#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00647 Uniform title: gautamatantra Manuscript : Ragunath Temple, Jammu, JandK manuscript 2651k Description: Notes: Data-entered by the staff of Muktabodha under the supervision of Anirban Dash. Revision 0: Apr. 6, 2024 Diplomatic transcription Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नो- २६५१ क तित्ले- गौतमतन्त्रम् एxतेन्त्- ८० पत्र अगे- १९४८ सुब्जेच्त्- तन्त्र पृ० १अ) ओं नमः श्रीकृष्णाय || प्रणम्य द्वारकानाथं गोपीजन मनोहरम् | लिख्यते गौतमितंत्रं सर्वतंत्रोत्तमोत्तमम् || सिद्धाश्रमे वसन् धीमान् कदाचिद्गौतमो मुनिः | तपः स्वाध्याय निरतो भक्तिमान् पुरुषोत्तमः || नमस्थन् शिरसा विष्णुं स्तवन् वाचा जनार्द्दनम् | जपन कराभ्यां यज्ञेशं हृदाध्ययन तत्परः | समस्त श्रुति तत्त्वज्ञ इतिहासपुराणवित् | मंत्रौषधि क्रिया वश्य योगसिद्धांत तत्तवित् | धर्म्मार्थकाममोक्षार्थी नारदं प्रणिपत्य च | विनयावनतो भूत्वा पर्ययपृच्छद्द्विजोत्तमः | भगवन् कामदा मंत्राः शूद्रस्त्र्याह्यधिकारकाः | विभिन्नफलदास्ते तु नैकत्र फलदा भताः | एतत् समफलाः सर्वे न मंत्रा इति न श्रुतम् | येन सर्वफलावाप्तिः सर्वेषां बंधुरेव यः | सर्ववर्णाधिकारश्च नारीणां योग्य एव च | तं ब्रुहि भगवन्मंत्रं भम सर्वार्थसिद्धये | तवना विदितं किंचिद्विह्यते स चराचरे | इति श्रुत्वा मुनिश्रेष्टो नत्वा विष्णुमुवाचह | साधुपृष्टं मयाप्येकं पृष्टः प्रोवाच पद्मजः | तथा ते कथयिष्यामि यथाप्रोक्तं स्वयम्भुवा | सर्वे कामाः प्रसिद्ध्यंति कृष्णमंत्र जपाद्विज | सर्वेषु मंत्रवर्गेषु वैष्णवं श्रेष्टमुच्यते | गाणपत्येषु शैवेषु तथा शाक्तेषु सुव्रत | वैष्णवेषु समस्तेषु कृष्णमंत्राः फलाप्तये | विशेषतो दशार्णोऽयं जपमात्रेण सिद्धिदः | मंत्रस्थ ज्ञानमात्रेण लभेन्मुक्तिं चतुर्विधाम् | समस्त पापराशीनां ज्वलनोऽयं मुनीश्वर | अनेन सदृशो मंत्रो जगतस्वपि न विद्यते | पृ० १ब) अनेनाराधितः कृष्णः प्रसीदत्येव तत्क्षणात् | तस्य संक्षेपतो वक्ष्ये सर्वं सम्यक् शृणु स्वमे | पद्मयोनिखायाग्र्यं दैवराज्यं शचीपतिः | अवापुस्त्विदशाः स्वर्गं वागीशत्वं वृहस्पतिः | पक्षिणामधिपः सोऽभूद्गरुडो़ऽपि द्विजोत्तम | कश्चित् कृष्णं समाराध्य धनेशत्वमवाप्तवान् | मंत्रेण कृष्णमाराध्य चन्द्रः सर्वजन प्रियः | करोति स्ववशे कामः सर्वान् कामानमेन च | मंत्रणां परमो मंत्रो गुह्यानां गुह्यमुत्तमम् | मंत्रराजमिमं ज्ञात्वा कृतार्थो जायते नरः | पुत्रवान् धनवान् वाश्मी लक्ष्मीवान् पशुवान् भवेत् | सुभगः सस्मतः श्लाघ्यो यशस्वी कीर्त्तिमान् भवेत् | सर्वलोकाभिरामः स्यात् सर्वज्ञश्च भवेन्नरः | अनेन त्रिषु लोकेषु गता मुक्तिं मुमुक्षवः | मंत्रेणानेन मंत्रज्ञो भक्तिः स्यात् प्रेमलक्षणा | समस्ततीर्थपूतश्च समस्त क्षेत्रपावनः | रवेरिवदुराधर्षः ष्युचेरिव शुचिः सदा | शंकरस्येव सिद्धीशो विष्णोरिव समाष्प्रयः | बहुना किमिहोक्तेन रहस्यं श्रृणु गौतम | निर्वाण फलदो मंत्रः किमन्यैर्बहुजल्पितैः || इति श्रीगौतमीये महातंत्रराजे सर्वतंत्रोत्तमोत्तमे दशांक्षर फलाध्यायः || १ || गौतम उवाच समस्त वेदतत्त्वज्ञ सर्वागमविशारद | अधुना ब्रुहि मे ब्रह्मन् मंत्रराजं दशाक्षरम् | नारद उवाच अधुना संप्रवक्ष्यामि विधानं मुनि निर्म्मितम् | यावन्मंत्र ऋषिछन्दो देवतादीन्यनुक्रमात् | खांताक्षरं समुद्धृत्य त्रयोदशस्वर(रा)न्वितम् | पार्णतूर्ययस्वरयुतं छांतं धांतं तथा द्वयम् | पृ० २अ) अमृताक्षरमुद्धृत्य चैकतो मांसयुग्मकम् | पतूर्ययं मुखवृत्तेन पवनः स्वाहयान्वितम् | दशाक्षर मनुः प्रोक्ती दृष्टादृष्टफलप्रदः | तेन गोपीजनवल्लभाय स्वाहा | बीजं शक्तिं च वक्ष्यामि ब्रह्मचिच्च परात्परः | ब्रह्माणं मायया सार्द्धं मांसार्णं नादबिन्दुकम् | एतद्बीजं समाख्यातं कृष्णतत्त्वं परात्परम् | शुक्रार्ण ममृतार्णेन * खवृत्तेन संयुतम् | गगनं मुखवृत्तेन प्रोक्ता शक्तिः परात्परा | एषा शक्तिः परासूक्ष्मा नित्या सम्वित् प्रदायिनी | ईश्वरो जगतां बीजं शक्तिर्गुणमयी तथा | परमात्मा तथा बुद्धिर्व्वायुः कुंडलिनीति च | चतुर्विधे बीजशक्ती सर्वमंत्रेषु चिंतयेत् | त्रितयं तत्र सामान्यं तदिदानीं निरुप्यते | ईश्वरो जगतां बीजं आद्यं ब्रह्म तदुच्यते | तस्य माया समाख्याता शक्तिर्गुणमयी तथा | प्रकृतिः पुरुषश्चैव नित्यः कालश्च सत्तम | तत्वानि चेश्वरश्चैव ब्रह्मेति पंचमं स्मृतम् | सर्गांतः पुरुषश्चेति तूर्ययाख्या प्रकृतिः परा | तत्वानि मांसरुपाणि कालश्च तत्त्वरुपकः | ईश्वराख्या भवेन्नादो बिन्दुश्चैतन्य चिन्मयः | एतद्विज्ञानमात्रेण जीवन्मुक्तो महीं चरेत् | नास्यकालकलापे ज्ञान तीर्थायतनानि च | क्लींकारादसृजद्विश्वमिति प्राहः श्रुतेर्गिरः | लकारात् पृथिवीजाता ककाराज्जलसम्भवः | ईकारादग्निरुत्पन्नो नादाद्वायुरजायतं | बिन्दीराकाशसम्भूतिरिति भूतार्थको मनुः | पृ० २ब) स्वशब्देन च क्षेत्रज्ञः हेति चित् प्रकृतिः परा | तयोरैक्यसमुद्भूतिमुकवेष्टन कार्णकः | अतेव हि विश्वस्य लयः स्वाहार्णके भवेत् | गोपीति प्रकृतिं विन्द्याज्जनस्तत्त्वसमूहकम् | अनयोराश्रयव्यात्था कारणत्वेन चेश्वरः | सान्द्रानन्दः परंज्योतिर्वलभेन च कथ्यते | त्रिपादूर्द्ध उदैत् पुरुष इत्याहुः | प्रथमागिरः | बीजोच्चारणमात्रेण चित्स्वभावः प्रजायते | वल्लभेन च तादात्म्यं स्वाहया ज्ञानदायकम् | इत्येवं कथितं तत्वं मुने वै ब्रह्मसन्मतम् | अथवा गोपीप्रकृतिर्ज्जनस्तदंशमंडलम् | अनयोर्वलभः स्वामी कृष्णाख्य ईश्वरः स्मृतः | कार्ययकारणयोरीशः श्रुतिभिस्तेन गीयते | अनेक जन्म सिद्धानां गोपीनां पतिरेव वा | नन्दनन्दन | इत्युक्तस्तैलोक्यानन्दवर्द्धनः चिन्तयेद्विरजो मंत्री सर्वसम्पति हेतवे | दशानामपि तत्वानां साक्षी वेत्ता तथाक्षरं | दशाक्षर इति ख्यातो मंत्रराजः परात्पर | लुप्तबीजस्वभावत्वात् दशार्ण इति कथ्यते | बीज पूर्वो जपश्चास्य रहस्यं कथितं मुने | नारदोऽस्य मुनिः प्रोक्तश्छन्दो विराडिति़ स्मृतम् | श्रीकृष्ण देवता चास्थ दुर्गाधिष्ठातृ देवता | महेश्वर मुखाज ज्ञात्वा यः साक्षात्तपसामनुम् | संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः | गुरुत्वात्मस्तके चास्य पुरुषार्थ चतुष्टये | ऋषिश्छन्दोऽपरिज्ञानान्न मंत्रः फलभाग् भवेत् | दौर्बल्यं याति मंत्राणां विनियोगमजानताम् | मंत्रन्यासमथो वक्ष्ये दृष्टादृष्ट फलप्रदं | प्रणवाभ्यां पुटं कृत्वा नमोऽन्ताद्दशवर्णकान् | पृ० ३अ) दक्षांगुष्ठादि वामांतं न्यासः स्यात् सृष्टिरीरिता | वामांगुष्ठादि दक्षांतं संहृतिः परिकीर्त्तिता | उभयोः करयोर्ज्येष्ठा पूर्विका स्थिति रुच्यते | संहृतिः परिकीर्तिता | उभयोः करयोर्ज्येष्ठा पूर्विका स्थिति रुच्यते | संहृतिर्देव संघानां हारिणी परिकीर्त्तिता | विद्याप्रदा च सृष्ट्यंता वर्णानां शुद्ध चेतसां | स्थित्यंतंस्थादगृहस्थानां त्रयं कामानुरुपतः | सहाजिने वानप्रस्थे स्थित्यंतं कश्चिदिच्छति | संहारांतो मुनीनां च विविक्तस्य च सर्वशः | न्यासत्रयं सदा कार्ययमशक्तावेकमेव हि | वर्नन्यासांस्तथा मंत्री देहे च परिविन्यसेत् | हस्तमुले कूर्परके मणिबन्धेऽङ्गुलिमूले | अंगुल्यग्रे च विन्यस्य पादयोरुपरि न्यसेत् | हस्तमुलादि सृष्टिः स्थान्मणिबंधात् स्थितिः स्मृत्वा | अंगुल्यग्रात् संहृतिः स्थातस्थित्यंतं त्रितयं न्यसेत् | ततः करांगयोर्न्यासास्तथैव परिकीर्तिताः | आचक्राय तथा स्याहा अंगुष्ठाभ्यां नमो भवेत् | विचक्राय स्वाहेति च तर्जनीभ्यां तथोच्चरेत् | सुचक्राय तथा स्वाहा मध्यमाभ्यां तथोच्चरेत् | त्रैलोक्यरक्षणचक्राय स्वाहेत्यनामिके तथा | असुरांतचक्राय स्वाहा कनिष्टयोर्नमः | रुक्मिणी प्रकृतिर्वामा साक्षादमृतविग्रहा | दक्षिणः पुरुषः प्रोक्तो ज्योतिस्तु विषविग्रहः | संयोगात् करयोरेवं परातत्वं प्रजायते | अतेव समस्तानां वस्तूनां शोधनं स्मृतं | पंचगानि ततः कुर्ययादंगमंत्रेण देशिकः | पंचांगानि मनोर्यत्र तत्र नेत्रं विवर्जयेत् | आचक्राय तथा स्वाहा हृदयाय नमो वदेत् | अंगुष्टरहिते नैव कराग्रेण हृदं स्पृशेत् | विचक्राय तथा स्वाहा शिरसे स्वाहेति संवदेत् | पृ० ३ब) शिरसि विन्यसेत्तद्वत् तथैव करशाखया | शुचक्राय तथा स्वाहा शिखायै वषडुच्चरेत् | तथाधोऽङ्गुष्ठमुष्ट्या तु शिखायां परिविन्यसेत् | त्रैलोक्यरक्षणचक्राय स्वाहेति कवचाय हुं | हस्ताभ्यां शिर आलभ्य पादांतं संस्पृशेद्यतिः | असुरांतकचक्राय स्वाहा स्वाय फडुच्चरेत् | जर्द्धोर्द्ध तालत्रितयछोटिकाभिर्द्धिशोदश | बन्धयेम्मुनि शार्दूल नित्य न्यासोऽयमीरितः | इक्ष्यमाणो हृदात्मानां हृदये स्याच्चिदात्मकः | क्रियते तत् परात्मा च हृन्मंत्रेण च देशिकः | सर्वज्ञादि गुणात्तुंरी संविद्रुपे परात्मनि | क्रियते विषयाहारः शिरोमंत्रेण धीमता | हृछिरोरुपचिन्नाममयताभाव चेतना | क्रियते निजदेवस्य शिरोमंत्रेण सादरम् | मंत्रात्मकस्य देवस्य मंत्रवाच्येन तेजसा | सर्वतो वर्म्ममंत्रेण क्रियतेऽनन्य संभृतिः | यद्ददाति परंज्ञानं संविद्रुपे परात्मनि | हृदयादि मयं तेजः स्थादेतन्नेत्र संज्ञकम् | आध्यात्मिकादिरुपं यत् साधकस्य विनाशयेत् | अविद्याया तु मंत्रं तत् परं धाम समीरितम् | गौतम उवाच ब्रह्मन् ब्रह्मविदां श्रेष्ट सर्वभूतहितेरतः | त्वमेव कृष्णदेवस्य अंतर्यामी निरामयः | अविद्या दोषनिर्मुक्तः सुमंत्र व्रतसंयतः | सर्वलोकैकगमनः सर्वलोकैक तत्ववित् | सर्वानुभव साक्षीत्वं सर्वदेव नमस्कृतः | इदानीं श्रोतुमिच्छामि मंत्रराजं परात्परम् | अष्टादशोर्णमंत्रस्तु गुह्याद्गुह्यातरः स्मृतः | तं मंत्रं श्रोतुमिच्छामि यदि योग्योस्मि सत्तम | भवार्णव निमग्नं मां त्वमुद्धर्त्तु मिहार्हसि | इत्यादि स्तुतिभिः स्तुत्वा प्रणम्य च पुनः पुनः | पृ० ४अ) पार्श्वमासाद्यतद्वक्वमतिरासीन्मुनीश्वरः | नारद उवाच साधु पृष्टं त्वया ब्रह्मन् मयापि ब्रह्मणः स्मृतः | मंत्रराजो मुनिश्रेष्ट सर्ववेदागमानुगः | ततः प्रभृति विप्रषें हरितामाप्तचानहं | तव स्रेहात् प्रवक्ष्यामि यतस्त्वं पुरुष प्रियः | क्लींकारं पूर्वमुचार्यय कृष्णं तूर्ययपदान्वितं | गोविन्दं च तथोक्ता तु दशाक्षरं तथोच्चरेत् | भक्त्या ते प्रणिपत्या च कथितो मंत्रनायकः | गुह्याद्गुह्यतरो ह्येष वांछा चिंतामणिः स्मृतः | शौनकाद्याश्च मुनयस्तप्यान्ये देव मुख्यकाः | मंत्रराज परिज्ञानात् सद्यस्तत् साम्यतां गताः | कृष्ण शब्दश्च सत्तार्थो नश्च नन्दस्वरुपकः | सुखरुपो भवेदात्मा भावानन्दमयस्ततः | गोशब्देन ज्ञानमुक्तिं तेन विन्देत तत् प्रभुं | गो शब्दाद्वेद इत्युक्तस्ते नरा लभते विभुं | एवं ते कथिता मंत्र वासना मुनिसत्तम | एतज्ञ ज्ञानानुभावेन जीवन् कृष्णो न चान्यथा | किमन्येन बहूक्तेन स्मरणाच्चास्य मंत्रवित् | जीवन्मुक्तो न सन्देहो विष्णुरेव न संशयः | नारदोऽस्य मुनिः प्रोक्तो गायत्रीछन्द उच्यते | कृष्णः प्रकृतिरेतस्य दुर्गाधिष्ठातृ देवता | वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः | नारायण इति ख्यातः पद पंचात्मकः परः | अक्षरार्थस्तु कथितः पदनाम इतीरितः | तस्माद्विज्ञाय वै मंत्री पुरुषार्थ चतुष्टयं | लभते नात्र संदेहः सत्यं सत्यं हि गौतम || पृ० ४ब) बीजशक्ती पुरा प्रोक्तो विनियोगश्च पूर्ववत् | पंचांगानि मनीरस्य पदपंचक योजनात् | ब्रह्मरन्ध्रे भ्रुवोर्म्मध्ये जिह्वा कूपे तथा पुनः | कंठदेशे हृदि तथा नाभौ लिंगे च मूलके | घ्राणद्वये चक्षुषोश्च कर्णयोर्विन्यसेदिति | ब्रह्मरन्ध्रे पुनः सर्वं व्यापक त्रयमाचरेत् | मूद्धिण् वक्त्रे हृदि नाभौ मूले च पद पंचकम् | रोहावरोहतो न्यस्य केशवाद्यानथी न्यसेत् | वर्णन्यासं पुनः कृत्वा केशवाद्यांस्ततो न्यसेत् | भूतशुद्धिं लिपिन्यासं विना यस्तु प्रपूजयेत् | विपरीत फलं दद्यादभक्त्या पूजनं याथा | मातृका द्विविधा प्रोक्ता परा चाप्य परा तथा | सुषुम्नांतः परा न्यास्या अपरा बाह्यदेशके | अथांतर्म्मातृकान्यासो मूलाधारे चतुर्द्दले | स्वर्न्नाभेवशषस चतुर्वर्णा विभूषिते | षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि | वभमैर्यरलैर्युक्तैर्बिन्दूद्भासित मस्तकैः | अनाहते द्वादशारे प्रवाल रुचि सन्निभे | कादिठांतदलैर्युक्ते योगिनां हृदयंगमे | विशुद्धे षोडशदिने धूम्नाभे स्वरभूषिते | आज्ञाचक्रे तु चंद्राभे द्विदले हक्षरंजिते | सहस्रारे मणिनिभे सर्ववर्णविभूषिते | अकथादि त्रिरेखात्महलक्षत्रयभूषिते | तन्मध्ये परिबिन्दुं च सृष्टि स्थिति लयात्मकं | एवं समाहित मनाध्यायेन्न्यासोऽयमांतरः | मूलादि ब्रह्मरंध्रांतं विष्णुं ध्यायेच्चिदात्मकं | बिन्दुश्रुत सुधासारैस्तर्पयेन्मातृकां न्यसेत् | एकैकं वर्णमुच्चार्यय मूलाधाराद्भ्रुवांतकं | नमोनंतमिति न्यास आचांतः परिकीर्तितः | पृ० ५अ) बाह्यं वै मातृकान्यासं शृणुष्वावहितो मम | ललाट मुख वृत्ताक्षि श्रुति घ्राणेषु गंडयोः | ओष्ठ दंतोत्तमांगास्येदोः यत् संध्यग्रकेषु च | पाश्वयोः पृष्टतो नाभौ जठरे हृदयंऽशके | ककुद्यंशे च हृतपूर्व पाणिपादयुगे तथा | जठराननयोर्नस्येन्मातृकार्णान् यथा क्रमात् | चतुर्द्धा मातृका प्रोक्ता केवला बिन्दुसंयुता | सविसर्गासोभया च रहस्यं शृणु कथ्यते | विद्याकरी केवला च सोभया भक्तिदायिका | सविसर्गा पुत्रप्रदा सबिन्दुर्वित्तदायिनी | केशवादि ततो न्यासं कुर्ययात् साधकसत्तमः | ऋषिः प्रजापतिच्छंदो गायत्री देवता पुनः | अर्द्धलक्ष्मी हरिः प्रोक्तः श्रीबीजेन षडंगकं | करशुद्धिविधानं च विधाय ध्यान माचरेत् | उद्यदादित्यशंकाशं तप्तजाम्बूनदप्रभं | कमला वसुधा शोभि पार्श्वद्वन्द्वं परात् परं | विचित्ररत्नविहित नानालंकारभूषितं | पीतवस्त्रपरीधानं शंख कौमोदकीकरं | वामतश्चक्रपद्मे च ध्यात्वैवं विन्यसेत्ततः | प्रणवं पूर्वमुच्चार्यय श्रीबीजं तदनंतरं | मातृकार्णं ततोन्यस्येद्वक्ष्यामि तत् प्रकारकं | केशवं विन्यसेत् कीर्त्या कांत्या नारायणं न्यसेत् | माधवं तुष्टि सहितं गोविन्दं पुष्टिसंयुतं | धृत्या विष्णुं शांतियुतं मधुसूदनमेव च | त्रिविक्रमं च क्रियया वामनंदयया न्यसेत् | श्रीधरं मेधया हृषीकेशं हर्षयुतं न्यसेत् | श्रद्धयांबुजनाभं च लज्जा दामोदरौ ततः | वासुदेवं ततो न्यस्येल्लक्ष्म्या संकर्षणं ततः | पृ० ५ब) सरस्वत्या ततः प्रीत्या प्रद्युम्नं चानिरुद्धकं | रत्याचक्रि जये दुर्गा गदिनौ शांर्गिणा प्रभा | खड्गिसत्ये शंखि चंडे वाण्या चहालिनं न्यसेत् | विलासिन्या मूषलिनं शूलिनं विजयायुतं | पाशिनं विरजायुक्तं विश्वयांकुशिनं न्यसेत् | मुकुन्दश्च विनदया सुनदानंदजौ न्यसेत् | स्मृत्या च नन्दिनं ऋद्ध्या नरं नरकजित् समृद्धया | हरिशुद्धी कृष्णभक्ती बुद्धि सत्यौ च सात्वतं | मत्पाशौरीक्षमे शूररमे तथोमा जनार्द्दनौ च | क्लेदिन्या भूधरं विश्वमूर्तिं क्लिन्या ततो न्यसेत् | वैकुंठ वसुधे चैव वसुधा पुरुषोत्तमौ | बली च परयायुक्तो बलानुजपरायणे | बालश्च सूक्ष्मया युक्तो वृषघ्नः संध्ययायुतः | वृषश्च प्रज्ञयायुक्तो हंसश्चैव प्रभायुतः | वराहो निशयायुक्तो विमलोऽमोद्ययायुतः | विद्युता नरसिंहेन कथिताः शिवशक्तयः | एवमंगेषु विन्यस्य ध्यात्वा पूर्वं समाहितः | भक्त्या तु पूज *(ये) द्देवं सोऽभीष्टं फलमाप्नुयात् | केशवादिरयं न्यासी न्यासमात्रेण देहिनां | अच्युतत्वं ददात्येव सत्यं सत्यं न संशयः | केशवाद्या इमे श्यामाः सर्वे नारायणाः स्मृताः | शंख चक्र गदा पद्म लसद्भुजचतुष्टयाः | शचेगीपीशगीपीचशपचंगंशपांग च | शंगं चम्यं शपंगं च दक्षिणोर्द्धं करं क्रमात् | नमोन्तार्णं समुच्चार्यय नारायण मनुं वदेत् | प्राणात्मानं तथोच्चार्यय केशवाय इति स्मरेत् | कीत्यै च मनसायुक्त इत्यादि न्यासमाचरेत् | मुमुक्षवश्च यतयश्च रेयुर्न्यासमुत्तमं | एवं वा विन्यसेन्न्यासं लक्ष्मी बीज पुरःसरं | पृ० ६अ) स्मृतिर्धृतिर्म्महालक्ष्मीः प्राप्यांते हरितां व्रजेत् | वाग्भवाद्यं न्यसेन्न्यासं वागीशत्वमवाप्नुयात् | यद्यदाद्यं न्यसेन्न्यासं तद्बीजैरंगकल्पनं | तत्वन्यासं ततः कुर्ययात् साधकः सिद्धिहेतवे | कृतेन येन श्रीदेवरुपतामेव यान्यसौ | मादिकांतामथार्णांश्च बीजान्येकैकशोच्चरेत् | नमः परायेन्युचार्यय ततस्तत्वात्मने नमः | जीवं प्राणद्वयं चोक्ता सर्वांगेषु प्रविन्यसेत् | ततो हृदयमध्ये च तत्वत्रयं च विन्यसेत् | वं बीजं मतितत्वं च फमहंकारमेव च | पं बीजं च मनस्तत्वमित्येवं त्रितयं न्यसेत् | नं बीजं शब्दतत्वं च न्यसेन्मौलौ ततः परं | वं बीजं स्पर्शतत्वं च विन्यसेदानने सुधीः | दं बीजं रुपतत्वं च हृदये विन्यसेत्ततः | थं बीजं रसतत्वं च विन्यसेदथ गुह्यके | तं बीजं गंधतत्वं च पादयोरथ विन्यसेत् | णं बीजं श्रीत्रतत्वं च श्रीत्रयोरेव विन्यसेत् | टं बीजं त्वक्तत्वं च विन्यसेत्त्वचि साधकः | डं बीजं नेत्रतत्वं च नेत्रयोरेव विन्यसेत् | ठं बीजं रसनातत्वं रसनायामथो न्यसेत् | ढं बीजं घ्राणतत्वं च नासिकायां प्रविन्यसेत् | ञं बीजं वाक्यतत्वं च विन्यसेद्वाचि साधकः | झं बीजं पाणितत्वं च पाण्योरेव प्रविन्यसेत् | जं बीजं पादतत्वं च पादयोरेव विन्यसेत् | छं बीजं पायुतत्वं च पायौ न्यसेत् समाहितः | चं बीजं लिंगतत्वं च विन्यसेदथ शिश्नके | ङं बीजं तत्वमाकाशं पुनर्म्मौलौ प्रविन्यसेत् | घं बीजं वायुतत्वं च वदने विन्यसेत् पुनः | गं बीजं तेजस्तत्वं च विन्यसेत् हृदये सुधीः | पृ० ६ब) खं बीजं जलतत्वं च पुनः शिश्ने प्रविन्यसेत् | कं बीजं पृथिवीतत्वं विन्यसेत् पादयोः पुनः | शं बीजं हृत्पुण्डरीकतत्वं हृदि प्रविन्यसेत् | हं बीजं सूर्ययमंडलतत्वं हृदि प्रविन्यसेत् | सं बीजं चन्द्रमण्डलतत्वन्तत्र प्रविन्यसेत् | वं बीजं वह्निमण्डलतत्वं तत्रैव विन्यसेत् | षं परमेष्ठीतत्वं च वासुदेवं च मूर्द्धनि | यं बीजमथ पुंस्तत्त्वं संकर्षणमथो मुखे | लं बीजं विश्वतत्वं च प्रद्युम्नं हृदि विन्यसेत् | वं बीजं निवृत्तितत्त्वं अनिरुद्धमुपस्थके | लं बीजं सर्वतत्त्वं च पादे नारायणं न्यसेत् | क्ष्रौं बीजं कोपतत्त्वं च नृसिंहं सर्वगात्रके | एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत् | दशाक्षरेण चेत्तत्र अष्टाविंशति रेचयेत् | पूरयेद्वामया तद्वद्वारयेत्तत् प्रमाणतः | प्राणायामो भवेदेको रेचक पूरक कुम्भकैः | अष्टादशार्णं चेत्तद्वद्वाशैवं समाचरेत् | एकेन रेचयेत् कामबीजेनैव पृथक् पृथक् | पूरयेत् सप्तजप्तेन विंशत्या तेन धारयेत् | सर्वेषु कृष्णमंत्रेषु बीजेनानेन चाचरेत् | अथवा सर्वमंत्रेषु वर्णानुक्रमतो जपन् | प्राणायामं चरेन्मंत्री रेचकपूरक कुंभकैः | मंत्र प्राणायामः प्रोक्तो यौगिकं कथयामिते | रेचयेद्दक्षया विद्वान मात्रा षोडशकेन च | द्वात्रिंशन्मात्रयापूर्यय चतुःषष्ट्या तु धारयेत् | एकश्वासश्चैक मात्रा मात्रायां नियमो मतः | वाम आनुनि हस्तस्य भ्रमणं यावता भवेत् | कालेन मात्रा सा ज्ञेया मुनिभिर्व्वेदपारगैः | प्राणायामी द्विधा प्रोक्तः सगर्भश्च निगर्भकः | सगर्भो मंत्र जापेन मात्रया संख्यया भवेत् | पृ० ७अ) प्राणायामात् परंतत्वं प्राणायामात् परं तपः | प्राणायामात् परंज्ञानं प्राणायामात् परं पदम् | प्राणायामात् परं योगं योगः प्राणायामात् परं धनं | नास्ति नास्ति पुनर्नास्ति कथितं तव सुव्रत | वत्सराभ्यासयोगेन ब्रह्मसाक्षाद्भवेद्ध्रुवम् | चैतन्यावरणं यद्यत् क्षीयते नात्र संशयः | प्राणायामं विना मुक्ति मार्गो नास्ति मयोदितं | प्राणायामं विना यच्च साधनं तद फलं भवेत् | प्राणायामेण मुनयः सिद्धिमापुर्न चान्यथा | प्राणायामपरो योगी न योगी शिव एव सः | गमनागमनं वायोः प्राणस्य धारणं तथा | प्राणायाम इति प्रोक्तो योगशास्त्र विशारदः | प्राणो वायुरिति ख्यात आयामंतन्निरोधनं | प्राणायाम इति प्रोक्तो योगिनां योगसाधनं | आद्यत्तयोर्विधीयंते नासिकापुटचारिणः | रेचयेद्दक्षया नासा पूरयेद्वामतस्ततः | द्वात्रिंशदभ्यसन् मंत्रं प्राणायामः स उच्यते | ब्रह्महत्या सुरापानमगस्यागमनं तथा | सर्वमाशुदहत्येव प्राणायामेन वै द्विज | भ्रुणहत्यादिपापानि नाशयेन्मासमात्रके | प्रातः सायं चरेन्नित्यं षोडश प्राण संयमं | नाशयेत् सर्वपापानि तूलराशि मिवानलः | सर्वेषामेव पापानां प्रायश्चित्तमिदं स्मृतम् | स्वदेहस्थं यथा संचवर्म्मोत्सृज्य निरामयः | प्राणायामात्तथाधक्षत्य विद्यां कामकर्म्मजां | अथवा किं बहुक्तेन शृणु गौतममद्वचः | प्राणायामान्न हि परोयोगिनां मुक्तिसिद्धये | प्राणायामं विधायेश्चं देहे पीठानि विन्यसेत् | आधारशक्तिं प्रकृतिं कूर्म्मं शूकरमेव च | पृ० ७ब) पृथिवीं क्षीरसिन्धुं च श्वेतद्वीपं च मध्यतः | तन्मध्ये रत्नगेहं च सर्वाभीष्ट फलप्रदं | गेहमध्ये कल्पवृक्षं सर्वरत्न महोज्ज्वलं | दक्षांशे दक्षिणकटौ तथा वामद्वये पुनः | धर्म्मं ज्ञानं च वैराग्यं विन्यसेदैश्वरं तथा | मुखपार्श्वे नाभिपार्श्वे न ञ पूर्वांस्तु विन्यसेत् | विन्यस्यैवं पुनर्हृदि पद्मं विश्वमयं न्यसेत् | प्रकृत्यष्टलसत्पत्रं विकारमयकेशरं | तन्मध्ये विन्यसेन्मंत्री पंचाशद्वर्ण कार्णिकां | प्रणवस्य त्रिभिर्म्मंत्रैर्विन्यसेन्मण्डलत्रयं | कलाभिः सहितं तद्वद्दश द्वादश षोडशैः | आकारोकारमपराः प्रणवांशोद्भवाक्षराः | ब्रह्मविष्णुमहेशाख्याः समष्टि व्यष्टिरुपकाः | समष्ट्या केवलं ब्रह्म सच्चिदानन्दलक्षणं | स्वबीजपूर्वकांस्तत्र सत्त्वदीनथ विन्यसेत् | तदंशे नैवमतिमान् न्यसेदात्म चतुष्टयं | आत्मांतरात्म परमात्म ज्ञानात्मानश्च ते मताः | आत्मासौ जगवस्तूलो विश्वात्मा विश्वरुपकः | नामाद्यबीजसहितं हृन्मध्ये च व्यवस्थितं | अतेव हृदि न्यस्येद्वाग्वृत्तिर्हृदये स्थिता | अंतरंगतया चायं अंतरात्मा हृदंतरे | मनोमयस्तैजसाख्यश्चांतरिन्द्रिय वृत्ति धृक् | अतेव मुने चायं अंतरात्मेति कीर्त्यते | अं बीजां चास्य गदितं तत् पूर्वं विन्यसेत् सुधीः | रमाद्यात्मसुषुप्त्याख्यो मनोव्यावृत्तिहारकः | विलये चेन्द्रिये तत्र सुमुखः केवल स्थितः | यं बीजात् परमात्मानं यजेत् सर्वार्थसिद्धये | संकर्षणश्चानिरुद्धः प्रद्युम्नश्चेतितत्रयं | ज्ञानात्मासौ वासुदेवः स्वयम्भू प्राज्ञरुपकः | वृत्तित्रये विलीनेति केवलं सुख चित् कलः | पृ० ८अ) सुखात्मा वासुदेवोऽसौ चितकला प्रकृतिः परा | बीजं तस्य प्रवक्ष्यामि केवलं सुख चिन्मयं | वेदत्रयोद्धृतं सारं सर्वे कारण कारणं | केशवेष्ट पृशक्तीश्च चाष्टप्रकृति रुपिणी | मध्यशक्तिः पराख्या च चिदानन्दस्वरुपिणी | विमलोत् कर्षिणी ज्ञाना क्रियायोगा च शक्तयः | प्रह्वी सत्या तथेशानानुग्रहा नवमी स्मृता | नवशक्तीः प्रविन्यस्य न्यसेत्तत्र महामनुं | नमो भगवते प्रोक्ता सर्वभूतात्मने पदं | वासुदेवपदं ङेन्तं सर्वात्मयोगसंयुतं | विज्ञेयं च ततो योग पद्मपीठात्मने नमः | अयं पीठ मनुः प्रोक्तः सर्वभूतात्मकः परः | श्यामलं कोमलं धाम तत्रोपरि विचिंतियेत् | इति श्रीगौतमीयतंत्रे सर्वतंत्रोत्तमोत्तमे द्वितीयोऽध्यायः || २ || अथाखिलं न्यासजालं शृणुष्वावहितो नद्य | नित्य न्यासाः पुरा प्रोक्तायैर्विना विफला भवेत् | मंत्रतंत्रात्मना सर्वाः प्रकारेणाप्यनुष्ठिताः | फलाधिक्येछ्यान्यासान् समस्त पुरुषार्थ दान् | शृणु वक्ष्यामि विप्रेन्दयेत् विष्णुमयो भवेत् | स्वरषट्कं यथा पूर्वं पश्चात्यं स्वरषट्ककं | मूर्त्ति द्वादशकं तद्वद्वासुदेवेन संयुतं | कलापे विन्यसेद्दात्रा केशवं सुसमाहितः | नारायणं च जठरे अर्ययम्ना सहसंयुतं | हृदये माधवं चैव मंत्रेण सहसंयुतम् | गोविन्दं गलकूपे च वरुणेन प्रविन्यसेत् | भुजांते दक्षिणे न्यसेद् भर्गेण मधुसूदनं | पद्मनाभं दक्षगले न्यसेद्धिन्ध्यसुतायुतं | दामोदरमखेन्द्रेण वामपार्श्वे न्यसेत् सुधीः | भुजांते वासुदेवं च पुष्णा सह प्रविन्यसेत् || पृ० ८ब) वाभगले संकर्षणं पर्ययन्येन च विन्यसेत् | पृष्टदेशे च प्रद्युम्नं त्वष्ट्रा सह प्रविन्यसेत् | कक्षदेशेऽनिरुद्धंतं विष्णुना सह विन्यसेत् | द्वादशाक्षरं मंत्रवरं विन्यसेद्ब्रह्मरन्ध्रके | वासुदेवो भवेत् साक्षाद्व्याप्तितस्तस्य तेजसा | त्रिमात्रिकं समुद्धृत्य नमो भगवते लिखेत् | वासुदेवं चतुर्थ्या च मंत्रोऽयं सुरापादयः | अस्य विज्ञानमात्रेण वासुदेवः प्रजायते | मनु संपुटितां न्यसेन्मातृकां विश्यामातरम् | तेनैव मंत्रं सिद्धिः स्याद्दोषसंघात नाशनात् | दशार्णगोलक न्यासं वक्ष्ये संभूतिदायकम् | मंत्रदशावृत्तिमयं गोपनीयं प्रजायते | आधारेण ध्वजे नाभौ हृदि गल मुखांशके | ऊरुद्वये