#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00106 Uniform title: dhyānabindūpaniṣat Main title: yoga upaniṣads with the commentary of śrī upaniṣad brahmayogin Secondary title: dhyānabindu upaniṣat Commentator : brahmayogin Alternate name : śrī upaniṣad brahmayogin Editor : śāstrī mahādeva Description: Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 14, 2007 Publisher : Adyar library and research centre Publication year : 1920 Publication city : Madras Publication country : India #################################################### ध्यानबिन्दूपनिषत् सह नाववतु- इति शान्तिः ब्रह्मध्यानयोगमहिमा यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् | भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन || १ || बीजाक्षरं परं विन्दु नादं तस्योपरि स्थितम् | सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् || २ || अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् | तत्परं विन्दते यस्तु स योगी छिन्नसंशयः || ३ || विवरणम् ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः | योगतत्त्वज्ञानफलं तत् स्वमात्रं विचिन्तये || इह खलु कृष्णयजुर्वेदप्रविभक्तेयं ध्यानबिन्दूपनिषत् निर्विशेषब्रह्ममात्रपर्यवसन्नान्तःप्रणवार्थप्रकाशिनी तदुपायाजपाहंसविद्यातदुपायषडङ्गयोगप्रकाशिनी च सती प्रवृत्ता | तस्याः स्वल्पग्रन्थतो विवरणमारभ्यते | तस्याः उपोद्घातादिकं कठवल्ल्यादिवत् ऊह्यम् | श्रुतिरादौ तावत् ध्यानयोगसामान्यमुख्यफलप्रकटनपूर्वकं निर्विशेषब्रह्मस्वरूपं प्रकाशयति- यदीति | प्. १८७) यस्य कस्यचिद्योगिनोऽनन्तकोटिजन्मसंचितं विस्तीर्णं बहुयोजनं यदि शैलमसं पापं दुर्भेदं विद्यते तदा तदपि वज्रटङ्कोपब्रह्मध्यानयोगेन भिद्यते तिलशश्छिद्यते | इत्थंभूतध्यानयोगं विना कदाचन नान्यो भेदो भेदकोऽस्तीत्यर्थः || १ || एवं ध्यानयोगं ध्येयस्वरूपमाह- बीजेति | प्रणवो हि बीजाक्षरं अकारोकारमकारार्धमात्रात्मकं तत्परं तु बिन्दुनादकलाकलातीतम् | यः एवंविशेषणविशिष्टः शब्दप्रपञ्चः प्रणवः तस्योपरि निर्विशेषतया यत् स्थितं तत् निःशब्दमित्यर्थः | सशब्दः प्रणवः | चशब्दः तदभिधेयोपलक्षणार्थः | तस्मिन् शब्दप्रपञ्चे स्वाधिकरणपरमाक्षरे क्षीणे विलयमपह्नवं वा गते सति ततो यन्निःशब्दं ब्रह्म अवशिष्यते तदेव परमं पदं विदेहकैवल्यमित्यर्थः || २ || एवंविदं स्तौति- अनाहतमिति | हृज्जत्वात् नित्यत्वाद्वा अनाहतम् | तुशब्दो नित्यत्वख्यापनार्थः | तथाच भाष्यवार्त्तिककरोक्तिः नित्यो ह्योंकारः इति, ओंकारस्य तु नित्यत्वात् नाञ्जसोत्पत्तिरिष्यते इति, च | यच्छब्दं शब्दात्मकप्रणवरूपं विद्यते तस्य शब्दस्य यत् परं व्यष्टिसमष्टिसाक्षिरूपं तत् परं निर्विशेषं ब्रह्म यस्तु यो वा को वा स्वामात्रमिति विन्दते सः योगी छिन्नसंशयो विदेहमुक्तो भवति || ३ || ब्रह्मणः सूक्ष्मत्वं सर्वव्यापकत्वं च वालाग्रशतसाहस्रं तस्य भागस्य भागिनः | तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् || ४ || पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् | तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् || ५ || एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि | स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः || ६ || प्. १८८) तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः | पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः || ७ || वृक्षं तु सकलं विद्याच्छाद्या तस्यैव निष्कला | सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः || ८ || इत्थंभूतयोगिगम्यब्रह्मणो निर्विशेषत्वेन परमसूक्ष्मतामाह- वालाग्रेति | वालाग्रं नीवारशूकं दृश्यादृश्यतया स्थितसुसूक्ष्मं, तस्य शतसाहस्रं लक्षैकांशसूक्ष्मं जीवचैतन्यं सूक्ष्मं व्यष्टिप्रपञ्चव्यापकत्वात्, तस्य जीवचैतन्यगतसूक्ष्मस्य शतसहस्रैकभागयुक्तमीश्वरचैतन्यं सूक्ष्मतरं समष्ट्यण्डव्यापकत्वात्, तस्यैवं भागिनः ईश्वरस्य भागार्धं पञ्चाशत्सहस्रैकभागरूपं साक्षिचैतन्यं सूक्ष्मतमं स्वाविद्यापदतत्कार्यव्यापकत्वात्, साक्ष्यसापेक्षसाक्षिचैतन्यगतसविशेषक्षये तु तत्सर्वकलनानिरञ्जनं अञ्जनीयस्वातिरिक्तासंभवात् निष्प्रतियोगिकब्रह्ममात्रमवशिष्यत इत्यर्थः || ४ || कथं पुनः साक्षिणोऽविद्यापदव्यापकत्वमित्यत आह- पुष्पेति | पुष्पतिलपाषाणेषु गन्धतैलकाञ्चनं यथा व्याप्य वर्तते, यथा मणिगणे सूत्रं, तथैव जीवात्मना पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः || ५-७ || ईश्वरसाक्षात्मना व्रश्चनं छेदनमर्हतीति वृक्षं तु स्वाविद्यापदं सकलमिति विद्यात् | स्वेन रूपेणाविद्यापदवृक्षं छादयत्यावृणोतीति छाया माया तु निष्कला निरवयवत्वात् | इत्थं सकले निष्कले भावे वृक्षछायास्थानीयस्वाविद्यापदतद्धेतुमायातत्त्वे सर्वत्र तत्कार्ये च परमात्मा व्यवस्थितः व्याप्य स्थितः, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति श्रुतेः | यद्वा- सकले जीवादिसाक्ष्यन्ते निष्कले भावे- इत्यत्र द्वितीयार्थे सप्तमी- निष्कलभावं गते पुरा स्वाज्ञदशायां सर्वत्र स्वातिरिक्तं