#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00166 Uniform title: devīnāmavilāsa Author : kaula sahiba Alternate name : kaul sahib Editor : śāstrī m k Description: Photographed from volume 63 of the Kashmir Series of Texts and Studies. Notes: Publisher : Research Department, Jammu and Kashmir State Publication year : 1942 Publication city : Lahore Publication country : India #################################################### ओं नमो विघ्नहर्त्रे | देवीनामविलासः | महामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचितः | प्रथमा भक्तिः | चिद्रूपं कृतनामरूपविभवं त्रैरूप्यरूप्यं बुधै- रासीदस्ति भविष्यतीति वचसां दूरेऽपि सत्तावपुः | त्यक्तायुक्तवियुक्तियुक्तिकलनं भक्तेषु सूक्तिप्रथं श्रीशम्भोर्जयति स्वभावमधुरं तच्छक्तिरूपं महः || १ || प्. २) सोऽहं तेन मुहुः प्रणुन्नहृदयः सर्वास्ववस्थास्वपि सुन्दर्याः स्तवराज ईशकथिते नाम्नां पुरा नन्दिने | साहिब्कौल इति प्रसिद्धमहसि स्थानेऽमले दर्शये स्वातन्त्र्येण निवेशितात्मविभवः सूक्तेर्विलासं स्फुटम् || २ || ऐशान्यां ककुभीश्वरः क्षितिभृतां कैलास इत्याख्यया ख्यातो मानसराजहंसहसकृत्सौन्दर्यसारोद्धुरः | यत्रास्ते गिरिजावशीकृततनुः स्थाणुर्विभूत्या सितो भिक्षुः पक्षितया प्रियाजनितया त्यक्त्वान्ययाने मनः || ३ || यत्र द्रष्टुमुपागता गतभया देवाधिदेवं शिवं विष्णुर्वा शतधैर्यवान् शतमखश्छायाच्छलेन क्षणम् | मालिन्यापहरामणीयकवपुःसारे निमज्ज्योद्गता- स्तास्ता रूपकला विदन्ति कृतिनो व्याप्तप्रकाशोदयाः || ४ || सद्रूपं प्रतिरूपितं परिणतं देवी चतुर्धा शिवा यत्र स्वस्य च पत्युरद्भुतमतिर्वीक्ष्यान्यथाशंकिनी | प्. ३) अर्धार्धांशवियोजितं हिततमं पुण्यं कथंचिञ्जितं कायं किं नु निनाय नीतिनिपुणा प्रत्येकमैक्यप्रथाम् || ५ || यत्राप्यद्भुतनर्मणि प्रवितते स्वस्वापिधानात्मके जात्वीशेन तिरोहितेऽतिचतुरं स्वस्मिन् विभूत्या सिते | श्रान्ता तस्य गवेषणेन सुचिरं किंस्वित्तदादीश्वरी नार्धांगाद् वितनोति दूरममितप्रेमप्रसन्नं शिवम् || ६ || शम्भौ निश्चलभक्तिसक्तमनसां तद्ध्यानधौतांहसां कालेनाधिगतैतदीयविमलावेशप्रकाशश्रियाम् | पुण्यानां परितोऽमितः समुदितः पाश्चात्त्य इन्दुद्युतिः शिष्टो देह इवाविनाशविषयस्तत्पत्तले भाति यः || ७ || आव्यक्तेर्द्विजराज एष नु तपः स्थाणूपरिस्थश्चरन् संशिष्टः कलया यतः स्मितदृशा तुष्टादवापाद्भुतम् | प्. ४) नैर्मल्यप्रचयं सुधामयनयं सौन्दर्यसाराश्रय- मत्रामुष्मिकमालयं हिमरुचां सर्वाभिलाष्यं वरम् || ८ || यं वा सारसमुज्ज्वलं हिमगिरीशानान्नु मन्यामहे हित्वा यत्प्रभवं तमाढ्यविभवं रत्नाकरं पार्वती | यद्वासस्पृहयेव कृत्तिवसनं भीमं हरं शूलिनं गङ्गाक्रान्तपराङ्गमङ्गकलया देवी परा शिश्रिये || ९ || यो वा मेरुगिरीश्वराल्लघुतरोऽप्युच्चैस्तरां भासते यत्तं सन्ततवासभूतममितं हित्वा सुराणां वराः | आयाता गिरिशावलोकनमिषादस्मिंस्थितास्तत्क्षणं लोभार्ताः प्रतियान्ति हीनतपसा संवासहीनाश्चिरम् || १० || प्. ५) आभाति सततं गिरीशशिरसि ज्वालाकुलस्याभितो वह्नेराह्निक आह्निकः समुदितः सर्गादितोऽलं सितः | तेनारोहितशेषिनृत्तकलनाकालापतद्भस्मना संवीतः किमु भस्मराशिरिव यो गङ्गाम्बुपिण्डीकृतः || ११ || बद्ध्वा वासुकिना पिनाकधनुषा शूलस्य मूले गुरु- र्ग्लावाग्रे कलितेन जातु तुलितः पातालतालोऽभवत् | पूर्णो यः सततं च षोडशकलो यातोऽम्बरान्तं लघुः संक्राम्यैककलाप्युपास्थितजटाजूटं श्रिता शाङ्करम् || १२ || ब्रह्माणं परिलोक्य लोकरचनाचातुर्यरीतेः पतिं संश्रित्यात्र हिमक्षमाधरवपुः सम्पन्नसम्पद्गुणम् | प्. ६) यद्रूपेण गिरीश्वरोऽपि गिरिजाधामप्रकामप्रभः शम्भुः किं न्ववतीर्णवान् सुविमलोद्धामप्रकाशश्रिया || १३ || स्वर्धुन्या अपि यस्य किं गमितयोः सौन्दर्यसारां तुलां स्वस्मिन् दण्ड इवातिगौरववपुर्दुर्गर्वयोः शम्भुना | एकोऽगोंऽघ्रितले स्थितो गुरुरदोमूर्धाश्रितान्या लघु- र्लज्जालुः प्रविहाय तं च पतिता भूमौ चला सम्भ्रमात् || १४ || यः किं पार्श्वगयोर्विधूष्णकरयोर्धाम्ना समं वह्निना नीरेणापि तदश्मभूम्य उदितेनाजस्रमुर्वीधरः | प्. ७) श्रीशम्भोः शिरसः कलां चरणयोर्यातोऽप्यहो सर्वदा लोकानां परिदर्शयत्यतिचमत्कारैकसारोद्धुराम् || १५ || यत्राप्यप्सरसो गिरीन्द्रतनयासन्दर्शनायागता- स्तद्रूपं प्रतिरूपितं सुविमले संलोक्य लोकोत्तरम् | अर्धाङ्गेशतया युतं परिगतव्रीडास्त्वरात्यातुरा एवातः प्रतियान्ति पूर्णकलना मुग्धाः स्वधामाश्रमान् || १६ || सूर्येन्दुप्रतिबिम्बनिस्सरदतिव्याप्तप्रकाशोदया यत्राहो अपि दूरमध्यविषया दीर्घा गुहाः संश्रिताः | सम्यक् स्वासनतां गते पशुपतेर्नित्यं तमोभागिनो ज्ञातुं सान्तमसीं कलां न वशिनस्तान्तिप्रदां जातुचित् || १७ || स्वालंकारवरस्थितेषु मणिषु प्रौढोज्ज्वलद्रश्मिषु यत्राप्यप्सरसः परस्परमलं मुग्धाः प्रतिच्छायताम् | प्. ८) यातेष्वप्युभयेषु सद्य उदयद्वैशद्यहृद्येषु नो नो यान्ति प्रसभं सभाहसकृतः श्वेतान्यवर्णभ्रमम् || १८ || छायासङ्क्रमतोऽवदातवितताभोगेऽन्तरा मानसे स्वीयांघ्रिस्थितिभाजि राजिसहजप्राज्यप्रवाहे बहिः | भक्तानां परिदर्शयत्यकलुषां तां ध्यानतो मानसे सद्यःशुद्धिकरीं कलां हिततमामागामिनीं यो नवाम् || १९ || तस्यैकत्र विचित्ररत्नविलसन्मूर्तौ सुसानावभू- दासीनः सनकादिवन्दितपदद्वन्द्वो महेशो हरः | प्. ९) देवेशाः समुपासते भवभवाभूत्यै पुनर्यं भवं भावाभावविभावनातिविभवं देवाधिदेवं नवैः || २० || हित्वा कारणकार्यगौरवकथां स्वाच्छन्द्यस्वस्पन्दवित् सान्द्रानन्दसुधाम्बुधिर्निरुपधिः कर्तुं न कर्तुं तथा | प्. १०) ईष्टे व्यत्ययतोऽपि दुर्विधभिदाभेदप्रथासिद्धिदः सिद्धास्वाद्यनिराद्यबोधविभवो बाधावधिर्यः परः || २१ || यस्यैकस्य विशेषवेशबहुला मूर्त्यः स्फुरन्त्यः स्फुटं दृश्यन्ते विशदाननातिशयितांभोजप्रभात्यादराः | प्. ११) वारं वारमुदञ्चिताञ्चितदृशा चित्तान्धकारोत्करं वीराणां विनिवारयन्त्य इनदुर्वारं विकाराकरम् || २२ || देवा देववरं नमन्ति दितिजा दैत्येश्वरं नेतरं स्पर्धान्योन्यनिबद्धवध्यकलनानिर्बन्धबन्धोद्धुराः | यं तु स्वैक्यविलासलास्यचतुरं सर्वोत्तरं शङ्करं सर्वेऽप्यस्तभया इवेक्षितहितद्वन्द्वैकदेहाश्रयाः || २३ || मूर्ध्नो देवनदी वहत्यविरतं यस्य प्रशस्यप्रथा व्याप्तव्योमधरान्तरालजलधिः पातालतालामला | उग्रं भीममपि प्रसादविशदं विद्याब्धिशीतद्युतिं लोकानामिव वक्तुमुक्तिविलसत्तारङ्गरङ्गध्वनिः || २४ || आदावेकरसेन येन विधृताभ्यन्तः पुनः पार्वती- प्रेम्णा पूर्णतरेण संस्थितवता सम्बाधदेशस्थिता | कल्लोलाभिलसद्विलोलकलहालापा श्रमोदाकुला निर्याता बहिरिङ्गितातिचतुरा गङ्गामलाङ्गी किमु || २५ || प्. १२) यद्भालाग्निविलोलकीलविगलत्पीयूषदेहाकलः कोट्युत्कूटजटाकटाहकतटे सूनुर्जलानां निधेः | सन्न्यस्यात्मजकेवलामलकलां राजा प्रजारञ्जनः किंस्विद्याति तदादि नैव सकलस्तन्मस्तकं शंकितः || २६ || तुष्टिं प्लुष्टिमपि प्रकृष्टविलसत्संघर्षयोरेककां निर्मातुं जगतां समुद्यतवतोः स्वर्गापगाया मिथः | भालाग्नेरपि वारणाकृतिकपर्दान्तर्गता कीलव- च्चान्द्री सान्द्रकला विभाति ललिता यन्मूर्ध्नि किं शान्तिकृत् || २७ || आभोगाकृतिबद्धसंस्फुटजटाजूटाम्बराढ्यप्रथं गङ्गोत्तुङ्गतरङ्गरङ्गवितताविश्रान्तवाताततम् | प्. १३) तत्स्रोतःप्लुतमीक्षणाग्निविलसज्ज्वालं च भालस्थली- संशालं किल यच्छिरः प्रकटितस्वान्तःस्थभूतव्रजम् || २८ || उष्णान्ये तपसी तपन् सममहो अङ्कोज्झितः सन् विधु- र्ग्लौत्वं शीतकरत्वमाप च सदाभ्यासात्कलाव्यासवान् | यस्योर्ध्वे किमु तत्तनोति विरहग्रस्तान्तरेकं ययो- रन्यस्मिन् स्वविलासभासि तरसा सारोत्तरं वापरम् || २९ || यद्भाले परितोऽतिभूतिरचनाशुक्ले विशालस्थले वह्निर्भातितमां तमोविदलनव्यालोलकीलाकुलः | वर्षान्तप्रकृतर्तुकार्जविगलन्नीरामलाभ्रेऽम्बरे मध्यप्रोद्यदिवापिधानरहितं बालार्कबिम्बं महत् || ३० || प्. १४) यच्छीर्षस्थितगाङ्गवारिनिकटे संवासतोऽभ्यासवान् भालाग्निः सुविशालतालविलसज्ज्वालामलः किं पुनः | संप्राप्यावतरं तरङ्गततिभिः कोपाकुलं वान्तरा यातः संज्वलयत्यलं जलनिधिं सोऽयं दृढं वाडवम् || ३१ || ज्योतीरूपमरूपमाढ्यधिषणारूप्यं शरीरं शिरो- वह्निव्याजतया विराजत इलालालित्यतालातुलम् | ईशस्याप्यनिशं भृशं ज्वलनतः शिष्टोऽकृशो भस्मनो राशिर्यस्य सितस्तदन्त इव किं देहोऽपरः कल्पितः || ३२ || सप्तार्चिर्जयति प्रसिद्धमहिमा यस्योत्तमाङ्गेऽनघे यः कामं च यमं शमं समनयत् तूर्णं निकामाधमौ | यावाज्ञैकवशंवदं नियतितः कं कं न मूर्च्छां ततो मृत्युं वा नयतो नयं च विनयं सम्यक् श्रितं वानयौ || ३३ || ऊर्ध्वांगे परितो विभान्ति वितताः पिङ्गा जटा यस्य वा वह्निं साक्षिणमाकलयय विहितस्याब्रह्मपर्णावधि | संहारस्य दुरुद्धरस्य जगतां भूयः स्वयं भूरिशः प्रत्येकं गणनाय साधुरचिताः स्वर्णस्य रेखा इव || ३४ || प्. १५) यस्यारालविशालपालियुगलं नीरन्ध्रवालाकुलं किंचिद्दग्धमिवावशिष्टमतनोः संलुण्ठितं कार्मुकम् | द्वैधीभूतमतीव सर्वजयजात् तोषाद्धृतं नेत्रयो- रूर्ध्वे यत्सममुद्यतं नहि भियेऽभक्तस्य भक्तस्य वा || ३५ || तन्नेत्रत्रितयं त्रिधामविषयं सौन्दर्यसाराश्रयं सूते दक्षिणतो दिनं सममहो ज्यौत्स्नीं निशां वामतः | सन्ध्यां सन्धिगतां तयोरपि तमोभाजोऽपि यस्यानिशं यद्दृष्टौ पतितस्य नैव पतति च्छाया तमोभावजा || ३६ || सव्यं यन्नयनं नयत्ययनयं सद्भक्तवक्त्राम्बुजं तन्नेत्रोत्पलमन्यदप्यतिचमत्कारां विकासश्रियम् | भालस्थं ज्वलयत्यलं च विलसद्द्वैतेन्धनं यत् त्रिधा काले भावविरुद्धमप्युपकृतावन्यस्य शान्तं मिथः || ३७ || यन्नेत्रोर्ध्वगते भ्रुवावपि जटाजूटोऽपि भान्ति स्फुटं प्रत्येकं निजभागजं नु विजितं वन्दीकृतं धामभिः | त्रैधं दुस्तिमिरं कृपाकुलतया द्वाभ्यां तथा स्थापितं दग्ध्वार्धं कपिशीकृतं दृढरुषेवान्येन दुष्टप्रथम् || ३८ || प्. १६) यन्नेत्राणि पवित्रचित्रविलसद्धामानि काम्यप्रथा- वन्ति ध्वान्तनितान्ततान्तिदलने निर्बन्धवन्ति स्वतः | लीलाशीलनसंनिबद्धरचनाभाजां त्रयाणां बहि- र्लोकानामिव लिङ्गदेहकलनाज्योतिर्विशेषाः पृथक् || ३९ || कर्णाभ्यर्णगते सुवर्णविशदे निष्कोचने लोचने यस्यालोक्य विलोकनीयविततप्राज्यप्रकाशाञ्चिते | दीर्घं संचितघस्ररात्रिपतितासम्यक्फले निस्तुले भालस्थं नयनं ज्वलत्यतिरुषा किं न्यूनसन्ध्याप्रभुः || ४० || दृष्टा दृष्टिरभीष्टदा कृतधिया यस्याभिया सच्छ्रिया येनादृष्टविनष्टिदिष्ट इह तं स्प्रष्टुं न जातु क्षमम् | दृश्याद्यप्रविविक्तदृष्टिविषयं दृष्ट्यन्तरं विस्तरा- च्छिष्टंमन्यनिकृष्टदृष्टिभिरुपादिष्टं विनष्टिप्रथम् || ४१ || प्. १७) श्रोतव्यस्य तथा श्रुतस्य परमां सीमानमभ्युद्यतः श्रोत्रे यस्य निरर्थतामुपगते पूर्वं श्रुतीशानताम् | यातस्याथ सविभ्रमोद्गतवतो देवीमुखाम्भोधितः पानार्थाय रसालपस्य जयतः पात्रे पवित्रे इव || ४२ || यन्नासा न न सा प्रशान्तसुधियां भक्त्येकदृश्यान्तरी वेदिः प्राणकलादियज्ञविधये भाति स्फुटं भ्रूयुता | यद्धामत्रितयं श्रवःकलशयुक् तापापहारिप्रथं चित्रं पूर्णतमप्रशंसममलं मेयाहुतिं प्लुष्यति || ४३ || यन्नासा विलसत्त्रिकोणरचना द्वाभ्यां पुटाभ्यां युता भस्मोद्धूलितगण्डमण्डलवलद्भूमिप्रभाभास्वरा | तद्धाम्नां प्रतिबिम्बितातिविमलाकारा स्थितिर्निर्मित- स्थैर्याणामिव लोचनेषु सुलभप्रत्येकबिम्बोपमा || ४४ || यन्नासा नयनद्वयाभिललिता भ्रूरेखिणी भासते चुल्ली यन्त्रमयीव वायुमनिशं सम्पूर्य तन्मध्यतः | सन्दीप्याक्ष्यनलं जटातटकटाहान्तः सनीरे ज्वरः पक्वस्यामृतखण्डकस्य भवजः स्पर्शाद्यदेति क्षयम् || ४५ || प्. १८) चित्तं कस्य न गण्डमण्डलमलं संवर्तुलं निर्मलं भूत्याप्युल्ललितं हरत्यपि चलं भक्त्या यदीयं स्फुटम् | नासामेरुगिरेरुपान्तचरयोः सूर्यौषधीशानयो- र्भूमावातपचन्द्रिके इव पुरोभागे पतन्त्यौ मिथः || ४६ || नासाश्वासभवोऽपि यस्य विभवः सौगन्ध्यवन्ध्येतरः शस्यः कस्य न चम्पकावयविनी यल्लब्धये पार्वती | पद्मास्योत्पललोचना तिलनसा गण्डप्रभादाडिमी बिम्बोष्ठी परिचारुकुन्ददशनापर्णा चचार व्रतम् || ४७ || साअरासाररसासवाभिरसने दक्षौ च यस्याधरौ भास्वन्मध्यमरेखया विलसितौ यातौ चतुष्टां स्फुटम् | नेत्रोर्ध्वाङ्गजुषां भृशाकृशतृषां धाम्नां चतुर्णामिव तेजःपुष्पविकासनाय सरणीमूलाद्विभक्तुं रसम् || ४८ || यद्वाचं विमलां विशालतलिना स्तुतुं हि कस्यास्ति वाक् तादृग्यच्चतुराननैरपि चतुर्वेदीमधीते परम् | धातापि द्विसहस्रगीः परिमितां शब्दस्मृतिं केवलां शेषः सा स्म तु वक्ति तन्त्रजचतुःषष्टिं स्वतन्त्रं च तत् || ४९ || प्. १९) वाणी यस्य न कस्य भाति हृदि सा भासेत चेत्तर्हि किं स्वाज्ञानावृतचेतना अतिरसं कुर्युः श्रुतानां गिराम् | यत्ता बोधयितुं क्षमा न कृतिनः स्वं बोधमत्यद्भुतं तस्यास्तु क्षणतो भवत्यपि रसान्निर्बोधबोधोदयः || ५० || वाणी यस्य च सैव मययविरतं विश्रान्तिमात्यन्तिकीं नायाता किमु सत्प्रसादमधुरोद्गारप्रभावप्रथा | यत्तत्स्वादनतो विमर्शपरमः कश्मीरबालोऽप्यहं जात्या निग्रहमानयामि विततास्ता गीर्पतीनां गिरः || ५१ || वाणी यस्य न शास्ति शासनकलामाशास्यसंशासिनी- मिन्द्रोपेन्द्रविधातृशासनलसत्त्रासप्रवासप्रदाम् | यस्यां स्वासनतः प्रफुल्लविमलाश्वास्यप्रशस्यश्रियां नानाशासनशासनादिगणना यान्तीह हास्यप्रथाम् || ५२ || वेदांस्तान् स्फुटतां निनाय च न गीः साक्षादुपायत्रयी- भङ्ग्यानङ्गहरस्य यस्य विततैरङ्गैर्विना निष्प्रभान् | चत्वारोऽपि च ते यदेकविषयां विद्यां परां तां शिवां निर्णेतुं पुनरापतन्ति पतिता उक्त्वापि वादान् बहून् || ५३ || वाणीं यस्य महाप्रसादविशदां सम्यक् त्रयी सा त्रिभि- र्नोपास्ते चरणैर्गता गतिमतां गम्याभिरम्यप्रथा | अङ्गैः षड्भिरुपार्जितार्जितवती याष्टादशत्वं पुन- स्तद्द्वैगुण्यमुपेत्य सा परिणतानन्त्येन तत्त्वैक्यवित् || ५४ || यद्वाण्या नहि बालभङ्गिषु परं शिक्षापि संशिक्षते नान्वर्थ्यं च निरुक्तिरेति नितरां निर्णीय निर्णीय वा | प्. २०) यद्वाणीं न विकल्पतेऽपि निखिलः कल्पः सुकल्पं न वा ज्योतिर्ज्योतिरुपैति नापि निवहः स्वच्छन्दतां छन्दसाम् || ५५ || यद्वाण्या उदितादिवाक्यरचनं शुद्ध्येकहेतुप्रथं शब्दानां श्रुतिगोचरत्वमगमच्छास्त्रं कलाप्तं न किम् | अन्योन्यं प्रतितन्त्रतामपि गतैरादौ तदत्यादराद् यत्प्राशस्त्यमपेक्ष्यतेऽपि कृतिभिः स्फोटात्ममेयोद्भटम् || ५६ || पूर्वं कर्मगणेन कामकलया व्यक्तेन बन्धातुरं मीमांसारचयञ्जनं हतगतिं निर्मूलितप्रज्ञया | छायामाप्य गिरोऽथ यस्य विमलां भूतोत्तरा ब्रह्मवित् प्राकट्येन कृतार्थतां परिययौ मुक्तिं समापयय तम् || ५७ || प्रामाण्योचितमेयभास्कररुचः सन्देहमन्धं तम श्छिन्दन्तः सुजनप्रयोजनकृतो दृष्टान्तसिद्धान्तिनः | अङ्गैस्तर्कितनिर्णयप्रविलसद्वादानुजल्पा गिरा वैतण्ड्याद्यगता न यस्य विवृतास्तर्का विभान्ति स्फुटम् || ५८ || बौद्धैर्बुद्धिमवेक्षितुं विरचिताशीतिर्मतानां चतु- ष्पूर्णा सांख्यगणा गताश्च विलयं तत्त्वाभिसंख्यानतः | अर्थानाकलितुं विशेषरचनोपात्ता च वैशेषिकै- र्यद्वाण्या गतये त्रिदण्डिनिवहा भूतास्तथा शाम्बराः || ५९ || प्राणे केचन चित्तभूमिषु परे केचिच्च बुद्धावह- ङ्कारे केचन केचिदिन्द्रियगणे केचित्तदर्थव्रजे | देहे केचन पुत्रदारधनिताज्ञाने परे वोद्यता यद्वाण्याः परमार्थमाप्तुममलं लीना न वा दुर्मलाः || ६० || प्. २१) आयुर्वेदकलागिरः समुदिता याता न वा वेदतां शस्त्राणां सरणिर्निजाकृतियुता किं वा न सा शास्त्रताम् | गान्धर्वं मृगवञ्जनं नियमयत्याराद्रसानां निधिः स्वार्थं याति न यस्य वार्थरचना वेदादिबीजेशितुः || ६१ || वाणीं यस्य विचार्य नित्यविषयां मृत्युञ्जयस्यैति वा सङ्कल्पैर्न विकल्पितं विसदृशं स्वार्थं पुराणं मिथः | अज्ञात्वेति बभूव हेति विवदन् सोऽपीतिहासव्रजः साक्षाद्वस्तु पिधाय पूर्वकलया बध्नाति नान्तःस्थया || ६२ || नानाभावभवं प्रभावविशदं शक्त्यादिसर्गप्रथ- मन्तर्लक्ष्यकलं स्फुटाभिधमलं तात्पर्यसाराश्रितम् | साहित्यं परमाप्य सन्नवरसैर्वाण्या अलोकस्थितेः साहित्यं नहि शोभते गुणगतं यस्याभिसौहित्यवत् || ६३ || द्वैधं राजिविराजिताः प्रथिततां द्वात्रिंशदंशैर्गताः स्वज्योत्स्नानिकरेण यस्य वदनोद्भूता रदा उद्यताः | पूर्वं जेतुममुं शशाङ्कमथ तत्संप्रार्थितेनामुना कारुण्याकुलचेतसाच्छदयुगेनाच्छादिता भान्ति किम् || ६४ || प्रेतान् पञ्च विलोक्य पद्मजमुखान् स्वस्वैककर्माक्षमाञ् शक्त्याक्रान्तगतीन्निजासनतले संस्थापितान्येन किम् | तत्तत्कर्म समं विधातुमखिलं स्वेनैव संप्रापितं पञ्चाङ्कं मुखमामुखामुखलसत्सच्छक्तिना राजते || ६५ || पञ्चाम्नायमयी महाद्वयनयध्येया न देयासतां पञ्चभ्यः सरणिर्मुखेभ्य उदिता भातीह यस्येशितुः | प्. २२) नद्येव स्वमपांपतिं विजहते गत्वाधिगन्तुं यया पञ्चत्वप्रकृतं गमागमभयं पञ्चाभिमानोज्झिताः || ६६ || मध्येबिन्दुविभाजितं गिरिजया पुण्यैरगण्यैर्जितं लालित्याद्वयवादि यस्य चिबुकं किं वर्ण्यते वर्णवत् | बालाबालबलेन भैरवशिवाकारानुसारं द्विता- मेकं यातमधःस्थकण्ठवसनं यद्युक्तभूत्युज्ज्वलम् || ६७ || धात्रादीनपि हेतिलेशजनितस्पर्शाद्विमोहं नय- च्छ्वेताशीविषसंविभक्तविषये कालार्दनावस्थितेः | कण्ठे यस्य विषं विभाति विशदे सद्योविषादच्छिदो गङ्गासङ्गमकांक्षिणीव यमुना यान्त्यूर्ध्वमादिस्थले || ६८ || इच्छामात्रकृतक्रियेण युगवद्दीर्घा मृणालोज्ज्वलाः पूर्वं व्यर्थमुदञ्चिताः परिधवत् पीना भुजा येन किम् | भूयस्ताण्डविकाङ्गहारविधये युक्ता वियुक्ता मिथः केचित्केचन शैलजाङ्गलतिकास्पर्शोन्मुखाः सार्थकाः || ६९ || हस्तैर्हेतिगणं दधाति नियतं योऽष्टादशत्वं गतं विद्यानां निजवक्त्रवारिधिसमावासोद्भटानां पृथक् | द्वीपानामपि सप्तवारिनिधिषु प्राप्तस्थितीनामिव रक्षायै प्रकटाभिनीतिविमलं कारुण्यवारांनिधिः || ७० || यद्धस्तैर्गलहस्तिता जलतया व्याप्ता व्रजाः पाङ्कजाः सद्योरागवियुञ्ज्यगस्थितिगतान्येतानि पत्राणि वा | व्याकोशानि पुनः प्रयान्ति कुसुमान्यागत्य शीघ्रं हियं प्राप्तान्येव पराजितानि च सदा सत्सौकुमार्यश्रिया || ७१ || प्. २३) कः शाखाः करपल्लवेभ्य उदिता वैशाखजन्मस्थिते- र्दृष्ट्वा विस्मयतेऽर्धदेहकलयाक्रान्तस्य नापर्णया | यस्यानाप्य च नागपंक्तिगुणतां यासां श्रितानां पृथ- गस्तं याति विधुः सदानवदशां च्छायां नखज्योतिषाम् || ७२ || वक्षो यस्य च शारदेन्दुविलसद्बिम्बं विभूत्युज्ज्वल- मीषत्प्रोन्नततज्जगण्डजशिलं रोमद्रुमैर्निर्भरम् | पार्वत्याः परिलुण्ठनाय विवृतं यस्मान्नवाधित्यका भावं प्राप्तुमुपस्थिता हतगतिः कैलासपृथ्वीभृतः || ७३ || यत्सत्कुक्षिगता विभाति च वलीभङ्गिर्मिथोऽसङ्गभा- गूर्ध्वाङ्गाचलनिःसृतौघललिता नाभ्यम्बुराश्युन्मुखी | भस्मोद्धुलितरोमतुङ्गविगलत्तारङ्गरङ्गोज्ज्वला स्वभ्यासं दधती हितं त्रिपथगा भूतेव नाकापगा || ७४ || यज्जानू परिवर्तुलौ सुविपुलावग्रे नमन्तावलं भातो लोचनसन्ततस्थितिजुषौ पुण्यस्वधामोज्ज्वलौ | सोमार्कौ त्रिदशेशमस्तकलसन्नानामणीनां व्रजै- र्निर्घृष्टौ चरणाविवाभिपतितुं मध्यस्थितावुद्यतौ || ७५ || स्थित्योर्ध्वापघने सुनिर्मलवपुर्वामे च नेत्रे द्विधा सन्तोषं न गतो यथा निपतितो यत्पादयोरादरात् | प्राप्तुं सद्दशतां गतोऽकृशमहोरूपां नखानां विधु- र्जेतुं द्वादशधा स्थितं दिनपतिं किं द्वादशात्मप्रथाम् || ७६ || पादाभ्यां नु विचिन्त्य पद्ममुदितं सस्पर्धितुं सर्वदा जाड्यस्थं नविमृष्टदुःसहमहापापापराधावृतम् | प्. २४) यत्पङ्कप्रभवं चकार परमो धाता श्रियावर्धयत् पद्मेशस्य च पद्मजस्य विधिवत्पूज्यत्वमापाद्य तौ || ७७ || यत्पादाम्बुजराजयुग्मममलं नित्यं प्रफुल्लं शिरो- नद्या अभ्युदितं न वा जलतया स्पृष्टं बहिर्वान्तरा | जङ्घानालसुकण्ठकाञ्चितमधोवक्त्रं च पत्राकृते- रुद्यच्छाखमवेक्ष्य को न लभते श्वेतारुणं विस्मयम् || ७८ || अंशं नावतरत्यवाप्य शशभृद् व्योम्नो म्रदिम्नो नु किं लौहित्यस्य खमुद्यतं जलभरादारोढुमब्जं न वा | नाक्राम्यः प्रचलत्यनूरुरपि सन्मार्गे निरालम्बनेऽ- विश्रान्तं किमु गर्वतश्चरणयोर्यस्याखिलाधीशितुः || ७९ || यत्पादौ कमलोत्तमौ कमलजेनाराधितावाहितौ शीर्षस्थे कमलासनेऽपि कमलानाथेन नाथत्वदौ | यावुत्कारुणसन्निभौ न नयतोऽस्पृश्यानि भूयो निशा- व्याकोशं नयनाननादिकमलान्याशाकृशानां भृशम् || ८० || यत्पादौ हृदि सन्निधाय विधिवत् सिद्धादिविद्यानिधी विध्याज्ञाविधिमात्मबद्धमधिकोद्भेदाधिमौपाधिकम् | बुद्धो विध्यविधिप्रसादनधिया वन्ध्यस्त्रिवेदीविधै- रुल्लंघ्य स्वपदैः पदेन भजते निःस्पन्दसत्सम्पदम् || ८१ || तौ यस्याप्यरविन्दनाभिरभितः किं वारविन्दासनो बिन्दुस्यन्दममन्दवन्दनवशं पादारविन्दोद्यतः | स्वादित्वा मकरन्दवृन्दत उदानन्देन्दिरावेकदा नाभौ स्थापयतः स्म पद्ममथ तज्जात्या तदाद्यासने || ८२ || प्. २५) यत्पादौ हृदि चिन्तयन् स्वकलितं वैकल्पिकं दुर्गणं भूयश्चिन्तयति प्रदग्धहृदयं हार्दं च नो दुर्धनम् | मूर्ध्नि स्वौ चरणौ दधाति सुमनोमूर्धन्यमूर्धस्वपि दुष्टैर्भालपदैः स्पृशन् व्रजति वा भाले न संस्पृश्यताम् || ८३ || ब्रह्माण्डादृढखण्डखण्डघटनासंघट्टनोद्दण्डितं दोर्दण्डोद्घटितप्रचण्डविकटाटोपाभ्रकूटच्छटम् | स्रष्ट्राखण्डलमुण्डमण्डलकलाकाण्डोल्लसल्लुण्ठना- शंक्यं खण्डकुठारकोट्यभिनयं यत्ताण्डवं मण्डति || ८४ || उद्धामभ्रमसम्भ्रमोन्नमनमत्पादाहतानामित- दिग्दन्त्युद्भटहस्तखण्ड्यकमठोत्पृष्ठाभिमृष्टं स्फुटम् | उद्धूताम्बरघट्टितोडुपभवन्मार्तांडसन्मण्डलं भ्रष्टाङ्गारकणं कृपीटभवतो यत्ताण्डवाडम्बरम् || ८५ || वीणावेणुमृदङ्गतालललितध्वानोल्लसन्मूर्च्छना- मूर्च्छन्मोहमहर्षिहर्षनिभृतध्यातं समाधेः पदे | नानारागतरङ्गरङ्गमुखरैर्गन्धर्वकिंपुंवरै- र्गीतेनोज्ज्वलितं गतिप्रचतुरं यन्नर्तनावर्तनम् || ८६ || संशिक्ष्याभिनयोन्नयं गतिविधिख्याताप्सरोभिर्ध्वनड्- ढक्काडिण्डिमकाहलीडमरुजैः कोलाहलैराकुलम् | लौल्योपोद्बलितं कलिप्रियमुनीशानादिभिर्वादितै- र्नानावाद्यपदैरनूदितगतं यल्लास्यमाभासते || ८७ || चण्डाभिर्भुजकोटिभिः परिवृढं पीडामुडूनां नय- न्मार्तांडस्य च मण्डलं ध्रुवममुं निर्ध्रौव्यमापादयत् | प्. २६) तारास्ताडयदीडितं सुरगणैः संखण्ड्य हेडां दृढं क्रीडाखेटकनाटकं नटपतेर्नाट्यं न यस्योद्भटम् || ८८ || कृत्त्यौन्नत्यतिरोहिताभ्रमखिलं पातालमान्दोलयत् पीलून् वेल्लयदाकुलं विदलयद्धेमाचलं हेलया | नीलाद्रिं च हिमालयं लयमहः सञ्चालयत्कुडली- शानं यस्य च भूतलं विनिमयं शक्त्या नयद्राजते || ८९ || स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इतिप्रथावति पदे निर्माति यः स्मासनम् | देवीनामविलासनाम्नि विवृते तत्तत्प्रभावोदयात् तत्काव्ये शिवसिद्धिनीतिसहजे भक्तिः प्रधानागमत् || ९० || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे प्रथमा भक्तिः || १ || द्वितीया भक्तिः तमेकदा नन्दिगणो गणानामधीश्वरः प्रश्रयसंश्रयात्मा | शस्ये रहस्ये विदिते हितेऽपि स्थिरस्थितिर्द्वारि विदारितेहम् || १ || स्वस्वामिसन्दिष्टकटाक्षसंज्ञामात्रेण सन्तर्जितसर्वचेष्टः | विशिष्टशिष्टादृतकष्टलब्धाविनष्टदौवारिकभावतुष्टः || २ || ब्राह्मे समुत्थाय मुहूर्तवर्ये ब्रह्मादयो योगिवरा यदीयात् | ध्यानाद् विनष्टाखिलकर्मदोषाः कुर्वंस्तमीशं सततं समक्षम् || ३ || कांश्चिन्नियोज्योचितदन्तकाष्ठे कांश्चिन्मृदाद्याहरणेऽपि शुद्धौ | स्नानार्थवारामितरान् गणांश्च वस्त्रादिकानां परिवर्तनेऽन्यान् || ४ || प्. २८) यद्ध्यानतः स्यात् त्रिविधा विशुद्धिः सिद्धाभिदां विद्धहृदां स्वभक्त्या कदाप्यभेद्या परमेश्वरं तं संस्नापयन् स्पर्शकरः करेण || ५ || यत्रासते सर्व इमे स्वरूपे तमासनेऽनर्घमणिप्रभाभिः | तरङ्गिते सुष्ठु निवेशयंश्च सन्त्रास्य भूतादिगणं प्रशान्त्यै || ६ || अर्चादिभेदस्य निभालनापि यदर्चया क्वापि विलीनतायै | सर्वार्चनेद्धस्य जनस्य तस्याप्यर्चार्थसम्भारमुपानयंश्च || ७ || संसाधितेनामलमन्धसापि तज्ज्ञैर्गणेन्द्रैर्बहुधा सुधाभिः | पुष्टैः प्रकाम्येन रसस्मितज्ञः सन्तर्पयन् भोक्तृपराद्यवेद्यम् || ८ || सहाशनान्तक्रियया क्रियाणां कर्ता परः प्रश्रयनम्रमूर्धा | शिष्टं प्रदिष्टाज्ञ उदारसत्त्वः शिष्टेश्वरेभ्योऽपि विभाजयंश्च || ९ || अहो यदाप्त्यै बहवोऽमरेशा अप्याप्तकामाः स्पृहयन्ति यत्नात् | स्वयं विघासं तमुपादधानः प्रदक्षिणीकृत्य सुदक्षिणायः || १० || ततः समुद्धृत्य सुखासनेन वाहेश्वरैर्मूर्धनि संधृतेन | सस्पर्धभक्त्या त्वरितातिवेगैर्वर्यासु शययासु निवेश्य भूयः || ११ || प्. २९) तैरङ्गरागैर्विमलैश्च माल्यैर्वस्त्रैरलङ्कारवरैः स्वसिद्धैः | कदाप्यलब्धैस्त्रिभिरीश्वरैश्च दिव्यादिभिस्तं परिभूषयंश्च || १२ || अत्युत्तमैस्तं कुसुमैर्महेशं भङ्ग्योम्भितै रक्तसितासिताद्यैः | स्वयं प्रवृष्टैरवकीर्य तैश्च नाथैः सह द्वारमुपेत्य हृष्टः || १३ || स्थाने प्रतिस्वं प्रविभज्य वीरान् गणादिकान् काम्यतमे परेषाम् | निजेऽपि मानं प्रतिनन्द्य मूर्ध्ना शान्तः प्रभृणामुपविश्य तिष्ठन् || १४ || ध्यानादतुष्टाञ् शिवमाकृतीशं कयापि भक्त्या प्रतिवीक्षितुं तम् | समागतांस्तान् सुमनोमहेशानुत्थाय कालेन निवेदयंश्च || १५ || समाहृतास्तैरुपधाः स्वभक्त्या निवेद्य हस्ते विनिवेश्य सद्यः | आज्ञां पराज्ञाकृदपारसंज्ञो ज्ञात्वा प्रभोस्तान् प्रतियापयंश्च || १६ || चतुर्मुखं मुख्यतमं सुराणां हृद्यानि पद्यानि कृतानि भक्त्या | आयान्तमादाय शिवप्रसादं प्रापयय दृष्ट्यायुपवेशयंश्च || १७ || कृता त्वदाज्ञा हतका हताश्च दैतेयवर्याः सुभरो निरस्तः | उर्व्या अपूर्वं विहितं वदेति संश्रावयन् विष्णुवचोऽतिमान्यम् || १८ || प्. ३०) सुरेश्वरं कल्पतरूद्भाअनि फलानि पुष्पाणि नवानि वाण्या | सन्दर्श्य तुष्ट्यै स्वयमानयन्तं संस्थापयंस्तं स्वपदे नयज्ञम् || १९ || दिने दिने यज्ववरैरजस्रमावर्जितं सद्धविराश्रयाशे | सर्वाश्रयेशस्य निदेशनेन विभाजयन् युक्तियुतोऽमरेभ्यः || २० || धर्मेश्वरं जातु निरस्तवीर्यं सशंकमायान्तमुपासनार्थम् | निजाधिकारस्य निवेदयन्तं कृतं च कृत्यं परिसान्त्वयंश्च || २१ || क्रव्यादनाथं धृतदेववैरं तं देवदेवेशमलौकिकेहम् | उपासितुं प्राप्तमफल्गुभांडपाणिं स्थितं नीतिमुपासयंश्च || २२ || अनर्घरत्नान्यमलाकरेभ्य उद्धृत्य भक्त्या घटितानि सद्यः | प्रचेतसं सर्वरसैकसारमायान्तमावेद्य सभाजयंश्च || २३ || स्वस्वार्थयूथाद् विविधान् सुगन्धान् मुहुर्नयन्तं पृषदश्वमारात् | शनैः शनैरीश्वरवीजनाय समादिशन् सेवनतत्त्वविज्ञः || २४ || भक्त्या प्रसादीकृतमित्रसंज्ञं निधीशमश्रान्तमुपासितारम् | विचित्रकार्येषु धनव्ययाय निदेशयन् वापि विभोः कटाक्षात् || २५ || रुद्रान् समुद्रानिव सद्गुणानां नानामणीनां परितोऽतिवीर्यान् | शम्भुप्रभाव्याप्ततनूविशेषान् निवेशयन् सादरमस्तभेदम् || २६ || प्. ३१) कंचिच्छिवागोपुररक्षणार्थमादिश्य यान्तं च शिवेक्षणाय | काण्डं कदल्या इव हेमवेत्रमास्फालयन् हस्तिमुखं स्पृशन्तम् || २७ || स्वबन्धुपुष्पाणि सुरापगायास्तूर्णं विकासं स्वयमापितानि | आदाय तिष्ठन्तमशीतरश्मिं निर्देशयन्नप्युदयं दयायै || २८ || कलानिधिं भालकलावतारमवाकिरन्तं सुधयोत्पलानि | नीलान्यनीलानि च चन्द्रिकायाः प्रसारणायानिशमादिशंश्च || २९ || गणेश्वरान् भृङ्गिवरान् प्रहाय स्वस्वाधिकारेषु दिने दिनेऽपि | कार्याय वर्याय गणैकधुर्यः स्वयं स्वकार्यं समुपास्य कुर्वन् || ३० || स्फुटत्किरीटोत्कटरत्नकोटीन् दण्डैस्तुराषाण्मुकुटान् निवार्य | शुद्धान्तयानाभिमुखस्य शम्भोः शुद्धान्तरोऽतीव पुरःसरंश्च || ३१ || तत्रात्मजं तारकजीवहारं क्लेशादशेषात् सुरतारकं च | कृतप्रतिष्ठं युवराजशब्दे समागतं तं प्रणमन् स्वपित्रा || ३२ || सुरासुराणां ललनाः समातृगणाः समेताः कृततद्विलोकाः | विसृज्य जीवेश्वरतां वहन्त्या मत्वा रमन्तं बहिरागतः सन् || ३३ || प्. ३२) संशिक्ष्य चर्यासु विनायकं तमन्तः समन्तादुपचारजासु | तद्द्वारमाश्रित्य निदेशवर्ती ध्यायन् समावेशदिशा तमीशम् || ३४ || आनन्दकन्दं करुणार्णवं तं श्रुत्वैकदन्तान् परिखेलनाय | बहिः प्रयातुं विहितैकसंज्ञं सञ्जान् क्षणात् संरचयन्सुवाहान् || ३५ || ततो वृषेशं बलिनां बलं तं गल्वर्कशैलं प्रभया हसन्तम् | वेगेन चेतोऽपि सुचित्रयन्तं विचित्रमुक्ताभपदक्रमं च || ३६ || शेषैर्विशेषैश्च गतेरशेषलोकेशवाहान् परितर्जयन्तम् | अधःस्थशृङ्गं ककुदः सुमेरोः सुरद्रुमस्कन्धविशालशृङ्गम् || ३७ || लाङ्गूलविक्षेपविभेदिताभ्रमभ्रे समुद्रेष्वपि न स्खलन्तम् | अभ्यस्तयानं स्फटिकोपलेषु संरोहणेनाप्यवरोहणेन || ३८ || हुंकारगर्भैर्मुखरैश्च शब्दैः शब्दान् परान् संप्रलयं नयन्तम् | विभूषणैः किङ्किणिकादिभिश्च रत्नाभिमृष्टैः किरणान् किरन्तम् || ३९ || आक्रान्तमध्यं ककुदः सुवर्णसिंहासनाग्रेण सवल्गनासम् | मणिप्रभामिः फणिनातिशालमूर्ध्नाङ्गरागैरभिशोभितं च || ४० || निरस्तसंवेष्टनमासनाग्रादारोहदेशान्तिकवामभागम् | आरोहयन्नन्यत आत्तपादाधारः पतिं श्रीपतिदत्तहस्तम् || ४१ || प्. ३३) वेगेन वायोः ससुवर्णवस्त्रप्रान्तस्थरत्नध्वनिनैजयन्तीम् | गणेन्द्रहस्तप्रतिरुद्धरश्मिपुरोगनानाविधवाहरत्नाम् || ४२ || प्रयोगसंहारविभागदक्षैर्यक्षैर्विसृष्टोद्गुलिकास्त्रशब्दैः | निर्घातशङ्काकलितामकस्माल्लोकानुकारोद्धुरभूतहासाम् || ४३ || तूर्णं प्रतीच्छ प्रसरेति भाषासंशोभिवक्त्रानुचरेशवर्गाम् | कष्टोत्थितेन स्फटिकोपलेभ्यः सितीकृताशां रजसाप्यजस्रम् || ४४ || तालैर्विशालैः पणवैश्च रत्नस्फुरन्मुखैर्धेनुमुखैश्च शङ्खैः | भेरीव्रजैरानककाहलीभिर्दिवं तथोर्वीमनुवादयन्तीम् || ४५ || यथोचिताचारगतिप्रगल्भां महाचमूं तां पुरतो विधाय | संरुद्धसिंहासनपार्श्वरश्मिर्यथाभिलाषं गमयंस्तमीशम् || ४६ || विहार्य तं चैत्ररथादिभूमौ तैस्तैर्विलासैर्मृगयाविशेषैः | निवर्त्य नाथं स्वनिदेशनेन विसर्जयन् देवगणं गृहेभ्यः || ४७ || कृतप्रणामेषु गतेषु तेषु प्रवेश्य नाथं निजसद्म रम्यम् | सन्ध्याभिवन्द्यं च समाप्तसन्ध्यं नीराजयन् दीपगणैः समन्तात् || ४८ || संविष्टमन्तः समुपास्य हस्तमर्दादिभिर्बोधविबोधकारम् | अप्यात्तसौषुप्तसुखं तदाज्ञां विदन् स्वदेशे शयनं च कुर्वन् || ४९ || किम्पूरुषैरप्सरसां गणैश्च गन्धर्वराजैरभिराध्यमानम् | तौर्यत्रिकेण प्रतिबोधयंस्तं सपादसंवाहमबोधबोधम् || ५० || प्. ३४) दिने दिनेऽप्येवमखण्डभक्त्या निषेवमाणः परसेव्यसेव्यम् | स्तोतुं समाधेर्विरतं पतिं स्वं प्रचक्रमे प्रष्टुमनाः प्रसन्नम् || ५१ || (एकपञ्चाशता कुलकम्) शिवेश शम्भो परमप्रकाशविमर्श निःस्पन्दनहर्षसार | स्पन्दैकरूपोतनरूपरूपनिरूपणीय प्रतिरूपरूप || ५२ || परादिदेवीश्वर तद्विकासविलासलास्यैकनटाधिनाथ | स्वातन्त्र्यतन्त्रोत्तम तन्त्रमन्त्र्यस्वमन्त्रसाक्षिन् परतन्त्रनेत्र || ५३ || नेत्रेश मन्त्राधिमहेशमन्त्रनाथादिपृथ्वीपरिमन्त्रणीय | अमन्त्रमन्त्रान्तरवित् सदैव स्वस्मिन् स्वयं स्वाकृतकानुभूते || ५४ || अमातृमेयादिमत प्रमाणप्रामाण्यकर्तः परदृष्टिमेय | अमेय मानीकृततत्त्वमायासम्मानितैतद्विभवानुभाव || ५५ || दिग्देशकालाकलनाकलाज्ञ तत्तत्कलानाकलनीयकाल | विशालसर्वात्मतलैकताल तज्ज्ञाभिभाल्यातलसद्बलान्तः || ५६ || प्. ३५) अहन्त्वबीजाङ्कुरितापरेह भावानुभूत्युन्मुख भावभाव | तत्कालिकाकारविचित्रचित्रशिल्प स्वयंसिद्धिसमिद्ध पश्यन् || ५७ || अनादिनादोदितविद्यहन्तापरासमस्पर्शविभागयोगिन् | एतत्तदालेख्यसवर्णवर्णमध्यप्रकाशोन्मिष सन्निमेष || ५८ || गुणीकृताहन्त्व परप्रधान भावानुसन्धानपरस्वभाव | स्फुटं विभागिन् विखरानिमेष परानिमेषाह्वय रूपशेष || ५९ || अचेत्य सच्चेत्यकलापरूपा(प)शिखण्डिनीखण्डकृताण्ड देव | चिदीश तुर्यातिगतप्रकाशविश्रान्त दुर्भ्रान्तिहरामलान्त || ६० || आनन्दनाथापरनन्दकन्द सुस्पन्दसान्द्रोदय मन्दमन्दम् | इच्छेश कामाद्यकलेच्छ नाच्कहलाकृते स्वच्छतरस्वचार || ६१ || अज्ञानविज्ञानसमुज्झितज्ञ स्वज्ञानविज्ञानसमाधिसिद्धे | ज्ञानेश कर्त्रादिकथार्तिवन्ध्य क्रियेश नैष्कर्म्यविशेषशेष || ६२ || अपोहटङ्कात्मविभेदहानिघनेक्ष्यविच्छित्तिकराच्छिदेह | स्मर्तव्यमुख्याभिनिकृतनेद्ध स्मृतीश्वराहंस्मरणप्रमाण || ६३ || मायोर्ध्वसंशुद्धविबोधकर्तृभावाभिशून्यापरशून्यनाथ | पराणुमायासुविलासभास्यत्रैश्वर्यखेलोद्धरणैकहेतो || ६४ || समष्टिनिष्ठाभरणप्रभान्तर्यामिन् सुसूत्रात्मकलातिदक्ष | वैराजराज स्वजनित्रिभावसमाजनीराजनराज्यभर्तः || ६५ || मायोररीकारक मारजीव जीवैकजीवाप्रतिमप्रभाव | सयुक् सखे स्वावरणातिलीलाचातुर्यचिन्तामणिभूः प्रभूमन् || ६६ || अव्याकृतानन्दसुधाम्बुराशे सत्सम्पदापन्न नकामकाम | स्वाहंकृतिव्याप्तिविमर्शनीय प्राज्ञैतदासंप्रलयाधिकर्तः || ६७ || प्. ३६) स्वोद्द्योतसंद्योतितचित्रचित्रविचित्रभावोत्कलिकाकुलान्तः | अकालकाष्ठाकृतिकालकालकाष्ठाप्रकारप्रकृतैकनैक || ६८ || आधारहीनासमवाययोग्यसम्भारभाराकृतिसाक्ष्यदातः | स्वयंसमुल्लेखविलेखलेखालेख्यैककालेखक तैजसात्मन् || ६९ || समस्तसाधारणभावभावाभावप्रभाविर्भवनानुभाव | अखण्डितैश्वर्यविबोधखण्डोररीकृतानीशनविश्वरूप || ७० || भोक्त्रादिवार्ताकल भोग्यभोक्तः संवित्तिसंभोगकरैकभोग्य | अलौकिकानन्दसुधैककन्द नानन्दजानन्द महारहस्य || ७१ || विराडधिस्थूलकलोपदेष्टः पराणुसूक्ष्मत्वविबोधबोद्धः | व्योमाशयव्यापकतानवाप्यव्याप्ते क्षतव्यापकतापरत्व || ७२ || अहंत्वदावेशपदात्यहन्त्व ससर्वसर्वेश्वर सर्वसर्व | त्वत्पादपद्मोत्थरजांसि सृष्टिसंहारशक्तीनि परं जयन्ति || ७३ || (द्वाविंशता कुलकम्) स्वस्वातन्त्र्यमहानुभावकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | गायत्रीमनुजेऽनु सन्तततनोर्भाष्यस्य तेनागमत् काव्ये नामविलासनाम्नि रचिते भक्तिर्द्वयोः पूरणी || ७४ || इति श्रीमहामाहेश्वराचार्यवर्यश्रीमत्साहिबकौलानन्दनाथविरचिते नामविलासे द्वितीया भक्तिः || २ || तृतीया भक्तिः नमो नमस्तेऽस्तु नमो नमस्ते भूयोऽपि भूयोऽपि नमो नमस्ते | न हृद्गिरां गोचर एष वाच्यो वाच्योऽपि लक्ष्यो महिमा तवैव || १ || महाद्वये दर्शनराजराजे प्रसिद्धसिद्धाप्रतिमप्रभावः | चितिः स्वतन्त्रोऽखिलसिद्धिसिद्धिः पूर्णोऽपि शून्यो जयसि स्वभातः || २ || अङ्गीकृतैतत्प्रसरे प्रसारमुपैति विश्वं तदिदं न वान्यत् | अन्यद्यथा त्वययभिलीयते च निमेषतत्त्वोन्मिषिते विशेषे || ३ || अन्यस्य कस्यापि न वात्र शक्तिर्भिन्नस्य तस्यास्त्यपि नात्मभानम् | अभिन्नभावो विषयत्वमेति विशेषशून्या स्वविदिस्तवैव || ४ || कालादयस्त्वत्कलया विभातास्त्वां सर्वकालं कलितुं हि नालम् | अत्रानुभूत्येकपदे न मान्यं मानं विमानं नच वोपपन्नम् || ५ || नित्योदितस्ते महिमा हि मत्त्वसमः समत्वासमतामतोज्झम् | त्वमेव चैतद्वपुषावभास्य भासि स्वयं कारणतादिभास्य || ६ || अपूर्वमाभाति यदि प्रमाणान्न तस्य सत्तास्ति न वेतरापि | तदन्यदस्माद् यदिवावभाति तत्तत् स्वसिद्धं किमिहान्ययोगः || ७ || विश्वैकवित्तिं परमं विभुं त्वां को वेद को वेदयितुं विधिज्ञः | स्वस्वोक्तियुक्तिर्विदिताखिलस्य न कोऽपि तस्या विदितत्वमेति || ८ || प्. ३८) सर्वस्वसंहारसुसिद्धसिद्धेरीशोऽपि यत् त्वं कृतसामरस्यम्(ः) | नैषोऽपि यातः किमतः प्रतीपमभिज्ञतां भोगविमोक्षभाक् स्यात् || ९ || मनोवपुर्नीलसुखादिकस्य मानोपहारक्रमतः परस्मिन् | आवेश एतस्य परोऽप्युपायस्त्वज्ज्ञप्तये मातरि सत्सुखेन || १० || इमं समं दर्पणराजपुर्या भिन्नं न भिन्नं निजयेच्छयैव | नवानवेहं विभवं स्वभित्तौ स्वात्मा समुन्मीलयसीश्वरेशः || ११ || त्वमत्र चादायकतामवाप्तः परं यथा(दा)देयमिदं विधाय | नानानुरूपं मिथ औचितीद्धं स्वयं विलासैकरसोऽवभासि || १२ || अत्यस्फुटेदन्त्वमहन्त्वभासा परं पराकारपरं तदेव | समाहिते नित्यशिवस्वभावे सम्भाव्य भाव्यं विदि पश्यसीश || १३ || ऊरीकृतेशानपदेऽस्फुटत्वत्परत्वमेतत् त्वयि तत् तथैव | शाखाव्रजावान्तरभेदभिन्नो माता समेऽस्मिन्नसि विद्ययापि || १४ || ज्ञानाकलः कर्तृतया सुशून्यो विशुद्धबोधस्तदभेदसारम् | अपारवारं हर पश्यसीदं भविष्यतां पूर्वदशाविशिष्टम् || १५ || शून्यप्रमातृत्वमये प्रलीनकल्पं त्वयीदं लयकेवलेऽपि | मितं विभिन्नं परितोऽपि चैतत् साकल्यतल्पे सकलं कलेश || १६ || तां स्वप्रकाशैकविशुद्धदेहां श्रितस्य वानाश्रिततां स्वशक्त्या | भावा अभावानुभवास्तवैव प्रकाशकाशाः सततं विभान्ति || १७ || अनुत्तरानन्दमयप्रकाशविमर्शसर्वैकघनस्य भूयः | परस्य विश्वातिगतस्य विश्वमयस्य विश्वं तव तत् स्वरूपम् || १८ || आदायकादेयकथाविमाथो न वस्तुतस्तेऽपितु तत्तदाद्यैः | नानाविशेषैः परमः शिवस्त्वं स्फुरस्यभेदोऽपि विलासनाथः || १९ || प्. ३९) स्वात्मैकतासंस्थितविश्वभासे रूपेण मात्राद्युचितेन पूर्वम् | शून्यातिशून्यात्मतया प्रकाशाभेदाच्चिदैक्याप्रथयावभासि || २० || संविद्रसाश्यानगुणैकजीवैस्तत्त्वैश्च कायैर्भुवनैर्हृषीकैः | नानानिसर्गैर्भवभूतिदेहः संकोचवान् वा प्रथसे यथा त्वम् || २१ || तथा ससङ्कोचचितिस्वरूपो विश्वैकरूपोऽपि न विश्वरूपः | आदायकोऽयं द्रुमबीजतुल्यो विकल्पतेऽपि त्वदभेदसारः || २२ || विश्वेश्वरोऽयं भगवांस्त्वमेव परं स्वसङ्कोचितया यथान्यः | सङ्कोच एषोऽपि विचार्यमाणस्त्वत्तो विभिन्नो नहि किञ्चनापि || २३ || एतत्प्रबोधप्रथनं हि जीवन्मुक्तिस्त्वदन्यत्वमतिश्च बन्धः | न तत्त्वतस्तौ तव नित्यमुक्तेर्बन्धेऽप्यबन्धेह्यफ(म)ला मनीषा || २४ || स्वरूपमाच्छाद्य निजेच्छयैव सङ्कोचमाभासयते यदा चित् | गुणागुणत्वप्रथया विभाति द्वयी गतिः स्वस्य तदाभिदस्य || २५ || प्राधान्यपक्षे स्वचितः कदाचिज्ज्ञानाकलत्वादिपदाभिमर्शः | क्रमात् क्रमादूर्ध्वपदप्रवेशे स्वानाश्रितत्वं भवति स्फुटं च || २६ || कदापि सङ्कोचममु.