#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00296 Uniform title: darśanopaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: darśana upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: January 6, 2014 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### दर्शनोपनिषत् आप्यायन्तु- इति शान्तिः प्रथम खण्डः जीवन्मुक्तिसाधनम् अष्टाङ्गयोगः दत्तात्रेयो महायोगी भगवान् भूतभावनः | चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः || १ || तस्य शिष्यो मुनिवरः सांकृतिर्नाम भक्तिमान् | पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः || २ || भगवन् ब्रूउहि मे योगं साष्टाङ्गं सप्रपञ्चकम् | येन विज्ञानमात्रेण जीवन्मुक्तो भवाम्यहम् || ३ || सांकृते शृणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् | विवरणम् यमाद्यष्टाङ्गयोगेद्धब्रह्ममात्रप्रबोधतः | योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे || इह खलु समावेदप्रविभक्तेयं दर्शनोपनिषत् निर्विशेषब्रह्मज्ञानसहकृतयमाद्यष्टाङ्गयोगप्रकटनव्यग्रा निष्प्रतियोगिकब्रह्ममात्रपर्यवसन्ना विजृम्भते | अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | सांकृतिदत्तात्रेयप्रश्नप्रतिवचनरूपेयमाख्यायिका विद्यास्तुत्यर्था | आख्यायिकामवतारयति- दत्तात्रेय इति || १-२ || किमिति ? भगवन् इत्यादि || ३ || सांकृतिना एवं पृष्टो भगवानाह- सांकृत इति || प्. १५३) अष्टाङ्गोद्देशः यमश्च नियमश्चैव तथैवासनमेव च || ४ || प्राणायामस्तथा ब्रह्मन् प्रत्याहारस्ततः परम् | धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने || ५ || अष्टाङ्गानि कानीयत आह- यमश्चेति || ४-५ || दशविधयमः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् | क्षमा धृतिर्मिताहारः शौचं चेति यमा दश || ६ || दशधा भिन्नयमावयवमाह- अहिंसेति || ६ || अहिंसा वेदोक्तेन प्रकारेण विना सत्यं तपोधन | कायेन मनसा वाचा हिंसा हिंसा न चान्यथा || ७ || आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति या मतिः | सा चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः || ८ || उपायोपेयभेदेन अहिंसादिदशयमलक्षणमाह- वेदेति | वेदोक्तयज्ञीयपश्चादिहिंसा अहिंसैवेत्यर्थः || ७ || यद्वा- आत्मेत्यादि || ८ || सत्यम् चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर | तस्यैवोक्तिर्भवेत् सत्यं विप्र तन्नान्यथा भवेत् || ९ || प्. १५४) सर्वं सत्यं वरं ब्रह्म न चान्यादिति या मतिः | तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः || १० || उपायोपेयसत्यलक्षणं तु- चक्षुरित्यादि || ९-२५ || अस्तेयम् अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च | मनसा विनिवृत्तिर्या तदस्तेयं विदुर्बुधाः || ११ || आत्मन्यनात्मभावेन व्यवहारविवर्जितम् | यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामुने || १२ || ब्रह्मचर्यम् कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् | ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते || १३ || ब्रह्मभावे मनश्चारं ब्रह्मचर्यं परंतप | दया स्वात्मवत् सर्वभूतेषु कायेन मनसा गिरा || १४ || अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः | आर्जवम् पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् || १५ || एकरूपं मुने यत्तदार्जवं प्रोच्यते मया | प्. १५५) क्षमा कायेन मनसा वाचा शत्रुभिः परिपीडिते || १६ || बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुंगव | धृतिः वेदावेद विनिर्मोक्षः संसारस्य न चान्यथा || १७ || इति विज्ञाननिष्पत्तिर्धृतिः प्रोक्ता हि वैदिकैः | अहमात्मा न चान्योऽस्मीत्येवमप्रच्युता मतिः || १८ || मिताहारः अल्पमृष्टाशनाभ्यां च चतुर्थांशावशेषकम् | तस्माद्योगानुगुण्येन भोजनं मितभोजनम् || १९ || शौचम् स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने | यत्तच्छौचं भवेद्बाह्यं मानसं मननं विदुः || २० || अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः | अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः || २१ || उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते | ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः || २२ || स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत | प्. १५६) ब्रह्मात्मवेदनविधिः ज्ञानमृतेन तृप्तस्य कृतकृत्यस्य योगिनः || २३ || न चास्ति किंचित् कर्तव्यमस्ति चेन्न स तत्त्ववित् | लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् || २४ || तस्मात् सर्वप्रयत्नेन मुनेऽहिंसादिसाधनैः | आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् || २५ || इति प्रथमः खण्डः द्वितीयः खण्डः दशविधनियमः तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् | सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् || १ || एते च नियमाः प्रोक्तास्तान् वक्ष्यामि क्रमाछृणु | दशधा भिन्ननियमावयवानाह- तप इति || १ || तपः वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः || २ || शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः | को वा मोक्षः कथं केन संसारं प्रतिपन्नवान् || ३ || इत्यालोचनमर्थज्ञास्तपः शंसन्ति पण्डिताः | उपायोपेयभेदेन तप आदिनियमलक्षणमाह- वेदेति || २-१० || प्. १५७) संतोषः यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् || ४ || तत् संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः | ब्रह्मावलोकपर्यन्ताद्विरक्त्या यल्लभेत् प्रियम् || ५ || सर्वत्र विगतस्नेहः संतोषं परमं विदुः | आस्तिक्यम् श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते || ६ || दानम् न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने | अन्यद्वा यत् प्रदीयन्ते तद्दानं प्रोच्यते मया || ७ || ईश्वरपूजनम् रागाद्यपेतं हृदयं वागदुष्टानृतादिना | हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् || ८ || सिद्धान्तश्रवणम् सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् | प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधः || ९ || प्. १५८) ह्रीः वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् | तस्मिन् भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता || १० || मतिः वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् | गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः || ११ || वेदविरुद्धमार्गः गुरुणा उपदिष्टोऽपि तत्र सम्बन्धवर्जितः सन् वेदोक्तानुष्ठानमेव कुर्यादित्यर्थः || ११- १६ || जपः वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः | कल्पसूत्रे यथा वेदे धर्मशास्त्रे पुराणके || १२ || इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया | जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा || १३ || वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः | मानसो मननध्यानभेदात् द्वैविध्यमाश्रितः || १४ || उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते | मानसश्च तथोपांशोः सहस्रगुणमुच्यते || १५ || प्. १५९) उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् | नीचैः श्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् || १६ || इति द्वितीयः खण्डः तृतीयः खण्डः आसनानि नव स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा | भद्रं मुक्तासनं चैव मयूरासनमेव च || १ || सुखासनसमाख्यं च नवमं मुनिपुंगव | यमनियमलक्षणमुक्त्वा आसनलक्षणमाह- स्वस्तिकमिति || १-१४ || स्वस्तिकम् जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे || २ || समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् | गोमुखम् सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् || ३ || दक्षिणेऽपि तथा सव्यं गोमुखं तत् प्रचक्षते | पद्मम् अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु || ४ || ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् | पद्मासनं भवेत् प्राञ सर्वरोगभयापहम् || ५ || प्. १६०) वीरासनम् गुल्फौ च वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् | दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरत् || ६-१ || हस्तौ जानौ समास्थाप्य स्वाङ्गुलींश्च प्रसार्य च | व्यक्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः || ६-२ || सिंहासनं भवेदेतत् पूजितं योगिभिः सदा || ६-३ || भद्रासनम् गुल्फौ तु वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् || ७ || भद्रासनं भवेदेतद्विषरोगविनाशनम् | मुक्तासनम् निपीड्य सीविनीं सूक्ष्मां दक्षिणेतरगुल्फतः || ८ || वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् | मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं ततोपरि || ९ || गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने | प्. १६१) मयूरासनम् कूर्पराग्रे मुनिश्रेष्ठ निक्षिपेन्नाभिपार्श्वयोः || १० || भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः | समुन्नतशिरःपादो दण्डवद्व्योम्नि संस्थितः || ११ || मयूरासनमेतत् स्यात् सर्वपापप्रणासनम् | सुखासनम् येन केन प्रकारेण सुखं धैर्यं च जायते || १२ || तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत् | आसनजयफलम् आसनं