#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: E0008 Uniform title: dhyānaratnāvali Manuscript : IFP transcript T0232 Description: IFP transcript 232 copied from a manuscript belonging to Rajamani Gurukkal Perambar Kandikai, Madhurantakam Compendium of descriptions of the visualized forms (dhyāna) of deities and their attributes along with other other entities such as world-orders, metaphysical principles, and channels of the vital breath. See Muktabodha digital library, IFP/EFEO collection at www.muktabodha.org for full bibliographic details. Notes: Transcribed by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Feb. 16, 2013 Internet publisher : Muktabodha Indological Research InstituteMuktabodha Publication year : 2013 Publication city : Publication country : United States #################################################### (रेअद् खड्ग- fओर् खट्ग-) || शुभमस्तु || || आत्मतत्त्वध्यानम् || || ध्यानरत्नावलिः || शुक्लां शान्तये | अथोत्थाय सदा प्रातः हृदयाम्भोजगर्भता | योगि सर्वगतन्ध्यायेन्मनीषिदिव्यरूपिणम् | अप्रबुद्धश्शिवन्धायेत् हृत्पद्मे तु सदाशिवम् || || आत्मतत्त्वध्यानम् || चतुभुजञ्चतुर्वक्त्रञ्चतुरश्राम्बुज स्थितम् | आत्मतत्त्वं स्मृतं ह्येतत् तत्त्वच्चामिकर प्रभम् || स्रुक्कमण्डलुकं वामे दक्षे पद्माक्षमालिकाम् || १ || || विद्या तत्त्वध्यानम् || नीलपद्मनिभन्नीलमष्टाश्राष्ट भुजान्वितम् | चक्रबाणाब्ज चिन्मुद्राशङ्खकार्मुककुण्डिका || अभयञ्च ययाचेऽहं दधानं दक्षवामयोः | एकवक्त्रन्तु सौम्यास्यं विद्यातत्त्वं प्रकीर्तितम् || २ || प्. २) || शिवतत्त्वध्यानम् || शुद्धस्फटिक सङ्काशं वृक्तं सर्पाध्वगर्भितम् | शिवतत्त्व स्मृतं ह्येतत् पञ्चवक्त्रञ्चतुर्भुजम् || ३ || दक्षे पद्माक्षमाल्याञ्च वामे शूलकमण्डलुम् | || निवृत्तिकलाध्यानम् || तत्त्वचामीकराभासां चतुर्वक्त्रेन्दुभूषिताम् | वज्राभयाक्षमालाब्जा निवृत्तिः परिकीर्तिता || ४ || || प्रतिष्ठाकलाध्यानम् || शुद्धस्फटिकसङ्काशा चैक वक्त्रा चतुर्भुजा | पाशाभयाक्ष मालाब्जा प्रतिष्ठारत्नभूषिता || ५ || || विद्याकलाध्यानम् || रत्नवर्णाः कपर्देन्दु त्रिवक्त्रा च चतुर्भुजा | शक्त्याभयाक्षमालाब्जा विद्याज्वलन सन्निभा || ६ || || शान्तिकलाध्यानम् || चतुर्वक्त्राश्चतुर्बाहु कृष्णवर्णा महाबला | ध्वजाभयाक्ष मालाब्जा शान्ति सर्वोपवीतिनीम् || ७ || || शान्त्यतीतकलाध्यानम् || शुद्धस्फटिक सङ्काशा पञ्चवक्त्रा चतुर्भुजा | प्. ३) पाशाभयाक्ष मालाब्जा शान्त्यतीता वरप्रदा || ८ || || तत्त्वानान्ध्यानम् || क्ष्मातत्त्वं सुपीताभञ्चापाकारं जलं सितम् | रक्तं त्रियश्रं वह्न्याख्यं कृष्णो वायुषडाश्रकम् || सितं सुलक्तं व्योमाख्यं गन्धपीतो रस स्थितः | रूपरक्तं ततस्पर्शं कृष्णश्शब्दसितप्रभः || शष्पवर्णमुपस्थञ्च पायवाख्यं पीठसन्निभम् | पाद श्यामप्रभः पाणिः पीताभो अप्रभा तु वा || नानावर्णा निभाकाशा जिह्वा रक्ता तथैव चा | मृत्त्वक्श्रोत्र त्रियं कृष्णं मनोव्यामिश्रवर्णकम् || अहङ्कारस्तु रक्ताभो बुद्धिं काशीश सन्निभम् | गुणाख्यमिन्दु नीलाभं व्यक्तं रक्तं तथैव च || रागो रक्तो नियत्याख्यं नीलं विद्येन्दुकोपभा | कालाख्य मिश्रवर्णं स्यात् कालाख्यं नीलसन्निभम् || हरितालप्रभामाया विद्या रक्तेश्वरस्थितम् | स्फटिकाभन्तु सादाख्यं शक्तितत्त्वं सितप्रभम् || शुद्धस्फटिकसङ्काशं शिवतत्त्वं प्रकीर्तितम् | सर्वं व्योमादिकं व्यक्तं क्ष्मादेशकारभाक् स्मरेत् || ९ || प्. ४) || भुवनानान्ध्यानम् || काला कलाद्यानन्ताद्या भुवनाख्या रविप्रभा | सूक्ष्माद्यष्टौ तु नीलाभा निवृत्ताद्यास्थितप्रभाम् || चतुर्भुजास्त्रिणेत्राश्च जटामकुटमण्डिताः | कपालाक्षाधरादक्षे शूलवज्रधरस्तथा || १० || || वर्णाध्यानम् || आकाशं श्वेतवर्णं स्यादकाराद्यं सुनीलकम् | कादिक्षान्तात्मकं रक्तमकारादीं प्रभामता || ११ || || पदाध्यानम् || व्योमव्याप्यादिकं सर्वं सान्निध्यन्नाम पश्चिमम् | पदं रक्तप्रभं ब्रह्म विष्णुरुद्र पदादिकम् || नववर्णनीलसङ्काशं शब्दशब्दादिशंसितम् | ईशानाद्यास्तु ये मन्त्रा वर्णास्ते वक्ष्यमाणवत् || १२ || || सन्ध्याध्यानम् || ब्रह्माणि वैष्णवी रौद्रीं रक्तां शुक्लां सितेतराम् | प्रातमध्याह्नसायाह्ने सन्ध्यान्ध्यायेदनुक्रमात् || १३ || || ब्राह्मीध्यानम् || रक्तभूषाम्बरां र - कितेम्बरे || १४ || प्. ५) || वैष्णविध्यानम् || शुक्लां शुक्लां - सर्वभूषणाम् || १५ || || रौद्रीध्यानम् || नीलोत्पलदला - कर्मणाम् | तत्प्रभामण्डलाम्भोग प्रविष्टां स्वतनुं स्मरेत् | ज्ञानीनां परमा सन्ध्या चतश्रो हृदयातुरः || एकैवानेकतां याति शिवशक्तिरपाथितः | मृणालतन्तुवत्तन्वि रक्तशुक्लास्सितेतराः || कुर्याद्वारूपकृष्णावा या निशीते विभाव्यते | हृद्विन्दुं ब्रह्मरन्ध्रेषु परेचैता स्थिताः क्रमात् || तिस्रस्सत्त्वादि संयुक्ताः चतुर्थी गुणवर्जिता | सूर्यचन्द्रसमारक्तौ द्वे सन्ध्ये प्राणयोगिनः || शिवबोध परा या तु सा सन्ध्या परमोच्यते | || गायत्रीध्यानम् || तप्तकाञ्चनवर्णाभां स - करैः | सर्वानेतान्परित्यज्य देवान्ब्राह्मपुरोगमान् | आराधयेद्विरूपाक्षमादित्यान्तरवर्तनम् || || दण्डिध्यानम् || प्. ६) दण्डिर्द्वा - त्यसौ | || पिङ्गलध्यानम् || पिङ्गलो वामपार्श्वे तु प्रतिहारस्य दण्डवान् | कृष्णवर्णकरं यद्वत् द्रुमदण्डश्च वामतः || || गणपतिध्यानम् || रक्तपद्मा - शिवम् | || गुरुध्यानम् || जटामकुटशो - गुरुं परम् | || प्रभूतध्यानम् || आसनं कल्पयेत् पश्चात् सिंहपीठोर्ध्व पङ्कजम् | प्रभूतं मध्यमे न्यस्य चतुरश्रं समस्तधृक् || || विमलादिध्यानम् || विमलं सारमाराध्यं सुखं परमपूर्वकम् | आग्नेयादिषु कोणेषु सिंहपादाकृतं स्मरेत् || || पद्मासनध्यानम् || तन्मध्ये पङ्कजं रक्तं अष्टदिक्दलशोभितम् | || दीप्तादिध्यानम् || केसरेषु च दीप्तादि शक्तिरष्टौ प्रकल्पयेत् | प्. ७) पूर्वादीशानपर्यन्तं मध्येस्युस्सर्वतो मुखाः || दीप्तदीपशिखाकाराधा - षणाः | || आदित्यध्यानम् || धवलाम्भोरुहा * * * * * * * * ससम् | || हृदयादि || सौम्यानिर * * * * * * * * * भावयेत् | विद्युत् पुञ्जनिभञ्छास्त्रं उग्रदंष्ट्रकरालिनम् | || सोमानि || सोमं कुमुद * * * * * * विकृत्याननम् | || तेजश्चण्डध्यानम् || चण्डं रक्तकरालस्यमब्जाभयकरद्वयम् | दंष्ट्राकरालवदनं जटिलं रक्तवाससम् || दधानं टङ्कमम्भोजतेजश्चण्डेश्वरं स्मरेत् | || गणपति || लम्बोदरं * * * * * * * * * * मीडे | || सरस्वति || शुक्लां शुक्लां * * * * * * * * * * स्वतीम् | वामदक्षिण हस्ताब्जा * * * * * * श्रियम् | प्. ८) || नन्दि || रक्तं त्रिणे * * * * * * * * * * श्वरम् || || गङ्गा || मकरासन * * * * * * * * * वीणीम् | || महाकाली || कृष्णं त्र्यै * * * * * * * * * * * ननम् | || यमुना || श्यामां * * * * * * * * * * * * वदेत् | || अस्त्रायद्वारपालः || चतुर्भुजञ्चतुर्वक्त्रं प्रदीप्ताग्नि समप्रभम् | वरदञ्च गदाशक्तिं अभयं शूलमेव च || विभ्राणन्देहलीमध्ये अस्त्रराजमनुस्मरेत् | || वास्त्वधिपतये ब्रह्मा || हंसस्थं * * * * * * * * * * * ण्डुलुम् | गणेशं वायुदिग्भागे प्रोक्तरूपमथोत्तरे || उक्तरूपं महालक्ष्मीं ईशाने गुरुवर्धनीम् | || आधारशक्तिः || अधः कूर्मशिलासीनां क्षीरो * * * रूपिणीम् | प्. ९) || अनन्तासनम् || पृथ्वीं कुन्दं * * * * * * * * * * कूलम् | अनन्तासनमेवोक्तं हरितालञ्च मुद्भवम् | || अनन्तः || तन्मध्यगमनन्तेशं विभुं व्याप्य स्थितं ततः | श्वेतञ्चतुर्मुखञ्चाष्टभुजद्वादशलोचनम् || चतुर्थम्मण्डलेशोक्त भूम्याधारमनुस्मरेत् | || धर्मादि || तस्य प्रभूतधर्माद्या चतुष्कोणस्तु पातुकाः | सिंहाकारा स्थितार्कांशु पीतकृष्णनिभाः शुभाः || अन्योन्य वीक्षणा सिंहैरनेकै परिवारिताः | दंष्ट्राकरालवदनस्त्रिनेत्रा भीमविग्रहाः || कृतत्रेतादिरूपेण शिवस्यानपादुकाः | आग्नेयादीशपर्यन्तं कोणेषु च यथा क्रमम् || || अधर्मादिः || अधर्माज्ञान वैशानैश्चर्याख्यानि तानि तु | चित्रवर्णस्वरूपाणि दिक्षुकात्राणि कल्पयेत् || कृष्णं श्वेतं पू * * * * * * * * रूपिणः | प्. १०) अधश्वदनमूर्ध्वे च रक्तशुक्लां विचिन्तयेत् | नै-ऋत्यामीशदिग्भागे माया विद्यात्मकं परम् || || पद्मासनम् || माणिक्क - अग्रे मुक्तावलीयुतम् | विद्येश्वरोत्पलदलं शुक्लविद्यात्म पङ्कजम् || तप्तचामि * * * * * * * * पूजयेत् ततः | || वामादिशक्तिः || उद्यद्दिनकराभासा * * * * कराम्बुजाः | वामादिशक्तयश्चाष्टौ केसरेषु च पूर्वतः || गोक्षीरधवलां शक्तिं कर्णिकाम्मनोन्मनीम् | दलाग्रवृन्ते - सूर्यमण्डलं श्वेतं भास्करम् || ब्रह्मावत् * * * * * सूर्यमण्डलमध्यगः | केसराग्रे तु सोमस्य मण्डलं श्वेतभास्वरम् || विष्णुश्चतु * * * * सोममण्डलमध्यगः | कर्णिकाग्रे स्मरेद्रुद्रं मण्डलं रक्तभास्वरम् | अग्निमध्ये स्थितं रु * नागयज्ञोपवीतिनम् || क्षीरश्रोणि निभंमध्ये कर्णिकां कुटिलात्मिकाम् | शक्तेश्च मण्डलासीनं * * * * * * श्छदम् || प्. ११) || शिवासनम् || क्षित्यादि कुटिला प्रान्तमेवव्याप्तिकमासनम् | शक्तिं शिवासनन् ध्यायेत् सूर्यकोटिसमप्रभम् || द्विशल्या सपदा विष्ठामुद्यद्दिनकरप्रभम् | शिवमूर्तेः - मूर्तिं विभागरहितां लिङ्गभागे विभावयेत् || || अष्टत्रिंशत्कलै || ईशानमूर्धा पुंवक्त्रो घोरहृत् गुह्यवामकः | सर्वाङ्गं सिद्धये सद्यः कलाभेदेन कल्पयेत् || शशिन्यादि कलापञ्च ब्रह्माद्याश्चैव मूर्तये | शक्तयो भीतिवरदाः पाशाङ्कुशधरास्तथा | शशिनीचोर्ध्व * * * * * * निष्कलश्शिवः || क्षित्यादिकुटिला * * * * * * * भि करैः | खड्गखेटधनुर्बाण खट्वाङ्गं नृकपालकम् || कुण्डिकामक्षमालाञ्चावरञ्चाभयमेव च || बिभ्राणन्दक्षिणे वामे पाणिभिः परमेश्वरम् | अथवा दक्षिणे परशुं खड्गं त्रिशूलं वज्रपावकम् | वामभागेऽभयं घण्टां नागं पाशं तथा कुशम् || प्. १२) वह्निसंहारिणी शक्तिः पाशानां भस्मसात्करि | प्रकाशिका पदस्थानां महामायोर्ध्ववर्तिनाम् || नागोपहृष्यताशक्तिः सर्वेषाञ्च विदारिका | पाशां पाशत्रियं विद्यान्मया कर्ममलाह्वयम् || घण्टानादात्मकं रूपं मन्त्रविग्रशोधकम् | अभयं सर्वलोकानां शक्तिर्वै परिपालिनी || यद्भोगेप्यात्मनः प्राप्तिः तत्रैवनियमोऽङ्कुशम् | एवं भूतस्वरूपाणि रूप्यन्ते चार्ययात्मभिः || आयुधैर्हस्त * * * * * * * * तान्त्यजेत् | एवं विद्यात्मकन्देहं लिङ्गरोहे तु संस्मरेत् || || नेत्रम् || नेत्रञ्च साभिधेयञ्च मूलवेष्ट च कुण्डनम् | || ईशानम् || स्फटिकाभं जग * * * * * * * * णिनम् | || तत्पुरुषम् || पीताम्बरो * * * * * * * * * मौलिनम् | || अघोरम् || त्र्यक्षं मौलीन्दु * * * * * * विकृताननम् | प्. १३) कपालमालाभरणं अघोरं सर्वकामदम् | || वामदेवम् || वामं रक्तं सु * * * * * * * * धारिणम् | || सद्योजातम् || सितस्रुक् गन्धपुष्पाड्यं सि * * * * * * * | सद्योजातं सितास्यैकं वरदाभयपाणिनम् | यद्वेशानादिकान् पञ्चसु स्थितान् सौम्यदर्शनात् || कालाकृतीन्वसुकरान् दिग्स्नान्सर्वभूषणान् | यद्वा - वामे नागाक्षसूत्रे च नीलाब्जं बीजपूरकम् || शूलाभयवराच्छक्ति सव्यैर्धारयतः करैः | अरुणाभं सुरन्नेत्रं दृक् क्रिये चात्मकं विभोः || त्रितत्त्वरूपं वह्न्यादि मण्डलत्रितयाश्रयम् | हृदाद्यङ्गोक्त वदनं करधार्यादि संयुतम् || एकास्य वा त्रिशूलाभि हस्तं योगशिवोक्तितः | || हृदयादि || हृदयाचन्द्रसंकाशं शिरश्चामीकरप्रभम् | शिखां सिन्धूरवर्णाभं कवचं शृङ्गभास्वरम् || पद्मासनस्था नर्केन्दु जटामकुटधारिणम् | प्. १४) त्रिणेत्रांश्च चतुर्बाहून् सर्वाभरणभूषितान् | शिवस्याभिमुखान् शक्तिः शूलाभय करान्वितान् || चतुर्वक्त्रानथास्त्रञ्च दंष्ट्रिणं पिङ्गलप्रभुम् | हृदाद्यनेकवत्क्रान्वा वरदान भयप्रदान् || त्रिशूलाब्ज धरान्वाऽपि मनसैवं विभावयेत् | || अस्त्रम् || विद्येशाद्यास्सितवर्णः कृष्णरक्तेन्दुसन्निभाः | चन्द्रपीतारुणाल्याग्निसन्निभा हृदयादयाः || पञ्चवक्त्रन्दशभुजं शूलभित्यासि साधकम् | रुद्राक्षं दक्षिणे वामे गन्धिका च पटङ्ककान् || श्वराब्जेद्ववहन्तञ्च प्रतिवक्त्रन्त्रिलोचनम् | द्विरष्टं वत्सराकारं सर्वाभरणभूषितम् || वक्त्रास्यं भीषणाकारं वृक्ताक्षं दंष्ट्रयान्वितम् | || अष्टविद्येश्वरः || विद्येश्वराश्चतुर्वक्त्रा हारवद्दशबाहवः | खण्डेन्दुमौलयस्सर्वे पद्मस्था विविधायुधः || खड्गखेटधनुर्बाण कमण्डल्लक्ष सूत्रिणः | वराभय करोपेताशूलपङ्कज पाणयः || प्. १५) हेमाग्नेनीलशृङ्गेन्दु सिंहरक्तासितां क्रमात् | विद्येश्वराः कुकुद्वर्णाः प्रबद्धाञ्जलि पाणयः || एकानना जटायुक्ता ध्येयाः पूर्वादिषु क्रमात् | त्रियक्षा शक्तिशूलाढ्या चन्द्ररेखावतंसकाः || || नन्दि || रक्तोनन्दि * * * * * * * * * कन्वितः | || महाकालः || त्रिणेत्रः पीन * * * * * * * * * करैः | || भृङ्गि || निर्मांसविग्रहो भृङ्गि * * * * * तत्परः | त्रिणेत्रो वा * * * * * * * * * * * कः | || वृषभः || वृषो वृषाकृतीस्त्रै * * * * * * * * लः | आधारभूतो विज्ञेयस्तीक्ष्णशृङ्गोमहाबलः | || स्कन्दः || चतुर्भुजो * * * * * * * * * * * तः | || देवि || सिंहोपरि * * * * * * * * * * * ता || प्. १६) || चण्डेश्वरः || चण्डेश्वरञ्चतुर्वक्त्रं * * * * * * * कः | विमान * * * * * * * * * * * * तः | || इन्द्रः || ऐश * * * * * * * * * * * * * येत् | || अग्निः || सप्तार्ची * * * * * * * * * *सनम् | || यमः || कृतान्तं * * * * * * * * * * * त्पतिम् | || नैऋति || शक्तनेत्रं श * * * * * * * * *श्वरम् | || वरुणः || नागपा * * * * * * * * * * * शनम् | || कुबेरः || कुबेरं * * * * * * * * * * * * * रेत् | || ईशानम् || ईशानं प्र * * * * * * * * * * चनम् | || ब्रह्मा || प्. १७) पीतं पीनञ्चतु * * * * * * * मण्डलुम् | || विष्णुः || विष्णुश्चतुर्भू * * * * * गरुडासन स्थितः | वज्रम् - वज्रन्तु * * * * * * दिशि पूजयेत् | || शक्ति || शक्तिञ्च * * * * * * * * * * * श्रये | || दण्डम् || दण्डञ्च * * * * * * * * * * * चतम् | || खड्गम् || नै-ऋत्यां * * * * * * * * * * * * नम् | || पाशम् || नाल्यधो * * * * * * * * पश्चिमादिशि | || ध्वजम् || प्रपद्ये * * * * * * * * * * * भुजम् | || गदा || कन्या * * * * * * * * * * * * स्थितम् | || त्रिशूलम् || त्रिशूलं * * * * * * * * * * * स्थितम् | प्. १८) || पद्मम् || शङ्खाभं * * * * * * * * * * * * नम् | || चक्रम् || शतारचक्रं हृत्मूर्ध्नीं सक्रश्यामगलेबरम् | चक्रन्तु पुरुषाकारं वन्दे चक्रन्नमाम्यहम् || सर्वाण्यञ्जलि हस्तानि पद्महस्तानि पूर्वतः | वज्राद्यङ्कितशीर्षाणि भावयेत् पञ्चमं व्रतम् || अव्यक्ते मुखलिङ्गे च विशेष कश्चिदुच्यते | अनन्ताद्या दलाग्रेषु पीठकर्णे गणेश्वराः || पीठपादे तु लोकेशातदस्त्राणि शिलोपरि | पूज्यान्यावरणोपेतं स्वस्वव्याप्ति विभेदतः || श्रीमद्देशिक पादेभ्यो सशक्तिभ्यो नमोनमः | सदा पक्वात्मसंबोध कारणेभ्यो नमोनमः || विद्यापीठमशोद्ध्यादौ नहविश्व विज्ञानप्रदमीश्वरम् | विद्यापीठस्थमावाह्य मनोवाग्विग्रहैन्नमा | || वागीश्वरि || देवीमावाहयेद्वि * * * * * * * त्रियाम् | तद्वागीश्वरन्तत्र सम्भूतशिवपावकम् || प्. १९) || शिवाग्नि || सितपद्मासनासीनं चतुर्वक्त्रञ्चतुर्भुजम् | लम्बकूर्चं ब्रह्ममूर्तिं जटामकुटशेखरम् || स्रुक्कमण्डल दण्डाक्षं मलाव्यग्रकराम्बुजम् | यद्वा - सचरक्ततनुस्त्रैक्ष शिवायुधभुजान्वितः || || शिवाग्निवागीशि ध्यानम् || तस्थं हविर्भोगपरं सदा सर्वेष्टतं शिवम् | आश्रयाशनिभं वन्दे बलिदेवात्यथोक्तवत् || || शुभमस्तु || || षोडशविग्रहम् || सोमास्कन्देश्वरञ्चन्द्रशेखरं वृषवाहनम् | नटेश्वरं तथा गङ्गाधरञ्च त्रिपुरान्तकम् || कल्याणसुन्दरञ्चार्धनारि पाशुपतन्तथा | कङ्कालं केशवार्थञ्च भिक्षाटनमतः परम् || चण्डेशानुग्रहञ्चैवा दक्षिणं कालनाशनम् | लिङ्गोद्भवञ्च मूर्तीनां भेदाष्षोडशविग्रहाः || || सोमास्कन्दध्यानम् || दक्षालम्बित वामनिद्रितपदं कृष्णं मृगञ्चाभयं - प्. २०) टङ्कञ्चादधतं वरञ्छकटकं बिभ्राणकं वामके | वामालम्बितनिद्रितान्य पदयादेव्यायुतं मध्यतः | स्कन्देनाब्जकरद्वयेन सहितं सोमं गुहेशं भजे || १ || || चन्द्रशेखरध्यानम् || विपुलवदननेत्रं सौम्यशृङ्गारभावं- अभयवरदहस्तञ्चन्द्रबिम्बाङ्गमौलिम् | ऋजुतनुसमपादं स्थानकं विद्रुमाभं- परशुहरिणधारिं पद्मपीठोपरिस्थम् || २ || || वृषारूढध्यानम् || सव्ये स्याद्वक्त्रदण्डान्वितकटककरेगोपतेर्मस्तकस्थे- वामे स्यार्धञ्च वक्ष्ये परकरयुगले टङ्ककृष्णन्दधानम् | पृष्ठस्सोक्षं प्रसन्नं त्रिनयनसहितं बद्धवेणीकिरीटं- वामे गौर्यासमेतं विजतगिरियुतं तं वृषारूढमीशम् || ३ || || नटेश ध्यानम् || एकास्यन्तु चतुर्भुजन्त्रिणयनं वामे च दुत्तूरकं- चन्द्रं पत्रशिखिप्रसारितकरमूर्ध्वं पदम्मुञ्चितम् | वामे स्वस्तिक कुण्डले डमरुकं गङ्गाभये बिभृतं- वन्दे कीर्णजटं नटेशमनिशाभस्मारदेहस्थितम् || ४ || प्. २१) || गङ्गाधरध्यानम् || देव्यालिङ्गित वामहस्तमनघं विन्यस्य सव्यं करं देव्यास्तच्चण्डिके प्रियं सुवचनं जल्पन्तमारात्सितम् | सव्येनोपरि योजयन्तममलां गङ्गाञ्जटाग्रे भृशं वामे कृष्णमृगीधरं पशुपतिं गङ्गाधरेशं भजे || ५ || || त्रिपुरदहनध्यानम् || प्रहसितवदनैकं सूर्यकोटिप्रकाशं करतलधृतकृष्णा टङ्ककोदण्डबाणम् | त्रिपुरदहनमीडे चोर्ध्वगाङ्घ्रिन्तु सव्येव्य- स्थित पदपरमेशं चन्द्रचूडन्त्रिणेत्रम् || ६ || || कल्याणसुन्दरध्यानम् || कुन्दाभन्तरुणेन्दु चूडमकुटं कृष्णंवरंवामके- दक्षालम्बि पदा तथा गिरिसुता हस्ताम्बुज बिभृतम् | टङ्कञ्चोर्ध्व करेधृतं स्वपुरतः पद्मोद्भवेनाश्रितं वामे विष्णुसमाश्रितं स्मितमुखं कल्याणदेवं भजे || ७ || || अर्धनारीश्वर ध्यानम् || पुंस्त्रीरूपधरं तनौ शशिजटाटङ्कारुणाभाफणि- व्याघ्रत्वग्वसन प्रकोष्ठ वृषभाव क्राङ्घ्रिगं दक्षिणे | प्. २२) वामे श्यामवरोत्पलालककुक्षौमर्जुपादाम्बुज##- || पाशुपतध्यानम् || वक्रालकं रक्ततनुन्त्रिणेत्रं शूलाभयं वै डमरुञ्च वामे | बिभ्राणमेवं शशिखण्डचूडं वामेकरे पाशुपतास्त्रयुक्तम् || सव्येऽर्जुनञ्चाञ्जलि हस्तयुक्तं अनुग्रहन्तद्दृढ भक्तियुक्तम् अस्त्रेणकोट्यार्क निभेनतेन वन्देनिशं पाशुपतेशमीशम् || ९ || || कङ्कालध्यानम् || रक्ताभं स्मितमिन्दुवक्त्रमकुटं वामे तु दोर्दण्डके- त्रैक्षं वेदकराम्बुजं शतधृतेः कङ्कालवीणाधरम् | सव्ये यष्टिधरं परे डमरुकं सव्येपसव्ये क्रमात्- टङ्कं कृष्णमृगं दधानमनिशं कङ्कालदेवं भजे || १० || || हर्यार्थध्यानम् || सव्याङ्गे विद्रुमाभं शशिधरमकुटं भस्मरुद्राक्षभूष्यं टङ्काभित्योस्समेतं निटिलगनयनाढ्यन्तरक्षुत्वगाढ्यम् | वामाङ्गे श्यामलाभं मकुटगिरियुतं पीतवस्त्राभिशोभं बिभ्राजत्पाञ्चजन्यं वरदकरयुतं नौमिहर्यर्थदेवम् || ११ || प्. २३) || भिक्षाटनेश ध्यानम् || शुक्लाभं शुभलोचनं डमरुकं दूर्वाङ्कुरन्दक्षिणे- वामे शूलकपालसंयुतकरं सत्पातुकं पातयोः | बिभ्राणञ्च जटाधरं शशिधरं दक्षे मृगं वामके भूतं यानगुणेन संयुतमहं भिक्षाटनेशं भजे || १२ || || चण्डेशानुग्रह ध्यानम् || त्र्यक्षं चन्द्रार्धचूडं स्फटिकमणिनिभं टङ्ककृष्णन्दधानं- सव्येलम्ब्यङ्घ्रिशोभं शयितपरपदं पद्मपीठोपरिस्थम् | हस्ताभ्यां पुष्पमालां सहयुतगिरिजं धारयन्तं वृषस्थं- सच्छत्रं चण्डकणे सुखरविनुतं चण्डनाथ प्रसादम् || १३ || || दक्षिणामूर्ति ध्यानम् || पादेनाक्रम्यभूतं तदुपरिगुणितं पादमेकन्निधाय व्यालं व्याख्यानमुद्रां हुतवहकलिकां पोस्तकं हस्तपद्मे नित्यं मे माञ्चतुर्भूः स्फुरतुममगुरो दक्षिणामूर्तिरीशः || १४ || || श्रीकालनाथध्यानम् || संविभत्परशुञ्च शूलममलं पाशं त्रिभिः पाणिभिः त्वन्यं वामकरेण संप्रकटयन् गौर्येनिज प्राभवम् | प्. २४) किञ्चित्कुञ्चित वामपादममलं ध्वस्ताशुमाल्याकुजं- सेव्या विक्षति देवतार्चितपदं श्रीकालनाथे शिवम् || १५ || || लिङ्गोद्भवध्यानम् || देवं गर्भगृहस्य मानकलितं लिङ्गजटाशेखरं कट्यासक्तकरञ्च वामनिकरे कृष्णं मृगञ्चाभये | सव्ये टङ्कममेय पादमकुटं ब्रह्माच्युताभ्यां युतं रुध्याधस्थित हंसकोलममलं लिङ्गोद्भवं भावयेत् || १६ || || षोडशग्रहध्यानं समाप्तः || || देविध्यानम् || इन्दुनिभवेद करवह्निनयनं स्यात् पङ्कजवराभय जपाक्षवलयुक्तम् | अङ्गहिमभूषण विचित्रवदनं स्यात् तुङ्गमकुटोज्ज्वलमनोन्मणि स्वरूपम् || १ || श्यामान्द्विनेत्रान्द्विभुजान्त्रिभङ्गीं सव्यापसव्य स्थित कुञ्चिताङ्घ्रीम् | नीलोत्पलं वा कटकस्तनौ च लम्बन्यहस्ता परमेश्वरी च || २ || || पुनरपि || श्यामामुत्पल धारिणीं मणिलसत्ताटककर्नोज्वलां प्. २५) अक्षाशस्त्र विशारणीं कलवरां कल्हारहस्तार्जनीम् | रक्तास्यां सुविलासनीं वशकरां राजीवनेत्रार्जिनीं गायत्रीं शिवकामकोष्ठनिलयां नृत्तेश्वरस्यप्रियाम् || ३ || || पुनरपि || शम्भुशक्ति समभङ्गमुच्यते तद्विनेत्र प्रकृतिञ्च सुस्थलम् | लम्बमेव करदक्षिणोत्पलं लज्यभावमनसारवक्त्रकम् || ४ || || वर्धनि ध्यानम् || द्विनेत्रां श्वेतवर्णाभां चतुर्भुजसमन्विताम् | करण्डमकुटोपेतां हारकेयूरभूषणीम् || वलयेरङ्गुलिश्चैव यज्ञसूत्रोत्तरीयकैः | स्तनौ तु कुङ्कुमालिख्यां कर्णे वा वदनार्चिताम् || पाशाङ्कुशधरञ्चैव वरदानभयप्रदाम् | एवन्ध्यात्वा महादेवीं वर्धनीं तोयमध्यमे || विन्यसेद् गन्धपुष्पाद्यैः अर्चयेत्तु नमाम्यहम् || ५ || || षट्भुजदेविध्यानम् || श्यामवर्णत्रिवक्त्रेण चामिक्षाषट्भुजन्तथा | सर्वाभरणभूष्येण सौभाग्यन्तु द्विपादुकम् || दाडिमी फल पद्मेन वामसव्येन धारिणम् | प्. २६) अक्षमालाञ्च पाशञ्चा अभयं वरदं तथा | इत्येव ध्यानरूपन्तु अर्चनेन नमाम्यहम् || ६ || || नटेशदेवि ध्यानम् || द्विभुजाञ्चारुवदनां नेत्रद्वयसमन्विताम् | करण्डमकुटोपेतां श्यामनीलाल कान्विताम् || नितम्बस्तन विस्तीर्णां प्रासाद्यैक करान्विताम् | दक्षिणोत्पल करान्देवीं सर्वाभरणभूषणीम् || दुकूलवसनान्देवीं बिल्वमालाविभूषिताम् | श्वेत पद्मासनासीनां देवीन् ध्यात्वा नमाम्यहम् || ७ || || देवी || सिंहोपरिस्थिता पीता शूलादर्शकरद्वये | करण्डमकुटा देवीं मुक्तादिभिरलङ्कृताम् || सर्वालङ्कारसंयुक्तां ध्यात्वा देवीं नमाम्यहम् || ८ || देवी- रक्तपद्मासनासीनां श्वेतवर्णस्मिताननाम् | एकवक्त्रं चतुर्हस्तां किरीटमकुटोज्ज्वलाम् || पाशाङ्कुशधराञ्चैव वरदामभय प्रदाम् | नितम्बस्थ न संयुक्तां मुक्ताहार विभूषिताम् || देवासुरमहं वन्दे ऋषिपत्नी सुपूजिताम् | एवन्ध्यात्वा महादेवी ध्यात्वा मन्त्रेण पूजयेत् || ९ || देवी- शुद्धस्फटिकसंकाशं ध्यायेद्देवीं मनोन्मनीम् | प्. २७) चतुर्भुन्त्रिणेत्रञ्च नीलालक विभूषिताम् | सुस्मिताञ्चारुवदनां पाशाङ्कुशधरं भजे || १० || || कुक्कुटयालि मनोन्मनिध्यानम् || देविशिरदक्षिणमथोक्त सुपादं गोमुखमयान्तकृतवारिभुजयुग्मम् | योनिगतमर्घ्य सहहं सितसुलिङ्गं स्थापित सदाशिवमनोन्मनिस्वरूपम् || ११ || प्राणशक्ति || रक्ताञ्च रक्तबोवेर विदलकमलेऽभ्यन्तरे सन्निविष्ठं रक्ताम्भीमोष्ठं स्मृतितसुलवहः स्मेल