कन्धरायां नाभ्यां कुक्षौ स्तनद्वये | पार्श्वद्वये तथा श्रोण्योर्मस्तकास्ये च नेत्रयोः | कर्णनासिकयोस्तद्वत् कपोलो करसन्धिषु | तदग्रे पादयोः सन्धौ तदग्रेष्वपि चादरात् | मस्तके तत् प्रतीच्यादि दिशासु व्यापकं न्यसेत् | दोष्णोस्तथोरुद्वये मंत्री शिरोक्षास्य कंठदेशके | अक्षि हृद्दंतकं वामजानु प्रयत् सुविन्यसेत् | श्रोत्रगण्डांशयोर्नस्येद्वक्षोजपार्श्वस्फि गुरौ | जानुजंघांघ्रियुगले इच्छं वर्णान् प्रविन्यसेत् | विभूति पंजर न्यासः सर्वभूति प्रवर्त्तकः | दशतत्वं ततो न्यसेद्दर्शणं शीघ्र सिद्धये | पृथिव्यपतेजोमरुद्वयद्विपंचतत्त्वकम् | अहंकारो महत्तत्वं तथा प्रकृति पुरुषौ | पर (+इमानि) इमानि तत्वानि यथा वदवधारय | पादान्धु हृदये वक्त्रे मूर्द्धिण्यं च न्यसेत्ततः | हृदि पृ० ९अ) द्वयं त्रयं व्यात्था सर्वांगे विन्यसेत् सुधीः | मस्तकादि ततो न्यस्येद् यावत् पदावसानकम् | अयं न्यासो गुप्ततमोमंत्राणां शीघ्रसिद्धिदः | कर्ययौन्येष्वपि गोपालमंत्रेष्वपि विशालधीः | दशाक्षरस्यवर्णांश्च संहारक्रमतो न्यसेत् | सृष्टिन्यासे मनोरस्य वर्णान् विपरीतान्न्यसेत् | एकैकाक्षरमुच्चार्यय नमोऽनंतं ततः पठेत् | परायेति च तत्त्वानि तदंते नमसा सह | मनसा वा न्यसेन्न्यासान् पुष्पे नैवाथ वा मुने | अंगुष्ठानामिकाभ्यां वा अन्यथा विफलं भवेत् || इति श्रीगौतमीये महातंत्रं सर्वतंत्रे सर्वतंत्रोत्तमोत्तमे काम्यन्यासो नाम तृतीयोऽध्यायः || ३ || अथ वृन्दावनं ध्यायेत् सर्वदेव नमस्कृतम् | सर्वर्त्तु कुसुमोपेतं पतत्रिगणनादितं | भ्रमद् भ्रमर झंकार मुखरीकृत दिंमुखम् | कालिन्दीजल कल्लोल शीतला निलसेवितम् | नानापुष्पलतावद्दवृक्षषण्डैश्च मण्डितम् | समानोदित चन्द्रार्क तेजोदीप न दीपितम् | कमलोत्पल कह्लार धूलीधूषरितांतरम् | शाखामृग गणाकीर्णं नानामृग निषेवितम् | द्वात्रिंशद्वनसंवीतं वैकुंठादतिसौख्यदम् | पुरन्दरमुखैर्द्देवैः सर्वतः समधिष्ठितम् | तन्मध्ये रत्नभूमिं च सूर्ययायुत समप्रभाम् | तत्र कल्पतरुद्यानं नियतं रत्नवर्षणम् | माणिक्यशिखरोल्लासि तन्मध्ये मणिमण्डपम् | नानारत्नगणैश्चित्रं सर्वतेजो विराजितम् | फलभागुल्लसच्चित्रवितानैरुपशोभितम् | रत्नतोरण गोपूर माणिक्यवेदिकावितम् | दिव्यघंटायुक्त मुक्तामणि श्रेणी विराजितम् | पृ० ९ब) कोटिसूर्यय समाभासं निर्म्मुक्तं षट्करंगकैः | वुभुक्षा च पिपासा च प्राणमनसस्तथा | शोकमोहौ शरीरस्य जरामृत्यु षडूर्म्मयः | चतुर्द्वारसमायुक्तं कपाटाष्टकशोभितम् | तत्र कल्पतरुं ध्यायेत् स्थविष्ठं रत्नवर्षिणम् | सेवितं ऋतुभिः सर्वैः सुधाशीकर वर्षिणम् | गारुत्मतलसत्पत्रं प्रवाल रत्नपल्लवम् | मुक्तारत्नप्रसरितं पद्मराग फलीज्ज्वलम् | संसारतापविच्छेदि कुशलच्छायमद्भुतम् | तन्मूले चिंतयेन्मंत्री रत्नसिंहासनं शुभम् | तत्र सूर्ययसमाभासं पंकजं चोष्टपत्रकम् | सर्वतत्वमयं तत्र चिंतयेज्जगदीश्वरम् | संसारसागरात्तीर्णं धर्म्मकामार्थ सिद्धये | पीताम्बरधरं कृष्णं पुण्डरीक निभेक्षणम् | रक्तनेत्राधरं रक्त पाणिपादतलं शुभम् | कौस्तुभीद्भासितोरस्कं नानारत्नविभूषितम् | उद्दामविलसन्मुक्ता रत्नहारोपशोभितम् | नानारत्नप्रभोदमासि मुकुटं दीप्ततेजसम् | हारकेयूरकटककुण्डलैरुपशोभितम् | श्रीवत्सवक्षसंचारु नूपुराद्युपशोभितम् | रत्नैर्नानाविर्धंर्युक्तं कदिसूत्रांगुरीकैः | गोरोचना कुंकुमेन ललाट तिलकावितम् | अलकाशोभिसंयुक्तं पीताम्बर युगावृतम् | बिम्बाधर पुटोद्भासि वंश्यामृतरसान्वितम् | वर्हिपत्र कृता पीड़ं वन्यपुष्पैरलंकृतम् | कदम्बकुसुमोद्वद्व चारुमाला विराजितम् | कोटिकन्दर्पलावण्यं विलसद्बन्धुरोदरम् | वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य वादिनम् | गायंतं दिव्यगानैश्च वृन्दावन गतं हरिम् | पृ० १०अ) स्वर्गादिवपरिष्ट कन्यकाशतमण्डितम् | गो गो वत्स गणाकीर्णं वृहत् षण्डैश्च मण्डितम् | गोपकन्यासहस्रैस्तु पद्मपत्रापते क्षणैः | अर्च्चितं भाव कुसुमैस्त्रैलोक्यैक गुरुं विभुम् | तुम्बुरुर्नारदश्चैव हाहा हूहूस्तथैव च | किन्नरी मिथुनं चापि श्रुत्वा गीतं तथा हरेः | वीणादि साधनं त्यक्ता विस्मयाविष्ट चतसः | ते स्तुवंति महात्मानं गायवाविरति स्थिताः | सिद्धगंधर्वयक्षैश्व अप्सरोभिर्विहंगमैः | स्थावरैः पन्नगैश्चापि सिद्धौर्विद्याधरैस्तथा | शाखामृगैर्मनुष्यैश्च वीक्ष्यमाणैः सुविस्मितैः | सर्वलक्षणसम्पन्नं सौन्दर्ययेणाभिशोभितम् | मोहनं सर्वं गोपीनां लोकानां पतिमव्ययम् | नारदेन च सिद्धेन विश्वामित्रेण धीमता | पराशरेण व्यासेन भृगुणांगिरसेन च | दक्षेन सनकाद्यैश्च सिद्धेन कपिलेन च | वास्तु वागीशहारीत याज्ञवल्क्योशनःक्रतुः | मार्कण्डेय भरद्वाज पुलस्य पुलहादिभिः | वशिष्ठाद्यैर्मुनीन्द्रैश्च स्तूयमानं सुरासुरैः | ब्रह्मलोकगतैः सिद्धैर्नागलोकगतैरपि | अन्यैरपि सुरश्रेष्ठैः स्तूयमानं स्मरेद् विभुम् | एवं यश्चिंतयेन्मंत्री चेतसा कृष्णमव्ययम् | संसारसागरं घोरमपिवत्सपदायते || इति श्रीगौतमीये महातंत्रे सर्वतंत्रोत्तमोत्तमे चतुर्थोऽध्यायः || ४ || गौतम उवाच यद्यदुक्तं त्वया ब्रह्मन् तत्त्वं सर्वं श्रुतं मया | इदानीं परिपृच्छामि केनात्र चाधिकारितम् | नारद उवाच दीक्षायामधिकारित्वमाप्नोति गुरुसेवकः | द्विजानामनुपनीतानं स्वकर्म्माध्यापनादिषु | पृ० १०ब) यथाधिकारो नास्तिह सन्ध्योपसन कर्म्मसु | तथाह्यदीक्षितानां तु मंत्रतंत्रार्च्चनादिषु | नाधिकारोऽस्त्यतः कुर्ययादात्मानं शिव संस्कृतम् | अतेव हि दीक्षार्थं सर्वज्ञं गुरुमाश्रयेत् | सुन्दरः सुमुखः स्वच्छ सुलभो बहुतंत्रवित् | असंशयः संशयछिन्निरपेक्षो गुरुर्म्मतः | वेदवेदांग वेदांत सिद्धांत ज्ञानपारगः | वांमनः कायचित्तैश्च विष्णोः सुश्रुषेणरतः | विष्णु तंत्रानुसंधायी विष्णु विज्ञानवेदकः | विष्णौ समर्पकः सम्यक् त्रिविधोत्पातकर्म्मणि | सन्मतः सत्सुदांतश्च मंत्रार्थ ज्ञानपारगः | षट्चक्रभेदकुशलः षड्ध्वज्ञानपारगः | पिण्डे पदे तथा रुपे रुपीतीते विवेचकः | संध्यात्रय विशेषज्ञोऽध्वषट्कं च विशोधकः | मंत्र चैतन्य विज्ञाता गुरुरुक्तः स्वयम्भुवा | नमोऽस्तु गुरवे तस्मै प्रत्यक्षाय यदाज्ञया | मृद्भस्म दारुदृशदः फलन्य विफलं फलं | पंचाम्नाय विशेषज्ञो निग्रहानुग्रहक्षमः | शिष्यस्य संशयच्छेत्ता गुरुर्भवति नापरः | वैष्णण्वान्वयसिद्वांत चिंतामणिरिवापरः | आश्रमी ज्ञानकुशलो गुरुर्भवति नापरः | मंत्रतंत्रार्थ चैतन्य कुण्डली गति वेदकः | मंत्रसिद्धांत विधिवद् गुरुर्भवति नापरः | स्वदूरमपि गंतव्यं यथाम्नाय विदोज्वनाः | तेऽपि स्तुत्या नमस्याश्च सेव्याश्चाभीष्टमिच्छता | एवं विधो गुरुर्ज्ञेयस्त्वन्यथा शिष्य दुःखदः | शिष्यः कुलीनः शुद्धात्मा पुरुषार्थ परायणः | अधीत वेदकुशलः पितृमातृहितेरतः | धर्म्मविद्धर्म्मकर्ता च गुरुशुश्रुषणेरतः | पृ० ११अ) सदा शास्त्रार्थ तत्वज्ञो दृढ़देहो दृढ़आशयः | हितैषी प्राणिनां नित्यं परलोकार्थ कर्म्मकृत् | वांमनःकायवसुभिर्गुरु शुश्रुषणेरतः | अनित्यकर्म्मणस्त्यागी नित्यानुष्ठानतत्परः | जितेन्द्रियो जितालस्यो जितमोहो विमत्सरः | गुरुवद गुरुपुत्रेषु तत् कलत्रादिषु भक्तिमान् | एवम्विधो भवेच्छिष्यस्त्वितरो गुरु दुःखदः | वर्षैकेण भवेद्योग्या विप्रः सर्वगुणान्वितः | वर्षद्वये तु राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः | चतुर्भिर्वत्सरैः शुद्रः कथिता शिष्य योग्यता | यदा शिष्यो भवेद्योग्यः कृपया सद्गुरुस्तदा | कृपया परया सम्यग् दीक्षाया विधिमाचरेत् | मंत्रारम्भस्तु चैत्रे स्यात् समस्तपुरुषार्थदः | वैशाखे रत्नलाभः स्याज्ज्यैष्ठे तु मरणं ध्रुवं | आषाढे बन्धुनाशः स्यात् पूर्णायुः श्रावणे भवेत् | प्रजानाशो भवेद्भाद्रे आश्विने रत्नसंचयः | कार्त्तिके मंत्रसिद्धिः स्यान्मार्गशीर्षे तथा भवेत् | पौषे तु शत्रुपीडा़ स्यान्माद्ये मेधाविवर्द्धनं | फाल्गुणे सर्वकामः स्युर्म्मलमासं विवर्ज्जयेत् | पंचांगशुद्धिदिवसे स्वोदये चन्द्रसूर्यययोः | गुरुशुक्रोदये चैव शस्यते मंत्रसंस्क्रिया | रवौ गुरौसिते सोमे कर्त्तव्यं बुधशुक्रयोः | शुक्लपक्षे शुभा दीक्षा कृष्णे स्यात् पंचमावधि | द्वादश्यां सर्वथा कार्यया चामलायां शुभेऽनि *| कृष्णप्रिया द्वादशी सा कृष्णदीक्षा प्रवर्त्तिनी | उत्तरात्रय रोहिण्यां रेवती पुष्यवासरे | धनिष्ठा वायुमित्राश्विपित्र्यंत्वष्ट्रिं च नैरृतं | ऐश्व वैष्णव हस्ता च दीक्षायां तु शुभावहाः | आश्विनी रोहिणी स्वाति विशाखा हस्तभेषु च | पृ० ११ब) कृष्णोत्तरात्रयेष्वेवं कुर्ययान्मंत्राभिषेचनं | शुभयोगेषु सर्वेषु दीक्षा सर्व शुभप्रदा | शुभानि करणान्याहुर्द्दीक्षायां च विशेषतः | शकुन्यादीनिविष्टिं च विशेषेण विवर्जयेत् | चरः सर्वे विपर्ययः स्यात् स्थिर राशिषु सौख्यदा | त्रिषडाय गताः पायाः शुभाः केन्द्र त्रिकोणगाः | दीक्षायां च शुभाः सर्वं रन्ध्रस्थाः सर्वनाशकाः | शिष्यस्य जन्मसंक्रांत्यो विषुवे अयते तथा | अन्येषु पुण्ययोगेषु ग्रहणे चन्द्रसूर्यययोः | शिष्यानुकुलकाले वा दीक्षा सर्व शुभावहा | सूर्ययग्रहणकालेषु नान्यदन्वोषतं भवेत् | तत्र यद्यत्कृतं सर्वमनंतफलदं भवेत् | विनायासेत् मंत्रस्य सिद्धिर्भवति नान्यथा | भूमेः परिग्रहं कुर्ययाद्यावदायतनं भवेत् | शुक्लमृत्स्ना च या भूमिर्ब्राह्मी सा परिकीर्त्तिता | क्षत्त्रिया रक्तमृत्स्ना च हरिद्वैश्या प्रकीर्त्तिता | कृष्णा भूमिर्भवेत् शूद्रा चतुर्द्धा परिकीर्तिता | ब्राह्म्या सर्वार्थसिद्धिः स्यात् क्षत्त्रिया राज्यदा मता | धनधान्यकरी वैश्या शूद्रा तु निन्दिता मुने | ततो भूमिं परीक्षेत वास्तुज्ञान विशारदः | शस्यादि शोधनं कुर्ययात्तुषांगारादीनि दूरयेत् | एतस्याकरणे मंत्री न किंचित् फलमाप्नुयात् | विप्राशिषावेदघोषैर्मंगलाचारपूर्वकं | वास्तोर्म्मण्डलकं कुर्ययाद्यथाशोभं तथाविधि | पूर्वापरायतं सूत्रं विन्यसेद्धस्तामानतः | तन्मध्ये किंचिदालक्ष्यमत्स्यौ द्वौ परितो लिखेत् | तयोर्म्मध्ये स्थितं सूत्रं विन्यसे दक्षिणोत्तरं | द्वाभ्यां द्वाभ्यां तथा ग्राभ्यां कोणेषु मकरान् लिखेत् | पृ० १२अ) मत्स्यमध्यस्थिताग्राणि तत्र सूत्राणि पातयेत् | चतुरस्रं भवेत्तत्र चतुष्कोष्ठ समन्वितं | ईशानाद्राक्षसं यावद यावदग्रे प्रभंजनं | एवं सूत्रद्वयं दद्यात् कर्णसूत्रं समाहितः | ब्राह्मणं पूजयेदादौ मध्यकोष्ठ चतुष्टये | दिक्चतुष्केषु पूर्वादि यजेदावाह्यसत्तमः | विवस्वंतं ततो मित्रं महीधरमनंतरं | कोणार्द्धकोष्टद्वन्द्वेषु वह्न्यादि परितः पुनः | सावित्रं सवितारं च शक्रमिन्द्रजयं पुनः | रुद्रं रुद्र जयं विद्वानापंचाप्य परांशकं | तत कर्णसूत्रो भयतः क्रोष्ठद्वन्देषु देशिकः | शर्वं गुहं चार्प्यमणं जातकं पिलिपिच्छकं | चरकीं च विदारीं च पूतनामर्च्चयेत् क्रमात् | अर्च्चयेद्दिक्षु पूर्वादि सार्द्धाद्यष्टपदेष्ठिमान् | अष्टावष्टविभागेन देवता देशिकोत्तमः | क्रमादीशानपर्ययन्यौ जयंतुः शक्र भास्करौ | सद्यो वृषांतरीक्षौ च दिशि प्राच्यां व्यवस्थिताः | अग्निः पुषा च वितथो यमश्च गृहरक्षकः | गन्धर्वां भृंगराजश्च मृगो दक्षिण दिग्गताः | निरृतिर्द्धौवारिकश्च सुग्रीव वरुणौ ततः | पुष्पदंता सुरौ शोष योगौ प्रत्यग्दिशिस्थिताः | वायुर्नागश्च कृकरः सोमो भल्लाट एव च | अकुलाख्योदित्यदिती कुबेरस्य दिशि स्थिताः | भक्तानामपि देवानां पादान्यापूर्यय पंचभिः | रजोभिस्तेष्वथो तेभ्यः पायसान्नैर्बलिं हरेत् | पायसैर्म्मधुरैः सर्वान् संयजेन्मधुरान्वितान् | तत्तद्रव्यैर्वां मतिमान् पूजयेद्दोषशांतये | पायसौटनलाजैश्च युक्तं धूप प्रमूलकैः | अन्नादिभिरसंयुक्तं माषभक्तादि मण्डितम् | पृ० १२ब) गृहाणेमं बलिं ब्रह्मन् वास्तुदोषं प्रणाशय | गन्धादि शर्करा पूर्व पायसोपरिसंयुतं | आर्ययकाख्य गृहाणेमं सर्वदोषं प्रणाशय | चन्दनाद्यर्च्चितेनाथ कर्पूरा गुरुमण्डितं | विवस्वन् वै गृहाणेमं सर्वदोषं प्रणाशय | सगुड़ं पायसं नाथ पुष्पादिषु समन्वितं | गृहाणेमं बलिं हृद्यं नित्य शांतिं प्रयच्छ मे | माषोदनं समांसं च गन्धादि क्षीरसंयुतं | गृहाणेमं महीभृत्त्वं सर्वदोषं प्रणाशय | एवं मध्ये तु संपूज्य ईशानादि बलिं हरेत् | क्षीरं खण्ड समायुक्तं पुष्पादिभिरलंकृतं | गृहाणेमं बलिं हृद्यमापच्छांतिं प्रयच्छ मे | दधीदं गुड़ संयुक्तं गन्धादिभिः सुसंस्कृतं | गृहाणेमं बलिंवत्सविघ्नमवप्रणाशय | पुष्पादि कुशपानीयं शर्करा गुरु वासितं | सावित्र वै गृहाणेमं शांतिमत्र प्रयच्छ मे | पिष्ठकं सगुड़ं नाथ रक्तगन्धादिशोभितं | गृहाणेमं बलिं सूर्यय विघ्नमत्र प्रणाशय | शितमत्रं तथा पुष्पं कुंकुमादि समन्वितं | गृहाणेमं बलिं हृद्यं शक्रदेव नमोस्तुते | ओदनं घृतसंयुक्तं वस्त्रगन्धादि मण्डितं | गृहाणेमं बलिं हृद्यमिन्द्र जय नमोस्तुते | पक्वापक्वमिदं मांसं वस्त्रपुष्पादिसंयुतं | गृहाणेमं बलिं हृद्यं रुद्रदेव नमोस्तुते | समांसं घृतसंपक्वं गन्धपुष्पाद्रिसंयुतं | गृहाणेमं बलिं रुद्र जय स्वस्तिं प्रयच्छ मे | रक्तपुष्पं समांसं वै गृहाणेमं रक्षो विघ्नं विनाशय | पित्त रक्तास्थि संयुक्तं रक्तगन्धादि मंडितं | गृहाणेमं पुतनेत्वं रक्षो विघ्नं विनाशय | पृ० १३अ) सघृतं मांसभक्तं च वस्त्रगन्धाद्यलंकृतं | बलिं गृहाण शर्वेमं रक्षो विघ्नं विनाशय | मांस पुष्पादि संयुक्तं माषभक्तोपरिस्थितं | गृहाणेमं बलिं स्कन्द रक्षो विघ्न विनाशय | समांसं पिष्ठकैर्युक्तं पक्वमांसोदकान्वितं | अर्घमन् वै गृहाणेमं रक्षो विघ्नं विनाशय | रक्तमांसोदनं मत्स्यं गंध धूप समन्वितं | जन्भकत्वं गृहाणेमं रक्षो विघ्न विनाशय | सघृतं चाक्षतं नेत्र वस्त्र गन्धा च लंकृतं | गृहाणेमं बलिं स्कन्द रक्षो विघ्नं विनाशय | समांसं पिष्टकैर्युक्तं पक्वमांसोदकान्वितं | अर्घनन् वै गृहाणेमं रक्षो विघ्नं त्वीश वास्तुदोष प्रहारकं | ?????? उत्पलं पापसैर्युक्तं वस्त्रादिक समन्वितं | गृहाणेमं बलिं हृद्यं भास्कराय नमोस्तुते | वितानं धूम्नवर्णाभां गन्धादिक सुशोभितं | वस्तुयुक्तं गृहाणेमं वलिं सद्यो नमोस्तुते | इदं तु माषभक्ते वै वस्त्रगन्धादि पूजितं | गृहाणेमं वृषबलिं वास्तुदोषं प्रणाशय | इदं तु शार्द्दूलं मांसं नैवेद्यादिक संयुतं | गृहाणेमं बलिं हृद्यं व्योमशांतिं प्रयच्छ मे | सुवर्णं पिष्टकं चाथ वस्त्र गंधादिभिर्युतं | घृतान्वितं गृहाणेमं सप्तजिह्व नमोस्तुते | क्षीरं लाजानां सयुक्तं रक्तपुष्पादिसंयुतं | गृहाणेमं बलिं हृद्यं पूष देव नमोस्तुते | दधि गन्धादिभिर्युक्तं पीतपुष्पसमन्वितं | बलिं प्रगृह्यतां सोम सर्वदोषं प्रणाशय | ओदनं घृतसंमिश्रं गन्धपुष्प समन्वितं | गृहाणेमं बलिं हृद्यं भल्लाटक नमोस्तुते | माषान्नं तु घृताभ्यक्तं गंधपुष्पादि मण्डितं | गृहाणेमं बलिं हृद्यं अर्गलाख्य नमोस्तुते | पृ० १३ब) पूलिकां मधुसंमिश्रां वस्त्रगंधादि संयुतां | गृहाणेमं बलिं हृद्यं देव मातर्नमोस्तुते | क्षीरं खण्डसमायुक्तं नानापुष्पोपशोभितं | दैत्यमातर्गृहाणेमं सर्वदोषं प्रणाशय | स्वर्गपातालमध्ये च ये देवा वास्तुदेवताः | गृह्न त्विमं बलिं हृद्यं तुष्टायां तु स्वमन्दिरं | मातरो भूतवेताला ये चान्ये बलिकांक्षिणः | विष्णोः पारिषदाये च तेपि गृह्नं त्विमं बलिं | पितृभ्यः क्षेत्रपालेभ्यो बलिन्दत्वा प्रकामतः | अभावे रक्तसूत्रैश्च कुशपुष्पादिभिर्यजेत् || इति गौतमीयतंत्रे सर्वतंत्रोत्तमोत्तमे पंचमोऽध्यायः || ५ || पातयेत्तत् प्रणतः चतुरस्रं चतुष्कोष्ठं भवेदति मनोहरं | कोणसूत्रद्वयं दद्यात् प्रमाणं तेन रक्षयेत् | चतुरस्रं भवेत् कुण्डं सर्वलक्षण लक्षितं | ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्च समनुष्ठितं | सर्वकर्म्मकरं प्रोक्तं शांत्यादि षट्सु कर्म्मसु | अनेन जनयेत् सर्वं कुण्डानि मनुरुत्तमः | ततः कुण्डं खनेन्मंत्री यथा शास्त्रं विधानवित् | त्यक्त्वा सर्पस्य गात्रं च शिरोदेशं प्रयत्नतः | शिरोद्याताद्भवेन्मृत्युः पिण्डेषु पिण्डघातनं | पुच्छे च दुखः संभूतिः क्रोडे सर्वार्थसाधनं | यावान् कुण्डस्य विस्तारः खननं तावदीरितं | कंठमेकांगुलिं त्यक्त्वा मेखलास्तिस्र एव हि | कुण्डस्यांगुलमानेन वेदाग्नि नयनांगुलाः | चतुरस्रे भवेयुस्ता चतरस्राः सुशोभनाः | होतुरग्ने योनिवासां कुंजराधरसन्निभां | षट्चतुर्थ्यंगुलायामो विस्तारोन्नति शालिनी | पृ० १४अ) षडंगुला भवेद्दीघी चतुरंगुल विस्तृता | द्व्यंगुला चोन्नता योनिर्विना लक्षण लक्षिता | स्थलादारभ्य नालं स्यात् सरंध्री योनिमध्यतः | सूक्ष्माग्रं स्थूलमूलं च सरन्ध्रं नालमीष्यते | योन्यामध्य विलं कुर्ययात्तदा ह्यग्राहि संज्ञकं | कुण्डमध्ये भवेन्नाभिः पद्मं वा चतुरस्रकम् | द्व्यंगुलं चोन्नतं तत्तु चतुरंगुल विस्तृतम् | अर्द्धांगुलं तु योन्याग्रं कुर्ययादीषदधोमुखम् | एव द्वय प्रमानेन कुण्डेष्वन्येषु वर्द्धयेत् | कंठस्तु द्व्यंगुलं तत्र वर्द्धयेत् कुण्डमानतः | चुतरस्रस्य कुण्डस्य एकहस्तमितस्य च | कर्णसूत्रप्रमाणेन द्विहस्तं कुण्डमुद्धरेत् | सर्वकुण्डेषु सर्वत्र वर्द्धयो द्विधिनामुना | कुण्डं तु प्रकृतिः सूक्ष्मा सर्वलक्षणलक्षिता | उभौ पादौ करौ तस्य भवेत् कोणचतुष्टयम् | उदरं कुण्डमित्युक्तं योनिः कारणरूपिणी | तेन तत्रैव हव्यानां निधास्तु तन्मयं ततः | फलं वितनुते सम्यगन्यथा विफलायते || १ || चतुरस्रं समं कृत्वा पंचभागैकभागकम् | वर्द्धयेत् पुरतस्तस्य मध्यसूत्र समानतः | कर्णात् कर्णगतं सूत्रं कृत्वा भागचतुष्टयम् | भागेनैकेन कोणार्द्धे संस्थाप्य भ्रामयेत्ततः | आमध्यसूत्रादा मध्यात् सूत्रयुग्मंत्ततो न्यसेत् | तन्मानाद्धृद्धिपर्ययंतमेवं स्याद्योनि सन्निभम् || २ || चतुरस्री कृते क्षेत्रे चतुर्द्धा भेदिते तथा | भागमेकं न्यसेत् पूर्वे पश्चिमे चैक भागकम् | मध्ये सूत्रं समादाय तन्मानाद्भ्रामयेत्ततः | दक्षिणार्द्धेनार्द्धचन्द्रमेवं स्यात् सुमनोहरम् || ३ || पृ० १४ब) समस्य चतुरस्रस्य अधः सूत्रस्य पार्श्वयोः | अंगुलत्रितयं दद्यादूर्द्धं दद्यात् षडंगुलं | मध्यसूत्रसमानेनं सूत्रयुग्मं ततो न्यसेत् | त्र्यस्रं कुण्डमिदं प्रोक्तं पूर्वाननमभीष्टदम् || ४ || अष्टधा भेदितं क्षेत्रं परिकल्प्य समानतः | एकैकभागं मध्यस्य पार्श्वयोः परिकल्पयेत् | मध्ये सूत्रं तु संस्थाप्य तन्मानाद्भ्रामयेत्ततः | वर्तुलं कुण्डं भवेदति मनोहरम् || ५ || पंचास्रकुण्डम् विभज्य सप्तधा क्षेत्रं वेदास्रस्यैकभागकम् | तद्वहिर्न्यस्य सूत्राग्रं पूर्ववत् संप्रसार्यय च | तन्मानाद्भ्रामयेद्वृत्तं भूयोऽपि चतुरस्रकं | युगांशीकृत्य लोकांशैस्तद्वृत्तं पूर्वमादितः | पंचधा चिह्नितं कृत्वा चिह्नाच्चिह्नी विचक्षणः | भूयश्च पंचसूत्राणि सम्यागास्फालयेत् क्रमात् | एतत् पंचास्रकुण्डं स्यात् सप्तकोणमिहोच्यते || ६ || अष्टधा भेदिते क्षेत्रे मध्यसूत्र समानतः | वर्द्धयेद्भागमेकैकं चतुर्द्दिक्षु विचक्षणः | चतुर्द्दशांगुलं चाध उर्द्धंस्तन्मानतो न्यसेत् | यथा मध्ये भवेन्मध्ये सूत्रं च त्रिंशदंगुलम् | षड्सूत्रलांछनात्तत्र जायते तु षड़स्रकम् || ७ || पूर्वोक्त वृत्तकुण्डस्य सर्वोच्च मेखलोपरि | षोड़शाति सुरम्याणि पद्मपत्राणि संलिखेत् | अब्जकुण्डमिति ज्ञेयं वेदवेदांत पारगैः || ८ || अथ सप्तास्रकुण्डम् | दशांशीकृत्य वेदास्रं एकांशेनैव बाह्यतः | मध्य प्राक् सूत्र पूर्वाग्रं वर्द्धयित्वा ते देशिकः | तन्मानाद्भ्रामयेद्वृत्तं भूयोऽपि चतुरस्रकम् | चतुःषष्टि विभागेन विभज्य विंशदंशकैः | पृ० १५अ) सन्नित्रिकैश्च रेखायां सप्तधा लांछयेत् सुधीः | चिह्नाद्विचिह्नंतदीर्घं सप्तसूत्राणि पातयेत् | सप्तकोणात्मकं कुण्डं भवेदेवं मनोहरम् || ९ || चतुरस्रे समे क्षेत्रे कोणे कृते गुरुः * * | मध्यसूत्रं समादाय क्षेत्रार्द्धं परिकल्पयेत् | मध्ये सूत्रं तु संस्थाप्य कोणार्द्धं स्थापयेद्बुधः | ततोऽतिरिक्तं यत्कोणे तदर्द्धं दिशि वर्द्धयेत् | अन्यत्तेनैवमानेन चतुरस्रं वाहिर्भवेत् | वह्यस्य चतुरस्रस्य द्वादशांगुलमानतः | अष्टदिक्षु क्षिपेत् सूत्रमष्टास्त्रं कुण्डमुत्तमम् || १० || वृत्तं वा चतुरस्रं वा अष्टास्रं वा गुरौ भवेत् | एवम्विधानि कुण्डानि परिकल्प्य समंततः || ११ || सात्विकी मेखला पूर्वा द्वितीया राजसी स्मृता | तृतीया तामसी ज्ञेया इत्युक्तं कुण्डलक्षणम् | मण्डपस्योत्तरे भागे शालां पूर्वापरोत्ततां | गूठां कुर्ययाद यथा शोभां सर्वदृष्टि मनोहराम् | पूर्वापरायतं तत्र पंचसूत्राणि पातयेत् | मध्ये मध्ये विलुप्ये च तस्या द्वादश कोष्ठकम् | पंचवर्ण रजोभिस्तु पदानि तानि पूरयेत् | पालिकाः पंचमुख्याश्च सरावाणि च पातयेत् | द्विषड् द्व्यष्टचतुर्व्विंशदुश्रितानि यथाक्रमम् | तावन्मात्र मुखान्यूर्द्धपदानि परिकल्पयेत् | तत्त्रिभागोगुलिमुखैर्व्विस्तृतानि प्रकल्पयेत् | नारायण महेशान ब्रह्मरूपाणि तानि च | पालिकाः पंचमुख्याश्च सरावणि ततः परम् | प्रक्षालितानि मंत्रेण पुण्यानि तानि (चैव नि) चैव हि | संवेष्टितानि परितः त्रिगुणैः शुभ तंतुभिः | मृद्वालुकाकरीयैश्च पूरितानि समंततः | पृ० १५ब) समर्च्चित स्वदेवश्च पाश्चिमादि क्रमेण च | विन्यस्य पालिका श्यामा(क)प्रियंगुफल सर्षपान् | मुद्गमासौ तिलशिम्वी कुलस्यं चाटुकीन्तथा | प्रक्षालितानि शुद्धेन जलेन तदनंतरम् | अभ्यर्च्चित स्वदेवानि मूलमंत्रार्च्चितानि वै | विप्रा शिषा पंचघोषैः सह निःसार्ययतानथ | विषिच्य तु हरिद्राभिर्नमस्य च पुनः पुनः | वसनेन समाच्छाद्य नवीनेन ततः परम् | शुद्धाभिरद्भिः सिच्याथ सायं प्रातर्मुहुर्मुहुः | इत्येवं सप्तरात्रं वा नवरात्र मथापि वा | स्थापयेद्वापयेच्चैव रात्रि शेषे बलिं निशि | लाजतिल हरिप्राश्च शक्तु चूर्णं तथा दधि | एतैः प्रथमरात्रौ च भूतेभ्यो बलिमुत्सृजेत् | द्वितीयायां क्षिपेद्रात्रौ पितृभ्यस्तिलतण्डुले | तृतीयायां च यक्षेभ्यः सलजादधिशक्तुभिः | चतुर्थ्यां रजन्यां दद्यान्नागेभ्यश्च पुनर्बलिम् | नारिकेलोदकैर्मिश्रं शक्तु चूर्णं मनोहरम् | पद्माक्षतं ब्राह्मणैश्च पंचम्यामुत्सृजेद्बलिम् | सपूपमन्नं भागाय षष्ठ्यामथो समाहरेत् | गुर्डोदनं विष्णवे च सप्तम्यां विचरेद्बलिम् | अष्टम्यां मातृकाभ्यश्च छागैर्म्मांसैश्च पक्षिभिः | मीनैस्तथा च मधुभिराहरेद्बलिमुत्तमम् | तिलौदनं विष्णवे च नवम्यामाहरेद्बलिम् | प्रणवादि चतुर्थ्यंतं स्वनाम च नमोऽन्तकम् | बलिमंत्रस्तथैव स्यादावाहन विसर्ज्जनम् | विविधानां च पत्राणां परितो बहिरेव च | अष्टदिक्षु च संदद्याल्लोकपालेषु यत्नतः | योक्तेषु तेषु पात्रेषु विष्णु ब्रह्म हरान् यजेत् | पृ० १६अ) मुदगप्रियं तु निषा?