ं प्रसादपात्रं विधायात्मधिया प्रधानम् | संवित् स्फुरन्त्यस्ति यदा तदापि शून्यप्रमातृत्वमुपैति सिद्धम् || २७ || एवं चितिः सङ्कुचितात्मरूपा चेत्योन्मुखी चेतनतावरूढा | द्वयाभिसङ्कोचनशोचनीया चित्ताख्ययादायकताद्ययोक्ता || २८ || तत्रापि तत्रापि विकल्परूपा सदा त्वदर्थानुसरोद्यतस्य | ज्योतिष्ट्वमात्मीयमलुप्तमेव सुव्यग्रराजस्य यथा स्वराज्यम् || २९ || देहादिकाश्चित्तमतः प्रधानं तत्संस्कृतीद्धापि च शून्यभूमिः | न चानुसन्धानमिहान्यथा स्यान्मायाप्रमाता खलु तन्मयोऽतः || ३० || प्. ४०) निर्णीत एवं शिव एव साक्षात् स चेतनो ग्राहकताभिमानी | भेदायुजै(य नै)तस्य विभेदकारैरन्यस्य तत्त्वानुपपत्तितोऽपि || ३१ || प्राणादिसङ्कोचमतिः स एको गृह्णन् ससङ्कोचपदार्थभेदम् | प्रकाशवत्त्वेन निजेन भूयो द्विधार्थसङ्कोचितया मतोऽयम् || ३२ || स्वप्नेऽप्यसंस्पृश्यगतौ मलेन स्वस्मिन् मलानि प्रतिसन्दधानः | राजा यथा पङ्किलभूमिमग्नः सुप्तः स्वराज्यं न विदंस्त्रिधायम् || ३३ || स प्राणपुर्यष्टकदेहशून्यस्वभावभावी प्रथितश्चतुर्धा | बलैश्चिदाद्यैः स्वयमज्ञभावाद् विद्यादिताप्तैरपि पञ्चधायम् || ३४ || षडध्वमानाभिमुखश्च षोढा प्रमातृबोधात् किल सप्तधायम् | अष्टप्रथां याति पुरीश्वरत्वात् प्रयात्युपायैस्त्रिगुणैर्नवत्वम् || ३५ || देवेश्वरत्वे स दशत्वमाप्तस्तत्तत्स्वभावादपि मध्यसंख्यी | पञ्चीकृतैः सप्तविधैर्विभागी तत्संख्यया मातृभिरेष स त्वम् || ३६ || स्वीकृत्य देवेज्यमतादि भातास्त्वं भूमिकाः खेलसि नित्यमुक्तः | अयं परः शाम्बरिकः स कोऽपि विवादरङ्गं बहुधावभास्य || ३७ || लोकातिशायि प्रविलोक्य लक्ष्मीबलं विलासैकफलं विशालम् | आनन्दनं केचन तत्स्वरूपं लोकायतास्त्वां प्रियमामनन्ति || ३८ || ततः प्रियं केचन ते व्ययेन लक्ष्म्यास्तथा क्रेयमलं स्वमूलम् | विलोलखेलं कुलपावनं त्वां पश्यन्ति नाथं तनयं स्पृहाभिः || ३९ || व्यस्तेषु भूतेष्वनवाप्यमाप्यं सम्मिश्रितेषु प्रतिदेवयानम् | चिद्रूपमानन्दसमं गुडादौ तीर्थ्या गुरोस्त्वां प्रियमाद्रियन्ते || ४० || अनेलमूकादिषु दुःखदृष्ट्या ज्ञानक्रियाकारणभावतश्च | स्वच्छं ततोऽपि प्रियमिन्द्रियं त्वामिन्द्रादिवन्द्यं च विदन्ति केचित् || ४१ || प्. ४१) विनाशनां वापि पिपासुतां वा प्राप्तेर्विमूर्छादिकवेदनानाम् | कर्माद्यधिष्ठातृतया च सर्वप्राणं विदुः प्राणमिहेतरेऽपि || ४२ || एतज्ज्ञयातः प्रिययाखिलैकनिमित्तसङ्कल्पविकल्पशक्त्या | प्रकाशयन्ते प्रतिभासु चित्ताकाशश्रिया त्वामपरे चिदीशम् || ४३ || ज्ञानार्थवृत्तिक्षमनिर्विकल्पविकल्पकादिप्रतिभास्वरूपम् | क्षणं क्षणं लोलमपि स्मृतीशं त्वां सौगता अस्मरणं स्मरन्ति || ४४ || भावस्य सर्वस्य लयेऽनुभाव्यं सत्तापरज्ञानविहीनभावम् | शून्यं सदापूर्णमहो विदन्ति स्ववेदकं माध्यमिका भवन्तम् || ४५ || जीवादितत्त्वे नवधा विभक्ते हेयात् समादेयतमं विमुक्त्यै | अर्हन्तमष्टादशदोषहीनमर्हन्ति जैनज्ञजना भवन्तम् || ४६ || स्थूलाच्च कायाद् विषयिश्रियश्च नितान्तमुद्रिक्तगतिं महेशम् | सदापि तत्तापरिमाणमान्यमाशाम्बरास्त्वां प्रदिशन्त्यधीशम् || ४७ || ज्ञानादिभिः स्वात्मगुणैर्विशिष्टं भवेऽपवर्गे तु तदुच्छिदाभिः | शून्यं निमित्तं परमाणुतन्त्रं त्वां तार्किका नाथ वितर्कयन्ति || ४८ || सप्तार्थवित्ते परितः समाप्त्या प्राप्तादवाप्यं परमाप्तभावात् | सामान्यमेयं च कणादवादा वदन्ति कर्तारमिमं विभुं त्वाम् || ४९ || प्रत्येयविज्ञानमहंप्रतीतेरज्ञं तथोपाधितिरस्कृतत्वात् | विभिन्नवर्गैकविधेयसर्गं त्वां भाट्टवर्गा मृगयन्त्यमृग्यम् || ५० || अन्तर्बहिर्वा प्रतिसर्गवृत्तेर्नाशाक्षमत्वान्नितरामुपाधेः | अहंप्रतीतेरपि वाज्ञवृत्त्या प्राभाकरा अज्ञमुदाहरन्ति || ५१ || जीवाद्विभिन्नं समुपास्यमस्य संजीवनं कारणकार्यतायाः | पतिं पशूनां पशुपाशनाशशेषं विदुः पाशुपता वत त्वाम् || ५२ || प्. ४२) श्रीवासुदेवं प्रकृतिं परां त्वां प्रकाश्य जीवाग्निकणं लसन्तम् | अस्मात् स्वकार्यादितरं च केचित् प्रपञ्चयन्त्यञ्चितपाञ्चरात्राः || ५३ || अक्लेशकर्माशयपाकतन्त्रः प्रधानसत्त्वप्रतिबिम्बितत्वात् | पातञ्जलीये सकलज्ञ ईशः स्मृतोऽसि संसारिविलक्षणोऽपि || ५४ || प्रकृत्यधीनाखिलकार्यमन्यं तस्याश्च तज्ज्ञं पुरुषं विशिष्टम् | असंख्यसंख्यं विततैकसंख्यं भोक्तारमाख्याति च सांख्यसंख्या || ५५ || सर्वस्य सर्वव्यवहारवृत्तेः शब्दार्थतोऽतस्तदधीनसृष्टेः | आद्यन्तमानो ध्वनिपण्डितानां मतो ध्वनिर्ब्रह्मतयाध्वनिस्त्वम् || ५६ || अनाद्यविद्यानुभवेन कर्तृभावादिभाव्यं सकलैकभावम् | श्रुत्यन्तसंवादनखेललोला ब्रह्माद्वयं त्वानुभवन्ति सन्तः || ५७ || विश्वोत्तरो विश्वकरो बलैको निवेशितोऽस्यात्मबले परैश्च | विश्वत्र विश्वेन च विश्वविश्वं त्वां ते विदुर्विश्वमतोत्तरज्ञाः || ५८ || तदुत्तरं तन्मयमज्ञगुह्यं पूर्वं सदापूर्वमिमं स्वतन्त्रम् | केचिन्महार्थैकनयाः प्रपन्नास्त्रिलोकतालोकविलोकलोकम् || ५९ || अस्वप्रकाशानुमितिप्रकाशदुराशयाशाकृशपाशराशे | विशेषवैदग्ध्यजुषं महेशं माहेश्वरास्त्वां भृशमाविशन्ति || ६० || मूर्धाभिषिक्तं त्रिदशाधिराज्ये यज्ञेश्वरं यज्ञनयैकतर्प्यम् | वर्षादिदातारमुशन्ति केचिदैन्द्रा महेन्द्रं च दृशां निधिं त्वाम् || ६१ || हुत्वाश्रयाशं सुनिराश्रयाशमशेषदोषप्लुषण(प्लवन)प्रकाशम् | बर्हिर्मुखस्वस्वमुखं मखेषु त्वां तज्जनाः केचन विश्रमाय || ६२ || समासमानां समताक्रियासु क्षमं समेषां यमिनां च साम्यम् | अमा नयन्तं स्वयमे नमन्ति कर्मान्तकं धर्मविदः परे त्वाम् || ६३ || प्. ४३) पूर्वं निजांशं मखतो दधानं परोपदेशाद्रसराजसिद्धेः | सम्पूरिताशं शिव पौर्वदेवास्त्वां पूर्वदेवेश्वरमामनन्ति || ६४ || सुसाररत्नाकरदेशनाथं जलाशयावेशितसत्त्वमन्ये | नियामकं सत्त्वगणस्य नित्यं नियामयन्त्यप्पतिमीश्वरं त्वाम् || ६५ || त्वां प्राणनं प्राणवतां बलानां बलं विभक्तान्तरपञ्चवृत्तिम् | अन्येऽप्यनुच्छेदगतिं महेशमभ्याससिद्ध्येकनिधिं भजन्ति || ६६ || निधिं निधीनां विपदां विपत्तिकरं सुदुर्धर्षतृषापकारम् | नीराजयन्तेऽखिलराजराजं तेजोव्रजैः पुण्यजना भवन्तम् || ६७ || ब्रह्मादिबीजैकविधेयसर्गं निसर्गवर्गप्रभवं भवादिम् | ब्रह्मेश्वरं ब्रह्मविदर्भगर्भं त्वां ब्राह्मणा ब्रह्मणि बृंहयन्ति || ६८ || वैकुण्ठनाथं हतकुण्ठबुद्धिं दुष्कर्मषण्डत्वकरं परं त्वाम् | उत्कण्ठते द्रष्टुमतीतकष्टं केषांचनान्तः परदिष्टशिष्टम् || ६९ || सत्सम्प्रदाये सहजे समाधौ समाहितास्त्यक्तहिताहितास्थाः | निर्मुक्तिमुक्ताः कमपीनमेनं कुर्वन्ति साक्षात् सनकादयस्त्वाम् || ७० || साङ्गेन योगेन विकल्पकाख्यमतीत्य तत्पारसमाधिसिद्धम् | प्रसिद्धसिद्ध्येकवि(नि)धिं च सिद्धा आराधयन्त्यात्मपतिं भवन्तम् || ७१ || त्वां नादभक्तिप्रविभागगम्यं जडाजडान्तर्हरणैकरम्यम् | अगम्यमज्ञार्तधियो गुणैः स्वैर्गन्धर्वराजा अभिरामयन्ति || ७२ || सप्त स्वरांस्त्रिष्वपि मूर्च्छनाभिर्ग्रामेषु संमूर्छ्य मुहुर्मुहुस्त्वाम् | प्रसाध्य वाद्यं विदितं चतुर्धा गायन्ति गेयादिगुरुं हयास्याः || ७३ || प्. ४४) गेयस्य वाद्यस्य तथानुरूपं लयेन नानागतिसंश्रयेण | अनन्यभावाः सुरवारवध्वस्त्वां प्रीणयन्ति प्रतिशक्तिनाथम् || ७४ || पात्राणि नानाविधिनानुकृत्य न्यक्कृत्य शोकं हतलोकलोक्यम् | अलौकिकानन्दघनं पतिं त्वां भूताः पिशाचा अपि हासयन्ति || ७५ || प्रतिस्वयुक्तं स्वरमण्डलाद्यं(ढ्यं) वाद्यं सुनादैः परिवादयन्तः | भक्त्येकवश्यं निजभक्तवर्यास्त्वां नारदाद्या अपि कीर्तयन्ति || ७६ || स्थितिं श्रिता लङ्घितसप्तसप्तिं सप्तर्षयः सामकथाविदग्धाः | त्वां सामभिः सप्तभिराप्तकामा उपासते सामजवाक्यगम्यम् || ७७ || विद्याभिराद्याभिरनाद्यविद्याविदं विधिज्ञाः प्रतिविद्धसिद्धिम् | विद्याधिपं वेदकवेद्यवेद्यं विद्याधरास्त्वामभिदे विदन्ति || ७८ || सिद्धाश्च साध्यादतियातसिद्धिमसिद्धसिद्ध्येकविदां विवेद्यम् | समाधये त्वामसमाधिवाधं साध्या अधीशं वत साधयन्ति || ७९ || चिकित्सया तानमरानपि द्रागापादयन्तावगदत्वसिद्धिम् | त्वामश्विनावादिभिषग्वरेण्यं संध्यायतो हृद्यमनाधिनाथम् || ८० || विश्वेश्वरं विश्वमतावभातं विश्वत्र विश्वेन च वेद्यमेकम् | अवेदकान्यं विधिनापि विश्वेदेवा हृदि त्वां विनिवेशयन्ति || ८१ || निर्वासनावासितवासनानां समासितं निर्वसनं स्ववासे | वसुव्रजैस्त्वां वसवोऽपि तृप्तेः सन्तर्पयन्त्येककहेतुहेतुम् || ८२ || प्. ४५) पटुं नटं चेटकनाटकानां मायाटनं त्वामपि गुह्यकौघाः | गुह्यातिगुह्यं परितो लसन्तमपि प्रभुं प्राप्तुमुपोद्बलन्ते || ८३ || भक्त्या प्रसादीकृतमेरुलङ्कं त्वदन्तिके वैरकलङ्कशङ्काः | सुरैस्त्यजन्तो दनुजा भजन्ते सराक्षसा धन्यतमं विभुं त्वाम् || ८४ || अगण्यनैपुण्यधनाग्रगण्याः पुण्याप्तसेवाग्रहसंग्रहेण | गणा गणानां गणराजराजं त्वां सद्गुणा नाथ सदा भणन्ति || ८५ || उत्कीर्णरत्नैः स्फटिकोपलेषु चित्रं विचित्रं विनिवेद्य भक्त्या | पश्यन्ति यत्न(यन्त्र)ज्ञमिनं स्वकीयं त्वष्ट्रादयस्त्वां सुरकारुवर्याः || ८६ || अनुग्रहापग्रहयोर्जनस्य संग्राहिता आग्रहमीशशक्त्या | त्वामेव कालेश्वरमाकलयय ग्रहा ग्रहोज्झं पथि यान्ति नित्यम् || ८७ || अबीजतर्वादिभवो विकासी निश्चन्द्रसूर्यं खवने सुशून्ये | त्वां भूषयत्यात्मपतिं च ताराकारोऽतितारः कुसुमोपकारः || ८८ || दिव्याश्रये क्वापि शिलाजलेषु कुत्रापि कुत्रापि गिरौ तरौ वा | जनो मनस्त्राणदमिष्टदेवं त्वां प्राकृतोऽप्यर्चति विश्वविश्वम् || ८९ || नारीभिरालिङ्गितवामभागा युक्तद्विजिह्वा गुणगानशक्त्यै | गायन्ति शेषादिकनागराजाः शेषेश्वरं त्वां कृतशेषशेषम् || ९० || प्. ४६) त्वां रूपवन्तोऽपि च वायुवेगा नानानिसर्गैः करु(र)णैरुपेताः | द्विधा गतौ दक्षतमाः खगानां गणाः खगेशं परिवीजयन्ति || ९१ || वने वने संश्रितवन्यवृत्तिः कस्तूरिकाद्यैः स्वगुणैः समिद्धः | मृगव्रजस्त्वां नमति प्रसत्त्यै पञ्चाननेशानमपास्तमानः || ९२ || सुरापगायां विहिताभिषेकं त्वामर्धभोगेन च सल्लकीनाम् | निजाङ्गनाबुर्बुरकादिवाद्यैः सन्तर्पयद् गायति हास्तिकं च || ९३ || वादानुरूपं परिनर्तयन्तः पदक्रमं स्वं सततं सदश्वाः | हेषाविशेषैः परिवाहनाय त्वामाह्वयन्तेऽप्रतिमं स्वनाथम् || ९४ || तां कैशवीं वृत्तिमुपास्य तिष्ठञ्जलाशयेषु स्वपतिं भवन्तम् | वाश्चारवर्गोऽप्यनिवार्यचर्यमितस्ततोऽन्विष्यति तोषहेतोः || ९५ || सोमेश्वरं त्वामपि कालकूटमापादयन्तं परसोमभावम् | ससोममौलिं कलिकालहारं महौषधीनां नमतीश सङ्घः || ९६ || स्वस्वामिभावप्रथितासु तासु तास्वीदृशीषु प्रतिभूमिकासु | अयं परः कोऽपि परापरस्थः खेलस्यखेलैककखेलखेलः || ९७ || परात्मतन्त्रत्वकलाबलेन विभासितास्ताः खलु भूमिकास्ते | स्वाच्छादनोन्मीलनतारतम्यप्रभेदिता भेदविभेदकर्तुः || ९८ || एतावतीं व्याप्तिमुपागतस्त्वमंशांशिकायां भवदिच्छयैव | न ग्राहिता आग्रहमल्पदृष्टिनिष्ठा विदन्ति स्ववदं सुसारम् || ९९ || देहादिभूमावपि पूर्वपूर्वप्रमातृताव्याप्तिविमर्शसाराम् | विदुर्विना ते परशक्तिपातं न किञ्चनाकिञ्चनगां स्ववित्तिम् || १०० || प्. ४७) नीलादिकानां च सुखादिकानां विश्रान्तयोऽन्तर्मुखबोधदेहाः | त्वद्व्यक्तये त्वत्प्रथिआ उपायास्तवैव तत्तद्विदि वेदकस्य || १०१ || बहिर्मुख भाति यदा यदेदं रूपं स्वरूपे च तदा महेश | बाह्योपसंहार इहान्तरापि शान्तास्पदस्थानमिदन्त्वभक्त्या || १०२ || सृष्ट्यादिसम्मेलनहेतुरेषा तुर्यैव तत्तद्भिदमुद्वमन्ती | हरन्त्यपि प्राप्तबला कृशा च द्विधानुभूत्येकपदा स्फुरन्ती || १०३ || स्वतन्त्रतायाश्च यदा चिदात्मा व्याप्तिं निमज्ज्यैकमयीं भिदायाः | आलम्बते सङ्कुचितास्तदानीं तच्छक्तयो भान्ति न तादृशोऽपि || १०४ || मलावृतः संसरते तदैव परेश्वरोऽयं निजयेच्छयैव | अपूर्णतादेरभिमानकस्य मन्ता दरिद्रः परशक्तिलक्ष्म्या || १०५ || तथापि तद्वन्निजपञ्चकृत्यमस्याहतं भाति हि लक्षणाय | मुहुर्मुहुः सृष्टिमुखैकहेतुराभासनाद्यं च विभास्यभासः || १०६ || अज्ञातृतायां परकृत्यलक्ष्म्याः स्वशक्तिभिर्मोहितता भवित्वम् | तस्यास्तथोन्मीलनतः स्फुटं च महेश्वरत्वं निजमस्य नूनम् || १०७ || अन्तर्मुखं चित्तमुपात्तसंज्ञं क्रमात् क्रमाच्चेतनभावरूढम् | चितेः स्वरूपं परिमृष्य भूयो विभुत्वमायाति निजं परं तत् || १०८ || चिदग्निरेषोऽप्यवरोहदेशे च्छन्नोऽपि सर्वोऽपि च मेयजातम् | प्लुष्यत्यदः स्वानुभवैकमेयस्तत्तत्स्वरूपे कलयैव कालः || १०९ || अथापि लब्धे सकले बलेऽयं निजे परस्मिन् सहजे स्वतन्त्रः | सदाशिवाद्यं जडभूमिकान्तं करोति साक्षादिदमात्मतन्त्रम् || ११० || भूयोऽपि भूयोऽपि चिदेकताया दार्ढ्याभिमर्शात् प्रतिपत्तिमाप्तः | सञ्चेत्यमानेऽपि च देहमुख्यभावे विहारी परिनिर्विमुक्तः || १११ || प्. ४८) विकल्पहानिप्रमुखा इहापि प्राणप्रवाहप्रतिरोहभेदम् | अन्ते श्रितास्ते प्रथिता उपाया युक्तिस्थिरा मध्यविकासभासे || ११२ || सच्चित्सुधानन्दपदानुलब्धिर्दृढा भवेन्मध्यविकासतोऽस्य | एकादशाङ्कस्वकलाबलज्ञः कलं कलं लालयते समाधिम् || ११३ || समाधिसंस्कारवति प्रकामं व्युत्थान आमर्शितया चिदैक्ये | पुनः पुनः पूर्णसमाधिलक्ष्म्या नित्योदितायाश्च भवेदभिज्ञा || ११४ || ततः स्ववीर्यैकसुसारपूर्णाहन्तापरामर्शनविश्रमेण | अनाश्रितस्यात्मविभोः स्वसंविच्चक्रेश्वरत्वं स्वयमाविरस्ति || ११५ || एतावतीं स्वानुमतिं गतोऽहं त्वद्दर्शनानुग्रहलेशमात्रात् | दासाणुदासोऽपि महेश्वरेश त्वं तु स्वयं तद्यदहं प्रपद्ये || ११६ || तद् द्वापरो मे हृदये चिराय कृतप्रतिष्ठोऽस्य निवारणाय | पृच्छामि यत्किञ्चन तत् कृपातः क्षन्तव्यमीशाः किल भक्तिवश्याः || ११७ || यद्यप्यहं तत्त्वरहस्यमेतदाक्षिप्य कुर्वे शिवदानुयोगम् | तथापि वाच्यं प्रभुभिर्दयायै मम त्वदङ्घ्र्येकसमाश्रयस्य || ११८ || दासाणुदासः स्पृहयालुरस्मि प्रसादलेशाय तवैककाय | इति प्रतिष्ठामधिगम्य वक्ष्ये कथं न कुर्वन्ति दयां महेशाः || ११९ || सा देवता कास्ति परा त्वयापि यस्याः स्तवः शङ्कर राजराज | सञ्चिन्त्यते चेतनचेतनेन त्वत्तः किमन्योऽस्ति परः परस्थः || १२० || नन्दीश्वरेणाभ्यनुयुक्त इत्थं कारुण्यवारां निधिराप्तबन्धुः | जनोपकारं हृदये निधाय हसन्ननिर्वाच्यमथाप्युवाच || १२१ || पृष्टं त्वया नन्दिक साधु साधु यत्त्वं गणेशस्तदियं मनीषा | स्वस्येतरेषामपि तोषहेतोरभ्युत्थिता ते विषये विशेषे || १२२ || प्. ४९) मुहुः प्रणुन्नेन च नो मयोक्तमेतच्छिवाया अपि नन्दनाय | वक्ष्यामि ते सर्वहितं तथापि मदेककप्रेमविवर्धिताय || १२३ || तं सान्त्वयित्वैवमुदीतहर्षः स्मृत्वा परां शक्तिमनन्तशक्तिः | सन्दर्श्यन् व्यक्तिपदं परेशः स्मिताननः स्तोतुमनाः समाख्यत् || १२४ || स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | देवीनामविलासनाम्नि ललिताचित्स्फारसाराद्वय- भ्रातर्यत्र तदीयकाव्यनृपतौ भक्तिस्तृतीयागमत् || १२५ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे तृतीया भक्तिः || ३ || अथ चतुर्थी भक्तिः पराङ्गं मे स्वाङ्गोत्तमसहजशृङ्गारसुभगा नगोत्तुङ्गाभङ्गान्वयमुकुटरत्नं निरुपमम् | महादेवी देवासुरवरनरोरश्चरगणैः समाराध्या साध्यैरपि परमनाद्या जयति सा || १ || तदासक्तो युक्तो भवति निजयायं शिवतया तया शक्तः शक्रादिकमपि नियन्तुं यतिपतिः | सदा मुक्तो भक्तो भवति दयया वा सदयया परिष्वक्तोऽप्यस्या हतविषयसंविद्विनिमयः || २ || महाहन्तासारे गहनतिमिराटोपमिहिरे निराकाराकारे प्रशमितविपत्तापनिकरे | स्वभावे सा त्वत्ताविरहविषये पूर्णविषये निरादृश्यं दृश्यं हतपरकलं पश्यति परा || ३ || गता पश्यन्त्याख्यां प्रकटितपराहंकृतिपदा शिवा तत्तद्भावोद्भवनविलसन्नर्मसुभगा | सदानन्दास्वादोद्यमितधिषणैरीड्यविभवा भवाभेदप्रख्यं रचयति नवं भव्यमिह सा || ४ || प्. ५१) पुनः सा स्वाहन्ताकवलिततनूमप्यतिरसात् समाश्रित्येदन्तामपिहितजगद्भावविसराम् | स्फुटं तत्त्वज्ञानप्रकटितगतिर्मध्यमभुवं गता नादोन्मेषं विशदधिषणेभ्यः प्रदिशति || ५ || श्रिता वैखर्याख्यां समविषमभावानुभवने त्रयीगम्या रम्या नवनवविलासाभिरसिका | गुणीकृत्यात्मानं गुणगणसमाधानललिता- मिदन्तां निर्गुण्यां प्रकटितवतीयं विजयते || ६ || निजोद्योतप्रोतप्रकृतिमुखसादाशिवपदा- वधिर्जीवग्रासाद् विदलितमहामोहकलना | विलापययात्मानं दशदलशतेऽनाश्रितपदे सुधाधारासारैर्विदितभजिता तर्पयति सा || ७ || न यः प्राणायामैर्विविधविधिवन्धार्तिगहनै- र्न वान्यैर्योगाङ्गैः क्षणमपि लयं याति सुधियाम् | तदुन्मेषात् सोऽपि प्रसभमभियातः प्रविलयं महामार्गे प्राणो जनयति परानन्दमतुलम् || ८ || इयं ज्वाला किंस्वित् खपदमुपयाता किमथवा प्रयातं खं ज्वालापदमिति सतां विस्मयकरी | विलापययापानं द्विशिखमभितः प्राणकुहरे तमात्मन्येकाकिन्यमृतरसिकेयं विजयते || ९ || महीं तोये तोयं हुतवहपदे तं च पवने तमाकाशे तं वा मनसि च मनो नादसरणौ | प्. ५२) विधायैनं बिन्दौ विअलयगतमेनं निजपदे शिवा ज्योतीरूपा रहसि रमते सा स्वपतिना || १० || सुधास्वादोन्मत्तान् विगलितमहामोहगहना- नवेक्षन्ती नाथानकथपरिपाट्या श्रितपदान् | नयन्तीयं तांस्तानधिपतिवरान् स्वस्वविषये परां तृप्तिं भूयः श्रयति सुखमात्माश्रमपदम् || ११ || उदीतैषा भावात् परमविभवाद् भावविकला- दभावाभाव्याद् वा किमपि च भवद्भावमभिदा | भिदेवाविर्भाव्य प्रथयति गुणत्वं गुणगति- र्गुणास्पृश्या स्पृश्यं चिदभिगणनाहीनगणना || १२ || शिवाभासे शक्तिः परशिवपदे तन्मयनया महाविद्या सादाशिवभुवि महेशानविषये | महामाया माया पशुपतिदशायां बहुकला महन्मुख्यप्रख्या निजमियमुपाख्याति विभवम् || १३ || अनुत्तीर्णाकीर्णा त्रिकमयविदैक्येन विशदा परं तत्तत्तत्त्वं परमिव परानन्दसुभगा | सिसृक्षुः स्वातन्त्र्यान्निजममलखेलं बलकलं स्वभित्तौ स्वेनैव प्रतिविभववेद्यं विधिविधिः || १४ || निजानन्दस्यन्दोद्वमनमतिगाढं विदधती कृतान् भावांस्तेन प्रतिपदमलं मिश्रितवती | स्वयं सम्भारादिः स्वयमपि महाशम्बरकला स्वयं तत्तन्मोहं व्रजति परमैषा मयि निजे || १५ || प्. ५३) अवारूढा स्वीयात् सपदि च पदात् सम्पदपदे विकल्पानां भूता प्रतिमतमतं काममभितम् | विधायेच्छाकल्पा कलयति कलाकौतुककलां कलाकौशल्येऽस्मिन् समभिनवचिन्तामणिरियम् || १६ || गताक्षत्वं वाचामविषयगतौ भानविषया परा वाणी प्रादुष्कृतपरमशब्दार्णववपुः | जगद्वेदस्याप्त्यै तमपि च जगद्वृत्तिविधये विधात्री संसेव्या स्वविदि विधिना सैव विधिना || १७ || तया ब्राह्म्या सृष्टिं सृजति विधिरिन्द्रावरजनि- रिमां वैष्णव्या वावति हरति रौद्र्यापि च हरः | पिधत्ते चैशान्येश्वर इह महाशक्तिकलया सदाशम्भुः स्वात्मन्यकलमनुगृह्णाति कलयन् || १८ || उमा कौमारी सा गिरिवरसुता काचन शिवा ददातीष्टां सिद्धिं मदुपममतिभ्यो मतिमपि | परां शान्तिं भ्रान्तिप्रतिजनिततान्तेर्विदलने परां सारोद्धारां विमलललितं मङ्गलमलम् || १९ || समुन्मेषात् तस्या जगदुदयमेति प्रतिपदं यथा बीजान्नानावयवकलनो भूरुहगणः | निमेषादप्यस्तं व्रजति सहसा नैक्यविमलं मयूराण्डाभ्यन्तारस इव परं चन्द्रककलाः || २० || तया तास्तास्तन्वो निजजनदयायै प्रकटिता हितारम्भाः सम्भावितभुवनरक्षापरिकराः | प्. ५४) विधाता या दृष्ट्वा समभिनवसर्गैकविषयाः स्वकीयं वैधात्रं श्रममिव कृतं वेत्ति विफलम् || २१ || इयं तासां काचित् परममुकुटं शोभयति मे परार्धाङ्गं गङ्गामुकुटजयिनो भक्तशिवदम् | श्रितस्यात्मानन्दं परममपि मृत्युञ्जयपदं निराकारज्ञप्तेः किमपि च महाकारविशदम् || २२ || अहं शक्तीशानोऽपि च नहि विवेक्तुं परिचयात् तदीयं तद्रूपं वितुलविमलं केवलबलम् | मुखैः ख्यातैः शक्तः स्वयमपि गिरामीशपदवीं प्रयातः साकल्यादकलकलनः कालकलनः || २३ || अतो जानंस्तस्यास्तदिह गदितुं सैव विरला परा शक्तिः शक्तेत्यपि परिसमाख्यातुममलम् | यदारम्भं कुर्वे सततममितं सम्प्रकलये तदेषाहं सोऽहं त्वियमिति हि विश्वेश्वरवरः || २४ || रहस्यं मेऽप्येतत् परहृदि विदित्वापि भवता परं गोप्यं गोप्यं सकलसतताविष्कृतमलम् | स्वरूपं सद्रूपं मयि परिणतं रूप्यविभवं ममास्याः कस्या अप्यतिविमलभक्त्युक्तिविषयम् || २५ || अनन्तालङ्कारं परगुणधरं सद्रसवरं बहूद्भावं शक्तिप्रथमविभवं शब्दविषयम् | प्. ५५) महामेयं दोषोज्झितमिदमहं वक्तुमखिलं क्षमो रूपं चैतद् वरदमपि वः पादभजनात् || २६ || कचानस्याः शस्यान् वत कलयतश्चेतसि मम भवत्यान्ध्यं स्वात्मापरमतिहरं तत्क्षणमथ | सदा दृष्ट्वा कृष्,नान् विशदकरसङ्घं विकिरत- स्त्रिधाम्नां धामत्वं समधिगतमेवाक्षिकमलैः || २७ || कचानेवैतस्याः परशिवपदोऽहं श्रुतिपदे समालोक्यावोचं सपदि तम आसीदिति वचः | परामृश्यानन्दोद्धरणचतुरान् कानपि परान् पुनः पूर्णानन्दं सदिति च रुचा घूर्णितगतिः || २८ || कचेभ्योऽप्येतस्याः समधिगतवानस्मि बहुता- परं सौक्ष्म्यं पूर्णायतिमपि विभुत्वस्य परितः | सदैवान्तेवासी गुरुवरभरेभ्योऽपि च तथा तथा कालं वर्चः कचितकचितं निश्चलचलम् || २९ || महाकालेशत्वं मम निरुपमं कार्ष्ण्यमचलं हरेर्भक्तिव्यक्त्या विततविशदाभ्यन्तरगतेः | कृतं पूज्यैः पूज्यं बहिरतिहितं वीक्ष्य चिकुरै- श्चतुर्वक्त्रैर्धाता तदधिगतये स्तौति किमलम् || ३० || कचा अस्या व्यस्ता गमयितुमलं नैक्यमपरं समस्तास्ते शस्तास्त्रिदशपतितां त्र्यावलिवृताः | अतोऽहं सः ख्यातः सकलकलतामेकतलतां समस्ते वा व्यस्ते सहजविभवेऽस्मिन् कलयितुम् || ३१ || प्. ५६) कचान् मुक्तान् दृष्ट्वा व्रजति वत बन्धं मम मनो विनिर्बन्धैः काम्यं हतपरगति प्राप्तसुपदम् | स्वयं बद्ध्वा हस्तैः सपदि सहजां वेणिविधिना विनिर्मुक्तिं चास्या अबहिरिव बाह्येऽपि विषये || ३२ || भजन् केशेशानान् विमलवितुलान् केशपतितां गतोऽहं चैतस्याः सततममितामन्तकहरः | अतः केशाः केशा अहमपि महेशः परपर- श्चिदाकाशे काशे विशदविभवे भास्करकरः || ३३ || कचेभ्यो यत् सत्त्वं विशदकिरणेभ्योऽपि च रजः प्रसिद्धेभ्योऽप्यस्मद्धृदयपदवीरञ्जनतया | तमः कृष्णश्रीभ्यः प्रभवति तदेतद्भजनत- स्त्रिदेवीमूर्त्यैकस्त्रिविधविधिकृत् सोऽहमुदितः || ३४ || इमान् केशेशान् यन्मम हृदयमाविश्य बहुशो बहिःस्थं प्रत्येकं मुखमुखपदे बालनिकरात् | तदेतद्व्यक्तीशं यदि खलु लभेताप्यपरथा स्थितिं तत्तत् किं स्यादिति कलयितुं नास्मि सकलः || ३५ || शिरोव्योम्नि व्यस्तं कचतिमिरवृन्दं नयनगं रविं शत्रुं सीमन्तमुखकृतमावर्तितमलम् | तृतीयाक्षिज्वालारुणितमपि सिन्दूरवपुषं किमस्या उद्युक्तं शसितुमुचितं दण्डसुदृढम् || ३६ || विलोक्य स्वर्गङ्गां मम शिरसि सङ्घर्षणधिया कचव्रातैर्भूता किमु जलधिमूर्धा भगवती | प्. ५७) यदेतेऽन्तर्देवद्रुमकुसुमवृन्दैः परिलसत्- तरङ्गश्रीबन्धा दधति खलु रत्नाकरकलाम् || ३७ || कचानां वेणीयं लसति वरनागीव रमणं मयाङ्गे बद्धं स्वं मृगयितुमिवातित्वरयती | पराङ्गादारूढा शिरसि कचविन्यासकरिजो(रणो)- ल्ललज्जिह्वा दृष्ट्वा परिहृतगतिर्वासुकिमिमम् || ३८ || तुलां वालाग्रेण श्रयितुमिव केकी जलधृति- व्रतापापोऽप्यस्यास्तनयवहनादागसि भयम् | विविच्याथाजानन् वदति नु कलापं स्वमपुर- स्कृतं निन्दन् ह्येतत् प्रियमिति मुहुः पक्षिपशुराट् || ३९ || त्रिलोकेभ्योऽपास्तं कचतिमिरराजं त्रिभिररं शिरोदुर्गोन्नद्धं भजनविजितश्लाघ्यविषयम् | कृतव्यूहैस्तेजःपतिभिरुचितं पक्ष्मकिरणा अधः क्षिप्ता दृष्ट्वा कुसुममुकुटाढ्यं नयनगैः || ४० || प्रतिस्वं धामेशैस्त्रिभिरुदयदिष्टे त्रिभुवनात् कृतावासं केशे तिमिरमभिनिष्कासितमिदम् | कृतद्वारारोधैरपि सपदि पश्चात् प्रचलितं भ्रमद्भिर्भूयोऽपि स्थितमिह विलोक्यावृतजगत् || ४१ || प्रसाद्यैतान् बालांस्तिमिरवपुषः स्वेदसलिलं हृतास्थानान् बालान् त्यजत इव वाष्पं समुचितम् | स्वहस्तैः संस्कारैरभिरचितसाम्नो रुचिपतीन् रिपूनामुञ्चत् किं सहृदयवरैः पक्ष्मभिरियम् || ४२ || प्. ५८) किमेतैः सद्बालैरभिलषितखेलैः पदगतैः कृतां याच्ञां मत्वा क्षमगतिरुपप्रापितवती | रविं चन्द्रं मध्येऽप्यनलमनयोः स्थापितवती प्रयातां मा म्लानिं मुहुरतिकरस्पर्शत इति || ४३ || अगैः स्वेनात्मीयः कुसुमनिकरो निर्जरपति- द्रुमैर्माल्यव्याजात् प्रहित इह केशेभ्य उचितम् | सुसूक्ष्मं दीर्घत्वं निपतति पदोः शिक्षितुमल- मशक्त्या संम्लानस्तदभिगमने हीण इव किम् || ४४ || घनान् केशानेतांस्तुलयितुमिवाटोपविकटा घना अभ्युद्युक्ता मुकुटविधुनानामणिकरैः | लसद्भासः सम्यक् चपलचपला नाप्ततुलना- स्त्यजन्ति क्रन्दन्तो बहुसलिलवाष्पं खविषये || ४५ || इमं दृष्ट्वाहीन्द्रग्रथितसुजटाटोपमुकुटं कचाः सोमासङ्गानुगतकवरीपुच्छलसितः | धृतोऽहीन्द्रो राहुः किमिव शिवया यत् स्वपुरतो गतौ वह्निं कृत्वा रविहिमकरौ पक्ष्मशरणम् || ४६ || अमानोऽन्तः कृच्छ्राद् बहिरिव तुलायै परिचलो विनिर्गच्छन् पश्चादमरचमरैर्बालनिचयः | प्रमार्ष्टुं तन्मन्तुं व्यजनविधये देववनिता- करे बालेशानां प्रहित उत नीराजनधिया || ४७ || प्. ५९) गतैर्मुक्ताभावं गगनमणिभिस्त्रिर्गुणमयी ललन्तीयं देव्या हरति मम चित्तं सुरसरित् | किमत्रासङ्गेहा तपनतनयायाः कचतते- र्ममेक्षायै किं वाभिमुखमुपयाता त्रिपथगा || ४८ || ललन्तीव्याजेनाहिमहिमकरग्राससभया ग्रहा नानोद्योता मणिविरचना राहुचिकुरान् | अनुद्गच्छत्केतुप्रबलकवरीभारललितान् किमायाता नीराजयितुमभिसत्कारविधये || ४९ || विधुं कृत्वा किंस्विन्मुकुटविधये केवलकलं वपुः शिष्टं साम्ने प्रकटितमिदं भालफलकम् | यतो निर्गच्छन् मां श्रमजलसुधाबिन्दुनिवहोऽ- भिषिक्तं सम्पूर्णं विरचयति मृत्युञ्जयपदे || ५० || विधुर्याच्ञां कृत्वा मुकुटवपुषा पेशलकलां सुवक्रत्वं किं वा गुरुकचचयात् प्राप्तुमुदितः | अतः कार्ष्ण्यं प्राप्याधिकमपरमन्तःसुखकरं कलङ्कव्याजेनावहति गुणमन्यानधिगतम् || ५१ || सुधावर्षैः सम्यङ् मुकुटशशिना जीविततनुः स्मरः पाशं लब्ध्वा विशदकचपाशं ग्रथयति | रिपुं मां दृष्ट्यैव प्रथितविजयो यत् क्षणमपि विहायैनं यातुं परत उचितं नैव विषहे || ५२ || प्. ६०) कचेशानामेषां सविधमुपयामीशि सुषमां न जात्वेवं तिर्यक्श्रवणमुखयैतान् निगदिता | ललन्त्या किं देवद्रुमकुसुमरत्नैर्धृतवती सितायै भासे वा विधुमुकुटमेषां धृतवती || ५३ || तनोर्दानान्नित्यं सकलविबुधेभ्योऽमृततनुं कलाशेषं तुष्टा घटितमणिनिःसंख्यकिरणम् | द्विजानां राजानं विततसदयोर्ध्वस्थितिमियं विनिर्जेतुं किंस्विद् दशशतकरं निर्मितवती || ५४ || कलापादाप्याग्रे चिकुरनृपतेः कोमलकलां कलापो मायूरः प्रथित इह भूतो भुवि पराम् | प्रियं स्तुत्वा तस्मिन् सततविलसच्चन्द्रकमपि कथञ्चित् तं केकी समधिगतवांश्चन्द्रकमपि || ५५ || कचानेतांश्चेतः शतशकलवृत्ति प्रतिपथं प्रविश्यान्तर्ध्वान्तप्रतिहतविनिर्याणमभितः | मयान्वेष्टुं धामत्रितयमिदमात्मीयनयन- त्रयं भासे युक्तं मुकुटतुहिनोस्त्रेण विधृतम् || ५६ || प्रविश्यान्तः केशान् मम मन उपात्तोत्तमसुख निजां वृत्तिं हित्वाहितविततविश्राममभिदम् | बहिर्निर्याणाय स्वयमिह मयाकारितमपि मुखाग्रस्थेनैतन्मुकुटशशिना मां हसति किम् || ५७ || किरीटस्त्रिः कूटैर्विलसितरुचिर्मध्यगशशी लुठच्चूडारत्नो दिशति वत मे मेरुधिषणाम् | प्. ६१) सुपर्वाणो बालाः प्रथितयशसो निर्जरतया यदन्ते राजन्ते सततसुमनःसद्गुणधराः || ५८ || शिरोवल्गाभूषा परिलसति मुक्ताभिघटिता किरन्ती स्वज्योत्स्नाः प्रबलकवरीभारतमसः | मिथः पश्चादग्रे मुकुटशशिमुख्यद्युतिमतां स्वदुर्गे सीमान्तो रचित इव शक्त्या कलिहरः || ५९ || इयं वल्गाभूषां वहति रुचिरां रत्नखचितां ललन्त्या संलग्नां त्रिपथविसृतां भावविशदा | शिवा गङ्गाभावं समुदितमतिव्याप्तहृदया रसैकत्वे सन्दर्शयितुमिव मे नीतिनिपुणा || ६० || सवल्गाभूषैषा विकचकचभासा यमुनया ललन्ती मे मिश्रा सुरसरिदिवोत्प्लुत्य शिरसः | यतो वेणीस्थाने द्विजपतिरयं केवलकल- स्तपन्नङ्कोन्मुक्तो मणिमयकलेशत्व उदितः || ६१ || इदं भालं मुक्तं ग्रहरुचिकचानां कवलना- च्छशाङ्कं शङ्केऽहं प्रकटितबृहद्भानुमुदरात् | कुरुक्षेत्रे वक्त्रे व्रतकृशतनुर्मज्जनधिया सरस्वत्यां मुक्ताश्रियि निपतितो यद् द्विजपतिः || ६२ || कदाचिद् वा ज्यौत्स्न्या भुवि ललनया वापि च कदा तमस्विन्या योगादधिगतकलङ्कः शुचिरुचिः | प्. ६२) उभाभ्यामेताभ्यां चिकुरवरभलस्थलतया प्रभाताभ्यां ख्यातः सममिह न युक्तः किल तथा || ६३ || इयं वल्गाभूषा मुकुटशशिना केशमिषत- स्तमिस्राया भान्त्याः कथमपि समुल्लंघ्य विहितम् | विधात्रा दुर्योगं निजसहजरूपस्थितिजुषः समाक्षिप्ते वालिङ्गितसुखकृते बाहुलतिके || ६४ || विनिर्गच्छत्कीलं युगहतिषु भालस्थनयनं सदा त्वन्तर्दीप्त्या बहिररुणमीषद् विलसति | यदेते सुस्निग्धाः कचभरचया राजिवितता अनूद्याता धूमा घनगतिमिता वातलुलिताः || ६५ || बहिर्वर्णैनैवारुणमलिकनेत्रस्थितमिमं कथं चित्रं वह्निं प्रसृततुहिनोस्रं न कलये | यदालोक्यैवैनं स्मरजनिततापक्षतिररं ममान्तर्यद्धेतिर्मुकुटविधुरूपाप्युदयते || ६६ || तृतीयाक्ष्यम्भोजं यदिह सततं निर्निमिषितं किरीटावासस्याप्यमृतकिरणस्यास्य सविधे | सजातीयायाक्ष्णे मुनिनयनपाथोधिजनुषा स्वकुल्यायाब्जायातिसहितमनेनैव विहितम् || ६७ || निमेषं वोन्मेषं प्रतिवहत एतौ रविविधू अनालोक्यैवाब्जोत्पलविकचलक्ष्मीं भुवि समम् | प्. ६३) इदं नेत्रं बाह्येऽप्यबहिरुभयश्रीविहसनं स्थितौ पश्यन्तौ तौ हतपरगती निर्निमिषितौ || ६८ || इदं नेत्रं भालस्थलकमलमन्तःकुवलयं तमस्विन्यां केशेष्वपि तुहिनभासोऽपि सविधे | विकासेनात्यर्थं सततमसितैः पक्ष्मनिकरैः श्रितं दृष्ट्वा चित्रं किसलयनिभैः को न लभते || ६९ || सुविस्तीर्णे भाले कृतविषयमेतौ शशिरवी अधः कृत्वा हर्षाद् विकसितमिवेदं सुनयनम् | तथाप्येनामल्पां कुटिलविधुलेखां मुकुटगां समालोक्यामर्षादरुणमिव बाह्येऽन्तरसितम् || ७० || अमुष्मि/ल्लावण्यामृतसरसि भाले विकसितं किमप्येतन्नेत्रं कमलमरुणं चित्रजनकम् | विहायान्या वृत्तीर्मम परितताः पक्ष्मवपुषो मनस्तारारूपो भ्रमर इव यद् बन्धनमितः || ७१ || किमेतन्माणिक्यं स्फटिकदृषदं भालमुदराद् विनिर्यातं भित्त्वा खनिमिव घनाटोपविततान् | कचानासाद्यैतान् सततमुदितानञ्जनमयीः शलाकाः पक्ष्माणि श्रितमबहिरुद्यच्छितिमणि || ७२ || इदं नेत्रं नेत्रं परिविलसितं बालनिकरै- र्ममान्तर्बन्धायोदितमिह न वा जालकमयम् | प्. ६४) यदन्तर्मेऽधीनं हतपरकलं देहकलना- क्षमं कृत्वा देहं हरति चतुरं स्मापि नहरः || ७३ || विवृद्धं किं नेत्रं सकलमभितो व्याप्तुमलिकं सितं बालारोधात् समुदितरुषा भात्यरुणितम् | अतो मान्या बालाः शिरसि विधृता दीर्घगतय- स्त्विदं ताराचिह्नं हतनिमिषितं मानविकलम् || ७४ || अतो भीताश्चौरा इव किल सपक्षा अपि सदा चकोराः कं हित्वा विजनविपिने यान्ति चटुलाः | जलक्षोभात् पङ्कोद्भवमपि मुहुश्चञ्चलशिर- स्तुलां प्राप्तुं नैव क्षममहमनेनेति वदति || ७५ || चकोरश्चित्तं मे नयनवपुषा निश्चलतरो घनैः पक्ष्माकारैरभिविलसितः पक्षनिवहैः | द्विधा चन्द्रस्यान्तः शिरसि च गतो वामनयने पिबञ् ज्योत्स्नां रागी विहितवसतेर्माद्यतितराम् || ७६ || समालोक्याजययं कुसुमशरभृन्मां प्रहरणैः वरैः पालीयुग्मं कुटिलकरवालस्य युगलम् | वभारेदं येन प्रसभमभितो मां हतगतिं चकारेवाभीतं युधि निजनिदेशस्य वशगम् || ७७ || बहून् यूनो हत्वा धृतबहुकलङ्कं धनुरिदं सुकृष्णं मुष्ट्यन्तःस्थगितमतनोर्भ्रूयुगलकम् | शरान् सन्धायैतान् युगपदभितः पक्ष्मनिकरा- ननेनैवाभुग्ने मयि न कृतकृत्यः सृजति सः || ७८ || प्. ६५) परं कार्ष्ण्यं तेभ्यो निजकरणतः प्राप्य मुदितं धनुः शौनःसीरं किमु भवति पालीयुगमिदम् | कचानां मेघानां स्थितिमचलितां वीक्ष्य शिरसि सितं मध्ये श्रित्वा सहजगुणमेकं स्थिरतरम् || ७९ || विलोक्यानुष्णोस्रं शिरसि नयने वा स्थितमिमं द्विधाङ्केनाप्याप्ता स्थितिरिह पृथग् भ्रूयुगलके | श्रितश्रेणीरूपा कथमपरथैतौ हिमकरौ प्रयातः साकल्यात् किमपि सुषमामङ्कविकलाम् || ८० || सुविस्तीर्णे भाले स्थितमिह विजेतुं नु शिखिनं विलोक्योत्पक्ष्माणौ शितसितकरौ किं समुदितौ | लताभिर्धूमानामुचितमनयास्यैव रचिता वृतिः पालीयुग्मं कलहलयकृत् सीमविधये || ८१ || त्रिधाम्नां किं पालीं विशदकिरणां वीक्ष्य तमसा निजं पालीयुग्मं युगपदुदितं संप्रकटितम् | इयं पाली सत्यं भवति मम वा पालकतया रिपोश्चापौन्मुख्येऽपि च न यदहं मृत्युवशगः || ८२ || कलापैर्मुक्तानां कुटिलविधुना तुल्यतनुना विधायैतन्नेत्रं विशदमुपरिस्थं समुकुटम् | शलाकाभिः साम्ने मम दयितया भ्रूयुगमिदं कृतौ मौली अक्ष्णोरपि शितिमणीनामपरयोः || ८३ || कटाक्षाणामेषां मणिविरचितः कांचन सदा श्रियं धत्ते यस्मादलिकतिलकः काञ्चनमयः | प्. ६६) विकासस्योपान्ते मधुरुचिमतां याति तिलकः कटाक्षैर्व्याकोशं तदिति कविवाक् सत्यविषया || ८४ || उभौ शीतोष्णोस्रौ युगपदुदितौ वीक्ष्य बलिनौ सखायं किं वह्नेस्तिलकमलिकेऽसौ धृतवती | विशिष्टं ताराभ्यः कृतपररुचिभ्यः समुदितं समुच्चित्यापूर्वं तिलकमकरोद् धाम किमु वा || ८५ || त्रिनेत्रैर्युक्तं मामतिशयितुमेभ्यः परमुत बिभर्त्येषापूर्वं विविधकिरणं नेत्रतिलकम् | जयार्थां वा मुद्रां त्रिरुचिपतिभागैरभिनव- ग्रहाङ्कां कन्दर्पो वहति किमिमं कान्तकरणः || ८६ || भ्रुवावग्रे भुग्ने युगपदुपयातेऽस्य शरणं सपक्ष्माऽवाभ्यां त्वं भव तिलकनेत्रेति किमु वा | त्रिलोकीनामस्या उपरि तिलकस्यापि तिलकः समादत्ते लक्ष्मीं परमिह न सर्वोपरि कथम् || ८७ || इदं भालं क्षीरोदधिमुत समालोक्य जनकं स्थिरं प्रेम्णा तिष्ठत्यपि सुतिलकः कौस्तुभमणिः | न चेदेवं लक्ष्मीः कथमिह विहायान्यविषयं ससोदर्यप्रेमा स्थितिमुपगता निश्चलतराम् || ८८ || अमूभ्यां नेत्राभ्यामभिनवविधिभ्यां सुषमया चतुर्भिर्वक्त्रैः स्वैर्मृगयति दिशः सर्वत इव | तुलां द्रष्टुं कल्पं क्वचिदपि विधिर्जाग्रदनिश- मनाप्यैनां भूयः स्वपिति ननु खिन्नः सकलनः || ८९ || प्. ६७) इमे नेत्रे हेम्नो मधुचषकयुग्मं स्वकिरणान् किरन्ती क्षीवत्वं बहिरुभयतोऽपूर्वमबहिः | स्फुरन्नीलाम्भोजप्रसवरुचिरे अर्धहरणं सुखं मन्तैव स्यां कथमपरथा घूर्णिततरः || ९० || इमे ते लावण्यामृतमधुमये केऽपि सरसी प्रणालीभिः पक्ष्माकृतिभिरुपसंसिञ्चत उत | निजाङ्गानीमं वा सरससरसानि प्रतिमुहु- र्यदेतानि प्राप्तो यदहमपि वैतृष्ण्यमतुलम् || ९१ || अमूभ्यां नेत्राभ्यां परमसहमानानि रुचिरं प्रकाशं पक्ष्माण्यादधति खलु वा कालिमगुणम् | प्रयातान्याशङ्कां नियतनिकटस्थान्यपि ततो निमेषं नो यान्ति स्वपदपरिरक्षातिचतुरम् || ९२ || इमे नेत्रे नागोद्भवविधुजलान्तः शितिमणी सुपात्रे मारस्यानुजयमभिषेकाय वितते | बहिर्दूर्वाग्रैः किं समभिलसिते पक्ष्मनिवहै- र्यदस्मै छत्रस्य श्रियमुपवहन् भाति तिलकः || ९३ || न पर्याप्तं पद्मं कुवलयमपि प्राप्तुमुपमां पृथग्यद् वामाक्ष्या नयनविषयां तद् द्वयमिदम् | समेतं कृष्णाभैः किसलयगणैः पक्ष्मरुचिरैः स्वबन्धुभ्यां यातं शरणमनयोरेव युगपत् || ९४ || इमे मीना दीना इव नयनसाम्यानधिगते- र्जडत्वेऽन्तर्लीनाश्चपलगतयो नष्टरतयः | प्. ६८) अतो मीनाङ्कोऽयं जगति मदनः ख्यात उचितं गतोऽनङ्गत्वं किं श्रयति मधुनैवैकसखिताम् || ९५ || शुची हास्योल्लासे करुणदयया प्रोद्यतकरे रुषा जुष्टे रागादिव भयकरे दुर्मतिमतः | समश्लाघ्ये चित्राकृतिवरतरे के अपि दृशौ रसं शान्तं पूर्णं रुचिररुचिरं मे वितरतः || ९६ || प्रयातः खञ्जत्वं तुलयितुमिमे खञ्जनपतन् स्वपक्षीयाल्लौल्यात् स्थिरतरविलासे नु नयने | न मार्गं वा मार्गं व्रजति मसृणं तु प्रतिमुहुः परीवृत्त्योप्लुत्या भयचलदृशा श्रोत्रहतया || ९७ || अमायां सूर्यान्ते व्रजति हिमधामा नहि रुचिं तदन्यस्यां पूर्णामपिच तदिदं ख्यातमिह तु | न सिद्धं सच्चिह्ने किमु समुदिते ते तिथिवरे यतो दृष्ट्या देवा अपिच परितृप्यन्ति पितरः || ९८ || अमा नाऽमा किंस्विद् भवति किमु पूर्णैव यदमू इहान्तःस्थौ सम्यक् शितसितकरौ धामरुचिरौ | यदेताभ्यां सन्धिः समधिगत एवेह च दृढं ततः सन्ध्यां वह्निः प्रकटयति सत्यं स्वविषये || ९९ || इतो राजख्यातिं गत उचितमेवार्णवजनु- र्यदुष्णोस्रस्यान्तेऽप्युदितरुचिरङ्केन विकलः | कलापूर्णो नित्यं भवति रविणापि प्रकटितं विहायाघं मैत्र्यं ग्रहविलयजं चन्द्रसुरुचेः || १०० || प्. ६९) इतस्तारां प्राप्य प्रमुदितकलो धामविशदो रवेरन्ते तिष्ठन्नपि यदहहाऽस्ति द्विजवरः | अतस्तारानाथो ननु विनिमयेनापि सततं तथा तारा एवाप्यनुपतति सोऽयं गुणरुचिः || १०१ || क्वचिच्छुक्ले श्यामे क्वचिदरुणवर्णे क्वचिदपि क्वचिन्नीलाब्जाभे क्वचिदपिच पीताङ्करुचिरे | क्वचिन्मिश्राभासे विविधकिरणैः क्वापि लसिते न निर्णेतुं शक्ये नयननयने के अपि कथम् || १०२ || इमे दृष्टे येन प्रतिनियतपुण्यैककलया न तस्यान्यद् दृश्यं व्रजति विषयं जातु कलितम् | विविक्ता तद्दृष्टिर्ह्यनुभवति भावं तममलं स्पृहां यस्मै सर्वे विदधति महादृष्टिपतयः || १०३ || इमे वक्रे दृष्टी हरत उत वक्रत्वममलै- र्युते वर्णैर्वर्णप्रभृतिकलनां निर्निमिषिते | भवोन्मेषं भूयः श्रितपरगुणे वा गुणगती- रुते द्वैतं हार्दां विततलसिते वृत्तिविततिम् || १०४ || इमे दृष्टी दृष्टे अधिगतरुची साञ्जनतया प्रसादं कुर्वाते सहजनिजनैरञ्जनपदम् | स्तुवत्येते वाणी कविवरपतेर्व्यञ्जनतया निजं न प्रागल्भ्यं प्रथयति कथं व्यञ्जनतया || १०५ || प्रभाज्योत्स्नासक्ताविह रविविधू वीक्ष्य बलिनौ सदा च्छाया तम्यप्यलकवपुषा किं प्रकटताम् | प्. ७०) गते पश्चाद्भागं सकलमथवा व्याप्तुमुदितौ निषिद्धौ सङ्गत्यायलककलयान्योन्यमनया || १०६ || शिरोदुर्गे स्थित्वा कचतिमिरराजेन हतये प्रवेशस्य श्रुत्योः प्रहितमुत सेनापतियुगम् | प्रयोद्धुं सांमुख्ये रुचिररुचिपत्योरलकतां श्रितं नो चेदेवं हतविततयानौ कथमिमौ || १०७ || त्रिभिर्यान्तीं मार्गैर्मम शिरस आलोक्य यमुना कचश्रीः स्वर्गङ्गामलकयुगवेणीभिरुचितम् | त्रिमार्गा संवृत्ता किमु किमु च वेणीव भुजगी रसासिक्ता सूतेऽलकभुजगयुग्मं स्म रुचिरम् || १०८ || इदं युक्तं हंसद्विजपतिसमीपे भ्रमरकैः सपक्षैः संस्थानं विहितमिह