यदनुभूतं तदात्मैव स्वमात्रं व्यवस्थितो भवतीत्यर्थः || ८ || प्. १८९) प्रणवस्वरूपम् ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वं मुमुक्षुभिः | पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः || ९ || अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके | अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः || १० || उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके | द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः || ११ || मकारे तु लयं प्राप्ते तृतीये प्रणवांशके | अकारः पीतवर्णः स्याद्रजोगुण उदीरितः || १२ || उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः | अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् || १३ || ओंकारं यो न जानाति ब्राह्मणो न भवेत्तु सः | तदर्थं मुमुक्षुभिः किं ध्येयमित्यत आह- ओमिति | तस्य सर्वापवादाधिकरणतामाह- पृथिवीति || ९ || प्राप्ते इति सप्तमी प्रथमार्था | पृथिव्यादिः प्रणवप्रथमांशाकारे विलयं प्राप्तो भवतीत्युक्त्या संभूतिस्थितिरपि तत्रेति द्योत्यते | तथा च अन्तरीक्षादिः द्यौरादिश्च क्रमेण उकारे मकारे च संभूतिस्थितिप्रलयं प्राप्नोतीत्यर्थः, अकारे लीयते ब्रह्मा उकारे लीयते हरिः | मकारे लीयते रुद्रः प्रणवो हि परः स्मृतः || इत्यादि श्रुतेः || १०-११ || अकारादिप्रणवमात्राणां त्रिगुणान्वितत्वेन पीतादिवर्णवैशिष्ट्यमुच्यते- अकार इति || १२ || अङ्गपादस्थानदेवताविशिष्टप्रणवज्ञानाज्ञानाभ्यां प्. १९०) ब्राह्मणानां ब्राह्मणत्वं भवेदित्याह- अष्टाङ्गमिति | अकारोकारमकारबिन्दुनादकलाकलातीततत्परभेदेनाष्टावङ्गानि यस्य तं, विश्वतैजसप्राज्ञतुरीयभेदेन व्यष्टौ, समष्टौ तु विराट्सूत्रबीजतुर्यभेदेन, व्यष्टिसमष्ट्यविभागे तु ओतानुज्ञात्रनुज्ञैकरसाविकल्पभेदेन चत्वारः पादा यस्य तं चतुष्पादं, जाग्रदाद्यवस्थात्रयं स्थूलादिदेहत्रयं सत्वादिगुणत्रयं क्रियाशक्त्यादि शक्तित्रयं भूतादिकालत्रयं वा यस्य स्थानमावसथं भवति तं त्रिस्थानं ब्रह्मविष्णुरुद्रेश्वरसदाशिवा यदवयवाकारादिदेवभावं प्रपेदिरे तं पञ्चदैवतम् || १३ || इत्थं भूतमोंकारं यो जानाति स ब्राह्मणो ब्रह्मनिष्ठो जीवन्मुक्तो भवेत् | य एवं न जानाति स ब्राह्मणो न भवेदित्यर्थः || प्रणवध्यानविधिः प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते || १४ || अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् | निवर्तन्ते क्रियाः सर्वास्तस्मिन् दृष्टे परावरे || १५ || ओंकारप्रभवा देवा ओंकारप्रभवाः स्वराः | ओंकारप्रभवं सर्वं त्रैलोक्यं सचराचरम् || १६ || ह्रस्वो दहति पापानि दीर्घः संपत्प्रदोऽव्ययः | अर्धमात्रासमायुक्तः प्रणवो मोक्षदायकः || १७ || तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् | अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् || १८ || यत एवमन्तःप्रणवो विशिष्टफलदः अतः तत्साधनेन ब्रह्म जानतस्तद्भावापत्तिः निरङ्कुशं भवेदित्याह- प्रणव इति | अष्टमात्रात्मकान्तःप्रणव एव धनुरिव धनुः शरस्थानीयान्तःकरणाधिकरणत्वात् | शरो ह्यात्मा मनः वेगवत्तरत्वाच्छरस्य | किं लक्ष्यमित्यत्र ब्रह्म तल्लक्ष्यमुच्यते स्वात्मतया लक्ष्यमाणत्वात् || १४ || प्. १९१) तदेतल्लक्ष्यम् अप्रमत्तेन एकाग्रचित्तेन वेद्धव्यम् अन्तःप्रणवार्थब्रह्मैवास्मीत्यनुसंधानं कर्तव्यम् | एवं कृते यथा शरो लक्ष्यनिमग्नो भवति तथा तन्मयो ब्रह्मैव भवेत् | सक्रियस्य ब्रह्मभावापत्तिः कुत इत्यत आह- निवर्तन्त इति || १५ || परावरप्रत्यगभिन्नब्रह्मदर्शनस्य सर्वव्यापृतिन्यासपूर्वकत्वात् ब्रह्मालम्बनोंकारस्य सर्वारोपाधिकरणतामाह- ओंकारेति || १६ || ह्रस्वदीर्घप्लुततया प्रणवजपफलमाह- ह्रस्व इति | यदि ह्रस्वो भवति सर्वं पाष्मानं दहति अमृतत्वं च गच्छति | यदि दीर्घो भवति महतीं श्रियमाप्नोति अमृतत्वं च गच्छति | यदि प्लुतो भवति ज्ञानवान् भवति अमृतत्वं च गच्छति इति श्रुतेः || १७ || प्रणवाग्रज्ञानफलमाह- तैलेति || १८ || प्राणायामपूर्वकं प्रणवध्यानम् हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् | अङ्गुष्ठमात्रमचलं ध्यायेदोंकारमीश्वरम् || १९ || इडया वायुमापूर्य पूरयित्वोदरस्थितम् | ओंकारं देहमध्यस्थं ध्यायेज्ज्वालावलीवृतम् || २० || ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते | रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः || २१ || कथमोंकारो ध्येय इत्यत आह- हृदिति || १९ || किं तूष्णीं ध्यातव्यमित्यत आह- इडयेति | मूलाग्नावग्निरूपं प्रणवं संदध्यात् इति श्रुत्युनुरोधेन मूलाधारत्रिकोणे जाज्वल्यमानतया प्रणवार्थेश्वरं कुम्भकेऽनुध्यायेत् || २० || प्राणायामावयवदेवतास्वरूपमाह- ब्रह्मेति | पूरकादिकाले ब्रह्मविष्णुरुद्रान् ध्यायेदित्यर्थः || २१ || प्. १९२) प्रकारान्तरेण प्रणवध्यानम् आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् | ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् || २२ || ओंकारध्वनिनादेन वायोः संहरणान्तिकम् | यावद्बलं समादध्यात् सम्यङ्नादलयावधि || २३ || गमागमस्थं गमनादिशून्यमोंकारमेकं रविकोटिदीप्तम् | पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति || २४ || विधान्तरेश्वरध्यानमाह- आत्मानमिति | आत्मानम् अन्तःकरणम् अधरारणिं कृत्वा प्रणवमुत्तरारणिं प्रणवोच्चारणपूर्वकं प्रणवार्थब्रह्माहमस्मीति पौनः- पुन्येनानुसंधानं ध्याननिर्मथनाभ्यासः तस्मात् निगूढकलशान्तदीपवत् एवं आत्मानमयमहमस्मीति पश्येत् अवलोकयेदित्यर्थः || २२ || प्रणवोच्चारणप्रणवनादावसानविद्योतब्रह्मदर्शनफलमाह- ओंकारेति | यावद्बलमोंकारोच्चारणप्रभवनादवायुविलयाधिकरणतया यत् विभाति तत् स्वाज्ञदृष्ट्या गमनागमनलक्षणनादरूपप्राणोपाधिस्थमिव भातमपि स्वज्ञदृष्ट्या गमनादिशून्यं अनन्तकोटिरविप्रभं सर्वान्तरं हंसात्मकं प्रत्यगभिन्नब्रह्मरूपं ये पश्यन्ति ते विरजाः कृतकृत्या भवन्तीत्यर्थः || २३-२४ || सविशेषब्रह्मध्यानम् यन्मनस्त्रिजगत्सृष्टिस्थितिप्रलयकर्मकृत् | तन्मनो विलयं याति तद्विष्णोः परमं पदम् || २५ || अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् | तस्य मध्यगतो भानुर्भानुमध्यगतः शशी || २६ || प्. १९३) शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा | प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् || २७ || तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् | श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् || २८ || शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् | एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः || २९ || ब्रह्ममात्रावरणं मनः, तदपह्नवतो निष्प्रतियोगिकं ब्रह्ममात्रं प्रकाशत इत्याह- यदिति || २५ || एवं ध्यातुमशक्तस्य यथोक्तलक्षणहृत्कमले सविशेषब्रह्मध्यानप्रकारमाह- अष्टपत्रमिति || २६-२८ || एवं कल्पनासृष्टमित्यर्थः | एवं ध्यानं कृतं चेत् तत्प्रसादलब्धचित्तशुद्धिप्राप्यज्ञानद्वारा कृतकृत्यो भवेत् | एवं कर्तुमलसस्य एवं वा वक्ष्यमाणपूरकादौ त्रिमूर्तिध्यानमाह- एवमिति || २९-३१ || त्रिमूर्तिध्यानम् अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् | चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् || ३० || कुम्भकेन हृदि स्थाने चिन्तयेत् कमलासनम् | ब्रह्माणं रत्नगौराभं चतुर्वक्त्रं पितामहम् || ३१ || रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् | शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् || ३२ || विद्यात्मा सगुणविद्याविशिष्टोपासकः | वस्तुतो निष्कलम् || ३२ || प्. १९४) हृदये ध्यानं तत्फलं च अब्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् | कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् || ३३ || शताब्दं शतपत्राढ्यं विप्रकीर्णाब्जकर्णिकम् | तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् || ३४ || पद्मस्योद्घाटनं कृत्वा सूर्यचन्द्राग्निवर्चसः | तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् || ३५ || त्रिस्थानं च त्रिमार्गं च त्रिब्रह्म च त्रयाक्षरम् | त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् || ३६ || तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् | अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् || ३७ || ध्यानाधारहृदयं विधान्तरेण वर्णयति- अब्जेति || अब्जम् अब्जातम् अम्मयं शरीरं परितः त्रातय इति अब्जपत्रं हृत्कमकं, अधःपुष्पम् अधोभागकुसुमितत्वात्, ऊर्ध्वनालमधोमुखं लम्बमानकदलीपुष्पसदृशं, सर्ववेदमयं वेदहेतुनादाधारत्वात्, अत एव शिवम् || ३३ || शताब्दं शतायुः- परिमितस्थितित्वात्, शतपत्राढ्यं शतपत्रकुशेशयोपमत्वात्, विप्रकीर्णाब्जकर्णिकं विकसितपद्मकर्णिकोपमं हृत्कमलं यदस्ति तस्य लम्बमानसूर्यचन्द्राग्निवर्चसः हृत्पद्मस्य प्रणवेनोद्घाटनं कृत्वा ऊर्ध्वमुखं विधाय तत्र अर्कचन्द्रवह्नीनां मण्डलं उपर्युपरि चिन्तयेत् भावयेत् | तस्य हृत्पद्मस्य हृद्बीजमकाराख्यं प्. १९५) तदाहृत्य गृहीत्वा तद्रूपं ध्रुवमात्मानं संभाव्य ततस्तत्राकारार्थो विष्णुश्चरते- पदव्यत्ययः- चरति || ३४-३५ || एवं चरन्तं हंसमात्मानं प्रणवत्वेन चिन्तयतः जीवन्मुक्ततामाह- त्रिस्थानमिति | अवस्थात्रयादिस्थानत्रयं यस्य तं, यद्याथात्म्यविदः स्वज्ञानानुरोधेन धूमार्चिरादिगतिभेदेन यत् यान्ति तं त्रिमार्गं, विश्वविराडोतृब्रह्मादिभेदेन ब्रह्मत्रयं यदर्थभूतं तं त्रिब्रह्मात्मकं, अकारादित्रीण्यक्षराणि यदवयवतयोक्तानि तं त्रयाक्षरं, ह्रस्वदीर्घप्लुतभेदेन तिस्रो मात्रा यस्य तं त्रिमात्रमर्धमात्रं वा, यः तं वेद स वेदवित् जीवन्मुक्तो भवतीत्यर्थः || ३६ || ओंकाराग्रविद्योतं तुर्यतुरीयम् इति श्रुत्यनुरोधेन प्रणवाग्रदर्शनफलमाह- तैलेति || ३७ || ब्रह्मायतने प्राणविलापनम् यथैवोत्पलनालेन तोयमाकर्षयेन्नरः | तथैवोत्कर्षयेद्वायुं योगी योगपथे स्थितः || ३८ || अर्धमात्रात्मकं कृत्वा कोशभूतं तु पङ्कजम् | कर्षयेन्नालमात्रेण भ्रूवोर्मध्ये लयं नयेत् || ३९ || भ्रूमध्ये तु लालाटे तु नासिकायास्तु मूलतः | जानीयादमृतस्थानं तद्ब्रह्मायतनं महत् || ४० || पराग्वायुं प्रत्यङ्मुखं नीत्वा ब्रह्मायतने विलापयेदित्याह- यथेति | यथैव नरः उत्पलनालेन तोयमाकर्षयेत् तथैव योगी योगमार्गे तिष्ठन् मूलाधारात् अपानैक्यमापन्नप्राणवायुमूर्ध्वम् उत्कर्षयेत् सुषुम्नायामूर्ध्वमुखं