#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00507 Uniform title: devīpūjā Description: The text contains durgapūjā - mahārājñīstava - bhadararūpabhavānīvākyamañjarī and sarasvatīstuti Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: August 14 2021. Publisher : Publication year : 1927 Publication city : Mumbai Publication country : India #################################################### ओं धार्मिक-सज्जनोपयोगिनी पंडितकेशवभट्टज्योतिर्विदा संस्कृता-शोधिता स्तोत्रावलीसंवलिता च इयम् देवीपूजा मुम्बययां निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा प्राकाश्यं नीता | सप्तर्षिसंवत्सरे ५००३, विक्रमसंवत्सरे १९८४ ईस्वीवत्सरे १९२७ परोपकाराय प्राकाश्यं नीता | अथ दुर्गापूजा प्रारभ्यते ओं अस्य श्री-आसनशोधनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसनशोधने विनियोगः || ओं प्रीं पृथिव्यै आधारशक्त्यै समालभनं गन्धोनमः अर्घोनमः पुष्पं नमः || पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता | त्वं च धारय मां देवि पवित्रं कुरु चासनम् || शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये || अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि | सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः || महाबले महोत्साहे महाभयविनाशिनि | पाहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि || गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः | गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः || गुरवे नमः परमगुरवे नमः परमेष्ठिने गुरवे नमः परमाचार्याय नमः आद्यसिद्धेभ्योनमः || करन्यास || ह्रां अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां नमः ह्रूं मध्यमाभ्यां नमः ह्रैं अनामिकाभ्यां नमः ह्रौं कनिष्ठिकाभ्यां नमः ह्रः करतलकरपृष्ठाभ्यां नमः || षडङ्गन्यास || ह्रां हृदयायनमः ह्रीं शिरसे स्वाहा ह्रूं शिखायै वषट् ह्रैं कवचाय हूं ह्रौं नेत्राभ्यां वौषट् ह्रः अस्त्राय फट् || अपसर्पन्तु ते भूता ये दिवि भुवि संस्थिताः | ये दिक्षु विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया || प्राणायामः || तीर्थे स्नेयं तीर्थमेव समानानां भवति || मा नः शंस्यो अरुरुषो धूर्तिः प्राणङ् मर्त्यस्य रक्षाणो ब्रह्मणस्पते || प्. १७८) वसोः पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारमयक्ष्मा वः प्रजया संसृजामि रायस्पोषेण बहुला भवन्ति || स्वात्मने शक्तिस्वरूपाय समालभनं गन्धोनमः अर्घोनमः पुष्पं नमः || स्वप्रकाशो महादीपः सर्वतस्तिमिरापहः | प्रसीद मम गोविन्द दीपोऽयं परिकल्पितः || वनस्पतिरसो दिव्यो गन्धाढ्यो गन्धवत्तमः | आघ्रेयः सर्वदेवानां धूपोयं परिकल्पितः || नमो धर्मनिधानाय नमः स्वकृतसाक्षिणे | नमः प्रत्यक्षदेवाय भास्कराय नमो नमः || यत्रास्ति माता न पिता न बन्धुर्भ्रातापि नो यत्र सुहृज्जनश्च | न ज्ञायते यत्र दिनं न रात्रिस्तमात्मदीपं शरणं प्रपद्ये || स्वात्मने शक्तिस्वरूपाय दीपधूपसङ्कल्पात्सिद्धिरस्तु दीपो नमः धूपो नमः || ओं तत्सद्ब्रह्माऽद्य तावत् तिथावद्यामुकमासस्यामुकपक्षस्य तिथावमुकायामात्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं श्रीदेवीप्रीत्यर्थं अमुककामनासिद्ध्यर्थं भगवत्यै अमायै कामायै चार्वङ्ग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकाभगवत्यै श्रीशारदाभगवत्यै श्रीमहाराज्ञीभगवत्यै श्रीज्वालाभगवत्यै व्रीडाभगवत्यै वैखरीभगवत्यै वितस्ताभगवत्यै गङ्गाभगवत्यै यमुनाभगवत्यै कालिकाभगवत्यै सिद्धलक्ष्म्यै महालक्ष्म्यै महात्रिपुरसुन्दर्यै शैलपुत्र्यै ब्रह्मचारिण्यै कूष्माण्ड्यै चण्डघण्टायै स्कन्दमात्रे सिद्धिदायै महागौर्यै कालरात्र्यै कात्यायन्यै नवदुर्गाभगवत्यै सहस्रनाम्न्यै दुर्गादेव्यै भवान्यै दीपोनमः धूपोनमः || अपसव्येन || ओं तत्सद्ब्रह्माद्यतावत्० | पित्रे पितामहाय प्रपितामहाय प्. १७९) मात्रे पितामह्यै प्रपितामह्यै मातामहाय प्रमातामहाय वृद्धप्रमातामहाय मातामह्यै प्रमातामह्यै वृद्धप्रमातामह्यै इत्यादिभ्यः दीपः स्वधा धूपः स्वधा || सव्येन || संव्वः सृजामि हृदयं संसृष्टं मनो अस्तु वः || १ || संसृष्टास्तन्वः सन्तु वः संसृष्टः प्राणो अस्तु वः || २ || सं यया वः प्रियास्तन्वः संप्रिया हृदयानि वः | आत्मा वो अस्तु संप्रियः संप्रियास्तन्वो मम || ३ || अश्विनोः प्राणस्तौ ते प्राणन्दत्तां तेन जीव मित्रावरुणयोः प्राणस्तौ ते प्राणन्दत्तां तेन जीव बृहस्पतेः प्राणः स ते प्राणन्ददातु तेन जीव || देवीन्याअस ह्रां अङ्गुष्ठाभ्यां नम इत्यादि || बीजत्रयाय विद्महे तत्प्रधानाय धीमहि तन्नः शक्तिः प्रचोदयात् || ३ || ओं तत्सद्ब्रह्म० | भगवत्याः अमायाः कामायाः चार्वङ्ग्याः टङ्कधारिण्याः तारायाः पार्वत्याः यक्षिण्याः श्रीशारिकाभगवत्याः श्रीशारदाभगवत्याः श्रीमहाराज्ञीभगवत्याः श्रीज्वालाभगवत्याः व्रीडाभगवत्याः वैखरीभगवत्याः वितस्ताभगवत्याः गङ्गाभगवत्याः यमुनाभगवत्याः कालिकाभगवत्याः सिद्धलक्ष्म्याः महालक्ष्म्याः महात्रिपुरसुन्दर्याः शैलपुत्र्याः ब्रह्मचारिण्याः कूष्माण्ड्याः चण्डघण्टायाः स्कन्दमातुः सिद्धिदायाः महागौर्याः कालरात्र्याः कात्यायन्याः नवदुर्गाभगवत्याः सहस्रनाम्न्याः दुर्गादेव्याः भवान्याः आत्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थं श्रीदेवीप्रीत्यर्थं देवीपूजनमऽर्चामहं करिष्ये ओं कुरुष्व || आगच्छ त्वममादेवि ! भक्ताऽशयनिवासिनि ! | प्रीत्यादत्तामासनं ते स्वास्यतां मम प्रीतये || प्. १८०) भगवत्याः अमायाः० | इदमासनं नमः || भगवत्यै अमायै० युष्मान्वः पूजयामि ओं पूजय | भगवतीं अमां कामां चार्वङ्गीं टङ्कधारिणीं तारां पार्वतीं यक्षिणीं श्रीशारिकाभगवतीं श्रीशारदाभगवतीं श्रीमहाराज्ञीभगवतीं श्रीज्वालाभगवतीं व्रीडाभगवतीं वैखरीभगवतीं वितस्ताभगवतीं गङ्गाभगवतीं यमुनाभगवतीं कालिकाभगवतीं सिद्धलक्ष्मीं महालक्ष्मीं महात्रिपुरसुन्दरीं शैलपुत्रीं ब्रह्मचारिणीं