विच्छित्तिरुचिरम् | विवर्ण्याम्भोजानामपगण[घन]वराणामुपगते- र्न शेवालैर्बालैरलकविषयैर्वोद्गतमपि || १०९ || न चित्रं लावण्यामृतसरसि हंसेन वदने द्विजेशेनाप्याप्ता वसतिरलकावर्तरुचिरे | लसद्गण्डाब्जे यच्छ्रुतिवरनिपाने भ्रमगमः सपक्षाभ्यां द्वाभ्यामपि यदपि नाप्तस्तदुत किम् || ११० || मनोबालं दोलायितमलकजालेन चलता महेशान्या आन्दोलयितुमुत बालातिरुचिना | प्रतीके प्रत्येकं स्वयमिह ममैकाङ्गविषयां श्रियं दृष्ट्वा भूयः परविषययानानभिमुखम् || १११ || प्. ७१) अनङ्गस्यारोढुं किमु रुचिभृतां रश्मिवलिता कृता निःश्रेणीयं सुसुखमलकावर्तविततिः | अमूभ्यां शङ्खाभ्यां घनकचयुतौ नीलमणिजाः शलाका निर्याताः किमु न कुटिलाः शुक्तिमणिवत् || ११२ || अमूभ्यां कर्णाभ्यां रुचिपतिरुची वीक्ष्य नयने तदाकारं दध्रे किमु मणिरुचा कुण्डलयुगम् | त्रितां भातां नैत्रीमतिशयितुमाहोस्विदयुजं समं चातुर्यं स्वं प्रकटितमिदं कुण्डलितया || ११३ || कचानां मालत्या विदलमणिपुष्पैर्घटयुगं लसद्वल्गाभूषागुणपरिचितं कुण्डलवपुः | न शेके प्रोद्धर्तुं पररसभरं हेमरचितं प्रहिभ्यां श्रोत्राभ्यां रुचिपतिकराक्रान्तमिह किम् || ११४ || स्थितौ वल्गाभूषागुणमुत तमोदुर्घनकचः करैः संरुद्ध्यैतं सुमणिविशदैः कुण्डलवपुः | द्वितीयं कृत्वैतौ सुखमुपरि यातुं कचतते- रसंतुष्टौ स्थित्या नयनविषये सूर्यशशिनौ || ११५ || इयं नासा रन्ध्रद्वयविलसितोच्चैः सुषमया रतेः कामस्यान्तःपुरमभिनवं किंनु विचितम् | स्फुरच्चन्द्राभोगां बहिरुपनिवेष्टुं तत इमौ कपोलौ माणिक्यस्थलकविषयां वा श्रियमितः || ११६ || तमीं छायां वीक्ष्याप्यलकरुचिरे पार्श्व उदिते प्रभाज्योत्स्ने भूते किमिह न पृथग्गण्डविषये | प्. ७२) अतो मध्यं रिक्तं पुनरपि च संपूरणधिया कृतं तारास्थानं नयनरुचिपत्योर्गिरिजया || ११७ || इयं नासा तूणी रतिरतिपयोर्युग्मविवरा स्वसंकेतायालंकृतिरुचिमतीवैकत इह | फरे द्वे माणिक्याम्बुजदलमये पत्ररचना- हिरण्याङ्कौ गण्डावलकवरसंग्राहगुणिनौ || ११८ || इयं नासा हंसद्विजपतिसमीपे विलसिता कपोलाम्भोजान्तः सृजति किमु मुक्ताण्डनिकरम् | स्वभूषास्थं हंसी यदिह सततं बाल्यललितौ प्रजातौ हंसौ द्वौ द्विजमणियुतौ कुण्डलमयौ || ११९ || गरुन्मन्तौ कौचित् कनकमयसत्पक्षरुचिरा- विदं वीक्ष्याप्येतावलकभुजगस्वामियुगलम् | विरोधं नो यातः कथमपि लसत्कुण्डलरुची यदस्माद् धामभ्यामपि स उपरुद्धो नच मिथः || १२० || विधुं विष्णुं दृष्ट्वा द्विविधवपुषातीव रुचिरं गरुत्मान् द्वैरूप्यं किमु न विदधे कुण्डलमयम् | श्रियाप्याप्ता द्वैधं वसतिरिह तद्गण्डविषया जयी मारोऽप्याप्त्वा मयि समुदितं स्वं कुलकुलम् || १२१ || शरान् पक्ष्मव्रातं युगपदभिसन्धानकलितान् धनुष्पाल्योर्दृष्ट्वा निजवधसशङ्केव लभते | इयं नासाभूषा विमलमणियुक् कम्पमिह यत् प्रवेष्टुं तद्रन्ध्रद्वयमिव चलन्ती वलयिता || १२२ || प्. ७३) इयं नासाभूषा परिचलति किंस्विद् गमयितुं चला नैवाहं स्यां वपुष इत ईशानदयितात् | यतो जात्वप्यस्मात् प्रथित इह मृत्युञ्जयवरः शिवाप्तोऽन्यैरीशैरभिलषितखेलोऽभित इति || १२३ || इमावोष्ठौ बिम्बे खलु यदत एवार्कशशिनौ सबिम्बौ किं वैतौ प्रतिफलितबिम्बौ रुचिपयोः | ह्रदे सूक्ष्मे वक्त्रे सरसरुचिरे दन्तकिरणा यतो निर्यान्त्यावर्तक इह कपोलौ श्रयति च || १२४ || इमावोष्ठौ रक्तौ बहिरुपगतौ विद्रुमवरौ रदा मुक्ता अन्तर्मुहुरभिकिरन्तः सितकरान् | हसन्ति द्वौ पूर्णाः करि[वि]गुणितया वातिगतया स्वचातुर्यं तत्तावुदरगतविच्छेदविशदौ || १२५ || प्रवालोऽस्या बालो द्रुमसमुदितो यत् तुलयितुं क्षमो नोष्ठौ तद्विद्रुम उत कथं स्याच्छकलभाः | अतो ह्येतौ केनाप्यधृतसदृशत्वावधरतां प्रयातो मे धत्तो रसमिह कथं वोत्तरतरम् || १२६ || वयं कान्ता दन्ताः सकलमुचिता वर्णमपरं समादातुं मुक्ताविशदकिरणाः केवलमपि | युवां रागासक्तावपरगुणिनावित्यनुमुहु- र्हसन्त्योष्ठौ सङ्क्रामयितुमिव पूर्णं निजगुणम् || १२७ || प्. ७४) स्वतन्त्रेयं स्वेन द्विगुणपरतन्त्राङ्ककलिते रदैर्द्वात्रिंशद्भिर्विधिभिरनुपस्पृश्यविभवा | प्रसिद्धैः सिद्धीनामहह परतन्त्रत्वकलया न वाणी वाण्यापि प्रथयितुमलक्ष्म्या समुचिता || १२८ || श्रियं वीक्ष्य व्याप्तां विविधवपुषाङ्गेषु सकलां रसामूले स्थित्वा स्वयमुत पराङ्गेषु लसति | निजाङ्गैर्वाणीयं कथमपरथाङ्गाङ्गविषयां निजं भारत्याख्यां जनमुपनयेद् दर्शनभवाम् || १२९ || परा फुल्ला दृष्टिस्त्रिविधवपुषा दक्षविषये यदेषा पश्यन्ती परसितपदे मध्यसुरुचिः | किरन्ती व्याप्याग्नेर्विततविखरांशूनकलुषा- नहन्तां सेदन्तां प्रथयति चमत्ताभिललिता || १३० || श्रुतिस्थानं स्थाने प्रकटनिजभूषाङ्गरुचिरात् स्वचातुर्यादेषा श्रुतिशिरसि चैक्यं गमयति | ततिर्मुक्तानां यच्छ्रुतिनयननासं ह्युभयतो गता स्वङ्गत्वं वा त्र्यवयवमयी धामविभुता || १३१ || अयं सन्धिः किं तद्धितपर उपाख्यातकृदलं न लिङ्गाढ्यः सूत्रप्रकटगतिनासः स्वपदगः | गुणी शब्दैः श्रुत्याः श्रित इह ततां व्याकरणतां प्रयोग्योऽन्तर्मूर्च्छद्ध्वनिरपि गिरो धामजनितः || १३२ || विधेस्तेजोराशेर्मिथ इह निषेधादपि हतेः प्रयोग्या मीमांसा स्तुतिपदविशिष्टा किमु न वा | प्. ७५) सुभोगे कामारेरतनुसुखकर्मोदयकरी स्थितिः प्रायश्चित्तप्रकटनयुता यत्पद इह || १३३ || रदास्तर्क्या द्वैधं कृतवसतयः षोडशपदै- र्न निर्मुक्तौ भोगेऽप्युचितविधिभिर्वाक्यकरणैः | रदाली ओष्ठौ वागुभयविषया नो दधति वा श्रियं षड्भावाप्तामिह किमु विशेषार्थवदने || १३४ || श्रुती नेत्रे नासे वदनकमलं नेत्रमपरं प्रयातानि स्वेन प्रकृतिपदवीं यत्सुषमया | दलाभ्यां द्वाभ्यां यद् विकृतिमपि वैशिष्ट्यकृतिजां समीक्षात्मा संख्या तदिह नहि पर्याप्तिमगमत् || १३५ || रदैर्द्वात्रिंशद्भिः परिकलिततत्तत्त्वकलनैः स्मृर्तिर्वैष्णव्यत्र स्फुरति किल यद्दक्षनयने | स्मरो जातो विष्णोरसुबलयतो मामभिगतोऽ- निरुद्धाहङ्कारः कलयति मनः पूर्णकलया || १३६ || अयं सप्तद्वारैर्मुकुटविधुनेत्राग्निसहितैः प्रयातो नार्हत्त्वं विषय इह किं वाप्यभिनवः | कलाभिः सद्धाम्नां द्विपुटसुषमाभिर्विधुकला- युतैस्तैर्मिश्राभिः श्रितमपि न ताथागतगतम् || १३७ || स्वतां पूर्णे प्राणो वहति च परे शून्यपदवी- मयं नासाभागे खविषय इतोऽपि प्रकटते | तदर्थस्वात्मापि स्फुरति सुषमापि प्रथयति शरीरं स्वं सर्वा गतिरिह तता दर्शनकृता || १३८ || प्. ७६) अमुष्यां पुत्रत्वं स्फुरति मम वा दारकलना तथेयं सर्वस्वं भवति ननु मे पूर्णललिता | गिरीशाद् यन्मृत्युञ्जयविभवदा स्वोषधिलता प्रजातेयं तद्वाऽप्रथयदगदङ्कारसरणिम् || १३९ || स्फुटास्त्राणामस्यां सरणिरतनोरङ्गविषया बलात् तस्याप्यस्यां विलसति न पौराणिकतनुः | मुनीनामार्याणां स्मृतिरिह लसन्त्यस्ति वितता न को वा वेदैनां यदत इतिहासोक्तिरचला || १४० || प्रतीकैरातोद्याकृतिमुपदिशन्ती गुणिजनैः सुसंवेद्यां तत्तद्ध्वनिमभिजयन्ती ध्वनिपदैः | सदा नृत्यन्ती यद्धृदयकमले मे स्फुटगति- स्तदेषा गान्धर्वी स्फुरति मम सीमा परमयैः || १४१ || मदर्थोऽस्या यस्मात् परम उदितो वार्थरचना स्फुटा नास्यां तत्किं रदनसुरुचा वा द्विगुणया | चतुष्षष्टिः स्पष्टा तदुत न सदा ता अपि कलाः कलाकौशल्यं यत् प्रथितमिह सर्वात्मकलया || १४२ || इयं साहित्याब्धेर्नवरससुधाघूर्णितगतेः परा मूर्तिस्फूर्तिर्जयति जगतीशानदयिता | यतः साहित्यांशं मदन उचितं प्राप्य मुदितः स्मराख्यां मययेव प्रथयति सदान्वर्थललिताम् || १४३ || इमां वाणीं वीणा तुलयितुमशक्ता गुणगणैः प्रबुद्धा निर्मुक्तां स्वत इह विपञ्चीति गदिता | प्. ७७) तथैवाधूम्राभा सुचपलगतिः कोकिलवधू- र्भृतां स्वेन त्यक्ता निजजनतयैषा परभृता || १४४ || स्थितं पादे हंसस्तुलयितुमिमं हंसकमपि क्षमो ध्वानैर्मन्द्रैर्न हि कथमिव स्याद् गिरमिमाम् | विलापादन्विष्यन् प्रियमतिमुहुः सामयपदः प्रियस्पृह्यां भूयः कथमभिगतः स्यात् स च शिखी || १४५ || शुको धात्वर्थं स्वं व्रजति नितरां रागविकल- स्तुलामप्राप्यास्या न खलु विलपन् क्रेंकृतिपदैः | तथा शारी शारीभवति ननु वर्णेन न गिरा यदृच्छामात्रेण प्रथित इह वायं कलरवः || १४६ || निजे दृष्ट्वा त्र्यश्रं त्रिनयनकृतं शैवमलिके स्वमप्यन्तर्बिन्दु प्रकटितवती किं नु चिबुकम् | सुपञ्चत्वं द्वारो नयनमुखमुख्या यदलकै- र्दलाष्टत्वं याता द्विगुणदलवत्यो वलयितैः || १४७ || स्थले गण्डौ धाम्नोर्नयनकृतधाम्नोर्निजरुचेः प्रसाराय व्यक्ते यदत इदमस्तीह चिबुकम् | रदानां कौमुद्या अपि किमधरत्वं गमितयो- स्तयाख्यां नामाप्यधरवरयोर्बिम्बजयिनोः || १४८ || इयं ज्योत्स्ना कृत्स्ना प्रसरति यदस्माद् रदनजाः कला द्वैगुण्येनौषधिपतिकलाभ्यः समुदिताः | इमे यत् खेलन्तो मुखमिह करैर्व्याप्य तदिदं रदानां कुन्दत्वं छदयुगपरं तत् सुमनसाम् || १४९ || प्. ७८) सुवृत्तौ द्वौ गण्डौ वदनमतिवृत्तं विमलभा दृशो नासा ऋज्वी सततमवदाताश्च दशनाः | सुरक्तावोष्ठौ वा चिबुकमतिपञ्चत्वमबहि- र्गतान्यन्तर्वक्रं श्रवणयुगलं बाह्यमुचितम् || १५० || दृगादेरङ्गस्य श्रियमपि न यात्यंशविषयां विधुर्वा पद्माद्यं यदत उपमातुं मुखमिदम् | न योग्यं केनापि प्रथितमिह सर्वातिसुषमं मुखत्वेनैवास्याः सुखयति मुखं कस्य न गिराम् || १५१ || विधोरन्ते शोभामदधदपि वा कण्टकहत- मधः पद्मं काले विकसितमजाड्येन विकलम् | उत स्म श्रीर्भीता भजति नु कुलस्नेहविवशा मुखांशेनैकेनाप्युचिततुलनं स्यादिति किमु || १५२ || असत्पक्षं नित्यं सकलमतिवर्णं ससुषमं निजाङ्कैः कौमुद्या द्विजविभवया तामपि कलाम् | दधद् व्यञ्जत्तारारुचि वदनमेवाङ्गकमल- श्रियो मित्रं चन्द्रो भवति न परश्चन्द्र उचितः || १५३ || कलामेनां संत्याजित उत विधुः प्रेमविवशः क्षयं यात्यन्विष्यन् पुनरुदयमेतीह सकलः | स्वयं संसक्तां तां समधिगतवानाननविधुः सदा पूर्णस्तिष्ठत्यपि हतकलङ्कः पररुचिः || १५४ || समं मासे मासे मुखसितरुचा कर्तुमलसो विधिर्घाटं घाटं हिमकरमिमं लोपयति किम् | प्. ७९) तथाप्येनं हीनं स्थगयति रुषा कुण्डलनया कदाचिद् दुर्घस्रैस्तपनतमसा वापि तमसा || १५५ || गृहीतो हान्यापि प्रकृतिमधुरैर्वाग्मिभिरयं तुलायै वक्त्रेन्दोरशितकर आरोहति दिवम् | विनिष्क्रान्तं पङ्काज्जलजमपि मां वा स्मृतिहताः कदाचिद् गृह्णीयुः कवय इति किं नृत्यति चलम् || १५६ || स्वसाम्राज्यं चन्द्रं मुखमिव समालोक्य कुरुते परो भ्रान्त्या नीराजनमशितधामा स्वकलया | गुणज्ञेनानेनाप्यबलबलदात्रा करुणया स्थितिर्दत्ता वामे नयन उत किं शीतलरुचे || १५७ || विकीर्णाः सद्वक्त्रादमृतकरवर्याद् द्विजगणैः स्मितव्याजाज्ज्योत्स्नाः कति न यदतः ख्यातमिह तम् | अवाप्यैका ज्योत्स्ना कथमपि सहायं हतरुचीन् विधत्ते ताञ्ज्योत्स्नापतिमपि विदन्ती न्वपकृतिम् || १५८ || मुखं सम्राट् सत्यं त्रिभुवनवरस्त्रीमुखनृपान् श्रिया जित्वा राज्ञ्या विलसति कचन्मण्डलपतिः | श्रवःपूराभ्यां तद्दलघटितरत्नच्छुरणया चलद्भ्यां छत्राणां त्रयमिव युतो भाति तिलकः || १५९ || अनेकैरेकं स्वावयवकिरणैर्व्याप्य लसितं श्रवःस्थानं नानाविधरुचि महादृष्टिविषयम् | विशुद्धं केनाप्यप्रतिमितमिदं वाग्रसमयं परब्रह्मप्रख्यं परमभिनमामो मुखमुखम् || १६० || प्. ८०) इयं ग्रीवा स्पष्टं स्फटिकघटिता यष्टिरवटु- प्रकृष्टाङ्का मारप्रहरणनिधानाय रचिता | श्रवोभ्यन्ता रेखा चिपिटसमवंशत्वच इयं गतांशेन ज्यावद्यदिह परिलम्बा विलसति || १६१ || सहस्रांशं ग्रैवं यदि परिलभेतापि वरला भवेत् स्वग्रीवायां सततमनुरक्ता न हि कथम् | न वा वृत्तिं जह्यात् सततलषितां मानसभवां भवेत् खिन्ना खिन्ना कमलधरयोगेन च न वा || १६२ || स सोत्कण्ठः कण्ठोत्थमपि कलकण्ठः स्वरगणं वहत्यस्याः श्रोतुं तनयमिव संखण्डितपदः | च्युतो वेणुर्वंशाद् विलपति निजाद् वंशममलं नयन्त्याः पार्वत्याः प्रथनमुत कण्ठस्वरजितः || १६३ || गले रेखा एता गमयितुमिव त्रिर्गतियुतं परं गीतं मूर्च्छत्स्वरगणमिह ग्रामकलया | स्वराणां षण्णां वा युगयुगपदं सप्तमपदे लसन्निम्ना मध्ये तदिह परिनृत्यन्त्यवयवाः || १६४ || इदं बाह्वोर्युक्तं युगमपि परं यद् भुजयुगं समादत्ते युक्तं युगयुगपरित्राणमिह च | धुरा युक्तं वोढुं रथमपि युगं तन्मम मनो- रथं धर्त्राऽश्लेषैर्वरमुत न कामां भुजधुराम् || १६५ || भुजानां चातुर्यादधिगतकरालम्ब उदितः शिरस्याप्तस्थानः स्मर इह वसन्तोऽप्यवयवैः | प्. ८१) सदा सूनैर्वक्त्रे मम विरहवह्निर्धृततनु- र्बहिर्निष्क्रान्तोऽयं तदलिककृतस्थान उत किम् || १६६ || भुजाभ्यामाश्लेषात् परभुजयुगं स्वं प्रकटितं श्रिताभ्यां कौटिल्याभ्यवहृतिकलां पालयति माम् | न चेदेतैर्द्व्यर्थो मम परपरार्थः कथमिव प्रकाशः स्यादाशाभृशकृशतया वैककगतेः || १६७ || भुजेभ्यो वैतस्याः कृतवसतिराप्तुं भुजगतिं भुजङ्गानां व्रातोऽवहदुरगतां मययपि पराम् | भुजङ्गेशं चण्ड्याः सततमिह तद् भूषयति मां लभेतास्मात् कस्मान्न हि मणिमयं मौलिमुचितम् || १६८ || मृणाल्यन्तश्छिद्रानधिगतवतीमां भुजकलां स्थिता हित्वोष्माणं जलजपदलीना बहिरिव | सदा पङ्काच्छङ्काकुलितहृदयोद्गन्तुमसहा भुजाश्लेषाकाङ्क्षैर्विरहिभिरपीतो विरहिता || १६९ || विजेतुं प्रत्येकं त्रिभुवनमिमं मां च करगाः प्रजाताः किं शाखा अतनुबलदा विंशविशिखाः | भुजेभ्यो वेदेभ्यो बहुगुणयुता वा यदुदिता- स्ततः पर्वस्थानं प्रकटमिह विच्छित्तिविशदम् || १७० || कथं छाया नैतानुदितकरजालेन विधुना विलोक्याप्या भूयः करजसितरश्मीनविकलान् | इमे शाखाभ्यो यद् विधव उदिता न्यायय इह तत् सशाखाचन्द्राख्यः कथमिव न वा न्याय उदितः || १७१ || प्. ८२) करानेतानाप्त्वा चतुर उदितः षोडशकलः कथं न स्यात् सम्यक् करजवपुषा विंशतिकलः | चतुर्भिः प्रत्येकं कथमिव चतस्रो न च कला- श्चतस्रोऽयं लब्ध्वा सकल इह नित्यं करवरैः || १७२ || प्रवालो बालोऽस्यास्तुलयितुमिमान् हस्तनृपती- नशक्तस्तर्जन्यां पतति सभयो मर्मर इव | पिधायास्यं धूल्या तुलनजनितागो जलगते प्रमार्ष्टुं संशुष्यन्नयनपरिपाकेऽपि कमलम् || १७३ || क्षणं फुल्लं स्वेन क्षणमुकुलितं वा दलसमा- कृतेरुद्यच्छाखाजनितकरजाब्जं व्यतिजलम् | मृणालीबाहुस्थं निविडमृदुभिः कण्टकगणैः सदा लक्ष्मीस्थानं किमपि शवलं हस्तकमलम् || १७४ || भुजानां रक्षासु प्रथितविभवानां त्रिजगतो विभूषायै युक्तः सुकटकततेः साङ्गद इह | ग्रहस्तस्मान्मुद्रा अपि समुचिता मर्मविषये करैः स्फातिं यायात् कथमपरथा शासनकला || १७५ || क्वचिद् द्वौ षड् वाष्टौ दश च चतुरो द्वादश चतु- र्दशाप्यष्टीर्वाष्टादशवपुष एतान् भुजवरान् | क्वचिच्चापं बाणं वरमभयमब्जं दरगुणौ सृणिं खड्गं काद्याद्यमपि दधतः कानपि नुमः || १७६ || भुजानामाश्लेषं कुचयुगमिदं पश्यदुत किं मिथः श्लिष्टं सूर्यं नयनविषयं वोर्ध्ववदनम् | प्. ८३) न यच्चन्द्रोपान्ते त्यजति सुषमां पद्ममुकुलं ततश्चन्द्रोऽप्येतद् भजति नु किमालेपनधिया || १७७ || वलीसिन्धूस्तीर्त्वोदरखनिलसन्नाभिकुहरा महालावण्यार्थव्रजसहजसीमान्तमतुलम् | स्मरो दुर्गादुर्गं स्ववशमिव नीत्वा निहितवान् स्थले संस्वा[वा]द्याधोमुखमुरसि सद्गोमुखकुचौ || १७८ || अयं सत्यं कश्चित् कुचकमलराजो मुकुलितो दधन्मौलिं युक्तो दशशतदलैश्चूचुकमणिम् | लसच्चक्राभोगः श्रितपरमलक्ष्मीः समुदितो यदन्तस्तस्यापि प्रपतति न सूत्रं तदुत किम् || १७९ || प्रसिद्धं वाक्सिद्धिप्रभवतरुजं श्रीफलमिह यथा तद्वद् देव्या अपि कुचफलं किं न सफलम् | यदेतन्निर्गच्छत्पररससमास्वादकतया परा वाणीसिद्धिः कचितकचिता भाति कृतिनाम् || १८० || श्रवोऽधस्ताद् दृष्ट्वा चलितललितं तालदलजं स्फुरत्ताराकारप्रसवमपि तारं विकसितम् | फलाभ्यां तालाभ्यां कुचयुगतया ताल उरस- स्तलेऽवाप्तो नाभीसरस उपकण्ठेऽपि सफलः || १८१ || समुद्गौ सौवर्णावुपरिविलसच्चूचुकमणी कृतौ केनाप्येतौ सपरिचयनाडिन्धमभुवा | विशेषं निःशेषं लवणिममहार्थं स्मरविभो- र्विलासोत्साहस्यादृतसुरभिमन्त्रस्य दयितुम् || १८२ || प्. ८४) किमप्येतौ शोभावहमभिनवं कोकयुगलं विलोक्येमं मित्रं दृढमुदितमुत्क्षिप्तवदनम् | शशाङ्कं वा शङ्कामुकुलितमपि प्राप्य सुरसं ततोऽभ्यन्तर्नाड्या स्रुतमभिमुखं नैति विरहम् || १८३ || तरीतुं लावण्याम्बुधिमतुलसौन्दर्यसुरसं स्मरो लीलाखेलः कुचकलशयुग्मं नु धृतवान् | प्रभाचक्रावर्तादुरस उत मुक्तागुणमपि दधौ निर्याणाय प्रसृतमुपकण्ठं करगतम् || १८४ || बुधैः पार्वत्येषा वरमभिहिता तद्यत उरः- स्थले नानाधातूद्भवरसविलिप्तं कुचतया | इदं जातं शृङ्गद्वयमत इहैषा सुरसरि- ल्ललन्ती कण्ठाधो लसति सितमुक्तोस्रलहरी || १८५ || स्वकुम्भाभ्यामेतौ तुलयितुमशक्ता इव गजा गजास्येनैवास्यास्तनयमभिसन्धाय चतुराः | करेणासेवन्ते स्तनजरसलोभस्य मिषतः स्वकीयेन द्योतत्सितमणियुतौ गुप्तमणयः || १८६ || स्वकुम्भौ हेरम्बः स्पृशति निजहस्तेन च कुचौ समत्वं किं द्रष्टुं पुनरिह समास्फालयति तौ | स्वकुम्भौ धूल्या वा मलिनयति तस्मात् स्तनरसं पिबत्येतौ भूयः सुरसरुचिरौ कर्तुमिव किम् || १८७ || हितं मित्रेणास्मै यदमृतरुचे दक्षिणतया कृतं वामेनानेन च तदिह किं प्रत्युपकृतम् | प्. ८५) कुचौ चन्द्रस्यान्ते सवितुरिव यत् कोकसुहृदौ न विश्लेषं यातः किमपि विधुरागातिविमलौ || १८८ || यथा नाभेर्विष्णोः कमलमुदभूद् बाह्यविषये तथोरस्तो जातं कुचकमलयुग्मं न किमिदम् | इमावेवान्तःस्थौ सततमनयोरेव सुमुखौ हिरण्याङ्कौ स्वायम्भुवशिवकलां यत् कलयतः || १८९ || इदं पुण्यं स्तन्यं परममृतरूपं ननु रसा- यनं सिद्धं स्वेन प्रथितविभवं किञ्चिदमलम् | यदास्वाद्य स्कन्दः सुकृतसुकृतं निर्जरचमूं कुमारः सोऽद्यापि प्रभवति विनेतुं धृतनयः || १९० || इदं स्तन्यं धन्यः समधिगतवान् विघ्ननृपतिः सुपुण्यानां पाकादहह मृतसञ्जीवनरसम् | कथं दन्तीन्द्रास्यव्यतिकृततनुः स्यादपरथा वहन् धारां मूर्तामिव विगतमृत्यू रदमिषात् || १९१ || इदं पुण्यैः स्तन्यं यदि परिलभेतेह विरलो बुधः कश्चिन्मातुः स्तनरसमपीहापरिचितः | भवे भूयो नैव स्वरसरुचिरास्वाद्य तदिदं शिवत्वस्याभिज्ञो भवति शिशुरस्या अपि कविः || १९२ || सुनाभ्यम्भोराशिस्त्रिवलिसरिदासङ्गरुचिरो विरिच्यात्मस्थानं भृशकृशतरं मध्यतटवान् | किमायातः कृत्वाद्भुतकुचसुरूपं विधुरमा- पदं पूर्णं द्रष्टुं प्रकटितपरक्षीरसुरसः || १९३ || प्. ८६) कुचावेतावन्तःपुरमभिनवं मे ननु मुदे स्फुटं कञ्चुक्यन्ते प्रतिगतिनिबन्धाय यदसौ | सुवर्णश्रीराप्ताः समतिशयितुं हंसनिनदं कुचाभ्यां कोकाभ्यां कनकमयकिङ्किण्य उत किम् || १९४ || इमं देवच्छन्दं कुचकलशयोः प्राप्य मदनः सुदुश्चेष्टो यातोऽप्यमरवरतां विश्वविजयी | तथैवैकावल्या करकलितया कालवशगोऽ- प्यनङ्गोऽप्युत्तस्थौ सपदि मधुमित्रोऽद्भुतरतिः || १९५ || विधायान्तर्द्वीपांश्चतुर उदधीनामपि चतु- ष्टयं किंस्विन्नाभीवलिपरिमितं भाति यदिह | इदंपृष्ठे रोम्णां ततिरियमनन्तो मुररिपुः सुखं शेते दृष्ट्वा स्वतनयबलं श्यामसुतनुः || १९६ || सुधाकुण्डं नाभीं कुचशिखरतो रोमवितति- र्भुजङ्गी किं शीताधिगतिकलया सद्रसचिता | अवारूढा तस्या भ्रमगमनरेखाङ्कितभुवः किमेताः संवृत्ता अध उपगता भान्ति वलयः || १९७ || इदंनाभीकूपे त्रिवलय इमा रोमसगुणे प्रणाल्यः किं सज्जस्तनकलशयुग्मे रसितया | स्वमारामं सेक्तुं कथमपरथा राजति सदा वसन्तोऽङ्गैः पुष्पैर्विकसिततनुः कामरतये || १९८ || त्रिवेणीमालोक्याम्बुनिधिरपि नाभिर्वलिमयीं समुद्यातुं वेलां न सहत इमामन्तविषयाम् | प्. ८७) परिष्वङ्गायोत्कोऽपि च यदिह कौक्षेयदहनो यथौर्वो जागर्ति प्रबलगतिहन्तान्तरगतिः || १९९ || चतुर्णामब्धीनां किमु समुदयो नाभिरुचित- श्चतस्रो यद् वेला युगपदिह नाभ्यन्तवलयः | अतोऽमीषां दग्धुं बहिरुदकमेकोऽक्षम इव ज्वलत्यन्तः कुक्षावहह वडवावक्त्रदहनः || २०० || इदं पृष्ठं पृष्टं किमु तव न केनापि तुलना वदेत्येवं पृष्टे सपदि परिवृत्त्यात्मवदनम् | स्थितं किं वा स्पष्टस्फटिकघटिताद्रीन्द्रफलक- व्रजं भूयोभूयो हसति सुषमावीचिकचितैः || २०१ || इदं सौक्ष्म्यं वेदिर्न खलु लभते स्मोदरगतं रसाक्रान्ता भूता तत इव लसन्मत्सरतया | असम्बाधा गोधाभवदिह च मातुं यत इतो रसाक्रान्तं गोधावतरमभियाता समपदम् || २०२ || चतुर्वक्त्रो धाताजनि किमुदरस्थं सुषमया सुसूक्ष्मत्वं सम्यक् किमपि परिचेतुं मतमतिः | सहस्राक्षः सोऽपि प्रसभमनिमेषोऽमरपति- स्त्रिनेत्रोऽहं भाग्यैरपि ललितपञ्चाननपदः || २०३ || विचित्राभै रत्नैरुपकलितया किंनु पटहा- यितं काञ्च्या संदर्शयितुमुदरं स्पष्टमभितः | अनालोक्यं कोलाहलकलरवैः संकलितया किमेषा वा दोला मदननृपतेः खेलनमुदे || २०४ || प्. ८८) भ्रमन् बुद्ध्या सिंहोऽप्युदरमुपमातुं समुदितः सकृद् हर्षेणान्तःस्वर उपरि लब्ध्वा कथमपि | अगच्छन्नाम्नोऽपि प्रतिविनिमयं तत् कविवरैः समासेनैवायं खलु मृगपतित्वेऽप्यधिकृतः || २०५ || इदं मध्यं दृश्यं कथमपि न यत् स्पष्टमभित- स्ततो मध्याद्याख्याप्रथितमिह चान्यत्र कलया | निमग्नं मास्त्वेतत् परमबहिरित्येव रशना- गुणैर्बद्ध्वा न्यस्तं त्रिवलिनिकटे वा सनिनदम् || २०६ || सहस्रं किं नाम्नां स्मरसुरपतेर्भूरिरसना पठत्येषाश्रान्तं मणिभिरुपबद्धेह रशना | अधोवक्त्रा तस्माद् रह इव न रोमावलिरियं जपत्येतन्मन्त्रं किमु सपदि मत्कार्मणकरम् || २०७ || इदं रोम्णां राजिं कचतिमिरसभ्यां सदुदरे परस्थानां दृष्ट्वा नयनरुचिपाभ्यामपि निजम् | नितम्बस्थं बिम्बद्वयमिह कृतं किं नु तदधो यतो नेयं तत्र प्रकटयितुमीष्टे प्रसृतताम् || २०८ || उभौ बिम्बस्थानौ नयनरुचिपौ वीक्ष्य परतः श्रिया गण्डस्थानाजिररचितसद्विभ्रमततौ | शिरोबिम्बस्थं किं कचतम उतानुद्रुतमपि नितम्बौ सद्बिम्बौ स्वयमुभयतो व्याप्य विलसत् || २०९ || निरालम्बे मार्गेऽनिशमुपरि जाग्रद्व्रततया नितम्बौ तावेतौ समधिगतवान् किं निजरथे | प्. ८९) रथाङ्गे तीक्ष्णांशुः कथमपरथा पर्वतभुवोऽ- प्यतीताङ्गं दीर्घामलभत पदं दक्षिणदृशम् || २१० || नितम्बाभ्यामस्यां विततवितताभ्यां न कटका- यितं मध्योद्गच्छद्वलिसरिति किं पर्वतभुवि | नरीनृत्यन्त्येते सममिह सदा यद्घनरुचः शिरःशृङ्गोन्नद्धा ललितगतयो बालपतयः || २११ || नितम्बौ तावेतौ मदनविजिगीषोर्न पटहौ विधातुं स्वायत्तामभियत इमां पर्वतभुवम् | यदग्रे मीनाङ्कौ नयनयुगलं सिन्धुरकटौ कुचौ सोरू जङ्घे यदनु च ततं गोमुखयुगम् || २१२ || नितम्बौ किं नाभीसरसि वलिनाल्यन्तरगतौ सरस्वत्याः कुण्डे इव नहि निपानेऽस्फुटरसम् | यतः पायं पायं स्रुतमभिमुखं पादपयुगं पथिभ्यामूरुभ्यां नखकुसुमशाखाभिरुदितम् || २१३ || त्रिचक्रात् कन्दर्पस्तदतुलनितम्बद्वयकृती वितीर्यैकं पित्रे किमु न निदिदेशातलपदम् | स्वयं स्वर्भूस्थानं व्यधित खलु विष्णुः स्मर इह स्मरो विष्णुस्तत्तच्छ्रुतिरपि सुतात्मैक्य ऋतगीः || २१४ || इमौ रम्भादर्पं परिहरत ऊरू स्म किमतो नगत्वं सावाप्ता पदतलविमग्नातितुहिना | प्. ९०) निशम्यैतद् दूरादपि तुलिततन्नामकलया सुरीणां सा त्वन्या ह्विय इव सुयक्षाधिपतिता || २१५ || करं स्वं प्रोद्युक्तं तुलयितुमिमे वारणधिया करीन्द्राणामूरू व्रज इह मुहुश्चालयति किम् | तदाद्येष ख्यातः समजनि सदा वारणतया तदागः संशुद्धं रचयति पुनः कुण्डलनया || २१६ || तुलानाप्तेरूर्वोर्वरमजनि मोचा विनिमया- कृतिर्मुञ्चत्येषाप्यहह दलयूथं नवपरम् | नितम्बौ जानुभ्यामपि सुकटकौ मण्डलितया विलोक्याधार्यस्या न कटकयुगं रत्नखचितम् || २१७ || इयं जङ्घानङ्गामरपरपदारोहणविधौ स्थिता निःश्रेणी किं प्रथित इह जङ्घालकतया | ततः कन्दर्पोऽयं सततरतिराड् विश्वविजयी न जङ्घे यष्टी वा रतिरतिपयोर्धारणविधौ || २१८ || अयं चातुर्मुख्यं प्रकटयति गुल्फो न किमिदं श्रुतिर्भावं सम्यग् वदति यदसत्त्वे सत इव | पदे किंचिद्धत्ते कमलमपि यद् विष्टरकलां तदस्मिन् भारत्युद्गम उपरि हंसीगतिरधः || २१९ || स्थितान् गुल्फानेतान् निभृतनिभृतं नू पुरभवो ध्वनिर्मन्द्रो मन्द्रः प्रकटयितुमाटोपविकटः | प्. ९१) ततोऽप्येते लक्ष्याः कथमपि न यत् सङ्करकला न चातुर्यं तेषां प्रथितमिह जङ्घालकमतः || २२० || इमौ पादावादावधृत निजमूर्ध्ना शतधृतिः स गोविन्दः संवाहयति करमर्देन गिरिशः | सदा पश्यन् मृत्युं जयति च महेशः स्म भजते सदाशम्भुर्भूयो नियतनिजशक्त्येकरसिकः || २२१ || इमौ पादौ पद्मं कथमुपमिमीते समगती निखातान्तःशल्यं विषमपदगं रागि रजसा | सपक्षाणां युक्तं भ्रमरपततां विभ्रमहतं गुणाक्रान्तं भक्तिं भजति तदिदं मैत्र्यकलया || २२२ || इदं यानं हंसः स न यदनुयातुं क्षम इमा- वतस्तावेवायं भजति सततं हंसकतया | सुखी लब्ध्वा सम्यग् विनयमिह तन्मानसिकतां गतः ख्यातं पक्षप्रभवविमलत्वं श्रयति च || २२३ || दिनस्थाययारक्त्य तदपि मृदुतादूररहितं न जाग्रत् स्निग्धत्वं तदपि नगरुद्धं न करणम् | स्वशाखानां चैतद्यदि भवति सर्वस्वमिह तत् प्रवाले प्रावाल्यं पदनुगतये नाधिकलितम् || २२४ || सुवर्णाढ्यं पद्मं किमु तदुदितं मानसरसा- दनुप्राप्तुं पत्रैरपि गतमिमौ मग्नचरणम् | अतीतौ सौवर्ण्यादपि जनितमन्मानसरसौ चलत्पत्राकारौ धृतजलकलत्वं न चरणौ || २२५ || प्. ९२) न पादेशावेतौ नयनकरपस्पर्धनविधा- विधेयावादत्तो नखरदशराजीमनुकृतौ | गतां पार्ष्णी तद्द्वादशविधकलां तन्नयनगा- वुभौ तौ पश्यन्तावध उपरि लुप्ताभिगमनौ || २२६ || दिशां पङ्क्तावङ्घ्री सकलमभिनीराजनधिया स्वयं राज्यं धत्तो नखरसुदशत्वं न किमिमौ | अतो दिङ्नाथास्ते हतनृपतिताः संयतकराः स्वसाम्राज्यावेताविह न न नमन्ति प्रतिपदम् || २२७ || पदाधीशावेतौ यदत इह पार्ष्णी अनुगतौ नखैः शाखाग्रेषु स्थितिरुपनिबद्धापि दशभिः | महाराजैः स्वेनाक्रममपि दलानां वितनुतो न वा प्रत्यग्राणामरुणतरुणौ निर्भरमिमौ || २२८ || नखाग्रैरादेशं दशदिगधिपानां वितनुतः प्रतिस्वं सन्मुद्रावधिकृतिषु भूयः स्मृतिषु च | सुपर्वाभिप्रख्यौ विजितकमलेशौ न चरणा- वनुप्राप्ता बालास्तदपि सुमनस्त्वाधिकलिताः || २२९ || भजन् पाद्यैः पादौ भजति परमं तन्निजपदं पुनर्गन्धैर्गन्धं भवजनितमन्तं नयति च | अनर्घः स्यादर्घ्यैर्जगति सुमनोभिः सुमनसां मनांस्यावर्जेत प्रकृतिसुमनस्त्वेन महितः || २३० || स्मारं स्मारं नान्यचेता उपासे कारं कारं पूजयाम्येष साक्षात् | सारं सारं वाहयामि प्रभुः सन् वारं वारं पादनाथौ नमामि || २३१ || प्. ९३) या भव्यवर्गस्य मया गृहीता तुला प्रतीकैरतुलैकलेशैः | ख्यातस्य कैश्चित्किल हानयेऽपि तत्प्रार्थितेनात्र न सा दयैव || २३२ || आविष्टभ्यावयवकलनामेकतः स्वां कथञ्चित् निःसंभाव्यां परत उचितां कर्तुमेषा विभाव्य | सन्धायैनामपि परनिजैर्मामकैः सत्प्रतीकै- रेकैः सर्गं मुदमुपगता स्वं कृतार्थं चकार || २३३ || क्वचिच्छ्यामां श्वेतां क्वचिदरुणभां क्वापि हरितं क्वचित्पीतां क्वापि प्रकृतबहुवर्णां क्वचन ताम् | क्वचित्सौम्याकारां क्वचिदपि सुघोरां रुचिरुचिं महाशक्तिं काञ्चित् सततमनुरक्ता अभिनुमः || २३४ || स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | सच्चित्पूर्वपदप्रकृष्टगतिभागानन्दकन्दल्यनू- द्धारे तस्य कृतौ विलास उदिते भक्तिस्तुरीयागमत् || २३५ || इति श्रीमहामाहेश्वराचार्यवर्यश्रीसाहिबकौलविरचिते नामविलासे चतुर्थी भक्तिः || ४ || पञ्चमी भक्तिः तत्प्रसादमधिगत्य भक्तितः स्तौमि तामनुमुहुर्महेश्वरीम् | नामभिः कृतसहस्रसंख्यया दिव्यरूपमनुयायिभिर्निजैः || १ || ब्रह्मलोकविषया सरस्वती तानि तानि रचयत्यनर्गलम् | दर्शनानि निजदर्शनेप्सया दृष्टिदृश्यविषयैक्यभाञ्जि सा || २ || सैव विष्णुभुवि वैष्णवी परा चित्ररत्नगणभूषणाम्बरा | मोहयत्यमरवर्यतद्रिपूनिन्दिरेति विदितात्मविभ्रमैः || ३ || नाकगा मघवदादिपालिका बालिकापि सततं सनातनी | दैत्यमूषभयकृद् बिडालिका लालिकेन्द्रपदवीमुपेन्द्रतः || ४ || तामुषर्बुधपुरेऽपि तज्जना लोककीलपरिशीलिताकृतिम् | देवनाथमुखतृप्तिकारणं केऽपि हन्त रुचिमित्युपासते || ५ || तामिमां सनियमैर्यमैर्भजन् धर्मराडपि नियामयत्यदः | अस्तशङ्करसमस्तदुर्भयो दुर्नयेन न जितः सदोर्जितः || ६ || ईश्वरीं त्रिजगतः स्वरक्षिकां सर्वदेवकृतवैरशङ्कितः | रक्षसां गण उदारविभ्रमां सेवतेऽपि सततं सपर्यया || ७ || प्. ९५) सत्त्वतत्त्वविदितो विनेतृतां नेत्रवानपि जडाधिपः शिवाम् | भूषयत्यतुलरत्नराशिभिः संस्कृतैर्नवनवै रसेश्वरीम् || ८ || प्राणिनां सततजीवसाक्षिणीं प्राणशक्तिमुदयत्सदागतिः | वाहयत्यमलगन्धवाहनस्तां स कोऽपि निजसिंहवाहने || ९ || यक्षिणीप्रभुमधीनरूपिणीं यक्षराडपि निधीश्वरः शिवाम् | राजराजपदवीमपि श्रितस्तर्पयत्यनिधनं धनार्पणैः || १० || कालकामदमनक्षमैरपि भैरवैस्त्रिपुरभैरवीरवैः | तोष्यते सनिगमागमागमैः सैव कापि कृतकृत्यतां गतैः || ११ || तां कुमारजननीं कुमारिकां संस्मरन् निजकुमाररूपभृत् | देवदेवपृतनां नयन्नयं किं कुमारयति नैव षण्मुखः || १२ || पूर्वदेवनिवहोऽपि तामिमां निर्विशेषविषयस्थितिः स्मरन् | काम्यरूपपरिचायकोऽकरोत् कौशिकं हतपदं न कौशिकम् || १३ || तां समाधिषु हतासमाधयः सन्निधाविव विलोकयन्त्यहो | लुप्तलोककविलोकलोकधीविभ्रमाः सनकमुख्ययोगिनः || १४ || मर्त्यमत्र मृतजीवनाद्यया विद्ययामरकलामपि क्षमौ | नेतुमस्तकलिकालकल्पनामश्विनौ प्रणमतो रसेश्वरीम् || १५ || विश्वतोऽपि विनिवेश्य संविदं विश्वनाथदयितापदोर्हृताम् | विश्वनामकदिवौकसो गता विश्वतोषमधिविश्वपूजिताः || १६ || वासवेन वसुनापि वासिते मौलिवासिमणिकान्तिवासनैः | वासयन्ति वसनैरदःपदे चेतसीह वसवोऽप्यवासने || १७ || प्. ९६) ग्राममध्यमुपनीय मूर्च्छितैः सस्वरैरमरगाथकैरियम् | गीयते तदपदानसुप्रथैर्नामभिः प्रतिपदं कृतार्चनैः || १८ || तां विदन्ति परविद्ययाद्यया हृद्यया सहजयानवद्यया | सद्य एव चितगद्यपद्यया तद्धरा रहितजाड्यवेदनाः || १९ || वादनादमनु गीतमप्यनु रागसागरनिरर्गलोत्तरम् | आदृता गतिगतं त्रिधा लयं तोषयन्त्यमरनर्तका इमाम् || २० || साध्यसिद्धकलनातिगामिनीं राधयत् परमशम्भुकामिनीम् | साध्ययूथमभिसाधयत्यदोवेदनाय हृदये सुसंविदम् || २१ || सिद्धियूथपरिचायचञ्चुरः सिद्ध्यसिद्ध्यतिगसिद्धिसाधिनीम् | सिद्धसङ्घ उपधावितुं विदं तामिमां प्रयतते समाधिषु || २२ || अप्सरोभिरनिशं रसाप्सरोमूर्तिभिर्ललितलास्यनर्मभिः | हावभावचतुराभिरीश्वरी तोष्यतेऽपि रसराजराजिता || २३ || गुह्यगुह्यविषयां विशेषणैर्गूहितप्रकृतचिन्तनादृताम् | गुह्यका अपि निगूहयन्ति तां हृद्गुहागहनगेहकोटरे || २४ || यक्षकर्दमविलेपनादिव कालिकामखिलकालकालिकाम् | यक्षकाः सकलरक्षिकामिमां रक्षयन्ति हृदये सदा स्मृतेः || २५ || भूतभूतिविभवां भवाभवां भूतभव्यभवदुद्भिदाभिदम् | भूतनायकविभूतिमीश्वरीं भूतयूथमिह भावयत्यमूम् || २६ || बोधतर्जितजगत्पिशाचिकां याचमानजनयाचनापहाम् | अञ्चयन्ति विचिते पिशाचक्रास्तां स्वचेतसि चितं कथञ्चन || २७ || प्. ९७) निर्गुणां गुणगणैरलङ्कृतां गौणतातिगगणाधिपा गणाः | गौणतत्परकृतप्रथायुतैस्तां सदैव गणयन्ति नामभिः || २८ || तां ध्रुवेण परिचिन्तयन् ध्रुवां सुध्रुवे पथि गतोऽपि निर्द्रवः | निर्ध्रुवं जगदिदं विलोकयन् किं ध्रुवत्वमगमन्न स ध्रुवः || २९ || सामभिर्विमलनामनामितैर्वामकामदमनाः स्वकामदाम् | काम्यधामगमनाः समागमां रामयन्ति मुनयोऽपि सप्त ताम् || ३० || निग्रहेऽपि जगतामनुग्रहे तां गृहीतविहितग्रहा ग्रहाः | विग्रहे पथि चिदात्मविग्रहां ग्राहयन्ति च नवं नवं नवम् || ३१ || तां शनैश्चर इमां शनैः शनैर्दूषणेन विकलैः सुभूषणैः | दर्शनैरभिचिनोति चेतसा प्राप्तलोकपरलोकदर्शनैः || ३२ || पूर्वदेवपरिवञ्चनाञ्चितशास्त्रनिस्त्रपितदेवनायकः | गौरवं गुरुषु गूरयन् गुरुस्तां गृणाति त्रिजगद्गुरुं गुरुम् || ३३ || मङ्गलो गलितगाल्यमङ्गलो मङ्गले प्रथमपूज्यतामितः | पूजयत्युदितसर्वमङ्गलामङ्गलग्नशिवसर्वमङ्गलाम् || ३४ || भास्करश्च निजलोकभासितो भासिताखिलजगत्त्रयीं शिवाम् | भासयन् मुकुटभासिभिः पदे रत्नराशिभिरिमां भजत्यरम् || ३५ || काव्यकौशलकलाकृदेकलः श्रौतमार्गपरिधानचातुरीम् | आश्रितः परमशक्तिसक्तधीस्तां कविश्च कवयत्यनर्गलम् || ३६ || सौम्य एव गुणतोऽपि सर्वदा न ग्रहा इव शुभादि भावयन् | निर्णयेन स बुधोऽत उद्बुधां सौम्य ईश्वरितमां भजत्यलम् || ३७ || प्. ९८) चन्द्रमा अविरतं सुधाभृतां चन्द्रिकां पथि पथि प्रसारयन् | अर्चति प्रभुमुदारविभ्रमामुत्पलैः स्वयमिमां विकासितैः || ३८ || तिग्मभानुहिमभानुतर्जनो वर्जितान्यभपतिक्रमार्जनः | स्वर्गभानुरपि पुच्छमूर्च्छितो व्याप्तभानुमिह भावयत्यमूम् || ३९ || कुम्भसम्भवमुनिः सुदक्षिणो दक्षिणां दिशमुपाश्रितः स्थिरम् | दक्षमन्युदमनीमणीयसा चेतसा स्मरति बोधदक्षिणाम् || ४० || पुण्यकर्मचितनामधामभिः सद्गुणैः सुरभिमेव निर्गुणाम् | अन्तरिक्षगजना नमन्ति तां संज्ञया सुरभिलोकमुख्यया || ४१ || वायुवेगगतयोऽपि खेचराः स्वस्वभावपरिभावुकामिमाम् | बीजयन्ति निजपक्षसञ्चयैः खेचरेश्वरितमां सुचामरैः || ४२ || मानवाश्च भुवि सत्त्वमानिनो माननीयमहसं मनीषिणः | तां नमन्ति पृथगात्तमानदां कुत्र कुत्र च निजेष्टदेवताम् || ४३ || भूधृतत्वविदिताश्च भूतले शेषमुख्यजनता जनेश्वरीम् | संगृणन्ति विनिमेषदर्शनाः शेषशेषविषयां विशेषणैः || ४४ || इत्थमत्र परमेश्वरीमिमां प्राणिनः परमभक्तिसक्तयः | पूजयन्ति जपहोमतर्पणैर्भूरितन्त्रविहितैर्हितैस्ततैः || ४५ || स्तोत्रराजमिममाकलयय सा लोकलक्षणविलक्षणं मया | स्पष्टमाशु विहितं गुरुक्रमादाविवेश किल मां मुदं गता || ४६ || तत्प्रभृत्यनवमं क्षमं समं प्राप्तमीश्वरतरास्पदं मया | येन कर्तुमपि हर्तुमन्यथा कर्तुमेतदखिलं क्षमोऽस्म्यहो || ४७ || सोऽहमस्म्यणुरणीयसां महाञ्ज्यायसामपि गरीयसां गुरुः | प्राणतोऽपि च लघुः स्थवीयसां सुस्थिरः सकलकाम्यकामदः || ४८ || प्. ९९) ईशितास्मि वशिताभ्यलङ्कृतः प्राप्तगम्यपददानदक्षिणः | सर्वमात्मकलया विभावयन् भावमेष भव उद्भवाभवः || ४९ || सच्चिदद्वयसुखोर्मिधर्मवानूर्मिमुक्तमहिमा स्वतन्त्रया | एतयोन्मिषितसम्मुखीनया तत्तदभ्यरचयं चराचरम् || ५० || बिन्दुमाविरुपकृत्य बीजतः सङ्गमयय तदिदं पुनर्द्वयम् | रेखयाखिलपुटत्रिसंज्ञया वर्णशब्दपदवाक्यता ततः || ५१ || तत्समूहमधिकृत्य सुस्मृतं तानि तान्यरचयं सुदर्शनः | दर्शनानि हतदृश्यदृक्तया शब्दसर्ग इति निर्मितो मया || ५२ || उन्मिमेष परशक्तिरादितस्तत्सदाशिव इतः स्वविद्यया | ईश्वरत्वमगमत् त्रिधाद्युतिं तत्स्वशक्तिविवृतं त्रिकृत्यकृत् || ५३ || मायया नियतिकालरागितातत्कलाकलितयापि विद्यया | कञ्चुकैरिव वृतः स पौरुषीमागतः प्रकृतिमुत्कृतां गुणैः || ५४ || ख्यात एष किल जीवसंज्ञया चित्तबुद्धिहृदहंकृतैः क्रियाः | आन्तरीर्विरचयन् बहिस्तथा शब्दितादिगुणिभिर्दशेन्द्रियैः || ५५ || तद्गुणेभ्य उदभूद् विभूतये पञ्चभूतकलना ततो जगत् | आकरा अपि जरायुमौलयस्तत्र भान्ति पृथगीश्वरेच्छया || ५६ || तच्चतुर्दशविधं चतुर्दशैरावृतं भुवनराशिभिः पृथक् | भूतयूथमभिभाति भासितोऽप्यर्थसर्ग इति शक्तितो मया || ५७ || तामिमां समवलम्ब्य निर्मितं विश्वमित्थमतिगह्वरं मया | वेद्मि तां सकलकारणं शिवां पूजयामि च जपामि भावयन् || ५८ || प्. १००) नन्दिकेश्वर परापरामिमां शक्तिमेव मदनुग्रहास्पदम् | आख्ययाचितसहस्रसंख्यया स्तोत्रतां गमितयाभिनौमि ताम् || ५९ || इत्युदीर्य विरतं महेश्वरं तं चराचरगुरुं विभुं पुनः | स प्रणम्य शिरसा कृताञ्जलिर्नन्दिकेश्वर उवाच वाक्पतिः || ६० || देवदेव परमेश शङ्कर लोकनाथ भगवन् नमोऽस्तु ते | दासदासपदवीं गते मयि संप्रसीद भवदेकसंश्रये || ६१ || नो विधेर्न नृहरेर्हरेर्न वा नेतरस्य च कदापि कुत्रचित् | आदृतोऽस्मि शरणं त्वदेककप्रीतिभक्तिरिति धार्ष्ट्यमारभे || ६२ || क्षम्यतामिदमुदीर्यतां च तत्स्तोत्रमेतदमरेशदुर्लभम् | नाद्य यावदधिकामितं मया नार्थनादिरफलत्वमर्हति || ६३ || यद्यपि प्रभुरहस्यमद्भुतं श्रोतुमिच्छति मनो हि मामकम् | यद्यवाच्यमपि तत्तथापि मे वाच्यमेव दयया दयाश्रयैः || ६४ || चेद् वदन्ति विभवो न गुह्यतां यातमेतदपि तत् क्व याम्यहो | जन्म यावदभिराधयञ्छिवं राधना हि परसिद्धिसाधनी || ६५ || वादिता गुरुवरैर्महेश्वरैर्नार्हतीति यदि नीतिरस्त्यपि | तां चरेत्तदपि तत्त्वमप्यनु ह्यन्यथा भवति निर्णयः कुतः || ६६ || तद् विधाय करुणामनुत्तरां प्रेष्यभावमपि मे विचिन्त्य तम् | स्वामितामपि निजां स्तवेश्वरं वक्तुमर्हसि विभो प्रभाविणम् || ६७ || भैरवं वपुरवेक्ष्य तेऽप्यहो प्रश्न एष विषये परे मुहुः | यद्विधीयत इदं न युज्यते ह्युत्तमाय विजयो मृतिः समे || ६८ || प्रागपि प्रतिमुहुः प्रभुस्मृतेरुत्कमास[स्त] मम तत्र मानसम् | अद्य तु श्रुतमहानुभावतो भूय एव परितः समुन्मिषत् || ६९ || प्. १०१) यत् कुमारगणपादिमैरपि न श्रुतं सुरवरैस्तदेव चेत् | प्रोच्यते मयि मम प्रसिद्धतां याति भक्तिरपि ते दया तदा || ७० || केवलं न मयि ते दयाप्यसौ किन्तु भक्तजनतामपि प्रति | त्वन्मुखोद्गतमिमं विचिन्त्य यत् को न नौति नवराजमद्भुतम् || ७१ || वेद्यते हि विभुचित्तमप्यमुं नेतुमुद्गतमिह प्रसिद्धताम् | अद्य यावदपि यन्न वान्यथा पृष्टमद्य तु कथं न पृच्छ्यताम् || ७२ || इत्थमेतदखिलं विविच्यतां प्रोच्यतां च नवराडनुत्तरः | यन्न देयमपि तद् दयाधनैर्दीयते किमु न पादसेविने || ७३ || इत्थमस्य वचनैः प्रभुप्रभुर्निर्वृतः सविनयैर्नयस्थिरैः | योग्यतामपि विविच्य सच्छ्रुतौ स्माह किं न सुलभं सदाश्रयात् || ७४ || नन्दिकेश्वर पुराप्यभूद् भवान् द्वारगो रहसि दृष्टदिष्टवान् | तत्फलं परिणतं त्विदं मतिर्यद् विशेषविषयेऽनुयोगिनी || ७५ || नानुयोक्तुमभवन् क्षमाः परे केऽप्यदः स्तववरं वरस्थिरम् | कैरपीदमनुयुक्तमीरितं नो मयापि समयप्रथाविदा || ७६ || त्वं तु केवलमनन्यसंश्रयस्त्यक्तसर्वकलनश्च मां प्रति | जन्म यावदधिकाधिकं भजन् पात्रतामत इतोऽसि तच्छ्रुतौ || ७७ || पूर्वमेव तपसाऽस्मि तोषितो दिव्यवर्षसुकृतेन भूयसा | तत्फलं हि तव हस्तगं यतो द्वारगोऽसि सततं रहस्यपि || ७८ || ईहते न कतरः परः सुरस्तत्पदं त्वयि हि यत्परं स्थिरम् | कः शिवे प्रयतते न वा निजे कस्य चित्तविधिरेति पूर्णताम् || ७९ || तत्पदस्थितिफलं त्विदं तव पप्रथे यदनुयोगमाचरः | कुत्रचित् सुसमयेऽत्र मेऽपि यद् वाचि घूर्णितमतेरिवादरः || ८० || प्. १०२) सत्यमेव नियतोऽसि मत्प्रियः सर्वतोऽपि परिपृष्ट एव यत् | मत्तवत्परमरं स्तवेश्वरं स्वातिगुह्यमपि बाह्यमाचरम् || ८१ || अद्य यावदभवो बहिर्भवे केवलं रहसि मेऽधिकारवान् | अद्य तु श्रुतमहानुभाववागान्तरेऽपि परमेऽसि कोऽप्यहो || ८२ || यात्यतीव विवृतं मया ह्यदः स्तोत्रमत्र किमु न प्रसिद्धताम् | तत्र वृत्तमपि ते सदाह्वयं को न नौति सकलोपकारकम् || ८३ || नन्दिकेश्वर तदित्थमुद्गतं स्तोत्रराजमिममद्भुतं शृणु | तं निशम्य तदनुग्रहार्थिषु त्वं तथा प्रथय मद् यथाध्यगाः || ८४ || स्तोत्रराडयमनुत्तरोत्तरो नामभिर्दशशतैः सुकामदः | स्मार्य एष परिजप्य एष वा पाठ्य एष हवनीय एष च || ८५ || ध्यानपाठजपहोमतर्पणैः सोऽस्य सिद्धिनिवहो न दूरतः | दुर्गयोगपदवीं परामपि यः प्रयातुरपि लब्धिसंशये || ८६ || यत्प्रयातकलनः स्वमीश्वरं प्राकृतोऽप्यवमतान्यसंकथः | मन्यते द्विविध एष सोऽध्ययादस्य भोगनिवहः कियानिव || ८७ || किन्तु यद्गत इतो निवर्तते नैव भूय इह वास्ति यन्मयः | सापि मोक्षविवृतिः सुहर्षभूरध्ययादिकवशाऽवशा भवेत् || ८८ || विधाय शुद्धिं त्रिविधां प्रतिष्ठामपि प्रयुक्तोत्तमजीवघोषः | न्यासैक्यभूषः स्मृतिमांस्त्रिकालं पठेदिमं प्रत्ययतः प्रगे वा || ८९ || एतत्स्तोत्रं श्रुतिमधिगतं स्मार्यरूपं स्मृतीनां दृष्टीनां च प्रथमविषयं ज्योतिषां ज्योतिरेकम् | साहित्यानां गतमतिरसोद्धारतामादिशक्तेः पूजं पूजं प्रणमति न कः सारसर्वस्वभूतम् || ९० || प्. १०३) स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | तत्काव्ये शिवशक्तिपूर्वकविलासानूद्धृते संभृते शक्त्यङ्केन विलासनाम्नि महिता भक्तिर्गता पञ्चमी || ९१ || इति श्रीमहामाहेश्वराचार्यवर्यश्रीसाहिबकौलानन्दनाथविरचिते नामविलासे पञ्चमी भक्तिः || ५ || षष्ठी भक्तिः स्तोत्रेशेऽस्मिन् मुनिरहमहन्तापरामर्शहेतु- श्छन्दोऽनुष्टुप् कथितमकथा देवता सादिशक्तिः | नानासिद्धौ भवति विनियोगश्चतुर्धा प्रसिद्धे पुंभावे वा स्मृतिजपहुताध्येतृतातर्पणेषु || १ || शम्भुश्चक्रे यानि नामानि देवदेव्याः स्पष्टं पूर्वमुद्देशपूर्वम् | साहिब्कौलस्तानि भक्त्येकवश्यो वृत्तैरर्थं लक्षयद्भिर्बबन्ध || २ || विष्णुमायाभिधे सिद्धसरस्वत्यपि वर्णिते | पर्यायेणेह षष्ठ्या च तरुणाख्योपपादिता || ३ || क्वापि क्वाप्यन्यनामानि विग्रहान्तरितानि च | वर्णितानि न दूष्याणि तान्युद्भावनया स्वयम् || ४ || निराभासोऽप्यादावहमिति समाभास्य विविधैः स्वशङ्काङ्कैर्भावं स्वमिव मलिनैर्योजयति यः | प्रतीपं प्रज्ञानात्पुनरपि तमेवाद्भुतमयं स्मरत्येकं सद्यः किमपि च चिदात्मैष जयति || ५ || प्. १०५) निश्चेत्यापि विचेत्यभावकलनाभासस्वरूपेव या यैकाप्येव मतेषु भूरिषु परं नानाख्यया श्रूयते | या जन्मादिविधौ विभुर्विमलभा अस्यात्मतन्त्रा परा सैषा काचिदखण्डहर्षविभवा चित् स्फूर्जतात् स्वत्विषा || ६ || परमतुलमनन्तं बोधयत्यात्मभावं विरचयति च सद्यो मृत्युचिन्तापहारम् | रसयति रसराजं सर्वतः पूर्णपूर्णं मम मतिरथ चैवं शक्तिनाम्नां विलासः || ७ || शृङ्गारी स्वमतौ हसञ् जनगतिं भक्तेषु कारुण्यवान् वीरोऽहङ्कृतिपातने भ्रमततौ रौद्रो मनःकर्मणाम् | भीतेर्हेतुरसज्जुगुप्सनपरः सर्वैक्यलीलाद्भुतः साहिब्कौलरसेश्वरो विजयते शान्तात्मताभास्वरः || ८ || अनपिहितभावबोधां नानाकामाधिकामितां विबुधैः | अभिनवरसराजीं तां परादिविद्येश्वरीं वन्दे || ९ || महाविद्या || १ || परा या चिद्रूपा स्फुरितविभवान्तः स्मृतवती बहु स्यामित्येका तदनु तनुते तत्सममिदम् | विचित्रं शुद्धाध्वप्रभृतिमतिविश्राममभिदा महाविद्याऽनाद्या विशदसुखदे यच्छतु पदे || १० || जगन्माता || २ || प्रसूते हूतेन प्रतिनियतरूपेण च परा निरूप्यं चिद्रूपा जगदगमयं निष्परिचयम् | प्. १०६) प्रपञ्चं या स्वच्छा मुहुरिह गृणन्तं झगिति मां जगन्माता पाताज्जगदघनिपाताद् भगवती || ११ || महालक्ष्मीः || ३ || स भिक्षुत्वं दिक्षु श्रयति नहि यत्संश्रयवशात् प्रशास्ता दैत्यानां पतिरपि च पत्युर्भवति या | हृदि स्थित्या नित्यं विरचयतु दौर्गत्यमभितो महालक्ष्मीः सा नो ललितफलिता दुर्गतिततेः || १२ || शिवप्रिया || ४ || यदासक्तो नक्तन्दिनमिनपदं तत्सुविपदं विदित्वा दत्त्वाढ्यं स शिव इतरेभ्यः स्वयमलम् | श्मशाने निःशून्ये वसति च परं नन्दति शिव- प्रिया ध्येया देयात् सहजनिजभक्तिश्रियमियम् || १३ || विष्णुमाया || ५ || विनिर्माय स्फायत्सहजनिजतन्त्रत्वविभवा- दहो मोहं धत्ते स्वयमपि ययेदं श्रितगतिः | स विष्णुश्चाप्यात्मा विततमितमातृभ्रममया- ज्जनं विष्णोर्माया परमरमपायादवतु सा || १४ || शुभा || ६ || शुभत्वं दुःशोभे भवति च भवे मोहविभवे यदीयाद् दुर्ध्येयादपि परकृपापातसुलभात् | प्. १०७) विशोकादालोकात् प्रथितविततालौकिकधियां शुभा शुभ्रं विभ्रंशितकलिमलं शं वितरतात् || १५ || शान्ता || ७ || नितान्तं दुःशान्तो भजति विजितश्चित्ततुरगो यदाश्रित्या हित्वा भ्रममिमममीभिः सुकृतिभिः | निवृत्तिं दुवृत्तः सकलमलदायाः स्वदयया स्थितिं शान्ता दत्तां सततममिता सात्मनि समाम् || १६ || सिद्धा || ८ || प्रकाश्यैक्यात् सिद्धिं घटयति चिदात्मा घटयितुं न तत्स्वेनासिद्धः कथमथ जडो यत्र परितः | विकल्पैर्या नद्धा कथमपि न नद्धापि भवति प्रसिद्धा सिद्धा सा निरुपधि सुसिद्धिं वितरतात् || १७ || सिद्धसरस्वती || ९ || गुरोः शिक्षाभिक्षां वदनसदनाच्छास्त्रमपि या विना शिष्यत्वं वा समुदयत आनन्दलहरी | समिद्धा सिद्धैः सा विदितगदिता नित्यमिह त- त्सरस्वत्यम्बा मां रसयतु रसज्ञैः सुरसिता || १८ || क्षमा || १० || यदालम्बाद् बाधा भवति न सदा दुर्जनभुज- ङ्गमात् क्षामा स्पर्धा भवति च निबद्धा मतिहतैः | सतां भाता सम्यग् हृदयदिवि सद्बोधविशदा क्षमा कामं सा मामवतु पशुपर्षत्परिगतेः || १९ || प्. १०८) कान्तिः || ११ || अनङ्गः सद्भङ्गैः कुसुमसमयामात्यमबला- बलोऽपीप्सुः पुष्पैः प्रतिहितमहास्त्रो रतिरतः | यदासङ्गाद् गङ्गाधरमपि परिक्षोभमनयत् स्वकान्तिं सा कान्तिर्वितरतु जगन्मोहविषयाम् || २० || प्रभा || १२ || यदालोकात् स्तोकादपि सपदि जन्तोः पदि पदि परं यस्मिन् कस्मिन्नपि भवति हाहेति मुखगम् | यया मुक्तं युक्तं रचयति रुचिं नैव किमपि प्रभा साभामाभासयतु कुतुकात् कामपि समाम् || २१ || ज्योत्स्ना || १३ || यया ग्लौरप्यानन्दयति निखिलं लोकमुदितो विपत्तापं हित्वा श्रयति च यतः शीतलसुखम् | जनः सा नस्त्राणं प्रतिकृतिमतीताकृतिमतां भव ज्योत्स्ना कृत्स्ना तिमिरसमरे दुर्गतिकरे || २२ || पार्वती || १४ || समक्षं दक्षेणानवसरमवज्ञापिततया- वतारं या तारं गिरिवरनिकायये कृतवती | सुसूत्रं तद्गोत्रं समनयदनन्तां प्रथिततां कृपां पार्वत्येषा दिशतु सुदशावाप्तिसफलाम् || २३ || प्. १०९) सर्वमङ्गला || १५ || विभानात् सत्पदप्राप्त्यै यद्ध्यानान्मङ्गलं परम् | भवेत् सर्वत्र सा जीयाद् भवानी सर्वमङ्गला || २४ || हिङ्गुला || १६ || निषण्णा षण्णामप्युपरि कटकानामघवता- मगम्या या काम्या शुभविभवसारैक्यविदुषाम् | शुभाङ्गी निःसङ्गीकृतनिजपदा कापि किल हि- ङ्गुला बाला कालान्तकहिततमा मामवतु सा || २५ || चण्डिका * || १७ || सुनाट्योद्दोर्दण्डत्रुटितवियदासंस्खलदुडु- स्फुरत्पुष्पैः कीर्णेव सुरवरपूगैरगसुखैः | सुरारीणां हत्या समरसमये सा सपदि च- ण्डिका चण्डा वध्यादपदविपदं दुर्गदपदाम् || २६ || दान्ता || १८ || कृपाक्रान्तो दान्तो भवति भवभोगादतिहतात् परस्या यस्या दुष्कपटघटनीयाद्रसरसात् | प्. ११०) सुदुस्त्याज्याच्चापि प्रथयतु परे धामनि मनः- सुविश्रान्तिं दान्ता कृतकृतकहर्षावृतिहतिः || २७ || पद्मा || १९ || स्वपुण्यानां पाकात् कमलममलं या कृतवती यतेर्भीतिव्याजान्न भजति तदाद्यस्थिरतया | जगत्सूच्यं वाच्यं सशमसुषमं हृत्कमलजं पदं पद्मा पद्मोद्भवमुखनुता सा रचयताम् || २८ || लक्ष्मीः || २० || यदालम्बात् संभाषणमपि जनो दोषगुणिभि- र्नरैः साकं पाकं नतनु मनुते सत्कृतिततेः | सदाह्लादामृद्धिं रचयतु शुचिं सा नवनवां परा लक्ष्मीर्हाराकलितकुचभारालसगतिः || २९ || हरिप्रिया || २१ || क्रियाः कृत्वापि यैश्चित्तं जितं नाप्तं हितं च ते | हरिप्रियादयापूर्णकटाक्षानीक्षिताः किल || ३० || त्रिपुरा || २२ || त्रिपुरेति शिवां ध्यायन् यदस्म्यानन्दघूर्णितः | त्रिपुरेश्वरतां जाने तन्मत्तो नातिरिच्यते || ३१ || नन्दिनी || २३ || यद्दयाधिगतसुन्दरेन्दिरानन्दितो हसति वा पुरन्दरम् | नैककष्टकृतमन्दिरं दिवि नन्दिनीति गदितैक्यवर्धिनी || ३२ || प्. १११) नन्दा || २४ || नानन्दं नन्दनोद्यानविहारे मनुतेऽतनु | नन्दाभक्तिसुधासिक्तचित्तः कृत्तपुनर्भवः || ३३ || सुनन्दा || २५ || नन्दनाद्यात्मभावेन खिन्नः क्षणविनाशिना | सुनन्देत्यभिनन्द्य त्वां भूतोऽस्मि विगतज्वरः || ३४ || सुरवन्दिता || २६ || सुरां हृत्वासुराञ् जित्वा विपञ्चीस्वरनादिनी | सुरान् या नन्दयामास सैव त्वं सुरवन्दिता || ३५ || यज्ञविद्या || २७ || ध्यायंस्तां यज्ञविद्येति चिदग्नाविन्द्रियाहुतीः | यजति प्राणयज्ञाद्यैः कोऽपि नैपुण्यपुण्यभाक् || ३६ || महामाया || २८ || एकोऽपि यामधिष्ठाय साक्षी त्रैश्वर्यलीलया | सृष्ट्यादि रचयत्येषा महामायेति गीयते || ३७ || वेदमाता || २९ || ओंकारमातृकं वेदं या निर्वेदवते स्तुता | प्राहिणोद् ब्रह्मणे तुष्टा वेदमाता जयत्यसौ || ३८ || सुधा || ३० || यदास्वादात् परब्रह्मबोधास्वादं च मन्वते | विघ्नमेवामरा भक्त्या सुधा साऽस्वाद्यतां बुधाः || ३९ || प्. ११२) धृतिः || ३१ || यमाद् भ्रमात् क्लमात् कामान्नाप्युज्झति गुणं मतिः | कृतिनां स्वं यदाश्रित्या धृतिर्लभ्या कथं चलैः || ४० || प्रीतिः || ३२ || पद्मसूर्यादयो बन्धुभावे जात्वपि दुर्घटे | संयोजिता यया कापि प्रीतिः कीर्तिं परां गता || ४१ || प्रथा || ३३ || मतं प्रथितवद्भिश्च शक्यते न पृथक् पृथक् | यापह्नोतुं स्वयंभाता प्रथा सिद्धा क्व नैव सा || ४२ || प्रसिद्धा || ३४ || पृथक् पृथक् स्वलीलायै स्फुरन्त्यपि दिगादिषु | निजैकवपुषैवेह प्रसिद्धा सिद्धिदास्तु नः || ४३ || मृडानी || ३५ || उग्रो भीमोऽपि यन्नाम्ना मृड इत्यागतः पराम् | कीर्तिं सर्वत्र तन्नूनं मृडानीसङ्गगौरवम् || ४४ || विन्ध्यवासिनी || ३६ || गजारूढा निजावन्ध्यस्वाच्छन्द्यानन्दसुन्दरी | अबन्धुरं सुदुर्बन्धं छिन्धि त्वं विन्ध्यवासिनी || ४५ || सिद्धविद्या || ३७ || अन्तर्वन्निरुपादानं सिद्धविद्यापि बाह्यतः | विश्ववैचित्र्यनिर्माणहेतुर्जयति सा परा || ४६ || प्. ११३) महाशक्तिः || ३८ || निर्भित्ति निरुपादानमसद् सद्वत् प्रकाशयेत् | इदं कथं महाशक्तिसक्तिः पशुपतिर्न चेत् || ४७ || पृथ्वी || ३९ || बीजानामपि या बीजमेकं नैकतयान्तरे | संयोजयत्यहो सेयं पृथ्वी जगति गीयसे || ४८ || नारदसेविता || ४० || कलेरेकनिदानं च सत्यवाक्त्वप्रथां गतः | ब्रह्मपुत्रः स यद्भक्त्या सा त्वं नारदसेविता || ४९ || पुरुहूतप्रिया || ४१ || प्रस्तोतुं शक्यते केन पुरुहूतप्रियादया | यद्भक्तलालनायागादपि विष्णुरुपेन्द्रताम् || ५० || कान्ता || ४२ || न विलोक्य जनो मनोऽपरत्र प्रभवेन्नेतुमपि क्षणं शिवां याम् | कृतदुष्कृतहानिरस्तु कान्ता कृतिनां शान्तहृदां सदा समन्तात् || ५१ || कामिनी || ४३ || अपरात्मविबोधकृत् तमोऽहो तनुते दृष्टतयैव यामिनीव | कृतकालकरालदोषशान्तिर्मतिमद्भिः कलितेह कामिनीयम् || ५२ || पद्मलोचना || ४४ || किमु रोषविशेषदूषितेयं किमु सौभाग्यमदाभिभूषिता वा | इति वीक्ष्य यदीक्षणे हरान्तर्विचिकित्सावतु पद्मलोचना सा || ५३ || प्. ११४) प्रह्लादिनी || ४५ || त्याज्यं च राज्यं सुधियोऽथ देवसेवार्हता चातिहतापि योगः | रोगो विना यद्भजनं जनस्य प्रह्लादिनी ह्लादयतां हृदेषा || ५४ || महामाता || ४६ || यदंशगुणजानां च त्रिदेवानां जगत्त्रये | महत्त्वं प्रथितं मान्या महामाता न कस्य सा || ५५ || दुर्गा || ४७ || एकाबला बालमरालयाना या दुर्गमं संगममानिनाय | समं यमेनातिगतार्थनामा भक्तेषु सा मे जयदास्तु दुर्गा || ५६ || दुर्गतिनाशिनी || ४८ || क्षमासमा वृद्धिमती च बुद्धिर्यया प्रसिद्धिं लभते न जातु | तां दुर्गतिं या हरति क्षणेन ध्यातैव सा दुर्गतिनाशिनी त्वम् || ५७ || ज्वालामुखी || ४९ || किं वोर्ध्वतः किं परितो न्वधस्ताज्जातेति निर्णेतुमशक्यरूपा | जाज्वल्यमानाविरतं ददातु ज्वालामुखी मुख्यतमां विभूतिम् || ५८ || सुगोत्रा || ५० || तप्त्वा तपोऽनन्तसमा न लभ्यं यत्तन्निराधि स्वपदं ददाति | जप्तैव या तप्तसुवर्णवर्णा श्रियेऽस्तु सा स्तोत्रकृतः सुगोत्रा || ५९ || प्. ११५) ज्योतिः || ५१ || व्योम्नैव किं संज्वलितं नु किं वा ज्वालामला पुष्करतां गतेति | पश्यन्ति यां विस्मयिनोऽनुभूत्या सा सर्वतो ज्योतिरिहास्तु भूत्यै || ६० || कुमुदहासिनी || ५२ || मूर्ध्निं किं स विधुः पूर्ण इति संशयितो हरः | यद्धासाद् हस्तमाधत्ते सा त्वं कुमुदहासिनी || ६१ || दुर्गमा || ५३ || विना जलादेरपि दुर्गमत्र सुदुर्गमा दुर्जनवर्यपूगैः | या दुर्भवे दुष्कृतजे निरन्ते गमागमार्तिं हर दुर्गमा त्वम् || ६२ || दुर्लभा || ५४ || सर्वापि सर्वत्र गतापि सार्वा विमर्शनीयापि सदैव सर्वैः | अपूर्वरूपाहतपूर्वभावा चित्रं कथं पार्वति दुर्लभासि || ६३ || विद्या || ५५ || दृष्ट्वा विधुं व्यात्तमुखाश्चकोरा इवेह सर्वे न कथं भवेयुः | तद्वाक्सुधास्वादनलुब्धचित्ता आद्या प्रसन्ना किल यस्य विद्या || ६४ || स्वर्गतिः || ५६ || यल्लोभसंक्षोभितचित्तवृत्तिः सुदुर्लभं मानवदेहमेनम् | संख्ये समङ्गीकुरुते विहातुं सा स्वर्गतिस्त्वं भवताद् गतिर्नः || ६५ || पुरवासिनी || ५७ || रक्षाविधानाय पुरा पुराणां प्रत्येकमेकापि भिदां निनाय | यतः पराऽसावधिदैवतं स्वं ततः प्रसिद्धा पुरवासिनीति || ६६ || प्. ११६) अपर्णा || ५८ || अवर्ण्यवर्णात्मसमाप्तवर्णा सुवर्णवर्णा कृतनैकवर्णा | प्रियादिवर्णा परमादिवर्णा जयत्यपर्णा करतर्णपर्णा || ६७ || शाम्बरी माया || ५९ || चित्रेन्द्रजालं तनुतेऽद्वैते द्वैतं च तत्र तत् | या शिवा शाम्बरी माया सा जीयात् कापि केवला || ६८ || मदिरा || ६० || या चिन्तितैव तनुते कृतिनाममन्द- स्वानन्दसुन्दरमबन्धनमत्र चित्तम् | सालौकिकीह मदिरा कथमज्ञलोकैः शोकातुरैः परिनिषेवितुमस्ति शक्या || ६९ || मृदुहासिनी || ६१ || माट्टहासेन मेऽस्त्वेष ध्यानात् संस्खलितो भजन् | इत्येव कृपया जाने सा देवी मृदुहासिनी || ७० || कुलवागीश्वरी || ६२ || इतस्ततो भ्रमार्तानां कुलवागुद्धृता यया | भक्तानां नन्दनायाशु कुलवागीश्वरीति सा || ७१ || नित्या || ६३ || कार्यं हि कारणगुणानुगुणं समस्ति सम्यक् प्रसिद्धिरिति या तदियं न सत्या | प्. ११७) नित्याप्यनित्यमिदमातनुते यदेषा चित्रैकधाममहिमा हिमभानुधामा || ७२ || नित्यक्लिन्ना || ६४ || बीजं कदाचिदपि नीरदनीरपूर- क्लिन्नं स्फुटत्वमुपयाति निजाङ्कुराद्यैः | नित्यं त्विदं कथमुपोद्गतमाशु नित्य- क्लिन्ना न चेद् भगवती जगदेकमाता || ७३ || कृशोदरी || ६५ || संसारसंहारकरी सदैव देवी शिवा त्वं यदि वाऽभविष्यः | सम्पूरिताशा कृतिनां तदा स्याःकृशोदरीति प्रथिता कथं नु || ७४ || कामेश्वरी || ६६ || कामेश्वरी चापि कथं न सा त्वं निष्काममन्तः कुरुषे क्षणेन | भक्तस्य सिक्तस्य परात्मबोधपीयूषधारानिकरेण देवि || ७५ || नीला || ६७ || सूर्येन्दुकोटिप्रतिमापि देवी संस्पर्धयेवाकृतकप्रभावा | सैषैकदा नीलगलस्य नीला भूताखिलाङ्गैः किमु भङ्गुराङ्गी || ७६ || भीरुण्डा || ६८ || उग्रं दण्डं दूरतो वीक्ष्य दैत्या ब्रह्माण्डान्तश्चापि भीत्या न शेकुः | स्थातुं यस्याः क्रूरतारोज्ज्वलाया भीरुण्डा सा मुण्डहस्तावतान्नः || ७७ || वह्निवासिनी || ६९ || प्रत्यक्षतो हविर्भोक्तुं भक्तैः प्रीत्या हुतं स्तुता | या वह्निवासिनी सा नः कुर्यान्निर्वासनं मनः || ७८ || प्. ११८) लम्बोदरी || ७० || आभासितं चापि बहिर्यदन्तरादर्शवन्नोज्झति यन्निवासम् | लम्बोदरीति प्रथिता ततः स्तादालम्बनं संसृतिदुर्भृगौ सा || ७९ || महाकाली || ७१ || विमुग्धं कामार्तं यदमलवपुर्वीक्ष्य गिरिशं क्षपां जानन्तं तं त्रिदशतटिनी मीलितदृशम् | हसन्तीवोत्फेना भवति भवदुर्भानजनितं महाकाली काल्यं हरतु दयया साभिभजताम् || ८० || विद्याविद्येश्वरी || ७२ || भातः कदापि कुत्रापि विद्याविद्ये समं न यत् | विद्याविद्येश्वरी सैका विधत्ते विस्मितं न किम् || ८१ || नरेश्वरी || ७३ || नरेषु नारीष्वहतां विदित्वा स्वतन्त्रतां सर्वगतापि भूता | नरेश्वरी शर्मकरी सदा तामाविष्करोत्वात्मगतिं समन्तात् || ८२ || सत्या || ७४ || यदध्यासादसत्योऽपि संसारो भाति सत्यवत् | सत्येति तां मुदा ध्यायन् कृतकृत्यो न को भवेत् || ८३ || सर्वसौभाग्यवर्धिनी || ७५ || यद्भक्त्यावाप्य सौभाग्यं कामः कामं हरत्यदः | सर्वमेकोऽपि सा देवी सर्वसौभाग्यवर्धिनी || ८४ || प्. ११९) संकर्षणी || ७६ || कर्षन्तीं मधुमत्तचित्तविहगं दुर्वृत्तितो दूरतो वर्षन्तीं कृतिनां सुधासवमयीं धारां परामन्तरे | को धीमा/ल्लभते परत्र परमं हर्षं हि संकर्षिणी- त्यध्यायन् कृतदुष्कृताहतिममूं दुर्मोहनिर्मूलिनीम् || ८५ || नारसिंही || ७७ || यद् भूतं न कदापि नैव च भवेत् कुत्रापि वा नाधुना तद्रूपं प्रकटीचकार दयया यस्याः परस्या हरिः | हत्वा दैत्यवरं स्वभक्तमकरोत् पूर्णप्रतिज्ञाभरं प्रह्लादं च परा जयत्यतितरां सा नारसिंही शिवा || ८६ || वैष्णवी || ७८ || विष्णुतां स कथं गच्छेद् वामनाकृतिशोभनः | भवेत् परापरा सैव यदि तुष्टा न वैष्णवी || ८७ || महोदरी || ७९ || देव्यासेव्या सदा देवैर्यदि सत्यं महोदरी | तदा बहिः किमेतन्नु विचित्रं चित्रमातनोत् || ८८ || कात्यायनी || ८० || ऐश्वर्यमीश्वरो व्यक्तं नैकधा पर्यणीनमत् | यां प्राप्यैवास्तु सा नित्यं नित्या कात्यायनी गतिः || ८९ || प्. १२०) चम्पा || ८१ || कम्पं लुम्पयतान्नित्यं मोहोद्रेकभवं भवे | चम्पूं च सम्भृतां चम्पा प्रकटीकुरुतां सताम् || ९० || सर्वसम्पत्तिकारिणी || ८२ || ययान्याः सम्पदस्तुच्छास्तामाविष्कुरुते यतः | ध्यातैव सा ततो गीता सर्वसम्पत्तिकारिणी || ९१ || नारायणी || ८३ || सुदुर्बलो माणवको बदर्याश्रमैकवासस्त्रिजगत्सु भक्त्या | नारायणेति प्रथितः स यस्या नारायणी सा किल दुष्प्रमेया || ९२ || महानिद्रा || ८४ || न यान् हातुं कोऽपि प्रभवति सुदुर्भावविषमा विकल्पास्ते नूनं प्रशममुपयान्ति क्षणमपि | यदाश्रित्या नित्या कृतकृतकहर्षावगणना महानिद्रा विद्रावयतु विपदं दुर्गमपदाम् || ९३ || योगनिद्रा || ८५ || ययापि सुप्तः प्रतिपक्षभावप्रहारमूर्च्छां विजहाति सद्यः | वैशद्यमात्मीयमवाप्य हृद्यां सिद्धिं स्वयोगे कुरु योगनिद्रा || ९४ || प्रभावती || ८६ || यदग्रतो ज्योतिरिनादि नैतत् प्रयोगमायाति ययोडुयूथम् | दिनेऽपि यद्धीनमिदं न किंचिद् प्रभावती सा ददतां निजाभाम् || ९५ || प्. १२१) प्रज्ञापारमिता || ८७ || या स्वाभासविलासतो विदधती शैलोपमं चेन्द्रियं ज्ञातुं कर्तुमपि क्षमं हरिहरब्रह्मादयोऽपीश्वराः | सर्वज्ञा अपि यद्दयाविरहिता यान्ति क्षणान्मूकतां प्रज्ञापारमितामितास्तु नितरां प्रज्ञाप्रसिद्ध्यै सताम् || ९६ || प्रज्ञा || ८८ || औदार्यशौर्यप्रथितान् सुरूपान् भूपांश्च दीव्यत्यनिवार्यचर्यः | स पुण्यभाक् कन्दुकवद्यदन्तः प्रज्ञा स्थितिं सन्दधती सतीयम् || ९७ || तारा || ८९ || कृत्वापि संजागरणं निशासु यस्या निराधारतया स्थिताश्च | नाम्नैव साम्यं कथमप्यवापु- स्तारा ममारादभियेऽस्तु तारा || ९८ || मधुमती || ९० || किं वोर्ध्वतः किं परितो न्वधस्तात् स्रवत्यदः सोममियं वतेति | न शक्यते वीरवरैर्विवेक्तुं या रक्षतान्मां मधुमत्यपायात् || ९९ || मधुः || ९१ || यद्भक्तवाणी मधुमाधुरीणां जैत्री मनोदुर्मषकं श्रुतैव | अनन्यचेष्टं कुरुतेऽपि दुःखबध्यं बुधैः सा मधुरत्र जीयात् || १०० || प्. १२२) क्षीरार्णवसुधाहारा || ९२ || जरामरणसंहारासुरदुर्मोहकारणम् | क्षीरार्णवसुधाहारा विष्णुरूपास्तु मेऽरणम् || १०१ || कालिका || ९३ || ब्रह्माद्या अपि पञ्च मुण्डविषया द्रष्टुं न शक्ता इवा- धस्तादेव वहन्ति यद्वहमहाकालाढ्यसिंहासनम् | यद्भक्तोऽपि विहाय कार्ष्ण्यमखिलं यादात्म्यमेत्यद्भुतं ध्यानादेव ददातु साऽपरिमितं नित्यं बलं कालिका || १०२ || सिंहवाहिनी || ९४ || अवलोक्यैव वृषं श्रितं पतिं स्वं चपलं भ्रंशनभीतिदं कदाचित् | करुणाक्रान्तमना अनामरूपा किमु भूता पथि सिंहवाहिनी त्वम् || १०३ || ओंकारा || ९५ || यन्मात्राभ्यो ज्ञानकर्मैकहेतुर्दुष्पारार्था सा चतुर्वेद्युदेति | यान्तर्नित्यं दन्ध्वनीतीह काचिदोङ्कारेयं योगिसाम्राज्यदास्तु || १०४ || वसुधाकारा || ९६ || मूलाधारेऽस्ति वसुधाकारा या परदेवता | सेवे तां देवदेवेशीं स्वतन्त्रां मन्त्रमातरम् || १०५ || प्. १२३) चेतना || ९७ || यदावरणशक्तितो विविधवादबद्धादराः सदापि च यदात्मका न विदुरात्मतन्त्र्यं बुधाः | तथापि न कथंचनापि पिहितास्ति या तैः सदा स्वधामपरिचेतना हरतु चेतना सा भिदाम् || १०६ || कोपनाकृतिः || ९८ || स्वभक्तोद्वेजकान् दुष्टानेव जाने प्रति स्वयम् | सदा सौम्यस्वभावापि जाता सा कोपनाकृतिः || १०७ || अर्धबिन्दुधरा || ९९ || यदंशजातमप्येतन्महत्त्वख्यातमस्त्यहो | अर्धबिन्दुधरा सेयं मीयते केन धीमता || १०८ || धारा || १०० || निराधाराखिलाधारो धारा शक्तिर्भवत्वसौ | अपारावारसंसारसारोद्धारणकारणम् || १०९ || श्रीकृष्णात्मपरानुभूतिविभवः श्रीकृष्णकौलः सुतं साहिब्कौलमसूत यं च जननी बुद्धिः प्रबुद्धिः सती | तत्काव्ये कुलदेवताह्वयगतेः श्रीशारिकायाः स्तवं मन्त्रोद्धारकमानते स्वसहजं भक्ती रसाङ्कागमत् || ११० || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे षष्ठी भक्तिः || ६ || सप्तमी भक्तिः विश्वमाता || १०१ || अनन्यबीजनिक्षेपापेक्षं निर्माति या जगत् | विश्वमाता स्वयं भाता सतां चेतसि भासताम् || १ || कलावती || १०२ || कलयन्ती कलया स्वया त्रिदेवीं त्रिजगत् तत्कलयापि सत्रिभावम् | सकलास्तत्र कलाश्च देशकाला- कलिता कालगतिः कलावती नः || २ || पद्मावती || १०३ || पद्मेशपद्मोद्भवपद्मबन्धुमुखाश्च पत्पद्मरजोऽपि यस्याः | चिन्वन्त आप्ता न गताश्च पारं पद्मावती सा मम पद्मगा स्तात् || ३ || सुवस्त्रा || १०४ || दिग्वस्त्रपीतवस्त्राद्यैरर्चितामुत्र चात्र च | अमत्रा सा सुवस्त्रा मे देहवस्त्रात्मतां हर || ४ || प्. १२५) प्रबुद्धा || १०५ || या बोधिता सद्गुरुशासनेन प्रकाशयत्यात्मगतिं क्षणेन | जडाजडेष्वस्तविशिष्टभावा सा वाञ्छितं नो ददतां प्रबुद्धा || ५ || सरस्वती || १०६ || उत्स्विन्नादौ निरुपमकला बीजबिन्दुत्वमाप्ता रेखाश्लेषं सपदि दधती वर्णभावानुवर्ण्या | येदंभावं श्रयति नयति स्वं वपुर्विस्तरं सा त्रेधाऽस्वाद्या वितरतु रसं स्वं सरस्वत्यशेषम् || ६ || कुण्डासना || १०७ || जितत्रिधामा कृततन्निवेशा यच्छोभते दर्शनलोभहेतुः | सर्वत्र सर्वं परिकाशयन्ती कुण्डासनेति प्रथिता तदेषा || ७ || जगद्धात्री || १०८ || आविर्भूय यतो यस्यां तिष्ठन्ति क्षणभङ्गुराः | अपि भावाश्चिरस्येव जगद्धात्री श्रियेऽस्तु सा || ८ || बुद्धमाता || १०९ || निष्क्लेशपाशः शमिताखिलाशो यदाश्रितो बुद्धमना अनार्यैः | अनाश्रितां स्वात्मगतिं समेति सा बुद्धमाता हृदि भासतां नः || ९ || जिनेश्वरी || ११० || इनासनं संगणयंस्तृणोपममाराधयन् यां विधृताजिनो जिनः | सार्वज्ञ्यमापद् विपदन्तकारणं जिनेश्वरी सा वृजिनं व्यपोहताम् || १० || प्. १२६) जिनमाता || १११ || लीला किं वर्ण्यते तस्या जिनमातापि याहरत् | जिनस्य जननोद्भूतां भीतिं नीतिविचक्षणा || ११ || जिनेन्द्रा || ११२ || शान्तचित्ता दयावित्ता काषायाम्बरधारिणी | जिनेन्द्रास्तु श्रिये नित्यं निर्वैरा स्वैरचारिणी || १२ || शारदा || ११३ || यदाप्तसिद्धिः सुजनो जिताधिः ख्यातादिविद्यो विजहात्युपाधिम् | देहादिभावाधिगतं ददातु सा शारदा पादतले निवासम् || १३ || हंसवाहना || ११४ || अधिगत्य दयामजो यदीयां शिशुहंसाभिचरोऽपि चाग्रगामी | गजराजचरादिदेवतानां भवतीयं पथि हंसवाहनाव्यात् || १४ || राज्यलक्ष्मीः || ११५ || न यैर्लोभः कदाचिच्च ध्यातस्ते वीक्ष्य यामपि | लुभ्यन्ति विवशाः सास्तु राज्यलक्ष्मीः सुराज्यदा || १५ || वषट्कारा || ११६ || ध्यात्वा यां विधिना हुत्वा वह्निं सिद्धिमनुत्तमाम् | प्राप्नुवन्ति सदाधारो वषट्कारा ममास्तु सा || १६ || प्. १२७) सुधाकारा || ११७ || यदश्वमेधयज्ञाद्यैर्दुष्करैः प्राप्तिसंशये | अमरत्वं क्षणात्तत् स्यात् सुधाकारानुचिन्तनात् || १७ || सुधात्मिका || ११८ || मोहप्रहारिका पूर्णस्वात्मभावनकारिका | सुधात्मिका जयत्येषा विश्वतो विश्वधारिका || १८ || राजनीतिः || ११९ || एकस्य सर्वतः सत्ता कथं स्यान्मर्त्यदेहिनः | तदा यदा न तुष्टा त्वं राजनीतिर्भवेः शिवे || १९ || त्रयी || १२० || कार्येऽकार्येऽपि पटुघटनां स स्वयम्भूश्च यस्या अर्थज्ञानात् समधिगतवान् सच्छ्रुताया मतायाः | यत्सज्ज्ञप्त्या विषमविषयाशीविषक्ष्वेडमूर्च्छा- नाशोऽपि स्याद्धरतु दुरितं वाक्त्रयीशी त्रयीयम् || २० || वार्ता || १२१ || यत्प्रसत्त्या श्रुतं वस्तु दृष्टवद् भाति याति च | यैकस्थापि सुदूरत्वं वार्ता सार्तिं हरत्वियम् || २१ || दण्डनीतिः || १२२ || अखण्डज्ञषण्डाज्ञतां खण्डयन्ती पतिं तद्गतिं सर्वतो मण्डयन्ती | प्. १२८) तदाज्ञाकरं दण्डदं भण्डयन्ती शिवा दण्डनीतिर्भयं दण्डयन्ती || २२ || क्रियावती || १२३ || जीवत्वमासाद्य शिवोऽपि पुण्या- पुण्याधिकारी भवति क्षणेन | यदाश्रयात् साभयदानदक्षा क्रियावती नः प्रियमातनोतु || २३ || सद्भूतिः || १२४ || उपादानं विना चित्रं स्वानन्दविभवं भवम् | भावयन्ती स्वभावार्थकरी सद्भूतिरस्तु वः || २४ || तारिणी || १२५ || गुप्तज्ञानमणिं विमोहमकरं रागोरगैर्दुस्तरं तृष्णापेयचलज्जलं परिवलद्दुर्लोभकूर्माकुलम् | संसाराब्धिमिमं तरेत् सुविषमं साहाययहीनः कथं दीनस्तद्यदि न त्वमात्मकृपया संतारिणी तारिणी || २५ || श्रद्धा || १२६ || अद्धा यदध्यासविनाकृतस्य बद्धापि च स्वात्मभुवा न वाणी | तद्धाम संबोधयितुं समर्था श्रद्धा सदा सा ममदा ममास्तु || २६ || प्. १२९) सद्गतिः || १२७ || असत्यसंसारगताश्च नैवासतीं मतिं जातु समाश्रयन्ते | सन्तो भजन्तो भवतीं सतीं यत् संकीर्त्यसे सद्गतिरित्यतस्त्वम् || २७ || सत्परायणा || १२८ || इतरामरसेवकाः पतन्ते सुयता अप्यवशास्त्वदीयभक्ताः | नतु जातु सदात्वदात्मका यत् परिगीता ह्यसि सत्परायणातः || २८ || सिन्धुः || १२९ || धर्माब्धीन्दुः कर्मसीमादिबिन्दु- र्ब्राह्मस्याब्धे राज्यसन्धुक्षहेतुः | हेलालोकात् क्षारनीरादिबन्धुः सिन्धुः कन्दुर्दुष्कृतैधस्सु भूयात् || २९ || मन्दाकिनी || १३० || गच्छन्ती मदमत्तचित्तविहगं पङ्गुं विधत्ते क्षणाद् रिङ्खन्ती पुनरत्र रिङ्खणमुखं हन्त्युद्भवं लोलताम् | कल्लोलामलदोलिनी च सकलां दृष्टा सती या क्रमात् सा वृन्दारकवन्दिता हरतु नो मन्दाकिनी मन्दताम् || ३० || गङ्गा || १३१ || यानङ्गारिशिरोवतंसकलिका ध्यातैव कामप्रदा या वृद्धात्मजहस्तगा परिहरत्याचामिता वृद्धताम् | प्. १३०) या कृष्णाङ्घ्रितलस्थितापि सुमतेः कार्ष्ण्यापहा वीक्षिता सा गङ्गापि करोति चित्रममलं सर्वोपरिस्थं जनम् || ३१ || यमुना || १३२ || यमनियमभृतो यतोऽपि भीता यमभयमाशु तदेव यद्विलोकात् | यमभयविशदं स्वयं भवत्या- मयदमनी यमुना यमत्वदास्तु || ३२ || सरस्वती || १३३ || वनस्यावनदा दानादज्ञानवनपावकः | नीरभूरपि सा भोगरसदास्तु सरस्वती || ३३ || गोदावरी || १३४ || गोदाता यत्तटे सद्यो गोप्रतिग्रहवान् भवेत् | गोदावरी जडत्वं नो बोधगोभिर्व्यपोहताम् || ३४ || विपाशा || १३५ || पाशभृद्विषयो यापि भवपाशविनाशकृत् | यतस्ततस्ततोदौघा विपाशेति प्रकीर्तिता || ३५ || कावेरी || १३६ || वीरा यत्तीरयातास्तरलतरतरङ्गालिवारिप्रवाहाद् बिन्दून् नैवावहन्तं सततवहमुपाघ्राय मायाप्रवाहम् | प्. १३१) छायारूपं वहन्ति प्रततगतिगतं जातुचित् पातु माता (सातः) कावेरी निम्नयाना क्षणहतिविभवान्निम्नहर्षोपयानात् || ३६ || शतद्रुका || १३७ || एकद्रवप्रथां याति यदालोकात् क्षणं मनः | शतसद्भिः कथं गीता सा देवीह शतद्रुका || ३७ || सरयूः || १३८ || हरत्वयोध्यालोकानां चित्रसद्गतिसाक्षिणी | सरयूर्मानसोद्भूता मानसोद्भूतविक्रियाम् || ३८ || चन्द्रभागा || १३९ || अहो यदभ्याशगता नगत्वं खगाः खगत्वं च नगा लभन्ते | रसानुरागा वत चन्द्रभागा युष्मान् महाभागतया युनक्तु || ३९ || कौशिकी || १४० || यदमलजलभोगाद्योगिसाम्राज्यमाप्त्वा कुशिककुलदिनेशो ब्रह्ममुख्यामरेशान् | अकृत नवभवत्वारम्भणाद् व्यग्रचित्तान् वितरतु वरकोशं कौशिकी सुप्रकाशा || ४० || गण्डकी || १४१ || विष्णोरेकैकावतारोदरा यद्देवक्याद्या वर्णनं जात्वनन्तम् | संप्राप्तास्तन्नैकविष्णूदरा सा नित्यं वर्ण्या गण्डकी स्यात् कथं नु || ४१ || प्. १३२) शुचिः || १४२ || शुचिरेव भवाभावभावाहारापि सर्वदा | रुचिराऽसुचिरादस्तु शुचिः स्वाकारणार्थकृत् || ४२ || नर्मदा || १४३ || सोमोद्भवा सोमजिदम्बुपूरा सोमेशकाम्या समसौम्ययाना | सदाभितो नो द्रढ्यत्वनन्ता सा नर्मदा नर्मसु दक्षिणत्वम् || ४३ || कर्मनाशा || १४४ || यत्प्राप्तये ते मुनयोऽप्यनन्तं तेपुस्तपस्तन्नचिराद् यदीयात् | संदर्शनात् कर्मकृतोऽपि वा स्यान्- नैष्कर्म्यमेषा किल कर्मनाशा || ४४ || चर्मण्वती || १४५ || वर्मभूतास्ति या शर्मशस्त्रघाते सतां मता | चर्मण्वती सदा भूयाच्चर्मदृष्टिहरा तव || ४५ || देविका || १४६ || अकालमरणच्छेदकारणं शरणं भव | ब्रह्मादिकाधिका देवी देविका देवविश्रुता || ४६ || प्. १३३) वेत्रवती || १४७ || नृप एकः कथं सर्वाधृष्यः स्याद् द्वारगा न चेत् | त्रिवेत्रधारिभिर्गीता भवेद् वेत्रवती शिवा || ४७ || वितस्ता || १४८ || कश्मीरभूमौलिरमर्त्यतातकीर्तिस्थली घर्मसुतप्तजीवान् | संजीवयन्त्यद्भुतजीवनस्य ध्यानादपीयं सुखदा वितस्ता || ४८ || वरदा || १४९ || सद्भक्तवरदाभक्तवरदा वरदाद्भुता | वरदेति कथं गीता वरधीभिर्वरेश्वरी || ४९ || नरवाहना || १५० || नरान् वहति या माता नरैर्या वोह्यते हृदा | नरवाहनसंश्लाघ्या श्रियेऽस्तु नरवाहना || ५० || सती || १५१ || असत्यदेहावतरं गतापि न सत्स्वरूपं विजहाति जातु | या वः सती सा शतशो ददातु सतीं मतिं केवलनिर्णयस्थाम् || ५१ || पतिव्रता || १५२ || पतिव्रता त्वं वद निर्णयोऽस्ति वक्तुं न मे सर्वमयीश्वरेशि | पतिर्व्रतं तेऽस्ति किमु त्वमेव पत्युर्व्रतं सक्तहृदः सदेति || ५२ || प्. १३४) साध्वी || १५३ || असाधूनपि साधुत्वं घातेनासाधुकर्मणा | प्रापयन्त्यसुरानेषा काचित् साध्वी मताद्भुता || ५३ || सुचक्षुः || १५४ || सदा सुचक्षुरित्यस्या देव्याः स्यामग्रगो यतः | चक्षुराप्त्वा परं सर्वे तेन सच्चक्षुषः कृताः || ५४ || कुण्डवासिनी || १५५ || याग्नीन्दुसूर्यकुण्डेषु वसन्त्यपि सतां हृदि | सोष्मत्वशान्तिं कुरुते काचित् सा कुण्डवासिनी || ५५ || एकचक्षुः || १५६ || ईश्वरत्वं गतास्तेऽपि सहस्राष्टत्रिचक्षुषः | यत्कृपायाः सैकचक्षुरैक्यचक्षुर्ददातु वः || ५६ || सहस्राक्षी || १५७ || सहस्राक्षतया जिष्णुर्यदा लज्जामवाप्तवान् | तदा सापि सहस्राक्षी भूता किं भक्तवत्सला || ५७ || सुश्रोणिः || १५८ || श्रोणीं यदीयामवलोक्य रम्भा स्वमार्दवाहंकृतिजं विहाय | ऊष्माणमाप्ता हिमतां तदादि सुश्रोणिरेषा हर योनिवासम् || ५८ || भगमालिनी || १५९ || ऐश्वर्यधर्मयशसां कमलालया या वैराग्यमोक्षविभवस्य च या विधात्री | प्. १३५) भक्तस्य तद्विनिमयस्य च दुष्टबुद्धेः सा दुर्भगत्वहतिकृद् भगमालिनी नः || ५९ || सेना || १६० || सेना येनाराधिताङ्गैश्चतुर्भिस्तस्येशस्य द्वारि तिष्ठन्ति सर्वे | सिद्धेरीशा भारतीशा मतेशा ज्ञानीशा वा मानवेशा धनीशाः || ६० || श्रेणिः || १६१ || श्रेणिः सन्निहिता देवि यत्र यत्र यदा यदा | तदा तदा स सर्वोऽपि सर्गः सर्गत्वभाग् भवेत् || ६१ || पताका || १६२ || वाहिनी चतुरङ्गैश्च बहुरङ्गमयी भवेत् | यदग्रयानतो देवी पताकेयं श्रियेऽस्तु वः || ६२ || सुव्यूहा || १६३ || सर्वान्यङ्गानि हीनत्वं प्राप्नुयुः शत्रुसंनिधौ | वाहिनीनां यदा तुष्टा सुव्यूहा स्या न युक्तितः || ६३ || युद्धकांक्षिणी || १६४ || दुर्लभं मानवं देहं क्षणकीर्तीप्सया कथम् | त्यजेयुस्त्वं न चेन्मूर्च्छाकर्त्री स्या युद्धकांक्षिणी || ६४ || पताकिनी || १६५ || पतत्पतङ्गस्य गतिं द्युतिं च रुणद्धि या ध्वस्तभया पतन्ती | स्थिता नगानां महतां पिधत्ते स्थितिं हितायास्तु पताकिनी सा || ६५ || प्. १३६) दयारम्भा || १६६ || हरोऽपि भवभावैकप्रथां यातो यदाश्रयात् | सत्यं सैव दयारम्भा सम्भावितजगतत्त्रयी || ६६ || विपञ्चीपञ्चमप्रिया || १६७ || श्रुतोदञ्चितमूर्धानस्तिर्यञ्चोऽपि च वञ्चिताः | कथं स्युः स्यान्न चेद्देवी विपञ्चीपञ्चमप्रिया || ६७ || परापरकलाकान्ता || १६८ || न परापरतैकान्तं कर्तुं शक्याश्च यत्कलाः | परापरकलाकान्ता सा ममास्त्वग्रतः सदा || ६८ || त्रिशक्तिः || १६९ || न मुक्तिभाजोऽपि न भक्तिभाजो न भुक्तिभाजोऽपि विरोचमानाः | भवन्ति संरक्तधियोऽपि तद्वद् येषु त्रिशक्तिः किल सुप्रसन्ना || ६९ || मोक्षदायिनी || १७० || सकलं हि भवन्मयं भवत्या नहि बन्धोऽस्ति कदापि तत् स को वा | इतरोऽस्ति विशेषभाग् न जाने वत यस्येश्वरि ! मोक्षदायिनी त्वम् || ७० || प्. १३७) ऐन्द्री || १७१ || जलप्रदानेन सुपोषयन्ती परं जनं भक्तजनं तु चित्रम् | जलत्वदूरीकरणेन भूयादैन्द्री गजेन्द्रोपरिगा श्रिये नः || ७१ || माहेश्वरी || १७२ || उन्मत्तचेष्टः शवभूस्थितो यद् दिगम्बरः प्रेतपिशाचमित्रः | तथापि शूली परमेश्वरस्तन्माहेश्वरीसेवनजः प्रसादः || ७२ || ब्राह्मी || १७३ || ब्रह्मरन्ध्रगता भक्तब्रह्मज्ञानोपदेशिनी | ब्राह्मी भूयात् सदा देवी ब्रह्मसृष्ट्येकसाक्षिणी || ७३ || कौमारी || १७४ || कुमारयन्ती संसारं कौमारादिदशाक्रमैः | कुमारहारिणी भूयात् कौमारी मारभीतिहृत् || ७४ || कुलवासिनी || १७५ || सुकुलाकुलताभिमानहीनः कुलमार्गाभिरतो यदीयभक्तः | कुलवित् कुलजां समेति सिद्धिं शिवदा स्तात् कुलवासिनी सदा नः || ७५ || इच्छा || १७६ || स्रष्टा सृजेत् किं नु कथं स विष्णू रक्षेन्महेशोऽपि हरेन्न चेत् त्वम् | प्. १३८) उन्मेषतद्व्यत्ययरूपकर्त्री भवेः शिवे सर्वकलेश्वरीच्छा || ७६ || भगवती || १७७ || स्वयमाशाम्बरोऽन्यस्मै किं दद्यात् स कपालभृत् | भिक्षुनाथो न चेद्देवी भवेद् भगवती गृहे || ७७ || शक्तिः || १७८ || सूक्ष्मोऽव्यक्तः केवलो निर्गुणोऽपि निःसम्भारश्चित्रसर्गं विधत्ते | शम्भुर्हर्षाघूर्णितो यत्प्रसत्त्या शक्तिः सक्तिं संसृतौ संहरस्व || ७८ || कामधेनुः || १७९ || त्वं कामधेनुः प्रथिता निकामं कामं ददासीति च सुप्रसिद्धिः | सार्था तदा स्याद् यदि मे स्वमेव दद्या यतः सर्वसुकामसिद्धिः || ७९ || कृपावती || १८० || मारणेनासुराणां या सुराणां तारणेन च | कृपां विधत्ते सा कापि कीर्तितैषा कृपावती || ८० || प्. १३९) वज्रायुधा || १८१ || यस्याः प्रीतिवशादस्थि दधीचेः सर्वसारताम् | अगच्छत् प्रथितामस्तु सेयं वज्रायुधा श्रिये || ८१ || वज्रहस्ता || १८२ || भक्तानां कुसुमं वज्रं वज्रं कुसुममद्भुतम् | अभक्तानां परं यस्या वज्रहस्ता जयत्यसौ || ८२ || चण्डी || १८३ || गत्यालसा घूर्णितनेत्रपद्मा वाण्या स्वभक्तोष्महरापि सौम्या | जाने दुरज्ञानविनाशनेन चण्डीति गीता सुभगा भवानी || ८३ || चण्डपराक्रमा || १८४ || दण्डादण्डिहताखिलाभ्रनिपतत्तारानुकीर्णा पुरा संख्ये दैत्यवरै रराज कुसुमाकीर्णेव सीमन्तिनी | या दृष्ट्वा स्वयमेव यां परिगता मोहं पुनस्ते कृत- स्वार्था चण्डपराक्रमा जयति सा यत्नं विना देवता || ८४ || गौरी || १८५ || नीराजितपदद्वन्द्वा गौरीशेन्द्रादिमौलिभिः | भूयाद् गौरी गुरुत्वाप्त्यै स्वतः प्रथितगौरवा || ८५ || प्. १४०) सुवर्णवर्णा || १८६ || सुवर्णतां यातमदः सुवर्णं जगत्यतो यत्परिलब्धवर्णैः | अवर्ण्यवर्णापि सुवर्णवर्णेत्याह्वानगीता कृतरूपवर्णम् || ८६ || स्थितिसंहारकारिणी || १८७ || एकदा स्थितिकर्तैकः संहरेतापरोऽन्यदा | युगपत् तु स्वतन्त्रेयं स्थितिसंहारकारिणी || ८७ || एका || १८८ || मिथोऽतिरक्तौ यदि कौचनैक्यं गताविव स्तो न हि तौ च वर्ण्यौ | इयं तु सर्वत्र सदैव चैका स्वयं कथं स्यात् परिवर्णनीया || ८८ || अनेका || १८९ || सृजेद् विधाता किमिदं च किं स्याद् वेदा वदेयुश्च किमत्र चित्रम् | न चेत् स्वतन्त्रा विमला चिदेका- नेका भवेत् कापि विलासभूमिः || ८९ || महेज्या || १९० || भावयोगतपःकर्मज्ञानेज्यानां महेश्वरी | प्रसूतिवसुधा देवी महेज्येयं दहत्वघम् || ९० || प्. १४१) शतबाहुः || १९१ || रक्षायै सर्वभक्तानां शतबाहुर्महेश्वरी | नैकबाहुर्नैकबाहुर्व्यक्ताव्यक्ता जयत्यसौ || ९१ || महाभुजा || १९२ || चर्मावर्तमसृग्जलं परिवलद्बाणादिमत्स्याकुलं दन्त्यश्वादिविचित्रसत्त्वमभितो वस्त्रोरगेन्द्रैर्वृतम् | सेनाब्धिं यदरं ततार स महाबाहुः कुरूणां नर- स्तत् सत्येन महाभुजाभजनजः सम्यक् प्रसादोदयः || ९२ || भुजङ्गभूषणा || १९३ || कटौ कण्ठे शिरस्येषा हर भौजङ्गमं भयम् | भुजङ्गभूषणा शम्भुभुजङ्गमविभूषणम् || ९३ || भूषा || १९४ || या कामिनीनां कमलाननानामङ्गेष्वभङ्गं विदधाति कञ्चित् | काम्यं निकामं परभागमेषा भूषा दृशा पोषणकृत्सदा स्तात् || ९४ || षट्चक्रक्रमवासिनी || १९५ || या विघ्नेशजनेशकेशवहरात्माध्यात्मसद्देशिकैः स्वस्वे धामनि कामनीयविभवा संसेव्यते स्तूयते | एका सर्वगता गतागतकथाहीनात्मलीना परा षट्चक्रक्रमवासिनी निवसतान्मन्मानसे स्वत्विषा || ९५ || प्. १४२) षट्चक्रभेदिनी || १९६ || ऊर्ध्वाम्नायकलादक्षैर्ज्ञेया षट्चक्रभेदिनी | भेदबुद्धिहरीं सिद्धिं ददात्वस्मै विना हठम् || ९६ || श्यामा || १९७ || सुधास्वादोन्मादागणितवनिताभावकलया लयारम्भं रम्भारुचिरजघना या विदधती | महाकाली रात्रिर्भ्रमणरमणीव द्युतिमती भवत्येषा श्यामा भवतु भवदुर्भावहतिकृत् || ९७ || कायस्था || १९८ || माया माया ज्ञानगाया विपक्षः प्रायः कायस्तल्लयो दुर्लयोऽयम् | कायस्थापि स्वेन सेयं न माया- मेया चित्रं चेतना सुस्वतन्त्रा || ९८ || कायवर्जिता || १९९ || अपि ब्रह्माण्डपिण्डेभ्यो वितता प्रथिता मता | सतां भूयाद् विभूत्यै सा भवानी कायवर्जिता || ९९ || सुस्मिता || २०० || स्मितेन या विस्मितमातनोति दृष्टैव गम्या नहि दृष्टिवादैः | भक्तस्य रक्तस्य विरक्ततायां सा सुस्मिता तेऽस्तु हिताय शक्तिः || १०० || प्. १४३) श्रीकृष्णात्मपरानुभूतिविभवः श्रीकृष्णकौलः सुतं साहिब्कौलमसूत यं च जननी बुद्धिः प्रबुद्धिः सती | तत्काव्ये गुरुवृत्तचिन्तनमणेः सोदर्यभावं श्रिते देवीनामविलासनाम्नि विरतिं भक्तिर्गता सप्तमी || १०१ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे सप्तमी भक्तिः || ७ || अष्टमी भक्तिः सुमुखी || २०१ || न सूर्यचन्द्रौ नच पद्मवह्नी यातौ यदीयाननतुल्यतां यत् | सुशब्दपूर्वत्वमतः सुदृब्धं यस्या मुखे स्तात् सुमुखी सदा नः || १ || क्षामा || २०२ || सदा भवभवाभावभावाहारापि काप्यहो | क्षामा सा मा परेशानी विषमे विषयेऽवतु || २ || मूलप्रकृतिः || २०३ || यस्या उदयमायान्ति लयं यस्यां च यन्मयाः | भावाः कापिलवेद्येयं मूलप्रकृतिरद्भुता || ३ || ईश्वरी || २०४ || इच्छानिच्छाव्यत्ययेच्छाभिरेतत् सत्तासत्ते व्यत्ययेनापि सत्ताम् | धत्ते यस्या निर्मलाया दयाया एषा देवी कीर्तिता सेश्वरीति || ४ || प्. १४५) अजा || २०५ || जाते घटे संस्थितमन्तरभ्रं न जायते जातमिवापि यद्वत् | जातस्य तद्वद् बहिरन्तरस्य स्थितापि देवी प्रथितास्यजा त्वम् || ५ || बहुवर्णा || २०६ || एकवर्णापि निर्वर्णा बहुवर्णेति या शिवा | सुस्वतन्त्रा सुवर्णं नो बहुवर्ण्यं ददातु सा || ६ || पुरुषार्थप्रवर्तिनी || २०७ || द्विविधं पौरुषं देवी स्वस्वाभीष्टं ददाति या | भक्तस्य सा सदाग्रेऽस्तु पुरुषार्थप्रवर्तिनी || ७ || रक्ता || २०८ || भक्ता यस्या अन्यतः स्युर्विरक्ता रक्ता ध्याने कालभीतिं विहातुम् | शक्तास्त्यक्ताशेषदोषाः परैषा रक्ता देवी रक्तभावप्रतिष्ठा || ८ || नीला || २०९ || अभ्रे जलाभ्रे जलधौ द्रुमेषु सुस्पष्टपत्रेष्वसितोत्पलेषु | रक्तेषु या मुख्यतया विभाति नीलेषु नीलाऽस्तु हिताय देवी || ९ || सिता || २१० || हिमे हिमांशावमरापगायां कान्तेऽभ्रमोरिन्द्रहये विभूतौ | हरस्य मुक्तादिषु च प्रधाना सिता सितं स्वान्तमियं करोतु || १० || प्. १४६) श्यामा || २११ || श्यामापाङ्गा भ्रामयामास रामाः श्यामः श्यामा गोपजन्मा नकामः | यस्यां स्वस्यावेशमात्राद् दयाप्ता- च्छ्यामा सा मारामकामं करोतु || ११ || कृष्णा || २१२ || तारासु लोलासु वराङ्गनानां रात्रौ मतौ मूढमतेः प्रधाना | कृष्णापि कृष्णत्वहरा वितृष्णा कृष्णत्वदा भक्तवराय भूयात् || १२ || पीता || २१३ || पीता पीतकपर्देन दृष्ट्या पीताम्बरेण च | गीता पीता हितायास्तु माता भाता सतां हृदि || १३ || कर्बुरा || २१४ || कर्बुरे ब्रह्मरन्ध्रस्थे शीभिनी कमलासने | कर्बुरा देवता भूयाद् भवभारापहारिणी || १४ || क्षुधा || २१५ || धात्रादयोऽपि यां नैव रोद्धुं शेकुः सुधाशनाः | क्षुधा देवी जयत्येषा सर्वधात्वेकबीजभूः || १५ || तृष्णा || २१६ || कुम्भोद्भवो मुनिर्वह्निर्वडवावक्त्रलाञ्छितः | यन्नुन्नोऽब्धिविशोषैकहेतुस्तृष्णा जयत्यसौ || १६ || प्. १४७) जरावृद्धा || २१७ || विषाशनोऽपि यत्सङ्गादजरामरताधिपः | चित्रं सापि जरावृद्धा क्रियान्मम जराजराम् || १७ || तरुणी || २१८ || रतौ रक्तचित्तोऽङ्गहीनः कदाचिद् भवद्बन्धुरस्त्री च पुष्पैः स विश्वम् | स्मरो यज्जयत्येतदस्याः स दृष्ट्या तरुण्याः परं हास्यमात्रप्रसादः || १८ || करुणालया || २१९ || कपालिनं हरं भीममपि प्रेतगणावृतम् | दूरीकरोषि यन्नातो गीयसे करुणालया || १९ || कला || २२० || कलामेकां यदा ध्यायेत् कलेत्येनां मलापहाम् | सकला न वशे किं स्युः करमालातुलाः कलाः || २० || काष्ठा || २२१ || दुष्टत्वं यन्न नष्टं स्यात् कष्टेन बहुनापि तत् | नश्येत् क्षणेन भक्तानां काष्ठेत्यस्याः प्रसादतः || २१ || मुहूर्ता || २२२ || या विभज्य दिने रात्रौ पृथक् षोडशधा स्थिता | स्वरूपं प्रथिता भूमौ मुहूर्तास्तु शिवाय वः || २२ || प्. १४८) निमेषा || २२३ || या भूलोकाक्षिविषया शोभते क्षोभदानकृत् | निमेषास्तु परेशानी विशेषाशेषभूतिदा || २३ || कालरूपिणी || २२४ || विदुषी प्रभवादिभिर्भवं या प्रभवादीन् नहि कोऽपि वेत्ति यस्याः | ग्रहराशिभचक्रकानुमेया प्रथिता सा किल कालरूपिणीति || २४ || सुकर्णरसना || २२५ || विज्ञप्तिं सुरसं सम्यग् ग्रहीतुं सुजनार्पितम् | सुकर्णरसना भूता देवी सापि निरञ्जना || २५ || नासा || २२६ || या कामिनीभ्यः सुषमां ददाति मुक्तादिरत्नोल्लसिताऽददाति | आमोदसंघं सकलस्य यापि नासेति सा काप्यनुमीयतेऽत्र || २६ || चक्षुः || २२७ || यच्चक्षुर्विषयप्राप्तं शक्तो द्रष्टुं न सोऽन्तकः | प्रीतेरेकनिदानं सा चक्षुरित्यभिधीयते || २७ || स्पर्शवती || २२८ || यत्पादरजसा स्पृष्टं भाले स्पृशति जातु न | माया क्वापि कदाप्येषा सती स्पर्शवती मता || २८ || प्. १४९) रसा || २२९ || या षड्विधाष्टादशतां विगाहते भीमेन सम्यग्रसितानलेन वा | योगीश्वरैर्यामृतरूपिणीक्षिता पूर्णं रसं सा रसयेद्रसा जनम् || २९ || गन्धप्रिया || २३० || नासिका जडरूपापि गन्धं चेतयतेऽभितः | यत्प्रसत्त्या सुगन्धं सा देयाद् गन्धप्रिया यशः || ३० || सुगन्धा || २३१ || नानागन्धाष्टगन्धत्वप्रथिता गन्धवर्जिता | सुगन्धास्तु भवोद्भूते मायादुर्गन्धहारिका || ३१ || सुस्पर्शा || २३२ || संसिद्धपस्पशो भक्तः पश्यति स्पशवद् भवम् | यत्पादरेणुसंस्पर्शात् सुस्पर्शास्तु शिवाय वः || ३२ || मनोगतिः || २३३ || रोद्धुं यां नैव शेकुर्विविधविधिकथायोगसेवादियत्नैः खिन्ना नुन्नाः स्वबुद्ध्या ययुरथ शरणं यद्गतिज्ञानलब्ध्यै | यामेवेशा अजाद्या अपि विमलमनोभावमाप्ता मनोग- त्याख्या देवी सदा मे मनसि निवसताद् वासरश्रीरिवार्के || ३३ || प्. १५०) मृगनाभिः || २३४ || जातो यतः सर्वसुगन्धजेता कस्तूरिकामोदवरोऽखिलस्य | घ्राणैकमार्गं विदधाति चेतः प्रकीर्त्यते सा मृगनाभिरार्यैः || ३४ || मृगाक्षी || २३५ || चलेनार्धविलोकेन या चलं कुरुते मनः | सेयं कापि मृगाक्षी नो भूयादक्ष्यग्रगा सदा || ३५ || कर्पूरामोदधारिणी || २३६ || यद्वासनामुपाघ्राय वासना मलिना क्षणात् | विनश्यति शिवायास्तु कर्पूरामोदधारिणी || ३६ || पद्मयोनिः || २३७ || ननायोनिरयोनिश्च पद्मयोनिरितीरिता | योनिप्रवेशदुर्वेशमुखं दुःखं व्यपोहताम् || ३७ || सुकेशी || २३८ || सुकेशोपमानं यदि स्यादनन्तै- र्गुणैः शोभितं वर्णको वाप्यनन्तः | अनन्ताढ्यजिह्वस्तदा स्युः सुवर्ण्याः सुकेशीमहेशीकचत्सत्कचेशाः || ३८ || सुलिङ्गा || २३९ || स्वैश्वर्यरूपं निखिलं प्रपञ्चं शम्भोः स्फुटीकर्तुमजादिशक्तिः | प्. १५१) उज्जृम्भिता काचन या प्रसिद्धा गुप्ता सहायीभवतात् सुलिङ्गा || ३९ || भगरूपिणी || २४० || यैकाप्यनेकाङ्गमिदं विधातुं पातुं क्षमा हन्तुमपि स्वभावात् | काचित् सदानन्दकृदस्तु वीरै- र्धीरैर्निषेव्या भगरूपिणी सा || ४० || योनिमुद्रा || २४१ || याऽधारदारिद्र्यमपि प्रयातं बीजं दधाति सम्यक् | सुखेन गम्या कुलमार्गनिष्ठैः सा योनिमुद्रास्तु मुदे सुदेहा || ४१ || महामुद्रा || २४२ || दशभिः षोडशाधारैर्द्वादशान्ते लयं गतैः | ऐक्यहेतुर्द्वयोर्गीता महामुद्रा महेश्वरैः || ४२ || खेचरी || २४३ || लब्ध्वा यां सत्यसन्धाः परगुरुदयया सृष्टिबीजैकचित्ता वामं कामं निकामं प्रशमयितुमलंभूष्णवः स्युर्वितृष्णाः | तं वा कालं करालं गतविषयरसाः सद्रसज्ञा मुनीन्द्राः सञ्चारं खेचरीयं वितरतु रुचिरं खेऽचिरं चिन्मये नः || ४३ || प्. १५२) खगगामिनी || २४४ || प्रधिहीनरथोऽनूरुसारथिर्यत्प्रसादतः | खगो नित्यमविश्रान्तो भानुः सा खगगामिनी || ४४ || मधुश्रीः || २४५ || नगाः कुसुमवर्षणैः सततगाश्च संवीजनैः खगाः कलरवस्तवैर्विमलवारिभिर्निम्नगाः | निषेव्य वत सन्ति यां सकलकामनीयागमाः सदा भवतु देवता मम मता मधुश्रीः श्रिये || ४५ || माधवीवल्ली || २४६ || परत्र भ्रमरं फुल्ला भ्रमरं न करोति या | करोतु माधवीवल्ली निर्भ्रमं मम मानसम् || ४६ || मधुमत्ता || २४७ || यार्धविलोकनभाषणयानैर्लक्षितविभ्रममात्मनि भक्तम् | पूर्णविलोकनभाषणयानं संरचयत्युदिता मधुमत्ता || ४७ || मदोद्धता || २४८ || कुली च वित्ती च सुरूपचर्यो दाता प्रभुः शास्त्रविदस्त्रविद्वा | मदोद्धतो जातु न यत्सुभक्तो मदोद्धता चित्रमियं श्रिये स्तात् || ४८ || मातङ्गी || २४९ || मातङ्गानां सेविता दुष्कलङ्कं पातङ्गं या भावमापादयन्ती | आतङ्कं वाऽशङ्कमात्मप्रदीपे मातङ्गीयं मत्तमातङ्गयाना || ४९ || प्. १५३) शुकहस्ता || २५० || भवभावविरक्तभावभक्त्या परितुष्टा मुनिजस्य या शुकस्य | समनामहितत्वकृन्नु भूता शुकहस्ता सुखकृन्न वाशु कस्य || ५० || पुष्पबाणा || २५१ || पुष्पबाणापि या चक्रपाणिबाणमजीजयत् | बाणक्षेपं विनैवाशु दृष्ट्या रुद्रं श्रियेऽस्तु सा || ५१ || इक्षुचापिनी || २५२ || पिनाकशार्ङ्गचापाभ्यां स्तुता देवीक्षुचापिनी | दिक्षु दिक्षु सदा रक्षाकारिणी नो विहारिणी || ५२ || रक्ताम्बरधरा || २५३ || रक्ताम्बरधरेत्यस्या ध्यानं रक्ता अहर्निशम् | जानन्ति सर्वतः संध्यामिव दैवतपूजिताम् || ५३ || क्षीवा || २५४ || अन्यः कश्चित् क्षीवभावं कदाचिद्यातः सद्यश्चेत्यहीनः स्वयं स्यात् | क्षीवा त्वेषा स्वात्मना सर्वदाहो जीवं क्षीवं चेत्यलुब्धं करोति || ५४ || रक्तपुष्पावतंसिनी || २५५ || चन्द्रं कलङ्किनं मत्वा निरङ्कं च शिरोगतम् | हरस्य जाने सा भूता रक्तपुष्पावतंसिनी || ५५ || शुभ्राम्बरधरा || २५६ || शुभ्राङ्गेन समं शुभ्रशैले खेलति या मुदा | शुभ्राम्बरधरा सेयं शुभ्रं वितरताद्यशः || ५६ || प्. १५४) धीरा || २५७ || स्वयं च भीमस्य भयानकानां गणैर्गणानां च वृतस्य सर्पैः | सदाङ्गयातापि हरस्य पूर्णानन्दैव धीरास्तु निजार्थकर्त्री || ५७ || महाश्वेता || २५८ || कदाचिल्लीलायै निजसदसि शर्वेण सहसा महाश्वेते शैले स्थगयितुमलं स्वं सुचतुरा | महाश्वेता भूता कथमपि न लक्ष्या सुहसिता- वतान्माता भाताऽसितमितहितात् संसृतिकृतात् || ५८ || वसुप्रिया || २५९ || अन्यः कदाचिद्दौर्गत्यशङ्कया स्याद् वसुप्रियः | भगवत्यपि नो जाने कथं देवी वसुप्रिया || ५९ || सुवेणिः || २६० || अर्धाङ्गगाया गिरिशस्य गङ्गा शिरोगता भाति समेत्य यस्याः | वेण्येव वेणीविषयं प्रयाता सुवेणिरेषास्तु सदा हिताय || ६० || पद्महस्ता || २६१ || एकेन पादेन जले स्थिताय तुष्ट्या रवेरुन्मुखतां गताय | दत्तो वरः कर्दमजाय पद्महस्तेतिनाम्नैव तया धृतेन || ६१ || मुक्ताहारविभूषणा || २६२ || यन्मुक्ताहारशोभाभिर्गङ्गेव हसिता चला | उत्फेना चास्ति सा देवी मुक्ताहारविभूषणा || ६२ || प्. २५५) कर्पूरामोदनिःश्वासा || २६३ || भ्रमरोऽपि सदा दिक्षु सक्तो यत्रास्ति शङ्करः | कर्पूरामोदनिःश्वासा सेयं श्वसनपूजिता || ६३ || पद्मिनी || २६४ || अन्यदा रविरुदेत्ययं चिराद्यद्विकाससमये चिरेण वा | संदिदृक्षुरिव मन्दमन्दगः पद्मिनीति गदिता बुधैरियम् || ६४ || पद्ममन्दिरा || २६५ || यत्कलानिधिरिहाङ्कवान् गदी तापकृद् दिनमणिश्च भास्करः | तत्त्ववैमि किल पद्ममन्दिरादृष्टिदृष्टिजनिता विभक्तता || ६५ || खड्गिनी || २६६ || यद्धस्तयातं समवेक्ष्य खड्गं दैत्याः स्वमस्मिन् प्रतिबिम्बितं वा | पलायितास्तेऽपि भियेव मृत्युं सा खड्गिनीति प्रथिता त्रिलोक्याम् || ६६ || चक्रहस्ता || २६७ || गोपालबालोऽपि च भूमिपाला- नेकोऽप्यनेकान् विदिताखिलास्त्रान् | हन्यात् कथं यत्नविहीन एषा न स्यात् प्रसन्ना यदि चक्रहस्ता || ६७ || भुसुण्डी || २६८ || भुसुण्डकाकः सदयो यदीयां दयां समालम्ब्य विलम्बिताशः | प्. १५६) ब्रह्माण्डनाशेऽपि न नाशभागी चिद्भुण्डिमेषा ददतां भुसुण्डी || ६८ || परिघायुधा || २६९ || या तुष्टा स्वात्मसद्रत्नकोशेऽस्मिन् मोचयत्यरम् | विमोहपरिघं सेयं कीर्तिता परिघायुधा || ६९ || चापिनी || २७० || या बाणवर्षैः परमावृणोति यां पुष्पवर्षैश्च हरिः कृतार्थः | सा चापिनी कापि विलापमस्य कृपाकरी मोहकृतं विलुम्प || ७० || पाशहस्ता || २७१ || जडाधिपोऽपि प्रथितः प्रचेता नियामयत्युद्धसतत्त्वसङ्घम् | दयां यदीयां परिलभ्य देयात् सा पाशहस्ता भवपाशनाशम् || ७१ || त्रिशूलवरधारिणी || २७२ || कालभीहारिणी देवी प्रेतभूमिविहारिणी | श्रीकारिणी जनस्यास्तु त्रिशूलवरधारिणी || ७२ || सुबाणा || २७३ || यकं बाणं दर्शयन्ती क्षिपन्ती लक्ष्यीभूतं तं पुनस्ताडयन्ती | तेनासंख्यीभूतरूपेण दैत्यान् देवप्रीत्यै सा सुबाणेति गीता || ७३ || प्. १५७) शक्तिहस्ता || २७४ || कुमारोऽपि यां तोषयित्वा कुमारीं कुमारं जघानासुरं तारकं तम् | त्रिशक्तिप्रसक्तं च काचिच्चिदेषा शिवायास्तु शक्तिः शिवा शक्तिहस्ता || ७४ || मयूरवरवाहना || २७५ || प्रियप्रियेतिवाक्तुष्टा शिखिने पारितोषिकम् | ददाविव स्वयं भूत्वा मयूरवरवाहना || ७५ || वरायुधधरा || २७६ || मोहप्रहारसंहारहरा देवी परापरा | वरायुधधरा सेयं गीयते वरबुद्धिभिः || ७६ || वीरा || २७७ || ध्यायन्तो यां धीरवीरा व्यथन्ते नादातुं वा दातुमस्त्राणि जातु | कीर्तिं मूर्तिं देवतानां क्षितिं वा लब्धुं तुष्टाः सा शिवायास्तु वीरा || ७७ || वीरपानमदोत्कटा || २७८ || गुप्तप्रकटसंघट्टा नभसीव घनच्छटा | पातात् कटाक्षपातेन वीरपानमदोत्कटा || ७८ || प्. १५८) वसुधा || २७९ || विराजते राजसमाजभाजां भूत्वा सुराजः कृपयेह यस्याः | उद्धाममुद्धाम सदा ममास्तु सुधोत्तमा सा वसुधा सुपाला || ७९ || वसुधारा || २८० || दारवराः कुचरोचितहारा ऊरुभरालसलास्यविहाराः | तस्य वशा न कथं स्युरुदारा यस्य करे वत सा वसुधारा || ८० || जया || २८१ || रणे वने वा गहने जनानां राजावलोके वरमङ्गलेषु | यन्नामवक्तृ प्रतिभाति वक्त्रं जया दयाब्धिर्विजयाय भूयात् || ८१ || शाकम्भरी || २८२ || खेचरी गोचरी स्वेच्छागोचरी वरसुन्दरी | शाकम्भरी सदा भूयाद् वरदा परमेश्वरी || ८२ || शिवा || २८३ || उदेति यस्या विलयं च याति यस्यां च यद्रूपमिदं सदूर्मि | तथापि या वर्तत ऊर्मिहीना शिवा शिवायास्तु नवा नवेयम् || ८३ || विजया || २८४ || ध्येया चतुर्वणजनैः क्रमेण सितादिवर्णोत्तमपुष्परूपैः | विधुः परानन्दसुधाम्बुराशेरयप्रदा स्ताद् विजयाभयस्था || ८४ || प्. १५९) जयन्ती || २८५ || भक्तो यदीयो जनमध्यवर्ती विभाति तारान्तरगो यथेन्दुः | विपक्षयूथान्धनिशानिहन्ता सतां जयन्ती जयदा सदास्तु || ८५ || सुस्तनी || २८६ || पूर्वं स्वकुम्भद्युतिमानमत्ताः कुचौ यदीयाववलोक्य पश्चात् | नागास्तदाद्यात्मशिरःसु धूलिं क्षिपन्ति सैषा किल सुस्तनीति || ८६ || शत्रुनाशिनी || २८७ || शत्रवो न स्युरेतस्य द्वित्राश्चेत् स्युस्तदापि ते | मित्रतां यान्ति येनेयं पूजिता शत्रुनाशिनी || ८७ || अन्तर्वत्नी || २८८ || बहिष्कृतं चापि ययेदमात्मस्वरूपतो भाति तदन्तरेव | विमर्शनेनात्मनि चिन्मयेऽन्तर्वत्नी शिवेयं मतिमद्भिरीड्या || ८८ || वेदशक्तिः || २८९ || वाचं स्वकीयां गदितां जनोऽयं जानाति सा तं नहि जातु यद्वत् | तथैव या वेदविदस्ति वेद- वेद्या न वा सावतु वेदशक्तिः || ८९ || वरदा || २९० || अमरा इतरे वरदाः करगाभिनयेन हि सन्ति सहस्रतया | वरदा त्वियमेव सदा प्रथिता चरणौ शरणौ श्रयतां दयया || ९० || प्. १६०) वरधारिणी || २९१ || दात्री वरस्यासि महेश्वरी त्वं यद्धारयन्ती च वरं स्वयं तम् | अन्तर्गता भक्तजनस्य तस्मात् संकीर्त्यसे त्वं वरधारिणीति || ९१ || शीतला || २९२ || कश्मीरतीर्थेषु हिमे हिमांशौ साधोर्हृदि प्राप्तगतिः सदैव | या शीतलास्ति प्रथिता हितास्तु क्रोधोष्महन्त्री निजबोधकर्त्री || ९२ || सुशीला || २९३ || कृत्वा सुदुःशीलमिदं च विश्व- मस्यात्मभूतापि न या स्वकीयम् | शीलं परानन्दमयं जहाति साव्यात् सुशीला निजलीलयैनम् || ९३ || बालग्रहविनाशिनी || २९४ || नाराधिता स्वयं यत्सा बालग्रहविनाशिनी | योगिनोऽपि ततो जाने लब्धुं वाञ्छन्ति शैशवम् || ९४ || कुमारी || २९५ || चेत्योत्पत्तिर्या स्वयं चेत्यहीना सच्चिद्रूपा रूपणीयात्मनैव | प्. १६१) या सर्वादिश्चादिमध्यान्तहीना देवी गीता सा कुमारी पुराणा || ९५ || सुपर्वा || २९६ || नाडीषु मासेषु दिनेषु मध्ये वर्षेषु वा निर्मथितोद्धृता या | दानादिकृत्येषु सुपुण्यरूपा ख्याता सुपर्वास्तु सुखाय सार्वा || ९६ || कामाख्या || २९७ || कामोद्धर्तुः काम्यरूपास्ति कामरूपस्था या सर्वकामैकबीजम् | कामाख्येयं कापि निष्कामकर्मज्ञेया पायाद्देवता मामपायात् || ९७ || कामवन्दिता || २९८ || मदनोऽप्यहमत्र योगिनाथे हतशक्तिस्त्वियमुल्लसत्स्वशक्तिः | प्रथिता त्रिदशेश्वरेऽस्ति शम्भा- विति मत्वा किल कामवन्दिता त्वम् || ९८ || जालन्धरधरा || २९९ || अशक्तसर्वदेवेऽस्मिन् ख्याता राज्ञी कलौ युगे | जालन्धरधरा सैव केवला देवदेवता || ९९ || अनन्ता || ३०० || योऽन्तोऽस्ति योऽन्तं विदधाति योऽन्त्य- स्ते सन्ति सर्वेऽतिगता न यत् ताम् | सर्वामनन्तास्य ततः स्वरूपे स्वान्तं दृढस्वन्तमियं करोतु || १०० || प्. १६२) श्रीकृष्णात्मपरानुभूतिविभवः श्रीकृष्णकौलः सुतं साहिब्कौलमसूत यं च जननी बुद्धिः प्रबुद्धिः सती | तत्काव्ये सहजार्चनादिपदवत्याः षष्टिकाया अनूद्- भूते नामविलासनाम्नि सुरसा भक्तिर्व्यतीताष्टमी || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते श्रीनामविलासेऽष्टमी भक्तिः || ८ || नवमी भक्तिः कामरूपनिवासिनी || ३०१ || सर्वभीत्रासिनी दुष्टशासिनी सुविकासिनी | सुहासिनी रसायास्तु कामरूपनिवासिनी || १ || कामबीजवती || ३०२ || रूपं निजं दग्धतनुश्च भूयः क्रुद्धेन रुद्रेण कथं लभेत | सर्वस्य काम्यं यदि कामबीज- वती सदा तेन न सेविता स्याः || २ || सत्या || ३०३ || ब्रह्मादितः सकलबुद्धिवतामधीशा निर्णीय सर्वनिगमागमतत्त्वमेतत् | आज्ञापयन्त्विति शिवा परमा किमर्थं सत्याप्यसत्यमिदमातनुते कथं वा || ३ || प्. १६४) सत्यधर्मपरायणा || ३०४ || असत्यां संसृतिं मत्वा कृतिनो यामुपासते | सत्यधर्मस्थिराः सेयं सत्यधर्मपरायणा || ४ || स्थूलमार्गस्थिता || ३०५ || स्थूलः कष्टः कर्ममार्गः प्रसिद्धः पूर्णानन्दो ज्ञानमार्गस्तु सूक्ष्मः | एषा देवी स्थूलमार्गस्थितापि पूर्णानन्दा चित्रमेतद् विचित्रम् || ५ || सूक्ष्मा || ३०६ || क्षणादेकचिदुल्लासकणाद् ब्रह्माण्डकोटयः | भवन्त्ययत्नतो यस्याः सा सूक्ष्मा कीदृशी शिवा || ६ || सूक्ष्मबुद्धिप्रबोधिनी || ३०७ || दुर्गमैरागमैर्गम्यमन्ते तद्दुर्गसंसृतेः | कथं ज्ञेयान्न चेत् सा स्यात् सूक्ष्मबुद्धिप्रबोधिनी || ७ || षट्कोणा || ३०८ || कृष्णे वायोर्मण्डले शैवमन्त्रे हृल्लेखायाश्चक्रराजे द्वितीये | दीक्षामार्गेषु स्थिता षड्विधा या सा षट्कोणा षट्क्रियादार्ढ्यदास्तु || ८ || प्. १६५) त्रिकोणा || ३०९ || मूले चक्रे तेजसो मण्डले वा जम्बुद्वीपे शम्भुनेत्रत्रये वा | आद्या शक्तिः केवला या त्रिकोणा सेयं माया केन मानेन माता || ९ || त्रिनेत्रा || ३१० || यस्या निमेषाल्लयमेति विश्व- मुन्मेषतो वोदयमेति हेतेः | नेत्रेश्वरस्याधिगतोत्तमाङ्गं सा मे त्रिनेत्रा ददतां सुनेत्रम् || १० || त्रिपुरसुन्दरी || ३११ || त्रिबीजविषया त्रिधा नियमिता त्रिवेदश्रुता त्रिलोकजननी त्रिभिस्त्रिदशनाथगेया पदैः | त्रिधाममहिमस्थली त्रिसमयाविभेद्या परा त्रिनेत्रदयिता हिता त्रिपुरसुन्दरी पातु नः || ११ || वृषप्रिया || ३१२ || वृषाकपेर्यत्र मृषा प्रकाशो वृषोऽपि यामाप्य वृषो बभूव | प्. १६६) वृषाधिपस्तोषयति स्तवैर्यां वृषप्रिया सा भृशतापहास्तु || १२ || वृषारूढा || ३१३ || कैलासशिखरस्था या स्वर्णवल्लीव राजते | वृषारूढा शिवा सा मां वृषारूढं करोत्वरम् || १३ || महिषासुरघातिनी || ३१४ || स्ववाहस्य हरेस्तुष्ट्यै श्रान्तस्य क्षुधितस्य च | भूताखिलमवन्ती नु महिषासुरघातिनी || १४ || यद्विरोजा[धा]दपि प्रापन्महिषो वृषजां गतिम् | वन्दनीया न कस्यैषा महिषासुरघातिनी || १४ || सुम्भदर्पहरा || ३१५ || नीतः सुम्भो ययैकत्वमन्ते स्वाहन्तया हतः | सुम्भदर्पहरा सा त्वं सुम्भदर्पहराऽसि वा || १५ || दीप्ता || ३१६ || ध्यानाद्यदीयात् समवाप्य दीप्ते- रंशं सुदीप्रं रचयन्ति विश्वम् | सूर्यादयो दर्शनतोऽपि सैषा दीप्ता स्वनामार्थकरी ममास्तु || १६ || प्. १६७) दीप्तपावकसन्निभा || ३१७ || भजतो यां क्षणेनैव गहनं मोहकाननम् | सुप्रकाशं भवत्येषा दीप्तपावकसन्निभा || १७ || कपालभूषणा || ३१८ || कादम्बिनी बलाकानुगतेवाभाति या शिवा | कपालभूषणा भूषामशेषां नो ददात्वियम् || १८ || काली || ३१९ || निजाट्टहासैर्विहितप्रकाश- मुत्कृत्त्य मांसं स्वदती शवानाम् | मुण्डं च खड्गं च करे दधाना काली करालं हरताद् विकारम् || १९ || कपालमालभारिणी || ३२० || क्रौञ्चपालीसमाक्रान्तगण्डाश्माञ्जनशैलवत् | रोचमाना बलायास्तु कपालमालभारिणी || २० || कपालकुण्डला || ३२१ || उदयति तुहिनद्युतौ खरांशौ चरमधराधरगे च भूतघस्रे | खमिव सुधवले स्फुरत्सुशोभा भवतु शुभाय कपालकुण्डलेयम् || २१ || प्. १६८) दीर्घा || ३२२ || संसेविता दीर्घतपस्विनेय- मिष्टा च दीर्घेष्टकरेण देवी | दीर्घां मतिं निर्मलनिश्चयस्थां दीर्घा ददातु प्रथिता हिता वः || २२ || शिवा दूती || ३२३ || मन्त्रमाता सुघोषेण देवामन्त्रणकारणम् | शिवा दूती शिवायास्तु शिवव्याप्त्या प्रपूजिता || २३ || घनध्वनिः || ३२४ || नन्दन्ति नृत्यन्ति च केकिनो यां गर्भं बलाका अपि धारयन्ति | निशम्य जीवन्ति जनाश्च सिद्धां घनध्वनिः सा घनतापहास्तु || २४ || सिद्धिदा || ३२५ || निषेधसिद्धी भविनां समर्था कर्तुं स्वयं तद्व्यतिरिक्तरूपा | या काचिदैश्वर्यकलादिबीजं सा सिद्धिदा स्तान्मम सिद्धबुद्धेः || २५ || बुद्धिदा || ३२६ || बुद्धिदासि किल चेत्तदीशि मे देहि बुद्धिमिह तां सतां मताम् | प्. १६९) बुद्ध्यबुद्धिमयसंसृतौ यया जातुचिन्नहि भवेद् भिदाप्रथा || २६ || नित्या || ३२७ || अन्ये नित्याः केषुचिद्दर्शनेषु ख्यातास्तेऽन्यत्राप्यनित्यत्वभाजः | नित्या त्वेषा चेतना सर्वतन्त्र- सिद्धान्तस्था काचनाज्ञत्वहन्त्री || २७ || सत्यमार्गप्रबोधिनी || ३२८ || असत्यानन्तमार्गेऽस्मिन् संसारासारसागरे | भ्रान्तानां त्वं सदा भूयाः सत्यमार्गप्रबोधिनी || २८ || कम्बुग्रीवा || ३२९ || कम्बुस्नानप्रिया शम्भुप्रिया देवाधिदेवता | कम्बुग्रीवा शिवायास्तु स्वर्णकम्बुविराजिता || २९ || वसुमती || ३३० || नो यां विनाप्यसुमती रसदास्ति सृष्टि- र्दाता गुणी च सुमतिः प्रथितत्वमेति | सम्पूजिता वसुभिरात्महृदासने सा स्वस्तिप्रदास्तु वसुमत्यभितः कलाभिः || ३० || छत्रच्छायाकृतालया || ३३१ || राजराजेश्वरी राजसमाजे या विराजते | निर्भया दयया पायाच्छत्रच्छायाकृतालया || ३१ || प्. १७०) जगद्गर्भा || ३३२ || जगद्गर्भा द्विधा देवी दर्पणश्रीरिवोत्तमा | वासनां गर्भवासस्य हर भूयः परेश्वरी || ३२ || कुण्डलिनी || ३३३ || येडापिङ्गलयोर्गता वितनुते सृष्टिं त्र्यवस्थामयीं शब्दब्रह्म यतः समस्तमपि च व्यस्तं समुज्जृम्भते | निर्मुक्तिं प्रतिबोधयत्यभिगता या ब्रह्मनाड्यन्तरं सेयं कुण्डलिनी जयत्यतितरां जीवैकजीवः शिवा || ३३ || भुजगाकारशायिनी || ३३४ || बुद्धा गुरूपदिष्टेन शुद्धानन्दैकदायिनी | महापथं गता सा त्वं भुजगाकारशायिनी || ३४ || प्रोल्लसत्सप्तपद्मा || ३३५ || पञ्चाशद्वर्णबीजैर्यां क्रमादर्चन्ति साधकाः | प्रोल्लसत्सप्तपद्मेयं षोडशाधारगोचरा || ३५ || नाभिनालमृणालिनी || ३३६ || जातो ब्रह्मा यतश्चित्रं ब्रह्माण्डमतनोद् विभुः | ब्रह्मताबोधिकाऽस्त्वस्य नाभिनालमृणालिनी || ३६ || प्. १७१) मूलाधारा || ३३७ || चन्द्रस्रावापूरिता योगिनार्थै- र्गम्या रम्यारामभूमिर्निकामम् | पारावारज्ञानसारैकधारा मूलाधाराधारभूता ममास्तु || ३७ || निराकारा || ३३८ || जात्वप्यज्ञैरदृश्या यत्तज्ज्ञैरप्येकतां गतैः | अतो गीताखिलाकारा निराकारेति सूरिभिः || ३८ || वह्निकुण्डकृतालया || ३३९ || पीताभिर्लोहिताभिश्च सिताभिश्च विभाससे | ज्वालामालाभिरेषा त्वं वह्निकुण्डकृतालया || ३९ || वायुकुण्डसुखासीना || ३४० || तस्माद् वायुः प्रसिद्धोऽत्र पवनश्च सदागतिः | वायुकुण्डसुखासीना यस्मात् त्वं दीनवत्सला || ४० || निराधारा || ३४१ || सुधाधारासारप्रशमितविपत्तापनिकरा विकाराकाराणां हरणचतुरा काचन परा | असेर्धारापारेऽम्बरवदधरेऽज्ञानगहने निराधारा कारां हरतु मम संसारविसराम् || ४१ || प्. १७२) निराश्रया || ३४२ || निःशेषा यां जनाः श्रित्वा वर्तन्ते या न कंचन | सदाशयलयस्थाना सा द्विधास्ति निराश्रया || ४२ || श्वासोच्छ्वासगतिः || ३४३ || यस्या दुर्गमपञ्चमार्गविदुषां भूतं भविष्यच्च सज्- ज्ञानं भाति करे सितोपलतुला- मालम्बितं जृम्भितम् | अभ्यासात् किल सद्गुरोः करुणया प्राप्तात् समाप्तात् स्वयं श्वासोच्छ्वासगतिर्गतिर्मतिमतां भूयात् सतां सम्मता || ४३ || जीवा || ३४४ || यां नेन्द्रियाणि विषया न मनो न बुद्धि- र्नो वा गुणा न च विना परमां महेशीम् | प्राणा विधातुमपि नो किमपि क्षमाः स्यु- र्मां जीवयत्वियमजीवतयेह जीवा || ४४ || प्. १७३) ग्राहिणी || ३४५ || द्विधा भूता विधत्ते या लीलामेकैव काचन | ग्राहिणी सा सदा भूयाद् ग्रहाग्रहग्रहार्तिहृत् || ४५ || वह्निसंश्रया || ३४६ || या वह्निसंश्रया सर्वाधारभूता निराश्रया | आसनत्वं गतो यस्याः संश्रयः स च तां नुमः || ४६ || वह्नितन्तुसमुत्थाना || ३४७ || जयन्ती कोटिसूर्येन्दुवैश्वानररुचिं शुचिः | वह्नितन्तुसमुत्थाना कीदृशी चित्रमीश्वरी || ४७ || षड्रसास्वादलोलुपा || ३४८ || कथं सुधाशिनोऽपीहावतरेयुर्न चेद् भवेत् | मर्त्यलोकप्रिया देवी षड्रसास्वादलोलुपा || ४८ || तपस्विनी || ३४९ || ययावतारं गतयाद्रिराज- गृहेऽखिलेश्याप्यविचिन्त्यभासा | उग्रैस्तपोभिर्मृदुतां स उग्रो नीतो हितायाऽस्तु तपस्विनी सा || ४९ || प्. १७४) तपःसिद्धिः || ३५० || शोभां कृशा अप्यरमाप्नुवन्ति तृप्ता भवन्ति क्षुधिताः सदापि | तपस्विनः प्राप्य सुनिर्णया यां सा मे तपःसिद्धिरिहैव भूयात् || ५० || तापसी || ३५१ || उष्णेऽपि शीते समये न खिन्नाः क्रोधेन कामेन न निर्जिता वा | कथं भवेयुर्यदि नातिभक्ति- प्रिया भवेः पार्वति तापसी त्वम् || ५१ || तपःप्रिया || ३५२ || भयात् त्रातुं फलं दातुं क्षमा निर्यत्नतोऽपि च | तथापि त्वं किमर्थं नु न जानेऽसि तपःप्रिया || ५२ || तपोनिष्ठा || ३५३ || निरिष्टापि तपोनिष्ठा दृष्टादृष्टफलप्रदा | अभीष्टदेवतानिष्ठां सहजां नो ददात्वियम् || ५३ || तपोयुक्ता || ३५४ || युक्त्याभिभजिता मुक्तितीर्थसोपानतां गता | अन्तकान्तविधाशक्ता तपोयुक्ता जयत्यसौ || ५४ || प्. १७५) तपसः सिद्धिदायिनी || ३५५ || बहुभ्यो बहुभी रूपैस्तपसः सिद्धिदायिनी | बहुशः केवलानन्दसुन्दरी पातु देवता || ५५ || सप्तधातुमयी मूर्तिः || ३५६ || सप्तधातुमयी मूर्तिर्भूताऽमूर्तिरपि स्वयम् | सद्विचारपरिस्फूर्तिं वितरत्वचिरादियम् || ५६ || सप्तधात्वन्तराश्रया || ३५७ || निर्धातुर्धातुमच्छृङ्गराजगोत्रमणिः शिवम् | धातुः पूज्या ददात्वेषा सप्तधात्वन्तराश्रया || ५७ || देहपुष्टिः || ३५८ || युक्तो यया तत्क्षणभङ्गुरं च जानाति कल्पस्थिरवत् स्वदेहम् | जनो मनोऽभीष्टकरीह भूयात् सा देहपुष्टिः सहजैकहृष्टिः || ५८ || मनस्तुष्टिः || ३५९ || दृष्टिः स्थिरा तस्य विनैव दृश्यं संवर्धते हृष्टिरकृत्रिमा च | उत्कृष्टता च प्रकटेह यस्य तुष्टा मनस्तुष्टिरदुष्टबुद्धेः || ५९ || प्. १७६) अन्नपुष्टिः || ३६० || कथं नु भूतानि दृढत्वमीयुः संमिश्रितानि क्षणतः स्खलन्ति | कर्मादिदेवी यदि नान्नपुष्टिः सर्वैकसारोऽत्र भवेत् सहाया || ६० || बलोद्धता || ३६१ || स्वस्ववर्गे प्रथां यान्ति सुरासुरनरोरगाः | यदाश्रयादियं भूयाद्धिता माता बलोद्धता || ६१ || ओषधिः || ३६२ || यैराक्रान्तः स्वविषयसुखं वेद दुःखं मनुष्यो दोषा दूष्याः सपदि भजनात्ते स्वयं स्युर्यदीयात् | एषा रोषप्रमुखमखिलं क्लेशदं तोषहेतो रोगं शोषं नयतु समये सौषधिर्ध्यानमात्रात् || ६२ || वैद्यमाता || ३६३ || उपास्य यामन्यशरीरमध्य- प्रवेशमात्मीयधिया विहाय | विदन्ति सर्वां प्रकृतिं सुवैद्याः सा वैद्यमातेति सतां मतासि || ६३ || द्रव्यशक्तिः || ३६४ || गुणैरनेकैः प्रथितप्रभावा प्रयोगतो या हितकृज्जनानाम् | प्. १७७) मातेव सर्वामयहानिशक्ता सा द्रव्यशक्तिर्हरतादशक्तिम् || ६४ || प्रभाविनी || ३६५ || वक्त्रेषु नेत्रेषु करेषु भाग्य- वतां प्रकाशापि च सर्वयाता | मनःस्थितिज्ञानकरी जनानां प्रभाविनी भूषयतु स्वभाभिः || ६५ || वैद्या || ३६६ || प्रसादं कुरुषे त्वं चेद् वैद्या परमदेवता | रोगिणः शोकदास्ते स्युर्भवरोगा अपि स्वयम् || ६६ || वैद्याचिकित्सा || २६७ || यत्प्रसादान्मनुष्योऽपि धन्वन्तरियशो भृशम् | एति वैद्यचिकित्सेयं विचिकित्साज्वरं हर || ६७ || सुपथ्या || ३६८ || तस्यामया नैव कदाचन स्यु- श्चेत् स्युस्तदा तत्क्षणमेव नाशम् | विनौषधं तेऽप्यवशाः समीयु- श्चित्ते स्थिता यस्य सदा सुपथ्या || ६८ || प्. १७८) रोगनाशिनी || ३६९ || ध्यानादिभ्र्गदं हन्ति सर्वेन्द्रियलयं यतः | अयत्नाद् गीयते तस्मादीशानी रोगनाशिनी || ६९ || मृगया || ३७० || विस्मार्य कार्याण्यविचार्य देह- मृदुत्वमुद्धूतसुदर्पसत्त्वाः | उपासते शूरवराः सदा यां संकीर्तिता सा मृगयागमज्ञैः || ७० || मृगमांसादा || ३७१ || सङ्गेन जायते दोषो गुणो वेत्यद्य निश्चितम् | भूता यन्मृगमांसादा स्ववाहहरिसङ्गतः || ७१ || मृगत्वक् || ३७२ || या यज्ञशीलैर्विलसद्विचित्र- वाला पवित्रा वितनोति नद्धा | कांचित् प्रभां दीक्षितचिह्नभूता मृगत्वगेषा कथिता कथाज्ञैः || ७२ || मृगलोचना || ३७३ || यन्नेत्ररागसंलुब्धः पितृकाननमध्यभाक् | आगाद् बन्धनमीशानमृगः सा मृगलोचना || ७३ || वागुरा || ३७४ || भूमिगानां कथ वश्या भवेयुर्विहगा न चेत् | युक्तियुक्ता भवेर्भूता वागुरा गुरुरद्भुता || ७४ || प्. १७९) बन्धरूपा || ३७५ || नित्यं विमुक्तोऽपि ययैष बद्ध- म्मन्यो जनो देवि समावृतेहः | सा बन्धरूपापि विमोक्षबन्ध- सम्बन्धबन्धं परिभिन्दती नः || ७५ || वधरूपा || ३७६ || वधरूपासि यदि त्वमीदृगस्य वधमीशानि विधेहि येन दीनः | सुसुखेन प्रविहाय कायभावं भवतीमेति दुरन्तमद्भुतेन || ७६ || वधोद्धता || ३७७ || अवध्यो हि सदा स्वात्मा देहो वध्यस्त्वयत्नतः | उन्मत्त इतरः कः स्विद् देवी यस्य वधोद्धता || ७७ || वन्दी || ३७८ || यान्यं स्मृता मुञ्चति सर्वबन्धाद् वन्दी कथं स्यात् स्वयमीश्वरी सा | जाने त्वियं भक्तजनैरिहैव वन्दीकृतास्ति सुमनोनिकायये || ७८ || वन्दिस्तुताकारा || ३७९ || यदाकारं नहि स्तोतुं वाचस्पतिरपि क्षमः | अहो वन्दिस्तुताकारा सा शक्तिर्भक्तवत्सला || ७९ || प्. १८०) काराबन्धविमोचनी || ३८० || विरोचनरुचिः काचिच्चिदानन्दैकसुन्दरी | विषमे समये भूयात् काराबन्धविमोचिनी || ८० || शृङ्खला || ३८१ || सदा वनविहारस्था अपि नागा मदोद्धताः | ययावय इवाबद्धा वश्याः सा शृङ्खला मता || ८१ || खलहा || ३८२ || मन्त्रैर्न नौषधिमयैर्विविधैः प्रयोगैः शान्तिं भजन्ति खलु ये खलनागराजाः | सन्तः क्षमैकविषयाः स्मरणाद्यदीयात् तां प्रापयन्त्यपि च तान् खलहासि सा त्वम् || ८२ || विद्युत् || ३८३ || तेजसा रोचते काचिद्या देवी जलदान्तरे | विद्युज्जयति सा नित्यं वडवाग्निसहोदरी || ८३ || दृढबन्धविमोचिनी || ३८४ || अभेद्यो योऽस्त्रशस्त्रौघैर्भवबन्धं तमेव या | हरति स्मृतिमात्रात् सा दृढबन्धविमोचिनी || ८४ || अम्बिका || ३८५ || यदन्तरा न क्षुधया तृषा वा जनोऽर्दितत्वं लभते कदाचित् | प्. १८१) ममाम्बिका दुर्भ्रमकाममेषा दृशा भृशं नाशयतादरोषा || ८५ || अम्बालिका || ३८६ || बालो मृदुः किञ्चन वा विधातु- मनीश्वरोऽपीश्वरि पुष्टहृष्टः | कथं भवेत् त्वं न यदा दयाभि- रम्बालिका पोषणकारिणी स्याः || ८६ || अम्बा || ३८७ || जम्भारिसंस्तुता रम्भाजघना दम्भहारिणी | अम्बा भूयो हरत्वेषा सम्भवं दुर्भवे भवे || ८७ || स्वक्षा || ३८८ || दक्षा स्वात्माच्छादनक्रीडितेषु तक्षा सर्गाह्वानगेहं विधातुम् | दक्षाहन्ताहानिहेतुः समक्षं स्वक्षा रक्षाकारिणीयं ममास्तु || ८८ || साधुजनार्चिता || ३८९ || साधवो माधवात्मत्वं याता यद्दययाभयाः | नन्दयन्त्यखिलान् दृष्ट्या सेयं साधुजनार्चिता || ८९ || कौलिकी || ३९० || या नादेन च बिन्दुनापि कलया भक्तं विरक्तं भवात् | संतोषं नयति प्रकाशविशदा देवी ततोऽपि स्वताम् | प्. १८२) वैराग्यं गतमद्भुतामथ भवोत्तीर्णां भवस्थां च या | स्वच्छन्दामिह कीर्तिता सुकृतिभिः सालौकिकी कौलिकी || ९० || कुलविद्या || ३९१ || बहुदलभावनसंकुलभावा कुलकुलकोविदभावबलेन | सुलभरसा सरसालसभासा विलसतु चेतसि सा कुलविद्या || ९१ || सुकुला || ३९२ || जनपक्षिकुलानि यत्कुलाया- दलमाविष्कृततां प्रयान्ति यत्र | विलयं च दलद्वयाकुलानि सुकुला सा नकुलार्चिता हितास्तु || ९२ || कुलपूजिता || ३९३ || वलयैः सलयैः स्फुरत्सुबाहुर्मुहुरीषच्चलमेखलाकलापा | अमलाचललोचनारविन्दा स्थिरताकृत् कुलपूजिताजितास्तु || ९३ || कालचक्रभ्रमा || ३९४ || ययावनद्धा अवशाः खगेशा भ्राम्यन्त्यविश्रामतया प्रतिस्वम् | वीथीषु सेयं किल कालचक्र- भ्रम शमारामकरी ममास्तु || ९४ || भ्रान्ता || ३९५ || जीवः शिवाभेदमयोऽपि भावं स्वीयं सुविस्मार्य कथं भ्रमार्तः | प्. १८३) इतस्ततः स्याद्यदि न त्वमस्य भ्रान्ता स्थितिं चेतसि संविदध्याः || ९५ || विभ्रमा || ३९६ || यां विना न सुदृशोऽपि भूषया- शेषया विलसिताश्च चेतसः | संहरन्ति गतिमाशु सम्भ्रमं विभ्रमा हर गमागमागमम् || ९६ || भ्रमनाशिनी || ३९७ || विषमे समये कामयमोद्भावितसम्भ्रमे | समया दयया भूयान्मम सा भ्रमनाशिनी || ९७ || वात्याली || ३९८ || खेलन्ती या वेलयैवेन्द्रजाल- कर्त्री हर्त्री सूर्यचक्षुःसुसङ्गम् | नेमिर्भातीवास्तवाहा चलन्ती वात्याली सा कीर्तिता कालविद्भिः || ९८ || मेघमाला || ३९९ || कुतोऽपि योदेति लयं च याति कुत्रापि सर्वस्पृहणीयभावा | या पान्थयोषिद्वरसङ्गहेतुः सा मेघमाला कलिता कलाज्ञैः || ९९ || प्. १८४) सुवृष्टिः || ४०० || अदुष्टशोभा विदिशो दिशोऽपि भवन्ति यामाप्य सुवृष्टिरेषा | न कस्य तुष्ट्यै भवतीह सृष्टि- पुष्ट्येकहेतुः सुविकासिदृष्टेः || १०० || श्रीकृष्णात्मपरानुभूतिविभवः श्रीकृष्णकौलः सुतं साहिब्कौलमसूत यं च जननी बुद्धिः प्रबुद्धिः सती | काव्ये तस्य निजात्मबोधसहजे कश्मीरविख्यातता- हेतोर्दुर्गकलावपि प्रवितता भक्तिर्नवाङ्कागमत् || १०१ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलविरचिते नामविलासे महाकाव्ये नवमी भक्तिः || ९ || दशमी भक्तिः सस्यवर्द्धिनी || ४०१ || बीजमङ्कुरतां याति पत्रादित्वं च सापि तत् | बीजत्वं यद्दयाबद्धं सा देवी सस्यवर्द्धिनी || १ || अकारा || ४०२ || भूमिव्याप्ता ब्रह्मरूपा ऋगाख्यवेदोत्पत्तिर्गार्हपत्यासना या | गर्वोऽखर्वः सर्ववर्णैकपूर्वा साकारेयं गीयते योगिनाथैः || २ || इकारा || ४०३ || अर्धा मात्रा शम्भुरूपा त्रिलोकी- मुत्क्रान्ता या शुद्धबोधासनस्था | कामाख्यापि त्यक्तकामाभिगम्या रम्येकारा सेयमाकारहीना || ३ || उकारा || ४०४ || व्याप्तव्योमा दक्षिणाग्न्यासनस्था विष्णुप्रस्था या यजुर्वेदमाता | प्. १८६) सर्वाधारः सच्चिदानन्दसारा सोकारेयं कीर्तिता मूर्तविद्भिः || ४ || ऐकाररूपिणी || ४०५ || तनोति बिन्दुहीनापि जप्ता वाग्भववैभवम् | नवं नवं सुभव्यानां देवतैकाररूपिणी || ५ || ह्रींकारी || ४०६ || जप्ता येयं शाक्तबालैकजीवो नेत्रे पद्मां पद्मवक्त्रेऽपि वाणीम् | बाधाहीनां साधकानां विधत्ते ह्रींकारीयं हृद्गता नः सदास्तु || ६ || बीजरूपा || ४०७ || मात्राङ्कुरा वर्णदला च पाद- स्कन्धा सुशाखा बहुभावपुष्पा | बोधं फलं नो वितरत्वनन्ता सा बीजरूपा निगमद्रुमस्य || ७ || क्लींकारा || ४०८ || क्लींकारेयं यस्य चित्ते स्थिता त्वं वीरेशानं मारनाराचबाणैः | विद्धा देव्यो नागकन्याश्च नार्यो नित्यं कामात् तं कथं न स्मरन्ति || ८ || प्. १८७) अम्बरवासिनी || ४०९ || अन्यान्यविषयान् भक्तदेवादिभ्यो वितीर्य सा | स्वयं निर्विषया जाने संवृत्ताम्बरवासिनी || ९ || सर्वाक्षरमयी शक्तिः || ४१० || अहन्तासम्पुटेदन्ताविलासविशदा सदा | सर्वाक्षरमयी शक्तिः स्फुरताद्धृदये मम || १० || अक्षरा || ४११ || किं वदेद् विधिरियं श्रुतिश्च किं- रूपिणी ननु भवेज्जनः कथम् | वृत्तिवानिह भवेच्च देवता नाक्षरा यदि भवेत् कृपाकरी || ११ || वर्णमालिनी || ४१२ || कथं न तन्मनो जप्ये ध्याने वास्ति स्थिरं परम् | येन सद्गुरुतो ज्ञाता शाङ्करी वर्णमालिनी || १२ || सिन्दूरारुणवक्त्रा || ४१३ || यामालोक्य विमोहान्धतमसं याति दूरतः | सिन्दूरारुणवक्त्रा सा कस्य श्लाघ्या न धीमतः || १३ || सिन्दूरतिलकप्रिया || ४१४ || मुक्ताललन्तिकं वक्त्रं सिन्दूरतिलकप्रिया | दधाना भाति शुक्रारयोगं यातो विधुर्यथा || १४ || प्. १८८) वश्या || ४१५ || गत्या मत्या दर्शनेनापि वाण्या सर्वे मोहं तस्य याता न किंचित् | ध्यायन्तीयं येन सम्यङ्महेशी वश्यावश्यं सेविता देवदेवी || १५ || वश्यबीजा || ४१६ || योगीश्वरकलां यान्ति हित्वा मायां दुरत्ययाम् | भक्ता यद्दयया सेयं वश्यबीजेति कीर्तिता || १६ || लोकवश्यविभाविनी || ४१७ || खेलति स्तोकवल्लोकैर्विशोकः स कथं सुधीः | आराधिता न येनेयं लोकवश्यविभाविनी || १७ || नृपवश्या || ४१८ || वाचैव या करोतीशं दुर्गतं तमपीश्वरम् | नृपवश्या जयत्येषा सिंहासनमहेश्वरी || १८ || नृपैः सेव्या || ४१९ || तत्तत् किमीप्सितं यद्यन्न प्राप्नोति कृती जनः | यस्येदृशी नृपैः सेव्या प्रसन्ना परमेश्वरी || १९ || नृपवश्यकरी || ४२० || नृपवश्यकरी हितास्ति यस्मै खलु तत्पादरजःकणाधिगत्यै | प्. १८९) अखिलस्पृहणीयतां गतोऽपि स्पृहयालुर्भवतीह राजराजः || २० || प्रिया || ४२१ || महिषी || ४२२ || यथा बहिर्भाति नृपः कलाभि- स्तथैव या सर्वकला निशान्ते | महेश्वरीयं महिषी दृशा मां सन्तोषकर्त्र्यानयतु प्रकाशम् || २२ || नृपमान्या || ४२३ || अगण्यपुण्यनैपुण्यो वदान्यश्च भवेज्जनः | सोऽयं यस्य प्रसन्ना त्वं नृपमान्या महेश्वरी || २३ || नृमान्या || ४२४ || असामान्यसौजन्यजन्यातिपुण्या भवेत्तस्य कीर्तिः कथं नैव याता | दिवं वा भुवं यस्य धन्यस्य देवी नृमान्या प्रसन्ना शिवा हृन्निषण्णा || २४ || नृपनन्दिनी || ४२५ || अश्वो मनुष्योऽपि गजादिको वा दाक्ष्यं प्रतिस्वं विषये प्रयातः | प्. १९०) आयाति तं नन्दयितुं क्षितीशं यच्चित्तयाता नृपनन्दिनी त्वम् || २५ || नृपधर्ममयी || ४२६ || नानावाहनसंवाह्या च्छत्रचामरलक्षणा | सदा सुखमयी जीयान्नृपधर्ममयी शिवा || २६ || धन्या || ४२७ || धन्यास्य माता स्वकुलं च धन्यं धन्याः सहाया विषयोऽपि धन्यः | धन्या च मूर्तिर्धिषणापि धन्या धन्यार्चिता येन महेश्वरी त्वम् || २७ || धनधान्यविवर्द्धिनी || ४२८ || उद्यमेन विनायाति धनं धान्यं च तस्य हि | सन्निधिं सेविता येन धनधान्यविवर्धिनी || २८ || चतुर्वर्णमयी मूर्तिः || ४२९ || उपयोग्या मिथो देवी स्वस्वलक्षणलक्षिता | चतुर्वर्णमयी मूर्तिः कीर्तनीया न कस्य सा || २९ || चतुर्वर्णैश्च पूजिता || ४३० || वेदाध्ययनभिक्षाद्यैस्त्राणाद्यैर्मां सदावतात् | व्यापाराद्यैश्च सेवाभिश्चतुर्वर्णैश्च पूजिता || ३० || प्. १९१) सर्वधर्ममयी सिद्धिः || ४३१ || निर्धर्मस्वात्मभावस्थशुद्धबुद्ध्येकसाक्षिणी | सर्वधर्ममयी सिद्धिर्भूयान्नामार्थकारिणी || ३१ || चतुराश्रमवासिनी || ४३२ || एकैकाश्रमधर्मेषु वसत्यन्यः कथंचन | अक्रमेणाद्भुता देवी चतुराश्रमवासिनी || ३२ || ब्राह्मणी || ४३३ || ब्रह्माध्येत्री ब्रह्मवक्त्रासनस्था ब्रह्मध्यानात् त्यक्तदुर्भ्रान्तितान्तिः | ब्रह्मज्ञानोल्लासिचित्ता महेशी भूयाद्भूत्यै ब्राह्मणी सर्वपूज्या || ३३ || क्षत्रिया || ४३४ || क्षतं क्षतं स्याद्दययेह यस्याः सर्वस्य खर्वत्वविनाशहेतोः | सूर्येन्दुवंशप्रविभासिनी सा मां क्षत्रिया पातु सदातुरत्वात् || ३४ || वैश्या || ४३५ || व्यापारादिकलापूर्णा सर्ववर्णैकपोषणी | वैश्यावश्यं महेशानी वश्या भवतु सर्वदा || ३५ || प्. १९२) शूद्रा || ४३६ || शिवा सेवाप्रिया शूद्रा ब्रह्मपादतलस्थिता | जयत्यभयदा वादसादहीना स्वभावतः || ३६ || अवरवर्णजा || ४३७ || ज्वलन्मुखविलोचना परिललत्पदाभ्रध्वनि- स्खलन्मुखरवाक् चलत्पदविधूतपार्श्वाचला | भ्रमद्भ्रुकुटिमञ्जरी सुविनमन्नितम्बस्थली विचाररुचिरालकास्त्ववरवर्णजा नः श्रिये || ३७ || वेदमार्गरता || ४३८ || यस्या निःश्वासतो वेदाः संजाताः सुस्फुटक्रमाः | अहो सापि स्वयं देवी वेदमार्गरता परा || ३८ || यज्ञा || ४३९ || द्रव्येण केचित्तपसापि केचित् स्वाध्यायवत्त्वेन च केचनान्ये | ज्ञानेन योगेन च यां यजन्तो गच्छन्ति सिद्धिं शिवदास्तु यज्ञा || ३९ || वेदविश्वविभाविनी || ४४० || विश्वं वेदप्रचाराय वेदो विश्वप्रवृत्तये | यया विभावितः सेयं वेदविश्वविभाविनी || ४० || प्. १९३) अस्त्रशस्त्रमयी विद्या || ४४१ || दुरवाप्यं कथं ते ते चक्रवर्तित्वमाप्नुयुः | अस्त्रशस्त्रमयी विद्या न तैश्चेत् स्याद् वशीकृता || ४१ || वरशस्त्रास्त्रधारिणी || ४४२ || कालभीहारिणी भूयाद्रणभूमिविहारिणी | आनन्दकारिणीशानी वरशस्त्रास्त्रधारिणी || ४२ || सुमेधाः || ४४३ || यदंशवित्त्येह महामतिः स्या- च्छास्त्राण्यनन्तानि तनोति तानि | एकश्चिदुल्लासकणोऽपि यस्याः सा मे सहायास्तु सदा सुमेधाः || ४३ || सत्यमेधा || ४४४ || अन्यो हि कश्चिज्जडसङ्गमाप्तो जडत्वमेत्येव सुधीयुतोऽपि | इयं तु देवी जडविश्वमध्य- गता सदाप्यस्ति हि सत्यमेधा || ४४ || भद्रकाली || ४४५ || भद्रं ध्याता नतनु तनुतेऽहंकृतिं वा तनुं या च्छिद्रं मन्दं रचयति मुधाज्ञानजातं नजातम् | रुद्राङ्कस्थापि च परिहरत्यद्भुता रौद्रभावं भक्तानां सा भवतु भविनां भद्रकाली श्रिये वः || ४५ || प्. १९४) अपराजिता || ४४६ || गोपालो विष्णुरीशोऽपि रुद्रो यद्दयया सदा | शक्रो जिष्णुश्च लोकं सा हितायास्त्वपराजिता || ४६ || गायत्री || ४४७ || ज्ञाता येन स वेत्ति सर्वनिगमान् ध्याता च येनाम्बिका ध्यायन्ति त्रिदशाः सदैव सुदशं तं कीर्तिता येन वा | कीर्तिस्तस्य पुनाति लोकमखिलं येनार्चिता वा शिवा गायत्री न च केन केन सततं के के न वार्चन्ति तम् || ४७ || सत्कृतिः || ४४८ || त्वं सत्कृतिर्यदि गता हृदि सद्दयालु- र्नाप्नोति तर्हि भुवि राज्यमशत्रुशङ्कम् | को नापि देवपतितां दिवि वाजभावं रुद्रत्वमद्भुतकलां हरितां स्वतां वा || ४८ || सन्ध्या || ४४९ || ध्यायन्ति यां द्विजवराः परहर्षपूर्ण- निश्चिन्तचित्तनगरेऽस्ति च बोधयन्ती | तान् या परात्मविषयाभ्यनुसन्धिमेषा सन्ध्येति काचन परा गदितैकसन्धैः || ४९ || सावित्री || ४५० || सूते विश्वं भेदवत्त्वं च नैव भिन्नं यद्वद् वीचिसंघं महाब्धिः | प्. १९५) अन्ते तद्वल्लीयते यत्र चैतत् सावित्री सा कीर्तिता सारविद्भिः || ५० || त्रिपदाश्रया || ४५१ || त्रिलोका भान्ति तस्याग्रे त्रिपदा इव लङ्घितुम् | येनेयं निश्चितं ज्ञाता निर्भया त्रिपदाश्रया || ५१ || त्रिसन्ध्या || ४५२ || त्रिकालास्त्रिलोकास्त्रिवेदास्त्रिदेवा- स्त्रयो वह्नयस्त्रिस्वरा यत्र चैक्यम् | प्रयान्ति स्वभावात् सदा काचिदेषा त्रिसन्ध्येति गीता हितायास्तु माता || ५२ || त्रिपदी || ४५३ || न त्वं यदि त्वमसि तत्तदसीति नाथो यां बोधयत्यतिविरक्तमतः सुशिष्यम् | आनन्दधामजननीमनणीयसी सा देवी जयत्यतितरां त्रिपदी महेशी || ५३ || धात्री || ४५४ || शङ्कातङ्ककलङ्कानां दात्री तृणवदीश्वरी | सन्धात्री बोधदुग्धस्य धात्री नः कृपयावतात् || ५४ || सुपर्वा || ४५५ || अथर्ववेदिभिः सर्वसुपर्वातृप्तये शिवा | कामनीया जयत्येषा सुपर्वाखर्वगर्वभूः || ५५ || प्. १९६) सामगायनी || ४५६ || सकलं परिमोहयत्यवश्यं सकृदुच्चारितवत्यनन्तरूपम् | स्वरसंघमसङ्गभङ्गुरं या हृदयस्था मम सामगायनी सा || ५६ || पाञ्चाली || ४५७ || यैकापि पञ्चधात्मानं पञ्चानामप्रपञ्चयत् | प्रीतये नयतु स्थैर्यं पाञ्चाली चञ्चलं मनः || ५७ || बालिका || ४५८ || बालिकेव कृतवस्त्रपुत्रिकालालनप्रकृतहर्षनिर्भृता | खेलति स्वयमिदन्त्वमागता या बलं मम करोतु बालिका || ५८ || बाला || ४५९ || या बालतर्जितमयूरकचत्कलापा स्वालापमूकलपनीकृतकाकपुष्टा | गत्यालसीकृतमरालवरा गतौ सा बाला बलाबलनिधिः परिशर्मदास्तु || ५९ || बालक्रीडा || ४६० || निरुद्वेगं निरुद्वेगं निःशङ्कं या स्थितिं गता | निष्कलङ्कं प्रसिद्धेह बालक्रीडा जयत्यसौ || ६० || सनातनी || ४६१ || प्रभवप्रमुखज्ञानशालिनी या महेश्वरी | ब्रह्मादीनां स्वयं तत्तावर्जिता सा सनातनी || ६१ || प्. १९७) गर्भाधारधरा || ४६२ || चतुरङ्गुलविस्तारा जरायुर्विततं कथम् | गर्भं दध्यान्न चेत् कुर्याद् गर्भाधारधरा दयाम् || ६२ || शून्या || ४६३ || यत्कलैका त्रिलोकीयं नानात्वरचनाचिता | शून्येति सा कथं गीता सदापूर्णा महेश्वरी || ६३ || गर्भाशयनिवासिनी || ४६४ || बाधते न क्षुधा तृष्णा न च यद्दययान्तरा | गर्भस्य दशमास्स्वेषा गर्भाशयनिवासिनी || ६४ || सुरारिघातिनी कृत्या || ४६५ || अमरा निर्जरा देवाः कथं स्युर्यदि नेश्वरी | सुरारिघातिनी कृत्या कृपया निजया भवेत् || ६५ || पूतना || ४६६ || यत्स्तन्यस्य स गोपालो जीवेन सह पानतः | बली भूत्वाहनद्दैत्यानबलः पूतनेति सा || ६६ || तिलोत्तमा || ४६७ || भालान्तरायातललल्ललन्तिका- मुक्तं मुखं भात्यभितोऽलकाकुलम् | अब्बिन्दुवत् षट्पदशोभिपद्मवद् यस्याः शिवायास्तु तिलोत्तमेति सा || ६७ || प्. १९८) लज्जा || ४६८ || कुलाङ्गनास्त्वत्सहिताः सुशोभाः शोभोज्झिता अप्यवमानिनो यत् | शोभासि किं तत् किमु वास्यशोभा लज्जा न जाने परमेश्वरी त्वम् || ६८ || रसवती || ४६९ || आपातरसदोऽप्यन्तरसदो विषमो भवः | रसमात्रावशेषः स्याच्चेत् स्याद्रसवती दया || ६९ || नन्दा || ४७० || तत्पार्श्वस्थानतस्तस्य दृष्ट्या वाचा च नन्दिताः | कथं न स्युर्जनाः सर्वे येन नन्दा समर्चिता || ७० || भवानी || ४७१ || जपन् पूजयंस्त्वां भवानीति मुख्यां भवाभावभावेषु संभावयन् वा | भवं दुर्भवं तत्क्षणाद्याति हित्वा भवत्वं नवानन्दराशिं सुचित्रम् || ७१ || पापनाशिनी || ४७२ || पापापापमयं पापं दुरापं कृपयास्ति नः | यदीयया शिवा सेयं कीर्तिता पापनाशिनी || ७२ || प्. १९९) पट्टाम्बरधरा || ४७३ || गजचर्माम्बराङ्कस्था पट्टाम्बरधरा शिवा | नीलोत्पलिन्युपासक्ता पद्मिनीव विराजते || ७३ || गीतिः || ४७४ || मृगाः खगा नागवराश्च भावं स्वीयं सुविस्मार्य समाधिभाजः | निशम्य यामेव भवन्ति यत् त- न्न कस्य गीतिः प्रियतावहास्ति || ७४ || सुगीतिः || ४७५ || रीत्योत्थानं प्रापिता भक्तवर्यै- र्भीत्यादिं या भावमन्तं नयन्ती | चित्ते दत्ते कांचिदानन्दलीलां स्फीतिं बुद्धेः सा सुगीतिर्ददातु || ७५ || ज्ञानलोचना || ४७६ || कालाध्वविप्रकृष्टत्वं प्रकृष्टानन्दिनीक्षते | मुषित्वा याखिलानर्थान् सा देवी ज्ञानलोचना || ७६ || सप्तस्वरमयी तन्त्री || ४७७ || स्वरा मनोहरा यत्र प्रत्येकं सप्तकोटिगाः | सप्तस्वरमयी तन्त्री स्वातन्त्र्यं श्रावयत्वियम् || ७७ || षड्जमध्यमधैवता || ४७८ || यादौ सप्तस्वरेष्वेका मध्ये स्फुरति धैवता | उपान्ते च मता सेयं षड्जमध्यमधैवता || ७८ || प्. २००) मूर्च्छना ग्रामसंस्थाना || ४७९ || निश्चला या त्रिधा बद्धा स्वरान् सप्त सुचञ्चलान् | विश्रामयत्यसौ ग्रामसंस्थाना मूर्च्छना मता || ७९ || स्वस्था || ४८० || परो यस्यां सदा तिष्ठत्यात्मा यस्याः परत्र च | सा देवी प्रथिता स्वस्था क्रियात् स्वस्थं मनो मम || ८० || स्वस्थानवासिनी || ४८१ || बहुत्वं यान्त्यपि स्वीयं स्थानं स्वाभासितं सितम् | न जहाति यतस्तस्माच्चितिः स्वस्थानवासिनी || ८१ || अट्टाट्टहासिनी || ४८२ || यद्धासेन दिनं रात्रिरिव चन्द्रविकासिना | शोभते क्षोभमट्टाट्टहासिनी सा व्यपोहताम् || ८२ || प्रेता || ४८३ || जाग्रत्सुप्तसुषुप्ततां स्फुटतरं यान्ती च नो याति या कौमारादिदशां गतापि विमलानन्दैव योज्जृम्भते | अन्त्यैः कर्मभिरीश्वरीं सुकृतिनो यां तर्पयन्ति ध्रुवं प्रेता प्रेतपुराभियानजमियं शोकं दहत्वद्भुता || ८३ || प्रेतासननिवासिनी || ४८४ || प्रेतनाथाः शिवोत्तुङ्गपर्यङ्कं स्तम्भवत् स्थिताः | यस्या वहन्ति सा काचित् प्रेतासननिवासिनी || ८४ || प्. २०१) नृत्तगीतप्रिया || ४८५ || हयास्यगन्धर्वसुराङ्गनाद्या आतोद्यमादाय सुतोषयन्ति | यां देवदेवीमिह नृत्तगीत- प्रिया श्रिया पोषयतु स्वया नः || ८५ || अकामा || ४८६ || यत्रैव यत्रैव मनो निमग्नं स्वस्वप्रिये शाङ्करि यस्य यस्य | तत्रैव तत्रैव च तस्य तस्य त्वत्तैव यद्भाति ततोऽस्यकामा || ८६ || तुष्टिदा || ४८७ || यद्दयावहमतिर्यथा तथा विग्रहं वहति भारवज्जनः | उज्झति क्षणत एव तं तया- प्युज्झितो हृदि सदास्तु तुष्टिदा || ८७ || पुष्टिदा || ४८८ || मीयते केन सा देवी सुधियापि शिवात्र या | केन केनासि रूपेण कस्मै कस्मै न पुष्टिदा || ८८ || अक्षया || ४८९ || स्वस्वकाले प्रयान्त्येव क्षयं यत्नयुता अपि | त्वमेवैका तु सद्रूपा स्वभावेन चिदक्षया || ८९ || प्. २०२) निष्ठा || ४६७ || वदन्तु बोधं वहवोऽपि वेद- वेदान्तपाठेन नतु स्वरूपम् | जानन्ति तावत् परहर्षसिन्धुं निष्ठा कृपां यावदियं न धत्ते || ९० || सत्यप्रिया || ४९१ || आराध्य यां सत्यसुतो नसत्यान् रिपूञ्जघानापि चचाल नैव | सत्यात् स्वकीयात् प्रथितैककीर्तिः सत्यप्रिया सा प्रियमातनोतु || ९१ || प्रज्ञा || ४९२ || यस्य यस्य प्रसन्ना त्वं प्रज्ञा परमदेवता | तस्य तस्य कथं नाज्ञां वहन्ति शिरसीतरे || ९२ || लोकेशी || ४९३ || वश्या यस्याः सन्ति देशा अशेषाः कर्तुं हर्तुं पातुमप्येकदेशम् | यातायाः सालोकमात्रेण भक्तं लोकेशी मां शोकहीनं करोतु || ९३ || सुरोत्तमा || ४९४ || स्वस्वदेशेऽष्टधा सर्गं सुराणां पाति या परा | सुरोत्तमा करोत्वेनं सर्वोत्तमगतिं जनम् || ९४ || प्. २०३) सविषा || ४९५ || दृष्ट्यैव यामृतानन्दं भक्तानां जनयत्यसौ | सविषा नाममात्रेण जाने डित्थडवित्थवत् || ९५ || ज्वालिनी || ४९६ || येनावृताक्षो न परात्मभावं वेत्त्येष तन्मोहतमः क्षणेन | निहन्ति दृष्टैव दयानिधिर्या सा ज्वालिनी कालभयं हरास्य || ९६ || ज्वाला || ४९७ || दशधा प्रविभज्यात्मस्वरूपं या त्रिवह्निषु | जाज्वलीति स्थितैकैव ज्वाला सा बलदास्तु नः || ९७ || विषमोहार्तिनाशिनी || ४९८ || अत्त्वाजाद्यसहोष्मापि यदासङ्गान्महाविषम् | मृत्युजित् पशुपः सेयं विषमोहार्तिनाशिनी || ९८ || विषारिः || ४९९ || स्वपतेर्नीलकण्ठत्वक्रिययेव समत्सरा | विषाशनेन संवृत्ता विषारिः सापि विश्वसूः || ९९ || नागदमनी || ५०० || महार्हाभूषणा स्वेन नागभूषणसङ्गतः | सलज्जेवास्ति सा नागदमनी शक्तिरैश्वरी || १०० || प्. २०४) स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | तत्काव्ये चरणादियातयमकं श्रीचन्द्रमौलिस्तवं भ्रातृत्वेन समागतेऽत्र दशमी भक्तिर्विरामं गता || १०१ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे महाकाव्ये दशमी भक्तिः || १० || एकादशी भक्तिः कुरुकुल्ला || ५०१ || कुरुकुल्ला जयत्येषा या ध्याता कुरुते जनम् | कुलाकुलपरिज्ञानदाक्षिण्यप्रथितोदयम् || १ || अमृतोद्भवा || ५०२ || भवभोगरसात्तापि जीवन्मुक्तो यदीयया | दयया भक्तवर्योऽयं सा जीयादमृतोद्भवा || २ || भूतभीतिहरा रक्षा || ५०३ || सत्यं सास्ति स्वतन्त्रा तद्भूतपाङ्गगतापि यत् | भूतभीतिहरा रक्षा स्वयं सा परमेश्वरी || ३ || भूतावेशविनाशिनी || ५०४ || सम्भूतपूर्वपुण्यानां भूतावेशविनाशिनी | भूयाद् भूतिप्रदा देवी भूताहन्तानिवारिणी || ४ || प्. २०६) रक्षोघ्नी || ५०५ || मर्त्यो रामो वानरेन्द्रैः सनाथः पौलस्त्यं तं राक्षसानां बलेशम् | अब्धिं तीर्त्वा यत्कृपातो जघान रक्षोघ्नी सा कस्य मान्या न माता || ५ || राक्षसी || ५०६ || या तानि तानि जनयत्यबला बलेश- रक्षांस्यनेकविधरूपयुतानि चैका | देवोत्तमादिविजयीनि पराधिदेवी सा राक्षसी हरतु राक्षसजं भयं नः || ६ || रात्रिः || ५०७ || या हन्त संगमयते सुसमाधिलक्ष्म्या योगेश्वरानपि च भोगधनान् प्रियाभिः | काव्यज्ञमर्थकलया पथिकप्रियाः स्वैः स्वप्नागतैः प्रियतमैः सुखदास्तु रात्रिः || ७ || दीर्घनिद्रा || ५०८ || यथा ब्रह्मतामाप्य भूयो निवृत्ति- र्भवे नो भवेज्जातुचिद्यां तथैव | मुधाजातमानादिभावैकहर्त्री शिवा दीर्घनिद्रा परानन्ददास्तु || ८ || प्. २०७) दिवागतिः || ५०९ || अर्थेषु भूयो निशि विस्मृतेषु प्रतिस्वमाप्नोति यया प्रचारम् | जनो मनस्त्राणदया दयातो दिवागतिः सास्तु शिवा गतिर्नः || ९ || चन्द्रिका || ५१० || क्षययपि प्रथितलाञ्छनोऽपि यद् ग्लौरपीह भविनां तमीप्रियः | चञ्चलोऽस्ति च तथापि चन्द्रमा- श्चन्द्रिकाश्रयभवो गुणो ह्ययम् || १० || चन्द्रकान्तिः || ५११ || रोदितीव निशि सुप्तताजितं लोकमन्तकगृहाभिसज्जितम् | स्वं च वीक्ष्य विगलत्सुधामयं चन्द्रकान्तिरिह मुद्रितात्मवाक् || ११ || सूर्यकान्तिः || ५१२ || दुष्टमेत्यपि तमः पुनः पुनः सर्वदा तव हतं मयाज्ञया | सक्रुधेति गदितेव भानुना सूर्यकान्तिरभितो ज्वलत्यसौ || १२ || प्. २०८) निशाचरी || ५१३ || मायानिशि स्वप्नगतैरलक्ष्या या लीलया कापि चरत्यसङ्गा | निशाचरीति प्रथिताद्भुता सा सदैव वो बोधयतु स्वभासा || १३ || डाकिनी || ५१४ || विकल्पसंकल्पनिदानमेत- द्धरत्यहो या हृदयं जडानाम् | अलक्ष्यचेष्टाप्यनिवार्यचर्यं दुर्लक्ष्यमेषा किल डाकिनीति || १४ || शाकिनी || ५१५ || दिगम्बरा दिक्षु वरा अजस्र- माराध्य यां यान्ति शिवत्वमीड्यम् | भूताधिवासाः कृतकर्मनाशाः सा शाकिनी नाकविहारदास्तु || १५ || शिष्या || ५१६ || सर्वे सर्वं यतोऽधीत्य गुरुतां प्राप्नुवन्त्यहो | कस्य सापि किमर्थं नु शिष्या भूता महेश्वरी || १६ || हाकिनी || ५१७ || नानौषधादिविधिमप्यधिकं विदित्वा हस्तक्रियामपि समाप्य गुरोर्न तावत् | प्. २०९) सिद्धिं रसायनभवां लभतेऽपि धीरो यावद्दयां वितनुते नहि हाकिनी सा || १७ || चक्रवाकिनी || ५१८ || मायानिशा यतो नामूं जातुचित् स्पृशतीश्वरीम् | तटेषु सर्वदा तस्माच्छोभते चक्रवाकिनी || १८ || सितासितप्रिया || ५१९ || सितासितप्रिया न स्याद्यदि भूतिसितस्य तत् | नीलकण्ठस्य देवेशी कुर्यादङ्गीकृतिं कथम् || १९ || स्वङ्गा || ५२० || चकार यानङ्गरिपुं निजाङ्गनिर्भङ्गसङ्गं श्रितकामरङ्गम् | अहो महोमूर्तिरवेक्षितैव स्वङ्गास्तु सर्वाङ्गसुपोषणीयम् || २० || सकला || ५२१ || यत आविर्भवन्त्येताः काले कालेऽखिलाः कलाः | सकला कलया पायादपायात् कालभीतिजात् || २१ || वनदेवता || ५२२ || वने वने या कुरुते विहारं सम्पूजिता मूलफलैरनल्पैः | वन्यैर्जनैर्दुष्कलिकल्मषघ्नी संकीर्तिता सा वनदेवतेति || २२ || गुरुरूपधरा || ५२३ || बाला इवाखिला लोका भवेयुः क्लेशभागिनः | क्रियासु यदि न त्वं स्या गुरुरूपधरा सदा || २३ || प्. २१०) गुर्वी || ५२४ || गुर्वादिभ्योऽपि या गुर्वी कथं तां भक्तिभागिनः | वहेयुश्चेतसा तस्या एव स्यान्न दया यदि || २४ || मृत्युः || ५२५ || केन केनास्ति रूपेण कस्य कस्यान्तकारिणी | मृत्युर्या सा शिवा देहमानमृत्युप्रदास्तु नः || २५ || मारी || ५२६ || ब्रह्मा कथं कथमपि प्रभुरद्भुतं य- दुत्पादयत्ययुगपद्युगपत् तदेतत् | या मारयत्यमरचित्न्यसमागमा सा मारीश्वरी परमतोषमिय ददातु || २६ || विशारदा || ५२७ || देहेन गेहेन च संश्रयोऽपि लक्ष्म्या नरो वीररसोद्धतोऽपि | अधीतविद्योऽपि मृगो हि ताव- द्यावत् प्रसन्ना न विशारदा त्वम् || २७ || महामारी || ५२८ || महामारी महादेवी महत्तत्त्वाद्यनात्मजाम् | नानाभिमानदुर्बाधां तुष्टा मारयतु ध्रुवम् || २८ || विनिद्रा || ५२९ || या योगिभिः पश्चिमरात्रकाले या भोगयोगैरपि पूर्वरात्रे | प्. २११) वियोगिभिर्यापि सदैव चैका संसेव्यते सास्तु हिता विनिद्रा || २९ || तन्द्रा || ५३० || तन्द्रादेवीध्याननिर्धौतपापाः सान्द्रानन्दोत्तर्जितेन्द्रादिपद्माः | मन्द्रं मन्द्रं निर्मलं नाम तस्या गायन्तस्ते साधु सन्तो जयन्ति || ३० || मृत्युविनाशिनी || ५३१ || सर्वत्र सर्वदा सार्वा सर्वथापि व्यथापहा | सतां भक्तिमतां भूयाद्देवी मृत्युविनाशिनी || ३१ || चन्द्रमण्डलसंकाशा || ५३२ || चन्द्रमण्डलसंकाशा भाति यैकाप्यनेकधा | तरङ्गेष्विव देहेषु सा शिवास्तु शिवाय नः || ३२ || चन्द्रमण्डलवासिनी || ५३३ || सर्वदापि महेशानि चन्द्रमण्डलवासिनी | निष्कलङ्का परं पूर्णा जयत्येषैव काचन || ३३ || अणिमादिगुणोपेता || ५३४ || हृदि खे पवने मह्यामहंचिज्जीवबुद्धिषु | अणिमादिगुणोपेता स्वयंसिद्धा जयत्यसौ || ३४ || प्. २१२) सुस्पृहा || ५३४ || विवर्तेत कथं ब्रह्म शुद्धबुद्धं जगत्तया | भवेस्त्वं परमेशानी सहाया सुस्पृहा न चेत् || ३५ || कामरूपिणी || ५३६ || अमराधिपताभिमान इन्द्रो हरिरेतस्य च रक्षकाभिमाने | विधिहानिमदे ययात्र केशौ विनियुक्ता अपि कामरूपिणी सा || ३६ || अष्टसिद्धिप्रदा || ५३७ || शुद्धबुद्ध्येकभक्तेभ्यो महेशानी विना हठम् | दुर्घटं सततं भूयादष्टसिद्धिप्रदात्र नः || ३७ || प्रौढा || ५३८ || स्वभावगम्भीरविचित्रचित्रकलानिधानं परमेश्वरीयम् | उपोढसर्वंसहशान्तभावा प्रौढा मनःप्रौढिकरी ममास्तु || ३८ || दुष्टदानवघातिनी || ५३९ || कानने गहने मार्गवैषम्ये निम्नगोत्तरे | स्मृता सुखकरी भूयाद् दुष्टदानघातिनी || ३९ || अनादिनिधना पुष्टिः || ५४० || अनादिनिधना पुष्टिर्जगदाद्यन्तसाक्षिणी | अनाद्यविद्यासंक्षोभहारिण्यस्तु ममेश्वरी || ४० || प्. २१३) चतुर्बाहुः || ५४१ || ऊर्ध्वं शङ्खं स्वकरकमले धारयन्त्यप्यधस्ताद् वामे चक्रं जलजनिगदे दक्षिणे च क्रमेण | खेलन्ती या प्रहरणविधौ चातुरीरीतिमाप्ता देवी भूयात् प्रकृतसुखदा सा चतुर्बाहुरेषा || ४१ || चतुर्मुखी || ५४२ || एकं परिणतं ब्रह्म चतुर्धा ब्रह्मरूपभृत् | या गायति परा तज्ज्ञैर्गीयते सा चतुर्मुखी || ४२ || चतुःसमुद्रशयना || ५४३ || यद्दयामाप्य जात्वेव शेत एकाम्बुधौ हरिः | चतुःसमुद्रशयना मीयते केन सा शिवा || ४३ || चतुर्वर्गफलप्रदा || ५४४ || संतुष्टा कृतबुद्धीनामिष्टा विविधकर्मभिः | जयत्येकैव सा देवी चतुर्वर्गफलप्रदा || ४४ || काशपुष्पप्रतीकाशा || ५४५ || काशपुष्पप्रतीकाशा काशते या महेश्वरी | चिदाकाशप्रथा सास्तु निराशत्वाभिदार्ढ्यकृत् || ४५ || शरत्कुमुदलोचना || ५४६ || यदपाङ्गाग्रयातोऽयं भवेत् सर्वाङ्गसुन्दरः | ददातु सा मुदं शुद्धां शरत्कुमुदलोचना || ४६ || प्. २१४) भूता || ५४७ || या वेद वेदं निखिलं न जातु वेदोऽपि यां वेद विदं विधिर्वा | भूतेति गीता परमेश्वरीयं ददातु भूतं सततं स्वबोधम् || ४७ || भव्या || ५४८ || संभाविता येन हृदेह भव्या भवे भवे तस्य भवेत् किमन्यत् | भव्यं स्वभावेन विघूर्णितस्य भव्यं न वानन्दरसेन पुंसः || ४८ || भविष्या || ५४९ || अधीत्य वेदानखिलानजोऽपि पुनः पुनः सोऽप्यवतीर्य विष्णुः | न शक्नुतः खेलनमत्र यस्या निर्णेतुमेषास्तु हिता भविष्या || ४९ || शैलजा || ५५० || कर्मबीजमिदमेव भूतलं श्लाघ्यमत्र च हिमाचलस्ततः | संकटाध्वविततोऽपि यच्छिवा शैलजास्ति विमलैक्यहर्षभूः || ५० || प्. २१५) शैलवासिनी || ५५१ || देवाः सर्वे ततः स्वं स्वमकार्षुः स्थानमद्रिषु | दृढं देवादिदेवी यत्स्वयं सा शैलवासिनी || ५१ || वाममार्गरता || ५५२ || क्षणाद् वशीभवन्त्यस्य योगेनापि सुदुर्लभाः | सिद्धयः सेविता येन वाममार्गरता हिता || ५२ || वामा || ५५३ || तं वामनेत्रा विहतान्यकामाः कामातुराः सामकथाविदग्धाः | भजन्ति गायन्ति च रामयन्ति वामा शिवा यस्य सदैव वामा || ५३ || शिववामाङ्गवासिनी || ५५४ || येयं देवी पराख्याता शिववामाङ्गवासिनी | सैवेह सर्वदा भाति मम सर्वाङ्गवासिनी || ५४ || वामाचारप्रिया || ५५५ || सर्वेऽन्तं यान्ति शम्भुस्तु यत्कृपातोऽन्तकान्तकः | कलौ सैव कथं पूज्या वामाचारप्रिया जडैः || ५५ || तुष्टा || ५५६ || आप्त्वापि मानवं देहं दुर्लभं सुलभं न ये | तुष्टाः स्वात्मावबोधेन ते तुष्टाकृपयोज्झिताः || ५६ || प्. २१६) लोपामुद्रा || ५५७ || बीजैर्जप्ता दशभिरतुला पञ्चमिश्रैस्तनोति तज्ज्ञानां या हृदयविशदाकाशकोशे समन्तात् | कांचिद् हर्षप्रथमलहरीकौमुदीं सेव्यते सा लोपामुद्रा कथमिह परं मुद्रितस्वान्तमर्त्यैः || ५७ || प्रबोधिनी || ५५८ || ब्रह्मादिलोकस्थितिमप्युपेक्षे देहेन मर्त्योऽपि तृणोपमं यत् | सदैव सोऽयं मम कामवन्ध्यः प्रबोधिनीध्यानभवः प्रभावः || ५८ || भूतात्मा || ५५९ || पूर्वं मध्यगतं न कोऽपि यमलं यस्या विवेक्तुं ततोऽ- प्येकानेकनिरन्तचारुरचनो भूतव्रजोऽयं स्वतः | यस्या आविरभूत् तथाप्यवितथानन्दैव यैका चिति- र्भूतात्मेति शिवा विभूतिमतुलां स्वीयां ददातु ध्रुवम् || ५९ || परमात्मा || ५६० || अतिचित्रविचित्रशास्त्रपूगं विरचययापि च शक्यते विवेक्तुम् | मुनिभिर्न हि यद्दयां विना या परमात्मेति शिवा प्रकीर्तिता सा || ६० || प्. २१७) भूतभाविविभाविनी || ५६१ || त्वमेवाद्यन्तहीना यद् भूतभाविविभाविनी | अतोऽन्यः कः सदाद्यन्तस्त्वां विभावयितुं क्षमः || ६१ || मङ्गला || ५६२ || यात्राविवाहादिषु यां प्रपूज्य निरुत्तमां सिद्धिमुदारसत्त्वाः | संप्राप्नुवन्ति प्रथितेह काचित् सा मङ्गलास्त्वस्य सदा सहाया || ६२ || सुशीला || ५६३ || संहारकर्तुः पशुपस्य भीम- रूपस्य सर्वज्ञकलाचितस्य | अपि प्रिया त्वं कथमीश्वरी स्याः स्वयं सुशीला यदि नाभविष्यः || ६३ || परमार्थप्रबोधिका || ५६४ || सदैव मे मनोगास्तु परमार्थप्रबोधिका | यदाप्त्या भ्रामकानन्यानर्थाञ् जानामि शष्पवत् || ६४ || दक्षिणा || ५६५ || ददास्यभीप्सितां सिद्धिं हेलयापि समर्चिता | यतस्ततस्ततप्रज्ञैर्दक्षिणेति प्रकीर्त्यसे || ६५ || प्. २१८) दक्षिणामूर्तिः || ५६६ || शिवाब्धिमध्यादुदयं प्रयाता- नानञ्ज या मन्त्रमणीननन्तान् | नानागमैः संस्क्रिययावतीर्णा सा दक्षिणामूर्तिरिति प्रसिद्धा || ६६ || सुदक्षिणा || ५६७ || ज्ञानेन कंचित् तपसापि कंचि- द्योगेन कंचित् क्रिययापि कंचित् | भक्त्यापि यद्रञ्जयसीह कंचित् सत्यं ततो देवि सुदक्षिणासि || ६७ || हरिप्रिया || ५६८ || नारीशतरतासक्तो हरित्वेन प्रसिद्धिभाक् | शौरिर्यद्दयया देवी कीर्तिता सा हरिप्रिया || ६८ || योगिनी || ५६९ || प्राणसंयमनतत्परा परा या हृषीकविषयापराजिता | रोगशोकविनिवर्तिताशया योगिनी सुभगयोगदास्तु सा || ६९ || योगयुक्ता || ५७० || समस्तमपि च व्यस्तमाभास्याध्यासमात्मनः | चिदानन्दैव यन्नित्यं योगयुक्ता ततः स्वतः || ७० || प्. २१९) योगाङ्गा || ५७१ || एकैकाङ्गेनैकमेकं ददाति सम्यक् सिद्धेर्वैभवं या भवानी | आपन्नानामापदन्तैकहेतुर्योगाङ्गेयं कीर्तिता योगिनाथैः || ७१ || ध्यानशालिनी || ५७२ || विशिष्टमवशिष्टं तत् किंस्वित् सुस्पष्टवैभवा | सर्वध्येयापि सर्वासि त्वं यस्य ध्यानशालिनी || ७२ || योगपट्टधरा || ५७३ || स को योगोऽस्ति नो जाने यं खिन्नेव विधाय सा | योगपट्टधरा भूता चित्रं योगेश्वरीश्वरी || ७३ || मुक्ता || ५७४ || संस्पृशन्ति कदाचिन्न त्रिगुणा यां यथा जलम् | पद्मपत्रं जयत्येषा मुक्ता निःस्पृहसंस्पृहा || ७४ || मुक्तानां परमा गतिः || ५७५ || कीदृशीयं महादेवी मुक्तानां परमा गतिः | यामगत्वैव कुत्रापि प्राप्नुवन्ति विचक्षणाः || ७५ || नारसिंही || ५७६ || एकं मृत्या परं लक्ष्म्या याकरोत् पूर्णसंगरौ | विरोध्याराधिनौ भक्तौ नारसिंहीति सा शिवा || ७६ || सुजन्मा || ५७७ || जन्माप्य रामादिरपीह यातो यत् प्राकृतत्वं भवती सती तु | प्. २२०) सदैव नैसर्गिकहर्षरूपा सर्वत्र तत् त्वं प्रथिता सुजन्मा || ७७ || त्रिवर्गफलदायिनी || ५७८ || तत् किं चित्रं गृहस्थानां त्रिवर्गफलदायिनी | यत् त्वं चित्रं महत् तत्तु मुक्तानामपि यत्तथा || ७८ || धर्मदा || ५७९ || गुणोऽपि धर्मोऽपि मतोऽपि धर्म एकं तयोर्यद् द्यसि वा ददासि | परं ततो देवि महेश्वरी त्वं सर्वस्य मान्या किल धर्मदासि || ७९ || धनदा || ५८० || धनदासि यदि त्वमीशि तादृग् धनमीशानि दयां विधाय देहि | नहि यस्य नृपादितो भयं स्या- न्नच सर्गादिषु यत् सुकष्टरूपम् || ८० || कामदा || ५८१ || सदसन्तावुभौ यत्र जयस्तत्रेति निश्चितम् | अर्धाङ्गशम्भुर्यत् त्वं च द्विधा जयसि कामदा || ८१ || प्. २२१) मोक्षदा || ५८२ || मोक्षदासि किल शैवशासने मोक्षदासि परशासनेष्वपि | सा द्विधापि मम संमतासि यत् तत् क्व सोऽस्मि सतताधिकारवान् || ८२ || द्युतिः || ५८३ || देव्यः परं भोगविनाकृतेहा नागस्त्रियो वापि भयानकाभिधाः | नार्यश्चलद्यौवनदर्पकाः स्युः काम्याः कथं चेन्न दयाकरी द्युतिः || ८३ || साक्षिणी || ५८४ || त्रिधा विधायेशमजं समस्तं व्यस्तं च जीवं कृतकाम्यलीलम् | अनेकवत् पश्यति या स्वमेकं साक्षान्निराख्या किल साक्षिणी सा || ८४ || क्षणदा || ५८५ || मायाविभिन्नात्मविदः सदैव कुकार्यसक्ताः क्षणमेककं वा | विश्राममेते कथमाप्नुयुश्चेत् कृपाकरी न क्षणदा शिवा स्याः || ८५ || प्. २२२) दक्षा || ५८६ || वह्वात्मजोऽनादरकृत् प्रजेशो दक्षोऽप्यविज्ञाततदीयशक्तिः | विधिं विधाय च्छलितस्तया यद् दक्षा तदन्या कतमा तदस्ति || ८६ || दक्षजा || ५८७ || जातमात्रैव दक्षात् त्वं तस्य स्वात्मजताकरी | न तु यस्मात् ततः सत्यं दक्षजासि जगत्प्रसूः || ८७ || कोटिरूपिणी || ५८८ || ध्यायन् ध्यायन् सदा कोटिरूपिणीति महेश्वरीम् | कोटिरूपित्वमाप्तः सन्नेकोऽस्म्यद्यापि निश्चितम् || ८८ || क्रतुः || ५८९ || यामनाहूय दक्षोऽपि क्षणेनैव विनाकृतः | अभूत् सम्भारनीव्यापि क्रतूनामपि सा क्रतुः || ८९ || कात्यायनी || ५९० || गत्या गजस्यापि गुरुत्वकर्त्री मत्यापि जीवोष्महरीश्वरीयम् | धृत्या हरिं चापि जयन्त्यपायात् कात्यायनी पातु कृतान्तसिद्धात् || ९० || प्. २२३) स्वच्छा || ५९१ || जीवन्नेव क्षीरवद् भिन्नभिन्नं जाने भावं नैव यत्तामवाप्तः | सर्वाहारोऽप्यस्म्यलेपश्च सेयं स्वच्छा तुच्छाहन्त्वहर्त्री तवास्तु || ९१ || स्वच्छन्दा || ५९२ || ऐक्यं नैक्यं साधितं वा कथाभिः कस्मिंस्तीर्थे केन मात्रा कथं वा | स्याच्चि पा रूपनामोज्झिता चेत् स्वच्छन्दा स्या नात्मनाद्वैतगम्या || ९२ || कविप्रिया || ५९३ || कवयन्ति सुवाग्विलासलास्य- क्षणलुब्धा इव भूरिशः कवित्वा | कवयितृत्वमिहास्य तु स्वसिद्धं प्रथितं यो हि कविप्रियाप्रियः स्यात् || ९३ || सत्यागमा || ५९४ || स्वैश्वर्यमात्रं प्रकटं विधातुं प्रत्येकमीशै रचिता भ्रमाय | बह्वागमास्त्वं तु सदैव सत्या- गमाऽगमं निर्भ्रममातनोषि || ९४ || प्. २२४) बहिःस्था || ५९५ || परादिरूपा कृतभेदभेदा कथं निरूप्या कृतिभिर्भवेस्त्वम् | न वैखरीरूपधरा यदा स्याः सर्वैकधाराप्रसरा बहिःस्था || ९५ || काव्यशक्तिः || ५९६ || दृष्ट्वा शास्त्राण्यपि गुरुवरादन्वहं लोकरीति- स्फीतेर्नीतिं सपदि विदितां चापि कृत्वात्मबुद्ध्या | तावज्ज्ञेयात् पदपदगतं सद्रसं तं कथंस्विद् यावन्नैषा विलसति निजे चित्तखे काव्यशक्तिः || ९६ || कवित्वदा || ५९७ || कवित्वदा त्वं किल चेत्तदा मे शास्त्रादिकाभ्यासमपास्य सम्यक् | काव्यं तदीशेश्वरि देहि यत्त- च्छ्रुत्वामनाः स्यात् सुमनोगणोऽपि || ९७ || मेनापुत्री || ५९८ || मैनाकपुत्रस्य यदाप मेना दृष्ट्वापि दूरे गमनं न दुःखम् | त्वामाप्य तृप्ता सततं हि मेना- पुत्री ततस्त्वं प्रथिताप्यजासि || ९८ || प्. २२५) सती माता || ५९९ || विधिना विहितां सृष्टिं सहेत स हरः कथम् | विलासैः स्वैः सती माता कुर्यास्तं विस्मृतं न चेत् || ९९ || मैनाकभगिनी || ६०० || शक्तिः शम्भोः प्रिया सेनापतेर्गणपतेरपि | जनस्य जननी भूयान्मैनाकभगिनी श्रिये || १०० || स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | तत्काव्ये चरणान्तयातयमकं स्वं सुप्रभातस्तवं सोदर्यं कलयत्यमुत्र विरतिं भक्तिर्भवाङ्कागमत् || १०१ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे एकादशी भक्तिः || ११ || द्वादशी भक्तिः तडित् || ६०१ || वीक्ष्य यद्रुचिमनुत्तमां क्षणं हर्षवानिव रसत्यरं पुनः | रोदितीव जलदः क्वचिद्गतां यामियं द्रढयतात् सुखं तडित् || १ || सौदामिनी || ६०२ || प्रकाशमयविग्रहा भवति हन्त सौदामिनी तमो वितनुते परं कथमियं यथा यामिनी | विलोक्य यदिमां क्षणं विरहिणी भृशं कामिनी सुतापिततरान्तरा शयनसंश्रयागामिनी || २ || स्वधामा || ६०३ || त्रैगुण्यमालिन्यहतास्त्रिदेवा भासं जगद्भासकतां गताश्च | न यान्ति यस्याः पुरतः स्वकीयां सा निर्गुणा स्वार्थकरी स्वधामा || ३ || प्. २२७) सुधामा || ६०४ || अन्योन्यमर्कादि न जातु धाम प्रयाति शोभां मिलितं कलाभिः | इयं तु सर्वाभिगता सदा य- च्छोभावहा तत् प्रथिता सुधामा || ४ || धामशालिनी || ६०५ || निष्कामो वा सकामो वा रमते स सदा सुखम् | यस्येयं कृपया भूता प्रसन्ना धामशालिनी || ५ || सौभाग्यदायिनी || ६०६ || सौभाग्यदायिनी सत्यं नतु दुष्टेन्द्रियं प्रति | सुभगोऽपि यतः सोऽयं लक्ष्यते दुर्भगो यथा || ६ || द्यौः || ६०७ || येयं देवी द्यौरिति श्रूयतेऽन्यैः सा मे कामैर्हीनचित्तस्य भाति | सर्वत्रैव ब्रह्मबुद्धिप्रसादाद् बाल्याद्यस्तं सच्छरीरं श्रितस्य || ७ || सुभगा || ६०८ || मन्मथोऽपि मनो हर्तुं सरतिर्न क्षमोऽभवत् | यस्य सोऽपि वशं नीतो यया सा सुभगेति सत् || ८ || प्. २२८) द्युतिवर्द्धिनी || ६०९ || विद्योतते जगत्सर्वं यदेकांशाभिसंश्रयात् | सदैव सा सहायास्तु देवता द्युतिवर्द्धिनी || ९ || श्रीः || ६१० || साधोर्वाक्यसुधारसे सुललनासर्वाङ्गभङ्गीततौ राज्ञां सर्वकलासु कालचरिते नानातया स्फूर्जति | सर्वेष्वेव रसेषु या रसकलाचातुर्यचिन्तामणिः सा श्रीः कांचिदुदारचित्तचरितश्लाघ्यां ददातु श्रियम् || १० || कृत्तिवसना || ६११ || महार्हाम्बरशोभाढ्या इन्द्राद्याः प्रणमन्ति याम् | सा कृत्तिवसना वासं करोतु मम मानसे || ११ || कङ्काली || ६१२ || या प्रत्यङ्गं दीपमालोद्गताभि- र्ज्वालाभिः संदग्धकालाभिरारात् | खेलन्त्युच्चैः शोभते शून्यदेशे कङ्कालीयं निर्भयं मां करोतु || १२ || कलिनाशिनी || ६१३ || अकलितसहजाशयप्रसङ्गे विदलितनिर्मलशास्त्रचारुरङ्गे | प्. २२९) कथमुत निवसेत् कलौ दुरङ्गे यदि न भवेत् कलिनाशिनीह सङ्गे || १३ || रक्तबीजवधोद्दृप्ता || ६१४ || दुर्लक्ष्यीकृतदुर्लक्ष्या प्रकृष्टविविधायुधा | रक्तबीजवधोद्दृप्ता जयत्येकैव सा द्विधा || १४ || सुतन्तुः || ६१५ || यस्यां यथोचितं प्रोतं मणिमालातुलां गतम् | अद्भुतं जगदाभाति सुतन्तुस्तनुतां मतिम् || १५ || बीजसन्ततिः || ६१६ || बीजमद्भुतकलं करोति या निष्कलं विततया स्फुरत्तया | शोभितं प्रकटितं भिदाखिलं सा श्रियेऽस्तु मम बीजसन्ततिः || १६ || जगज्जीवा || ६१७ || यया शून्यं पूर्णं भवति सहसा व्याप्तमकलं कलावद्दुर्ज्योतिर्विमलमनृतं सत्यमसुखम् | लसद्घर्षं सम्यग्जगदतिगदं दुर्विधमिदं जगज्जीवा जीवं प्रकटयतु नो ब्रह्मविषयम् || १७ || जगद्बीजा || ६१८ || स्वेच्छारसो भावफलो जगत्तरु- र्हृषीकपुष्पः प्रकटीकृतो यया | प्. २३०) चित्ताङ्कुरः कालकलाकुलो जग- द्बीजास्तु सा मे विजयप्रदा सदा || १८ || जगत्त्रयहितैषिणी || ६१९ || नानाग्राह्योपहारेण नानाग्राहकमत्र या | तर्पयत्यक्रमं सेयं जगत्त्रयहितैषिणी || १९ || चामीकररुचिः || ६२० || स्खलत्केशग्रन्थिप्रचलदमलामोदकुसुमा- वकीर्णा या लीलालयमभिगता दीप्यतितराम् | शिवा दीप्राङ्गीव श्वसनचलिता चम्पकलता न चित्तस्य स्फूर्त्यै प्रभवति न चामीकररुचिः || २० || चान्द्री साक्षया षोडशी कला || ६२१ || सर्वामङ्गलशीलोऽपि शोभां वहति शङ्करः | ययैषास्तु हिता चान्द्री साक्षया षोडशी कला || २१ || यत्तत्पदानुबन्धा || ६२२ || ख्यातानुभूतप्रकृतार्थगम्या या सर्वशास्त्रेषु विलासरम्या | विराजते ब्रह्ममयीव यत्तत्पदानुबन्धा जयतीह बुद्धिः || २२ || यक्षिणी || ६२३ || बालातपप्रकरसंकररोचमान- कैलासमानससरोजवचायलोला | वक्त्रारविन्दतुलयेव विनिर्मितेर्ष्या यक्षादिदोषमकृशं हर यक्षिणी त्वम् || २३ || प्. २३१) धनदार्चिता || ६२४ || यत्प्रसादात् कुबेरोऽपि यक्षेशोऽपि धनाधिपः | अस्ति त्र्यम्बकसन्मित्रं सैव त्वं धनदार्चिता || २४ || चित्रिणी || ६२५ || चित्रं चित्रं तद्विचित्रं पवित्रं नृत्तं दृष्ट्या(ष्ट्वा) नोविगीतं च गीतम् | श्रुत्वा लोको चित्रचित्तप्रवृत्ति- र्यस्या मित्रं चित्रिणीहास्तु सास्य || २५ || चित्रमाया || ६२६ || संसारमेष क्षणदृष्टनष्टं निर्णीय निर्णीय तथापि चित्रम् | मित्रं न मित्रं च करोति मोहं प्राप्तो यया सा किल चित्रमाया || २६ || विचित्रा || ६२७ || नावाभावेषु या नानातनुस्तिष्ठत्यसंकरम् | तथापि भात्यनानैव विचित्रास्तु हिताय वः || २७ || भुवनेश्वरी || ६२८ || तन्त्रमन्त्रहृदयं दयानिधिर्या न्ययुङ्क्त भुवनानि चित्रया | चेष्टया बहुषु यापि केवलं राजतेऽत्र भुवनेश्वरीति सा || २८ || प्. २३२) चामुण्डा || ६२९ || कृत्तस्याङ्गस्यालये वीक्ष्य यस्या भूयो वागाख्यस्य सम्यक्प्ररोहम् | को नाश्चर्यं वा चमत्कारमेति चामुण्डा सा रक्षतान्मामघौघात् || २९ || मुण्डहस्ता || ६३० || मुण्डप्रयोगसंलक्ष्या मुण्डमालाकुलस्तनी | सा मुण्डकुण्डला भूयाद् मुण्डहस्तास्तनाशिनी || ३० || चण्डमुण्डबधोद्धुरा || ६३१ || अखण्डभावनैः सम्यक्सेविताखण्डलादिभिः | ब्रह्माण्डस्थितिकृज्जीयाच्चण्डमुण्डवधोद्धुरा || ३१ || अष्टमी || ६३२ || अष्टसप्ततिथिमध्यरत्नतामागताष्टकलचन्द्रराजिता | अष्टशक्तिमयविग्रहा ग्रहैरष्टमी जयति पूजिताष्टभिः || ३२ || एकादशी || ६३३ || एकं दशापि प्रबलेन्द्रियाणि ध्यानाद्यदीयाद्दशतां त्यजन्ति | एकैव सेयं दशदिक्पतीनामेकादशी काचन पूजनीया || ३३ || पूर्णा || ६३४ || या पूर्णचन्द्रप्रभवामृतेन संघूर्णितांस्तान् सुमनःसमूहान् | प्. २३३) निमेषमात्रेऽपि कृतावहेलान् करोति पूर्णास्तु हिताय तूर्णम् || ३४ || नवमी || ६३५ || गुप्ता द्विधापि प्रकटा द्विधापि न वामबोधेन विनास्ति पूज्या | या वैभवं मे नवतोषितेयं नवं नवं सा नवमी करोतु || ३५ || चतुर्दशी || ६३६ || चतुर्दशानि या व्याप्य भुवनानि विराजते | चतुर्दशतयीं विद्यां सा ददातु चतुर्दशी || ३६ || अमा || ६३७ || जातो मनस्तः पुरुषस्य सोमः पुनर्मनस्येव लयं जनानाम् | प्रयाति यस्यां परदेवतेयममा शमारामकरी ममास्तु || ३७ || कलशहस्ता || ६३८ || सकलं स्वकलाभिर्या तर्पयत्यक्रमं जगत् | कृच्छ्रे कलशहस्तेयं देयाद्धस्तावलम्बनम् || ३८ || पूर्णकुम्भधरा || ६३९ || संसारकल्पवृक्षोऽयं परं सरसभास्वरः | यत्सेकदानात् सततं पूर्णकुम्भधरेति सा || ३९ || प्. २३४) धरा || ६४० || सुदुर्धरेणाम्बुधरेण सिक्ता या भास्करोस्रप्रतिभासरक्ता | स्नाताङ्गरागारुणिताङ्गनेव विभाति सेयं कथिता धरेति || ४० || अभीरुः || ६४१ || या वर्तते निगमकिङ्करतां विहाय स्वातन्त्र्यबद्धनिगमप्रसरप्रवृत्ता | शीघ्रं फलं विदधती विविधं विवृद्धं साभीरुरस्य हरतां वत भीरुभावम् || ४१ || भैरवी || ६४२ || स्वैरचारनिरता रतातुरा मद्यमांसरसलम्पटाधरा | अट्टहासचतुरास्यदन्तुरा भैरवी हरतु वैरिजं दरम् || ४२ || भीमा || ६४३ || सीमन्तबद्धसितभोगिविमिश्रवेणि यन्मस्तकं सुरनदीव विभाति सद्यः | नद्यार्यमात्मजनुषा प्रविभक्तसीमा भीमास्तु भीमदयिता मयि सौम्यदृष्टिः || ४३ || भीरा || ६४४ || गम्भीरवीरवरतारणभारधीरा या केरलीकुतुककेलिकलापरापि | प्. २३५) शर्मश्रिया भयहतौ चतुरा परेषां भीरास्ति सा स्वयमहो धृतसीरशस्त्रा || ४४ || त्रिपुरभैरवी || ६४५ || बालसूर्यकिरणारुणाम्बरा नीलकैरवललद्विलोचना | संनिधावलकशृङ्खलोज्ज्वला देवता त्रिपुरभैरवीह नः || ४५ || महारुण्डा || ६४६ || तमोगुणमयी हृत्वा सकलं वादयन्त्यपि | नृत्यन्ती च स्वयं काचित् महारुण्डा जयत्यसौ || ४६ || रौद्री || ६४७ || सर्वस्य सर्वस्य च सर्वथैव सर्वत्र सर्वेप्सितदा सदापि | कथं नु गीता परमेश्वरीयं रौद्रीति नाम्ना परसौम्यभावा || ४७ || महाभैरवपूजिता || ६४८ || महामांसरसक्षीवा महानीलशिलारुचिः | महाशान्तिप्रदा भूयान्महाभैरवपूजिता || ४८ || निर्मुण्डा || ६४९ || नृत्यन्तीं यां वीक्ष्य संख्यप्रदेशे केचिन्मोहं यान्ति केचिच्च नाकम् | केचिन्मिथ्यामृत्युमेव श्वसन्तो निर्मुण्डा मां वक्रतुण्डं यथाव्यात् || ४९ || प्. २३६) हस्तिनी || ६५० || अस्तव्यस्तसमस्तदुर्नयकला सारज्ञया प्रज्ञया विध्वस्ताखिलकार्यदिष्टविषयोद्भेदप्रभेदोन्मदा | व्यस्तप्रस्तरदुस्तरस्तनयुगाभोगातिभोगातुरा भूयाद्धस्तिलसत्सुमस्तकतला स्वस्तिप्रदा हस्तिनी || ५० || चण्डा || ६५१ || सर्वोत्तमानन्दकलादिबीजं चण्डेति गीतासि कथंनु किंवा | रुद्रस्य सङ्गात्किमु दक्षयज्ञ- नाशेन किंवार्थविलोमनाम्ना || ५१ || करालदशनानना || ६५२ || शवमांसासृगस्थ्नां या रसचर्वणलम्पटा | पितृकाननगा जीयात् करालदशनानना || ५२ || कराला || ६५३ || यां वीक्ष्य भीतवदजः पिदधौ स्वमब्जे जानेऽर्णवेऽर्णवजनूरमणोऽपि वासम् | निर्माति सोऽपि हरिदन्तचरः सुनग्नः शूली जयत्यतितरामिह सा कराला || ५३ || विकराला || ६५४ || शवमांसरसोन्मदाट्टहासैर्विदितात्मप्रचरा चराचराणाम् | भयहेतुरलं लयं श्रयन्ती विकराला कलिजं मलं हरास्य || ५४ || प्. २३७) घोरघुर्घुरनादिनी || ६५५ || अहं विलासिनीशोऽयं ध्यानभाक् किमकालवित् | इतीव रोषतो देवी घोरघुर्घुरनादिनी || ५५ || रक्तदन्ता || ६५६ || तारुण्यारुण्यमालोक्य सर्वगात्रेषु संस्फुरत् | रक्तदन्तापि सा भूता स्पर्धयेव तदर्थिता || ५६ || ऊर्ध्वकेशी || ६५७ || हरोर्ध्वाङ्गगङ्गातरङ्गानुषक्ता यदर्धाङ्गवेणी सुकान्तिं दधाति | न भूतां तमिस्रान्ययोः सङ्गभाजो- र्मिथः केशभूतिप्रदास्तूर्ध्वकेशी || ५७ || बन्धूककुसुमारुणा || ६५८ || संस्तुतारुणसूतेन महार्हारुणभूषणा | क्षणदास्तु भवभ्रान्तेर्बन्धूककुसुमारुणा || ५८ || कादम्बरी || ६५९ || सरस्वतीवान्तरनीरपूरं सरस्वतीवान्तररागरूपम् | कादम्बरी सा विषयेऽन्तरस्थं हर्षं स्वकीयं प्रकटीकरोतु || ५९ || पटासा || ६६० || निराभासं च यद्भासा भासितं भुवनत्रयम् | सन्मानसकृतावासा पटासा सा दहत्वघम् || ६० || प्. २३८) काश्मीरी || ६६१ || यामाराध्यातनुत मतिमान् कश्यपो वश्यभूति- र्भूमेर्देशं प्रतिनिधिमिवोत्तुङ्गतीर्थैकरङ्गम् | तुङ्गत्तुङ्गद्विषमशिखरिख्यातसम्यक्समत्वं काश्मीरी मां सुखयतु सुपूर्णैकवासानुभूत्या || ६१ || कुङ्कुमप्रिया || ६६२ || इतरानवधीर्य सूनराशीन् मदनारिं परिकुण्ठितान्निहन्तुम् | अवलोक्य तु कुङ्कुमं बहिःस्थं क्षतरक्तं किमु कुङ्कुमप्रिया सा || ६२ || क्षान्तिः || ६६३ || नोद्योगिता न प्रभुता न वा गी- र्न धीस्तथा सौख्यनिमित्तमत्र | यथा नितान्तं प्रकटीकृतेयं क्षान्तिः क्षतभ्रान्तिभिरीडनीया || ६३ || बहुसुवर्णा || ६६४ || सत्यं बहुसुवर्णासि वसन्त्यपि गृहे यतः | सर्वामङ्गलशीलस्य भिक्षोः सत्सर्वमङ्गला || ६४ || रतिः || ६६५ || न जितो मदनेनापि सदा सरतिनापि यः | अधीनः सोऽपि भूतेशो यस्याः सा हि रते रतिः || ६५ || प्. २३९) बहुसुवर्णदा || ६६६ || अन्येभ्यः प्रार्थितैवेयं यतो बहुसुवर्णदा | अपर्णापि ततः सत्यं भूता स्वयमिहेश्वरी || ६६ || मातङ्गिनी || ६६७ || स्वकीयमूर्ध्ना रहितोऽपि यस्या हस्तीन्द्रमूर्ध्ना परियोजितोऽहो | जीवन् दयां प्राप्य स विघ्ननाथो मातङ्गिनी भङ्गहरी भवेऽस्तु || ६७ || वरारोहा || ६६८ || धरित्रीशानत्वं निखिलमतिहीनप्रतिभयं शरीरं नीरोगं सुविततयशःसुन्दरतरम् | विचित्रा वाक्स्फूर्तिर्धृतिमतिमुखो वा गुणगणो वरारोहासेवाशतशतकलां नार्हति कलाम् || ६८ || मत्तमातङ्गगामिनी || ६६९ || सुमुखी सेविता येन मत्तमातङ्गगामिनी | न तस्य चित्तवृत्तिः स्यादन्यभावाभिगामिनी || ६९ || हिंसा || ६७० || वेदाज्ञया यां विरचयय तज्ज्ञा यज्ञेषु सिद्धिं प्रतियान्ति काम्याम् | यत्कर्तृकर्मत्वगताश्च संख्ये जयाव्यये सास्तु हिताय हिंसा || ७० || प्. २४०) हंसगतिः || ६७१ || इयं हंसगतिर्येन सेविता तधृदि स्वयम् | भवेद्धंसगतिः सम्यक् सदा स्थिरतरा परा || ७१ || हंसी || ६७२ || हंसगा हंसगा हंसज्ञानदा हंसजिन्मुखा | हंसजप्यमयी हंसी हंसभावं ददाउ वः || ७२ || हंसोज्ज्वलशिरोरुहा || ६७३ || सहंसचिह्नसद्भूषा हंससुन्दरकूजिता | मानसे भातु भक्तानां हंसोज्ज्वलशिरोरुहा || ७३ || पूर्णचन्द्रमुखी || ६७४ || सीमन्तसिन्दूरकचत्तडित्वत्सुकेशपर्जन्यनिरुद्धमुक्तः | यदास्यमिन्दुः किमु पूर्णचन्द्रमुखी पुरो हर्षकरी सदास्तु || ७४ || श्यामा || ६७५ || सितान्धकारं वितनोत्यपूर्वं श्यामेव रात्रिः किमियं तदीशी | दृष्टैव साधोर्यदलं विधत्ते श्यामेह नेत्रान्ध्यमनन्यगत्वात् || ७५ || स्मितास्या || ६७६ || अर्धाङ्गशम्भोः परिपूरणाय शिरोविधोरेककलस्य देवी | या षोडशांशेन्दुजिघ(घी)र्षयेव स्मितं विधत्तेऽस्तु हिता स्मितास्या || ७६ || प्. २४१) श्यामकुण्डला || ६७७ || यन्मुखं कुण्दलाश्लिष्टं भाति सालकपत्रकम् | सभृङ्गद्वयभूम्यब्जमिव सा श्यामकुण्डला || ७७ || मषी || ६७८ || यदा त्वं भवानी स्वयं देवदेवी मषी स्या विनाशोज्झिता सिन्धुपात्रे | लिखन्ती च नित्यं त्वमेव प्रकृष्टा- स्तदापि त्वदीया गुणाः पारहीनाः || ७८ || लेखिनी || ६७९ || आगमाश्च निगमा यया पुरा चित्रिता मुनिवरैः स्वयम्भुवः | आज्ञयात्र जगतः प्रवृत्तये मुक्तये च सुखदास्तु लेखिनी || ७९ || लेख्या || ६८० || केन केन न रूपेण कुत्र कुत्रासि दर्शने | लेख्याऽलेख्ये च भूतानां नानाशासनपट्टके || ८० || सुलेखा || ६८१ || दृष्ट्वैव यां स्वाभिमतैर्विसृष्टां सर्वोऽपि जन्मेह सुलेखभागि | वेद प्रसन्नान्तरवक्त्रनेत्रो मययस्तु सा स्वार्थकरी सुलेखा || ८१ || प्. २४२) लेखकप्रिया || ६८२ || तेनाक्षराणि संलोक्य चित्रितानीह चित्रिताः | भवन्तीह जना यस्य प्रसन्ना लेखकप्रिया || ८२ || शङ्खिनी || ६८३ || असंख्यसंख्येषु तनुः स्वकीया येनेह सम्यग्न हुता कथं नु | शङ्खोज्ज्वलाकारवरा परेयं संसेव्यते तेन हि शङ्खिनी सा || ८३ || शङ्खहस्ता || ६८४ || या पाञ्चजन्येन तनोति देव- दत्तेन हर्षं वसुदेवसूनोः | कृष्णस्य कृष्णस्य तथार्जुनस्य सा शङ्खहस्ता कुरु हस्तलम्बम् || ८४ || जलस्था || ६८५ || जलं चञ्चलं निम्नमार्गेण गच्छ- द्रसं सत्त्वसङ्घैः परं दूषितं च | तथापीह यज्जीवनं तज्जलस्था- सदासन्निधेः कोऽपि भावानुभावः || ८५ || जलदेवता || ६८६ || अपि पङ्कगतं जलान्तराला- दपि निर्गच्छदपि क्षपासु यच्च | प्. २४३) सततान्धमपीन्दिरैकवासं कमलं तज्जलदेवताप्रसादः || ८६ || कुरुक्षेत्रावनिः || ६८७ || यत्र चित्रभटां कृष्णौ सेनामजयतां सुखम् | कौरवाणां कुरुक्षेत्रावनिर्मामवताद् भयात् || ८७ || काशी || ६८८ || भिक्षुत्वं वितनोति यत्र वसतः श्रीविश्वनाथः शिवो मृत्वा यत्र पुनर्भवं न लभतेऽपूर्वं भवत्वं श्रितः | या सर्गान्तकलैकसाक्ष्यविषयः सर्वप्रकाशा स्वतः सा काशी परिकाशते मम हृदाकाशे सदा निर्भिदा || ८८ || मथुरा || ६८९ || अजोऽपि यामास्थितयोः स जातः कृष्णोऽपि कार्ष्ण्यं हृतवान् स्वपित्रोः | चकार चित्तं चलितोऽपि सद्यः स्थिरं रसश्रीर्मथुरास्ति कापि || ८९ || काञ्ची || ६९० || न्यञ्चन्न्यञ्चदुदञ्चितभ्रुलतिका रामा विपञ्चीस्वनाः किञ्चित्किञ्चिदपाङ्गरङ्गवलनासङ्क्रान्तकर्णा जनुः | दृष्ट्वा वेद न वञ्चितं रससुधानन्देन मन्दस्मिता यस्यां काञ्चन काञ्चनाद्रिविषयां काञ्ची ददातु श्रियम् || ९० || प्. २४४) अवन्तिका || ६९१ || किं संबोधनमच्युतस्य कतमं बीजं सुधासूचकं लड्जः प्रत्यय आद्य एकवचने पुंस्यस्ति कोऽनात्मने | स्पर्शादेर्यममात्रकस्य कतमं रूपं च मोक्षप्रदा का पूर्भास्करयानमध्यविषया संराजतेऽवन्तिका || ९१ || (अन्तर्लापिकेयम्) अयोध्या || ६९२ || सर्वेऽन्तकाले रघुनन्दनस्य प्रत्येकमन्तस्त्वरया सरयवाः | निमज्जितुं यत्र मिथो बभूवु- र्योध्या जनाः सास्ति च काप्ययोध्या || ९२ || द्वारका || ६९३ || हर्षोत्कर्षाय शौरेरभयभवकरी भक्तितः काप्यपूर्वं किंचित्कालं बभूव प्रकटितविषयाद्यन्तगुप्तेव बीजम् | सर्वासां सत्पुरीणां त्रिदशवनभुवां मोक्षरूपं लतानां या दृष्टा वापि गुप्तेव भवति मनसः स्पन्दनाद् द्वारका सा || ९३ || माया || ६९४ || मीयते केन सा माया मायां यद्वासिनो जनाः | हित्वा भवन्ति सद्बोधा विष्णुमायेश्वराः स्वयम् || ९४ || तीर्था || ६९५ || आचार्ये वा जीवने दर्शने वा भक्ताः स्नाताः चर्चिता एव यस्याः | प्. २४५) नामख्याते तीर्थ्यतां यान्ति काचि- त्तीर्थ्यानां सा केन तीर्था न तीर्थ्या || ९५ || तीर्थकरप्रिया || ६९६ || दुर्गेष्वगेष्वप्यतिदुस्तरेषु नीरेष्वरण्येषु च दस्युसत्त्वैः | रुद्धेषु पारं कथमीयुरेते न चेद्धिता तीर्थकरप्रिया स्यात् || ९६ || त्रिपुष्करा || ६९७ || पुष्करध्वनिवितीर्णमानसा पुष्करोद्गतकरा परापरा | पुष्करे हृदि ममात्र भासतां पुष्करासनगता त्रिपुष्करा || ९७ || अप्रमेया || ६९८ || भूतत्वं नास्तिकानां विदि सुगतमते चञ्चलज्ञानभावं जैने जीवादिवादं नवविषयतयं तत्त्वसंख्यं च सांख्ये | मीमांसायां च कर्मत्वमपि कणभुजो दर्शने षट्पदाथ- भावं या याति चैक्यं श्रुतिशिरसि परं सा प्रमेयाऽप्रमेया || ९८ || कोशस्था || ६९९ || वैश्वानरेण चौरेण राज्ञा वान्येन तद्धने | लोष्टवत् क्रियते दृष्टिः कोशस्था येन पूजिता || ९९ || कोशवासिनी || ७०० || यत्प्रसादात् कुबेरोऽपि हरोपान्तेऽपि शक्तिमान् | राजराजो धनेशोऽस्तु मद्गृहे कोशवासिनी || १०० || प्. २४६) स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इतिप्रथावति पदे निर्माति यः स्मासनम् | काव्ये तस्य सहोदरेऽत्र विवृतेर्गीतानुसारं प्रति भान्त्या नामविलासनाम्नि विरतिं भक्तिर्गता द्वादशी || १०१ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे द्वादशी भक्तिः || १२ || त्रयोदशी भक्तिः कौशिकी || ७०१ || यत्प्रसादमधिगत्य कौशिकः स्वेच्छया व्यतनुतापरं | कौशिकादिभयहेतुमद्भुतं सर्गसूर्यमियमेव कौशिकी || १ || कुशावर्ता || ७०२ || विशालैर्भूरिशालैर्यालयैर्वाराङ्गनालयैः | सुखदाऽसुखदा सैषा कुशावर्ता पुरीश्वरी || २ || कौशाम्बी || ७०३ || कुशोऽकार्श्यमदुर्दर्शो वैरिभिः स्वैरतोऽशिषत् | यस्यां राज्यमियं भूयात् कौशाम्बी कौशलप्रदा || ३ || कोशवर्द्धिनी || ७०४ || यद्गर्ध्यन्यः क्षणं जीवन् संचयी तन्मुधा त्वियम् | निर्नाशा सर्वदा स्थाने गर्धिनी कोशवर्द्धिनी || ४ || कोशदा || ७०५ || ददासीश्वरी यत् सदा भोगयोग्यं सुकोशं विशोकत्वदं वीतदोषम् | प्. २४८) बहिर्यद् द्यसि त्वं परं वान्तरस्माद् द्विधा कोशदा रोषदा सा जयन्ती || ५ || पद्मकोशाक्षी || ७०६ || यत्कटाक्षरसास्वादचतुरो हरषत्पदः | महेशी पद्मकोशाक्षी ममाक्षिविषयेऽस्तु सा || ६ || कुसुमा || ७०७ || नानाकृतिर्गन्धविजृम्भिताशा विकाशते षडृतुसंश्रया या | लताधिदेवीपरिसेवनीया स्वरूपदा सा कुसुमा ममास्तु || ७ || कुसुमप्रिया || ७०८ || कुसुमानि न कस्येह प्रियाणि तदियं यतः | स्वयं सर्वप्रिया सापि परमा कुसुमप्रिया || ८ || तोतुला || ७०९ || या कुलाकुलतुलास्थली तुला- स्वामिनिर्मलसमाहितस्तुतिः | बालपल्लवललत्कराधरा तोतुलातुलकला कलास्तु सा || ९ || तुलाकोटिः || ७१० || यद्ध्यानशिक्षार्थमिवेह मानसे स्नात्वापि हंसा बिसखण्डवृत्तयः | भूताः सिता नैव तु शब्दवेदिनो देयात् तुलाकोटिरियं तुलां निजाम् || १० || प्. २४९) कूटस्था || ७११ || विचित्रामपि निर्माय सृष्टिं तत्कर्मणा न या | लिप्यते जातुचित् काचित् कूटस्था चिन्मयीह सा || ११ || कोटराश्रया || ७१२ || निशासु या गोपितसुस्वरूपतो भातीश्वरी निःश्रुतिवेद्यतां गता | हृत्कोटरं भूषय देवि कोटरा- श्रया श्रिया नित्यनिजासनेद्धया || १२ || स्वयम्भूः || ७१३ || अभूः शम्भुरम्भोजभूर्वा प्रभाव- स्वभावानुभावप्रभामप्यभूताः | यदीयां प्रमातुं गुणाभावितां तां कथं सा स्वयम्भूर्जडैर्न्याययभाव्या || १३ || सुरूपा || ७१४ || यथा तथा यत्र कुत्र स्थिता या प्रसभं मनः | जनस्य हरते सैव सुरूपेति निरूपिता || १४ || स्वरूपा || ७१५ || कृत्वा स्वतः सर्गविभागयोगं स्वयं प्रवेशं च तदन्तरापि | परात् स्वरूपान्न कदापि यस्मा- च्चलत्यतः सा हि सदा स्वरूपा || १५ || प्. २५०) रूपवर्द्धिनी || ७१६ || सृष्टोऽपि विधिना तावत् कथं स्याद्रूपभाग्जनः | यावन्नेयं प्रसन्ना स्यान्नीरूपा रूपवर्द्धिनी || १६ || तेजस्विनी || ७१७ || येनापि केनापि युतं तदीयं वर्णेन दृष्ट्वैव मुखं न को वा | स्खलत्यपि प्राप्तबलात् स्वधैर्या- त्तेजस्विनी यस्य सदा प्रसन्ना || १७ || सुभिक्षा || ७१८ || यद्धीनकाले तनुजं च हित्वा पश्यन्तमत्त्येव न चेत्सुभिक्षा | सा त्वं भवेः कापि सदा सहाया कः स्यात्तदा दातृकलाबलज्ञः || १८ || बलदा || ७१९ || पवनो वाति निष्पादोऽप्यश्रान्तं यद्दयाश्रयात् | सर्वत्र बलदा सास्तु स्वातन्त्र्यबलदा सदा || १९ || बलदायिनी || ७२० || प्रबलबलविलासशालिनोऽपि हरिहयहस्तिमुखान् करोति वश्ये | अधिगतसुदयो यतोऽपि मर्त्यो भवतु सदा बलदायिनी विनेत्री || २० || प्. २५१) महाकोशी || ७२१ || अन्यकोशी ददातीह वसु स्थापितमेव वा | देवी त्वेषा महाकोशी ददात्युत्पादयत्यपि || २१ || महावर्ता || ७२२ || एकभागेऽपि यन्नाभेर्भातीदं निखिलं जगत् | अन्तेऽसंबाधमेवास्तु महावर्ता महत्त्वदा || २२ || बुद्धिः सदसदात्मिका || ७२३ || ज्ञानाज्ञानविलासेद्धं यया भासितमद्भुतम् | इदं साहं स्वयंसिद्धिर्बुद्धिः सदसदात्मिका || २३ || महाग्रहहरा || ७२४ || अपि दुर्निग्रहैर्नाम ग्राहकः पीड्यते ग्रहैः | कदापि नाग्रहो यस्या महाग्रहहरास्ति सा || २४ || सौम्या || ७२५ || सौम्येति या नोपमिताभिधामा नौम्याविराविष्कृतभक्तिसिक्तः | उमां समां तां करशोभिसोमां सोमाननां सोमकलावतंसाम् || २५ || विशोका || ७२६ || लोकस्य शोकः परिलोक्य एव स्वतो द्वितीयप्रियवस्तुनष्टेः | आलोक आत्मातिगतं न यत्सा विलोकयत्येतदतो विशोका || २६ || प्. २५२) शोकनाशिनी || ७२७ || सुविततनिजलोकहर्षतृप्तः स सततशोकमयेऽपि लोककोशे | कथमिह न भवेद् वसन् सहाया- निशमिह यस्य हि शोकनाशिनी त्वम् || २७ || सात्त्विकी || ७२८ || याति तातपदवीं समाततां भातबालवपुषाप्युपागतः | सर्वसातकरसन्मतक्रमश्चेतसि स्फुरति यस्य सात्त्विकी || २८ || सत्त्वसंस्था || ७२९ || सृष्टं सुविषमं स्रष्ट्रा पातीदं सात्त्वतां पतिः | समं यद्दयया सत्त्वं सत्त्वसंस्था ददातु सा || २९ || राजसी || ७३० || सृजत्येतां जगद्राजिं प्राज्यो यद्भजनादजः | पूज्यत्वं राजराजानां राजसीयं ददातु नः || ३० || रजोवृता || ७३१ || नीरजस्कः सदोजस्को भवेद्यद्भजनाज्जनः | क्षणाभ्यस्तात् सदा सापि चित्रं स्वेन रजोवृता || ३१ || तामसी || ७३२ || ते ते हता दैत्यवरा ययापि शेषेव सा चक्रकठोरकोटिः | यत्स्वा रवेः कण्ठतटे पपात स तामसीध्यानभवोऽनुभावः || ३२ || प्. २५३) तमोयुक्ता || ७३३ || स्थाणुः पशुपतिः शूली स्वयं सर्वं हरत्यपि | बलं यस्याः समादाय तमोयुक्तास्ति सा शिवा || ३३ || गुणत्रयविभाविनी || ७३४ || त्रिदेवी यद्गुणान् वीक्ष्य वेत्ति स्वस्मिन् गुणप्रथाम् | निर्गुणापि स्वलीलायै गुणत्रयविभाविनी || ३४ || अव्यक्ता || ७३५ || सर्वदर्शि यथा चक्षुः स्वरूपं नैव पश्यति | तथा तज्ज्ञगताप्यज्ञगताऽव्यक्ता जयत्यसौ || ३५ || व्यक्तरूपा || ७३६ || उन्मेषनिःशेषकलाबलेन या व्यक्ततां याति जगत्तयेह | सा व्यक्तरूपाह्वयरूपरूप्या व्यनक्तु रूपं रसराजरम्यम् || ३६ || वेदविद्या || ७३७ || परापरत्वेन विभाति काचित् प्रवृत्तितद्व्यत्ययसिद्धिहेतुः | यैकैव निःशेषविशेषशेषा स्वान्ते सतां सिद्ध्यतु वेदविद्या || ३७ || शाम्भवी || ७३८ || यान्तर्दृश्या बहिरपि सदा निर्निमेषस्वदृष्टि- श्चित्रं चित्रं ग्रथयति हतग्रन्थिवृत्तिप्रवृत्तेः | प्. २५४) तारं तारं कलयति ययाभ्यस्तया तारकं तं संसाराब्धेर्भवतु भवतां भूतये शाम्भवीयम् || ३८ || शङ्कराकल्पिनी कल्पा || ७३९ || कल्पं क्षणं कथं वेद्यात् कल्पेत च हरो न सः | शङ्कराकल्पिनी कल्पा सदाङ्गस्था न चेद् भवेत् || ३९ || मनःसंकल्पसन्ततिः || ७४० || केन केन न रूपेण कस्य कस्य न भासते | सन्ततं हन्त विश्रान्त्यै मनःसंकल्पसन्ततिः || ४० || सर्वलोकमयी शक्तिः || ७४१ || लोकलोकसमालोकभावं याता विलोक्यते | सर्वलोकमयी शक्तिरेकालौकिकलोचनैः || ४१ || सर्वश्रवणगोचरा || ७४२ || यज्जनस्य भवेद् बुद्धिः सर्वश्रवणगोचरा | चराचरचरा सैव सर्वश्रवणगोचरा || ४२ || सर्वज्ञानवती वाञ्छा || ७४३ || सर्वज्ञानवती वाञ्छा भाति यद्धृदयाम्बरे | जीवन्नपि स निर्मुक्तः क्लेशपाशाकृशग्रहात् || ४३ || सर्वतत्त्वानुबोधिनी || ७४४ || प्रापयय सर्वतत्त्वानि चिन्मात्रे केवले परे | तत्त्वे हृष्यति यद्भक्तः सर्वत्त्वावबोधिनी || ४४ || प्. २५५) जाग्रती || ७४५ || विश्ववैश्वानरावत्तः सुस्थूलान् विषयान् यया | जाग्रती सा खगेशानप्रभा जागर्तु हृद्दिवि || ४५ || सुषुप्तिः || ७४६ || संचेत्यसंकल्पविलासभासा शून्यो यया तिष्ठति पूर्णतुष्टिः | प्राज्ञो महेशोऽपि सुषुप्तिरेषा भात्यप्यहो मे व्यवहारभूमौ || ४६ || स्वप्नावस्था || ७४७ || स्वस्वसृष्टौ विधेर्भावं याति सर्वोऽपि यच्छ्रिया | असामान्यार्थमान्या सा स्वप्नावस्थास्तु सौख्यदा || ४७ || तुरीयका || ७४८ || ब्रह्मादितो यापि पिपीलकान्तं प्रोतेव तिष्ठस्यविनष्टदृष्टिः | साधारणा बीजरसोऽङ्कुरादौ तुरीयकाद्य त्वरयातुरत्वम् || ४८ || त्वरा || ७४९ || यया जनो मारुतदूषितान्त- र्भावं प्रयातीव विविक्तदृष्टिः | सेयं त्वरा नस्त्वरयत्वनन्तं मनीषितं तत्तनुमत्समीह्यम् || ४९ || प्. २५६) मन्दगतिः || ७५० || आदाय शीघ्रां गतिमादितः कि- मितः प्रयाणाय परत्र देवी | विमृश्य सर्वत्रगतं पुनः स्वं भूता स्वभूर्मन्दगतिर्गतिर्नः || ५० || मन्दा || ७५१ || यानेन हासेन सुभाषणेन तेनापि तेनापि विलोकनेन | मन्देन यानन्दकरी सुभक्तेः सामन्दसौन्दर्यमयी च मन्दा || ५१ || मदिरामोदधारिणी || ७५२ || भिक्षाटनस्वभावोऽपि शिवषट्पदराट् कथम् | सक्तस्तत्रिअव चेन्न स्यान्मदिरामोदधारिणी || ५२ || पानभूमिः || ७५३ || यत्रेन्द्रियैर्विषयशीधुरमत्रभूतै- र्नानाप्रमेयपरिचर्वणवृद्धतृष्णम् | आस्वाद्यते गतविमोहकलङ्कशङ्कै- र्भक्तैर्जयत्यतितरामिह पानभूमिः || ५३ || पानपात्रा || ७५४ || सच्चित्सुधाशीधुरलं न यत्र चित्रं पवित्रो लयमेति द्वित्राः | प्. २५७) दयास्वतन्त्रास्तमपि स्वदन्ते सा पानपात्रा भवतात् सदाग्रे || ५४ || पानदानकरोद्यता || ७५५ || साधकानां निराधीनां पानदानकरोद्यता | नित्यं भक्त्या वशीभूता यैषा भवतु हर्षदा || ५५ || आघूर्णारुणनेत्रा || ७५६ || आघूर्णारुणनेत्रा सा कथं पूज्या न पूजकैः | यदीक्षणात् क्षणाद्योगिसाम्राज्यं चैति सष्पताम् || ५६ || किंचिदव्यक्तभाषिणी || ७५७ || मत्सुधास्वादवाक्येन मूर्छागोचर ईश्वरः | मा भूदित्यङ्गसङ्गा सा किंचिदव्यक्तभाषिणी || ५७ || आशापूरा || ७५८ || या व्याप्यैतत् सकलमकलं सर्वतो निर्मिमीते या दुस्त्याज्यापि च मयि तथाप्यस्ति सर्वात्ममार्गे | साशापूरा शिथिलितरसाऽसारसंसारपाश- क्लेशं शोषं नयतु नयनालोकमात्रेण सद्यः || ५८ || दीक्षा || ७५९ || यां प्राप्यैवोत्तमगुरुपदानुग्रहाद् दुर्ग्रहार्त- भ्रान्तिक्लान्तेः सपदि लभते मुक्तिमात्मैक्ययुक्तिम् | जीवन्नेवोत्क्रममभिगतः षड्विधादेष मार्गाद् दीक्षा प्रेक्षां द्रढय सदसद्वस्तुनि त्वं दयालुः || ५९ || प्. २५८) दक्षा || ७६० || निर्भित्ति निश्चित्रमयं विचित्रं संसारचित्रं विततं तनोति | निर्वर्णसम्भारमरं यदक्षिविलोकमात्रेण ततोऽस्ति दक्षा || ६० || दीक्षितपूजिता || ७६१ || त्रिकोणे बिन्दुरूपस्थाऽजिता दीक्षितपूजिता | पूजादिभेदिताभेत्त्री भवत्वस्याभवत्वदा || ६१ || नागवल्ली || ७६२ || वल्ली न गच्छत्यपरा कदाचि- दियं तु यद् गच्छति नीलपत्रैः | आरुण्यमन्यद्रसितैः सितैर्वा तन्नागवल्लीति वदन्ति सन्तः || ६२ || नागकन्या || ७६३ || प्रीतिमालोक्य नागेषु गुर्विं शम्भोश्चिकीर्षया | तस्या इव स्वयं भूता नागकन्यापि सुन्दरी || ६३ || भोगिनी || ७६४ || सर्वमात्मकलया लयाश्रया या वियोजयति योग्ययाभिया | भोगिमार्गचरया चराचरं भोगिनीति गदिता वियोगिनी || ६४ || प्. २५९) भोगवल्लभा || ७६५ || एकापि भोक्तृभोग्यादिद्वैतं यद्याति भासितम् | तत एव स्वयं जाने सर्वदा भोगवल्लभा || ६५ || सर्वशास्त्रवती विद्या || ७६६ || गद्यपद्यसुवैशद्यहृद्या सिद्ध्यतु बुद्धये | सर्वशास्त्रवती विद्यानवद्या हृदि सर्वदा || ६६ || सुस्मृतिः || ७६७ || सुस्मृतिः सुस्मृता येन तत्पादाम्भोरुहद्वयम् | एकाग्रमनसा सर्वे न स्मरेयुः परं कथम् || ६७ || धर्मवादिनी || ७६८ || आज्ञाप्यानेकधा धर्मं नैकधर्मेष्वपि स्वतः | नैकधर्मात् स्खलन्ती यत्तदेषा धर्मवादिनी || ६८ || श्रुतिः || ७६९ || यत्साक्ष्यविषयं शास्त्रं सर्वं विषयितां तताम् | याति श्रुतिरियं काचिद् ब्रह्मेव जगदम्बिका || ६९ || श्रुतिधरा || ७७० || प्राप्नुवन्ति यतः सर्वां सर्गादौ द्रुहिणादिकाः | श्रुतिं जगत्प्रवृत्त्यै सा स्वतः श्रुतिधरा परा || ७० || ज्येष्ठा || ७७१ || विशिष्टशिष्टा अपि ते वसिष्ठ- मुखा गरिष्ठाः प्रथितास्त्रिलोक्याम् | प्. २६०) समाप्य यस्या उपदिष्टमाद्यं ज्येष्ठा वसिष्ठास्ति सदापि सैव || ७१ || श्रेष्ठा || ७७२ || अदृष्टधर्मा परदृष्टशिष्टा निकृष्टदुष्टत्वविनष्टिपुष्टा | स्वात्मैक्यनिष्ठा निजभक्तितुष्टा श्रेष्ठास्तु नः स्वेष्टकरी स्थविष्ठा || ७२ || पातालवासिनी || ७७३ || त्रिविक्रमनिषिद्धान्यगतेर्भक्तिविकासिनी | सर्वोच्चैः किं बलेर्भूता तुष्ट्यै पातालवासिनी || ७३ || मीमांसा || ७७४ || वेदो नानार्थवादाविदितसुविषयो विप्रतीत्येकहेतुः सेतुव्यापारभाजा जलनिधिसदृशो हन्त सम्यग्निबद्धः | सर्वेषां सत्प्रसत्त्या इह सपदि यया वेदसंख्यार्थकर्त्र्या मीमांसैषा मनीषिप्रकरणरणितं वाग्विलासं ददातु || ७४ || तर्कविद्या || ७७५ || यत्षोडशार्थप्रमया प्रमाता निःश्रेयसं याति परार्थवाक्यम् | आविष्करोतीह ययापि शुद्धं सा तर्कविद्या विदितानवद्या || ७५ || प्. २६१) सुभक्तिः || ७७६ || तपो विधायापि च कृच्छ्रमुख्य- मधीत्य वेदांश्चतुरोऽपि तावत् | न किंचिदाप्नोति जनो मनोज्ञः स्मृता न यावत्सुधिया सुभक्तिः || ७६ || भक्तवत्सला || ७७७ || नकुलीनोऽपि दुर्देहो यद्भक्तो राजपूज्यताम् | अञ्चते वञ्चनाहीनः सा व्यक्तं भक्तवत्सला || ७७ || सुनाभिः || ७७८ || सुधालहर्या रसराजसिन्धो- रावर्तरूपे सततं स यस्याः | नाभौ निमग्नः परमेश्वरोऽपि सुनाभिरेषास्तु ममाभिगोप्त्री || ७८ || यातना || ७७९ || यद्यस्ति यातनायाप्या सर्वस्यापि तदापि सा | मययस्तु मायातत्कार्यदारिद्र्येणैव शाङ्करी || ७९ || जातिः || ७८० || व्यक्तीरनेका निर्णीयात् कथमेकगताश्रयः | न चेज्जातिर्भवेत् काचिदेकानेकत्वबोधिनी || ८० || गम्भीरा || ७८१ || स्वीयं स्वीयं किं रहस्यं कथं को गुप्तं कुर्याच्चेन्न चित् सर्ववेत्त्री | प्. २६२) धीरा वीरेशानचक्रप्रवृत्ति- र्गम्भीरा स्यात् स्वप्रकाशा निराशा || ८१ || भाववर्जिता || ७८२ || याऽभावमपि भावेन भावयन्ती भवप्रिया | भावरूपाप्यहो भाववर्जिता सा स्वभावतः || ८२ || नागपाशधरा मूर्तिः || ७८३ || लीलाविध्वस्तनागेन्द्रवलदुःशत्रुवाहिनी | नागपाशधरा मूर्तिः स्फुरताद्रणसंकटे || ८३ || अगाधा || ७८४ || त्रिलोचनोऽप्यस्तविपत्कलोऽपि कीदृक् कियद्वेति न जातु शक्तः | निर्णेतुमद्यापि यदीयरूपं न वा भवानी नहि सास्त्यगाधा || ८४ || नागकुण्डला || ७८५ || विमलालकसंश्लिष्टसुकपोलश्रुतिप्रभा | सुवर्णकुण्डला नागकुण्डलेव विराजते || ८५ || सुचक्रा || ७८६ || चक्रेष्वनेकामलभङ्गिचक्रभिन्नेषु वक्रेष्वपि वक्रताघ्नी | सुशून्यचक्रे परिपूज्यते या चक्रेश्वरैः सास्त्वभितः सुचक्रा || ८६ || चक्रमध्यस्था || ७८७ || सुरासुराप्सरोमुख्यचक्रनायकताङ्किता | चक्रहस्ता शिवा चक्रमध्यस्थैव जयत्यसौ || ८७ || प्. २६३) चक्रकोणनिवासिनी || ७८८ || सततं सेविता येन चक्रकोणनिवासिनी | विततं स कथं नैव चक्रवर्तित्वमाप्नुयात् || ८८ || सर्वमन्त्रमयी विद्या || ७८९ || परा मन्त्रविदां वेद्या वेदविस्तरकारणम् | सर्वमन्त्रमयी विद्या हृद्याद्यैवात्र सिद्ध्यतु || ८९ || सर्वमन्त्राक्षरावलिः || ७९० || अखर्वगर्वनिर्वाणमपूर्वं गुह्यमुत्तमम् | सर्वा सैवास्ति सर्वत्र सर्वमन्त्राक्षरावलिः || ९० || मधुस्रवा || ७९१ || माधुर्यसौगन्ध्यविलोभितालिर्मधुश्रियः पूर्वविलासभूमिः | मधुस्रवेयं मधुमन्निषेव्या ददातु सिद्धिं मधुमत्यनूद्याम् || ९१ || स्रवन्ती || ७९२ || जातापि कर्कशात् काष्ठाद्द्राक्षा साक्षाद्रसायनम् | यत्तनोत्येव कोऽप्येष स्रवन्तीसन्निधेर्विधिः || ९२ || भ्रामरी || ७९३ || साम्राज्ययोग्योऽपि वियोगयोगो बभ्राम भूताङ्कसमाः समोऽपि | यत्क्षोभितान्तःकरणः स रामः सा भ्रामरी भ्रामय दुर्भ्रमं नः || ९३ || प्. २६४) भ्रमरालका || ७९४ || अलकालिवलत्कान्ति यद्वक्त्रकमलं मलम् | अलं हन्तुमलं दृष्टं बाला सा भ्रमरालका || ९४ || मातृमण्डलमध्यस्था || ७९५ || स्तुता मण्डलवाहेन कमण्डलुधरेण च | मातृमण्डलमध्यस्था मण्डलेन्द्रत्वदास्तु नः || ९५ || मातृमण्डलवासिनी || ७९६ || सभाजनागतान् प्रातस्तानापृच्छ्य सुरोत्तमान् | रमते काचिदेकैव मातृमण्डलवासिनी || ९६ || कुमारजननी || ७९७ || या कुमारयति कापि केवला मारतद्विषयसंशयस्थली | मारकालकलनैकबन्धनं सा कुमारजननी कुमारिका || ९७ || क्रूरा || ७९८ || ककं कं कं कुरु क्रूरा कककारं करं करम् | राकाकराकराकारं काराकीः कारकं करे || ९८ || [द्व्यक्षरोऽयम्] सुमुखी || ७९९ || वन्यैरलङ्कारवरैः सुकान्तिं प्रसूनगुञ्जादिभवैरपि स्वम् | दधाति लावण्यबलं श्रितं य- न्मुखं शिवा सा सुमुखीति मुख्या || ९९ || प्. २६५) ज्वरनाशिनी || ८०० || सुचिकित्सकोपचरितेन विना बहुमन्त्रयन्त्रविधिभिश्च हतिम् | भवदुर्ज्वरो व्रजति यत्सुदृशा ज्वरनाशिनीति किल सा ललिता || १०० || स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इति प्रथावति पदे निर्माति यः स्मासनम् | काव्ये तस्य समागते स्वभगिनीं सज्जातकोदाहृतिं चित्रान्तेह विलासनाम्नि विरतिं भक्तिस्त्रयोदश्यगात् || १०१ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे त्रयोदशी भक्तिः || १३ || चतुर्दशी भक्तिः | अतीता || ८०१ || अतीता वादितोभासि तीर्थ्या यदि विदि प्रभा | ता यदा नो मानुदितो वादिनोऽग्रे किमाविदि || १ || (अर्धभ्रमोऽयम्) एतन्न्यासः अ ती ता वा दि तो भा सि ती र्थ्या य दि वि दि प्र भा ता य दा नो मा नु दि तो वा दि नो ग्रे कि मा वि दि विद्यमाना || ८०२ || संप्रत्येष्यति वातीते विद्यमानैव केवला | दिष्टेऽनवद्यवैषद्यहृद्या सद्यः प्रसीदतात् || २ || [निश्चतुर्थोऽयम्] प्. २६७) भाविनी || ८०३ || भावाभावाविनाभावानुभावानुभवेन नः | भवानी भाविनी नानाभवे नवनवे वन || ३ || [त्र्यक्षरोऽयम्] प्रीतिमञ्जरी || ८०४ || मयीव सापि फुल्लास्तु भवत्सु प्रीतिमञ्जरी | ययाप्रियं प्रियं नानानानाप्रियमपि प्रियम् || ४ || सर्वसौख्यवती युक्तिः || ८०५ || चित्तं कुत्रापि नाभाति कस्यापि नु यया विना | सर्वसौख्यवती युक्तिर्जयत्येषैव विद्वपुः || ५ || आहारपरिणामिनी || ८०६ || यैकैव षड्विधं भावं व्यनक्ति विविधाकृतिम् | सा कापि गीयते तज्ज्ञैराहारपरिणामिनी || ६ || निदानं पञ्चभूतानाम् || ८०७ || जडान्यपि प्रवर्तन्ते भूतानि विषये यया | निदानं पञ्चभूतानां जयति प्रकृतिप्रभा || ७ || भवसागरतारिणी || ८०८ || भवसागरतारिणी भवसागरतारिणी | भवसा गरतारिणी भव सागरतारिणी || ८ || [सर्वपादयमकम्] प्. २६८) अक्रूरा || ८०९ || यां वीक्ष्यैव सुदुष्टोऽपि जनः स्वां प्रकृतिं क्षणम् | घूर्णितो वा जहात्येषाऽक्रूरा मनसि राजताम् || ९ || ग्रहवती || ८१० || ग्रहा यत्र स्फुरन्त्येते न तैः संस्पृश्यतेऽपि या | व्योमेवैका जयत्येषा ग्रहवत्यपि निर्ग्रहा || १० || [अचतुर्थोऽयम्] विग्रहा || ८११ || संगृहीतकृतकर्मसञ्चया दुर्ग्रहग्रहसुनिग्रहाभयाः | यज्जनाः कृतपरिग्रहाः श्रिया विग्रहा जयति सा ग्रहेश्वरी || ११ || ग्रहवर्जिता || ८१२ || ग्रहैः स्वप्नेऽप्यसंस्पृश्यो यद्भक्तिविषदाशयः | तत्किं चित्रं स्वयं सापि यद्देवी ग्रहवर्जिता || १२ || रोहिणी || ८१३ || रोहिणीरमणशेखरोज्ज्वला मोक्षधामपथिकाधिरोहिणी | रोहिणीतनयपूजिताजिता केवला जयति सैव रोहिणी || १३ || भूमिगर्भा || ८१४ || यद्गर्भवासात् प्रविमुक्तिमाप्त्वा बीजं फलत्वं प्रतियात्यपूर्वम् | नानात्वसंदर्भकलैकदक्षा सा भूमिगर्भा जयति प्रगल्भा || १४ || प्. २६९) कालभूः || ८१५ || कालोऽपि यां व्याप्य भवत्यकस्मा- दकालकालः समुपैति नैव | यद्भक्तिशालं सुविशालतालं सा कालभूर्बाल्यकलादिलोला || १५ || कालवर्तिनी || ८१६ || कालो यां लङ्घते नैव शिरश्छायां यथा पदम् | यत्कालवर्तिनी सापि तद्वर्ती तन्न को भवेत् || १६ || कलङ्करिहिता नारी || ८१७ || न सुरी नासुरी नान्या विलासोल्लसिता तथा | कलङ्करहिता नारी यथेयं हरते मनः || १७ || चतुष्षष्ट्यभिधावती || ८१८ || चतुर्वर्गफलावाप्त्यै चतुर्मुखमुखस्तुता | चतुराशाप्रसिद्धेयं चतुष्षष्ट्यभिधावती || १८ || जीर्णा || ८१९ || वृकोदरो वायुभवोऽपि पाण्डवो यद्ध्यानतोऽन्नं नरदेहसङ्गतः | जीर्णीचकारान्यविचिन्त्यतातिगं जीर्णा भवाजीर्णमियं व्यपोहताम् || १९ || प्. २७०) जीर्णवस्त्रा || ८२० || इदं पतिव्रतौचित्यं पत्युर्यद्भगवत्यपि | दिग्वस्त्रस्यानुवृत्त्यै सा जीर्णवस्त्राभवन्नवा || २० || नूतना || ८२१ || जानाति यातिशयवृद्धपितामहादि- भावं हतादिरनुभूतिकलान्तवृत्तिः | अद्यापि चित्रमतिलङ्घितषष्ठभावा सा नूतनैव जगतां जननी भवानी || २१ || नववल्लभा || ८२२ || स्थाणुः शूल्यपि यल्लाभात् स्मरारिः परमेश्वरः | मृत्युञ्जयो जयत्येषा शाङ्करी नववल्लभा || २२ || अरजाः || ८२३ || राजेराजरराजारिराज्याजिजिज्जराजरा | रजोजाराजर्जरौजा राजराजाजराऽरजाः || २३ || [द्व्यक्षरोऽयम्] रतिः || ८२४ || सर्वत्रैव विशिष्यसेऽत्र रतिरित्येषा सदा नर्मदे ग्रस्तो यत्कलयाभजन्नरहरिर्लक्ष्मीं स्ववक्षस्यलम् | विश्वेशः कृतवान् गिरं स्वरसनावासां च पुत्र्या गिरे- रेको वा सपरिग्रहोऽपि विषमो देवोऽतुलं भूधरे || २४ || प्. २७१) (चक्रबन्धोऽयम्) एतन्न्यासः प्रीतिः || ८२५ || या काचिद्रचितेतरेण हरते स्वात्मेतरत्वं परं या ध्याता कलयैकयाखिलकला विस्मारयत्यन्यतः | या सर्वस्य रसस्य कृष्टवसुधा दुर्दृष्टसंहारिणी सर्वैः प्रीतिरिहास्तु सर्वकलया सर्वत्र नः सर्वदा || २५ || रतिरागविवर्द्धिनी || ८२६ || रतिरागविवर्द्धिनी यमारा- ल्ललिता सर्वकलासु लालयन्ती | प्. २७२) सफलं विमलातिखेललोला ललनास्तं न हरन्ति जातु चित्रम् || २६ || पञ्चवातगतिर्भिन्ना || ८२७ || एकदेहे श्रिता रीतिं स्वस्वकर्मैकचातुरीम् | पञ्चवातगतिर्भिन्नाभिन्ना चेन्न पुनर्भयम् || २७ || पञ्चश्लेष्माशया धरा || ८२८ || जग्धिपानरसोल्लासविस्रब्धविमलाधरा | श्लेष्मामयान् हरत्वेषा पञ्चश्लेष्माशया धरा || २८ || पञ्चपित्तवती शक्तिः || ८२९ || अन्यान्यवर्णतां यान्ति यज्ज्वालाभि रसादयः | पञ्चपित्तवती शक्तिः पित्तामयहरास्तु नः || २९ || पञ्चस्थानविबोधिनी || ८३० || अबोधबोधजननी सर्वभावैकसाक्षिणी | एकं हृत्स्थानमाश्रित्य पञ्चस्थानविबोधिनी || ३० || उदक्या || ८३१ || गत्वाग्रतो मारहरं विमोह्य निधाय तत्स्वं मथितं निजान्तः | अरिष्टयाता च कुमारजन्मा- नन्देन तृप्ता जयतादुदक्या || ३१ || प्. २७३) वृषस्यन्ती || ८३२ || भवेन्न चेद् वृषस्यन्ती सर्वोत्तमबलाबला | कृशानुरेतसश्चेतस्तत्कथं सा हरेत् क्षणात् || ३२ || बहिःप्रस्रविणी त्र्यहम् || ८३३ || उपरागे नदीवाशु शुचिरप्यशुचित्वगा | स्वस्वकाले जयत्येषा बहिःप्रस्रविणी त्र्यहम् || ३३ || रजःशुक्रधरा शक्तिः || ८३४ || अपि सर्वगतं जीवं नियन्त्रयति यैकतः | रजःशुक्रधरा शक्तिः शक्तिसक्तिं ददातु नः || ३४ || जरायुः || ८३५ || बीजवद् वहति यान्तरा द्रुमं स्वल्पभूर्जगदनल्पदेहवत् | सा जरायुरजरायुरक्षयं क्षिप्रमेव वितरत्वलं घनम् || ३५ || गर्भधारिणी || ७३६ || चतुर्विधस्वरूपेयं सृष्टिराविष्कृता यया | असामान्या न सा मान्या कस्य वा गर्भधारिणी || ३६ || त्रिकालज्ञा || ८३७ || त्रयः काला विभासन्ते सम्प्रत्येव यद्ग्रतः | त्रिकालज्ञा जयत्येषा त्रिदेवीकालचेतना || ३७ || त्रिलिङ्गा || ८३८ || शब्दानां ज्ञायतेऽन्योन्यं समं सुप्समुदायिनाम् | पृथक्प्रथा यदाश्रित्या त्रिलिङ्गा जयतादियम् || ३८ || प्. २७४) त्रिमूर्तिः || ८३९ || जाग्रद्बाल्याद्यवस्थासु ययान्य इव जायते | जनः सोऽपि मनस्त्राणं त्रिमूर्तिर्जयतान्मम || ३९ || त्रिपुरवासिनी || ८४० || वाक्कामशक्तिवर्णानि संजपन् यत्प्रसादतः | वाक्कामसक्तिनाथः स्यात् सेयं त्रिपुरवासिनी || ४० || अरागा || ८४१ || अरागापि महेशानं रागिणं याकरोदरम् | स्वस्वातन्त्र्यकलातालललितां नौमि तां शिवाम् || ४१ || शिवतत्त्वा || ८४२ || सुदुर्भवं भवं कृत्वा तस्यैवान्तः प्रविश्य च | तथापि या स्वशीलस्था शिवतत्त्वेति सा मता || ४२ || कामतत्वानुरागिणी || ८४३ || कामादिवासनातीतैः कमनीयस्वभावभूः | कामारिदयिता जीयात् कामतत्त्वानुरागिणी || ४३ || प्राची || ८४४ || लोक्यं समालोकयतापि यस्यां लोकत्वमायाति सदोदितेन | इनेन वृत्रारिबलाञ्चिता दिक् प्राची शुचं लुञ्चतु सर्वतो नः || ४४ || प्. २७५) अवाची || ८४५ || अन्तकोऽपि यदाश्रित्या प्रेतेशोऽपि विराजते | समवर्तित्ववर्णेन दिगवाचीति सा मता || ४५ || प्रतीची || ८४६ || प्रचेता अचलावासो यत्र सत्त्वबलाकुलः | प्रतीची दिग् हरत्वेषा पुनः प्रत्यग्जनिं मम || ४६ || उदीची || ८४७ || यदुपासनया भिक्षुसखोऽपि स धनाधिपः | राजराजः कुबेरोऽपि दिगुदीचीति सा मता || ४७ || विदिग्दिशाम् || ८४८ || यदाश्रयात् पावक आश्रयाशो रक्षोऽधिपः पुण्यजनः प्रभञ्जनः | प्राणो जनस्योग्र इहापि शम्भु- र्दृशः प्रसत्त्यै भवताद् विदिग्दिशाम् || ४८ || अहंकृतिः || ८४९ || प्रकृताप्रकृतप्रज्ञाशालिनी देवदेवता | त्रिविधाहंकृतिर्जीयाद् विश्वैकप्रसवस्थली || ४९ || अहंकारा || ८५० || अहंकारानिवार्यासि यदि तन्मयि शाम्भवि | तिष्ठ हृष्टमतौ नित्यं परमैव भ्रमापनुत् || ५० || प्. २७६) बलिमाया || ८५१ || विष्णुं वामनतां नीत्वा त्रिजगल्लङ्घनीं बलिम् | हन्त यातोषयद्देयाद् बलिमायातुलं बलम् || ५१ || बलिप्रिया || ८५२ || बलिप्रिया जयत्येषा सर्वलोकेश्वरं हरिम् | यास्थापयदधोलोके द्वाराग्रे नियतं बलेः || ५२ || स्रुक् || ८५३ || ध्रुवं स्रुगेव सा देवी पूर्णया याहुतिश्रिया | वह्निं सन्दीप्य सन्दीप्य यज्वचित्तैकनन्दिनी || ५३ || स्रुवा || ८५४ || बर्हिर्मुखगणस्यैषा तृप्तिकारणमुत्तमम् | विविधाहुतिभिर्जीयात् स्रुवा सन्मन्त्रपूजिता || ५४ || सामिधेनी || ८५५ || पठ्यते मन्त्रविद्वद्भिरादौ वह्निसमिन्धनी | या वेद ऋग्जयत्येषा सामिधेनी महेश्वरी || ५५ || सश्रद्धा || ८५६ || नित्ये नैमित्तिके काम्ये सश्रद्धं या प्रपूज्यते | वेदसारार्थविद्भिः सा सश्रद्धेति प्रकीर्तिता || ५६ || श्राद्धदेवता || ८५७ || पितरोऽदृष्टिविषया अपि तृप्तिमनुत्तमाम् | कव्येन कृपया यस्या यान्ति सा श्राद्धदेवता || ५७ || प्. २७७) माता || ८५८ || स्तन्येन पुण्येन वदन्यनाथा या पालयन्ती च सुलालयन्ती | शिशुं भृशं सा परमेश्वरी नो माताहताशत्वकरी सदास्तु || ५८ || मातामही || ८५९ || अहीनकुलमूलैकमहीतलविलासिनी | जननीजननी मातामही जीयान्महेश्वरी || ५९ || तृप्तिः || ८६० || उप्तं बीजमिवाहारः कॢप्तो धातुफलोद्धृतौ | अन्ततो यामुपास्ते सा तृप्तिरङ्गप्रसुप्तिहृत् || ६० || पितृमाता || ८६१ || सप्तधातुमयेनेह देहेनाविष्कृतं यया | पित्राख्यं निर्वपुर्धाम पितृमातेति सा मता || ६१ || पितामही || ८६२ || यत्प्रबावाद् भवोऽयं न आविर्भूतोऽतिहर्षदः | भूतः स प्रभवो यस्या महतीयं पितामही || ६२ || स्नुषा || ८६३ || सफलं विमलं यस्याः सुशीलात् सत्कुलं भवेत् | विशालाक्षी जयत्येषा स्नुषाकृशमहोदया || ६३ || प्. २७८) दौहित्रिणी || ८६४ || दौहित्रिणी सतां मान्या कुलोद्धारणकारणम् | दुहिता यत्प्रसादेन देवी दौहित्रिणीति सा || ६४ || पुत्री || ८६५ || अचलाधिपतिस्तस्मात् प्रथितः स हिमालयः | यदेषा तद्गृहे पुत्री भूता कापि जगत्प्रसूः || ६५ || पौत्री || ८६६ || अतिपुत्रस्य या प्रेम्णः पात्रभूता सतां मता | पौत्रीयं परमेशानी पवित्रीकुरुतां कुलम् || ६६ || नप्त्री || ८६७ || संसारदुःखदलने परमास्त्रं महेश्वरी | नप्त्रीति प्रथिता देवी भूयाद् भूत्यै च तुष्टये || ६७ || शिशुप्रिया || ८६८ || अशेषविघ्नशमने शिशूनां विहितोद्यमा | शिशुप्रिया जयत्येषाकृशाशावशवर्तिनी || ६८ || स्तनदा || ८६९ || सा येन स्तनदा भक्त्या सायेन सुखदा भवे | धन्येन पूजिता न स्यात् सोऽन्येन तुलिताननः || ६९ || [मुरजबन्धः] प्. २७९) एतन्न्यासः स्तनधारा || ८७० || यस्मिन् दिष्टेऽमृतान्नाद्यमपि जन्तोर्न तृप्तये | तत्रेयं जयतीशानी स्तनधारैव केवला || ७० || विश्वयोनिः || ८७१ || केवलो जलयोनिरप्यसौ यद्दयाधिगतचातुरीयकः | विश्वतः सृजति विश्वमद्भुतं विश्वयोनिरियमस्त्वयोनिकृत् || ७१ || स्तनन्धयी || ८७२ || कथं न स्यात् परं तस्य विशालं विमलं कुलम् | यस्य संनिहिता नित्यं गेहे देवी स्तनन्धयी || ७२ || शिशूत्सङ्गधरा || ८७३ || हृष्टः पुष्टोऽपि भात्येष यदुत्सङ्गे जगच्छिशुः | शिशूत्सङ्गधरा जीयाद्धराधरसुता शिवा || ७३ || प्. २८०) दोला || ८७४ || लोललोलदलोद्दाललीलादादलदाददा | दुद्ददुल्लादलाद्दोला दाददालं ललाददा || ७४ || [द्व्यक्षरोऽयम्] दोलाक्रीडाभिनन्दिनी || ८७५ || सर्वस्य चित्तवृत्तिस्तद्दोलाक्रीडाभिनन्दिनी | यच्छैलनन्दिनी सापि दोलाक्रीडाभिनन्दिनी || ७५ || उर्वशी || ८७६ || वशी वशीकृतो देवगणोऽन्यत्र यया न सः | विहायेव दिवं याति सा भूयादुर्वशी श्रिये || ७६ || कदली || ८७७ || कदलीसाम्यमावेक्ष्य स्वोर्वोरन्यत्र सर्वतः | किमु सा कदली भूता कदनं हरतां कलेः || ७७ || केका || ८७८ || कौ कौ काकाः कोककङ्ककाककाः केकुकाककाः | केकाककककाङ्कोकाकेकैकाकाककीः ककम् || ७८ || [एकाक्षरः] विशिखा || ८७९ || यज्जना जनतां ज्ञानशिखिनः शिखितेजसः | पुनन्त्याशिखमीक्षाभिर्विशिखा सास्तु वः श्रिये || ७९ || प्. २८१) शिखिनर्तिनी || ८८० || उदरेण धृतः पुत्रो यो मया सोऽयमुह्यते | पृष्ठेऽनेन सदेत्येषा सन्तुष्टा शिखिनर्तिनी || ८० || अथवा निरिन्धनः कथं दीप्तस्त्रिनेत्राग्निः सदा भवेत् | यद्यर्धाङ्गगता न स्याद्देवता शिखिनर्तिनी || खट्वाङ्गधारिणी || ८८१ || एतत् सधर्मिणीप्रेम जयत्येव यदीश्वरी | खट्वाङ्गिनोऽसमाक्षस्य प्रीत्यै खट्वाङ्गधारिणी || ८१ || खट्वा || ८८२ || यामाश्रित्य सुखं शेते श्रान्तः पितृवनस्थले | भिक्षुर्जयति सा काचित् खट्वा नित्यमखण्डिता || ८२ || बाणपुङ्खानुवर्तिनी || ८८३ || दहेदेकः कथं शीघ्रं त्रिपुरारिः पुरां त्रयम् | त्रिपुरा चेत् सहाया न बाणपुङ्खानुवर्तिनी || ८३ || लक्ष्यप्राप्तिः || ८८४ || यदुपासकमेकं वा लक्ष्यलोकाः स्तुवन्त्यलम् | लक्ष्यकृत्वो जयत्येषा लक्ष्यप्राप्तिः सुलक्षणा || ८४ || कला || ८८५ || कुलाकुलकलाकेलिलोलालीककलाकला | कालकाककिलेलाला काले कलौ कलाकला || ८५ || (द्व्यक्षरोऽयम्) प्. २८२) अलक्ष्या || ८८६ || अन्तर्लक्ष्या बहिर्लक्ष्या लक्ष्यालक्ष्यत्ववर्जिता | लक्ष्यलक्षणताद्वैतलक्ष्यालक्ष्या जयत्यसौ || ८६ || लक्ष्या || ८८७ || या भागलक्षणाविद्भिर्लक्ष्यते बोधलक्षणा | लक्ष्यभूतापि सैकैव लक्ष्या सर्वविलक्षणा || ८७ || शुभलक्षणा || ८८८ || क्षणे क्षणे स्मृता येन देवता शुभलक्षणा | अनेककल्पसंकल्पो धन्यस्यास्य क्षणायते || ८८ || वर्तिनी || ८८९ || विवर्तिनी जगत्त्वेन भावाभावप्रवर्तिनी | वर्तिनी देवता भूयान्नित्यं हृदयवर्तिनी || ८९ || सुपथाचारा || ८९० || सेविता सुपथाचारा येन नित्यं महेश्वरी | तत्पथं न कथं सर्वे गच्छेयुर्नार्थिता अपि || ९० || परिखा || ८९१ || ब्रह्माण्डमण्डलं व्याप्य पञ्चभूतस्वरूपिणी | या तिष्ठति परा निष्ठा परिखा सा स्मृता बुधैः || ९१ || खनिः || ८९२ || सप्तधा कृतिनां तुष्टा दारिद्र्यदलनी शिवा | दुर्गदुर्गत्वहेतुश्च जीयात् खनिरियं सदा || ९२ || प्. २८३) वृतिः || ८९३ || प्रोक्षिता अपि मेघेन वातार्कस्फुटिता अपि | अगाः पुष्टाः कथं स्युश्चेन्न स्याद्रक्षाकरी वृतिः || ९३ || प्राकारवलया || ८९४ || केन केन प्रकारेण जन्तूनां क्लेशनाशिनी | प्राकारवलया देवी भाससे दयया स्वया || ९४ || वेला || ८९५ || वेला रसासारलावे लामताललतामला | रता रतातारतारसालताललतालसा || ९५ || [सर्वतोभद्रोऽयम्] एतन्न्यासः Vए ला र सा सा र ला वे ḻआ म ता ल ल ता म ला ऋअ ता र ता ता र ता र षा ल ता ल ल ता ल सा षा ल ता ल ल ता ल सा ऋअ ता र ता ता र ता र ḻआ ंअ ता ल ल ता म ला Vए ḻआ र सा सा र ला वे प्. २८४) मर्यादा च महोदधौ || ८९६ || यत्कृपातो विभागेन जलं स्थलमपीयते | जयत्येकैव सा देवी मर्यादा च महोदधौ || ९६ || पोषणी शक्तिः || ८९७ || यया साम्राज्यसम्भारः सुधियोऽपि तृणायते | पोषणी शक्तिरेषैव जयति प्रकृतिप्रभा || ९७ || शोषणी शक्तिः || ८९८ || गम्भीरोऽपि सुविस्तारः कुम्भजेनार्णवः क्षणात् | शोषितो यां समाराध्य शोषणी शक्तिरित्यसौ || ९८ || दीर्घकेशी || ८९९ || दीर्घभ्रूलतिका दिर्घमुखी दीर्घेक्षणा शिवा | दीर्घं कालं मदग्रेऽस्तु दीर्घकेशी सुसेविता || ९९ || सुलोमशा || ९०० || सद्गुणा यद्धृदाकाशे सुसम्बाधस्थिता इव | लोमव्याजाद् बहिर्याताः शक्तिरेषा सुलोमशा || १०० || स्वस्वातन्त्र्यपरानुभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इतिप्रथावति पदे निर्माति यः स्मासनम् | चित्रैः पद्यगणैर्विभासिततनूरन्यानवाप्यस्थितौ काव्ये तस्य विलासनाम्नि विरतिं भक्तिश्चतुर्दश्यगात् || इति श्रीमहामाहेश्वराचार्यवर्यसहिबकौलानन्दनाथविरचिते नामविलासे चतुर्दशी भक्तिः || १४ || पञ्चदशी भक्तिः ललिता || ९०१ || तारसंप्रथितालोककलोता ललिता तता | तातताकलिताभेददभेता हृदि संरता || १ || (पद्मबन्धोऽयम्) मांसला || ९०२ || यदङ्गैकलावण्यपूरच्छटाभिः सुसम्बाधदेशस्थितेवोद्भटाभिः | प्. २८६) बहिस्त्र्यध्वगा सा विनिर्याति शम्भोः शरीरात् परं देवता मांसलेयम् || २ || तन्वी || ९०३ || ध्यायन्ति यामणौ चित्ते त्रिजगज्जननीमपि | गिरीन्द्रनन्दिनीं भक्ताः सा तन्वीति मताद्भुता || ३ || वेदवेदाङ्गधारिणी || ९०४ || वेद्यवेदकताहीना पञ्चाम्नायैक्यवेदिनः | या चित्ते स्फुरतीशी सा वेदवेदाङ्गधारिणी || ४ || नरासृक्पानमत्ता || ९०५ || संख्यप्रेतमहाभूमीमाध्यास्याध्यासवर्जिता | नरासृक्पानमत्तैव जयतीशानगेहिनी || ५ || नरमुण्डास्थिभूषणा || ९०६ || अस्थिभूषागतां लज्जामाकलयय प्रियस्य किम् | महार्हाभूषणा भूता नरमुण्डास्थिभूषणा || ६ || अक्षक्रीडारतिः || ९०७ || मोहितः स यया सत्यसुतोऽपि हरिवत्सलः | अहारयत् स्वसाम्राज्यं साक्षक्रीडारतिः शिवा || ७ || शारी || ९०८ || जयो हितेन पातेन नहितेन पराजयः | यस्या जयत्यसौ शारी सारासारविचारभूः || ८ || प्. २८७) शारिका शुकभाषिणी || ९०९ || समाधेर्भ्रंशितः शम्भुरालपन्त्या कलं कलम् | अनङ्गारिर्यया सैव शारिका शुकभाषिणी || ९ || शाम्बरी || ९१० || चित्रेन्द्रजालं द्वितयत्वमैक्ये द्वैतेऽपि चैक्यं तनुतेऽतनुज्ञा | क्षणं क्षणं या बहिरन्तरापि सा शाम्बरी मोहहरी सदास्तु || १० || गारुडी विद्या || ९११ || महाविषाकृशं दूराद् भुजङ्गगणमद्भुतम् | कर्षन्ती गारुडी विद्या सिद्धा चेन्न पुनर्भयम् || ११ || वारुणी || ९१२ || प्रचेता जडराजोऽपि यत्प्रसत्त्या महोद्धतम् | नियामयति सत्त्वेशं सा जीयाद् वारुणी शिवा || १२ || वरुणार्चिता || ९१३ || नित्यं कमलमालाभिः कमले कमलेऽतुला | कमलेशस्तुता सास्तु कमले वरुणार्चिता || १३ || वाराही || ९१४ || यामाराध्य निराधारो जलमग्नां वसुन्धराम् | कोल उद्धारयामास वाराही सा हिनस्त्वघम् || १४ || प्. २८८) मुण्डहस्ता || ९१५ || धावन्त्यभिमुखं दैत्यगजस्य विमुखस्य सा | भीतस्य मुण्डहस्ता मामवताद्रणसङ्कटे || १५ || दंष्ट्रोद्धृतवसुन्धरा || ९१६ || त्वमेव कोलरूपासीर्दंष्त्रोद्धृतवसुन्धरा | सत्त्वाधमोऽन्यथा कोल उद्धरेत् तां कथं शिवे || १६ || मीनमूर्तिधरा || ९१७ || यया ते विधृता देवमुनीन्द्राः प्रलयागमे | ससर्वजीवबीजाः सा मीनमूर्तिधरा मता || १७ || मूर्ता || ९१८ || सृष्ट्यै स्थित्यै तथा हृत्यै मूर्ता शक्तिरिवेशितुः | अतुल्यबलदा साविर्भूता मूर्ता निराकृतिः || १८ || वदन्या || ९१९ || यमाप्य तुच्छो भवबुद्बुदोऽयं न दृक्पथे स्याद् वितरस्यमुं तम् | स्वकामकामं यदकाममस्मा- ययतो वदन्या कतमा त्वदन्या || १९ || प्रतिमाश्रया || ९२० || त्वमीशि कारुण्यनिधिर्नवापि जडं विधायातिमृदुं तदर्थम् | सर्वाश्रया कापि निराश्रयापि भूतासि देवी प्रतिमाश्रयापि || २० || प्. २८९) अमूर्ता || ९२१ || प्रियाष्टमूर्तेर्दशमूर्तिनापि ध्याता सदैवाकृतकैकमूर्ति | स्फूर्तिं चिदानन्दमयीममूर्तां धूर्तत्वहर्तीं वितरत्वियं नः || २१ || निधिरूपा || ९२२ || निधिरूपा ददात्वेषा निरुपाधिविधिं निधिम् | सन्निधिं हृदयाकाशे विदधातु च नः सदा || २२ || सालिग्रामशिला शुचिः || ९२३ || मीयते केन सा श्यामा सालिग्रामशिला शुचिः | यत्र सत्त्वशुचिः कृष्णः क्षणं रक्तोऽभवद्धरिः || २३ || स्मृतिः || ९२४ || वेदश्चतुर्धा प्रथितश्चतुर्भि- रर्थैरनन्तोऽनवगाहनीयः | प्रकाशितो यद्वशगैर्मुनीन्द्रैः स्मृतिः स्मृतिं तत्पदगां ददातु || २४ || संस्काररूपा || ९२५ || पदानि वर्णैश्च पदैश्च वाक्यं निरूप्यते यद्दययान्तयातैः | स्फोटस्वरूपानृतरूपहीना संस्काररूपार्पयतु स्वरूपम् || २५ || प्. २९०) सुसंस्कारा || ९२६ || प्राक्तनाद्यतनी वापि सिद्धा यस्य हृदि स्वयम् | सुसंस्कारा बहूनां न वाचकः स कथं भवेत् || २६ || संस्कृतिः || ९२७ || वेदो यया बोधयतीह देवान् देवा यया भक्तजनान् प्रहृष्टाः | विद्याधराणामधिदेवतेयं जिह्वाग्रयाता भव संस्कृतिर्नः || २७ || प्राकृता || ९२८ || अप्राकृतां पिङ्गलनागराजो यां भूरिजिह्वः प्रकटां विधाय | वाग्मित्वधारामलमारुरोह सा प्राकृता नाटकवित्तिदास्तु || २८ || देशभाषा || ९२९ || अनेकशब्दैरमलाभिधत्ते सर्वेश्वरी सर्वत एकमर्थम् | या मातृकारूपनिरूपणीया सा देशभाषाकृशबोधदास्तु || २९ || गाथा || ९३० || या त्रिभिश्चरणैः षड्भिरपि धन्यैः प्रगीयसे | थाथेति विविधाकारा गाथा नाथस्व नाथताम् || ३० || गीतिः || ९३१ || एकमर्थं विदन्तीह यां निशम्य जडाजडाः | विवशा वशिनः सैव गीतिरित्यभिधीयते || ३१ || प्. २९१) प्रहेलिका || ९३२ || गोष्ठीषु चेष्टते हृष्ट्या या वादिमुखभञ्जनी | रज्जनी सुधियां दद्याद्धेलामत्र प्रहेलिका || ३२ || इडा || ९३३ || यद्भागे वहते चन्द्रः सान्द्रानन्दसुधाम्बुधिः | अहो बिन्दुविधी रीडामिडा हरतु सत्वरम् || ३३ || पिङ्गला || ९३४ || यद्भागे वहते सूरः सूरिभिर्वेद्यवैभवः | बीजपूराद्भुता वामा पिङ्गला दक्षिणावतु || ३४ || पिङ्गा || ९३५ || गङ्गातरङ्गरङ्गेयं भृङ्गालिमधुरध्वनिः | त्रिलिङ्गेष्विङ्गितं दद्यात् पिङ्गालिङ्गितशङ्करा || ३५ || सुषुम्णा || ९३६ || अग्नीषोमस्वरूपेयं ज्येष्ठानिष्ठाप्रदा सताम् | शून्या नशून्या बोधेन सुषुम्णाऽनादिनादिनी || ३६ || सूर्यवाहिनी || ९३७ || वामेनापूर्य येनान्तर्निकुम्भ्यान्येन रेच्यते | सा सूर्यवाहिनी तं नोद्वाहयेद् भववाहिनी || ३७ || शशिस्रवा || ९३८ || सूर्यबिम्बं समाबध्य येन देवी वशीकृता | शशिस्रवा न पीड्येत स जरामरणादिभिः || ३८ || प्. २९२) तालुस्था || ९३९ || सर्वयातापि संवित्तिस्तालुस्थैव विराजते | सर्वक्ष्माधिपतिः स्वस्यां राजधान्यां यथा नृपः || ३९ || काकिनी || ९४० || परामृतरसास्वादघूर्णितैर्वेद्यविद्वपुः | काकिन्येकाकिनी भूयात् सहाया सर्वदा मम || ४० || अमृतजीविनी || ९४१ || किं भवेत् कृतमन्नेन चेत् तुष्टामृतजीविनी | किं भवेत् कृतमन्नेन चेद्रुष्टामृतजीविनी || ४१ || अणुरूपा || ९४२ || विस्मयाय भवेत् कस्य नाणुरूपा महेश्वरी | या व्याप्य निखिलं तिष्ठत्यचलाचलकन्यका || ४२ || बृहद्रूपा || ९४३ || जयन्ति ते बृहद्रूपा यैश्चित्तपरमाणुगा | विराजोऽपि बृहद्रूपा चिन्त्यते चेत्यचेतनैः || ४३ || लघुरूपा || ९४४ || यत्कलैका त्रिलोकीयं लघुरूपैव साद्भुता | ध्याता येन स जात्वत्र न भवेल्लघुतापदम् || ४४ || गुरुस्थिरा || ९४५ || स्थिरेण मनसा येन चिन्तिता सा गुरुस्थिरा | क्षणं भवेत् कथं नैव स गुरूणां गुरुश्चिरम् || ४५ || प्. २९३) स्थावरा || ९४६ || स्वपितुः स्थावरेशस्य वात्सल्येनेव विद्वपुः | अपि सा स्थावरा भूता क्रियान्नः स्थावरं मनः || ४६ || जङ्गमा || ९४७ || चित्रं गिरीन्द्रतनया जङ्गमासि कथं पुनः | महच्चित्रं त्वदन्यत् किं यद्ध्यानादसि जङ्गमा || ४७ || देवी || ९४८ || क्रीडायां विजिगीषायां व्यवहारे द्युतौ स्तुतौ | गतावपि परा देवी केवलैव विराजते || ४८ || कृतकर्मफलप्रदा || ९४९ || किं चित्रं कर्मिणां यत् त्वं कृतकर्मफलप्रदा | चित्रं निष्कर्मिणां यच्च कृतकर्मफलप्रदा || ४९ || विषयाक्रान्तदेहा || ९५० || विषयाक्रान्तदेहा चेन्न स्यास्त्वं पार्वती तदा | हरं कपालिनं चैकं गिरीसं कथमाश्रयेः || ५० || निर्विशेषा || ९५१ || दन्तिवक्त्रेऽपि षड्वक्त्रे प्रेम्णा पुत्रत्वहेतुना | निर्विशेषा शिवा सर्वविशेषा जयति स्वतः || ५१ || जितेन्द्रिया || ९५२ || सर्वलक्ष्मीनिधेर्बाला निर्ययौ यत् पितुर्गृहात् | तपसे परमेशानफलायातो जितेन्द्रिया || ५२ || प्. २९४) विश्वरूपा || ९५३ || विश्वं भूतं यतो यस्यां यल्लयं च यदात्मकम् | विश्वरूपा परा काचित् चित्स्वरूपा जयत्यसौ || ५३ || चिदानन्दा || ९५४ || विदितेयं चिदानन्दा सुन्दरी यस्य धीमतः | पुरन्दरेन्दिराप्यस्य वन्ध्यैव स्वान्तलालने || ५४ || परब्रह्मप्रबोधिनी || ९५५ || शोधिनी मोहतमसो द्वैताद्वैतविरोधिनी | रोधिनी सर्वकामानां परब्रह्मप्रबोधिनी || ५५ || निर्विकारा || ९५६ || नानाकारविकारौघं विश्वं सृष्ट्वा च विश्वतः | तत्र स्वं विनिवेश्यैका निर्विकारैव काचन || ५६ || निर्वैरा || ९५७ || सपत्न्यामपि गङ्गायां विधौ वक्राधमेऽपि सा | अपि पत्युः शिरः स्थित्या निर्वैरा जयतीश्वरी || ५७ || विरतिः || ९५८ || स्वात्मजेऽपि सधर्मिण्यां गृहे सुहृदि बन्धुषु | यदाविष्टो रतिं नान्ते लभते विरतिर्हि सा || ५८ || सत्यवर्धिनी || ९५९ || कलौ कलङ्ककलुषे दुष्कलाकलितेऽतुला | भूयात् सा परमेशानि जनानां सत्यवर्धिनी || ५९ || प्. २९५) पुरुषाज्ञा || ९६० || पुरुषाज्ञास्त्यलङ्घ्येयं यदि सत्यं महेश्वरी | अज्ञानखण्डने ज्ञानमण्डने.प्यस्तु नः स्थिरा || ६० || भिन्ना || ९६१ || तत्त्वात्मना शिवा भिन्ना जयतीयं भवोन्मुखी | तत्त्वात्मनाप्यभिन्नैव जयतीयं भवोन्मुखी || ६१ || क्षान्तिः कैवल्यदायिनी || ९६२ || चित्ताम्भोधिस्तरङ्गौघैस्तावत् क्षोभयते जनम् | यावन्नैषा श्रिता भक्त्या क्षान्तिः कैवल्यदायिनी || ६२ || विविक्तसेविनी || ९६३ || विविक्तसेविनी भावं वितर स्वं महेशि मे | येन विश्वगतोऽप्येष जातु विश्वं न भावये || ६३ || प्रज्ञाजनयित्री || ९६४ || जयतीयं शिवा साक्षादज्ञानां ज्ञानकारणम् | पराऽपरा सदा प्रज्ञाजनयित्री महेश्वरी || ६४ || बहुश्रुतिः || ९६५ || विस्मयाय न कस्येयं महेशानी बहुश्रुतिः | एकतो नैकवर्णा या नैकतोऽप्येकवर्णभाक् || ६५ || निरीहा || ९६६ || सुधिया मीयते केन निरीहा परमेश्वरी | यया सर्वं विधायापि न किंचिच्च विधीयते || ६६ || प्. २९६) समस्तैका || ९६७ || यस्या विवर्तरूपेण विश्वमाभात्यतद्विदाम् | तद्विदां च स्वरूपेण समस्तैका जयत्यसौ || ६७ || सर्वलोकैकसेविता || ९६८ || चतुर्वर्गफलावाप्त्यै यथाभिमतमीश्वरी | एकचित्ततया जीयात् सर्वलोकैकसेविता || ६८ || सेवा || ९६९ || हताभिमानैर्निस्तन्द्रैरभ्यस्तेयं यथारुचि | सेवोत्तरोत्तरं कार्या कलावेका फलप्रदा || ६९ || सेवाप्रिया || ९७० || दिशि देशे कृतौ काले यथायथमुपास्यते | तथा तथा ददातीयं फलं सेवाप्रिया शिवा || ७० || सेव्या || ९७१ || यां विज्ञाय तृणायन्ते सकलाः सिद्धयः सताम् | सा सेव्या सर्वभावेन कथं नैवेह काचन || ७१ || सेवाफलविवर्धिनी || ९७२ || यस्य तुष्टा शिवा सत्यं सेवाफलविवर्धिनी | सेवन्ते तत्पदाम्भोजं कथं नैव नरोत्तमाः || ७२ || कलौ कल्किप्रिया काली || ९७३ || एको विप्रशिशुर्नैकम्लेच्छान् दुष्टान् कथं हरेत् | कलौ कल्किप्रिया काली तेन नाराध्यते यदा || ७३ || प्. २९७) दुष्टम्लेच्छविनाशिनी || ९७४ || पुरा सुरभिरूपेण म्लेच्छानुत्पाद्य कापि सा | पुनः कालीस्वरूपेण दुष्टम्लेच्छविनाशिनी || ७४ || प्रत्यञ्चा || ९७५ || कर्णावतंसतां नीता बाणेन कृतिभिः क्षणात् | लक्ष्यप्राप्तिं करोत्येव प्रत्यञ्चा परितोषिता || ७५ || धनुर्यष्टिः || ९७६ || धनुर्यष्टिर्जयत्येषा धानुष्काणां करस्थिता | ते ते शूरा रिपून् हत्वा यया भूमिभुजोऽभवन् || ७६ || खड्गधारा || ९७७ || घातकेभ्यो जयं लक्ष्मीं हतेभ्यो या दिवि स्थितिम् | ददाति सैव सर्वेषां खड्गधारोपकारकृत् || ७७ || दुरानतिः || ९७८ || दुरानतिः स्थिता यस्य चित्ते भक्त्याभितोषिता | दुरानमा नमन्त्येनं नमस्याश्च सुरोत्तमाः || ७८ || अश्वप्लुतिः || ९७९ || कारिता याश्ववारेण याने पूर्वं सुशीलिता | चमत्करोति सा भूयादश्वप्लुतिरलं श्रिये || ७९ || वल्गा || ९८० || यया संसाद्य संसाद्य सादिभिर्वाजिनो जये | प्रेर्यन्ते मण्डले याने प्लुतौ वल्गेति सा मता || ८० || प्. २९८) सृणिः || ९८१ || सूक्ंअया गुरुमुन्मत्तं यया नागं जनो वशम् | नयति स्पर्शतः सैषा सृणिरस्तु घृणापहा || ८१ || सन्मत्तवारणा || ९८२ || यस्याः पुरःसरा देवी ख्याता सन्मत्तवारणा | सा सेना न कथं सद्यो रोचेत रिपुवारणा || ८२ || वीरभूः || ९८३ || आविर्भूता यतो वीरा यस्यां तिष्ठन्ति यन्मयाः | विश्रान्तेः परमा भूमिर्वीरभूर्भुवि पूजिता || ८३ || वीरमाता || ९८४ || धन्या सा वीरमातैका देवी कामदुघा परा | वीरान् या पाति निष्पातान्निर्हेतुप्रेमनिर्भृता || ८४ || वीरसूः || ९८५ || लोहजातेष्विवादर्शं या स्वात्ममुखदर्शने | वीरान् सूते जनानां सा वीरसूः कापि गीयते || ८५ || वीरनन्दिनी || ९८६ || पञ्चकृत्यकृतः शम्भोः समावेशात् सुनिर्वृताः | यद्भक्तास्त्यक्तपञ्चत्वभयाः सा वीरनन्दिनी || ८६ || जयश्रीः || ९८७ || याप्तैव तनुते कंचिद् ब्रह्मैक्यविभवं सुखम् | जयश्रीः सैव नो भूयात् संनिधौ सर्वतः सदा || ८७ || प्. २९९) जयदीक्षा || ९८८ || स्वप्रतापानले हुत्वा शस्त्रमन्त्रै रिपून् पशून् | यद्दीक्षिता जना भान्ति जयदीक्षेति सा शिवा || ८८ || जयदा || ९८९ || जयदा सर्वदा भूयात् सा जया विजयासखी | यथा धनंजयत्वं न आविर्भूयादकृत्रिमम् || ८९ || जयवर्धिनी || ९९० || किं दुःसाध्यं भवेदस्य सद्यो वैषद्यभागिनः | यदि स्यात् सर्वदा सत्यं सहाया जयवर्धिनी || ९० || सौभाग्यसुभगाकारा || ९९१ || सौभाग्यसुभगाकारा सा ममास्त्वग्रतः सदा | कारेवान्तर्गतं चित्तं निश्चलं विदधाति या || ९१ || सर्वसौभाग्यवर्धिनी || ९९२ || यस्याः सर्वस्य शर्वत्वं कृपां प्राप्य क्षणाद् भवेत् | सहाया सर्वदा सास्तु सर्वसौभाग्यवर्धिनी || ९२ || क्षेमङ्करी || ९९३ || खिन्नः खिन्नो विमोहेन क्षिणः क्षीणो मुधाधिना | अद्यास्मि सुखभाक् सद्यो दृष्टा क्षेमङ्करी यदा || ९३ || सिद्धिरूपा || ९९४ || सिद्धिरूपा स्वरूपेण प्रथिता मययसंशयम् | अन्यथाखिलसिद्धीशः कथं स्यां स्वात्मसिद्धितः || ९४ || प्. ३००) सत्कीर्तिः || ९९५ || सर्वत्र सर्वदा भूयात् सर्वतः सर्ववल्लभा | सत्कीर्तिः संस्फुरन्ती नो जाता स्याज्जातता यया || ९५ || पथिदेवता || ९९६ || गजारूढं रथारूढं हयारूढं जनं दृढम् | मृडानी पातु यान्तं वा सर्वदा पथिदेवता || ९६ || सर्वतीर्थमयी मूर्तिः || ९९७ || सर्वतीर्थविबोधेन तीर्थ्यस्तीर्थवदत्र सः | सर्वतीर्थमयी मूर्तिः स्फूर्तिं कुर्याद्यदन्तरा || ९७ || सर्वदेवमयी प्रभा || ९९८ || अपास्तुं शक्नुयुर्जातु यदादित्यादयो नहि | ययास्तं तत्तमोऽप्येषा सर्वदेवमयी प्रभा || ९८ || सर्वसिद्धिप्रदा शक्तिः || ९९९ || नाविरक्तो विरक्तो न यद्भक्तोऽसक्तचेतनः | सर्वसिद्धिप्रदा शक्तिर्जयताज्जयतादियम् || ९९ || सर्वमङ्गलमङ्गला || १००० || धन्याः स्मः कृतकृत्याः स्मो वन्द्याः स्मः सर्वमङ्गलाः | यत्सर्वत्र सदा ज्ञाता सर्वमङ्गलमङ्गला || १०० || विविधसत्कृतिलास्यभासितसद्रसासवघूर्णितै- श्चतुरवर्णितभावभावितनिर्मलोदयकृत्कला | प्रथितनामविलासतत्तदधीश्वरत्वविहारिणी परमशक्तिरियं श्रिया जय सर्वमङ्गलमङ्गला || १०१ || प्. ३०१) स्वस्वातन्त्र्यपराउभूतिकलयावश्यंभवित्र्योद्गते साहिब्कौल इतिप्रथावति पदे निर्माति यः स्मासनम् | काव्ये तस्य पराविचार्यविषये सत्पद्मबन्धादिका देवीनामविलासनाम्नि तिथिभिर्भक्तिर्गतेहाङ्किता || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे पञ्चदशी भक्तिः || १५ || षोडशी भक्तिः इत्थं शिवेन प्रथितं स्वशक्त्या नवेश्वरं निर्मलभावबोधम् | मयाथ लक्षीकृतलक्ष्यरूपं न नाम नामुं प्रणमन्ति के के || १ || पठेदनुज्ञामवलम्ब्य भक्त्या श्रीदैशिकेशस्य परानुभूतेः | अन्तः समाधाय नियम्य बाह्यं हृषीकपूगं च शुचिस्त्रिधापि || २ || तन्त्रोक्तमन्त्राधिकृतौ कृती सन् द्विस्त्रिः सकृद्वा नियतः प्रगे वा | श्रद्धालुरुद्धाममुदेकधामा ध्यायन्नधीयेत च तं त्रिसन्ध्यम् || ३ || पुरो निविष्टः स्तुतिपाठकस्य समाहितान्तःकरणोऽतिहृष्टः | प्. ३०३) कृताञ्जलिर्वा शृणुयात् प्रणम्य संश्रावयेद्वा स्तवराजमेनम् || ४ || यत्क्षोभितान्तःकरणोऽतिभार- भियापि देहं यतते विहातुम् | पुष्टं प्रयत्नादपि तत् त्रिरूपं स्वप्नेऽपि दुःखं नहि संस्पृशेत् तम् || ५ || देशादिहान्यापि यदाप्तुकामः कलङ्कितत्वादि न मन्यते च | नरोऽपि वृत्तिं पशुजामुपास्ते यत्नं विना स्याद्धनधान्यसम्पत् || ६ || इनादयो यत्कलिता अधृष्याः ख्याताः परं यद्वशगोऽपरश्च | तानप्यवज्ञाय चरत्यलक्ष्य- स्तेजस्विता सापि भवेदधीना || ७ || एको बहूनस्तपरीकरश्च तत्सम्भृतानप्यवमन्य चेष्टाम् | इष्टां विधत्ते यदवाप्तितुष्टः स्यात्तत्स्ववश्यं प्रबलं बलित्वम् || ८ || शूरा यदुद्धूतनिजप्रतापाः शौरिप्रतिष्ठामतिदुर्लभां ताम् | भजन्ति योगादिभिरप्यदस्त- च्छौर्यं कथं नास्तु विराजमानम् || ९ || प्. ३०४) यदातुरः किं न करोति हीनो वैद्यादिषु प्राप्तमतावपि ज्ञः | तस्यातिहानिः कियती गदस्य यच्छोक एतत्प्रभवोऽपि दूरे || १० || यद्गर्धिनौ सोमरवी अपि द्राग- हर्निशं मार्गमुदस्तलम्बम् | यतेत उत्क्रान्तुमपि प्रतिस्वं स्यातां वशौ तौ च यशःप्रतापौ || ११ || यत्तामवाप्तुं धनिनोऽपि खिन्ना दीना अदीनाश्च भवन्ति भूयः | सा धन्यता तत्कुलनामचेष्टा- मत्याद्यधीना न भवेत् कथं तु || १२ || कामादयो यत्कलयात्महेतून् संक्षोभयन्तेऽपि सदाप्तकामान् | भाग्यैरपि प्राप्तुमुपोढशङ्कं सौभाग्यमेतत् किमु भागि न स्यात् || १३ || ययेह राजेव विनैव राज्यं विराजते पूज्यसमाजभाजाम् | लोकार्च्यता सा कियतीव यत्त- ल्लोकेश्वरार्च्यत्वमपि प्रहीनम् || १४ || यत्सिद्धमूर्तिः स्मृतदृष्ट एव कं कं न मूर्च्छास्पदमातनोति | प्. ३०५) सा रूपसम्पत् सुतरां कथं स्या- दङ्गाङ्गगाङ्गं न यथा यथार्था || १५ || न यैर्विहीनोऽनुगुणत्वमेति पशुर्यथा भाति च यद्वदन्ते | न निर्गुणायाः स्तवसंप्रसादात् ते ते गुणाः किं पदगा भवेयुः || १६ || यामाप्य पूषा प्रथितो हि भास्वाञ्- छायापि शोभैव यदाश्रयेण | यद्वान् विधत्ते स्तिमितं च लोकं प्रभापि सा भासयते कथं न || १७ || वीरा व्यथन्ते न हि यत्प्रसन्ना रणादिषु क्रूरकृतप्रयोगे | आर्यैः समीर्यं तदनन्तधैर्यं वीर्यं न वीरेश्वरताप्रसिद्ध्यै || १८ || श्रेयस्करास्ते स्थितयेऽपि येषां प्रत्येकमेवात्मनि संयतन्ते | श्रेयांसि तानीह न कानि कानि भवन्ति भूयः प्रतिवर्धकानि || १९ || विलोक्य लोलां न पृथग्विधातुं प्रत्येति यां विष्णुरपीह जातु | शुभोदया सत्कृतभावपूर्णा सेवेत सा श्रीः स्वयमेव रक्ता || २० || प्. ३०६) यैस्तर्जितो दुःखमिहानुभुङ्क्ते स्वाच्छन्द्यवन्ध्यो निरयं परत्र | सर्वाणि खर्वाणि कथं न यान्ति स्वापेऽपि पापान्यनवाप्यभावम् || २१ || यानान्तरांस्तर्जयितुं परेण परेण निर्जित्य किलान्तरेण | न शक्यतेऽयं सदयोदयस्थो लोभादयस्तेऽप्यपरे परे स्युः || २२ || यद्भान्तरा राजवदत्र भाति यैः संगतो भीतिकरोऽपि मृत्योः | ये स्वे यथा भान्ति विभिन्नदेहाः किं बन्धवो नान्तरबन्धनाय || २३ || अन्येषु या व्याधितया प्ररूढा याभिः कुलं याति भुजिष्यभावम् | सुता इमाः पुत्रितयान्ववाय- मुद्धरयन्त्यो न सुखाय किं स्युः || २४ || ख्याताः परं ये सहधर्मचारे ते रामयन्तो न कथं नु रक्ताः | भूषाविभूषाः सततं सुशीला दारा उदाराः स्मरयौवनाभ्याम् || २५ || पुंनामभीतेर्हतिहेतवो ये यद्भाषितं बाल्य इवामृतौघः | प्. ३०७) ये सद्गुणा वंशधृतौ प्रसिद्धा- स्तेऽलङ्क्रियां कुर्युरलं सुपुत्राः || २६ || यद्दर्शनादन्वयसंप्रचार- शङ्काङ्कमुल्लङ्घ्य सुखेन याति | विश्राममस्तातिभरो यथा ते पौत्राः पवित्रं तनुयुश्चरित्रम् || २७ || यत्सम्भृता एव सुपुण्यजन्या कृत्स्नेऽपि घस्रा वयसि प्रगण्याः | महोत्सवैर्मन्दिरमिन्दिरैक- निवासमेतैः सततं विभायात् || २८ || कृत्येषु वैमत्यमपेत्य नित्यं प्रीत्यानुरक्ता हितसत्यवाचः | वैचित्त्यराहित्यकरा अतीत- शङ्काः सुभृत्या अपि तं भजेयुः || २९ || आद्यासु हृद्यास्वनवद्यपद्य- गद्यासु मद्यप्रमदोन्मदासु | विद्यासु वैषद्यकरीषु सद्यो वर्णाद्य आद्यन्तविधेर्विधिः स्यात् || ३० || अगण्यनैपुण्यधनाग्रगण्यः पुण्येन लभ्यं स्मृतिमात्र एव | आदाय राजन्यजनः स्तवेशं रणं विशन् स्याद् विजयी कथं न || ३१ || प्. ३०८) क्रेतुं च विक्रेतुमुपदाधाति वस्त्वेव यद्यत् स्तवसंप्रसादात् | तेनैव तेनैव न भूरिवित्त- प्रलाभवित्तोऽस्तु कथं नु वैश्यः || ३२ || अप्यन्यवर्णान् परिचर्य यत्ना- द्यथा न शूद्रः सुखमेति सम्यक् | तथा स्तवेशानुगृहीत एव किं किं न तद्याति निरस्तयत्नः || ३३ || पुत्रार्थिनः पुत्रवतामधीशा वित्तार्थिनो वित्तभरस्य पूर्णाः | यं यं च कां मनसादधाति कामी प्रकामं स स नास्य दूरे || ३४ || येनैव शर्मेह परत्र वा स्यात् प्राप्योऽपि यो भूरिकृतप्रयत्नैः | अधर्मसांमुख्यमपि प्रयातु- रग्रे भवेत् किं न स धर्म एव || ३५ || रूपेण रत्या अपि जैत्रदेहा शीलेन सत्या अपि वर्द्धितेहा | करोति हर्षैकनिदानभूता कन्यापि पुत्रीपदमेव तत्र || ३६ || क्षेत्राणि सस्येन विजृम्भितानि विनान्तरायं विविधेन च स्युः | प्. ३०९) गावः पयोऽपि प्रवहन्ति भूयो नद्यो यथा कामदुघा घटोध्न्यः || ३७ || येनावृतः किंचन संविधातुं नेष्टे न तज्जातु भवेदभव्यम् | पूर्णैर्गुणैर्दर्शितविभ्रमोऽपि याभिर्हतस्ता विपदः कथं स्युः || ३८ || नृपादपि प्राप्तबलान्न भीती रिपोर्न वा दुष्टकलादपि स्यात् | शुभेषु भावेष्वशुभेषु वापि सदा शुभैवास्य भवेन्मनीषा || ३९ || संतर्पयन्तीं निजबन्धुवर्गं दानेन मानेन सभाजनेन | यशोर्जनेन प्रथितेन नाम्ना लभेत सम्यक् कुलधुर्यतां सः || ४० || अपि प्रलग्नाः श्रितगोचराश्च ग्रहा न तं व्योम यथा स्पृशन्ति | रामस्य नामेव निशम्य न स्यू रक्षांसि तं द्रष्टुमपि क्षमाणि || ४१ || काकोदरास्तं विनतातनूज- मवेक्ष्य दुरादिव नीरसाः स्युः | प्रीत्या महादेवमिव प्रपन्ना भूताः पिशाचा अपि तं भजेयुः || ४२ || प्. ३१०) डाकिन्य एनं स्वसुतं जनन्यः प्रेम्णेव सम्यक्परिपालयेयुः | वन्याश्च सत्त्वाः सुनिरस्तसत्त्वं पञ्चाननं वीक्ष्य यथा द्रवेयुः || ४३ || सुखासुखे ये न विदन्ति कर्तुं तानप्यवश्यं परिपीडयन्ति | शिशून् ग्रहा ये निगृहीतभीता अनुग्रहादस्य न ते कथं स्युः || ४४ || द्वन्द्वानि यानीह न जातु सन्धि- सन्धानि वा यानि पुरो गतानि | स्निग्धप्रथां द्वेषयुतानि भूयः किं नैष तत्प्रीतिकृतिप्रसिद्धः || ४५ || दुःशृङ्खलाभिः कलितोऽपि दुर्गे कारागृहे मन्तुहतोऽपि भूयः | ध्यानादिकादस्य महानुभूतेः कथं न मुच्येत यथेह मुक्तः || ४६ || न रामवद्दारजमात्मजोत्थं वसिष्ठवन्नाच्युतवत् स्वजं न | दशास्यवन्मित्रकृतं न शोकं पश्येद् वियोगं च स कल्पजीवी || ४७ || अन्धोऽपि गार्ध्रं बलमक्षियातं लभेत सूरादिव जीवलोकः | प्. ३११) बाधिर्यनिघ्नः श्रुतिमानरं स्या- न्मूकोऽपि वागीशतयेव कीरः || ४८ || योन्यात्मबिन्दुः परमुद्रयेव गर्भः स्थिरः किं न पतन्नपि स्यात् | निबद्धगर्भत्वमदःस्रवेऽपि सुखप्रसूतिश्च न दुर्लभैव || ४९ || कृतेन सूर्यस्य नवां नवेन मयूरवद् दिव्यतनूमवाप्य | अनर्थमुक्तः पठनाच्छ्रुतेर्वा कथं भवेदस्य न मोदमानः || ५० || अदृष्टपूत्रास्यकलेशसम्प- दपीन्द्रियग्रममलं नियम्य | पाठाच्छ्रुतेर्वास्य शुचिः सुपुत्र- प्राप्तिप्रसिद्धो वसुदेववत् स्यात् || ५१ || चातुर्थिकाद्येभ्य उरुज्वरेभ्य- स्तेभ्यो दशभ्योऽपि महागदेभ्यः | भूतादिजेभ्यः श्रवणादपि स्या- द्रसेश्वरं प्राश्य यथा विमुक्तः || ५२ || न विस्मरेत् संश्रुतमश्रुतं च तत्तुल्यमुल्लेखकलां नयेत् | वक्ता भवेद् वाग्विधिवच्च वृद्धै- र्बालोऽपि वृद्धान् विजयेत काव्यैः || ५३ || प्. ३१२) यः पञ्चपथ्यामपि वा स्तवेशं जपेदधीयेत च नान्यचेताः | मर्त्योऽपि भोगायतने निविष्टो नान्त्यं लभेतादिममेव भोगम् || ५४ || गुप्ते द्विधापि प्रथिते च विज्ञो देव्याश्रयस्थो नवरात्र अस्याः | मूर्त्त्यन्तिके भक्तियुतोऽतिपीत एकाकिभावं मनसापि यातः || ५५ || अपास्तभीतिः श्रितधैर्यनीति- रावर्तयेद्यः शतधा स्तवेशम् | साक्षाद्भवत्यस्य निजेप्सितानि विश्राणितुं सा सुभगा भवानी || ५६ || [युगलकम्] गिरौ सुरम्ये किल सिद्धपीठे तत्क्षेत्रवर्ये त्रिदशालये वा | प्रसिद्धिभागष्टतयाशु सिद्धिः सिद्धा भवेदिष्टतमा च पाठात् || ५७ || आवर्तयेद्यो दशधापि भूमि- शययासनस्थो जितदुर्हृषीकः | स्वाहारमाहृत्य यतं मितं वा स्वप्ने वरस्थां स च पश्यतीशीम् || ५८ || प्. ३१३) सहस्रधावर्तनतः स्तवेशं नरोत्तमा ये प्रपठन्ति भक्त्या | सिद्धाश्च ते सिद्धिविधानदक्षा आनिग्रहानुग्रहयोः क्षमाः स्युः || ५९ || सत्काव्यसंस्कारविदर्भितानि शास्त्राण्यनभ्यासहतान्यपि स्युः | स्वतोऽभिधातुं किल भारतीशाः शोभारती प्रोन्मिषिते दधानाः || ६० || तान्रञ्जयन्तो नखरान्किरीट- विचित्ररत्नोत्करसंकरेण | सर्वस्वदानप्रथिता महेशा उपासते शम्भुमिवामरौघाः || ६१ || शाक्ताष्टगन्धेन विलिख्य भूर्जे शुभे दिनेऽभ्यर्च्य नवं कुमारीः | विप्रान् वरस्त्रीरपि चन्दनाद्यैः सन्तर्प्य नानामृतभोज्यमुख्यैः || ६२ || वध्नन्ति रक्षाविधये य एनं कण्ठे करे वा निजमूर्ध्नि गेहे | तथा विशेषेण किशोरकाणां ते कीर्तिभाजो नृपपूजिताः स्युः || ६३ || [युग्मम्] प्. ३१४) रेपोर्न दुष्टान्न नृपान्न तेषां न दारतो वा न पराभिचारात् | न दुर्गतेर्नोदधिसिन्धुवगात् पोतादिकेभ्योऽपि भवेन्न भीतिः || ६४ || द्युते रणे वाधिकृतौ विवादे कथं जयं ते न हि यान्ति जैत्राः | नरा नरेन्द्रा अपि माननीया- स्तत्प्रेष्यतां यान्ति कथं न भक्त्या || ६५ || तारुण्यपूर्णाः स्मरबोधघूर्णा- स्तान् विह्वलास्ता रतिरागनिघ्नाः | स्वयं समासक्तिमिताः कथं न वराङ्गना नान्यकला भजन्ते || ६६ || विलिख्य तं यन्त्रितमात्तशुद्धि- र्यो धारयेन्मूर्ध्नि गले रणस्थः | युध्यन्तमेनं मुहुरीक्षते न योद्धा परः सम्मुखमागतोऽपि || ६७ || यो वा ध्वजाद्येषु पदेषु संख्यं विशेत् स्तवेशं प्रविलिख्य वीरः | अप्येकमेनं बहुधा विलोक्य हतौजसः किं न परे भवेयुः || ६८ || विलुप्तसंज्ञाः शिशुवद् विमूढाः स्मर्तुं निजास्त्राण्यपि नेहमानाः | प्. ३१५) जयेन्दिरालिङ्गितदेहगेहं किं नारयस्तं शरणं व्रजेयुः || ६९ || देहे गृहे वा लिखितोऽपि यत्र नवेश्वरः स्यात् परिपूजितश्च | तत्राभिचारः प्रभवेन्न शापो बाधां विधातुं न न दस्यवोऽपि || ७० || न बाणवीरादिककीलनं वा न कापि कृत्या न च पूतनादिः | प्रेताः पिशाचा न न राक्षसा न भूता न वा तत्र विशन्ति जातु || ७१ || शस्त्रान्न नाग्नेर्न जलान्न वायो- र्भीतिर्भवेत्तत्र कदापि कापि | दुर्वृत्तपापान्यपि तत्र बुद्धे- र्विघ्नं विदध्युर्न कथंचनापि || ७२ || करीन्द्रशालास्वपि मन्दुरासु गवां व्रजेऽजादिवृतौ च भक्त्या | तद्दोषशान्त्यै प्रपठेच्च कूट- पाकल्यपोहाय नवेशमेनम् || ७३ || न किङ्करा दूरमपि स्तुवन्तं द्रष्टुं यमस्यापि समं क्षमेरन् | भुक्त्वेह भोगाञ्छिवलोकमेति चिरादनन्तं परमाप्यमन्ते || ७४ || प्. ३१६) घोरासु बाधास्वखिलासु सिद्धि- रोधासु तत्तद्विधिपूर्वमेनम् | सर्वैकमङ्गल्यमपास्तदुःखं स्वर्ग्य पठेन्नित्यसमाहितान्तः || ७५ || तृप्तिं सपर्याभिरनुत्तराभि- र्विधाय सम्यग्जपतां स्तवेशम् | पुरोगतः स्वस्त्ययनं परं त- माकर्णयेद् वाखिलकर्णितेहः || ७६ || नाम्नां सहस्रमिदमीरितमीश्वरेण पुण्यैकपुण्यमुदयोदयमादिदेव्याः | सम्यक्प्रकाशितमहः किल नन्दिकेन नानन्दयेत् कमिह पूरुषतैकहेतुः || ७७ || नान्यत्स्तोत्रं परतरमतः कीर्तितं नापरो वा मन्त्रस्तन्त्रे विहितविभवो नापरा वास्ति विद्या | आद्या सिद्धा प्रथितमितरन्नैव तीर्थं समर्थं हन्तुं वाघं तदुदितमिदं सर्वतः सर्वरूपम् || ७८ || धन्याः केऽपि प्रथितयशसः पूर्णपुण्यैकगण्या- स्ते त्रैलोक्ये नृपतिपतयो माननीयाधिमान्याः | नान्योद्भावाः परतरमतप्रज्ञया ध्वस्तमोहा रोहं रोहं सुसुखसरणिं येऽर्चयन्त्यादिशक्तिम् || ७९ || जय जय हिततमपरमतमहित- विदितविषदतर ऋतविभवकरि | प्. ३१७) श्रितजनसदयसदयपरसुमुखि शिवमयि शिवसखि भवजभयहरि || ८० || लोके लोके सुकृतिकृतिभिः सेव्यते यादिशक्तिः स्तोकं स्तोकं विभवमतुलं यद्भवं भावयन्तः | ते ब्रह्माद्या अपि चिरतरं विस्मयं यान्ति भूयाद् भक्तानां सा परमवरदा पूर्णमङ्गल्यरूपा || ८१ || श्रीकृष्णात्मपरानुभूतिविभवाच्छ्रीकृष्णकौलादभूत् साहिब्कौल इति स्फुटं शिवपदं बुद्धेर्जनित्र्याश्च यत् | भक्तिस्तद्गतिराजितस्य सुफला स्वन्ता गता मे महा- काव्ये नामविलासनाम्नि ललिता पूर्णप्रथा षोडशी || ८२ || श्रीज्ञानिनाथाङ्घ्रिमहार्चनाभिः संसिद्धसिद्धीशतयातिसिद्धः | नाम्नां विलासे प्रणिनाय साहिब्- कौलो महेश्याः परिपूर्णभावम् || ८३ || इति श्रीमहामाहेश्वराचार्यवर्यसाहिबकौलानन्दनाथविरचिते नामविलासे षोडशी भक्तिः || १६ || प्. ३१८) ये मात्सर्यवितानसंवृतधियः प्रत्येष यत्नो न तान् भातीशाः क इवेह कर्तुममले सोमाङ्कपङ्के परम् | केचित्ते तु जयन्ति हन्त कृतिनो ये सन्ततं प्रोद्यता- स्तन्नैर्मल्यविधौ चकोरकतकक्षोदाः सुधोद्धारकाः || १ || वाचा किंचन वक्ति किंचन पुनर्धत्ते स्वचित्ते धिया- प्यन्यत् किंचन निश्चिनोति नयनेनालोकयत्यन्यतः | वृत्तं वान्यगतं शृणोति विफलाहङ्कारमालाकुलो जानीमो न नसज्जनस्य परता कस्मिन्नु भावे समे || २ || विडालकः श्येनकरागतं किं विक्लिन्दते मांसमवेक्ष्य दूरात् | उड्डीनतालभ्यमिदं नखास्त्र- वतां परं जातु न हस्तमेति || ३ || विमूढाः समेताः प्रयान्त्वाढ्यवेशा- स्तथैकोऽपि तज्ज्ञः प्रयात्वस्तवेशः | मृगाणां गणा द्वेषिणा चैककेन समेता विचित्राः सदृक्षाश्च किं नु || ४ || अष्टाभिः किं न साक्षात्तनुभिरभिगतिः किं महादेवताख्या त्र्यक्षत्वेन प्रसिद्धा न हि किमु न महाशक्तिमत्त्वं परेह्यम् | किं सा सर्वात्मता वा न च भवति परं किं न मृत्युञ्जयत्वं किन्त्वज्ञातः स मूढैर्यदि शिवकलया वञ्चितास्तत्त एव || ५ || महार्थरत्नादिगवेषणायां येषां विभज्येत हि बुद्धिपोतः | त एव दौर्भाग्यहता इयत्त्वाद्रत्नाकरत्वं किमु हीनमब्धेः || ६ || प्. ३१९) पुष्पाकरत्वं सुरभिप्रकाशा- वकाशमेकान्तरसाधिकारम् | एतान् गुणान् यद्यविचार्य भीतः स्वाराम ऐक्यात् क इवात्र यत्नः || ७ || श्रुत्यन्तादिकदर्शनेषु वितता यद्वन्मनीषास्ति तत्- साहित्येऽपि तथैव लब्धरसतालीलाविलोला परम् ब्रह्मानन्दकथैव यद्यपि मता कैवल्यबोधोद्धृतौ रामानन्दकथा तथापि विचिता तत्तानुभूतौ किल || ८ || भूरीणामपि ताराणां ज्योतिराख्यास्ति किं न हि ज्योतिषां ज्योतिरेकस्तु चन्द्र एव कलानिधिः || ९ || तमो हरति सोमादिरपि सत्यं तथापि सः | एक एव जयी भास्वान् यः प्रसिद्धोऽम्बरे मणिः || १० || किं नौज्ज्वल्यं स्फटिक उदितं किं हिमे वा न भाति किंवा तारास्वपि न न पयोमुख्यभावेऽपि किंवा | मुक्तास्वेव प्रथितमिह तत् किं नु यासां महार्घं रत्नाभिज्ञाविदितधिषणो वेद कश्चित् स्वरूपम् || ११ || माणिक्यशैलं परिलोक्य लोको- त्तरं जडत्वाभिहता व्रजन्ति | शाखामृगा यद्यपि ते तथापि विदन्ति किं मूल्यमलं गुणं वा || १२ || बालां सालंकृतिमपि रसोद्धारिकां वीक्ष्य निद्रा किं वापैति प्रकृतिसुलभाबोधकृद् बालदृष्टेः | प्. ३२०) धन्यः कश्चित्स तु युवजनस्तत्कलाकौशलेन्दुं यो दृष्ट्वैवोच्छलदतिरसं चित्तसिन्धुं विधत्ते || १३ || कश्मीरोदयभूधरात्स उदभूत् सत्तीर्थसूर्यो यतः सर्वाक्षिप्रथितप्रसादचतुरः सोऽपि प्रदोषावृतः | यातो दुर्गणितान्तमन्धतमसं दीनस्तदस्तादहो यच्छक्त्या सकलान्तकारकृतिने कालाय तस्मै नमः || १४ || सम्यक्सामपरा रमापि चपला यत्रैव येन क्षमा दुर्धर्षापि धृता च येन जनितो विश्वादिसर्गः स्मरः | विष्णुः स्वेन च योऽवतीदमखिलं तं चेद्दितेर्दुःसुता हेलन्ते स्वनिकारणाय तदिदं न त्वस्य काचित्क्षतिः || १५ || फुल्लारविन्दसरसीं निकषा स्थितोऽपि ख्यातां गुणैः किमधिगच्छति दर्दुरौघः | भृङ्गस्तु सौरभमवेत्य समीपमेत्य पूर्णं रसं पिबतु नन्दतु निन्दताद्वा || १६ || गुणानां हृदि भूरीणां विनयाज्जायते चयः | विधायादौ महाकुक्षिं सिन्धू रत्नाकरः कृतः || १७ || [इत्यन्योपदेशश्लोकाः] शाके विक्रमभूभृतोऽनलभुजागाब्जैर्मिते हायने कश्मीरेषु च नेत्रवेदगणिते पक्षे शुचौ माधवे | भूताहे गणपाधिपेऽन्तमनयद् वेदद्विवर्षाङ्किते साहिब्कौलपदे विलासमुदितः श्रीशक्तिनामान्यनु || १८ || प्. ३२१) त्रिपुरवरबाला त्रिपुरसुबाला त्रिपुरसुबाला त्रिपुरुषकाला विगलितकाला हतहरकाला सकलविशाला सकलविशाला गिरिवरशाला कृतपरताला ऽकृतपरताला कृतपरताला सितमणिमाला विलसितमाला शिवमयमाला कचकचमाला- विजिततमाला रिपुविषमाला करगकपाला श्रितजनपालाश्रितजनपाला सितकरवाला सुमतिनिभाला गिरिशसभाला पदतिमराला प्रसरदरालालकसुकराला कृतभवजाला हृतभवजाला हृदयरुजाला धृतकरवाला- ऽवितसुरबाला सृतबहुबाला मतफलसालाकृतिजितसाला स्वरसरसाला समभिनवम् || १ || प्रथितपरभावा गिरिशविभावा सतदनुभावानतपरिभावा गलदभिभावा जनितसुभावा भवपरभावा नकलितभावा प्. ३२२) महदनुभावा महदनुभावा- ऽमहदनुभावा शिखिभवभावा विसदृशभावाविसदृशभावा भवनविभावा कलकलरावा समधुशरावा गजजयिरावाऽसनहरिशावा खिलमतिशावाखिलमतिशावा परिबलधावा वितुलसुधावा करिमलधावा- ऽसुखतरहावा सुखतरहावा- ऽतिसवनहावा त्रिविषयदावा- हतिशपदावा जनिवनदावा- ऽसहृदययावा सहृदययावा- ऽधरहतयावा हतमतयावा- हतमतयावा स्वमतलयावा समभिनवम् || २ || सहजनिजरामानतिपररामा विरतविरामा सुरवररामा- हितपरिरामा परमभिरामा त्रिनयनधामाधिपतिसुधामा त्रिभुवनधामा भजननिकामा- दृतकृतकामानवनवकामा- वयवितवामामरपतिवामा भ्रुकुटिसुवामा सुकुसुमदामा- वृतकचदामा विहतविदामा बहुविधनामाखिलपरिणामा निगमविनामा प्. ३२३) परिचितसामा भविकृतसामा स्तुतिमयसामा दितिजनियामा विरहितयामा कलननियामा- ऽप्रतिमितभामा प्रतिहतभामा- ऽप्रतिहतभामा सखितरलामा कनकललामातिशयललामा- ऽद्रिकुलललामा स्वकुलललामा विविधकलामा कलितशिवम् || ३ || कुमुदजयितारा द्युतिहततारा जिनमततारा परसुखतारा प्रतिमितताराधिपमुखतारा प्रतिकृतहारावयवविहारा लसदुपहारा सुरसितहारा गलधृतहाराहलफणितारा- तिहृदयहारा श्रुतिपरिहाराऽश्रुतिपरिहारा विविधविकाराकृतिमयकारा- जनितनिकाराबलदपकाराहतिपरिकारा जगदुपकारा पदनतिकारा- मरवरकारापतदुपकारा नयनससारापहृतविसारा परतरसारा सततविचारा- दृतचितसारा गलदभिचारा- ऽदिविहितनारा परपुरनारासविनयनारा- प्. ३२४) कचदसिधारा त्रिभुवनधारा नमदुपधारा दिशतु शिवम् || ४ || अष्टाशीत्युत्तरैः पद्यं दृब्धमष्टशताक्षरैः | नीराजनाय भात्वेतच्छ्रीदेव्या दण्डकाभिधम् || १ || इति श्रीनामविलासः संपूर्णः कृतिरियं श्रीमच्छ्रीमहामाहेश्वराचार्यवर्यसकलदैशिकवर- वरेन्द्रपूज्यतमचरणसरोजसाहिबकौलपादानाम् || ########### END OF FILE #######