#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00632 Uniform title: dattātreyatantra Manuscript : manuscript 4913 Shri Raghunatha Temple MSS Library Jammu Description: Notes: Data entered by the staff of Muktabodha under the direction of Anirban Dash. Diplomatic transcription of manuscript. Revision 0: Nov. , 21, 2023 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नं० - ४९१३ नाम - दत्तात्रेयतंत्रम् पत्रसंख्या - १५ पत्राणि विषयः - तंत्रम् पृ० १अ) ओंश्रीगणेशायनमः|| कैलासशिखरासीनंदेवदेवंमहेश्वरं दत्तात्रेयःपर्यपृच्छछंकरंलोकशंकरं १ कृतांजलिपुटोभूत्वापृच्छतोभक्तवत्सलः भक्तानांचहितार्थायकल्पतंत्रःसकथ्यते कलौसिद्धिमहाकल्प तंत्रविद्याविधानकं कथयंतिमहादेवदेवदेवंमहेश्वरं ३ संतिनानाविधालोकेयंत्रमंत्राभिचारकाः आगमोक्ता पुराणोक्तावेदोक्ताडामरंतथा ४ उडीशमादितंत्रेचकालचंडेश्वरेमते राधातंत्रेचुच्छिष्टेधारातंत्रेमृतेश्व रे ५ तत्सर्वकीलनंकृत्वाकलौवीर्यविवर्जिताः ब्राह्मणोकामक्रोधीचतस्यकारणहेतवे ६ विनाकील कमंत्राश्चतंत्रविद्याकथंशिव तंत्रविद्यालक्षणंसिद्धिकृपांकुरुममप्रभो ईश्वरुवाच|| शृणुसिद्धमहायोगि न्सर्वतंत्रविशारद तंत्रविद्यामहागुह्यंदेवानामपिदुर्लभं तवाग्नेकथितंदेवतंत्रविद्याशिरोमणिः गुह्यंगु ह्यंगुह्यंमहागुह्यंगुह्यंपुनःपुनः ९ गुरुभक्ताप्रदातव्यंअभक्तंनकदाचन शिवभक्तैकमनसंदुष्टचित्तासमन्वि ते १ शिरोदद्यात्पुरंदद्यान्नदद्यात्तत्रकल्पकम् यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं ११ अथातःसंप्रव क्ष्यामिदत्तात्रेयतथाशृणु कलौसिद्धिमहातंत्रंविनाकीलेनकथ्यते नतिथिर्नचनक्षत्रंनियमोनास्तिवासरः नव्रतंनियमंहोमंकालवेलाविवर्जितं १३ केवलंतंत्रमंत्रेणप्रेषधीसिद्धिरूपिणी यस्यसाधनमात्रेणक्षणं सिद्धिश्चजायते मारणंमोहनस्तंभंविद्वेषोश्चाटनंवशी आकर्षणंइंद्रजालंयक्षणीचरसायणं १५ कालज्ञा पृ० १ब) नंअंनाहारंहारंचंनिधिदर्शनं वंध्यापुत्रवतीयोगंमृतवत्सासप्तजीवनं १६ जपवादेवाजीकरणंभूतग्रह निवारणं सिंहव्याघ्रभयंसर्पवृश्चिकानांतथैवच १७ दधिससांमृतंससंनान्यथाशंकरोदितं गोप्यंगोप्यंमहा गोप्यंगोप्यंगोप्यंपुनःपुनः|| ओंपरंब्रह्मपरमात्मनेनमः|| उत्पत्तिस्थितिप्रलयकरायब्रह्महरिहरायत्रिगु णात्मनेसर्वकौतुकानिदर्शयदत्तात्रेयायनमः तंत्राणिसिद्धिंकुरुकुरुस्वाहा|| इतिश्रीदत्तात्रेयीश्वरसंवादे प्रथमःपटलः ||१|| अथमारणं ईश्वरुवाच चिताभस्मविषंयुक्तंधतुरंचूर्णसंयुतं यस्यांगेनिक्षिपेद्भौमे सद्योयातियमालयं १ भल्लातकोद्भवंतैलंकृष्णसर्पस्यदंतकं विषधतूरसंयुक्तंयस्यांगेनिक्षिपेत्मृ तिं २ नरास्थिचूर्णंतांवूलेभुक्तंमृत्युकरंध्रुवं सर्प्पास्थिचूर्णंयस्यांगेनिक्षिपेन्मृत्युमाप्नुयात् ३ गृहीत्वातु चिताकाष्टंभौमेचभरणीयुते निखनेचगृहद्वारेमासेमृत्युर्भविष्यति ४ कृष्णसर्प्पवशाग्राह्यातदूर्तिंज्वलय न्निशि धतुरयोजतैलेनकज्जलंनृकपालके चिताभस्मसमायुक्तंलवणंपंचसंयुतं यस्यांगेनिक्षिपेच्चूर्णं सचोयाप्तियमालयम् ६ गृहीत्वावृश्चिकंमांसंकंठकंचूर्णसंयुतं यस्यांगेनिक्षिपेच्चूर्णंनरोमृत्युर्भविष्यति ७ पंचदशीलिखेद्यंत्रंचिताभस्माविलेपतुः श्मशानाग्निक्षिपेद्यंत्रंभौमेचम्रियतेरिपुः उलूविष्टागृहीत्वा तुविषचूर्णसमन्वितम् यस्यांगेनिक्षिपेच्चूर्णंसद्योयातियमालयं ९ खरविष्टागृहीत्वातुविषचूर्णंसमन्वि पृ० २अ) तं यस्यांगेनिक्षिपेच्चूर्णंसद्योयातियमालयं १० रिपुविष्टागृहीत्वातुनृकपालेतुधारयेत् उद्यानेनिक्षिपेद्भू मौयस्यनामलिखन्सति ११ यावच्छष्यतिसाविष्टातावच्छत्रुर्मृतोभवेत् यस्मैकस्मैनदातव्यंनान्यथाशंकरो दितं कृकलावशातैलक्यंयस्यांगेविदुमानतः निक्षिपेत्म्रियतेशत्रुर्यदिरक्षतिईश्वरः १३ गृहेदीपेतुनिक्षि प्तेलवणंविजयायुतं यस्यनाम्नामृत्युसत्यंमासमेकंनसंशयः अथमंत्रः ओंनमःकालरूपायजमुकं भस्मकुरुकुरुस्वाहा अष्टोत्तरशतंजपेत्सिद्धिः ८ अथमोहनं ईश्वरुवाच तुलसीयेचचूर्णेतुसहदेवीरस पेषयेत् तिलकंचरविवारेमोहनंसर्वतोजगत् १ हरतालंअष्टगंधाकदलीरसपेषयेत् गोरोचनसमायु क्तंवचाकुष्टःसमन्वितं धूपंदीपंतथावस्त्रंमुह्यचैवविशेषतः राजाप्रजापशुपक्षीदर्शनान्मोहकारकः ३ गृहीत्वामूलतांवूलंतिलकंलोकमोहनं सिंदूरंकुंकुमंचैवगोरोचनसमन्वितं धात्रीरसससंयुक्तंचतिल कंलोकमोहनं मनःशिलाचकर्पूरंकदलीरसपेषयेत् ५ अनेनैवतुमंत्रेणतिलकंलोकमोहनं सिंदूरंचव चाखेतातांवूलरसपेषयेत् ६ अनेनैवतुमंत्रेणतिलकंलोकमोहनं भृंगुराजअपामार्गलजालसहदेविका ए भिस्तुलकंकृत्वात्रैलोक्यंमोहयेन्नरः ८ गृहीत्वोदंबरंपुष्पंवत्तिकृत्वाविचक्षणैः नवनीतेनप्रज्वाल्यकज्जलंपातये न्निशि कज्जलंचांचयेन्नेत्रेमोहनंसर्वतोजगत् यस्मैकस्मैनदातव्यंदेवानामपिदुर्लभं श्वेतगुंजारसंपुष्पंव्रह्मदंडो पृ० २ब) चमूलकं लेपमात्रशरीराणांमोहनंसर्वतोजगत् श्वेतदूर्वागृहीत्वातुहरितालंचपेषयेत् एभिस्तुतिलकंकृत्वा त्रैलोक्यंमोहयेन्नरः १२ श्वेतार्कमूलमादायश्वेतचंदनसंयुतं अनेनतिलकंभालेमोहनंसर्वतोजगत् गृही त्वातुलसीपत्रंछायाशुष्कंतुकारयेत् अष्टगंधंसमायुक्तंविजयावीजसंयुतं कपिलादुग्धमार्द्धेनवटकाटंक प्रमाणतः भक्षिताप्रातरूस्थायमोहनंसर्वतोजगत् १५ कटुतुंबीवीजतैलंजायेतपटवत्तिका कज्जलंचांजयेन्नेत्रेमो हनंभवतिध्रुवं १६|| अथमंत्र|| ओंव्रह्मपरमात्मनेनमः सर्वजनमोहनंकुरुकुरुस्वाहा १०८ इतिश्रीदत्रात्रेय तंत्रेमोहनंनामतृतीयःपटलः ३|| ईश्वरुवाच|| अथातःसंप्रवक्ष्यामिअग्निस्तंभनमुत्तमं १ वसागृहीत्यामंडूकं कौमारीरससंयुतम् लेपमात्रशरीराणांअग्निस्तंभःप्रजायते २ अर्कदुग्धंगृहीत्वातुकौमारीरसपेषयेत् लेपमात्रशरीराणांअग्निस्तंभःप्रजायते ३ कदलीरसमादायकुमारीरसपेषयेत् लेपमात्रशरीराणांअग्निस्तंभः प्रजायते ४ मंडूकवशपाग्राह्यंकर्पूरंचैवसंयुतं लेपमात्रशरीराणांअग्निस्तंभःप्रजायते ५ कौमारीकंदमादा यकदलीकंदसंयुतं लेपमात्रशरीराणांअग्निस्तंभःप्रजायते ६ कणामरिचसूण्ठीचचर्वयित्वापुनःपुनः दीप्तां गारैःनरोभुक्त्वानवक्त्रंदह्यतेक्वचित् ७ कौमारीचूर्णसंयुक्तंलिप्तदेहोनदह्यते आज्यंशर्करयापीत्वाचर्धचंनाग रंतथा ८ तप्तलोहलिहेपश्चान्नवक्त्रंदह्यतेक्वचित् अग्निस्तंभनयोगोयंनान्यथा * * करोदितं ९ अथमंत्रः ओंनमो पृ० ३अ) अग्निरूपायममशरीरेनस्तंभनंकुरुस्वाहा अष्टोत्तरशतंजपेत्सिद्धिः अथासनस्तंभनं|| चर्मकारस्यकुंडा निमलंग्राह्यंतथारजम् चंडालरुधिरंयुक्तंयस्यांगेताविनिक्षिपेत् १ यस्यस्थानेभवेत्स्तंभः सिद्धियोगेमुदा हृतं यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं २ श्वेतगुंजायुतंक्षिप्तनृकपालेतुमृत्तिकां वलिंदत्वातु दुग्धस्यतस्यवृथ्यंभवेतथा ३ तस्यशाखालताग्राह्यायस्यांगेताविनिक्षिपेत् तस्यस्थानेभवेत्स्तंभःसिद्धियोग मुदाहृतः ४ श्मशानाग्निगृहीत्वातुलवणंहोमकारयेत् यस्यनामभवेस्तंभःसिद्धियोगमुदाहृतः ५ अथमंत्रः ओंनमोदिगंबरायअमुकासनस्तंभंकुरुकुरुस्वाहा|| अष्टोत्तरशतंजपेत्सिद्धिः अवुद्धिस्तंभनं|| उक्षूविष्टागृहीत्वातुछायाशुष्कंतुकारयेत् तांवूलेरिपुदातव्यंवुद्धिस्तंभनमुत्तमं १ मृदंगवाजसोभाव्यंसि द्धार्थंश्वेतनामकं राभिस्तुतिलकंकृत्वावुद्धिस्तंभनमुत्तमं सहदेवीअपामार्गलोहमात्रेणनिक्षिपेत् तिलकं सर्वभूतानांवुद्धिस्तंभकरंभवेत् ३|| अथमंत्रः|| ओंनमोभगवतेशत्रुणांवुद्धिस्तंभनंकुरुस्वाहा|| अथशस्त्रस्तं भनं|| पुष्पार्केनसपुधृत्यविष्णुक्रांताचमूलकं वक्त्रेशिरसिधार्ययंतेशस्त्रसंहरणिनृणां १ नचुंबवह्निभूपालचौ रशत्रुभयंभवेत् जातीमूलंस्तक्षेक्षिप्रंशस्त्रस्तंभनमुत्तमं २ करेषुदर्शनामूलंबध्वास्तंभनशस्त्रकं केतकोम लकेनेत्रेताडमूलमुखेस्थितं ३ खर्ज्जूरचरणोहस्तेखड्गस्तंभःप्रजायते रातानित्रीणिमूलानिचूर्णतानिघृते पृ० ३ब) पिवेत् ४ अहोरात्रंततःशस्त्रैर्यावज्जीवंनवाध्यते आपातंशैकशंखंचसमूहंसन्निधारयेत् ५ गृहीत्वापुष्प नक्षत्रेअपामार्गस्यमूलकं लेपमात्रशरीराणांसर्वशस्त्रनिवारणं ६ खर्जूरमुखमप्यस्थाकटीवध्वाचकेतकी भुजदंडेस्थिताश्चार्कःसर्वशस्त्रनिवारणं ७ पुष्पार्केश्वेतगुंजायांमूलमुद्धृत्यधारयेत् हस्तेकंवभयंनास्ति संग्रामेनकदाचन ८ गृहीत्वारविवारेतुविल्वपत्राणिकोमलैः पिष्ट्याविषसमंसार्धशस्त्रस्तंभनलेपनं अथमंत्रः|| अहोकुंभकर्णमहाराक्षसनैकषागर्भसंभूतपरसैन्यस्तंभनमहाभगवान्रुद्रोज्ञापयति स्वाहा अष्टोत्तरशतंजपेत्सिद्धिः अथशस्त्रलेपनं विष्णुक्रांतानिवीजानिमंत्रभावेनग्राहयेत् तत्तैलंग्रा हयेद्यंत्रंविषंचैवसमन्वितम् १ मूलानितैलसंयुक्तंवटिकाक्रियतेनरः पचटंकप्रमाणानिशस्त्रलेपं तुकारयेत् रणेदारुणशस्त्रौथखंडंखंडंप्रजायते ४ पलायंतेशस्त्रदृष्ट्वायथायुद्धेषुकातराः वर्षाभवति शस्त्राणांनभयंविद्यतेक्वचित् ५ अथमंत्रः ओंनमोविकरालरूपायमद्वाबलपराक्रमायअमुकस्यभुजवलवंध यदृष्टिस्तंभपरअंगानिधूनपरपातपरमहीतलेहफट्स्वाहा अष्टोत्तरशतंजपेत्सिद्धिः अथसेनानिस्तंभनम् मंत्रभावनगृहीत्वाश्वेतगुंजाविधानकी निखरेचश्मशानेचमाषाणेनस्यदापयेत् १ अष्टौचयोगिनीपूजा ऐंद्रीमाहीश्वरीतथा वाराहीनारसिंहीचवैष्णवीचकुमारिका लक्ष्मीव्रह्मीचसंपूज्यगणपतिंवटुकंतथा पृ० ४अ) क्षेत्रपालंतथापूज्यसेनास्तंभंभविष्यति ३ पृथक्पृथक्वलिंदत्वादशानामविधानतः मासंमध्यंतथापुष्पं धूपंदीपंबलिंक्रया ४ यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं अथमंत्र|| ओंनमःकालरात्रिशूलधारिणी ममशत्रुसैन्यंस्तंभनंकुरुस्वाहा|| अष्टोत्तरशतंजपेत्सिद्धिः|| अथसेनापालनं भौमवारेगृहीत्वातुकाको लूकस्यपक्षयोः सेनानिसंमुखंगच्छेन्नान्यथाशंकरोदितं भौमवारेगृहीत्वातुकाकोलूकस्यपक्षयोः भूर्जप त्रेलिखेन्मंत्रंतस्यनामसमन्वितं गोरोचनंकाकोलवध्याकाकोलूकस्यपक्षयोः सेनानिसंन्मुखंगच्छेन्नान्यथाशं करोदितं ३ शब्दमात्रेसैन्यमध्येपलायतेतिनिश्चितं रात्राप्रमात्रागजादिश्चनान्यथाशंकरोदितं ४ अथमंत्रः ओंनमोभयंकरायखड्गधारिणेममशत्रुसैन्यंपलायनंकुरुकुरुस्वाहा