विजितं येन जितं तेन जगत्त्रयम् || १३ || अनेन विधिना युक्तः प्राणायामं सदा कुरु || इति तृतीयः खण्डः चतुर्थः खण्डः देहप्रमाणम् शरीरं तावदेव स्यात् षण्णवत्यङ्गुलात्मकम् | देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् || १ || त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते | गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः || २ || प्. १६२) देहमध्यं विजानीहि मनुजानां तु सांकृते | कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् || ३ || चतुरङ्गुलमायामविस्तारं मुनिपुंगव | कुक्कुटाण्डवदाकारं भूषितं तु त्वगादिभिः || ४ || तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुंगव | प्राणायामस्य नाडीपुञ्जदेहप्राणनिर्वर्त्यत्वेन देहतत्कार्येयत्तापरिज्ञानं विना प्राणायामसिद्धिः न स्यादिति देहनाडीप्राणेयत्तां प्रपञ्चयति- शरीरमिति | शिखिस्थानम् अग्निस्थानम् || १-१० || नाडीपरिगणनम् कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता || ५ || तिष्ठन्ति परितस्तस्य नाडयो मुनिपुंगव | द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश || ६ || सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती | पूषा च वरुणा चैव हस्तिजिह्वा यशस्विनी || ७ || अलम्बुसा कुहूश्चैव विश्वोदारा पयस्विनी | शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश || ८ || आसां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा | ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः || ९ || पृष्ठमध्यस्थितेनास्थ्ना विणादण्डेन सुव्रत | सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता || १० || प्. १६३) कुण्डल्याः स्थानं स्वरूपं च नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने | अष्टप्रकृतिरूपा स कुण्डली मुनिसत्तमः || ११ || यथावद्वायुचेष्टां च जलान्नादीनि नित्यशः | परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता || १२ || स्वमुखेन सदावेष्ट्य ब्रह्मरन्ध्रमुखं मुने | कुण्डलिनीस्थानं तत्स्वरूपं चाह- नाभीति | पृथिव्यप्तेजोवायवाकाशमनोबुद्ध्यहंकाररूपिण्यः अष्टौ प्रकृतयः || ११- १२ || नाडीस्थानानि सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता || १३ || सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते | गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपूर्वयोः || १४ || पूषा यशस्विनी चैव पिङ्गलापृष्ठपूर्वयोः | कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरा स्थिता || १५ || यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता | पूषायाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी || १६ || गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी | अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा || १७ || पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः | अधश्चोर्ध्वं स्थिता नाडी याम्यनासान्तमिष्यते || १८ || प्. १६४) इडा तु सव्यनासान्तं संस्थिता मुनिपुंगव | यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते || १९ || पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः | पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः || २० || सरस्वती तथा चोर्ध्वं गता जिह्वा तथा मुने | हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते || २१ || शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते | गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः || २२ || विश्वोदराभिधा नाडी कन्धमध्ये व्यवस्थिता | सुषुम्नानाडीपरितः प्रधाननाड्यः तिष्ठन्तीत्याह- सुषुम्नाया इति || १३-२२ || नाडीषु वायुसंचारः प्राणोऽपानस्तथा व्यानः समानोदान एव च || २३ || नागः कूर्मश्च कृकरो देवदत्तो धनंजयः | एते नाडीषु सर्वासु चरन्ति दश वायवः || २४ || तेषु प्राणादयः पञ्च मुख्याः पञ्चसु सुव्रत | प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने || २५ || आस्यनासिकयोर्मध्ये नाभिमध्ये तथा हृदि | प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम || २६ || प्. १६५) अपानो वर्तते नित्यं गुदमध्योरुजानुषु | उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत || २७ || व्यानः श्रोत्राक्षिमध्ये च ककुद्भ्यां गुल्फयोरपि | प्राणस्थाने गले चैव वर्तते मुनिपुंगव || २८ || उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि | समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः || २९ || नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः | एवमुक्तासु नाडीषु प्राणादयश्चरन्तीत्याह- प्राण इति || २३##- वायुव्यापाराः निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते || ३० || अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् | समानः सर्वसामीप्यं करोति मुनिपुंगव || ३१ || उदान ऊर्ध्वगमनं करोत्येव न संशयः | व्यानो विवादकृत् प्रोक्तो मुने वेदान्तवेदिभिः || ३२ || उद्गारादिगुणः प्रोक्तो नागाख्यस्य महामुने | धनंजयस्य शोभादि कर्म प्रोक्तं हि सांकृते || ३३ || निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च | देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् || ३४ || प्राणादिदशवायुव्यापारानाह- निःश्वासेति || ३०-३४ || प्. १६६) नाडीदेवताः सुषुम्नायाः शिवो देव इडया देवता हरिः | पिङ्गलाया विरिच्चः स्यात् सरस्वत्या विराण्मुने || ३५ || पूषाधिदेवता प्रोक्तो वरुणा वायुदेवता | हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् || ३६ || यशस्विन्या मुनिश्रेष्ठ भगवान् भास्करस्तथा | अलम्बुसाया अबात्मा वरुणः परिकीर्तितः || ३७ || कुहो क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता | शङ्खिन्याश्चन्द्रमास्तद्वत् पयस्विन्याः प्रजापतिः || ३८ || विश्वोदराभिधायास्तु भगवान् पावकः पतिः | सुषुम्नादिचतुर्दशनाडीदेवताभेदमाह- सुषुम्नाया इति || ३५-३८ || नाडीषु चन्द्रसूर्यसंचारः इडायां चन्द्रमा नित्यं चरत्येव महामुने || ३९ || पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर | सदेडापिङ्गलयोश्चन्द्रसूर्यौ चरत इत्याह- इडायामिति || ३९ || नाडीषु संवत्सरात्मकप्राणसूर्यसंचारः पिङ्गलाया इडायां तु वायोः संक्रमणं तु यत् || ४० || तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः | इडायाः पिङ्गलायां तु प्राणसंक्रमणं मुने || ४१ || प्. १६७) दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः | इडापिङ्गलयोः संधिं यदा प्राणः समागतः || ४२ || अमावस्या तदा प्रोक्ता देहे देहभृतां वर | मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम || ४३ || तदाद्यं विषुवं प्रोक्तं तापसैस्तापसोत्तम | प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा || ४४ || तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः | निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् || ४५ || इडया कुण्डलीस्थानं यदा प्राणः समागतः | सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर || ४६ || यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः | तदा तदा भवेत् सूर्यग्रहणं मुनिपुङ्गव || ४७ || संवत्सरात्मकप्राणसूर्यस्य नाडीराशिसंचारतो दिनपक्षमासायनादिग्रहणादिः भवतीत्याह- पिङ्गलाया इति || ४०##- अन्तस्तीर्थप्राशस्त्यम् श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके | वाराणसीं महाप्राज्ञ भ्रूवोर्घ्राणस्य मध्यमे || ४८ || कुरुक्षेत्रं कुचस्थाने प्रयागं हृत्सरोरुहे | चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् || ४९ || प्. १६८) आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् | करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते || ५० || भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु | अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता || ५१ || तीर्थानि तोयपूर्णानि देवान् काष्ठादिनिर्मितान् | योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारणात् || ५२ || बहिस्तीर्थात् परं तीर्थमन्तस्तीर्थं महामुने | आत्मतीर्थं महातीर्थमन्यत्तीर्थं निरर्थकम् || ५३ || चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति | शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि || ५४ || विषुवायनकालेषु ग्रहणे चान्तरे सदा | वारणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः || ५५ || ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् | भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव || ५६ || मस्तकाद्याधारान्तं श्रीशैलादिपुण्यस्थलं भवतीत्याह- श्रीपर्वतमिति || ४८-४९ || एवं भावनामयमात्मतीर्थं तदेव मुमुक्षुभिः सेव्यम् इति स्तौति- आत्मतीर्थमिति | काचं- काचमणिम् || ५० || देहादिनिर्वर्त्यसर्वकर्मसु तीर्थबुद्धिः गरीयसीत्यर्थः | तत्र दृष्टान्तस्तु- अन्यथेति || ५१ || अत एवं तीर्थानीति || ५२ || तदेव आत्मतीर्थम् || ५३ || बाह्यतीर्थस्नानेन कोऽपि न शुध्यतीति सदृष्टान्तमाह- चित्तमिति || ५४ || न तथा भावतीर्थस्नानेनेत्याह##- प्. १६९) भ्रूमध्यादिस्थानेषु स्वात्मलक्ष्यानुसंधानतः शुद्धात्मैव भवतीत्यर्थः || ५५ || एवात्मतीर्थस्नानानधिकारो[री] तीर्थपादचरणोदकस्पर्शतः शुद्धो भवतीत्याह- ज्ञानेति || ५६ || आत्मनि शिवदृष्टिः तीर्थे दाने जपे यज्ञे काष्ठे पाषाणके सदा | शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते || ५७ || अन्तःस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते | हस्तस्थं पिण्डमुत्सृज्य लिहेत् कूर्परमात्मनः || ५८ || शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः | अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः || ५९ || स्वाज्ञाः स्वातिरिक्तात्मानं द्रष्टुमिच्छन्ति, स्वज्ञाः स्वामात्मानं पश्यन्तीत्याह- तीर्थ इति || ५७-५८ || अत एव शिवमिति | अयोगिजनानुकम्पया प्रतिमापि विकल्पितेत्याह- अज्ञानामिति || ५९ || ब्रह्मदर्शनेन ब्रह्मभावः अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् | प्रज्ञानघनमानन्दं यः पश्यति स पश्यति || ६० || नाडीपुञ्जं सदासारं नरभावं महामुने | समुत्सृज्यात्मनात्मानमहमित्यवधारय || ६१ || अशरीरं शरीरेषु महान्तं विभुमीश्वरम् | आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति || ६२ || प्. १७०) विभेदजनकेऽज्ञाने नष्टे ज्ञानबलात्मुने | आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति || ६३ || निर्विशेषं ब्रह्म यः पश्यति स तदेव भवतीत्याह- अपूर्वमिति | यस्मात् पूर्वं कारणं परं कार्यं वा न विद्यते तत् कार्यकारणकलनाशून्यं ब्रह्म स्वमात्रमिति यः पश्यति स तन्मात्रमवशिष्यत इत्यर्थः || ६० || यावच्चित्तशुद्धिः तावत् नरभावनया योगं युञ्जीत, ततः शुद्धावुदितायां नरभावं विहाय ब्रह्मभावेन वर्तस्वेत्याह- नाडीति || ६१ || यः कोऽप्येवमात्मानं जानाति स कृतकृत्यो भवतीत्याह- अशरीरमिति || ६२ || स्वज्ञानजभेददृष्ट्यपाये निर्भेदं ब्रह्म प्रसीदतीत्याह- विभेदेति | वस्तुतः कालत्रयेऽप्यसंभवभेदः किं करिष्यति ? स्वस्य लब्धात्मकत्वान्निर्भेदं ब्रह्मावशिष्यते इत्यर्थः || ६३ || इति चतुर्थःखण्डः पञ्चमः खण्डः नाडीशोधनम् सम्यक्कथय मे ब्रह्मन् नाडीशुद्धिं समासतः | यया शुद्ध्या सदा ध्यायन् जीवन्मुक्तो भवाम्यहम् || १ || सांकृते शृणु वक्ष्यामि नाडीशुद्धिं समासतः | विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः || २ || यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः | स्वात्ममन्यवस्थितः सम्यक् ज्ञानिभिश्च सुशिक्षितः || ३ || प्. १७१) पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा | मनोरमे शुचौ देशे मठं कृत्वा समाहितः || ४ || आरभ्य चासनं पश्चात् प्राङ्मुखोदङ्मुखोऽपि वा | समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः || ५ || नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् | स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः || ६ || इडया प्राणमाकृष्य पूरयित्वोदरस्थितम् | ततोऽग्निं देहमध्यस्थं ध्यायन् ज्वालावलीयुतम् || ७ || बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् | पश्चाविरेचयेत् सम्यक् प्राणं पिङ्गलया बुधः || ८ || पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् | पुनर्विरेचयेद्धीमानिडयैव शनैः शनैः || ९ || त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च | षट्कृत्वो विचरेन्नित्यं रहस्येवं त्रिसंधिषु || १० || नरभावभावितनाडीशुद्धिबुभुत्सया पृच्छतीत्याह- सम्यगिति || १ || प्रश्नोत्तरं भगवानाह- सांकृत इति || कस्तत्प्रकारः इत्यत्र- विध्युक्तेति || २-५ || स्रवदमृतचन्द्रबिम्बं नासाग्रे अवलोकयन् योगं समारभेदित्यर्थः || ६-७ || रामिति अग्निबीजं || ८-९ || प्रतिदिनं त्रिचतुर्वारम् || १०-१४ || प्. १७२) नाडीशुद्धिचिह्नानि नाडीशुद्धिमवाप्नोति पृथक्चिह्नोपलक्षितः | शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः || ११ || नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् | यावदेतानि संपश्येत् तावदेवं समाचरेत् || १२ || स्वात्मशुद्धिः अथवैतत् परित्यज्य स्वात्मशुद्धिं समाचरेत् | आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः || १३ || अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो विभात्ययम् | अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतोयतः | स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः || १४ || इति पञ्चमः खण्डः षष्ठः खण्डः प्राणायामलक्षणम् प्राणायामक्रमं वक्ष्ये सांकृते शृणु सादरम् | प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः || १ || वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः | स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः || २ || प्. १७३) इडया वायुमाकृष्य पूरयित्वोदरस्थितम् | शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् || ३ || पूरितं