#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00200 Uniform title: dviśatikālottara Main title: dviśatikālottara with commentary by aghoraśivācārya Commentator : aghoraśivācārya Manuscript : IFP transcript 176 Description: Transcript 176 from the collections of the IFP/EFEO in Pondicherry Notes: Data entered by the staff of Muktabodha under the direction of Mark S.G. Dyczkowski. Revision 0: January 18, 2010 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### भेदभिन्नैः संकुलमनेक पदार्थाभिधेयमित्यर्थः | तत्रपति पदार्थे शिव तच्छक्ति मुक्तात्मनां विद्येश्वरादिभिः सह संग्रहः | पशुपदार्थे तु विज्ञानाकल प्रलयाकल सकलरूपाणां सर्वेषां बन्धात्मनां पाश पदार्थे च मलकर्म माया तत्कार्यरोधनशक्तीनां संग्रहः | पशुपदार्थे तु विज्ञानकल प्रलयाकल सकलरूपाणां सर्वेषां बन्धात्मनां पाशपदार्थे च मलकर्म माया तत्कार्य रोधनशक्तीनां विधिः दीक्षाक्रियादि स्नानादि काल स्तुत्यात्मिक संक्रान्ता तद्योगश्च नाडी चक्रादि विषयः | शिवस्तु प्रासाद लक्षणो वक्ष्यमाण एवञ्च यतोऽह मेषामधिकारिणां मर्त्यानामनुग्रहं कर्तुमिच्छामि ततो विशिष्टस्वरूप प्रयोजनाभिधेयं शास्त्रं मम वक्तुमर्हसीति | इत्थं प्रार्थनास्वरूपमवगम्य भगवानाह - अथातः संप्रवक्ष्यामि शास्त्रसद्भावमुत्तमम् | नाम्ना तु वातुला तन्त्रात् दघ्नोघृतमिवोद्धृतम् || १ || मधुवच्च यथा पुष्पात् सारात्सारमिदं शुभम् || अथेति | प्रश्नानन्तरं मस्योपक्रमादेव सिद्धेः | अपि तु परमेश्वर ज्ञानानन्तरं यत्प्रवृत्तं तद्वक्ष्यत इति | तद्ज्ञानं चानु ग्राह्याद्यनु ग्रहणाय शास्त्रप्रणयनेच्छातस्तत्कर्तृकं रचनायां कर्तारमन्तरेणा संभवादकर्तृत्वं शास्त्रं न संभवति | नाऽप्यन्य कर्तृकं | तेषां सर्वज्ञत्वेन शिवादि वस्त्वपरिज्ञानात् | प्. २) अतश्च पतिपदार्थस्यात्र प्रथममुद्देशः सिद्धः | अत इति हेतौ | यतो मर्त्याः परिणतमलत्वेन शक्त्याघ्नाता अपि विस्तृतशास्त्रा नधिकारिणस्त वचनानुग्राह्यत्वेनाभिमतात्ततो हेतोः शास्त्रस्य मन्त्रतन्त्रात्मनः सद्भावं परमार्थमर्थवादानुवादनिर्मुक्तं सारार्थवाचकमुपयोगिस्वरूपं सम्यग्यथा व्यवस्थितम् | संक्षेप प्रकर्षतो वक्ष्यामि | अतश्चोत्तमं न ह्यल्प ग्रन्थं महार्थञ्च शास्त्रं क्वचिदत्यस्ति | यदि चोत्तमं प्रकृष्टबलसाधनविषयं यद्ययं श्रीकण्ठकर्तृकः कथं परमेश्वर कर्तृकं शास्त्रमित्युक्तम् | यतो वातुलाख्यात् तन्त्रादुद्धृतम् बाधृविलोडने इत्यस्मात् धातोः बाहुलक त्वादौणादिकोंलं प्रत्ययः यत्सिद्ध रूपः तेन नाम्ना वातुलः लोडनं समस्ता ज्ञान प्रतिघातक विचित्र प्रकाश्यार्थ न धारञ्च तन्त्रमिति प्रसिद्धं परमेशं यच्छास्त्रमाग्नेयं कालोत्तरं यत्तस्मात् प्रकृतिभूतार्थ केवलमर्थवादादि परित्यागेन तदा ज्ञयैव या स्व बुद्ध्या निर्मध्ये ताभिरेव शब्दार्थे मात्राभिरुद्धतं गृहीतं किमिव ? दघ्नोघृतमिव पुष्पाच्च मद्विवथया तस्मद्दघ्नोऽपि सारं घृतं वृक्षस्य च सारात् पुष्पात्सारो मधु | एवं शास्त्र सारात् वातुलात् साराच्चतुश्शतिकादेव सारभूता शुभं च निरपदादं प्. ३) विवा?दसंवाद?त वातुलसारस्य पदादिरपि सम्भन्धः सिद्धः | दृष्टान्तद्वयं दार्ष्टान्तिकस्य सारतां दृढीकर्तुं उपक्रमं एतदेवात्रादि सूत्रमाधेय प्रयोजनयोः स्थूलनयेन सकलशास्त्रार्थपरिपूर्णत्वात् | नन्वेवमेकश्लोक आदिसूत्रं भवितु मर्हति तन्न | यदितो यावति पदसमूहे एक क्रियानुविधः तष्यैवैक वाक्यत्वं | यदाहुः - अर्थैकत्वादेकवाक्यं साकांक्षं नो (चे ?) द्विभागे स्यात् इति | अथ मन्त्रसंक्षेपमेव दर्शय?यितु मल्परुन्धस्यैव शास्त्रस्योपक्रमः || सादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् || नाद इत्याख्या यस्य तन्नादाख्यमन्त्रकश्चिदाह यदत्र स्थूल ध्वनि रूपान्तरं स्थानभेदतः अनेकवर्णतामापादयति | यदाहुः आकाशवायु प्रभवः शरीरात् समुच्चरन् वक्त्रमुपैति नादः | स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः || इति || कि? तदेवात्रविवक्षितः | नेत्याह | यत्परं बीजमितिः यदे तद्वक्ष्यमाण * * * * यनशास्त्रान्तरोक्तवच्च बिन्द्वादि क्रमेण स्थूलमन्त्राद्युत्पादकमत एव परं सर्वभूतानां अभिधेयबुद्धिबीजं महामायाशक्तेः प्रथम परिणति रूपञ्च नादाख्यम् | यदुक्तं श्रीमन्मृगेन्द्रे - शक्तेर्नादो भवेद्बिन्दुरक्षरं मातृका ततः | तच्च रक्ष्यमाणत्वात् सर्वभूतेष्वव स्थितम् || प्. ४) किञ्च वर्णात्मकत्वेनान्त्य वर्णोच्चारण काले पूर्वेषां भावभिधायकत्वानुपपत्तेरन्येन कारणेन प्रतिपुरुषगतेन केनाऽपि भवितव्यम् | तच्च न बुद्ध्यादिभ्यो तन्त्रत्व तेषां स्वकार्यैरेव सिद्धेः | कार्यान्तरहेतुके प्रमाणा भावात् अनेकत्व परिकल्पनाभावप्रसङ्गाश्च एषा च नादसिद्धिः तत्कारणभूत महामायासिद्धिश्च तत भवितार सकण्डेन नादकारिकायां विस्तरेण प्रदर्शिता | प्रदर्शिता चास्माभिर्मृगेन्द्र वृत्तिदीपिकायाम् | इति || तत एव चावधार्यः | अस्य च नादस्य ज्ञानमाचार्येणावश्यं कर्तव्यमित्याह - तं विदित्वा महासेन देशिकः पाशहा भवेत् | इति || द्विशति (दि?) प्रयच्छति परतत्वावबोधेनाधिकारिभ्य इति देशिकः आचार्यः | पाशाश्च मलकर्म मायारोधशक्त्याख्याः | तत्र मलः पशुनाद्यावारको रेखात्मावारकानन्तश ............. क्तोव्यापकश्च द्व कर्म च प्रवाहानाद्यात्मक कर्तृकः विचित्र फलक द्वयकञ्च धर्माधर्मात्मकम् | स्वकार्यरूतेन (रूपेण?) कलादिक्षित्यन्त त्रिंशत्तवात्मकः स्थूले ...... न साधारणैः भुवनादिभिः साधारणा साधारणैश्च भुवनस्य शरीरैः आत्मानं भोग्य भोगजनिका | रोधशक्तिः पाशधर्मानुवर्तिका | शिवशक्तिरेवोपचारेण पाश .... र्थं परार्थात्रानेक प्रकारो निर्दिष्टः | तेषां च हननं पुरुषप्रतिबन्धकत्व निवृत्तिरेव | पाशच्छेदादिकमाचार्यो प्. ५) विषनिवृत्त्यादि मन्त्रवत् मन्त्रद्वारेण क..... श्चात्राति दूर वर्तिनः शुद्ध विद्या श्रितत्वाख्यं | तस्मिंश्च नादस्वरूपो विदिते तत्परिणति रूपावाचकमन्त्रास्तद्वाव्यश्च मननत्राण धर्मिणः त एव मन्त्राः ज्ञाताविनियोज्या भवन्ति | त ..... रवासौ पाशहा भवेत् | अथ किं शुद्धाध्ववर्तिभिः असौ नादः पतीयते | अत आह - आगोपालाङ्गना बालाम्लेच्छाः प्राकृतभाषिणः | अन्तर्जल गताः सत्वाः ते ................. वन्तितम् || गोपालादयः प्रसिद्धाश्चगां सदा शिवो किं शास्त्ररूपां पावयन्तीति गोपालाः .................. दयः | अङ्गनाः सप्तकोटिसंख्याविद्याः बालाः मण्डल्यादयो परमन्त्रेशाः म्लेच्छाः साज्ञाना गहने ...........डयो भुवनेशाः | प्राकृत भाषिणः गुणतत्व स्थानयोगिनो बुद्धितत्वस्या देवयोनयश्च अन्तर्गताः | ब्रह्माण्डान्तस्था ब्रह्मादयः ज...... का जलोपलजित (-लक्षि?त) जलाद्यावरणस्थाः पञ्चकारुद्राः तद्भुवननिवासिनः | एवं शुद्धा शुद्ध भुवन निवासिनः सर्व एवात्मानः तन्नादमभिधेय बुद्धि ....... न परमात्मकं प्रत्यात्म नियतं अवर्ति अतः स्वयं उच्चरन्ति धारयन्तीत्यर्थः | स्त्र .... के सूचना रूपत्वादर्थद्वयमभिरुद्धं (-मवि- ?) | इदञ्च तात्पर्यं सकल पुरुषगतात् बोध्यपरामर्श लक्षणात् कार्या दौ सर्वभूतावस्थितः सिद्धः | अतः सन्निकृष्टत्वेनासौ ज्ञातुंशक्य एव | न च | शुद्धमस्य शुद्ध इति वा शुद्धस्याप्यशुद्धेऽध्वनि अप्रगमञ्चेत्याशंकनीयम् | ईश्वरेण व्यभिचारात् तस्य यथा प्. ६) पुरुषं भोगमोक्ष ............ कार्यान्यथानुपपत्त्या प्रगमोऽत्रसिद्धः | तथा व्याह्यविरोधः | यदाहुः - प्राग्रूपता चेदुत्कामदेव बोधस्य शास्वती | न प्रकाशः प्रकाशेन स हि प्रत्यवमर्शिनी || इति || अत एव पशुपदार्थोऽप्यत्रानेक भेदं भिन्नः प्रदर्शितः | यद्येवं अशुद्धात्मतः शुद्धस्य च को विशेषः अत आह स्थूलसूक्ष्मं परिज्ञात्वा कर्म कुर्याद्यथेप्सितम् || शुद्धस्त्वाचार्यो दिवस्थं त्र्यन्नादं ज्ञात्वा ............ कुर्यादित्युक्तम् | ज्ञाना देवास्य मन्त्राः सिद्धा भवन्ति | अशुद्धस्तु स्थूलमेव ज्ञात्वा लौकिक कर्मकरोतीत्यस्माच्छुद्धस्य भेदः | केचित्तु नादाख्यमित्यादीनि तन्त्राणि शास्त्रविशेषतया व्याचक्षते | तत्तु व्याख्यानं स्थूलं शब्दमिति प्रोक्तमित्यादिनोप लक्ष्यमाणेनातीत मन्त्रज्ञ आचार्यः प्रोक्तभेदभिन्नं नादं ज्ञात्वैव मलस्य पाशपर्यायत्वात्तदुपलक्षितां तद्भावनाञ्च सर्वेषां पाशानां क्षयो भवेत् | कारणे कार्योपचारात् क्षयकारी भवेदित्यर्थः | नान्यथा यस्यपाशक्षय सामर्थ्यमिति वक्ष्यामः | अथ स्थूलशब्दवचनो वाचकमन्त्रस्य संक्षिप्ता एवोद्धारः || यवर्णादष्टमं बीजं मा नेत्र द्वादशभिः स्थितम् | अक्षरान्तरितं कृत्वा स षडङ्गः शिवो भवेत् || मातृकाक्षमविवक्षया यकाराख्याद्वर्णादष्टमं स्थूलत्वेऽपि सर्ववर्णानामुद्वारण हेतुत्वाच्छिवाद्यर्थ प्रतिपत्तिहेतुत्वाच्च यद्बीजमहङ्काराख्यं तदुक्तं समानतन्त्रे सान्तं सर्वगतमिति || श्रीमत्त्रयोदशशतिकेऽपि - अथैवं सर्ववर्णेषु अकार रहितः स्थितः | नामाद इन्दिर तदेतदुकारादिभिश्चतुर्भिर्नपुंसकाक्षरैः वार्जिताभिः द्वादशभिः ज्वरमात्राभिः सहस्थितं तावत्कु ............. ख्याता अणिमाद्यादि साधनाः | अनुच्चार्यमसन्दिग्धं मोक्षस्येति विधीयते || इति सकलनिष्कलादि भेदश्चतुर्दशः पटलः || कार्तिकेय उवाच - कथं व्यापी अधश्चोर्ध्वं तिर्यक्चैव कथं भवेत् | एतन्मे ब्रूहि सद्भावं कारुण्यात् तु महेश्वर || १ || ईश्वर उवाच - यावद्देह स्थितो जन्तुरधस्ता .................. ॠगतस्तिर्यगन्तस्थः सर्वतस्तु सः || २ || त्रिमार्गावस्थितं जन्तु स .......................... ...... विदित्वा न मुच्येत यद्यत्येतल्लयो भवेत् || ३ || त्रिमार्गं त्रिरधिष्ठानं सर्वदेहेषु वर्तते | वेत्येवमिमां व्याप्तिं स यापी तु न संशयः || ४ || तावद्भमति संसारे व्यावद्माप्तिर्न बिन्दति | विदित्वा व्यापिनं देवं मुच्यते नाऽत्रसंशयः || ५ || यथा तृण जलूका तु तृणादेर्यावदागताः | उपरिष्ठान्निरालम्बा तद्वज्जीवोऽत्र संस्थितः || ६ || प्. ८) ऊर्ध्वशून्यमधः शून्यं मध्ये शून्यं निरामयम् | त्रिशून्यं यो विजानाति ............ वं गुह || ७ || व्याप्तिश्चास्य मया प्रोक्ता संक्षेपान्नतु विस्तरात् | अतः परतरं नास्ति व्यापकं व्यापकस्य तु || ८ || || इति अधश्चोर्ध्वं पञ्चदशः पटलः || ईश्वर उवाच - अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा | अग्निज्वलनं चैव वृक्षस्यालभनं तथा || १ || पाशानां स्तोभनञ्चैव मठा?पातकनाशनम् | विषुसङ्क्रमणं चैव निर्बीजीकरणं तथा || २ || गृहज्वर विनाशौ च प्र ............. वधम् | एवं ज्ञातुश्च विधिवत् ख्यातिः सर्वत्र जायते || ३ || || ओं ह्रां ह्रौं ह्रं ओं नमः || अग्निस्रोतसियोक्तव्यः सहस्रोद्घात संयुतः | पञ्चाक्षर प्रयोगेण ज्वलत्यग्निं न संशयः || ४ || || ओं ह्रूं ह्रौं ह्रूं ओं नमः || अयञ्च स्रोतसा तेन प्रयोगः संप्रदर्शितः | शतैः पञ्चभिरुद्घातैरालब्धो क्रियते द्रुमः || ५ || || ओं ह्वं ह्वौं ह्वूं नमः || पुनराप्यायने तस्य स्रोतसा वारुणेन तु | स ........................... क्षो यथा पूर्वं तथैव च || ६ || || ओं ह्रीं ह्रौं ह्रूं ह्रीं ओं नमः || प्. ९) प्रयोगे विषुवेनायं पाशानां स्तोभकारनकः | शतैः सहाभिरुद्घातैः पतन्तीति न संशयः || ७ || || ओं रं हौं रं ओं नमः || उत्थापने प्रयोगोऽयं सर्वभूतेषु तद्विदा | तावद्भिरेव चोद्घातैः योजनीयः प्रयत्नतः || ८ || || ओं ह्लां ह्लौं ह्लां ओं नमः || तुला पुरुष योगोऽयं उद्घातैरयुतेन तु || पहापातक शुद्ध्यर्थं .................. प्रकीर्तितम् || ९ || झटप्ररोहणे याऽयं गुरुत्वं योऽनुजायते | || ओं ह्यं ह्यौं ह्यं ओं नमः || पुनरारोहणे ................. लघुत्वं ज्ञायते यथा || १० || || ओं ह्यीं ह्यौं ह्यीं ओं नमः || विषसंहारयोगोऽयं स्रोतसा वारुणेन तु | उद्घाताष्टशतेनैव विषं संहरति ध्रुवम् || ११ || अनग्नि ज्वलने यद्वन्निर्बीजीकरणे तथा | शतैः पञ्चभिरुद्घातैः विशेषोऽत्र विधीयते || १२ || || ओं ह्रूं वौं ह्रूं फण्णमः || प्रयोगे .............. वेना?यं प्रवाहेण प्रयोजितः | उद्घाताष्टशतेनाशु गृहं नाशयति ध्रुवम् || १३ || || ओं ह्रं फट् औं ह्रौं फट् ............ फट् फट् फट् फट् || स्रोतसायमपि क्षिप्रं वारुणेन तु योजितः | उद्घाताष्ट शतेनैव प्रयोगो ज्वरनाशनः || १४ || प्. १०) अष्टानां प्रत्ययानान्तु प्रयोगः कथिता मया | ज्ञात्वा ज्ञात्वा प्रयुञ्जीत विधिवद्देशिकोत्तमः || १५ || || इत्यष्टधा प्रत्ययः षोडशः पटलः || कार्तिकेय उवाच - प्रासादः कीदृशो ज्ञेयः व्याप्तिस्तस्यैव कीदृशी | प्रसूतिः कीदृशी तस्य कथयस्व महेश्वर || १ || ईश्वर उवाच - प्रासादं यो न जानाति पञ्चमन्त्र महातनुम् | अष्टत्रिंशत्कला युक्तं न स आचार्य उच्यते || २ || प्रासादं सम्यगज्ञात्वा यो दीक्षां कुरुते गुरुः | अधस्ताच्छिष्यमात्मानं नयते नाऽत्र संशयः || ३ || * * * * शिखान्तस्थो यस्तु दीक्षां करोति हि | आचार्यः सह शिष्येण शिवसायुज्यतां व्रजेत् || ४ || देवदानव गन्धर्व * क्षो यक्षोरगेश्वरः | किन्नराप्स रसः सिद्धाः सर्वे प्रासादसंभवाः || ५ || ब्रह्मविष्णुस्तथा रुद्र ई * * युः प्रजापतिः | बृहस्पतिरथादित्यः शक्रः स्कन्दो भृगुस्तथा || ६ || येऽपि चान्ये ग्रहगणाः सर्वे प्रासाद सम्भवाः | एते चान्ये च बहवः मुनयः संशित व्रताः || ७ || ध्यायन्ति परमं हं * * * दं नाम नामतः | विभागं चाष्य वक्ष्यामि यं ज्ञात्वाऽमृतमश्नुते || ८ || सद्यश्चाष्ट कलायुक्तमकाराक्षर संभवम् | प्. ११) विद्यादुकारजं वाममघोरं तु मकारजम् || ९ || बिन्दुजः पुरुषो ज्ञेयः ईशानस्तु शिखात्मजः | एवं * * स्तु पञ्चैते स्मृताः प्रासादसंभवाः || १० || शतकोटि सहस्राणां मन्त्राणाममितौजसाम् | प्रासादेनैव चेष्टेन भवन्तीष्टा न संशयः || ११ || मारुतानल शक्राद्या ये म * * * कीर्तिताः | प्रासादाब्ज समुत्पनाः सर्वे चामोघशक्तयः || १२ || सद्यस्तु पृथिवी ज्ञेयो वामो ह्यापः प्रकीर्तिताः | अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः || १३ || आकाशस्तु भवेदीशः स्वय * वो महेश्वरः | सद्यो जातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः || १४ || अघोरस्साम वेदस्तु पुरुषोऽथर्व उच्यते | पञ्चमं यत्परं सूक्ष्मं व्योमव्यापी सदाशिवः || १५ || सद्यो * * * वै ब्रह्मा वामोविष्णुः