कूष्माण्डीं चण्डघटां स्कन्दमातरं सिद्धिदां महागौरीं कालरात्रीं कात्यायनीं नवदुर्गाभगवतीं सहस्रनाम्नीं दुर्गादेवीं भवानीं आवाहयिष्यामि ओं आवाहय || श्रीशारिके त्रिपुरसुन्दरि शर्मसिन्धो ज्वालेऽत्र राज्ञि वरदेऽखिलविश्वमातः | शर्वार्धदेहनिलये धीषणे मदीयां पूजामिमां स्वपरिवारयुता गृहाण || हे देवि त्वं पराशक्ते भक्तानुग्रहकारिणि | अस्मद्दयानुरोधेन सन्निधिं कुरु चात्र भोः || ३ || इत्याहूय च गायत्रीं त्रिःसमुच्चार्य तत्ववित् | मनसा चिन्तितैर्द्रव्यैर्देवीमात्मनि पूजयेत् || तेजोरूपां ततः क्षिप्त्वा प्रतिमायां पुनर्यजेत् || यवान्विकीर्य || प्राणायामः | पाद्यार्थमुदकं नमः || शन्नोदेवीरभिष्टय आपो भवन्तु पीतये | शंययोरभि स्रवन्तु नः || लाजाश्च कुङ्कुमं चैव सर्वौषधिसमन्वितम् | दर्भाङ्कुरं जलं चैव पञ्चाङ्गं पाद्यलक्षणम् || भगवति पाद्यं पाद्यम् || एहि कामे कामहर्त्रि स्वेष्टकामदुघे शिवे | भक्त्या पाद्यं मया दत्तं क्षाल्यतां पादपीठिकाम् || भगवत्यै अमायै० पाद्यंनमः | शेषं निवारयेत् || पुनः | शन्नो देवी० || प्. १८१) आपः क्षीरं कुशाग्राणि घृतं च दधि तण्डुलाः | यवाः सिद्ध्यार्थकाश्चेति ह्यर्घ्यमष्टाङ्गमुच्यते || भगवति अर्घ्यं अर्घ्यं || चार्वङ्गि त्वमिहागच्छ सतां चार्वङ्गदायिनि | मयाऽनीतमर्घ्यमिदं शुद्ध्येतां मुखहस्तकौ || भगवति अमे कामे चार्वङ्गि टङ्कधारिणि तारे पार्वति यक्षिणि श्रीशारिकाभगवति श्रीशारदाभगवति श्रीमहाराज्ञीभगवति श्रीज्वालाभगवति व्रीडाभगवति वैखरीभगवति वितस्ताभगवति गङ्गाभगवति यमुनाभगवति कालिकाभगवति सिद्धलक्ष्मीः महालक्ष्मीः महात्रिपुरसुन्दरि शैलपुत्रि ब्रह्मचारिणि कूष्माण्डि चण्द्ऽघण्टे स्कन्दमातः सिद्धिदे महागौरि कालरात्रि कात्यायनि नवदुर्गाभगवति सहस्रनाम्नि दुर्गादेवि भवानि इदं वोऽर्घ्यं नमः || टङ्कधारिणी त्वमेहि दुष्टान् टङ्कैर्विधारिणि | गृहाणाचमनं दत्तं मुखान्तर्मलमृष्टये | भगवत्यै० आचमनीयं नमः || आगच्छ तारे स्थानेऽस्मिन् भवसागरतारिणि | मलोत्थापनकं देहात्मन्त्रसानं च स्वीकुरु || भगवत्यै० मन्त्रस्नानीयं नमः || लाजागन्धवचः कुष्ठं वालुकं शङ्खपुष्पकम् | कुङ्कुमागुरुकर्पूरान् स्नाने देव्याः प्रकल्पयेत् || इदमपि च || तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् | दुर्गां देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः || १ || अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा | पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंययोः || २ || विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरितातिपर्षि | अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोद्ध्यविता तनूनाम् || ३ || पृतनाजितं सहमानमुग्रमऽग्निं हुवेम परमात्सधस्थात् | स नः पर्षदतिदुर्गाणि विश्वाक्षामाद्देवो अति दुरितात्यग्निः || ४ || प्. १८२) प्रत्नोहि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि | स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व || ५ || यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा | चतस्र ऊर्जं दुदुहे पयांसि क्वस्विदऽस्याः परमं जगाम || ६ || देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति | सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्ठुतैतु || ७ || प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती | धीनामवित्र्यवतु || ८ || ओं गायत्र्यै नमः ओं भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् || ३ || ९ || जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः | स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः || १० || भगवत्यै० स्नानानि नमः || ओं नमो देवेभ्यः | कंठोपवीती स्वाहा ऋषिभ्यः | अपसव्येन स्वधा पितृभ्यः | सव्येन आ ब्रह्मस्तम्बपर्यन्तं ब्रह्माण्डं सचराचरं जगत् तृप्यतु तृप्यतु तृप्यतु एवमस्तु || ऐंक्लींसौः हसरक्षमलवय-ऊंहींश्रींरां गृह्णन्तु चण्डिकाभक्ता भूताः प्रासादबाह्यगाः | पञ्चभूतात्मकाः प्रेतास्ते त्र्प्यन्तु सदा वौषट् || एहि देवि पराशक्ते भगवत्यमलाशये | प्रकाशय परं तेजो नेत्रस्परेशेन वैष्णवि || उत्तिष्ठ देहि शरणं भुवि चित्रमाये ह्युत्तिष्ठ दुष्टकृतदुःखततिं कृणीहि | उत्तिष्ठ भक्तवरदायकमऽक्षि प्. १८३) धेहि ह्युत्तिष्ठ शोकभयकुञ्जमिदं लुनीहि || आसनाय नमः सिंहासनाय नमः शवासनाय नमः मुञ्चासनाय नमः ज्ञानासनाय नमः || सृष्टेरधिष्ठितिभुवः किमु चासनं ते नानाचमत्कृतिकृतः किमु भूषणं वा || किं देयमस्ति भुवनासुप्रदायिकाया वाच्यं किमस्ति स्वयमेव त्रयीजनन्याः || एहि पार्वति शैलोत्थे वस्त्रं त्वग्रोमकोशजम् | नानावर्णं मयानीतं व्रियतां चारु भावजम् || भगवत्यै० वस्त्रं परिकल्पयामि नमः || यक्षिण्येहि यज्ञमातः सुवर्णतन्तुनिर्मितम् | त्रिगुणात्म यज्ञसूत्रं मयानीतं सुवीष्ट्यताम् | भगवयै० यज्ञोपवीतं नमः || शारिके त्वं विद्रुमाभे चन्दनागुरुकुङ्कुमैः | संस्कृतं तिलकं भाले क्रियतां मम प्रीतये || भगवत्यै० समालभनं गन्धोनमः | हे शारदे शास्त्रदात्रि दूर्वार्घबिल्वपुष्पवत् | नानाविधं पुष्पजाति प्रीत्यानीतं सुमर्द्यताम् || ओं गांगणपतये नमः भैंभीमराजाय नमः कांकुमारायनमः | जुंजाङ्गलेश्वराय नमः | ओंलं इन्द्राय नमः ओं ह्रीं अग्नये नमः ओं ह्रीं धर्मराजाय नैर्-ऋतये वरुणाय वायवे नमः कुबेराय ईशानाय नमः ब्रह्मणे अनन्तायनमः | धूम्रार्चिषे नमः ऊष्माय ज्वलिन्यै ज्वालिन्यै विस्फुलिङ्गिन्यै सुश्रिये स्वरूपाय कपिलायै हव्यवाहनायै कव्यवाहनाय दशकलात्मने वह्नये नमः | तपिन्यै नमः तापिन्यै नमः धूम्रायै मरीच्यै जुलिन्यै तथ्यै सुषुम्णायै भोगदायै विश्वायै बोधिन्यै धारिण्यै क्षमायै द्वादशकलात्मने सूर्याय नमः | अमृतायै आनन्दायै पूषायै प्. १८४) तुष्ट्यै पुष्ट्यै रत्यै धृत्यै शिशिन्यै चण्डिकायै कान्त्यै ज्योत्स्नायै श्रियै प्रीत्यै अङ्गदायै पूर्णायै पूर्णामृतायै षोडशकलात्मनेशशिनेनमः | अभिष्टसिद्धिं मे देहि शरणागतवत्सले | भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् || ओं