नयेत् || ३८ || पुनः स्थूलसूक्ष्मबीजभावमापन्नं दृष्टिनोऽग्निभिरेकीभूतं कोशभूतं यत् हृदयपङ्कजं वर्तते तत्र अर्धमात्रात्मकं कृत्वा सुषुम्नामार्गेण भ्रूवोर्मध्येलयं नयेत् विलयं प्रापयेत् || ३९ || प्राणलयाधिकरणं कीदृशमित्यत आह- प्. १९६) भ्रूमध्ये त्विति | भ्रूमध्यस्य ब्रह्मोपलब्धिस्थानत्वात् | तुशब्दत्रयतः तस्मात् बहिर्निर्गतमपि तत्रैव पुनः पुनः लयं नयेदिति द्योत्यते || ४० || षडङ्गयोगः आसनं प्राणसंरोधः प्रत्याहारश्च धारणा | ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् || ४१ || अमृतस्थाने प्राणादिलयस्य सुषुम्नाद्वारकत्वात्, नहि सुषुम्नाप्रवेशः सर्वसाधारणो भवति, नहि योगाभ्यासं विना सुषुम्नामार्गः स्प्रष्टुं शक्यते, अतस्तदुपायत्वेन षडङ्गयोग उच्यते- आसनमिति || ४१ || आसनचतुष्टयम् आसनानि च तावन्ति यावन्त्यो जीवजातयः | एतेषामतुलान् भेदान् विजानाति महेश्वरः || ४२ || सिद्धं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् | योगासनानामनेकत्वात् तत्र श्रेष्ठतया सिद्धाद्यासनचतुष्टयमुद्दिशति- आसनानीति | असंख्येयतया दुर्विज्ञेयत्वात् एतेषामिति || ४२ || तेषु मुख्यान्यासनचतुष्टयानीत्यत्र सिद्धम् इति | तत्प्रतिपादकश्रुतयो लिख्यन्ते- योनिं वामेन संपीड्य मेढ्रादुपरि दक्षिणम् | ऋजुकायः समासीनः सिद्धासनमिदं भवेत् || गुल्फौ तु वृषणस्याधः सीविन्याः पार्श्वयोः क्षिपेत् | पार्श्वपादौ च पाणिभ्यां दृढं बध्वा सुनिश्चलम् | भद्रासनं भवेदेतद्विषरोगविनाशनम् | प्. १९७) सीविनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु | प्रसार्य जानुनोर्हस्तावासनं सिंहरूपकम् || ऊर्वोरुपरि वै धत्ते यदा पादतले उभे | पद्मासनं भवेदेतत् सर्वव्याधिविषापहम् || इति || योनिस्थानम् आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् || ४३ || योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते | आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् || ४४ || तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता | योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा || ४५ || मस्तके मणिवद्भिन्नं यो जानाति स योगवित् | ततो मूलाधारस्वाधिष्ठानमध्यगतव्यष्टिप्रपञ्चयोन्यादि- ज्ञानफलं षडाधारस्वरूपं च विशदयति- आधारमिति || ४३ || मूलाधारस्वाधिष्ठानमध्ये योनिस्थानं वर्तत इत्युक्तम् | तत्र योनिः कीदृशीत्यत आह- आधारेति || ४४ || मूलाधारचतुर्दलमध्ये व्यष्टिसंसारप्रवृत्तिनिवृत्तिहेतुतया योगायोगसिद्धैरपि वन्दिता कामरूपिणी नाम काचन योनिः कुण्डलिनीशक्तिः विद्यते | तस्याः सिद्धासिद्धवन्दितत्वं कथमित्यत्र- यदि हृदयादूर्ध्वगामिनी स्यात्तदा निवृत्तिमार्गभूषणसिद्धसेव्या भवति | यदा पुनः स्वस्थानान्न चलति तदा प्रवृत्तिहेतुतया संसारिसेविता भवतीत्यर्थः | तादृशयोनिमध्ये कुण्डलिनीमध्यप्रदेशे मस्तकभागे मणिवत् भिन्नं स्वयं प्रकाशितं पश्चिमाभिमुखं प्रत्यगात्मलिङ्गं विद्यते | प्रवृत्तिनिवृत्तिप्रकाशकत्वात् तदस्मीति यो जानाति स योगवित् प्रत्यक्परैक्यज्ञो जीवन्मुक्तो भवतीत्यर्थः || ४५-४६ || प्. १९८) मूलाधारादिचतुश्चक्रस्वरूपम् तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् || ४६ || चतुरस्रमुपर्यग्नेरधो मेढ्रात् प्रतिष्ठितम् | स्वशब्देन भवेत् प्राणः स्वाधिष्ठानं तदाश्रयम् || ४७ || स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते | मणिवत्तन्तुना यत्र वायुना पूरितं वपुः || ४८ || तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् | द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः || ४९ || तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति | ततो मूलाधारस्वरूपमाह- तप्तेति | मूलाधारचक्रस्याग्निमण्डलमेढ्रमध्यगतत्वात् || ४६-४७ || स्वाधिष्ठानस्वरूपमाह- स्वेति | लिङ्गमूले षड्दलयुक्तं स्वाधिष्ठानमित्यर्थः || ४७-४८ || मणिपूरकं व्युत्पादयति- मणिवदिति | दशदलान्वितं मणिपूरकमित्यर्थः | तत अनाहतचक्रं द्वादशदलं षोडशदलं विशुद्धिचक्रं तदुपरि चन्द्रसूर्यमण्डलं तदुपरि सहस्रारचक्रं विद्यते इति मन्तव्यम् || ४८- ४९ || तत्रानाहतचक्रे जीवात्मस्वरूपमाह- द्वादशेति | तत्रत्यो जीवो यावत् स्वयाथात्म्यं न जानाति तावत् संसरति, स्वज्ञानेन नष्टे जीवस्य ब्रह्ममात्रत्वादित्यर्थः || ४९-५० || नाडीचक्रम् ऊर्ध्वं मेढ्रादधो नाभेः कन्दो योऽस्ति खगाण्डवत् || ५० || तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः | तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता || ५१ || प्. १९९) प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः | इडा च पिङ्गला चैव सुषुम्ना च तृतीयका || ५२ || गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी | अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता || ५३ || एवं नाडीमयं चक्रं विज्ञेयं योगिनां सदा | सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः || ५४ || इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः | इडा वामे स्थिता नाडी पिङ्गला दक्षिणे स्थिता || ५५ || सुषुम्ना मध्यदेशस्था प्राणमार्गास्त्रयः स्मृताः | ततो