प्रकीर्तितः | अघोरो रौद्रदैवत्यः पुरुषाश्चेश्वरस्तथा || १६ || ईशानः शिवदैवत्यो त्यधि देवाः प्रकीर्तिताः | षष्ठं तु यत्परं तत्वं असादृश्यगुणस्थितम् || १७ || तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः | ज्ञात्वा परम निःश्रेणीं पञ्चसंस्थान गामिनीम् || १८ || ज्ञानं ज्ञातं सकृद्येन विस्मितेनान्तरात्मना | तत्काल एवमुक्तोऽसौ यायन्? ज्ञानं हितं हि तत् || १९ || इति श्रीमद्विंशतिकालोत्तरे महातन्त्रे प्रासाद ज्ञानलक्षणः सप्तदशः पटलः || शिवं शिवकरनत्वा शैवानां हितकारिणी | श्रीमत्कालोत्तरे वृत्तिर्द्विशतौ क्रियते मया || वृत्तिविस्तर संक्षेपाः स्फुरत्वादि विषादिनः | विदुषां प्रीतयेसोऽयं स्मदा (स्मृता?) लघ्वी विधीयते || अत्र हि शैवशास्त्राणां गुरूपलब्ध सम्बन्धो द्विविधः | साधारणोऽसाधारणश्च | महौघक्रमलक्षणः सर्वसंहितागतः सर्वसाधारणोनन्तादिरूपः प्रतिसंहितागुरुक्रमस्त्व साधारणं प्रणवादिरूपः उभयसम्बन्धि ज्ञानमचार्य लब्धाधिकारः | कार्तिकेयस्तस्मिन्महति तन्त्रे मनुष्याणां आयुष्यादिभिर्वक्ष्यमाणैः हेतुभिः सामर्थ्य बुद्धा तदनु सद्वाय स्वगुरुं भगवन्तं श्रीकण्ठनाथमुवाचेति कार्तिकेयशिष्यः तत्प्रशिष्यों वै स्व शिष्येभ्यः कथयति || किमुवाचेत्याह - कल्पायुषस्त्विमे मर्त्याः अल्पवीर्य पराक्रमाः | अल्पस्त्वाल्पवित्ताश्च लोभमोहसमन्विताः || ११ || अल्पग्रन्थं महार्थं च पदार्थानेक संकुलम् | वक्तुमर्हसि देवेशाऽनु ग्रहार्थं मम प्रभो || १२ || अत्र हि विस्तृते शास्त्रे तदर्थानुष्ठाने च रुद्राणां देवानामेव द्वाराधिकारात् सामान्येन मनुष्याणां नाधिकार इति दर्शयितुं इदानीं तान्विशेषयति || लोके हि लोभे संस्कार तृष्णया मोहेना नित्याशुचिदुःखानात्मसु नित्य शुद्ध सुखात्म प्रतिपत्तिरूपेण चित्तमलेनान्विताः प्. १३) मनुष्यास्तेषां मध्याद्ये मल परिपाकवशात् कथञ्चिदधिकारिणः सम्पन्नाः | यदुक्तं श्रीमन्मृगेन्द्रे - संसारात् स विरज्येत प्रध्वस्तकलुषस्सदा | इति || अल्पकाल जीवितत्वा दति विस्तृते तन्त्रे व्योम व्याप्यादि मन्त्रशतेषु चाध्ययन श्रावणादिकमपि तावत्कर्तुं न समर्थः कथञ्चिदतिविस्तीर्णे तदर्थानुष्ठानेन शक्त एव | यदाहुः - अर्थी शक्तो विद्वान् शास्त्रेण पर्युदस्तं कृतम् इति || तत्र वीर्यं करण पाटवं पराक्रमः काय पाटवत् | यद्वावीर्यं बलं पराक्रमः उत्साहः | किञ्च अल्पसत्वा अल्पवित्ताश्च एतेऽल्प सत्वेन तावत्तय सहिष्णुतया सर्वतोन्मीलित रागादि दोषत्वाच्च तत्तमसि धारा व्रतयोद्यनुष्ठातुं न शक्नोति | अल्पवित्तत्वात् अनेक कर्पूरचन्दनादि द्रव्यसाध्यं विस्तीर्णं पूजाहोमादिकमनुष्ठातुं न प्रभवन्ति | ततश्च भो देवेश देवानां पिशाचादिपिता महान्तानां देवयोनिनां ईशन देव प्रभो प्रभवन लीलाऽनुग्रहार्थं भोग मोक्षसाधनानुष्ठान ज्ञानार्थञ्च अल्पो ग्रन्थो यस्मिन् मन्त्रतन्त्र तदात्मके शास्त्रे तद्वक्तुमर्हसीति प्रार्थना परित्यक्तार्थवादानुवादैः संक्षिप्तैः परलादिभिरल्पाक्षरासंख्यैः मन्त्रैश्च युक्तमित्यर्थः | नत्वेवमल्प प्रयोजनमित्याह - महार्थञ्च महानर्थः सिद्धिमुक्तिलक्षणो यस्मादुक्तेनैव प्रयोजनेनोपेतमिति यावदभिधेयेनापि ते *? प्. १४) युक्तमुच्यते पदार्थैः प्रतिपशुपाशसाधनैः भोगमोक्षसाधनैर्वा विधिक्रिया कालयोग्य शिवाभिधानैः अनेक........... प्. १५) वादि लक्षणमपि ज्ञेयम् | तत्रोल्लेखनं निष्पन्नस्यापि कुण्डस्य शुद्धिहेतोः दर्भादिनारेखा चतुष्ट्य दानं उक्षमर्घ्याम्भोभिरभ्युक्षं तावस्त्रकवचाभ्यां कुर्यान्न तु निरीक्षणादयोऽष्टादश संस्कारा अतनपात समुचिता इति कैश्चिद्व्याख्य ........................ तेषामश्रु तत्वमुल्लेखनाभ्युक्षणयोरेव श्रुतत्वात्ते एव कर्तव्यो ननु च द्वाभ्यां संस्कृतमसंस्कृतमेव दृष्टार्थत्वाद्दृष्टार्थानां क्षालादीनामिदं सम्पन्नमिदं नेति वक्तुमुचितं नादृष्टार्थानाम् | ततश्च द्वाभ्यामेव तेऽपि सम्पना एव भाव्याः | एवं हि तन्त्र भेद उपपद्यते | यदाहुः - क्रियादि भेदे भेदेन तन्त्र भेदस्ततः स्मृतः | तस्मात्तन्त्रं तथैवोक्तं कर्तव्य * * * || ............. वाऽपि यस्वस्त तमधिक्रम्य परस्तन्त्रेण वर्तते | अप्रमाणं ऋषिं कृत्वा सोऽप्यधर्मेण युज्यते || किञ्चाल्पायुषस्त्वित्यादि प्रश्नपूर्वमिति संक्षिप्तं भगवता वक्तुमुपक्रान्तमिति पुनर्विस्मृत क्रियासंग्रहे मन्त्राकाराणामनधिकाराणां उपक्रमविरोधः | यद्येवं स्नानादि ..... तान्यपि कर्तव्यान्येव तन्न तेषां वाक्यात्मकः शुद्धिहेतुत्वेन सामर्थ्य सिद्धत्वादित्युक्तम् | शब्दसामर्थ्यलभ्यं यदर्थ समर्थोऽपि वा वक्तुं शक्याथवा प्राप्तं तद्ग्राह्यं संहितान्तरादिति | इत्थं संस्कृते कुण्डे कं कुर्यादित्याह - प्. १६) शक्तिन्यासं ततोमन्त्री हृदयेन तु कारयेत् || मन्त्रीति मन्त्रविदाचार्यादिशक्तेर्वागीश्वर्यादि न्यासमावाहनं तच्छेषभूतं अष्टधान्यासं पूजाञ्च हृदयेन कुर्यात् | केचित्तु शब्दाद्वागीश्वरार्चनमपि कार्यमित्याहुः | हृदैवरक्ति गर्भे तु प्रक्षिपेज्जातवेदसम् | ततोऽर्थवशतत्पातस्थ निरीक्षणादि सामान्यसंस्कारकृत्यं त्यक्त क्रव्यादांशं विन्यस्तशिवबीजमज्ञालब्धं वागीश्वर रूपस्य परमेश्वरस्य होमयेत्तु शिवं साङ्गं सर्वसिद्धि प्रदायकम् | ततस्सासनं भगवन्तं प्राग्वत् तत्र पूज्याङ्ग सहितं सर्वाभीष्टदं शिवमाज्यादिभिः यवैर्वापि समिद्भिर्वा जुगुप्सितैरिति तु शब्दाङ्गापेक्षया गिरः प्रधानत्वाद्धोमसंख्या विषये ........ दर्शयति | यदुक्तं श्रीमत्किरणे दशांसतो जुहुयादिति | होमकर्मपुरणार्थत्वात् पूर्णाहुतिरर्थ सिद्धाय यद्वक्ष्यति दीक्षा प्रकरणे पश्चात् पूर्णाहुतिं दद्यात् प्रासादेन तु षण्मुख | इति | समानतन्त्रेप्युक्तम् पूर्णाहुति प्रदानञ्च कर्तव्यं धारणं त्विति | अमृतं यत्परं साम स्रुवन्तं मनसा स्मरेत् || दीक्षा प्रकरणे तद्योज्यं सर्वतः सर्वदा || लिङ्गोद्धार विधाने च नित्यसंस्कारकर्मसु || इति | अयञ्च होमयजविधिं कुर्यात् | सुसमिद्धे हुताशने इति | मण्डल प्रकरण वक्ष्यमाणत्वात् प्रवृद्धतेजसि वाङ्गौ कार्यः | प्. १७) ततः प्रागुक्त परिकल्पयेदित्युक्तत्वादाचन ताम्बूलादि समस्तोपचारं कृत्वा शिवस्य साग्नेर्विसर्जन कार्यम् | संहितान्तरोक्त क्रमेण बलिं दत्वा समाचम्य सकलीकृत्य होमकर्म परिपूजिताय शिवाय निवेद्य तद्विविसर्जनं कुर्यादित्थम् सिद्धम् | || इत्यघोरशिवाचार्यविरचितायां श्रीमत्कालोत्तरवृत्तौ अग्निकार्यप्रकरणं तृतीयम् || इत्थं दीक्षितानां उत्तरकालानुष्ठेयं नित्यकर्म उक्तम् | दीक्षितत्वापत्तये दीक्षाङ्गभूतेषु मध्याद्यस्य कस्यचित्साधकस्य मत्रसाधनताङ्गं मण्डलमाह - अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् | अत्र च मण्डलस्य याग मण्डपं समय दीक्षा क्रमञ्च विनाऽनुपपत्तेः || अनुक्तं यद्भ्वेत् किञ्चित्तत्सर्वं मूलमन्त्रमाश्रयेदिति वक्ष्यमाणत्वाच्च | संहितान्तरोक्तवत् भूपरिग्रहादि पूर्वं यागमण्डपं विधाय कृतस्नानादि नित्यक्षममाचार्यः कृतद्वारादि पूजो यागगृहं...... विहितदेह शुद्धयादिक्रमं विशेषः शिवतनु शिवहस्तं चोपकल्प्य गृहीतज्ञानखड्गः शिवोऽहमित्यभिसन्धाय विकारादिकमभिमन्त्र्य विहित पञ्चगव्यप्रोक्षणपूर्वं मण्डपं संस्कृतविकिरानस्त्रेण विक्षिप्य वास्तुपूजादि कृत्वा ईशानादि मण्डले शिवं समभ्यर्च्य अग्निस्थं शिवं सन्तर्त्थ प्. १८) चरुं सुसान्निध्य निवेद्यान्तर्बलिदत्वा देशकालदुर्निमित्त..... निमित्तापादनाय भुक्त्वा शिष्यप्रवेशार्थं शिवमभ्यर्च्य लब्धानुज्ञास्तान् बाह्यमण्डलस्यात् वीक्षणादि संस्कृतान् सद्गस्त्राच्छादित नेत्रान् प्रवेश्य देवस्यदक्षिणस्यां दिशि उदङ्मुखान् स .... प्य तद्धृदये चैतन्यं स्वबीजे संहृत्य तद्देहं विशोध्य शिवीकृतशिवहस्तं दत्त्वा तदञ्जलौ पुष्पमारोप्योत्थाप्यापनीतनेत्र नेत्रपरात् पुष्पं पातयित्वा सप्रदक्षिणं प्रणत ..... दीनग्निसमीपं नीत्वा नाडीसन्धान पूर्वं सम्पाताहुतान् कृत्वा शतादि कंजुहुयात् | ततोऽग्निं तु वागीशीं समुपस्थाप्य शिष्यचैतन्यं संहितान्तरोक्त क्रमेण गृहीत्वा आत्मस्थं कृत....... सम्पत्त्यर्थं वागीश्वर्यां योजयित्वा गर्भाधानादि संस्कार सम्पत्यै साङ्गं शिवं सम्पूज्य मूलेन सहस्रदीक्षांशैश्च दशांशं हुत्वा पूर्णाञ्च कुर्यात् || ततो व्रतिनां संहितान्तरे...... व्रताङ्गानि समर्पयेत् | ततश्च निर्वाणदीक्षां चिकीर्षुः मूलमन्त्रादि मन्त्रान् सन्तर्प्य च पाशसूत्रमवलम्ब्य तत्र शास्त्रान्तरोक्त देव पशुचैतन्यमालोक्य शान्त्यतीतादिकाः कल...ढ्व गर्भिणीं वाऽरोप्य सन्तर्प्य सन्दीप्य संयम्य च शरावादि सम्पुटे पाशसूत्रमवतार्य संपाद्य कुम्भस्थाय शिवाय समर्प्य शिष्येभ्यः पञ्चगव्यं चरुं दन्तकाष्ठं च दत्वा विधिवत् स्थापयित्वा दन्तकाष्ठ...ट सूचित दोषं निवृत्याग्निस्थं शिवं निरुध्य तत्सन्ध्यादिस्थलं प्. १९) कलशे समारोप्य बहिर्बलिं दत्वा स्वयं च पञ्चगव्यादि जग्ध्वा विधिवत् स्थापयेत् | ततो मण्डलमालिखेत् | ... ध्व गर्भिणीं वा रोप्य सन्तर्प्य सन्दीप्य संयम्य च शरायादि सम्पुटे पाशसूत्रमवतार्यसम्पाद्यं) ..... अतो नित्यकर्मणः परमन्यत् सर्वकामप्रयोजन नैमित्तिक काम्य यागाङ्गमण्डलं प्रवक्ष्यामीति | अथ तदाह - सूत्रे सुमितं कृत्वा चतुरश्रां समन्ततः | मनुद्ध पद्मं प्रतिष्ठाप्य मण्ठ?पत्रं समालिखेत् || कर्णिकम् एकहस्तं द्विहस्तं वा चतुर्हस्तमथाऽपि वा | अत्र पश्चिमं वाहयेद्द्वारमिति वक्ष्यमाणात्त्वात् द्वित्वार्थाक्षिप्तत्वात् तदर्थ मण्डलप्रमाणं समानतन्त्रात् सार्ध द्विशतिक ..... प्यं | यदुक्तं तत्र - दश द्वादशहस्तं वा हस्तं षोडशमेव वा || इति || ततश्च दशहस्त द्वादशहस्त द्वादशकरं वा षोडशकरं चतुरश्रशाणादि सूत्रेण श्रीमन्मयाद्युक्त विधिना | सुष्ठुमितमन्युनातिरिक्तं विधाय तन्मध्ये यथा क्रममेकहस्तं वा सपीठं पद्मं शास्त्रान्तरोक्त वदेव कार्यम् | बाह्यतश्चतुर्दिक्षु पद्म समा चत्वारि द्वाराणि कार्याणि | यच्छ्रूयते - पद्ममानं भवेद्गारं तस्यार्धं निर्गमं भवेत् | .............. रान्तराले च शिष्ट क्षेत्रे विधिः कार्यः | अत्रपीठं सूत्रादिनारञ्च विन्यासादि विशेषः सर्वोऽप्यनुरतुः संहितादेव गृह्य (ग्राह्यम्?) | प्. २०) अत्र च नित्यार्चा वदेकावरणमेव सर्वावरणसामान्यफलसिद्ध्यर्थं यजनं कार्यमिति दर्शयन् प्रागुक्तमर्थमनुवदति एकावरणमेतत् तु सर्वकर्मार्थ साधकम् || तु शब्दममार्थे | अत्र द्वितीयस्मिन्नपि दिनेति निर्वर्मित नित्यक्रियो याग गृहं प्रविश्य पूर्वदेहत्वन्धादि पूर्वं गणपति पूजान्तं कर्मकृत्वा मण्डले भोगाङ्गावरणं भगवन्तमभ्यर्च्य जप निवेदान्तं कर्म कुर्यात् | ततश्चा....... शादाग्नेययां हृदय न्यासस्योक्त सूत्रमनेनैक वाक्यतया सम्बन्धिनी यदाहुः यस्य येनाऽप्यर्थसम्बन्धो दूरस्थस्यापि तस्य सः | इति | कथं पुनरत्रैवास्य नपां च्छन्दोवत्सूत्राणि इति न्याया देवान्ति प मितमभ्युद्यधाय भवतीत्य विरोधः | अत्र च पश्चिमं वाहयेद्द्वारः सिद्धिकामः समाहितः | अन्त्यो मण्डपस्यापि ज्ञेयः | अस्माच्च विशेषविधानात् मण्डलस्य चतुर्द्वार ....... अथात्र प्रसङ्गान्नित्यनैमित्तिकायाः कुण्डस्यादि मानसंस्थानमाह - आग्नेययांकारयेत्कुण्डं हस्तमात्रं समन्ततः | समन्ततो हस्तमात्रं चतुरश्रमित्यर्थः किञ्च यज्ञकर्मविधिं कुर्यात्सुसमिद्धे हुताशने | सर्वत्र नित्यादि कर्मसु समिद्ध इत्युपलक्षणम् | निर्धूमेसु संस्थाने शोभा गन्धे सुस्वने स्निग्धे प्रदक्षिणावर्तिश्च वह्नौ यज्ञ?कर्मविधिमन्त्रतर्पणाद्यं बलि पर्यन्तं .... प्रशान्तिञ्च तत्संभवे कुर्यात् | प्. २१) एकावरणयज्ञ यजनं कार्यमित्युक्तम् विभज्य दर्शयति - आग्नेययां हृदयं न्यस्यै शाव्यां तु शिरो न्यसेत् | नैर्-ऋत्यां तु शिवो विद्यां वायव्यां कवचं न्यसेत् || अस्त्रं दिक्षु च विन्यस्य कर्णिका वा सदाशिवम् || सकलाकारं देवं ध्यात्वा संपूज्याग्नीशानयक्षो मरुद्दिग्दलेषु चास्त्रं पूजयेत् | शिवविद्यादिन्दन्यस्तव्यमिति शेषः | इत्थं सावरणं शिवमभ्य ................ देग्निकार्यमित्युक्तम् | ददन्त्व ...................... संक्षेपेण मया स्कन्दविधानं परिकीर्तितम् | अर्थवादानुवादपरित्यागं नेति कर्तव्यता न क्षणविधानमुक्तम् | न त्वधि वासना तदिति कर्तव्याह परित्यागे नापि अत एवाह अनुक्तं यद् भवेत् किञ्चित् तत्सर्वं मूलमाश्रयेत् | विकृति भूतेऽस्मिन् अनुक्तं प्रकृतितो नित्याच्च नापेक्ष्यंताप्यनुक्तं मूलभूतात् पा.............. यदुक्तं तत्रैव - मात्रा द्वादशस्वराः प्रोक्ताष्षण्डविवर्जिताः | च्छन्तोवत् सूत्राणि भवन्तीति न्यायात् पुंलिङ्गोऽत्रमात्रा शब्दः प्रयुक्तः | ततश्च मात्रा द्वादश युक्तन्नकाराख्यं ब्रह्मनेत्र वाचकैः अकाराद्यनुस्वरान्तैः ह्रक्षरैरन्तरितः कृत्वातान् वर्जयित्वेत्यर्थः | आकारादि शेषमात्रायुक्तं कुर्यादित्यर्थः | एवमु * *? षडवयवो मन्त्र गणेशा .... चकत्वाच्छिवो भवेत् | ब्रह्माणानु *? मूर्तित्वेनाधिष्ठेयनन्नेकल्प? च तदन्तर्गतत्वेन प्. २२) शिवात्मन इत्यत्र विभागेन दर्शितां षडवयवत्वमेव विभजति प्रथमं हृदयं विद्याद्द्वितीयं तु शिस्तथा स्मृतम् | तृतीयन्तु शिखा देवी चतुर्थं कवचं भवेत् || पञ्चमन्तु शिवं विद्यात् षष्ठमस्त्रं विसर्गतम् || अत एव सर्वात्व शिवज्वालानि पिङ्गलशिवशास्त्राख्यानि शिवाङ्गान्यैवात्र हृदयादीनि वाच्य......... तानि न तु विद्याधिपादीनि विद्याङ्गानीत्यभि प्रायः | पञ्चमपञ्चमीत्यत्र शिववाचकस्य पञ्चमस्योपलक्षणात् तु शब्दस्य विशेषप्रतिपर्त्त्यर्थत्वाद्वा समानोक्तो वक्ष्यमाणानिष्कल प्रासाद एवात्र नित्यकर्मणि षडङ्ग उद्धृत इत्याहुः | तदयुक्तम् तेषां सकलादीनां अष्टादीना मणिमादि सिद्धिहेतुत्वेन वक्ष्यमाणत्वासिततो भेदेन नित्यादिकर्म तु विनियोगात् समा.............. रोधा च बिन्दोरत्र हृदयादिष्वनुप्रवेशः तत एव सिद्धः | यदुक्तं तत्र- अनुस्वारो भवेन्नेत्रं सर्वेषाञ्चोपरिस्थितम् | इति | एषां चाद्यन्तयोः प्रणव नमस्कार प्रसङ्गः श्रीमन्निश्वासावुक्तः || ओंकारपूर्वका मन्त्रा नमस्कारान्तयोजिताः | इति अशेषां शिवकृत त्वमेव नानन्तादि कृतमित्याह - षडङ्गमेतत्कथितं शिवेन परमात्मना || परमात्मनानादि मुक्तेनेत्यर्थः | तदुक्तं मन्त्रवार्तिके विद्याविद्येशानां सामान्यविशेष धर्मविच्छंभुः | मन्त्रानुकरो यद्यस्मादर्थविदभिधानकृत दृष्टः | इति || इत्थं मन्त्राः संक्षेपतो उक्तः | सर्वकर्मणि विनियोज्याः | प्. २३) मुद्रां प्रस्तौति - अस्यमुद्रां प्रवक्ष्यामि येन सिद्धन्ति साधकाः || अत्राभिविद्योघ मुद्रेणानमुद्राः कथ्यन्ते हरशक्तयः इति श्रुतेः | कराभिनय व्यङ्गया शिवशक्तिरेव मुद्रोच्यते | अनेस्य वोद्धृतस्य मन्त्रगणस्य मोदिका विघ्नद्राञ्चैकामेव मुद्रां प्रवक्ष्यामि कथ ........... यजनं संप्रवक्ष्यामि यथा वदनुपूर्वशः || यथा वदिति स्नानादिहृद्यागाते समस्तविध्यनतिक्रमेण यजनं संक्षेपतो वक्ष्यामि | सर्व एवास्यां भूतास्त इत्यर्थः | अत एव चैव दत्र प्रकृति भूतं सर्वाङ्ग परिपूर्णत्वान्मण्डलयागादीनि त्वेतदाकांक्षत्वा द्विकृति भूतानि बाह्ययजनस्य चाधारपक्षत्वादत्र चावाहनानन्तरं स्नपनस्य श्रुतेः | तस्य च लिङ्गा विना भावाल्लिङ्ग लक्षणं तत्प्रतिष्ठादि च शास्त्रान्तर प्रसिद्धमित्यनेनोपत्तमनु पूर्वश इत्यनेन द्वारपालपूजात्म शुद्ध्याद्यनुपूर्विका विधीयते | अत्र हि दीक्षितः कृतावश्यकः शौचविधिस्नाता शुद्धयात्रस्नानवर्जितादाग्नेय स्नानस्त्रिकालानुरूपं ध्यानविशेषोविहितमार्जनाद्यमर्षणतर्पणोपस्थानो निर.