गुरवे नमः परमगुरवेनमः परमेष्ठिगुरवेनमः || अभीष्टसि० द्वितीयावरणार्चनम् | अनन्तनागराजायनमः वासुकिना० कार्कोटना० शङ्खपालना० तक्षकना० कलिकना० पद्मना० महापद्मनागराजाय नमः || अभीष्ट० तृतीयावरणार्चनम् || असिताङ्गभैरवयुतब्राह्म्यैनमः रुरुभै० वैष्णव्यै चण्डभै० रुद्राण्यै क्रोधभै० नारसिंह्यै उन्मत्तभै० कौमार्यै भीषणभै० चामुण्डायै कपालेश्वरभै० वाराह्यै संहारभै० महालक्ष्म्यैनमः || अभीष्ट० चतुर्थावरणार्चनम् || दुर्गायै नमः भगवत्यै अमायै कामायै चार्वंग्यै टङ्कधारिण्यै तारायै पार्वत्यै यक्षिण्यै श्रीशारिकायै श्रीशारदायै श्रीमहाराज्ञै श्रीज्वालायै व्रीडायै वैखर्यै वितस्तायै गङ्गायै यमुनायै कालिकायै सिद्धलक्ष्म्यै महात्रिपुरसुन्दर्यैनमः || अभीष्ट० पञ्चमावरणार्चनम् || गायत्र्यै सावित्र्यै सरस्वत्यै बालायै भुवनेश्वर्यै || अभीष्ट० षष्ठावरणार्चनम् || वज्राय शक्तये दण्डाय खड्गाय पाशाय ध्वजाय गदायै त्रिशूलाय पद्माय चक्रायनमः || अभीष्ट० सप्तमावरणार्चनम् || अग्न्यादित्याभ्यां वरुणचन्द्रमोभ्यां कुमारभौमाभ्यां विष्णुबुधाभ्यां इन्द्राबृहस्पतिभ्यां सरस्वती शुक्राभ्यां प्रजापतिशनैश्चराभ्यां गणपतिराहुभ्यां रुद्रकेतुभ्यां ब्रह्मध्रुवाभ्यां अनन्तागस्त्याभ्यां नमः || पराशक्तये चिच्छक्तये सहस्रनाम्न्यै दुर्गादेव्यै भवान्यै अर्घोनमः पुष्पं नमः || प्. १८५) महाराज्ञि राजसेव्ये साज्यं गुग्गुलसंस्कृतम् | अष्टगन्धयुतं धूपं मया नीतं सुजिघ्र्यताम् || भगवत्यै० धूपं परिकल्पयामि नमः || एहि ज्वाले महाज्वाले कर्पूरपीठमण्डितम् | नानावर्ति रत्नदीपं मया दत्तं प्रकाश्यताम् | भगवत्यै० रत्नदीपं कर्पूरं समर्पयामि नमः || एहि व्रीडे वीतव्रीडे चामरं पिच्छलैर्युतम् | सुखवातप्रदं सम्यक् दत्तं स्वीक्रियतामिदम् || भगवत्यै० चामरं समर्पयामिनमः || एहि दुर्गे पराशक्ते भक्त्या कंकतिकां शुभाम् | ध्वजं छत्रं व्यञ्जनं च मया नीतं विभूष्यताम् | भगवत्यै० उपकरणानि समर्पयामि नमः || हे वैखरि विश्वमातस्त्वद्दृष्ट्याऽदर्शबिम्बवत् | भाति विश्वं स्वयं त्वं साऽदर्शं दत्तं सुपश्यताम् || भगवत्यै० आदर्शं समर्पयामि नमः || एताभ्यो देवताभ्यः दीपोनमः धूपोनमः || सपरिवारायाः पराशक्तेरर्घ्यदानाद्यर्चनविधिः सर्वः परिपूर्णोऽस्तु || हे वितस्ते पापहर्त्रि क्षीराज्यमधुशर्करम् | षड्रसास्वादितं भक्ष्यं चरुं न्यस्तं सुस्वाद्यताम् | भगवत्यै० चरुं स० || एहि गङ्गे विष्णुपज्जे बिल्वदूर्वाब्जमण्डिताम् | पुष्पाञ्जलिमिमां भक्त्या दत्तां नस्यां सुजिघ्र्यताम् || भगवत्यै० पुष्पाञ्जलि स० || यमुने त्वं यमस्वसुर्भव्यखर्जूरदाडिमम् | द्राक्षारुकाम्बरम्भादि फलं प्रत्तं सुभक्ष्यताम् || भगवत्यै० फलं स० || कालिके त्वं कोकिलाभे पूगताम्बूलपानकम् | मुखभागन्धदं दत्तं प्रीत्या श्वासं सुगन्ध्यताम् | भगवत्यै० ताम्बूलं सम० || सिद्धलक्ष्मीः विष्णुपत्नि ज्ञाताज्ञातकृतानि मे | प्. १८६) दशधैनांसि दह्यन्तां प्रक्रमैकविधानतः || ओं नमो भगवत्यै भगवति प्रसीद || महालक्ष्मी मारमातर्भुक्तिमुक्तिफलप्रदम् | भक्त्या कृतं प्रणामं ते साष्टाङ्गं स्वीविधीयताम् || उभाभ्यां जानुभ्यां पाणिभ्यामुरसा शिरसा मनसा वचसा च नमस्कारं करोमि नमः || अन्नं नमः २ आज्यमाज्यमऽद्यदिनेऽद्ययथासङ्कल्पात् सिद्धिरस्तु | अन्नहीनं क्रियाहीनं विधिहीनं द्रव्यहीनं मन्त्रहीनं च यद्गतं तत्सर्वमऽच्छिन्द्रं सम्पूर्णमस्तु एवमस्तु || शन्नोदेवी० | भगवत्यै अपोशानं नमः || पुनः शन्नोदेवी० | भगवत्यै दक्षिणायै तिलहिरण्यरजतनिष्कर्षं ददानि || एता देवताः सदक्षिणाऽन्नेन प्रीयन्तां प्रीताः सन्तु || नैवेद्यः || अमृतेशमुद्रयाऽमृतीकृत्य अमृतमस्तु अमृतायतां नैवेद्यम् | सावित्राणि सावित्रस्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे || भगवत्यै अमायै० ओं नमो नैवेद्यं निवेदयामि नमः || योगिनीबलि - (चट्) || आकाशमातृभ्यो बलिंनमः समालभनं गन्धोनमः अर्घोनमः पुष्पं नमः || देवी दुर्गाभगवत्यै फलादिसमर्पयामि नमः || क्.एत्रपाल क्षांक्षेत्राधिपतयेऽत्रं नमः रां राष्ट्राधिपतयेऽत्रं नमः सर्वाभयवरप्रद मयि पुष्टिं पुष्टिपतिर्ददातु || बीजत्रयाय विद्महे तत्प्रधानाय धीमहि तन्नः शक्तिः प्रचोदयात् || ३ || ओं तत्सद्ब्रह्माद्यतावत्तिथावद्यामुकमासस्याऽमुकपक्षस्य तिथावमुकायां भगवत्याः अमायाः कामायाः० आत्मनो वाङ्मनः कायोपार्जितपापनिवारणार्थं श्रीदेवीप्रीत्यर्थं देवीपूजनमच्छिद्रंसम्पूर्णमस्तु एवमस्तु || प्. १८७) एताभ्यो देवताभ्यो यवोदकं नमः उदकतर्पणंनमः || आपन्नोस्मि शरण्यासि सर्वावस्थासु सर्वदा | भवानि त्वां प्रपन्नोस्मि रक्ष मां शरणागतम् || अपराधो भवत्येव सेवकस्य पदे पदे | का परा सहते देवि केवलं स्वामिनं विना || यद्दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम् | निवेदितं च नैवेद्यं तद्गृहाणानुकम्पया || आह्वानं नैव जानामि नैव जानामि पूजनम् | पूजाभागं न जानामि क्षम्यतां परमेश्वरि || उभाभ्यामिति अष्टाङ्गं प्रणामं करोमिनमः || तर्पणं | नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः || नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते कृणोमि || ३ || इत्येतासामेव देवतानां सलोकतां सायुज्यं सार्ष्टिं सामीप्यमाप्नोति य एवं विद्वान् स्वाध्यायमधीते || क्षमा प्रार्थना स्वच्छस्वान्तेन ते भक्त्या महात्रिपुरसुन्दरि | यथाभावं कृतां पूजां स्वीकृत्य विश स्वाश्रयम् || मनस्यन्तर्गतं मन्त्रं मन्त्रस्यान्तर्गतं मनः | मनोमन्त्रमयं दिव्यमेकपुष्पं पराऽर्चनम् || इति दुर्गापूजासम्पूर्णा || ओं महाराज्ञीस्तोत्रम् || ओं या द्वादशार्कपरिमण्डितमूर्तिरेकां सिंहासनस्थितिमतीमुरगैर्वृतां च | देवीमनक्षगतिमीशरतां प्रपन्नां तां नौमि भर्गवपुषीं परमार्थराज्ञीम् || १ || यत्पादपङ्कजतलेऽमरमूर्धमौलिन्यस्तेन्द्रनीलमणिसन्ततयः पतन्ति | किञ्जल्कपानरतमुग्धमधुव्रतत्वं राज्ञी सदा भगवती जननीव नोऽव्यात् || २ || द्वारं यदीयचरणाम्बुजयुग्मनिर्यद्रेणुस्मृतिर्विवृतमस्ति महोदयानाम् | अम्बाधिकप्रणयपूरितचित्तवृत्ती राज्ञी शुभं वितनुयान्मम