वे वायुरग्निः कुलप्त्यके | आवारक्यां रक्षसां चिंत्या छेषं सिद्धान्तके तथा | प्राणपतिं शालिराजे देवो वैवस्वतस्तिले | इन्द्रः श्यामे राजमासे वरुणश्च तथा मुने | वस्तु खण्डे दृढ बध्वा किंचित् किंचिद्यवं क्षिपेत् | उद्धृत्य यामद्वितये समतीते च वापयेत् | बीजानां दैवतं सोमः स रात्रौ कांतिमान् यतः | तस्मादाहृत्यबीजानि निशायामेव वापयेत् | प्ररूढान्यं कुराण्येव नादीक्षेत कदाचन | आचार्यय एव प्रविशेत् तछिष्यो वा तदाज्ञया | प्ररूढैरंकुरैः कर्तुर्निर्दिशेच्च शुभाशुभम् | श्यामैः कृष्णैरंकुरैश्च अर्थहानिश्च दुःखवान् | कुजैर्धनं विप्ररूढैर्मृतिं कुर्ययान्न संशयः | आचार्ययः कारयेच्चैव प्रलपद्वीक्ष्य यत्नतः | शांतिकं सर्वथा कुर्ययात् कर्त्तुरीप्सित सिद्धये || इति श्रीगौतमीये महातंत्रोत्तमोत्तमे षष्ठोऽध्यायः || ६ || अथ दीक्षां प्रवक्ष्यामि सर्वसिद्धि प्रवर्त्तिकाम् | यां विना नैव सिद्धिः स्यात्मंत्रो वर्ष शतैरपि | तदंगं कथितं पूर्वमिदानीं कथ्यते शृणु | ददामि दिव्यभावं चेत् क्षिणुयात् पाप संततिः | पारगैः शिष्यः स्नातः सुवेशश्च सर्वद्रव्य समन्वितः | आचार्ययं वृणुयाद्भक्त्या वस्त्रालंकारभूषणैः | कुर्ययान्नान्दीमुखं श्राद्धं ब्राह्मणान् परितोषयेत् | गोभूहिरण्य वस्त्राद्यैस्तोषयेत् गुरुमात्मनः | यथा ददाति संतुष्टः प्रसन्नवदनो मनुम् | इदानीं पूर्वकृत्यं च प्रसंगात् कथयामिते | यत् कृत्वाधिकारितां याति मंत्रयंत्रार्च्चनादिषु | येन विना सिद्धिः स्यात् नरकं च प्रलभ्यते | पृ० १६ब) ब्राह्मे मुहूर्त्ते चोत्थाय चिंतयेद् गुरु दैवतम् | स्वमूर्द्धनि सहस्रारे कृष्णाख्ये परिविनुके | शशांकायुतसंकाशं वराभय लसत्करम् | शुक्लाम्बरधरं श्रीमच्छुक्लमाल्यानुलेपनम् | वामोरौ बहुशक्त्या च युतं कृष्णाख्यमव्ययम् | शिवेनैक्यं समुन्नीय ध्यायेत् परगुरुं धिया | मानसैरुपचारैश्च संतर्प्य मनसा सुधीः | स्तोत्रैः स्तुत्वा नमस्कुर्ययान्मंत्रदेवेशमर्च्चयेत् | अज्ञानतिमिरान्धस्य ज्ञानांजन शलाकया | चक्षुरुन्मीलितं येन तस्मै स्वगुरुवे नमः | अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै स्वगुरवे नमः | मूलाधारे त्रिकोणाख्ये कोटिसूर्यय समत्विषि | ध्यायेत् कुण्डलिनीं नित्यां कामबीजोपरिस्थिताम् | श्यामां सूक्ष्मां च विश्वस्य सृष्टिस्थितिलयात्मिकाम् | विश्वातीतां ज्ञानरूपां चिंतयेदूर्द्धवाहिनीम् | चक्र षट्कं विनिर्भीज्य प्रापयित्वा परे शिवे | तद्भेद समापन्नामनाकुलमनाः स्मरेत् | प्रापयित्वा सुधां पूर्वं प्लावयेच्छाक्तिमण्डलम् | तेनैव चक्रभेदेन मूलाधारं समापयेत् | अनेन ध्यानयोगेन मंत्राः सिध्यंति नान्यथा | वैरिपक्षे स्थिता ये च वृद्धा यौवन गर्व्विताः | ये चान्यादासदुष्टाश्च सिध्यंत्येव न चान्यथा | परेण च स्वमात्मानं कृष्णाख्येन विभावयेत् | अहं कृष्णो न चान्योऽस्मि ब्रह्मैवाहं न शोक भाक् | सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् | त्वमेवाहमहं त्वं च सच्चित्मात्र वपुर्भवान् | आवयोरंत वा कृष्ण नश्यत्याज्ञावलात्तम | पृ० १७अ) अहं तीर्णो भवं घौरं कृत्यं किंचिन्न मेऽस्ति हि | तथापि देहि मे नाथ आज्ञां तव निषेवणै | जानामि धर्म्मं न च मे प्रवृत्तिर्जानाम्य धर्म्मं | न च मे निवृत्ति त्वया हृषीकेश हृदि स्थितेन | यथा नियुक्तोऽस्मि तथा करोमि एवं संप्रार्थ्य मनसा कुर्ययात् पौर्वाह्निकीं क्रियाम् दीक्षितस्य विधानेन तथा च | ब्रह्मचारिणाम् वाणप्रस्था स्थितानां च शौचादि द्विगुणा क्रिया सन्ध्याशिनां विशेषेण कृत्यं चतुर्गुणं भवेत् | आचन्य विधिठन्मंत्री शुचौ देशे च सात्विशेत् | तथा प्रातस्तनीं सन्ध्यां कुर्ययाद् गुरु निषेवकः | जले संपूज्य तीर्थानि विवारं मूलमंत्रतः | क्षिप्त्वा भूमौ कुशाग्रेण सप्तधा मूर्द्धिण् सेचयेत् | वामे जलं समाधाय मंत्रेयेद्दक्षिणेन तु | पुनर्वामेन तं क्षिप्त्वा मूर्द्धिण् सिंचेद्विवारकम् | गुरुणाचोपदेशैन मुद्रया दिव्यसंज्ञया | ईड़याकृष्य तत्तोयं क्षालितांतर्मलं पुनः | दक्षपार्श्व स्थिता वज्रशिलायां प्रोक्षयेच्च तत् | अस्त्रमंत्रेण विधिवत् पुनराचमनं भवेत् | अद्यमर्षणमेतद्धि सर्वपापनिकृंतनम् | तोयांजलिं पुनः क्षिप्त्वा सूर्यया मण्डल मध्यगाम् | गायत्त्रीं भावयेद्देवीं सूर्ययासनकृता श्रयाम् | तद्यदादित्यसंकाशां पुस्तकाक्षकरां स्मरेत् | कृष्णाजीनाम्बरां ब्राह्मीं ध्यायेत्तारकितेम्वरे | उत्थाय कृष्ण गायत्त्रीं तदभेद शतं जपेत् | कृष्णाय विद्यहे इत्युक्ता दामोदराय धीमहि | तन्नो विष्णुः प्रचोदयाद्गायत्र्यैया प्रकीर्त्तिता तेन कृष्णाय विद्महे दामोदराय पृ० १७ब) धीमहि | तन्नो विष्णुः प्रचोदयात् | सर्व देवमयी सर्व पावना वरदायिनी | सर्ववेदमयीति पाठः | प्रणवाद्या मुक्तिकरी श्रीबीजाद्या च भोगदा | हृल्लेखाद्या महासिद्धीकरी सर्ववशंकरी वाग्भवाद्याचरे प्व?श्या कामाद्या जनरंजनी | एवं ते कथिता मंत्र सन्ध्या मंत्र फलाप्तये | न कुर्ययाद्यदि मोहेन न दीक्षा फलमाप्नुयात् | संक्षेप सन्ध्यामथवा कुर्ययान्मंत्री ह्यशक्तितः | सायं प्रातश्च मध्याह्ने कृष्णं ध्यात्वा मनुं जपेत् | इति सन्ध्या त्रयं प्रोक्तं कर्म्मणां सिद्धिदायकम् | सन्ध्यायां पतितायां वा पतितायां वा गायत्त्रीं दशधा जपेत् | यथा प्राणं यथा ज्ञानं यथा कुर्ययादतन्द्रितः | यद्यत् कृत्यं मंगलार्थं तत्तत्कुर्ययात्तथा तथा | आदर्श दर्शनं कुर्ययाद्घृतस्पर्शं च कज्जलं | मत्पोष्य पोषणार्थाय क्षेमं योगं च चिंतयेत् | स्त्रायाच्च कृष्णपूजार्थं नद्यादौ विमले जले | पूजा च पंचधा प्रोक्ता तासां भेदान् शृणुष्व मे | अभिगमनमुपादानं योगः स्वाध्याय एव च | इज्या पंचप्रकारार्च्चा क्रमेण कथयामिते | तत्राभिगमनं नाम देवतास्थानमार्ज्जनम् | उपलेपन निर्म्माल्य दूरीकरणमेव च | उपादानं नाम गन्धपुष्पादि चयनं तथा | इज्यानाम चेष्टदेव पूजनं च यथार्थतः | स्वाध्यायो नाम कृष्णाख्यो ह्यात्मानुपूर्वको जपः | सूक्तस्तोत्रादि पाठश्च हरिसंकीर्त्तनं तथा | तत्वादि शास्त्राभ्यासश्च स्वाध्यायः परिकीर्तितः | योगो नाम स्वदेवस्य स्वात्मनैव विभावना | इति पंचप्रकारार्च्चा कथिता तव सुव्रत | सामीप्य सारूप्य सादृश्य सायुज्य फलदा क्रमात् | पृ० १८अ) प्रातःकाले वा मध्याह्ने स्नानार्थं तीर्थ माश्रयेत् | स्नानं तु द्विविधं प्रोक्तमंतर्वाह्य विभेदतः | अनंतादित्यसंकाशं वासुदेवं चतुर्भुजम् | शंख चक्र गदा पद्म मुकुटं वनमालिनम् | तत्पादोदकजां धारां नियतंत्रीं स्वकांतनुम् | तया संक्षालयेत् सर्वमंतर्द्देहगतं मलम् | तत्क्षणाद्विरजोमंवरंचांतस्तीर्थ कोटिशताधिकम् | योगिनां स्रानमेतद्धि कथितं परमाद्भुतम् | वाह्यस्नानं तथा कुर्ययाद्यथा शास्त्रं विधानवित् | मलप्रक्षालनं स्नानं स्वशाखोक्तं समाचरन् | मंत्रस्नानं ततः कुर्ययात् कर्म्मणां सिद्धिहेतवे | अस्त्रेणालोज्य मुत्स्नां वै विभागं तां तु कारयेत् | जले चैकं द्वादशयोर्न्निःक्षिपेदस्त्रमुच्चरन् | एकं मूर्द्धादि नाद्यंतं पठन् मूलं विलेपयेत् | शेषं पादादि नाद्यंतं तथैव प्रविलेपयेत् | गंगे च यमुने चैव गोदावरि सरस्वति | नर्म्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु | आवाहयामि देवि त्वां स्नानार्थमिह सुन्दरि | एहि गंगे नमस्तुभ्यं सर्वतीर्थ समन्विते | एवमावाह्य विधिवन्मूलमंत्रेण मंत्रयेत् | आमंत्र्यम्भसि संयोज्य सोमसूर्ययाग्निमण्डलम् | विचिंत्य मंत्री तन्मध्ये निमज्जेन्मूलमुच्चरन् | उत्थायाचम्य तत्पश्चात् षडंगं न्याससंयुतम् | आत्मानं दशधा सिंचेन्मुद्रया कलसाख्यया | सप्तकृत्वोऽभिषिंचेद्वामनुना मंत्रितैर्जलैः | वामहस्तकृता मुष्टिर्दक्षहस्तेन वेष्टयेत् | कलसाख्या भवेन्मुद्रा सर्वपाप हरा शुभा | शालग्रामशिला तोयं तुलसीदल मिश्रितम् | कृत्वा शंखे भ्रामयन् त्रिर्निःक्षिपेन्निनमूर्द्धनि | पृ० १८ब) शालग्रामे शिलातोयंमपीत्वा यस्तु मस्तके | प्रक्षेपणं प्रकुरुते ब्रह्महासनिगद्यते | विष्णुपादोदकान् पूर्वं विप्रपादोदकं पिवेत् | विरुद्धमाचरन् मोहादात्महास तु गद्यते | पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे | सागरे यानि तीर्थानि पदे विप्रस्य दक्षिणे | सुसागराणि तीर्थानि पदे विप्रस्य दक्षिणे | इति वा पाठः | ततः संक्षेपतो देवान् मनुष्यांस्तर्पयेत् पितृन् | पीडयित्वाम्बरं तोयम् प्रक्षाल्याचम्यवाग्यतः | धारयेद्वाससी शुद्धे परिधानोत्तरीयके | अच्छिन्ने सदृशे शुक्ले आचामेत् पीठ संस्थितः | ऊर्द्धपुण्ड़ं चन्दनेन कृत्वा सन्ध्यां समाचरेत् | पूर्वं तु कथिता सन्ध्या ध्यायेद्देवीं समहितः | श्यामवर्णां चतुर्बाहुं शंखचक्र लसत्कराम् | गदापद्माधरां देवीं सूर्ययासन कृताश्रयां | ध्यात्वा जलांजलिं कृत्वा तर्पयेत् कृमव्ययां | गुरु पंक्तिं पुरातर्प्य तर्पयेदिष्ट दैवतम् | नारदं पर्वतं जिष्णुं निशठोद्भवदारुकम् | विश्वकसेनं च शैलेयं गुरुंश्च तर्पयेत्विशः | पंचविंशतिसंख्या वा दशधा वा विधापि वा || मूलमंत्रं सम्मुच्चार्यय श्रीकृष्णं तर्पयाम्यहम् | नमोऽन्तोयं मनुः प्रोक्तस्तर्पणे विधितत्परैः | क्लीं श्रीकृष्णं तर्पयामि नमः सायाह्ने | वरदां देवीं गायत्रीं संस्मरेद्यतिः | शुक्लां शुक्लाम्बरधरां वृषासनकृता श्रयाम् | विनेत्रां वरदां पाशं शूलं च नृकरोटिकाम् | सूर्ययमण्डलमध्यस्थां ध्यायन् गायत्त्रीमभ्यसेत् | पृ० १९अ) ललाटे च गदा कार्यया मूर्द्धिण् चापं शरं तथा | नन्दकं चैव हृन्मध्ये शंखं चक्रं भुजद्वये | शंखचक्रांकितो विप्रः श्मशाने म्रियते यदि | प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य गौतम | पूजार्थं जलमादाय सूर्यये तीर्थानियोजयेत् | ब्रह्मज्योतिर्मयं विष्णुं गायत्त्रीं मनसा स्मरन् | शतावृत्या जपेत् तां तु धर्म्मकामार्थसिद्धये | सर्वपापक्षयं याति ज्ञानमुतपद्यतेऽचिरात् | मूलमंत्रं हृदि स्मृत्वा पायाद्वै यागमण्डपम् | हस्तौ पादौ च प्रक्षाल्य आचम्य वाग्यतः सुधीः | सूर्ययपूजां ततः कुर्ययाद्विशेषार्थेन दीक्षितः | पुनर्हस्तौ च पादौ च प्रक्षाल्य विधिना यतिः | आचमनं ततः कुर्ययाद्विशेषाद्वैष्णवान्वये | केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ | द्वाभ्यामौष्ठे च संमृज्य द्वाभ्यां मृज्यान्मुखं ततः | एकेन हस्तौ प्रक्षाल्य पादावपि तथैकतः | संप्रोक्ष्यैकेन मूर्द्धानं ततः संकर्षणादिभिः | आस्य नासाक्षिकर्णाश्च नाभिरुदरकं भुजौ | एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् | केशवाद्याः पुरा प्रोक्ता वक्ष्ये संकर्षणादिकान् | संकर्षणो वासुदेवः प्रद्युम्नश्चानिरुद्धकः | पुरुषोत्तमाधोक्षज नृसिंहाश्च तथाच्युतः | जनार्द्दनोपेन्द्र हरिर्विष्णवो द्वादशेरिताः || इति श्रीगौतमीयतंत्रे सर्वतंत्रोत्तमोत्तमे सत्तमोऽध्यायः || ७ || अथ द्वादश शुद्धिस्तु वैष्णवानां इहोच्यते | गृहोपसर्पणं चैव तथानुगमनं हरेः | भक्त्या प्रदक्षिणं चैव पादयोः शोधनं पुनः | पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः | पृ० १९ब) करयोः सर्वशुद्धीनामियं शुद्धिर्विशिष्यते | तत्रामकीर्त्तनं चैव गुणानामपि कीर्त्तनम् | भक्त्या श्रीकृष्णदेवस्य वचसः शुद्धिरिष्यते | तत् कथाश्रवणं चैव तस्योत्सव निरीक्षणम् | श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगिहोच्यते | पादोदकस्य निर्म्माल्य मालानामपि धारणम् | उच्यते शिरसः शुद्धिः प्रणामस्य हरे पुनः | आघ्राणं गन्धपुष्पादेर्निम्माल्यस्य च गौतम | विशुद्धिः स्यादनंतस्य घ्राणस्यापि विधीयते | पत्रपुष्पादिकं यच्च कृष्णपादयुगार्पितम् | तदेव पावनं लोके तद्वि सर्वं विशोधयेत् | वृन्दावनं ततो ध्यायेत् पूर्वोक्तेनैव वर्त्मना | तन्मध्ये स्वर्णभूमि च ध्यायेन्नवगृहं ततः | पूर्वद्वारं ततो गत्वा सामान्यार्घं विशोधयेत् | अस्त्रेण शंखं प्रक्षाल्य कृष्णमंत्रेण पूरयेत् | मंत्रयेत् प्रणवे नैव सामान्यर्थमिदं स्मृतम् | द्वार्ययावाग्नयजेत्तत्र सर्वविघ्नोपशांतये | नन्दः सुनन्दश्चण्डश्च प्रचण्डो बल एव च | प्रबलो भद्रनामा च सुभद्रो विघ्नवैष्णवाः | द्वौ द्वौ विघ्नौ प्रतिद्वारे पुरतो विनता सुतम् | प्रणवादि नमोऽन्तेन नाममंत्रेण पूजयेत् | ततोऽक्षतान् समादाय दक्षे नाराचमुद्रया | प्रक्षिपेदस्त्रमंत्रेण गृहांतर्विघ्नशांतये | अपसर्पंतु ते भूता ये भूता भुवि संस्थिताः | ये भूता विघ्नकर्त्तारस्ते नश्यंतु शिवाज्ञया | भूतसंघान् समुच्चार्यय दक्षपाद पुरःसरम् | ध्यायेदिह गृहाभ्यंतः प्रविशेन्नत कन्धरः | यजेत्तत्रैव ब्रह्माणं वास्तुदोषोपशांतये | प्रांमुखः संयतात्मा च संविशेद्विहितासने | पृ० २०अ) तथा मृदासने मंत्री पटाजिन कुशोत्तरे | काष्ठासने भवेद्रोगो वंशे वंश क्षयं भवेत् | शैलासने च वाग्रोधः पल्लवे मति विभ्रमः | धरण्यां दुःख संभूतिः पीडनं राजने भवेत् | विष्णुः कालांत्मकश्चात्मा ततः पूर्वमुखो भवेत् | गन्धपुष्पादि पत्राणि स्वदक्षे च निवेशयेत् | दीपं बलिं च नैवेद्यं क्षुन्दरं पुरतो न्यसेत् | सुवासिताम्बुसंपूर्णं वामे कुम्भं सुशोभनम् | पृष्ठदेशे पात्रमेकं करक्षालनाय संन्यसेत् | पद्मासनं स्वस्तिकम्बा आत्वार्ययो विधिना विशेत् | ऊरोरुपरि विन्यस्य सम्यक्पादतले उभो | पद्मासनमिदं प्रोक्तं योगिनो हृदयंगमम् | जानुर्वोरंतरे कृत्वा सम्यक् पादतले उभे | ऋजुकायो विशेद योगी स्वस्तिकं तत् प्रचक्ष्यते | मंगलांकुर पात्राणि चतुर्द्दिक्षु निवेशयेत् | आशीर्वागभिर्द्विजातीनां वैष्णवं यागमारभेत् | शिष्यश्च वृणुयाद्भक्त्या आचार्ययं भक्तितत्परः | वासोऽलंकारविभवैर्वित्तशाठ्य विवर्ज्जितः | ऋत्विजं वृणुयात्तत्र दश पंच त्रयं तथा | पुण्याहं वाचयित्वा च पंचघोष पुरःसरम् | भूतशुद्धिं ततः कुर्ययात् सर्वार्थत्वविशुद्धये | कृतांजलि परो भूत्वा वामे गुरु त्रयं यजेत् | गुरुं च परमादिं च परापर गुरुं तथा | दक्षपार्श्वे गणेशं च मूर्द्धिण् देवं विभावयेत् | ततो मण्डपमध्ये च स्थण्डिलं गोमयाम्बुना | उपविश्य यथा न्यायं तस्य मध्ये निधापयेत् | सूत्रं प्राक् प्रत्यगग्रं च विप्राशीर्वाचनैः सह | गुणितो नाभितो मत्स्यो मध्यारभ्य प्रविन्यसेत् | तन्मध्यस्थितयाम्योदगग्रं सूत्रं निधापयेत् | पृ० २०ब) ततो मध्यान्न्यसेद्धस्तमानमात्रं दिशं प्रति | सत्रेषु मकरान्न्यस्येन्मत्स्यान् वान्य तमः पुमान् | सूत्राग्रमकरेभ्यश्च न्यसेत् कोणेषु मत्स्यकान् | कोणमत्स्या स्थिताग्राणि दिक्षु सूत्राणि पातयेत् | ततो भवेच्चतुष्कोणं चतुरस्रं तु मण्डलम् | तत्राग्निमारुतं सूत्रं निरृतेशं तु पातयेत् | प्राग्याम्य वरुणो दीच्य सूत्राग्र मकरेषु च | विहिताग्रं लग्नसूत्रं चतुष्कं प्रतिपादयेत् | कृत हस्तं भवेयुस्ते काणे कोष्ठेषु मत्स्यकाः | एष प्राग्वरुणो याम्योदीच्यानि च प्रपातयेत् | षट्पंचाशत्पदानि स्युरधिकानि शतद्वयात् | यदा तदाथो विभजेत् पदानि क्रमशः सुधीः | पदैः षोडशकैर्मध्ये पद्मं वृत्तत्रयंमितं | तैरष्टचत्वारिंशद्भीराशिः स्याद्दीपशोभितम् | सद्वादशैः शतपदैः शोभाख्याः स्युश्चतुष्पदाः | चतुष्पदाश्च शोभाः स्युः षट्पदं कोणकं भवेत् | वृत्तवीख्यो वा रचयेन्मध्ये सूत्र चतुष्टयम् | प्राग्याम्य वरुणो दीच्यं तद्भवेद्राशिमण्डलम् | कर्णिकायाः केशराणां दलस्यार्द्ध दलस्य च | दलाग्रवृत्तराशीनां वीथ्याः शोभां पशोभयोः | वृत्तानि चतुरस्राणि व्यक्तं स्थानानि कल्पयेत् | भवेन्मण्डलमध्यांकः करेण चतुरंगुलऽ | द्व्यंगुलाः केशराणिल्युः संध्यग्रं चतुरंगुलम् | तथा दलानां मानादग्रं द्व्यंगुलो न भवेत् *| अंतराल पृथग् वृत्तत्रये द्व्यंगुलमुच्यते | ततश्च राशिचक्रं स्यात् स्व स्व वर्ण विभूषितम् | वामे मण्डलकं कुर्ययात् षड्भिरष्टभिरेव वा | पृ० २१अ) द्वात्रिंशदंगुलं ह्येतत् परत्वात्तावदिष्यंते | वृत्तं चक्रमुशंत्येके चतुरस्रं तु तद्विदः | यदि वा वर्त्तुलं चैव वा स्युर्द्वादशराशयः | ते स्युः पिपीलिका मध्या मातुलुंगु निभा अपि | चक्रं च चतुरस्रं चेत्त्रयद्वादशराशयः | भवेयुः पंकजदलनिभा वा कथिता बुधैः | तद्वही रुचिरान् कुर्ययाच्चतुरः कल्पशाखिनः | जलजैः स्थलजैश्च पिसुमनोभिः समन्विताम् | हंस सारसकारण्ड शुक भ्रमर कोकिलैः | मयूर चक्र वाकाद्यैरारुढ़ विटपाततान् | सर्वेषु निवृत्तिकरान् विलोचन मनोहरान् | तद्बहिः पार्थिवं कुर्ययान्मण्डलं कृष्णकोणकम् | मण्डलानि च तत्त्वज्ञो राश्यस्तान्येव कारयेत् | नामावल्यत्र रचयेत् प्रमाणादन्य मण्डलम् | आवाह्य देवता यस्यामर्च्चयंस्त्वन्य देवताः | उभाभ्यां लभते शायं मंत्रीतरलदुर्म्मुतिः | कालात्मकस्य देवस्य राशि व्याप्तिमजानता | कृतं समस्तं न्यर्थं स्यादाज्ञावज्ञानमानिना | तस्मात् सर्वं प्रयत्नेन राशीन् साधिपतीन् क्रमात् | अवगम्यानुरूपाण्डि मण्डलानि न चान्यधीः | उपक्रमेदर्च्चयितुं होतुं वा सर्व देवताम् | रजांसि पंचवर्णाणि पंचद्रव्यात्मिकानि च | पीत शुक्लारुण श्यामकृष्णान्येतानि भूतले | हारिद्रं स्यात्तथा पीतं ताण्डूलं च सितं भवेत् | तथा दोषाय वक्षार संयुक्तं रक्तमुच्यते | कृष्णं दग्धपुलाकोष्ट्यं श्यामं विलदलादिकम् | सितेन रजसा कार्यया सीमारेखा विपश्चिता | अंगुलोत् सेध विस्ता प्रशस्ता सर्वकर्म्मसु | पृ० २१ब) पीता स्यात् कर्णिका शुक्ल पीतरक्ताश्च केशराः | दलान्यब्जस्यांतरालं श्यामचूर्णेन पूरयेत् | सितरिक्तासितैर्वर्णैर्वृत्तत्रयमुदीरितम् | नानावर्णविचित्राः स्युश्चित्राकाराश्च वीथयः | द्वारशोभोपशोभाः स्युः श्वेतरक्ता हरिद्रकाः | राशिचक्रावशिष्टानि कोणान्यद्विक्षुयानि वै | पीठपादानि तानि स्युरसितान्यरुणानि वा | अथ वारुणानि च दलानि तथा दलसंधिरसितवत् | असिता वरुणाश्च रजसा विहितान्यपि कथयंत्यपरे || इति श्रीगौतमीये महातंत्रे सर्वतंत्रोत्तमोत्तमे अष्टमोऽध्यायः || ८ || पंचगव्येन तद्गेहं मण्डलं च विशोधयेत् | पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते | घृतं चपलमात्रं स्याद्गोमयं तोलक द्वयम् | दधि प्रसृतिमात्रं स्यात् पंचगव्यमिदं स्मृतम् | अथवा पंचगव्यानां समानो भाग इष्यते | मूलमंत्रेण संमंत्र्य कुशाग्रेणैव शोधयेत् | तेन सर्व विशुद्धिः स्यात् सर्वपापनिकृंतनम् | महांति पातकान्येव कृत्वा गव्यं पिवेद्यदि | नाशयेत् पानमात्रेण इत्यूचुर्वेदवेदिनः | भूतशुद्धिं ततः कुर्ययाद् येन पूर्णफलं लभेत् | ओं नमः सुदर्शनाये त्युक्तास्तेणैव देशिकः | तालत्रयं सम्विदध्यादूर्द्धोर्द्धं च समाहितः | दिग्बन्धनं छोटिकाभिर्द्दशभिः कारयेत् सुधीः | ततस्तेनैव जनितं तेजो रक्षत्विति स्मरेत् | विनिधाय करौ स्वांके उत्तानौ परिचिंतयेत् | हूंकारेण समुत्थाप्य शक्तिं स्वाधार संस्थिताम् | मूलाधारमथ स्वाधिष्ठानं च मणिपूरकम् | पृ० २२अ) अनाहत विशुद्धं च आज्ञाचक्रं च चिंतयेत् | गुदे च ध्वजमूले च नाभौ हृदय एव च | कंठे तथा भ्रुवोर्म्मध्ये यथाक्रम मनुं स्मरेत् | चिंतयेत् पुनराधारं कनकाब्जं चतुर्द्दलम् | तन्मध्ये चिंतयेद् योनिं चंन्द्रार्काग्नि समद्युतिम् | तदंतश्चिन्तयेन्मंत्री जीवात्मानं समाहितः | जवा बंधूक सदृशं तड़इत्कोटिप्रतीकाशं चन्द्रकोटि सुशीतलम् | प्रदीपकलिकाकारं कुण्डलिन्यासनं तथा | सुषुम्नावर्त्मना सोहऽमिति मंत्रेण योजयेत् | सहस्रारं शिवस्थाने परमात्मनि देशिकः | तथैव पंचुभूतानि संहारक्रमः तस्तथा | वाक्पाद्पाणिपायूपस्थ वचनादानमेव चे | गतिर्विसर्गानन्दश्रोत्रत्वक्चक्षूरसनाः पुनः | नासाशब्दस्तथा स्पर्शो रूपं रसोऽपि गन्धकः | तत्त्वान्येतानि पंचविंशत् पुरुषेण च योजयेत् | अहंकारं मनोबुद्धिं चित्तं तत्रैव योजयेत् | जीवभावेन लीनानि सर्वाणि परिचिंतयेत् | धूर्मवर्णं(धूम्रवर्णं) ततो वायु बीजं षट्बिंन्दु लांछितम् | पूरयेदीड़या वायु सुधीः षोड़शमात्रया | मात्रया च चतुःषष्ट्या कुम्भयेत्तु सुषुम्नया | द्वात्रिंशन्मात्रया मंत्री रेचयेत् पिंगलाध्वना | पूरयेदनया चैव संचिंत्य नील मारुतम् | रक्तवर्णं वह्निबीजं त्रिकोणं स्वस्तिकान्वितम् | तेन पूरकयोगेन मात्रया षोड़शाख्यया | चतुःषष्ट्या मात्रया च निर्द्दहेत् कुम्भकेन च | वामपार्श्व स्थितं पाप पुरुषं कज्वलप्रभम् | ब्रह्महत्या शिरस्कं च स्वर्णस्तेय (य) भुजद्वयम् | पृ० २२ब) सुरापान हृदायुक्तं गुरुतल्प कटिद्वयम् | तत् संसर्गि पदद्वन्द्वमंगप्रत्यंग पातकं | उपपातक रोमाणं रक्तश्मश्रु विलोचनम् | खड्गचर्म्मधरं क्रुरं क्रुद्धाः कुक्षौ विचिन्तयेत् | मूलाधारोत्थिते नैव वह्निना निर्द्दहेच्चतम् | एवं संदह्य परितो द्वात्रिंशन्मात्रया ततः | भस्माना सहितं मंत्री रेचयेत् पिंगलाध्वना | वामनाड्यां चन्द्रबीजं कुन्देन्द्वयुत सप्रभम् | भालेन्दुबीजं संयोज्य ततः षोडशमात्रया | सुषुत्रया(सुषुम्नया) चतुःषष्टि मात्रया बीजमैन्दवम् | ध्यात्वा मृतमयीं वृष्टिं पंचाशद्वर्णरूपिणीम् | तया देहं विचिंत्यैवं मनसापि कुलाध्वना | द्वात्रिंशन्मात्रया मंत्री लं बीजेन दृढ़ं नयेत् | स्वस्थाने हंसमंत्रेण पुनस्तेनैव वर्त्मना | जीवं तत्त्वानि चानीय स्वस्थाने स्थापयेत्ततः | इति कृत्वा भूतशुद्धिं मातृकान्यासमाचरेत् | गौतम उवाच भूतशुद्ध्या वद ब्रह्मन् कस्य शुद्धिः प्रजायते | नात्मनः सर्वशुद्धीनां कारणं स तु कथ्यते | न जीवस्य ब्रह्मणा च सहैक्यं तस्य नित्यशः | न देहस्य तदारभ्य नित्यता तस्य कथ्यते | मनसां वापि बुद्धेश्च कस्य स्यात् कुरु वीक्षणम् | इत्यादि संशयं छिन्धि त्वं हि ब्रह्म समः स्मृतः | नारद उवाच शरीराकार भूतानां भूतानां यद्विशोधनम् | अव्यय ब्रह्मसंयोगाद् भूतशुद्धिरियं मता | अंतःकरण मध्ये तु ज्योतिरात्मा प्रवर्त्तते | लिंगदेहं तु तं प्राहुर्योगिनस्तत्त्ववेदिनः | तस्य शोधनमात्रेण सर्वशुद्धिः प्रजायते | तदेव विश्वजनककारणं जन्मकारणम् | तद्वियोगे भवेन्मृत्युर्नान्यथा जन्म कोटिभिः | पृ० २३अ) इत्येत् कथितं सर्वं पुरुपार्थस्य निगमे | योगाद्यभ्यासयोगेन मंत्राभ्यासेन नाशयेत् | भूतशुद्धिं विधायेह्यं योग्यस्तु देशिकोत्तमः | न्यासं देहस्य सन्नाहं विदेधीतानुपूर्वकम् | भूतशुद्धिर्मातृकाचक्रेश वाद्या तथा च सा | तत्त्वन्यासं तथा कुर्ययात् प्राणायामस्ततः परम् | न जीवस्य ब्रह्मणा च सह्यैकं तस्य नित्यशः | न देहस्य तदारभ्य नित्यता तस्य कथ्यते | मनसो वापि बुद्धेश्च कस्य स्यात् कुरुवीक्षणम् | इत्यादि संशयं छिन्धि त्वं हि ब्रह्म समः स्मृतः | नारद उवाच | वर्णन्यासं तथा कृत्वा दशतत्तुं तथाचरेत् | विष्णुपंजरनामानमित्युक्तः क्रमसंग्रहः | तथार्घ्यस्थापनं कुर्ययाद् यथावदनुपूर्वशः | स्ववामाग्रे चतुरस्रं मंडलं परिचिंतयेत् | पुष्पैरभ्यर्च्यतं मंत्री तवाधारं प्रतिष्ठयेत् | मं वह्निमंडलाय नमो मंत्रोऽयं तस्य चेष्ट्यते | वृत्ताकारेण तत्रैव वह्नेर्द्दशकला यजेत् | वृत्ताकारेण तत्रैव कलाद्वादश पूजयेत् | कं भं तापिन्यै इत्युक्ता खं वं तापिनिका तथा | गं फं उच्चार्यय धारिण्यै धूम्रां च परिपूजयेत् | द्यं पं मरीचिमभ्यर्च्च्य ङं नें ज्वलिनिकां तथा | चं धं रुचिं छं दं चैव सुषुम्नां पूजयेद् गुरुः | जं थं च भोगदां मंत्री पूजयेत् कुसुमाक्षतैः | झं तं विश्वामभ्यर्च्च्य अं णं च बोधिनीं न्यसेत् | ठं टं च धारिणीं तद्वत् ठं डं क्षमां च पूजयेत् | नमोऽन्नेनैव मंत्रेण चतुर्थी प्रत्ययान्विता | एवं शं खं समभ्यर्च्च्य कलासौरेर्धनपदाः | विलोम मातृकां नप्त्वा स्वेष्ट मंत्रं तथा सुधीः | पाथसा तीर्थं तेनैव पूरयेद्विमलेन च | पृ० २३ब) उंकारेणैव मंत्रेण चन्द्रं तत्र प्रपूजयेत् | अमृता मानदा पूषात्पुष्टिः पुष्टीरतिर्धृतिः | शशिनी चन्द्रिका कांतिर्ज्योत्स्ना श्रीः प्रीति वृद्धिदा | पूर्णापूर्णामृता चेति षोडशलामदोः | षोड़शखरयीमेन नमोऽन्तेन प्रपूजयेत् | तत्राक्षतानि पुण्याणि स दूर्वाणि विनिक्षिपेत् | वामेनाछाद्य हस्तेन षडंगं दक्षहस्ततः | दशकृतो जपेन्मूलं गालिनीं शिखया न्यसेत् | करौ प्रसार्यय चान्योऽन्यं संपुट क्रमयोगतः | प्रयोज्य दक्षिणांगुष्टं तथा वामकनिष्टया | वामया दक्षिणांगुष्टं मुद्रेयं गालिनी मता | अर्घस्य फलदा प्रोक्ता शंखस्योपरिचालिता | गंधादिभिः समभ्यर्च्च्य कृष्णाख्यं धामयोजपेत् | अस्त्रादिभिः सुसंरक्ष्य धेनुं योगी प्रदर्शयेत् | तद्दक्षिणे तु शंखं वा ताम्रं वा पार्थिवं तथा | पात्रमेकं निधायाथ तथा तोयेन पूरयेत् | ताभ्र(म्र)पात्रं च विप्रर्षे विष्णो रतिप्रियं मतम् | तथैव सर्वपावाणां मुख्यं शंखं प्रकीर्त्तितम् | मृत्पात्रं च तथा प्रोक्तं स्वर्णं वा राजतं तथा | पंचपात्रं हरेः शुद्धं नान्यत्तत्र नियोजयेत् | तेनामृतेन सर्वत्र द्रत्यं मंत्रमयं भवेत् | ततो धर्म्मादिभिर्म्मंत्री गात्रे पीठानि विन्यसेत् | गंधाक्षतैः कुसुमुकैः पवित्रैर्ज्वलयोजितैः | इति पीठं समभ्यर्च्च्य ध्यायेन्मंत्रात्मदेवताम् | मूलादि ब्रह्मरंध्रांतं विषतंतुस्वरूपिणीम् | कुण्डर्लां त्रिविधां तत्र तथा बीजाक्षरं त्रिधा | तुरीयां कुण्डलीं मूर्द्धिण् वासुदेवं तुरीयकम् | ओंकारं मूलदेशे च द्रवत् स्वर्णनिभं स्मरेत् | पृ० २४अ) मूलादि हृदयं यावत् वह्नि कुण्डलिनीं तथा | हृदये कामबीजं च सूर्ययायुत समप्रभम् | सूर्ययकुण्डलिनीं तत्र सूर्ययकोटि समप्रभाम् | हृदया कुलपर्ययंतं ध्यायेदनाकुलः सुधीः | भ्रुमध्याद्ब्रह्मरन्ध्रांतं मायामिन्द्वयुत प्रभाम् | चन्द्रकुण्डलिनीं तद्वत् स्ववेदमृतविग्रहाम् | बिन्दुनादमयं वासुदेवं बिन्दौ तुरीयकम् | देशकालाथवच्छिन्न सर्वतेजोमयं स्मरेत् | तुर्यय कुण्डलिनीं तद्वत् केवलं ज्ञानविग्रहाम् | एवं ध्यात्वा पुनर्बीजं संपूर्णं मनसा स्मरेत् | चिदानन्दमयं स्वच्छं एका चैकतया गुरुः | सुधावृष्ट्यनिपतंत्या तर्पयेत् परदैवतम् | ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सहजानन्दविग्रहः | विनुस्नुत सुधाभिस्तु तर्पयेच्च पुनः पुनः | अंतर्याग इति प्रोक्तो जीवतो मुक्तिदायकः | मुनीनां च मुमुक्षूणामधिकारोऽत्र केवलम् | अथवा मानसैर्द्रव्यैः प्रकटेनापि पूजयेत् | ध्यात्वा हृत्पद्ममध्ये तु वासुदेवं यथोदितम् | स्वागताद्यैरुपचरेत् पाद्याद्यैः स्नानभूषणैः | गंधपुष्पधूपदीपैर्नैवेद्यविधिना विना | पुष्पांजलीन् ततो दद्यात् बहुमालां निवेदयेत् | अथवा घृतसंभूतैः प्रकद्वै(टै)रर्च्चयेत् प्रभुम् | स्वागताद्यैर्निवेद्यांतैरात्मभेदेन पूजयेत् | चन्दनागुरु निष्पन्द चर्चितांगः स्वयं गुरुः | विष्णपंजरमंत्रेण तञत्स्थाने विधानवित् | रचयेत्तिलकं भक्त्या प्रदीपकलिका निभम् | पुष्पांजलिं पंच कृतो