अष्टोत्तरशतंजपेत्सिद्धिः श्मशानभ स्मनालिप्यंमृतकारणात्रमध्यतः रिपुनामसमायुक्तंनीलसूत्रेणबंधयेत् १ घृतकुंडेविनिक्षिप्तःपाषाणोप रिदीयते स्तंभनंकुरुतेसैन्यंसिद्धियोगमुदाहृतं २ अथगोमहिष्यादिस्तंभनं|| उष्ट्ररोमेगृहीत्वातुपशूपरिवि निक्षिपेत् पशूनांभवतिस्तंभःसिद्धियोगमुदाहृतः ३ अथमनुष्यस्तंभनं|| गृहीत्वारजस्वलावस्त्रंगोरोचनसम न्वितं यस्यनामलिपेत्कुंभेसद्योस्तंभनकारकः अथमेघस्तंभनं इष्टकाद्वयमादायश्मशानंगारसंपुटे स्था पयेत्वनमध्येचमेघस्तंभनमेतद्धीमूलदेवेनभाषितं ४ अथनौकास्तंभनं|| भरण्यांक्षीरकाष्टंचकीलपंचांगनि पृ० ४ब) क्षिपेत् नौकस्तंभनमेतद्धिमूलदेवेनभाषितं अथनिद्रास्तंभनं मूलं * * हसामधुकंपिपूनश्यंसमाचरेत् नि द्रास्तंभकरंभवेत् ५ अथजलस्तंभनं पद्मकंनामयंद्रव्यंसूक्ष्मचूर्णंतुकारयेत् वापीकूपतडाकादिनिक्षिपेत् वंधतेजलं ६ अथमंत्रः ओंनमोभगवतेरुद्राजलस्तंभयस्तंभयनःठःठःठःस्वाहा १०८ अथगर्भस्तंभनं ऐरंडवीजलोपेतंभुक्तस्तंभनगर्भकं धतूरमूलंकटिबध्वागर्भस्तंभनकरंपरं १ सिद्धार्थमूलशिरसिबद्ध्वा कांतिरमेनतु योनगर्भंधारयेत्स्त्रीमुक्तेनलभतेपुनः २ धतूरमूलचूर्णंतुयोनिस्थंगर्भस्तंभनं तंडुलीमूल तोयेनदातव्येतंडलवारिणा ३ धूपितोयोनिरंध्रेषुनिंवकाष्टेनयुक्तितः क्रतांतेदीयतेतत्रगर्भदुःखविव र्जिता ४ अथमंत्रः ओंगर्भस्तंभय * *? इतिश्रीदत्तात्रेयतंत्रेस्तंभनंनामचतुर्थःपटलः ४|| अथविद्वषन ईश्वरुवाच|| विद्वेषमरनीरीणांविद्वेषराजमंत्रिणः महाकौतुकविद्वेषंशृणुसिद्धप्रपल्लतः १ एकहस्तेका कपक्षेउलूपक्षेकरेपरे मंत्रयित्वामलत्यग्रंकृष्णमूलेनवेष्टयेत् २ अंजलिंचजलेनैवतर्प्यतेयद्वस्तपक्षके एवं समीदनंकुर्यादष्टोत्तरशतंजपेत् ३ गृहीत्वागजकेशंचगृहीत्वासिंहकेशेकं गृहीत्वामृत्तिकापादेपटो लीनिस्वनोद्भुवि ४ तस्योपरिचुग्निस्थाप्यमालतीहोमयेत् विद्वष्यंकुरुतेयस्यनान्यथाशंकरोदितं ५ माजौ रविष्टामादायविष्टामादायमूषकं पादानांमृत्तिकांयुक्तंपुली * क्षिपतेनरैः नीलवस्त्रेणसंवेष्ट्यमंत्रपीत्वा पृ० ५अ) शतेनच विद्वेषंतत्क्षणाच्चैवभ्रातरस्तातपुत्रकौ ७ गृहीत्वासर्पदंतस्यगृहीत्वाबभ्रुरोमकं चिताभस्म समायुक्तंगुटिकाकारयेन्नरः ८ उद्यानेनिरवनेद्भूमौमंत्रयित्वासनामकः विद्वेषंतत्क्षणाच्चैवना न्यथाशंकरोदितं ९ वभ्ररोमंकंचुकाहिसभायाधूपदीयते विद्वेषंजायतेससंनान्यथाशंकरोदितं १० गृहीत्वाश्वानरोमंचमार्जारस्यतथानखः सभायांदीयतेधूपंविद्वेषंचैवजायते ११ गृहीत्वामधु विष्टाचसर्पदंतस्यपेषयेत् ललाटेतिलकंकृत्वाविद्वेषंजायतेक्षणात् १२ गृहीत्वागजदंतंचगृहीत्वासिं (धुविष्टाचसर्पदंतस्यपेषयेत् ललाटेतिलकंकृत्वावि)हदंतकं पीषयेन्नवनीतस्यपेषलंविद्वेषकार कम् १३ अश्वकेशंगृहीत्वातुमहिषंकेशसंयुतं सभायांदीयतेधूपंविद्वेषोजायतेक्षणात् १४ गृही त्वासिंहकंठंतुनिखनोभुविदारतः कलहोजायतेनित्यंविद्वेषोजायतेतदा १५ यस्यकस्यभवेद्वैरं जीवाज्जीवभवेत्तदा तस्यादमृत्तिकायुक्तंशत्रुपांशुसमन्वितं १६ पुतलीक्रियतेसम्यक्श्मशानेनिखनो द्भुवि विश्वेषंजायतेसत्यंसिद्धयोगमुदाहृतं १७ अमंत्रः|| ओंनमोनारायणायअमुकंअमुकैःसहविद्वे षकुरुकुरुस्वाहा|| इतिश्रीदत्तात्रेयतंत्रेईश्वरसंवादेविद्वेषनामपंचमःपटलः ५|| व्रह्मदंडीचिता भस्मशिवलिंगेप्रलेपयेत् सिद्धार्थंचैवसंयुक्तंशनिवारेक्षिपेद्गृहे उच्चाटयंभवेत्तस्य * सस्त्रीपुत्रबांध पृ० ५ब) वैः पशुविनामंत्रेणसिद्धिश्चसिद्धियोगमुदाहृतं ३ गृहीत्वागर्धभोधूलिवामपादेननिश्चिते म ध्याह्नेभौमवारेचयद्गृहेनिक्षिपेन्नरः ४ उच्चाटनंभवेत्तस्यजायतेमरणांतिकम् * * * विनामंत्रेण सिद्धियोगमुदाहृतः सिद्धार्थंशिवनिर्माल्यंयद्गृहेनिखिनेन्नरः उच्चाटनंभवेत्तस्युद्धृतेचपुनः सुखी ६ काकपक्षेरवौवारेयद्गृहेनिखनेन्नरः उच्चाटनंभवेत्तस्यनान्यथाशंकरोदितं ७ उलूक पक्षेकुजेवारेयद्गृहेनिखनेन्नरः उच्चाटनंभवेत्तस्यविनामंत्रेणसिद्धति उलूविष्टागृहीत्वातुसिद्धा र्थंसहसंयुतं यस्यांगेनिखिपेच्चूर्णंसचयश्चाटनंकरं ९ गृहीत्वोदंबरंकीलंमंत्रेणचतुरांगुलम् तं यस्यनिखनेगेहेस्तद्देश्योश्चाटनंभवेत् १० काकोलूकस्यपक्षस्यहुत्वाज्येष्टाधिकंशतं यंनाम्नामंत्रयो गेनस्तद्देश्योश्चाटनंभवेत् ११ गृहीत्वानस्थिकीलंतुनिस्वन्याचतुरांगुलं मंत्रयुक्तमरिद्वारेसत्यमुच्चाटनंभ वेत् १२ अथमंत्रः ओंनमोभगवतेरुद्रायदंष्ट्राकरालायअमुकसपुत्रवांधवैःसहहनरदहरदववरशीघ्रमु च्चाटयहूंफट्स्वाहाठःठः अष्टोत्तरशतंजपेत्सिद्धिः|| इतिश्रीदत्तात्रेयतंत्रेईश्वरसंवादेउच्चाटनंनामषष्टःपटलः अथसर्वजनवशीकरणं ईश्वरुवाच व्रह्मदंडोवचःकुष्टंचूर्णंतांबूलदापयेत् त्वौवारेक्रियतेयोगंसर्वलोक वशंकरम् १० गृहीत्वावटमूलंचजलेनसहघर्षयेत् विभुत्यासंयुतंभालेतिलकंलोकवश्यकृत् पुष्योपुन पृ० ६अ) र्नवामूलंकरेसप्ताभिमंत्रितः वध्वासर्वत्रपूज्यंतेसर्वलोकवशंकरं ३ अपामार्गस्यमूलंतुकपालपयपेषयेत् ललाटेतिलकंकृत्वावशीकुर्याजगत्त्रयं ४ गृहीत्वासहदेवीचछायाशुष्कंतुकारयेत् तांवूलदंततःचूर्णंसर्व