धारयेत् पश्चाच्चतुःषष्ट्या तु मात्रया | उकारमूर्तिमत्रापि संस्मरन् प्रणवं जपेत् || ४ || यावद्वा शक्यते तावद्धारयेज्जपतत्परः | पूरितं रेचयेत् पश्चान्मकारेणानिलं बुधः || ५ || शनैः पिङ्गलया तत्र द्वात्रिंशन्मात्रया पुनः | प्राणायामो भवेदेष ततश्चैवं समभ्यसेत् || ६ || पुनः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा | अकारमूर्तिमत्रापि स्मरेदेकाग्रमानसः || ७ || धारयेत् पूरितं विद्वान् प्रणवं संजपन् वशी | उकारमूर्तिं स ध्यायन् चतुःषष्ट्या तु मात्रया || ८ || मकारं तु स्मरन् पश्चाद्रेचयेदिडयानिलम् | एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् || ९ || एवं समभ्यसेन्नित्यं प्राणायामं मुनीश्वर | एवमभ्यासतो नित्यं षण्मासाद् ज्ञानवान् भवेत् || १० || वत्सराद्ब्रह्मविद्वान् स्यात् तस्मान्नित्यं समभ्यसेत् | योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः || ११ || प्राणसंयमनेनैव ज्ञानमुक्तो भविष्यति | विशेषतः प्राणायामेति || १-११ || प्. १७४) पूरकादिलक्षणम् बाह्यदापूरणं वायोरुदरे पूरको हि सः || १२ || संपूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् | बहिर्विरेचनं वायोरुदराद्रेचकः स्मृतः || १३ || पूरकादिलक्षणमाह- बाह्यादिति || १२-१३ || प्राणायामसिद्धयः प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः | कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं विदुः || १४ || पूर्वपूर्वं प्रकुर्वीत यावदुत्थानसंभवः | संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् || १५ || प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत | चित्ते शुद्धे शुचिः साक्षात् प्रत्यग्ज्योतिर्व्यवस्थितः || १६ || प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति | प्राणायामपरस्यास्य पुरुषस्य महात्मनः || १७ || देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानाद्विमुक्तता | रेचकं पूरकं मुक्त्वा कुम्भकं चित्यमभ्यसेत् || १८ || सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् | मनोजवत्वमाप्नोति पलितादि च नश्यति || १९ || प्. १७५) प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् | तस्मात् सर्वप्रयत्नेन प्राणायामान् समभ्यसेत् || २० || स्वेदादिसिद्धिमाह- प्रस्वेदेति || १४-१७ || उत्तिष्ठते भूतलात् || १८-२० || रोगनिवर्तकप्राणायामभेदाः विनियोगान् प्रवक्ष्यामि प्राणायामस्य सुव्रत | संध्ययोर्ब्राह्मकालेऽपि मध्याह्ने वाथवा सदा || २१ || बाह्यं प्राणं समाकृष्य पूरयित्वोदरेण च | नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारणात् || २२ || सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः | नासाग्रधारणाद्वापि जितो भवति सुव्रत || २३ || सर्वरोगनिवृत्तिः स्यान्नाभिमध्ये तु धारणात् | शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् || २४ || जिह्वया वायुमाकृष्य यः पिबेत् सततं नरः | श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् || २५ || जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् | पिबेदमृतमव्यग्रं सकलं सुखमाप्नुयात् || २६ || इडया वायुमाकृष्य भ्रूवोर्मध्ये निरोधयेत् | यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः || २७ || प्. १७६) योगोपनिषदः इडया वेदतत्त्वज्ञ तथा पिङ्गलयैव च | नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः || २८ || मासमात्रं त्रिसंध्यायां जिह्वयारोप्य मारुतम् | अमृतं च पिबन्नाभौ मन्दं मन्दं निरोधयेत् || २९ || वातजाः पित्तजा दोषा नश्यन्त्येव न संशयः | नासाभ्यां वायुमाकृष्य नेत्रद्वन्द्वे निरोधयेत् || ३० || नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् | तथा वायुं समारोप्य धारयेच्छिरसि स्थितम् || ३१ || शिरोरोगा विनश्यन्ति सत्यमुक्तं हि सांकृते | योगसिद्ध्यन्तरायरोगनिरासकान् धारणाभेदानाह- विनियोगानिति | ब्रह्मकाले ब्राह्मे मुहूर्ते || २१-३५ || षण्मुखीमुद्राभ्यासादिना वायुजयः स्वस्तिकासनमास्थाय समाहितमनास्तथा || ३२ || अपानमूर्ध्वमुत्थाप्य प्रणवेन शनैः शनैः | हस्ताभ्यां धारयेत् सम्यक् करणादिकरणानि च || ३३ || अङ्गुष्ठाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी | नासापुटावस्थान्याभ्यां प्रच्छाद्य करणानि वै || ३४ || आनन्दाविर्भवो यावत् तावन्मूर्धनि धारयेत् | प्राणः प्रयात्यनेनैव ब्रह्मरन्ध्रं महामुने || ३५ || प्. १७७) ब्रह्मरन्ध्रं गते वायौ नादश्चोत्पद्यतेऽनघ | शङ्खध्वनिनिभश्चादौ मध्ये मेघध्वनिर्यथा || ३६ || शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा | पश्चात् प्रीतो महाप्राज्ञ साक्षादात्मोन्मुखो भवेत् || ३७ || पुनस्तज्ज्ञाननिष्पत्तिर्योगात् संसारनिह्नुतिः | दक्षिणोत्तरगुल्फेन सीविनीं पीडयेत् स्थिराम् || ३८ || सव्येतरेण गुल्फेन पीडयेद् ब्द्धिमान् नरः | जान्वोरधः स्थितां संधिं स्मृत्वा देवं त्रियम्बकम् || ३९ || विनायकं च संस्मृत्य तथा वागीश्वरीं पुनः | लिङ्गनालात् समाकृष्य वायुमप्यग्रतो मुने || ४० || प्रणवेन नियुक्तेन बिन्दुयुक्तेन बुद्धिमान् | मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् || ४१ || निरुध्य वायुना दीप्तो वह्निरूहति कुण्डलीम् | पुनः सुषुम्नया वायुर्वह्निना सह गच्छति || ४२ || एवमभ्यसतस्तस्य जितो वायुर्भवेद् भृशम् | एवं षण्मुखीमुद्राभ्यासतः ब्रह्मरन्ध्रमिति || ३६ || यथा तथा चन्द्रमण्डलगिरितः अमृतप्रवाहो जायते | तेन भ्रूमध्यस्थज्योतिर्लिङ्गमभिषिच्य तदमृतास्वादनतो योगी विमृत्युः भवति | ततः पश्चात् || ३७-३८ || दक्षिणेतरगुल्फाभ्यां सीविनीं मेढ्रगुदान्तरालस्थनाडीं संपीडयन् जान्वोरधः- स्थितसंधिं शिवलिङ्गं स्मृत्वा विनायकं वागीश्वरीं च ध्यात्वा ततो लिङ्गनालादित्यादि || ३९-४२ || प्. १७८) वायुजयचिह्नानि प्रस्वेदः प्रथमः पश्चात् कम्पनं मुनिपुङ्गव || ४३ || उत्थानं च शरीरस्य चिह्नमेतज्जितेऽनिले | वायुजयसूचकाचिह्नान्याह- प्रस्वेद इति || ४३-४८ || वायुजयेन रोगपापविनाशवैराग्यपूर्विका ज्ञानोत्पत्तिः एवमभ्यसतस्तस्य मूलरोगो विनश्यति || ४४ || भगंधरं च नष्टं स्यात् सर्वरोगाश्च सांकृते | पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च || ४५ || नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् | पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि || ४६ || विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् | तेन पाशापहानिः स्यात् ज्ञात्वा देवं सदाशिवम् || ४७ || ज्ञानामृतरसो येन सकृदास्वादितो भवेत् | स सर्वकार्यमुत्सृज्य तत्रैव परिधावति || ४८ || ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः | अर्थस्वरूपमज्ञानात् पश्यन्त्यन्ये कुदृष्टयः || ४९ || आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षयः | क्षीणेऽज्ञाने महाप्राज्ञ रागादीनां परिक्षयः || ५० || प्. १७९) रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्शनम् | तयोर्नाशे शरीरेण न पुनः संप्रयुज्यते || ५१ || विचक्षणाः ज्ञानिनः || ४९-५० || विमर्शनं विशोधनं विनाशनमित्यर्थः || ५१ || इति षष्ठः खण्डः सप्तमः खण्डः प्रत्याहारलक्षणम्, तद्भेदाश्च अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने | इन्द्रियाणां विचरतां विषयेषु स्वभावतः || १ || बलादाहरणं तेषां प्रत्याहारः स उच्यते | यत् पश्यति तु तत् सर्वं ब्रह्म पश्यन् समाहितः || २ || प्रत्याहारो भवेदेष ब्रह्मविद्भिः पुरोदितः | यद्यच्छुद्धमशुद्धं वा करोत्यामरणान्तिकम् || ३ || तत् सर्वं ब्रह्मणे कुर्यात् प्रत्याहारः स उच्यते | अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः || ४ || काम्यानि च तथा कुर्यात् प्रत्याहारः स उच्यते | अथवा वायुमाकृष्य स्थानात् स्थानं निरोधयेत् || ५ || दन्तमूलात् तथा काष्ठे कण्ठादुरसि मारुतम् | उरोदेशात् समाकृष्य नाभिदेशे निरोधयेत् || ६ || प्. १८०) नाभिदेशात् समाकृष्य कुण्डल्यां तु निरोधयेत् | कुण्डलीदेशतो विद्वान् मूलाधारे निरोधयेत् || ७ || अथापानात् कटिद्वन्द्वे तथोरौ च सुमध्यमे | तस्माज्जानुद्वये जङ्घे पादाङ्गुष्ठे निरोधयेत् || ८ || प्रत्याहारोऽयमुक्तस्तु प्रत्याहारपरैः पुरा | यमनियमासनप्राणायामेयत्तां प्रतिपाद्य ततः प्रत्याहारस्वरूपमाह- अथेति || १-१२ || प्रत्याहारफलम् एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः || ९ || सर्वपापानि नश्यन्ति भवरोगश्च सुव्रत | वायुधारणात्मकप्रत्याहारः नासाभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः || १० || पूरयेदनिलं विद्वानापादतलमस्तकम् | पश्चात् पादद्वये तद्वत् मूलाधारे तथैव च || ११ || नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके | भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि धारयेत् || १२ || वेदान्तसंमतप्रत्याहारः देहे त्वात्ममतिं विद्वान् समाकृष्य समाहितः | आत्मनात्मनि निर्द्वन्द्वे निर्विकल्पे निरोधयेत् || १३ || प्. १८१) प्रत्याहारः समाख्यातः साक्षाद्वेदान्तवेदिभिः | एवमभ्यसतस्तस्य न किंचिदपि दुर्लभम् || १४ || किं बहुना- देहे इति || १३-१४ || इति सप्तमः खण्डः अष्टमः खण्डः पञ्चभूतेषु धारणा अथातः संप्रवक्ष्यामि धारणाः पञ्च सुव्रत | देहमध्यगते व्योम्नि बाह्याकाशं तु धारयेत् || १ || प्राणे बाह्यानिलं तद्वत् ज्वलने चाग्निमौदरे | तोयं तोयांशके भूमिं भूमिभागे महामुने || २ || हयरावलकाराख्यं मन्त्रमुच्चारयेत् क्रमात् | धारणैषा