सेवकस्य || ३ || दम्भं विहाय भवदङ्घ्रिनतिं तनोति यो राज्ञि ! देवि न विमुञ्चति मुक्तकान्तां | तं रूपहीनमपि काममिवाधिगम्य तां त्वां नतोस्म्यऽशरओं भवभारखिन्नः || ४ || शान्तिं निनाय दशकन्धरमुग्ररूपं यत्पादसद्दशनखाग्रलुठत्किरीटः | रामो दशेन्द्रियनिवृत्तिविधानदक्षो राज्ञीं नतोस्म्यऽशरणो जगदम्बिकां ताम् || ५ || अर्कप्रभा प्रबलमोहतमःप्रशान्तौ चन्द्रद्युतिर्भवभयद्विपदन्तभङ्गे | याऽग्नेः शिखा दुरितदारुणदारुदाहे राज्ञीमनन्यशरणः प्रणमाम्यहं ताम् || ६ || कस्यापि राज्ञि बहुभाग्यनिधेः स्वरूपं भावत्कमस्ति हृदि संश्रितसन्निधानम् | दुष्टद्विषद्धृदयपाटनकृत्यहेतुं तां त्वां तनोस्मि नतलोकसुखप्रदात्रीम् || ७ || पत्तिर्द्युलोकपतिवैभवमाददाति देवाधिपोऽपि ननु पत्त्यनुकारमेति | यत्प्रोल्लसन्नयनयोगवियोगभावाद्राज्ञींमहोपपदरम्यतरां नमामि || ८ || रिक्तत्वमाप्य च धनेन यदीयभक्तिचिन्तामणिं विनिदधाति हृदब्जकोशे | नानाविधाभिमतसिद्धिकरं मनुष्यो राज्ञीं नमामि भववारिघितारिणीं ताम् || ९ || मर्त्याः शचीसहचरीकुचकुड्मलाग्रस्पर्शोचितं करसरोजमवाप्नुवन्ति | यत्पादयोः सकृदुपाहितपुष्पऊजास्तां शर्मदामनुदिनं प्रणमामि राज्ञीम् || १० || डिम्बोऽपि पूर्वसुकृतामृतसिक्तचित्तो ध्यानस्थयच्चरणभक्तिसुकल्पवीरुत् | अभ्येत्यभीष्टफलसंग्रहभाजनत्वं राज्ञी तनोतु शुभतन्तुमहर्निशं सा || ११ || तापः प्रयाति विलयं नरकाभिषङ्गजातो यदर्चनसुधारससारसेकात् | जन्तोरबोधकृतदुष्कृतभग्नमूर्ते राज्ञी रिपून्दलयतान्मम सन्ततं सा || १२ || मूलच्छिदाकरणकारणमङ्घ्रिपद्मयुग्मस्मृतेर्भगवति प्रभवोऽनुभावः | संसारपादपततेस्तव देवि यस्या भूयान्मदीयहृदयाहितसन्निधिः सा || १३ || तीव्रः प्रताप इह दुःसहतां प्रयाति यन्मूर्तिचिन्तननुतिप्रभवात्प्रभावात् | धन्यस्य कस्यचिदपि क्षितिपालमौले राज्ञीं दयारसनिधिं प्रणमाम्यहं ताम् || १४ || रेणुर्यदङ्घ्रिकमलप्रभवः प्रयाति प्रेतेशभृत्यनयनान्ध्यनिमित्तभावम् | चित्रं स्वभक्तनयने भजतेऽञ्जनत्वं राज्ञीं समस्तरिपुनिर्दलनाय वन्दे || १५ || मेघत्वमीहितपयोधरवृष्टिदाने यन्मूर्तिरेति चरणौ स्मरतां स्मृतैव | अस्माकवैरिनिवहं नयताद्विनाशं राज्ञी त्रिलोकजननी खलु निर्विलम्बम् || १६ || कामी यदीयनयनाञ्चलपूतदेहो मन्त्रं विनौषधमृते मणिमन्तरेण | क्षिप्रं हि संवननमेणदृशां करोति राज्ञी ममान्तरनुरञ्जतु वाञ्छितेन || १७ || सिन्धोरवाप्य तटमर्चननाम यस्या गीर्वाणदुर्लभसुधारससारमययाः | योगी प्रयाति परिलङ्घ्य भवाब्धिपारं राज्ञी सदा शुभततिं प्रददातु मह्यम् || १८ || प्. १९०) हालाहलं स्म गिरिशो विदधाति हीनशक्तिं स्वकण्ठगतमङ्घिनतः सुरेन्द्रः | यद्दर्शनामृतभरप्रभवात्प्रसादाद्राज्ञी वितारयतु संसृतिसागरान्माम् || १९ || सर्पाधिपो भवति यद्गुणकीर्तनेषु शक्तो न वाग्दशशतद्वयसंयुतोपि | स्वात्मीयभक्तजनवाञ्छितदानदक्षा सा सर्वशत्रुदलनं विदधातु राज्ञी || २० || नश्यत्यनन्यशरणस्य नरस्य यस्या ध्यानप्रभापरिवृधोदयसङ्गमेन | नीहारराशिरभितो वृजिनाभिधानः सा मङ्गलं त्रिजगतां विदधातु राज्ञी || २१ || स्थित्या स्थितिं कमलजा यदनुग्रहस्य वाग्देवता च विदधाति गृहे मुखे च | मर्त्यस्य तीव्रतरभक्तिसमन्वितस्य राज्ञी ददातु शुभसन्ततिमाशु मह्यम् || २२ || तिर्यग्गणादऽहमवैमि विचारशून्यं तं मानवं यदभिवन्दनसौख्यलेशम् | स्वप्नेपि न स्पृशति जातु यदीयचित्तं राज्ञी स्वभक्तजनमङ्गलदाऽस्तु नित्यम् || २३ || मन्त्रं यदीयमभिवाञ्छितदं पठित्वा मर्त्यः प्रभावसहितः स्पृहणीयतायाः | पात्रीभवत्यमरवारविलासिनीनां दुर्वारपापदलनं विदधातु राज्ञी || २४ || तीक्ष्णद्युतिः शतसहस्रतनुत्वमेत्य यत्तेजसा तुलयितुं कणमप्यऽशक्तः | राज्ञी तथाविधसविस्मयदुर्निरीक्ष्यतेजोन्विता जयतु मङ्गलकारिणी सा || २५ || मुक्ता भवन्त्यऽचलपूर्वस्वकर्ममेघमुक्ताःप्रलभ्य यदुपासनभक्तिशुक्तेः | मध्यं कदाचिदऽणवो बहुलोद्भवान्ते कुर्याच्छुभं निरुपमं स्वजनस्य राज्ञी || २६ || रश्मिः सहस्रकिरणस्य करालपङ्कसंशोषणे हिमकरस्य रुचिर्विकासे | काव्योत्पलस्य ननु यच्चरणाब्जसेवा राज्ञीं विपक्षदमनीं प्रणमाम्यहं ताम् || २७ || गायन्ति सर्वधरणीधरकन्दरासु नित्यं सुपर्वहरिणीनयनासमूहाः | प्. १९१) क्षेमाय यच्चरणमद्भुतमन्तहीन. राज्ञीं स्मरामि मनसा दुरितापहत्यै || २८ || वृक्षा यदर्चनविधावुपयोगमीयुः पुष्पैः सुगन्धहृतभृङ्गकदम्बकैर्ये | नाकेऽद्य कल्पतरवश्च त एव सन्ति राज्ञी वपुर्मम निषिञ्चतु भाग्यवर्षैः || २९ || ता निष्पतन्ति नरि तत्र खलेकपोतन्यायेन भाग्यभरभागिनि सिद्धयोऽष्टौ | यः सर्वदा भजति राज्ञि तवाङ्घ्रियुग्मं सा त्वं ममार्द्रकरुणा भव सुप्रसन्ना || ३० || चामीकरप्रकरमर्थिगणाय यस्याः प्रोद्दिश्य नाम मनुजो हि ददाति भक्तः | यः स प्रयाति कनकाद्रिगृहाधिपत्यं राज्ञी भवत्वखिललोकहिता सदैव || ३१ || देवालयादपि परं पदमामनन्ति काश्मीरदेशमालेक्षणयुग्मयुक्ताः | मूर्त्यन्तरान्वितयदीयपदारविन्दद्वन्द्वार्पणाद्भवतु सा विभवाय राज्ञी || ३२ || वीतान्यवस्तुनिवहस्पृहया कृता यत्पादाब्जयोर्जनतया भजतां प्रणामाः | नाशाय भाविजननप्रकरस्य राज्ञी कल्याणमन्तरहितं प्रददातु मह्यम् || ३३ || मन्यूत्कटभ्रुकुटिवक्त्रमवेक्ष्य यस्याः कालोऽङ्घ्रिनम्रशिरसां सहति स्वरूपम् | द्रष्टुं न दुःसहगिरीशविलोचनाग्निशङ्कायुतो भवतु मे शुभदास्तु राज्ञी || ३४ || नर्नर्ति रम्यकररङ्गतले नटो यत्पादाब्जनम्रशिरसः सुभटस्य खड्गः | सङ्गामनिर्दलितशत्रुयजार्जितश्री राज्ञी करोतु मदधीनमशेषशर्म || ३५ || क्षत्रव्रजोऽतिबलदक्षिणबाहुकोशकृष्टासिमन्दरविलोडितसंगराब्धिः | लक्ष्मीं परां भजति यच्चरणप्रसादाल्लक्ष्मीं जनाय भजते प्रददातु राज्ञी || ३६ || गङ्गादितीर्थजलपूतशरीरयष्टिर्यः पूर्वजन्मनि यमान्नियमांश्च सेवे | प्. १९२) भाअत्कभक्तिविषयं भजते स एव दूरीकृताखिलभयां प्रणमामि राज्ञीम् || ३७ || तिग्मांशुमग्निमनिलं क्षितिमम्बु चन्द्रमात्मानमभ्रमपि यत्तनुमामनन्ति | राज्ञीं समस्तदुरितापहृतिप्रगल्भां भर्गाब्धिनिर्झरनदीं सततं स्मरामि || ३८ || मीनध्वजो ननु बभूव यदीयदृष्टिपीयूषवृष्टिमधिगम्य विलब्धजीवः | भूतेशभालनयनानलदग्धदेहो राज्ञीं प्रसादसुमुखीं प्रणमाम्यहं ताम् || ३९ || श्वभ्रं परापतति दुष्कृतसारणी यद्ध्यानाचलेन्द्रपरिऽद्धपुरः प्रयाणा | राज्ञीं भजे रविजकिङ्करभीतिभङ्गदानोद्यतां हृदयसन्निहितानुकम्पाम् || ४० || रज्जुर्विमार्गगतभक्तकरावलम्बे यत्पादपङ्कजनतिर्जगति प्रसिद्धा | राज्ञीमपारतरदुष्कृतकक्स्यभारदाहे दवानलशिखां प्रणमामि नित्यम् || ४१ || तां हेलयैव गतिमेति यदङ्घ्रिनम्रः पत्युः पतेन्मखलिहामपि नेत्रमार्गम् | स्वप्ने न या कठिनपापतमोविनाशनित्योदितार्यमरुचिं प्रणमामि राज्ञीम् || ४२ || प्राणो न कर्कशकृतान्तधृतावलेपपाशोरगेन्द्रकवलत्वमुपैति जन्तोः | यद्भक्तितार्क्षतनुसंश्रितमानसस्य राज्ञी मुदं वितनुयात्स्वजनस्य तूर्णम् || ४३ || पङ्गुर्गृहाङ्गणगतः पवनोऽन्तरायनामा यदङ्घ्रियुगनम्रतनोर्नरस्य | कीनाशलोकदलनोद्यमदक्षशक्तिं राज्ञीमनन्तकरुणाब्धिमुपास्महे ताम् || ४४ || नानाकृतिर्विलयमेति भवाभिधानो यक्षो यदङ्घ्रिनतिभास्करभानुयोगात् | मर्त्यस्य श्रद्धमनसः सततं स्मरामि तस्या अहं पदसरोजरजांसि राज्ञ्याः || ४५ || ताराधिपद्युतिरनारतशोककोकसंयोगनाशनविधौ स्मृतिरस्ति यस्याः | पापक्षयाय निजमूर्ध्नि करोम्यहं तद्राज्ञीपदाम्बुजयगोत्थितरेणुपुञ्जम् || ४६ || प्. १९३) नौर्दीर्घदुर्गतिसरस्तरणोन्मुखानां यत्पादपङ्कजयुगप्रणतिर्नराणाम् | कश्मीरपण्डितमनोरचितप्रतिष्ठां वाग्देवतातनुमुपैम्यहमाशु राज्ञीम् || ४७ || मिथ्या व्ययं परितनोति धनस्य मूढो यज्ञक्रियावितरणच्छलयुक्तचेताः | सत्यां यदङ्घ्रिविनतौ शुभकामदायां राज्ञीपदाब्जयुगलं शरणं श्रयामि || ४८ || भागीरथीसलिलसन्ततिरुग्ररूपां तापप्रभूतिमपि यां ग्रसितुं न शक्ता | तां हेलया ग्लपयति स्मृतिरेव यस्या राज्ञी महादुरितभारमऽपाकरोतु || ४९ || गण्डस्थलानि सुदृशां त्रिदिवालयानां वश्यान्यवश्यमचिरेण करोति यस्याः | पादस्मृतिर्हि निजभक्तनखक्षतानां मथ्नात्वऽमन्ददुरितानि ममाशु राज्ञी || ५० || वन्दारुलोकनिलयेषु करोति पद्मावाहद्विपो हि वसतिं स्थिरतां गृहीत्वा | यत्पादपङ्कजयुगोत्थितरेणुपुञ्जयोगाद्धितं त्रिजगतां प्रतनोतु राज्ञी || ५१ || पुष्णाति वैभवमपाकुरुते विपत्तिं दुःखानि हन्ति वृजिनं हरति स्मृता या | पादाम्बुजन्मयुगलग्रत एव राज्ञ्या आधारहीनतरदण्डनिभं पतामि || ५२ || षड्भिर्मुखैर्गजमुखास्यकृतानुचर्यैः स्तौतीक्ष्यते च नयनप्रकरैः कुमारः | यां द्वादशार्कवपुषीं धृतसप्तलोकरक्षां निवारयतु भक्तभयानि राज्ञी || ५३ || पथ्यं भिषग्भिरनधीतचरं समस्तैर्दूरं महौषधिगणाच्च यदङ्घ्रिसेवा | दुर्वाररोगगुरुभारजुषां जनानां राज्ञी विनाशयतु भक्तजनामयं सा || ५४ || रम्भामुखं भवति नैव सुखाय जन्तोर्यद्भक्तिनाकवनिताबहुभोगभाजः | सुदुष्टपूर्वजननान्तरसञ्चितानि राज्ञी विचूर्णयतु मे दुरितानि नित्यम् || ५५ || प्. १९४) मान्यं पदं समुपयाति स वन्दिवक्त्रसत्स्थावरावनिसमर्पितकीर्तिबीजः | यो नित्यमर्चति तवाङ्घ्रिमनन्यकर्मा हेराज्ञि मातरऽशुभात्परिपाहि सा माम् || ५६ || अर्थान्प्रकाशयति दीपशिखेव दीप्रा या ध्यायिनां दहति पापपतङ्गपङ्क्तिम् | ध्यानाभिधं किरति कज्जलजालमक्ष्णोरंहो हिनस्तु मम सा प्रणतस्य राज्ञी || ५७ || राज्ञां शिरो लुठति पादतलाऽनुतानां विश्वम्भरेशशिरसां विलसत्किरीटम् | पादे यदीयचरणस्मरणायुषस्तां राज्ञीं भयापहृतये प्रणमामि नित्यम् || ५८ || नो यस्मिन् पठिते मनोऽर्हति नृणामातङ्कशंकाङ्कनं गुप्ताद् गुप्ततरामिहाशयदिशं नो दोषराशिः स्पृशेत् | युक्तिः सिन्धुसुतावशीकृतिविधौ हेतुर्वचोदेवताप्राप्तौ पण्डितकृष्णकेन स महाराज्ञ्याः स्तवो निर्मितः || ५९ || इति श्रीपण्डितकृष्णकविरचितः श्रीमहाराज्ञीस्तवः सम्पूर्णः || ओं श्रीमदऽलक्ष्येश्वरीपरपर्यायसाहि भदररूपभवानीवाक्यमञ्जरी || ओं श्रीगुरवे परमशिवाय नमः || आदौ निर्वाणदशकम् || ओं सहस्रसर्वत्रव्यापी सुहृत् विचार्यं बहु बलू सं बाहु एक त्वं स्वयम्भूः परमाकारी अन्तर्मुखे दृष्टे निर्वाणरहस्तती परमागती || १ || शुद्ध्युक्तमूलाधारे कुण्डलिनीमण्डले गौरी सिद्धार्थ सूक्ष्मो सुषुप्तीचक्र विरक्त शान्ताधारी ईश्वरी तुर्यातीत परमानन्दी अन्तर्मुखे दृष्टे निर्वाणरहस तती परमागती || २ || प्. १९५) तद्रूपमयी तत्परमागती सर्वगतास्थाने प्रवाहे गति घट् पूरणे ध्युदाह् देह तृपितं समर्थस्वामी परमार्थनिधानम् अन्तर्मुखे दृष्टे निर्वाणरहस् तती परमागती || ३ || उपनिषत्पारिजाता अक्षय फल एकार्थी सद्गुरो योगी अदेहो पुराणम् बहु तेजभानी सुशीतल् सुदर्शन् निनायो अग्रायो परमदीप प्रसन्नो अन्तर्मुखे दृष्टे निर्वाणरहस् तती परमागती || ४ || पवित्रनेत्र पश्यतमुखी अन्तरबाहु बहुधनाढ्यी असद्मकामकर्तये राजयोगी दातपिता सर्वकाङ्क्षासु अर्थापूरणे अन्तर्मुखे दृष्टे निर्वाणरहस् तती परमागती || ५ || निर्लज्जा रमणो पररूप निदारा स्थित संहार प्रलय चित् अदृष्टो अग्रन्थो निजानो प्रसन्नो आदिदेव तत् निहानो निमानो निष्फल स्थिररूपस् अन्तर्मुखे दृष्टे निर्वाणरहस तती परमागती || ६ || लोत्रवेत्र नासी गोत्री न भाषी न कुली न कृत्यं महानन्दरूपं शयं स्थानवासी आदि सर्वमध्यं जिता सन्न्यासी भिन्न बिन्दुनादी अन्तर्मुखे दृष्टे निर्वाणरहस तती परमागती || ७ || न जाया न जन्मी दग्धकर्मकाण्डी यथा शान्तभस्मी अरूपः सुरूपं सर्वत्रसुखी अदेहसमाधि अमोह सावधानं तत् निष्कल निराकार अन्तर्मुखे दृष्टे निर्वाणरहस तती परमागती || ८ || अहन्ता ममता गलेत स्थित प्रलय ना आसि यथा न आसि मिलेत कवलदल त जलबिन्द मध्य आकाशे कदाचित् वृक्ष ना आसि लगि नत क्याह् वाचि फला रसगुणी शिलाजल सग् अग्निदाह भस्मो साध ताप समो अन्तर्मुखे दृष्टे निर्वाणरहस तती परमागती || ९ || वेदवाक् अर्था अमृतनदी संप्रीता प्. १९६) अनेकप्रवाहे समन्वय षोडश चन्द्रकले सपण्डिता समदर्शघने अर्चने देव निर्मल स्तोत्री सत स्तवपाठे सर्वत्र जगद्गुरोसेवा अनन्तपूजने एको अन्तर्मुखे दृष्टे निर्वाणरहस तती परमागती || १० || इति निर्वाणदशकम् || ओं गुर अन्तर तत् निर्मलं शुद्धं अत्यन्तविद्याधरम् लल्नाम लल परमागुरुं शिवमाधव नाहं परंब्रह्म सोहम् || १ || कृपा करे सर्व रोगा हरे