पक्षन्त्रिणेत्रम् | बीजापूरेक्षु पाशाङ्कुर धनु च शरष्षट्कपालानुहस्ते बिभ्राणां बालताङ्गीं सकलसुमहींप्पाणशक्तिं नमामि || १२ || रक्ताम्बोरक्तबोधोलसदरुणदलैजातिरूढोकराब्जैः पाशंकोदण्डमिक्षुर्भुवमसिमपरेप्याङ्कुशं पञ्चबाणात् | बिभ्राणात् सृक्कपालन्त्रिणयन सहितां पीनवक्षोरुहाढ्यां देवीं बालार्कवर्णां भवतु सुखकरी प्राणशक्तिः परान्नः || १३ || || चतुर्भुजदेवि || चतुर्भुजे चन्द्रकलावतंसे कुचोन्मते कुङ्कुमरागशोणे | प्. २८) पुण्ड्रेक्षु पाशाङ्कुश पुष्पबाणे हस्ते नमस्ते जगदेकमातः || १४ || || वागीश्वरी || वागीयागेश्वरञ्चैव बिन्दुनाद स्मृतिस्थितम् | बिन्दुवागीश्वरं प्रोक्तं नादं वागीश्वरन्तथा || पञ्चवक्त्रन्त्रिणेत्रञ्च चतुर्हस्तद्विपादकम् | श्वेतवर्णमिति ज्ञेयं अभयं वरदन्तथा || अक्षमालाञ्च वामेन दक्षहस्तेन कूर्चकम् | वागीश्वरीणमेवोक्तं वागीशञ्च ततः परम् || १५ || || अष्टभुजदेवि || धवलवर्णशरीरसुयौवनं द्विकुचमुन्नतहारभूषणीम् | शशिकलाधरवक्त्रभुजाष्टकीं मणिकिरीट विराजितशोभिनीम् || अभयमङ्कुश पाशगदाधरि अनलनाग जपाक्षपरायणि | कनकरत्नविकर्ण सुकुन्दली रजनिवस्त्रसुपद्मसुखासनी || ऋयतु शङ्करवामनिवि भवतुशङ्करपादनमाम्यहम् || १६ || आरुणाभान्त्रिणेत्रां मणिमकुटवतिं रक्तताटक रम्यां हस्ताम्भोजेषु पाशाङ्कुशमधरधनुस्सावकैर्विस्फुरन्तीम् | आपीनोत्तुङ्ग वक्षोरुहतट विलसत्तार हारातताङ्गीं आसक्ताम्भोज हस्तारुणसुवसनामीश्वरीमाश्रयामि || १७ || प्. २९) || अन्नपूरणी || * * * ? हेमाभां वहतीं विलम्बितशिखां मुक्तेन्दु- केशाम्बरीं मुक्ताहारविभूषितां कुचभरां कन्तास- काञ्चीगुणाम् | देवीं दिव्यरसान्नपूर्ण चषकां मातान्नपूर्णेश्वरीम् || १८ || || मनोन्मणि || उद्यद्दिनकराभासां * * * * मनोन्मनीम् || १९ || || देविरूपम् || एकैकशक्तीपरमेश्वरी च भिन्नाश्चतुर्धाविनिभोगकाले | भोगे भवानीवपुषे च विष्णुक्रोधेन काली महिषी च दुर्गी || २० || || देवि || रक्तपद्मासनमध्यपीठिकां रक्तकुन्तलकर्णविपाटिकाम् | रक्तवस्त्रसुधार सुवेष्टिकां रक्तपद्मदलवक्त्र सुकान्तिकाम् || रक्तपुष्पसुमालित शूलिकां रक्तचन्दनलेपित लेपितदेविकाम् || २१ || || देवि || श्वेतवर्ण शरीरचकाशिनीं श्वेतवस्त्र सुधारविलासिनीम् | श्वेतपुष्पसुहारविलोचनीं श्वेत पद्ममुखप्रकाशिनीम् || २२ || || कामारि || कामारिवामां कमलासनस्थां काम्यप्रदां कङ्कणचूडहस्ताम् | प्. ३०) कदम्बपुष्पाप्रभशोभिताङ्गीं विलोकरक्षायतवक्षिषाङ्कीम् || २३ || || देवि || शशिबिम्बमुखारविलासिनीमभयमङ्कुश पाशपरायणीम् | द्विकुचमुन्नत हारप्रकाशिनीं मणिरत्नकिरीट सुधारिणीम् || जयशङ्करवाम निवासनीं जनरक्षणलोक प्रकाशिनीम् || २४ || || मनोन्मनि || मनोन्मनि महादेवि शङ्करिभ्रमराम्बिका | कालीकरालिकाङ्कालि कालाग्नि कामरूपिणी || कर्णहार किरीटाङ्गि कटकै कर्णकुण्डलि | कपालबाणशूलाङ्गि वराभयगदाधरि || चक्रशङ्ख धनुरूपि खड्गपाशाङ्कुशोज्वलि स्वर्णवस्त्रषेष्टिसु पुमालिकेशिनि || सर्वालङ्कारशोभिन्यां शङ्करि प्राणनायकि | सर्वलोकैकरक्षिण्यां शङ्करी च नमोनमः || २५ || || सेनानीम् || पीतामुत्पधारिणीं शशिसुतां दिव्याम्बरालङ्कृतां वामेलम्बकरां महेन्द्र तनयां मन्दारमाल्याधराम् | देवैरर्चित वाचकां शशिमुखा देवेश वामे स्थितां प्. ३१) सेनान्दिव्यविभूषणान् द्विनयनां देवीत्रिभङ्गीं भजे || २६ || || सेनानि || दक्षिणे कुञ्चितं पादं वामपादं प्रलम्बितम् | उत्पलं सव्यहस्तेन वामहस्तं प्रलम्बितम् || रक्तवर्णं विशालाक्षं किरीटमकुटोज्वलम् | सर्वाभरणसंयुक्तं देवसेनास्वरूपकम् || २७ || || योगिनी || योगिनी वामपार्श्वे तु कुङ्कुमाद्विभुजान्विताम् | उत्पला सव्यहस्तेन लम्बितं कटकन्तु वा || पद्मासनसमञ्चैवा योगिनी ध्यानमाचरेत् || २८ || || वल्लीश्वरीध्यानम् || श्यामामुत्पलधारिणीं मणिलसत्ताटङ्क कर्णोज्वलां सव्येलम्बकरां किरीटमकुटोत्तुङ्गस्थनीं कञ्चुकम् | अन्योन्यक्षणसंयुतां शरवणोद्भूतस्य सव्ये स्थितां कुञ्जामाल्यधरां प्रवालवदनां वल्लीश्वरीं भावयेत् || २९ || वल्ली- कुञ्चितं वामपादन्तु सव्यपादं प्रलम्बिताम् | सपद्म वामहस्तेन दक्षहस्त प्रलम्बितम् | हेमवर्ण विशालाक्षं स्वर्णवर्णकिरीटिनम् || प्. ३२) स्थनकञ्चुक संयुक्तं महावल्लि स्वरूपकम् || ३० || भोगिनी सव्यपार्श्वे तु रत्नवर्णसमन्विताम् | कटिन्दक्षिणहस्तेन श्वेतपद्मन्तु सव्यके || पद्मपीठसमञ्चैवा सर्वाभरणभूषिताम् | स्कन्दस्य कृतिराख्यातं वरुणीन्दुसमर्चयेत् || ३१ || || वल्लीश्वरी || स्कन्दस्य दक्षिणे पार्श्वे वल्लिका श्यामला शुभाम् | किरीटमकुटोपेतां द्विनेत्रं युग्मपाणिनीम् || पङ्कजं वामहस्तेन कुञ्चितं दक्षहस्तकम् | प्रासार्ये सव्यहस्तेन सुस्थितं सव्यपादके || कर्णे कनकताटङ्गीं सर्वाभरणभूषिताम् | श्वेत वस्तुपरञ्चैव श्वेतमाल्यारलङ्कृता || बद्धस्थ न द्वयोपेतां किञ्चित्प्रहसिताननीम् | इत्येवन्ध्यानमेवोक्तं वल्लिकारूपमुच्यते || ३२ || श्यामवर्ण द्विनेत्रञ्च एकवक्त्रं द्विहस्तकम् | नवरत्नकिरीटागं वामहस्तेन उत्पलम् || कटकन्दक्षहस्ते तु निरासेन सुधारुणाम् | जाजि चम्पकमालायां सर्वाऽलङ्कारशोभिताम् || प्. ३३) स्कन्दस्य दक्षिणे भागे वल्लिकाभावयेत्तथा || ३३ || || सेनानि || द्विहस्तञ्च द्विनेत्रञ्च द्विपादमेकवक्त्रकम् | मुक्तामणिकिरीटञ्च दक्षहस्तेन उत्पलम् || वामहस्तन्तु कटकं पीताम्बरसुधारिणाम् | पारिजातोत्पलं माल्यां स्कन्दस्य वामपार्श्वयोः || ध्यात्वा सेनानिरूपन्तु अर्चयन्तु नमोनमः || ३४ || || भद्रकालि || श्यामाङ्गां रक्तवस्त्रां ज्वलनशिखिभुजां अष्टदिग्वाकराभां शूलंभे तालखड्गां डमरुकविहिता वामहस्ते कपालम् | अन्यद्घण्टार्ध्वखेटं हलञ्चलसहितं रौद्रभावन्त्रिणेत्रं चामुण्डारूपमेतत् त्रिभुवनममितं भद्रकालीन्नमामि || ३५ || महाकालिन्ध्यायेत् सर्वशत्रुघ्नं सर्वलोकैक पूजिताम् | कालीकरालि सदनां कालीजीमूत सन्निभाम् || भीमदंष्ट्रो त्रिणेत्रांशे त्रिधिज्वालाशिखोपमाम् | अष्टनागकृताकल्पां अष्टदिक्पूर्ण विग्रहाम् || त्रिभुजं सिंहवाहिन्यां एककुम्भस्तनावहिम् | सहस्रभुजदण्डाद्यै सहस्रायुधशोभिताम् || प्. ३४) विभूतिं किङ्किणी मालामापादस्थल लम्बिताम् | समस्तशत्रुरुधिरामपनोन्मत्त पराशिवाम् | परप्रयुधकामघ्निं परराज प्रदापरिम् || शूलं कपालपाशञ्च शत्रुप्राणापहारिणीम् | एवन्ध्यात्वा महाकालिं जपेस्मिन् सन्निधिं कुरु || ३५ || || कङ्कालदेवि || एकवक्त्रं त्रिणयनं जटाखण्डेन्दुमण्डिताम् | शूलञ्च परशुञ्चैव हस्ते देव च धारिणीम् || अभयं वरदञ्चैव ध्यायेद्देवीं चतुर्भुजाम् | हस्तिमालामुण्डमाला माला च नवरत्निकाम् || हट्टहास महाहासां स्मशानेशोषधारिणीम् | भूतप्रेतपिशाचैश्च ब्रह्मराक्षसदानवीम् || कूंत्यामाण्डी च कूश्माण्ड सेव्यालक्षमहाबलाम् | रक्तवस्त्रां रत्नवेषां महाशून्यकरां शिवाम् || परिचारकलक्षाद्यै महासंहारकारिणीम् | एवन्ध्यात्वा महादेवीं मन्त्रनाम जजासुधिः || ३६ || || रक्तसान्निध्यानामम् || एकवक्त्रन्द्विनयनं शूलटङ्कस्य धारिणीम् | प्. ३५) एकवक्त्रन्द्विनयनं शूलटङ्कस्यधारिणीम् | रक्तास्यां रक्तदेहस्या रक्तमाल्यानुधारिणीम् || जटामकुटसंयुक्तं अट्टहासभयाननीम् | पादादौ नवघोषञ्च पार्श्वकोटिगणाश्रिताम् || हस्तिमालामुण्डमाला सर्पमालासुधारिणीम् | स्मशानभस्मभूषाङ्गीं सर्वराक्षस संहरिम् || तस्य भार्यारक्तवेषां रक्तवाससमन्विताम् | अङ्गुलीभरणाघोरां अट्टहाससमन्विताम् || एवन्ध्यात्वा महादेवीं शत्रुसंहारकारिणीम् || ३७ || || भद्रकालि || कालिञ्चतुर्भुजञ्चैव नीलवर्णस्वरूपिणीम् | शूलं कपालहस्ताञ्चान्येडमरु पाशकम् || ऊर्ध्वकेशसमायुक्तां रौद्रदंष्ट्रभयानकाम् | आसीनां वा स्थितां वाऽपि भद्रकालि स्वरूपकम् || ३८ || श्यामाभां रक्तवस्त्रां ज्वलितशिखिभुजां अष्टहस्ता- कराब्जां शूलं वेतालखड्गं डमरुक सहितां वामभागे वहन्तीम् | नागं पाशञ्चखड्गं अनलकरयुतं सव्यभागे वहन्तं चामुण्डीरूपमेतत् सकलवशिकरीं भद्रकालिन्नमस्ते || ३९ || प्. ३६) || रेणुकादेवि ध्यानम् || वामे शूलकपाल युग्ममितरे खड्गं गुणाडिंडिमं बिभ्राणं करपङ्कजैस्त्रिणयनं नागाष्टभूषोज्ज्वलम् | नानाकोटि युगान्तरुद्रसदृशीं नानाज्वलद्भूषणीं दक्षालम्बितवामनिद्रितपदां श्रीरेणुकामाश्रये || ४० || अरुणकिरणमाङ्गं अग्निकेशं करण्डं डमरुक्त्रिशूलं खड्गहस्तं कपालम् | अनलनयननागं वीरसिंहासनस्थं अखिलभुवनमाता रेणुकादेवि मीडे || ४१ || रेणुकादेवि- रक्तवर्णशिरखण्डखड्गिनी हस्तशूलकपाल डमरुगाम् | शूलपाशमुसल खड्गधारिणीं रेणुकादेविमुपैमुपास्महे || ४२ || || चामुण्डि || चतुर्भुजन्त्रिणेत्रञ्च कालमेखस्वरूपिणीम् | दंष्ट्राकरालवदनीं व्याघ्रचर्माम्बरान्विताम् || कटकैशूलहस्तञ्च कपालवरदाशुभाम् | किङ्किणीमालया भूष्यं प्रेतवाह स्वरूपिकाम् || सर्पासं शिवशक्तीनां स्तनं पीतांसु यौवनाम् | ध्यायेच्छक्तिमिदन्ध्यात्वा चामुण्डि कृतिभावयेत् || ४३ || प्. ३७) || चामुण्डि || रक्ताभां पीतवस्त्रां स्थिदिमुखकमलां इन्दुरेखावतंसां दिव्यैर्माणिक्य युक्तां मणिगण व्यजितां भूषणैः पुण्डरीकाम् | सुपुष्पैर्भासमानां रिपुकुलसुपुजां बिल्वपत्रायताक्षिं चामुण्डाश्रनिमुण्डं रिपुकुलमधुनीं शङ्करीं भावयामि || ४४ || || दुर्गी || सुवस्त्रं नीलकेशञ्च नीलोत्पलदलाकृतिम् | सुस्तनाञ्चारुवदनीं सर्वाभरणभूषिताम् || शङ्खचक्रं च दधतीं दक्षिणेनाभयप्रदाम् | ऊरुं वामभुजान्देवीं दैत्यसंहारकारिणीम् || कुचबद्धसमायुक्तां महिषश्शिरसि स्थिताम् | आवरणे तु संयुक्तां दुर्गीं ध्यात्वा नमाम्यहम् || ४५ || || अष्टभुजदुर्गी ध्यानम् || एकवक्त्रं शिरोज्वालं रक्तनेत्रं भुजाष्टकम् | नीलवर्णसमायुक्तां घोरदन्तं तथैव च || महिषस्य शिरस्थाने दक्षे पादधृतोन्यकम् | महिषस्य कटिस्थाने वामपादतदुद्धृतम् || महिषस्य च वक्ष्येण त्रिशूलाग्रतदुत्थितम् | द्विहस्तञ्चैवशूलेन कपालं खड्गमेव च || प्. ३८) धनुर्बाणसमायुक्तं गदाश्चक्रन्तथैव च | वामसव्यद्विपार्श्वेन हस्ताग्रे आयुधन्न्यसेत् || सर्वभीतिञ्चलङ्कारीं ध्यात्वा दुर्गा नमाम्यहम् || ४६ || || कामारिशक्ति ध्यानम् || श्यामाभां रक्तवस्त्रां द्विनयनज्वलशिखां अष्टवेदीं कराग्रे शूलं वेतालखड्गं डमरुकसहितं वामहस्ते कपालम् | अन्ये खेटञ्च पाशं हलगतसहितं रौद्रमुन्मत्तरूपां कौमारीं रूपमेतत् त्रिभुवनवशिकरीं शङ्करीं भावयामि || ४७ || || रेणुकादेवि || पाणिपद्मकपालशूलमितरं खड्गं गुणाडिंडिमं बिभ्राणां करपङ्कजे त्रिणयनं नागाष्टभूषोज्ज्वलम् | नानाकोटियुगान्त भास्करनिभं नानालसद्भूषणीं दक्षालम्बित पादनिद्रित पदं श्रीरेणुकामाश्रयेत् || ४८ || || दुर्गाध्यानम् || हेमप्रख्यामिन्दु खण्डार्थशोभां शङ्खारिष्ठां भीमहस्तं त्रिणेत्राम् | हेमब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां शरणमहं प्रपद्ये || ४९ || || मूकाम्बिकै ध्यानम् || मूलाम्बोरुह मध्यकोण विलसत् बन्धूक रक्षाज्वलां प्. ३९) ज्वाला ज्वालविदेहकान्तल हरीमानन्द सन्दायिनि | हेलालालित नीलकुन्दलधरां नीलोत्तरीययाम्शुकां कोल्पूरा पुरिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् || ५० || || महालक्ष्मि || वामदक्षिणहस्ताभ्यान्दयन्तीं श्रीफलाम्बुजे | हेमाभ्यां स घटेभाभ्यां प्राप्यमानां महाश्रियम् || ५१ || महालक्ष्मी- द्विनेत्रां कुङ्कुमाकारां एकवक्त्रां चतुर्भुजाम् | किरीटमकुटञ्चैव नितम्बस्तन संयुताम् || स्वर्णमाभरणैर्युक्तां श्वेतवस्त्रसुधारिणिम् | श्वेतपद्मासनान्देवीं द्विभुजीं श्वेतपद्मिनीम् || अभयंवरदञ्चैव सर्वाभरणभूषिणीम् | सर्वदारुद्रशमनीं ध्यात्वा लक्ष्मीं नमाम्यहम् || ५२ || महालक्ष्मी- चतुर्भुजान्द्विनेत्राञ्च सरत्नमकुटान्विताम् | पीतवर्णसमायुक्तां सर्वाभरणभूषिताम् || पङ्कजन्दक्षिणे हस्ते श्रीफलं वामहस्तके | अभयं वरदञ्चैव हस्तद्वय द्विपार्श्वयोः || गजद्वय घटोपेतं वामदक्षिणपार्श्वयोः | धारयेणाभिषेकञ्च ध्यात्वालक्ष्मीं नमाम्यहम् || ५३ || प्. ४०) || महालक्ष्मि || यासा पद्मासनस्था विपुलकटितटीपद्मपत्रायताक्षि गम्भीरावर्तनाभिस्तनभरणहिताशुभ्रवस्त्रोत्तरीयय | लक्ष्म्यैर्दिव्यैर्गजेन्द्रैर्मणिगण खजितैस्थापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतिग्रहेसर्वमाङ्गल्य युक्ते || ५४ || || पद्मध्यानम् || माणिक्क सदृशं कान्तं नालन्नीलसमप्रभम् | अङ्कुरन्तु प्रवालाभं दलं रंजित सप्रभम् || केसरं हेमवर्णाञ्च अग्रे मुक्तावलीयुतम् | तन्मध्ये जननं लक्ष्मीं पद्मवर्णनिभावयेत् || ५५ || || परनिष्कलेश्वरि || शुक्लमाल्याम्बरधरां शुक्लगन्धानुलेपनाम् | वामजानुन्यस्तकरां विन्मुद्रां दक्सिणेकरे || पद्मपीठ सुवासिन्यां सर्वाऽलङ्कारशोभिनीम् | परानिष्कलको देवि ध्यात्वारूपनमोनमः || ५६ || || पारिजातेश्वरि || शुक्लवस्त्र परिलेपनभूष्यां चन्द्रमौलिमिति शुभ्रशरीराम् | हस्तपुस्तक सुधाकटवीणां मालिकामहरहं कलयेवम् || ५७ || प्. ४१) || मातङ्गीम् || ध्यायेऽहं रत्नपीठे शुककलपरित्यं श्रिह्वेतीं श्यामगात्रिं इन्यस्तेकाश्रे सरोजोशशिकलधरंश्चालकीं वादयन्तम् | कल्हारां पीतमालां नियति विलसद्धूलिकां रक्तवस्त्रां मातङ्गीं भूषिताङ्गीं मधुमदविवशां चित्ररोद्भासिपालाम् || ५८ || || मनोन्मनि || महदपि महमन्ये मातृकादिव्यदिव्यरूप सहवहसिजनैस्त्यां सर्वमन्त्रप्रको- महदहमभिमन्ये मनोन्मनीसूतविद्ये सदपि परितां हि सुन्दरीं त्वां नमामि || || बालपरमेश्वरी || अरुण किरण जालैरर्चितस्सावकाशां विधृतजपटीकां पुस्तकाभीतिहस्त इतरवर कराल्यां पुल्लकल्हारहस्तां निवसतु हृदिबालां नित्यकल्याणशील || || शक्तिलक्ष्मि || श्री शक्तिलक्ष्मीं नवहेमवर्णां युग्माम्बपाशाङ्कुश चापबाणैः | अलङ्कृतदोर्ध्वकराजि षट्के सुसंस्कृत गन्धाम्बरमाल्यशोभाम् || ६ || || अजाहकोशेश्वरि || पीतारुणां द्वयशोभमानां पाशाम्बरां गीतिपुरश्वधानीम् | करैर्दधानां शशिखण्डचूडां त्रिलोचमार्थमहाशरूपाम् || ६२ || || अभूतेश्वरि कामदुहिध्यानम् || प्. ४२) धवलवस्त्र सुगन्धविलेपनां भुजयुगाद्धृत पुस्तकमालिकाम् | शशिकलाकलितामृतेश्वरि कलितकामदुखां कलये हृदि || ६३ || || भुवनेश्वरि || बालभानु सहस्राभां रक्ताम्बरविभूषणीम् | पाशाङ्कुशवराभीति हस्तां रत्नेश्वरीं भजे || ६४ || || सौभाग्यलक्ष्मि || विचित्रवस्त्रोभरणोऽङ्गरागां सुरत्नवर्णां सुरसितपूजाम् | माणिक्य दर्वीमितरे सुवर्णां पात्रांसुदुस्थां परमस्यददन्तिम् || ६५ || || वाराहरत्नेश्वरि ध्यानम् || भूलोकपालिंमुसलं वरञ्च भुजैर्दधानामिति नीलवर्णाम् | दंष्ट्रोज्ज्वलकल्लोलमुखीं त्रिणेत्रां मण्डास्रुगालिंगितमौलिमीडे || ६६ || || सरस्वती देवि || शुद्धस्फटिक संकाशां रविबिम्बसमप्रभाम् | कुन्देन तु हिताभासां हासनाभगतां शिवाम् || मुक्ताहारविभूषाञ्च देवीन्ध्यायेच्चतुर्भुजाम् | आक्षसूत्राङ्कुशधरां हस्तेपोस्तक धारिणीम् || सितेन दर्पणाभेन वस्त्रेण परिभूषणीम् | सुस्तनीं वेदिमध्यान्तं चन्द्रार्ध कृतशेखरिम् || प्. ४३) जटाकपालसंयुक्तां पूर्णचन्द्रनिभाननाम् | कटङ्कस्वर्णरत्नाद्यैः वलयैश्च विभूषिताम् || केयूरैर्मेखलाद्यैश्च द्योतयन्ती जगत्रियम् | कम्बुग्रीवासुताम्रोष्ठीं सव्याभरणभूषिताम् || त्रिलोचनीं सरस्वत्यां स्वर्णनूपुरभूषणीम् | शब्दब्रह्मारुणिंध्यायेत् ज्ञानकामसमाहिताम् || ६७ || || सरस्वति || अर्चयिष्ये जगन्मातां शारदां विशदप्रभाम् | सितपद्मासनान्देवीं त्रिणेत्रं शशिभूषणीम् || श्वेतवस्त्रं चतुर्हस्तां नवरत्न किरीटिनीम् | पुस्तकाक्षाभयञ्चैव रक्तोत्पलन्तथैव च | ध्यात्वा भारतिरूपञ्च अर्चयित्वा नमोऽस्तुते || ६८ || || सरस्वति || चतुर्भुजान्त्रिणेत्राञ्च श्वेतवर्णान्तथैव च | अक्षमालाञ्च सव्येन पोस्तकं वामहस्तके | सव्यहस्तेन पदञ्च वामहस्तेन कुण्डिकाम् || मुक्ताहारविभूषाञ्च सर्वालङ्कारभूषणीम् | सर्वलोकैकवश्येन पूजयेच्च सरस्वतीम् || ६९ || प्. ४४) || सरस्वति || श्रीमच्चन्दन चर्चितोज्ज्वलवपुः शुक्लाम्बरामल्लिका मालालालित कुन्दलां प्रविलसत् मुक्तावलीभूषणाम् | दिव्यज्ञाननिनाद पोस्तकधरां रुद्राक्षमालाधरां वाग्देवीं वदनाम्बुजे वसतुनस्त्रैलोक्यमाताचिरम् || ७० || सरस्वति- सद्यात्मानमनेकलोकजननीं देवीमिमामिष्टदां त्रियिकल्पविभूषितां त्रिणयनां वन्द्येन विद्यां सदा | भक्त्यानामसुरासुरेन्द्रमकुटप्रत्युप्तरत्नाङ्कुरा छायारञ्जितपादपाद पीठनिकटां इष्टामिमांसास्निम् || ७१ || या कुन्देन्दु तु ष * * * * * * * * पहा | दोर्भीयुक्ता चतुर्भिः स्फटिकमणिमयिमक्षमालादधानां हस्तेनैकेन पद्मं सितमपि च शुकं पोस्तकञ्चापरेणा | भासा कुन्देन्दुशङ्खस्फटिक मणिनिभाभासमाना समाना सामे वाग्देवी निवसतु वदने सर्वदा सुप्रसन्नाम् || ७३ || || भुवनेश्वरि || उद्यद्भास्वत् समाभं निजित नवजपामिन्दु खण्डावतं सां ज्योतिर्मौलिन्त्रिणेत्रां विविधमणिलसत् कुण्डलां पद्मकान्ताम् | हारास्त्रैवेयकाञ्चीं गुणमणिवलयोद्याविचित्रां स्वराज्यां प्. ४५) अम्बापाशाङ्कुशायै अभयवरकरां अम्बिकान्तान्नमामि || || अन्नपूर्णेश्वरि || उद्यत्सहस्रद्युतिबिम्बगौरां मुक्ताङ्गवीणास्तन लम्बिभाराम् माणिक्यदर्वीर्मधुपात्रहस्ता स्मरन्ति सन्तः स्मरवैरिकान्तम् || || एकाक्षरलक्ष्मी || हेमाभां शुभ्रवस्त्रां पद्मद्वयवराभयाम् | हस्तिहस्तोद्यत स्वर्णां कुम्भामृत परिभृताम् || ७ || सर्वालङ्कारशोभिन्यां लक्ष्मियेकाक्षरीन्नमः | || परञ्ज्योतीश्वरि ध्यानम् || पाशाङ्कुशवराभीति हस्तान्त्रिनयनांशुभाम् | रक्तमाल्याम्बर धरां रक्तवस्त्रसुधारिणीम् || रक्तवर्णपरञ्ज्योति नमामीत्याभजामहे || ७७ || || सिद्धलक्ष्मि || सुवर्णप्रभासां सुरक्तविभूषां फलन्तुलङ्गं वरञ्चोद्विहन्तीम् | सुरत्नेश्वरीं शुद्धलक्ष्मीं समाख्यां भजेचित्रवस्त्रां सुलेपातिरम्याम् || || तुयीम्बाध्यानम् || पुन्नागाम्बुज जाजिचम्पवकुलैः पुष्पैरलङ्कारितां धन्वीमिक्षुधनुप्रभासुविशिखां पाशाङ्कुशां बिभ्रतीम् | प्. ४६) मध्ये प्रोद्यदनन्तभोगिनिलये कल्पे दरियये शिवे नादे नादरससरूपनवभिर्णादेस्वते वद्याम्बिकाम् || ७९ || || देवि ध्यानम् || जाजिनीलोत्पल वकुलचम्पकै श्वेतरत्नाम्बुज पुन्नमल्लिकाम् | हारमाल्यसुशोभित लङ्कृतां श्वेतगन्धसुलेपनवर्षिताम् || पाशमङ्कुश वराभयधारिणीं देवदेवसुरदेव सुपूजिताम् || ८० || || ज्येष्ठादेवि || कन्या पुत्रसमायुक्तां खार्जुकाकद्वयान्विताम् | रक्तवर्णधरान्देवीं मुक्ताहारविभूषिताम् || काकी च वाहनञ्चैव सर्वालङ्कारशोभिनीम् | कलिपत्नीन्ततः कृत्वा ध्यात्वा मन्त्रमिति स्मरन् || ८१ || || ज्येष्ठा || काकध्वजकरारूढीं कालेपतिसुखासने | पार्श्वयोस्तनयापुत्रो मणिश्च वृषनायकः || रक्तवर्णवराहस्यो वृषाभतुनिभामणि | वृषन्तु दक्षिणे पार्श्वे वामपार्श्वे मणिन्तथा || सर्वालङ्कारसंयुक्तां कलिपत्नीन्नमो नमः || ८२ || || रथध्यानम् || प्. ४७) रथञ्च पुरुषाकारं चिन्तयेद्देशिकोत्तमः | पादौ तु पादचक्रन्तु जानुदेशञ्च कीलकम् || ऊरुञ्चैवतलं प्रोक्तं द्वितलं कटिदेशकम् | त्रितलन्नाभिदेशञ्च चतुर्थञ्चोदरन्तथा || पञ्चमन्तु हृदिस्थानं स्थम्भकारादिकन्तथा | शेषश्च मुखमित्युक्तं चित्रवस्त्रेण चर्मणीम् || रज्जुनाडीततसूत्रं कटिसूत्रेण किङ्किणीम् | स्वर्णराजतलौहञ्च कांसताम्र सुभूषणाम् || रोश्ववाहनञ्चैव रज्जुसूत्रं सुलोहकम् | सर्वालङ्कार संयुक्तं ध्यात्वालङ्कारि शोभिताम् || रथस्य पुरुषाकारां शिवशङ्करवाहनम् || ८३ || || सप्तमातृ ध्यानम् || ब्राह्मीञ्चतुर्मुखीञ्चैव पीतवर्णं भुजाष्टकम् | अष्टनेत्र समायुक्तं हंसवाहन संस्थितम् || किरीटमकुटञ्चैव वज्रकुन्दलमेव चा | पीताम्बरधरञ्चैव पीतच्छत्रसुशोभिताम् || अभयं वरदञ्चैव अष्टमालान्तु मुण्डिकाम् | वज्रमाभरणञ्चैव सर्वालङ्कारशोभिताम् || प्. ४८) इत्येवं रूपमाख्यातं ध्यात्वा ब्राह्मिस्वरूपकम् || ८४ || || माहेश्वरि || पञ्चवर्णसमायुक्तं दशबाहुसमन्वितम् | नेत्रपञ्चादशञ्चैव पञ्चवर्णसमप्रभम् || कपालमङ्कुशञ्चैव दण्डञ्छत्रि न मुदिकाम् | जटामकुटसंयुक्तां नागाभरणभूषिताम् || श्वेताम्बरधरञ्चैव श्वेतच्छत्रसुशोभिताम् | वृषवाहनसंयुक्तां सर्पकुण्डलधारिणीम् || त्रिशूलमभयं खड्गं डमरुं पाशसव्यके | वामेनाग्निकपालञ्च वरदं खेटमङ्कुशम् || ८५ || सर्वाभरणसंयुक्तं ध्यात्वा माहेश्वरी तथा | कौमारिं रक्तवर्णं च षड्वक्त्रं भानुनेत्रकम् || द्विषद्भुजसमायुक्तं मयूरवाहनन्तथा | रक्ताम्बरधरञ्चैवा रक्तच्छत्र सुशोभिताम् || शक्तिञ्चक्रधरञ्चैव खड्गं पाशभयन्तथा | कुक्कुटं कुलिशं खेटं वरद धनुरङ्कुशम् || स्वर्णमाभरणञ्चैव सर्वालङ्कारशोभिनीम् | कौमारि ध्यानरूपन्तु ध्यात्वा मन्त्रेण पूजयेत् || ८६ || प्. ४९) || वैष्णवि || कृष्णवर्णद्विनेत्रञ्च एकवक्त्रञ्चतुर्भुजम् | कृष्णपीताम्बरञ्चैव गरुडासनसंस्थितम् || कृष्णच्छत्र सुशोभाढ्यं मुक्ताहारविभूषणीम् | हेमकुन्दलकर्णेन शङ्खचक्रगदाभयम् || सर्वालङ्कारसंयुक्तं सर्वाभरण भूषणीम् | एतद्वैष्णविरूपन्तु ध्यात्वा मन्त्रेण पूजयेत् || ८७ || || वाराहि || वक्त्रं वाराहरूपन्तु नीलवर्णञ्चतुर्भुजम् | अश्ववाहनसंयुक्तं नीलच्छत्र सुशोभिनीम् || नीलाम्बरधरञ्चैव नीलरत्नेन भूषणीम् | शलाकदण्डमेवन्तु खड्गखेटकमेव च || भूमिपातालभेदिन्यां सर्वालङ्कारशोभिताम् | वाराहीन्तु ततः कृत्वा ध्यात्वा मन्त्रेण पूजयेत् || ८८ || || माहेन्द्रि || इन्द्राणीं हेमवर्णञ्च एकवक्त्रञ्चतुर्भुजम् | ऐरावत गजारूढं श्यामच्छत्रसुशोभिनीम् || स्वर्णमाभरणैर्युक्तं सहस्रनयनान्विताम् | प्. ५०) वज्रं शक्तिगदाखड्गं सरत्नमकुटोज्ज्वलाम् | रत्नताटङ्कसंयुक्तां ध्यात्वा माहेन्द्रि रूपकम् || ८७ || || चामुण्डि || दंष्ट्री वदनाञ्चैव त्रिणेत्रञ्च भुजाष्टकम् | व्याघ्रवाहनसंयुक्तां मेखवर्णशरीरिणीम् || नीलच्छत्रसुशोभाढ्यां सर्वाभरणभूषणीम् | कर्णेन स्वर्णताटङ्कीं स्वर्णबन्धन संस्थिताम् || जटाचूच किरीटञ्च मुण्डमालासुधारिणीम् | अभयन्त्रिशूलकटकं खड्गञ्च दक्षिणे करे || पाशं कपालघण्टञ्च खेटकं वामपार्श्वके | सर्वालङ्कारसंयुक्तां चामुण्ड ध्यानरूपकम् || ९० || || दुर्गादेवि || शङ्खचक्राभयो हस्तं नववस्त्रमहाबलम् | सिंहारूढसमंपादं महिषासुरमर्दनीम् || ९१ || || विश्वयोनिकामाक्षि || अभयवरदहस्ता आङ्कुशं पादहस्तं कनकमणिकिरीटं कुण्डलं वीरशक्तिम् | सकलभरणभूष्यं धर्मकामाक्षि देवीं शिवसुमङ्गलकाविश्वयोनिं भजामि || ९२ || प्. ५१) || ईश्वरि देविकूटपञ्चशक्तिध्यानम् || अम्बिके- टङ्कमेणधरञ्चैव अभयं वरदन्तथा | सर्वालङ्कारसंयुक्तां समपादञ्च अम्बिकाम् || ९३ || || गणाम्बिकै || ऊर्ध्वसूर्यार्ध चन्द्रञ्च अभयं पात्रवरन्तथा | एकवक्त्रन्त्रिणेत्रञ्च गङ्गापादसमं भवेत् || अभयं वरदञ्चैव पाशाङ्कुशधरस्य च | सपादञ्च त्रिणेत्रञ्च एकवक्त्रं गणाम्बिका || ९४ || || सरस्वति || अम्भोजप घटञ्चैव अभयं वरदन्तथा | एकास्यं समपादञ्च गौरिशक्ति स्वरूपकम् || कुण्डिकापुस्तकञ्चैवऽभयं वरदन्तथा | अम्भोज पुष्पमध्ये तु समपादं सरस्वतिम् || ९५ || || द्वारशक्ति कालि ध्यानम् || पाशाङ्कुशाभयवरं समपादन्तथैव च | कुचोन्नतञ्च गम्भीरं विष्णु आत्मासु शक्तिषु || ९६ || दिव्यपाशाङ्कुशञ्चैव पोस्तकं शुचिहस्तयोः | समपाद महाभीमं ब्रह्मात्माशक्तिरेव च || ९७ || प्. ५२) || भूमिदेवि ध्यानम् || आवाहयेत् ततो भूमिं सर्वाभरणभूषिताम् | द्विभुजाञ्च त्रिनेत्राञ्च