लोकवशंकरं ५ गोरोचनसहदेवीभ्यांतिलकंलोकवश्यकृत् गृहीत्वोडंवरंमूलंललाटेतिलकंकृतम् ६ प्रि योभवतिसर्वेषांदृष्टमात्रेनसंशयः तांवूलेनप्रदातव्यंसर्वलोकवशंकरम् ७ देवदालोचसिद्धार्थंगुटिका कारयेद्बुधः मुखंनिक्षिप्यसर्वेषांसर्वलोकवशंकरं ८ कुंकुमंतुगरंकुष्टंहरितालमनःशिला अनामिका याःरक्तेनतिलकंसर्ववश्यकृत् ९ गोरोचनंपद्मपत्रंप्रियंगुरुक्तचंदनं एकीकृत्यांजपेन्मंत्रंसर्वलोकवशंक रं गृहीत्वाश्वेतगुंजायाछायाशुष्कंतुकारयेत् कपिलापयसार्द्धेनतिलकंलोकवश्यकृत् ११ तन्मूलंपत्रतां वूलंसर्वलोकवशंकरं तन्मूलंलेपयेद्देहंसर्वलोकवशंकरं १२ श्वेतदुर्वागृहीत्वातुकपिलादुग्धपेषयेत् लेपमात्रशरीराणांसर्वलोकवशंकरं १३ श्वेतार्कंचगृहीत्वातुछायाशुष्कंतुकारयेत् कपिलापयसार्द्धेन तिलकंसर्ववश्यकृत् १४ बिल्वपत्राणिसंगृह्यमातुलिंगीतथैवच अजादुग्धेनसंपष्यतिलकंलोकवश्यकृत् १५ कौमारीकंदमादायविजयावीजसंयुतं तिलकंक्रियतेबालेसर्वलोकवशंकरं १६ हरितालंअश्वगंधा सिंदूरंकंदलीरसम् तिलकंक्रियतेभालसर्वलोकवशंकरं १७ अपामार्गस्यबीजानिछागदुग्धेनपेषयेत् पृ० ६ब) लेपमात्रशरीराणांसर्वलोकवशंकरं १८ हरितालंतुलसीपत्रंकपिलादुग्धेनपीषयेत् अनेनतिल कंभालेसर्वलोकवशंकरं धात्रीफलरसेभाव्यंअष्टगंधमनःशिला अनेनतिलकंवालेसर्वलोकवशंक रं २० अथमंत्रः|| ओंनमःसर्वलोकवशंकरायकुरुकुरुस्वाहा|| अष्टोत्तरशतेजपेत्सिद्धिः|| इतिश्रीदत्तात्रेय तंत्रेवशीकरणंनामसप्तमःपटलः|| अथस्त्रीवशीकरणं|| ईश्वरुवाच रविवारेगृहीत्वातुकृष्णधतूरपुष्पकं शाखालतागृहीत्वातुपत्रमूलंतथैवच १ पिष्ट्वाकर्पूरसंयुक्तंकुंकुमंरोचनेस्यमं तिलकंस्त्रीवशंकुर्यात्यदि साक्षादरुंधती २ काकजंघावचाकुष्टंशुक्रशोणितमिश्रितं दत्तेनभोजनेवालाश्मशानेरुदतेसदा ३ चि ताभस्मवचाकुष्टंकुंकुमंरोचनंसमं चूर्णांस्त्रीशिरसिशिक्षिप्तावशीकरणमद्भुतं ४ जिह्वामलंदंतमलंना साकर्णमलंतथा तांवूलेनप्रदातव्यंवशीकरणमद्भुतं ५ भौमवारेलवमतुलिंगछिद्रनिशिक्षिपेत् बुधवा रेसमुद्धृत्यखानेपानेवशीभवेत् ६ करेपादेनषीनांचतद्भस्मक्रियतेनरः खानेपानेप्रदातव्यंवशीकरणमद्भुतं शनिवारेगृहीत्वातुवनितायांशुपादुके वामेषुतिलकंकृत्वातत्केशंसंयुतंक्रते ८ नीलवस्त्रेणसंवद्यसवीर्ययं संयुतंभगं सिंधूरंलेपितंकृत्वानिखनेद्वारवामके ९ उल्लंघेवशमायातिप्राणैरपिधनैरपि यस्मैकस्मैनदात व्यंदेवानामपिदुर्लभं व्रह्मदंडीचिताभस्मयस्यांगेनिक्षिपेन्नरः वशीभवतिसानारीनान्यथाशंकरोदितं पृ० ७अ) पुंगीफलंगृहीत्वातुचंद्रवारेषुतेमृगे खंडकंवीर्यसंयुक्तंतांबूलेवश्यकारकः १२ तांवूलंरसमध्येचपिष्ट्वाताल मनःशिला भौमेतंतिलकंकृत्वावशीकरणमद्भुतं १३ सिंदूरंकदलीकंदंपेषयेद्गुरुवासरे अनेनतिलकं कृत्वासत्यंनारीवशीभवेत् १४ गोदंतनरदंतंतुपिष्ट्वातैलेनपाचयेत् * पिस्तुतिलकंकृत्वाकांतावश्यकरंप रं १५ लिंगमलंगृहीत्वातुखानेपानेप्रदापयेत् वशीभवतिसानारीविनामंत्रेणसिध्यति १६ स्वमूत्रंसंयु तंकुष्टंदतंतांवूलवश्यकृत् जिह्वामलंजातिफलंतांवूलेवश्यकरंपरं १७ उक्षूमांसंगृहीत्वातुखानेपानेप्र दापयेत् सिध्ययोगमिदंकथ्यंविनामंत्रेणसिध्यति यवचूर्णंहरिद्राचस्वमूत्रंघृतसर्षपा तांवूलरससंयुक्तंअ नेनमदयेत्सुधी मु * भवतिपद्माभंपादौयस्तुजलोपमो प्रियोभवतिसर्वेषांस्त्रीषुराजकुलेषुच गोरोचनंपद्म पत्रपेषयेतिलकंकृतं शनिवारेकृतेयोगेवशीभवतिसास्त्रिया २१ गृहीत्वामालतीपुष्पंपटसूत्रेणवर्ति का भृगुवारेनृकपालेरोरंडतैलेनकज्जलं २२ कज्जलंचांजयेन्नेत्रेदृष्टमात्रवशोभवेत् विनामंत्रेण सिध्यतिनान्यथाशंकरोदितं २३ अथमंत्रः|| ओंनमःकामाख्यादेवीअमुकीमेवशंकुरुस्वाहा|| अष्टोत्तरश तंजपेत्सिद्धिः|| इतिश्रीदत्तात्रेयतंत्रेस्त्रीवशीकरणनामअष्टमःपटलः|| ८ अथपुरुषवशीकरणं|| गोरोचनंयो निरक्तंकदलीरससंयुक्तं एभिस्तुतिलकंकृत्वायतिवश्यकरंपरम् पंचांगंदाडिमीपिष्ट्वाश्वेतसर्षपसंयुतं यो पृ० ७ब) योनिलेपंपतिंदासंकरोमपिचदुर्भगा २ मालतीपुष्पसंयुक्तंकटुतैलंसयाचितं एतास्तुप्रभगारानारीरतौमो दपतेपतिं ३ भौमेपुंगीफलंभुक्तंशताविष्टंसमाचरेत् खंडंकेजलप्रक्षातांवूलेपतिवश्यतां लवंगंमलजि ह्वाचखानेपानेप्रदापयेत् पतिवश्यकरंसत्यंदासादासस्तुजायते अथमंत्रः|| ओंनमोमहायक्षणीपतिंमे वश्यकुरुकुरुस्वाहा|| अथराजवश्यं ईश्वरुवाच कुंकुमंचंदनंचैवकर्पूरंतुलसीदलं गवीक्षीरेनतिल कंराजावश्यकरंपरं १ करेसुदर्शनंमूलंवद्धाराजप्रियोभवेत् सिद्धामूलंहरेत्पुष्पंकट्यांबद्ध्वानृपोप्रियः २ हरितालंअष्टगंधाकर्पूरंचमनःशिला अजाक्षीरेणतिलकंराजावश्यकरंपरम् ३ गृहीत्वासुदर्शनामूलं पुष्पनक्षत्रवासरे कर्पूरंतुलसीपत्रंपेषयेल्लिप्तवस्त्रके ४ विष्णुक्रांतानिवीजानिमैलप्रज्वाल्यदीपकं कज्जलंपातयेद्रात्रौशुचिपूर्यसमाहितः कज्जलंचांजयेन्नेत्रेराजवश्यकरंपरं चक्रवर्तिभवेद्वश्यंनान्यलो केषुकाकथा ६ अपामार्गस्यवीजानिगृहीत्वापुष्पभास्करे खानेपानेप्रदातव्यंराजावश्यकरंपरं|| अथ मंत्रः|| ओंनमोभास्करायत्रिलोकात्मनेअमुकमहीपतिंवश्यंकुरुकुरुस्वाहा अष्टोत्तरशतंजपेत्सिद्धिः|| इतिश्रीदत्तात्रेयतंत्रेईश्वरसंवादेराजवश्यनामनवमःपटलः ९ अथाकर्षणं ईश्वरुवाच|| आकर्षण विधिंवक्ष्येशृणुसिद्धिप्रयत्नतः राजाप्रजाचसर्वेषांसमंआकर्षणंभवेत् कृष्णधतूरपत्राणिरसगोरोचनं पृ० ८अ) युतं भूर्जपत्रेलिखेन्मंत्रंश्वेतकर्वीरलेखनी यस्यनामलिखेन्मध्येखदिरांगारेणतापयेत् शतयोजनमा यातिनान्यथाशंकरोदितम् ३ अनामिकायारकेन * लिखेन्मंत्रभूर्जके यस्यमध्येलिखेन्नाममधुमध्ये चनिक्षिपेत् ४ तदाआकर्षणंयातिसिद्धियोगमुदाहृतं यस्मैकस्मैनदातव्यंदेवानामपिदुर्लभम् नृक पालेलिखेन्मंत्रंगोरोचनसहोरचवै तापयेत्खदिरांगारे * स्त्रिसंध्यंप्रपलतः ६ उर्वशीमपिमायाति नान्यथाशंकरोदितम् मस्मैकस्मैनदातव्यंदेवानामपिदुर्लभम् ७|| अथमंत्रः|| ओंनमादिरू पायअमुकंआकर्षणंकुरुकुरुस्वाहा|| अष्टोत्तरशतंजपेत् सिद्धिः|| || इतिश्रीदत्तात्रेयतंत्रेईश्वरसंवादे आकर्षणंनामदशमःपटलः|| || १०|| पृ० ८ब) अथयक्षिणीसमंत्रसाधनं ईश्वरुवाच शृणुसिद्धिमहायोगिन्यक्षिणीमंत्रसाधनं यस्यसाधनमात्रेणनृणांसर्व मनोरथाः १ अश्वस्यवृक्षमारुस्वजपेदेकाग्रमानसः धनदायीयक्षिणीचधनमाप्नोतिमानवः २ ओंधनदायि नीमेधनंकुरुकुरुस्वाहा अयुतंजपेत् सिद्धि चूतवृक्षसमारूढोजपेदेकाग्रमानसः अपुत्रोलभतेपुत्रंनान्य थाशंकरोदितं ओंह्रींह्रींहुंपुत्रंकुरुकुरुस्वाहा|| अयुतंजपेत्सिद्धिः|| वटवृक्षंसमारूढोजपेदकाग्रमानसः महालक्ष्मीयक्षिणीचस्थिरालक्ष्मीचप्राप्यते|| ओंमहालक्ष्म्येनमः अयुतंजपेत्सिद्धिः अर्कमूलंसमारूढो जपेदेकाग्रमानसः यक्षिणीचजयानामसर्वकार्यकरीजया ओंयंयंकुरुकुरुस्वाहा धात्रीफलसमारू ढोजपेदेकाग्रमानसः अशुभक्षयपक्षिन्योअशुभक्षयकारिणी ६ ओंऐंक्लींनमः अयुतंजपेत्सिद्धिः तुल सीमूलसमारूढोजपेदेकाग्रमानसः अकस्माद्राज्यमाप्नोतिनान्यथाशंकरोदितं ७ ओंक्लींक्लींनमः आ युतंजपेत्सिद्धिः अंकोलवृक्षंसमारूढोजपेदेकाग्रमानसः राजाधिराजाभवतिनान्यथाशंकरोदितं ओंह्यों नमः अयुतंजपेत्सिद्धिः अंशमूलसमारूढोजपेदेकाग्रमानसः सर्वकार्याणिसिद्ध्यंतिनान्यथाशंकरो दितं ओंवांमयोनमः अयुतंजपेत्सिद्धिः अपामार्गसमारूढोजपेदेकाग्रमानसः वाचासिद्धिर्भवेत्सत्यंना न्यथाशंकरोदितं श्रीभारतीनमः अयुतंजपेत्सिद्धिः उडुंवरंसमारूढोजपेदेकाग्रमानसः भवेत्पुस्त पृ० ९अ) कसंसिद्धिःसर्वविधचतुर्दश ओं श्रींशारदायैनमः अयुतंजपेत्सिद्धिः निर्गुंडीचसमारूढोजपेदेकाग्रमानसः विद्यामाप्तिभवेत्सत्यंनान्यथाशंकरोदितं ओंसरस्वत्यैनमः अयुतंजपेत्सिद्धिः खेनगुंजासमारूढोजपेदेकाग्रमान सः संतोषनामपक्षोन्यदेयंचवांछितंप्रदा १४ ओंजगन्मात्रेनमः|| अयुतंजपेत्सिद्धिः एकलिंगमहादेवत्रि कालंपूजयेत्सदा धूपंदत्त्वाजपेन्मंत्रंत्रिसंध्यंसहस्रकं मासमेकंननोयाति * पणीसुरसुंदरी देवीदारिद्र दग्धोस्मिमतन्मेनाशकरीभवः दत्वार्घप्रणमेन्यंत्रीपूतेसात्वंकिमिच्छति ततोददातिसातुष्टाविनायुश्चिर तीवितां १७ येंह्रींआगच्छसुरसुंदरीस्वाहा कुंकुमेनसमालिख्यभूर्जपत्रेसलक्षणा प्रतिपदासमारभ्यपूजा कृत्वाजपेत्ततः १८ त्रिसंध्यंत्रिसहस्रंतुमासांतेपूजयेन्निपिशि स्वजपेत्वर्धरात्रेषुसमागत्यप्रयच्छति १९ दिने दिनेसहस्रैकंप्रत्यवत्दृश्यहंपरितोषिता यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं २० ओंअनुगिणिमैथुन प्रियेस्वाहा|| शुक्लपक्षेजपेद्यावत्तावत्पश्यतिचंद्रमा प्रतिपत्पूर्वमारभ्येकलक्षमिदंजपेत् २१ अमृतं पक्षिणीनामअमृतंदीयतेसदा यस्मैकस्मैनदातव्यंपीत्वायदमरोभवेत् २२ ओंह्रींचंडिकीहंसह्रींक्लींस्वाहा पू र्वमेवायुतंजप्त्वाकृष्णाकन्याभिमंत्रिता हस्तपादप्रलेपेनस्वप्नेवक्तिशुभाशुभं त्रैलोक्येपादशीवातीतादृशीक थयत्फलं कर्णपिशाचिनीनामनान्यथाशंकरोदितं २४ ओंह्रींचंडिवेगीनिचस्वरदेस्वाहा अयुतंजपेत्सिद्धिः पृ० ९ब) अलंवभूमिकापुष्पेतथासर्प्पाक्षिमूलिका ग्राह्यामिमंत्रितंयत्नात्रक्तसूत्रेणवेष्टयेत् २५ मूर्ध्निगंधंकृतेस्व प्नंवक्तव्यंचशुभाशुभं त्रिलोक्यांपादशीवार्तातादृशीकथयत्फलं २६ ओंनमोभगकृत्वागोप्यंनैवप्रकाशयेत् विनिनामंत्रमिताद्धिगोप्यंसिद्धिप्रदायकम् २७ इतिदत्तात्रेयतंत्रीसायनंनामत्रयोदशः १३|| अथकालज्ञानं ईश्वरुवाच मनुष्याणांहितार्थायमृत्युज्ञानंचकथ्यते शृणुसिद्धमहायोगिन्दत्तात्रेयमहामुने देयायगुरु भक्तायनदद्यादुष्टमानसे यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं नदृष्टोनासिकायेननेत्रभ्रूमनदृष्टकं षण्मासाभ्यंतरेमृत्युर्यदियातिपितामहः ३ नदुष्टो दुष्कृधतीयेनसप्तरुषितमध्यतः षण्मासाभ्यंतरेमृ यदिरक्षतिईश्वरः * नसमयकालेचमृत्युज्ञानंजिगीक्षते हृदिशुष्कंभयेत्तस्यषण्मासांतेनजीवति ५ बुद्धि ज्ञानंक्रियाहीनंविपरीतस्तुजायते द्विमासेनभवेन्मृत्युसत्यमेवनसंशयः * तिचालंनपादानांखंडितंपदं मासेनमृत्युमाप्नोवा * प्यपक्षेविशेषतः ७ द्वादशंदलचक्रस्थंमृत्युकालेचवीक्षितं चैत्रादौनामसंख्यानिलि खतेद्वादशदले