद्विघ्नोपशांतये ११ चतुर्द्धावलिदानंतुत्रिषुलोकेषुदुर्लभम् ततःकुमारींसंतर्प्यत्रिपुरेस्यानपाथवा १२ मयूषान्परमेशान्यासंभाविमनुवित्तमः खेचर्ययाशक्तिचक्रस्यस्वामिनीसंविदंपरां १३ योजयेदात्मनिज्ञानगहनेकृपयागुरोः दं०सं० पृ० ७०अ) शिवकोणेशेषिकाभ्योनिर्माल्यंसिद्धयेक्षिपेत् अर्घपात्रंततोदेविगुरवेगुरुमंत्रवित् नाम मंत्रेणचस्वस्यस्तर्पयेदुपदेशतः १५ वा ममार्गेणदेवेशितत्वमुद्राधरोशुचिः पुन राधारगंकुर्यादाधारंदीपलक्षणम् १६ आ रार्त्रिकस्यमध्यस्थंमूलेनैवतुभक्षयेत् क पालिन्यावापिपात्रंत्वयावापिसमुद्धरेत् १७ द्वितीयंतत्वयादक्षेसंयोगेनैवपार्वति त त्वत्रयेणसंयोगातर्पयेत्स्वांतवासिनीं १८ प्रथमंव्रह्मरूपत्वंद्वितीयंसर्वमंत्रवित् तृतीयमीशरूपंचविज्ञेयंमनुवित्तमैः १९ किंचिदुल्लास्यमुद्राभिःपंचभिःपरमेश्वरि आकृष्यमंत्रान्तत्रस्थांशेषिकाभ्योक्षिता दिकं हत्वातुपरमेशानिसुखीभूयान्नसं शयः अनिर्वाच्यमविज्ञेयमक्षरैकथितंम या २२ जालाक्षरेणन्यायेनचंद्रदीपंनच प्रिये गोपितव्यंत्वयाभद्रेजननीजारगर्भव त् २३ इतिश्रीदक्षिणामूर्तिसंहितायांवलि यजनविधिर्नामत्रिंशतितमःपटलः ३० पार्वत्युवाच होमादिसूचिंतदेवसम्यग्वि पृ० ७०ब) स्तारितंनहि साधकानांहितार्थायक्रिययाक थयप्रभोः १ श्रीईश्वरुवाच शृणुदेविप्रव| क्ष्यामिश्रीविद्यामंत्रसाधनं शमीदूर्वांकुरा| श्वत्थपल्लवैरर्कसंभवैः २ श्रीचक्रंपूजयेद्दे वीमासमात्रंसमाहितः सहस्रजन्मजंपा| पंहंतिमासेनदेशिकः ३ पूजयेद्रत्नखचि तंचंपकैःस्वर्णजैःप्रिये अवश्यंसर्वकाले षुपरमाज्ञाधरोभवेत् ४ नाशयेत्सर्वपापा निकोटिजन्मभवान्यपि समुद्रवलयांपृथ्वीं संप्राप्यसुखमेधते ५ नित्यंयःपूजयेद्दे विचंपकैःरजतोद्भवैः सवुद्धिमान्भवेदेवी सर्वत्रविजयीभवेत् ६ पश्चिमाभिमुखंलिं गंदृवशून्यमथापिवा स्वयंभूवाणदेशेवाशै वस्थानेमहेश्वरि ७ तत्रस्थित्वाजपेन्मंत्रंप्र वालाक्षस्रजातथा मुक्तारुद्राक्षपद्माक्ष स्फुटिकोद्भवयाथवा ८ माणिक्यपद्मरागा दिमनोहर्ययाजपेद्वुधः जप्तेलक्षैकमात्रेतु भूचर्योविघ्नकारकाः ९ तासामपियदाना सौक्षोभयातिमनागपि तदालक्षत्रयंकु र्यान्नियमेनशुचिर्वुधः १० भानसेनाथवा दं०सं० पृ० ७१अ) वाचोपांशुनावाजपेद्वुधः मानसोच्चारणंदे विजपकोटिफलप्रदं ११ उपांशूच्चारणादे विवाचिकंशतधाभवेत् वाचिकंतुसुमं त्रंस्यात्श्रीगुरोराज्ञयाप्रिये १२ तद्दशांशे नहोमंस्यात्कुसुमैर्व्रह्मवृक्षजैः कुसुंभपु ष्पैर्जुहुयान्मधुत्रितयसंप्लुतैः १३ सिद्धा भवतिविद्येयमविद्यानाशिनीसतां योनि| कुंडेभगाकारेवर्तुलेत्वर्धजेप्रिये १४ नव त्रिकोणचक्रेवाचतुरस्रेथवाप्रिये वाक्प तिर्योनिकुंडेतुभगेचाकर्षणंभवेत् १५ वर्तु लंश्रीप्रदंदेविराश्यर्घेतुभयंभवेत् नवत्रि| कोणेमहतिखेचरीसिद्धवान्भवेत् १६ चतु रस्रेतुसकलंशुभजातंभवेत्सदा शांतिकं पौष्टिकंलक्ष्मीरारोग्यंचसुखादिकं १७ प द्मांकेदशसिद्धिस्तुसाधयेन्नात्रसंशयः म ल्लिकामालतीभिश्चत्रिमध्वाक्तैर्वचःपतिः १८ करवीरैर्जपापुष्पैसघृतैर्भुवनत्रये योषिद्व श्यंततोदेविकर्पूरंकुंकुमंनदं १९ मृगस्यमि श्रितंकृत्वाकामसौभाग्यवान्भवेत् चंपेयैः पाटलैरम्यैस्ताम्रैरन्यैफलैर्हुनेत् २० स पृ० ७१ब) प्ताहमात्रंयोनित्यंलक्ष्मीप्राप्नोतिमंत्रिणं | श्रीखंडमंगुरुंदेविकर्पूरंगुगुलंहुनेत् २१ समग्रपुरसुंदर्योवश्यास्तनभवंतिहि हु त्वापलंत्रिमध्वक्तंखेचरत्वंचतुष्पथ २२ दधिक्षीरमधुसर्पिःलाजाहुत्वानकालभाक् अथवानवलक्षंतुजपेद्विद्यांसमाहितः २३ तद्दशांशेनहोमस्तुपूर्वोक्तविधिनायजेत् साधयेत्सर्वभूर्लोकपातालतलवासिनः २४ राजिकालवणाभ्यांतुक्षोभयेज्जगतीमिमां दध्नाशताष्टकंहुत्वाकालमृत्युंविनाशयेत् २५ घृतक्षीरद्वयादायुततोष्टशतकंभवेत् म ध्वाज्यगुग्गुलेनैवराजेंद्रंवशमानयेत् २६ आरोग्यंघृतदूर्वाभ्यांहवनेनशताष्टकं मध्वा ज्याक्तैरक्तवर्णैःकरवीरैःसगुग्गुलैः २७ हु नेल्लक्षंवशीकुर्यात्विंशतिंधरणींभुजां मध्वाक्तकरवीरेस्तुसांगंधूपंवशंनयेत् २८ सप्तरात्रेणचाज्येनशशिनापूर्ववयजेत् पा टलैर्यूथिकाकुंदैःशतपत्रैश्चजातिभिः २९ मालतीनवमल्लीमिमल्लिकापद्मकिंसुकैः पूजनाद्धनवान्वापिमिश्रैर्वामिश्रितैरपि ३० दं०सं पृ० ७२अ) सर्वसौभाग्यमाप्नोतिवुध्यावाक्पतिरुच्यते मुचुकुंदैःर्विल्वपत्रैःफलैरमितनीरजैः ३१ जगरैराजपैश्चापिसिद्धयोष्टौभवंतिहि ना रिकेलैश्चखर्जूरैर्द्राक्षाभिश्चूतसत्फलैः ३२ मनसाचिंतितंकार्यंसाधकस्यतुहोमतः पू जनेनचहोमेनश्रीविद्यांपरितोषयेत् ३३ चरुंविकीर्यसर्वत्रकुमारीपूजनादिभिः पू र्वोक्तवलिदानेनगुरुंसंतोष्यचक्रमात् ३४ सुवासिनीश्चसंपूज्यादद्याद्भूरिधनंसतां स मग्रंकुसुमंहोमेकुसुमावहुधाहुनेत् ३५ नारिकेरांतरपलैःसकलैस्तुमनःप्रिये स मग्रेणैवभूतस्यफलेनवरदंतथा ३६ प नसैर्फलगर्भस्यैर्गरैवीजोझितैर्हुनेत् जां वूफलंसमग्रंस्यात्द्राक्षांचैवतथाहुनेत् ३७ रंभाफलंमनोभागंलघुचेत्खंडितंनहि फ लंलघुसमग्रंस्यात्कस्तूरीकुंकुमंशशी ३८ गुंजामात्रंहुनेदेवितिलराशतंहुनेत् तथै वलवनंलाजामुष्टिमात्रंहुनेद्वुधः ३९ अन्नंतुग्रासमात्रंतुपक्वान्नंचतथाभवेत् पुरंतुक्रमुकार्धेनश्रीखंडंक्रमुकाकृतिः ४० पृ० ७२ब) तथागुरुंहुनेदाज्यंमनःसंतोषकारिभिः तच्चतुर्गुणभेदेनदधिदुग्धेहुनेत्सदा ४१ सर्वासामहुतीनांतुमातंदेविमनःप्रियं कुंडस्यपूजनंवक्ष्येमहाविघ्नविनाशनं ४२ चतुर्विंशतिसंख्याभिरंगुलीभिसुविस्तृतं खातंचरचयेकुंडंसर्वत्रसुमनोहरं ४३ चतुरस्रंसर्वनेत्रसुभगंमेखलाततः स र्वत्रैकांगुलंत्यक्तातिस्रःकार्यासुशोभना ४४ आदित्यवसुवेदानांसंख्यागुलिभिरुत्ततः च तुरंगुलविस्तारास्तिस्रोपिपरमेश्वरि ४५ कुं डस्यपश्चिमेभागेयोनिंकुर्यात्सलक्षणां रव्यं गुलस्तुविस्तारंवस्वंगुलस्वविस्तृतां ४६ म ध्येषडंगुलंदेविद्व्यंगुल्युच्चांमनोरमां ल क्षणंचतुरस्रस्यकथितंतवसुंदरि ४७ ए तस्मिन्न्यातियद्वान्यंतदन्येषुतथाभवेत् ते नमानेनसर्वाणिकुंडानिरचयेद्वुधः ४८ गोमयोदकसंलिप्तेपूर्वात्पश्चिमदिग्गता द क्षिणायुत्तरांतातुतिस्रस्तिस्रश्चकारयेत् ४९ प्रणवेनाभ्युक्ष्यमध्येकल्पयेद्यागविष्टरं श र्करांविकरेत्तत्रत्रिकोणंतत्पुटंलिखेत् ५० दं०सं पृ० ७३अ) तद्वहिर्वसुपत्रंचततोभूमंडलंलिखेत् उप र्युपरिभेदेनततपीठंसमर्चयेत् ५१ मंडू कंचतथारुद्रंकालाग्न्याद्यंततःपरं आधा रशक्तिंकूर्मंचततोनंतंवराहकं ५२ पृथि वींचतथाकंदंनालपद्मंचकर्णिकं पत्रा| णिकेशराण्येवंततस्थानेषुपूजयेत् ५३ धर्मंज्ञानंचवैराग्यंऐश्वर्यंपीठदिक्ष्वच नञ र्थास्तेचकोणेषुपीठस्योपरिपूजयेत् ५४ पुनस्तारेणसंपूज्ययागविष्टरकंयजेत् मध्ये ऋतुमतिंविश्वमातरंवेदमस्तकं ५५ पुरु षाधिष्टितांध्यात्वातद्यौनौसंपुटस्थितां वह्निकुंडेपरिभ्राम्यकिंचिदंगारकंत्यजेत् ५६ अस्त्रमंत्रेणसकलान्भूतान्संत्राशयेत्सुधीः पश्चात्प्रज्वालयेद्वह्निंज्ञानाग्निंसंक्रमययतु ५७ दीपाद्दीपांतरन्यायास्फुरंतंसर्वतोमुखं स्वा समार्गेणमनुवियोनिमार्गेणसंक्षिपेत् ५८ कुंडंत्रिकोणमध्येतुतत्रप्रज्वालयेच्छुचिं आदौव्याहृतिभिःपश्चावह्निमंत्रेणचक्रमात् चित्पिंगलहनद्वंद्वंदहद्वंद्वंयचद्विधा सर्व ज्ञाज्ञापयस्वाहामनुनाप्रार्थयेन्नतः ६० पृ० ७३ब) अग्निंप्रज्वलितंवन्देजातवेदंहुतासनं सु वर्णवर्णममलंसमिद्धंविश्वतोमुखं ६१ उ पस्थानंविधायेत्थंजिह्वांगानिप्रविन्यसेत् शषष्णवलरायश्चषष्टस्वरसमन्विताः ६२ विंदुनादांकिताःसप्तजिह्वार्णाःपरिकीर्तिताः पद्मरागासुवर्णाचतृतीयाभद्रलोहिता ६३ लोहिताचतथास्वेताधूमिनीचकरालिका क्रमेणयोजयेद्वीजैर्विन्यसेत्परमेश्वरि ६४ पल्लिंगगुदमूर्धास्यनासानेत्रेषुवैक्रमात् सु राश्चपितरश्चैवगंधर्वायक्षपन्नगाः ६५ पिशाचाराक्षसाश्चैवस्मर्तव्यास्तास्तुसप्तसु सहस्रार्चिस्वस्तिपूर्णुत्तिष्टपुरुषस्तथा ६६ धूमव्यापीसप्तजिह्वोधनुर्धरितीरिताः ङे हृदंतैःषडंगानिततोमूर्त्यष्टकंन्यसेत् ६७ जातवेदःसप्तजिह्वोहव्यवाहनेवच वि स्वोदरश्चतुर्थःस्यात्वैश्वानरुभेततः ६८ षष्टःकौमारतेजाश्चविश्वदेवमुखान्यसेत् मूर्धांसपार्श्वकट्युंचुकटिपार्श्वांशकेषुच ६९ ङेतास्तुसकलाज्ञेयाग्निमूर्त्यंगकाक्रमात् एवंविन्यस्तदेहःसन्पर्ययाभ्युक्ष्यजलेनच ७० दं०सं० पृ० ७४अ) दिक्षुदर्भैःपरिस्तीर्ययततस्तुपरिशेषयेत् वैश्वा नरंततोजातवेदपश्चादिहावह ७१ लोहि ताक्षचसर्वांतेकर्माण्यपिचसाधय स्वाहां तोणुरयंतारवक्त्रश्चित्पिंगलेनच ७२ अने नवह्निमभ्यर्च्यततोजिह्वासमर्चयेत् मध्ये चकोणषट्केचततोंगानिप्रपूजयेत् ७३ मूर्तयोवसुपत्रेषुभूविंवेदिगधीश्वराः पुन र्वैश्वानरंयष्ट्वात्रिकोणमरुणप्रभं ७४ शु क्लांवरंरक्तरत्नभूषणंपद्मसंस्थितं वरंप द्मंस्वस्तिकंचाभीतिंहस्तैश्चविभ्रतं ७५ अ नेकहेममालाभिरंकितंसंस्मरेद्वुधः अ र्घ्योदकेनपात्राणिप्रोक्षयेच्छुद्धयेततः ७६ उन्मुखीकृत्यसर्वाणितत्रविनिक्षिपेत् प्रणी ताप्रोक्षणीयुग्मेजलंस्थाल्यांधृतंतथा ७७ अन्यत्सर्वेषुपात्रेषुहोमद्रव्याणिसंक्षिपेत् श्रु क्पात्रेचश्रुवेपात्रेघृतेपुष्पंविनिक्षिपेत् ७८ स्थालींपूर्वान्वितांकुर्यात्सर्वतोधूपयेत्प्रिये मे खलासुचसर्वासुवेष्टयेद्दीपमालिकाः ७९ त्रिपंक्त्याचाभितःकुंडंततोव्याहृतिभिर्हुनेत् व्रह्माणंदक्षिणेभ्यर्च्यहुनेद्वैश्वानराणुना ८० पृ० ७४ब) गर्भाधानादिसंस्कारंचिंतयेत्सिद्धिहेतवे अ नेनविधिनाभ्यर्च्यश्रीचक्रंतत्रचिंतयेत् ८१ तदंतरेसमावाह्यमहात्रिपुरसुंदरीं समस्त चक्रचक्रेशींसहितांहोमयेत्ततः ८२ दशा ज्याहुतिभिःपश्चात्यजनादिक्रमेणतु स मस्तचक्रचक्रेशीप्रकटाद्याश्चयोगिनीः ८३ होमयेश्चघृतेनैवचैकैकामाहुतिंक्रमात् ततःपूर्वोक्ततद्द्रव्यैःहोमयेत्स्वभगांपरां ८४ हवनंपद्मरागायांसर्वसिद्धिप्रदंभवेत् रुद्रा रक्तासुवर्णाचसर्वकामफलाप्तये ८५ लोहितायांभवेच्छांतिस्तंभनंचक्रमाद्भवेत् उच्चाटनंतुधूमिन्यांद्वेषणंचैवमारणं ८६ इतितेकथितंदेविहोमलक्षणमुत्तमं