करण्डमकुटान्विताम् || हेमयज्ञोपवीतञ्च पीतनेत्रां सुयौवनाम् | पीतञ्च पीतवस्त्रञ्च पुण्डरीकदलैक्षणाम् || कृताञ्जलि पुटोवाऽपि चोत्पलालाञ्चितन्तु वा | भूमि देवि स्वरूपाय सर्वाभरण सुन्दरिम् || ९८ || || यमुना || चतुर्भुजन्त्रिणेत्राञ्च कपालशूलमेव चा | दक्षिणेऽभयटङ्कस्य वामपार्श्वे समन्वितम् || जटामकुटसंयुक्तं नागयज्ञोपवीतिनम् | तस्यैव दक्षिणे पार्श्वे यमुनाञ्चैव कारयेत् || ९९ || || महाकालि || द्विभुजा च द्विनेत्रा च श्यामवर्णसमन्वितम् | कूर्मासन समायुक्तं सर्वाभरणभूषणिम् || पूर्णकुम्भस्य वामे तु उत्पलं सव्यहस्तके | यमुनायां स्वरूपन्तु सर्वावयवसुन्दरीम् || द्वारस्य वामपार्श्वे तु महाकाल्यमुनस्तथा | प्. ५३) यमुनाञ्च महाकालीं तस्य वामे तु पूजयेत् || १०० || || अष्टभैरवर् || असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः | कपालीभीषणश्चैव संहारश्चाष्टभैरवम् || || असिताङ्ग भैरवर् || रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् | निर्वाणं शुनवाहनन्त्रिनयनं अनन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् || १ || || रूरुभैरवर् || निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् | भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि || २ || || चण्डभैरवर् || बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिणेत्रं दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् | शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां प्. ५४) सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् || ३ || || क्रोधभैरवर् || उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे | नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् || ४ || || उन्मत्तभैरवर् || एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् | चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि || ५ || || कपालभैरवर् || वन्दे बालं स्फटिक सदृशं कुम्भलोल्लासिवक्त्रं दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुनञ्च | दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् || ६ || || भीषणभैरवर् || त्रिणेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् | प्. ५५) कपालं शूलहस्तञ्च वरदाभयपाणिनम् | सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् || रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् | नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् || नीलमेख समाख्यातं कूर्चकेशन्त्रिणेत्रकम् | नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् || नूपुरस्वनपादञ्च सं * * यज्ञोपवीतिनम् | किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् || ७ || || संहार भैरव ध्यानम् || एकवक्त्रन्त्रिणेत्रञ्च हस्तयो द्वादशन्तथा | डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् || धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा | वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा || नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् | कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा || श्वेतार्क पुष्पमालां त्रिकोट्यङ्गण सेविताम् | सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् || ८ || || बालभैरवर् || प्. ५६) डमरुञ्चाङ्कुशञ्चैव खड्गशूलभयान्वितम् | नागपाशकपालञ्च घण्टावरयुगन्तथा || ९ || तुषारकर्णिकाभासं बालरूपं दिगम्बरम् | || तपुनविभैरवर् || अजिनदण्ड कपालजटाधरं गरलकर्णतरङ्कमलेक्षणम् | अरुणवाससमेखलामतं वटुकनाथमिदं प्रणमाम्यहम् || १० || || पुनविभैरवर् || ध्याये नीलाभ्रकान्तं शशि सकलधरं मुण्डमालामहेशं दिव्यास्त्रं पिङ्गकेशं डमरुकमनलं खड्गशूलाभयानि | नागं घण्टं कपालं करसरसिरुहे विभ्रतं भीमदंष्ट्रं सव्याकल्पं त्रिणेत्रं मणिमयविलसत् किङ्किणीनूपुराढ्यम् || ११ || || पुनरपि भैरवर् || करकलितकपाली कुण्डली दण्डपाणिः तरुणतिमिरनीलाव्यालयज्ञोपवीती | क्रतु समयपरिकल्प्या विघ्नविच्छेदहेतुं जयतु वटुकनाथं सिद्धिकस्साधकानाम् || १२ || || राजभैरवर् || नग्नरूपन्त्रियक्षञ्च केशालक विभूषितम् | प्. ५७) श्यामवर्णञ्च दण्डञ्च द्विभुजं श्यामकञ्चुकम् | सर्पचन्द्रसमोपेतं कुन्दलावृतमूर्तिनम् || किङ्किणीमालयाभूष्यं सर्पाभरणभूषितम् | आपतोद्धारणाख्यातं राजसस्य विधीयते || १३ || || तामसभैरवर् || नग्नरूपन्त्रिणेत्रञ्च पादनूपुरसंयुतम् | शुनोपरि स्थितं श्रीमान् अष्टभिर्दोर्भिरन्वितम् || शूलं पाशन्तथा खड्गं खट्वाङ्गं दक्षिणे करे | कपालं परशुञ्चैव खेटं खण्टाञ्च वामके || १४ || इति रूपमिति ध्यात्वा तामसस्य विधीर्यते | || सात्विकभैरवर् || शूलं पाशञ्च खण्टाञ्च खेटं कपालकं तथा | ऊर्ध्वकेश सुवृक्ताक्षं कुञ्चितम्भ्रूसुवीर्यवान् || सकुञ्चिताग्रकायन्तु नागाभरणभूषितम् | भैरवस्या कृतिञ्चैव सात्विकस्य विधीयते || १५ || || पुनरपि || नग्नरूप त्रियक्षचतुर्भुजं सर्पपाशत्रिशूलकपालधृक् | ऊर्ध्वकेश सुदंष्ट्रविभूषितं क्षेत्रपालमिदं प्रणमाम्यहम् || १६ || प्. ५८) || पुनरपि || श्रीनाथं ब्रह्मरुद्रं दिनकरकिरणं चन्द्रबिम्बं ललाटं आनन्दादिव्यपीठं बहुविधचरितं सर्वमन्त्राधिकारम् | नादं प्रत्यक्षरूपं ग्रहगणकुसुमं क्रोटिसूर्यप्रकाशं नानारुद्रावतारं त्रिभुवनचरितं क्षेत्रपालन्नमामि || १७ || || भैरवर् || नग्नन्नागविभूषणिन्न कुटितं सत्किङ्किणीमेखलं बिभ्राणं करपालशूलडमरुं सत्पात्रपात्रङ्करे | जाग्रं बर्बरकेशमग्निसदृशं चन्द्रार्क चूडान्वितं श्वानारूढमशेषलोकजगतां रक्षाकरं भैरवम् || १८ || || भैरवम् || सिद्धान्तयोगमार्गे द्विवितकुलमतो मन्त्रतन्त्रप्रसिद्धे वन्दे ब्रह्मावतारे विविधमुनिगणे सर्पयज्ञोपवीते | कालकालान्तकारं मम तु भयहरं क्षेत्रपालन्नमामि || १९ || भैरवम्- श्वेताकारन्द्विनेत्रञ्च जटाचूडविराजितम् | वासुकी कटे सूत्रञ्च किङ्किणी मालयान्वितम् || भस्मोद्धूलित सर्वाङ्गं कपालञ्चत्रिशूलकम् | जपमालाञ्च दण्डञ्च श्वानवाह परिस्थितम् || २० | निर्वाणञ्च विधिप्रोक्तं ध्यात्वा भैरवरूपकम् | प्. ५९) || कङ्कालबिऐरवर् || रक्तवर्णद्विनेत्रञ्च एकवक्त्रं भुजाष्टकम् | नीलमेखसमाख्यातं भस्मोद्धूलन भूषणम् || खड्गन्त्रिशूल डमरुं गदाखेटकपालकम् | नीलाब्जं वीणसंयुक्तं श्वानवाहनरूढकम् || २१ || इत्येवं रूपमेवन्तु ध्यात्वा कङ्कालभैरवम् | राजसं षट्भुजञ्चैव तामसञ्चाष्टकन्तथा || २२ || द्विभुजञ्चतुर्भुजं शान्तं त्रिविधन्तु विधीर्यते | || स्तोत्रध्यानम् || स्तुत्वाकशत्व समीरणत्वदहनत्वापत्व विश्वंबरः त्वम्ब्रह्मत्व जनार्दनत्वदरुणं केन्दुः प्रदेवासरः | कल्पान्तारभ्रमानटं प्रमुदितं श्रीसिद्धयोगीश्वरं क्रीडानाटकनायको विजयते देवो भैरवः || २३ || || श्वानध्यानम् || चतुर्वेदञ्चतुष्पादं पुच्छंमीमांसमेव च | षट्शास्रहृदयञ्चैव कलज्ञानाख्य कण्ठकम् || शिवागमद्विनेत्रञ्च द्विकर्णं ज्योतिषं तथा | लोकसाक्षिञ्च कर्तव्यं श्वानरूपाय ते नमः || २४ || प्. ६०) इत्येतद्भैरवञ्चैव ध्यानरूपमिति स्मृतम् | कुम्भबिम्बपटे चित्रं स्तोत्रं तज्जपमेव च || त्रिकालन्तु पठेन्नित्यं जपित्वा फलसिद्धिदम् | || दक्षिणामूर्तिध्यानम् || भस्मव्यापाण्डुरङ्ग शशिकलधरो ज्ञानमुद्राकपाला##- व्याघ्रपीठे निषण्णो मुनिवरनिकरैस्सेविता सुप्रसन्ना सव्यालः कृत्तिवासं सततमवतनो दक्षिणामूर्तिरीशः || १ || पुनः- स्फटिकरजितवर्णं पावकोपोस्तकं वा मरगमृगाक्षमाला पूर्वहस्तञ्चव्याघ्रम् | शशिधरजटभानुं दक्षिणे भानुसोमे वटतरुनिषण्णं वामपादोश्वपादम् || ऋषिगणमुनिसेव्यं दक्षिणामूर्ति रूपम् || २ || पुनः- वटविटपसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् | त्रिभुवनगुरुमीशं दक्षिणामूर्ति देवं जननमरणदुःखच्छेद दक्षन्नमामि || ३ || || पुनः || प्. ६१) धवलवर्णशरीर शिखोज्ज्वलं द्विभुजहस्तस्रविणकमायुधम् | अमर सेवितपादसकुञ्चितं सरसिदक्षिणबाल स्वरूपकम् || ४ || पुनः- रुद्राक्षं वह्निहस्तं उडुपतिसहितं भस्मनोद्धूलिताङ्गं उल्लासं पद्मपीठं हुतवहनयनं ऊर्ध्वगङ्गा सहायम् | ओङ्कारम्मूलमन्त्रं मुनिजनपतितं वेदसारं शिवात्मं वन्दे कैलासनाथं सकलसुरपतिं दक्षिणामूर्ति देवम् || ५ || पुनः- मुद्रापोस्तक वह्निनागविलसत् बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् | अज्ञानपहमादिमादिरहितं अर्धम्भवानीपतिं न्यग्रोदन्ति निवासिनं परगुरुं ध्यायेद्यभीष्टाश्रये || ६ || धवलरचितगात्रं सर्वयज्ञोपवीतं अनलगिरिजहस्तं अक्षमालाधराद्यम् मधुरकनकवीणाकुञ्चितं फालनेत्रं गिरिवरशिखिहस्तं दक्षिणामूर्तिदेवम् || पुनः- ज्वलनं साक्षमालाञ्च ज्ञानमुद्राञ्च पोस्तकम् | मुखैश्चतुभिर्दधतं मुनीनां ऋषिवन्दितम् || ८ || वेदशास्त्रादिव्याख्यान्तं ज्ञानरूपाय ते नमः | पुनः- पादेनाक्रम्यभूतं तदुपरिगुणितं पादमेकं निधाया##- व्यालव्याख्यानमुद्रां हुतवहकलिकां पोस्तकं हस्तपद्मे प्. ६२) नित्यं मेमाञ्चतुर्भिः स्फुरतु मम गुरो दक्षिणामूर्तिरीशः || ९ || गङ्गासंवलितेन्दुशेखरधरं शार्दूलचर्मासनं भस्मालेपनपाण्डुराङ्गमनलं न्यग्रोधमूले स्थितम् | भोगीन्द्रो नलभूषणं करतले पोस्ताक्षमालाधरं श्रीकण्ठम्मनसा स्मरामि सततं पार्श्वे सदासेवितम् || १० || पुनः- हुतवहमणिकेशं ज्ञानरुद्राक्षमाला अमृतकलशविद्या ज्ञानमुद्राकराग्रे | दधतुमुरगकक्षं चन्द्रचूडन्त्रिणेत्रं प्रणतमगुरुमीशं दक्षिणामूर्तिदेवम् || ११ || पुनः- स्फटिकरजितवर्णं पावकोपोस्तकं वा उरगमपरहस्ते पूर्वहस्तेक्षमालाम् | ददपि च युगलाङ्गं गुल्यव्याख्या न मुद्रां शशिधरजटवामे दक्षिणे भानु सौम्ये || गिरिरुहवटमूले वासिनं सर्वपादान्तदुपरि- परिपादं निक्षिपञ्चाद्विषण्णः | अचरितपदमाभं स्मारतं नूपुरेषु मुनिजनसुरसेव्यं दक्षिणामूर्तिदेवम् || १२ || प्. ६३) पुनः- आलिङ्गेण करेण पोस्तकधरो कुम्भस्यदा पूरितं- मुद्राज्ञान महीदधानमपरैरुद्राक्ष मालाधरैः | वामाङ्गोपरि संस्थितां गिरिसुतां अन्योन्यमालिङ्गतां श्यामामुत्पलधारिणीं शशिनिभां दाक्षिण्यमूर्तिं भजे || १३ || पुनः- चतुर्भुजन्त्रिणेत्रञ्च जटामण्डितशेखरम् | पूर्वहस्त द्वयोवापि दक्षिणे मुद्रिकान्वितम् || पोस्तकं वामहस्ते तु परहस्तद्वयोरपि | दक्षिणे नागदण्डं वा वामहस्ते त्रिशूल धृक् || दक्षिणं लम्बितं पादं वामपादन्तु मण्डलम् | व्याघ्रचर्माम्बरधरं सर्वाभरणभूषितम् || १४ || कैलास पर्वते तस्मिन् वटवृक्षस्यमूलकम् | तदधोजददग्निञ्च वसिष्ठो भृगुदक्षिणे || भारद्वाजोप्यगस्त्यश्च भार्गवो गौतमस्तथा | इत्येवन्दक्षिणामूर्ति रूपं हृदिविभावयेत् || || द्वादशादित्य ध्यानम् || वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः | लोकप्रकाशिकश्चैव लोकसाक्षित्रिविक्रमः || प्. ६४) आदित्यश्च तथा सूर्यो अंशुमालि दिवाकरः | || वैकर्तन ध्यानम् || वैकर्तन स्वरूपन्तु एकवक्त्रन्द्विहस्तकम् | आयुधं स्वर्णपद्मञ्च द्विहस्ते नैव धारिणम् || १ || स्वर्णभूषणमेवोक्तं रजनी वस्त्रधारिणम् | || विवस्वतर् || विवस्वत स्वरूपन्तु द्विवक्त्रञ्च चतुर्भुजम् | अभयं वरदोपेतं आयुधाब्जकरद्वयम् || २ || पिङ्गलञ्चैवस्त्रस्यात् भूषणञ्चप्रवालकम् | || मार्ताण्डः || मार्ताण्डञ्च स्वरूपन्तु त्रिवक्त्रं षट्ब्बुजान्वितम् | अभयं वरदञ्चैवा अक्षमालाकमण्डलुम् || ३ || अब्जद्वयकरञ्चैवाहारमाभरणन्तथा | || भास्करम् || भास्करस्य स्वरूपन्तु द्विवक्त्रञ्च चतुर्भुजम् | नमस्कार द्विहस्तेन परहस्ताम्बुजद्वयम् || ४ || शोणाभं शोणवस्त्रञ्च भूषणन्नीलरत्नकम् || ४ || || रविः || प्. ६५) रवेरपि स्वरूपन्तु चतुर्वक्त्रं समन्वितम् | विशेषादष्ट हस्तन्तु अक्षमालाकमण्डलुम् || शूलपाशाङ्कुशाब्जञ्च अभयं वरदं तथा | आयुधानामिति प्रोक्तं रक्तवस्त्र सुधारिणम् || ५ || भूषणम्मरतकञ्चैवा एवन्ध्यात्वा प्रपूजयेत् | || लोकप्रकाशः || लोकप्रकाशवर्णन्तु रजितस्य समप्रभम् | दशहस्तं पञ्चवक्त्रन्तु द्विहस्तेनाब्जमेव च || त्रिशूलमङ्कुशण्दण्डं जपमाला कमण्डलुम् | शरञ्चापञ्च विन्मुद्रां दक्षवामकरान्वितम् || ६ || नीलरत्नञ्च सर्वाङ्गं नीलवर्णन्तु धारिणम् | || लोकसाक्षि || लोकसाक्षिं प्रवक्ष्यामि पङ्खवक्त्राद्विहस्तकम् | कलिताञ्जलि हस्तञ्चा श्वेतवस्त्रञ्च भावयेत् || ७ || रुद्राक्षधारणोपेतं भस्मोद्धूलनभूषितम् | || त्रिविक्रमम् || त्रिविक्रमस्वरूपन्तु द्विमुखञ्च चतुर्भुजम् | ऊर्ध्वद्वयकराब्जं स्यात् नमस्कारमयाकरौ || ८ || प्. ६६) श्यामरक्तविभूषञ्च वस्त्रं श्यामञ्च वर्णकम् | || आदित्यर् || आदित्यस्य स्वरूपन्तु एकवक्त्रन्द्विहस्तकम् | नालाब्जकरयुग्मन्तु दाडिमी कुसुमप्रभम् || ९ || रत्नाभरणमेवन्तु चिन्नित्यादित्य रूपकम् | || सूर्यर् || सूर्यतेजस्वरूपन्तु एकवक्त्रं भुजाष्टकम् | अब्जद्वयकरोपेतं घण्टाधूपकमण्डलुम् || अभयं वरदञ्चैवा अक्षमाला समन्वितम् | हेमवक्तञ्च स्वर्णाभं भूषण स्वर्णमेव च || १० || || अंशुमालि || अंशुमालिस्वरूपन्तु षड्वक्त्रं रक्तवर्णकम् | एवन्द्वादशहस्तन्तु द्वयमब्ज करान्वितम् || तोमरासिज खड्गञ्च खेटकं पाशमेव च | शक्तिभेतालमभयं वरदं दक्षवामतम् || ११ || || दिवाकरम् || दिवाकरस्वरूपन्तु द्विमुखञ्च चतुर्भुजम् | बिल्वपत्रस्वरूपन्तु सुपद्मं पुष्करद्वयम् || १२ || प्. ६७) रजनीवस्त्रसंयुक्तं हारमाभरणन्तथा | || सूर्यध्यानम् || रक्तवर्णन्द्विनेत्रञ्च नागयज्ञोपवीतिनम् | करण्डमकुटोपेतं रक्तकुण्डलमुण्डितम् || रक्तप्रभः समायुक्तं रक्तमाल्यानुलेपनम् | उषञ्च दक्षिणे पार्श्वे प्रयूषञ्चेतरे न्यसेत् || १३ || वह्निमाभिमुखन्देवं सूर्यरूपञ्च भावयेत् | पुनः- धवलाम्भोरु * * * * * * * * * ससम् || १४ || पुनः- दण्ड्याद्यै * * * * * * * * * * वतान्नः || १५ || पुनः- सूर्यं सुन्दरलोकनाथ ममृतं वेदान्तसारं शिवं ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकवित्तं स्वयम् | इन्द्रादित्य नराधिपं सुरपतिं त्रैलोक्य चूडामणिं ब्रह्माविष्णु शिवस्वरूप हृदं वन्दे सदाभास्करम् || १६ || || भास्करः || द्विनेत्रन्द्विभुजं ज्वालार्वापया वसुनन्दनम् | अनेककाल संयुक्तं सर्वाभरणभूषितम् || पद्मपीठ स्थितन्देवं शक्तिद्वयसमन्वितम् | निष्कलं निर्विकाराया तद्देवं भास्करो भवेत् || १७ || प्. ६८) || सूर्यः || दीप्त दीप्त * * * * * * * * * * *ण || १८ || || सूर्यः || एकवक्त्रन्द्विनयनं हस्तद्यं पद्मपुष्पकम् | कुण्डलं समपादं स्यात् रक्तवर्णं मनोहरम् || १९ || शिरवृन्तरथारूढं शिवसूर्यमहंभजे | दण्डिर्वा दक्षि * * * * * * * * * सौम्य || २० || रक्तवर्ण सु * * * * * * * * * * वान् || २१ || || सूर्यमण्डलम् || अनेकरक्तसंकाशं स्वर्णप्राकारशोभितम् | अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलम् || २२ || वसुपद्मन्तु हृत्पद्मे द्वात्रिंशत्केसरन्तथा | तस्य मध्ये स्थितं शेषं सहस्र फणिशोभितम् || २३ || तस्य मध्ये स्थितं देवं शिवसूर्यन्नमोनमः | || द्वादशादित्यौ || अरुणासूर्यनामा च सहस्रांशुस्तथापहे | दातार विश्वपर्जन्यां त्वष्ट्रामित्रस्यवासवः || २४ || एते द्वादशसूर्याश्च द्विभुजावरदाम्बुजाः | प्. ६७) द्वादशादित्यशक्तिः || उभः प्रभाश्च सभ्याश्च प्रज्ञा मेधा च मालिनि | सावित्री चैव गायत्रि श्रीप्रतीकान्तिमीरिता | एते द्वादशसूर्याणां शक्तयः परिकीर्तिताः || २५ || || चन्द्रन् || श्वेतवर्णन्द्विनेत्रञ्च श्वेतपद्मोपरिस्थितम् | द्विभुजं कुमुदोपेतं श्वेतवस्त्रेण वेष्टितम् || सर्वैराभरणैभूष्यैर्मुक्तादामैरलङ्कृतम् | किरीटमकुटञ्चैव प्रभामण्डलमण्डितम् || १ || कृत्तिका दक्षिणे पार्श्वे रोहिणिं वामपार्श्वके | || चन्द्रन् || चित्रसिंहासनासीनं कुन्दस्फटिकसन्निभम् | प्रभामण्डल संयुक्ता द्विभुजाञ्चद्विनासिकम् || आसीनो वा स्थितो वाऽपि कुमुदः प्रजलाकरः | तस्य दक्षिण दिग्भागे रोहिणी द्विभुजान्वितम् || २ || सनङ्कुरनिभाभास्वत् राजीवसमलोचनः | पुनः- पुनः- गोक्षीरधवलाकारं द्विभुजञ्च द्विनेत्रकम् || रश्मिमण्डलसंयुक्तं वैडूर्यमकुटान्वितम् | प्. ७०) रोहिणीसहितं चन्द्रं ध्यायेत् कुमुदहस्तकम् | अर्चनस्य ततः कृत्वा नेत्रन्यासार्घ्यमर्चयेत् || ३ || पुनः- एकवक्त्रन्द्विनेत्रञ्च श्वेतवर्णञ्चतुर्भुजम् | श्वेतपद्मासनासीनं श्वेतवस्त्रसुधारिणम् || श्वेतगन्धाक्षतञ्चैवा जाजीपुष्प सुधारिणम् | मुक्ताहारविभूषञ्च श्वेताब्जञ्च द्विहस्तकम् || धनुर्बाणद्विहस्तञ्च सप्ताश्वरथवाहनम् | कृत्तिकारोहिणीञ्चैवा द्विपार्श्वे श्यामवर्णकम् || शीतालितलमेवन्तु षोडशः कलसंयुतम् | सर्वालङ्कारसंयुक्तं चन्द्ररूपायते नमः || ४ || पुनः- द्विभुजं कुमुदञ्चैव प्रभामण्डलशोभितम् | एकवक्त्रन्द्विनेत्रञ्च हारमुक्तामणिं यथा | जाजिचम्पकमालाया वक्त्रस्योपरि संस्थितम् || श्वेतपद्मासनञ्चैव द्विशक्तिञ्च द्विपार्श्वकम् | श्वेतवस्त्रधरञ्चैव सर्वालङ्कारशोभितम् || षोडशः कलशं युक्तं पूर्णचन्द्रस्वरूपकम् || ५ || पुनः- स्वर्ण दिव्यरथारूढं रथसप्ताश्व पीतकम् | श्वेतवर्णध्वजं रज्जुं श्वेतछत्रेण चामरम् || प्. ७१) श्वेतवस्त्रैरलङ्कारं तन्मध्ये पद्मपीठकम् | पीठमध्ये सुवृक्तञ्च तन्मध्ये चन्द्ररूपिणम् || ६ || पुनः- एकवक्त्रं द्विहस्ताब्जं द्विनेत्रं शान्तरूपिणम् | नवरत्नकिरीटञ्च स्वर्णमाभरणान्वितम् || श्री गन्धन्तिलकञ्चैव पुष्पमालासुचापकम् | सर्वालङ्कारसंयुक्तं चन्द्ररूपाय ते नमः || ७ || || ब्रह्मा ध्यानम् || पीतं पीनं चतुर्बाहुं ब्रह्माणञ्चतुराननम् | हंसयानञ्च बिभ्राणं दण्डाक्षस्सृक्कमण्डलुम् || १ || ब्रह्मा चतुर्मुखः पीता चतुर्दोर्दण्डमण्डितः | स्रुक्दण्डाक्षकुशोपेता सूर्यमण्डलमध्यगः || तत्रैवोर्ध्वदिशानाथं प्रोक्ताकारन्तथैव च | कमण्डल्वक्षमालाञ्च कुशदण्डधरं भजे || २ || अधो दिगधिपं कान्तं पीतवस्त्रं श्रियान्वितम् | चतुर्वक्त्रे भुजाष्टौ च शक्तिञ्च जपमालयोः || कुशदण्डकपालञ्च ज्ञानमुद्राञ्च पोस्तकम् | लिखितं सव्यहस्तेन ऋषीणाञ्च प्रपूजयेत् || ३ || पुनः- श्वेतवर्ण स्वरूपन्तु चतुर्वक्त्रञ्चतुर्भुजम् | प्. ७२) दण्डञ्च सर्वमेवन्तु जपमालाकमण्डलुम् | योगपीठासनञ्चैव अष्टनेत्रन्तथैव च || ऋषिपुष्पाञ्जलिञ्चैव चतुर्वेदादिकन्तथा | अष्टादशपुराणञ्च षट्शास्त्रकलविज्ञकम् || मीमांसयोगशास्त्रञ्च भारति जिह्वयान्वितम् | नवरत्नकिरीटञ्च वज्रमाभरणन्तथा || श्वेतवस्त्रसमायुक्तं बाहुः यज्ञोपवीतिनम् | देवासुरमहंवन्दे रविमण्डलसंयुतम् || ४ || इत्येवं ब्रह्मरूपन्तु ध्यात्वा मन्त्रेण पूजयेत् | पुनः- वेदशास्त्रपुराणञ्च भाषितं पूर्ववक्त्रके || देवासुर-ऋषीन् वन्दे भाषितं दक्षिणेन च | लिखिता सृष्टिमेवन्तु वक्त्रमुत्तरमेव च || परमेश्वर पादाब्जं पुष्पाञ्जलि समप्रभम् | पश्चिमाभिमुखन्देवं ध्यात्वा ब्रह्मस्वरूपकम् || ५ || || विष्णु ध्यानम् || विष्णुश्चतुर्भुजो मालिं शङ्खचक्रगदाब्जधृक् | नीलाम्बुदप्रतीकाशं सोममण्डलकेशवा || १ || पुनः- पश्चासुवर्ण वर्णाभं रक्तास्यं रक्तनेत्रकम् | प्. ७३) पाणिपादसुखोद्वाहं शुकपिञ्चाम्बरं हरिम् | श्री विष्णुप्रणवात्मानं किरीटं वक्त्रसन्निभम् || प्रणालमुपवीतञ्च श्रीवत्साङ्गं चतुर्भुजम् | शङ्खचक्रावतारञ्च कलाभयवलम्बकम् || २ || स एव परमात्मानं ध्यात्वा विष्णुस्वरूपकम् | अनन्तं पुण्डरीकाक्षं फणादशशतैर्युतम् || ३ || विद्युद्धाम प्रतीकाशं कूर्मारूढं कृताञ्जलिम् | अनन्तं पुण्डरीकाक्षं एकवक्त्रञ्चतुर्भुजम् || धनुर्बाणसमायुक्तं किरीटमकुटोज्ज्वलम् | हारकेयूर संयुक्तद्विनेत्रं रक्तवाससम् || शङ्खचक्रधरन्देवं सोममण्डलरक्षकम् | सुरासुरकृतं वन्दे पुष्पाञ्जलि समप्रभम् || ४ || एवं विष्णुस्वरूपन्तु ध्यात्वा मन्त्रेण पूजयेत् | नीलवर्णस्वरूपन्तु एकवक्त्रञ्चतुर्भुजम् || शङ्खचक्रावतारञ्चा हेमाङ्गुल्यादिभूषणम् | वक्षस्थलेनकञ्चैव लक्ष्मीन्दिव्यस्वरूपकम् || आलिङ्गनेन हस्ताञ्च अभयन्दक्षिणे करे | पीताम्बरोपवीतञ्च स्वर्णरत्न किरीटकम् || ५ || प्. ७४) लक्ष्मीनारायणञ्चैवा ध्यात्वा मन्त्रेण पूजयेत् | || रामर् || बालार्कद्युति सन्निभं रघुवरं सीतापते पश्चिमे तिष्ठन्तिन्नवरत्न चित्रमकुटं हारोल्लसद्वक्षसम् | श्वेतच्छत्रधरं सुवर्णकटकं स्वर्णाङ्करालङ्कृतं देवं लक्ष्मण ऊर्मिलासहवरं वन्देसुमित्रासुतम् || ६ || मण्डव्याकेलिलोलं मणिमयमकुटं मङ्गलानान्निवासं तालीबृन्दं दधानं शशिनिभवदनं पद्मपत्रायताक्षम् | भक्तानां पारिजातं भवभयहरं रामवामे निविष्ठं रत्नोर्वैर्मण्डिताङ्गं भरतमुनिकुलयीश्वरं चिन्तयामि || ७ || शत्रुघ्नन्दीर्घबाहुं विविधमणिगणालङ्कृताङ्गं भजेऽहं सीताहाटक सन्निभां शशिमुखां हारावली शोभिताम् | कस्तूरीवनसारभूषितकुचां हेमाम्बरालङ्कृतां रत्नोन्मीलित कुण्डलां रघुवरास्यांकैमुदारस्थिताम् || ८ || देवीं मातरमाश्रयामि जगतां सर्वार्थसिद्धि प्रदां || रामस्याग्रे पवननममलं हेमयज्ञोपवीतम् || सीताशोकाग्निकालाम्बुदशुभहरं दिव्यवक्त्रोज्ज्वलाङ्गं भक्तानां पारिजातं निचरकुलसंहारकालाग्निरुद्रम् | प्. ७५) ध्यायेद्गाङ्गेय वर्णं प्रमुदित वदनं पोस्तकं सन्दधानम् || ९ || || वीररामर् || हस्तायुधे दशास्यं त्रिभुलतविषमं वामहस्तेन चापं भूमौ षट्टं विष्टश्यतिष्ठन्निजकरकधृतं भ्रामयन्बाणमेकम् | आरत्नोपान्तनेत्रं शरदलिवपुषं कोटिसूर्यं प्रकाशं वीरश्रीबद्धरागं त्रिदशपतिनुतं पातु मां वीररामम् || १० || वीररामर् दोर्भिः खड्गं त्रिशूलं डमरुकधनुं चन्द्रबाणं कुठारं शङ्खं चक्रं कृपाणं हलमुसलगतं पिण्डिबालञ्च खेटम् | उद्यद्वह्निञ्च मुष्टिं अभयवरकरं श्याङ्कुशं वामभागे वन्दे रामं त्रिणेत्रं मम दुरितहरं पातु मां वीररामम् || ११ || रामं रत्नकिरीट कुण्डलधरं वक्त्रं शशीबिंबकं वस्त्रं हेमसुधावरं करचतुश्चक्रं धनुर्बाणकम् | शङ्खं जाजिसुपुष्पवनदलं मालायवक्षस्थलं शत्रुघ्नं भरतं सलक्षणयुतं सीताथ वामे स्थितम् || १२ || श्री गन्धं अनुलेपनञ्च तिलकं भक्तिप्रियं लक्षणं सर्वालङ्कृतशोभितं सुरपतिं रामं भजेऽहं भजे | || विष्णुषोडशनामम् || प्. ७६) औषधञ्चिन्तयेद्विष्णो भोजनेन जनार्दनम् | शयने पद्मनाभञ्च संयोगेन प्रजापति || नारायणोद्य कालञ्च श्रीधरं प्रयसंगमे | संग्रामे चक्रिणञ्चैव प्रभाते शत्रुविक्रमः || दुस्वप्ने स्मरगोविन्दं भीभत्सो मधुसूदनम् | कानने नरसिंहञ्च पर्वते रघुनन्दनम् || जलमध्ये वराहस्य पावके जलशायने | प्रवाहे वामनञ्चैव सर्वकार्येषु माधवम् || एते षोडशनामानि त्रिसन्ध्यां यः पठेन्नरः | सर्वभूतभयन्नास्ति संग्रामे विजयी भवेत् || १३ || || वीरभद्रध्यानम् || वीरभद्रन्त्रिणेत्रञ्च नीलरूपं चतुर्भुजम् | खड्गञ्च खेटकञ्चैव पूर्वहस्तान्तरे तथा || पार्श्वहस्तान्तरे चैव बाणं वै कार्मुकन्तथा | रक्तवस्त्रसमायुक्तं वीरनूपुरभूषितम् || यज्ञोपवीतसंयुक्तं इतरेजाह्नवीतरम् | कर्णे गिरिसमायुक्तं शिरोमालाविभूषितम् || राजसं उग्रनेत्रं च भीमदंष्ट्रं तथैव च | प्. ७७) सुस्थितं दक्षिणं पादं वामपादन्तु कुञ्चितम् || पादन्नूपुरसंयुक्तं छन्नवीरसमन्वितम् | इत्युक्ते वीरभद्रेव द्विविधं भोजमुच्यते || १ || पुनः- त्रिणेत्रं श्यामवर्णञ्च शिरोमाला विभूषितम् | जटामकुटसंयुक्तं जाह्नवी चन्द्रसंयुतम् || आस्थानसत्सयेत्पादं दक्षपादन्तु लम्बितम् | वामपादं विलम्बञ्च