ॠआयस्सौम्यास्य उपविन्य करन्यास पूर्वं निरस्ता शुद्धतनुः विहितशक्तिशरीरोवसाधितान्तर्यजन होमध्यान स्थानशुद्धिमर्घ्यपात्र करणपूर्वद्रव्य शुद्धिमात्म पूजां मन्त्रशुद्धिं च कृत्वाकृतगणपति गुरुपूजोपक्रमेत् | अथ तदुपक्रमः - प्. २४) हृदयं कण्टकापद्मं धर्मज्ञानादिमेव च | वैराग्यं च तथैश्वर्यं हृदयप्रभवं न्यसेत् || केसरैः शक्तयो व्यूहं हृदयेन तु कारयेत् | पद्मं च कर्णिकापद्मं हृदयमिति सामानाधिकरणानिर्देशात् हृदयस्य सद्भावार्थतया साक्षाच्छिवशक्त्यधिष्ठेयत्वेन शुद्धविद्यापद्मञ्चास्य ख्यापते (ख्यापिते?) ततश्च पद्मादि हृदयेन न्यसेदित्यर्थः | धर्मज्ञानादिमिति ध...... तानञ्च तयोरादिमधिकरणमनन्तश्चेत्यर्थः | एवञ्च शब्देन मायात्म हृदयेन प्रभव आत्मलाभो यस्य तं तथा न्यसेत् | हृदयेन न्यसेदित्यर्थः | अत्र चार्थ एवानुसक्त........ पाठ क्रमादर्थ कामो बलीयानिति | ततश्चाधारशक्तिं प्रथम पुराशक्त्या प्रणवेन संपूज्य पश्चात् सासनमनन्तं धर्मादि पादचतुष्टय मथच्छदने हृदयेन न्यस्य ततः शिवासन पद्म कर्णिकायां च ..... नैव न्यसेत् | ततश्च केसरैः सहायः शक्तयः तदधिकरणा स्थिताः | वामादिरष्टौ शक्तीः शास्त्रान्तरापेक्षया प्रागादि दिगण्.?तके कर्णिकायां मनोन्मनीं च न्यसेत् | अनुव्यूहं सू...... संज्ञं ब्रह्मविष्णु रुद्राधिपात्म विद्याशिवतत्वरूपं मण्डलत्रयं हृदयेन तु कारयेत् || केचित्तु शक्तिमण्डलमपि परतत्वाभिव्यक्तिपदं संष्ट?हीतं तु शब्दसन्निधानाच्चात्र हृदय शब्देन शक्तिना ............. दः कथ्यत इत्याहुः | शुद्धं शिवासनं संकल्प्य प्. २५) आवाहयेत्ततो देवं हृदयेन तु साधकः | अनन्तरं निष्कलं शिवा वाहनस्याधिकरणापेक्षत्वात् सृष्टिन्यासं न्यसेत्तत्र द्विरभ्यासप.................. इति | वक्ष्यमाणवचनाद्वा प्राशक्तेन वचनाच्च प्रागुक्तेन सद्भाव वाचिना हृदयेन संपुटितां अव्यक्तां मूर्तिं मन्त्रेणोपस्थाप्य सद्यश्चाष्ट कलायुक्तमित्यादि श्रुतिबलान्नेत्रं दत्वा ............ हादेवः सदाशिव इति समान तन्त्र श्रवणाच्च व्यक्तां सदाशिवीं सकलमूर्तिं प्रासादेन कल्पयेत् | यद्वक्ष्यति प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम् | अष्टत्रि................ फलोपेतं | इति | अस्याः परम शिव सहृदयेन प्रासादेना वाहयेत् | यदुक्तम् प्रासादात्मणु? प्लुत प्रान्त विश्रान्त्यापरपूजनमिति | आवाहनञ्चात्र मन्त्रवित् | स्नपन पूजनं चैव हृदयेनैव कारयेत् | एषाञ्चोपलक्षणत्वाच्चकार समुच्चयावाहन स्थापन सन्निधान सन्निरोधन महान्यासममृतीकरणं पाद्या चमनार्घ्यदानं दूर्वापुष्पाक्षतादि दानमिति दशसंस्कारान्तथा स्वप्न परिकरमभ्यङ्गोद्वर्जन निमज्जननीराजनमभिषेचनान्ते सुसितवस्त्राभरण गन्धपुष्पादि पूजन धूपदीपादि रात्रिकप्रवर्तनमावेद्य मुखवासताम्बुलादि दानं पुनर्धूपदानं दर्पणच्छत्रचामरादि विभवं पवित्रोपपादानं सर्वं जपादि निवेदनान्तं कर्महृदयेनैव कुर्यात् | एत देवाह - हृदयेनैव तत्सर्वं यत्किञ्चिद्विधिचोदितम् || विधिं मूलशान्तं सुतन्त्रोक्त मिहानपातं सर्वमित्यर्थः | समानतन्त्रेऽप्युक्तम् - उक्तानुक्तन्तु यत्किञ्चित्तत्सर्वं हृदयेन तु || इति || पुनः पुनरभिधानामन्त्रान्तर साध्यमपि सर्वं कर्म तत्तथा कारेणैतदेव साधयति | नियम इति | अथ किमत्र वरुणपूजा न वेति | अत आह - एका वरणमेतत्तु सर्वकर्मार्थसाधकम् || आग्नेययां हृदयं न्यसेत्यादि मण्डलप्रकरण वक्ष्यमाण आवरण पूजा प्रकारो नेत्र वा करण इति विशेषण बलादावरणपूजायाः शोभा हेतुत्वादुपतिष्ठते | यदुक्तं श्रीमत्पराख्ये - अनावृतो न शोभार्ह इति | श्रीमन्मृगेन्द्रेऽपि - पत्याहि यमानामा ना भात्यनावृतम् इति | न न्वावरण पूजासूत्रं मण्डलप्रकरणेन विरुद्धं न सर्व न मववाक्यं प्रकरणेन विरुद्धं न सर्वमेव वाक्यं प्रकारेण नावरोद्धुं शक्यम् | प्रकरणात् वाक्यस्य बलीयस्त्वोक्ततश्चात्र पूजान्ते नैवेद्य दानात् पूर्वावरणपूजा कार्येति सिद्धम् | अपविधिश्च प्रासाद जपप्रकरणादत्रोपतिष्ठते | आवाहनस्य पूजानभ्यर्थञ्च तत्समाप्ति निवेदनाय परांदुःखादानपूर्वलिङ्गाद्याधारवशात् सापेक्षनिरपेक्षा वापि विसर्जनं कथ्यते | एतच्च प्. २७) कामत इति कामो नित्यनैमित्तिक मन्त्राराधनादि तेषां सर्वेषां प्रयोजनमेकावरणमेव व्याधयति | किञ्चेदं सर्वतन्त्रेषु सामान्यं सर्वाश्रिततन्त्राणि स्त्रोतोन्तराणि तैश्च तमुक्तानि फलान्युपलक्ष्यन्ते | तेषु वलेष्वप्येतत् साधारणं तानि च साधयतीत्यर्थः | ततस्तं फलार्थिनामप्येतदेवानुष्ठेयम् | किञ्च सर्वज्ञानेषु संमतं सर्वेषु ज्ञानेषु कामिकादि सिद्धान्तशास्त्रेषु संमतं तैरविरुद्धमित्यर्थः | एवमुक्तं भवति एकावरणमप्येतदनेकावरणबलं न व्यभिचरतीति || इति लक्षद्वयाध्यापकश्रीमदघोरशिवाचार्यविरचितायां श्रीमद्विंशतिकालोत्तरवृत्तौ यजनप्रकरणं द्वितीयम् || अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् | अतोऽर्चनानन्तरं परं शैवमग्नेः कार्याय उत्पादनार्थं यो विधिक्रमः तस्मिंश्चाग्निभयः कार्यः मन्त्रार्चन तद्धोम ............... तमाह - उल्लेखनन्तु शास्त्रेण (श?-) कवचेनोक्षणम् स्मृतम् || अत्र कुत्रत्योल्लेखनमित्यपेक्षायां - आग्नेययां कारयेत्कुण्डं हस्तमात्रसमन्ततः || इति मण्डल प्रकरणात् वाक्यमुपतिष्ठते | तस्य च विशेषान्तराभिधानात् मेखला प्रमाणादि सहिता प्. २८) युक्तमुच्यते पदार्थैः प्रतिपशुपाशसाधनैः भोगमोक्षसाधनैर्वा विधिक्रिया कालयोग्य शिवाभिधानैः अनेक...... प्. २९) ........... मण्डलादभ्यर्च्य नाग्नि समीपा न नाडिसन्धान पाशसूत्रप्रलम्बकान्नि प्राग्वत्कुर्यात् | ततश्चैवं विधिविधानज्ञः बुद्ध्या कर्माचरेत् | एवं मण्डलादि विधानज्ञः तत्तदनुष्ठेय मूलापेक्षणीयञ्च सर्वं कर्म बुद्ध्या सम्यगवधार्य साङ्गदीक्षा प्रधानकर्म सम्यक् प्रधानेना चरेत् | यदुक्तम् - नवावज्ञ क्रियाकाले संहारोद्धारणं प्रति | .................... शिवः ध्रुवं नरके वसेत् || इति | इति लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्यविरचितायां द्विशतिकालोत्तर वृत्तौ मण्डलप्रकरणं चतुर्थम् || अथ दीक्षां प्रवक्ष्यामि पञ्चतत्व व्यवस्थितम् | अथ नाडी सन्धानपर्यन्तात् प्रागुक्तत्कर्मकलापात् अनन्तरं मलपरिपाकशक्ति युक्तानां कृतसमयादधिवासकर्मणां शिष्याणां दीक्षा पाश शोधन शिवत्वाभिव्यक्त्युपाय ............... | यच्छ्रूयते - दीयते ज्ञान सद्भावः क्षीयते पाश वासना | दान क्षपण योगात्तु दीक्षा कृतात्मना || इति || कस्मिन्ननञ्च व्यवस्थितामित्याह पञ्चतत्वस्याव स्थितां पञ्चसु तत्वेषु व्यवस्थिताः | पञ्चतत्वैरिति पाठे पञ्चभिस्तत्वैः शोधयेत् || ततः कानि तानीत्याह - पृथिव्यापस्तथा तेजो वायुराकाशमेव च || कथं पुनस्त्वेकादश भूतैरेतैः शुद्धैः अखिलाध्वशुद्धि * *? नि पञ्चतत्वानि तैः व्याप्तमखिलं जगत् | अयमभिप्रायः - अत्र हि वाक्शक्तिरूपा महामाया शुद्धे ध्वनि संहितान्तरवत् तत्वभुवनात्मना क्रमेण केवल सद्यो जातो पासकानां भोग प्रदत्वेनाऽवस्थितापि मायीयेप्यशुद्धेऽध्वनि नादात्मनावस्थितेप्युक्तम् | एवं हि नित्यार्चनादिषु बाह्यदेहशोधकत्वेन देहारंभकानि पृथिव्यादीनि पञ्चभूतानि तदीयाः कला विशेषतोऽधिष्ठेयनाम्ना निवृत्त्यादि कलातः पृथिव्यादिशब्देनोच्यन्ते इति वक्ष्यति | निवृत्तिः पृथिवी ज्ञेया इत्यादिना || यस्मान्न भूतान्येवात्र विवक्षितानि तेषामखिलाध्व व्यापकत्वासंभवात् | अत एवाऽह - सर्वतत्वानि तत्रैव द्रष्टव्यानि तु देशिकैः | तत्र तेष्वेव तत्वेषु सर्वाणि पृथिव्यादि शिवान्तानि तत्वाद्विशेषतो वर्णमन्त्रः | स च न संहितान्यन्तर्भूतानि ज्ञेयानि | तथा हि - कालाग्न्यादि गत रुद्रान्त ब्रह्माण्ड व्यापिकानि .............. त्तरवादि प्रकृत्यन्त तत्व व्यापिक प्रतिष्ठा पुरुषादि शुद्ध विद्यान्त व्यापिका विद्या तदूर्ध्वं शक्तिभुवनान्तं शान्तिः स्थिता शिवत्वे त्विण्डिकादि भुवनात्मना परिणतोन्नान्यवृत्तितैव | तदुक्तं समानतन्त्रे - ब्रह्माण्डे तु निवृत्तिर्वै शतरुद्राधिस्थितम् ||? तदूर्ध्वे तु प्रतिष्ठास्यादव्यक्तान्न गोचरम् || ततो ............... नियुक्तसुधा विश्वेश्वरान्तिकम् | प्. ३१) शान्तिकं तदूर्ध्वा ध्वान्ते शक्तिरेव पदे इति | अथैनमध्वालोकनमवश्यमार्यण दीक्षाकाले कर्तव्यमित्याह - आज्ञात्वेतानि (अ?ज्ञा-) यो दीक्षां कर्तुमर्हति | वृथा परिश्रमस्तस्य नै ......... ल मवाप्नुयात् || अति योग्यत्वाभिमानेन तत्रायत इत्यर्थः | तदुक्तम् - अतत्व विदकेषु दीक्षां कुर्यात् तु योजनः | दीक्षिता न शिवं यान्ति गुरुर्निरथगो (-निरय?गो) भवेत् || इति | अतः शिष्य परीक्षाप्युपायेना.......... ति सिद्धम् | अनया निवृत्त्यादि कलानां भूतेषु विशेषाधिष्ठानात् उपचारेण पृथिव्यादि शब्दादि शब्दवाच्यत्वमित्याह - निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते | विद्या तेजोमयी प्रोक्ता वायुः शान्तिश्च कीर्तिताः || शान्त्यतीता परं व्योम शान्त्यतीतकलात्मकम् || परमं कुण्डलिन्यासं तत्वमत्र व्योमेत्युच्यते | न तु तदधिष्ठेयं भूताकाशमित्यर्थः | अथ किमेताः समस्ताध्व गर्भिण्यः कला एव दीक्षाकाले च ......... जया किमन्त्यपि (किमन्यदपि?) अत आह - तत्परं शान्तमव्ययम् | तं विदित्वा महासेन स्थापनानपि दीक्षयोग्यः परं नि......... तुनं शान्तं रागादिरहितमव्ययम् | परिमाणादिरहितं परम शिवतत्व सर्वाध्वाधिष्ठा तृत्वेन........... हि निवृत्यादि पाशेभ्यः समुद्धृत्य शिवसंयोजनाख्यया क्रियया शिष्यो योजनीयः | तमेवं भूतं शिवं यावद् ज्ञात्वा स्थावरानपि दीक्षयेदिति अतिशयप्रतिपादनार्थमपि प्. ३२) श.............पर्वतं शिरसा भिन्द्यात् अतिशयार्थत्वात् | स्थावरानपि दीक्षयितुं समर्थः किं पुनर्मलपरिपाकत्वम् ......... योग्यान्वर्णानिति न तु स्वावरान् दीक्षये देषां शक्तिपातश्चेयां (श्रे?यां) संभवात् | इत्थं दीक्षा विषया.............. व्याप्तिं प्रदर्श्य व्युत्क्रमेणोपनेनासौ शिवायागमनं प्रतीति श्रीमत्स्वायंभुवे नवश्रुतेः संहार क्रमेण दीक्षाः प्रतिपादयति - निवृत्तिं हृदयेनैव प्रतिष्ठां शिर........... | विद्यातत्वं च शिखया शान्तिकं कवचेन तु || शान्त्यतीतं परं व्योम प्रासादेन तु होमयेत् || आ........ चैवं समाप्यते दीक्षा जननादिविवर्जिता || हुते नैव तु मुच्यन्ते साधका ज............ न्धनादि वक्ष्यमाणत्वात् समानतन्त्रोक्तवत् संहितान्तरोक्तवत् वागीश्वरी पूजादि योन्तं कर्मकृत्वा पश्चात् परमनिष्कृतिरूपा दीक्षा प्रधान कर्मार्थं निवृत्यादि कल...... हृदयादिभिः क्रमेण शतं शतस्योर्ध्वं पश्चात् पाशच्छेदाद्युद्धारान्तः कर्म कुर्यादित्ययं अत्र क्रमः | एत देवात्र लक्षा प्रधानकर्म संयोगादिति तदङ्गानि योसानि तु संयोगाद्यङ्गानि ......... यदुक्तं श्रीमन्मृगेन्द्रे - दीक्षा शुद्धिरशुद्धस्य तदङ्गानि समासतः | संयोग भोग विश्लेष प्राक्षेपाः सपरिच्छदः || इति | समान तन्त्रेऽप्येतत् क्रमः - तदुक्तम् - तयोजनीं बीजं च हृदञ्च यत्कल्पयेद्यधुक्रमम् | प्. ३३) अर्चनं प्रोक्षणं चैव ताडनं च यथा पुरम् | सन्धानं चैव संयोगं निक्षेपं तदनन्तरम् || अर्चनं च ततः कुर्याद् गर्भाधानं तथैव च | जननं चाधिकारं च भोगं चैव............. तथा | स्वतनन्त्वचाहुतिशतं स्वतन्त्रेण तु षण्मुख || पाशच्छेदं तथास्त्रेण दद्यात्पूर्णाहुतिं ततः || हृदयेनात्र नुद्धारः कर्तव्यञ्चाऽप्यनुक्रमात् || इति | ततश्चाधारशक्त्या स पूर्वं वागीशीमभ्यर्च्य आहुतित्रयं शास्त्रान्तरोक्तवद्दत्त्वा शिष्यं ताडनादिभिरादायात्मस्थं कृत्वा वागीश्वर्यां संयोज्य गर्भाधानादि लयान्तं कर्माहुति त्रयेणैव कृत्वा ह्रादिर्निष्कृत्य शतं शतं हुत्वा संहितान्तरोक्तवत् पाशच्छेदं च दाहं च कृत्वा प्रायश्चित्तं वागीशीविसर्जनं पूर्णां च कृत्वा निर्बीजदीक्षायां कारणेश्वरेषु शुल्कसमर्पणं कृत्वा शिष्यमुद्धृत्य भ्ग्यदेहे न्यस्य पूर्णां दद्यात् | एवं प्रतितत्वं सन्धानपूर्वं कर्मकार्यम् | पाशानां च मलकर्ममाया मायीय लक्षणानन्तरं प्रतिबन्ध कर्म निवृत्ति लक्षणच्छेद सद्योनिर्वाणदीक्षायाञ्चा नारति साधक दीक्षायां मन्त्रसिद्धिबलमपि न शोध्यम् | एषा च भौतिकी नैष्ठिकादि भेदात् स बीज निर्बीजादि भेदाच्चान्ते कर्षयेदित्युक्तम् | अन्यत्र एदोत्र प्रधान कर्मेति दर्शयितुमुक्तमेवार्थं द्रढयति - एकैकस्य शतं होम्यं शतानि होमयेत् |? प्. ३४) एकैकस्य निवृत्यादि पाशस्य शुद्ध्यर्थं शतं शतं होमयेत् | इत्थं पञ्चशताहुतीरत्र दीक्षा प्रधाने कर्मेत्युक्तार्थोऽपि संहारः | अतश्च शक्तिपातादीनामपि दीक्षास्वरूपत्व प्रतिपादनं एतेषां तद्योग्यता जनकत्वेन सिद्धे अत्र च पश्चात् पूर्णाहुतिदानं पूर्णाहुतिं च कुर्यात् | अथोपसंहार एवा------ समाप्यते दीक्षा जननादि विवर्जिताऽपि शब्दोऽत्र प्रतिषेधे वाची वियोगादाविव | ततश्च जननादिभिरर्श्भूतैः कर्मभिः अवर्जिता दीक्षैव मुक्तेन प्रकारेण समाप्यते | न तु जननादिभिरभितेति व्याख्येयं | तदभावे निष्कृतेरप्यभावप्रसङ्गात् | यदाह - हुतेनैव तु मुच्यन्ते साधका जन्मबन्धनात् || मुच्यन्ते | समानतन्त्रेऽप्युक्तम् - एभिस्तु शोधिते वत्सविधिं प्राप्नोति पुष्कलम् || इति || एतदेव विज्ञान कलप्रलय केवलयोः मायेव संसारा भावात् जननादि रहितेनेश्वरानुग्रहणमु............. किञ्चिद्धुते नैवेत्यवधारणात् | ज्ञानादीनां मोक्षहेतुत्वं प्रतिक्षिपति - यदुक्तं श्रीमत्स्वायंभुवे - अस्मात्प्रवर्तिताद्बन्धात् परसं या निरोधकात् | दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि || अत्र जननादि स्वरूप निरूपणमस्माभिर्मृगेन्द्रवृत्तिदीपिकायां दर्शितमिति तत एवावधार्यम् | ततश्च तिरोधानशक्तिरूपायाः शिखायाच्छेदपाशकदर्थित शिवत्वोपोद्बलनाय प्. ३५) वक्ष्यमाणवच्छिवसंयोजनं शास्त्रान्तरोक्त वन्ध्ये शानवत् तदसमग्रावणं याग विसर्जनं च वास्तुशक्तिं प्राप्तं कुर्यात् | अथैतद्दीक्षाकर्मानधिकृताय न प्रकाश्यं किन्तु स्वाभिषिक्ताय योग्यायैव देयमित्याह - अप्रकाश्यमिदं दृष्टं गोपनीयं प्रयत्नतः | रहस्यं सर्वतन्त्राणामिदं संस्कारमुत्तमम् || संस्कारमिति ............... न केवलं इहैव यावत्सर्वतन्त्राणां सम्बन्धि दीक्षाकर्म रहस्यमेव यतेयं पशोक्तः समस्तपाशशोधकसंस्कारः | न तु ज्ञानादिवत् कर्मक्षयमात्रफलम् | अत एव चाप्यस्यैवात्राधिकारात्तदभिषेकक्रमोऽप्यत्र समान तन्त्रादप्यवेक्ष्यः | ननु ज्ञानादयो विमोक्षसाधनकत्वेन श्रूयन्ते | तद युक्तम् | मलस्य द्रव्यत्वाच्च ............ रन्येनेश्वरस्य व्यापारेणैव | तेषु च शिवादि वस्तु विषयेषु ज्ञानयोग्यादिषु दीक्षितस्यैवाधिकारः | अत एव ज्ञानादीनामात्र मन्त्रदीक्षाया संविकल्पकत्व कथामयुक्तयुक्तमेतदाह | एवं संस्कार शुद्धस्य शिवत्वं जायते ध्रुवम् | एवं दीक्षा संस्कार शुद्धस्य शिवे संयोजितस्यैव सर्वज्ञत्व सर्वकर्तृकत्वात्मकं शिवत्वं निश्चितं जायते | नाऽन्यस्य ज्ञानादिनोपकृतस्येत्यर्थ............ भावाद्विज्ञान केवलत्वमेवेत्युक्तं अन्यत्र गुणतत्वोर्ध्व भुवने कैवल्य संभवे पाशो ज्ञानयोगसन्यासैः भोगाद्वा कर्मणः प्. ३६) क्षयादिति | जननञ्चात्रस्तारेव सर्वविषयो ज्ञानक्रिययोरभिव्यक्तिर्न तु पूर्वोत्पादः | परमेश्वर गुणसंक्रान्तिर्वेत्युक्तम् श्रीमन्मतङ्गादौ - दानन्नाम स्वसत्तैवेत्यादिनां | ननु पाश निवर्तनेन शिवत्वाभि व्यक्तेः किं शिव संयोजनात्मनामान्तरेणोच्यते यथा वृत्ति पटलापि चक्षुश्शक्तिकर्मान्तराञ्जनमसात्मकं विना कोपचित शक्तिर्भवत्येव निवृत्तपाशाप्यात्मशक्तिः शिवसंयोजनात्मकं शक्त्युपोद्वलनं विना न सर्वत्र विषयं प्रकाशत इत्यविरोधः | अत एव शिव संयोजनेति कर्तव्यता जिज्ञासया प्रश्नः - विस्तारं त्यज देवेश संक्षेपात्कथयस्व मे | येन विज्ञानमात्रेण पशून्मोचयति क्षणात् || अत्र बाह्य व्यापारस्य पूर्णाहुत्यात्मनः पश्चात्पूर्णाहुतिं दद्यादित्यनेनैव सिद्धेः येन मात्र निवर्त्येनान्तर व्यापारेणाचार्यः पशून्मोचयत्यभि व्यक्तशिवत्वात्करोति | तच्छिवसंयोजनाख्यं कर्मसंक्षेपेण वदेति ज्ञानदीक्षा प्रयोगेण पशून्मोचयति तं कथयेति | न तु कथमेतस्यैवात्र वाक्यस्यार्थ दय(द्वय?)मेवमभिवाक्यानभेदो भवेत् | तन्नस्ताचनात्मकत्व उत्स्तत्रस्य युगपदेकार्थकथनमपि श्रीमद्रौरवादौ दृश्यते | यतः अतोऽत्र प्रश्ना?यस्यैकेनैवोद्यमेन समाधिः | शृणु षण्मुख तत्वेन येनन्मोक्षो ध्रुवं भवेत् || प्. ३७) येन प्रयोगेण ध्रुवं मोक्षो भवति ततस्तत्वेन यथावदवधरय षण्मुखेति श्रौतो यमवहितं करोत्ययमित्याह प्रयोगेण तु योगेन योजये जापते पदे | योक्तृ प्रक्रान्तत्वाद्दीक्षात्मा स्वशक्तीनां शिवशक्त्या सहैकी भूतेनाचार्यात्मना शिवप्दे योजनाय प्रोच्यते | तं वायुमयं प्राणनादात्मक............. ज्ञानात्मानं मन्त्रवित्सकलनिष्कलादि भेद भिन्न प्रासाद स्वरूपवत् बुद्ध्यात्मपण्डितो गुरुः सूक्ष्मेन योगशास्त्र दृष्टेन दिव्येन दिवि मध्यनाध्यवच्छिन्नेन स साधना प्रकृतेन योगमार्गेण ध्यानधारणादि योगाभ्यास क्रमेण विदित्वा समत्समर भावेन गृहीत्वा विषयेण मध्यनाडी प्रवाहिना येन योगसाधनत्वात् मन्त्रोच्चारानु सन्धान सहकृतेन शिवाचार्यश....ड्य कर्क जन्मना विषुवत्प्रयोगेण प्रेयादिब्रह्मादि कारणे शब्दानि हृदयादीनि त्यक्त्वा द्वादशान्तस्थे शाश्वते पदे परमशिवे बहिः पूर्णया सह योजयेत् | ज्ञानदीक्षेऽपि योज्यते मन्त्रविदाचार्यो भङ्कारवृत्ति प्राणास्पदत्वात् प्राणमयं जीवं पुर्यष्टकावच्छिन्नमात्मनप्रोतेन योगमार्गेण साक्षात्कृत्य पृथिव्याद्यब्जनाडीर्वै शब्दादिगुणव.............. आत्माधिदैवतान् मन्त्रान् ज्ञात्वा मुक्तिस्तु मोचयेत् इति समान तन्त्रोक्त क्रमेण पञ्चादिभिरुद्घातैः हृदयादि स्थानेषु निवृत्यादि रूपान् विशोध्य कारण त्याग क्रमेण पूर्वं विषुवत् प्रयोगेण प्. ३८) शिष्यं परमपदे योजयेत् | उभय तथापि परमपद प्राप्तस्य न मुक्तिफल व्यभिचार इत्याह - योगन्तु विधिवत्प्राप्यको न मुच्येतबन्धनात् | यद्येवं ज्ञानादि ................ क मोक्षोपाये सत्यनेक वित्तव्यय साध्ये हौत्र्यादि रूपे कः प्रवर्तेत इति | यदाहुः - अर्केचेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् | इष्टस्यार्थस्य संप्राप्तौ कोविद्वा........... माचरेत् || तन्न विशिष्ट विषयत्वादस्य | ज्ञानवता क्रियानुष्ठानपरेणाचार्येण भक्त्याद्यनुमितिमलपाकशक्तिपाते चित्तेषु शिष्येषु हौत्र दीक्षाकार्या | अतिपापार्थ मलेत्यन्तयो ........... न्त दरिद्रे च शिष्येऽत्यन्त विविक्तेन योगाभ्यास निपुणेन प्रत्यक्षीकृत शिवादिवस्तु तेनाध्यात्म निष्ठेन ज्ञानदीक्षा कार्या इति | || इति श्रीमल्लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्य विरचितायां श्रीमद्विंशतिकालोत्तरवृत्तौ दीक्षाप्रकरणम् || इत्थं दीक्षितानुष्ठेय काण्डं तद्योगतस्संपातकञ्चाचार्यानुष्ठेय दीक्षा काण्डं त्वाधर्मज्ञानकाण्डमुच्यते | त.......... चार्य साधकयोः काम्य विषये भावं नोपयोगाय प्रथमं नाडी चक्रोपदेशः | नाडी चक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनु पूर्वशः | इदं वक्ष्यमाण नाडीचक्रं सूक्ष्मान्त.......... यथा व्यवस्थितं प्. ३९) कन्दादिक्रमेण वक्ष्यामि | तदेवाह - नाभेरधस्ताद्यत्स्कन्दं प्रवालाङ्कुरसन्निभम् | आधारः सर्वनाडीनां हंसेन समधिष्ठितः || इति तस्मिन्नङ्कुरा इव देहपादपस्य वृत्तिहेतुत्वान्नाड्यः सुषिरत्नपा वायुरसंशोणितप्रवाहाय अधीताशयास्थास्तस्मान्निर्गतास्सत्या नाभि मध्ये स्थिता | नाभिश्च सर्वत एतच्छरीरं रोमकूपान्तं व्याप्तम् ऊर्ध्व..... यानवहाभिरेवाधश्च रेतोमूत्रपुरीष वहाभिः तिर्यक्चर शोणितादिवभाभिर्व्याप्तं नासु च मध्याच्चक्रवत् संस्थिताः ह्येताः प्रधानादशनाडयः | नाड्यो नाड्योवेत्युभयया प्रयोगो दृश्यते इत्याह - इडा च पिङ्गला चैव सुषुम्ना च तृतीयका | गान्धारी हस्ति जिह्वा च पूषा चैव यथा तथा || कूर्मा कूर्म उन्मीलवेमुपलक्षणं विनिमीलनस्या........ क्षुदितं क्षुतममृतशरीरे धनञ्जय एवनाहं कार प्रयत्नसहकृतप्राणाद्या इत्यर्थः | अथ वायू.....ॠअ इत्येतद्वायुवृन्दं हृदिनिहितं नाडी चक्र प्रतिष्ठं निश्वासोच्छ्वास कासैश्च श्वसन उर अथः कम्पिता चूर्णितैश्च | नित्या नित्याल्प जन्मा व्यसनयति युवा यौवने बालभावे चक्रान्तो वायुरेके वियूधिनेन मरणैः क्रीडते सर्वतत्वैः | (श्लोकः) यदेतद्वायु बृन्दं पूर्वं नाड्याञ्चक्रस्थिते नाडी चक्रे प्रतिष्ठित मुक्तं | तन्नाडी चक्रप्रतिष्ठितमेव सद्धृति हृदनिहितं पीतलातारे तस्मिन्नपि प्रसृतमित्यर्थः | किञ्च उर प्. ४०) अध इत्युरथो यच्छान्दसत्कार विन्ध्या भावश्च तत्रश्वसितीति श्वसनः प्रधान भस्तत्प्रभुत्वेन प्रागुक्तोयो वायुः प्राणाख्यः स नित्यमेवाल्प जन्मवदाहुः | उच्छ्वासावधयः प्राणा इति | तथाऽप्यसौ युवमेव स्वं कर्मसु न जीर्यतीत्यर्थः | अयञ्च नित्यमविनाशिनं पञ्चात्मानं यौवने बालभावे......... र्थको च निश्वासोच्छ्वासकासैः कम्पिता घूर्णितैश्च व्यसागतिकापि तमकस्माच्छरीरचलनं घूर्णितं भ्रमणं निभृतो सावाक्रान्तः कर्मभिस्सहकारिभिः अचेतनत्वाच्छिव शक्त्या च सर्वसत्वैः क्रीडति किंभूतैः विधुनन मरणैः मरणशब्दसाहचर्यात् विधुनन विशेषकम्पन हेतुः योनि संकट निर्गमात्मकं ज.......... तन्त्रे विधुनन मरणे विद्येते येषां तैर्मरणयुक्तैरित्यर्थः | इत्थं प्रासङ्गिकं वायु वायु वृन्दमुपसंहृत्य प्रकृतमनुसरति - नाडी चक्रं यथावस्थं कथयामि तवाखिलम् | दशारञ्चक्रमेकन्तु विभागोच्छ्रायते यथा || एतद्वा प्रधान दशनाद्यारब्धकत्वाद्दशारमेव चक्रमस्य च विभागे यथा ज्ञा.......... क्ष्या त्यर्थः | तत्र चतक्रवद्भ्राम्यत्वतः जीवे दशस्थानेष्वनु क्रमात् आत्मनो व्यापकत्वेन गमना सम्भवात् जीवन शब्देनात्माधिष्ठित पुर्यष्टकाख्यसूक्ष्मदेह उच्यते | स चास्य चक्रस्य दिगष्टकनिविष्टेष्टासूर्ध्वाधोगामिनोश्च द्वयोः निरत्येव दशासु नाडीस्थानेषु चक्रवद्भ्राम्यते क्रमवृत्ति................ प्. ४१) .... क्तो भवेदिति एषोत्क्रान्तिः ज्ञातव्या | एष एव च विषुवाख्यसमन्त्रोच्चरस्य संक्षिप्तः प्रयोगो विज्ञेयः | ततः प्रकृते किमुच्यते - आयामं क्रियते तस्य नान्यतस्तु कदाचन | स जीवो जीवलोकस्य मया प्रोक्तः समासतः || तस्या हि कार वृत्तैः प्राणाख्यस्यान्तरस्य त्वं क्षिप्त प्रयोगो विज्ञेयः | ततः प्रकृते किमुच्यते - आयामः क्रियते तस्य वायोरायामः क्रियते न बालस्य शारेव्यात्मनो वास्तु तत्कर्ता प्राणविभागेन पुर्यष्टकविष्ट आत्माजीवलोकस्य जीवोमयाप्रोक्तः प्रागेव | इदानीं प्रान्त प्रसङ्गापेक्षित बाह्यसाधनं योगिनानुक्तं जपविधिमाह - उच्चारयति स्वयं यत्स्यात् स्वदेहावस्थितः शिवः | तस्मात्तत्व विदाना तु स एव जप उच्यते || यस्मादस्य देहावस्थितोऽपि शिवः पद्मदलजलबिन्दुवच्छुद्धो न पुरुषः स्वयमेव सामग्र्यन्तरानपेक्षः प्रागुक्तसूक्ष्मनाद स्वरूपाभिव्यक्तः स्वयमुच्चरति तस्मात्तत्व विदान्तर्जपस्वरूपवतांस एव जीवः उक्तः | तस्यैव प्राणकलावच्छिन्नस्याहोरात्रमाससंख्या - माह - अयुते द्वि सहस्रैकं षट्शतानि तथैव च | अहोरात्रेण योगीन्द्रो जपसंख्यां करोतियः || प्राग्गमागमस्याध्यात्मिक सूक्ष्मात्मा होरात्रत्वात् तेषां षष्ठ्यधिक शतत्रयेण घटिकायाः संवत्सरत्वाच्च तत्वष्ट्यां वाह्याहोरात्र व्यवस्थेति | तस्मात् षट् घ?ताधिकैक विंशति सहस्राणि प्राण प्रवाहस्य संख्येति जपत्यां व्याप्ति तत्संख्यासिद्धिः || प्. ४२) इति लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्य विरचितायां द्विशतिकालोत्तरवृत्तौ नाडी चक्रप्रकरणम् || अथातः संप्रवक्ष्यामि ज्ञानसद्भावमुत्तमम् | येन विज्ञानमात्रेण गृह्णाति न पुनस्तनुम् || अत्र ज्ञायते अनेनेति ज्ञानशब्देन प्रासादस्तावदुच्यते | वाच्यवाचकयोरभेद विवक्षया शिवो विज्ञान शब्देनोक्तः | ज्ञप्तिरूपञ्च ज्ञानमिति तेनात्मापि विवक्षितः | ततस्तेषामात्मप्रासाद शिवानासंभवं परमार्थं प्रवक्ष्यामि | येन ज्ञातमात्रेण पुनस्तनुं न गृह्णाति | एतत्परिज्ञानान्मुक्तिरविघ्नेन दीक्षितानां सिद्ध्यतीत्यर्थः || ननु ज्ञानमात्रात् ज्ञानेर्व्याप्त दीक्षितस्यैवाधिकारात् | किञ्च मलस्य द्रव्यत्वाच्चक्षुषः पटलस्येव ज्ञानमात्रनिवृत्तिरित्युक्तं | त्रयाणामप्येषां सकलनिष्कल भेदेनावस्थान द्वयमाह - देहस्थः सकलो ज्ञेयः निष्कलो देहवर्जितः | आप्तोपदेश गम्योऽसौ सर्वतः किमपि स्थितः || पुरुषोऽपि यावद्देहं संविदव्यवस्थिता तावत्सकलामवपशुर्मावदा प्रासादाः स ते प्रेरण नाद शिवा वृत्या द्वादशानेऽवस्थितः सर्वतोऽनावच्छिन्न संविद्भवति तदानिष्कलः शिवस्समान धर्मोपाशच्छेदादि कर्तुंसमर्थो भवतीत्यर्थः | यद्वक्ष्यति - प्रासादाब्जशिखान्तस्थो यस्तु दीक्षां करोति सः | आचार्यः सहशिष्यैश्च शिवसायुज्यतां त्य(व्र?)जेत् | इति || तच्च निष्कलं तस्य स्वरूपमाप्तोपदेशादागमादेव गम्यते | प्. ४३) बद्धदशायामत एव प्रासादोऽपि देहावस्थितो वक्ष्यमाणाकारादि मात्रा च व्यक्तः सकलातीतः क्रमत्परित्यक्त स्वेच्छयाकारः किमपि केनापि रूपेणा न व्यपदेशो नानावच्छिन्न स्थितः | स यो भयरूपोऽप्यागमेन ज्ञायते | यद्येवं सकलो निष्कलश्च भगवान् केन कथञ्चिद् ज्ञेयः | अत आह - हंस हंसेति यो ब्रूयाद्धंसो देवः सदा शिवः | गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतो मुखम् || प्राण गमागमस्य हंकारो प्राणवृत्यात्मना सकारेण चापानवृत्तिरूपेणान्वय वाग्वृत्त्यविनाभावसिद्धेः तद्गमागम वृत्त्यैव प्रतिक्षणं प्रागुक्त जपक्रमोहंस हंसेत्यामन्त्रण प्रकारेण यो ब्रूयादिति संभावनार्थे | यदाहुः - संकोचे च विकासे च हंस............ द्वयम् | इति | तेन विनष्टेन वागात्म प्राणशक्तिद्वयं जप ज्ञानवता पुरुषेणाहंकारेण शिववाचिना सकारेण शक्तिवाचिना वाच्यत्वाद्धं सा ख्यादेव सदाशिवशक्तिः शरीरः सकलं तावल्लभ्यते | यदाहुः - आम्नायतः प्रसिद्धं चक्रयोऽस्य प्रचक्षते || इति | योगबलात्प्रत्यक्षमेव लभ्यते | यदुक्तं अनुभवस्तत्वे - तं विविक्तधिषणा समाधिना निश्चयात्कृत वे........ | ....... त्वाकारेण निवृत्त भावनो भावयच्यनुभवैः अकृत्रिमैः इति | यद्वा - स्वगुणोर्वक्त्रांत्स्व बीजयोगो पदे ... रेण भवरूपः शिवः प्रत्यक्षं लभ्यते | अस्तस्मिन् शरीरे प्राणगमाधिष्ठातृतया न केवलं पुरुषः स्थितः | अपि तु स्वतन्त्रत्वात् तत्प्रयोजकत्वेन शिवोऽपि स्थित इत्याह - तिलेषु च यथा तैलं पुष्पे गन्धः समाश्रितः | प्. ४४) पुरुषस्य............. स वाह्याभ्यन्तरे स्थितः || प्रकृतत्वाच्छिव इत्यनुवर्तते | अत एव ज्ञानवतः शरीरादा(दे?)वात्म प्रतिपत्तिं विलीनेति भावः | अथ निष्कल ध्यानोदये न? तदुद्यायभूत सकलज्ञानविज्ञान............. प्रविलीयत इत्याह - उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्यतान्त्यजेत् | ज्ञानेन ज्ञेयमालोक्य तथा ज्ञानं परित्यजेत् || ज्ञायते अनेनेति ज्ञानं सकलविषयमुपायत्वात्तृणपुञ्जगृहीत ज्वाल....... पयं निष्कलं लोके च निष्कलः सूक्ष्मच्छाया गन्धादि रूपेयस्तत्प्राप्य उपाय भूतं पुष्पादि सकलं विद्यात् | गन्धस्तस्यैव निष्कलः वृक्षस्तु सकलं स्कन्धच्छायात...... ष्कला | लोके च निष्कलः सूक्ष्मच्छाया गन्धस्सकलत्वेन व्यवस्थितः | न सा भवे.......... दि रूपे यस्तत्प्राप्य उपाय भूतं पुष्पादि सकलं त्वमेवेत्यर्थः | एवञ्च सकलाकलभावेन सर्वत्रैव ..... शिवोऽहं सर्वचेतनाचेतनेषु बहिश्चान्तश्चतत्तदर्थ साधकतया सकलत्वेन निष्कलत्वेन व्यवस्थितः | न सा भाव कला काचित् सन्तान भयवर्तिनी | व्याप्तिः शिवकला य........ धिष्ठात्री न विद्यते || इति || ततश्च सकले सकलं विद्वान्निष्कले निष्कलं तथा | वक्ष्यमाण वदाकारादि मात्रायुक्ते सद्योजातादि मन्त्रकलापादाने च सकले प्रासादे च सकलमेव वाच्यतया स्थितम् ............ ष्कले तु तदतीते प्रयत्न प्रमाण ध्वनिवर्तते निष्कले च विद्यात् | अतश्च सकलाद्युपाये सकलप्रासादोपायतां प्रयाति निष्कले निष्कलसिद्धिमुक्त्यर्थं नामित्यव प्. ४५) ............ तथाहि त्रिमात्रस्तु द्विमात्रस्तु एकमात्रस्तथैव च || अर्धमात्रोपरः सूक्ष्मः तस्याऽप्यर्धं परात्परम् || इति || ततस्त्रिमात्राकारस्वरोऽष्टकलेजाग्रदवस्वस्ति प्रयत्नतः | प्राणनादिभिर्व्यङ्ग्यः स्तम्भ मोहातिकारः द्विमात्रश्चोकारः त्रयोदशकलाः स्वमावस्थं तीव्र प्राणाद्यभिव्यङ्ग्यं ताप्याधानादि कर्ता एक मात्रोऽपि मकार अष्टकलः सुषुप्तावन्तस्थो मदप्राणादि लक्षणो वश्याकर्षणादि जनकः | एवमर्ध मात्रश्चतुष्कस्तु यावत्स्थो विन्दुः मन्दतर प्राणाद्यभिव्यक्तोभ्रमोज........... दोच्चाटनादि हेतुः तदर्धमर्धमात्रस्तु यतो दशार्ध कीकलोनादाख्यो योगकैवल्याद्युपायः एताश्चाप्सत दीर्घप्लुत दीर्घह्रस्व व्यञ्जना ह्रस्वमात्रा उच्यन्ते | च कारादिभिः प्रणवाक्षरैः प्रासादाक्षराणि युञ्ज्यन्ते | एवञ्च सार्धं च षण्मात्र उच्चार्यमाणः सकल प्रासादकमाध्वनिरूपतयार्धमात्रो भवति ततो निष्कली भवन्तच्चार हृत्यः परमोपादाने कुण्डलिन्याख्ये लीयते | तत्स्वरूपं परमो पादानत्वात् पर शिवशक्ति क्षोभत्वाच्च परमिति परापर मुक्तम् | एताभ्याञ्च क्रमात् सकल निष्कलोपेयः शिव रुरूपप्रतिपत्तिरित्युन्तम् | न केवलमुक्तमात्रक्रमेण यावदाकारादि स्वरात्मिक ब्रह्मादि कारणपरित्याग क्रमेणापि सकल निष्कलेत्युक्त भाव उच्यते - ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च शिवः स्तथा | पञ्च सा पञ्चदैवत्यः सकलः परिपठ्यते || ब्राह्मणो हृदयं स्थानं कण्ठे विष्णुः समाश्रितः | तालु मध्ये स्थितो रुद्रो ललाटे तु महेश्वरः || नासाग्रे तु शिवं विद्यात्तस्यान्ते तु परात्परम् || प्. ४६) परात् परतरं नाऽस्ति इति शास्त्रस्य निश्चयः || एतानि च स्थानानि क्रमेण जाग्रदादि रूपाणि प्रोक्तानीति प्रासादस्य सकलस्योच्चारणात् पश्चात्स्थान स्पर्शः सिद्धः | एवन्निष्कलं भावं च तस्य परात्परत्वेनोक्तस्य द्वादशान्ते तदुच्चारयितुः शुद्धसंविदुदय प्रा....... पदप्राप्ति हेतुत्वमप्यत्र ज्ञाप्यते | तत्र भ्रूमध्यात् प्रयाति ब्रह्मरन्ध्रस्य नासाग्रस्य च समानत्वान्नासाग्रशब्देन ब्रह्मवित्वमुच्यते | तत्र शिवोऽधिकारावस्थः स्थितः ततश्च तदन्त स्थानि क्रमेण जाग्रदादि रूपाणि प्रोक्तानीति प्रासादस्य सकलस्योच्चारणात् पश्चात् स्थानस्पर्शः सिद्धवन्निष्कली भावश्च तस्य परात्परत्वेनोक्तस्य त उच्चारयितुः शुद्धसंइदुदय प्राप्तेः पर.......... भ्रूमध्यात्प्रयाति ब्रह्मरन्ध्रस्य नासाग्रस्य च समानत्वान्नासाग्रशब्देन ब्रह्मविलमुच्यते | तत्र शिवोऽधिकारावस्थः स्थितः | ततश्च तदनन्तरस्यात् तत्समीपस्थात् परा......... नान्यत्किञ्चित् तत्वमस्ति | अपि तु प्रापामेव परमपदं विद्यते ततः परतरं न किञ्चिदन्यदस्ति | तस्यैव सर्वाधिष्ठातृत्वा ............. शैः संयोगाविभागा वा सादयति | एवमपि नाडी स्थानेषु सुयोगविभागात्मिका वृत्तिरासादयतीत्यर्थः | केनाऽसौ भ्राम्यत इति चेत् कर्म सहकारिण्या शिवशक्त्या तत्स्थानेषु ......... ना जायते | यदुक्तं समानतन्त्रे - प्राग्दलसंस्थो नृपावलेऽपि स्यात् | तेजसि च वुभुक्षा विडायाञ्जायते || अ............... याम्यो भावे नैर्-ऋतो निर्-ऋतौ विनिर्दिष्टाः | वारुणपत्रे वरुणो मारुत पत्रे मरुद्भावः || प्. ४७) सौम्ये सौम्यो भावः त्वीशे त्वीशः समाख्यातः | यां यां दिशमभिगच्छति तद्भावं निखिलमायाति || इति | स जीवो जीवलोकस्य बुद्ध्यते नैव मोहितैः | स एवास्य जीवलोकस्य पृथिव्यादि कलान्त भुवनज शरीररूपस्य जीवो ज्ञेयः | तथाऽपि मलावृतत्वान्मोहि........ कादिभिःस्सजीवः पुर्यष्टकाधिष्ठातृत्वेनोक्तः | आत्मा शरीरादि व्यतिरेकेण न ज्ञायते | उक्तमेवार्थं स्पुटयति - दशधा गच्छते येन तेन चक्रं प्रकीर्तितम् | नाडी चक्रमिति ज्ञातं यत्र संक्रमते ह्यसौ || येन कारणेन तत्र जीवो दशधा गच्छति | स्थानात्स्थानान्तरं संक्रामति तेन चक्रवच्चक्रमुच्यते | यत्र चाधारभूतेऽसौ जीवः संक्राममेति तदिदं नाडी चक्रमिति ख्यातं व्याख्या............. हारः | एवं सामान्येन प्राण सञ्चारात्मना लिङ्गेनानुमेयत्वमस्मत्कर्तुर्जीवस्य सूचितम् | इदानीं तस्यैव विशेष जिज्ञासया प्रश्नः - स जीवो जीवलोकस्य तत्वतो ज्ञायते यथा | संशयो मे महानत्र प्रसादी भव शङ्कर || अथाऽत्र प्रतिवचनम् | जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख | कथयामि न सन्देहः पुत्र स्नेहाद्विशेषतः || शरीरेन्द्रियादि व्यतिरिक्तस्यात्म ............. दृश्यते अनेनेति लिङ्गचक्रं शृणु | अयं देहो यथा भवति तथा यैर्द्विगैरसौ ज्ञायते तानि कथयामीति | अत्र च यथा लौकिकैः पुष्पविशेषाद्यनुमितैः संक्रान्त्यादिभिः कालविशेषैस्तत्र तत्र संक्रमेत् | सूर्यो ज्ञायते एवमाध्यात्मिकानां कालभेदानामिति प्राणसञ्चार विशेषात्मकत्वात् प्. ४८) तद् ज्ञानेन तत्कर्ता जीवः सुखेन ज्ञायत इति तानेवात्र लिङ्ग ........ नोह संक्रान्तिविषुवं चैवा होरात्रायनानि च | अधिमास भ्रणञ्चैव औमरात्रमिति वा || पुमादपादबाहु कलविशेषेषु यद्विहितं तन्निषिद्धं चक्रं कतदेवा ध्यात्मगतेषु प्राणवृत्यात्मकेषु दशसु कालविशेषेषु तथैवाऽनुष्ठेयमिति दर्शयितुं नामभिर्निर्देशः | यदाहुः - नाम्ना धर्मातिदेश इति अथैषामेव स्वरूपकथनम् | औमिरात्रं भवेद्धि ककाटधिमासो विजृम्भिका | जणञ्चात्र भवेत् ......... सोहि श्वासो धनमुच्यते || औमशब्दस्यात्र न्यूनार्थतया विवक्षितत्वादूनरात्रिर्यस्मिन् न किञ्चित्क..... यमित्यर्थः | यतो दीक्षा प्रतिष्ठादौ विना विर्षा इति श्रूयते | एवमधिमासो मासवृद्धिः स चात्र जृम्भैव त भ्र.वक्ष्यमाण प्राणापान प्रत्यात्मकं मनकार्यम् | यदुक्तं श्रीमत्त्रयोदश शतिके तिथिच्छेदे ऋणं ज्ञेयं वृद्धौ चैतद्धनं भवेत् | इति | अतश्चात्र धनमति निश्वासः प्राणायामात्मकः......... पलत्वात्तस्मिन् कर्मकर्तव्यम् || अथायनादि लक्षणम् || उत्तरं दक्षिणं ज्ञेयं वाम दक्षिण संज्ञकम् | ............. प्रोक्तं पुटद्वय विनिःसृतम् || दक्षिणं पिङ्गलावर्ति दक्षनासापुटाश्रयम् | प्राणप्रवाह रूपं तत् देयानाख्यमुत्तरायणम् ज्ञेयम् || वर्धन्यावर्तवामनासाश्रयं प्राणप्रवाह वर्त्मवृथा दक्षिणायन संज्ञामध्ये सुषुम्नागामिनासापुटद्वयेन प्रवर्तकं प्राणस्वरूपं शिवयानवर्ति प्. ४९) विषुवमुद्धते | एषु च यथात्मगुणं कर्मानुष्ठेयम् | यदुक्तं समान तन्त्रे - सौरस्स........... चन्द्रमसश्चेतरः समाख्यातः | धन्योऽभिषेक इन्दु सौरः खलु वह्निसन्धाने || ध्यानाद्यो विषुवति चेति || श्रीमन्निश्वासकारिकायामपि - अह्नौशौ परिमृज्य मध्यदेशे यथा स्थितम् | विषुवन्त द्विजानीयात्तद् ज्ञात्वा मोक्षदो भवेत् || स वृत्तः सो यदा तिष्ठेत् देव देवो जगत्पतिः | उत्तरायणमेतद्धि ज्ञात्वा शिवपदं व्रजेत् || शशाङ्केन सहैकत्वे यथा तिष्ठो महेश्वरः | जानीया............... दक्षिणायनसंज्ञितम् || क्रमं करा............ यद्ध स्वात्रिं त्यक्त्वा हिमालयम् | जलाद्वह्निं पुनर्गच्छेत् संक्रान्तिरिति स्मृतम् || इन्द्रियार्थान्परित्यज्य परमे व्योम्निसंस्थितः | निश्चलश्च .............. स्तु विषुवं तद्विनिर्दिशेत् || इति | अथ संक्रान्ति लक्षणम् - संक्रान्तः पुनरस्यैव स्वस्थानात्स्थान योगतः || स्वस्थानाद्दक्षिणादेव स्वस्थान एव नाडन्तरे योगात् प्राणस्य संक्रान्तिर्भवति | तत्प्राणस्य स्थानं यत्र संक्रान्तिरुक्ता अह आह - इडाचैव सुषुम्ना च अमया च समन्विता | सुषुम्ना मध्यमेद्-ह्यङ्गे इडा वामे प्रतिष्ठिता | अमावै दक्षिणे स्कन्द एषु ................. तिरुच्यते || अमासंज्ञयाऽत्र पिङ्गलोक्ता | अधुनाऽध्यात्मिक सूक्ष्मतरं काल स्वरूपं दधन् अहोरात्र लक्षणमाह - प्. ५०) ऊर्ध्वप्राणे ह्यधश्चैव अपानो रात्रिरेव च | ऊर्ध्वस्वरस्सा हि प्राणादित्यः समुदायाह........क्तः आपन वृत्यात्वस्तमयाद्रात्रि ततश्च त्रिंशता संक्रान्तिरशीत्यधिकरणशतेनोत्तरायण दक्षिणायने वेति प्रधानादिकं षष्ठ्यधिकेन प्राणशतत्रयेण संवत्सर इति अहोरात्रेण बाह्येन षष्ठ्यब्दो भवति | यदुक्तं समानतन्त्रे अथवा तु महासेन संक्षेपात् कथयामिते | षष्ठिसंवत्सराः प्रोक्ताः अहोरात्रेण योगिनाम् || शतत्रयं षष्ठ्यधिकं प्राणानां तु षडानन | यावद्वा घटिका प्रोक्ता तावत्संख्याप्रकीर्तिता | एवं संवत्सरः प्रोक्तः बाह्येऽत्र घटिका तु या || प्राणापानावहोरात्रम् | इति || एतांश्च विभागान् दश प्राणस्य योवेत्येव स देववित् | एवं संक्रान्त्यादि दशप्राण भेदान्यो वेत्ति स वेदवित् || इति || वेद्यन्त इति वेदाः आत्म शिवशक्तयः तान् वेत्ति | तथा च श्रुतिः प्रमाणं तस्य च प्राणस्य हृत्पद्मे कुम्भकाख्यं आयामः सोमग्रहणं तत्पुण्यं कालसमद्वादशान्तेष्वादित्यग्रहणमित्युक्तं समान तन्त्रे - आयामो देह मध्यस्थः सोमग्रहणमिष्यते | देहातीतं तु तं विद्यादादित्य ग्रहणं बुधः || इति | अतश्चेभिर्दशभिर्लिङ्गैरात्मा ज्ञेय इत्युक्तम् || इत्यमाध्यात्मिकं काल विभागमुक्त्वाऽधुना प्राण एव जीव इति भ्रमावनुक्तये तद्विविक्त जीव ज्ञानाय प्राणायामोपदेशः | प्राणायामं समासेन कथयामि तवाऽधुना || प्. ५१) पूरकादिभिः वक्ष्यामि | अस्य च सगर्भ रूपत्वान्मन्त्रोच्चार तद्वाच्य ध्यानोपेतं पूरकमाह - उच्चारयेत्तु प्रणवं स्वरेणैकेन योगवित् | उदरं पूरयेत्तावत् वायुना यावदीप्सितम् || प्राणायामो भवेदेष पूरको देहपूरकः || प्रथमं नाडीं संशोध्य द्वादशान्ताभि ध्यानप्राणशिवमन्त्रता यावच्छक्त्युदरं पूरयेत् | प्रणवञ्चैकश्रुत्योच्चारयेत् | प्राणायामवरोधज्ञ इति श्रुतेः | यज्ञ कर्मणि चोदात्र एव स्यात् | केचित्तु - प्रासाद प्रणवाभ्यां तु नान्तरं परिकल्पयेत् || इति श्रुत्या प्रणव शब्देन प्रासाद उक्तः | तमेकस्यरेण विच्छिन्नो नाद्यमेति नत् च्चारयेदित्याहुः | एष च देहपूरक त्वात् पूरकः | अथ कुंभकः - (पि?) विधाय सर्वद्वाराणि निश्वासोच्छ्वास वर्जितः | संपूर्ण कुम्भवत्तिष्ठेत् प्राणायामस्तु कुम्भकः || रेचकस्तु - मुञ्चेद्वायुं ततस्तूर्ध्वं श्वासेनैकेन मन्त्रवित् | हृदय पद्मादूर्ध्वं एकनासा पुटेन वायोः प्रेरणं रेचकः | किञ्च- उच्छ्वास योग युक्तस्तु वायुमूर्ध्वं विरेचयेत् | रेचकस्त्वेष विख्यातः प्राण संशयकारकः || उच्छ्वासेन वायोर्मध्यनाड्ये ऊर्ध्वप्राण प्रवृत्त्यात्मना योगेन मन्त्रोच्चारान्वित सदाशिव ध्यानोपेतः ततो हृदयपुण्डरीकस्थं वायुमूर्ध्वं ब्रह्मरन्ध्रेण विरेचयेत् | अयन्तु विशिष्ठो रेचकः शिवागमे विशेषेण ख्यातः | प्राणसंसयकारक इति मन्दाभियोगस्य जीवित सन्देहमपि जनयतीत्यर्थः | प्. ५२) अथैषां प्रयोजनमाह - योऽसौ हृदि स्थितः पद्ममथोमुखमवस्थितम् | विकस्यति स वै पद्मं पूरकेण तु पूरितम् || हृत्पद्मं सर्वदा यो मुख्य विकसितमेव पूरकेण विकासमेति ततश्च ऊर्ध्व स्रोतो भवेत्पद्मं रेचकेन तु रेचितम् | रेचकेन तु पूर्वाक्षिप्तं सद्यः प्राणहरेण तु विकसितपद्मं कुंभकेन निरोधमुक्तं भग्नमेति रेचकेण प्राणहारत्वेन प्रागुक्तेनाभ्यासतो मध्यनाडी वर्तिना यदा क्षिप्तो रेचितः तदा ऊर्ध्व स्रोत ऊर्ध्वमुखो भवेत् | तदानीं च - मुक्त्वा हृदय पद्मन्तु ऊर्ध्वस्रोतो व्यवस्थितम् | रेचितो गच्छति ............................................................. || भित्वा कपालद्वारन्तु जीवोह्यूर्ध्वं विरेचितः || सदा शिवपदं गत्वा न भूयो जन्मचाप्नुयात् | तथा भूतेन स्वसमसम्बन्धिना रेचकेण रेचितो त एव मध्यनाड्यामूर्ध्वमुखो स्थितो शिवोऽहं संवर्त्म हृत्कण्ठ तालु भ्रूमध्यान् भित्वा कपालद्वारं ब्रह्मरन्ध्रं च निर्भिद्य ततोऽप्यूर्ध्वं विशेषेण रेचितः सोमसूर्याग्नि शक्त्यन्तस्थं सदाशिव पदम् ..... प्. ५३) ना गमागमः कथं तस्य केन वा नीयते तु सः | संशयोमे महादेव कथयस्व यथार्थतः || तस्यात्मनो विभुत्वादमूर्तत्वाच्च गमागमो न संभवतः | अथ पूर्यष्टकद्वारेण तस्य गमागमौ पश्येते तथापि द्वादशान्ते व्यवस्थन्तेऽस्य गमनमभ्युपगन्तव्यम् | अन्यथा विज्ञानकेवलावस्थायामिव तदुपायं विना निष्कल संविद्यनुत्पत्तेः गमेव तस्यास्मिन् बाह्यशरीर विषये सूक्ष्मदेह योगा भाव योगो भावस्थायं प........ पुनरागमोऽस्ति शरीरे कथमिति प्रश्नः | (तस्या च सूक्ष्मशरीरस्या चेतनत्वात् पुरुषस्य बायशरीर नयन प्रव सामर्थ्या भावात् केनाऽसौ नीयते इति द्वितीयः प्रश्नः ||)? स्वशक्त्यानीयते जीवः तस्मिन् प्राप्य निवर्तते || शिवशक्त्यधिष्ठितया क्रिया शक्त्या एवासौ नियते नरः पुरुषेण वाऽत्र नीयते सकृद्द्वादशान्तं प्राप्य तस्मिंस्थाने पुनः निवर्तते | हृदयं यावदागच्छति अन्यथावस्थायां तु कर्मवशाज्जीवशक्त्यनधिष्ठ......... पुरुषस्य वा निवर्तना सामर्थ्यं ततः पञ्चतेत्यदोषः | अधुना प्रागुक्त संविदः प्राप्यस्थानं परमपदं विशेषेण दर्शयति - तस्यान्तं संप्रवक्ष्यामि शृणुषण्मुख तत्वतः | तस्य प्राणहंसस्य विरामस्थानं वक्ष्यामीत्यर्थः - देहातीतं तु तं विद्यान्नादान्तं द्वादशाङ्गुलम् | अन्तःस्थं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः || यत्तद्देहमतीत्यर्थ द्वादशाङ्गुलादूर्ध्वं स्थितः तदन्तद्वादशान्तानादात्मनः प्राणहंसस्य विराम स्थानं निष्कल..... नं तत्रस्थं संवित्प्रभुराडा व्यापकस्य विदे भवति | इदानीं साक्षात्परिज्ञानफलं दर्शयति - प्. ५४) मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् | तथाऽपि योगिनां योगो व्यवच्छिन्नः प्रवर्तते || मनश्चक्षुषो रूप लक्षणत्वाद्यपीन्द्रियाश्रितैः अन्यत्र स्वविषये विवक्षितत्वापि तेषां प्रासाद शिवस्वरूप ज्ञानिनां व्यापकात्म प्रतिपत्ति योगः शिवप्रतिपत्ति योगश्चाभ्यासवशादविच्छिन्न एव प्रवर्तते | ततश्च निर्विघ्न भोगमोक्ष.......... रित्यभिप्रायः | वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान् | इति | तदेवान्यो पादेयत्यानि परमुखेनोपसंहरति - एतत्तत्परमं गुह्यं एततत्परमं पदम् || एतत्तत्परमं ब्रह्म एतत्तत्परमाक्षरम् | नाऽतः परतरं ज्ञानं नाऽतः परतरं शिवम् || नातः परतरं किञ्चिदित्याह भगवान् शिवः || वाक्यान्तरे मोक्षस्थानानां सर्वेषामेतत्परं नातः परं किञ्चिदस्तीति भावः | परमेश्वरेणैव तानि सूत्राण्युक्तानि न मयेत्यस्यार्थस्य प्रामाण्यं दर्शयति | तस्यैव च सर्वज्ञत्वात् निर्मलत्वेन परमाप्तत्वात् इति संप्रदाय सिद्धत्वमेव स्वाहा | शिवज्ञानामृतं प्रोक्तं संक्षेपान्न तु विस्तरात् | अवाप्तं देवदेवेशात् परमाक्षर निर्णयम् || प्रासादः परमाक्षर इति श्रुतेः | परमाक्षरस्य प्रासादस्य न क्षयो यत्र विद्यते | तदिदं परमाक्षर निर्णय शिवज्ञानामृत प्रकरणमुपलक्षणत्वाच्चास्य समस्तमेवेदं ज्ञानं मया परमेश्वरादवाप्तमिदानीं संक्षेपात् कथितं | अत एव - प्. ५५) एतद्धि शिवसद्भावं शिववक्त्राद्विनिःसृतम् | गुह्याद्गुह्यतरं गुह्यं ................. प्रयत्नतः || हीति यस्माच्छिवस्य वक्त्रं वचनत्राण रूपाश्शक्तिः ततो विनिःसृतं तवाभिव्यक्त शिवसद्भावं शुद्धं शास्त्रं सर्वस्वमेतत् तस्मात्त्वयाऽप्येतदन्त्यन्तं गोपनीयम् | अतश्च - नाऽपुत्राय प्रदातव्यं नाऽशिष्याय कदाचन | देवाग्नि गुरुभक्ताय मात्सर्य रहिताय च || तस्मै देयमिदं ज्ञानं नाऽस्मै तु कदाचन || उक्त विषयादन्यत्र दाने प्रत्यवाय उक्तः | समानतन्त्रे - दाताऽस्य नरकं याति सिद्ध्यते न कदाचन | एतच्च ............. प्रोक्तं सत्यं सत्यं मया तव || एवं ज्ञात्वा तु मेधावी विचरेत्तु यथासुखम् | एतच्छिवज्ञानामृतमेवं ज्ञात्वा ह्यस्य ज्ञानजीवन जीवन्मुक्तो भवेदित्यर्थः | तथा हि गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः | यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा || विषयी विषयासक्तो याति देहान्तिके शिवम् | आश्रम चतुष्टययुक्तेषु परमाक्षरवित्संनिहितं .......... नितेष्वसक्तो भूत्वा शरीरस्यान्ते शिवमेव याति | न तु विषयेष्वासक्तोऽपि शिवं यातीति व्याख्येयम् | शास्त्रविरोधात् | किञ्च - ज्ञानादेवास्य शास्त्रस्य पापसक्तोऽपि मानवः | ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते || प्. ५६) यदैवात्राधिकः शास्त्रज्ञो भवति संसारहेतोः मलस्या भावात् जीवन्मुक्तः स नारब्ध कार्यकर्मवशात् पापेऽस्मिन्नुत्तरतः संभवे बाह्यशरीरभोक्तृत्वेन स्थि........... वद्व्याख्येयम् | यच्छ्रूयते - आज्ञाविलंघनात् प्रोक्तं क्रव्यादत्वं शतं समाः | इति || अत्रप्रसङ्गादाचार्य भेद कथनम् - चोदको बोधकश्चैव मोक्षदश्च परं स्मृतम् | इत्येतत्त्रिविध ............. आचार्यस्तु महीतले || तेषु च - चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् | मोक्षदस्तु परं तत्वं यद्गत्वा न निवर्तते || चोदकः शुद्धमार्गप्रदर्शकः | कल्याणमित्रादिवसत्याचार्य वक्तव्यः बोध.......... स्तो पदेशेन हेयोपादेय तत्वोपदर्शकः स मुख्यो गुरुरेव | मोक्षदस्तु दीक्षादिकर्ता पर गुरुपरतत्वं प्रतिपादयति || इति लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्यविरचितायां श्रीमद्द्विशति कालोत्तरवृत्तौ ज्ञानामृतप्रकरणम् || इदानीं सिद्धसाधकस्य साधन भूतामाध्यात्मिकीं शुद्धविद्या सम्बन्धिनीं मन्त्रसृष्टि ध्यानविशेषं च वक्तुमाह - अग्नि मध्ये रविस्थानं रवि मध्ये ..... चन्द्रमाः | तन्मध्ये चाङ्कुरो दिव्यः ततः सृष्टिः प्रवर्तते || अत्र पाठक्रमादर्थ क्रमस्य बलसत्वादत्र रविमण्डलोपरि सोममण्डलं तदुपरि वह्निमण्डलमिति ज्ञेयम् | तानि च ब्रह्मविष्णुरुद्राधि प्. ५७) .... त्म विद्या शिवतत्व शब्दावधिष्ठातृतया तु शब्दवाच्यानि क्रिया ज्ञानेच्छाशक्तिना भावकरणानि कुण्डलीशक्तेः कार्यावस्था विशेषरूपाणि निवृत्त्यादिकलानास्त्रक्ष्वावस्यारूपाणि आत्मकानि प्रतिपुरुषं भिन्नानि स्थितानि | तन्मध्ये तेषामधिष्ठातृत्वोपदिव्य प्रकरणात् कुण्डलिन्यादि शब्दवाच्यः परबिन्दुस्थिता स च सृष्टिकाले पुंसां प्रथमा सम्बध्यते | ततः पुर्यष्टकं | स च व्यापकेन करणात्मना रूपेण प्रतिपुरुषं भेदेनावस्थितः | तथा सदा चैतन्ये सत्यमेकत्वेन घटादिवत्करण पूर्वकत्वम् | यतः किञ्चाङ्कुर इव अंकुरोऽस्य विद्यते मत्वर्थीयः प्रत्ययः | ततोङ्कुरात्मनादादि रूपेण कार्येण मायेय कलादि रूपेण प्रतिपुरुषमवस्थितमित्युक्तम् | नादाख्यं यत्परं सर्वं सर्वभूतेष्ववस्थितम् इति | अयञ्च प्रोक्त मण्डलानिकांकुर युक्तो द्वादशान्तादधोमुखत्वेन ध्येयोऽपि हृत्प्रदेशे पुरुषेण संयुक्तः शान्त्यादि चतुष्टयपद्मः समाहितः | स्वदेहं चिन्तयेद्विद्वान् दिव्यरूपमनूपमम् | यस्य यत्कर्म निर्दिष्टं तस्य तच्चिन्तयेद्बुधः || यद्यपि स्थावर जंगमलक्षण साधारणञ्च सर्वं मायीयं जगत् अग्नीषोमीयात्मकं शिवशक्त्यधिष्ठित त्वादग्नीषोमात्मको नव तथापि स्वदेहसूक्ष्म स्थूलात्मकं विपरीतं सोमात्मकमेवामृत पूर्णदिव्यरूपमनुमेयं चिन्तयेत् | तथा यस्य तच्छरीरवर्तिनः शुद्धाशुद्ध भेदभिन्नस्य नादकलादि पृथिव्यन्तस्य तत्वसमूहस्य यत्कर्म निर्दिष्टं यदा कर्मेन्द्रियादेः पानभोजनादि तस्य तत्कर्म तदेव | मृतात्मकमेव चित्तं नयेत् | अथोपसंहारः - प्. ५८) इदं योऽभ्यसति ध्यानं अमृतं सर्वतो मुखम् | अचिरेणैव कालेन स सिद्धफल भाग्भवेत् || अन्यथा सृष्टि न्यासमविज्ञाय कथं युञ्जीतसाधकः | हस्तमुष्टिभिराकाशं खण्डयन्ति कृषानि च || एवं सृष्टिन्यासमविज्ञायसाधकः सिद्धावस्यां प्रयतते सा शक्त्यनुष्ठाने विपत्रे कर्मणि प्रवृत्तो भवतीति मद्ज्ञानं साधकस्यावश्यं कर्तव्यमिति | इति द्विशति कालोत्तरवृत्तौ अग्नीषोमीयं प्रकरणम् || इदानीं साधकस्यैव सिद्ध्युपयोगिन जपविधिमाह - प्रासादं नादमुत्थाप्य सन्ततं तु जपेद्यदि | षाण्मासात्सिद्धिमाप्नोति योगसिद्धो न संशयः || प्रणवादि नमोन्तं प्रासादमनुस्मरन् घण्टानिनादवन्यथा शक्त्याध्वन्यात्मकं नादमुत्थाप्य तमविरतं जपेत् | साधकस्सशुद्धविद्याशुद्धिं शीघ्रमाप्नोति | अत्रैव विशेषमाह - गमागमस्य जापेन सर्वपापक्षयो भवेत् | अणिमादि गुणैश्वर्यः षड्भिर्मासैरवाप्नुयात् || अत्र गमागमो मन्त्रस्य द्वादशान्तं यावदुच्चारणं आगमास्मात्प्रभृति सृष्टिक्रमेण हृदयान्तं यावत् तत्कालानुसन्धानं | एवं गमागमानुसन्धान युक्तस्य जपात् प्रायश्चित्तार्थमनुष्टितात् सर्वपापक्षयो भवेत् | सिद्ध्यर्थमनुष्ठितादणिमाद्यष्टैश्वर्य प्राप्तिः | केचिदत्र गमागम प्रस्तावात् प्रासाद शतेन हंसमन्त्रोविवक्षितः | ततस्तन्नादमुत्थाप्य प्. ५९) प्रयत्नपूर्वं कृतात् जपात् अचिरात्सिद्धिर्भवति | स्वर वाभिनो गमागमस्यानुसन्धानात् पापक्षयादित्याहुः | उभय यथाऽपि गमागमं विदित्वा तु मुच्यते नाऽत्रसंशयः | तल्लयः तन्मतो भूत्वा षाण्मासात्सिद्धिमाप्नुयात् | योऽत्रहंसगमागमा नादो सहोच्चार्यमाणप्रासादागमं वा वेत्ति मुमुक्षुः स मुच्यते | साधकोऽपि तल्लीनस्तन्मयं च तदव्यावृत्तः बुद्धिरचिरेण सिद्धिः | अत्र गमागमन जापेन सिद्धिरागमा गमनेन मोक्ष इति गुरवः | तदेव स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया | यवर्गादष्टमं बीजमित्यादिना स्थूलः प्रासादः कथितः | उच्चरति स्वयमित्यादिना सूक्ष्मः निष्कलो देह वर्जित इत्यादिना परः | केचित्तु भाष्यो पांशु मानस जप................... मोन्तं फल साधकत्वात् स्थूल सूक्ष्मं परश्च प्रासादः प्रोक्त इत्याहुः | तच्च - प्रासादं यो न जानाति तेन जानन्ति शंकरम् | उक्तरूप प्रासाद प्रासाद स्वरूपो पोपादान सहकालफलसहितं येन बुद्ध्यन्ते तद्वाच्यं परमेश्वरं सकलादि भेदभिन्नं न बुद्ध्यते | यथावदुपाय ज्ञानं विनोपेय ज्ञाना भावात् | यच्छ्रूयते - शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति || इति लक्षद्वयाध्यापक श्रीमदघोरशिवाचार्यविरचितायां द्विशतिकालोत्तर वृत्तौ प्रासाद प्रकरणम् || अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् | अतः प्रोक्तादन्यल्लक्षणं मन्त्रस्य प्रवक्ष्यामि इति प्रतिज्ञा किं तदित्याह - प्. ६०) ह्रस्वोदीर्घः प्लुतश्चेति लक्षद्वये मन्त्रवित्सदा | तत्र ह्रस्वो दहति पापानि | तदुक्तं श्रीमत्पौष्करे - सर्वेषामेव पापानां संकरेसमुपस्थिते | पवित्राणि जपेत्पञ्चैकं बहुरूपिणम् || इति || पवित्राणि पञ्च ब्रह्माण्येव दीर्घो मोक्षप्रदो भवेत् | तत्राऽप्युक्तः मोक्षः शिवाङ्गं जपति इति | आप्यायने ततश्चेति बिन्दुना मूर्ध्नि भूषितः || प्लुतश्चाप्यायन हेतुरित्यर्थः | तदुक्तं समानतन्त्रे - प्रक्रियान्तस्थममृतं स्रवद्वै चयेत्तत्र |? इति बिन्दुयुक्तत्वात् | ननु सर्वमन्त्रसाधारणं | तदुक्तं तन्त्रे - सर्वेषाञ्चोपरि स्थितः इति | एभ्य एव गुणान्तर योगात् फलान्तराण्युच्यन्ते - स्थूल भेदादयः प्रोक्ता वश्योच्चाटनमारणम् | स्थूलो बाह्येन्द्रिय ग्राह्येणान्यात्मना समानतन्त्रोक्ताधिभौतिक रूपेण वा यदा प्रयुज्यते तदाते वश्यानि फलानि कुर्वन्ति | तेषामाध्यात्मिकः किं करोतीत्याह - प्लुतोऽपि हि सदावश्यं कुरुते नाऽत्र संशयः | दीर्घश्चोच्चाटयेत्क्षिप्रं फट्कारेण नियोजितः || आदावन्ते च ह्रस्वस्य फट्कारोमारणे हितम् || ह्रस्वस्यैव प्रयोगान्तरं आदावन्ते च हृदय आकृष्टौ संप्रकीर्तितः | आद्यन्तयोर्हृदय संपुटितेन ह्रस्व आकर्षं कुरुते | केचित्तु साध्यनाम्ना आद्यन्तयोः हृदय प्रयोगमिच्छन्ति | तदनन्तरमाह - एवमाकर्षयेत् साध्यं नाम ज्ञात्वा | इति || अथ किमसावयस्कान्तादिवत् सन्निहितमेवाकर्षयेत् उतासन्निहितमप्यत आह - प्. ६१) आकर्षयेद्ध्रुवं युक्तो योजनानां शतैरपि | एवमाकर्षयेत्साध्यं न नामज्ञातृ तत्वतः || युक्तोऽभियुक्त युक्त साधको न केवलं सन्निहितस्त्र्यादि सन्निहितंस्त्र्यादिकमेव यावत् | किं दूरस्थ दर्शनान्तर सिद्धमपि स्वप्रयोजन सिद्ध्यर्थमानयेत् | अत्रैव हेतुमाह - साधकस्य भवेद्बिन्दु न्यूना साध्यस्य कीर्तिता | यत्र यत्र साधकस्य वह्नी सिद्धिः तस्य तु दर्शनानन्तरं सिध्यस्योनेति | अतः प्रकृष्टः शक्तिसाधको प्रकृष्ट शक्तिसाध्यमाकर्षयेत् इति सिद्धम् | अथोपसंहारः - एवं ज्ञात्वा तु मेधावी आकर्षं कुरुते ध्रुवम् | अविदित्वात्विदं सम्यक् दैवे सिद्ध्यति साधकः || एवमुक्तलक्षणं प्रयोगविवेकमात्मसाध्ययोः बलाबलाच्च ज्ञात्वाऽकर्षयेत् | तद्यथा - दद्याद्द्वादशारणादि कर्तुं शक्तिरित्यर्थः | अथ साधकस्येति कर्तव्यता विधिः | यागं कृत्वा तु पूर्वोक्तं मन्त्रं व्याप्यं प्रदापयेत् | सेकं कृत्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः || पूर्वोक्त मण्डलयागं कृत्वा साध्यमन्त्रोक्ते शिवाधिष्ठितकुंभाम्भसाभिषिच्यकाय शुद्ध्यर्थं पूर्वार्धं च मन्त्रस्याप्यं दत्त्वा साध्य मन्त्रं जपेत् - अभिषिच्यात्मनात्मानं अनन्त विजयो यतः | चरेन्मन्त्रव्रतं मन्त्री साध्यमन्त्रोक्त वर्त्मना || एतच्च मन्त्रजपादि साध्यमन्त्राभिषिक्तस्य साधकाभिषेकः प्. ६२) शास्त्रान्तरेऽवेक्ष्य किञ्च देवे दक्षिणामूर्तौ पञ्चलक्षणं स्थितो भवेत् | जपान्ते घृतहोमस्तु दशसाहस्रको भवेत् | एवमाप्यायितो मन्त्रः कर्म योग्यो भवेत्ततः || उक्तानि यानि कर्माणि तानि सिद्धिर्न संशयः | परमेश्वरलिङ्गादौ संपूज्य तस्य दक्षिणामूर्तिमाश्रित्य स्थितो यदासनाब्जं देवदक्षिण वक्त्रे |? अघोरलोचन ज्योतिर्मध्ये साध्याणुमर्चयेत् | इति श्रुतेः शिवासनाब्ज दक्षिणवक्त्रे साध्यमन्त्रस्य पूजां कृत्वा प्रत्यहं संख्योप च(च)मिलनेन पञ्चलक्ष जपसंख्यां ............. अन्तेऽपि मण्डल पूजां कृत्वा साध्यमन्त्रस्य घृतेन स्रुवाहुति सहस्रदशकं जुहुयात् | ततस्तस्योक्तानि कर्माणि सिद्ध्यन्ति | प्रत्यहं वा जपान्ते होमः तत्संख्यानुगुणं कार्यम् | अस्मादेव जपात् गुणान्तरयुक्तात् फलान्तराण्याह - दश लक्षं जपेद्यस्तु जनस्थान निवासिनः | वश मायान्ति वै तस्य शास्त्रस्येति निश्चयः || लक्षं पञ्चशतं जप्त्वा दशग्रामनिवासिनः | ते जना वशमायान्ति स्वधनेनात्मनाऽपि च || त्रिंश..............णि जप्त्वातु अमलं वशमानयेत् | पञ्चत्रिंशज्जपेद्यस्तु पृथिवीं वशमानयेत् || || इति श्रीमद्द्विशतिकालोत्तरवृत्तौ प्रासादप्रकरणम् || अत्र ज्ञान शब्द व्युत्पत्यासन्दि........... नस्य कार्तिकेयादेव स्वप्रश्नः | प्. ६३) अद्यापि संशयो देव ज्ञानविज्ञानयोः प्रभो | अयं तद् ज्ञायते ज्ञानं कथं वा ज्ञेयमुच्यताम् || यदत्र ज्ञायतेऽनेनेति करणं रूपं यच्चात्मस्वरूपं विज्ञप्त्यात्मकं विज्ञा.........णापि भेद सर्वानुक्तत्वात् संशयः | किञ्च तदपि कारण रूपं ज्ञानं ज्ञप्तिरूपं न वा | यदि ज्ञप्ति रूपं तदा शतेन ज्ञानं ज्ञायन्ते तृप्तिरूपत्वेऽपि कथं तत्तेन ज्ञेय.........ञ्चैत्र मैत्र ज्ञानयोरिव तयोः परस्पर संवेदनमनुपपन्नमिति प्रश्नः | अत्र सिद्धान्तः - आधारं तु परं ज्ञात्वा पश्चादाधेय कल्पना | आधाराधेयवित्प्राज्ञः समर्थः सर्वकर्मसु || अधीयते व्यप.......... तेनेत्याधारः करणरूपमुपाय ज्ञानं तच्च पुराकृत्वा पश्चादाधेयस्य व्यवस्थाप्यस्योपेयस्यात्मनो ज्ञाही रूपस्य कल्पनाज्ञानं कार्यम् | यतस्तदुपायं विविच्य ज्ञात्वा सा नित्या........... कर्मस्यधिनानात्मवित् पशुः | अथ किं तदुपाय ज्ञानमिति विज्ञप्तिरूपं तन्नयतः पुरमाधारमित्युक्तमाधेयस्त्वीश उच्यते | चाधारा व्यवस्थापक ज्ञानात्मकः पुरो बुद्धेः सम्बन्धित्वात् पुरवद्भोगाधि ............ च्च पुरमित्युक्तम् | तच्च ज्ञायतेऽनेनेति ज्ञानं ज्ञप्तिरूपमित्यर्थः | केचिदत्र पुरशब्देन पुर्यष्टकमेवोच्यत इत्याहुः | आधेयस्तु तद्व्यवस्थाप्य आत्मनः तद्भोक्तृत्वादीशस्य उच्यते | तथाहि - इशान्योऽष्ट चयोऽमुष्मिन् सोऽस्य ईश इति स्मृतः || ईशानीशित्वा दीशीति दृक्क्रियाशक्तिः तदधोऽस्मिन् शरीरे- प्. ६४) ..... षे भोगसाधन प्रयोक्तृत्वेनासादयति | सोध्यव्यवसायरूपस्य ज्ञानस्य शोध्यवसाना स्मृतः | ततः विज्ञायमेधावी यः सदा नन्दति स्वयम् | पुर्यष्टकसमायुक्तोऽप्यधश्चोर्ध्वं च गच्छति || यो धर्म पुर्यष्टक समायुक्तं सदानन्दतीत्युक्तः तद्बुद्धिभोक्तारं ईशात्मलक्षणं ज्ञात्वा बुद्धिमान् यः सिद्ध्यर्थमूर्ध्वं मूर्त्यर्धञ्च गच्छति नाऽन्यः | पशुरत्रानधिकारीत्युक्तम् | अथ तस्य पुर्यष्टकस्य स्वरूपश............ शब्दः स्पर्शं च रूपञ्च रसो गन्धश्च पञ्चमः | बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमिति स्मृतम् || अत्र भूतानि पञ्चतन्मात्राणि शब्दादिभिः स्वगुणैरवि शेषोपात्तानीति कार्यवर्गो द्विविधोनिर्दिष्टः | तथा पञ्चम इत्यनेन पञ्चसंख्यायुक्तं बुद्धीन्द्रिय कर्मेन्द्रियाख्यं करण वर्गद्वयं बुद्ध्यादिपदैरन्तः करणवर्गः च शब्दाच्च स्थानीयादत्र गुणव्यक्तात्मकः तत्प्रकृति वर्गो रागविद्या नियति काल.........