परा प्रोक्ता सर्वपापविशोधिनी || ३ || जान्वन्तं पृथिवी ह्यंशो ह्यपां पायवन्तमुच्यते | हृदयांशस्तथाग्न्यंशो भ्रूमध्यान्तोऽनिलांशकः || ४ || आकाशांशस्तथा प्राज्ञ मूर्धांशः परिकीर्तितः | ब्रह्माणं पृथिवीभागे विष्णुं तोयांशके तथा || ५ || अग्न्यंशे च महेशानमीश्वरं चानिलांशके | आकाशांशे माहाप्रज्ञ धारयेत्तु सदाशिवम् || ६ || प्रत्याहारलक्षणमुक्त्वा धारणालक्षणमाह- अथेति || १##- प्. १८२) आत्मनि धारणा अथ वा तव वक्ष्यामि धारणां मुनिपुंगव | पुरुषे सर्वशास्तारं बोधानन्दमयं शिवम् || ७ || धारयेद्बुद्धिमान् नित्यं सर्वपापविशुद्धये | ब्रह्मादिकार्यरूपाणि स्वे स्वे संहृत्य कारणे || ८ || सर्वकारणमव्यक्तमनिरूप्यमचेतनम् | साक्षादात्मनि संपूर्णे धारयेत् प्रणवे मनः | इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् || ९ || पुरुषे प्रतीचि स्वातिरिक्तसर्वग्रासतया शिवं धारयेत् | यद्वा- पुरुषे परमात्मनि सर्वशास्तारं प्रत्यञ्चं धारयेत् || ७-९ || इत्यष्टमः खण्डः नवमः खण्डः सवेशेषब्रह्मध्यानम् अथातः संप्रवाक्ष्यामि ध्यानं संसारनाशनम् | ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् || १ || ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं महेश्वरम् | सोऽहमित्यादरेणैव ध्यायेद्योगीश्वरेश्वरम् || २ || धारणामुक्त्वा सविशेषनिर्विशेषब्रह्मध्यानमाह- अथेति | ऋतं कर्मफलमपरं ब्रह्म | सत्यं ज्ञानफलं प्रं ब्रह्म || १-२ || प्. १८३) निर्विशेषब्रह्मध्यानम् अथ वा सत्यमीशानं ज्ञानमानन्दमद्वयम् | अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् || ३ || तथास्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् | न रसं न च गन्धाख्यमप्रमेयमनूपमम् || ४ || आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत | अहमस्मीत्यभिध्यायेद्देहातीतं विमुक्तये || ५ || अर्थजातमतीत्य ज्ञप्तिमात्रतया वर्तते इति अत्यर्थम् || ३ || अनाकाशमित्यादिपञ्चविशेषणतः पञ्चभूतवैलक्षण्यमुक्तं भवति || ४-६ || ध्यानफलम् एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः | क्रमाद्वेदान्तविज्ञानं विजायेत न संशयः || ६ || इति नवमः खण्डः दशमः खण्डः समाधिस्वरूपम् अथातः संप्रवक्ष्यामि समाधिं भवनाशनम् | समाधिः संविदुत्पत्तिः परजीवैकतां प्रति || १ || नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः | एकः सन् भिद्यते भ्रान्त्या मायया न स्वरूपतः || २ || प्. १८४) तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः | तथाकाशो घटाकाशो मठाकाश इतीरितः || ३ || तथा भ्रान्तैर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना | नाहं देहो न च प्राणो नेन्द्रियाणि मनो न हि || ४ || सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः | इति धीर्या मुनिश्रेष्ठ सा समाधिरिहोच्यते || ५ || ध्यानप्रकारमुक्त्वा समाधिप्रकारमाह- अथेति || १-२ || यस्मादेवं तस्मात् | यथाकाश एव घटाकाशः || ३-६ || ब्रह्ममात्रावशेषः सोऽहं ब्रह्म न संसारी न मत्तोऽन्यः कदाचन | यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः || ६ || समुद्रे लीयते तद्वत् जगन्मययनुलीयते | तस्मान्मनः पृथङ् नास्ति जगन्माया च नास्ति हि || ७ || यस्यैव परमात्मायं प्रत्यग्भूतः प्रकाशितः | स तु याति च पुंभावं स्वयं साक्षात् परामृतम् || ८ || यदा मनसि चैतन्यं भाति सर्वत्रगं सदा | योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् || ९ || यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति | सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा || १० || प्. १८५) यदा सर्वाणि भूतानि समाधिस्थो न पश्यति | एकीभूतः परेणासौ तदा भवति केवलः || ११ || यदा पश्यति चात्मानं केवलं परमार्थतः | मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतिः || १२ || यस्मादेवं तस्मात् मनः मत्तः पृथक् नास्ति || ७ || प्रत्यक्परचितोरेकत्वात् स्वयम् इत्यादि | स्वातिरिक्तप्रपञ्चे मायामात्रपदं गते स्वयमेव निष्प्रतियोगिकब्रह्ममात्रमवशिष्यते इति दर्शनोपनिषत्फलितोऽर्थः || ८-१२ || उपसंहारः एवमुक्त्वा स भगवान् दत्तात्रेयो महामुनिः | सांकृतिः स्वस्वरूपेण सुखमास्तेऽतिनिर्भयः || १३ || इति || आख्यायिकामुपसंहरति- एवमिति | इति शब्दो दर्शनोपनिषट्परिसमाप्त्यर्थः || १३ || इति दशमः खण्डः श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | दर्शनोपनिषद्व्याख्या लिखिता ब्रह्ममात्रगा || दर्शनोपनिषद्व्याख्याग्रन्थस्तु द्विशतं स्मृतः || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे नवतिसंख्यापूरकं दर्शनोपनिषद्विवरणं संपूरणम् ########### END OF FILE #######