समदेहं प्रकल्पयेत् || सर्वभागद्धृदञ्चैव खड्गञ्च हरिणन्तथा | वामपार्श्वे तु हस्ते तु खेटकं परशुन्तथा || सव्यपादे च पार्श्वे तु दक्षञ्चैव प्रजापतिम् | सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् || २ || भोगञ्च विविधं प्रोक्तं वीरञ्च विविधं शृणु | पुनः- तद्भुजाष्टसमायुक्तं सर्वलक्षणसंयुतम् || शूलं खड्गञ्च बाणञ्च हरिणीं दक्षपार्श्वके | कपालखेटकञ्चैव पाशमङ्कुशवामके || ३ || ध्यानकं वीरदेवञ्च त्रिविधं चोच्यते क्रमात् | पुनः- श्वेताकारमशेष भूषणधरं विन्यस्तवीणाधरं टङ्कं कृष्णमृगाधरं करयुगे शार्दूलचर्माम्बरम् | प्. ७८) अर्धोनील न लोचनं त्रिययुतं मौली जटाबन्धनं वन्दे सन्नतवीरभद्रचरणं अम्भोरुहं पाहिमाम् || ४ || पुनः- रुद्रां रौद्रावतारं हुतवहनयनं ऊर्ध्वकेशं सुदंष्ट्रं भीमं भीमाङ्गरूपं घृणिघृणिनिनदं ज्वालमालावृताङ्गम् | भूतप्रेताधिनाथं कथनकलहतं खड्गपात्रेवहन्तं वन्दे लोकैकनाथं त्रिपुरदहनंदं श्यामलं वीरभद्रम् || ५ || पुनः- बालापट्ट समज्ज्वलं घनवरं पादाब्जये नूपुरं नानादेव समन्वितं शशिधरं नागेन्द्रभूषोज्ज्वलम् | वन्दे वारुणवीरभद्रमभयं त्वं वीरदेवं भजे || ६ || || विश्वहृदयम् || अनजदण्डकमण्डुलुमेखलां रुचिरपावन वाम न मूर्तये | नितरजगत्रय जीवकरपरै निगमवावान् पटवैवटवे नमः || ७ || || शरभम् || अघोर शरभञ्चैवा एकवक्त्रं त्रिणेत्रकम् | नीलवर्णसमाख्यातं षोडशास्तं तथैव च || खड्गन्त्रिशूलं डमरुं गदा चक्राङ्कुशन्तथा | बाणाग्निञ्च ततः कृत्वा सव्य पार्श्वेन हस्तयोः || प्. ७९) कपालं परशुं दण्डं पाशघण्टधनुर्धरम् | खट्वाभं नागपाशञ्च वामपार्श्वेन हस्तकम् || शिरोजटसमायुक्तं भस्मं सर्वाङ्गधूलितम् | शिरः किङ्किणिमालायां सर्वयज्ञोपवीतिनम् || रक्तवस्त्रेण संयुक्तं रक्तश्छत्र ध्वजन्तथा | विकारमट्टहासञ्च सप्तकोट्यागणाश्रियम् || ८ || सर्वालङ्कारसंयुक्तं ध्यात्वा शरभं नमाम्यहम् | || मणिध्यानम् || घण्टञ्च विविधं प्रोक्तं प्रमाणं षट्दशन्तथा | भानुद्वयोन्नताङ्गुल्यं घण्टारूपाय ते नमः || १ || || घण्टप्रमाणम् || नालस्योन्नतभानुश्च वसुदेव सुवृक्तकम् | नालाग्रे दण्डमेवन्तु रुद्राङ्गुलसमन्वितम् || २ || भूतसंख्या च दण्डाग्रे प्रमाणं घण्टरूपकम् | नालन्दिवाकरञ्चैव दण्डञ्चैव महेश्वरम् || दण्डाग्रेण त्रिशूलञ्च घण्टानाद सरस्वति | इत्येतद्घण्टदेवानां अर्चयेत्तु नमोनमः || ३ || प्. ८०) || वृषभशक्ति || ज्वालाध्वकेशि सुदंष्ट्रद्विनेत्रिनं साद्वयं वेदिशचक्रचापि | बाणञ्च पश्चाद्वराभयैश्च वृषश्च शक्ति वृषदेववामे || ४ || वृषभं श्वेतवर्णन्तु तीक्ष्णशृङ्गं महाबलम् | दिव्यरूपस्वलावण्यं तप्तकाञ्चन सन्निभम् || वेदरूपञ्चतुष्पादं अग्निरूपन्तु शृङ्गकम् | आदित्यश्चन्द्रनेत्रश्च मुखं रुद्रस्तथैव च || ब्रह्मा विष्णुश्च रुद्रश्च रूपं वृषभमुच्यते | ईश्वरो वलयञ्चैवा सर्ववेदमयं वृषम् || ५ || || शयनवृषभम् || कृतत्रेतायुगञ्चैवा द्वापरे पादजम्पुटम् | कलियुगेनेक पादन्तु बहुशैव विमोक्षतम् || धर्मदेव समाख्यातं पश्चिमाभिमुखन्तथा | शयनं कृत्वा तु धर्मज्ञं शिववाहनमुच्यते || ६ || || वृषभम् || प्रत्यङ्गाशस्थितं त्र्यक्षं वृषञ्च धवलाकृतिम् | साक्षाधर्म स्वरूपञ्च परमेश्वरवाहनम् || ७ || वृषो वृषाकृतीत्र्यैक्षो रुद्रैकागतमानसः | प्. ८१) साक्षाद्धर्म स्वरूपञ्च शुद्धस्फटिक निर्मलः || ८ || दिव्यलिङ्गबलिदेवताः || अष्टमूर्ति वर्णभेदम् || देवीकन्तु भवातीनां इन्द्रादीनान्तु मानुषम् | भूतादीनां स्वयम्भूतं आरुषं परिवारकैः || सरोद्रुवादिबाणञ्च विद्येशानान्तु दिव्यकम् | यक्षादिराक्षसं लिङ्गं बलिं दद्यात् प्रकीर्तिताः || ९ || || देवलिङ्गबलिदेवतै || अष्टमूर्तिवर्णभ्भेदाः भवशर्वस्तथैशानः पशुपत्युग्रमेव च | भीमो रुद्रो महादेवो इत्यष्टमूर्तयस्तथा || १० || भवस्य पीतवर्णञ्चा शर्वाय रजनी तथा | ईशानं श्वेतवर्णञ्च पशुपत् श्यामवर्णकम् || रुद्राय मेखवर्णञ्च हरिणीमुग्ररूपकम् | स्फटिकञ्च महाभीमं महादेवाय रत्नकम् || ११ || इत्येवमष्टमूर्तिञ्च वर्णभेदाः प्रकीर्तिताः | || देवीकलिङ्गबलिध्यानम् || अभयं वरदञ्चैव पाशाङ्कुश चतुर्भुजम् | त्रिणेमेखवर्णञ्च द्विपादञ्चैव नूपुरम् || जटामकुटसंयुक्तं अष्टमूर्तिस्वरूपकम् | प्. ८२) देवीकाख्यन्तु लिङ्गञ्च बलिन्दद्यात्प्रकीर्तिताः || १२ || || मानुषलिङ्गबलिध्यानम् || इन्द्राग्निश्च यमञ्चैव निर्-ऋतीवरुणन्तथा | वायुसोमस्तथैशान्यो ब्रह्माविष्णुश्चलोकयन् || मानुषं लिङ्गवत्कृत्वा लोकपालान् बलिन्तथा | तत्पूर्वे धान्यवर्णन्तु तद्बलिं निक्षिपेत्तथा || १३ || || स्वयम्भूलिङ्गध्यानम् || संवर्तो रक्तवर्णञ्च पूर्वदिग्दलमेव च | श्यामरक्तं श्वेतवर्णं अग्नितो चरकन्तथा || कुन्डोदरस्य कृष्णञ्च दले दक्षिणमेव च | पीतञ्च दीर्घकायौ च निर्-ऋतीश्च दले तथा || ह्रस्वपादमिति श्यामं पश्चिमे दलसंयुतम् | अतिरक्तञ्च सिंहञ्च वायव्यदलमेव च || नीलं गजमुखञ्चैव उत्तरे दलसंयुतम् | ऐशान्यां प्रमुखञ्चैव मेख वर्णमिति स्मृतम् || १४ || वृषाष्टवर्णमित्युक्तं तत्तद्दिग्दलमेव च | || बलिध्यानम् || उग्ररूपसमायुक्तं द्विभुजञ्च द्विपादकम् | प्. ८३) दण्डहस्तं तथा सव्ये कपालं वामहस्तके | द्विनेत्ररक्तवर्णञ्च भूतरूपमिति स्मृतम् || १५ || अष्टभूतमितिख्यातं स्वायम्भुवबलिं क्षिपेत् | || ऋषिलिङ्गबलिध्यानम् || मध्यहारञ्च हारायां वृषभादि प्रदक्षिणम् | वृषभं पूर्वदिग्भागे आग्नेययां पावकन्तथा || मातॄणां दक्षिणे भागे वीरविघ्नेश नै-ऋते | पश्चिमे स्कन्दमेवन्तु ज्येष्ठादि वायुदिग्दले || दुर्गाश्च उत्तरे चैव ऐशान्ये चण्डरूपकम् | भास्करस्य मुखं पूर्वं ऐशान्ये क्रपयस्तथा || आग्नेयश्च ततः कृत्वा पवमानालयन्तथा | परिवारालयं सर्वं सर्व बाह्येन्तरे तथा || भूतपीठस्य पार्श्वे तु इन्द्रं संपूजयेत् तथा | आग्नेयादीशपर्यन्तं स्वस्वस्थाने विचक्षणः || १६ || द्वारस्य उत्तरे पार्श्वे ब्रह्माणन्तु प्रकीर्तितम् | पितामहेशयोर्मध्ये आदित्यद्वादशन्तथा || भास्कर क्षेत्रपालञ्च शाङ्करो वा विशेषतः | चक्रपावकयोर्मध्ये अश्विन्यादौ तु विन्यसेत् || प्. ८४) आग्नेयययमयोर्मध्ये संस्थाप्य सप्तरो * * | याम्ये नै-ऋतयोर्मध्ये पितृस्थानं विधीयते || नै-ऋतिं वरुणयोर्मध्ये अप्सरो गणमेव च | वरुणवायुवयोर्मध्ये मुनीनां स्थानमेव च || वायव्य सोमयोर्मध्ये इत्यष्टौ वसवस्तथा | सोममीशानयोर्मध्ये रुद्रमेकादशं बहि || १७ || प्रथमे वाऽपि पीठे वा इत्यष्टिके वा प्रपूजयेत् | बलिपीठन्ततः कृत्वा चतुर्दिक्षु विशेषतः || बाह्याभ्यन्तरयो पीठे पूर्वद्वारे तु विन्यसेत् | अन्तरस्सर्वदेवानां पिशाचा बाह्यपीठके || यक्षाणान्दक्षिणे चैवा राक्षसानान्तु पश्चिमे | गन्धर्वाणान्तु सौम्यश्च भूतानां भूतमेव च || तदूर्ध्वे पदमित्युक्तं अष्टशक्ति दलन्न्यसेत् | सर्वदेवमयं पीठं अग्रपीठं प्रकल्पयेत् || १८ || ततः पुरस्थितं पीठं बलिन्दद्याद्विशेषतः | || बलिपीठध्यानम् || मुखपञ्च समवक्त्र समनासिनयने | दशकर्णदशबाहु दशशूलदशधृक् || प्. ८५) दलमेक हृदयं अतिरक्तवर्णं द्वयपादमिति भूतबलिपीठ बलिभृक् || बलिध्यानम् || पञ्चाननं दशभुजं अतिरक्तदेहं पाशाङ्कुशाभयकरोद्धृत खेटकञ्च शूलासिबाणञ्च धनुञ्चचक्रं वन्देमहं वरतनुं शिवमेवरुद्रम् || || अधिदेवतै || आमोदश्च प्रमोदश्च प्रमुखो दुर्मुखस्तथा | अविघ्नो विघ्नकर्ता च पक्षेशि पञ्चहस्तथा || द्वारमन्तर्गतं विद्यात् द्वारपालान् बहिर्मुखान् | बलिपीठं वृषं शूलं देवस्याभिमुखं भवेत् || २१ || आमोदश्यामवर्णन्तु प्रमोदं कृष्णमेव चा | प्रमुखं स्फटिकाभासं दुर्मुखं कुङ्कुमप्रभम् || अविघ्नो विद्रुमाभासं विघ्नकर्ताञ्जनप्रभम् | इत्येवं वर्णभेदन्तु षडैते भूतनायकाः || २२ || द्विभुजञ्च द्विनेत्रञ्च टङ्कपाशधरन्तथा | उग्रदंष्ट्र समायुक्तं भीमरूपं महाबलम् || सर्वाभरण संयुक्तं नागयज्ञोपवीतिनम् | प्रासादाभिमुखं सर्वं दीर्घदंष्ट्रोद्घटाननम् || २३ || पूर्वे च दक्षिणे चैव उत्तरे पश्चिमे तथा | प्. ८६) गर्भगृहस्य पञ्चा च चतुष्कं चोक्तमुन्नतम् | त्रिभागं मध्यमं प्रोक्तं द्विभागमधमं भवेत् || २४ || द्वारोत्सेधसमं श्रेष्ठं तत्त्रिपादन्तु मध्यमम् | द्वारार्थमधमं सिद्धि विस्तरोत्सेध तत्समम् || विस्तारस्य त्रिभागस्य हाटकेतक विंशति | त्रिभागेनोपमेकेन चतुर्भिर्जगतस्तथा || २५ || कम्पं कृत्वादके दूर्ध्वे तदूर्ध्वे कोटिपट्टिका | कर्णं कुर्याच्चतुर्भागेरेकेनैवोद्यपट्टिका || महापट्टिकयादूर्ध्वं सेनद्वंशाप्तलोन्नतम् | कर्णिकामेकभाग्रेण प्रोक्तमुत्सेधमुत्तम् || बलिपीठमितिख्यातं ऋषिलिङ्गप्रकीर्तितम् | सर्वेषां लिङ्गमेवन्तु बलिं तृप्तायते स्मृतम् || २६ || || बाणलिङ्गबलि || धरोध्रुवश्च सेमश्चापश्चैवानिलस्तथा | प्रत्यूषश्च प्रभावश्च वसवोऽष्ट प्रकीर्तिताः || बाणलिङ्गं तथारोग्यं बलिदद्यात्प्रकीर्तिताः | तत्पूर्वे धान्यवर्णञ्च तत्पूर्वं पूजनक्रमात् || २७ || क्रमात्पूर्वबलिं कुर्यात् दिव्यलिङ्गमिहोच्यते | प्. ८७) || राक्षसलिङ्गबलिदेवतै || पूर्वे यक्षगणञ्चैव राक्षसं गणबाणवत् | विधा च गणदक्षिण्याङ्गाणवं गणनै-ऋते || किन्नरागणवारुण्यां पितृभ्यां गणवायवे | दानवानां गणं सौम्ये ऐशान्यां गणमिश्रितम् || २८ || इत्येषां गणमेवन्तु बलिदानन्तु राक्षसा | || पञ्चप्राकारद्वारदेवतै || नित्यन्नामवसानन्तु प्रथमद्वारपूजयेत् | नन्दिञ्चैव महाकालं द्वितीयद्वारपूजयेत् || दण्डिनञ्चैव मुण्डीनां त्रितीयद्वारपूजयेत् | आमोदश्च प्रमोदश्च चतुर्थद्वार पूजयेत् || गणेश स्कन्दमेवन्तु पञ्चप्रकारकल्पयेत् | द्वारदेशे समाख्यातं बलिन्तत्र प्रकल्पयेत् || २९ || || अष्टबलिदेवतै || वृषाग्निमात्रविघ्नञ्च स्कन्दज्येष्ठन्तथैव च | दुर्गाभास्कर एवाथ बलिभुक् अष्टदेवताः || ३० || || बलिप्रमाणम् || तण्डुलं प्रस्थपादन्तु बलिञ्चैव प्रमाणकम् || ३१ || प्. ८८) नित्यनैमित्तिकञ्चैव बलिं कृत्वा विशेषतः | त्रिसन्ध्यायां बलिं कृत्वा अन्यकाले न कारयेत् || ३२ || अथाऽन्येन प्रकारेण काम्यार्थञ्च बलिन्ददेत् | महाहवनिवेद्यन्ते बलिन्दद्याद्विशेषतः || ३३ || नैमित्तिकोपसन्ध्यास्तु हविसान्न बलिन्ददेत् | नारिकेल प्रमाणन्तत् उत्तमस्य विधीयते || कपित्थस्य प्रमाणन्तु बलिन्दद्यात्तु मध्यमम् | कुक्कुटाण्डप्रमाणञ्च अधमं बलिदानकम् || अस्तमुष्टिप्रमाणञ्च अस्तद्वयप्रमाणकम् | शक्तिमात्रप्रमाणञ्च बलिं सर्वसुदापयेत् || ३४ || उत्तमं कबलं प्रोक्तं मध्यमं मुष्टिरेव च | अधमं आहुतिं प्रोक्तं बलिन्दद्यात्प्रकीर्तितः || ३५ || || देविबलिपीठदेवतै || अम्बिका भ्रमरादुर्गा चामुण्डा कालरात्रया | कौमारिकालिकादेवि वनदुर्गाबलिं हरेत् || ३६ || महादेवि प्रसादायां सर्वे गृह्णन्तु शङ्करि | || देविबलिपीठाधिदेवतै || आकाशमातरं पूर्वे दक्षिणे भूतमातरम् | प्. ८९) वारुण्ये अस्तमातरपञ्चैव उत्तरे देवमातरम् | अनुक्तमातर श्रद्धे दद्यात् पीठाग्रके बलि || ३७ || बाणरावणचन्डेश नन्दिभृङ्गि वृषादयः | सदाशिव प्रसातोयं सर्वं गृह्णन्तु शैवकाः || ३८ || || ध्वजदण्डध्यानम् || पीठस्य देवं वृषभं शिवाख्यं घण्टाननं विष्णुमयञ्च दण्डम् | मालाश्च देवी चतुराननाश्च स्ववर्णमण्डध्वज दण्डरूपम् || ३९ || एकस्य पादं द्विमुखं षडक्षं होमावलीदर्भकरज्जुमाला | श्वेताङ्ग रूपं द्विभुजन्द्विनासि आरूढपद्मासन दण्डरूपम् || ४० || पीठं पृथिविदैवत्यं लोकपालादि दैवता | भिक्षुदण्ड उपन्दण्डवेदि अष्टरज्जु मणिदर्भमालिका | अष्टमूर्ति अधिदेवमाश्रये अर्चनादि अवरोहणान्तकम् || ४१ || पूर्वे ब्रह्माणमभ्यर्च्य दक्षिणे विष्णुमेव च | अनन्तमुत्तरे चैव पश्चिमे शङ्करन्तथा || ४२ || इत्येवं ध्वजमूर्ते तु अर्चनस्य विधीयते | इन्द्रमग्नियमञ्चैव नि-ऋ-ऋतिं वरुणन्तथा || ४३ || वायुसोमस्तथैशान्ये पीठदिक् देवता न्यसेत् | पूर्वेन रुद्रमभ्यर्च्य अनन्तं दक्षिणेन तु || प्. ९०) नागाय पश्चिमे चैव उत्तरे शङ्करन्तथा | नक्षत्राग्नेयकञ्चैव निर्-ऋतिं ग्रहपालकम् || वायव्येऽसुरञ्चैवा ऐशान्ये दक्षकन्तथा | मध्ये ब्रह्माणमभ्यर्च्य दण्डाद्यै देवतान्यसेत् || ४४ || || ध्वजपटदेवतै || वृषभं वलयछत्रं चामरं स्वस्तिशूलं शशिवसुगणपादं रुद्रशक्तिञ्च मन्ये | ऋषभ धवलपट्टं दर्पणं पूर्णकुम्भं ध्वजपट इति देवं दीपशङ्खञ्च पाल्ये || ४५ || पीठन्तु पार्वतीन्देवं दण्डस्य रुद्रदेवतम् | इष्टि स्कन्द समायुक्तं उपदण्डविनायकम् || माला ब्रह्मसमायुक्तं पादञ्चैवायुदैवतम् | वासुकी रज्जुदैवत्यं वृषभन्तु जनार्दनम् || चामरौ चन्द्रसूर्यौ च छत्रं सरस्वती भवेत् | दीपन्तु श्री महालक्ष्मि घण्टानादं षडाननम् || ४६ || इत्येवं देवताभ्यर्च्य ध्वजदण्डप्रकीर्तिताः | || नवग्रहध्यानम् || आदित्यमेकवक्त्रञ्च द्विनेत्रं रक्तवर्णकम् | प्. ९१) रक्ताम्बरधरञ्चैव रक्तश्छत्र ध्वजान्वितम् | रक्तवर्णधरञ्चैव सप्ताश्वं रक्तमेव च || सप्तरज्जु स रक्तञ्च द्विभुजं रक्तमद्मजम् | परिमण्डल मध्यस्थं रक्तपद्मासन स्थितम् || पूर्वाभिमुखमेवन्तु गिरिणाञ्च प्रदक्षिणम् | कलिङ्गदेशे राज्ञाञ्च काश्यपगोत्रमेव च || ४७ || विशाखनिर्क्षेजातञ्च रविं ध्यात्वा नमाम्यहम् | एकवक्त्रं द्विसोमञ्च द्विनेत्रं श्वेतवर्णकम् || श्वेताम्बरधरञ्चैव श्वेतवर्णरथं तथा | श्वेतच्छत्र ध्वजञ्चैव दशाश्वं श्वेतवर्णकम् || श्वेतवर्णरजोरज्जुं द्विभुजं कुमुदन्तथा | चतुष्कोण सुमध्येन श्वेतपद्मासनस्थितम् || पश्चिमाभि मुखञ्चैव गिरीणाञ्च प्रदक्षिणम् | आग्नेयदिशिमेवन्तु वराटे दशराज्यकम् || आत्रेय गोत्रमेवन्तु कृत्तिका-ऋक्षजातञ्च | लोकरक्षायते चैव ध्यात्वा सोमं नमाम्यहम् | रक्तवर्णद्विनेत्रञ्च एकवक्त्रञ्चतुर्भुजम् || ४८ || रक्ताम्बर धरञ्चैव रक्तपुष्परथं तथा | प्. ९२) रक्तश्छत्र ध्वजञ्चैव शक्तिशूलगदाधरम् | त्रिकोणाकार मध्यस्थं दक्षिणाभिमुखन्तथा || गिरिप्रदक्षिणञ्चैव दक्षिणे दिशसंस्थितम् | विजयदशाधि पञ्चैव भारद्वाजेन गोत्रजम् || ४९ || अश्विनी-ऋक्षजातञ्च अङ्गारकनमाम्यहम् | एकवक्त्रन्द्विनेत्रञ्च पीतवर्णबुधन्तथा || पीतवर्णरथञ्चैव पीतश्छत्र सुशोभितम् | पीताम्बरधरञ्चैव धनुर्बाणन्तथैव च || बाणाकारस्य मध्येन वीरसिंहासन स्थितम् | पूर्वाभिमुखमेवन्तु ईशानदिशि संस्थितम् || मगधाधिपतिञ्चैव गिरीणाञ्च प्रदक्षिणम् | आत्रेयगोत्रमेवन्तु श्रवणेन तु जन्मकम् || ५० || इत्येव रूपमेवन्तु बुधं ध्यात्वा नमाम्यहम् | द्विनेत्रं पीतवर्णञ्च एकवक्त्रञ्चतुर्भुजम् || पीताम्बरधरञ्चैव पीतवर्णरथाधिपम् | पीतश्छत्र ध्वजञ्चैव चतुश्शृङ्गस्य मध्यगम् || योगासनसमञ्चैव उत्तराभिमुखन्तथा | अभयं वरदञ्चैवाक्षसूत्रकमण्डलुम् || प्. ९३) उत्तरेण दिशिञ्चैव गिरिणाञ्च प्रदक्षिणम् | सिन्धूरदेशे राज्ञाञ्च गोत्रमाङ्गीरसन्तथा || जातमुत्तर फल्गुन्यां देवस्य गुरुमेव च | इत्येवं रूपमेवन्तु बृहस्पतिन्नमाम्यहम् || ५१ || श्वेतवर्णन्तु शुक्रेण एकवक्त्रं द्विहस्तकम् | श्वेतवस्त्रेण संयुक्तं एकनेत्रारकायुतम् || श्वेतच्छत्र ध्वजञ्चैव श्वेतवर्णरथाधिपम् | पञ्चकोणस्यमध्येन चित्रसिंहासन स्थितम् || पूर्वाभिमुखमेवन्तु गदावरदहस्तकम् | गुणदेशाधि पतिञ्चैव गिरीणाञ्च प्रदक्षिणम् || गोत्रं भार्गवमेवन्तु ज्येष्ठानक्षत्र जातकम् | पूर्वदिक् स्थितमेवन्तु राक्षसान् गुरुदेव च || ५२ || इत्येवं रूपमेवन्तु भगवान् शुक्रं नमाम्यहम् | एकवक्त्रन्द्विनेत्रञ्च द्विभुजं कृष्णवर्णकम् || कृष्णाम्बरधरञ्चैव कृष्णश्छत्र ध्वजन्तथा | कृष्णवर्णरथञ्चैव धनुराकारमण्डलम् || कृष्णसिंहासनञ्चैव मध्ये प्रत्यङ्मुखस्थितम् | शूलं धनुर्धरञ्चैव पश्चिमे दिशि संस्थितम् || प्. ९४) आन्ध्रदेशाधिपञ्चैवा गिरीणाञ्च प्रदक्षिणिम् | काश्यप गोत्रमेवन्तु रेवती जननन्तथा || ५३ || ग्रजवाहनमेवन्तु शनिं ध्यात्वा नमाम्यहम् | द्विनेत्रं नीलवर्णञ्च त्रिहस्तमेकवक्त्रकम् || नीलाम्बरधरञ्चैव नीलवर्णरथाधिपम् | नीलश्छत्र ध्वजञ्चैव कृष्णशूर्पस्य मण्डलम् || नीलसिंहासनं मध्ये दक्षिणाभिमुखन्तथा | पूर्वदेशाधि पञ्चैव खड्गचर्मत्रिशूलकम् || गिरिप्रदक्षिणञ्चैव जामुनीगोत्रमेव च | भरणीजननञ्चैवा राहुं ध्यात्वा नमाम्यहम् || ५४ || चित्रवर्णद्विनेत्रञ्च द्विहस्तं एकवक्त्रकम् | चित्राम्बरधरञ्चैव ध्वजरथं तथा || मण्डले तु ध्वजाकारं मध्ये चित्रासनन्तथा | वनदेशाधिपञ्चैव वायव्यान्दिशि संस्थितम् || जैमुनिगोत्रमेवन्तु आश्लेषा जननन्तथा | विकृतान् भगवांश्चैव गिरीणाञ्च प्रदक्षिणम् || ५५ || इत्येतद्वर्णमेवन्तु ध्यात्वा केतुं नमाम्यहम् | || अस्त्रदेवध्यानम् || प्. ९५) त्रिणेत्रं रक्तवर्णञ्च ऊर्ध्वकेशं सुदंष्ट्रकम् | कपालं शूलकं पद्मं कमण्डल्वक्षधारिणम् || ऊरुहस्तद्विपादञ्च किञ्चिद्ब्रह्मसिताननम् | कोटिकोट्या महाज्ज्वालं उद्यत्कोटि रविप्रभम् || अस्त्रदेव शिवाज्ज्वालं ब्रह्माविष्णुस्वरूपिणम् | अस्त्रदेवं सदाध्यात्वा प्रतिष्ठोत्सव कर्मणि || ५६ || अस्त्रशस्त्रप्रशमनं सर्वपापविनाशनम् | असुरहरसुरास्त्रं शूलमामण्डलाग्रं सकलसुरमयान्तं शम्भुहस्तं प्रियं स्यात् | त्रिशिखसहितवह्निं वायुराकाश मूर्तिं ज्वलनपतितकान्तिं अस्त्रदेव स्वरूपम् || ५७ || त्रिशूलं वृषभाग्रे तु अस्त्रमूर्तिं चतुर्भुजम् | कूर्परं शृङ्गमध्ये तु ऊरुमध्यन्तु वामके || मृगटङ्कं समायुक्तं व्याघ्रचर्मणवाससम् | सर्वतीर्थेषु सान्निध्यं ध्यात्वा मन्त्रेण पूजयेत् || ५८ || विभूति त्रिणेत्रं त्रिशिरं रौद्रं त्रिगुणं रक्तवस्त्रकम् | त्रिपादं वह्निनयनं भस्मकुण्डितविग्रहम् || ५९ || प्. ९६) शान्तं रूप सुखासीनं भस्मरूपमिति स्मृतम् | शोक्कपानै एकस्य पादं दशचाष्टहस्तं दशाष्टशूलं शिरपञ्च त्रिनेत्रम् | उन्मीलवक्त्रं दशकर्णयुक्तं उद्दीप्तकेशं अतिदीप्त हुताशन लिङ्गम् || अभयं वरदं शान्तं कान्तालन्त विविग्रहम् | मृगत् शूककरो तं वदनामणिभूषणम् || नटिलनयनं डिण्डिमुक्तेन्द्रामणि भूषणम् | निगमन गरिनादं वन्दे कुन्देन्दुसितरम् || ६१ || || षडाधारदलम् || आधारन्तु चतुर्दलं रुणरसन् वासान्तवर्णाश्रियं स्वाधिष्ठानमनेकवैद्युतनिभं बालान्न षट्वत्रिकम् | रक्ताभं मणिपूरकं दशदलं माद्यं विकाराब्धकं पत्रैः द्वादशभिः स्वनाहतदहै मम रिमान्नाव्रतम् || मात्राभिद्विदिशषोडशस्वरयुतं ज्योतिर्विशुद्धाम्बुजं हलैत्यक्षरबीजयुग्मसयुतं रक्ताभमाज्ञाम्बुजम् | तस्मादूर्ध्वगतं प्रभदिसितं पद्मं सहस्रश्छदं नित्यानन्दमयं सदाशिवपदं नित्यान्नमस्योदरम् || ६२ || मूलाधारस्वाधिष्ठान मणिपूरकहनाहत विशुद्धाख्यै- प्. ९७) आज्ञायमिध ई मूलाधार विघ्नेश ध्यानम् || गजवक्त्रञ्च रक्ताभं त्रिणेत्रञ्च महोदरम् | दन्तपाशाङ्कुशापूपं चारुबाहु चतुष्टयम् || महादेव सुतं मूलं मन्त्रमूर्तिमहं भजे || ६३ || || स्वाधिष्ठानं ब्रह्माम् || हेमाकारं चतुर्वक्त्रं शुभ्रवस्त्रोपवीतिनम् | सृगक्षमालाकलशं दण्डचारुचतुर्भुजम् || ६४ || नेत्राष्टक समायुक्तं नित्यं वन्दे पितामहम् | || मणिपूरकं विष्णु || लक्ष्मीकान्तञ्च नीलाभं शङ्खञ्च मृगगदाधरम् | श्रीवत्सलाञ्चनं देवं पीताम्बर विराजितम् || वनमालाकिरीटञ्च कुण्डले दधतस्सदा | अभयं सर्वदेवानां अम्बुजाक्षमनामयम् || ६५ || अनेकादित्य संकाशं वन्दे विष्णुमनिन्दितम् | || अनाहते रुद्रर् || क्षीराभं कालकण्ठञ्च त्रित्रें चन्द्रशेरम् | गङ्गाधरञ्चतुर्बाहुं त्रिशूलाग्नि वरदाभयम् || ज्ञानमुद्रधरन्देवं गङ्गेन्द्रकृत किङ्किणाम् | प्. ९८) पुण्डरीकाञ्जनधरं भूतिशोभित विग्रहम् | प्रलयोदरकर्तारं वन्देरुद्रं पिनाकिनम् || ६६ || || विशुद्धाख्ये महेश्वरर् || टङ्खकुन्देन्दुशोभाढ्यं शार्दूलाजिनवासिनम् | इन्दुगङ्गा जटाचूटं महेशाख्यं महेद्युतिम् || अर्केन्दु वह्निनयनं कालकण्ठमनामयम् | चण्डांशुकोटिसदृशं सर्पयज्ञोपवीतिनम् || वरदाभयपाशाढ्यं वामदक्षिणबाहुकम् | परशुं डमरुञ्चापि दधानञ्चात्मरूपिणम् || ६७ || वामे महेश्वरी युक्तं वन्दे देवमहेश्वरम् | || आज्ञेय सदाशिवम् || शुद्धस्फटिकसंकाशं द्वात्रिंशल्लक्षणान्वितम् | वृक्तपद्मासिनं पञ्च * * वक्तं मनोहरम् || त्रिपञ्चनयनञ्चास्यं सोमचूडशुभावहम् | दशबाहसमायुक्तं चित्रकायजिनाम्बरम् || वरदाभयसंयुक्तं वामदक्षिणहस्तकम् | शूलवज्रातथा खड्गं परशुं पाशमेव च || नागं वह्निञ्च दधतं शान्तरूपिणम् | प्. ९९) पञ्चावरणसंयुक्तं पञ्चकृत्य परायणम् | पञ्चाक्षरजपं देवं पञ्चमन्त्र महातनुम् || अष्टत्रिंशत्कलोपेतं आदि मध्यान्तवर्जितम् | विद्यानामार्थि भक्तेशं बिन्दुनादसमन्वितम् || सर्वालङ्कारसंयुक्तं षट्त्रिंशतत्त्वनायकम् | मनोन्मति समायुक्तं वन्दे देवं सदाशिवम् || ६८ || || सच्चिदानन्तम् || षडाधारापरे मूर्ध्नीं सहस्रदलपङ्कजे | गुरुनाथं कृपामूर्तिं जपाकुसुमसन्निभम् || द्विनेत्रं द्विभुजं शान्तं रक्तवस्त्रानुलेपनम् | रक्तोत्पलधरं नित्यं माणिक्यमकुटोज्ज्वलम् || तत्त्वाधिकपरं शक्तिं साक्षामूर्ति प्रदायकम् | सन्मार्गदेशिकं वन्दे सच्चिदानन्दविग्रहम् || ६९ || || नन्दिध्यानम् || त्रिणेत्रञ्चतुर्भुजञ्चैवाभयं वरदान्वितम् | उग्रतोमरशूलञ्चाक्षमाला समन्वितम् || ७० || रक्तवस्त्रसमायुक्तं नन्दिनं संप्रपूजयेत् | || नन्दिकेश्वरध्यानम् || प्. १००) रक्तं त्रिणेत्रं जटिलं सव्यवामकरद्वयम् | अक्षमालात्रिशूलञ्च दधानं नन्दिकेश्वरम् || ७१ || || नन्दिशक्ति || मकरासनगाङ्गं * * * * * * * पिणीम् | द्विनेत्रं द्विभुजञ्चैव मेरोपरि संस्थितम् | दक्षनीलोत्पलञ्चैव पूर्णकुम्भन्तु वामके || ७२ || शुक्लवस्त्रेण संयुक्तं चित्रवस्त्रेण भूषिताम् | नन्दिञ्च दक्षिणे भागे ध्यात्वा गङ्गां प्रपूजयेत् || ७३ || || नन्दिकेश्वर अनुज्ञै || नन्दिकेश माहाभागा सर्वाभीष्टफलप्रदा | शङ्करेण तु पूजायां अनुज्ञान्दा तु मर्हसि || ७४ || || नन्दिशक्त्यानुज्ञै || महानन्दी च गङ्गायां सर्वलोक प्रयावहि | नन्दिकेशस्य वामेण शुक्लवर्णस्वरूपिणी || ७५ || महादेवि च पूजायां अनुज्ञान्दातु मर्हसि | || महाकालर् || कृष्णत्र्यक्षं महाकालं वामसव्यकारद्वये | कपालञ्च त्रिशूलञ्च दधानं विकटाननम् || ७६ || प्. १०१) चतुर्भुजन्त्रिणेत्रञ्च कपालं शूलमेव चा | दक्षिणे भयमेवञ्च वामे पाशसमन्वितम् || जटामकुटसंयुक्तं नागयज्ञोपवीतिनम् | कृष्णवर्णमिति प्रोक्तं महाकालस्वरूपकम् || ७७ || || शक्ति || श्यामाङ्कूर्म स्थितां * * यमुनाञ्च विभावयेत् | श्यामवर्णञ्चतुर्हस्तं सव्यहस्ते घटन्तथा || दक्षहस्तेन राजनीं सव्ये नीलोत्पलन्तथा | नीम्बस्य फलमेवन्तु दक्षहस्तेन विन्यसेत् || ७८ || सर्वालङ्कार संयुक्तं यमुनायै प्रपूजयेत् | महाकाल महातेज सर्वलोकप्रयावहा || ७९ || शङ्करेण पूजायां अनुज्ञां दातुमर्हसि | || शक्त्यनुज्ञै || सागरो यमुनायै च श्यामवर्ण शरीरिणि | महाकालस्य वामेन सर्वलोकैक रक्षणि || ८० || शङ्करीण तु पूजायां अनुज्ञान्दातुमर्हसि | || भैरवानुज्ञै || एकवक्त्रं शिरोज्ज्वालां रक्तनेत्रं चतुर्भुजम् | प्. १०२) द्विपादं श्वानवाहञ्च खण्डखड्ग सखैटकम् | दिगम्बरं त्रिशूलञ्च देवतालय रक्षणः || ८१ || देव पूजायतेश्चैव उद्घटी तमनुज्ञया | || कुच्चिक्कोल् || उद्घाटिरूपमेवन्तु त्रिकोणस्य विधीयते | वलयञ्च ततः कृत्वा वर्णं रजितमेव च || ८२ || देवद्वारकवाटैश्च बन्धनादित्यरूपकम् | अधस्य पृथिवि दैवत्यं दण्डं कार्कोटकं तथा || वलयं ब्रह्मदैवत्यं चक्रं विष्णुस्तथैव च | अग्रे रुद्राधिदैवत्यं