ज्ञानी छाल फिरे तान तान विसरे समाधी देह स्मरे सूय अग्नवतूर अखण्ड यज्ञ करे अग्न प्रज्वाले गीता पडे भुय चेने कपाल मूचे गोपाल जी नाट करे गोपीसहाय योसो होम सूय मधुरस गियि कनि दिये कन्द होमे खण्ड होमे पननो देह श्रीफल जाफल सुफल हिये मोरेत् शिर नैवेद्यस जय | समिव त्रिकारण किन अकुय भुय पान ति भुयके येहुय अकुय यज्ञस भिहित भस्म कियवे अङ्गन भुयि के आङ्गन द्राव पाताल छाल फेरेत् ता खारूं मिचि त कन्यन् मञ्जे अनूमस् पय अद नद उदूं त गल नद् पीवों प्रभातों स्वात् सुथो प्रज्वालों ता न किंह | हेञ् अने पाताल गगन गमें मूर्त ना मूर्त पञ्चतत्व चेतन मले शून्या गले षन् वनै सा सत् || आसि भुवे न आसै पान् नासे ग्रास करि पवान् नर कासे ना क्यंह फासे नासीर् क्याह आसीर् भुय द्रायिस त निर्वाणो आवहिं जाङ्घे चि न त कारुण मङ्घे कस रङ्गारङ्गी गुल फुलू हं अङ्गे मि न त भिय चित चिङ्घे कस | पद विना मा त्राव पादू वादा पूरक आद् छ्यू वासा भ्रुकून् नाभद् ग्रूकूने खासे परम पद् परमानन्द हासील | रूप अताये प्. १९७) आये वरानरा निरालंभा रूप कृपा पर आनन्द जानवारा औतार रोम रोम रूप समुद्र प्याल त मुद्रू वासन् अवै क्या सन मङ्ग उञ् ज्ञान रूप त शून्या आसन् आसुन् नासुन सूते छ्यो | यव ध्यान भक्चेस करे तव ज्ञान आदरे पान यव प्याल भरे भङ्केरे तवा लये सुमारे स्मरे पान् यो सो तौख त्रावेत् मौख मेलावे प्रैणा प्रेम लारे प्रार विथूर ज्ञान त पान तलरे शून्यस शून्य मिलावे सुर त्रावि त तृहणा मङ्गे तीर लायि त त्रावे सङ्ग शेरि गङ्ग त निथूय नावे दुह पाथ्युं त अर्जोम् भ्रुह शून्या अंशा आवहिं अथे गज्जि सम्रोम् तव सूती यव सूती जन उपदावों तिय ठहरावो मनस सूती ग्वारीत् समूरीत् शून्या खारुं पारुद् मारुं तव सूती पञ्च अग्न लाल च्यरावों ग्वाश प्रज्वलावों तव सूती न करुं रुतू न यछ जानुं जे रुतू नत रातू किंह करुं नो मूद मुतू देह सन्दारुं न जीवन्तू मारुं मो आगर फीरित् ता ग्रजुं उगवान्ये डूरू सगूमो और के कृपा सूति आलम् भरुं योर ना किंह सुरुं मो प्रभा तेजूय उन्दि आ दरुं रोम रोम ज्योत् तरुं मो कृष्णारूपय ब्रह्म हा स्मरेत् विष्णु महेश्वरा गुरुमुखै ध्याना ध्यायरे चरणा हृदय कमल तूल पवन मूल शून्या ऊर्ध्वमुखी गगनमण्डला नानारङ्गशाख चतुर्वेद पानै मान नद् सगवान् नानाप्रकार ध्याना थानू ज्ञाननाम अनेकधन् स्थानापूरक मनूय मनूय स्मरे वाणी निराकार स्वारेत् गटू त्रावेत् ग्वाशस् चायस् मारीत् स्वर् यिम् च्यानी पञ्च इन्द्रिय तव सहज कले योग साधित् सर्ववादी जानीं ज्ञानपानस ह्युहूय | धरणी प्रावों त सुरन्यी प्. १९८) पियस् हरा उञू छू भर वसुरुं दिम् कुसुम जरित आसूय चूये आसू करूथं त खासूं भरुं सहज सिपर पूरित् द्रायिस् दिति नम् जू पर शाही त शाह हेश छ्यस सूह् जन् लागित् बाह जन् हितो वाहजन् तोतस त हारे गिन्दूम् पैरिम् सहज सिपरता तुरगस ज्यीना लगू रव पोषनूलन् ता वीणा वजे काली शङ्खशब्द ता घण्टा वायान् क्रिय नद् उजे दिवान् शङ्करस् गडू हाल् मेलि त जाल वहारे प्राण लारे मारे मीन् रोग गालि त ज्योग सन्दारे भोग आहारे करे शरीर सोर गों सुफली अङ्ग मिलि ने अङ्ग सवारे भङ्ग निवारे यी न फले ती वले ज्यन्त्र तन्त्र अनाहत अनामय अक्षय सावधान खेले अङ्ग वचवान् अङ्ग प्रज्वलान् स्थिरवासन् धारान् अटल सावधान् उ आप भगवान् || भु शिव गत् चू शिव पान् वर दिय त भून रुय वासा पाद गमि रसा रसा खसान् त शब्द चूनूम् आहङ्ग ३ सारङ्ग ३ राग त वीणा च्यङ्ग | यसूह सहाय सुय पानै आसान अथ वासा शिव त शून्या कस यसू विहगाले तिह निवारे सू शरीर थावे भुंह पर वारे साथा तारे द्वयी भु गाले आसे तस ज्ञानी दर्शन दिये इक्लासे तस पानय कल्पन कासे नाव नारा वाव सवारा नानारङ्ग ना वर्ण ना गोत्र भुंह अन्य निन्दूय पत करि वारै कहान्दू दार त कस चारे दियि असिति ताराह त्रिय औतारे यसू ग्वारान सु सूती छू भ्रुंह भ्रुंह पके त दुह मौ लोसे निथुय पोषि त सुय छुय सात् क्षत् भजितित् जात मौ सोरे छिविथ थुरिजे कति क्या रूप युस् सूति हिये ध्यान त पानस तिलि कुंह न मेले प्. १९९) त कंसि न गेले जागे हरस त लागिस् बेले पानै पानस सूति मेले || सन्तूख समाध एकासन मैंयू लगाया प्रेम का दृढ किया वालवाशी अक्षयां का ज्योत् सुरूप किया करुं मेरे से तान्तेरे सूक्ष्मरूप दिखाया तुमरे आज्ञा से तुमरे चरण हृदय में भसाया अपने घर आया आप स्वांयी जो कुछ मैं था सो अब नाही ये बुध आया सद्गुरू के भडायी जिन गुरूने दिया सत् का तत्व भताये || यवा तूर चलिय तिमै अफल वल अम्बर यवा भुछ्य चलिय आसख तृप्तो तिमै आहार भक्त युक्त योग कर रोग गालिये आसख मुक्तू निष्कल तुष्टुय तिलि विशेषा खेल मिलित् ता च्यून || भाग चायिस भागि आयस परमा सरस नारस नरस शरणि आयस ललेश्वरस गुरस माधवा शिवस सेवादेवस साकारस निराकारस अन्तरकिस सतस व्रतस अहं पदव सदा माधव रव हंसा च्यूनुम || मिदौ प्याल भरिमा मद की मिदौ हाल पिवों सो दौ देहानन्द नदमया लोचन प्याल मुचर साके पिला-ओ हूहा भूभहा हहा मुतूवाला || आगर ग्रजि नद सान्ये भान भरेत् ता फिरिम खासी गुर्क माता उपानर भर्भर्ता पिव इक्लासी || आगर ग्रजवनी अमृत ची नदा रजवन्यी प्रजलान सुधा भूत तेलि तु लदवन्यी त्रिन् भुवनन् कदा मेलि तु समुद्र च्यी पद उय भुय || होश मेलि त पोष फलानी गोश खिलानी साधुसङ्ग गञ्ज ज्ञानी अव रूप च्यानी कृपा च्यानी बहुवानी रङ्ग सोमा शमाह प्रजलानी तिमा भिन्न जलानी भो अव रूप प्रेम छ्यो मिलानी यिमै पद कैसि मिलानी प्. २००) क्याह || मथुरा पथ भ्रुह सत रूप मिलोयौ सत गत त तत्व तिलोयौ रोमरगि हर रङ्ग मिलोयौ आत्म सङ्ग रव || अवल करियेन कुहन अट लट दिवनो हवनम् ध्यान् शुमुर्यां देह दिव अवै वट छट फिरवनो म्यानो पान् तुष्टुम् त कासूनम् नेत्रन घट जन चाटस् गुरु वखनूम् ज्ञान यसू गुर पिता सुय छ्युम मालू सुय प्रबलो दीपप्रकाश सूय सर्वकुलस उद्धार कर उनू सुय ईश्वर सुय छ्यूम् गुर || कुह यदि दजन त विह हियि भारि भुय हियि हाहे अचिस ग्रक् क्रूह त्रावि उछ्यस् स्वभावे शिहिले चन्दन धारे क्राय | यसू भुहा त भिय विचारे इन्द्रिय मारे जन मुङ्गर सिद्ध त साधू गले