ऌआत्मकञ्चुक वर्गो मायारूपश्च परप्रकृति वर्गाः प्रोक्ताः | एवमस्यां बाह्यदेहादिकायां पुरी वर्गाणुकमष्टकं स्मृतम् | ननु पृथिव्यादि कालान्त त्रिंशत्तत्वात्मक एव सूक्ष्मदेहः पुर्यष्टक तया प्रसिद्धः | शुद्धाशुद्ध भुवन पर्यटन साधनमशुद्धमेतत् स्वरूपं तथा प्रसिद्धम् | यदुक्तं तत्व संग्रहे - वसुधाद्यस्तत्वगुणः प्रतिपुंनियतः कालान्तोऽयम् | पर्यटति कर्मपरतो ............. वनज देहेष्वयं च सर्वेषु || इति || प्. ६५) अत्र तु शुद्धस्वरूपस्य बिन्दु कार्यस्यापि नादद्वारेण सर्वभूतावस्थितत्वेनोक्तस्य परमुक्त्यपेक्षया हेतुत्वादुत्क्रान्तिकाले शुद्धाशुद्धः सकलोऽपि तत्ववर्गः सर्वस्य पुर्यष्टक तयोद्देशः | यद्यप्यसौ दीक्षया सर्वपाशोशेभ्यो मोचितस्तथापि यावदेतैर्न मुच्येत बन्धनादारब्ध कार्यकर्मभोगोपरोधेन सद्योनिर्वाणदीक्षया........... तेभ्यः सर्वदानुसृतत्वशताब्दस्य शरीरस्य स्थित्यन्तमसौ बन्ध एव | ततश्च तेभ्योऽत्यन्त मोक्षायोत्क्रान्त्यादिदावेते ज्ञात्वा त्याज्या एव | अथ तेषामेव त्यागक्रममाह - शब्दस्पर्श त्यजेदाकाश विषयत्वादस्य शब्दस्य वायोश्च यदायते - आकाश वायु प्रभवः शरीरात्समुच्चरन्वक्त्रमुपैति नादः | इति केशवस्थानेन कण्ठेन सन्त्यजेद्रसनेन्द्रियमूलत्वात्तस्य | यदाह पतञ्जलिः - कण्ठ एव क्षुत्पिपासानिवृत्त............. स्नाने तालुनि रूपगन्धौ त्यजेत् | रूपगन्धेन्द्रिय मूलत्वात् तस्य तेनाप्युक्तः | तालुनिगन्धं विशेदिति | एवं कार्यवर्गद्वयस्य स्वस्थाने त्याग उक्तः | ब्रह्मण्येव त्यजेदित्यादिवत् संख्येयं तादृशस्य शब्दस्पर्शादि त्यागमस्य ब्रह्मादि देवतात्मकेन्द्रियं विप्लुति परिहारार्थस्य निर्बीजदीक्षया समयाद्वार शुद्धिः | विषुवत्वादस्य च सर्वपाश त्यागरूपस्योत्क्रान्ति विषयत्वादिति बुद्ध्यहंकार इत्युपलक्षण...................... पञ्चवर्गक व्यतीतमीश्वर स्थानमेव त्यजेत् | तस्य माया कार्याधिकारा मन इत्यत्र मायोच्यते | प्. ६६) बिन्दुश्च शुद्धप्रकृतितश्च महामायात्मकं वर्गसदा शिवस्थाने ब्रह्मरन्ध्रोर्ध्वं त्यक्त्वा एभिः पापैः मुक्तः शिवसमो भवेत् || इति लक्षद्वयाध्यापक श्रीमदघोर शिवाचार्य विरचितायां द्विशतिकालोत्तरवृत्तौ ज्ञानविज्ञान प्रकरणम् || प्. ६७) ............. न्ति प्राप्तकालेन कर्तव्या नान्यदेति दर्शयितुं अरिष्टादीनां ज्ञानाय कालचक्रविधानमाह - कालचक्रविधानन्तु प्रवक्ष्याम्यनुपूर्वशः | कालचक्रमितिख्यातं येन कालेन बुद्ध्यते | आध्यात्मिकस्य कालस्य विधानं येन प्राणद्वारे तद्विधीयते तं विशेषतो वक्ष्यामीति | तच्च कालचक्र स्वरूपतः प्रागुक्त काले ख्यातमेवेति येन कालेन बुध्यते आध्यात्मिकस्य कालस्य विधानं येन नोच्यते | तदाह - इडा होरात्रचारेण त्रि....................... वति | द्महोरात्र प्रचारेण वर्षद्वयं हि जीवति | त्र्यहोरात्र प्रचारेण वर्षमेकं स जीवति || यत् प्रागुक्तं - ऊर्ध्वप्राणोह्यधश्चैवापानो रात्रिरेवच | इति | तस्याध्यात्मिकस्याहोरात्रस्य प्रवाहयेत् | प्रमाणमुक्तं प्रत्येकं षोडशत्रुट्यात्मकं तत्र यदे स चैकः प्राणप्रवाहो अस्मागपि भाववर्णश्चरेत् | नाड्यन्तरे यावदनन्तरं वाहः तदातत्रावधानं कुर्यात् | संग्रहपरिच्छेदकाय बोधार्धम.............वा संग्रहः | कालवञ्चनया मृतधारणाभ्यासः कार्यः | पिङ्गलयाक्षीणचन्द्रया परिच्छेदः उत्क्रान्तिः प्रयोगाभ्यासं मध्यममाया तु कामचारः ततश्चाध्यात्मिकस्याहोरात्रस्य षोडशत्र्युट्यात्मनः प्रमाणे तद्गमरूपोहप्रचारः | ऊर्ध्वप्राणाभिरूपोपानप्रत्यात्मा रात्रिप्रचारो पाकस्यागपि भवति | स वर्षत्रयं जीवति | यस्य तु तनौ द्विगुणेन मानो स वर्षद्वयं तं यस्य तु तृतीय गुणेन स वर्षमेवेति मन्तव्यम् | प्. ६८) अयञ्चाध्यात्मिक....... विदां कालपरीक्षाक्रमोऽभिहितः | वाच्याहोरात्रादि प्रमाणेन सादि नाडी प्रवाह प्रचारेण सर्वैः काल परिज्ञानं कार्यमिति केचित् गुरवोमन्यन्ते | तस्य तत्राहि चारात्तत्राऽप्ययं विशेषतः प्रदर्श्यते | प्रथमं शब्दत्रयमाहुः | अज्ञात्वा य शब्दमिति वाह्यान्तामेव नाडीं निरूपयेत् | तदानवहेतोः प्रोक्तनाडिक प्रवाहेन दृष्टकेशमात्रफलं विद्यात् | अथाहोरात्र द्वयं यदि वहे......... वर्षद्वयमायुरिति निश्चित्य संगृह्यश्चेन्मृत्यु जिद्धारणे याग काल वञ्चनं कार्यम् | परिच्छेदश्चेत् सर्वस्वत्यागादिना शेषकालं नीत्वा स्वेच्छोत्क्रान्तिं कुर्यात् - अहरेकं चरेद्यव्य रात्रिरेकमथाऽपि वा | षाण्मासात्तस्य मृत्युः स्यादितिशास्त्रस्य निश्चयः || यामद्वयं चरेद्यस्या अहोरात्रं तु जीवति || अत्रापि कालपक्षे स्पष्ट एवार्थः | यस्यादह्नः कालं चारकाल एवं गमागमं विद्यते रात्रिकालेन वा समा.........कं जीवति | यस्तु ततोर्ध्वकाल एव सोऽहोरात्रमेव जीवति न केवलमिडाप्रवाहेणैतद्ज्ञेयम् | किञ्च - यथा वामा तथा वामा मध्यमा च तथैव च | अन्यतम नाडी प्रचारेणैतत् ज्ञेयमित्युक्तम् | उपलक्षणञ्चैतच्छास्त्रान्तरोक्तानां न वेराषाश्रवणादिव (गन्धा?)ग्रन्थाग्रहणदुःस्वप्नादीनामरिष्टानां | अथोपसंहारः | कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः || || इति द्विशति कालोत्तरवृत्तौ कालचक्रप्रकरणम् || प्. ६९) अन्यत्र यथा दम्पत्योः संयोगात् सुखमिति रहस्यमात्मैकसमाधिगम्यं परस्मैवाचा प्रतिपादयितुं ........... मेवं शिवादि परिज्ञानमपराधितं बुद्धिगुणविषयजं सुखं स्वसंवेद्यं नाऽन्य वाचा प्रकाशयितुं शक्यमिति दर्शयितुं वृहत्कुमारी प्रकरणमीश्वरः प्राह - यथा बृहत्कुमार्या तु प्रीत्यान्योन्य नवस्थिते | एका संयोज्यते तत्र द्वितीया दुःखमाप्नुयात् || प्रौढकन्ययोः परस्परं प्रीत्या स्थितयोः एकावरणसंयुक्ता अपराऽधः प्राप्त्या दुःखिता पूर्वमाह - संयोगात् यत्सुखं भद्रे कथयिष्यसि तं ............. | कथयिष्याम्यहं भद्रे सुखं धर्मे भविष्यति || द्वितीयाप्राह - पुनस्तामहतां दृष्ट्वा परिष्वज्य च सोत्सुकायत्त्वया पूर्वमुद्दिष्टं साम्प्रतं तद्वदस्वमे || प्रथमा प्राह - अशक्ता तदहं वक्तुं यत्त्वया प्रतिमीप्सितम् | द्वितीया प्राह - ततोऽसाव्रवींत्क्रुद्धो किं त्वयासत्यसन्धिनी | त्वयाकृतमिदानीं तत्वं सत्य प्रतिज्ञेत्यर्थः | अथ यथाप्राप्तसुखा द्वितीयां कुपितां प्रसा............. ईदृक् तादृशं चैव नौपायं प्रत्ययं यतः | संयोगाद्यत्सुखं भद्रे जायते न तदन्यथा | अन्यथा यद्वदन्त्येवं प्रत्ययस्तेन जायते || अव्युत्पन्नस्य तत्तत्तस्मात् कथयितुं नैव शक्यते || यस्मात्संयोगजं प्रीत्यात्मकं सुखं यस्मात्केनापि सुखान्तरेण नोपमीयते ततो वक्तुं शक्यमपि तु स्वसंवेद्यमेव | प्. ७०) अन्यथा कथ्यन्ते वदामि ततः प्रथमामागम......... | यत्त्वया पूर्वमुद्दिष्टं तत्तथैव न संशयः | अज्ञानात्सुखमोहेन यदुक्तं च प्रियं मया || तत्क्षमस्व प्रियं भद्रे यथा पूर्वं भजस्वमाम् || तस्मादन्यतमैकगम्यः शिवः ........... मृत्स्वाद इति सिद्धम् || इति श्रीमद्विंशतिकालोत्तरवृत्तौ कुमारिकाख्यान प्रकरणम् || अथात्र प्रासाद जिज्ञासया प्रश्नः - पूर्वमेव प्रतिज्ञातः शिवभेदस्तथाऽष्टधा | स भिद्यते देव कथयस्व प्रसादतः || पूर्वं यथा ह्रस्व दीर्घप्लुत भेदभिन्नात् प्रासादजपात् फल भेदः उक्तः | तथापि श्रेयसीरिमाद्यात्मनोऽष्टधा भेदोऽपि तज्जपात् प्रतिज्ञातः | तदुक्तम् - अणिमादि गुणैश्वर्यं षड्भिर्मासैरवाप्नुयात् | इति फल भेदमात्रादुक्त मन्त्रभेदेनापीति सिद्धान्तः | सकलं निष्कलं शून्यं कलाढ्यं खमलं कृतम् | क्षपणं क्षय ......... स्यं कण्ठ्योष्ठयं चाष्टमं विदुः | अन्तस्थमेवासौ नादः क्षयरूपत्वात् क्षयमन्तस्यमित्युक्तम् | तत्र सकलस्य लक्षणम् - प्रासादः षष्ठसंयुक्तः षडुत्तर समन्वितः | सकलं सर्वभूतस्थं शिवतत्वं प्रकीर्तितम् || प्रासादशब्देनात्रस्यन्तरायोच्यते | स षष्ठेन उकारेण संयुक्तः षष्ठस्यापवर्गस्यान्तेन मकारेणानुस्वार परिणतिना प्. ७१) समन्वित सकल शिव............ कत्वात्सकलाख्यं शिवतत्वं प्रकीर्तितम् | यदुक्तं श्रीमत्त्रयोदशशतिके षष्ठस्वरानस्य स्यन्त? सुसुव्रतहकारस्यार्ध चन्द्र च ग्राजते | तच्च मूष्यनि एतत्सकलं सद्भावम् इति || एतच्च प्रयतोच्चार्यत्वात् सर्वभूतस्यमुच्यते | निष्कलं लक्षयति - स्वयं निष्क्रमते यस्तु देहंत्यक्त्वा स मारुतः | निष्कलं तं विजानीयात् षड्वर्णरहितः शिवः || यः प्राग्वर्गादष्टमं बीजमित्यादिना साङ्गः शिवमन्त्र उक्तः | स यदा षड्भिर्वर्णैरङ्गावकैराकारादिभिः पञ्चभिः शिववाचकौकार मन्त्रोपरिवर्तते | समानतन्त्रोक्तेन स्वकरेण च रहितः केवलजाकार बीजयुक्तो भवतीति निष्कलं जातयात् | यतोऽसौ ध्वन्यात्मा प्राणवृत्या क्रमेण सह कलदेवं त्यक्त्वा स्वयं निष्क्रामति | श्रीमत्त्रयोदश शतिकेऽपि - निष्कलस्तौ शिवो देवः सान्तोमारुतसंयुतः | इति | यस्त्वौकारेणापि हितं हलाकत्येव तदिति व्याचष्टे अस्योक्त श्रुतिविरोधः | अथ शून्य लक्षणम् | निःश्वासोच्छ्वासनं भित्त्वा स्थितं देहेषु काष्ठवत् | शून्यं तं तु विजानीयाद्धृदयेन विभावयेत् || कुम्भकावस्थायां हलाकार व्य विजानीयादित्यर्थः | यदुक्तं तत्रैव - शून्यो भग्नशरादवो भुजङ्ग कुटिलाकृतिः | निःशब्दो निरहंकारो निराभासो निरीषया || इति | तञ्च हृदये मनसा भावयेत् | कलाढ्यमाह - चुम्बाकारेण वक्त्रेण यदुक्तं श्रूयते भुवि | कलाढ्यं तं विजानीयात् ....................... || प्रियतः परिचुम्बनादाविव बहिरोष्ठ पुटद्वयम् |? मुकुलाकारेण वक्त्रेण शिवतत्वमुच्चार्यते | तत्कलाढ्यं विजानीयात् | तच्चाघोरबीजमित्येके प्राहुः | ईशानबीजमित्यन्ये | सकलकलाढ्यं प्रासादं वेति सच्छास्त्रविदः | यदुक्तं तत्रैव - ये गुणा सकलस्योक्ताः कलाढ्यस्यापि ते गुणाः | आदिस्वरं सदित्थञ्च मत्वा तस्योत्तरोत्तरम् || एतदक्षर संयोगात् सकलादधिकं स्मृतम् | कलाभिरभितो यस्मात् कलाढ्यः स शिवः स्मृतः || इति || खमलं कृतमाह ........................ आकाशस्यं च मे शृणु | ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्तितम् || तत्रान्तस्थं विजानीयादाकाशः समलं कृतः || प्राणवृत्तिसहितस्याध्व भामिनो नादस्य क्षीणस्य कारेण लीयमानस्य यदन्तमिति मात्रा परीक्षयाद्द्वादशान्ताकाशस्थं तेनैवशब्दो पादानेन परस्योम्नालं कृतम् | यदुच्चार्यन्ते खमलं कृतं तज्जानीयात् तच्च सद्योजातमिति केचित् | हृदये बीजमित्यन्यो शिरो बीजमिति गुरवः | समन्तं मा समायुक्तं बिन्दुनामूर्ध्नि भूषितम् | व्योमस्थं तं विजानीयात् खमलं मन्त्रनायकम् || इति || क्षपणमाह - व्यावृतेन तु वक्त्रेण श्रुत्वा देवं जगद्गुरुम् | दुःखक्षपण हेतुत्वात्तस्य तत्क्षपणं स्मृतम् || प्. ७१) उत्स्यादिति तेनास्येतच्छ्रुत्वा श्रोत्रेणावधार्य देवस्य शिवस्य बाधकत्वा देवं तादृगेवोच्चार्य विशिष्टं सान्तं जपेत् | ततश्च तस्य जपतो दुःखक्षय हेतुत्वात् क्षपणं स्मृतम् | एतच्चाघोरबीजमित्येके | क्षकारमित्यन्ये | हृद्बीजमेवेति गुरवः | यदुक्तं तत्र व्यावृतेनैव वक्त्रेण स्वयं ब्रूयाद्यथा मुखे | ............... दि स्वर विभिन्नं तं क्षपणविग्रहम् || इति | प्रथमो दीर्घस्वरोच्चरेत्तादृश एवान्तस्थमाह - अथोनादस्य क्षीणस्य यदन्तं संव्यवस्थितम् | अन्तस्थं तं विजानीयादनुच्चार्य प्रकीर्तितम् || अथो नादस्या पानवृत्त्यात्मनः प्राणस्य क्षीणस्याधारवत्रा लीनस्य सतेदन्तं व्यवस्थितमन्तस्थं जानीयात् | अन्यनादकत्वात् सर्वस्याक्षरस्य तत्क्षयेऽनुत्पत्तिरेव | सत्यम् | अत एव तन्न तत्कारणं अपि त्वन्य देवापान वृत्याख्य वाध्वाकाशपूर्वमन्तः प्रविशमुच्चार्यमाणत्वा दन्तःस्थमारक्तो द्वारत्वात् अनुच्चार्यञ्च कीर्त्यत इत्यदोषः | तच्चात्रकेवलं सान्तमिति केचित् | गुरवस्त्वत्रान्तस्थ ख त्वश्रुतेः तन्त्रेणोभयार्थत्वात् विसर्ग सर्गमस्त्र बीजमेव ततोच्चार्यमाणमन्तःस्थमित्याहुः | यत्रैव सान्तं क्षपणं विश्रमित्युक्तं तत्स्थानञ्च संक्षीणं लभ्यते | भवनाशमिति कण्ठोष्ठमाह - अष्टवर्गाष्टमे कोटिः सप्तमस्य द्वितीयकम् | वर्गातीतं षडन्तं च सप्तमे त्रिचतुर्थकम् || आदिमं च पुनर्योज्यं षष्ठं वै प्रथमस्य तु || प्. ७४) ख शेखरसमायुक्तं कष्ठोष्ठमष्टमं स्मृतम् || अष्टवर्गया मातृकयाष्टमेशादि वर्गे यत्कोटिप्रान्तबीजं हकाराख्यं तत्प्रथममुद्धृत्य सप्तमस्य द्वितीयकं रेफान्तकं तदधो योजयेत् | ततो वर्गातीतं क्षकारं षष्ठवर्गस्यान्तिमं मकारं सप्तमे वर्गे तृतीयं लकारं चतुर्थं च वकारमादिमं च यकारं पुनर्योजयेत् | ततः प्रथमस्य षष्ठमूकारं योजयेत् | ख शब्देनात्र शून्यवाचिनाऽनुस्वार व्यञ्जकाक्षर बिन्दुरुच्यते | तेन शेखरेणोपरिवर्तिनाऽर्धचन्द्रादि मात्रवद्योतकत्वेन युक्तमेकप्रयत्नोच्चार्यं नवात्मकं कण्ठोष्ठ्यं स्मृतम् अनन्तादिभिः | अथोपसंहारः || एते भेदाः समाख्याताः अणिमाद्यादि साधनाः | एतेषु विद्येशाद्यधिष्ठातृ शिवभेद प्रतिपादकत्वात् अङ्गवत्तद्भेदा अणिमादीनामष्टानां सिद्धिनामादि ग्रहणात् अन्यासाञ्च सिद्धीनां साधका भवन्ति | अनुच्चार्य दिग्धमेनाक्षस्येति विधीयते || यत्तु नाद स्वरूपं स्थूलतामनापन्न स्वर वाहितमोक्षस्य साधनमित्यपि स्मरणाय पुरोऽभिधीयते || इति श्री द्विशतिकालोत्तरवृत्तौ शिवभेदाष्टक प्रतिपादनप्रकरणम् || अथ प्रसङ्गान्नादविध एव प्रश्नः- कथं व्यापी अधश्चोर्ध्वं तिर्यक् चैव कथं भवेत् | एतन्मे ब्रूहि सद्भावं कारुण्यात्तु महेश्वर || प्. ७५) आदावेव नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् इति | व्यापीनादः प्रोक्त अनन्तरपटले नाध्वनादस्य क्षीणस्याधोनादस्य क्षीणस्येत्यादिनाऽधश्चोर्ध्वञ्चासौ गच्छतीत्युक्तम् तच्च कथं भवेदव्यापक धर्मत्वादस्यात एव व्यापकत्वमुक्तम् सत्यमन्त्रप्रतिपादितोऽर्थस्तत्रा दर्शित इत्य गतार्थः | प्रश्नः यावद्देहे स्थितो जन्तु रधस्तावत्प्रकीर्तितः | व्याप्नोति हृद्भागस्तिर्यगन्तस्थस्सर्वतस्तु सः || जन्त्वधिष्ठानतस्त्व विवेकेन स्थितत्वान्न जातु नादोऽत्र स यावन्नादात्मना शरीरेऽवस्थितस्तावदधश्चोर्ध्वञ्च तिर्यङ्न भवतीत्युक्तम् | यदादि तस्मान्निर्गतः स कार्यरूपतामति क्रम्यान्तःस्थमकारणभावः स्थितः स तदा तिर्यगूर्ध्वमधश्चापि सर्वत्रव्याप्नोति | एवञ्च त्रिमार्गावस्थिं जन्तुं सर्वदेहेषुसाधकः | अविदित्वा न मुच्येत यद्यप्येतल्लयो भवेत् || त्रयोमार्गादेव यानपि त्रिधा न शिवयानाख्यस्तत्रस्थं कथं कार्यात्मना सर्वदेहेषु वर्तमानं पर नादं ज्ञात्वा दीक्षयादितल्लीनोऽपि साधकसिद्धि प्रत्य........ के यस्य अभियोगप्रतिकूलैराचार्योऽधिकार मलैः पुत्रको विमोक्ष विघ्नैस्सर्वेऽपि तद्व्याप्य ज्ञानत्वाच्च मुच्यन्ते | इत्थं व्यतिरेकेणोक्त्वाऽन्वयेनाह - त्रिमार्गं त्रिरधिष्ठानं सर्वदेहेषु वर्तते | ये वेत्येवमिमां व्याप्ता सर्वाऽपि तु न संशयः || य येवं सर्वदेहेषु कार्यात्मानानु वर्तते || प्. ७६) तन्मुक्तवत्त्रिमार्गस्थ ........ णां मन्त्रमन्त्रेश्वर मन्त्रमहेश्वराणां अधिष्ठानमाश्रयं विदित्वा तस्यैव कारणात्मनो व्याप्तमिमां प्रागुक्तां जानाति | स स्वयं च व्यापी समस्ताधारनिर्मुक्त स्वरूपे ज्ञानी शिवश्च भवेत् | यदाहुः - यस्तु ब्रह्मणि निष्णातः परं ब्रह्माधि गच्छति || इति | शुद्ध नादस्वरूपं तत्फलं च प्रदर्श्यात्म व्याप्ति ज्ञानस्यापि प्रसङ्गात्फलमाह - तावद्भ्रमति संसारे यावद्व्याप्तिर्नविन्दति | विदित्वा व्यापिनं देवं मुच्यते नाऽत्र संशयः || यद्व्याप्ति ......... ना जीवी सदृशीं तत्प्रसादान्न विन्दति | न लभते न विषयी करोतीत्यर्थः | तावदसौ संसारे भ्रमति नादस्यापि व्यापिनं देवं द्योतनशीलमात्मानं विदित्वा निःसंशयं मुच्यते | दीक्षाफलमविघ्नमस्यो............ यतीत्यर्थः | एतदेव दृष्टान्तपूर्वं प्रचक्षते - यथा तृण जलूकादि तृणाग्रं यावदागतम् | उपरिष्ठान्निरालम्बा तद्वज्जीवोऽत्र संस्थितः || संसारावस्थायां मलेन ज्ञानक्रिययोः विरुद्धत्वात् तद्व्यञ्जककार्यकरणस्य ........... व किञ्चिद् ज्ञात्वाऽभिव्यक्तेस्तेष्वेवात्मनाऽस्य प्रतिपत्तिः | ततश्च तृणजन्म जलूकया तृणमेव तदेवास्यात्मनोऽधिष्ठानमिति तत्कार्यकरणादि यथोर्ध्वाधस्तिर्यग्लक्षणेन ध्यानत्रयेण .............ष्ति जीवोऽत्र संस्थित इति शरीरमध्यवर्ती भवति | तदानीं स्वस्वरूपमप्यसौ श्रान्त्या शरीरपरिमितमेव मन्यते इत्यर्थः | एवञ्चासौ व्यापकस्वरूपज्ञानाबद्धः ततश्चोर्ध्व शून्यं निरालयं त्रिशून्यं यो विजानाति ......टे सौ ध्रुवं गुह | या प्रोक्तक्रमेणात्मस्वरूप वेदनादूर्ध्वे वधोमध्ये तिर्यक् च लक्षणे स्थाने शून्यत्वमात्मनः संसारावस्थाममलच्छन्ततया प्रकाशते न पामा............. निरामयं मन्त्रशून्यमात्मनो न विजानि विगतत्वेन जानाति | सर्वत्र शून्यमेव जानातीत्यर्थः | स दीक्षितो निश्चितमेव मुच्यते | तदेवं - व्याप्तिश्च समया प्रोक्ता संक्षेपान्न तु विस्तरात् | अतः परतरासक्त............. पकं व्यापकस्य तु || यतो व्यापकस्य नास्य यद्व्यापकमात्मस्वरूपं ततः परतरं नाऽस्ति ईश्वरेण सक्त व्याप्तिकत्वात् ततो मायास्यनादस्यं च शब्दाद्व्यापकस्यात्मनः तत्समान जातीयस्य तदनु......... कस्य शिवस्य चास्मिन् प्रकरणे प्रकरणान्तरे च संक्षेपाद्व्याप्तिप्तिरुक्तेति || इति द्विशति कालोत्तर वृत्तौ व्याप्तिप्रकरणं पञ्चदशमम् || एवं प्रासङ्गिकीं नादादिव्याप्तिं प्रदर्श्य प्रकृते - अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा | साधकस्याभिमुखी भावे पाशशुद्धि कर्तुराचार्यमोक्षं प्रदत्वा विना भावी च पूर्वं अष्टधा प्रत्ययो भावो ज्ञानं यथा भवति तथा वक्ष्यामि | कोऽसावित्याह - प्. ७८) अग्निज्वलनञ्चैव प्रवक्ष्यालम्भनं तथा | पाशानां स्तोभनं चैव महापातकनाशनम् || विषु संक्रमणं चैव निर्बीजकरणं तथा | ग्रह ज्वर विनाशौ च प्रत्ययोऽष्टविधः स्वयम् || विषुसंक्रमणं तद्वच्छक्तेः संहारेणात्र नयनं एवं ज्ञातश्च विधिवत् ख्यातिः सर्वत्र जायते | एवं प्रत्ययाष्टकस्य विधिवद्ज्ञातुः सर्वत्र दृष्ट फलेषु कर्मसु फलात् संवादेन प्रसिद्धिर्जायते | अत्र चाविकल सम्प्रदायलब्धमन्त्रः कृतपूर्वस्येवो गुरुः साधको वाऽनुपोषितः स्नातः सितवस्त्रालंकारः शिवं चाभ्यर्च्य शुचौ देशे स्वस्तिकाङ्किते प्रयोजनमक्षिधीरमनाः सर्वप्रत्ययादयो तत्र प्रथम प्रयोगः - ओं हां हौं हां ओं नमः प्रणवो रेफयुक् सद्यः शिवो रेफ द्वयान्तरः सद्यश्च रेफयुक्तारो नमश्चाग्नि दीपने | एषु चाऽग्नि स्रोतसि योक्तव्य सहस्रजपसंयुतः | पञ्चाक्षर प्रयोगेण ज.................. त्येव न संशयः | तत्रवानुपहतमिन्धनं पुराकृत्य दुर्मन्त्र मकलययं अनुस्मरन् पूरकादि विधिनोच्चार्याग्नि स्रोतसा पिङ्गलनाडी प्रवाणोदानगत्योद्धात सहस्रं यावत्तत्र योजयेत् | एतच्चोपलक्षणम् | जलाद्युपस्थानस्य तत्र साकारादि युक्तो मन्त्रान्तरेफयुक्त इति भेदम् | अथ द्वितीयः - ऊं ह्रूं ह्रौं ह्रूं वोन्नमः | प्. ७९) अध्यस्थं शिवबीजञ्च संस्थि............ण्तारो नतिं वा परीक्षणे एष च तुला पुरुष योगो यमुद्घातैः अधुतेन तु | महापातक शुद्ध्यर्थं विधिवत्संप्रकीर्तितम् | यदा प्ररोहणे चा या गुरुत्वं यो न जायते || महापातक नाशन प्रायश्चित्त निमित्तं तत्परिच्छेदकत्वेनारोपित गुरु द्रव्यान्तर सम जननायाम् | प्रयोगः उद्घातय तेन पापक्षपणाय तु || ओं ह्यां ह्यौं ह्यां ओं .............. वायुना भ्रातं शिवबीजं तथा पुनः | हृदयं तद्वदोमन्ते नमः पापक्षयो मनुः | तस्यैव पुनरारोहणे चैवायं लघुत्वं जाय यथातस्य पापिनोनमनेन मन्त्रेण पुनः जटारोपणे पापक्षयाल्लघुत्वं जायते | अथ पञ्चमः - ओं ह्यं ह्यौं ओं नमः | तार जीवञ्च स प्राणं शिवो वायु समन्वितः | धीरः प्राग्वदधोङ्कतिश्च विषनाशने || विषसंहारयोगोऽयं मन्त्रः ........ योगः अष्टभिरुद्घात शतैरिति केचित् | अथ षष्ठ प्रयोगः | अनग्निज्वलने तद्वन्निर्बीज करणे तथा || शतैः पञ्चभिरुद्घातैः विशेषोऽत्र विधीयते || प्. ८०) उत्पातानामल्लनानग्नि ज्वलनानिर्बीजीकरणे विशेषतः ? अथ सप्तमः | ओं ह्रूं ह्रं ह्रूं फण्ण्मः || प्. ८१) ................ युतसाग्नि शिवः साग्नि शिवो पुनः | तारञ्च फणितिञ्चान्ते घृहाणान्ताशने मतौ || एवञ्च प्रयोगे विषुवेणायं प्रवाहेण वियोजयति - उद्घाताष्टशतेनाशु गृहं नाशयति ध्रुवम् || ---------------------------------------------------------------- | कार्ययाष्टयामः | ओं हां फट् ओं हां फट् ओं हां फट्..... फट् फट् तारः शिवो फडन्तोऽत्र शिवः साग्निफलं नगः | प्राग्वच्छाखा च फट्कारा पञ्च यज ज्वरनाशनः || एष तु प्रयोगो सौम्यमार्गेण कार्यः | अथोपसंहारः - अष्टानां प्रत्ययानान्तु प्रयोगः कथितो मया | ज्ञात्वा ज्ञात्वा प्रयुञ्जीत विधिवद्देशिकोत्तमः || इति लक्षद्वयाध्यापक श्रीमदघोर शिवाचार्यविरचितायां श्रीमद्द्विंशतिकालोत्तर वृत्तौ प्रत्ययाष्टमप्रकरणम् || पुनरपि प्रासाद प्रश्नः - प्रासादः कीदृशोज्ञेयः व्याप्तिस्तस्यैव कीदृशी | प्रसूतिः कीदृशी तस्य कथयस्व महेश्वर || ननु पूर्वं प्रासादस्योद्धृतत्वान्नादाख्य सूत्रेण ख्यास्ते तु ह्रस्वहृत्यादिना प्रसूतेश्चाभिधानात् | प्रश्नो....................... श्नः अत एवायमन्यभव संशयः | देहस्थः सकलोज्ञेय इत्युक्तत्वात् सकलञ्चास्य सकल प्. ८२) शिववाचकत्वात् तच्छरीरभूतपञ्च ब्रह्म प्रसूतितया ब्रह्मादि कारणेशाधिष्ठातृ शक्तिरूप वाचक तया च भवतीति तद्विशेषजिज्ञासया प्रश्नः | ततश्च तदनुगुण एव सिद्धान्तः | प्रासादं यो न जानाति पञ्चमन्त्रमहातनुम् || अष्टत्रिंशत्कलायुक्त न स आचार्य उच्यते || इशानादि पञ्चकलात्म कार्य प्रसव युक्तं प्रासाददान्तः शक्तिशरीरं शिवं च वाचकतया वाच्यतया च ज्ञात्वाऽचार्यो भवति || प्रासादं सम्यगज्ञात्वा यो दीक्षां कुरुते नरः | अधस्ताच्छिष्यमात्मानं नयते नाऽत्र संशयः || प्रासादाब्ज शिखान्तस्थो यस्तु दीक्षां करोति हि | आचार्यः सह शिष्यैः सः शिवसायुज्यतां व्रजेत् || प्रासाद एवाब्जं शिवाधिष्ठेय त्वात्तस्य शरीरान्तस्थ इति प्रासाद प्लुतोच्चारण नादः शिववृत्या देहान्वितानवच्छिन्न द्वादशान्तस्थ संविदित्यर्थः | योगोऽस्य शक्तयः समा इति श्रुतेः सह युग्भावः सायुज्यम् समान शक्तिश्चेति यावत् | शिवेन सायुज्यमस्य अस्तीति शिव सायुज्यः तद्भावं स गुरुः स शिवेष्यो व्रजति | तेनैव पञ्चमन्त्रात्मनाकार .............. शाधिष्ठाना कल प्रजापतिरथादित्यः शुक्रः स्कन्दो गुरुस्तथा | येपि चा.......... सर्वे प्रासादा वाच्यं नाधिष्ठानं मुमुक्षुसाधकाश्च न शधयती भावं एते चान्ये च बहवो मुनयः संशितव्रताः | ध्यायन्ति परमं हंसं प्रासादं नामतः परम् || प्. ८३) संवाच्य रूपप्रासाद नामतः तद्वाचकतया ध्यायन्तीत्यर्थः | एषा च बीजरूप प्रासादः शिवस्य शरीरात्मकः | शक्तिविशेषवाचकत्वेन पञ्चमन्त्रात्मकाष्टत्रिंश............... जायन्त इत्युक्तम् | तत्र च - सभागञ्चास्य वक्ष्यामि यं ज्ञात्वा मृतमश्नुते | वाच्यस्य ध्यानार्थं वाचकस्य च विशेषावबोधनाय च वक्ष्यामीति प्रतिज्ञातमेव || सद्यश्चाष्टकलायुक्तमकाराक्षर सम्भवम् | विद्यादुकारजंवामं अघोरन्तु मकारजम् || बिन्दुं पुरुषोज्ञेयो ईशस्तु शिखात्मजः || एवं मन्त्रास्तु प............ स्मृताः प्रासादसंभवाः || न तु प्रणवाक्षराण्येतानि अकारादीनि | न तु प्रासादाक्षराणि | तानि हि हिकारादीनि सत्यम् | अत एवात्र निमि............... नैतानि निर्दिष्टानि अकाराद्यक्षरे सत्युत्पन्ने यज्जातं प्रासादाक्षरं हकाराख्यं तदकाराक्षर संभवम् सद्योजात................. श्रूयते च || अकारश्च उकारश्च द्वावेतावेकसंस्थितौ | विरतिर्नैव विद्येत मारुताम्बरयोरिव || इति एवमुक्ताकारजा इत्यर्थः | ............... प्रणवस्य मन्त्रादौ योगः सिद्धः सद्यश्चाष्ट कलायुक्तमुत्युपक्षणम् | वामदेवादयोपि स्वस्व कलाभेदेन सदाशिव भेदरूप भेदेऽभिध्येयाः | इत्थं प्रासादज्ञानेन तच्याप्ये शिवपूजिते सर्वे तदधिष्ठातृ मन्त्राः पूजिता भवन्तीत्याह - शतकोटिसहस्राणां अस्त्राणाममितौजसाम् | ....... प्रासादे नैव चेष्टेन भवन्तीष्टा न संशयः || ननु सप्तकोटि महामन्त्रा श्रूयन्ते तत्कथं शतकोटिसहस्त्राणी त्युक्तः | अत आह - मारुतास्सनकाद्याये ये मन्त्राः परिकीर्तिताः | प्. ८४) प्रासादाब्जमुत्पन्नाः सर्वे चामोघ शक्तयः || निरञ्जनानां सांसंख्या साञ्जनाद्ये क्षयात्वनन्त एव मन्त्र इत्यर्थः | यदुक्तम् - अन्ये प्राधानिकामन्त्रा ब्रह्मविष्ण्वादयो पराः | साञ्जनास्तेणु मध्यस्थाः सात्वराजसतामसाः || इत्यर्थः | अत्र च मननत्राण धर्मिष्ठ वाच्येष्ट मन्त्रशब्दः वर्तते | उपचारात्तु वाचकशब्दे प्रयुज्यते | ततश्च प्रासाद वाच्येन शिवेनान्ये मन्त्राः मन्त्रत्वेन नियुक्ता वाचकश्च प्रासादावयव भूतानादोपादान जानास्तत्तद्वाच्यभिषधायका भवन्ति | अथ विष्णु ब्रह्मणमेव प्रागुक्तनिमित्ताद्यधिष्ठातृ द्वारेणैतच्छरीरमधिष्ठेयमित्युच्यते | सत्यस्तु भवेदीशः स्वयं देवो महेश्वरः | केवलसद्योजातादि ब्रह्मस्वरूपोपासकैरपि शिव एव निवृत्त्यादि भुवन प्राप्त्यर्थमाराध्यमित्यर्थः | शब्दजालं प्रासादो ब्रह्मचारेण तद्वाच्येन शिवेन च | तत्तच्छक्ति द्वारेणाधिष्ठेयमित्याह - सद्योजातस्तु ऋग्वेदो वामदेवो यजुः स्मृतः | अघोरस्सामवेदस्तु पुरुषोऽथर्व उच्यते || पञ्चमं यत्परं सूक्ष्म त........... सी सदाशिवः || उप लक्षणत्वाद्वेदानां सर्व एव वाक्प्रपञ्चो न दधिष्ठानो नाप्रतीति कृद्भवति तद्वाच्यः शक्त्यधिष्ठिता चेत्यर्थः | पञ्चमञ्चीचान ब्रह्मकारणत्वेनोक्तं प्रासादस्वरूपं परमेश्वर वाचक व्योमव्याप्यादि मन्त्रमपि कारणमित्यर्थः | अथ कारणेशास्तदधिष्ठिताश्चाध्वभागाः क्रमेण ब्रह्म..................... ........... क्यमधिष्ठिता इत्युक्ते - सद्योजातस्तु वै न?मावामो विष्णुः प्रकीर्तितः | अघोरोरुद्रदैवत्यः पुरुषश्चेश्वरस्तथा || ईश्वर शिवदेवत्योह्यधिदेवाः प्रकीर्तिताः | रुद्रदैवत्योर्ध्व भागो प्. ८५) राधिष्ठिता इत्यर्थः | श्रवं शिव दैवत्यस्सदा शिवाधितिष्ठितोर्ध्व भागमीशानाधिष्ठितः | इमे मन्त्राः अधिदेवताः न तु ब्रह्मादय एव सद्योजातादीनामधि देवताः इति व्याख्येयम् | शास्त्र विरोधादित्यर्थ वाच्यवाचक भेदेन सकल स्वरूपं तदधिष्ठेयं च प्रतिपाद्य निष्कला परं तत्व शिव स्वरूपं प्रतिपादयति मन्त्रं यत् परं तत्व समादृश्यं गुणे स्थितम् || तस्य देहो न वक्तव्यः प्राकृतैः गुणसंभवैः | षष्ठन्तु देहे मादादि ब्रह्मरन्ध्रास्थ पञ्चस्यानादिति क्रान्त देहातीतं कारण त्यागं क्रमेण प्राप्य बाह्ये च पञ्चकालाधिष्ठान्ताध्व भागादि क्रान्तः परं तत्वं तस्य स्वरूपं शब्दपरिकल्पनातीतत्वात् अनुभवमेय गुणमानाख्यैयमेव च तस्य प्राकृतैः महामायाजप्रतिजैः गुणसंभवैश्च तत्वैदोदहो न कल्पनीयः | किन्तु स्वशक्तिमय एवेत्युक्तम् | परं तत्वस्य स्वरूपं शब्दपरिकल्पनातीतत्वात् अनुमेयगुणमनाख्येयमेतद् ज्ञानफल कथायाह ज्ञात्वा परम श्रेणीं पञ्चसंस्थानगामिनीम् | ज्ञानं ज्ञातं सद्यद्येन विस्मिते नान्तरात्मना || तत्काल एव मुक्तोऽसौ यदा ज्ञातं हि तत्परम् || एतां ब्रह्माधिस्थानाधिरोहण सोपान पटेवदोक्तिं ज्ञात्वा तद् ज्ञानमित्युपलक्षणम् | ज्ञानक्रिया स्वरूपं शिव सा.......... तुष्टेनान्तरात्मना ज्ञानशक्त्या सत् ज्ञातः विषयीकृतम् तदेवासौ शक्यः | ननुचितमस्थैर्याय देवतान्त रूप तदा वास उपयुज्यते इति मति भावः | आदौ .............. तस्सपि त्र्यागुरूत्तमात् | अनुग्रहायलोकानां अनुजग्राहशकरः | तेभ्यस्सिद्धान्त संसिद्धि भोचराञ्च तु स्मियम् ||? मन्त्रेश रुद्रदेव विक्रमात् भूतिमुपगत .......... शिवकुलादाद्यादुत्पन्ना गुरुसन्ततिः श्रीमदामर्दकन्नाम स्थानमस्यास्य भारते गुरवः तत्समुद्भूता नानाचर्या विधायिना | गोलीकरण भद्र................... ष्वधिगता पृयाः? || प्र प्. ८६) गुरूणां तत्कुलोत्थानां वंशे श्रीकण्ठतेजसा | गोम्यदेशोद्भव श्रीद्ध्यान शिवो भवेत् ||? अथायं चोलनाथस्य गुरुत्वं गुरु स............ | श्रीद्दये सभानाथं यश्चिरं पयपूजयत् तस्मादभूद्धृदय शंकरनामधेय शैवाधिराज इति भूमितले प्रसिद्धः | वेदे विधिस्सकलशास्त्रगणैस्सजीव ............ ल्पेमयस्स शिव एव शिवागमेषु || शिष्यो स क्ण्डिह ................ मभान्वय दीपभूत - कृष्णात्मजः श्रुतिनिधिः बहुरूप शम्भुः | पत्यादि रत्न परि................. वो गमाब्धि व्याख्यानिबोध पतिरर्णव कर्णधारः || यश्चक्रे शिवशासनेषु विविधावृत्तिर्विशुद्धात्मभिः वाग्भिर्वाक्य पदप्रमाण .................... श्रीमोहशूरादिषु | पूजां यस्य वितन्वते नृपतयश्चोलेन्द्र........... च्यादयो वृत्तिस्तेन सुख ग्रहाद्विशतिका कालोत्तरे कीर्तिता || इति लक्षद्वयाध्यापक श्रीमदघोर शिवाचार्यविरचितायां द्विशतिकालोत्तर वृत्तौ प्रासादनिर्णय प्रकरणम् || द्विशतिकालोत्तर वृत्तिः समाप्ता || शम् ########### END OF FILE #######