विधिवत्तनुयाद् गुरुः | तुलसी युगलं वामपादे दक्षिणके तथा | पृ० २४ब) हयारियुगलं पार्श्वद्वये गन्धाद्वयान्वितं | पद्मयुग्मं मूर्द्धिण् देशे मूलेन दक्षवामके | षड्भिः सर्वतनौ न्यसेत् पुनः सर्वैश्च सर्वतः | एवं पुष्पांजलि प्रोक्तो हरिसान्निध्यकारकः | श्रीखण्डं दक्षिणे दद्यात् सितपुष्पेण संयुतम् | वामे च चन्दनं दद्यात्तथा रक्तेन संयुतम् | सर्व पुष्पांजलौ दद्यात् सर्वगन्ध समन्वितः | दक्षिणं वासुदेवाख्यं स्वच्छचैतन्यमव्ययम् | वामे च रुक्मिणी नित्या रक्ता रजोगुणान्विता | तेन सत्त्वरजोरूपं आत्मानं चिंतयेद्गुरः | मूलमंत्रं जपन् बुद्ध्या सुषुम्ना मूलदेशके | मंत्रार्थं तस्य चैतन्यं बीजं ध्यात्वा पुनः पुनः | उदयादि लयांतं च मंत्रमेव समभ्यसेत् | उदयः शब्दरूपश्च लपश्चात्मा प्रकीर्तितः | ज्ञानाज्ञान विभागेन तन्मयो भव गौतम | मनः सहरसं शौचं नौमं मंत्रार्थचिंतनम् | अथग्रत्वमनिर्वंदो जप सम्पति हेतमः | एवं ते कथितं सम्यक् त्रिविधं यजनक्रमम् | यान् कृत्वा सम्पदायेन मंत्री वांछितमश्नुते || अथ मण्डल मध्ये तु पूजनं बाह्य गोचरम् | आरभेत् प्रकटैर्द्रव्यैर्नानारससुविस्तरैः | पाद्यार्घ्याचमनीयानि पात्राणि च स्वदक्षिणे | संस्थाप्य तत्तद्द्रव्यैश्च पूरितानि च देशिकः | अर्घ्यास्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् | तथा चाचमनीययनि पात्राणि च विभागशः | तथाकरण दौर्बल्यादेकमेकं प्रशस्यते | पूरयेद्विधिना मंत्री मण्डलं शुभ तंडुलैः | शुद्धैरेवाक्षकैः सम्यग् यावत् पंकजमंडलम् | पृ० २५अ) कुशान् विस्तार्यय तत्रैव पंकजं विष्टरान्वितं | पुष्पाणि च विकीर्ययाथ कुम्भस्थापनमाचरेत् | हैमं रूप्यं ताम्रमयं मार्त्तिकं वा स्वशक्तितः | वित्तशाठ्यं न कुर्वीत कुतेऽनिष्टमवाप्नुयात् | द्वात्रिंशदंगुलं कुम्भं विस्तारोन्नतिशालिनं | पोड़श द्वादशांगुलमतो न्यूनं न कारयेत् | पुण्यस्त्रीनिर्म्मितैः सूत्रैर्विधिवन्विगुणीकृतैः | तेन संवेष्ट्य परितः यथानक्षरते क्वचित् | भग्ने मृत्युः साधकस्य क्षरणे चापदां पदं | तस्माद्दोषापि विज्ञाय कुर्ययात् सर्वमतन्द्रितः | प्रक्षाल्यांतरमंत्रेण गंधैः परिमलान्वितं | वेदविद्भिर्द्विजैः सार्द्धं स्थापयेतारमुच्चरन् | समीवृक्ष त्वचांतोयैरथवाप्यैक्षवौषधीः | विष्णु गन्धाष्टकैर्वाथ तीर्थोदैर्वाथ पूरयेत् | चन्दनागुरुह्नीवेरं कुष्ठ कुंकुम रोचनाः | जढामांसी मुरामांसी विष्णोर्गन्धाष्टकं स्मृतं | गन्ध्याष्टकमिदं हृद्यं विष्णोः सान्निध्यकारकं | वह्निरूपमथाधारं कलाभिः सह पूजयेत् | तथा सूर्ययमयं कुम्भं तत् कलाभिः प्रपूजयेत् | जलं सोममयं तद्वत् तत कलाभिः समर्च्चयेत् | तेजस्त्रयमिदं प्रोक्तं जलं तदात्मकं स्मृतं | विलोम मातृकावर्णैः सर्वत्र पूरणं स्मृतं | तथा मूलं समुच्चार्यय पूरयेद्विगतामयः | तीर्थमंत्रेण तीर्थानि योजयेत् सूर्ययमण्डलात् | वृहत् शंखं तथा स्थाप्य स्वपुरो भागमग्रतः | तत्राधारं प्रतिष्ठाप्य पूजयेद्वह्निमण्डलं | ततः शंखं प्रतिष्ठाप्य सूर्ययात्मकमथार्च्चयेत् | प्रदक्षिणक्रमेणैव कलाः सर्वत्र पूज * | पृ० २५ब) विलोम मातृकां जप्त्वा तथा मंत्रं प्रपूरयेत् | क्वाथोदकैर्व्वा दुग्धैर्वा पूर्वोक्तैर्वा प्रपूरयेत् | तेजस्त्रयकलाऽभ्यर्च्च्य प्राणस्थापन पूर्वकं | आवाहनादिकं कृत्वा कला एकैकशः क्रमात् | संपूज्य विधिवद्विद्वान् देवसान्निध्यहेतवे | प्रणवांशोद्भवः सम्यक् कलास्तत्र प्रपूजयेत् | स्थापनांते तु संयोज्य गन्धपुष्पादिभिर्यजेत् | एकैकमृक्पठंस्तत्र तत्र तत्र जपं क्षिपेत् | पाथस्तेजोमायं तत्रा योजयेद् गुरु सत्तमः | प्रथमं प्रकृते हंसः प्रतद्विष्णुरनंतरं | त्र्यम्बकं च तृतीये स्यात्तद्विप्रासां चतुष्टयं | विष्णुर्योनिं कल्पयेत्तु पंचमं परिकीर्त्तितं | ऋक् पंचकमिदं प्रोक्तं प्रणवार्णस्वरूपकं | तारस्य पंचभेदेने पंचाशद्वर्णगाः कलाः | सृष्टिरृद्धिः स्मृतिर्म्मेधा कांतिर्लक्ष्मीर्ययुतिः स्थिरा | स्थिति सिद्धिरिति प्रोक्ताः कचवर्गगताः क्रमात् | अकाराद्ब्रह्मणोत्पन्ना तप्तचामी करप्रभाः | एता करधताक्षस्रक् पंकजद्वय कुण्डिका | जरा चपोलिनी शांतिरीश्वरी रति कामिके | वरदाह्लादिनी प्रीतिर्दीघाः स्युश्च तवर्गगाः | उकाराद्विष्णुनीत्पन्नास्तमालदलसन्निभाः | अभीति दवचक्रेष्ट वाहवः परिकीर्तिताः | तीक्ष्णारौप्री भयानि शतं प्रीक्षुप्तां धनी क्रिया | उतकारी मृत्युरेतः स्युः कथिताः पयवर्गकाः | वज्रेणनार्णादुत्पन्नाः शरच्चन्द्रनिभा प्रभाः | उद्वहंत्यभयं शूलं कपालं बाहुभिर्वरं | ईश्वरेणोदिताविन्यो पीतश्वेतारुणासिताः | पृ० २६अ) अंता च यकवर्गस्था जवाकुसुमसन्निभाः | अभयं हरिणं टंकं दधाना बाहुभिर्वरं | निवृत्तिः संप्रतिष्टा स्याद्विद्या शांतिरनंतरं | इक्षिका दीपिका चैदरोचिका मोचिका परा | सूक्ष्मासूक्ष्मामृता ज्ञानामृता चाप्यायनी तथा | व्यापिन व्योमरूपाः स्युरंतरा स्वरशक्तयः | सदाशिवेन संजाता नादादेताः सितुष्ठिषः | अक्षस्रक् पुस्तक गुण कपालवर तर्ज्जनी | तत्रत् कलाः समावाह्य कृत्वा प्राणस्य संयमं | संपूज्या गंधपुष्पाद्यैस्तस्यांते जलमर्पयेत् | कुम्भे तेजस्त्रयकला अष्टविंशज्जपन् ततः | जपेत कलाश्च पंचाशत् प्रणवांश्च समुद्भवाः | पुनश्च पंच ऋक् जप्या मूलमंत्रं जपेततः | चतुर्नवति मंत्रोऽयं देवसान्निध्यकारकः | नवरत्नं तद्वदेव निःक्षिपेन्मातृकां जपन् | नवरंध्रमयं चाप्यान् नवरत्नं तदात्मकं | वज्रमौक्तिक पुष्पाख्य विद्रुमं पद्मरागकं | नीला मकरतं चैव माणिक्यं स्वर्ण एव च | नवरत्नमिति प्रोक्तं सर्वदेवाश्रमं महत् | स्थापयेत्तन्मुखे मंत्री चपकं फलसंयुतं | विष्टरं तन्मुखे दत्त्वा दत्वा च पंचपल्लवं | शुद्धेन क्षौमयुग्मेन निर्न्मलेनांशुकेन वा | वेष्टयेद्विधिना मंत्री सर्वाश्चर्ययं यथा भवेत् | बहुमालां ततो दद्यात् गंधं च सुमनोहरं | हरिमावाहयेत्तत्र छायायां कल्पशाखिनः || इति श्रीगौतमीयमहामंत्रे नवमोऽध्यायः || ९ || अथ पुष्पांजलि करः समायत नभस्थलः | हृत्पद्मसंस्थितं तेजः कुंडल्या सहमेलयेत् | चिदानन्दघनं शुद्धं सर्वतेजोमयं स्मरन् | पृ० २६ब) षट्चक्रभेदने नैव उन्मन्या सह योजयेत् | जीवानन्दमयं तत्तु प्राप्तनैश्वर्ययमद्भुतं | आराध्य मानसैर्द्रव्यैर्व्वहन्नासापुटं क्रमात् | करस्थ मातृकाम्भोजे चैतन्यं योजयेच्च तत् | कुम्भमध्ये मंत्रमुर्त्ता वावाह्य परिपूजयेत् | कृष्ण कृष्ण महायोगिन् सर्वे सत्त्व हृदि स्थिते | सर्वंत्र सर्वग ब्रह्मन् कृपया सन्निधी भव | मंत्रेणानेन संस्थाप्य तत्तन्मुद्रा प्रदर्शयेत् | ऊर्द्धांजलिमधः कुर्ययादियमावाहनी भवेत् | सेयं तु विपरीतास्यान्मुद्रास्थापनकर्म्मणि | वाह्यांगुष्टद्वयं मुष्टीनुशस्यात् सन्निधापनी | अंगुष्टगर्ब्भिणी सैव मुद्रा स्यात् सन्निरोधनी | अन्योऽन्यतर्ज्वनीयामभ्रमणादवगुंठनी | आवाह्य पंचमुशभिः प्राणस्थापनमाचरेत् | पाशांकुश पुटा शक्तिस्ततोऽहंस मनुं वदेत् | कृष्णस्य प्राणा इह प्राणाः कृष्णस्य जीव इह स्थितः | तेष्ट्य सर्वेन्द्रियाणि च वांमनश्चक्षुरित्यथ | इहागत्य सुखं चिरं तिष्ठंतु स्वाहयायुतं | अयं प्राण मनुः प्रोक्तः सर्वजीव प्रदायकः | अनेन तु विहितायेर्म्मनवोनिर्जीविता मताः | रहस्यं चस्य गुरुतस्तंत्रतो ज्ञानवैभवे | किं न सिध्यति विप्रर्षे देशिकस्य न चान्यथा | मातृकां केशवाख्यां च तत्वं संन्यस्य येन वै | करांग दश तत्त्वानि न्यासनात् सन्निधिर्भवेत् | सर्वात्मा सर्वगो देवो मण्डलाधारधिष्टितः | शालग्रामेमणौ यंत्रे मण्डले प्रतिमासु च | नित्यं पूजा हरेः कार्यया न तु केवल भूतले | पृ० २७अ) गण्डक्याश्चैक देशे च शालग्रामस्थलं महत् | पाषाणं तद्भवं यत्तत् शालग्राममिति स्मृतं | शालग्रामशिलास्पर्शात् कोटिजन्मा च नाशनं | किं पुनर्यजनं तत्र हरेः सान्निध्यकारकां | शालग्रामैक यजनाच्छत लिंग फलं लभेत् | बहुभिर्ज्जन्मभिः पुण्यैर्यदि कृष्णशिलां लभेत् | गीष्पदेन च चिह्नेन तेन समाप्यते जनुः | कामक्रोधादिदोषोस्य सर्वदुःख निपंवणात् | एवं मित्याहुरे तस्मिन् देवः प्रीणाति पूजितः | पद्ममष्टपलांशं च चतुरस्रं सुलक्षणं | चतुर्द्वारसमायुक्तं कामगर्वित कर्णिकं | सामान्ययंत्रमुद्दिष्टमष्टादशाक्षरं श्रणु | चतुरस्रं चतुर्द्वारं पद्ममष्टदलान्वितं | षट्कोणमध्ये कामाख्यं सप्तदशार्णवेष्टितं | षडक्षरं मनुवरं षट्कोणे विलिखेत्ततः | एतद्यंत्रं महाभाग कृपया कथितं तव | अस्य विज्ञानमात्रेण कृष्णात्मा साधको भवेत् | अखण्डमण्डलाकारं व्याप्त विश्यं विजृम्भते | सर्वदेवमयं येन तेन मण्डलमुच्यते | प्रतिमा कृष्णदेवस्य यत्नतः कारयेत् सुधीः | शिल्पिना कृष्णा भक्तेन विश्वकर्म्मो क्रजानतो | दशपंचांगुला मुख्या मध्यमा द्वादशांगुला | अष्टांगुलाधमासा तु न्युनाधिक्यं न कारयेत् | अज्ञानेनापि मोहेन यदि कुर्ययान्नराधमः | प्रतिष्टा विफला तस्य पूजनात्न फलं भवेत् | मानांगुल विहीना सा प्रतिमा यत्र तिष्ठति | राजानं पीड़यत्येव गृहस्थो नरकं व्रजेत् | मानांगुलेन सा कार्यया नान्यथामुनिसत्तम | पृ० २७ब) काश्मरी ज्ञानदा प्रोक्ता स्वर्णजापि च मुक्तिदा | सम्पत्ति दातु शिलजा राजती बहुमुक्तिदा | तेजोजादारुजायाचरैक्तिकी शत्रुनाशिनी | ताम्री धर्म्मविवृद्धिं च करोति बहुसौख्यदा | मृदेव मृण्मयी प्रोक्तां प्रतिमा शुभलक्षणा | भोगदा मोक्षदा सानु प्रतिमा कथिता तव | लंप्या सेख्या द्विधा सापि प्रतिमा परिकीर्त्तिता | पर्वताग्रे नदीतीरे चत्वरे गोष्टभूमिषु | समुद्रकुलेऽन्यो वा मानहीनान्न दूषणं | कृष्ण प्रतिकृतिं कुर्ययादिव्यां पंशस्वचिह्नतां | तां तु संस्थापयेन्मंत्री गृहे वा गोष्टमध्यतः | समाहितस्ततो मंत्री पूजयेदुपचारकैः | षोडशोपचारमंत्रेण यमनाख्येन सिद्धये | यस्य दर्शनमिच्छंति देवा ब्रह्महरादयः | कृपया देवदेवेशमदग्रे सन्निधी भव | उच्चते परमेशान स्वागतं स्वर्गतं भवेत् | कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं तु ने | यदागतोऽसि देवेश चिदानन्द मयाव्यय | आज्ञाना द्वा प्रमादाद्वानैकः स्यात् साधकस्य च | यदपूर्णं भवेत् कृत्यं तथाप्यभिमुखो भव | पाद्यं श्यामाक दूर्वार्क विष्णुक्रांताभिरिष्यते | यद्भक्तिर्लेस सम्पर्कात् परमानन्द संप्लवः | तस्य ते परमेशान पाद्यं शुद्धाय कल्पते | जातीलवंगकक्कोलैर्दद्यादाचमनीयकं | स्वधा मंत्रेण मतिमाम् स्मृत्वा वै दक्षिणकरं | वेदानामपि वेदाय देवानां देवतात्मने | अत्वामं कल्पषामीश शुद्धानां शुद्धिहेतवे | गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपान् | दुर्वाभिर्द्देव शिरसि शिरोमस्रेण चार्पयेत् | पृ० २८अ) एतदर्घ्यमिदं प्रोक्तं तुष्टये शार्ङ्ग धन्वनः | तापत्रय हरं दिव्यं परमानन्दलक्षणं | तापत्रय विमोक्षाय तवार्घ्यं कल्पयाम्यहं | घृतदधिमधुभिश्च मधुपर्कं स्वधान्वुना | सर्वकल्मषहीनाय परिपूर्णं स्वधात्मकं | मधुपर्कमिमं देव कल्पयामि प्रसीद मे | मुखे च त्वमनं दद्यात् केवलेन जलेन च | उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरण मात्रतः | शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकं | चन्द्र चन्दन काश्मीर जलैः स्नानं विधीयते | परमानन्दबोधाब्धि निमग्न निजमूर्त्तये | सांगोयांगमिदं स्नानं कल्पयाम्यहमीशाते | पीताम्बरयुगं दद्याद् यथाशक्या परिष्कृतं | मायाचित्रपटाछत्र निजगुह्योका तेजसे | निरावरण विज्ञान वासस्ते कल्पयाम्यहं | उत्तरीयं ततोद्याद्वासोऽर्द्धं नियमान्वितं | यमाश्रित्य महामाया जगत् सन्मोहनी सदा | तस्मैते परमेशाय कल्पयामुरत्तरीयकं | यज्ञसूत्रं ततो दद्यादथवा स्वर्णनिर्म्मितं | यस्य शक्ति त्रयेणेदं संप्रोतमखिनं जगत् | यज्ञसूत्राय तस्मैते यज्ञसूत्रं प्रकल्पयेत् | हाराद्या भरणं दद्यात् सुवर्णाश्म समन्वितं | स्वभाव सुन्दरांगाय सत्या सत्याश्रयायते | भूषणानि विचित्राणि कल्पयाम्यमरार्च्चित | अर्घ्योक्षितजलं दद्यादुपचारांतरांतरे | समस्त देवदेवेश सर्वदृष्टिकरं परं | अखण्डानन्द संपूर्ण गृहाणजलमुत्तमं | चन्दनागुरुकर्पूरमिश्रो गन्ध इहोच्यते | सर्वांगं लेपयेत्तेन तापत्रय प्रशांतये | परमानन्द सौरभ्य परिपूर्ण दिगंतरं | पृ० २८ब) गृहाण परमं गन्धं कृपया परमेश्वरं | पंचपुष्पांजलीन् दद्यात् पूर्वोक्ते नैव वर्त्मना | तान्यन्यान्यपि च योग्यानि पुष्पाणि वैष्णवे मनौ | कमले करवीरे द्वे तुलस्यौ जाति केतकी | कह्लारचम्पकोत्पल कुन्दमन्दारनागकेशर पावंती | नद्यावर्त्तन्तु माल्लिकायुथी नवमालिका सौगन्धिकं च कोरकं कोरण्डा लोकसर्ज्जन बिल्वार्जुन मुनिपत्रकं | पत्रं चामलकं शुद्धं कर्णिकारं तथा शुभं | पलाशादि यथा लाभं गोविन्दाय समर्पयेत् | मलिनं भूमि संसृष्टं क्रिमिकेशादि दूषितं | पर्ययुषितानि पुष्पाणि वर्ज्जयेद्देवतार्च्चने | तिष्ठेद्दिनत्रयं शुद्धं पद्ममामलकं तथा | तुलसी सर्वथा शुद्धा तथा बिल्वदलानि च | दिनैकं करवीराणि योग्यानि च तपोधन | तुरीय गुणसम्पन्नं नानागुण मनोहरं | आनन्द सौरभं पुष्पं गृह्यतामिदमुत्तमं | मंत्रसंपुटितां न्यस्य मातृकां देव वर्ष्मणि | तत्तन्न्यासस्थले तां स्तान् गन्धपुष्पाक्षतैर्यजेत् | पंचात्मिकायां दीक्षायां गणेशादि क्रमाद् यजेत् | यदा मध्ये तु गोविन्दं नैरृत्यां गणनायकं | आग्नेययां हं समभ्यर्च्च्य ऐशान्यां शिवमर्च्चयेत् | वायव्यामर्च्चयेद्देवीं भोग मोक्ष फलाप्तये | गन्धादिभिरथाभ्यर्च्च्य षडंगस्यार्च्च्यनं ततः | शक्तौ तत्तद्रस्मि सर्वमन्यथा केवलं यजेत् | विंशत् कृत्तो जपेन्मंत्रं नमस्कृत्य समापयेत् | तत्तदंगे षडंगानि वक्ष्यमाणेन वा जपेत् | आग्नेययां शिवकोणे च (च) राक्षसे वायुकोणके | पृ० २९अ) मध्ये दिक्षु च पूर्वादि अंगषट्कं समर्च्चयेत् | हारस्फाटिक कालांजन मुक्ता वह्निरोचिषां ललना | अभयवरोघतहस्तां प्रधानतोऽङ्गदेवताः कर्थिताः | एवमभ्यर्च्य मतिमान् देहेतद्भेदतो यजेत् | मुखस्थं वेणुयंत्रं यत् पूजयेत् सुसमाहितः | वर्णव नम इत्यस्य मंत्रोऽयं समुरीरितः | कौस्तुभं हृदये रत्नं सूर्ययायुत समप्रभं | कौस्तुभाय नम इति तस्य मंत्र उदीरितः | तदधो वनमालां च चन्द्रायुत सम * भं | प्रणवं पूर्वमुच्चार्यय वनमालायै नतिं वदेत् | वनमाला मनुः प्रोक्तः सर्वपापौघनाशनः | कौस्तुभोर्द्धे च श्रीवत्सं चन्द्रायुत समप्रभं | श्रीवत्साय नम इति मनुस्तस्य महर्षिभिः | सहस्रसूर्ययसंकाशे कर्णे मकर कुण्डले | मकरकुण्डलाय नम इत्यस्य मनुरीरितः | किरीटं मस्तये दीप्तं सूर्ययायुत समप्रभं | सूर्यायुतसमाभास किरीटाय नमो वदेत् | प्रणवादिरयं प्रोक्तः किरीटस्य महर्षिभिः | पूर्वादिदिशमारभ्य प्रादक्षिण्य क्रमाद् यजेत् | दामसुदामवसुदाम किंकिणी गन्धपुष्पकैः | अंतःकरणरूपास्ते कृष्णस्य परिकीर्त्तिताः | आत्मा भेदेन ते पूज्या यथा कृष्णस्तथैव ते | प्रणवादि नमोऽस्तैश्च मंत्रैस्तान् परिपूजयेत् | नवांगमुक्तं देवस्य भोगांगं शृणु गौतम | प्रष्टौ महिष्यो देवस्य पुर आदिं प्रपूजयेत् | प्रदक्षिण क्रमेणैव रुक्मिण्याद्याष्णुता मताः | रुक्मिणी सत्यभामा च लक्षणा च सुलक्षणा | पृ० २९ब) कालिन्दी ऋक्षजानग्नाजित्याख्या च सुनन्दका | द्रुतहेम समप्रख्या रुक्मिणीरूद्धयौवना | सितवस्त्रपरीधाना सर्वाभरणभूषिता | देवस्य वदनाम्भोज मिलिताक्षि मधुव्रता | वराभय करोपोता भक्ताय मुक्तये सतां | इयं लक्ष्मीः पराशक्तिर्विश्वानुग्रहरूपिणी | कलाय कुसुम श्यामा सर्वाभरणभूषिता | पीताम्बर वृहच्छ्रीणी सत्याख्या धरणि स्मृता | रत्नपूरकरा वामे दक्षिणे च वरप्रदा | अन्याश्च गौराः श्यामाभाः क्रमेण परीकीर्त्तिताः | पीताम्बर परीधाना देवार्पित मनोमुखाः | तद्बहिर्वसुदेवं च यशोदां देवकीं पुनः | वसुदेवो हेमगौरो वराभय करस्थितः | देवकी श्याम सुभाग सर्वाभरण शोभना | सितवस्त्र युगान्या च सर्वेप्सित फलप्रदा | यशोदा हेमशंकासा सितवस्त्र युगप्रदा | सर्वाभरण सन्दीप्ता कुण्डलोद्भासितानना | रोहिणीं च यजेत्तत्र नन्दं गौरं समर्च्चयेत् | वरदाभयसंयुक्तं समस्तपुरुषार्थदं | बलदेवं तथा चैव पूजयेत् कुन्दसन्निभं | हालालोलं कुण्डलिलं हेमवंतं स्मरेत्तथा | ततो यजेत् सुभद्रां च श्यामलं रूढ यौवनां | तद्वहिर्वष्णयः सर्वे गोपं गोपी शमर्च्चयेत् | इन्द्रनील मुकुन्दाद्यान् तद्वहिः परिपूजयेत् | इन्द्रनीलं मुकुन्द च तथा चानन्द कच्छपौ | पुष्करं शंख पद्मौ च निधायाष्टौ प्रकीर्तिताः | तद्बहिः कल्पवृक्षांश्च इन्द्रादींस्तद्बहिर्यजेत् | इन्द्रमैरावतारूढ़ं श्यामं वज्रधरं तथा | साधिपं सपरिवारं च तद्बहिः परिपूजयेत् | पृ० ३०अ) अग्निं हेमसमाभासं शक्तितोमरधारिणां | मेषारूढं शक्तियुक्तं तेजसां पतिमर्च्चयेत् | दक्षिणे पितृदेवं च महिषोपरि संस्थितं | यजेद्दण्डधरं चैव यमं पित्रधि दैवतं | राक्षसाधिपतिं तद्वन्नैरृत्यां खड्गधारिणं | तुरगावस्थितं देवं परिवारैः समर्च्चयेत् | पाश्चात्ये वरुणं शुक्लं मकरारूढ़मुज्जलं | अपां पतिं पाशधरं परिवारै समर्च्चयेत् | वायव्यां वायुदेवं च प्राणाधिप समाह्वयं | दक्षहस्तांकुशमेण चाहनं परिपूजयेत् | शरदिन्दु समाभासं कृपया शशलांछनं | सोमं सोमदिगधीशं नरारूढं समर्च्चयेत् | ईशानं वृषभारूढं चन्द्रायुत समप्रभं | रुद्राधिपं शूलहस्तं गन्धमुख्यैः प्रपूजयेत् | इन्द्रेशान मध्यदेशे ब्रह्माणं हंसवाहनं | हेमगौरं चतुर्वक्तुं पद्महस्तं समर्च्चयेत् | रक्षो वरुणयोर्म्मध्ये विष्णुं चक्रधरं यजेत् | नागाधिपं सुपर्णस्थं विष्णोः पारिषदान् यजेत् | वज्रादीनायुधान् भद्रान् तेषां च वहिरर्च्चयेत् | यथा सिन्धु समुद्भुतां तरंगा भिन्नतां युयुः | तथा कृष्ण समुद्भुता एते तदायतां ययुः | तद्ध्यानेन च त ह्येयं साधकेन शुभं युना | एवं सप्तावृत्तिमयं देशिकः कृष्णमर्च्चयेत् | धर्म्मार्थकाममोक्षाश्च करे तस्य सुनिश्चितं | अथवांग दिक्पतिभिस्तदस्त्रैरपि चार्च्चयेत् | एवं वा स्वर्च्चयत् कृष्णं काममुक्त्योः सभाजनं | य एतद् यजनाशक्तः कृष्णाष्टकेन पूजयेत् | श्रीकृष्णो वासुदेवश्च नारायण समाह्वयः | देवकीनन्दनः श्रेष्टो वार्ष्णोयस्तदनंतरं | असुरांतक भारहारी धर्म्मसंस्थापकः स्मृतः | अयं वा पूजयन् कृष्णां यथा वित्तानुसारतः | इह भुक्तावरान् भोगानंते तु हरितां व्रजेत् | पृ० ३०ब) अगुरूशीरगुग्गुलसिताज्य मधू चन्दनैः | सारज्ञौ वैरि निक्षिप्तैर्नासाध्यो मधुमर्पयेत् | वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः | आघ्नैयः सर्वदेवानां धूपोऽयं प्रतिगृह्यतां | वर्त्त्या कर्पूर गर्भिण्या सर्पिषा तिलजेन वा | संस्थापयतु पात्रादौ सुदीप्तशिखया ततः | अध्योदकेन संस्कृत्य नन्दजाय निवेदयेत् | उत्तार्ययं दृष्टिपर्ययंतं घंटां वामदिशि स्थितां | वादयन् वामहस्तेन दक्षहस्तेन वापंयेत् | सुप्रकाशो महातेजाः सर्वत्रतिमिरापहः | सराह्याभ्यंतं ज्योतिर्दीपोऽयं प्रकाशो महातेजाः | सर्वत्र तिमिरापहः सराह्याभ्यंतं ज्योतिर्दीपोऽयं प्रतिगृह्यतां | स्वर्णे वा ताम्रपात्रे वा रौप्ये वा पंकजे दले | शितोपदंशशाल्पत्रं सगुड़ं मधुना युतं | दधिदुग्धघृतोपेतं कदल्पादि फलान्वितं | आनीय देव पुरतः पं बीजेन विनिक्षिपेत् | अस्त्रमंत्रेण विधिवद्धेनुमुद्रां प्रदर्शयेत् | चन्द्रबीजं चाम्बुसंस्थं चतुर्द्दशस्वरान्वितं | नादबिन्दुसमायुक्तं बीजं तदमृतात्मकं | परायेति च संप्रोच्य अनिरुद्धं वदेत् पुनः | नैवेद्यं च तथेत्युक्ता कल्पयामि नमो वदेत् | प्रोक्तो नैवेद्य मंत्रोऽयं अनेन च निवेदयेत् | अमृतोपस्तरणमसि स्वाहेति जलमर्पयेत् | अन्वाहार्ययाय प्राणाय स्वाहेति प्रथमाहुतिः | अंगुष्ठानामिकामध्या प्राणाख्या मुदिका मता | आहवनीयाय अपनाय स्वहेति च द्वितीयिका | कनिष्टांगुष्ठनामा च मुद्रा तत् परिकीर्त्तिता | गार्हपत्याय व्यानाय स्वाहेति तृतीयाहुतिः | पृ० ३१अ) तर्ज्जन्यंगुष्टमध्याभिस्तन्मुद्रा परिकीर्त्तिता | सत्याय च उदानाय स्वाहया च चतुर्थिका | मध्यमानामिकांगुष्ट चतुर्थी च कनिष्ठिका | आवसत्याय समानाय स्वाहा च पंचमी तथा | सर्वाभिरंगुलीभिस्तु तन्मुद्रा परिकीर्तिता | प्रणवाद्यैरेभिरेव देववक्त्रे हुनेद् गुरुः | ओं निवेदयामि भवते गृहाणेदं हरिर्हरे | निवेद्यार्पण मंत्रोऽयं सपर्यया सुप्रकीर्त्तितः | क्षणं विमृष्य मतिमान् दद्याद् गण्डूषकं ततः | अमृतोपस्तरणमसि स्वाहेति जलमर्पयेत् | विश्वकसेनाय वै दद्याच्छेषं नैवेद्यमुत्तमं | उच्छिष्ट भोजिनो ह्येते एतेषामवधारय | शिवे चण्डेश्वरायेति विष्णौ विश्वक्सेनाय च | शक्त्युच्छिष्टं शोषकायै दद्यादर्च्चन सिद्धयो | अन्यथा नैव सिद्धिः स्यादर्च्चको नरकं ब्रजेत् | नैवेद्य जातमुद्धृत्य स्थानशुद्धिं विधाय च | आचमनीय जलं दद्याद्दंतशोधनमेव च | हस्तलेपं ततो दत्त्वा पुनः पानीयमर्पयेत् | सूक्ष्मवस्त्रद्वयं दत्त्वा दद्याच्च स्वर्णपादुके | पूजा स्थानं समानीय बहुमालां तथार्पयेत् | दिव्यगन्धं ततो दद्यात्ताम्बूलं शशि संयुतं | स्तोत्रैः स्तुत्वा च विधिवत् कृत्वा प्रदक्षिणं हरिं | वेद विद्भ्यो धनं दत्त्वा यत्फलं लभते नरः | तत्फलं लभते भक्त्या कृत्वा कृष्ण प्रदक्षिणं | सप्तद्वीपां धरा दत्त्वा वेद विद्भ्यो महामुने | तत्फलं लभते भक्त्या कृत्वा कृष्णा प्रदक्षिणं | पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दूशा | वचसा मनसा चेति प्रणामोऽष्टांग ईरितः | भूमौ निपत्ययः कुर्ययात् कृष्णेऽष्टांगनतिः सुधीः | पृ० ३१ब) सहस्रजन्मजंपापं त्यक्ता वैकुंठमाप्नुयात् | नवीन नीरद श्यामं नीलेन्दीवरलोचनं | वल्लरी नन्दनं वन्दे कृष्णं गोपालरूपिणं | स्फुरद्वर्हदलोद्वद्वनीलकुंचितमूर्द्धजं | कदम्बकुसुमोद्वद्ववनमालाविभूषितं | गण्डमण्डलसंसर्गि चलत् कांचन कुण्डलं | स्थूल मुक्ताफलोदार हारोद्व्योतित वक्षसं | हेमांगद तुला कोटि किरीटोज्जवल विग्रहं | मन्दमारुत संक्षोभवलगिताम्बर संचयं | रुचिरौष्ठ पुट न्यस्त वंशी मधुर निस्वनैः | ललदेगापालिका चेतो मोहयंतं मुहुर्म्मुहुः | वल्लरी वदनाम्भोज मधुपान मधुव्रतं | क्षोभयंतं मनस्तासां सस्मेरापांग वीक्षणैः | यौवनीद्भिन्नदेहाभिः संसक्राभिः परस्परं | विचित्राम्बरभूषाभिर्गोपनारीभिरावृतं | प्रभिन्नांजन कालिन्दी जलकेलिकलोत्सुकं | योधयन्नं क्वचिद् गोपान् व्याहयंतं गवां गणं | कालिन्दीजलसंसर्गि शीतला निलकम्पिते | कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् | रत्नभूधरसंलग्न रत्नासन परिग्रहं | कल्पपादपमध्यस्थ हेममण्डपिका गतं | वसंतकुसुमामोद सुरभीकृत दिंमुखे | गोवर्द्धन गिरौ रम्ये स्थितं वासरसोतसुकं | सव्यहस्ततलन्यस्त गिरिवर्ययातपत्रयं | खण्डिता खण्डलोन्मुक्त मुक्तासार घनाघनं | वेणुवाद्य महील्लास कृत हुंकार निस्वनैः | स वत्सैरुन्मुखैः शश्वदे गोपालैरभिवीक्षितं | पृ० ३२अ) कृष्णमेवानुगायद्भिस्तच्चेष्टा च शवर्त्तिभिः | दण्डपाशोद्यत करैर्गोपालैरुपशोभितं | नारदाद्मैर्म्मुनिवरैर्वेदवेदांगपरिगैः | प्रीति सुस्निग्धया वाचा स्तूयमानं परात्परं | य एवं चिंतयेद्देवं भक्त्या संस्तौति मानवः | त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितं | राजवल्लभतामेति भवेत् सर्वजन प्रियः | अचलां श्रियमाप्नोति सवाग्मी जायते ध्रुवं | अथ मुद्रां प्रदर्श्याथ अग्निसंस्कारमाचरेत् | मोदनात् सर्वदेवां द्रावणात् पापसंततेः | मुद्रास्ताः कथिताः सद्भिर्देवसान्निध्यदायिकाः | गौतम उवाच भगवन्मे त्वया मुद्राः सूचिता न प्रकाशिताः | कथं विरचनं तासां कारुण्याद् ब्रुहि मे गुरौ | नारद उवाच कनिष्ठांगुष्ठकौ शक्तौ करयोरितरे तवं | तर्ज्जनीमध्यमानामाः संहताभुग्नवर्जिताः | मुद्रैषा गालिनी प्रोक्ता शस्ता गोपाल पूजने | वनमालाभिनयवत् कराभ्यामागलादधः | जानुपर्ययंतमित्येषा मुद्रा स्याद्वनमालिका | ओष्ठे वामकरांगुष्टौ लग्नस्तस्य कनिष्टिका | दक्षिणांगुष्टसंयुक्ता तत् कनिष्ठा प्रसारिता | तर्ज्जनीमध्यमानामाः किंचित् संकोच्य चालिताः | वेणुमुद्रेह कथिता सुगुप्ता प्रेयसी हरेः | अंगुलीः संहताः कृत्वा करयोर्वामदक्षयोः | वामनासासमायुक्ता दक्षपाणि कनिष्ठिका | दक्षस्य मध्यमाक्रांता वामहस्तस्य तर्जनी | वाममध्यमयाक्रांता दक्षहस्तस्य तर्ज्जनी | संयुतौ कारयेद्विद्वानंगुष्ठावुभयोरपि | धेनुमुद्रानिगदिता गोपिता साधकोत्तमैः | करौ संपुटितौ कृत्वा वामपाणि कनिष्ठिका | पृ० ३२ब) निष्पीड्य दक्षपाणिस्थ दक्षिणांगुलिभिर्दृढं | तथा वामांगुलिभवैरति गाढं निपीडयेत् | इतीयं बिल्वमुंद्रा स्यात् प्रशस्ता कृष्ण पूजने | कायेन मनसा वाचा बुद्ध्या बुद्ध्या च यत् कृतं | इह जन्माने पूर्वस्मिन् अथवा पापसंचयं | इमां जानन् योजनं तन्मुंचत्याशु न संशयः | देवाः