मेष्यादौराशयःस्थाप्यसूर्यग्रह * लिख्यते जन्मृक्षंजन्मराशिवीक्षतेमृत्युकालके शनिभौ मेकेतुराहौविद्धे * कष्टता कुक्षविद्धेराशिविद्धेकालेमृत्युनसंशयः सूर्यविद्धेमनस्तापंबुधसौम्यप्रवर्तते यात्रायांतीर्थजीवेचचंद्रस्यसुखसंपतिः ११ भृगौवेधेराज्यलाभंमासेमासेविचारयेत् वर्षद्वादशमासानि पृ० १०अ) मृत्युकालेवदंतिच १२ अहोरात्रद्वयंपश्यंतिपिंगलायासदागतिः तस्यवर्षद्वयंप्रोक्तंजीवितंतत्ववेदिभिः अहोरात्रपटैकत्रवहतोपत्रमाहनः तदातस्यभवसायुःसंपूर्णवत्सरेत्रयं १४ त्रिरात्रंवहतेयस्यवायुरे कपुटेस्थितः संवत्सरयदावायुःप्रवदंतिमुनीश्वरः १५ रात्रौचंद्रदिवासूर्येश्वासमेकोनिरंतरं भवेन्मत्पुन रस्तस्यषण्मासाभ्यंतरेध्रुवं १६ शशांकंचारयेद्रात्रौदिवायस्यदिवाकरः इत्याभ्यासरतोनित्यंसयोगीनात्रसं शयः १७|| अथमंत्रः|| ओंनमः कालज्ञानंकुरुकुरुस्वाहा अयुतंजपेत्सिद्धिः इतिश्रीदत्तात्रेयतंत्रे कालज्ञानंनामचतुर्दशःपटलः|| अथअनाहारं अंत्राणिकृकलासस्यमज्जाकरंजवीजकं पिष्टातुवटि काकृत्वात्रिलोहेनतुवेष्टितं १ तावक्रेधारयेद्योसौक्षुत्पिपासानबाध्यते यस्मैकस्मैनदातव्यंनान्यथाशं करोदितं २ पद्मबीजमहाशालीछागदुग्धेनभक्षयेत् साज्यंतपायसंकृत्वाभोजनंद्वादशीदिनं ३ अपा मार्गस्यवीजानिदुग्धाज्याभ्यांतुपाचयेत् पापसंघटिकाक्षारमसानित्य * धापहं कोकिलक्षस्यवीजानिविज यावीजसंयुतं तुलसीवीजसंयुक्तंतांवूलंमूलसंयुतं छागदुग्धेनसंपेक्षवटिकाक्रियतेनरः भक्षणंप्रात रुत्थायक्षुत्पिपासानबाध्यते पद्मबीजअपामार्गस्तुलसीबीजसंयुतं धात्रीवीजंचसंयुक्तंवटिकाक्रियतेनरः ७ तस्यभक्षणमात्रेणसत्योपरिगवांपयः क्षुत्पिपासाहरंनित्यंनान्यथाशंकरोदितं औषधंकुनतीमहिहस्तो पृ० १०ब) श्चलनकांडसा रोरंडसदृशैःपत्रैः पुष्पैश्चातु * लक्षयेत् तस्याकंदंसमादायतांवूलेटेकमात्रतः भक्ष णंप्रातरुत्थायक्षत्पिपासानिरंतरं १० अथमंत्रः ओंनमःसिद्धिरूपायममशरीरेअमृतंकुरुकुरुस्वाहा इतिश्रीदत्ता० अनाहारंनामपंचदशःपटलः १५ ईश्वरः बंधूकेनापिवृक्षस्यपीतंकृत्वाफलेयुताः यो सौभुक्तंपरेसार्द्धंभोजनंभीम * नवत् १ संध्यायाशुष्कवृक्षस्यकर्तव्यंमपिमंत्रितः प्रातःपुष्पाणिसंगृ ह्यमालाशिरसिधारयेत् २ कौपीनंसपरित्यज्यभोजनंभीमसेनवत् यस्मैकस्मैनदातव्यंसिद्धियोगमु दाहृतं तद्वातपत्रमादायकपिलाश्चनदंतकं कन्योंते * द्वयंवद्ध्वाभोजनंभीमसेनवत् ४ गृहीत्वामं त्रितान्मंत्रीविभीततरुपल्लवान् धारयेद्दक्षिणेहस्तेविंशसाहारभुग्भवेत् ५ अधरंकृकलासस्यशि खास्थानानिवंचयेत् वायुपन्नरमैश्वर्यंसत्यंभुक्तेनपर्वतं ६ अथमंत्रः सर्वभूताधिपतयेग्रामशोषय भैरवीआज्ञापयतिस्वाहा इतिदत्तात्रे० आहारकारणंनामषोडशः पटलः अथनिधिदर्शनं ईश्वरु वाच शिरीषवृक्षपंचांगंकटुतैलेनपाचयेत् विषंचैवसमायुक्तंगंधकंचपुनःशिला १ धूपंदत्वाजपेन्मं त्रंनिधिस्थानेविशेषतः पलायंतेनिधित्यक्त्वायथायुद्धेषुकातरा २ राक्षसैर्भूतवेतालैर्देवदानवपन्नगैः सुखेननिधिगृह्णातिरविघ्नै रपिभूयते अथमंत्रः|| ओंनमोबिघ्ननाशनायनिधिग्रहणंकुरुकुरुस्वाहा पृ० ११अ) अष्टोत्तरशतंजपेत्|| इतिश्रीदत्ता० निधिदर्शनंनामसप्तदशःपटलः १७ अथबंध्यागर्कणं ईश्वरुवा च जन्मबंध्याकाकवंध्यामृत्युवत्साक्वचित्स्त्रियः तासांपुत्रोहितार्थायशंभुनासूचितंपुरा १ पत्रमेकंपला शस्यागर्भिणीयसांचितं क्रत्यंतेतानिभुक्तानिवंध्याभवतिपुत्रिणी २ एवंसप्तदिनंकुर्यात्सोकोद्वेगविवर्जि ता * यतिसगतासाचनात्रकार्याविचारणात् क्षीरशाल्पनुमुद्गंचलघ्वाहांरंप्रदापयेत् एकमेवतुरुद्रा णांसाक्षीरकर्षमात्रकं एकवर्णगवांक्षीरुक्रतुकालेप्रदापयेत् एवंसप्तदिनंकुर्यावंध्यापुत्रवतीभवेत् यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं देवदालीसमूलंतुग्राहयेत्पुष्पभास्करे क्रत्यंतेतानिपीता निएकवर्णगवांपयः एवंसपदिनंकुर्याद्वंध्यापुत्रवतीभवेत् ७ उद्वेगभयशोकंचदिवारात्रंचवर्ज येत् शीततोयेनसपिष्टंसरपंखीचमूलकं वर्षपीत्वालभेद्गर्भसनारीपतिसंगताः समूलांचमहादे वीग्रह्यंपुष्प * भाष्करे ९ छायाशुष्कंचतच्चूर्णंएकवर्णगवांययु पूर्ववत्पिवतीनारीबंध्याभवतिपुत्रिणी १० यस्मैकस्मैनदातव्यंसिद्धियोगमुदाहृतं नागकेसरिकंचूर्णंनतूनंगव्यदुग्धतः ११ पिवेत्सप्तदिनंदु ग्धंघृतभोजनमाचरेत् इत्येतेलभतेगर्भंसनारीपतिसंगतः १२ सिद्धियोगमिदंचूर्णंनान्यथाशंकरोदितं पुत्रजीरकसंपत्रैकंपिवेत्क्षीरंऋतौचया १३ पतिसंगीचसानारीसत्यंपुत्रवतीभवेत् कदंबपत्रश्वेतं * बृ पृ० ११ब) हतीमूलमेवच १४ एतानिसप्तभागानिअजाक्षीरेणपेषयेत् त्रिरात्रंपंचरात्रंचपिवेदेतन्महौषधं १५ सत्यंपु त्रवतीवंध्यानान्यथाशंकरोदितं गोक्षीरकस्यवीजंतुपिवेन्निर्गुंडिकारसैः १६ त्रिरात्रंपंचरात्रंवावंध्याभवतिपु त्रिणी ककेटिवीजचूर्णंतुमेकवर्णंगवांपयः १७ क्रतौचपिवमानेनवंध्याभवतिपुत्रिणी अथमंत्रः| ओंन मःसिद्धिरूपायअमुकींपुत्रंकुरुस्वाहा १०८ इतिश्रीदत्ता०बंध्यागर्भकरणंनामअष्टादशःपटलः १८ अथमृ तजीवनं|| ईश्वरुवाच गर्भसंजातमात्रेणपक्षामासाश्चवत्सराः