भू तविघ्नौघशमनीनान्यथावरवर्णिनी ८७ दीपस्थानंसमाश्रित्यजपहोमसमाचरेत् वसुकोष्टंलिखेत्कूर्मंमध्येस्थानंप्रकल्पयेत् ८८ स्वरान्द्वंद्वविभागेनपूर्वादिक्रमतोलिखेत् का यावर्गास्तुसप्तैतेपूर्वादिक्रमतोलिखेत् ८९ लक्षवर्णौष्टमेयोज्यःकूर्मचक्रमिदंभवेत् स्थानाक्षरंयत्रदेवीसिद्धिस्तत्रनसंशयः ९० दं०सं० पृ० ७५अ) स्थानाक्षरंमुखेज्ञेयापार्श्वयोस्तस्यवैकरौ तत्रशून्यंफलंमध्येकोष्टयुग्मंतुमृत्युदं ९१ उदरंकच्छपश्यैतत्पादौतुपश्चिमौक्रमात् रो गहानिकरौपुछंतयोर्मध्यगतंभवेत् ९२ दारिद्र्यदंदुःखदंचतस्माद्वक्त्रंसमाश्रयेत् तत्रैवसिद्धिर्नान्यत्रश्रीगुरोराज्ञयाप्रिये ९३ देशंवाकल्पयेत्स्थानंनगरंग्राममेवच दी पेवासोपिकर्तव्यःकिंपुनर्हवनंयजेत् ९४ इतिश्रीदक्षिणामूर्तिसंहितायांजपहोम लक्षणंनामत्रिंशतितमःपटलः ३० श्री ईश्वरुवाच अथातःसंप्रवक्ष्यामिचक्ररा जस्यसाधनं एवंसंसिद्धविद्यायाविनियो गक्रमंशृणु १ कृत्वासिंदूररजसाचक्रंतत्र विचिंतयेत् साध्यप्रतिकृतिर्नामलेखिनी कांशुभांततः २ ज्वलंतीतत्क्षणादेवमोहि ताभयवर्जिता त्यक्तालज्जासमायातिअथा न्यत्कथ्यतेप्रिये ३ तत्मध्यसंस्थितोमंत्रीचिं तयेदरुणप्रभं आत्मानंचतथासाध्यंतदासौ भाग्यसुंदरः ४ अरुणैरूपचारैस्तुपूजये| न्मुद्रयावृतः यस्यनाम्नायुतःसम्यक्सभवे पृ० ७५ब) द्दासेवहि ५ अदृष्टस्त्रीनामवर्णीश्चक्रम ध्येविलिख्यतु योनिमुद्राधरोभूत्वावेगादा कर्षणंभवेत् ६ देवकन्यांराजकन्यांवैश्यक न्यामथापिवा गोरोचनाकुंकुमाभ्यांसमभा गंचचंदनं ७ अष्टोत्तरशतावृत्यातिलकं सर्वमोहनं पुष्पंफलंजलंचान्नंगंधवस्त्रं चभूषणं ८ तांवूलंपूर्वजप्तंचयस्मैसंप्रो ष्यतेसतु अंगनावीक्षणंदेविदासीवत्सापि जायते ९ करवीरैरक्तवर्णैःत्रिमध्वक्तैःप्रपू जयेत् चिंतयन्मासमात्रंहिसाध्याख्यांलल नांततः ८ इतिकुर्वन्महेशानिपूजयेदरुण प्रभां सिंदूररचितेचक्रेराजानंमोहयेत्क्षणा त् ९ त्रैलोक्यदुर्लभांचापिरंभांचाकर्षयेद्रुतं चिंतागारेणचक्रंतुलिखेद्रक्तद्रवेणहि १० वध्वावाहौथवाक्वावाज्वरंनाशयतिक्षणात् अर्कनिंवद्रवाभ्यांतुलेखिन्यार्कस्यसंलिखेत् ११ द्वयोर्नामसाध्यवाह्यंदेशेचक्रस्यसंलिखेत् गोमूत्रेस्थापयेत्तच्चभवेद्विद्वेषणंक्षमात् १२ धूपयेच्चंदनंरात्रौवस्त्रंवाधारयेत्ततः अष्टो त्तरशतावृत्यामोहयेद्भुवनत्रयम् १३ लिप्तं दं०सं० पृ० ७६अ) गोमयभूमौतुलिखेद्रोचनयाततः सरू पांप्रतिमांरम्यांभूषाढ्यांपरिचिंतयेत् १४ तद्भालगलहृन्नाभिजन्ममंडलयोजितां जन्मनाममहाविद्यांसंकुसांतविदर्भितां सर्वांगसंधिसंलीनांकामकूटंसमालिखेत् साध्यासाभिमुखीभूत्वाश्रीविद्यान्यासविग्रहः क्षोभिणीवीजमुद्रायांविद्यामष्टशतंजपेत् योजयेतांकामगेहेचंद्रसूर्यकलात्मके १७ सानुरागातिविकलाकामसायकपीडिता त्रैलोक्यसुंदरीनामक्षणादायातिमोहिता अथवामात्रिकांचक्रवाह्येसंवेष्ट्यमंत्रवित् चक्रंप्रपूजयेत्सम्यक्विद्यांपूर्णांचधारयेत् २० अवध्यःसर्वदुष्टानांव्याघ्रादीनांनसंशयः श्रीखंडागरुकस्तूरीकर्पूरैश्चसकुंकुमैः २१ स्वनामक्रमतोलेख्यंपूर्ववन्मातृकांलिखेत् तेनाजरामरत्वंतुसाधकस्यनसंशयः २२ कामकूटेनदेवेशिसंदर्भ्यपृथगक्षरम् सा ध्यनामत्रिकोणांतंमातृकांवेष्टयेद्वहिः २३ स्वर्णमध्यगतंधार्यंशिखायांयत्रकुत्रचित् लोकपालाश्चराजानोदुष्टास्त्रैलोक्यपूजिता पृ० ७६ब) तेसर्वेवशमायांतिसन्निपातादयोज्वराः अनेनविधिनासाधुपुरीसंदर्भ्यसंक्षिपेत् २३ चतुष्पथेमध्यदेशेदिक्षुपूर्वादिषुक्रमात् तस्यसौभाग्यमायातिराजानःकिंकराःसदा २४ स्फुरत्तेजोमयींपृथ्वींप्रज्वलंतिचराचरं चक्रांतश्चिंतयेन्नित्यंमासषट्कंततोनरः २५ तेनकंदर्प्यसुभगोलोकेभवतिनिश्चयात् दृष्ट्वाकर्षयतेलोकान्विषंनाशयतिज्वरान् २६ तथाविषैंचहरतिदृष्ट्यावेशंकरोतिच रात्रौ सिंदूरलिखितंपूजयेदेकचित्ततः २७ क रोत्याकर्षणंदूरायोजनानांशतादपि अ खंडदिक्षुकोणेषुक्रमेणपरिपूजयेत् २८ यदातदैवलोकोयंवश्यो * * * नान्यथा भूर्जपत्रेलिखेच्चक्रंरोचनागुरुकुंकुमैः २१ स्वनामदर्भितंकुर्याद्देशंवापुटभेदनम् मं डलंविषमस्थानंभूमौचक्रंनिधापयेत् ३० धारयेद्वाततोमंत्रीपुरंक्षोभयतिक्षणात् उ न्मत्तरसलाक्षार्कक्षीरकुंकुमरोचना ३१ कस्तूर्यंलक्तसहिताएकीकृत्यतुसंलिखेत् यन्नाम्नातस्यदेविशिचौरजंव्याधिजंभयं ३२ सं०दं० पृ० ७७अ) ग्रहजंव्याधिजंचैवरिपुजंसिंहजंभयम् अ हिजंवाजिजंवापिसर्वान्मोहयतिक्षणात् रोचनाकुंकुमाभ्यांतुमध्यगासंलिखेद्वुधः त्रिकोणोभयगांचैवसाध्यनामांकितामधः तच्चक्रंधारयेत्तस्मात्सप्ताहात्किंकरोभवेत् पीतद्रव्येणचक्रांतेलिखेद्विद्यामधस्ततः ३५ साध्यनामविलिख्यैतत्पूर्वस्यांदिशिसंक्षिपेत् तस्माद्व्रह्मापिजीवोपिसर्वज्ञोमूकतांव्रजेत् अनेनविधिनानीलीरसेनविलिखेच्चतत् द क्षिणाभिमुखोमंत्रीवह्नौदग्धारिपून्दहेत् ३७ महिषाश्वपुरीषेणगोमूत्रेणचसंलिखेत् आरनालास्थितंकुर्यात्भवेद्विद्वेषणंक्षणात् साध्यनामलिखेन्मध्येकाममध्येनसंचयेत् संलिख्यरोचनाद्रव्यैराकाशेदृष्टिगंतथा ३८ शत्रूवच्चाटयेदाशुहठोच्चाटोयमीरितः म हानीलीरसोद्भिन्नारोचनादुग्धमिश्रितैः ३९ लाक्षारसैर्लिखेच्चक्रंचतुर्वर्णान्वशंनयेत् अ नेनविधिनानीरेस्थापयेत्तज्जलेनतु ४० सौ भाग्यंमहदाप्नोतिस्नानपानान्नसंशयः पी तंचक्रंयजेत्पूर्वेस्तंभयेत्सर्ववादिनः ४१ पृ० ७७ब) सिंदूर * लितंचक्रमुत्तरेलोकवश्यकृत् प श्चिमेपूजितंचक्रंगैरिकालिखितंततः ४३ मंत्रिणोदेवतावश्याकिंपुनर्योषितःप्रिये स्तंभंविद्वेषणंव्याधिमुच्चाटंकुरुतेनरः ४५ दुग्धेवश्यकरंक्षिप्तंरोचनालिखितंहठात् दग्धातद्वह्निमध्यस्थंसर्वशत्रून्विनाशयेत् ४९ गोमूत्रमध्यगंचेतद्भवेदुच्चाटनंरिपोः वि द्वेषणंभवेच्चक्रेतेनैवपरमेश्वरि ४७ सिं दूरेणलिखेच्चक्रंनिर्जनेचचतुष्पथे सर्व वाह्यतारभ्यमध्यांतंमातृकांलिखेत् ४८ कुलाचारक्रमेणैवरात्रौसंपूजयेत्क्रमं सा धकःखेचरोदेविजायतेनात्रसंशयः ४९ चतुर्दश्यांनिशिस्वस्थोरुद्रभूमौप्रपूजयेत् षण्माससंख्ययातेनसाक्षाद्रुद्रिवापरः ५० अंजनंविवरंसिद्धिंगुलिकांपादुकांजपं खड्गसौभाग्यवेतालयक्षिणींचेटकादिकं ५१ सकलंसिद्धिजननंमंत्रीमाप्नोतिनान्यथा चतुर्दश्यांचतुर्दश्यांप्रत्यष्टम्यांसमाहितः ५२ एकविंशतिरात्रंतुनिशिप्रेतशिलातले श्रीचक्रंपूजयेत्तद्वत्सुरपूज्यस्तुसाधकः ५३ दं०सं० पृ० ७८अ) पाशांकुशधनुर्वाणैःपौरुषेयैर्महेश्वरि का मोभूत्वास्वर्गभूस्तुपातालतलयोषितां ५४ हर्ताकर्तास्वयंचैवमहदाकर्षणंभवेत् तद्वत्कामेश्वरीशस्त्रैर्देव्यात्माभुवनत्रये पुरुषाकर्षणंचैतद्राजानःकिंकराप्रिये