नाडीकन्दस्थानं तदियत्तामधिदेवतासहितप्रधाननाडीस्वरूप चाह- ऊर्ध्वमिति || ५१- ५३ || योगिनां, तृतीयार्थे षष्ठी, योगिभिरित्यर्थः एतत् सर्वं स्पष्टमिति न व्याख्यातम् || ५४-५६ || प्राणादिदशवायवः प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च || ५६ || नागः कूर्मः कृकरको देवदत्तो धनंजयः | प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः || ५७ || एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः | जीवाधिष्ठेयनाडीचरप्राणादिदशवायुनाम निर्दिशति- प्राण इति || ५७ || तत्र प्राणाद्याः पञ्च प्रधानतया विख्याताः नागाद्या वायवस्तु प्. २००) उपप्राणा उच्यन्ते || ५७ || तेषां जीवरूपेण नाडीचरत्वं जीवस्य प्राणापानवशतः यातायातत्वमविश्रान्तमित्याह- एत इति || ५८ || जीवस्य प्राणापानवशत्वम् प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति || ५८ || वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते | आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः || ५९ || प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् | अविश्रान्तत्वे दृष्टान्तः आक्षिप्त इति || ५९ || योगकाले प्राणापानैक्यम् अपानात् कर्षति प्राणोऽपानः प्राणाच्च कर्षति || ६० || खगरज्जुवदित्येतद्यो जानाति स योगवित् | योगकाले प्राणापानैक्यं तज्ज्ञानफलं चाह- अपानादिति | प्राणादपानादिति पञ्चमी द्वितीयार्था || ६० || अजपाहंसविद्या हकारेण बहिर्याति सकारेण विशेत् पुनः || ६१ || हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा | शतानि षड् दिवारात्रं सहस्राण्येकविंशतिः || ६२ || एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्वदा | अजपा नाम गायत्री योगिनां मोक्षदा सदा || ६३ || प्. २०१) अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते | अनया सदृशी विद्या अनया सदृशो जपः || ६४ || अनया सदृशं पुण्यं न भूतं न भविष्यति | अहोरात्रनिर्वर्त्योच्छ्वासनिःश्वासरूपहंसविद्याजपास्वरूप- माह- हकारेणेति || ६१ || प्राणापानव्यापारोच्छ्वासनिःश्वासव्यापार एव हंसमनुः तं हंसहंसेत्यमुं मन्त्रम् | हंसमन्वावर्तनसंख्येयत्तामाह- शतानीति || ६२ || स्वयमजपन् तूष्णीं तिष्ठन्नपि एतत् इति | या अजपतो जपभावमेति सेयम् अजपा गायत्री सदैवमनुसंधानयोगिनां मोक्षदा भवति || ६३ || यतः एवम् अतः अस्याः इति | अजपां स्तौति- अनयेति || ६४ || कुण्डलिनीबोधनेन मोक्षद्वारविभेदनम् येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् || ६५ || मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी | प्रबुद्धा वह्नियोगेन मनसा मरुता सह || ६६ || सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया | उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् || ६७ || कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् || ६८ || कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पद्मासनं गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेतसि | वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयन् पूरितं मुञ्चन् प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः || ६९ || प्. २०२) कुण्डलिनीस्थितिमाह- येनेति | तुरीयं मूर्ध्नि संस्थितम् इति श्रुत्यनुरोधेन सहस्रारचक्रं ब्रह्मस्थानं, तत्रैवोपलभ्यते हि ब्रह्म योगिनाम् | तत्र स्वातिरिक्तामयवैरल्यात् निरामयम् || ६५ || येन सुषुम्नामार्गेण तद्गन्तव्यं तद्द्वारं स्वमुखेन आच्छाद्य परमेश्वरी कुण्डलिनी प्राणिसामान्यजठरे प्रसुप्ता भवति | सा कदा प्रतिबुध्यत इत्यत्र योगिनः केवलकुम्भकावस्थायां मूलाधारस्थाग्निना मनसा मरुता च सह प्रबुद्धा सती || ६६ || सूक्ष्मसूचिवत् गुणं भोगमादाय सुषुम्नयोर्ध्वं सहस्रारं व्रजति | कुण्डलिन्या सुषुम्नावदनं विभेदयेदित्याह- उद्घाटयेदिति | यथा नरो हठात् कुञ्चिकाप्रयत्नेन कवाटमुद्घाटयेत् तथैव योगी कुण्डलिन्या मोक्षहेतुसुषुम्नाद्वरं विभेदयेदित्यर्थः || ६७-६८ || सुषुम्नामागभेदोपायमाह- कृत्वेति | आदौ योगी पद्मासनं बद्ध्वा अथ स्वकरौ संपुटितौ कृत्वा वक्षसि चुबुकं चेतसि स्वस्वरूपध्यानं च संनिधाय वारंवारमपानानिलमूर्ध्वं प्रोच्चारयन् आकुञ्चयन् एवं पूरितं प्राणं सुषुम्नायां मुञ्चन् नरो योगी सुषुम्नां प्रविष्टकुण्डलिनीशक्तिप्रभावात् निरूपमम् अतुलं निरतिशयं ब्रह्माहम् अहमेव ब्रह्मेति ब्रह्मात्मबोधमुपैति || ६९ || ब्रह्मचर्यादिना कुण्डलिनीबोधः पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् | मारुतं कुम्भयन् यस्तु स मुक्तो नात्र संशयः || ७० || अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा | कट्वम्ललवणत्यागी क्षीरपानरतः सुखी || ७१ || ब्रह्मचारी मिताहारी योगी योगपरायणः | अब्दादूर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा || ७२ || कन्दोर्ध्वकुण्डलीशक्तिः स योगी सिद्धिभाजनम् | प्. २०३) एवं सुषुम्नाकुम्भकान्मुक्तो भवतीत्याह- पद्मेति | यस्तु पुनः योगी पद्मासने स्थित्वा बाह्यं वायुमिडया आकृष्य नाडीद्वारेषु पूरयन् पूरितं मारुतं कुम्भयन् सुषुम्नां प्रापयित्वा यदा योगी ब्रह्मरन्ध्रं भिनत्ति सोऽयं योगी ततो ब्रह्मरन्ध्रं