म्रियतेद्वित्रिवर्षादियस्यमामृतवत्सकां १ गृ हीत्वाशुभनक्षत्रेअपामार्गस्यमूलकं गृहीत्वालक्ष्मणामूलंएकवर्णगवापयः २ पीत्वासलभतेगर्भंदीर्घजी विसुतोभवेत् यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं ३ वध्याकर्कोटिकाकंदंभृंगराजेनपेषयेत् ऋतुका लेसमाह * दीर्घजीवीसुतोभवेत् अन्नयोनिप्रकर्तव्यंयथाशंकरभाषितं मार्गशीर्षेथवा * ज्येपूर्णायांलेपि तेगृहे ५ नूतनंकलशंपूर्णंगंधतोयेनकारयेत् शाखाकलसमायुक्तंनवरत्नसमन्वितं ६ सुवर्णमुद्रिका युक्तषट्कोणंमंडलंस्थितं तन्मध्येपूजयेद्देवीमेकांतंनामविश्रुता ७ गंधपुष्पाक्षितैर्धूर्वैर्लेपैर्नैवेद्यसंयुतैः अर्चयेद्भक्तिभावेनदग्धमाषपयस्तथा ८ वाराहीचतयाचैंद्रीव्राह्मीमाहेश्वरीतथा कौमारीवैष्णवीदेवीषट् सुपात्रेषुमातरः ९ पूजयेन्मंत्रभावेनदधिपिंडांतकारयेत् सप्तसंख्याप्रमाणानिषट्संख्याषट्प्रमाणतः पृ० १२अ) सप्तमंतुपृथक्धृत्वाशुचिस्थानेविशेषतः तद्भक्तंगृहमागच्छेत्कन्यकावटकस्त्रियः भोजयेद्दक्षिणां दत्त्वाप्रणतस्यकारयेत्ततः विसृत्यदेयतांचाश्रनपातत्कालमोदकं १२ स्वकुलंवेपधीमानशुभनंदिरात० विसरीतिनपुनर्कार्ययोगतावत्सुसिद्धिदं १३ प्रतिवर्षमिदंकुर्यादीर्घजीविसुतोभवेत् सिद्धियोगमिदं ज्ञातंनान्यथाशंकरोदितं १५ अथमंत्रः ओंपरंव्रह्मपरमात्मनेअमुकीगृहेदीर्घजीविसुतंकुरुकुरुस्वाहा अथवंध्या पूर्वपुत्रवतीपाणसाकचिद्वंध्याभवेद्यदं काकावंध्यातुसाज्ञेयाचिकित्सातत्रकथ्यते १ विष्णु क्रांतासमंत्यंतुपिष्टामाहिषदुग्धके महिषीनवनीतेनृतुकालेतुमक्षिपेत् २ एवंसप्तदिनंकुर्याद्यथायुक्ति श्चपूर्ववत् सप्ताहलभतेगर्भंकाकवंध्याचिरायुषं यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं अथमंत्रः ओं नमःशक्तिरूपायअस्यगृहेपुत्रंकुरुस्वाहा १०८ इतिश्रीदत्तात्रेयतंत्रेपुत्रकर्णीनामेकोनविंशःपटलः १९ अथसंवादे ईश्वरुवाच मार्गशीर्षस्यपूर्णायांशिषेःमूलंसमुद्धरेत् वाहौशिरसिवाधार्यंविवादेविजयो भवेत् १ कृष्णसर्पकपालेतुवशामृतकपालिने श्वेतगुंजाक्षिपत्तत्रतस्यामूलसमाहरेत् २ ललाटेतिलकं कृत्वापश्यतिपंचधारिपुः स्वगणैर्भक्षमाणंचपतितंचततोभुवि करेसुदर्शनामूलंवध्वाराजकुलेजयी अत्र मूलंराजकुलेसुखसंस्थंजयप्रदं अपामार्गरसेनैवयानिशस्त्राणिलिप्यते जायतेतानिसंग्रामे * * सागणिनि पृ० १२ब) श्चितं १ गृहीत्वापुष्पनक्षत्रेश्वेतगुंजाचमूलकं धारयेद्दक्षिणेहस्तेहतकार्योभवेन्नरः धत्तूरंकरवीरंचअ पामार्गस्यमूलकं हरतालसमायुक्तंतिलकंशुभदिनेकृते ७ अजाक्षिरेणसंप्रेक्षरणेराजकुलेजयी विरो धेधुतकार्येचनान्यथाशंकरोदितं अथमंत्रः|| ओंनमोविश्वरूपायअमुकेनविजयंकुरुकुरुस्वाहा|| ||इतिश्री दत्तात्रेयतंत्रेविंशतिपटलः २० अथबलकर्णं ईश्वरुवाच|| बलेननारीपरितोषमेतिनवीर्ययस्यकदापिसौ ख्यं अतोवलार्थंरतिलंपटस्यवाजीविधानंप्रथमंविधेहि १ वच्छलंचूतवृक्षस्यमृण्मयंपात्रनिक्षिपेत् तस्यो परिजलंक्षिप्तंतस्योपरिवस्त्रंदापयेत् २ प्रातःकालेदुग्धसार्द्धेयःपिवेन्नरकंध्वजः धातुवृद्धिकरंलोकेबलपु ष्टिकरेतथा ३ कुमारीकंदमादायगवांक्षीरेणयःपिवेत् वलपुष्टिकरंधातुजायतेमकरध्वजः ४ गृहीत्वाचरवौ वारेमंडकाशुचिपूर्ववत् छायाशुष्कंचतच्चूर्णंअश्वगंधासमन्वितं मुशली * गोक्षीरंचविजयावीजसंयुतम् एकवर्णगवांक्षीरेयःपिवेदेकमात्रतः ६ वलपुष्टिकरंदेहेस्तंभनंधातुवृद्धिःसः|| सिद्धियोगमिदंतंत्रंकामदेवभ वेन्नरः ७ अश्वत्थफलसंग्राह्यंछायाशुष्कंतुकारयेत् दुग्धसार्धंपिवेत्सत्यंजायेतमकरध्वजः ८ गृहीत्वाशुभनक्ष त्रेव्रह्मदंडोसमूलं * महिषीक्षीरसार्धेनयःपिवन्मकरध्वजः ९ गृहीत्वामृतामूलंरवौवारेभिमंत्रितं तस्यतत्त्वं शुष्कछायाशर्कराभक्षणाद्वलिः महासौख्यकरंपुंसांतस्योपरिगवांपयः यस्मैकस्मैनदातव्यंनारीभवतिकिं पृ० १३अ) करि ११|| अथमंत्रः ओंनमोअमुकंवलपराक्रमंकुरुस्वाहा १०८ अथद्रवणं शिलाकासीसतगरंकुसुंभक्षौ द्रलेपना द्धारणांकुरुतेस्त्रीणांविनामंत्रेणसिद्ध्यति नृहतीकलमूलानिपिप्पलीमरवानिच मधुनारोचना सार्द्धंलिंगलेपोद्रवस्त्रियः २ क्षौद्रगंधकलेपेनप्रयुक्तोनपत *लं यस्मैकस्मैनदातव्यंनान्यथाशंकरोदितं द्रशशिटंकनिष्पन्नः स्वरणंमरणंफलं एतानिलिंगरूपेणशीघ्रंभवतिपोच्छ्रिता मातुलिंगरसालि प्तं * स्त्रीणांद्रवकारकम् सिद्धियोगमिदंख्यातंदुर्लभंमानुषाजने * * * लिंगलेपेनशीघ्रंद्रवतिपोच्छ्रिता मा तुलिंगरसोलिप्तंस्त्रीणां * द्रवकारकं सिद्धियोगमिदंख्यातंदुर्लभंमानुषाजने|| अथवीर्यस्तंभनं कर्पूरंट कणंसूतंतुल्यंमुनिरसंमधु मर्दयित्वालिपेल्लिंगंस्थित्वापातंतथैवच ६ ततःप्रक्षालयेल्लिंगंरमेरामायथो चितं वीर्यस्तंभकरंपुंसांसम्यक्नागार्जुनोदितं ७ कृकलाकस्यपुच्छाद्यंमुद्रिकाप्रेततंतुभिः वेदष्टेकनि ष्टकार्ययनरोवीर्यंनमुंचति ८ मधुनापद्मवीजानिपिष्ट्वानाभिप्रलेपयेत् यावत्तिष्टत्यसौलेपतावद्वीर्ययंन मुंचति चंद्रिकादंतसंगृह्यनवनीतेनपेषयेत् तेनलेपयतीपादौशुक्रस्तंभप्रजायते १० यावन्नस्पृशते