एतत्कामकलाध्यानंकथितंवीजभेदतः वाग्भवाराधनेदेविज्ञानंसारस्वतंभवेत् श्वे ताभरणवस्त्राढ्यांस्वेतपुष्पैःसमर्चयेत् ५७ अनेनविधिनादेविवाग्भवाराधनंभवेत् अथकामकलानामसामर्थ्यंशृणुपार्वति ५८ काममन्मथकंदर्प्यमकरध्वजेवच महा कामश्चपूर्वोक्तपंचकामाःक्रमेणतु ५६ कामंमन्मथमध्यस्थदेविकंदर्प्यवेश्मगं तत्पुटस्थंमीनकेतुंमहाकामेशसप्तकं ६० अनेनकामतत्वेनमोहयेज्जगतीमिमाम् मू लादिसृष्टिसंहारविसतंतुतनीयसीम् ६१ तस्मात्कुंडलिनीशक्तिःशक्तिकूटेमहेश्वरि त्रिकुटात्रिपुरादेविसर्वसिद्धिप्रदाभवेत् ६२ चतुःषष्टिर्यतःकोट्योयोगिनीनांमहौजसां चक्रमेतत्समाश्रित्यसतांसिद्धिप्रदासदा ६३ पृ० ७८ब) इतिश्रीदक्षिणामूर्तिसंहितायांविद्याप्रयोग वीजसाधनंनामेकत्रिंशतितमःपटलः ३१ श्रीईश्वरुवाच अथदीक्षाविधिंवक्ष्येदुर्ल भांभुवनत्रये पूर्वोक्तेनप्रकारेणनवयो न्यंकितांतरं १ वुध्यासंयोजयेन्मंत्रीय थात्र्यस्त्रंप्रजायते वसुकोणंद्वादशारंषो डशारंततःप्रिये २ द्विदशारंवृत्तयुग्मंततो ष्टदलमालिखेत् भूविंवंचततोमध्येपूज येत्त्रिपुरांपराम् ३ आदावंगानिसंपूज्यत्रि कोणेपुरतित्रयम् मातरोष्टारपत्रेषुवा माद्यानवयोनिषु ४ नित्यानिरंजनाक्लि न्नाक्लेदिनीमदनातुरा मदद्रवाद्राविणी चरुचिराभगवत्पथ ५ कामेश्वरीतथा कामदीपिनीकामुकेश्वरी ललिताक्षोभि णीमुद्रास्वछंदललिताक्रमात् ६ शंकरी भीमभावाचकमलाकमलेश्वरी नीलग्री वाविशालाक्षीभेरुंडापरमेश्वरी ७ कला योनिषुसंपूज्याततोविंशतियोनिषु मायाव तीमहाक्षीचततःसर्ववशंकरी ८ समया समयीशानीनित्यानंदामहोदया सर्वसौ| दं०सं० पृ० ७९अ) भाग्यदानंदाचंद्रिकाचंद्रशेखरा ९ स र्वेश्वरीचंसंपूज्यापीठानिवसुपत्रके भू गृहेत्रिपुरेशींचदीक्षायोन्यांकितांयजेत् १० एतदग्रेषुधान्यैस्तुसाधारंकलशंयजेत् विशेषगंधपुष्पैश्चस्वर्णरत्नैश्चपूरयेत् ११ समीपेचक्रराजंचसम्यगभ्यर्च्यदेशिका आद्याक्षरेणसंलग्नंसुंदरंनामकल्पयेत् १२ आत्मानंयोजयित्वातुगुरुभिस्तैश्चवैततः स्मर्तव्यागुरवःसर्वेसम्यक्प्रणतिपूर्वकं १३ भूमौलिखित्वाविद्यांचसम्यक्पुष्पादिभिर्यजे त् शिष्यायदर्शयेद्विद्यांप्रजप्तांशतधाप्रिये यदिस्यान्महतीप्रीतिःशिष्यस्यप्राणदस्यतु तदैकोच्चारमात्रेणदक्षकर्णेजपेत्परां १५ षोडशार्णांपरांविद्यांनदद्यात्कस्यचित्प्रिये राज्ञेराज्यप्रदायापिपुत्रायप्राणदायच १६ शांभवज्ञांप्रकुर्वीततादृक्खेचरसंज्ञकां अ निर्वाच्योपदेशस्तुह्यर्शनाद्व्रह्मणोभवेत् कलशस्थैःपल्लवैस्तुत्रिवारंप्रोक्षयेत्स्वतं भ वेत्तदाभिषिक्तस्तुतदासौदेशिकाग्रणी १८ गंडूषतत्वसंयुक्तस्तदार्होयंशिवार्च्चने पृ० ७९ब) अन्यथानैवसिद्धिस्तुसविकल्पस्यपार्वति १९ नसिद्धिस्तस्यकुत्रापिश्रीविद्याचपराङ्मुखी गुरवेदीयतेसर्वमज्ञानक्षालयेदपि २० त स्माद्दीक्षेयमाख्यातामंत्रसिद्धिकरीप्रिये दी क्षितःसन्महेशानिविनियोगंसमाचरेत् २१ विशेषार्घविधिंकुर्यात्पश्चादूतींसमानयेत् समयाचारविधिनामंडितांसुंदरानना २२ अष्टक्षेत्रकुलोद्भूतांतरुणींचारुलोचनाम् आनंदमुदितांग्राह्यांविरूपांविकृताननां २३ व्यंगांवृद्धांविविक्तांचक्रुद्धांचैवविवर्जयेत् भगमालांसमुच्चार्यतस्यायोनिंप्रपूजयेत् २४ श्रीविद्यांपूजयेत्तत्रनवचक्रक्रमोदितां स्क लिंगेपूजयेद्देविश्रीविद्यांषोडशाक्षरीं २५ कामेश्वरीस्वरूपांचकामशस्त्रविराजितां कामेश्वरंप्रवक्ष्यामितत्रभेदेनसुंदरी २६ वेदादिपीठसंराजत्परापीठनिवासिनीम् त्रि कूटाहृत्कलादेवीशिवायचजपन्मनुं २७ स्वाधिष्टानंचस्वार्णेननवचक्रेश्वरेणहि पूज येत्कामरूपःसन्कामशास्त्रीर्च्चितःप्रिये २८ सीत्कारःप्रणवोदेविभाषणंजपुच्यते नि दं०सं० पृ० ८०अ) त्यानंदश्चुंवनंस्यात्कुचमर्दःशिवार्चनम् २९ नखदंतक्षतादीनिपुष्पमालादिपूजनम् ता डनंहवनंविद्धिवीर्जपुष्पेविसर्जनम् ३० वीर्जरेतःसमादायविशेष्यार्घेनिधापयेत् तेनामृतेनश्रीदेवीतर्पयेत्कुलमार्गतः ३१ अतिःप्रगटनाद्देवीविण्मूत्रेस्त्रीरजस्तथा न खादिरेतोमुख्यानिकुलद्रव्याणिभाग्यतः ३२ भैरवोयदिसंजातःसिद्धिस्तस्यनसंशयः नि र्विकल्पस्तुमंत्रज्ञोव्रह्मसाक्षान्नसंशयः ३३ काम्यंनैमित्तकंज्ञात्वाश्रीविद्यांपरितोषयेत् दीक्षितस्याधिकारोत्रनान्यस्यपरमेश्वरि ३४ पुस्तकेलिखितंदृष्ट्वास्वयंज्ञात्वाकरोतियः व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकैः लिप्यतेनात्रसंदेहोनरकेनिवसत्यसौ ३५ इतिश्रीदक्षिणामूर्तिसंहितायांदीक्षादूतीय जनविवरणंनामद्वात्रिंशःपटलः ३२ श्री ईश्वरुवाच अथवक्ष्येमहेशानिपवित्रारोप णंमहत् यस्मिन्कृतेकृतंसर्वंमन्यथाशून्य मुच्यते १ गतेसंवत्सरेयस्तुनकरोतिपवि त्रकं एकीकृत्यफलंतस्यनीयतेदुर्मनैर्बलात् २ पृ० ८०ब) आषाढुत्तमोमासःश्रावणोमध्यमप्रिये ही नोभाद्रपदोमासःपक्षेसितसितेतरे ३ प्रश स्तःशुक्लपक्षस्तुतदालाभेसितेतरः चतुर्द श्यष्टमीपूर्णःमसीतिथिषुपूजयेत् ४ पट्ट सूत्रंविशिष्टंतुकार्पासजनितंतथा त्रिगु णंत्रिगुणीकृत्यप्रक्षाल्यामलवारिणा ५ पश्चिमास्यैक्तमनुभिःदक्षिणैःशोषयेत्ततः मंत्रैरथपवित्राणिमनोरम्यानिकारयेत् ६ अष्टोत्तरशतंश्रेष्टंतदर्धंमध्यमंप्रिये तद र्धंचकनिष्टंस्यायथाशक्त्याथवाप्रिये ७ उत्तरास्योदितैर्मंत्रैर्दशग्रंथीस्तुकारयेत् विचित्रयाचित्रयाचकुंकुमादिभिरद्रिजे ८ पवित्रदानदिवसात्पूर्वेद्युरधिवासिनी स द्योधिवासनंवापिकुर्याच्चपरमेश्वरि ९ रा त्रौसमयिभिःसार्धंनित्यपूजादनंतरं ऊ र्द्धसिंहासनैर्मंत्रैसूत्रपात्रंतुवामतः १० प्रार्थयित्वासुवर्माभ्यांकृत्वारक्षावगुंठनं दंतकाष्टंतथागंधभस्मचंदनमृत्तिकाः ११ सिद्धार्थश्चतथाधात्रीफलंचकुलमष्टसु पूर्वादिक्षुक्रमतःपवित्रंसूत्रभाजनम् १२ दं०सं० पृ० ८१अ) अश्वत्थपत्रपत्रीषुप्रछिपेत्सिद्धिहेतवे कु मारःसोमस्वाहेशव्रह्मनागशिखीध्वजा १४ सूर्ययःसदाशिवःसर्वःदेवतास्युर्नवासराः सूत्रेषुपूजयेद्व्रह्मविष्ण्वींशाश्चत्रिसूत्रके १५ क्रियाचपौरुषीवीरगायत्रीचापराजिता जयाचविजयादेवीमुक्तिदाचसदाशिवाः मनोन्मनीचनवमीदशमीसर्वतोमुखी ग्रंथिस्थादेवताःसर्वाउपचारैःसमर्चयेत् मूलमंत्रेणचामंत्र्यपवित्रेषुकलायजेत् नि त्याषोडशदेवेशिश्रीविद्यांचस्मरेत्प्रिये अ धिवासविधिःप्रोक्तःपश्चादाराधनंभवेत् १८ नित्यार्चनानंतरंतुनैमित्तिकमिदंभवेत् समस्तेभ्यःपवित्राणिकन्यकाभ्यःसभोजनं १९ स्वगुरुंपूजयेत्पश्चाद्वस्त्रालंकारगोधनैः य थाशक्तिनमस्कृत्यदेवीरूपेणचिंतयेत् २० आरोपयेत्पवित्रंतुवित्तशाठ्यविवर्जितः गु रुःसंपूज्यतेयत्रतत्कर्मसफलंभवेत् २१ सर्वाभावेर्चयेदन्यंगुरुगोत्रंसमुद्भवम् पू