भित्त्वा यत् प्राप्यं तत् प्राप्य मुक्तो भवतीत्यत्र न हि संशयोऽस्तीत्यर्थः || ७० || तत्रोपायमाह- अङ्गानामिति | अभ्यासदशायामादौ प्राणायामकाले स्वेदो जायते | तेन सर्वाङ्गानां मर्दनं कृत्वा दृढकायो भूत्वा तदानीं कट्वम्ललवणत्यागी क्षीरपानरतः सुखी || ७१ || एवं ब्रह्मचर्यादिनियमसंपन्नो भूत्वा संवत्सरादूर्ध्वं सिद्धो भवति || ७२ || यस्य नाडीकन्दोर्ध्वभागे सुषुम्नायां कुण्डलिनीशक्तिः स्यात् सोऽयं योगी योगसिद्धिभाजनं भवति || बन्धत्रयम् अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः || ७३ || युवा भवति वृद्धोऽपि सततं मूलबन्धनात् | पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम् || ७४ || अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते | उड्याणं कुरुते यस्मादविश्रान्तमहाखगः || ७५ || उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते | उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् || ७६ || उड्डियाणोऽप्यथं बन्धो मृत्युमातङ्गकेसरी | बध्नाति हि शिरोजातमधोगामिनभोजलम् || ७७ || ततो जालंधरो बन्धः कण्ठदुःखौघनाशनः | जालंधरे कृते बन्धे कण्ठसंकोचलक्षणे || ७८ || प्. २०४) तदङ्गत्वेन बन्धत्रयं तत्फलं चाचष्टे- अपानेति || ७३-७५ || उदरसंकोचनं पश्चिमं ताणमित्यर्थः || ७६ || अयमुड्डियाणबन्धः शिरोनभोजातं सहस्रारनभोविद्यमानं सर्वरोगाकारं कफजलं बध्नाति शुष्कं करोतीत्यर्थः || ७७-७८ || खेचरीमुद्राभ्यासः न पीयूषं पतत्यग्नौ न च वायुः प्रधावति | कपालकुहरे जिह्वा प्रविष्टा विपरीतगा || ७९ || भ्रूवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी | न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा || ८० || न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् | पीड्यते न च रोगेण लिप्यते न च कर्मणा || ८१ || बध्यते न च कालेन यस्य मुद्रास्ति खेचरी | चित्तं चरति खे यस्माज्जिह्वा भवति खेगता || ८२ || तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता | योगाङ्गतया बन्धत्रयमुक्त्वाथ खेचरीमुद्रां तदभ्याससिद्धफलं चाह- कपालेति || ७९ || तदभ्यासान्तरालिकफलं तु न रोग इति || ८०-८२ || खेचर्यभ्यासेन वज्रोलिसिद्धिः खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः || ८३ || बिन्दुः क्षरति यो यस्य कामिन्यालिङ्गितस्य च | यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः || ८४ || प्. २०५) यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति | गलितोऽपि यदा बिन्दुः संप्राप्तो योनिमण्डले || ८५ || व्रजत्यूत्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया | खेचरीमुद्रारूढस्य जीवनहेतुबिन्दुस्थैर्यं वज्रोलिसिद्धिरपि भवतीत्याह- खेचर्येति | खेचर्या मुद्रया यस्य जिह्वा लम्बिकायाः अन्तर्जिह्वाया ऊर्ध्वतः तद्विवरं प्रविशति || ८३ || यच्छब्दस्तच्छब्दार्थः | अप्यर्थः चकारः | कामिन्यालिङ्गितस्यापि यस्य तस्य नैव बिन्दुः शुक्लं क्षरति | यावद्बिन्दुस्थैर्यं जायते तावत्तस्य मृत्युभयं कुतः संभवति || ८४ || यावत्खेचरीमुद्रा बद्धा भवेत् तावद्बिन्दुः न गच्छति | यदा गलितोऽपि बिन्दुः योनिमण्डले संप्राप्तोऽपि || ८५ || तदा वज्रोलिसंस्कृतयोनिमुद्रया हटाच्छक्त्या ऊर्ध्वं व्रजति || द्विविधबिन्द्वैक्यबोधतो जीवन्मुक्तत्वम् स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा || ८६ || पाण्डरं शुक्लमित्यहुर्लोहिताख्यं महारजः | विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः || ८७ || शशिस्थाने वसेद्बिन्दुस्तयोरैक्यं सुदुर्लभम् | बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः || ८८ || उभयोः संगमादेव प्राप्यते परमं वपुः | वायुना शक्तिचालेन प्रेरितं खे यथा रजः || ८९ || रविणैकत्वमायाति भवेद्दिव्यवपुस्तदा | शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् || ९० || द्वयोः समरसीभावं यो जानाति स योगवित् | प्. २०६) विन्दोर्द्वैविध्यं तयोरैक्यप्रबोधतो जीवन्मुक्तत्वं चाह- स एवेति || ८६ || मूलाधारस्थं योनिस्थानं तत्र रजो देवीतत्त्वं जीवाख्यं वा भवति || ८७ || भ्रूमध्यसहस्रारमध्यं शशिस्थानं, तत्र बिन्दुः शिवतत्त्वं वसति | तयोः शिवशक्त्योः जीवपरयोर्वा ऐक्यं योगिनो विना यस्य कस्यापि दुर्लभं भवेत् || ८८-९० || शुक्लरजोरूपभ्रूसहस्रारमध्यस्थसोमसूर्यैक्यं यो जानाति स योगवित् ब्रह्मवित् भवतीत्यर्थः || महामुद्राभ्यासः शोधनं मलजालानां घटनं चन्द्रसूर्ययोः || ९१ || रसानां शोषणं सम्यङ् महामुद्राभिधीयते || ९२ || वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा हस्याभ्यामनुधारयन् प्रविततं पादं तथा दक्षिणम् | आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचये- देषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते || ९३ || महामुद्रालक्षणमुच्यते- शोधनमिति | नानासाधनसिद्ध- रेचकपूरककुम्भकात्मकप्राणायामशुद्धोदकेन नाडीगतमलजातशोधनं चन्द्रसूर्ययोरैक्यं वातपित्तादिरसानां शोषणं च यया भवति सेयं महामुद्रेत्यभिधीयते || ९१-९२ || महामुद्राभ्यासमाह- वक्ष इति | आदौ योगी जालन्धरबन्धमारोप्य वामाङ्घ्रिणा योनिसुषिरं निपीड्य प्रसारितदक्षिणपादं