सर्वे नमस्यंति प्रणम्यंति तथा जनाः | काममुच्चार्यय विधिवन्निक्षिपेद्धृदयोपरि | कृत्वेतरं करं वामे कृत्वा सम्यक् समांगुलीः | अन्योन्य पृष्ठ करयौर्म्मध्यमानामिकांगुलीः | वामकनिष्टया दक्षकनिष्ठां च निपीड्य च | वामानामिकया दक्ष तर्जनीं च निपीडयेत् | वामांगुलत्रयोपरि कुर्ययाद्दक्षिणहस्तांगुलित्रयं | एकत्रयोजितं कृत्वा मुद्रा स्यात् कौस्तुभात्मिका | दक्षिणे मणिबन्धे च वामांगुष्ठं नियोजयेत् | मुद्रेये कौस्तुभाख्योक्ता दर्शनीया प्रयत्नतः | कृत्वेतरं करं वामे कृत्वा सम्यक् समांगुलीः | तर्जन्युपरि वामं च न्यसेत् करतलं ततः | अंगुष्ठौ चालनीयौ च मत्स्यमुद्रै च मीरिता | करौ संपुटितौ कृत्वा मणिबन्धौ सुयोजितौ | अंगुष्ठे च कनिष्ठे च प्रविधाय सुयोजिते | शेषा अंगुलयः सर्वा उभयोर्वाम भंगुरः | परस्परमसंलग्ना शून्यमध्ये च कारयेत् | उक्ता कलसमुद्रेयं गोपालार्च्चा विधौ शुभा | कृत्वेतरे करतले अंतरांजलि संयुते | अन्योन्यमतिसंलग्ने अंगुष्ठान्तरमाहिते | कथिता कूर्म्ममुद्रेयं सर्वतंत्रेषु गोपिता | आकुंचितं ततः कृत्वा वामांगुलि चतुष्टयं | पृ० ३३अ) प्रसार्यय च तदंगुष्ठं दक्षहस्तेन वेष्टयेत् | प्रसार्यय तर्जनीं दक्षां तदंगुष्ठं च मंत्रवित् | शंखमुद्रेय मुद्रिता दर्शनात् पापनाशिनी || इति गौतमीये महातंत्रे दशमोऽध्यायः || १० || अथाग्निजननं कृष्ण इह मंत्रानुसारतः | धर्म्मार्थ काम मोक्षाणां यत् कृत्वा फलमश्नुते | गोमयांतः समालिप्य कुण्डं सर्वत्र मंत्रवित् | सामान्यार्घ्यं प्रकल्प्याथ पंचगव्येन सेचयेत् | त्रिकोणं तद्बहिः षट्कोणं च पद्मं प्रकल्पयेत् | चतुरस्रं चतुर्द्वारमेवं वा वह्निमण्डलं | कुण्डस्योत्तरभागे च त्रिरेखां हस्तमात्रकं | दक्षिणोत्तरतस्तद्वत् कुर्ययाद्रेखात्रयं शुभं | अर्घ्याद्भिः प्रोक्ष्य सर्वं हि पंचशुद्धिं समाचरेत् | वीक्षणं मूलमंत्रेण कवचेनाथ लेपयेत् | अस्त्रेण रक्षितं कृत्वा वह्नेः संस्कारमाचरेत् | पाषाण भवमग्निं च अथवा योनि सम्भवः | श्रोत्रियाणां गृहोत्थं वा वनस्थं चाथवा हरेत् | यदृच्छालाभ संप्राप्तो योग्योऽयं होम कर्म्मणि | निरग्नि ब्राह्मणाल्लध्वो ह्यर्थ लाभकरो भवेत् | क्षत्त्रबन्धश्चतुर्थांश फलं दद्याद्धुताशनः | वैश्यात् शूद्राच्च विफलं जायते होमकर्म्मणि | तस्मात् सर्वप्रयत्नेन वह्नि मुक्तं समाहरेत् | आनीय कांश्यपात्रस्थं क्रव्यादांशं परित्यजेत् | क्रव्यादेभ्यो नमस्कृत्य प्रणवाद्यो मनुर्भवेत् | रेखाणामुद्गग्राणां ब्रह्मवैवस्वतेन्दवः | प्रागग्राणां च रेखाणां मुकुन्देश पुरन्दराः | ततो वह्नेर्योगपीठमर्च्चयेत् कर्णिकोपरि | धर्म्मं ज्ञानं च वैराग्यमैश्वर्ययमादितो यजेत् | पूर्वादि दिक्षु चा पूर्वान् तथा धर्म्मादिकान् यजेत् | पृ० ३३ब) मध्ये च पूजयेद्वहेर्न प्रशक्तीर्विधानवित् | पीता श्वेतारुणा कृष्णा धूम्रा तीव्रा स्फुलिंगिनी | रुचिरा ज्वालिनी प्रोक्ता कृशानोर्णवशक्तयः | अमर्कमण्डलं पूज्यं उं सोममण्डलं यजेत् | मं वह्निमण्डलं तद्वदर्च्चयेद् गन्धपुष्पकैः | वागीश्वरी मृत्युस्नातां नीलेन्दीवर सन्निभां | वागीश्वरेण सहितामुपचारैः प्रपूजयेत् | शक्तिप्रण च बीजाभ्यां तयोरर्च्चनमीरितं | वागीश्वरी मृतुमतीं पुरुषाधिष्ठितां स्मरेत् | वह्निं संस्कृत्य पात्रस्थं रं बीजेन तु मंत्रयेत् | चैतन्यं प्रणवेणैव योजयन तं प्रपूजयेत् | आत्मनोऽभिमुखे वह्निं जानु पृष्ठ महीतलः | शिव बीजधिया देव्या योनावेनं विनिक्षिपेत् | ततो देवाय देव्यै च दद्यादाचमनीयकं | गर्भनाड्याधृतं ध्यायेद्वह्निरूपं परंगुरुः | पश्चादगर्भस्य रक्षार्थं प्रदद्यार्द्दर्भकं कणं | भूषाभिभूषयोद्दवीं त्रैलोक्योत्पत्ति मातृकां | रेफवायुषदस्वरैश्च नादबिन्दु विभूषिताः | सादिषांताश्च जिह्वानां मनवः परिकीर्त्तिताः | पायौ लिंगे तथा नाभौ हृदये कंठमूलतः | लम्बिकायां भ्रुवोर्म्मध्ये जिह्वा ज्वाला रुचौ न्यसेत् | हिरण्या कनका रक्ता कृष्णाख्या सुप्रभा मता | बहुरुपाति रक्ता च जिह्वाक्वपीटयोनिनः | सहस्रार्च्चिः स्वस्ति पूर्ण उत्थितः पुरुषस्तथा | धूमव्यापि सप्तजिह्वो धनुर्धर इति स्मृतः | षडंगमंत्रा वह्नेश्च प्रणवाद्या नमोऽन्तकाः | हृदयादि क्रमेणैव न्यस्तव्या अंगदेवताः | भूर्द्धिण् स्कन्धे तथा पार्श्वे कट्यां तु कटिपार्श्वके | पृ० ३४अ) स्कन्धे मूद्धिण् च विन्यस्य प्रादक्षिण्य क्रमेण तु | जातवेदाः सप्तजिह्वो हव्यवाहनसंज्ञकः | अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः | कौमार तेजा विश्वामुखोऽन्ते देवमुखस्तथा | एवं विन्यस्त देहः सन् ज्वालयेन्मनुनामुना | चित्पिंगलस्तद्वयं दह द्वयं तथापि च | सर्वज्ञो ज्ञापय स्वाहा मंत्रोयं समुदाहृतः | अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनं | सुवर्णवर्णममलं समृद्धं सर्वतोमुखं | समिद्धेन च मंत्रेण त्रिभिर्म्मंत्रैर्हुताशनं | ज्वालयेन्मतिमान्मंत्री अन्यथा विफलं भवेत् | दर्भैरगर्भैः शुद्धैश्च मूल मध्याग्रछादितैः | संस्तरेद्विधिवन्मंत्री प्रदक्षिण वशादथ | एवं संस्तरणं कुर्ययाद्वर्जयित्वान्मनो दिशं | यज्ञवृक्षोद्भवैस्तद्वत् काष्ठैश्च परिधि त्रयं | मध्यस्थ मेखलायां तु संस्तरेत्तंत्रवित्तमः | अथ चेत् स्थण्डिले मंत्री भूमौ सर्वं परिस्तरेत् | गन्धादिभिः समभ्यर्च्च्य वह्निदेवं विभावयेत् | त्रिनयनमरुणाभं वद्धमौलिं शुक्लाम्बूजां | शुकमरुणमणिका कल्पमम्भोसंस्थं अभिमतवशक्ति स्वस्तिका भीतिमुच्चैर्म्मरकत कमलमालालंकृतां शंकृशानुं | सुवर्णवर्णममलं लसत् स्वर्णे पवीतकं | चतुर्भुजं द्वि शिरसं हव्यकव्य द्विनासिकं | कमण्डलु तालवृंत शक्ति स्वस्तिक धारिणं | चतुःश्रोत्रं शब्दायमानमुत्तमं | एवं वा मनसा ध्यायेच्छात्तिकादौ गुरुत्तमः | कृष्णं कृष्णं गतेर्व्वर्णं ध्यायेन्मारणकर्म्मणि | मूर्त्तिरष्टौ सम्मुभ्यर्च्च्य षट्कोणे तु षडंगकं | मध्ये जिह्वां यजैष्वह्नेर्वह्निं तन्मंनुना यजेत् | पृ० ३४ब) वैश्वानरपदं पूर्वं जातवेदमनंतरं | लोहिताक्षं ततश्चोक्ता इहावह ततः परं | सर्वकर्म्मशि देहि मे स्वाहा मनुः समृद्धिदः | आन्यस्थालीं समानीय क्षालयेदस्तुमुच्चरन् | कुण्ठेऽड्गगरान् समुत्तौल्य न्यसेत्तत्रांग मंत्रतः | तस्या माज्यं विनिक्षिप्य जानीयात्तापनं हितं | प्रज्वाल्य कुश गुच्छं तु आज्ये क्षिप्त्वानले क्षिपेत् | अभिद्योतनमित्युक्तं सर्वत्र सर्वकर्म्मसु | पुनः कुशान् समुज्ज्वाल्य निक्षिपे दाह्य मध्यनः | मूलमंत्रेण मतिमानाज्य संस्कार ईरितः | अभिमंत्र्य च मूलेन रक्षयेदस्रमुच्चरन् | प्रदर्श्य वेनुयोनी च आज्यं तदमृतात्मकं | सुक्स्रुवौ च समादाय विधिना निर्म्मितो गुरुः | त्रिशः प्रतापयेद्वह्नौ पुनः प्रक्षाल्य वारिणा | पुनः प्रतप्यतौ मंत्री स्थापयेत्तौ स्वदक्षिणे | प्रादेशमात्रं सग्रस्थि दर्भयुल्मं घृते क्षिपेत् | कृत्वा भागौ शुक्ल कृष्ण पाक्षौ स्मृत्वा तु नाड़इकाः | वामदक्षमाध्यभागेष्वीडाद्याः संस्मरेत्ततः | श्रुवेण दक्षिणाद्भागादग्रये स्वाहयामुना | जुहुयाद घृतमादाय वह्नेर्द्दक्षिणलोचने | वामतस्तद्वदादाय सोमाय स्वाहया ततः | मंत्रेणानेन जुहुयादग्नेर्वाम विलोचने | मध्यात्तद्वत् समादाय अर्ग्नर्भालस्थलोचने | जुहुयादग्निसोमाभ्यं स्वाहेति मनुनामुना | हृन्मंत्रेण श्रुवेणाज्य भागादादाय दक्षिणात् | जुहुयादग्नये सृष्टि कृते स्वाहेति तन्मुखे | इत्यग्नेर्नेत्र वक्त्राणां कुर्ययादुर्घ्घटनं गुरुः | पुनव्याहृतिभिर्हुत्वा जिह्वांगं मूर्त्तितो हुनेत् | वैश्वानरेण मंत्रेण त्रिवारं जुहुयाद् गुरुं | पृ० ३५अ) संस्कारार्थं ततो वह्नेर्हुनेत्र वनवाहुतीः | प्रणवाद्येन मतिमान् स्वाहांतेन तदुच्चरन् | गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा | जातकर्म्म तथा नाम उपनिष्क्रमणं तथा | चूड़ओपनयने भुयो वेदाध्यायनमेव च | गोदानं च विवाहं च संस्काराः शुभकर्म्मणि | अशुभे मरणांतांते प्रयुक्तास्तंत्रवेदिभिः | ततश्च पितरौ वह्नेः संपूज्य हृदयं नयेत् | वह्निमंत्रेण विधिवद्दद्याहुतिपंचकं | समिधः पंच जुहुयान्मलाग्र घृतसंप्लुताः | गुरुर्हृदयमंत्रेण विधिवत् स्वाहया विना | महागणेशमंत्रेण हुनेदेकादशाहुतीः | सामान्यं सर्वदेवानामेतदग्नि मुखं स्मृतं | बहुरूपायां च जिह्वायामावाह्य परमेश्वरं | गन्धादिभिः समभ्यर्च्च जुहुयात् षोड़शाहुतीः | मूलमंत्रेण विधिना वक्त्रैह्येकी? करणन्त्विदं | पुनस्तेनैव जुहुयादाहुतीः पंचविंशतिं | नाड़ईसन्धानमुद्दिष्टं वह्नि देवनयोरपि | अंगादि परिवाराणामेकैकामाहुतिं हुनेत् | पुनर्व्याहृतिभिर्हुत्वा होमं कुर्ययाद्यथाविधि | तिलेनाज्येन जुहुयात् सहस्रादि यथाविधि | अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते | जुहुयाद्रक्तपद्मं वा मधुरत्रयसंयुतं | पायसं मधुरोपेतं जुहुयाद्वा यथामतिः | आस्यान्तर्जुहुयाद्वह्नेः पण्डितः सर्वकर्म्मसु | बधिरत्वं कर्णहोमे नेत्रेत्वन्धत्वमाप्नुयात् | नासिकायां मनः पीड़आ शिरोहोमीहि मृत्युदः | यतः काष्ठं ततः श्रोत्रं यतो धूमोऽथ नासिका | यतोऽल्पज्वलनं नेत्रं यतो भस्म ततः शिवः | यतः प्रज्वलितो वह्निस्तन्मुखं जातवेदसः | पृ० ३५ब) एवं होमं समाप्याथ मतिमान् श्रपयेच्चरुं | पात्रे ताम्रमये शुद्धे दुग्धं न कापिलेन वै | शुद्धतण्डल संभूत प्रसृते विंशतिं क्षिपेत् | घृतधारां ततो दद्याद्यावत् स्विन्नो भवेच्चरुः | आवतार्यय ततो विद्वान् भागत्रयमथार्च्चयेत् | अथाचरेत् | भागमेकं समादाय नित्यहोमं समाचरेत् | कुण्डे वा स्थाण्डेले मंत्री स्थले वा शोधिते तथा | एकहस्तामिते देशे कुशपुष्पाम्बुसेन्विते | वह्नि तत्र समाधाय जातवेदो मनोर्ज्जपात् | मनुं जपेत् | व्याहृतिभिस्ततो हुत्वा कृष्णमावाह्य भक्तितः | गन्धादिभिः समभ्यर्च्च्य मूलेन पंचविशतिं | आहुतीर्जुहुयान्मंत्री षडंगहोममाचरेत् | नतांगश्च ततो भूत्वा नमस्कृत्य च मंत्रवित् | विसृजेद्विन्दुगे धाम्नि नित्यहोमोऽयमीरितः | स्वगृह्योक्र विधानेन बलि वैश्वमथाचरेत् | भागद्वयमथचरुं कृष्णाय विनिवेदयेत् | एक भागं स्वयं भुक्ता शिष्टं शिष्ये समर्पयेत् | शयीतः संयतः शिष्य कम्वलेपलालेवा कुशास्तरे | भूतेश्वरस्य मंत्रेण स्वाशिखां बन्धयेद गुरः | ततः शयीत तां रात्रिमधिवासोऽयमीरितः || इति गौतमीये एकादशोऽध्यायः || ११ || ततः प्रातः समुत्थाय कृत नित्यक्रियो गुरुः | कृतकृत्योऽपि शिष्यस्तु निषीदेद् गुरुसन्निधौ | कथयेद्रात्रि वृत्तांतं शुभं वा यदि वा शुभं | सुमंगलीतिर्नारीभिः सहसं भोजनं मिथः | गिरिशृंगारोहणं च हस्त्यश्वरथरोहणं | आरोहणं सौधगेहे देवोत्सवनिरीक्षणं | पृ० ३६अ) मंगलं च स्ववामांश दर्शनं स्पर्शनं तथा | मंत्रसिद्धस्य लिंगानि प्रोक्तानि तव सुव्रत | अनाकुलानि कथये शृणु निन्द्यानि सर्वतः | कृष्णवर्णैर्भटैः स्वप्ने प्रहारस्तैललेपनं | विप्राणां रोषवादे च परस्त्रीणां निषेवणं | सिद्धिविघ्नानि चोक्तानि अन्यानि निन्दितानि च | एवं दोषं समाज्ञाय क्षणात् परिहरेद गुरुः | होमं कुर्ययात् सहस्रादि द्रव्यैः कल्पोक्त दर्शितैः | सांगं सपरिवारं च हुत्वा बलिमथाचरेत् | मण्डलस्य बहिर्भागे लोकेशादि बलिं हरेत् | नक्षत्राणां सवाराणां सराशीनां यथाक्रमं | गन्धाद्यैः सम्यगभ्यर्च्च्य तत्रन्मंत्रैस्तु मंत्रवित् | शुद्धान्नेनत् दद्याद्बलिं गन्धपुष्प धूपदीपकमादरात् | ताराणामश्विन्यादीनां राशिः पादाधिक द्वयं | मेषादिमुक्ता नक्षत्र संज्ञा पूर्वमनंतरं | देवताभ्यः पदं प्रोक्ता दिवानक्तं वदेत्तथा | चरेभ्यश्वाथ सर्वेभ्यो भूतेभ्यश्च नमो वदेत् | एवं राशौ तु संपूर्णे तस्मिंस्तदवत् प्रयोजयेत् | तथा राश्यधिपानां च ग्रहाणां तत्र तत्र तु | मीन मेषांतराले तु करणानां बलिं वदेत् | मेषस्य वृश्चिकस्मारः शुक्रो वृष तुलाधिपः | बुधुवै कन्यका नाथश्चन्द्रश्च कर्कटाधिपः | सिंहराश्यधिपो भानुश्चाप मीनाधिपो गुरुः | मकरस्यापि कुम्भस्य मन्दोराश्यधिपा इमे | लां इन्द्रायेत्यादि विष्णुपारिषदमर्च्चयेत्तथा | दद्याद्बलिं दिगीशेभ्यो विधिनथ गुरुत्तमः | ओं आश्विनी देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः भरणी कृत्तिकापाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पृ० ३६ब) कृत्तिका त्रिपाद रोहिणी देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | कृत्तिका त्रिपाद रोहिणी देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | रोहिणी मृगशीर्ष पूर्वाषाढार्द्धदेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मृगशीर्षोत्तरार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | आर्द्रापुनर्वसुत्रिपाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पुनर्वसुपादपुष्प देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | अश्लेषा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मघा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पूर्वफल्गुण्यत्तराफल्गुणी पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | उत्तराफल्गुणी द्विपादहस्ता देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | हस्ताचित्रार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | हस्ताचित्रार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | चित्रोत्तरार्द्धस्वाती देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | स्वाती विशाखा त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | विशाखा पादानुराधा त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वदेवताभ्यो नमः | ज्येष्ठादि देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मूलादि देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पूर्वाषाढोत्तराषाढा पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पृ० ३७अ) उत्तराषाढ श्रवणा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | श्रवणा धनिष्ठार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | धनिष्ठार्द्ध शतभिषग् देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | शतभिषक् पूर्वभाद्रपद त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पूर्वभाद्रपदोत्तरभाद्रपद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | रेवती देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मेषाश्विनी भरणी कृत्तिका पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | वृषभ कृत्तिका त्रिपाद रोहिणी मृगशिरः पूर्वार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मिथुन मृगशिरार्द्रा पुनर्वसु त्रिपाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | कर्कट पुनर्वस्वेकपाद पुष्पाश्लेष देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | सिंहमघा पूर्वोत्तरापाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | कन्योत्तरा त्रिपाद हस्त चित्रार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | तुला चित्रोत्तरार्द्ध स्वाती विशाखा त्रिपाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | वृश्चिक विशाखा पादानुराधा ज्येष्टा देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | धनुर्मुल पूर्वाषाढोत्तराषाढ पाददेवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मकरोत्तराषाढ़ त्रिपाद श्रवणा धनिष्ठार्द्ध देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | पृ० ३७ब) कुम्भधनिष्ठोत्तरार्द्धशतभिषक् पूर्वभाद्रत्रिपाद देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | मीन पूर्वभाद्रपद उत्तरभाद्र रेवती देवताभ्यो दिवानक्तं चरीभ्यः सर्वभूतेभ्यो नमः | आवरणा देवताभ्यो नमः | शुक्र देवताभ्यो नमः | बुध देवताभ्यो नमः | चन्द्र देवताभ्यो नमः | आदित्य देवताभ्यो नमः | बृहस्पति देवताभ्यो नमः | शनैश्चर देवताभ्यो नमः | सिंह देवताभ्यो नमः | व्याघ्र देवताभ्यो नमः | वराह देवताभ्यो नमः | खर देवताभ्योः नमः | गज देवाताभ्यो नमः | वृषभ देवताभ्यो नमः | कुक्कुर देवताभ्यो नमः | हर देवता दुर्गा गुह विष्णु ब्रह्म लक्ष्मी धनाधिपा द्वारदेवता | इत्युक्ता तेभ्यो बलिं हरेद् गुरुः | इत्थं बलि विधिः प्रोक्तः सर्वविघ्नौघ नाशनः | गोपुच्छमधिकं त्यक्ता तृणैरास्तरणं भवेत् | जम्बीरं कलि वृक्षं च त्यक्ता चैधांसि कल्पयेत् | शुद्ध सिन्दूर बालार्क वर्णो वह्नेः सुशोभनः | भेरी वादित्र गम्भीर शब्दो वह्नेः शुभप्रदः | चन्द्र चन्द्रन कुन्दाभ धूमः सर्वार्थसिद्धिदः | खरवाय सवच्छन्दो वह्नेः सर्व विनाश कृत् | कृष्णः कृष्णातेर्वर्णो राज्यं चापि विनाशयेत् | पूर्णाहुतिं ततो दद्यात् सन्धिश्चैव विधानवित् | ओं भूरग्नये पृथिव्यै महते स्वाहया ततः | भूवो वायवे चांतरीक्षाय च दिवे च महते च स्वाहया ततः | स्वश्चन्द्रमसे दिग्भ्यश्च नक्षत्रेभ्यः स्वाहा | ओं भूर्भुवः स्वश्चन्द्रमसे नक्षत्रेभ्यश्च दिगभ्यश्च महते स्वाहा | स्रुक्स्रुवौ च समादाय | पृ० ३८अ) घृतेनापूर्ययतौ पुनः होमद्रव्याणि निक्षिप्य | नाभौ संस्थाप्यतौ पुनः | ब्रह्मार्पणं न मधुना दद्यात् | पूर्णाहुतिं पुनः | इतः पूर्वं प्राणबुद्धि देहधर्म्माधिकारतो जाग्रत्स्वप्न सुषुप्त्यवस्थासु च मनसा वाचा कर्म्मणा हस्ताभ्यां पद्भ्यां मुदरेण शिश्नायत् | स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा | ब्रह्मार्पण मनुः सोऽयं ब्रह्मार्पण विधौ स्मृतः || इति श्रीगौतमीये द्वादशोऽध्यायः || १२ || एवं होमविधिं कृत्वा कुण्डस्थण्डिल देवताः | दिक्पालदेवताश्चापि अंकुरार्पण दैवता आनयेत् | कलसे चापि कृष्णौक्यं भावयेद् गुरुः | कृष्णं स्वधा युतं नीत्वा शिष्यमारूप तंत्रवित् | वाससा नेत्रे बध्नीयान्नेत्र मंत्रेण यत्नतः | पापयित्वा पंचागव्यंमत्रामृतमयं शुभं | स्पृष्ट्वातं तंत्रमंत्रज्ञोऽध्वषदकं विशोधयेत् | विष्णुतत्त्वानि संशोध्य अभिषेक गृहं नयेत् | वर्णः कलापदं तत्त्वं मंत्रो भुवनमेव च | अध्वषदकमिति प्रोक्तं मुनिभिस्तंत्र वेदिभिः | वर्णाध्वा वर्णशंखश्च फलाध्वा षडभिरीरिता | पादाध्वा पदसमूहः स्यांत्तत्त्वाध्वा पंचविंशति | षट्त्रिंशदेवं तत्त्वानि इति तत्त्वविदो विदुः | मंत्राध्वा मंत्रराशिः स्यात्ते हि वैदिक तांत्रिकाः | भुवनाध्वेति कथिता भुवनानि चतुर्द्दश | शोधयाम्यमुमध्वानममुकस्य हि पर्वतः | वेदगर्भो नमश्चांते मनुरध्व विशोधने | नवाहुतीर्गुरः कुर्ययात् एकैकाध्व विशोधने | हस्ते गृहीत्वा तं शिष्यमभिषेक गृहं नयेत् | निवेश्य मातृकायंत्रे सेचयेत् कलसा मृतैः | पृ० ३८ब) कृष्णानुभव पूर्णात्मा आचार्ययश्चानयेद् घटं | गोरोचना पल्लवानि कल्पवृक्षधियामृषन् | शिशोः शिरसि संयोज्य विलोम मातृकां जपत् | मूलमंत्रं तथा जप्त्वा कुर्ययाद्देवाभिषेचनं | कृष्णात्मकं तु तत्तोयं शिव आदि पदावधि | अभिषिंचे चेन मंत्री कृष्णात्मा भवति ध्रुवं | ननौषधि कलाभिश्च जलं कृष्णात्मकं भवेत् | तेन तत् संकमात्रेण शिशुः कृष्णो न चान्यथा | एवं यः कुरुते भक्त्या आत्मानं विष्णु संस्कृतं | इह भुक्ता यथा कामं देहांते तत्पदं व्रजेत् | चन्दनालेपितांगश्च द्विजाशीर्भिश्च संयुतः | कृष्णात्मकं देशिकं तं प्रणम्य च पुनः पुनः | निषीदेत् सन्निधौ तस्य नियतो विनयान्वितः | न्यासजालं तस्य देहे गुरुः साम्यस्य यत्नतः | दक्षकर्णे वदेन्मंत्रं त्रिवारं पूर्णमानसः | गणेशादि मनुं चोक्ता समयान् कथयेद् गुरुः | मंत्रार्थं मंत्रबीजं च तच्छक्तिं तत् कलापि च | आत्मानं दर्शयेत् साक्षात् स्वनाम्ना तन्मयं ततः | मंत्रकुण्डलि देवानामेकार्थत्वं प्रकाशयेत् | सिद्धांतं वैष्णवं यत्नाद् बाधयेत् कृपया गुरुः | एकं चोपदिशेच्छिष्यं यथा तन्मयतां व्रजेत् | यथा ग्राम शतं तोयं विष्ठादि मूत्रदूषितं | गंगायां मिलितं तत्तु गंगे व भवति ध्रुवं | यथा मा तृप्ताममे यत्र पातीतो भवेच्छिशुः | शिष्योऽपि पूर्णा तां ज्ञात्वा गुरुं यत्नेन तोषयेत् | गुरवे दक्षिणां दद्याद्वित्रार्द्धं भक्ति तत्परः | तदर्द्धं वा ततो दद्याद् यथाशक्त्याथ भक्तितः | वित्तशाठ्यं न कुर्वीत कृतेनार्थं समाहरेत् | पृ० ३९अ) गो भू हिरण्य वस्त्रादीन् गुरवेऽथ निवेपयेत् | गुरु पुत्रेऽपि तत् पत्न्यै ताछिष्योऽपि स्वशक्तितः | वस्त्रालंकरणं दद्याद्भोज्यं मिष्टं यथा रुचि | ऋत्विग्भ्यो दक्षिणां दद्याद् वस्त्रालंकार भूषितं | सात्वतां तर्पयेद्भक्त्या यथा विभव विस्तरात् | ततः प्रभृति मंत्रज्ञो गुरुशासन संस्थितः | यथा मंत्रे तथा देवे यथा देवे तथा गुरौ | पश्येदभेदतो मंत्री एवं भक्ति क्रमो मुने | अभक्तिं जनयंल्लोके देवता क्लेशदायकः | त्रिदिनं निवसेद्भक्त्या सिद्धये गुरुसन्निधौ | अन्यथा तद्भुतं तेजो गुरुमेति न संशयः || इति श्रीगौतमीये त्रयोदेशोऽध्यायः || १३ || चैत्रेमास्यतवा कृत्वा शुभर्क्षे गुरुशासनात् | द्वादश्यां शुक्लपक्षे च माधवे मासि तत्तिथौ | आरभेदमलायां वै पुरश्चर्ययां सुसिद्धये | जपहोमौ तर्पणं च सेको ब्राह्मण भोजनं | पंचागोपासनं लोके पुरश्चरणमुच्यते | आदौ पुरसक्रियां कर्त्तुं कुर्ययाद्भूमेः परिग्रहं | स्वेच्छाचार विहाराय ततः ऊर्द्धं न लंघयेत् | जीवहीनो यथा देही सर्वकर्म्मसु न क्षमः | पुरश्चरण हीनोऽपि तथा न स्यात् फलप्रदः | पर्वताग्रे नदीतीरे गोष्ठे देवालये तथा | पुण्यारण्ये महातीरे समुद्रस्य निजे गृहे | तुलसीकानने रम्ये बिल्वमूले च शस्यते | विष्णुक्षेत्रे च विधिवत् सिद्धये जपमारभेत् | पुरश्चरण कृन्मंत्री भक्ष्याभक्ष्यं विचारयेत् | अन्यथा भोजनाद्दोषात् सिद्धि हानिः प्रजायते | सत्कुलस्थानजातानि शुचीनां श्रीमतां सतां | गृहस्थानं वदान्यानां भीक्षाशिनोऽग्रजन्मनां | पृ० ३९ब) भुंजानो वा हविष्यान्नं शाकं च विहितं तथा | फलं क्रमुक केन्दूनां वर्ज्जयन् विहितं मुने | पयोदधि फलं वापि नारिकेलं यथोदितं | हविष्यं वा तथा श्रियात् शक्तुं यव समुद्भवं | रम्भा फलं तिंतिड़ईकं कमला नागरंगकं | फलान्येतानि भोज्यानि एषामन्यानि वर्ज्जयेत् | ऐक्षवं वर्ज्जयेन्मंत्री शर्करै क्षव वर्ज्जितं | लवणं क्षारमम्लं च गृंजनं कांश्यमेव च | ताम्बूलं च विभक्तं च दुःसभाय प्रयत्नतः | श्रुतिस्मृति विरोधं च जपं रात्रौ च वर्ज्जयेत् | भूशययां ब्रह्मचारि त्वं मौनं चप्यन सूयतां | नित्यं त्रिसवनं स्नानं क्षुद्रकर्म्म विवर्ज्जितं | नित्य पूजा नित्य दानं देवता स्तुति कीर्त्तनं | नैमित्तिकार्च्चनं चैव विश्वासो गुरुदेवयोः | जपनिष्ठा द्वादशैते धर्म्मास्युर्म्मंत्रसिद्धिदाः | नित्यं सूर्ययमुपस्थाय तस्य चाभिमुखो भवेत् | देवता प्रतिमादौ च वह्नौ चाभ्यर्च्च्य तन्मुखः | अनिर्वेदस्तथा व्यग्रः शास्त्रोक्ताचारपालकः | स्नान पूजा जप ध्यान होम तर्पण तत परः | निष्कामो देवतायां च सर्वकर्म्म निवेदकः | एवमादींश्च नियमान् पुरश्चरणमुच्यते | शक्तौ त्रिसवनं स्नानं अन्यथा द्विः सकृत्तथा | अस्नातस्य फलं नास्ति नचातुर्पयतः पितृन् | अमेध्य सम्भवं देहं जलादिन्द्रिय शुद्धता | तस्मान्मुख्यं जलस्नानं सर्वेषां मुनिभिर्म्मतं | न वीक्ष्येत् पतितं व्रान्यं पिशुनं वेद निन्दकं | तथा नाश्रमिणे विप्रं विष्णुत्वस्य विनिन्दिकं | ऋतुकालं विना मंत्री स्वस्त्रियं नापि संस्पृशेत् | मैथुनं तत् कथालापं तद्गोष्ठीं परिवर्ज्जयेत् | पृ० ४०अ) पर्वते सिन्धुतीरे वा पुण्यारण्ये नदी तटे | यदि कुर्ययात् पुरश्चर्ययां तत्र कूर्म्मं न चिंतयेत् | ग्रामे वा यदि वा वास्तौ गृहे वा तं च चिंतयेत् | दीपस्थानं तथा चोक्तं मुखं पृष्टं च मंत्रिणः | दीपस्थाने भवेत् सिद्धि नान्यथा कोटि जापनैः | पूर्वोत्तर विभागेन चतुःसूत्रं निपातयेत् | नवकोष्ठं भवेदेतत् कूर्म्मदेहमनुत्तमं | पूर्वादिदिशि मंत्रज्ञः प्रदक्षिण क्रमेण तु | कादिवर्गान् लिखेद्विद्वान् पंच पंच विभागशः | यादिवर्गं शादिवर्गं लक्षमीशे च संलिखेत् | कूर्म्मस्यांगं च कूर्म्मं च कुर्ययाच्छोभां यथा भवेत् | स्वराणां युग्म युग्मं च मध्ये चाष्टसु दिक्षु च | एवमष्टंगवान् कूर्म्मः सर्वेषां सिद्धि दीपकः | दीपनाथं लिखेन्मध्ये पूजयेत्तं विभावयन् | यस्मिन् दिशि पतेदग्रामाद्यक्षरं दृश्यते तथा | कूर्म्म वक्त्रं च जानीयात्तत्र सिद्धिरनुत्तमा | वक्त्रपार्श्वे च कोष्ठे द्वे करौ कूर्म्मस्य विद्धि हि | मध्ये कुक्षी उभे ज्ञेयौ पादौ द्वौ शेष पुच्छकं | एवं कूर्म्मं विजानीयाद्दीपचक्र विवेचकः | मुखे सिद्धिर्भवेन्न्यूनं मध्ये शुद्धिश्च जायते | उदासीनः करस्थश्च कुक्षिस्थो दुःखमाप्नुयात् | पादस्थः