अथ हुनरे कैसे लोभ त भारे क्याह | द्राव उहि वावरूपी गुर ईश्वर आव अविनाशी पान मशि त ध्यान तोषे सुमन परमानन्द वातू तत् राशी || सू वा अन्दर निभर प्रत् दीशन कन्दिव देशन ग्वारान लूम्तूय दुह चित थव मरिस अन्दर छ्यूय निशान दूषन वालित्त दितस् छुह || कैत्यान कृपा करेत् पान स्रगन यिमन मन लगान मानस सूति युम व्यूह त्रावेथ आय सुदेह साधन वातिख वानस लाल रत्न कथ भानस कुसू || नौ पाठ जानस तव पाठ पड-अ नौ जप जानस् तव माला फिर-अ समुद्रा हावतं यव मुद्रू प्याल च्यम्-अ नद नाल रट भुय नै जै जै रत्नमाल || नौ पाठ जानस् तव पाठ पड-अ सू पाठ पानै मनि वाचू जपान आत्म त दपान वाणी पिव मधु रस भान भरित्-हा छिव || तिथू ध्याना हित्-अ यिथू ज्ञानस अन्त तिथू सहज दित-अ यिथू बहुत शङ्कर प्. २०१) भक्ची तिथू पानस् मि चु लागत-अ यिथू बहुत शंकर भक्ची यिथू पानस् मु चू रावणम् | न हि हू यिहय कुलू मूलता श्वाह तुलू यव शाख पन त फूल दात पपिव समुद्रा पान रसि सवाद ननिस जात | मन समुद्र धानू सान्यी छ्युक समाध नाद बिन्द च्र-अटू दान अखण्ड मिलायो मखन साधि कारिस गिव || ज्यो तत्पर जाइ कारण च्यानि मानि अतूर त ननिस भुय भान फुटरित पानै थुरि कुसू मरि त कस लमि दुःख पानै नाहि पानै पूरि कुसू मरि त कस ईयि टुक || प्रथ जिनसस अंशा थ-उन अथि कैंसि न चेतन थ-उन तति जन अनून त पुंछवा फीरित न्या-उन भिय मिलाअ-उन गज्जस सूति | यिवान पान त जुवान पान अ रिवान पान त निवान टूक नाना प्रकार गिन्दान पान-अ रिन्दान पान त हिवान पन्थ पिवान प्याल त छिवान पान-अ भुवन पान त चूवन टूक || रङ्गित रुय द्रायिस सङ्ग कूय मुक्त मुख चू ज्ञानू अकुय भुय भक्चीरूप ग्वारान न किंह् रुय न कुह भुयि त न कुह भुय | ध्यान आशक आस्न चूये आशक चूयत भुता कुंह ज्ञानी ग्वाश ग्वाह आशक चूये विज्ञानी लाशक मशक चूये मरू युसू जालि नार दरू नौ संसार दरू सू जियि नत मरि न चरू युसू ग्वालि आर सोरू भोग आहारि निराहार न निन्द्रि न हूस्यार रहेत सौरू कर्म करि नित्य भिकार रोम रोम आव अवतार ध्यानस् मि चू त पानस भु चू अथि ज्ञानस चि मि नमस्कार || पानै पान पर्जन त पानै विचि न त अथ जाननस वि चिय जानित न कुंह छ्युह शाह त गदा सह ति पानै दात खसान पूरि रव || कुनि गव प्. २०२) रय पय कुनि गव भूरि फलकुलिनूय मूरि रव कुनि तमाये कुनि तक भूरे शमा होरि त पूरि रव कृपा त कारुण युसू पानै जाने मनूय मारि दिन त रात सर्वरूप ध्यान पर्जाने मनै मानि त जनिस जात युस रूप तरि त दीप सन्दारे नाथ सो नृप विचारि मन किंह मूदि त किंह बिमारे कैंसि ज्ञान खोरू त तारे नाव माता रूपी समुद्र धाम तो पिव तत् उपासी मय पिव चर चरि तत् रूपी रव रूपी त्रिभाविन् || अन्दर त्रूख्यू त निभर सिदी उदिख नाग त जागुख तती किंह भिमारे रस्ति य मूदी किंचन विदू न त रूदी तती || ना नमुस न कदाचित् नमनो नितममनो सदा सर्वदा आकाशरूप जगि अन्दर रमनो तथी नमूस तथा सुनमनो || पद हियि त पाद छ्युम अङ्गान् अङ्गन् अङ्गन् श्रपुं रूप अग्निकुण्ड येथ रूप सन्दारे अमृतधारि पिवान देह पानस मानि त भियिन स्वारे निशि काठस् तारि चन्दन भुय यिथ भुय हिये चन्दनधारे सहज ग्वारि त ननिस जात धात गालित क्या विचारे पानूह् मरि त सन्दारे भिय विह गालि त अमृत तारे तिथू यि रूप चि वरि क्याह | अर्पावेत् जन्म चिदानन्द हंसद्वार रव रगता रूप यति कूनि उछ्यान तति पानै सर्व ध्यानै रट् मस रूप दीपप्रकाश तेजरव पानै मि जान्यौं मने छ्यो ज्ञान आकाश वाणी निर्वाणी मनि सहाय स्थानस स्थानै छ्यो आरामी रामी भुलूपान भुये भुयि त म्यानि छ्यो शयि आशक शयि छवोस लयि पानै भुयि छ्युस निरित गच्छान तिलित एवान मिलित प्. २०३) पान दयै छ्युस नादय बिन्दुह पदय परम मदय मारिफतय छ्युस विष्णु ब्रह्मा महेश्वर कृष्ण श्यामसुन्दर छ्युस पूरा तोलि रामा भोलि ब्रह्म स्वामी मन्दोरि छ्युस यि किंह काङ्क्षि ति किं ह दिये दूकान स मुद्रूय छ्युस डेशान दिशन हैरान गयस निशान मि अनु मस शून्यालये || छल लदूं च्यर्कस त कल आयि मशान यिमन षण्ण सतन हुशार भुयि || छ्यु न कुने छुना कुने उछ्युं और न योर न कुने दियि फश तुले मूल न कुने छ्युवै चेतन त स्वारितौन कुने | और ति जीवा योर ति जीवा जीवस जीवा रस ख्यावान युसू नानारङ्ग रवण छ्यु प्रत्कुणे वात-उनू च्यानू म्यानू रानू भिन्नु नत लानू अकुय भुय || न पृथ्वी न पीठी न पाताले न तले अपारेजित अन्तराशुद्धं शान्तं निर्मलं सर्वं ततदेवः || कौन मरि त कौन पितरे समुद्र तारे थाह मधुरस गडू त शशि औतारे पानस पान पूशारे हि मालय चूय वालिख तवा पञ्च स्मारिम् एकान्त न दाह दिये न किञ्च प्रावे ठहरावे स्रह न किंह कांक्षा पूरे आकाक्षितू वाते पानै दाता भुक्ता आसे वासन्य गाले भ्रान्ताह त्रावे नानारङ्ग सीर नाथा भावे माता पिता भ्राता पानै प्रथ थानै न कथ निये निराकार रूप लागित पानै सत्पानै न कथ निये || कौन जाने तेरा स्वभाव प्रभाव परमानन्दा जी जो स्मरे हृदय में पावे जैसे प्रभा श्रीभास्करा जी || सारा तत्व आहारिं गार चापूं भ्रमवा-उं अखण्ड मण्डल त पाताल हाहूमे गिव विलावों अङ्ग नावों विशेषागङ्ग || चितै लगीय त परदूय पान जान प्. २०४) चित्तै लगीय पर्जान पान चित्तै लगीय लिठू छ्यूय उपर्जान तिठू जान म्यूथ त शुद्धू जान पान वाव रट् द्वादश रव संघट माया तृष्णा मारे मन भ्रान्त त्राव नाथ छ्यू पननी घरे सात रट् सुय त ज्ञानदेह भाव भिन्नो भिन्नो त नाव छयूस् क्रैटान् अङ्गन अङ्गन अकुय पय लय पवनस मय छयूय भानुस् मानून त पानस निशि छ्यूय दय मूर्ताह करि त पच्यु खाख छ्यता क्याह पच्यू पञ्च महाभूत करिन फचे हिचू माया करिना भूत् मन गालि त पानै विचि अह ग्वारि तक्याह इच्छे भियन ठरू डालि त पानै नचे वाह वाह गुल फुली ना तुल् नामूल गण्डेत दण्डो द्रायाय भूतस क्याह लभू तस आसन ज्याय | न भुयि पाप तस न पुण्य खुय तस् आसान भुयि तस् नासान ज्याय सम्भूर वीरू वातान् भूतस् तम्भूर साजुय गूं यस् भुय शशिधारि लव दि महाभूतस् गम्भीर तोतस क्याह भोल्याह अनेक नजूमिजं दर्याव अवै स्वभाव आव स्वरूप न किंह थव न किंह त्राव बहु दीप आव छ्यपान रूप आकाश स मदूर वछूं धार तव ता रट् मस् पय