हस्ताभ्यां धारयन् कुक्षियुगलं श्वसनेनापूर्य कुम्भयित्वाथ शनैरिडया रेचयेत् | सैषा रीतिः सर्वपातकनाशिनी नृणां योगिनां योगविघ्ननाशिनी महामुद्रेति प्रोच्यते || एवं प्राणायाम उक्तः | अनात्मदेहादिगताहंभाव [वस्य] प्रतीचि प्रत्याहरणं प्रत्याहारः | प्रत्यगेव प्. २०७) ब्रह्मेति निश्चयो धारणा भवति | अहं ब्रह्मास्मि ब्रह्मैवाहमस्मि इति दृढभावना ध्यानम् | ध्यानादित्रिपुटीविकल्पलयो निर्विकल्पसमाधिः | षडङ्गो योग उच्यते इति प्रतिज्ञातत्वात् तदनुरोधेन प्रतिवचनाभावेऽप्येवं प्रत्याहारादि ऊह्यमित्यर्थः || ९३ || हृदये आत्मसाक्षात्कारः अथात्मनिर्णयं व्याख्यास्ये- हृदि स्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते | तस्मिन् सर्वं प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं कर्ताहं प्रोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते || ९३- १ || पूर्वदले विश्रमते पूर्वदलं श्वेतवर्णं तदा भक्तिपुरःसरं धर्मे मतिर्भवति || ९३-२ || यदाग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्यमतिर्भवति || ९३-३ || यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा द्वेषकोपमतिर्भवति || ९३- ४ || यदा नैर्-ऋतदले विश्रमते तन्नैर्-ऋतदलं नीलवर्णं तदा पापकर्महिंसामतिर्भवति || ९३-५ || यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा क्रीडाविनोदमतिर्भवति || ९३-६ || यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा गमनचालनवैराग्यमतिर्भवति || ९३-७ || यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गारमतिर्भवति || ९३-८ || यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं प्. २०८) तदा दानादिकृपामतिर्भवति || ९३-९ || यदा संधिसंधिषु मतिर्भववि तदा वातपित्तश्लेष्ममहाव्याधिप्रकोपो भवति || ९३-१० || यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं करोति || ९३-११ || यदा नेत्रश्रमो भवति श्रमनिर्हरणार्थं प्रथमरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखा बन्धूकपुष्पवर्णं तदा निद्रावस्था भवति | निद्रावस्थामध्ये स्वप्नावस्था भवति | स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसंभववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति || ९३-१२ || श्रमनिर्हरणार्थं द्वितीयरेखा वलयं कृत्वा मध्ये निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसंबन्धिनी बुद्धिर्भवति नित्यबोधस्वरूपा भवति पश्चात् परमेश्वररूपेण प्राप्तिर्भवति || ९३- १३ || तृतीयरेखा वलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्मसंबन्धिनी मतिर्भवति नित्यबोधस्वरूपो भवति तदा शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया | आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् || ९३-१४ || तदा प्राणापानयोरैक्यं कृत्वा सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति पश्चात् परमात्मस्वरूपेण प्. २०९) प्राप्तिर्भवति इत्यनेन प्रकारेण मोक्षो भवतीदमेवात्मदर्शनोपायं भवति || ९३-१५ || सचुष्पथसमायुक्तमहाद्वारगवायुना | सहस्थितत्रिकोणोर्ध्वगमने दृश्यतेऽच्युतः || ९४ || ध्येयनिर्णयः कथं स्यादित्याशङ्क्य सोपायं परमात्मनिर्णयमाचष्टे- अथेति | अथ यथोक्ताधिकारिलाभानन्तरं आत्मयाथात्म्यं सोपायं व्याख्यास्य इति परमदयावती श्रुतिः एवमाह- हृदीति | हृदयाष्टदलमध्ये रेखावलयं कृत्वा वृत्ताकारं विभाव्य तन्मध्ये प्राणाधारं हंसज्योतीरूपम् जीवात्मरूपं अणुमात्रं वर्तते | य एवं वर्तते तस्मिन् सर्वं प्रतिष्ठितं भवति तस्य सर्वाधिकरणत्वात् | स हि सर्वं जानाति सर्वं करोति यत् कर्तव्यं तत् कृतमेव सर्वम् अहं कर्ता इत्याद्यभिमानी सन् वर्तत इत्यर्थः || ९३-१ || तस्य पूर्वादिदलयोगतो धर्मादिवृत्तिमत्त्वमाह- पूर्वेति | सोऽयं जीवाख्योऽहं हंसः यदा पूर्वदले || ९३-२-९३-१३ || यत् एवं अतः पूर्वदलादिद्वितीयरेखान्तं विहाय तृतीयरेखामवलम्ब्य तुर्यस्वरूपं तुर्यादिविश्वान्तगतहेयांशापह्नवसिद्धं तुर्यातीतं ब्रह्म निष्प्रतियोगिकस्वमात्रमिति तन्मात्रतयाऽवशिष्टो भवतीत्याह- तदा शनैः शनैरिति || ९३-१४ || यदि स्वातिरिक्तवृत्त्युदयो भवति तदा प्राणापानयोरैक्यमित्यादि | सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति, विश्वगतहेयांशाअह्नवसिद्धब्रह्मणः स्वावशेषतया लक्षितत्वात् | यदैवमवस्था लक्ष्यते तदा सेयं तुरीयावस्था | यावद्देहधारणा प्राप्तिर्भवति- यावत्प्राप्तिभासिकतयापि देहोऽस्मीति ज्ञानं तावज्जीवन्मुक्तिदशामवलम्ब्य पश्चात् स्वातिरिक्तं न किंचिदस्तीति प्रबोधानन्तरं परमात्मैव भवतीत्यर्थः | जीवताया अनेन प्रकारेण मोक्षो भवति | इदमेवात्मदर्शनोपायं नेतरदित्यर्थः || ९३-१५ || मन्दानामात्मदर्शनोपायमाह- चतुष्पथेति | चतुष्पथो प्. २१०) जालंधरबन्धः तेन समायुक्तं महाद्वारं सुषुम्नारन्ध्रं गच्छतीति महाद्वारगः स चासौ वायुश्चेति महाद्वारगवायुः तेन महाद्वारगवायुना सह स्थितमूलाधारत्रिकोणस्योर्ध्वमूलाधारगमनो मूलाधारस्थसुषुम्नायां दृक्प्राणाग्निमनःकुण्डलिनीप्रवेशमात्रेण स्वमात्राच्युतः परमात्मा दृश्यते साक्षात्क्रियते इत्यर्थः || ९४ || नादानुसंधानतः