भूमिस्तावद्वीर्ययंनमुंचति यस्मैकस्मैनदातव्यंनारीगर्भमिदंतरं ११ स्पृहरशशिसूतकटंकेनभागधेयं घृतेरणा क्षौद्रकर्तुकक्षपंतंमुनिपत्ररसेयदि लिपेमृगदविसनारीगवहरंस्थूलंगोनंसमाधायसम्यक्स्व पृ० १३ब) र्णनिवेष्टयेत् १३|| उदयातुतटेकिंचिदकेवीर्यंनमुंचते शूकरस्यतुदंष्टाग्रंदक्षिणेनसमाहरेत् १४ कटचांपरिपुटेवध्वाशुक्रस्तंभप्रजायते सफलंमुंडीकाथंविनाम्लेनसफलेनप्रचयतिपुंसासिद्धियो गीमिदंख्यातो १६ यंसूरणंतुलसीवीजंतांवूलंसहभक्षयेत् नमुंचतिनरोवीर्यंनाथाशंकरोदितं १७ डिंडि भीनामयःसर्पाःकृष्टवर्णंतमाहरेत् तस्यास्थिधारयेत्कट्यांनरोवीर्यंनमुंचति १८ रक्तंअपामार्गमूलंच सोमवारेभिमंत्रितं भौमेप्रातर्समुद्धृत्यकट्यावध्वातुवीर्यधृक् १९ अथलिंगवर्धनंवाराहवसपालिंगामधु नासहलेपयेत् स्थूलंदृढंचदीर्घंचमूललोसमजायते २० निशाषडिवचूर्णेनभावितेनागवारिणा मानाश नयुक्तेनविंदुत्वंजायतेनृणां २१ तिलगोक्षीरयोच्चूर्णंछागदुग्धेनपाचके शीतलंमधुनायुक्तंस्वधृतखंडनाश नं २२ आद्रकंगंधकंचैवराजवृक्षस्यटंकणं संप्पेष्यसमपात्राणिनिक्षिपेन्निंवपल्लवैः २३ स्थापयित्वाभुजे हस्तेशीघ्रंद्रवतिताःस्त्रियः मधुसैन्धवसंयुक्तंपा * * वत्मलान्वितं २४ यमस्तिमैंद्रियोरामादासीवत्कुरुतेर तौ सिद्धियोगमिदं * * नान्यथाशंकरोदितं २५ प्रक्षालनाभागेनित्यंकृत्वामलकमल्लकैः वरापिकामिनीका मावलेवकुरुतेरतिं २६ हरितालंलिपेद्योनिंछागदुग्धेनपेषयेत् रोमशांतमिदंज्ञेयेउष्णजलेनपेषयेत् रो मशांतमिदंज्ञेयंउष्णजलेनशोषयेत् २७ पद्मवीजंचसितयाभक्षणंपद्मवारिणा इडातृसीस्तनद्वंदुंमासेन पृ० १४अ) कुरुतेदृढं मंडीचूर्णंकषायेनयुक्तंतैलंसपाचितं अथकेशारंजनं|| काकिन्यापत्रमूलंसदचरस हितंकेतकीनांचकंदम् छायाशुष्कंभृंगंत्रिफलरसयुतंतैलमध्येनिधाय तत्क्षिप्तंलोहपात्रेक्षितितल निहतेमासमेकेचयावत् कौशाकाशाप्रकाशालिसदृशींतामितिपक्षैकमात्रं ३० विष्णुक्रांतानिपु ष्पाणिरंडतैलेनपाचयेत् केशलेपतितेतासांकृष्णवर्णंसजायते ३१ त्रिफलालोहचूर्णेनवारिणापेष येत्समं द्वयोस्तल्पेनतैलेनपचयेद्धृद्धनाशनं ३१ कद्रुतुल्येभृगुवनैपावतैलंचपादयेत् स्निग्धभाण्डेग तंभूमौस्थितौमासान्समुद्धरेत् सप्ताहंलेपयेत्पेष्यंकदलीदलसंयुतम् त्रिफलीफालसंयुक्तंरुद्रज टासमन्वितम् सप्ताहलेपकर्तव्यंकेशाश्मभ्रमरोपमा यावज्जीवनसंदेहोनान्यथाशंकरोदितम् ३५|| अथकेशपातनम् || कीशानकीवीजसमुद्भवेनतैलेनकेशानपुनर्भवंति धात्र्यक्षपथ्य रसविडंगवह्निशतावरीगोक्षारकामृताच यष्टीप्रयुक्तंमधुशर्कराभ्यांनिशिप्रलेह्यंचघृतेनमिश्रं ३७ वृ द्धत्वंकुष्टजीर्णंचबलहीनपराक्रमः भक्षणप्रातरुत्थायतरुणंजायतेनरः || ३८|| इतिश्रीदत्तात्रेय तंत्रीवाजीकरणंनामेकविंशःपटलः २१|| || अथभूतग्रहनिवारणं|| ईश्वरुवाच|| शिरीषप त्रपुष्पंचरविवारेसमुद्धरेत् उलूकविष्टागृहीत्वाचुष्टरोमंचसंयुते गोमयंचैवसंयुक्तंकटुतैलेनपाच पृ० १४ब) खानुविष्टसमायुक्तंमार्जारश्चैवसंयुतम् गोमयंचैवसंयुक्तंगंधकंसयुतंतथा २ खोतगुंजासमायुक्तं कटुतैलेनपाचयेत् धूपंदत्वाजपेन्मंत्रंभूतबाधाचनश्यति राक्षसैर्भूतवेतालैर्देवभूतचरीहिषु डाकि नीप्रेतनीचैवधूपंदेयंपलायनं ५ अथमंत्रः ओंनमःश्मशानवासिनेभूतादिपलायनंकुरुकुरुस्वाहा अथग्रहनिवारणं|| ईश्वरुवाच अर्कमूलंधतूरंचअपामार्गस्यमूलके दूर्वमूलवटमूलमश्वत्थंमूल मेवच शनिपत्रंआत्रपत्रपत्रंडंवरमेवच मृण्मयंपात्रमध्यस्थंदुग्धघृतसमन्वितं ७ तंडुलंचणक महंगोधूमंतिलसंयुतम् गोमूत्रंसर्षपाश्वेताकुशाचंदनसंयुतं ८ मधुस * मयेतत्रसंध्याकालेशनौ दिने अश्वत्थमूलेखननंग्रहोपद्रवनाशनं ९ यावज्जीवतिसालोकेग्रहपीडानबाध्यते अथमंत्रः|| ओंनमोभास्वरायअमुकंसर्वग्रहाणांपीडानाशनंकुरुस्वाहा|| १०८|| अथसिंहव्याघ्रसर्पवृश्चिकभय नाशनम्|| ईश्वरुवाच|| सिंहदृष्ट्वानमस्कारंमंत्रंजाप्यपुनःपुनः पलायंतेसिंहसर्वेनान्यथाशंक रोदितं १ पुष्पार्केनगृहीत्वातुश्वतार्कस्यतुमूलकं धारयेद्दक्षिणेहस्तेसिंहबाधाभवेन्नहि मंत्रः ओंन मोअग्निरूपायह्रींनमः|| अथसर्पमिनिवारणं अस्तीकंमुनिराजाचनमस्कारंपुनःपुनः स्वप्नेस पृ० १५) र्पभयंनास्तिनान्यथाशंकरोदितं १ गृहीत्वापुष्पनक्षत्रेअमृतामूलकंहरेत् यन्मूलंधारयेत्कंबेसर्पवा धाभयंनहि २ अथव्याघ्रनिवारणं|| गृहीत्वाशुभनक्षत्रेधतूरमूलकंतथा धारयेद्दक्षिणेवाहौ० व्याघ्रवा धारयेत्कंबेसर्पवाधाभयंनहि || अथव्याघ्रगृहीत्वाशुभनक्षत्रे || अपामार्गस्यमूलकं धारयेद्दक्षिणे कर्णेवृश्चिकोभयनाशनं अथअग्निभयनिवारणं उत्तरस्यांचदिग्ध्रगिमरीचिनामराक्षसः तस्यमूत्र पुरीषाभ्यांअग्निस्तंभोभवस्वाहा ५ अनेनमंत्रेणसप्ताजलिजलंअग्निमध्येनिक्षिपेत् अग्निशाम्यति गृहीत्वारविवारेतुश्वेतकवीरमूलकं धारयेद्दक्षिणेहस्तेअग्निबाधाभयंनहि|| || इतिश्रीदत्तात्रेयतंत्रेसिं हव्याघ्रादिनिवारणंनामद्वाविंशतिपटलः|| २२|| || आदर्शदोषागतिबिभ्रमाद्व * * यदर्थहीनंलिखितं मयाहि क्षमस्वदेवपरमात्मरूपरक्षांसदादेहि भयातुरस्य || ########### END OF FILE #######