जयेत्स्वगुरुंयत्रतत्रयत्रैताःसफलाक्रियाः नपूज्यतेनिष्फलास्तुभवंतिपरमेश्वरि पृ० ८१ब) हुत्वापूर्णाहुतिंपश्चादग्नौदद्यात्पवित्रकं श्री चक्रसाध्यसिद्धायैपूजयेत्तांनिवेदयेत् प र्वैतन्नकरोत्येवतस्यपूजातुनिष्फला २५ इतिपवित्रार्पणविधिः श्रीईश्वरुवाच अ थवक्ष्येमहेशानिदमनारोपणंप्रिये प| वित्रपर्ववत्सापिकर्तव्यासाधकैःप्रिये १ चैत्रादयस्त्रयोमासाःपक्षौसितसितेतरौ एतेषांपूर्वपूर्वस्तुकालःसर्वोत्तमोभवेत् २ अष्टम्यांचचतुर्दश्यांपौर्णमास्यामथापिवा पू र्वरात्रौप्रकुर्वीतसद्योवावाधिवासनम् ३ आमंत्र्यदमनंचाद्यंचतुःकल्पलतादिभिः कामनेत्रसमुद्भूतरतिनेत्रजलाप्लुतः ४ ऋषिगंधर्वसिद्धानांविमोहकनमोस्तुते शिवकार्यंसमुद्दिश्यतेनव्योसिशिवाज्ञया ५ इत्यामंत्र्यरतिंकामंतत्रसंपूजयेत्सुधीः स्व यमुत्पाट्यदमनंसमूलंपल्लवैर्युतं ६ आ नीतमथवान्येनमौल्यादानीतमीश्वरी वा मतस्थापयेद्देविसर्वतोभद्रमंडले ७ व स्वारेदमनंपात्रंस्थापयेत्पूजयेत्ततः प्र णवंभुवनेशानीरतयेनमित्यपि ८ इ दं०सं० पृ० ८२अ) तिमंत्रोमहेशानिकाममंत्रस्तुकथ्यते प्र णवःकामवीजंचकामायनमित्यपि ९ मं त्राभ्यांपूजयेत्तत्रमदनंकलिकागतं तत| स्तत्पद्मपूर्वादिदलेषुपुटिकान्यसेत् १० अष्टस्पष्टाष्टभिर्मंत्रैरष्टद्रव्ययुताक्रमात् कामोभस्मशरीरश्चतथानंगश्चमन्मथः ११ वसंतःसखसंज्ञश्चस्मरिक्षुधनुर्धरः पुष्प वाणःसताराद्याःङेहृदंताःप्रकीर्तिताः १२ कर्पूररोचनायुग्मंकस्तूरीचततःप्रिये अ गरुंकुकुमंधात्रीफलंचंदनमेवच १३ सु गंधंपुष्पनिकरमष्टद्रव्याणिपार्वति सं पूज्यदमनंसम्यक्गंधपुष्पाक्षतादिभिः १४ जपेदनंगगायत्रींयथाशक्त्याप्रसन्नधीः कामदेवायित्युक्ताविद्महेतिवदेत्ततः १५ पुष्पवाणायधीमहितन्नोनंगःप्रचोदयात् नमोस्तुपुष्पवाणायजगदानंदकारिणे १६ मन्मथायजगन्नेत्रेरतिप्रीतिप्रियायच अ नेनमनुनादेविनमस्कुर्याततःपरं १७ अथ विज्ञापनंकुर्याद्देव्यैमदनपाणियुक् आ मंत्रितासिदेविशिसद्यःकालेमयाशिवे १८ पृ० ८२ब) कर्तव्यंतुयथालाभंपूर्णपर्वतचाज्ञया वि ज्ञापनाख्यामंत्रेणत्रिपुरांपरितोषयेत् १९ ततःसंपूज्यदेवेशिगंधपुष्पाक्षतादिभिः षो डशार्णेजगन्मातुर्वांछितार्थफलप्रदे २० हृत्स्थान्पूरयमेदेविकामान्कामेश्वरीश्व री अनेनप्रार्थयेद्देविपश्चाद्दमनमीश्व री २१ वर्मावगुंठितंकुर्यादस्त्रेणापिचर क्षितम् ततोजागरणंकुर्यात्सद्यश्चेज्जा गरोनहि २२ अथप्रातसमुत्थायकुर्या द्वैनित्यपूजनम् ततोनैमित्तिकंकुर्याद्द मनेनसुपूजयेत् २३ तेनैवसहितांपूजां मध्यमंपुष्पमिश्रितम् मनोहरंचविधिव त्कृत्वानैवेद्यमुत्तमम् २४ सकर्पूरंचतां वूलंदद्यात्संप्रार्थयेत्ततः समस्तचक्रच क्रेशिसर्वविद्याशरीरिणि २५ वेदमातर्म मैतंतुभवत्विष्टंतवाज्ञया ततःस्वगुरुम भ्यर्च्यपुष्पभूषांबरादिभिः २६ दत्वादमन कंतस्मैनमस्कृत्यप्रसाध्यच जलकेलिंत तःकुर्यात्शाकंसमयिभिःसुखम् २७ अन्नदानंप्रकुर्वीतरसैःषड्भिःसमन्वितम् दं०सं० पृ० ८३अ) एवंयःकुरुतेविद्वान्दमनारोपणक्रमं तस्यसांवत्सरीपूजाश्रीविद्याधिष्टिताभ वेत् २८ इतिश्रीदक्षिणामूर्तिसंहितायां दमनकारोपणंनैमित्तिकपूजाविधानं नामत्रयस्त्रिंशतितमःपटलः ३३ || संपूर्णैषांदक्षिणामूर्तिसंहिता शुभम् जम्वूमध्येलिप्ता१९५०चैत्रे ########### END OF FILE #######