आत्मदर्शनम् पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् | प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् | यकारं प्राणबीजं च नीलजीमूतसंनिभम् | रकारमग्निबीजं च अपानादित्यसंनिभम् || ९५ || लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् | वकारं जीवबीजं च उदानं शङ्खवर्णकम् || ९६ || हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् | हृन्नाभिनासिकाकण्ठपादाङ्गुष्ठादिसंस्थितः || ९७ || द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते | अष्टाविंशतिकोटीषु रोमकूपेषु संस्थितः || ९८ || समानप्राण एकस्तु जीवः स एक एव हि | रेचकादित्रयं कुर्याद् दृढचित्तं समाहितः || ९९ || शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे | प्राणापानौ च बद्ध्वा तु प्रणवेन समुच्चरेत् || १०० || प्. २११) कण्ठसंकोचनं कृत्वा लिङ्गसंकोचनं तथा | मूलाधारात् सुषुम्ना च बिसतन्तुनिभा शुभा || १०१ || अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः | शङ्खनादादिभिश्चैव मध्यमेव ध्वनिर्यथा || १०२ || व्योमरन्ध्रगतो नादो मायूरं नादमेव च | कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे || १०३ || तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः | कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्ति च || १०४ || स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् | रत्नानि ज्योत्स्निनादं तु बिन्दु माहेश्वरं पदम् || १०५ || य एवं वेद पुरुषः स कैवल्यं समश्नुते || १०६ || इत्युपनिषत् || एवमकृतसाक्षात्काराणां नादानुसंधानोपायतः तत्पदाप्तिं प्रकटयन्नुपसंहरति- पूर्वेति || ध्येयम्- किं तत् ? प्राणादि | यद्येवमपक्वचित्तः कश्चित् तेन पूर्वोक्तमूलाधारत्रिकोणाग्निमण्डलादुपरि प्राणादिवायुजातं पृथिव्यादिपञ्चवर्णयुक्तं ध्येयम् | यकारादिबीजं नीलजीमूतादिवर्णं हृदयादिस्थानविशिष्टं ध्येयमिति पूर्वेणान्वयः | आदौ हृदि यकारं प्राणबीजं विद्यात् नीलजीमूततुल्यवर्णविशिष्टं प्राणं जानीयादित्यध्याहार्यम् | गुदे रेफमग्निबीजमपानमादित्यसंनिभं विद्यात् || ९५ || पृथिवीबीजं लकारं बन्धूकसंनिभं व्यानं कृत्स्नशरीरव्यापकं विद्यात् | कण्ठदेशे वकारं जीवबीजमुदानं शङ्खवर्णविशिष्टं विद्यात् || ९६ || हकारं वियद्बीजं समानं नाभ्यासनं स्फटिकप्रभं च विद्यात् | एवं प्राणपञ्चकं प्. २१२) हृन्नाभिनासिकाकण्ठपादाङ्गुष्ठादिषु संस्थितं विद्यात् || ९७ || तत्र समानवायुस्तु द्विसप्ततिसहस्रनाडीमार्गेषु सदा संचरन् वर्तते अष्टाविंशतिकोटिरोमकूपेषु व्याप्य स्थितो भवति || ९८ || विचार्यमाणे एकस्तु- तुशब्दोऽवधारणार्थः- समानादिप्राणान्तवायुभेदः एक एव | य एवं पञ्चप्राणाधारः सोऽयं जीव एक एव | हिशब्दः प्रसिद्धिद्योतकः | एवं ज्ञात्वा ततः परं रेचकादि इति | एवं यथोक्तपञ्चप्राणारूढजीवस्वरूपं ज्ञात्वा ततो दृढचित्तो योगी समाहितो भूत्वा रेचकाद्यवयवत्रयविशिष्टप्राणायामत्रयं कुर्यात् || ९९ || शनैः स्वान्तःकरणवृत्तिसहस्रं हृत्सरोरुहकोटरे समाकृष्य तत्रैव प्राणापानौ च बद्ध्वा प्रणवेन तु प्रणवेनैव प्रणवेनाज्ञासहस्रारचक्रं प्रत्युच्चरेत् ऊर्ध्वं नयेत् || १०० || तदुपायतया कण्ठलिङ्गसंकोचनग्रहणं बन्धत्रयोपलक्षणार्थम् | तथा बन्ध त्रयं कृत्वा मूलाधारात् मूलाधारमारभ्य पद्मतन्तुनिभा शुभा सुषुम्ना- चशब्दात् तदन्तःकैवल्यनाडी च- प्रतिष्ठिता भवतीति द्योत्यते || १०१ || तत्र सुषुम्नाश्रयवीणादण्डे समुत्थितः सन् अमूर्तो नादो वर्तते | अत एव वीणादण्डमध्यमेव नादोत्पत्तिस्थानं यथा शङ्खनादादिभिश्चैव || १०२ || हृद्व्योमरन्ध्रगतो नादोऽभिव्यक्तो भवति | यदायं नादो मायूरं नादमेवानुकरोति तदा इडापिङ्गलासुषुम्नाघण्टिकाभेदेन चतुर्द्वारस्य मध्यमे कपालकुहरमध्ये || १०३ || तत्र यदा व्योम्नि दिवाकरः तथा परमात्मा राजते सम्यगभिव्यक्तो भवति | यत्र मन- उपलक्षितदृष्टिवायवग्निकुण्डल्यादिकं लयं गतं तत्र मूलाधारादिब्रह्मोपलब्धिरन्ध्रेषु कोदण्डद्वयमध्ये तु- तुश्चार्थः- यथाशक्ति यथाबलम् || १०४ || स्वात्मानं पुरुषं पश्येत् | किंविशेषणविशिष्टमित्यत्र, वज्रदण्डसमुद्भूताः मणयश्चैकविंशतिः इति श्रुत्यनुरोधेन विश्वतुर्यमित्यारभ्याविकल्पानुज्ञैकरसान्तानि एकविंशतितुरीयरत्नानि तेषां ज्योत्स्नि ज्योतिष्मदधिकरणं जाग्रज्जाग्रदादिचतुष्पञ्चदशविकल्पं न ददातीति नदं तदेव नादं तुर्यतुर्यं बिन्दु निर्विशेषरूपं महांश्चासौ निष्प्रतियोगिकब्रह्ममात्रतयावस्थातुमीश्वरश्चेति महेश्वरः तद्भावो माहेश्वरं स्वमात्रतया पद्मते इति पदं विद्वान् पश्येदिति पूर्वेणान्वयः || १०५ || विद्याफलं वदन्नुपसंहरति- य प्. २१३) इति | विद्वान् वेदनसमकालं कैवल्यरूपेण अवशिष्यते इत्यत्र ब्रह्म वेद ब्रह्मैव भवति इति ज्ञानसमकालमेव ब्रह्ममात्रभावापत्तिश्रुतेः | इत्युपनिषच्छब्दोऽयं ध्यानबिन्दूपनिषत्समाप्त्यर्थः || १०६ || श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना | लिखितं स्याद्विवरणं ध्यानबिन्दोः स्फुटं लघु || ध्यानबिन्दुविवरणं त्रिंशदधिशतत्रयम् || इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे एकोनचत्वारिंशत्संख्यापूरकं ध्यानबिन्दूपनिषद्विवरणं संपूर्णम् ########### END OF FILE #######