उद्घाटिस्याधि देवता || ८३ || वलयं दुर्गमेवन्तु दण्डञ्चैव सुवीर्यका | मध्यकोणेषु कालीञ्च अग्रकोणाधि भैरवम् || ८३ || देवार्चनादियुक्तञ्च द्विकालस्य प्रपूजयेत् | देवद्वारे च दक्षिण्यां विजयं कृष्णवर्णकम् || स्थम्बाकारन् द्विनेत्रञ्च द्विपादञ्च द्विहस्तकम् | खड्गखेट समायुक्तं स्वर्णाभरणभूषितम् | देवद्वारञ्च कर्ता च विजयञ्च विधीर्भवेत् || ८४ || || वडक्कुनिलै || प्. १०३) द्वारस्योत्तर पार्श्वे तु विजयञ्च नीलवर्णकम् | स्वर्णमाभरणैर्युक्तं एकवक्त्रं द्विपादकम् || द्विहस्तञ्च द्विनेत्रञ्च त्रिशूलं परशुन्तथा | स्तम्भाकारस्य विज्ञेयं विजयञ्च विधिर्भवेत् || ८५ || || मेल्पट्टि || पदङ्ग श्यामवर्णञ्च एकवक्त्रञ्चतुर्भुजम् | खड्गखेट समायुक्तं कपालं शक्तिमेव च || रुद्राक्षमुपवीतञ्च श्वेतवस्त्र सुधारणम् | पतङ्गाय स्वरूपन्तु अर्चनायविधिर्भवेत् || ८६ || || कीषंपट्टि || भुवङ्ग श्यामवर्णञ्चाभूषणन्नीलरत्नकम् | पीताम्बरोपवीतञ्च एकवक्त्रञ्चतुर्भुजम् || त्रिशूलं डमरुञ्चैव दण्डपाशन्तथैव च | भुवङ्गायस्वरूपन्तु अर्चनादि विधिर्भवेत् || ८७ || || कवाटरन्ध्रम् || सुषिरान्तर्गते चन्द्रः सुषिरः परसूर्ययोः | तन्मध्ये वायुसञ्चारं त्रिदेवं सुषिरस्थितम् || ८८ || || ताप्पाल् || प्. १०४) घट्टं दक्षिणपार्श्वे तु विघट्टमुत्तरे तथा | कवाटे पूर्वभागेन बन्धनादिक्रमन्तथा || ८९ || देवपूजामनुज्ञाय कवाटो घाटनं भवेत् | || कवाटं पोडुहुरदु || सकर्णस्य तु रक्तञ्च विमलं पृष्ठपार्श्वयोः | पञ्चकोण स्वरूपञ्च एकहस्तसमन्वितम् || ९० || देवद्वारादि नृत्तञ्च देवपूजामनुज्ञया | || अधिदेवतै || सदाशिवशिरः कोणे कर्णकोणेषु रुद्रकम् | हृदये विष्णुरूपन्तु कटिकोणे चतुर्मुखम् || पादकोणेषुवीरञ्च विकर्णस्याधिदेवता | || वडकोटिक्कु || सुकर्णं नीलरूपञ्च सुवाहपृष्ठ पार्श्वयोः | पञ्चकोणमिति प्रोक्तं एकहस्तसमन्वितम् || ९१ || देवपूजामनुज्ञायां देवद्वारेण रक्षण | || अधिदेवतै || अग्रकोणे मनोन्मन्यां कर्णकोणेषु शङ्करि | लक्ष्मी च हृदयञ्चैव कटिकोणे सरस्वति || ९२ || प्. १०५) पादकोणेषुकालिञ्च विकर्णस्याधि देवता | || दक्षिणकवाटम् || विमलं पूरुषाकारं * * * ञ्च चतुर्भुजम् | शूलञ्च हरिणञ्चैव पाशमङ्कुरमेव च || ऊर्ध्वशिखाय संयुक्तं पादमेकन्तथैव च | स्वर्णमाभरणञ्चैव विमलस्य प्रकीर्तिताः || ९३ || || उत्तरकवाटे || सुबाहुं पूरुषं दिव्यं स्वर्णवर्णसुधारिणम् | शिखा ऊर्ध्वसमञ्चैव एकवक्त्रं चतुर्भुजम् || टङ्कशूलधरञ्चैव दण्डपद्मतथैव च | रुद्राक्षमुपवीतञ्च एकपादेन विन्यसेत् || ९४ || || कवाटानुज्ञै || सुबाहुं विमलञ्चैव देवद्वारे च रक्षणा | देवकार्याधिकर्ता च देवपूजामनुज्ञया || ९५ || || कदवुतरक्क || पञ्चाक्षसी पाटहिरण्यवासि पम्पापुरीनाथ परापरेश | विश्वेश्वरं विश्वमन्तमूर्ति कवाटमुद्घाटनकालनालम् || ९६ || || कदवुशात्त || प्. १०६) सर्वान्तरायामि वभोवशम्भो रक्षाजगत्कारणविश्वमूर्ते | प्रसादमन्तर्गतभावश्रुत्यां कवाटबन्धाविधेहनुज्ञा || ९७ || दिगम्बराय शूराय दिव्यतेजस्स्वरूपिणे | ऋषिपत्नि विमोहाय देवत्तलय रक्षणा || देवपूजाञ्च काले च कवाटो बन्धनस्य च | उघटीत समञ्चैव गृहीत्वा गणसेवितम् || ९८ || || चण्डेश्वरर् || श्री कुन्दलीमकुट दृग्वयसौम्यवक्त्रं कर्णद्वयेमकरकुण्डल यज्ञसूत्रः अस्ताञ्जलि विजयसैर्य सबाहुटङ्कं चण्डेश्वर पादाम्बुज मानतोम्यहम् | पुनः- द्विनेत्रं द्विभुजं श्यामं टङ्कञ्चैव तु धारिणम् | द्विपादाञ्जलि हस्तञ्च सर्वाभरण भूषितम् || १०० || जटामकुटसंयुक्तं चण्डरूपमिति स्मृतम् | चण्डेश्वरञ्चतुर्बाहुं चतुर्वक्त्रन्त्रिलोचनम् || बिभ्रत्कमण्डलुं शूलं अक्षसूत्रं परश्वधम् | महोरगोपवीताढ्यस्तन्निवर्तित कङ्कणः || १०१ || ध्येये नवाम्बुदाभासं समयादि नियामकः | || ध्वनिश्चण्डेश्वरर् || रुद्राग्ने प्रभवं चण्डं कज्जलाभं भयानकम् | प्. १०७) शूलटङ्कधरं रुद्रं चतुर्वक्त्रं चतुर्भुजम् | मुखोत्कीर्ण महाज्ज्वालं रक्तं द्वादशलोचनम् || जटामकुटखण्डेन्दु मण्डितं फणिकङ्कणम् | व्यालयज्ञोपवीतञ्च अक्षसूत्रं कमण्डलुम् || दन्तपद्मासनासीनं भक्तिः प्रह्वार्तिनाशनम् | चण्डेश्वर विमानस्थं स्यकर्माण कृतिन्नमः || ईश्वराशापतिं कृष्णं गणेशावरणे स्थितम् || १०२ || || चण्डशक्ति || द्विनेत्रं द्विभुजाः श्यामामक्षमालान्तु कुण्डिकाम् | स्तनौ बन्धसमायुक्तं जटामकुटधारिणीम् || तथैव शङ्करीं ध्यात्वा चण्डशक्ति विधीर्भवेत् || १०३ || || हनुमन्तध्यानम् || अमलकनकवर्णं प्रज्ज्वलं पावकाक्षं सरसिजनिभवक्त्रं सर्वदा सुप्रसन्नम् | पदुतरखनगात्रं कुण्डलालङ्कृतास्यं रणजयकरपालं रामदूतन्नमामि || १०४ || ध्यायेद्बालदिवाकरं दृतिनिभं देवारि दर्भापहं देवेद प्रमुख प्रशसिति यशसीं ते दिव्यमानिं रुचिम् | प्. १०८) सुग्रीवादि समस्तवानरयुतं सव्यक्त तत्त्वप्रियं संरत्नारुण लोचनं पवनजं पीताम्बरालङ्कृतम् || वन्दे विद्युद्वलयविलसत् ब्रह्मसूत्रे परिष्ठं कर्णद्वन्द्वे कनकवलयं मण्डलोल्लासवक्त्रम् | रक्तश्चिह्ने कनकरवजिते कुण्डले धारयन्तं सत्कौपीनं कपिवरहितं कामरूपं कवीन्द्रम् || १०५ || * धिमल्पपल्लवमिवोलंख्या प्रतापान्वितौ वैदेही घनशोकतापहरणो वैकुण्ठभक्तप्रियम् | अक्ष्यादुर्जतराक्षसेश्वर महादर्पापहारीरणे सोऽहं * * * सदा चास्मान् समीरात्मजम् || १०६ || || गरुडन् || अजानुतं सुवर्णाभं अकट्यस्तु समप्रभम् | कुङ्कुमारुणमाकर्णं रक्ताक्षं नागभूषणम् || पिङ्गलाक्षं गरुत्मन्तं सुवर्णसदृश प्रभम् | दीर्घबाहुं बृहस्कन्दं नागाभरणभूषितम् || अनन्तवासुकटके यज्ञसूत्रन्तु वासुकीम् | तक्षकार्कोट सूत्रन्तु हरकार्कोटकस्तथा || पद्मदक्षिणकर्णे तु महाप्दमस्सुनामता | प्. १०९) शङ्खश्शिरप्रदेशे तु गुलिकस्तु भुजान्तरे | एवन्ध्यात्वा त्रिसन्ध्यायां आत्मानं गरुडरूपिणम् || १०७ || || अष्टमङ्गलम् || दर्पणं पूर्णकुम्भञ्च वृषभं युग्मचामरम् | श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् || १०८ || || अष्टमङ्गलशक्ति || उमादेवि धरादेवि कावेरी जाह्नवी तथा | श्रियं देवी सरस्वत्यां शशिर्देवी च दीपकाम् | एतेषु चासरप्रोक्तां अष्टमङ्गलशक्तयः || १०९ || || दशायुधशक्ति || विलासिनी विरूपी चा धारिणी सुन्दरी तथा | निर्मली दुर्मुखी चैवमाभृत् हंसविलासिनीम् || ११० || एते दशायुधानान्तु शक्तयः परिकीर्तिताः || || अस्त्रदेवर् || पीठं पद्मञ्च दण्डं घटघटवदनं पालिकापद्मयुक्तं त्रिपत्रज्योतिरूपं सकलसुरमयं शूलरूपं शिवास्त्रम् | मध्ये रुद्रञ्च दक्षेतर विधिहरितत् शक्तिभः पालिकायां कुम्भं विघ्नं विशाखं वदनरवियुतं दण्डमूले तु चण्डम् | मध्याह्नार्क समप्रभं शशिधरं भीमाट्टहासोज्ज्वलं त्र्यक्षं पन्नगभूषणं मृगधरं पिङ्गोज्ज्वलं मूर्ध्वजम् | हस्ताब्जैशिखां मुद्गरमयीं घण्टं कपालंध दंष्ट्रात्युग्रमुखाकरं पशुपते दिव्यास्त्र रूपं भजे || ११२ || प्. ११०) || नटेश्वरर् || अभयं डमरुकञ्चैव भुजङ्गमग्निपात्रकम् | सर्पकङ्कण संयुक्तं शुक्लयज्ञोपवीतिनम् || कुञ्चितं ऊर्ध्वपादञ्च अभस्मारोपरिस्थितम् | प्रसन्नवदनं शान्तं पादकिङ्किणिशोभितम् || भूतद्याधारसंयुक्तं त्रित्रें स्फटिकप्रभम् | गङ्गा इन्दुधरं कृत्वा शिरपश्चाच्चिरन्तथा ||११३ || उमया सहितं देवं नृत्तराजं प्रपूजयेत् | || सोमास्कन्दर् नायकर || टङ्ककृष्णकरन्देवं अभयं वरदन्तथा | वामे निद्रित पादं स्यात् दक्षपादावलम्बनम् || एकासने तु शक्तिः स्यात् मध्ये बालकुमारकम् | चन्द्रचूडकिरीटञ्च सोमास्कन्दे शमीश्वरम् || ११४ || || वृषभ वाहनारूढ ध्यानम् || टङ्कमेणकरन्देवं पशुपाशकरम्भवेत् | शक्तिमध्यमपादं स्यात् वृषारूढशिवं भजे || ११५ || || श्री बलिनायकम् || अभयवरदहस्तं टङ्कमेणं शुभाङ्गं समपदसमयुक्तं चन्द्रचूडन्त्रिणेत्रम् | प्. १११) हिमकरकिरणं स्यात् बद्धवेणीकिरीटं मम भव भवनाशं श्री बलिं भावयामि || ११६ || || पल्लक्कुशोक्कर् || सव्ये लम्बितपादं स्यात् शक्तिपादञ्च निद्रितम् | टङ्कमेणधरन्देवं अभयं वरदन्तथा || उमया सहितं देवं चिबिकेशमहं भजे || ११७ || || कुदिरै शोक्कर् || समपादं केशभारञ्च खलिनास्तं शरास्तकम् | सुप्रसन्नं कृत्वा मूर्तिं हयवाहनमीश्वरम् || ११८ || || वृषभम् || सकलं निष्कलं शृङ्गं स्यात् कर्णमाकाशमारुतम् | नेत्रञ्च चन्द्रसूर्यं स्यात् शिवशक्तिषु नासिका || सर्वदेवमुखं कृत्वा पुच्छं गुह्येन ब्रह्मयोः | पञ्चाङ्गं गात्ररोमं स्यात् वृत्तमासनपीठकम् || ११९ || || ध्वनिश्चण्डर् || अभयहस्तधरं टङ्कं वरदद्वयहस्तके | निद्रितं लम्बपादञ्च सर्वाभरणभूषितम् || १२० || उपवीतं शिवाब्रह्मं कुण्डलध्वनि चण्डकम् | प्. ११२) || भैरवर् || ध्वनितं पाशशूलञ्च कपालं श्वानवाहनम् | निर्वाणं रौद्ररूपञ्च ज्वाला जटिलभैरवम् || सर्पयज्ञोपवीतञ्च मुण्डमालाशशीधरम् | दण्डञ्च दंष्ट्रिणं कृत्वा आपतोद्धार विग्रहम् || १२१ || || शास्ता || श्यामवर्ण शरीरसुयौवनं तुङ्ग भृङ्ग सहस्रकुन्दलम् | योगवेष्टिक पद्मसुखासनं वामपुष्कल दक्षिणपूर्णयोः || १२२ || || माणिक्कवासहर् || एकवक्त्रन्द्विनयनं हस्तद्वं पुष्पकन्तथा | ज्ञानमुद्राकरञ्चैव भस्मोद्धूलित लेपनम् || रुद्राक्षमालाभरणं सर्वलक्षणशोभितम् | माणिक्कवाचकमित्युक्तं ध्यात्वा देवं समर्पयेत् || १२३ || एकमुख युग्मकर सव्यजपमाला वामकरपुस्तकविभूतिधरदेहम् | आभरणरुद्राक्षमालाधरमौलीं वातपुरिनायक स्वरूपमिति वन्दे || १२४ || प्. ११३) || सुन्द्रमूर्ति || स्वर्णाङ्गं नेत्रयुग्मं वदनपुलहितं केशबद्धं शिखाग्रं सव्ये हस्ताग्रपार्श्वं कटकसहयुतं वामभागे प्रयुक्तम् | विद्युद्भृङ्गारभृङ्गं उभयकरतलं कुण्डलं कर्णपूष्यं शृङ्गारं शैव विप्रं सकलकलयुतं श्रीसुन्दरेशं नमामि || १२५ || || अस्मर् || रुद्राक्षधामशिवपाद युतोत्तमाङ्गं सौम्याननं शिवसुलाञ्चनकर्णपूष्य हस्ताञ्जत्रिणहतायुध दक्षबाहुं पद्मस्थितं कवि सुवार्कपतिमानतोस्क || १२६ || || सम्बान्धार् || श्वेताभं मणिकुण्डलं पुरशिखं सौम्यप्रसन्नाननं सव्ये तर्जनि दीर्घयामवदृशं वामे पयः पात्रकम् | निर्वाणं शिवमम्बुजस्तुतिपदं बौद्धप्रविध्वंसकं नानाद्राविडसत्कविं शुभकरं ज्ञानस्समन्धं भजे || १२७ || || बौद्धर् || द्विभुजं एकवक्त्रन्तु ऊरुहस्तद्विलासनम् | योगपट्टधरन्देवं वन्दे बौद्धावतारकम् || सर्वदेव नमस्तुभ्यं त्रिपुरसंहारसाधकम् | धर्मशास्त्रन्तु व्याख्यानं परब्रह्मस्वरूपकम् || १२८ || प्. ११४) ज्ञानकैवल्य मोक्षार्थं ध्यायेद्बौद्धनमोऽस्तुते | || ध्वजदण्डम् || यष्टित्रियं त्रिययवक्त्रं शरद्दृष्टिञ्च लोचनम् | दर्भगात्र कृपादेवं चतुर्हस्तं तथैव च || शूलचक्र नमस्कारं प्रत्यङ्मुखसमं पदम् | ध्वजदण्डमिति ध्यानं बुद्धिमान् देशिकोत्तमः || १२९ || || द्वारपालः || रक्तवर्णन्द्विनेत्रञ्च नागयज्ञोपवीतिनम् | भीमरूपसमं कृष्ठद्विभुजञ्चैकवक्त्रकम् || विस्मयं हस्तसंयुक्तं दण्डायुधसमन्वितम् | सर्व स्थिता स्थितं देवं डिण्डिणाञ्च स्वरूपकम् || १३० || मुण्डिनां कृष्णवर्णन्तु द्विभुजञ्च द्विनेत्रकम् | दण्डायुध समायुक्तं नागाभरणभूषितम् || १३१ || वसितं हस्तिसंयुक्तं मुण्डिनाञ्च स्वरूपकम् | || इन्द्रध्यानम् || द्विभुजा च द्विनेत्रा च श्यामवर्ण समायुतम् | सव्य हस्तेवहं वज्रं वामहस्तेऽभयन्तथा || रक्ताम्बर समायुक्तं सर्वाभरणभूषितम् | हस्तिवाहनसंयुक्तं इन्द्रस्याकृतिरुच्यते || १३२ || प्. ११५) || अग्नि || द्विभुजा च द्विनेत्रा च रक्तवर्ण स्थिताननम् | आसीनञ्च समायुक्तं मूर्ध्वकेशाय दीपिकम् || पीतवस्त्रसमायुक्तं सर्वपुष्पैरलङ्कृतम् | शुक्लयज्ञोपवीतञ्च शुक्लवस्त्रोत्तरीयकम् || स्रुवं वै सव्यधारुण्यं स्रुक्स्रुवं वामकन्तथा | अजवाहनमेवोक्तं वह्निराकृतिरुच्यते || १३३ || || यमः || कालञ्चनिनिभाकारे विद्युत्समशदंष्ट्रकम् | द्विभुजं रक्तकेशञ्च कुञ्चितं द्वितविभ्रमम् || दण्डायुधसमायुक्तं महिषस्य तु वाहनम् | द्विनेत्रञ्च द्विपादञ्च सर्वाभरणभूषितम् || १३४ || यमस्या कृतिराख्यातं भीमरूपं प्रजापते | || निर्-ऋति || द्विभुजञ्च द्विनेत्रञ्च कृष्णवर्ण समायुतम् | हेमवस्त्रपरिधानं खड्गस्ताटकसंयुतम् || नरवाहनसंयुक्तं दंष्ट्रालोचनकन्तथा | सर्वाभरणसंयुक्तं राक्षसं रूपमुच्यते || १३५ || || वरुणन् || शङ्ख कुन्देन्दुधवलो द्विभुजाञ्च द्विनेत्रकम् | सर्वाभरण संयुक्तं कुण्डलाभ्यां विराजितम् || सव्ये पाशाभयं वामे मकरस्य तु वाडनम् | प्. ११६) सर्वलक्षणसंयुक्तं वरुणस्याकृतिरुच्यते || १३६ || || वायु || कृष्णवर्णद्विनेत्रञ्च वीतभूतसविक्रमम् | द्विपादं शुक्लवस्त्रञ्च द्विहस्तञ्च तथैव च || सव्ये कुशवहं वामे प्रलम्बकटकं वहन् | मिश्रवर्णाम्बरा युक्तो मृगारूढो सुयौवनाम् || १३७ || वायुरूपमिति ख्यातं वायुस्या कृतिरुच्यते | || कुबेरन् || द्विभुजा च त्रिनेत्रा च श्वेतवर्णसमायुतम् | शुक्लवस्त्रं परिधानं सरत्नमकुटान्वितम् || गदाया सव्यहस्ते तु निधिवामे तथैव च | अश्ववाहन संयुक्तं कुबेरस्या कृतिरुच्यते || १३८ || || ईशानम् || चतुर्भुजं त्रिणेत्रञ्च शुक्लवर्णं सुयौवनम् | शुक्लयज्ञोपवीतञ्च वृषारूढं सुशान्तकम् || कपर्दिभस्मलिप्ताङ्गं तरुणेन्दु विभूषितम् | शूलञ्चाभय हस्तञ्च मृगटङ्क तथैव च || वामे दक्षिणे धार्य व्याघ्रचर्माम्बरान्वितम् | प्. ११७) ऐशान्याकृतिराख्यातं द्विभुजं वापि धारयेत् || १३९ || || ब्रह्मा || ब्रह्माचतुर्मुखः पीतश्चतुर्दोर्दण्डमण्डितः | स्रुक्दण्डाक्षस्रुवञ्चैव किरीटीहंसवाहनम् || १४० || || विष्णु || विष्णुश्चतुर्भुजो मालि शङ्खचक्रगदाब्जधृक् | नीलाम्बुद प्रतीकाशो गरुडासन संस्थितम् || द्विनेत्रं द्विभुजास्सर्वे करण्डमकुटान्वितम् | कृताञ्जलि पुटोवापि पद्मं दंष्ट्रा समन्वितम् || १४१ || चक्रशूलं तथा खड्गं अङ्कुशं वज्रदण्डकम् | एकास्यन्द्विभुजं वामे कटिर्दक्षिणके करे || १४२ || इच्छाज्ञान क्रियाशक्ति रूपशक्तिधरं भजे | || रथध्यानम् || चक्राञ्च सूर्य चन्द्रैश्च पश्चात् ब्रह्ममयं भवेत् | तत्पश्चात् पीठमेव स्यात् विष्णुशैल गजन्तथा || सर्वदेवेषु पादञ्च तत्पश्चाद्भुवनन्तथा | नक्षत्रं रन्ध्रमेवं स्यात् नागञ्च सूत्रबन्धनम् || शिखरं निष्कलं व्योमं वेदाङ्गं रथसूत्रकैः | प्. ११८) भक्तानां पञ्चभूतैश्च प्रतिग्राह्यं ऋषं तथा | तत्कर्तु रुद्रमेवं स्यात् ध्यायेदेव रथन्तथा || गम्भीर ब्रह्मणाञ्चैव शिखायज्ञोपवीतिनम् | सर्वाबरणसंयुक्तं यौवनं श्यामवर्णयेत् || १४३ || अभयं ऊरुहस्तञ्च नमस्काराञ्जलि हस्तकम् | || गोपुरध्यानम् || द्वारञ्च ब्रह्मदैवत्यं निलाविष्णुतथैव च | नालं कुम्भेषु रुद्रञ्च शिला इष्टिञ्च दारुकैः || सर्वदेव ऋषिञ्चैवा वसुधैरसञ्च शक्तिषु | सर्वतन्त्र विधानञ्च भकैश्च गणभूतकैः || शृङ्गारञ्चारलङ्कृत्य नक्षत्रञ्च समारभेत् | इति गोपुररूपञ्च नेत्रञ्च शिरनासिषु || १४४ || || स्तूपिध्यानम् || उपानं पातुकञ्चैव जगतीं जङ्घमेव च | बालप्रस्थरसंयुक्तं गलंत्रीपस्य संयुतम् || शिखरं प्रदेशे मकुटं स्तूपिगोपुरमेव चा | विमानं बिम्बसंयुक्तं ध्यानमावाहनन्तथा || १४५ || प्. ११९) || रावणध्यानम् || दशास्यं कालवर्णञ्च कोपाग्निनेत्रमेव च | महाभीषण रूपञ्च घोरदंष्ट्राधरोष्ठकम् || नेत्रञ्च विंशतिञ्चैव भुजहस्तञ्च विंशति | नवरत्न किरीटं स्यात् माणिक्य कुण्डलन्तथा || महाबलसमञ्चैव सर्वाभरणभूषितम् | चक्रशूलञ्च दण्डञ्च जपवटं खड्गमेव च || वज्रञ्च तोमरञ्चैव बाणमङ्कुशसव्यके | धनुः कमण्डलञ्चैव परशुं खड्गमेव च || पाशञ्च शक्तिघण्टाञ्च खेटकं सर्पवामके | धारयेद्वेद विप्रञ्च गरुडपक्षद्विहस्तके || १४६ || आलीढकानुपादञ्च रावणासुरमेव च | शेषध्यानम् पञ्चभूतञ्च पञ्चास्यं श्वेतसूत्र पुतन्तथा | कालोदन्तञ्च जिह्वा च नासी च मरुतानि च || कर्णं कुबेर नै-ऋत्यां भारणञ्चन्द्र समाचरेत् | पुच्छं वेदसमुद्रञ्च शेषञ्च निभहेतकै || १४७ || || व्याघ्रध्यानम् || प्. १२०) मुखदन्ता च जिह्वा च मुखरोमं तथैव च | इन्द्राग्निनै-ऋत्यां नेत्रकाली च भैरवम् || वाराहि रक्तचामुण्डि ज्येष्ठारेणुकरन्तथा | प्रजाकर्णद्वयञ्चैव ब्रह्मविष्णुश्च पुच्छकम् || वक्त्रञ्च सर्वशास्त्रेषु शरीरं मुनिदेवतम् | जीवमन्मथवेदा च इति व्याघ्र स्वरूपकम् || इति व्याघ्रायरूपन्तु बुद्धिमान् देशिकोत्तमः || १४८ || || मूषिकध्यानम् || जिह्वादन्तञ्च वाद्यञ्च मुखञ्च नै-ऋतिन्तथा | नेत्रञ्चैव दिवारात्रिं कर्णञ्च वायुदेवता || गात्रञ्च भुवनाण्डं स्यात् रोमं विद्याधरैर्मुनिः | पुच्छं फणि अनन्तञ्च चतुर्वेदं चतुष्पदम् || १४९ || जीवं स्याद्ब्रह्मविष्णुञ्च इति मूषिकमेव च | || हंसध्यानम् || नेत्रञ्च धर्मकीर्तिञ्च आस्यं पर्वतियैव च | पादद्वयञ्चन्द्रसूर्यं च जीवं स्थावर जङ्गमम् || १५० || हंसध्यानञ्च विधिवत् बुद्धिमान् देशिकोत्तमः | प्. १२१) || गजध्यानम् || शिरमस्तकविघ्नेशं जिह्वादंष्ट्रञ्च षण्मुखम् | शुण्डहस्तमितङ्गी च श्रोत्रं कामारिदुर्गिका || नेत्रं अरुन्धति ज्येष्ठा सर्वलोक वपु तथा | ब्रह्माविष्णुश्च इन्द्रञ्च ऋषीञ्च चतुष्पादं तथैव च || १५१ || || सिंहध्यानम् || मुखञ्च वीरभद्रं स्यात् नेत्रञ्च अग्नि नै-ऋते | दन्तञ्च अष्टशैलञ्च जिह्वायां कालिरेव च || रोमदेह ऋषिसुरैयमवायु चतुष्पदे | पुच्छां श्वेती तथैवा च जीवं प्राणञ्च लक्ष्मि च | इति सिंहसमाख्यातं बुद्धिमान् देशिकोत्तमः || १५२ || || मण्टपध्यानम् || शक्ती शूला च माला च अभयं दक्षिणे करे | वज्र चक्रञ्च पाशञ्च पुस्तकं वामहस्तके || एकवक्त्रन्त्रिणेत्रञ्च सुखासन मनोहरम् | सर्वालङ्कार संयुक्तं ध्यायेन्मण्टप रूपिणीम् || १५३ || || षोडशगणपति ध्यानम् || विघ्नेश्वरर्- पाशाङ्कुशे भ्रम कुलादन्तं प्. १२२) पञ्चास्करं पद्मस्त्रियाङ्कुलिप्याम् | पीतप्रभं कल्पतरोरुहस्तं भवामिनृत्तो भवतङ्गणेशम् || १५४ || करस्थ कदलीचूतं पनसेषुतमोदकम् | बालसूर्यप्रभंवन्दे एवं बालगणाधिपम् || १५५ || नवकुङ्कुमपङ्कीलकुचस्थलि लंबित चम्बकल्हारलताम् | मणिनूपुर सञ्चितमञ्जुपदां प्रणमामि सुतागिरिराजसुताम् || मलौघालेन्दु रत्नं स्मरभुजमनलं बालेनेत्रेगलार्थो | देवोत्सादं करालं सशरदिमथनात् जृम्भितं कालकूटम् || कल्याणाद्रिं हरिषुन्दृहाणाव शिरंकालनाशञ्च शूलम् | णुब्जे धत्ते जगतीः परशिवः पातुसर्वेश्वरोनः || १५७ || ईशानं स्फटिकाभमूर्ध्ववदनं यत्कुङ्कुमाभं मुखं पूर्वन्तत्पुरुषाननं जननिभं जाम्यन्तघोराननम् || औरित्यं कुसुमं जपासुसदृशं वामन्तथा चोत्तरे सद्योजातमुखन्तु पश्चिमदले गोक्षीर तुल्यप्रभम् || १५८ || सुमुखश्चेकदन्तश्च विमलो गजकर्णिकः | * * * * * * * * विघ्नस्तस्य न जायते || १५९ || प्रथमं बालविघ्नेशो द्वितीयं तरुणो भवेत् | तृतीयं भक्तविघ्नेशो चतुर्थो वीरविघ्नतः || प्. १२३) पञ्चमं शक्तिविघ्नेशो षष्ठं ध्वजविनायकम् | सप्तमं पिङ्गलोर्देवे अष्टमोग्विष्टनायकः || नवमं विघ्नराज स्यात् दशमं विप्रनायकः | एकादशन्तु हेरम्बो द्वादशं लक्ष्मिनायकः || त्रियोदशं महाविघ्नं भुवनेश चतुर्दशा | पञ्चादशन्तु नृत्ताख्यं षोडशोध्व गणाधिपः || || बालगणपति || करस्थ कदलीचूतं पनसेक्षुतमोदकम् | बालसूर्य प्रभं वन्दे देवं बालगणाधिपम् || १ || || तरुणगणपति || पाशाङ्कुशापूप कपित्थ जम्भू फलन्तिला पूपमपित्सहस्ते | य देवताय तरुणारुणाभं पायात्स युष्मांस्तरुणो गणेशः || २ || || भक्तगणपति || नालिकेराम्बुकदली गलपायसधारिणाम् | शरत्शशाङ्क संकाशं भजे भक्तगणाधिपम् || ३ || || वीरगणपति || भेतालशक्तिशरकार्मुक चर्मखड्गं खट्वाङ्गमुत्गरगदांकुश नागपाशम् | प्. १२४) शूलञ्च दन्तपरशु ध्वजमुद्वदन्तं वीरं गणेशमरुणं सततं स्मरामि | || शक्तिगणपति || आलिङ्ग्य देवीं हरितानिषण्णं परिस्फुरसृष्टकटिन्निवेशम् | सन्ध्यारुणं पाशसृणीवहन्तं भयापहं शक्तिगणेशमीडे || ५ || || ध्वजगणपति || यं पोस्तकाक्षगुणदण्डकमण्डुल श्रीनिर्वृत्यमानकर भूषणमिन्दुवर्ण स्तम्भे रमानन चतुष्टयशोभमानं तां विस्मरे ध्वजगणाधिपतेषु धन्य || ६ || || पिङ्गलगणपति || पक्वचूतफलपक्वमञ्जरी इक्षु दण्ड तिलमोदकैस्सहा | ऊर्ध्वहं परशुहस्ततेन्नमस्त्रि समृद्धियुतदेवपिङ्गला || ७ || || उच्छिष्टगणपति || नीलाब्जदाडिमी वीणाशालिकुञ्चाक्ष सूत्रकम् | दध उच्छिष्ठनामात्वं गणेशं पातुमेव कः || ८ || || विनायकर् || पाशाङ्कुशेन दन्तञ्च मृत्फलानाखुवाहनम् | विघ्नं निह्वन्तु नस्सर्वं रक्तवर्णाविनायकम् || ९ || || क्षिप्रगणपति || दन्तकल्पलतापाशं पूर्णकुम्भकुशोज्ज्वलम् | प्. १२५) बन्धूक सुसमानिर्या ध्यायेत् क्षिप्रगणाधिपम् || १० || हेरम्बगणपति अभयवरदहस्तं पाशदन्ताक्षमालां परशु सृणिमशेषं मुद्गरमोदकञ्च दयतिगतवसिंहा पञ्चमातङ्गवक्त्रोगण पतिरतिगौरंपातुहेरंब नामकः || ११ || || लक्ष्मिगणपति || बिभ्राणं शुकबीजपूरकमलं माणिक्यकुम्भाङ्कुशं पाशाकल्पलताञ्च पाणिकदलीं श्वेतस्सुधार्जाङ्कुशः | रस्याम्योन्नक्त सरोरुहेणसहितो देवीद्वये नन्दिके गौरातापिता विश्वहस्तकमले लक्ष्मी गणेशोत्थितः || १२ || || महागणपति || कल्हाराम्बुज बीजपूरकगतां दन्तैक्षुबाणैस्समं बिभ्राणैमणिकुम्भ शालिकलशो पाशञ्च चक्रान्वितैः | गौराभारुचिरन्न बिन्दुयुतया देव्या स नायान्तिका शोणाङ्गं शुभमातनोतु भवता नित्यं गणेशो महा || १३ || || विघ्नेश्वरर् || शङ्खेक्षु चापकुसुमेन्दु कुठारपाशां चक्राङ्कुशैकलभमञ्जरिकासनाथैः | पाणिस्थिते परिसमाप्ति विभूषणस्त्रीं विघ्नेश्वरो विजयते तपनीय गौरः || १४ || प्. १२६) || नृत्तगणपति || पाशाङ्कुशापूपकुठारदन्तं सञ्चत्करं कॢप्तलयाङ्गुलीयकम् | पीतप्रभं कल्पलतोरुहस्तं भजामि नृत्येक पदङ्गणेशम् || १५ || || ऊर्ध्वगणपति || सिंहोपरिस्थितं देवं पञ्चवक्त्रं गजाननम् | दशबाहुं त्रिणेत्रञ्च जम्बूफलसुनिप्रभम् || प्रासादयवयादन्तं पत्रं परितमोदकम् | सुदन्तं सव्यहस्तेन विभृतान्येन सुप्रभा || नागपाशाक्ष सूत्रञ्च परशुं मुद्गरन्तथा | पाशाङ्कुशपरासप्त देवं लम्बोदरं शुभम् || १६ || परशुञ्चैव दन्तञ्च ऊर्ध्वनाथ गणाधिपम् | बालादी ऊर्ध्वपर्यन्तं गणेशाषोडशन्नरा || आवाहे च विवाहे च पटे चित्रं तथैव च | स्नपनं कुम्भबिम्बञ्च ध्यायेद्विघ्नेश्वरन्नरः || १७ || || विघ्नेश्वरन् || पाशाङ्कुशदन्तहस्तञ्च शुण्डहस्तधरास्तकम् | गजास्यं पञ्चहस्तञ्च लम्बोदरपदद्वयम् || १८ || वामनं मूषिकारूढं विघ्नराजगणाधिपम् | प्. १२७) नृत्तगणपति || पाशाङ्कुशधरन्देवं दन्तहस्तफलान्तकम् | उन्नतं शुण्डहस्तञ्च लम्बोद गजाननम् || १९ || कुञ्चितन्नृत्तपादञ्च नृत्तरूपगणाधिपम् | || वलम्बरि पिल्लैयार् || अङ्कुशं पाशहस्तञ्च दन्त स्वर्णादिहस्तयोः | मोदकं शुण्डहस्तञ्च वामनस्य गजाननम् || २० || लम्बोदरोन्नतं कृत्वा सव्यघृतगणाधिपम् | || नागमुखगणपति || कुङ्कुमवर्णचतुर्भुजयुक्तं नागमुखं मकुटं सहरण्डम् | अङ्कुशलड्डुक दन्तसुपाशं वह्निसदृशं गणनाथ स्वरूपम् || २१ || || आलिङ्गनगणपति || स्पृष्ट्वा वामकरेण लिङ्गमितरेनालिङ्ग वासीनया देव्याश्चामल वर्णय प्रविलसत् वामोरु अर्कद्युतिम् | अण्डालम्बितयोनिकं करतले आलिङ्गवामे नुतं अन्यैः पाशस्रिणिं स्वदरुचिरैभा स्वर्गणेशेवताम् || २२ || || प्रसन्नगणपति || ककुतधवलवर्णं पूर्णलक्ष्मी प्रसन्नं प्. १२८) मदगजमुखमीड्यं सञ्चलीकर्णयुग्मम् | अभयवरदहस्तं वासुकी यज्ञसूत्रं पशुपति सुतमीशं विघ्नराजन्नमामि || २३ || || विघ्नराजर् || गजवदनदन्ति तीक्ष्णदन्तं त्रिणेत्रं ब्रह्म तु सुरमशेषं भूतरूपं