दीपा शशि रव् रूप औतार बह्वाकार निराकार युस्मा कन्दि भस्म करि पसुं तहान्दू शून्यारूप शास्त्र शस्त्र क्याह मुचरि लुहार अग्नस् मारिस देह किंह न सू मंगे किंह न सुरे ध्यान सू वरे भिय त पान् अन्य षन् मनूह गण्डीत पान ऋषि यिस फाकी भान भरित् त पान साकी वाकी दानेस्त दोलो चरो हर कांक्षा पूरे खसिहिं आयेत् सूय शन् आयेन करनै शीतल माह भुख || दर्याव अन्दर प्. २०५) अंशा आव जाव मि चि त जायिस मि चू मि चूय भोग त न्यामूच् ख्याव मि चिय गय आयाव वर हित यिति सुर रहोम्न समूरिन् मि चि माञि त वाव अग्न आव त वाह् वाह् रङ्ग आज्ञा आयित अलू चूर जन वाव आसू उथदन्य त किथसन् पिव रहिनिशान् ईश्वर सन्दू नाव किति आयाव त कतू सन गवू समूरित साधित तमि कज्याव देव हित मुखे त सेव कर हास छुतुनस काम क्रोध लोभ मोह मद् अहङ्कार चाव संसारस् अमल करिस् पतै अहमाल अमल होर्नेगव पछू आयाव त कुसू क्याह निये ईश्वर वादहित कज्याव् यति आयाव त आसू मनुष्या देह् युसूं देव सुरे मनस भाव प्रथ जीवस् तिम जू सेवकस् मालि अथि आये तिमय छ्यिय मनुष्य नत किंह द्राय गुपन् यिमन् आदन सु पान मशीत गौ पियक् भुडित चेतन सु घन सोरिख छ्यन्य भानुंह कति मालि दर्कार यिये सहज त आनन्द रहहा धारित् पानै पान् सन्धारित कित् सहजज्ञान रजिय परमानन्द आव रूप सानन्द आसि कुये आत्मा रजिय वाचू सामनद मधुरसा नद् वहवन्ये || ओं भूयो न बीजं तोया न तेजस् वायुर्नाकाशं अवताह सर्वम् नजि ब्रह्माण्डं नच खात्म आत्मं शक्तिस्वरूपं परंब्रह्म सोहम् || १ || पुरुषो न पुरुषार्थात् विमर्शो न मर्षात् वर्ण तेजः शान्तरन्तर आकाशम् सूक्ष्मो न विस्तार न परं व्यापारं न ह अन्तधारं परंब्रह्म सोहम् || २ || स्थावर न जङ्गम नह चतुर्वर्णं जग न चराचर ततप्रमाकार सत् नासतो अच्छिन्नधारं सूक्ष्मो समाधि परंब्रह्म सोहम् || ३ || प्. २०६) ज्योगो न ज्युगान्तर सन्न्यासवर्णं तुर्यावतीर्णा तत्प्रसिद्धोहम् अचिन्त्यरूपं परमाकारं स्थिर केवलोहं परंब्रह्म सोहम् || ४ || माता न पिता भ्राता न बन्धु वार्ता स वेदं एकः केवलोऽहम् गुरो न च्येला मन्त्रो न लीला तत् यू इकला परंब्रह्म सोहम् || ५ || मोहो न बुद्धि न च वैराग्यं न अ रागद्वेषं निर्वैर शान्तिः स्वप्नो न जाग्रत् तत् शुद्धबोधं सूक्ष्मो स्वयम्भूः परंब्रह्म सोहम् || ६ || पादू न वीजम् नच चतुर्भुजा कारं न त्रिजग् अनन्तरूअप्म् सहस्रनामं निराकारं शुद्धस्वरूपं परंब्रह्म सोहम् || ७ || सिद्धू न सिजू विद्या न गति सिद्ध ना परीक्षा आकाशरूपम् खाकाश उलङ्घित नच राजयोगं लम्भन निरालं परंब्रह्म सोहम् || ८ || रूप ना रस् स्पर्श गन्ध न देहो यू यू न दायिस छ्युस् केवलोहम् जीवो न जीवता न वक्ता न वार्ता कर्ता सहोकार परंब्रह्म सोहम् || ९ || इडा न पिङ्गला नच ब्रह्मनाडी सा हि सुषुम्ना पायाहमेव अनाहत अनामय तुरीयावस्था आनन्दरूपं परंब्रह्म सोहम् || १० || ओं तत् अन्तरदृष्ट सम्भावों यिय मि त्रावों तिय आवों नये || १ || ललमाधव शिव इकावों भिकावों देह पानै चित्त अन्तर मज्जले सावों ललावों त भावों नये पूरू विचार प्रगितू आवों ये मि त्रावों तिय आवों नये यमि त राजे सम्भावों सावो आवों सुय पानय मन सत असत सिरावों लानू त्रावों कसू मुल् दिये ओमूय म्यानू सारू त तवै छ्यस सावों यिय मि त्रावों तिय आवों नये || २ || देहान्तर सुषुप्त सावों जगावों तुरीया आये अनाहत आनन्द खिलावों मिलावों अनामय चूय तद्रूप मि पान लिलावों भु छ्यस् प्. २०७) सावो त किंह न रावों नयि || ३ || कलि कले मिलनावों ललि हावों रूप पानै तवै अन्तर देह नावों पिवावों रस पानै तवै तुष्टि निधाना प्रावों भु छ्यस् सावो त किंह न रावों नये || ४ || बुध क्षयं च्ययं प्रक्टियं छुम् वैराग्य अक्षय धाम दुन् गोचर विचार सावों निवाव ऋषीस तवै आदि सत् आचार आवों भु छ्यस् सावो त किंहनरावों नये || ५ || न खूचूस न किंह लज्जो उपजितू पानै आवू न मि करो त न सम्पन्नो रोजूस् सूह जहेत् अवय रीच् प्रीच् त नीचू निभावों भु छ्यस् सावो त किंह न रावों नाये || ६ || तत्प्रसन्नो उदय द्रावों अङ्ग लागित् जगमा मुये न खूचिव् लोकै रजि पजे निर्मल शुद्ध शिवै दिन प्रलय तत् एकावों एकावों भु छ्यस् सावो त किंह न रावों नये || ८ || एकुत् परम बोध सदानन्द तस् विदेह समाध यस सुर आसे ऋजु सिजू विद्या यसू अदुर् आसे तत्पदवी रसे भिक्याह आसै रिद्ध सिद्ध विद्या ग्रजे आगरै तस् गरै विभव सागरै ग्वाह करे सूर्य उदय करे सूर्य उदय चलि घटकारूय सहज विचार तत्सार बोध ब्रत सत् तत्वबोध शुद्धो आचारः यिय व्यवहारः वेद तै योग चू कु भु कु विचारः अच्छिन्नधारः सूय चेन रूप यि रूप सु रूप पररूप वले आकले निरञ्जनारूप् यिय शुभ लोभ भजान् वेगबले अजरामर आसे शुद्धो देह || || इति श्रीमदलक्ष्येश्वरी परपर्यायसाहिभ दररूपभवानी वाक्यमञ्जरी सम्पूर्णा || अथ सरस्वतीस्तुतिः || ओं सितवर्णालङ्कारे सरस्वति समस्तवाङ्मयाधारे ! | कमलजमानसवरटे मृगाङ्गधवले नमस्तुभ्यम् || १ || धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः | यस्य मुखकमलकोशे वाङ्मया कुलदेवते वससि || २ || कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म | तस्माद्भारति भाविनां त्वमेव हेतुर्विवेकेऽपि || ३ || लक्ष्मीवानपि पुरुषः शूरः सुभगोपि कामसमरूपः | वृष इव विबुधसभायां प्रतिभात्यमले त्वया रहितः || ४ || मुनिमनुजमाननीयो मातर्मूर्खोपि मानवो दक्षः | निःशेषशास्त्रवक्ता त्वन्मन्त्रध्यानतो भवति || ५ || कुवलयदृशः क्व तावद्वेश्मनि विलसन्ति कुचभरानम्राः | यावदसिताब्जनयने न त्वं तुष्टासि देवि भुवि भविनाम् || ६ || जित्वा नरोरिराजकमगगुरुगजवाजिपुरुषबलसहितः | यदुपैति तत्समग्रं त्वच्चरणनुतेः फलं तस्य || ७ || आवर्जितापि कष्टैरिह जन्मनि मुञ्चति नरं श्रीः | न त्वं सप्तभवेष्विति मत्वा को नौति नो भवतीम् || ८ || कविवरवदनसरोरुहविहरणविस्रम्भविभ्रमद्भ्रमरि | भगवति पञ्चमुखीश्वरि वागीश्वरि नमस्तेस्तु || ९ || शम्भुप्रणतां वाणीं भक्त्या यः स्तौति सोऽचिरेणैव | अवहितबुद्धिप्रसरः कविराजो जायते मनुजः || १० || इति सरस्वतीस्तुतिः || ########### END OF FILE #######