पुराणम् | अमरपरशुपूज्यं रक्तवर्णसुकेशं पशुपति सुतमीशं विघ्नराजन्नमामि || २४ || || शयनविघ्नेश्वरर् || विघ्नद्वात निवारिणीक तरुणी विघ्नाटवी हव्यवाट्- विघ्नश्यालकुलोपमत्तगरुडो विघ्नेशपञ्चाननः | विघ्नोत्तुङ्गगिरिप्रभेदनगरि विघ्नाप्ति कुम्भोभवा विघ्नेशाय भुजङ्गभोगशयने विघ्नेश्वरः पातु माम् || २५ || || भूतगणपति || कुङ्कुमवर्णं अङ्कुशपाशं अच्चुतदन्तं हस्तियुगं स्यात् | हस्ति जवक्त्रं लम्बकमोष्ठं भूतसमानं देवगणेशम् || २६ || || नैर्-ऋतविघ्नेश्वरर् || विघ्नेशं नैर्-ऋतेदेशे गणेशं पुरुषाकृतिम् | प्. १२९) महोदरं बृहत्कायं गजवक्त्रं गजाननम् | त्रिणेत्रञ्चतुर्भुजञ्चैव नागयज्ञोपवीतिनम् || करण्डमकुटोपेतं प्रलम्बोष्ठं गणाधिपम् | पाशदन्तौ तु सव्येन वामेत्वङ्कुश लड्डुकम् || हेमवर्णसमोपेतं सर्वाभरणभूषितम् | द्विपादेन समायुक्तं आसीनं वास्थितन्तु वा | ध्यायेद्विघ्नेश रूपं स्यात् अर्चयेद्देशिकोत्तमः || २७ || || उमासुतर् || गजाननं भूतग - पङ्कजम् || २८ || || सिद्धिविघ्नेश्वरर् || एकदन्तं सूर्पकर्णं गजवक्त्रञ्चतुर्भुजम् | पाशाङ्कुशधरञ्चैव कपित्थमोदकप्रियम् || २९ || इत्येवं सिद्धिविघ्नेशं तत्कार्यस्य सुसिद्धिदम् | || षण्मुखविघ्नेश्वरर् || षट्गजवदनञ्चैव द्विषण्णेत्रं द्विषट्भुजम् | भेतालमभयं शूलं पाशन्तथाङ्कुशम् || चक्रं खड्गगदञ्चैव धनुर्बाणं सुखेटकम् | किरीटमकुटञ्चैव रक्तवर्णसमन्वितम् || प्. १३०) हेमस्त्र समायुक्तं भूषणन्नवरत्नकम् | सर्पयज्ञोपवीतञ्च सर्पकुण्डलमेव च || ३० || सर्वाभरणमेवन्तु षड्वक्त्रञ्च गणाधिपम् | || गणपति || गणेशं वामनाकारं शूर्पकर्णं गजाननम् | राक्षसा शास्तितन्र्यैक्षं प्रोक्तरूपयुतं भवेत् || ३१ || ध्यानमावाहनञ्चैवा सर्वविघ्न निवारणम् | भुक्तिमुक्तिफलञ्चैवा ग्रामवृद्धिकरं शुभम् || पुत्रपौत्राभिवृद्धिञ्च धनधान्यादि वर्धनम् | सौभाग्यं मङ्गलं प्रोक्तं राजद्वारे वशीकरम् || ३२ || सर्वकार्ये जयंवन्दे विघ्नेशस्य प्रतिष्ठितम् | || विघ्नेश प्रतिष्ठा स्थानम् || पर्वताग्रे तटाके वा शैत्यवृक्षादिकेऽपि वा | वनेपुष्पवनेन्यैवा कूपतीरे शिवालये || हरिस्थानेव ब्रह्माख्ये मन्दरे स्कन्दमन्दिरे | एते संकल्पयेद्धीमान् गणेशस्य प्रतिष्ठितः || ३३ || || गणपतिध्यानम् || श्वेतं लम्बोदरञ्चैव त्रिणेत्रं पीतवाससम् | प्. १३१) नागयज्ञोपवीतञ्च करण्डमकुटान्वितम् | समन्तरेणहस्तेन दन्तं बिल्वफलन्तथा || कल्हारन्तिलमोदञ्च उयुतञ्चायुतं वहम् | एवन्ध्यात्वाविशेषेण पूजयेवगणाधिपम् || ३४ || || विघ्नेश्वरन् || परिवारादि संयुक्तं करण्डमकुटान्वितम् | रक्तवर्णञ्चतुर्हस्तं पाशचक्रञ्च सव्यके || अङ्कुशं लड्डुकं वामे करस्थं लड्डुकेन तु | नागहस्ताग्रसंयुक्तं रक्तवर्णधरं विभुम् || ३५ || एतद्रुवस्मरेन्नित्यं सर्वविघ्नविनायकम् | || गणपति || लम्बोदरं श्याम * * * * * * * * मीडे || ३६ || || गणपति || रक्तपद्मासनासी * * * * * * * धिपम् || ३७ || || विघ्नेश्वरन् || गजाननन्त्रिणेत्रञ्च श्यामवर्णं चतुर्भुजम् | लड्डुकं परशुं वामे सव्यदन्ताक्षमालिकाम् || नागयज्ञोपवीतञ्च सर्वाभरणभूषितम् || प्. १३२) सर्वकार्याणि सिद्ध्यन्ति विघ्नराजनमोऽस्तुते || ३८ || || विघ्नेश्वरर् || उन्मृत-अमृतसारं कुञ्चिताङ्घ्रिं सुरेशं सकलभुवनमीशं चन्द्रचूडं मतर्क्यम् | कनकमणिवक्त्र जन्तं कल्पितं सप्तहस्तं सकलमयशरीरं साङ्कुशं पाशदन्तम् | ३९ ||| पलगतपद्मयुग्मं पद्मसिंहासनस्थम् | || दशविघ्नेश्वरालम् || आमोदश्च प्रमोदश्च प्रमुखोदुर्मुखस्तथा | अविघ्नो विघ्नकर्ता च भक्षेस्तपञ्चहस्तया || ४० || गजवक्त्रोगणाधीशः दशैते विघ्ननायकः | || दशविधविघ्नेश्वरवर्णम् || आमोदश्यामवर्णन्तु प्रमोदं रक्तवर्णकम् | प्रमुखं स्फटिकाभासं दुर्मुखस्य तु धूम्रकम् || अविघ्नं पीतवर्णञ्च विघ्नं रक्ताञ्जनप्रभम् | भक्ष्याशिपाण्डुरञ्चैव पञ्चहस्तसुकूर्पकम् || गजवक्त्रादिनीलञ्च गणेशं कुङ्कुमप्रभम् | इत्येवं दशविघ्नेशं वर्णभेदाः प्रकीर्तिताः || ४१ || प्. १३३) || हस्तम् || आमोदश्चाष्टहस्तञ्च प्रमोदं षट्भुजान्वितम् | प्रमुखन्द्वादशञ्चैवा दुर्मुखस्य दशस्त्यथा || चतुर्हस्तादिविघ्नश्च विघ्नकर्ता च सप्तकम् | भक्ष्यप्रियद्विहस्तञ्च पञ्चहस्तेति पञ्चकम् || गजवक्त्राचतुर्हस्त गणेशस्य चतुर्भुजम् | इत्येवं दशविघ्नेशो हस्तनिर्मितमेव चा || ४२ || || आयुधम् || खड्गं पाशाङ्कुशं चक्रं गदाशूलञ्चमोदकम् | दण्डं बाणधनुश्चैव फलपद्मन्तथैव चा || भिन्दिपालञ्चमुसलं खेटकं शङ्खमेव च | शक्तिमुद्गरखट्वागं वज्रनागभयावरम् | कुण्डिकाङ्कुशकूर्चञ्च कपालं जपमालिकम् || पोस्तकं दन्तखण्डञ्च अग्निस्रुक्स्रुवमेव चा | शालगामरुज्ज्यनं सर्वायुधसमप्रभम् || इत्येवं विघ्नराजस्य आयुधस्य प्रकीर्तितः || ४३ || || नेत्रलक्षणम् || उग्रनेत्रं समंनेत्रं रक्तनेत्रं तथैव च | प्. १३४) शान्तनेत्रं जपन्नेत्रं विशालं सूक्ष्मनेत्रकम् | एतद्विघ्नेशनेत्रेण लक्षणस्य प्रकीर्तितः || || दशविघ्नेश आयुधभेदम् || त्रिशूलं डमरुं खड्गं गदाखेटकपालकम् | पाशाङ्कुशञ्च आमोदं आयुधस्य प्रकीर्तितः || मोदकं मुद्गरञ्चैवा फलदन्तञ्च पद्मकम् | मुसलस्य तु विन्यस्य अमोदस्यायुधं दधः || शङ्खचक्रगदापद्मं तोमरं भिन्दिपालकम् | धनुर्बाणञ्च खट्वाङ्गं नागं पाशञ्च मोदकम् || प्रमुखञ्चायुधं प्रोक्तं सर्वकार्येषु सिद्धिदम् | सलाकाग्निसुदन्तञ्च दण्डं वीणञ्च वज्रकम् || शूलाभयवरञ्चैव शक्तिदुर्मुखमेव चा | कुण्डिकां दण्डकूर्चञ्चा जपमालाय विघ्नकम् || कपित्थं स्रुक्स्रुवञ्चैव ज्ञानदन्तञ्च पोस्तकम् | मोदकं विघ्नकर्ता च आयुधस्य प्रकीर्तितः || तिलमोदकदन्तञ्च भक्ष्यप्रियमिति स्मृतम् | पाशाङ्कुशकपित्थञ्च अपूपं श्वेतपद्मकम् || पञ्चहस्तेति विन्यस्य आयुधस्य प्रकीर्तितः || प्. १३५) अङ्कुशं लड्डुकञ्चैव नालिकेरञ्च मोदकम् | भजवक्त्रायते तुभ्यं आयुधस्य विधीयते || पाशाङ्कुशफलं चूतं रक्तपद्मस्य मोदकम् | गणेशस्य तु विन्यस्य आयुधस्य प्रकीर्तितः || || वाहनम् || आरोदव्याघ्रवाहन्तु प्रमोदं सिंहमेव च | प्रमुखं गन्धभेरञ्च दुर्मुखस्य तु वृश्चिकम् || अविघ्नादि गणेशान्तं मूषिकस्य तु वाहनम् | सर्वविघ्नेशयोश्चैव पूजयेत्तु समन्वितः || नदीतीरे चतुद्वारे स्थापयेत् तु प्रमोदकम् | प्रमुखं कूपतीरे तु महारण्ये तु दुर्मुखम् || अविघ्नं हरिरम्ये च विघ्नेशं बौद्धमन्दिरे | आहतालयते भक्ष्या प्रियं वक्ष्यो भवेद्बुधः || मात्रालयान्यसेत्कारे दुर्गान्वय गजस्तके | स्कन्दालये गणेशस्य स्थापयेत् स्थापकोत्तमः || सर्वशान्ति समायुक्तं सर्वविघ्नेशवद्भवेत् | एवं लक्षणमाख्यातं दशविघ्नेश्वरस्य तु || मन्त्रोद्धारविधिञ्चैव शृणुष्व देशिकोत्तमः | प्. १३६) ध्यानमावाहनं कृत्वा पूजयेव गणाधिपम् | पुत्रश्रीधनधान्यञ्च सर्वसौभाग्यदायिनम् || मनोभीष्टफलञ्चैव ध्यात्वासिद्धिविनायकम् | पूजयित्वा महाभागं गणेशं सिद्धिदायकम् || सिध्यन्ति सर्वकार्याणि मनसा चिन्तितान्यपि | तेनख्याति त्रिलोकेन नाम्नासिद्धिविनायकः || कार्या सकलसर्वेषु पूजनिर्यगणाधिपम् | विद्यारम्भेषु कल्याणं विद्याल्लाभोभवेद्ध्रुवम् || यत्नादौ देवकार्याणि युद्धसन्नाहमेव च | इत्येतत् कार्यमेवन्तु कर्षकोणविनायकम् || प्रतिः त्रिसन्ध्यायां स्नानकाले जपेषु च | आरण्ये चोरभीतिश्च नन्दिमध्ये महाजने || रणमाध्याग्नि मध्ये च देवदर्शनकालयोः | ध्यात्वा विनायकञ्चैवा स्मरणे तु महाफलम् || यन्त्र स्थापनकाले च मन्त्रोद्धारणकालयोः | तन्त्रस्तम्भ प्रतिष्ठा च स्मरणे तु विनायकम् || इत्येवन्तु गणेशस्य स्मरणस्य महाफलम् | सर्वकार्याणि सिध्यर्थं ध्यात्वा सिद्धिविनायकम् || प्. १३७) नमामि विघ्नार्थमुमासुता प्र ईं नमाकुन्देन्दु सरस्वती | नमाम्यहं श्रीगुरुपादपङ्कजन्नमामि ब्रह्मारर्चितं वा शिवम् || || हरिः ओम् | शुभमस्तु || ज्ञानशक्तिधरं स्कन्दो देवसेनापतिन्तथा | सुब्रह्मण्यो गजारूढश्शरकानन संभवम् || कार्तिकेयः कुमारश्च षण्मुखस्तारकान्तकः | सेनानि ब्रह्मशास्ता च वल्ली कल्याणसुन्दरः || बालश्च क्रौञ्च भेत्ताशिखिवाहन एव चा | एतानि स्वामिनामानि षोडशप्रत्यहन्नरः || यः पठेत् सर्वपापेभ्यो समुच्येद महामुने | एतेषां प्रतिरूपाणां ध्यानमावाहनोच्यते || प्रथमं ज्ञानशक्तिञ्च द्वितीयं स्कन्दमेव च | सेनानि त्रितियञ्चैव सुब्रह्मण्यचतुर्थकम् || पञ्चमन्तु गजारूढो शरकाननषष्ठमम् | सप्तमं कार्तिकेयञ्चा कुमारञ्चाष्टमस्तथा || नवमं षण्मुखञ्चैव दशमंस्तारकान्तरम् | सेनान्येकादशं प्रोक्तं द्वादशं ब्रह्मशास्तयोः || सुन्दरीशत्रियोदश्यां बालने तु चतुर्दशा | प्. १३८) पञ्चादशं क्रौञ्चहारि षोडशश्शिखिवाहनम् | || शक्तिधरध्यानम् || एकवक्त्रं द्विनयनं चतुर्दोर्दण्डमण्डितम् | शक्तिवज्रधरोपेतं वरदाभयपाणिनम् || कुन्दमन्दस्थितं शान्तं कुण्डलाभरणोज्वलम् | ध्यायेन् तं शरसंहारं मयूरारूढमव्ययम् || एकास्य द्विभुजं वामे कटिदक्षिणकेकरे | इच्छा ज्ञानक्रियाशक्तिरूपशक्तिधरं भवेत् || १ || || स्कन्दध्यानम् || कल्पद्रुमं प्रणमतां कमलारुणाभं स्कन्दं भुजद्वयमनामयमेकवक्तम् | कात्यायनं सुतमहं कटिबद्धबालं कौपीनदण्डधरदक्षिणहस्तमीडे || || सेनापति || नौम्यादित्य प्रदीप्तं द्विदशनयनं षण्मुखं मन्दहासं वामाङ्गे स्वस्तिदायः सरसिरुहधृतलिङ्गितायः प्रियायाः | उत्तुङ्गोरुस्तनाग्रे विहितकरतलं भीतिखेटाशूलां ह्रिदिन्योदीप्तशक्तिष्वसनघनगदा कुक्कुटाब्जञ्च हस्ताम् || || सुब्रह्मण्यध्यानम् || एकवक्त्रं द्विदोर्दण्डं कटिबद्धाभयान्वितम् | प्. १३९) तरुणारुण संकाशं सुब्रह्मण्यमुपास्महे || ४ || || गजारूढध्यानम् || एकाननन्द्विनयनं वरकुक्कुटौ च वामद्वये निशितशक्त्यभयौ द्वयेने | बिभ्राणमीश्वरसुतं तपनायुतापं नित्यन्नमामिगजवाहनमिष्टसिध्यै || || शरकाननः || शक्तिं खेटञ्च खण्टां ध्वजसरसिजे कुक्कुटं प्रासदण्डं टङ्कं बाणं वरदमभयं कार्मुकञ्चोर्द्वहस्तम् | पीतं सौम्यं द्विदशनयनं केकहंसययमित्रां- साभिः पूज्यं शरवणभवं षण्मुखं भावयामि || ६ || || कार्तिकेयर् || वरदकुलिशखेटं वामहस्तत्रिये च दधतमभयशक्ति खड्गमन्यत्रेः तरुणरविसमाभं साधुभिः पूज्यमानं कमलवदनषट्कं कार्तिकेयन्न || || कुमारर् || सव्यद्वये निशितशक्तिसिमादधानां वामद्वयेभिमत कुक्कुटखेटकञ्च | वल्लीपतिं विबुधलोचन पूर्णचन्द्रं कल्हारनीरदतनुं कलये कुमारम् || || षण्मुखम् || शक्तिं शरञ्चखड्गञ्च चक्रपाशोऽभयन्तथा | कुलिशञ्च धनुः खेटं कुक्कुटं साङ्कुशं वरम् || प्. १४०) मयूरवाहनञ्चैवा सर्वलक्षणसंयुतम् | गजायै गजवल्ली च वामदक्षिणमेव च || सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् | सर्वायुध जयं वन्दे षण्मुखस्तस्य रूपकम् || ९ || || तारकान्तकम् || वरदमङ्कुशध्वजे च कटकौ चापवज्रकम् || अभयं पाशखड्गञ्च क्रमुसलशक्तिमन्विहम् | द्विदशपाणिभिर्दधानं अरुणं कोटिसन्निभम् || भजततारकाकारमित्रभयविनाशकारणम् || १० || || सेनापति समेत ध्यानम् || अभयवरदहस्तं अङ्कुशं शक्तिशूलं वरदकुलिशपाशं पद्मदण्डं गदाञ्च | दधतुमुभयवक्षं द्वादशायामहस्तं द्विदशकमलनेत्रं देवसेनान्यमीडे || १ || || ब्रह्मशास्ता || वामे करे च युगले वरकुण्डिकाञ्च सव्येक्षसूत्रमभयं दधतं विशाखम् | वल्यायुतं वनजलोचनमेकवक्त्रं वन्दामहे वनजसंभव शासितारम् || १२ || || कल्याणसुन्दरः || हस्तद्वन्द्वेक्षमालामभयमपि भृदां कुण्डिकां श्रोणिबद्धं सव्ये वामे निषण्णं श्रुवधृतिविधिना हूयमानेन युक्तम् | प्. १४१) सर्वालङ्कारयुक्तां करकलशभृताविष्णुनाचारुणाभां वल्लीं कल्याणमूर्तिं सकलसुरगणैस्थूयमानं प्रपद्ये || १३ || || बालसुब्रह्मण्यम् || पद्मसव्यकटिसंयुतवामं पद्मकान्तिनिभ मेखमुखान्त | बालवृद्धिकरमीश्वरसूनुं बालमुन्नतमहं प्रणतोऽस्मि नित्यम् || || क्रौञ्चभेदिध्यानम् || अभयमसिकपाणं शक्तिबाणञ्च सव्ये वरदकुलिशपापं खेटकञ्चान्तं | दधतममरसेनानायकञ्चाष्टबाहुं कमलवदनषट्कं क्रौञ्चभेत्तारमीडे || || शिखिवाहनध्यानम् || विद्रुमप्रभमेक मुखं विभुं वज्रशक्तिवराभयपाणिनम् | देवलोकरिपुघ्नमविघ्नदं नौमिरुद्रभुवं शिखिवाहनम् || १६ || || षण्मुखम् || विद्रुमनिभद्विदश हस्तरसवक्त्रं शक्तिशरखड्गतमभयध्वजगता च वामकरचापकुलिशञ्च कटकं स्यात् शूलवरपङ्कजसुषण्मुखस्वरूप || || नृत्तसुब्रह्मण्यम् || अभयकटकटङ्कं मृगाङ्कस्य जाह्नवी गौरिपुष्पवरश्यामम् | * * * * * * * * * * * नृत्त स्कन्दमुपास्महे || १८ || प्. १४२) || कुमारध्यानम् || अभयवरदहस्तं मेकवक्त्रं कुमारं वरदकरतलाभ्यां वज्रशक्तिन्दधामणिमकुटविराजन् पद्मपत्रः कर्णं प्रथमवरुणवायुस्थापितंतत्कु || || सुब्रह्मण्यम् || द्विहस्तं यज्ञसूत्रस्यो सशिखःसहमेखलम् | कौपीनदण्ड युक् सव्यं वादमामि कटिस्पृशम् || द्विभुजाञ्च द्विनेत्राञ्च सुब्रह्मण्यञ्च सुन्दरम् | पद्मधृक् सव्यपाणिस्तु इतरशक्तिधृक्करौरः || २० || || बालस्कन्दध्यानम् || तरुणादित्यसंकाशं सश्वद्वालं स्वरूपिणम् | चतुर्भुजन्द्विनेत्रञ्च कर्णयो पद्मपिण्डधृक् || सर्वालङ्कारसंयुक्तं जलंकलशमग्रतः | रत्नकुण्डलसंयुक्तं वज्रशक्ति करद्वये || वरदाभयसंयुक्तं शक्तिद्वयसमन्वितम् | हारकेयूरसंयुक्तं मयूरवाहनन्तथा || २१ || || सुब्रह्मण्यर् || चतुर्भुजन्द्विनेत्रञ्च कर्णयोः पद्मपिण्डधृक् | नक्रकुण्डलसंयुक्तं समीपे शक्तिकाद्वयम् || प्. १४३) दक्षवामकराग्रे तु अक्षमालाकमण्डलुम् | वरदाभययुक्तो वा कटिसूत्रसमन्वितम् || मयूरवाहनयुक्तोवाप्यथवायुक्तपात्रकम् | शक्तिकाय ततो वाऽपि त्रियोलक्षणमुच्यते || २२ || || षण्मुखम् || षड्वक्त्रं शिखिवाहनं त्रिणयनं चित्रांबरालङ्कृतं शक्तिं वज्रमसिं त्रिशूलमभयं पाशन्धनुश्चक्रकम् | खेटं कुक्कुटमङ्कुशञ्च वरदं दोर्भिस्सदानं सदा ध्यायेद् वन्दित सिद्धिदं स्कन्दं सुराराधिपम् || २३ || || बालसुब्रह्मण्यम् || चतुर्भुजो बालवेषो स्कन्दः कनकसन्निभः | शक्तिकुक्कुटहस्ताश्च वराभयकरान्वितः || २४ || || कुमारर् || दाडिमी पुष्पसङ्काशं कुब्जाभं कुङ्कुमाकृतिम् | एकवक्त्रं चतुर्हस्तं कटिबद्धभयास्तकम् || कमण्डलाक्षोधरञ्चैव करण्डमकुटोज्ज्वलम् | हारकेयूरसंयुक्तं कटिसूत्रोक्तबन्धनम् || यज्ञोपवीतसंयुक्तं छन्नवीरसमन्वितम् | प्. १४४) सर्वाभरणसंयुक्तं कुमारं शङ्करात्मजम् || २५ || || नन्दकुमारम् || कुङ्कुमवर्णचतुर्भुजयुक्तं शक्तिधरं वरदं कटकञ्च | वज्रवराभय दक्षिणहस्तं सुन्दरनन्दन स्कन्दकुमारम् || २६ || || कार्तिकेय ध्यानम् || गाङ्गेयं वह्निगर्भं शरवण जनितं ज्ञानशक्तिं कुमारं ब्रह्माण्डं स्कन्ददेहं गुहमचलहितं रौद्रतेजस्स्वरूपम् | सेनान्यन्तारकाग्निं गजमुखसहितं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरं ध्वजरथसहितं देवदेवन्नमामि || २७ || || कुमारध्यानम् || षट्कोणान्तर शक्तिपत्रभुवनं तन्मन्त्र सञ्जीवनं शैवज्योतिशिरः करोतु न पुरुषं धर्मानुद्धारामृतम् | विज्ञानं विदुषां विशुद्धहृदयं विभाजमानं शुभं त्रैकोणाचल देवदेवतनयं वन्दे कुमारं प्रभुम् || २८ || || शखणोद्भवम् || कनककुण्डलमण्डितषण्मुखं विवतराजि विराजित सेवितम् | निशितशस्त्र शरासवधारिणं शखणोद्भवमीशसुतं भजे || २९ || || सेनानिकल्याण रूपध्यानम् || प्. १४५) पीतवर्णन्द्विनेत्रञ्च एकवक्त्रन्द्विहस्तकम् | नवरत्नकिरीटञ्च स्वर्णमाभरणन्तथा || स्कन्दस्य वामहस्तेन सेनान्यै दक्षहस्तकम् | तर्जन्याङ्गुलसंयुक्तं कनिष्ठाङ्गुलिसंयुतम् || अङ्गुल्यास्स्वर्णवलयं कटकं वामहस्तके | स्कन्दस्य दक्षहस्तेन श्वेतपद्मसमन्वितम् || स्कन्दं किरीटस्वर्णञ्च हारमाभरणन्तथा | स्कन्दं पीताम्बरञ्चैव सेनान्यै रजनीत्रकम् || जाजी चम्पकमेवन्तु नीलोत्पलञ्च पाटलि | इत्येवं पुष्पमालायां सेनान्यै स्कन्दधारिणम् || सर्वालङ्कारसंयुक्तं सर्वाभरणशोभितम् | ब्रह्मादि देवताश्चैव चतुर्वेदश्रुति स्मृतम् || ऋषिणां गणसंयुक्तं पुष्पवर्षमिति स्मृतम् | यक्षः किन्नरगन्धर्व सिद्धविद्याधरैः सुरान् || गीतवाद्यादिघोषञ्च नृत्तसङ्गीतमेव च | स्कन्दसेनान्य पादेन इन्द्रसंमृज्यमेव च || इन्द्राणी स्वर्णकुम्भञ्च गन्धोदकमिति स्मृतम् | पार्वती चैव रुद्रश्च सच्चिदानन्दरूपकम् || ३० || प्. १४६) || सुब्रह्मण्यर् || वन्दे सिन्धूरकान्तिं शरवणभवं श्रीमयूराधिरूढं षड्वक्त्रं देवसेना मधुरिपुतनया वल्लभं द्वादशाक्षम् | शक्तिबाणं कृपाणं ध्वजमपि च गदां चाभयं सव्यहस्तं चापं वज्रं सरोजं कटकमपिवरं शूलमन्येर्दधानम् || ३१ || || सुब्रह्मण्यर् || सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषितकरं स्वर्गादि सौख्यप्रदम् | अम्भोजाभय शक्तिकुक्कुटधरं रक्ताङ्गरागां शुभं सुब्रह्मण्यमुपास्महे प्रणमतां इष्टार्थ सिद्धिप्रदम् || ३२ || || ब्रह्मसुतध्यानम् || इन्दुरूपं प्रवक्ष्यामि वाक्कायुत सुतेजसे | व्याख्यान मुद्रासहितं देवसंखैस्समाहितम् || वामदक्षिणपार्श्वे तु गजवल्लिसमन्वितम् | आयुधानाञ्च बृन्दैश्च तेजो ब्रदैश्च भास्वरम् || साधकानाञ्च सर्वेषु मिष्टार्थ फलदायकम् | सर्वाभरणसंयुक्तं किञ्चित् प्रहसिताननम् || ३३ || || स्कन्दर् || प्. १४७) वरदं कटिबद्धञ्च अभयं शक्तिवज्रयोः | शिखिनां शक्तिसहितं स्कन्दं एकञ्च विग्रहम् || ३४ || || बालसुब्रह्मण्यर् || कमण्डुलाक्षमालाञ्च अभयं वरदन्तथा | कौपीनं समपादञ्च सर्वाभरणभूषितम् || पीताङ्गं सुप्रसन्नं स्यात् किरीटं रत्नकुण्डलम् | शुक्लयज्ञोपवीतञ्चा कृपालुं सुब्रह्मण्यकम् || ३५ || सेनापति सुरेशञ्च हरसूनुसुराग्रजः | सुब्रह्मण्यः कुमारश्च षण्मुखस्य प्रकीर्तितः || || षोडशमूर्तिफलम् || ज्ञानेनब्राह्मणञ्चैवा स्कन्दं प्रजनवर्चसम् | सेनान्यैऽधिपत्यैश्च सुब्रह्मण्यञ्च सौन्दरम् || गजारूढं विवाहञ्च शरकाननपुत्रकम् | कार्तिकेयञ्च शौर्यञ्च कुमारं बहुसंपदम् || षण्मुखं बन्धुवर्गञ्च राजसं तारकारकम् | नरवाहन सेनान्ये ब्रह्मशास्ता च वैद्यकम् || कल्याणसुन्दरं विद्यां राजवश्येन बालकम् | धान्यपुत्रं क्रौञ्चहारि जयञ्च शिखिवाहनम् || प्. १४८) इत्येवं षोडशं देवं सर्वलोकजयप्रदम् | धर्मार्थकाम्यमोक्षञ्च सायुज्यं सर्वसंपदम् || सर्वपाप हरन्देवं शिवसायुज्य सम्पदम् | ओं जगद्भुवे नमः | वचत् भुवे नमः | विश्वभुवे नमः | भवद्भुवे नमः | रुद्रभुवे नमः | जगद्भुवो निषट्कञ्च शिवतत्त्वस्वरूपकम् | पूर्वादिषु मुखैचैव अर्चये तु भवन्ति हि || इत्येवं षोडशं नाम्नां कुम्भबिंबन्तथैव च | पटे वा चित्रमेवन्तु विग्रहञ्चक्रमेव चा || सर्वस्यानुप मेवन्तु तथा ध्यानं तथैव च | धर्मार्थ काम्यमोक्षार्थं सायुज्यं सर्वसम्पदम् || अपमृत्युविनाशञ्च आरण्ये भयनाशनम् | क्षयाभस्मादि कुष्टादि ताप ज्वरनिवारणम् || अग्निशत्रुभयं हन्ति सर्वलोकैक वश्यकम् | सर्वदारिद्र्य शमनं पुत्रपौत्राभि वर्धनम् || सर्वकार्य जयं वन्दे षोडशध्यानमर्चयेत् | इति ध्यात्वा महासेनं नमस्कृत्वा पुनः पुनः || साधु वासाधुवत्कर्मायद्वदाचारिते मया | प्. १४९) तत्सर्वं देवदेवेश गुहेणाराधनं परम् | ध्यात्वा फलन्तु यः सर्वं आत्मना सह बुद्धिमान् || तद्भक्त्या चिन्तयेन्नित्यं त्रिकालं वा पठेज्जपम् || श्रीकुमारगुरुचरणारविन्दाभ्यान्नमः | चतुर्भुजन्त्रिणेत्रञ्च कपालं शूलमेव चा || दक्षिणेऽभयटङ्कं स्या वामे पर्श्वे समन्वितः | जटामकुट संयुक्तं नागयज्ञोपवीतिनम् || तस्यैव दक्षिणे पार्श्वे यमुनाञ्चैव कारयेत् | द्विभुजञ्च द्विनेत्राञ्च श्यामवर्ण समन्वितम् || कूर्मासन समायुक्तं सर्वाभरणभूषितम् | पूर्णकुम्भस्य वामे तु उत्पलं सव्यहस्तके || यमुनायां स्वरूपन्तु सर्वावयवसुन्दरीम् | द्वारस्य वामपार्श्वे तु महाकालैमुनस्तथा || यमुनाञ्च महाकालीं तस्य वामे तु पूजयेत् | || पञ्चविंशति विग्रहम् || प्रथमं सोमधारी च द्वितीयं उमया सह | तृतीयं वृषभारूढं चतुर्थन्नृत्तरूपकम् || विवाहं पञ्चमञ्चैवा षष्ठं भिक्षाटनं भवेत् | प्. १५०) कामारी सप्तमं विद्यात् कालारिचाष्टमं भवेत् | नवमं त्रिपुरारिं स्यात् जलन्धरवधो दशा || एकादशं गजारि स्यात् द्वादशं वीरभद्रकम् | त्रयोदशं हरेरर्थं अर्धनारि चतुर्दशम् || पञ्चादशं किरातं स्यात् कङ्कालं षोडशं भवेत् | चण्डेशानुग्रहञ्चैवा ततस्सप्तदशो भवेत् || विषापहारिणीञ्चैव अष्टादशमिति स्मृतम् | चक्रप्रदान रूपन्तु एकोनविंशतिस्तथा || विघ्नप्रसादाद्विंशञ्च सोमास्कन्देक विंशति | द्वाविंशदेक पादं स्यात् त्रयोविंशस्सुखासनम् || दक्षिणामूर्ति रूपन्तु चतुर्विंश प्रकीर्तितम् | लिङ्गोद्भवस्य रूपन्तु पञ्चविंशतिमेव चा || एते महेशरूपन्तु मूर्तिभेदाः प्रकीर्तिताः | || सोमधारि ध्यानम् || विपुलवदननेत्रं सौम्यशृङ्गारभावं अभयवरदहस्तं चन्द्रबिम्बाङ्गमौलिम् | ऋजुतनु समपादं स्थानकं विद्रुमाभं परशुहरिणधारिं पद्मपीठोपरिस्थम् || १ || प्. १५१) || उमयासहितम् || धवलाभसुखासन देवि युतं हरिणी मृगटङ्कभयंवरदम् | समुखीकलमुत्पल दृश्यधरं उमयासह देवस्वरूपमिदम् || २ || || वृषारूढम् || सव्ये साद्वक्रकुण्डान्वित कटककरो गोपते मस्तकस्ते वामे स्यार्थं सवक्षं अपरकरयुतं टङ्ककृष्णं दधानम् | पृष्ठे स्याक्षा प्रसन्नं त्रिणयनलसितं बद्धवेणी किरीटं सव्ये गौर्यासमेतं भजतशुभकरं तं वृषारूढमीशम् || ३ || || नृत्तमूर्ति || शौर्याभस्मारदूर्ध्वे स्थितपदविलसद्वाममुद्धृत्यपादं ज्वालामालासुमध्ये नटनफणिवशार्दूल पादादिसेवान् | भस्मोद्धूलनमङ्गमाल्यविलसत् वामेद्युमासे सितां अग्निण्डोलकराभयां डमरुकं ध्यात्वा नटेशं भजे || ४ || || कल्याणसुन्दरध्यानम् || सिन्धूराभन्त्रिणेत्रां युगभुजसहितां हारकेयूरभूष्यं दिव्यैर्वस्त्रापिधानं जटमकुटधनुं दामकल्हारभूष्यम् | शम्भुन्दक्षिणहस्तपार्वतीकं सर्वस्य संगृह्यताम् || टङ्कं कृष्णमृगाधरं वशकरं चूडेन्दुबा * * * * * * * | प्. १५२) देवन्दक्षिण हस्तपार्वतियुतं श्रीभूमि देव्याश्रियं धातावह्नि पुरातनं स्थितिहरिं वामेशहस्तोदकम् | घोषैर्वाद्य सगेयनृत्तविलसन् सर्वादि देवात् ऋषीन् स्तुत्या पुष्पकृताञ्जलिं परिवृतं कल्याणमूर्तिं भजेत् || ५ || || भिक्षाटनर् || भस्मोद्धूलनमङ्गविद्रुमनिभं पादाम्बुजं पादुकं रुद्राक्षेण विशेषभूषणयुतं शेषस्य कट्योभुजोभावृतम् | हस्तौ शूलकपालमन्यडमरुं दूर्वामृगस्यासनं यानन्ताग्न विकीर्णकेश सहितं भिक्षाटनं देवताम् || ६ || || कामारिध्यानम् || पुरते सहमुमया स्थितमञ्जलितं परममदनं दहनं वपुषम् | अपरस्य निरीक्षणमीशमुखं तद्दक्षिणयोगमिवान्यगुणम् || ७ || || कालान्तकर् || बन्धूकाभन्त्रिणेत्रां युगभुजसहितां शूलमुद्धृत्यहस्तं टङ्कं सूचिवरं सुपाशसयुतं भीष्मदंष्ट्रं सुवक्त्रम् | पादौ कुञ्चितवाममुद्धृततलं कालस्य वक्षस्थलः लङ्घ्यं भिन्नजटाधरं प्रणमतां कालान्तं दैवताम् || ८ || || त्रिपुरान्तकः || प्. १५३) एकवक्त्रं समायुक्तं चतुर्हस्तसमन्वितम् | धनुर्बाणसमायुक्तं मृगं परशुधारिणम् || ९ || उमयासहितं वामे देवं वै त्रिपुरान्तकम् | || जलधरम् || रक्ताभमुग्र तथा भवदस्तु तस्य टङ्कञ्च पञ्चहरिणी हतपल्लवेधृक् पूर्वे जलधरशयार्हत लर्घ्यचक्रं युक्तं जटाधरभानुं वह्निस्वरूपक | || गजसंहारम् || स्थित्वा हस्तिशिरोर्ध्वसव्यचरणं वामाङ्घ्रिवक्त्रोद्धृतं पुच्छोर्ध्वावृत चर्ममुद्धृतकरं शूलासिभं शृङ्गकम् | पाशं खेटकपालमष्टभुजयुक् भीष्माननेन प्रभा वामे गौरि भयामुखी सुतयुतं मूर्ध्वस्य हस्तं हरम् || ११ || || वीरभद्रध्यानम् || श्वेतात्कारं शेषभूषणधरं विन्यस्तवीणाधरं टङ्कं कृष्णमृगाधरं करयुगे शार्दूलचर्माम्बरम् | अर्धोन्मीलनलोचन त्रिययुतं मौलीजटाबन्धकं वन्दे सन्तत वीरभद्रचरण अम्भोरुहः पाहिमाम् || १२ || || हरिरर्धध्यानम् || वामपार्श्वे हरिं कुर्यात् दक्षिणे रुद्रमेव च | प्. १५४) हरिचक्रधरञ्चैव रुद्रं त्रिशूलधारिणम् | पीताम्बरधरं विष्णुं व्याघ्रचर्माम्बरं हरम् || विष्णुं किरीटसंयुक्तं शङ्करन्तु जटान्वितम् | तुलस्य मालिनं विष्णुं रुद्रं स्याद् बिल्वमालिनम् || विष्णुभूषणनीलञ्च शङ्करं स्फटिकन्तथा | पादुकोपरि पादौ च सर्वभूत समावृतम् || १३ || सर्वालङ्कार संयुक्तं शङ्करार्धेह विष्णुनाम् | || अर्धनारिध्यानम् || दक्षिणे कुञ्चितं पादं वामपादं ऋजु स्थितम् | मध्यकायां नरो नारी क्रमं कार्यं त्रिभङ्गिकम् || हरस्य दक्षिणे हस्ते त्रिशूलमुभयन्तथा | पार्वती वामभागे च पद्मञ्च कटिकास्तकम् || श्वेतवर्ण हरस्यन्तु उमायै श्यामवर्णकम् | व्याघ्रचर्माम्बरं शम्भुं पीताम्बर महेश्वरीम् || हरस्य दक्षिणे कर्णे सर्पकुण्डल संयुतम् | उमायै वामकर्णेन स्वर्णकुन्तलमेव च || रुद्रस्य बिल्वमालायां शङ्करी जाजिपुष्पकम् | शम्भो जटधरञ्चैवा किरीटं शङ्करी तथा || प्. १५५) सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् | सर्वदेवाञ्जलिञ्चैव शङ्करार्धेह पार्वती || १४ || || किरातध्यानम् || रक्ताङ्गं द्विभुजं तथा शरधृतं मुक्तालकं संस्थितं मुग्राक्षद्वयसंयुतं विपुलवक्त्र वक्षविस्तीर्णकम् | मुक्तापुष्प सकर्ण भीषणधरं शार्दूलचर्माम्बरं बद्धौ पाद विराजितोदरमभिध्यायेत् किरातवरम् || १५ || || कङ्कालध्यानम् || भस्माङ्कलेन करं त्रिपुण्ड्रविलसत् सिन्धूरचित्रान्वितं डक्कावामकरेषु सव्यप्रहरं चर्माम्बरैश्शोभितम् | शूला * स्यलम्बितकरं चूडेन्दुबद्धस्फुरत् यानं सेन्द्रपुरे चरोषधिसुरे भूतादि लीलावृतम् || १६ || || चण्डेशानुग्रहध्यानम् || चण्डेशं पीतवस्त्रं करतलयुगलैर्नेत्र युग्मञ्च मन्ये वामां सव्यकृताञ्जलि करौ देवासनायोस्तितम् | देवीं देवसुखासनेन विलसद्देवेशयोर्मध्यमे चण्डेशान्मकुटस्य शम्भुकरतलः धृत्वा सुतानुग्रहम् || १७ || || विषापहरणम् || प्. १५६) भानुनिभवेदकर वह्निनयनं स्यात् दक्षिणेकरे तु विष भक्षण वरदस्तम् | रक्तवसनान्वित जटालम्बयुक्तं भीमवदनान्वित विषापहररूपम् || १८ || || चक्रप्रदानम् || विद्याद्वादश पुरे हृदाञ्जलि कृतौ देवस्य पादाब्जयोः पश्याक्षान् कटकासितेन फलसत् मौल्याम्बराकौस्तुभम् | स्थित्वा देवरुणाभशोभित तनुं विष्णुश्च पद्मोज्वलं टङ्कं कृष्णमृगं वराभयकरं चक्रप्रसादं हरम् || १९ || || विघ्नप्रसादध्यानम् || विघ्नेशं रक्तवर्णं भुजगसहितं श्यामवर्णन्त्रिणेत्रं इक्षुः कल्पसुधारयेक दण्डक बहुं हस्तस्य प्रापाधरं | विघ्नप्रसादं हरम् * * * * * * * * * * * * * * * || २० || || सोमास्कन्दध्यानम् || उद्यद्भानुनिभांशतक्षर युगं केयूर हारादिभिः दिव्यैर्वस्त्राभिधानैर्जटमकुटलसत् नेत्रत्रयं शोभितम् | वामे गौरियुतं सुखासनभयो मध्ये कुमारस्थितं सोमास्कन्देशरूपं मृगवरदभयाटङ्कं बिभ्राणमेवम् || प्. १५७) || एकपादः || धवलाभस्वरूपमहेशगुणं करषट्कलोचनानन्दयुतम् | हरिणी मृगटङ्क भयावरदं करमेव महेश्वर मेकपदाम् || २२ || || सुखासन ध्यानम् || अरुणाभसुभस्म विलोचनस्रुक् हरिणी मृगटङ्कभयावरदम् | करमेवरुणाम्बरशोभलसत् गुणयेत् सुखासनरूमिपदम् || || दक्षिणामूर्तिध्यानम् || जानूर्ध्वेकपादं पदमिदं भस्मरे देहनियं स्थित्वा न्यग्रोधमूले मुनिजनमनिशं वेदमध्यावहन्तम् व्याघ्रत्वग्वस्त्रमस्त्रं स्फटिक जपगुणं ज्ञानमुद्राक्षमालां अग्निश्वेतं त्रिणेत्रं कपिलजटधरं दक्षिणामूर्तिमीशम् | || लिङ्गोद्भवध्यानम् || लिङ्गं स्याभ्यन्तरे दृशतहरिभुवनाधोमुखं स्यात् द्वारहन्ता दूर्ध्वे कमलजनु साहंसरूपान् सुशोभैः | तन्मध्ये शैवमूर्तिं स्थितमनलनिभं व्याघ्रचर्माम्बरस्थं टङ्कं कृष्णमृगं वराभयकरे लिङ्गोद्भवं पाहिमाम् || सुन्दरं सोमधारी च वृषारूढमुमासहम् | गङ्गाधरञ्च पञ्चैते ईशानोख्य समुद्भवा || प्. १५८) अर्धनारि हरिरार्धं सोमास्कन्देश विघ्नकम् | चक्रप्रसादं पञ्चैते पुरुषस्याननोद्भवा || कामहा कालहारी च त्रिपुरघ्नश्च वीरकम् | ज्ञानमूर्तिं गजारि स्यात् घोरवक्त्रेषु च षष्टकम् || भिक्षानटन कङ्कालं किरातार्जुनमेव चा | विषापहरणं नृत्तं वामवक्त्रे तु पञ्चकम् || लिङ्गोद्भवञ्च चण्डेशं एकपादं सुखासनम् | सद्योजातन्तु वक्त्राणां चतुर्थन्तु प्रकीर्तिता || इत्येवं पञ्चविंशत्यां विग्रहस्यं पुटस्य च | || सृष्टि स्थितिरूपम् || भिक्षाटनञ्च कङ्कालं वीरभद्रन्तथैव चा | कल्याणसुन्दरञ्चैव चन्द्रशेखरमेव चा || गङ्गाधरञ्च पञ्चैते सृष्टिरूपं प्रकीर्तिताः | स्तितिरूपम् भिक्षाटनञ्च कङ्कालं वीरभद्रन्तथैव चा | एकपादं वृषारूढं स्थितिरूपं प्रकीर्तितम् || || संहाररूपम् || गजारित्रिपुरघ्नश्च मन्मथस्थिति नाशनम् | प्. १५९) कङ्कालहारिणञ्चैव दक्षिणामूर्तिरेव च | इत्येवं पञ्चमूर्तिञ्च संहारञ्चेति कथ्यते || || तिरोभावरूपम् || किरातं नृत्तरूपञ्च हरिहर्यविषान्तकम् | लिङ्गोद्भवस्य पञ्चैते तिरोभावं प्रकीर्तितम् || || अनुग्रहरूपम् || चक्रप्रसादविघ्नश्च चण्डेशानुग्रहं भवेत् | सोमास्कन्दमिति प्रोक्तं अर्धनारी तथैव चा || ३१ || इत्येवं पञ्चमूर्तिञ्च अनुग्रहमिति स्मृतम् | डमरुं सृष्टिरूपञ्च अघोरञ्चाग्निरूपकम् | स्थिति रूपं भुजङ्गं स्यात् तिरोभावन्तु कुञ्चितम् || ३२ || अभयं अनुग्रहञ्चैवा पञ्चकृत्यात्मरूपकम् | अङ्कुरार्पणकल्याणं ध्वजारोहणमेव चा | रक्षाबन्धनमित्युक्तं शुद्धं?दा हृदम् || वाहनोत्सवसंयुक्तं होमकर्मं तथैव च | बलिभ्रमणसंयुक्तं स्थिति कर्मं प्रकीर्तितः || रजनी चूर्णसंयुक्तं रथारोहणमेव च | कालागारोत्सवं कुर्यात् संहारञ्च प्रकीर्तितम् || प्. १६०) मौनोत्सवं तिरोभावं शक्तियात्रमनुग्रहम् | सर्वे भक्तिजनानान्तु सेवितं भक्तिमार्गतः || स्नानदानन्तरगतं सृष्टि स्थिति कौतुक * | बन्धयेन्मिहरमागरुं प्रोक्तं तिरः कल्पूर लेपनम् || अनुग्रहकरं प्रोक्तं प्रभाते नृत्तदर्शनम् | || नित्योत्सव पञ्चकृत्यम् || पूजा नैवेद्य सृष्टिञ्च स्थिति श्रीबलिनायकम् | धूपदीपबलिहोमं संहारञ्चेति कथ्यते | शिबिकादितिरोभावं क्षेत्रपालमनुग्रहम् || इत्येवं नित्यपञ्चैते विधिः क्रमः प्रकीर्तितः | || ईशानमूर्ध्वमुखध्यानम् || दशबाहुन्त्रिणेत्रञ्च पञ्चवक्त्रं जटाधरम् | वज्रं शूलञ्च खड्गञ्च शक्तिञ्चाभय दक्षिणे || पाशाङ्कुशं डमरुं दधानं वरपाणिभिः | माणिक्य मकुटञ्चैवा हेमाङ्गुल्यादि भूषणम् || सौम्यं स्फटिकवर्णाभं ईशानं मूर्तिरूपकम् || १ || || तत्पूरुपूर्वमुखध्यानम् || पूरुषं कुङ्कुमाकारं चतुर्वक्त्रं चतुर्भुजम् | प्. १६१) सव्ये वाम दधत् टङ्कं शूलं डमरुकन्तथा | गदात्रिणेत्रसौम्यञ्च किञ्चित्प्रहसिताननम् || हेमाङ्गुलीयकञ्चैवा हेमवसोत्तरीयकम् | मुक्ताहारकिरीटञ्च माणिक्यमणिभूषणम् || इत्येतत्पुरुषमन्त्रस्स्यात् मन्त्रमूर्ति स्वरूपकम् | || दक्षिणे दघोरध्यानम् || अघोरन्दष्ट्रिणं भीमं रक्ताननसमप्रभम् | अष्टबाहुन्त्रिणेत्रञ्च चतुर्वक्त्रञ्जटाधरम् || रक्ताम्बरधरञ्चैव रक्तवस्त्रोत्तरीयकम् | रक्तचन्दनलिप्ताङ्गं रक्तमाल्यादिभूषणम् || शूलभेतालखड्गञ्च दक्षं चक्रकरे तथा | नागं खेटञ्च बाणञ्च विस्मितं वामपाणिभिः || नीलाङ्गुलीययकञ्चैव नागयज्ञोपवीतिनम् | एवं पञ्चमघोरञ्च पञ्चमूर्ति स्वरूपकम् || || उत्तरे वामदेवध्यानम् || वामदेवोद्भवं रक्तं चतुर्वक्त्रं चतुर्भुजम् | मञ्जीरकङ्कणोद्भासि कटिसूत्रोत्तरीयकम् || रक्तचन्दनकञ्चैव हेमयज्ञोपवीतिनम् | प्. १६२) वरदाभयसमायुक्तं पाशटङ्ककराम्बुजम् | त्रिणेत्रं त्रिविलासञ्च कर्णकुण्डलमण्डितम् || इत्येवं वामदेवं स्यात् मन्त्रमूर्ति स्वरूपकम् || ४ || || पश्चिमे सद्योजातध्यानम् || शुद्धस्फटिकसङ्काशं चतुर्वक्त्रञ्चतुर्भुजम् | हारकेयूरकटकं कुण्डलाभरणोज्वलम् || गोमेधिक किरीटञ्च श्वेतवस्त्रोत्तरीयकम् | खेटं टङ्कसमायुक्तं वरदाभयपाणिनम् || बालेन्दुशेखरं विद्यात् सद्योजातन्तु मूर्तितम् || ५ || || पातालमुखध्यानम् || यंव्वेदादि अनन्तरूपमगुणं सम्पूजितां चामरै पुन्नागार्क पुष्पवकुलं नागासुरात् पूजिते | नित्यं भानुसहस्रदीप्तकोटिकिरणं कालाग्निरुद्रोपमं तत्साहारहरन्नमामि सततं पातालषष्ठं मुखम् || ६ || || पञ्चमुखसञ्चारम् || आसनं शयनं नृत्तं आरूढं गमनोन्मते | पूजाकाले सुखासीनं अन्यकाले तु पूर्ववत् || ७ || || पञ्चमुखवर्णम् || प्. १६३) ईशानं स्फटिकाभासं पूरुषं कुङ्कुमप्रभम् | अघोरमञ्जनाभासं वामदेवन्तु रत्नकम् || सद्योजातन्तु श्वेतं स्यात् पञ्चवक्त्रेषु जायते || ८ || || दिव्यलिङ्गध्यानम् || पीठं अस्याधरित्रि जलधरकलशं लिङ्गमाकाशमूर्तिं नक्षत्रं पुष्पमाल्यां ग्रहगणकुसुमं नेत्रचन्द्रार्कवह्निम् | कुक्षौ सप्तसमुद्रं भुजगिरिशिखरं सप्तपातालपादं वेदं शास्त्रं षडङ्गं दशदिशिवदनं दिव्यलिङ्गन्नमामि || ९ || || रुद्रध्यानम् || पञ्चाननन्दशभुजं पररक्तदेहं पाशाङ्कुशावरधृतखेटकञ्च | शूलासिबाणधनुषे दधतञ्च * * * * * * दामहे वरतनुं शिवयेवरुद्रम् || || प्रासादाधिपतिध्यानम् || द्विभुजञ्चाद्विनेत्रञ्च टङ्कपाशशरस्तथा | उग्रदंष्ट्रि समायुक्तं भीमरूपं महाबलम् || सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् | प्रासादाभिमुखं सर्वे तीक्ष्णदंष्ट्रोत्कटाननम् || ११ || || चन्द्रशेखरध्यानम् || एकमुखवेदकरविद्रुमसहासं कृष्णमृगटङ्कवरदाभय चतुष्कम् प्. १६४) लोचनन्त्रितयसितवस्त्रपरिधानं चन्द्रयतमौलि सहगौरिसूनुम् || १२ || || लिङ्गोद्भवम् || लिङ्गं कृत्वोत्थितोब्रह्म हंसरूपन्तथैव च | विष्णुं वराहकल्पन्तु लिङ्गस्याधः प्रकल्पयेत् || हृदयाञ्जलि संयुक्तं ब्रह्माविष्णुद्विपार्श्वयोः | लिङ्गमध्ये तु कर्तव्यं पूर्ववच्चन्द्रशेखरम् || १३ || || आलिङ्गनचन्द्रशेखरध्यानम् || केवलङ्गौरिसहितं सहजं गौरिसंयुतम् | आलिङ्गञ्चैकहस्तेन देवीं देवौ परस्परम् || (न्तु) तमालिङ्गमाख्यातं एवं त्रिविधमुच्यते || १४ || || परमेश्वरध्यानम् || करकलितकपालं कामनीवामभागं शशिशिरसिजूटं नीलकण्ठन्त्रिणेत्रम् | फणिमणिकृतरत्नं स्वर्णदेशेकब * * * * * * * * * * * * सन्ततं चिन्तयामि || १५ || || पार्वतीश्वरध्यानम् || शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रन्त्रिणेत्रं शूलं वज्रञ्चखड्गं परशुमभयतं वामभागे वहन्तम् | प्. १६५) नागं पाशञ्च खण्टां अनलसहयुतं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशन्नमामि || १६ || || शिवध्यानम् || इन्दुनिभपञ्चमुखहस्तदशयुक्तं शूलमृगटङ्कमहिवज्रमभयं स्यात् | पाशवरदाङ्कुशमणिर्दहतिवामे श्वेतकमलासन सदाशिवस्वरूपम् || १७ || || अन्नलिङ्गध्यानम् || चतुर्भुजन्त्रिणेत्रञ्च जटाखण्डेन्दु मण्डितम् | हरिणीटङ्कसंयुक्तं बिल्वमालाविभूषितम् || १८ || अन्नलिङ्गमिति ध्यात्वा सर्वमन्त्रेणपूजयेत् | || द्वादशविग्रहभेदम् || प्रथमन्तु महादेवं द्वितीयन्तु महेश्वरम् | तृतीयं शङ्करञ्चैवा चतुर्थं वृषभध्वजम् || पञ्चमं शूलपाणिं स्यात् षष्ठं कामाङ्गनाशनम् | सप्तमं देवदेवेशं श्रीकण्ठञ्च तथाष्टकम् || नवमं ईश्वरं प्रोक्तं दशमं पार्वतिप्रियम् | एकादशं रुद्रमेवन्तु द्वादशं शिवमेव चा || येते द्वादशभेदानि ध्यात्वा मन्त्रमनुस्मरन् || १९ || || सोमास्कन्दध्यानम् || प्. १६६) दक्षालम्बित वामनिद्रितपदं कृष्णं मृगञ्चाभयं टङ्कञ्चन्द्रधरं वरञ्चकटकं बिभ्राणकं वामके | वामे लम्बितनिद्रितान्यपदयो देव्यायुतोमध्यता स्कन्देनाब्जकरद्वयेन सहितं सोमं गुहेशं भजे || १ || || षट्त्रिंशद्विग्रहभेदम् || सदाशिवं प्रधानन्तु लिङ्गोद्भवमतः परम् | चन्द्रशेखरमाख्यातं दक्षिणामूर्तिमेव च || देवार्तिहरणं पश्चात् कालनिग्रहमेव चा | कल्याणसुन्दरञ्चैवमुमया सहितं तथा || सोमास्कन्दं वृषारूढं त्रिपुरान्तकमेव चा | हर्यर्थमर्धनारी च कङ्कालन्नृत्तरूपकम् || भिक्षाटकञ्चकामारि अघोरास्त्रसुखासनम् | त्रिमूर्तिमेकपादञ्च गङ्गाधरः मतः परम् || चण्डेशानुग्रहञ्चैवा आदिचण्डेश्वरं वरम् | गजघ्नं ब्रह्ममूर्तिञ्च विष्णुमूर्तिं तथैव चा || स्कन्दञ्च शिवसूर्यञ्च विघ्नेशं क्षेत्रपालकम् | भैरवं भैरवाकारं आपमुद्धारणन्तथा || किरातकं भैषजञ्चैवा षट्त्रिंशद्रूपमुच्यते | प्. १६७) || सदाशिवरूपम् || पञ्चास्यं दशहस्तवक्षनयनं सव्येऽभयं शूलकं वज्रं शक्तिभुजंङ्गमौ च दधतं वामे वरं पाशकम् | घण्टामङ्कुश टङ्कमर्जुनकरं प्रीतासिते शोभितं श्वेतं विभ्रतमाननं हृदि भजे सदाशिवं विग्रहम् || १ || || लिङ्गोद्भवम् || देवं गर्भगृहस्य मानकलितं लिङ्गेजटाशेखरं कट्यासक्तकरं सदत्रदधतं कृष्णं मृगञ्चाभयम् | सव्ये टङ्कममेय पादमकुटं ब्रह्माच्युताभ्यायुतं ऊर्ध्वाधस्थित हंसकोलममलं लिङ्गोद्भवं भावयेत् || २ || || चन्द्रशेखरम् || अरुणमणिनिभाङ्गं चन्द्रचूडन्त्रिणेत्रं हरिणपरशुविभ्रत् शक्तिमालिङ्गवामे | अभयवरदयुक्तं हारकेयूरभूष्यं सितकमलदलाग्रे सोमधारिस्वरूपम् || ३ || || दक्षिणामूर्तिः || भस्मव्यापाण्डरागं शशिशकलधरो ज्ञानमुद्राक्षमालां वीणापुस्तैर्विराजित्कमलमुनिवरं सेवितं सुप्रसन्नम् | सव्याधः कृत्तिवासः सदनुममतुमां दक्षिणामूर्तिदेवम् || ४ || प्. १६८) कालनिग्रहम् || संविभ्रत्परशुञ्च शूलकमलं * * * * श्रीकालनाथोऽवदत् || ५ || || कल्याणसुन्दरम् || सिन्धूराभां त्रिणेत्रां * * * * * नौमिकल्याणदेवम् || ६ || || उमयासहितम् || पद्मासीनसुखासनन्त्रिणयनं सन्धिस्थगौरीमुखं मन्दस्मेरमुखं जटामकुटितं खण्डेन्दु मौलीयुतम् | वामालिङ्गित वाममन्यकरयोष्टङ्कं मृगं विभ्रतं सेव्यंस्सव्यकराभय प्रदमुमायुक्तं महेशं भजे || ७ || || सोमास्कन्दः || दक्षालम्बितवामनि * * * * * * * * * * सोमं गुहेशं भजे || ८ || || वृषारूढम् || वृषशिरसि विराजित् सव्यबाहुन्त्रिणेत्रं वरकरनिहितोरुः कुञ्चिताङ्घ्रिन्तुवामे | सितसमपदयुक्तं सव्यजङ्घेतरस्थः परशु हरिणयुक्तोव्यावृषारूढदेवः || ९ || || त्रिपुरान्तकम् || विद्रुमविलसत् त्रिणेत्रकं * * * * * नौमिहासपुरदाहकमीडे || १० || प्. १६९) || हर्यर्थः || सव्याङ्गे विद्रुमाभं * * * * * * * हर्यर्थदेवम् || ११ || || अर्धनारीश्वरम् || पुंस्त्रीरूपधरं * * * * * * * * वन्देऽर्धनारीश्वरम् || १२ || || कङ्कालम् || रक्ताभं स्मितवक्त्रमिन्दुमकुटं * * * * * कङ्कालदेवं भजे || १३ || || भिक्षाटकर् || सारागस्य तु दूर्वाकुरः विदधतं सव्यहस्तेनशूलं कर्णेक्षिप्त्वातुराणां कलितकंठिनतन्मूलमन्यद्विहस्ते | संविभ्राणकं कपालं डमरुकममलं पादुकास्सक्तपादं नग्नस्त्रीमोहकाङ्गं प्रमथगणयुतं नौमि भिक्षाटनेशम् || १४ || || अघोरास्त्रम् || सजलघनसमानं भीमदंष्ट्रं त्रिणेत्रं भुजगधरमघोरं रक्तवस्त्राङ्गरागम् | परशुडमरुघण्टां खेटकं बाणचापौ त्रिशिखिनरकपोलं विभ्रतं भावयामि || १ || || त्रिमूर्तिः || एकाङ्घ्रींब्ज द्विपार्श्वे कटितटिघटितं स्वायुतं ब्रह्मविष्णुं प्रीत्यर्थं स्तञ्जलीढ्यं रुचिरकटितटे कुञ्चिताङ्घ्रीं द्व्याढ्यम् | रक्तत्रियक्षदधानं वरदमभयदं टङ्कमेनाकराल्यां प्. १७०) भास्वन्तं चन्द्रचूढं भजतुसुरपदं सत्रिपादं त्रिमूर्तिम् || १६ || || आदिचण्डेश्वरः || पीताभं त्रिविलोचनं शशियुतं सव्येऽक्षमालाधरं सव्योर्ध्वे परशुन्दधानमपगन्धित्रिशूलं वरम् | सव्ये लम्ब्यपदं शृणीकृतपदं वामे तु देव्यायुतं दिव्यं कुण्डलमण्डिताननमहं नौम्यादि चण्डेश्वरम् || १७ || || ब्रह्मा || पीताभं चतुराननं श्रुतिभुजं दिव्यं जटाशेखरं द्विन्नेत्रं कमयान्वितकरं गन्ध्याक्षमालाधरम् | केयूरादिभूषणं सुखरं पीताम्बरालङ्कृतं हंसारूढमहं विसृष्टिसहितं ब्रह्माणमीशं भजे || १८ || श्यामाभं दिविलोचनं श्रुतिकरं पीताम्बरालङ्कृतं सव्ये चक्रमभीतिकरयोः शङ्खं गदाबिभ्रतं वामे पद्मसुखासनं कमलयायुक्तं स्थितः कारणम् | राजत्कुण्डलरक्तदीप्तिमकुटं श्रीविष्णुदेवं भजे || १९ || || रुद्रमूर्तिः || त्रिशिरसमरुणाभं नागभूष्येकपर्दीं ज्वलतंमकुटमीशं चन्द्रमौलीं सुरेशम् | त्रिशिखमभयमब्जा साक्षमालाकराब्जैर्दधतमनुदिनन्तं रुद्रदेवं भजेऽहम् || प्. १७१) || स्कन्दम् || विद्रुमप्रभमेकमुखं विभुं वज्रशक्तिवरदाभयपाणिनम् | देवलोमकरिपुघ्नतोस्म्यहं नौमिरुद्रभुवं शिखिवाहनम् || २१ || || शिवसूर्यः || पद्मासनं रक्ततनुन्त्रिणेत्रं श्वेताब्जयुक्तं सहहस्तयुग्मं रक्ताम्बरालेपनमाल्यभूष्यं सितंस्विमाङ्गै शिवसूर्यमीडे || २२ || || विघ्नेश्वरम् || एकास्यं त्रिविलोचनं गजमुखं रक्तञ्चतुर्हस्तकं वामे लड्डुकपाशमन्यकरयो दन्ताङ्कुशं बिभ्रतम् | वामे निद्रित पादमन्यचरणं ह्युद्धृत्यविन्यस्तकं ह्रस्वं तुन्दिल शूर्पकर्णमनिशं विघ्नेश्वरं भावयेत् || २३ || || क्षेत्रपालम् || रक्तज्वालजटाधरं त्रिणयनं दंष्ट्राकरालान्वितं हस्ते पाशकपालशूलडमरुं दक्षोन्यतं बिभ्रतम् | नग्नन्तुन्नाग विभूषितं सुनयनं कृष्णं सुवृत्तेक्षणं घण्टापानसमेन जंघममलं क्षेत्रस्यपालं शिवम् || २४ || पादौ पादुकभूषितौ प्रतिपदन्न्यात्वणं नूपुरौ हस्ते शूलकपालकं डमरुकं कर्णौ च ताटङ्किनौ | प्. १७२) गात्रं कञ्चुकलम्बितं सतिलकं वक्त्रञ्च वक्त्रालकं यस्यस्तोधरणिमने धृततनुं तं भैरवं भावयेत् || २५ || कृष्णाभं ज्वालकेशं त्रिणयनमुरगिभूषणं रक्तनेत्रं दिग्बाहुञ्चन्द्रचूडं त्रिशिखडमरुकं खड्गबाणौ च सव्ये | घण्टापाशौ कपालं धनुरवरकरे बिभ्रतं मुण्डमालां नग्नोरौद्रं सुदंष्ट्रं दनुजमदहनं भैरवाकारमीडे || २६ || || आपदुद्धारणम् || उद्यद्भास्करसन्निभं त्रिणयनं फुल्लोल्लसत्कुन्तलं फालन्दण्डकपालपाणि युगलं ताटङ्ककर्णोज्वलम् | हर्यक्षाजिनकञ्चुकं विपनसं जान्वन्तकान्तक्षणं कर्णादात्मकृतोपवीतमनिशं नौम्यापदुद्धारणम् || २७ || षड्विग्रहविषट्त्रिंशत् विग्रहध्यानं समाप्तः || लिङ्गलिङ्गोद्भवञ्चैवा मुखलिङ्गं सदाशिवम् | महासदाशिवञ्चैवा उमामहेश्वरमतः परम् || सुखासीनमुमेशञ्च सोमास्कन्दं तथैव च | चन्द्रशेखरमूर्तिञ्च वृषारूढं वृषान्तकम् || भुजङ्गं ललितञ्चैवा भुजङ्गात्रा समेव च | सन्ध्यानृत्तं सदानृत्तं ताण्डवं जाह्नवी तथा || प्. १७३) गङ्गाविसर्जनञ्चैवा त्रिपुरान्तकमेव चा | कल्याणसुन्दरञ्चैव अर्धनारीश्वरन्तथा || गजायुधं ज्वरापघ्नं शार्दूलाहारविग्रहम् | तथा पाशुपतञ्चैवा कङ्कालं केशवार्थकम् || भिक्षाटनञ्च सिंहघ्नं चण्डेश्वर प्रसादकम् | दक्षिणामूर्तिरूपञ्च योगवीणाधरन्तथा || कालान्तकञ्च कामारिलकुबेरञ्च भैरवम् | आपदुद्धारणञ्चैवा वटुकक्षेत्रपालकम् || वीरभद्रमघोरास्त्रं दक्षयज्ञहरन्तथा | किरातकं गुरुमूर्तिं स्यात् अश्वारूढं गजान्तकम् || जलन्धरवधञ्चैवा एकपादन्त्रिमूर्तिकम् | त्रिमूर्तिरेकपादञ्च तथा गौरी वरप्रदम् || चक्रदान स्वरूपञ्च गौरिलीलासमन्वितम् | विषापहरणञ्चैव गारुडं दाहमेव च || तथा ब्रह्मशिरश्छेदं कूर्मसंहारमेव चा | मत्स्यारिञ्च वराहारिं प्रार्थनामूर्तिमेव चा || रक्तभिक्षाप्रधानञ्चा शिष्यभावन्तथैव च | षडाननं तथा चैवमष्टाषड्विग्रहन्तथा || प्. १७४) || लिङ्गध्यानम् || निराकारं ज्योतिर्मयं कमलमन्यस्तममलं महास्थूलं निरामयमन्यंन्तरुचिरं महानादं लिङ्गं शमधनमुनिमध्येयमतुलम् | मनोमार्गातीतं हरिहरनुतं नौमि हृदये || १ || || लिङ्गोद्भवम् || देवङ्गर्भगृहस्यमान * * * * * * लिङ्गोद्भवं भावयेत् || २ || || मुखलिङ्गध्यानम् || लिङ्गे दिक्षुचतुर्मुखं तदुपरिस्थित्याननं निर्मलं पक्षाक्षं शशिधृक् जटामकुटयुक् गङ्गाधरं पाण्डुरम् | पञ्चस्कन्धसमन्वितं कनकभं कृष्णासितं रक्तभं श्वेतं पूर्वमुखादिषु स्फुटतलं तद्वक्त्रिलिङ्गं भजे || ३ || || सदाशिवम् || पञ्चास्यं दशहस्तवक्षनयनं सव्येऽभयं शूलकं वज्रं शक्तिभुजंगमौलि दधतं वामे वरं पाशकम् | घण्टामङ्कुशटङ्कमर्जुनकरं पीतासिते शोभितं श्वेतं बिभ्रतमाननं हृदिभजे सदाशिवं विग्रहम् || ४ || || महासदाशिवम् || प्रसन्नपञ्चविंशति स्फुटाननं जटाधरं सपञ्चसप्ततीक्षणंकपोलकुण्डलाकृतिम् प्. १७५) शतार्धहस्तभूषितं वराभयान्वितंसितं भुजङ्गभूषणं परं भजे महासदाशिवम् || ५ || || उमामहेश्वरम् || रक्तं त्रिणेत्रं शयितं विलम्बितं वामे तु सव्ये वरदन्दधानम् | वन्यक्षमालावरशूलमीडे उमामहेशं गिरिजासमेतम् || ६ || || सुखासीनम् || शान्तं श्वेतं त्रिणेत्रं गजभुजसहितं कुण्डलोल्लासिकर्णं दण्डं घण्टाङ्कुशाग्निं परशुफणिवरा भीतिमप्यादधानम् | बिभ्राणं सव्यपादं शयितमपरतो लम्बितं वामपादं वामे गौर्यासमेतं शशिधरमकुटं तं सुखासीनमीडे || ७ || || उमयासहितम् || धवलाभसुखासनशक्तियुतं हरिणीमृगटङ्काभयवरदम् | सुमखीकरमुत्पलदृग्वरदं हृदये तु भजेदुमयासहितम् || ८ || || सोमास्कन्दः || एकमुखवेदकर शक्तिगुहयुक्तम् || ९ || || चन्द्रशेखरः || विपुलवदननेत्रं सौम्यशृङ्गारभावं समतनुसमपादं स्थानकं विद्रुमाभम् | अभयवरदहस्तं मौलिबद्धेन्दुरेखा परशुहरिणयुक्तं सोमधारिस्वरूपम् || || वृषारूढध्यानम् || प्. १७६) सव्येस्याद्वक्त्रदण्डान्वित कटककरे * * * तं वृषारूढमीडे || ११ || || वृषान्तिकः || वृषशिरसि विराजित्सव्यबाहुन्त्रिणेत्रं वरकरनिहितोरुः कुञ्चिताङ्घ्रिन्तु वामे | स्थितपदसमयुक्तं सव्यजङ्घेतराप्ताः परशुमृगधृगव्यांन्न्रावृषान्तस्थदेवः || १२ || || भुजङ्गललितनृत्तध्यानम् || एकास्यन्तु चतुर्भुजं त्रिणयनं वामे च दुत्तूरकं चन्द्रं पत्रशिखि प्रसारितकरं चोर्ध्वं पदं कुञ्चितम् | सव्ये स्वस्तिककुण्डले डमरुकं गङ्गाभये बिभ्रतं वन्दे नृत्तलसद्भुजंगललितं भूतोपरिस्थं शिवम् || || धनुर्भुजङ्गत्रास नृत्तध्यानम् || दक्षे डिण्डिभुजङ्गयुक्तमपरे वह्निञ्च सूचीकरं बिभ्राणं करपङ्कजैः समपदं पीठेस्थितं चञ्चलम् | संयक्बन्धकपर्दिनं त्रिणयनं गङ्गेन्दुचूडाशिवं वन्दे त्रासभुजङ्गताण्डवपुरं शार्दूलचर्माम्बरम् || १४ || || सन्ध्यानृत्तम् || प्. १७७) एकं वाममदस्यकुञ्चितपदं त्वन्येनभूतस्थितो व्यात्यासेन भुजङ्गप्रासार्धडमरिं व्यावर्तिनः पाणिनः | अम्बावक्त्र सरोरुहेक्षणदिशा सानन्दमन्दस्थितं भाव्यस्सन्धितताण्डवं प्रकटयन् नाट्ये नटः पान्तु नः || १५ || एकास्यन्तु चतुर्भुजन्त्रिणयनं वामे च दुत्तूरकं चन्द्रं पत्रशिखिप्रसारितकरं चोर्ध्वं पदं कुञ्चितम् | सव्ये स्वस्तिककुण्डले डमरुकं गङ्गाभये बिभृतं भूतस्थायुगपार्श्वविस्तृतजटं वन्दे सदा ताण्डवम् || १६ || || कालिताण्डवम् || किञ्चित् कुञ्चित वामपादनिचिरं मञ्जीरमञ्जित्वणं चञ्चत्काञ्चन किङ्किणीरणरणत् कारांशु चन्द्राननम् | कालीताण्डवखण्डनं प्रविलसत् रक्तोज्वलं कुण्डलं चण्डं रक्षन्तु चण्डिका प्रतिकृतं सम्पत्करं ताण्डवम् || १७ || || गङ्गाधरः || शान्तं योगासनस्थं शशिधरममलं योगपट्टावृताङ्गं टङ्कं व्याख्ये कुरङ्गं वरमपि दधतं सव्यमङ्मन्त्रिणेत्रम् | लम्बिता चूडिताङ्गं ममलसुरद्वन्दितं सव्यभागे वहन्तीं प्. १७८) गौर्या वामे समेतं भसितसितनुं नौमिगङ्गाधरेशम् || १८ || || गङ्गाविसर्जनम् || पद्मस्थं शान्तरूपं स्फटिकमणिनिभं बिभ्रतं टङ्कशूलं वामे दक्षोऽभयाङ्कं परिवरधृतजटं तत्सहस्रांशकोट्यै | भागीरथ्यां विसृष्टिं विदधतमपरे सांद्रषट्चक्रयुक्तं वन्दे गङ्गाविसर्गं रुचिरगिरिजया वामभागे समेतम् || १९ || || त्रिपुरान्तकम् || रक्ताभं परिपूर्णचन्द्रवदनं कृष्णं मृगं कार्मुकं वामे सव्यकरे शरञ्च दधतं टङ्कञ्च वामे युतम् | गौर्याचन्द्रकलाधरं हरिविरिञ्चाद्यैस्सुरैस्सेवितं हासान्धपुरत्रियं त्रिणयनं देवं पुरारिम्भजे || २० || || कल्याणसुन्दरम् || कुन्दाभन्तरूणेन्दु चूडमकुटं * * * सितमुखं कल्याणदेवं भजे || २१ || || अर्धनारीश्वरम् || पुंस्त्रीरूपतनौ शशिजटा * * * * * * * * वन्देऽर्धनारीश्वरम् || २२ || || गजारीश्वरः || स्थित्वाहस्तिशिरस्थ सव्यचरणं वामाङ्घ्रिवक्त्रोद्धृतं प्. १७९) पुच्छोर्ध्वावृतचर्मधृग्युगकरं शूलासिशृङ्गोज्वलम् | वामे खेटकपालपाशधरकं दंष्ट्रान्वितं रक्तभं देव्याभीति गुहाप्तया च सहितं देवं गजारिभजे || २३ || || ज्वरापघ्नम् || त्र्यस्यां रुद्रविलोचनं गुणभुजं घोरत्रिपादंसितं सव्येडिण्डिमगर्मप्रसारितकरं वह्निञ्च वामे दधत् | वामे स्वस्तिकमुद्धृतं पदमयोविन्यस्त पादद्वयं भस्मोद्धूलित वर्षलम्बितजटं रूपं ज्वरेशंभजे || २४ || || शार्दूलहरः || पापाण्डुकञ्चुकन्त्रिणयनं वृक्तालकालङ्कृतं शार्दूलास्य विहारि हस्तयुगलं सव्येद्धृताब्जा परे | सूची मूषिककञ्चरक्षचरणेनक्रान्ततत्कन्दरं वन्दे कुञ्चितमन्यपाददधतं शार्दूलहारीश्वरम् || २५ || || पाशुपतेश्वरः || वक्त्रालकं रक्ततनुन्त्रिणेत्रं शूलाभयं वा डमरुञ्च वामे | बिभ्राणमाद्यं शशिखण्डचूडं वामे करे पाशुपतास्त्रयुक्तम् || सव्येर्जुनञ्चाञ्जलि हस्तयुक्त वामेनुग्रहन्तमुपासमेतं प्. १८०) अस्त्रेणकोट्यर्क समानभासां वन्देऽनिशं पाशुपते शमीशम् || २६ || || कङ्कालशिवम् || रक्ताभं स्मितवक्त्रमिन्दुमकुटं वामे तु दोर्दण्डके | * * * * * * * दधानमनिशं कङ्कालदेवं भजे || २७ || || हर्यर्थध्यानम् || सव्याङ्गे विद्रुमाभं * * * * * * * * वरकरयुतं नौमिहर्यर्थदेवम् || २८ || || भिक्षाटनम् || शुक्लाभं शुभलोचनं * * * * * * * भिक्षाटनेशं भजे || २९ || || सिंहघ्नदेवः || सिंहास्यं सूर्यचन्द्रानलनयनधरं ज्वालकेशं सुदंष्ट्रं पक्षद्वन्द्वेनयुक्तं सुखरविनुतं तत्पदं वेदहस्तम् | पादाक्रान्ते नृसिंहेस्युः रसिविदलत् पादपद्मद्वयाढ्यं नालशूलंकपालं दधतमपमो नारसिंहस्य देवम् || ३० || || चण्डेशानुग्रहः || त्र्यक्षं चन्द्रार्धचूडं स्फटिकमणिनिभं टङ्ककृष्णं दधानं सव्येलम्ब्याङ्घ्रिशोभं शयितवरपदं पद्मपीठोपरिस्थम् | भक्ताभ्यां पुष्पमाल्यं सहयुगगिरिजं धारयन्तं वृषस्थं प्. १८१) सुच्छत्रं चण्डकर्णे सुरवरविनुतं चण्डनाथं भजेऽहम् || ३१ || || दक्षिणामूर्तिः || हुतवहमणिकोशं ज्ञानमुद्राकराग्रै सितमपि दधतं लम्बितं सव्यपादम् | शयितमपरपादं भूतसंस्थं त्रिणेत्रं गिरिवरनिरकस्थं दक्षिणामूर्तिमीडे || ३२ || || योगदक्षिणामूर्तिः || चिन्मुद्रामक्षमालां परशुमपिकरै सव्यवामे वहन्तं वामे भागे च जानुं परिनिहितकरं योगपट्टावृताङ्गम् | सव्येलम्ब्याङ्घ्रिपद्मं सनकमुखयुतं भूतपृष्ठस्थपादं शान्तं त्रैक्षं प्रसन्नं गिरिवरसहितं दक्षिणामूर्तिमीडे || ३३ || || वीणादक्षिणामूर्तिः || धवलरुचिरगात्रं सर्पराजोपवीतं शशिधरमथवह्निं चाक्षमालां वहन्तम् | स्फुरितकनकवीणा किञ्चिताकुञ्चिताङ्घ्रि गिरिवरशिखरस्थं दक्षिणामूर्तिदैवम् || ३ || || कालान्तकध्यानम् || नीलाभं रक्तनेत्रं ज्वलितकचधरं क्रूरदंष्ट्रं सुभीमं शूलं बाणञ्च खड्गं परशुमवितनुं खेटकं पाशमीडम् | प्. १८२) सूचीहस्तञ्च सव्ये परशुकरनिकरे बिभ्रतं कालकण्ठं ध्वंसद्वामाङ्घ्रि पद्मं मुनिजमृतिहरं कालकालन्नमामि || ३५ || || कामारिः || भस्मोद्धूलित विग्रहं शशिधरं वेणीजटामण्डितं टङ्कं कृष्णमृगौ दधानममलं वीरासने संस्थितम् | अर्केसव्यतलोपरीतरतलं विन्यस्सयोगेपरं व्याघ्रत्वग्वसनं ललाटसदृशं दग्धस्मरेशंभजे || ३६ || || लकुलीशः || शोणाङ्गं डमरुञ्च शूलमपरे वमेऽभयं कुण्ठिकां बिभ्राणस्मित भस्मराशितनुं पिङ्गोर्ध्वकेशावृतम् | त्र्यक्षं नीलगलं महोरगधरं हारादिभूषोज्वलं ध्यायामे लकुलीश्वरं सुरपतिं पद्मासनस्थं हृदि || ३७ || || भैरवः || रक्तज्वालजटाधरं त्रिणयनं दंष्ट्राकरालान्वितं हस्ते पाशकपालशूलडमरुं दक्षेऽन्यतो विभ्रतम् | * * * * नागभूषिततनुं कृष्णं सुवृक्तेक्षणं घण्टादामसमेन जंघममलं तं क्षेत्रपालं भजे || * * * * * * * * * * * || ३८ || प्. १८३) || आपदुद्धारणम् || उद्यद्भास्करसन्निभन्त्रिणयनं पुल्लोल्लसत्कुम्भकं फलं दण्डकपालपाणियुगलं ताटङ्ककर्णद्वयम् | हर्यक्षाजिन कञ्चुकं मिसननं जन्वन्तकान्तकर्णम् घण्टादामकृतोपवीतमनिशं नौम्यापदुद्धारणम् || ३९ || || वटुकः || करकलितकपालं कुण्डलं दण्डपाणिं तरुणतिमिरनीलोदव्यालयज्ञोपवीतम् | कृतस्यपरिज्या विघ्नविध्वंसहेतुं जयतु वटुकनाथं सिद्धिदं साधकानाम् || ४० || || क्षेत्रपालः || एकास्यन्तु चतुर्भुजन्त्रिणयनं कृष्णं सुवृक्तेक्षणं शूलं ब्रह्मकपालकं डमरुकं नागं वहन्तं करैः | ज्वालाकेशभयं करं शशिधरं दंष्ट्राकरालातनं घण्टादामविभूषितं शुनयुतं श्रीभैरवेशं भजे || ४१ || || वीरभद्रः || नीलाभं रक्तवस्त्रं * * * * * स्फुरतु मम पुरो वीरभद्रस्वरूपम् || ४२ || || अघोरास्त्रम् || सजनघनसमानं भीमदंष्ट्रं त्रिणेत्रं * * * * * विभ्रतं भावयामि || ४३ | प्. १८४) || दक्षयज्ञहरः || वीरं कोपितवीरभद्रविहितं रूपं वहन्तं दृढं सव्येनाङ्घ्रिवरेण दक्षपुरितो विन्यस्तभूमी ततः | पश्चाद्वाम पदाम्बुजारुलसतां शुष्ठ?स्थितं भावयेत् खड्गेनाहृद दक्षद्वयसंयुक्तं विपुलसद्वक्त्रं च पूर्वस्थितम् || शीर्षे पञ्चधरं सकर्णकुसुमं शार्दूलचर्माम्बरं बद्धव्यालविराजितोदरमहं ध्यायेत् किरातं महम् || ४४ || || गुरुमूर्तिः || स्फटिक सदृशवर्णं मौक्तिकै रक्षमालाममृत कलशहस्तं ज्ञानमुद्राकराग्रैः | दधतमुरगहस्तं चन्द्रचूडन्त्रिणेत्रं प्रणमतगुरुमूर्तिर्दक्षिणामूर्तिदेवम् || ४५ || || अश्वारूढः || रक्तं षोडशवर्षकाकृतिधरं रक्तोज्ज्वलत्कुण्डलं रक्ताबद्धकिरीटकं शशिधरं हारादि भूषान्वितम् | पालाशाभिहयाधिरूढममलं सव्यानुपात्रान्वितं वामे रज्जुधरं वराम्बरधरं अश्वाधिरूढं भजे || ४६ || || गजान्तकम् || दक्षाशान्तं प्रसन्नं शशिधरमकुटं कुण्डलोद्भासिताङ्गं प्. १८५) सव्ये खट्वाङ्गहस्तं सकमितरितोलम्बहुं द्विहस्तम् | बालाकारं सुशोभं तरुणरविनिभं शीघ्रमागच्छतारा- धस्तिन्द्रेणां शुशुण्डां कबलितवपुषं हस्तिदूतस्मिमीडे || ४७ || || जलंधरारिः || रक्ताभमुग्रगमनं त्रिविलोचनाढ्यं टङ्कारिकृष्णमृग शिरसि शोभिहस्ताम् | भूमिस्तु चक्रधरणोद्गजलन्धरस्यात् कर्णघ्नमानजलन्धरहन्त्रिरूपम् || ४८ || || एकपादत्रिमूर्तिध्यानम् || एकाङ्घ्रियाब्जन्तु मध्यकटितटिघटिता स्वायुतं ब्रह्मविष्णुः प्रीत्यर्थं तज्जलीढ्यं रुचिरकटितटे कुञ्चिताङ्घ्रिद्व्याढ्यम् | रक्तन्त्र्यक्षन्दधानं वरमभयदं टङ्कमेनाकराल्यां भास्वन्तं चन्द्रचूडं भजतु सुरपतिं सत्रिपादं त्रिमूर्तिः || ४९ || || एकपादः || एकमूर्तिधरमेकपादकं शूलटङ्कवरदाभयान्वितम् | कालकण्ठमतिभीषणं शिवं लोकपूजितपदं भजाम्यहम् || ५० || || गौरीवरप्रदानध्यानम् || प्. १८६) रक्तन्त्रिणेत्रं विलसन्मुमिन्दुं टङ्कंमृगं त्रिशिखिमादधतं त्रिहस्ते | सव्येन भस्मे विधृताञ्जलि हेतुगौर्यै गौरीवरप्रदधतं भजामि || ५१ || || चक्रदानम् || शान्तं त्र्यक्षचतुर्भुजंशशिधरं देव्यायुतं वामके टङ्कं कृष्णमृगं वरञ्चदधतं सव्येन वक्त्रप्रदम् | सव्येलम्बपदं सुनिद्रितपदं वामे तु पद्मे समं पादे विष्णुमृगार्चितं विधियुतं चक्रप्रदं भावयेत् || ५२ || || गौरिलीलासमन्वित ध्यानम् || हृष्ठं त्र्यक्षयुतं प्रवालकिरणं रक्तोज्वलत्कुण्डलं टङ्कं कृष्णमृगाभये च दधतं गौरीनिजोरुस्थितम् | आलिङ्गस्तिति वामपादकमले नैतन्मुखासादितं स्त्रोद्याने गगने विमानसहितं गौरी विलासं भजे || ५३ || || विषापहरणः || अभयवरदयुक्तं टङ्ककृष्णं दधानं शशिधरमहभूष्यं पीतवस्त्रं त्रिणेत्रम् | सितमसितगलाभं तं वृषारूढदेवं विषहरणकरूपं छत्रपिञ्छाढ्यरूपम् || ५४ || || गरुडदाहकध्यानम् || नागं शूलवराभयञ्च दधतं नागोपवीतान्वितं प्. १८७) ताक्ष्यारूढमुखस्मरेन्मुनिवरैस्सिद्धादिभिः सेवितैः | हस्ताभ्यां क्रमदण्डजादि गरुडदाहीस्व पक्षेक्षणं वामे शक्तियुतं स्थिरासनगतं ताक्ष्याहदाहं भजे || ५५ || || ब्रह्मशिरश्छेदः || नीलाभन्त्रिविलोचनं शशियुतं हुंकारभीमाननं भस्माङ्गं त्रिकरैस्त्रिशूलपरशुं कृष्णं मृगं विभूतम् | पादासक्तसुपादुकां विधिरुरोवामे हरन्तन्नरवै रक्तोद्भासित कञ्चुकं विधिशिरश्छेदं सदाभावयेत् || ५६ || || कूर्मसंहारध्यानम् || अवतुधवलभानुस्त्यक्षणं चन्द्रचूडं स्थितपदसमपद्मं दंष्ट्रकृष्णं दधानम् | अभयमपिकराग्रैः कूर्मपृष्ठस्थवामे तनहरियुतवामः कूर्मसंहारिदेवः || ५७ || || मत्स्यसंहारिः || त्र्यैक्षे नीलाभकायो भुजगचयधराश्छत्ररेखावतंसं खड्गं खेटञ्च घण्टां परशुमपि दधत् सव्यवामे च हस्तैः | खड्गेनाहत्यमत्स्ये निहितपरशुनाहृत्य तल्लोचनोद्वे प्. १८८) बिभ्राणं पदयर्हो हरतुभवनयं मत्स्यसंहारिदेवम् || ५८ || || वराहारिः || हेमाभं ज्वालकेशं कुटिलगनयनं भैरवाकारदेहं वामे पाशञ्च शूलं डमरुकवरतो भिन्धिपालञ्च हस्तै | शूलेनाहन्त्यकोलं निजभुजकमलेनोद्धृतं तद्विषाणं सेवत्वे धारयन्तं निकटनरहरिः तं वराहघ्नमीडे || ५९ || || प्रार्थनामूर्तिध्यानम् || कुन्दाभं त्रिविलोचनं शशिधरं तं पातु टङ्कं दधत् | दक्षांबद्धजटाग्र जानुतलयो वामे तु चण्डप्रियम् | आलिङ्ग्येककरेण तच्चिबुकतो न्यस्तान्य पाणिप्रियं जल्पन् पातुशिवो नः प्रार्थनाविग्रहम् || ६० || || रक्तभिक्षाटनः || कट्याकारन्तु सव्ये फणिपतिदधतं वामहस्ते तु पाशं वामे भिक्षाकपालं परकरकमलेनोन्नमययत्रिशूलम् | विष्णौ प्रोक्त्या विसृतबहुलसत् रक्तधारं वहन्तं वन्दे देवं महेशं मुनिसुरविनुतं रक्तभिक्षाटनेगम् || ६१ || || शिष्यभावध्यानम् || प्. १८९) कुन्दाभं मन्दहासं शशिधरमकुटं कुण्डलोद्भासिगन्ध सव्येनास्य विधायावरकरन्यस्य वक्षस्थले चा | टङ्कं कृष्णं दधानं गुरुगुहपुरतो यस्तलेममृतमूर्तिं तद्वाच्योमर्धतत्त्वं हरियुतगिरिजं शिष्यभावेशमीडे || ६२ || || अघोरास्त्रम् || रक्तवस्त्रधरन्देवं भिन्नाञ्जन समप्रभम् | बृहद्भुजाष्टकोपेतं ऊर्ध्वकेश सुदंष्ट्रिणम् || स्पष्टदष्टमराष्ठञ्च दीप्ताग्नि समलोचनम् | किङ्कणीमालिकोपेतं पादौ नूपुरसंयुतम् || सप्तायुधसमायुक्तं सर्वाभरणभूषितम् | मेखलोदरकण्ठेषु कर्णयोबाहुभिस्तथा || पादयोर्हस्तयोश्चैवा नागभूषं चतुर्दशि | शुक्लयज्ञोपवीतञ्चा रक्तपुष्पोपशोभितम् || पङ्कजासनमध्यस्थं त्रिणेत्रं स्निग्धमङ्गलम् | शूलं मुसलभेतालं खड्गं डमरुकं करैः || दक्षिणेतरबिभ्राणं वामकैशूलमध्यमः | घण्टाखेटकपालञ्च वामपादं पुरस्सरम् || प्. १९०) यानमार्गस्थिरं घोरं सोमसूर्याग्निलोचनम् | कुर्वाणं साधकन्त्राणां कटकाक्षैत्रिणाघुणैः || ज्वालं नेत्रन्तु जिह्वान्तं परचक्रभयं भुवि | ध्यायेत् तीर्थाघोरास्त्रः समस्तदुरितान्तकम् || ६३ || || अष्टाध्यक्षसूत्रध्यानम् || वटतरुनिकटे पुस्तके नागमग्निं पृष्टे भस्मारकस्य स्त्रिदिहरकलुषां पादमेकन्निधाय | जान्वन्यत् पादाब्जं मुनिजननिवहे ज्ञानमुद्राप्रदर्शन् प्राणं पश्यन्त्रिणेत्रं वितरतुविपुलं दक्षिणामूर्तिदेवम् || ६४ || || सुन्दरमूर्तिः || स्वर्णाङ्गं ने * * * * सुन्दरेशन्नमामि || ६५ || || अप्पर् || रुद्राक्षधामशिवपा * * * * पतिमानतोस्म्यहम् || ६६ || || सम्बन्धः || श्वेताभं मणिक् * * * * * ज्ञानस्सम्बन्धं भजे || ६७ || माणिक्कवाचकर् एकमुखयुग्मकर * * * * * * * * स्वरूपमिति वन्दे || ६८ || प्. १९१) || डिण्डिध्यानम् || अरुणकिरणरूपं चासिभीमं त्रिणेत्रं जटिमगवदनोर्ध्वे न्यस्तपादोर्ध्व वक्त्रम् | विकसितकरयुग्मं विस्मयं दण्डहस्तं जयमणिमालिकाढ्यं डिण्डिरूपन्नमामि || ६९ || || मुण्डिध्यानम् || अनलतनुनिभाङ्गं वक्त्रभीमं जटोर्ध्वे विहसितरण्डं वस्तुमुद्राग्रहस्तम् | जटितट अहिपाशं कङ्कणं नागभूषं मुनिसुरनरसेव्यं मुण्डिरूपं भजामि || ७० || || स्थाणुध्यानम् || नीलवाजिसमारूढां वस्त्रमाल्यविभूषणाम् | निद्राजदिति त्रैलोकां भजे खट्वास्त्रधारिणिम् || ७१ || || सदाशिवमण्डलाधिपति || महदपिमहमन्ये मातृकादिव्यरूपे सहवहहृदिबीजे सर्वमन्त्रप्रकाशे | महदपि महमन्ये सोन्मनी शुद्धविद्ये प्. १९२) सहृदपि परिवाहे सुन्दरीन्त्वान्नमामि || ७२ || || सिद्धान्तरत्नाकरैः || अभ्यङ्गपिष्टामलकादिगव्यैमृतायदुग्धं दधिचैव सर्पिः | मधू च इक्षूफलनालिकेरं सुगन्धधारास्तपनोदशङ्खम् || ७३ || || हरिः ओम् || || शुभमस्तु || || गणपतिमूलमन्त्रम् || ओं श्रीं गणपतये नमः | वरदो वीरविघ्नेशो गजवक्त उमासुतः | भिन्नदन्तसूर्पकर्ण विघ्नेश्वराश्चाष्टमूर्तयः || || सुब्रह्मण्यम् || ओं सौं शरवणभवस्कन्दाय नमः | जयन्तश्च विशाखश्च कार्तिकेयष्षडाननः | गुहसेनापतिस्कन्दो सुब्रह्मण्याष्टमूर्तयः || || वृषभम् || ओं हां वृषभाय नमः | || उक्षाद्यष्टमूर्तयः || प्. १९३) || देवि || ओं ह्रां श्रीं सः हः महागौरिरुद्र दयिते मनोन्मन्यै स्वाहा | || वामाद्यष्टशक्तिः || ओं ह्रां श्रीं सः ह शिवसूर्याय नमः | इन्द्राद्यष्टमूर्तये नमः | ओं सुं सोमाय नमः | ओं यूं अंगारकाय नमः | ओं बुधाय नमः | ओं बुं बृहस्पतये नमः | ओं शं शनैश्चराय नमः | ओं रं राहवे नमः | ओं कं केतवे नमः | || इन्द्राद्यष्टमूलमन्त्रम् || ओं इं इन्द्राय नमः | ओं अं अग्नये नमः | ओं यमाय नमः | ओं निं निर्-ऋतये नमः | ओं वं वरुणाय नमः | ओं वं वायवे नमः | ओं कं कुबेराय नमः | ओं ईं ईशानाय नमः | ओं कं ब्रह्मणे नमः | सृष्टि- प्रजा प्रजापतिर्वेदा विधाता च पितामहः | अजा सृष्टिश्चतुर्वक्त्रैर्ब्रह्माद्याश्चाष्टमूर्तयः || ओं हीं विष्णवे नमः | प्. १९४) संकर्षणश्च प्रद्युम्नानुरूढपुरुषोत्तम | अधोक्षजावासुदेव नामश्च नारसिंहश्च वामनाश्चाष्ट मूर्तयः | || दक्षिणामूर्तिः || ओन्नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रयच्छामि स्वाहा | || अगस्त्याद्यष्टमूर्तयः || दुर्गे- ओं मं दुर्गे रक्षणे स्वाहा | दुर्गाकात्यायनीद्यष्ट परिवारः || || सोमास्कन्दन्दः || ओं हां व्योमव्यापिने श्री कण्ठायनमः | || अनन्ताद्यष्टविद्येश्वरः || || नटेशर् || ओं हां सक्षमलवरयूं तुम्बुरानन्त भैरवाय स्वाहा | || अनन्तादि || ओं हां चं चण्डेश्वराय नमः | इन्द्रादिः | क्षेत्रपालः | ओं क्षां क्षीं क्षूं क्षेत्रपालायनमः | ओं हं संक्षं मं लूं यूं त्रिपुरान्त भैरवाय नमः | असिताङ्गोरुरुश्चण्ड क्रोधश्चोन्मत्तभैरवः | प्. १९५) कपालिभीषणश्चैवा संहारश्चाष्टभैरवः | || अघोरास्त्रर् || ओं श्रीं स्फुरस्फुरप्रस्फुरप्रस्फुर घोरघोरतनुरूप चटचटप्रचटप्रचट कहकह वमवम बधयबधय घातय घातय अघोरास्त्राय हुं फट् स्वाहा | दारुणं भीषणं रौद्राष्टमूर्तिः | पाशुपतास्त्रम् | ओं शीं पं शुं हुंफट् पाशुपतास्त्रायनमः | इन्द्राद्यष्ट विद्येश्वरः | रेणुकादेवि | ओं हौं स्वाहा | भगवते रक्तपञ्चमि रेणुकादेवी- दहदह पच पच सर्वजनवशं कुरु कुरु स्वाहा | जया च विजया चैव भोनी मोहिनी तथा || मलिनी मालिनी चैव भोगिनी भोगवत्यथाष्टदारुमूर्तयः | || भद्रकालिः || ओं भं भद्रकाल्यै नमः | वामाद्यष्टशक्तिः | चामुण्डा | ओं हां ह्रीं ह्रौं सर्वात्मने चामुण्डायै नमः | भद्रकाल्यै च मण्डूकचच्छटाभैरवीस्तथा | चामुण्ड्यै वर्मिणीचैकाल रात्र्यै तु कालिकाद्यष्टमूर्तयः || प्. १९६) || सप्तमातृ || ब्राह्मी माहेश्वरी चैवा कौमारी वैष्णवी तथा | वाराहि चैव माहेन्द्रि चामुण्डसप्तमातरः || ओं श्रीं ह्रीं ब्राह्मै नमः | इन्द्राणि माहेश्वरी चैवा वैष्णवी वाराही तथा | चामुण्डिभद्रकाली च दुर्गायै वीरभद्रयोः || || बलिपीठम् || अविघ्नञ्चण्ड्यकुम्भे तु आमोदं पूर्वकुम्भके | प्रमोदं याम्यकुम्भे तु सुमुखं वारुणे घटे || दुर्मुखं सौम्यकुम्भन्तु विघ्नकर्तारमीशके | अनुक्तं सर्वदेवानां * * * * * * * * | इन्द्रादि सर्वशक्तिः | शिवसावित्रि | व्योमव्योमायविद्महे सूक्ष्मसूक्ष्माय धीमहि | तन्नोरुद्रः प्रचोदयात् | शिवगायत्रि | तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि | तन्नोरुद्रः प्रचोदयात् | प्रत्यङ्गिरिमूलम् | ओं संभक्षज्वाला जिह्वाकरालदंष्ट्रां##- प्. १९७) प्रत्यङ्गिरास्त्रम् | आं ईं ऊं रुद्रास्थि शृङ्खले | हुं सर्वतोभद्रे कुटिलरुद्रवचन विदारिरक्षमाम् | प्रत्यङ्गिरे धाम धाम ज्योति ज्योतिस्सुवस्सुवर्भुवोर्भुवो- वाह्य मृतोहं सत्यहं त्रिभिदन् पादुजुषां लक्ष्मीं- नमो वः किरिकेयं करोतिममेवा | विशतु महादेव सुवृते नमोनमस्स्वाहा | || सदाशिवाक्षरम् || ओं हौं हं सदाशिवाय नमः | नवाक्षरम् | हौं हं सं मं क्षं रं नं यं मं शिवाय नमः | || देवि || ओं क्षां क्षिं क्षूं क्षौं उमायै नमः | || गङ्गागायत्रि || ओं अम्बरीषायविद्महे सिन्धुद्वीपायधीमहि | तन्नो गङ्गा प्रचोदयात् | || पञ्चाक्षरम् || हौ सं शिवाय शिवमन्त्रं हां हौ हं सः | आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा | प्. १९८) अविघ्नो विघ्नराजश्च पक्ष्याशी पञ्चहस्तकः | || शास्ताध्यानम् || कल्हारोज्वल नीलकुन्तलधरं कालाम्बुद श्यामलं कर्पूराकलिकाभिराम कलिका कुन्देन्दुबिंबानना | श्री दण्डाङ्कुशशूलविलसत् पाणि सुह्री धारहं रम्यशत्रुविमर्दनं हृदि महाशास्तेशमाद्यं भजे || १ || || पुनः || खड्गं बाणं त्रिशूलं भिन्धिपालं त्रिणेत्रं रक्ताङ्गं हेमबद्धं मरकत वर्णमारङ्गदीप्यम् | दिव्याम्बुमालां द्वितिनिभवरदां द्विद्वियां वीरशौर्यां प्राणे वा शक्तिसहितं हरिहरतनयं शाश्वतं शास्तमूर्तिम् || २ || || शास्ताशक्तिपूर्णाध्यानम् || श्यामान्द्विनेत्रां सुगन्धिसूतुं भुजद्वये पद्मसरोजहस्ते | सव्ये तु लम्ब्याशयने तु वामे पद्मं करण्डं मकुटञ्च पूर्णम् || ३ || || पुष्कलै || अम्बा च पुत्रीं द्विभुजां द्विनेत्रां सव्योत्पलामूरु च वामहस्ता | वामे तु लम्बा उदरे तु शययां करण्डकं पुष्कलपीतवर्णाम् || ४ || प्. १९९) || शास्ता || श्यामवर्णशरीर सुयौवनं तुङ्गपङ्कजसहस्रकुन्दलम् | योगवेष्टित पद्मसुखासनं वामदक्षिण पुष्कलपूर्णयोः || ओं श्रीं ह्रीं क्लीं हरिहरपुत्राय अर्थलाभाय शत्रुनाशनाय पुत्रलाभाय मदगजवाहनाय श्रीमहाशास्ताय नमः | गजध्वजाय विद्महे शृणिहस्तायधीमहि तन्नो शास्ता प्रचोदयात् || ५ || || पूर्णैपुष्कलै || पूर्णञ्च दक्षिणे स्थित्वा पुष्कलां वामपार्श्वतः | पूर्णां वै कनकाभासां श्यामाभां पुष्कलां स्मृताम् || द्विनेत्रां द्विभुजां सौम्यां सर्वाभरणभूषिताम् | दिव्यगन्धानुलिप्ताङ्गौ दिव्यमालानुभूषिताम् || श्यामवर्णधरां पूर्णां पुष्कलां कनकाम्बराम् | पूर्णां वामकरे पुष्पं दक्षिणे कटन्विताम् || कुञ्चितं वाम पादे तु दक्षिणे लम्बितं भवेत् | सिंहकुण्डलमेवोक्तं तथा मकरकुण्डलम् || पुष्कलं दक्षिणे पुष्पं वामे वै वरदं भवेत् | वामे तु लम्बितं पादं दक्षिणेन तु कुञ्चितम् || प्. २००) सङ्कुकर्णयुतं वापि तथा वै सिंहकुण्डलम् | || अक्षतलिङ्गध्यानम् || कृष्णवर्णन्त्रिणेत्रञ्च हारकेयूरधारिणम् | चतुर्भुजसमायुक्तं पादनूपुरसंयुतम् || खड्गखेटधनुर्बाणं धारयन्तं महाबलम् | एवमर्घ्यस्वरूपन्तु तत्तद्रूपं विचिन्तयेत् || १ || || पुष्पलिङ्गम् || सौम्यं सौम्येक्षणोपेतं चतुर्हस्त समायुतम् | विद्युन्मालानिभञ्चैव जटामकुटमण्डितम् || दक्षेऽभयाक्षमालाभि इतरे वरपाशयुक् | || अन्नलिङ्गम् || शूलमूलाभये दक्षे शूलाग्रे वरतेतरः | रौद्रदृष्टिज्वलत्केश व्यक्तास्यं करशूलकम् || || पुनरपि || शुक्लवस्त्रधरन्देवं शुक्लमाल्याविभूषितम् | सर्वाभरणसंयुक्तं चतुर्दोर्भिः समन्वितम् || हस्ते पात्रधरन्दक्षे वामे नीलोत्पलन्तथा | प्. २०१) हरिणं परशुञ्चोर्ध्वे धारयन्तं भुजद्वये | अन्नलिङ्गस्वरूपन्तु सर्वकामफलप्रदम् || ४ || कुमुदं कुमुदाक्षञ्च पुण्डरीकोऽथवा मतः | शङ्कुकर्णसर्वनेत्र सुप्रतिष्ठितः || भवश्शर्वश्च रुद्रश्च महादेवश्च भीमकः | उग्रः पशुपतिश्चैवा ईशान्यत्वाष्टमूर्तयः || ५ || देवि दीपाराधनै पूजादेवतै ओं ह्रीं अम्ब्यै नमः | गणाम्बिकायै नमः | श्रियै नमः | धारिकायै नमः | वाग्विन्यै नमः | ओं ह्लां निवृत्तिकलायै नमः | प्रतिष्ठाकलायै नमः | विद्या कलायै नमः | शान्तिकलायै नमः | ओं हौं शान्त्यतीत कलायै नमः | तत्त्वत्रयं पादशिरेण कुक्षिं दलेषु वामादिषु शक्तिभिश्च | नालञ्च गौरिज्वलनञ्च रुद्रं कुम्भादि पूजामिति शम्बरैश्च || || सप्तमाता गायत्रि || सर्वशक्ती च विद्महे सप्तरूपाय धीमहि | तन्नो मातरः प्रचोदयात् || || विघ्नेश्वरगायत्रि || प्. २०२) तत्पुरुषाय विद्महे वक्त्रकुण्डाय धीमहि | तन्नो दन्तिः प्रचोदयात् | || सुब्रह्मण्य गायत्रि || विशाखाय विद्महे बाणहस्ताय धीमहि | तन्नस्कन्दः प्रचोदयात् || || ज्येष्ठागायत्रि || फलप्रदायविद्महे पापहारी च धीमहि | तन्नो ज्येष्ठः प्रचोदयात् | || दुर्गीगायत्रि || कात्यायनी च विद्महे बाणहायधीमहि | तन्नो दुर्गी प्रचोदयात् | || सूर्यगायत्रि || अश्वध्वजाय विद्महे पद्महस्ताय धीमहि | तन्नो सूर्यप्रचोदयात् | || रथध्यानम् || चक्रञ्च सूर्यचन्द्रञ्च पश्चाद्ब्रह्ममयं भवेत् | तत्पश्चात्पीठमेवं स्यात् विष्णुशैलगजन्तथा || प्. २०३) सर्वदेवेषु पादञ्च तत्पश्चाद्भूवरन्तथा | नक्षत्ररन्ध्रमेवं स्यात् नागञ्च सूत्रबन्धनम् | तत्कर्तुं रुद्रमेवस्यात् ध्यात्वा देवत्थन्तथा || || त्रिशूलास्त्रध्यानम् || त्रिशूलम्- शूलास्रमध्यपत्रे तु रुद्रं निष्कलमेव च | ब्रह्माणं सव्यपत्रे तु विष्णुञ्च वामपत्रके || तस्याधश्चतुरश्रञ्च मध्ये च पार्वतीं तथा | सव्ये सरस्वतीञ्चैव महालक्ष्मीञ्च वामके || चन्द्रसूर्यद्वयं पार्श्वं अधस्य सर्वदेवता | कुम्भे उडुपदेवत्यं दण्डस्य भुवनन्तथा || पञ्चावृतस्य पादाश्रं शूलास्त्रं ध्यायेद्गुरुः | || गोपुरध्यानम् || द्वारञ्च ब्रह्मदेवत्यं निला विष्णुस्तथैव च | नालं कुम्भेषु रुद्रञ्च शिला इष्टिञ्च दारुकैः || सर्वदेव-ऋषींश्चैव सुधैरसञ्च शक्तिषु | सर्व तन्त्र विधानञ्च भक्तैश्च गणभूतकैः || शृङ्गारञ्च अलङ्कृत्य नक्षत्रञ्च समाचरेत् | प्. २०४) इति गोपुररूपन्तु नेत्रञ्च शिरनासिषु | इत्यावाह्यासु संपूज्याः * * * * * * * * * | || सप्तमाताब्राह्मिध्यानम् || ब्राह्मी तु पीतवर्णं स्यात् हंसवाहनमेव चा | चतुर्भुजान्त्रिणेत्राञ्च चतुर्वक्त्रन्तथैव च || अभयं वरदञ्चैव अक्षमाला च कुण्डिकाम् | सर्वाभरणसंयुक्तां जटामकुटमण्डिताम् || १ || || माहेश्वरि || चतुर्भुजन्त्रिणेत्रञ्च शुक्लवर्णं समायुतम् | जटामकुटसंयुक्तां एकवक्त्रसमन्विताम् || अभयं वरदञ्चैव पद्मं सव्यञ्च धारिणम् | वाहनं वृषभं कृत्वा माहेश्वरीं तथैव चा || २ || || कौमारि || एकवक्त्रन्द्विनेत्रञ्च नीलवर्णन्तथैव चा | चतुर्भुजसमायुक्तां द्विपादञ्च समन्विताम् || मयूरवाहनारूढां जटामकुटमण्डिताम् | अपरे वज्रशक्तिञ्च अभयं वरदन्तथा || ३ || प्. २०५) || वैष्णवि || द्विनेत्रां चतुर्भुजां शान्तां श्यामवर्ण सुयौवनाम् | शङ्खचक्रधरां कृत्वा अभयं वरदान्विताम् || ४ || वाहनं गरुडं कृत्वा सर्वाभरणभूषिताम् | || वाराहि || चतुर्भुजान्त्रिणेत्राञ्च पीताम्बरधरायुताम् | वराहरूपसंयुक्तां रक्तवर्णसमन्विताम् || किरीटमकुटोपेतां हेमनीलस्वरूपिणीम् | स रत्नमकुटोपेतां हंसवाहनमेव चा || ५ || हसलामुसलञ्चैव अभयं वरदन्तथा | माहेन्द्रीं द्विनेत्राञ्चतुर्भुजां शान्तां अभयं वरदन्तथा | वज्रशक्तिधरोपेतां हैमनीलस्वरूपिकाम् || ६ || सरत्नमकुटोपेतां गजवाहनमेव च || ६ || || चामुण्डि || चतुर्भुजान्त्रिणेत्राञ्च कालमेघस्वरूपिणीम् | चामुण्डिं कारयेद्धीमान् कालमेघसमप्रभाम् || कपालशूलसंयुक्तां पाशं डमरुकन्तथा | ########### END OF FILE #######