पीड्यते मंत्री बंधनोच्चाटनादिभिः | पुच्छे मृत्युर्भवेन्न्यूनमेवं कूर्म्मस्य संस्थितिः | मंत्राक्षरेण मंत्रं चेत् कूर्म्मनाम्नो भवेद् यदि | साधकस्य च नाम्नाथ किं न सिद्ध्यति मंत्रिणः | पंचाशद्वर्णरूपेण क्षेत्रेशा विश्वविग्रहाः | तस्माच्च सगुणं क्षेत्रं सिद्धये स्यान्न चान्यथा | द्विगुणं चेन्मुखस्योऽपि कोष्ठेन सिद्धिमाप्नुयात् | तस्माच्चक्रं विचार्ययैवं मित्रं चेत् सर्वसिद्धिदं | यस्मिन् देशे दीप पतिः सगुणं नाम मंत्रयोः | पृ० ४०ब) तत्र यत्नेन गंतव्यं सपीठो दुर्लभो मतः | रुद्राक्षैरपि भद्राक्षैः प्रतु जीव कुचन्दनैः | स्फटिकैश्च प्रवालैश्च कुशग्रंथि भवैस्तथा || तथा मलक सम्भूतैस्तूलसीकाष्ठनिर्म्मितैः | एभिश्च मालिकां कुर्ययान्मतिमान् वैष्णवे मनौ | रुद्राक्ष सम्भवाया तु अनंत फलदा मता | पुण्डरीका भवा माला गोपाल मनु सिद्धिदा | जीवपुत्रभनाया तु पुत्रं वितनुते चिरात् | कुचन्दन भवा माला राज्यभोगापवर्गदा | प्रवालनिर्म्मिता या तु सर्वसत्त्ववशंकरी | कुशग्रंथि भवामाला धर्म्मवृद्धिकरी मता | तुलसी सम्भवा या तु मोक्षं वितनुतेऽचिरात् | अष्टोत्तरशतैर्म्माला निर्म्मिता या तु मालिका | राज्यं वितनुते नृणां देहांते मोक्षदायिनी | मोक्षार्थी पंचविंशत्या पुत्रार्थी त्रिंशता जपेत् | चत्वारिंशन्मणि भवा अभिचाराय केवलं | पंचाशन्मणिभिर्म्माला सर्वकर्म्मप्रसाधिका | अकारादिक्षकारांता चाक्षमाला प्रकीर्त्तिता | क्षांतं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम | अनया सर्वमंत्राणं जपः सर्वसमृद्धिदः | नित्यं जपं करे कुर्ययान्नतु काम्यमबोधनात् | आरभ्यानामिका मूलात् परिवर्तेन वै क्रमात् | तर्ज्जनीमध्यपर्ययंतं जपेदष्टसु पर्वसु | गोपालतंत्रमंत्राणां करमालेयमीरिता | कार्पासमम्भवं सूत्रं पुण्यस्त्रीभिर्विनिर्म्मितं | अथवा पट्टसूत्रेण स्वर्णसूत्रेण वा तथा | अणिमादिक मोक्षांताः सिद्धये स्वर्णसूत्रके | पट्टसूत्रं वंशकरं धन पुत्र विवर्द्धनं | कार्पास सम्भवं सूत्रं धर्म्मकामार्थ मोक्षदां | पृ० ४१अ) त्रिगुणं त्रिगुणीकृत्य ग्रथयेच्छिल्पशास्त्रतः | मुखे मुखं तु संयोज्य पुच्छे पुच्छं नियोजयेत् | गोपुच्छ सदृशी माला यद्वा सर्पाकृतिः शुभाः | एवं निर्म्माय मालां वै शोधयेन्मुनिसत्तम | अश्वत्थ पत्र नवकैः पद्माकारं तु कल्पयेत् | तन्मध्ये स्थापयेन् मालां मातृकां मूलमुच्चरन् | नित्यं नैमित्तिकं कृत्वा सामान्यार्घ्यं विधाय च | क्षालयेदीशसूक्तेन लिम्पेत्तत् पुरुषेण तु | गन्धैरनल्पैर्म्मतिमान् अघोरेण तु धूपयेत् | अघोरेणैव सूक्तेन शतान्युनं तु मंत्रयेत् | वामदेवेन सूक्तेन शमी कुर्ययाद्विचक्षणः | एकैक मालामादाय ब्रह्मग्रंथिं प्रकल्पयेत् | एकैक मातृकावर्णान् ग्रथनादौ तु संजपेत् | तत् सजातीयमेकाक्षमेव च त्रिःप्रकल्पयेत् | एवं संग्रथितां मालां पुनः पद्मोपरि न्यसेत् | तत्रावाह्य यजेद्देवं यथा विभवविस्तरैः | मंत्रयेन्मूलमंत्रेण क्रमेणोत क्रमयोगतः | तथैव मातृकावर्णैर्म्मंत्रयेन्मंत्रतंत्रवित् | क्षालयेत् पंचगव्येन पुनरीशेन सूक्ततः | पुनर्विलिप्य गव्येन जपेन्मंत्रं यदृच्छया | नान्य मंत्रं जपेन्मंत्री कभ्ययेत्र विधुनयेत् | कम्पनात् सिद्धि हानिः स्यात् धूननं बहुदुःख कृत् | शब्दे जाते भवेद्रोगः करभ्रष्टो विनाशकृत् | छिन्ने सूत्रे भवेन्मृत्युस्तस्माद् पत्र परो भवेत् | जपांते कर्णदेशे वा उच्चस्थाने च विन्यसेत् | त्वं माले सर्वदेवानां सर्वसिद्धिप्रदा मता | तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तुते | इत्युक्ता परिपूज्याथ गोपयेद् यत्र तोयती | मालां मंत्रं च पशुभ्यो न प्रकल्पयेत् | पृ० ४१ब) प्रकाशने कार्ययहानिरित्युक्तं तंत्रविदिभिः | अंगुष्ठतर्जनीभ्यां च जपा छत गुणं भवेत् | तर्जन्यंगुष्ठयोगेन शत्रुच्चाटनकारकः | अंगुष्ठमध्य प्रायोगान्मंत्रसिद्धिः सुनिश्चिता | अंगुष्ठानामिकायोगादुच्चाटोत् सादने मते | ज्येष्टाकनिष्टायोगैन शत्रुणां नाशनं मंतं | इति ते कथितं विद्वन् मालायाः परिनिर्णयः | शक्त्यात्रिसवनं स्नानमन्यथा द्विः सकृत्तथा | त्रिसन्ध्यं प्रजपेन्मंत्रं पूजनं तत् समं भवेत् | एकदा वा भवेत् पूजा न जपेत् पूजनं विना | प्रातःकालेऽथवा पूजा जपांते वा यजेद्धरिं | प्रातःकालं समारभ्य जपेन् मध्यन्दिनावधि | पशुभावेन्मध्यन्दिनावधि पशुभावे स्थिता मंत्राः | केवला वर्णरूपिणः सौषुम्नध्वन्युच्चिरिताः | प्रभुत्वं प्राप्नुवंतिते | मंत्राक्षराणि चिच्छक्तौ प्रोक्तानि परिभावयेत् | तामेव परमव्योम्नि परमामृतवृंहिताः | दर्शयेत्यात्मसम्भारं पूजा होमादिभिर्विना | मनः संहृत्य विषयान्मंत्रार्थ गत मानसः | न द्रुतं न विलम्वं च जपेन्मौक्तिक पंक्तिवत् | जपः स्यादक्षरावृत्तिर्मानसोपांशुवात्वेकैः | धियायदक्षर श्रेणीं वर्ण स्वर पदात्मिकां | उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः | जिह्वौष्ठौ चालयेत् किंचिद्देवता गत मानसः | किंचिच्छवणयोग्यः स्यादुपांशुः सजपः स्मृतः | मंत्रमुच्चारयेद्वाचा वाचिकः सजपः स्मृतः | मानसादि त्रिभिर्भेदैः कथितं जपलक्षणं | मानसः सिद्धिकामानामुपांशुः पुष्टिमिच्छतां | वाचिकामारणे शस्तः कथितं जप लक्षणं | पृ० ४२अ) एवं जपं पुरा कृत्वा तेजोरूपं समर्पयेत् | देवस्य दक्षिणे हस्ते कुशपुष्पार्घ्य वारिभिः | सजपं तद्विभाव्यैवं प्राणायाम त्रयं चरेत् | जपस्यादावथ चांते त्रितयं त्रितयं चरेत् | न न्यूनं नाधिकं वापि जपं कुर्ययाद्दिने दिने | यदि कुर्ययात् प्रमादात्ततदानेष्टमवाप्नुयात् | न्यूने न्यूनांग दोषः स्यादधिके चाधिकांगकं | यथाविधि कृतानीह फलंति तान्य यत्रतः | जपांते प्रत्यहं मंत्री होमयेत्तद्दशांशतः | तर्पणं सेकमित्येवं तत्तद्दशांशतो मुने | प्रत्यहं भोजयेद्विप्रान् न्यूनाधिक प्रशांतये | विप्रभोजनमात्रेण व्यंगं सांगं भवेद्ध्रुवं | गोषुशुश्रूषणं कुर्ययाद्देवताभ्यो यशः प्रदः | गोष्वपि प्रियमाणासु गोपालोऽयं प्रसीदति | कर्म्मांते संस्मरेत् कृष्णं अंतःकरण शुद्धये | नाम संकीर्त्तनं विष्णोः सर्वविघ्न निकृंतनं | अथवा लक्षपूर्णौ च होमादि कृत्यमाचरेत् | संपूर्णायां प्रतिज्ञायां तर्पणादि तथाचरेत् | विष्णोर्निवेदितान्नं यद्रात्रौ भुंजेद कुत्सयन् | तदन्ना देवता यस्य तदन्नः पुरुषो भवेत् | शयीत कुशशययायां कम्बले वा कुशास्मरे | एवं प्रतिदिनं कुर्ययाद् यावत् सांगं व्रतं भवेत् | होमं च पूर्ववत् कुर्ययात् पायसैरथवाम्बुजैः | होमाभावे जापं कुर्ययाद्धीमसंख्या चतुर्गुणं | षड्गुणं चाष्टगुणितं यथासंख्यं द्विजातयः | शुद्रस्य विप्र भृतस्य तत् पत्नी सदृशो जपः | होम शून्यस्य विप्रस्य यो जपः स तु तत् स्त्रियः | दशाक्षरं मनुवरं सिद्धये दशलक्षकं | जप्त्वा तदंते होमोऽपि विधिना कर्म्म चाचरेत् | पृ० ४२ब) दशांक्षरं जपेन् मंत्री सहस्र दशकं जपेत् | प्रत्यहं मुख्य कल्पोऽयं अन्यं न्यूनमुदाहृतं | अष्टादशार्णं मनुवरं पंचलक्षं जपेत्ततः | कृत्यमेवं समुद्दिष्टमन्यत्तत् कल्पसंग्रहात् | तर्पणं च ततः कुर्ययात्तीर्थोदैश्चन्द्रमिश्रितैः | जले देवं समावाह्य पाद्याद्यैरुदकात्मकैः | संपूज्य विधिन्तद्भक्त्या परिवार समन्वितं | एकैकमंजलिं तोयं परिवारान् प्रतर्पयेत् | ततो होम दशांशेन तर्पयेत् पुरुषोत्तमं | आदौ मंत्रं समुच्चार्यय श्रीपूर्वं कृष्णमित्यपि | तर्पयामाहमित्युक्ता नमोऽन्तस्मर्पणो मनुः | तर्पणस्य दशांशेन अभिषेकं तथा चरेत् | न्यासान शेखान् कृत्वा तदभेदेन प्रपूजयेत् | कृष्णात्मानं स्वमात्मानं ध्यात्वा राश्मि समन्वितं | कुसुमंतोयमेकं च सुगन्धि परिमिश्रितं | जलांजलिं समादाय मूलमुच्चार्यय साधकः | श्रीकृष्णमभिषिंचामि नम इत्यभिषेचने | अभिषेक दशांशेन ब्राह्मणान् परितर्पयेत् | क्षीर खण्डाद्धभौज्यैश्च बहुमान पुरःसरं | विप्रभोजनमात्रेण व्यंगं सांगं भवेद्ध्रुवं | सर्वथा भोजयेद्विप्रान् ते च कृष्णतनुर्यतः | यत्र भुक्तें द्विजस्तुष्ट्या तत्र भुंक्ते हरिः स्वयं | यत्र भुंक्ते श्रियः कांतस्तंत्र भुंक्ते जगत्त्रयं | गुरवे दक्षिणां दद्याद्भोजनाच्छादनादिभिः | गुरु संतोषमात्रेण मंत्रसिद्धिर्भवेद्ध्रुवं | गुरु मूलमिदं सर्वमित्याहुस्तंत्रवेदिनः | मिष्टान्नं बहु सत्कार्ययं भुंजीत बहुभिः सह | एवं सिद्धमनुर्म्मंत्री साधयेत् सकलेप्सितं | एवं नित्यक्रमं कृत्वा नैमित्तिकमथाचरेत् | पृ० ४३अ) कृते नैमित्तिके विप्र नित्यस्य पूर्णता भवेत् | अन्यथा नैव सिद्धिः स्यादनुष्ठान शतैरपि | मथुरायां महाक्षेत्रे वसन् कृष्णं समर्च्चयन् | लक्षमात्रं जपेन्मंत्रं मण्डलादीप्सितं भवेत् | मन्दरस्य महारण्ये सरलद्रुम कानने | पुष्पैर्वन्य समुद्भूतैर्दुग्धाशी विजितेन्द्रियः | लक्षमात्रं जपन् भक्त्या कृष्णं पश्यति चक्षुष्ण | वृन्दावन गतो मंत्री द्वात्रिंश स्थानमाश्रितः | लक्षं कृत्वा जपेद्भक्त्या अणिमादि गुणाल्लभेत् | समुद्रगासरिन्मध्ये कुट्टिमे निवसन् यती | दुग्धाहारो जपेल्लक्षं पापं कोटि भवोद्भवं | नाशयेन्नात्र सन्देहो वाक्सिद्धिं चापि विन्दति | पर्वताग्रे यजेत् कृष्णं शाकमूल फलाशनः | लक्षं तत्रापि संजप्य खेचरी मेलनं भवेत् | समुद्रगा नदीतीरे तुलसीकानने वसन् | लक्षमात्र जपात्तत्र कोटिजन्माद्य नाशनं | पुण्डरीक वकैः कृष्णं मासमेकं समर्च्चयन् | धर्म्मार्थकाममोक्षाणि करस्थानि लभेद् ध्रुवं | तुलास्थे भास्करे पद्मैर्होमयेद्दशसहस्रकं | लक्ष्मी स्थिरा भवेत्तस्य पुत्त्रपौत्त्रानुयायिनी | श्रीपुष्पैर्ज्जुहुयान्नित्यं वैशाखे मासि दुग्धयः | सर्वपापक्षयकरः सर्वसिद्धि प्रवर्द्धकः | देवाः सर्वे नमस्यंति भक्त्या तं पुरुषर्षभं | श्रीजलैस्तर्पयेत् कृष्णं मत्स्यण्डी चन्द्रसंयुतैः | अष्टोत्तरशतं कृत्वा पूजांते भक्ति तत्परः | मण्डलाल्लभते सिद्धिं द्व्यक्षरं स्वकवर्त्मना | यद् यत् कामयते मंत्री अनायासाल्लभेच्च तत् | दुग्ध बुध्या जलैर्नित्यमष्टोत्तरशतं शतं | तर्पयन्नखिलान् कामान् लभेम्मोक्षं च विन्दति | पृ० ४३ब) कुशपुष्पैः समभ्यर्च्च्य मासमात्रं निरामयः | यशसे धर्म्मवृध्यै च ब्रह्मचारी व्रते स्थितः | हयारि कुसुमैः शुक्लैर्मण्डलाद्वांछितं भवेत् | तथा रक्ताश्वमारेण अचलां भूतिमाप्नुयात् | तथा द्वाभ्यां समभ्यर्च्च्य भुक्तिं मुक्तिं च विन्दति | गोषु भक्तिः सदा कार्यया गोषु कण्डूपन तथा | गोषु नित्यं प्रसन्नासु गोपालः संप्रसीदति | ब्राह्मणानां क्षत्रियाणां वैश्यानां शेष जन्मनां | स्त्रीणां चैव महावाहो नैमित्तिकमिदं स्मृतं | एतेषां चैकमात्रं तु कृत्वा काम्यानि कारयेत् || इति श्रीगौतमीये चतुर्द्दशोऽध्यायः || १४ || त्रिकालाभ्यर्च्चनं वक्ष्ये गोविन्दस्य यथाविधि | मंत्रयोरुभयोः कार्ययमन्येषां च तदात्मनः | कलाय कुसुम श्यामं नीलेन्दीवरलोचनं | वार्षिकं च शिशुं मुग्धमासीनं पद्मविष्टये | भंग विद्रुम बिम्बाभ कर पादाधरोद्भवं | गुडालक च याच्छन्द मुखेन्दु ग्रहसंवृतं | कुन्देन्दुकाश संकाश हारभासितदिंमुखं | राजकुन्दद्वयाभास निन्दितानेक मौक्तिकं | महाश्मराश्रिसंकीर्ण सुवर्णानेक भूषणं | स्वपुष्टं धूषरांगं च धेनु धुली च योत्थया | गोप गोपी गवां वृन्दैर्वीक्ष्यमाणं सुविस्मितैः | ब्रह्मणा शंकरेणापि प्रेमोत् कंठात् सुवीक्षितं | पुरन्दरमुखैर्देवैर्मुनिभिः संस्तुतं परं | एवं ध्यात्वा यजेत् कृष्णां यजेद्भक्ति भरानतः | अज्ञैरिन्द्रियवजाद्यैरावृत्ति त्रितयान्वितं | क्षीर खण्डाज्य दुग्धं च कदली नवनीतकं | चोवां रम्भा फलं चाऽपि अन्यद्वाल प्रियं च यत् | जपं चाष्टसहस्रं च कृत्वा कृष्णं प्रसादयेत् | स्तोत्रैर्नानाविधैर्भक्ता नमस्कार प्रदक्षिणैः | पृ० ४४अ) दुग्ध बुध्या जलैरष्टशतं संतर्प्य मंत्रवित् | आत्मानं तत् कलाम्भोजे ह्यलभ्यः सन् समर्पयेत् | ब्रह्मार्पणाख्य मनुना ततो न्यस्य हृदं नयेत् | पूर्वेक्ति न क्रमेणाथ शेषमन्यथ समापयेत् | हुतशेषं निशाशी च एकाकी च निशां नयेत् | य एवं मासमात्रं तु भक्त्या कृष्णं समर्पयेत् | पूज्यो लोकैः कविर्वाग्मी लक्ष्मीं प्राप्यानुयायिनीं | पुत्त्रैर्मित्रैश्च सम्बन्धः प्रयात्यंते परं पदं | मध्याह्ने वासुदेवं तं राजमण्डलमध्यगं | द्वारावत्यां सहस्राकी दीपिते भवनांतरे | कल्पवृक्ष समाकीर्णे पुण्य पक्षि निनादिते | पद्मोत्पलादि कह्लरैः संकीर्णाभिरलंकृते | तस्मिन् सुपुलिने रम्ये छायायां कस्य च | रत्नस्तम्भै रत्नदीपैर्म्मुक्तादाम विभूषिते | नानाविचित्रांतविर्तन शत संकुले | तत् पार्श्वरचनं ध्यायेत् पुन्नागकेशरैः सह | तथा नानाविधैर्वृक्षैः पाटलैश्चम्यकादिभिः | वकुस्तैः सरलैर्वम्यैः कुरुवकैर्वेष्टितैरपि | सर्वर्त्तु कुसुमोपेतैः पुष्पावनतशाखिभिः | रत्नसिंहासनासीनं पुण्डरीक दले क्षणं | पृथूरस्कं सुपुष्पांगं राजन्य गण मोहनं | पुण्डरीक निभां नाभिं पुण्डरीकाक्षमव्ययं | सुभ्रूललाटवदनं पुष्पहासं सुलोचनं | सुकपोलं सुताम्रोष्टं श्यामलं मंगलाश्रयां | नीलकुंचित केशांतं विचित्राम्बर भूषणं | कम्बुग्रीवं सुविस्तीर्णं कौस्तुभोद्भासि वक्षसं | महाबली महोरस्कं महाभुज चतुष्टयं | बली बन्धुरमध्येन राजदधर शोभितं | प्रदक्षिण गत श्रीमद्भुवनाभि विभूषितं | समोरु जानुजंघाभिः स्वस्तिकांघियुगात्मकं | पृ० ४४ब) तुंगरत्र नखंचित्रं तुंगपादांगुरीयकं | अनेकविधरत्रादि पीताम्बर युगावृतं | स्फुरितो रस्कबन्धेन शोभितं वनमालया | रत्नहारैश्च सौवर्णैर्ग्रैवेयक विभूषितं | केयूरमणि सम्बध राजद्भुजचतुष्टयं | विचित्रकटकैर्युक्त नूपुरैः पादशोभितं | नानारत्नमयैर्हैमैरंगुरीयैर्विराजितं | अनंतरत्नसंछन्न स्फुरन्मकरकुण्डलं | सौवर्णे नाभिरुचिर नानाचित्रविचित्रितैः | लोलद्भ्रमरसंछन्नैः प्रसूनैर्मुकुटोज्जलं | शंख चक्र गदा पद्म धरं शांत मुखे क्षणं | दिव्यलक्षण सम्पन्नं दिव्यभूषणभूषितं | दिव्य मालाम्बरधरं दिव्य गन्धानुलेपनं | ललाटे हृदये कुक्षौ कंठ बाह्वोश्च पार्श्वयोः | विराजितोर्धपुण्डेण चन्दनेन विभूषितं | महीभारभूतारातिं तर्ज्जयंतं मुहुर्मुहुः | उद्धवादिममंत्रिवरैर्म्मंत्रयंतं मुहुर्मुहुः | तेषां निपातनायैव धर्म्मार्थनीति युक्तिभिः | एवं मध्याह्ण संप्राप्ते काले ध्यायन् जगद्गुरुं | आवाह्य विधिवद्भक्त्या पूजयन्नुपचारकैः | अंगं पूर्ववदुद्दिष्टं पूर आदि प्रपूजयेत् | रुक्मिणीं सत्यभामां च कालिन्दीं च सुलक्षणां | नाग्नजीतिं जाम्बवतीं मित्र विन्दां सुशीलिकां | इत्यष्टशक्तीर्द्देवस्य पूज्याः कृष्णस्य वल्लभाः | आग्नौ सुदर्शनं चक्रं नैरृते च जलोद्भवं | वायव्ये च गदां दिव्यां ईशाने पद्ममुज्जलं | ततो दलानां वाह्ये च वसुदेवं च दैवकीं | नन्दगोपं यशोदां च पूर आदित् प्रपूजयेत् | पाद्यैरर्घ्यैस्तथा पुष्पैः पूर्वादिदलतोऽर्च्चयेत् | पृ० ४५अ) बलभद्रं सुभद्रां च रोहिणीं च तथोत्तरे | सुदानं च तथा दानं वसुदामं च किंकिणीं | देवस्य वामपार्श्वे तु पूजयेद् गुरुपादुकाः | परमं च गुरुं तत्र परापर गुरुं तथा | पादुकांतं समभ्यर्च्च पूर्वसिद्धं तथा यजेत् | पूर्वे गणपतिं यष्ट्वा तद्बहिः परिपूजयेत् | इन्द्रादि लोकपालांश्च स्वस्वदिक्षु स्वमंत्रतः | कुमुदं कुमुदाख्यं च पुण्डरीकं च वामनं | शंकु कर्णं सर्वनेत्रं सुमुखं सुप्रतिष्टितं | दक्षिणावर्त्तमेतांस्तु पूर्वादिदलतोर्च्चऽयेत् | उत्तरेशानयोर्न्मध्ये विष्वक्सेनं समर्च्चयेत् | संपूज्यैवं हरिं भक्त्या नैवेद्यं च निवेदयेत् | पायसं शर्करा पूपं खण्डाद्यं कदलीफलं | सितोपदंशमंत्र च स्वर्णपात्रे निवेदयेत् | अथवा रौप्यपात्रे च ताम्रपात्रेऽथवा पुनः | अभावात् पद्मपत्रे वा अन्यथा नरकं व्रजेत् | सुवर्ण चसकेवाथ रौप्ये वा विधिना ततः | सशर्करं पक्वदुग्धं अत्र व्यंजन पायसं | नानाविधोपहाराणि गोविन्दाय निवेदयेत् | राजोपचारं दत्वा तु स्तुत्वा नत्वा विसर्ज्जयेत् | य एवं चिंतयेद्देवं गोपालं विगत स्पृहः | राजानः किंकराः सर्वे समान्याः सपरिच्छदाः | राजपुत्राश्च पत्न्यश्च सर्वे तस्यानुवर्तितः | इह भुक्त्वा वरान् भोगानंते विष्णोः पदं व्रजेत् | अष्टोत्तरशतं होमं कुर्ययात्तत् संख्ययादृतः | होमतर्पणयोर्म्मंत्री साधयेदखिलानपि | प्रातर्होमं प्रकुर्व्वीतं तथा मध्यन्दिनेऽथवा | रात्रि होमं च मध्याह्णे कुर्ययादेवं विधिः स्मृतः || पृ० ४५ब) तृतीयकालपूजायामस्तिकाल विकल्पना | सायाह्णे निशि वेत्यत्र वदत्त्येके विपश्चितः | अष्टादशार्णं सायाह्णे शत्रौ चेद्दशवर्णकं | उभयोमुभये नैव वदंते ब्रह्मवादिनः | सायाह्णे द्वारवत्यां तु चित्रकोद्यान मध्यगः | सौगन्धिकोत्पलमती दीर्घिका शत वेष्टिते | नन्दनोद्यान् मध्ये तु कदम्बवनमध्यगं | ज्वलद्रत्नमयैः स्तम्भैः सुरत्नवीथिकम्विते | नानारत्नमयोल्लासि प्राचीर द्वार शोभिते | महारत्नमयं गेहं मुनिभिः परिवेष्टितं | नारदाद्यैर्म्मुनिवरैः शौनकैः पिप्पलादिभिः | सनकादि ब्रह्मपुत्रैः परीतं तत्त्वनिर्णये | नारदं पर्वतं जिष्णुं निशबोद्धवदारुकं | विश्वक्सेनं च शैलेयं कृपादृष्टि विलक्षितं | तेभ्यो मुनिभ्यः स्वधाम दिशंतं परमक्षरं | चन्द्रकोटि प्रतीकाशं विश्वावकाशदीपितं | नानारत्नगणाकीर्णं महामुकुट भूषितं | अनेक रत्नराश्यर्कलसन्मकरकुण्डलं | भावहारावली राजल्लसत् कौस्तुभ वक्षसं | नानारत्नगणाकीर्ण केयूर वलयाष्टकं | विद्रवत् कनकाभास पीताम्बर युगावृतं | बन्धुरोदार जठरं गभीर नाभि पंकजं | उत्तुंग चरणाम्भोज लसत् स्वर्णांगुरीयकं | प्रदीप्त रत्नकटक तुला कोटि द्वयान्वितं | शशरक्ताधर पुटमारक्त पदपंकजं | शंख चक्र गदा पद्म धारिणं वन मालिनं | शुद्ध ज्ञान स्वभाव त्वात् सुशुक्लं तं परात्परं | अज्ञाननाशकाद्यद्वन्नववारिजसन्निभं | सूर्ययकोटि प्रतीकाशमविद्या ध्वांत नाशनात् | इत्येवं परमात्मानं ध्यायंति ब्रह्मवादिनः | एवं ध्यात्वा मध्यमार्च्चा विधानेन प्रपूजयेत् | पृ० ४६अ) सहस्रैकं जपेन्मंत्रं होमाद्दशांश तर्पणं | रजता राजिते पात्रे खण्डे दुग्धं निवेदयेत् | पूर्वोपचारान् दत्वाथ नमस्कृत्य विसर्ज्जयेत् | गृहस्थानां वनस्थानां न्यासिकां हृदयाम्बुजे | ध्यात्वा संपूज्य मुनिभिर्मानसैरुपचारकैः | विविक्तो गृहमेधी च मुनिभिः सह पूजयेत् | वासुदेवादिभिरपि निर्वाणं पदमाप्नुयात् | सायाह्ने वासुदेवं च पूजयेद्विधिना नरः | देवाः सर्वे नमस्यन्ति किं पुनर्नरमर्कटाः | संसार सागरं घोरं निषमं नक्र संयुतं | संतीर्ययविषयान् भुक्त्वा ज्ञानीते पदमाप्नुयात् | दुर्वासनां परित्यज्य कोटिजन्मसमुद्भवं | एकेन जन्मना मुक्तिं याति कैवल्य निर्म्मितं | तद्विष्णोः परमं पदं सदा पश्यंति शूरयः | रात्रौ चेन्मन्मथाक्रांतं मानसं देवकी सुतं | रासगोष्ठी परिश्रांतं गोपी मण्डलमध्यगं | वृन्दावन गतं ध्यायेत् छायायां कल्पशाखिनः | सुस्थितं वेणु गायंतं वनमाला परीवृतं | पीताम्बरधरं श्यामं गोपिका संख्यवेष्टितं | देवासुरैश्च गन्धर्वैरप्सरोभिश्च सेवितं | यक्षैर्विद्याधरगणैर्विहंगैर्भूवि यद्गतैः | ब्रह्मर्षिभिर्देवर्षिभिः स्तूयमानं सुविस्मितैः | नानाविवैरप्सरोभिर्वीक्ष्यमाणं सुविस्मितैः | लेलिह्यमान गन्धर्वैर्देवस्त्री शतकोटिभिः | इन्दीवर निभं रत्नं सुन्दरेन्दु वराननं | संफुल्ल पद्मवदनं पद्मपत्र निभेक्षणं | पद्मनाभि पाणिपादं पद्मनाभि निभाधरं | शरणं सर्वभूतानां गोपिकाजनवल्लभम् | पृ० ४६ब) क्वचिद्भंगपरिमिलत पंकजोपरि संस्थितं | कल्पितानैकदेहेन नारीणां शतकोटिभिः | वेष्टितं रममाणं च गायंतं दिव्यमूर्छनैः | द्वाभ्यां द्वाभ्यां वल्लभाभ्यां मध्ये मध्ये विराजितं | यथा मरकत स्तम्भं सुवर्णेनाभिवेष्टितं | क्वचिद्गोपांगना वस्त्र हारिणं हेलयान्वितं | क्वचिद्वसंतं हासंतं स्त्रीवृन्दमुपहासकैः | निर्म्मितं देव निकरैरर्च्चितं पुष्पवृष्टिभिः | देवस्त्रीभिर्वीज्यमानं कामोत्कंठिक चेष्टितम् | एवं ध्यात्वा मधु रिपुं यजेत्तंसं शितव्रतः | मिथुनैश्च षोडशकैः केशरादिभिरावृतं | महीषिभिस्तथा वीतं गोयीभिरपि सर्वतः | एवमभ्यर्च्च्य विधिना कांश्ये वा राजतो विते | पात्रे दुग्धं निवेद्याथ मिथुनेभ्यस्तथार्वयेत् | जप्त्वा स्तुत्वा नमस्कृत्य हृत्पद्मे तं विसर्ज्जयेत् | एवमभ्यर्च्च्य जगतां पतिं शुद्धमनायतिः | धर्म्मार्य काममोक्षाणां दायादो भवति ध्रुवं | विप्रो वेदाधिपो भूयात् साक्षाद्भूमिपुरन्दरः | क्षत्त्रियो राजवर्ययश्च वैश्यो धनसमृद्धिमान् | शूद्रः सुखानि सर्वाणि भुक्त्वा चांते परं व्रजेत् | एवं ते कथितं विप्र संसारभयनाशनं | अर्च्चनं त्रिविधा या तु मूलविद्या निकृंतनं || इति श्रीगौतमीये पंचदशोऽध्यायः || १५ || गौतम उवाच ब्रूहि मे बालकृष्णत्वं तव सार्वज्ञ कारणं | ब्रह्मणा यत् पुरा प्रोक्तं सेवया तपसोऽर्च्चितः | यत् प्रसादान् मुनिश्रेष्ठ त्रैलोक्य विदितं न ते | यथाक्रमं कथय मे सर्वमेव समाहितः | सुश्रुषामेव नवती गोपालस्यार्च्चनं प्रति | नारद उवाच बाल्यंते कथयामाद्य देवस्य परमाद्भुतं | पृ० ४७अ) गोपनीयं न ते किंचित्वं हि वेद विदाम्बर | तपसा कल्मष मनाः कृष्णो भक्तोऽसि निश्चयात् | तारः प्रजापतिः शक्रो माया च बिन्दुरेव | एतन्मंत्रवरं विद्धि रहस्यं परमाद्भुतं | महाचमत्कारकरं रिपुक्षोभणकारकं | चतुर्वर्गफलं चास्य जपमात्रेण सिध्यति | गोपालस्यापि ये मंत्रा वक्ष्यंतेऽत्रैव तंत्रके | सदीपित मनेनैव फलप्रदमवेक्ष्यतां | चूडामणिरयं प्रोक्तो देवस्य शिशुरूपिणः | अहं मुनिः समाख्यातो गायत्त्रीछन्द उच्यते | देवता कथितः कृष्णः सर्वकाम फलप्रदः | समाहारोच्चारणोऽयं मध्यम स्वर ईरितः | नेत्राब्धितर्क सूर्ययेन्द्रैः कालवर्ण विभेदितैः | यंत्रागानि मनोः कृत्वा ध्यानं कुर्ययात् समाहितः | मथुरायां पुरे ध्यायेत् कंसस्यान्तः पुराजिरे | सूतिका गृह मध्यस्थं जातमात्रं जगत्पतिं | सिध चारण गन्धर्व देव दानव किन्नरैः | यक्ष राक्षस वेतालैः खेचरैर्दिक्चरैरपि | विद्याधरीभिर्देवीभिः किन्नरीभिः समंततः | ब्रह्मणा तनयैः सार्द्धं वीक्ष्यमाणं मुदान्वितैः | इन्द्रादिभिश्च दिक्पालैर्लसत् कुसुम वर्षणैः | चतुर्भूजं शंख चक्र गदा शांर्गधरं हरिं | दक्षस्योर्द्धे स्मरेच्चक्रं गदां च तदधः करे | वामस्योर्द्धे शांर्ग धनुः शंखं च तदधः करे | नवीन जलद प्रख्यं पीतकौषेय वाससं | विलसत् कुण्डला भोग भास्वरे निजमूर्द्धनि | विहिता शेष सद्रत्नशोभि स्वर्णकिरीटकं | सुगन्धि पारिजातैश्च शोभिता शेष कुन्तलं | ललाटतटविन्यस्त कस्तूरी तिलकोज्ज्वलं | पृ० ४७ब) अष्टमी चन्द्र शकल भाल भाल तलोज्ज्वलं | उत्फुल्ल पुण्डरीक श्रीनयनद्वय भासितं | मनोभव धनुः कल्प चिल्ली चाप विराजितं | तिल प्रसून विजयि नासा वंश विभूषितं | परार्धचन्द्रसंकाश मुख चन्द्र विराजितं | दाडिमी बीजकुन्दाभ दंतपंक्ति मनोहरं | पक्व बिम्बफलोद्भासि दंतवासोज्ज्वलं विभुं | जाम्बूनदानेकरत्न स्फुरन्मकरकुण्डलं | महामरकतस्तम्भभासमान भुजोत् करं | रत्न चामीकरा भोगैरंगदैर्वलयैर्युतं | कम्बुग्रीवं महोरस्कं मुक्ताहार विराजितं | श्रीवत्स लांछनं भ्राजत कौस्तुभोज्जवल वक्षसं | रत्नवैदुर्यय घटित किंकिणी जाल मालिकं | पट्टसूत्रेण सन्नद्ध मध्यदेशोपशोभितं | रत्नमंजीरयुगल मंजु श्रीपादपल्लवं | देवक्या वसुदेवेन हरेण विधिना तथा | विदिक्षु तिष्टता स्तोत्र मुखे रण पुटांजलिं | मेरुशृंग प्रतीकाशं गरुडोपरि संस्थितं | एवं ध्यात्वा परात्मानं गुरुमात्मानमेव च | एकीभावेन संभाव्य ततः पूजनमारभेत् | कर्पूर मानिता लोल सितचन्दन चर्च्चिते | आलिखेद्देवकीपुत्र यंत्रं शोभन रेखया | शलाकया वैद्रुमया तथा वापि च हेमया | किंजल्करूपकं वृत्तं ततो लेख्यं चतुर्द्दलं | ततो वृत्तं चाष्टदलं लिखेद्दशदलं ततः | समरेखं चतुष्कोण चतुर्द्वार सुशोभितं | बीजशोभि चतुर्द्वारे चतुष्कोण विराजितं | मध्ये संपूज्य देवेशं पूजयेच्च चतुर्द्दले | ऐशान्यामीश्वरं देवमाग्नेययां च पितामहं | नैरृत्यां वसुदेवं वायव्यामम्बिकामपि | पृ० ४८अ) तथा चाष्टसु पत्रेषु पूजयेद्देववल्लभाः | रक्ताम्बरधराः सौम्याः कराम्बुज धृताम्बुजाः | सर्वालंकरणोद्दीप्ता लसद् यौवन विभ्रमाः | श्रीमद्देवमुखाम्भोज न्यस्त नेत्र मधुव्रताः | ततो दशदले पूज्या लोकपालास्ततो बहिः | गरुडं पश्चिमे द्वारे जयं पूर्वे प्रपूजयेत् | विजयं दक्षिणे तद्वन्नारदं च तथोत्तरे | पुटांजलिकराः सर्वे सुस्तोत्र मुखरा अपि | विलसद्वनमालाश्च पीतकौषेय वाससः | ततः शंखं च चक्रं च गदां कौमदकीमपि | शांगं धेनु च संपूज्य तद्वाह्ये पूजयेदपि | ऐरावतादीनभ्यर्च्च्य गणानष्टौ ततो बहिः | कृते लक्षं जपेन्मंत्रं त्रेतायां द्विगुणं तथा | त्रिलक्षं द्वापरे जप्त्वा चतुर्ल्लक्षं कलौ जपेत् | प्रयोगानथ कुर्वीत साधकः सिद्धि लालसः | लक्ष्मी प्रसूनैर्जुहुयाछ्रियमिच्छन्न निन्दितां | आज्येनानेन जुहुयादान्नस्य समृद्धये | आरण्यै कुसुमै विप्रान् जातीभिः पृथिवीपतीन् | प्रसूनै रसितैर्वश्यान् शूद्रान्नीलोत्पलैरपि | वशे पुर्लवर्णैः सर्वान् पंकजैर्वनिता जनान् | गोशाला सुकृतो होमः पायसेन ससर्पिषा | गवां शांतिं करोत्याशु गोविन्दो गोकुल प्रियः | शिशुवेशधरं देवं किंकिणी जालशोभितं | स्मृत्वा प्रतर्पयेन् मंत्री दुग्ध बुद्ध्या शुभैर्ज्जलैः | धनं धान्यांशुकादीनि प्रीतस्तस्मै ददाति सः | पिण्डं मूलेन वीतं दहन पुरयुगे कोण राजत् षड़र्णं कुर्ययात् | पद्मं दशार्णं स्फुरित दशदलं कामबीजेन वीतं | पद्मं किंजल्कसंस्थं मुरविकृति दल प्रोल्लसत् | पृ० ४८ब) षोडशार्णं किंजल्क व्यंजनाट्यं विकृति दलयुगेष्वर्पितान्नष्टवर्णं | पाशांकुशाभ्यामावीतं क्षौणीपुर युगान्वितं | अष्टाक्षरेण संवीतं यंत्रं गोविन्ददेवतं | धर्म्मार्थ काम फलदं सर्व रक्षाकरं स्मृतं | पक्षांतको धरा संस्थो मनुबिन्दु विभूषितः | पिण्ड बीजमिदं प्रोक्तं सर्वसिद्धिकरं परं | चतुर्लक्षं जपेदेतत्तद्दशांशं हुनेत्ततः | तर्पयेत्तद्दशांशं च दशांशं चाभिषेचयेत् | ब्राह्मणान् भोजयेच्चापि दशांशमिति च क्रमात् | गणेशं भास्करं रुद्रं गौरीं च परिपूजयेत् | विदिक्षु यंत्रराजस्य स्वस्वमंत्र पुरःसरं | एतद्धारणमात्रेण त्रिकालज्ञो भवेन्नरः | यद् यन्निजेप्सि सर्वं साधयेन्नात्र संशयः | अनेन सदृशो मंत्रो यंत्रं चापि न विद्यते | केवलं प्रेम भावेन कथितं तव सुव्रत || इति श्रीगौतमीये षोडशोऽध्यायः || १६ || अथ प्रयोगान् वक्ष्यामि मंत्रयोरुभयोः समान् | यान् कृत्वा साधकवरलौकद्वय सुपूजितः | तदात्मकारि मंत्रान् वै वक्ष्यामि च क्वचित् क्वचित् | वन्दे तं देवकीपुत्रं सद्योजाताम्बुज प्रभं | शंख चक्र गदा पद्म धारिणं वन मालिकं | एवं ध्यात्वा मनुवरं लक्षं ब्राह्मे मुहूर्त्तके | जप्त्वा मेधां परां प्राप्य कवीनामग्रणीर्भवेत् | अथवा स्फटिकाभासं द्विभुजं लेख पुस्तकं | धारिणं तं विचिन्त्याथ लक्षं ब्राह्म्ये मुहूर्त्तके | जप्त्वा मंत्रं त्रिकालज्ञो बृहस्पति समो भवेत् | अथ वै तत् समो मंत्रः प्रोच्यते शृणु तत्त्वतः | श्रीमत् पदं तथा चोक्ता मुकुन्द चरणौ ततः | पृ० ४९अ) सदेति शरणमहं प्रपद्ये स्वाहयायुतः श्यामलं कोमलं बालं क्रीडंतं | मातुरंकके द्विभुजं स्तनपातारं चित्तत् श्रुतिधरो भवेत् | लक्षम्बा प्रजपेदेनं समानं लभते फलं | कामबीजाद्य मंत्रोऽयं किं न सिध्यति भूतले | उपसंहृत दिव्यांगं गुरोवन्मातुरं कगे? | चलद् गोश्चरणं बालं ध्यानाद्ब्राह्म्ये मुहूर्त्तके | जप्त्वा मनुवरौ विद्वान् सर्वशास्रार्थविद्भवेत् | सर्ववेदार्थकुशलो ज्ञानवान् भवति ध्रुवं | नन्दांगने पर्ययटन्तं धूली निचय धूषरं | प्रदीप्त मणिगणोद्दीप्तं यशोदा लोकनोत्सुकं | एवं ध्यात्वा मनुवरं जपेन्नियममास्थितः | लक्षैक जप नादस्य किं न साध्यति भूतले | प्रातः प्रातः पिवेत्तोयमष्टोत्तरशतं जपन् | अनेन मूको दुष्टार्थो जडः पाषाणवत्तथा | अनेन जलपानेन साक्षाद्वाक्पतिसन्निभः | जायते नात्र सन्दैहः सत्यं सत्यं न चान्यथा | पद्भ्यां निःक्षिप्य शकटं रुदंतं प्राकृतं तथा | लक्षं जप्यादिति ध्यात्वा आपद्भ्योमुच्यते ध्रुवं | शत्रुभ्यो न भयं तस्य राजतो दस्युतोऽपि वा | न तस्य विद्यते भीतिः कदाचिदपि सुव्रत | अथापरं प्रवक्ष्यामि रहस्यं सुरपूजितं | यज ज्ञात्वा साधक वरः प्रयोग फलमाप्नुयात् | ब्रह्माणं सोमसंयुक्तं मूर्द्धिण् स्वर विभूषितं | बिन्दुनाद समाक्रांतं कल्पराजं समुद्धरेत् | एवं न वीति होत्रस्थं महामाया स्वरान्वितं | बिन्दुनाद समाक्रांतं द्वितीयं बीजमुद्धरेत् | वां तं रेफ समायुक्तं चतुर्थस्वरभूषितं | नादबिन्दुसमायुक्तं तृतीयं बीजमुद्धरेत् | पृ० ४९ब) थान्तं शम्भु समायुक्तं इन्दु बिन्दु समन्वितं | दौर्गबीजमिति ख्यातं समस्तापन्निवारणं | शम्भोः पदं वह्नियुतं मायाबिन्दु समन्वितं | अशेष जगतो बीजं महामायेति विश्रुतं | अनया योजितो मंत्री असाध्यमपि साधयेत् | वां तं वह्णिसमायुक्तं चतुर्थस्वर भूषितं | श्रियो बीजमिति प्रोक्तं नृणां सर्वसुखप्रदं | विरिंचीन्द्र समायुक्तं चतुर्थस्वरभूषितं | नादबिन्दु कलाक्रातं बीजं त्रैलोक्यमोहनं | प्रोक्तं सांताक्षरं तत्तु षष्ठस्वर समन्वितं | नादबिन्दु कलायुक्तं कुर्च्चबीजमिति स्मृतं | एतेषां बीज वर्ष्याणां ज्ञात्वा कर्म्माणि मंत्रवित् | गुरुतः शास्त्रतः सम्यक् सर्वकर्म्माणि साधयेत् | अन्यथा नैव सिद्धिः स्यान्मंत्रः कल्पशतैरपि | मेरुश्चतुर्द्दशस्वरः अधो वह्नि समन्वितः | नृसिंह बीजमित्युक्तं भूतापस्मार नाशनं | समाहित मना भूत्वा पद्माक्षैः कृतमालया | अयुतैकं जपेन् मंत्रं ब्रह्मचारि व्रतेरतः | अल्पयासेन कामाः स्युर्दरिद्रश्च न जायते | सर्वे मनोरथास्तस्य सिध्यन्तीति न संशयः | नित्यं कर्म्मरतः कृष्णं चन्य पुष्पैः समर्च्चयेत् | वश्या भवंति सर्वे च ब्राह्मणा नात्र संशयः | गोपाल वेशं मनसा जाती पुष्पैः समर्च्चयेत् | वश्या भवंति राजानो नात्र कार्यया विचारणा | तमेव रक्तपुष्पैस्तु वैश्या वश्या भवंति हि | नीलोत्पलैश्च शूद्राः स्युर्म्मांसं कृष्णं समर्च्चयेत् | जुहुयाद्रक्तकुसुमैर्म्मिश्रितैस्तिलतण्डुलैः | पृ० ५०अ) मंत्रेणाष्टसहस्रं तु जप्त्वा भस्मधरेद्यतिः | ललाटे विधृते तस्य सर्वे घश्या भवंति हि | अनेन च शरीरेण राजानो वशतामियुः | स्त्रियो वश्या भवं तस्य पुत्रामात्याश्च सर्वथा | विवाहार्थी जपेन्मंत्रं मासमष्टसहस्रकं | रासमण्डलमध्यस्थं कृष्णं ध्यात्वा व्रते स्थितः | विवाहयेदुत्तमांतां रम्यां सर्वकुलोज्ज्वलां | पुत्रं मे रक्ष रक्षेति द्विजेन प्रार्थितो हरिः | हृतं पुत्रं समाहृत्य ददौ यस्तं विचिन्तयेत् | पुत्रकामो लभेत् पुत्रं मासेनैकेन सुन्दरं | दीर्घयुरप्रतिहत बलवीर्यय समन्वितं | कुन्दपुष्पैः समाराध्य कृष्णं ध्यायेच्च कन्यका | मासद्वयं तथा मंत्रं जपेदष्टसहस्रकं | मनोरथ पतिं लब्धा दीर्घकालं च क्रीडति | अंजनं कुसुमं वस्त्रं ताम्बूलं चन्दनं तथा | अन्यान्यान्युपभोगानि स्पृष्ट्वा मंत्रं शतं जपेत् | दीयते यस्य यस्याभिसोऽचिराद्दासवद्वशी | स्त्रीयो वश्या अनेनैव भवंति मुनिसत्तम | पुरुषं वशयेन्नारी अनेनैव विधानतः | अन्नाद्यकामः श्रीपुष्पैः सिततण्डूलमिश्रितैः | अष्टोत्तरसहस्रं तु जुहुयादन्नवान् भवेत् | विश्वरूपधरं ध्यात्वा शतमष्टोत्तरं जपेत् | समाहित मनाः श्रीमान् यशस्वी कीर्तिमान् भवेत् | प्रेतभूतपिशाचाश्च स्कन्दादिग्रहपीडितैः | पूतनास्तनपातारं ध्यात्वा मंत्रं शतं जपेत् | प्रणश्यंति ग्रहा दुष्टाः पलायंत इतस्ततः | सर्पमण्डल दंष्टाश्च मूषिकाद्यैश्च दंशितान् | कृष्णं कालीय दमनं चिन्तयित्वा जपेन्नरः | पृ० ५०ब) तर्ज्जयंतं विषं घोरं हुंकारेण विनाशयेत् | अत्राप्यन्योमत्र क्रूंच बीजद्यं शृणु तत्त्वतः | कालीयस्य फणा मध्ये दिन्यं नृत्यं करोति च | नमामि दैवकीपुत्रं नृत्यराजाननच्युतं | ज्वरार्त्तोऽभ्यर्च्चयेन्मंत्री जपेदष्टशतं तथा | ज्वरेण संस्तुतं कृष्णं बल प्रद्युम्नसंयुतं | दहंतं वाणनगरीं गरुडो़परि संस्थितं | निज ज्वरेण संपिष्टं ध्यात्वा नाशयति क्षणात् | शीतला कामलादीनि तथा चातुर्थकोद्भवान् | प्लीहगुल्मयकृद्वायु अपस्मार भवं तथा | नाशयेन्नात्र सन्देहो दृष्टिमात्रेण मंत्रिकः | गोपालं यष्टिपाशं च धेनुमादाय संस्थितं | ध्यात्वा कृष्णं जपेन्मंत्रं पत्र्युमान्स तु मासतः | राज्ञः पुरोधा भवितुमिति यस्यमतिर्भवेत् | मधुसिक्तैः सितैः पुष्पैर्हुत्वा तन्मण्डलाल्लभेत् | महैश्वर्ययमथ प्राप्य विश्वख्यातो भवेद्ध्रुवं | गोवर्द्धनधरं कृष्णं ध्यात्वा मंत्रं जपेन्नरः | वातवर्षादिभिर्घोरैर्भये सम्यगुपस्थिते | भयमाशु विनश्येत नात्र कार्यया विचारणा | वृन्दावनगतं कृष्णां वृष्टिकामो विचिन्तयन् | जपेदष्टसहस्रं तु वृष्टिमाप्नोत्य संशयं | एवं च मनसा ध्यात्वा वृष्टिं वर्षाषु चारहेत् | एवं जलाशये ध्यात्वा जपेदष्टसहस्रकं | वृष्टिर्भवत्यकालेऽपि महती नात्र संशयः | गायंतं वेणुना कृष्णं गान कामो विचिन्तयन् | आज्यमष्टशतं हुत्वा किन्नरैः सह गीयते | जय कामो जपेद्यस्तु हरंतं कल्पकद्रुमं | संस्तुतं देवताभिस्तु गरुडारूढमच्युतं | ध्यात्वा रक्तकरवीरसमिद्भिर्जुहुयाद्वशी | पृ० ५१अ) अष्टोत्तरसहस्रं तु पक्षात् पराजितो रिपुः | राजादि भयमापन्ने संशयैर्द्दुर्गसंसदि | हुत्वा दशसहस्रं तु तत्क्षणन्नाशयेद् ध्रुवं | नीलोत्पलादिभिः पुष्पैरष्टोत्तरसहस्रकं | शंखादिनिधिसंयुक्तं द्वारकामध्यगं हरिं | ध्यात्वा तण्डूल दूर्वाभिर्हुत्वा शांतिकमाहरेत् | कदम्बमूले गायंतं गोपालं वनमालिनं | कदम्बपुष्पैः संस्पृष्टं चिन्तयित्वा जनार्द्दनं | अपामार्गशतैर्हुत्वा जपेदष्टसहस्रकं | सर्वान् कामान् वशीकृत्य आशु विज्ञो भवत्यपि | राजद्वारे सभायां च व्यवहारे च मंत्रवित् | मंत्रमष्टशतं जप्त्वा प्रथमं वाक्यमुच्चरेत् | अनेनैव विधानेन सर्वत्र विजयी भवेत् | मोक्षकामो जपेद्यस्तु पुण्डरीकाक्षमव्ययं | सनकाद्यैः स्तुतं कृष्णं शुक्लाम्बरधरं परां | शंख चक्र धरं ध्यात्वा मंत्रं लक्षं जपेन्नरः | ताराभ्यां पुटितं कृत्वा विधिवत् स्थानमाश्रितः | चक्राब्जमण्डले कृष्णं पूजयन् भक्तिमावहन् | संसारसागरात् साभ्यामुच्यते नात्र संशयः | यदृच्छेद्ब्राह्मणो मंत्री वशीकर्त्तुं जगत्रयं | वन्यैर्म्मनोहरैः पुष्पैर्वेनुं गायंतमच्युतं | ध्यात्वा संपूज्य विधिवल्लक्षमेकं सहोमकं | जप्त्वा समस्तलोकानां प्रियो भवति नान्यथा | दैवोपमं सुखं भुक्ता याति विष्णुं तनुं द्विज | अर्च्चयेन्मानसा कृष्णं सहस्रं प्रत्यहं जपेत् | वत्सराल्लभते मोक्ष यज्ञ ज्ञात्वा न निवर्त्तते | वर्णिनां च गृहस्थानां न्यासिनामप्ययं विधिः | मेधा कामोहुनेदग्नौ पालाशैराज्यमिश्रितैः | पृ० ५१ब) समिद्भिः पूर्ववद्ध्यात्वा मेधा स्यादति मानुषी | वाचमिच्छेल्लभेद्वाचं ब्राह्मे जप्त्वा मुहूर्त्तके | शतं शतं च षण्मासं वाग्मी चापि सुधीर्भवेत् | शत्रूणां जय कामस्तु पारिजात हरं हरिं | गरुडारोहणं ध्यात्वा जिता शेष दिवौकसं | समिद्भिश्चापि जुहुयात् करवीर समुद्भवैः | लक्षं जप्त्वा तथा लक्षं जुहुयान्मंत्रवित्तमः | जित्वा शत्रु गणानेतान् नाक्रांतांश्च यथाविधि | प्रतिष्ठां कारयेद् यस्तु भगवंतं विचिन्त्य च | शंख पद्म निधि युक्तं वसंतं द्वारकां पुरीं | ध्यात्वा तिलाज्य करणान् जुहुयात् सित तण्डुलान् | अष्टोत्तरसहस्रं वै प्रतिष्ठां लभते ध्रुवं | सर्वांल्लोकान् वशीकर्त्तुं कामयम् पंकजासने | कदम्ब मालया नित्यं भगवंतमलंकृतं | सनकाद्यैः प्रार्थ्यमानं योगिभिर्गोपवेशकं | विचित्र पुष्पमालाभिर्भूषितं वनमालया | कदम्बमूले गायंतं चिन्तयेत् सर्वनायकं | समिद्धिरप्ययामार्गैरष्टोत्तरसहस्रकं | मध्वाज्ययुक्तै जुहुयात् सर्वलोक वशी भवेत् | मुमुक्षुभिर्भगवंतं पुण्डरीक दले क्षणं | सनकाद्यैश्चिन्त्यमानं सिद्धैरन्यैश्च योगिभिः | ब्रह्मेन्द्र शंकर मुखैर्गणैश्चापि दिवौकसां | प्रह्लादं प्रमुखैर्भक्तैरन्यैश्चापि महात्मभिः | हूतपद्मकर्णिकोत्तुंग दिव्यसिंहासनोपरि | ध्यात्वैवं परमात्मानं यशोदानन्दवर्द्धनं | पलाशतुलसीपत्रैः सौवर्णकुसुमैः शुभैः | मानसैर्वा यथाशक्त्या अर्च्चयेत् पुरुषोत्तमं | आत्मानं दैवकीपुत्रं लीला यष्टिधरं स्मरेत् | यद् यत् कामयते मंत्री तत्तदाप्रोत्य यत्रतः | पृ० ५२अ) अनेन विधिना सर्वं साधयेत् परमात्मनः | योजयेच्च चतुर्थेन विष्णोश्चैव बुद्धिमान् | तृतीयमष्टमं विद्याद्ब्रह्मणा विष्णुना सह || इति श्रीगौतमीये सप्तदशोऽध्यायः || १७ || अथापरान् प्रवक्ष्यामि प्रयोगान् भुवि दुर्ल्लभान् | यत् कृत्वा मानवः सम्यक् सद्यो देवत्व मृच्छमा | साध्यं विद्यते तस्य भुवि स्वर्गे रसातले | निशीत शरनिभिन्नं भीष्मताप हरं हरिं | दृष्ट्वा पीयूष वर्षिण्या कारुण्यात्तं विलोकयन् | एवं ध्यात्वा युत जापादसाध्य ज्वरनाशनं | मूर्छा दाह गदा स्फोट विष कीट समुद्भवं | नाशयेद्दाहमत्विराद् अमृतां शांशतो हुतेत् | काशीराजेन प्रहितां कृत्यां तां द्वारकापुरीं | निजारिणा तां छित्वा तत्तत् पुरीं चक्र तेजसा | दहंतं तं हरिं स्मृत्वा जपेदयुतमादरात् | स्वस्नेहाक्तैः सप्तर्यैश्च हुनेद्रात्रो तथा युतं | कृत्याः परेरितास्तीन्तु न ग्रसंति कदाचन | डाकिनी पूजना कृत्या यक्ष पन्नग राक्षसाः | अन्ये वै क्रूर सत्वाश्च प्रयोगाज्जपहोमयः | देशाद्देशांतरं यांति न समर्थाश्च हिंसितुं | ध्यात्वा विश्वेश्वरे देवं व्याप्ति विश्वावकाशकं | सूर्ययकोटि प्रतीकाशं चन्द्रकोटी सुशीतलं | एवं ध्यात्वा च मतिमान् लक्षमेकं जपेन्मनुं | जुहुयादयुतं भक्त्या शतवीर्ययं कुरन्निकैः | दूर्वा यस्य ख्यातिः अकालमृत्यु नाशाय सत्येमेतत् परं पदं | मृत्युजयं हरिं ध्यात्वा सर्वपापैर्विमुच्यते | आसीनमाश्रमे दिव्ये वदरीषण्डमण्डिते || पृ० ५२ब) स्पृशन् वृहद्भ्यां हस्ताभ्यां घंटा कर्ण कलेवरं | एवं ध्यात्वा जपेन्मासमष्टोत्तरसहस्रकं | समस्त विपदां मंत्री प्रशमाय शमाय च | समता सर्वभूतेषु आशु निर्वाण दायकं | विशीथे रथमारूढ़ं तर्ज्जयंतं मुहुर्मुहुः | धावमानं रिपुगणं अनुधावनमच्युतं | विसृजद्वाणसंघेन नयंतं दूरदेशतः | उद्घाटनं भवेत् सद्योरिपूर्णा लक्ष जापतः | द्वेषयंतं रुक्मि वलौ पाण्ड्य मध्य स्थितं हरिं | ध्यात्वा लक्षं मनु वरं निस्वप्नेह विमिश्रितं | तैलेनेत्यर्थः | तदंते जुहुयान्मंत्री गुलिका गोमयद्भवाः | एवं प्रयोगमात्रेण वैरस्यं जायते मिथः | अन्योन्य कलहे नैव देशाद्देशांतरं व्रजेत् | विद्विष्टस्तत्र तत्रापि काकवत् पर्ययटेन्महीं | पार्श्वे दिशंतं गीतार्थं रथस्थं मधुसूदनं | राजमण्डलमध्यस्थं चन्द्रायुत समप्रभं | ध्यात्वा युतं मनुवरं शमाय प्रजपेत् सुधीः | अनेन जपमात्रेण किं न सिध्यति भूतले | स्थाने हृषीकेश तवेत्यादि चार्ज्जुन वार्षकं | गायत्रीछन्दोवलितं विश्वात्मा विश्वदैवतं | सपर्यया पूर्ववत् प्रोक्ता साधयेत् सकलेप्सितं | श्रीबीजाद्यैर्ज्जपेन्मंत्रो वरौ ध्यात्वा च पूर्ववत् | लक्षैक जपमात्रेण कुबेर खमोदते | अन्नदैवत गोपालं वक्ष्येऽन्यं श्रृणु तत्त्वतः | अन्नरूप रसरूप तुष्टिरूप पदोपरि | अन्नाधिपतये स्वाहा | सोऽयमत्राधिपो मनुः श्रीबीजाद्यो मनुः प्रोक्तोऽत्र रत्नसमृद्धिदाः आचक्राद्यंग कॢप्तिः स्यान्नारदोऽस्य मुनिः स्मृतः गायत्री छन्द इत्युक्तं देवश्चान्नप्रदो हरिः | पृ० ५३अ) ध्यानार्च्चनादिकं सर्वमस्य पूर्ववदाचरेत् | य एवं चिंतयेन्मंत्री स तु सर्वसमृद्धिमान् | आहृत्य स्वर्णपात्रं च क्षालितं शुद्ध वारिणा | विलिप्य गन्धपंकेन लिखेदष्टदलाम्बुजं | कर्णिकायां लिखेद्वह्नेः पुटितं मण्डल द्वयं | द्विवह्निपुटितं षट्कोणमित्यर्थः | तन्मध्ये विलिखेत् कामं साध्याख्यं कर्म्मसंयुतं | तत इष्टैर्म्मनोर्वर्णैस्तत कामं वेष्टयेत् सुधीः | श्रियं षट्कोणकोणानामैन्द्रनैऋत वायुषु | आलिखेच्च लिखेन्मायां वह्णि वरुण शूलिषु | अक्षरैः काम गायत्र्या वेष्टयेत् केशरेषु च | मारमालामनोर्वर्णैर्द्दलेष्वष्टषु मंत्रवित् | लिखेद् गुहान्तरैर्वर्णैर्म्मातृकां तद्वहिर्ल्लिखेत् | भूबिम्बं च लिखेद्वाह्ये श्रीमाये दिग्विदिक्ष्वपि | मंत्रं मेवं समालिख्य जातरूपमये तटे | राजते ताम्रपात्रे वा भूर्ज्जे क्षौममयेऽपि वा | सूक्ष्मतंतु मये वापि प्रतिष्टाप्य समीरणं | आकर्षणं सुरस्त्रीणां नागलोक विलासिनीं | पिशाच यक्ष रक्षांसि क्रूरग्रहाश्च ये स्थिताः | दुष्ट सत्वाश्च ये सर्वे परि सर्पंति भूतले | यंत्रराज धरं दृष्ट्वा विद्रवंति द्रसंति च | बहुना किमिहाक्तेन सर्वलोके सुखावहं | स्त्रीणामाकर्षणं राज्ञां लोकवश्यकरं भूवि | योग सिद्धिकरं पुंसां भवसागरतारकं | भुक्ति मुक्ति करं यंत्रमिति प्रोक्तं स्वयम्भुवा | वांतं यांतं समारूढं मायाबिन्दु विभूषितं | श्रियो बीजमिति प्रोक्तं नृणां सद्यः सुखप्रदं | आदौ क्लींकारमुच्चार्यय कामदेव पदं वदेत् | आयांतं विद्महे पुष्पं बाणायेति पदं तथा | पृ० ५३ब) धीमहीति पदं प्रोक्ता तत्रोऽनंग प्रचोदयात् | एषा मन्मथ गायत्री प्रोक्ता मन्मथ दीपनी | कामं नाडी च संभाव्य ततः कामपदं वदेत् | देवायेति पदं ब्रूयात्तथा सर्वजनं पदं | प्रियायेति पदांते च वदेत् सर्वजनं पुनः | ब्रूयात् सन्मोहनायेति ज्वलशब्दं च वीप्सयेत् | प्रज्वलेति पदं सर्व जनस्य हृदयं तथा | उक्त्वा मम वशं पश्चात् कुरु शब्दं च वीप्सयेत् | वह्निजायां तथेत्युक्ता मालाख्या मंत्यथो मनुः | भूगृहं चतुरस्रं स्यादष्टवज्र विभूषितं | अस्मिन् मंत्रे समावह्य वासुदेवं जगद्गुरुं | किं न सिध्यति मंत्रज्ञो यत् कथ्यं कथितं च ते | एवं ते कथितं यंत्रं प्रयोगांतमिहोच्यते | लक्षं जप्त्वा पलाशानां कुसुमैस्तत्समं हुनेत् | व्याख्याता सर्वशास्त्राणां अचिरादेव जायते | स योगी स च विज्ञानी विष्णु योगी तथात्मवित् | शुक्लवस्त्रस्य लाभाय शुक्लादि पुष्पमाहुनेत् | अष्टोत्तरशतं कृत्वा राजतो वान्यतो लभेत् | मुंचंतौ पितरौ कृष्णं मथुरा निर्द्दतार्द्दितौ | ध्यात्वा युत जपांते च तावत् संख्यं च होमयेत् | निगडान्मुच्यते सद्यो यमुद्दिश्य कृत्वा क्रिया | पुरन्दर मुखैर्द्देवैः स्थितं वृन्दावनं हरिं | सुरभ्याः पयसा तोयैरभिषिच्य संस्तुतं | राजराजेश्वरं कृत्वा मंगलाचार पूर्वकं | ऊर्व्वशी प्रमुखाभिस्तु स्वर्वेश्याभिरधिष्ठितं | एवं ध्यात्वा जपेल्लक्षं पंकजैरयुतं हुनेत् | सार्वभौमो भवेत् सोऽपि येनेयं विहिता क्रिया | आत्मानं कंसमथनं रिपुं कंसात्मकं स्मरन् | पृ० ५४अ) निशीथे प्रजपेन्मंत्री दक्षिणामुख संस्थितः | लक्षमेकं जपांते तु वाणीरतरतर्पणैः | अयुतं होममात्रेण म्रियतेऽरिर्न चान्यथा | अरिष्टपलक्षं तत् पादपांशुन ईक्षितं | हरणाम्म्रियते शत्रः शंकरेणापि रक्षितः | अरिष्टदलकार्पास व्योमास्थिकणसंयुतं | हरणाल्लक्षमात्रेण यदि भूरस्थितो भवेत् | अपि पीयुष सेवी च म्रियतेऽरिर्न चान्यथा | हरिद्राग्रंथि होमेन स्तम्भये दरिद्राग्रंथि होमेन स्तम्भयेदरिवाहिनीं | न शस्तं मरणं कर्म्म कदाचिद्वैष्णवे मनौ | क्रूरं क्रूराशयं कष्टमायिनं च सतामपि | ईदृग्विधं जनं प्राप्प अभिचाराय योजयेत् | प्रायश्चिताय गायत्रीं लंक्षं जप्त्वा च साधकः | तदंते पायसैर्म्मंत्री अयुतं होममाचरेत् | अपि प्रयोग कर्त्तृणां शांतिः स्यान्नैव चान्यथा || इति श्रीगौतमीयेऽष्टादशोऽध्यायः || १८ || कर्म्मांतरमथो वक्ष्ये शृणुष्वावहितोऽनघ | यं कृत्वा मन्दभाग्योऽपि लभेन्मंत्र फलानि वै | प्रणवद्वयमध्यस्थं जपेद्युतसंख्यया | त्रिरात्र जप मात्रेण वृहस्पति समो भवेत् | व्याख्याता सर्वशास्त्राणां वेदानामपि जायते | शनिवारेऽश्वश्य वृक्षमालभ्याष्टोत्तरं शतं | भूयो भूयो भवेच्छांतिर्ज्जीवेदष्टोत्तरं शतं | तस्य शांतिर्भवेन न्यूनं यमुद्दिश्य कृता क्रिया | आशुकैरर्च्चयेत् कृष्णं मासमात्रं तु निर्म्मलैः | मुच्यते मलिनैः कृच्छ्रैः पापैर्घोरतरैरपि | पट्टवस्त्रे यजेद्भक्त्या संपत्ति मण्डलां भवेत् | विक्रमैः पूजयन् कृष्णं त्रैलोक्यं वशमानयेत् | पृ० ५४ब) माणिक्यैः पूजयन् भक्त्या सर्वे भौम समो भवेत् | षद्मरागैर्यजेत् कृष्णं राजा भवति निश्चयं | क्षत्रियः सार्वभौमः स्यात् साधयेत् सकलां महीं | गारुत्मतमयै रत्नैः पूजयन् ज्ञानवान् भवेत् | अपि हीरकरत्नेन पूजयन् किं न साधयेत् | सुवर्णपुष्पैरभ्यर्च्च्य मासभक्ति परायणं | कुबेर सम सम्पत्तिं संप्राप्य मोदते चिरं | देहांते हरितां प्राप्य निर्वाण पद मृच्छति | रविवारेऽर्कपुष्पैश्च कह्लारैः सोमवारके | मंगले रक्तपुष्पैश्च बुधे तगर सम्भवैः | चम्पकैर्गुरुवारे तु शुक्ते मुकुन्द सम्भवैः | शनिवारे शमीपुष्पैः पूजयेद्भक्तितो यतिः | रविवारे घृतात्रं तु पयोऽभ्यक्तं निवेदयेत् | सोमवारे पिष्टकादि सितया सह योजयेत् | मंगले गुडसंमिश्रं अन्नं बहुगुणान्वितं | बुधवारे यावकं तु गुरवे पूपसम्भवैः | दुग्धान्नं शुक्रवारे तु शनौ सघृतपायसं | वैशाखे मासि विधिवत् तर्पयेद्धिमवज्जलैः | ज्यैष्ठे मासि प्रयत्नेन फलैः संपूजयेद्धरिं | आषाढे भासि विधिवत् पवित्रैः पूजयेद्विभुं | एकैकं स्वर्णसूत्राणि ग्रंथि युक्तानि कारयेत् | अथवा पट्टसूत्राणि पद्मसूत्राणि वा पुनः | पूजांते देव देवाय महिषीभ्यो निवेदयेत् | मिथुनेभ्यस्तथा दत्त्वा महांतमुतसवं चरेत् | तोषयेद्भक्षभोज्यैस्तु ब्राह्मणान् संशित ब्रतान् | एवं सम्वत्सरे मंत्री कृत्वाभीष्टमवाप्नुयात् | नत्रेद्वर्ष कृता पूजा वास्तोर्भक्षय कल्पते | श्रावणे मासि कृष्णं तं पूजयेत् केतकोद्भवैः | चन्द्र चन्दन कस्तूरी कुंकुमादि सुवासितैः | पृ० ५५अ) एलालवंग कक्कोल फलानि बहुधार्पयेत् | भाद्रे मासि यजेत् कृष्णं भक्षैर्बहुर्गुणान्वितैः | इषे मासि यजेद्भक्त्या भक्षैर्भोज्यैः सुविस्तरैः | कार्पासनिर्म्मितैर्वस्त्रैर्नानाभरणसंयुतैः | तुलास्थे भास्करे कृष्णं पूजयेन्मासमात्रकम् | रात्रौ प्रदीपैर्होमे * * * * * * * * * | घृतदीपमविच्छिन्नं दद्यान्मासं महोज्ज्वलं | एकादश्यामुपोष्यैव द्वादश्यां पारणा दिने | शुक्लायां विष्णुमभ्यर्च्च्येट्वस्त्रालंकरणादिभिः | अस्यान्तिथौ च मतिमान् वर्षतोतसवमाचरेत् | भोज्यानि बहुभक्ष्याणि ब्राह्मणेभ्यो निवैदयेत् | एवं कृते देवतास्य तुष्टा चेष्टं प्रयच्छति | संतलोकमवाप्नोति पुनरावृत्तिवर्ज्जितं | मार्गशीर्षे यजेद्देवं नवान्नैर्घ्यं जनैः शुभैः | न्यरिकेल फलक्षोदं मिश्रितं गुडजीरकैः | स्रेहपक्वं च देवाय भक्त्या तस्मै निवेदयेत् | पौषे मासि च माषं वै पूतपूपैः प्रपूजयेत् | माघे मासि यजेत् कृष्णमक्षतैः सुशुभैः सितैः | दुग्धार्थं शर्करायुक्तं मिष्टान्नं च निवेदयेत् | अस्मिन्मासि शुभदिने वस्त्रेणाछादयेद्विभुं | फाल्गुणे देवकीपुत्रं पूजयेत् स्वर्णपुष्पकैः | चूत(घृत)सौगन्धिकुसुमैर्धूपैर्दीपैः सुविस्तरैः | चैत्रे मासि वासुदेवं सर्व पुष्पैः समर्च्चयेत् | पौर्णमास्यां यजेद्भक्त्या मदनैश्च सगुच्छकैः | अस्मिन् दिने रतिं कामं पूजयेद्भक्तितत्परः | न चेत् साम्वत्सरी पूजा वृथा भवति निश्चितम् || पृ० ५५ब) भस्मीभूतं स्मरं दृष्ट्वा रुदितास्य रतिः सती | तां दृष्ट्वा कृपया विष्टोवरं दातु स्वयं शिवः | प्रत्युवाच रतिस्त्वियं सुभगत्वमवाप्नुयात् | सुन्दरः सर्वलोकेषु क्रीडार्थं व्रजसुन्दरि | ततोऽभवत् क्रन्दजवलात् पुष्पं मदनकं शुभं | तेन पूजनमात्रेण सम्वत्सर फलं लभेत् | होमयेल्लक्षमात्रं यः पिष्टकैर्घृतभर्ज्जितैः | तावत् संख्यं मनुं जप्त्वा कृष्णं पश्यति मंत्रवित् | इति ते कथितं सम्यक् पूजनं वार्षिकोद्भवैः | कृत्वानेन विधानेन किं न साध्यति भूतले | पुण्यस्त्रियो गृहस्थाश्च मुनयो ब्रह्मचारिणः | वनस्थाश्च तथा कृत्वा वांछितं प्राप्नुयः क्षणात् | स्त्रियः शूद्राश्च विधिवत् कृत्वा फलमवाप्नुयः | इह भुक्ता वरान् भोगान् न भूयो भव सम्भवः | एवं कृष्णं यजन् भक्त्या यत्कृतं जन्मकोटिभिः | तत् पापैर्न विलिप्येत पद्मपत्र मिवाम्भसा || इति श्रीगौतमीये ऊनविंशोध्यायः || १९ || गौतम उवाच विस्तरेण मम ब्रह्मन् कृष्णमंत्रान् ब्रवीहि मां | भक्तोऽहं तव शिष्योऽहं योग्योऽस्मि श्रवणे गुरो | नारद उवाच श्रृणु ब्रह्मन् कृष्णमंत्रान् सर्वदेवैक सम्मतान् | यदेक ज्ञानमात्रेण पुनर्ज्जन्म न विद्यते | प्रणवं पूर्वमुद्धृत्य नमस्तदनुचोच्चरेत् | कौस्तुभायेति संप्रोच्य मनुरष्टाक्षरः परः | एतद्विज्ञानमात्रेण साक्षाद्विष्णुर्भवेद्यतिः | षडदीर्घस्वरसंभेद्य कामेनांग क्रियामता | कलाय कुसुम श्यामं शंख चक्र गदाम्बुजं | अनेक रत्नसंछन्नं कौस्तुभोद्भासि वक्षसं | पृ० ५६अ) तार हारावलीरम्यं गरुडोपरि संस्थितं | ध्यात्वैवं परमानन्दं दशलक्षं जपेन्मनुं | होमयेत्तद्दशांशेन साधितैर्यूषपायसैः | पुरश्चरणमंगं यच्छेषमन्यत् समापयेत् | य एनं भजते मंत्री भोगमोक्षैककारणं | कर प्रचेयाः सर्वार्था अंते तत् परमं व्रजेत् | दशाक्षर समानं हि पूजनं समुदीरितं | अथान्यत् संप्रवक्ष्यामि षड्वर्णं मंत्रराजकं | यस्य विज्ञानमात्रेण जीवन्मुक्तो महींचरेत् | त्रिमात्रं नमसायुक्तं चतुर्थ्या कृष्णा इत्यपि | षडक्षर मनुः प्रोक्तो दृष्टादृष्ट फलप्रदः | नारदोऽस्य मुनिः प्रोक्तो गायत्त्री छन्द उच्यते | कृष्णोऽपि देवता साक्षाद् दुर्गाधिष्ठातृ देवता | विमात्रं बीजमित्युक्तं नमः शक्ति रुदीरिता | कृष्णाय कीलकं चास्य मंत्रराजस्य कीर्त्तितं | विनियोगोऽस्य मंत्रस्य पुरुषार्थ चतुष्टयं | पंचांगानि मनोरस्य आचक्राद्यैरुर्दर्ययते | नीलजीमुतसंकाशं किंकिनी जालमालिनं | सर्वाभरणसंदीप्तं रक्तपद्मोपरि स्थितं | सनकाद्यैर्म्मुनिवरैः स्तुतं ध्यायेद्दिगम्बरं | आलोल कुण्डलोद्भसि मुखचन्द्र विराजितं | शशरक्ताधरं रक्त पाणिपादविराजितं | कराभ्यां पायसं श्लक्ष्ण सद्योहैयंगतीयकं | दधतं चिंतयेद्देवं भोगमोक्ष फलप्रदं | ध्यात्वैवं परमात्मानं दशलक्षं जपेन्मनुं | जपांते पायसैः शुद्धै सेमं कुर्ययात् सशर्करैः | तर्पयेत्तद्दशांशेन जलैः कर्पूर वासितैः | अभिषेकं दशांशेन दशांशैर्विप्रभोजनं | तदंते दक्षिणां दत्त्वा साधयेद्धितमात्मनः | भिक्षाहारो जपेन्मंत्रं वर्षमेकं व्रतो स्थितः | पृ० ५६ब) कविर्वाग्मीसमृद्धश्च सर्वज्ञो जायते ध्रुवं | जवनीताशनं देवं ध्यात्वा लक्षजपात् सुधीः | दिव्यज्ञानमवाप्नोति त्रिलोकीं प्राप्य मोदते | य एवं मंत्रराजं तु भजते भक्तितत्परः | इह भुक्ता वरान् भोगान् देहांते परमं विशोत् | अथापरं प्रवक्ष्यामि षोडशार्णं महामनुं | यस्य विज्ञानमात्रेण कृष्णात्म परमं विशेत् | प्रणवं मनसायुक्तं कृष्णा गोविन्दकौ तथा | श्रीपूर्वं ङेन्तमुच्चार्यय हुं फट् स्वाहेति कीर्तितः | नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टवुदाहृतं | परमात्मा हरिर्द्देवो भुक्ति मुक्ति फलप्रदः | दशार्णक च देवास्य जप होमौ प्रकीर्त्तितौ | प्रयोगस्तत्समः प्रोक्तो बीजशक्ती च तत् समे | य एनं चिन्तयेन्मंत्रं सोऽधीते श्रुति चतुष्टयं | अनेन सदृशो मंत्रो जगत्स्वपि न विद्यते | अनेनाराधितः कृष्णः प्रसीदत्येव तत्क्षणात् | अथ संत्तान संसिद्ध्यैवालदं मंत्रनायकं | यस्य विज्ञानमात्रेण मंत्राः सिध्यंति मंत्रिणः | देवकीपुत्र शब्दांतो गोविन्द पदमीरयेत् | वासुदेव पदांते तु ततो ब्रूयाज्जगद्गुरो | देहि मे तनयं देव त्वामहं पदमीरयेत् | शरणंगत इत्युक्ता मनुश्चानुष्टुभाव्ययः | नारदोऽस्य ऋषिश्छन्दो गायत्री कथितं बुधैः | सन्तानदो हरिः साक्षाद्देवता च प्रकीर्त्यते | वास्तैः समस्तैरंगानि कृत्वा देवं विचिंतयेत् | नीलोत्पलदल श्यामं पीताम्बर युगावृतं | चतुर्भुजं शंख चक्रमूर्द्धपाणिद्वये स्थितं | अधः पाणिद्वये वेणुं वादयंतं मुदान्वितं | पृ० ५७अ) अनेकरत्न सन्नद्ध किरीटोज्ज्वलविग्रहं | नानालंकारसुभगं गरुडोपरि संस्थितं | वेदस्तोत्रं पठेन्नित्यं मुनिभिः परिवेष्टितं | एवं ध्यात्वार्च्चयेत् कृष्ण पंचांगः परमावृत्तिः | इन्द्रादिभिर्द्वितीया स्यात् तृतीया तु तदायुधैः | एवमभ्यर्च्च्य देवेशं लक्षमात्रं जपेन् मनुं | पुत्रजीवेन्धनचिते तत्फलैरयुतं हुनेत् | अनंतरं दशांशेन् तर्पणादीनि चाचरेत् | य एवं प्रभजेन्मंत्री संतानाख्यं महामनुं | पुत्रपौत्रेर्विनस्येत देहान्ते परमं ब्रजेत् | अविच्छिन्नं भवेद्वंशं यावदाहुत संप्लवं | दशभ्यां शुक्लपक्षे तु निशीथे स्वस्ति मण्डले | हरिमावाह्य विधिवत् पूजयेदुपचारकैः | एवमर्च्चनमात्रेण वत्सरात् पुत्रवान् गृही | दीर्घायुरप्रतिहत बलवीर्यय समन्वितं | वत्सराल्लभते पुत्रं सत्यं सत्यं मयोदितं | यस्यार्थे कुरुते मंत्री प्रयोगं सप्तपुत्रवान् | बन्ध्याऽपि लभते पुत्रान् शतहायन जीवितान् | प्राप्तवाचं यमानारी बोधि द्रुमदले जलं | मंत्रयित्वाष्टोत्तरशतं पिवेत् पुत्री यति ध्रुवं | एवं प्रयोगमाशंसेत्तनयं लभते ध्रुवं | अनेन मंत्रितं त्वाज्यं पुत्रसिद्धि करं परं | अनेन जलपानेन बन्ध्या वर्षाल्लभेत् प्रजां || इति गौतमीये विंशोऽध्यायः || २० || गौतम उवाच सर्वं जानामि त्वं विद्वन् स्वयम्भू सदुश प्रभो | त्वदुदीरितमाकर्ण्य कृतार्थोऽहं न चान्यथा | तपस्तप्त्वा पुरा ब्रह्मन् प्रार्थितो हरिमीश्वरः | तेनैवोक्तं न चेदैनं कथितव्यमखण्डितं | तदारभ्य पुरा ब्रह्मन् तव दर्शन लालसः | गंगो प्रवाहणं मंत्रं श्रोत्तुमिच्छामि तत्त्वतः | पृ० ५७ब) नारद उवाच बहवः कथिता मंत्रा मया ते मुनिसत्तम | तन्मंत्रं कथयामाद्य येन ज्ञानं प्रसीदति || यस्य विज्ञानमात्रेन भक्तिः स्यात् पेम लक्षणा | चतुर्विधं च पाण्डित्यं ज्ञानमात्रेण सिध्यति | मन्दभायोदरिशेऽपि शठो मूढोऽति पातकी | उपास्य मंत्रराजं तु वागीश सुमतां व्रजेत् | मयाप्येवं पुरापृष्टं पद्मयोनिर्यथावदत् | तथा ते कथयिष्यामि गुह्यद्गुह्यतरं मुने | द्वाविशन्दक्षरो मंत्रो वागीशत्वपवर्त्तकः | सर्वतंत्रेषु गुप्तोऽयं गोपनीयस्त्वया मुने | वेदः प्रादुरभूदस्ये मंत्रेणानेन वेधसः | कवीन्द्र त्वं भार्गवश्च वागीशत्वं बृहस्पतिः | श्रियमिंत्रादयो देवा ज्ञानं च सनकादयः | सौभाग्यं चन्द्रमाः प्रापत् कुबेरोऽपि धनेशतां | इमं मंत्रवरं ज्ञात्वा सर्वज्ञो भवति ध्रुवं | अदृष्टा श्रुत शास्त्रस्य व्याख्याता शिल्पगो भवेत् | महाकविर्महाप्राज्ञो वाक्पतेः समतां ब्रजेत् | ज्ञानं तु परं लब्ध्वा विष्णोः सयुज्यतां व्रजेत् | यं यं काममभिध्यायन् मनुष्ये भजते मनुं | तं तं काममवाप्नोति भुविस्वर्गे रसातले | अस्योद्धारमहं वक्ष्ये मम सार्वज्ञकारणं | कृष्णा गोविन्द कौङेन्तौ तथा गोपीजनां ततः | वल्लभोऽग्निप्रिया सर्गीह पूर्वः समनुस्वरः | नाम्नामादौ क्रमात् काम मायालक्ष्मीर्नियोजयेत् | द्वाविंशत्यक्षरो मंत्रो वाग्भवाद्यः प्रकीर्त्तितः | अहमस्य मुनिश्छन्दो गायत्त्री देवता मनोः | गंगाप्रवाहणः कृष्णः सर्वदेव नमस्कृतः | गंगाप्रवाहवद्वाणी जायते तेन तत्तथा | गंगाप्रवाहणो नाम कीर्त्यते परमार्थतः | पृ० ५८अ) बीजं तु मान्मथं प्रोक्तं शक्तिः पत्नी हविर्भुजः | कृष्णाय कामबीजाभ्यां हृदयं परिकीर्तितं | गोविन्दाय शिरस्तद्वन्मायाद्योऽसौ महामनुः | गोपीजन शिखा तद्वत् श्रीबीजाद्येन विन्यसेत् | वल्लभायेति कवचं अस्त्रं जाया हविर्भुजः | शेष बीजेन सहिताः पंचाग मनवः स्मृताः | मूर्द्धिण् भाले भ्रुवोर्मध्ये नेत्रे कर्णे तथा नसि | आस्ये कंठे च दोर्मूले हृदयोदर नाभिषु | लिंगमूले तथा धारे ऊव्वोज्जान्वोश्च गुल्फयोः | समस्तेन च मंत्रेण व्यापकं न्यस्य चिंतयेत् | कलाय कुसुम श्यामं पूर्णचन्द्रनिभाननं | बर्हिबर्हकृतोत्तंसं वनमालिनमीश्वरं | किरीटहारकेयुर रत्नकुण्डल मंडितं | श्रीवत्सवक्षः संभ्राजत् कौस्तुभोद्भासितो रसं | युवतीवेश लावण्य रमणीय तनुं हरिं | दिव्य पीताम्बरधरं चारुहार विभूषितं | स्मेरारुणाधरन्यस्त वेणुं त्रैलोक्यमोहनम् | ऊर्द्धवेदमयं वेणुं वादयंतं चतुर्भूजं | स्फाटिकीमक्षमालां च विद्यामूर्द्धकरद्वये | दधतं पुण्डरीकाक्षं दिव्यगान परायणं | अतुल्यानल्पसौन्दर्ययं मोहयंतं जगत्त्रयं | तपनीय लसत्कांत्या चीणाकमलहस्तया | निरीक्ष्यमाण चरणं वामपार्श्वस्थया श्रिया | हैमसिंहासने रम्ये सर्वरत्नोपशोभिते | रुक्मिण्यादि महिषीभिर्निषेवित मनारतं | चन्द्रमण्डल संकाश श्वेतछत्रोपशोभितं | नारदाद्यैर्मुनिगणैर्ज्ञानार्थिभिरुपासितं | इन्द्रादि देवतावृन्दैः प्रणतं परमेश्वरम् | पृ० ५८ब) सर्वज्ञं जगदीशानं ध्यात्वा हृदयपंकजे | जपेदेवं मनुवरं ध्यात्वा लक्षचतुष्टयं | स्वाद्वक्तैः कुसुमैर्ब्रह्मवृक्षजैर्होममाचरेत् | दशांशेन च मंत्रोऽयं सिद्धो भवति नान्यथा | पूजा दशाक्षरे पीठे अंगावृत्तिरनन्तरं | महीषीभिर्द्वितीयापि तृतीया दिगधीश्वरैः | चतुर्थी तत् प्रहरणैश्चतुरावृत्तिरीरिता | प्रातः प्रातः पिवेत्तोयं मंत्रेणानेन मंत्रितं | वागीश्वर समो भूत्वा काव्यकर्त्ता महान् भवेत् | अनेन मंत्रितं नित्यं ब्रह्मा पात्रं प्ररक्षयेत् | मण्डलादेव भतिमान् महाश्रुति धरो भवेत् | ब्राह्मी कुष्ठवचाकल्कं घृतेन द्विगुणेन च | चतुर्गुणं भवे दुग्धं पाचितं घृतमुत्तमं | अवतार्यय जपेदत्र अयुतं जपमादरात् | वर्षमेकं प्रातरेव भक्षयेन्मौनमास्थितः | एतद्भक्षणमात्रेण बृहस्पति समो भवेत् | हस्तमारोप्य जिह्वायां जपेदयुतमादरात् | प्रतिभा जायते दिव्या सर्वलोकैक भाविता | धवलैरुपचारैस्तु यदि देवं प्रपूजयेत् | दिव्यज्ञानमवाप्नोति प्रतिभा विश्वजित्वरी | श्रीविद्यायां यदा जप्त्वा तदा लक्ष्मीरचंचला | कामाद्यं जपनादेव सर्वलोकवशं नयेत् | मायादि जपनादेव वाक् सिद्धिर्जायंतेऽचिरात् | शक्तिबीजादिको मंत्रो निर्वाणमचिराद्दिशेत् | पुटनात् प्रणवाभ्यां तु मोक्षमाप्नोति निश्चितं | एवं मनुवरं जप्त्वा किं न सिध्यति मंत्रवित् | एवं मंत्रवरं यस्तु भजते भक्ति तत्परः | इह भुक्ता वरान् भोगान् समस्त ऋद्धि संयुतान् | सम्पत्तिं परमां लब्धा भूयादंते परं पदं | कामेन्द्राद्या परा शक्ति नदिविन्दुसमन्विता | पृ० ५९अ) कथितः कृष्णमंत्रोयं मंत्राणां मंत्रनायकं | ऋषिर्ब्रह्मा समाख्याता विराट्छन्द उदीरितं | त्रैलोक्यमोहनादेव श्रीकृष्णः परिकीर्त्तितः | कल षड्दीर्घबीजेन षडंगः परिकीर्त्तितः | अंशालम्बित वामकुण्डलधरं मन्दोल्लसत् भ्रूतलं | किंचित् कुंचित कोमलाधर पुटं साचि प्रभा वेक्षणं | आलोलांगुलिपल्लवैर्मुरलि कामा पूरयंतं मुदा | मूले कल्पतरोस्त्रिभंगललितं ध्यायेज्जगन्मोहनं | एवं ध्यात्वा जपेन्मंत्रं श्रद्धया दशलक्षकं | तद्दशांशेन जुहुयात् पायसैरथवाम्बुजैः | दशाक्षरोदिते पीठे पूजयेत्तद्विधानतः | प्रयोगानपि सर्वत्र तदुक्तेनापि कारयेत् | अथवा बालकृष्णं च नीलेन्दीवरसन्निभं | रत्नाभरणसंदीप्तं द्विभुजं नीलकुन्तलं | पायसं नवनीतं च कराभ्यां दधतं स्मरेत् | लक्षमेकं जपेन्मंत्रं पायसैर्होमयेत् शुभैः | दशांशं विधिवद्भक्त्या पूजांगेन्द्रादिकायुतैः | होमयेदयुतं मंत्री घृतभर्जितपिष्टकैः | अलक्षिर्नश्यति क्षिप्रं कांतिं तेजश्च विन्दति | पलाशकुसुमैर्हुत्वा वाक्सिद्धिं लभते ध्रुवं | पंकजैर्जुहुयान्मंत्री अयुतं श्रियमाप्नुयात् | नवनीतस्य होमेन कविर्वाग्मी प्रजायते | वासुदेव पदं चोक्तानि गडाच्छादनाय च | वासुदेव द्वयं चोक्ता स्वाहेति तन्मनुर्म्मतः | नारदोऽस्य मुनिः प्रोक्तच्छन्दोऽष्टुवुदाहृतं | निगडच्छेदनो लक्ष्मीर्वासुदेवोऽस्य देवना | पंचांगानि मनोरस्य आचक्राद्यैस्तु कल्पयेत् | राजमण्डलमध्ये तु कंसं निपात्य हेलया | पृ० ५९ब) ज्ञातीनां वर्द्धयन् हर्षं आनीय पितरौ स्वयं | निगडान्मोचितौ भक्त्या प्रणम्य च पुनः पुनः | बाह्ये संस्थाप्य विधिवद्देवकीं वीक्षितैर्नृपैः | एवं ध्यात्वा जपेल्लक्षं जहुयात्तद्दशांशतः | अंगन्यसादिकं सर्वं तदग्रवचनोदितं | य एवं चिंतयेन्मंत्री ससम्यक् सम्पदां निधिः | राजदुर्गभयादिभ्यो मुच्यते स्मरणात् क्षणात् | निर्गुण्डीमूल होमेन मुच्यते बन्धनादिभिः | राजद्वारे भये घोरे स्मरणान्मुच्यते भयात् || इति श्रीगौतमीये एकविंशोऽध्यायः || २१ || गोपालं पिण्डसंज्ञ च कथयामि मुने शृणु | यदाकर्ण्य गुरोर्भक्त्या परत्रेहवमोदते | अनेन सदृशो मंत्रो जगत्स्वपि न विद्यते | पंचातको धरासंस्थः सबिन्दुक मनुस्वरः | कथितो मंत्रराजोऽयं भुक्ति मुक्ति फलप्रदः | ऋषिर्ब्रह्मास्य गायत्री छन्दः श्रीकृष्ण देवता | गलाभ्यां बीजशक्ती तु कीलकं लेषमुच्यते | षड्दीर्घभाजा बीजेन षडंगानि प्रकल्पयेत् | वृन्दावनगतं कृष्णं रत्नसिंहासन स्थितं | कदम्बमूल देशे तु गोपिकाजन वेष्टितं | नारदाद्यै मुनिवरैर्दिव्यगानावसन्वकैः | सहितं परया भक्त्या वनमालिनमीश्वरं | रत्नालंकारसन्दीप्तं शंख चक्र लसत् करं | शब्द ब्रह्ममयं वेणुमधः पाणि द्वयोरितं | एवं ध्यात्वा मनुवरं लक्षमात्रं जपेद्वशी | सितान्वितैः पायसैस्तु युतं होमं समाचरेत् | य एनं भजते मंत्री सिद्धयस्तस्य हस्तगाः | धवलैः कुसुमैर्होमाद्वाक्सिद्धिं लभतेऽचिरात् | पृ० ६०अ) कर्णिकारस्य होमेन लक्ष्मीः सर्वविधा भवेत् | अनेन मंत्रितं तोयं प्रातः प्रातः पिवेज्जलं | कविर्वाग्मी श्रुतिधरः सर्वज्ञो जायतेऽचिरात् | अस्योपासनमात्रेण किं न सिध्यति मंत्रणः | इह भुक्ता वरान् भोगान् पुत्त्रपौत्त्रैः समन्वितः | अंते तत् परमं धाम मंत्री याति निरामयं | अथ वक्ष्ये महामंत्रं सर्वेप्सित फलप्रदं | यस्य धारणमात्रेण किं न सिध्यति भूतले | बीजं त्रिकोणमालिख्य षट्कोणं तद्बहिर्लिखेत् | षड़क्षरं लिखेत्तत्र वृत्तश्चाष्टदलं लिखेत् | अष्टाक्षरेण संयुक्तं तद्वहिः षोडशच्छादं | षोडशार्णं कृष्णा मनुं वहिदर्शदलान्वितं | दशाक्षरेण संयुक्तं आष्टादशदलं ततः | अष्टादशार्णं तन्मध्येद्वहिर्द्वात्रिंशदम्बुजं | देवकीसुत इत्यादि तत्रैव वृत्तमालिखेत् | पिण्डबीजं वेष्टत्तमालिखेत् | पिण्डबीजं वेष्टकत्वेन यंत्रस्य च सर्वतः | तद्वहिर्वृत्तं निष्पाद्य मातृकां तत्र वेष्टयेत् | वृत्तद्वयं पुनः कृत्वा शापांकुशेन वेष्टयेत् | तद्वहिर्वृत्तमेकं तु चतुरस्रं स वज्रकं | एतदुक्तं महायंत्रं कृपया मुनिसत्तम | सुवर्णपत्रे भूर्ज्जे वा नित्यं यः सुसमाहितः | अष्टगन्धैर्मसीं कृत्वा लिखेत् स्वर्ण शलाकया | अस्य धारणमात्रेण साक्षाद्भूमि पुरन्दरः | मुच्यते मलिने कृच्छ्र दुःखैर्घोरतरैरपि | शांतिं च शाश्वतीं लब्धायाति तत् परमं पदं | स्त्रीणां वाम भुजे नित्यं धारणात् किं न सिध्यति || पृ० ६०ब) बन्ध्यापि लभते पुत्त्रं शतहायन जीवकं | दीर्घायुरप्रतिहत बलवीर्यय समन्वितं | राशिचक्रं विलिप्याथ कुम्भं संस्थाप्य पूर्ववत् | विक्षिप्य यंत्रं तन्मध्ये सेकात् सर्वं हि साधयेत् | नित्यदर्शी भवेद्विप्रो महीं शास्ति महीपतिः | वैश्यः समृद्धिमान् भूयात् लभेत् शूद्रो यथेप्सितं | एतत्तु कथितं यंत्रं पुरुषार्थैक साधनं | केवलं तत् प्रयत्नेन गोपयस्व मुने स्वयं || इति श्रीगौतमीये द्वाविंशोऽध्यायः || २२ || अथ वक्ष्ये मनुवरं समस्त पुरुषार्थदं | यज्ञ ज्ञानात् सिद्धयः सर्वा भवंति कर संस्थिताः | लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा | स्वाहेति मंत्रराजोऽयं भुक्ति मुक्ति फलप्रदः | नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतं | देवता कृष्ण इत्युक्तः समस्त पुरुषार्थदः | षडंगं कामबीजेन षड्दीर्घभेदनेन तु | कलाय कुसुम श्यामं वृन्दावन गतं हरिं | गोप गोपी गवावीतं पीतवस्त्र युगावृतं | नानालंकारसुभगं कौस्तुभोद्भासि वक्षसं | सनकाद्यैर्मुनिश्रेष्टैः संस्तुतं परयामुदा | शंख चक्र लसद्बाहुं वेणुं हस्तद्वयेरितं | ध्यात्वैवं परमात्मानं चतुर्ल्लक्षं जपेन्मनुं | दशांशं जुहुयान्मंत्री कुसुमैर्ब्रह्मवृक्षजैः | भक्त्या त्रिसन्ध्यं च यजेदंगैरिन्द्रादिभिस्ततः | तथा प्रयोगे कुर्वीत धर्म्मार्थ काम मुक्तये | पायसैरयुतं हुत्वा दिव्यज्ञानमवाप्नुयात् | तद्वच्च लवणैर्हुत्वा लोकानाकर्षयेद् ध्रुवं | पलाशपुष्पैर्जुहुयात् कविर्वाग्मी च जायते | मत्स्यण्डी कदली दुग्ध घृत पायसं तद्धिया | पृ० ६१अ) तर्पयेदयुतं मंत्री गांगे येन जलेन वै | मण्डलादीहिता सिद्धिर्भवेन्नैवात्र संशयः | वागभवाद्येन जायेन वागीश समतां व्रजेत् | ब्राह्मी तत् कुसुमैर्हुत्वा निधिमाप्नोत्पय व्रतः | श्रीवृक्षफलहोमेन राज्यैश्वर्ययमवाप्नुयात् | एवं ते कथितं भक्त्या दुर्ल्लभं मंत्रनायकं | सत्संप्रदायकं प्राप्तं किं न सिद्धति मंत्रिणः | अष्टादशार्णो मारांतो मंत्रः सुत धनप्रदः | नारदोऽस्य मुनिश्छन्दो गायत्त्री कथितं बुधैः | बालकृष्णो देवतास्य समस्तार्थ फलप्रदः | षडदीर्घभाजा कामेन बीजेनांग क्रिया मता | इन्दीवर समाभासं बालं त्रैलोक्यमोहनं | लसद्रत्नमयैर्द्दीप्तैन्मण्डितं बहुभूषणैः | नानारत्नमयोद्भासि ब्राह्म कामांकुशागलं | कुंतलांत समुद्भासि स्फुरन्मकर कुण्डलं | हस्ति हस्तकराभ्यां च नवमी तं च पायसं | दधतं देववृन्दैश्च वेष्टितं गोपबालकं | एवं ध्यात्वा जपेन्मंत्री द्वात्रिंशल्लक्षमानतः | जपांते जुहुयादग्नौ पायसैस्तद्दशांशतः | तर्पणादीनि सर्वाणि पूर्ववत् समुपाचरेत् | साधयेत् सर्वकर्म्माणि सिद्धेनानेन मंत्रवित् | रक्तपद्मायुतं हुत्वा द्विजो ज्ञानमवाप्नुयात् | सर्वलोकैकशास्ता च क्षत्त्रियो नात्र संशयः | अन्येषां यद्यदिष्टं स्यात् साधयेन्मनुनामुना | रत्नपद्मोपरि ध्यात्वा शर्करा पृथुलाजकैः | कदली गुड बुध्या च जलैः संतर्प्य केशवम् | वत्सराल्लभते पुत्त्रं सर्वलोक नमस्कृतं | अनेन च यद्यदिष्टं जपमात्रेण साधयेत् | पृ० ६१ब) माया रमा कामबीजश्रियाढ्यो दशवर्णकः | त्रयोदशक्षरो मंत्रो दृष्टादृष्टफलप्रदः | ऋषिरस्य स्वयं ब्रह्मा छन्दोऽनुष्टुवुदीरितं | श्रीकृष्णो देवता प्रोक्तो महदैश्वर्ययदायकः | कुर्ययादस्य मनोर्म्मंत्री ह्रीमाद्यैरंगपंचकं | शंख चक्र गदा पद्म पाशांकुश लसत् करं | कराभ्यां वेणुमादाय धमंतं सर्वमोहनं | सूर्ययायुत समाभासं पीताम्बर युगावृतं | नानालंकारसुभगं रविमण्डल संस्थितं | एवं ध्यात्वा जपेन्मंत्रं चतुर्लक्षमनन्यधीः | जपांते तद्दशांशेन पायसैर्होमयेद्द्विजः | पूजयेन्मंत्रंराजेन वक्ष्यमाणेन वर्त्मना | मध्ये कृष्णं समावाह्य षडंगविधिनार्च्चयेत् | वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकं | दिग्दलेषु समभ्यर्च्च्य बहिरस्य विदिग्दले | सरस्वतीं तथा लक्ष्मीं रतिं प्रीतिमनंतरं | स्वदिक्षु लोकपालांश्च तदस्त्राणि च तद्वहिः | एवमभ्यर्च्च्य विधिवत् साधयेच्च यथेप्सितान् | विंशत्यर्णोदितान् विप्रः प्रयोगानपि साधयेत् | य एनं भजते मंत्री भक्त्या च परिपूजयेत् | राज्यैश्वर्ययमवाप्यान्ते भूयात्तत् परमं महः | काम माया रमा पूर्वो दशार्णो मंत्रनायकः | रमा माया काम पूर्वो दशार्णः सप्रकीर्त्तितः | अनयोर्म्मंत्रयोर्म्मंत्री आचक्राद्यैः षडंगतः | कृत्वा दशार्णवत् सम्यग् ध्यान पूजादिकं सुधीः | सपर्ययां च रते यस्तु मंत्रयोरेवमाश्रितः | इह भुक्ता वरान् भोगान् महैश्वर्यय समन्वितान् | पुत्त्रैः पौत्त्रैः प्रपौत्त्रैश्च ब्राह्मणो हरितां व्रजेत् || पृ० ६२अ) अथ वक्ष्ये शृणु मुने प्रतिपतिं जगत्पतेः | इन्द्रादिप्रमुखैर्द्देवैः स्वगुप्तां क्रियते तु या | कुबेरोऽपि च यां कृत्वा तपस्यन् ब्रह्मणो मुखात् | महेश सखितां प्राप्य धनेशत्वमव्यप्तरान् | इन्द्रोऽपि या मुपास्यैव देवराजत्वमाप्तवान् | त्रैलोक्यविजयी भूत्वा देव दैत्यैक शासकः | मायारमादिकाश्चाष्टादशार्णा विंशदर्णकाः | अनेन सदृशो मंत्रस्त्रिषु लोकेषु दुर्ल्लभः | ऋषिर्ब्रह्मा समुद्दिष्टो गायत्त्री छन्द एव च | देवता देवता वृन्द वन्द्यः श्रीकृष्ण ईरितः | अष्टादशार्णवत् कुर्ययान्मंत्रार्थैरंगपंचकं | द्वारवत्यां महाज्ञाने दीर्घिका शत मण्डिते | पारिजातवने रम्ये सुवर्णभूमि मध्यतः | सर्वरत्नमये चित्रे सुमेरु निभ मण्डपे | सिंहासने समासीनं सूर्ययकोटि समप्रभं | रक्तोत्पल समाभास पाणिपादाम्बुजं स्मरेत् | दक्षिणं चरणाम्भोजं रत्नपूर्ण घटोपरि | वामपादाम्बुजं दिव्यं स्वस्तिकाकारकारितं | शंख चक्र गदा पद्म लसद्बाहुचतुष्टयं | सर्वांग सुन्दरं देवं सर्वाभरण भूषितं | समुद्धृत्य सर्वरत्नै रत्ननद्याश्च रोचितं | रुक्मिणी सत्यभामा स्यात् राधिकाख्या च तिष्ठति | रत्नकुम्भेन रत्नेन सिंचंती परया मुदा | कालिन्दी ऋक्षजा रत्नं दिशंतौ कलसौ तयोः | नाग्नजीति सुनन्दा च मित्रविन्दा सुलक्षणा | आनीय रत्नकलसं रत्ननद्याः समुद्धृतं | दिशंत्यः सर्वमांगल्य संगत्या महिषीर्हरेत् | ततः षोडशसहस्र्यं सिंचंत्यः परितः प्रियाः | गीतैर्नृत्येश्च वाद्यैश्च शतार्द्धः सर्वदेवताः | पृ० ६२ब) एवं हरिं स्मरेन्मंत्री चतुर्ल्लक्षं जपेन्मनुं | जपांते पायसैर्दिव्यैर्ज्जुहुयात्तद्दशांशतः | तर्पयेत्तद्दशांशेन भक्तितप्तेदुमज्जलैः | अभिषिच्य दशांशेन ब्रह्मणामपि पूजयेत् | कर्णिकायां लिखेद्बीजं ससाध्यं तद्वहिर्लिखेत् | शेष सप्तदशार्णेन वह्नेर्गेह युगं ततः | वृत्ताद्वहिरष्टदलं चतुरस्रं सवज्रकं | चतुर्द्वार समायुक्तं यंत्रमेतत् सुलक्षणं | पूर्वदक्षिणपाश्चात्य कोणे मायां विलिख्य च | श्रीबीजमन्यतो लेख्यं षडर्णं कोणगं तथा | पत्रे तु कामं गायत्त्रीं त्रिशस्त्रिशो विभागशः | कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनंगः प्रचोदयात् | इत्युक्ता काम गायत्त्री समस्तजन मोहिनी | कामाद्यजापादस्यास्तु सर्वकर्म्माणि साधयेत् | दलमध्ये लिखेत् काम मनुं षट्शक्रमेण तु | नमोऽन्ते कामदेवाय सर्वजन प्रियाय च | सर्वसंमोहनयेति | ज्वलयुग्मं प्रज्ज्वलेति च | सर्वजनस्य शब्दांते हृदयं मम संवदेत् | वशं कुरु युगं प्रोक्ता स्वाहांतो मनुरीरितः | प्रोक्ता गोपाल यंत्रोऽयं कामाद्यः साधिको मुने | हाटकारचिते पात्रे भोज्यैर्वा प्रविलिख्य च | धारयेत् साधितं यंत्रं जपसेकसमन्ययात् | अस्याधारणमात्रेण किं न सिध्यति भूतले | राजानो वशतां यांति दासवच्छत्र संकुलं | त्रैलोक्यमोहनो मंत्रः सर्वलोकैक पूजितः | अस्मिन् थंत्रे समावाह्य राजराजेश्वरं हरिं | पूजयेद्भक्तितो मंत्री सर्वराजोपचारकैः | पृ० ६३अ) कोणषट्के षडंगं तु तद्वहिश्च विदिग्दले | वासुदेवं संकर्षणं प्रद्युम्नं चानिद्धकं | सरस्वतीं तथा लक्ष्मीं रतिं प्रीतिं च दिग्दले | तद्वहिरष्ट महिषी रुक्मिण्याद्याः प्रपूजयेत् | इन्द्रनील मुकुन्दाख्यान् मकरानन्द कच्छपान् | शंख पद्म निधी चापि तद्वहिः पूजयेत्ततः | इन्द्रादीन् स्व स्व दिक्ष्ववं वज्रादींस्तदनंतरं | इति षष्ठावृतैर्युक्तमच्युतं भक्तितोऽर्च्चयेत् | संसार सागरं घोरं वासनानक्रसंकुलं | सन्तीर्यय परमं धाम मंत्रीयाति न चान्यथा | चतुर्लक्षं जपेन्मंत्रं दशांशं पायसैर्हुनेत् | अथवा पंकजैः फुल्लैः शेषमन्यत् समापयेत् | तदा स्वहृदये विष्णुं मंत्र न्यासान् यथोदितान् | तन्मयो विहरेत्मंत्री तीर्ण संसार सागरः | अयुतं रक्तपद्मैस्तु हुत्वा विश्वं वशं नयेत् | तद्भस्म धारयेद्भाले यं स्पृशेद् यं निरीक्षयेत् | यैर्वाते भवंत्यस्य किं कराः | आरक्त हयमारैस्तु राजानो दासवद्वशे | शुक्लादि वस्त्रलाभाय शुक्लादि कुसुमैर्हुनेत् | हुनेद्धान्य समृद्धैश्च आरक्त धान्यमंजरी | श्रीवृक्षकुसुमैर्होमात् समा लक्ष्मीः प्रसीदति | बिल्वपत्रैश्च जुहुयात् पुत्त्रपौत्त्रानुयायिनीं | लभे लक्ष्मीं प्रसन्नां तत् फलै राज्यमवाप्नुयात् | केवलं घृतहोमेन ब्राह्म्यं तेजश्च जायते | आयुर्वृद्धिं यशो लक्ष्मीं वश्यतां सर्वयोषितां | लभते नात्र सन्देहः सुखं सर्वातिशायिनं | घृत तण्डुल होमेन बलवान् जायतेऽचिरात् | पृ० ६३ब) भक्ष्य भोज्यादिकं हुत्वा भोगी स्यादयावदायुषः | अष्टादशार्णदशयोः प्रयोगं नात्र चाचरेत् | आद्रवितः प्रयोगस्तु द्वाभ्यामेकं तु कारयेत् | रत्नाभिषेकं गोपालं यो येन विधिना भजेत् | सवैश्वर्ययसमृद्धोऽपि सर्वभुक् सर्वकारकः | देहत्यागे हरिं या यादित्येवं मुनयो जगुः || इति श्रीगौतमीये त्रयोविंशोऽध्यायः || २३ || अथातः संप्रवक्ष्यामि रुक्मिणी वल्लभं मनुं | यज्ञ ज्ञानात् सर्वलोकानां वल्लभो भुवि जायते | नमोऽन्ते भगवान् ङ्येन्तो रुक्मिणी वल्लभस्तथा | स्वाहांतो भावसंयुक्तः षोडशार्णो महामनुः | अस्य ज्ञानात्तथा मंत्री ज्ञानवान् जायतेऽचिरात् | धान्यादष्टांग योगस्य फलमाप्नोति निश्चितं | स्मरणादस्य मंत्रस्य सर्वतीर्थ फलं लभेत् | नारदोऽस्य मुनिः प्रोक्तच्छन्दोऽनुष्टवुदीरितं | श्रीकृष्णो देवता चास्य रुक्मिणी वल्लभा ह्वयः | व्यस्तैः समस्तैरंगानि पदैः कुर्ययात् षडंगवित् | अतसी कुसुम श्यामं पीतवस्त्र युगावृतं | नानालंकारसुभगं कौस्तुभायुक्त वक्षसं | श्रीवत्सलांछन श्रीमद्रत्नाभरण भूषितं | द्वारकावर गेहस्थं रत्नसिंहासने शुभे | रुक्मिण्यालापमधुरं शंख चक्र गदा धरं | ध्यात्वैवं परमात्मानं लक्षमेकं जपेन्मनुं | तदंते जुहुयान्मंत्री तिलैर्मधुरसंप्लवैः | पूजयेद्वैष्णवे पीठे दशाक्षर विधानतः | पलाशैः कुसुमैर्हुत्वा दिव्यज्ञानमवाप्नुयात् | पूर्ववत्तर्पणं कुर्ययात् सर्वाभीष्टानि साधयेत् | पृ० ६४अ) पुण्डरीकाक्षतं हुत्वा श्रियमाप्नोत्य यत्नतः | केवलं घृतहोमेन जीवेद्वर्षशतं सुखी | इत्येवं रुक्मिणीनाथ विद्यानं मुनिपूजितं | भोगमोक्ष करं यत्नान्मूने त्वमपि गोपया | प्रणवं जमसश्चांते वदेद्भव गते पदं | नन्दपुत्र पदं ङेऽन्तं वदेन्नन्दवपुस्तथा | भूत्यंते दशवर्णश्च मनुः सर्वार्थसिद्धिदः | नारदो मुनिराख्यातश्छन्द उक्तं विराड़पि | श्रीकृष्णो देवता चात्र चतुर्वर्ग फलप्रदः | पंचांगानि मनोरस्य आचक्राद्यैः प्रकल्पयेत् | ध्यायेद्वृन्दावने रम्ये गोप गोपी गणा वृतं | नानालंकारसुभगं पीताम्बर युगावृतं | सर्व प्रियकरं देवं किशोर श्याम विग्रहं | दोर्भ्यां वेणु पादयंतं भुवनैक गुरुं परं | एवं ध्यात्वा मनुवरं लक्षमेकं जपेत्तथा | तिलैश्च स्वादुयुक्तैश्च जुहुयात्तद्दशांशतः | दशाक्षरोदिते पीठे पूजयेत्तद्विधानतः | य एवं चिन्तयेन्मंत्री भोगमुक्त्योः सभाजनं | बिल्वपत्रायुतं हुत्वा सर्वकामान् प्रसाधयेत् | अष्टौत्तरशतं जप्त्वा सभायां विजयी भवेत् | सर्वलोकैक सुभगः सर्वैश्वर्यय समन्वितः | देहांते तत्पदं याति यत प्राप्त्वाज निवर्त्तते | नन्दपुत्र पदं ङेऽन्तं श्यामलांग पदं तथा | अमृतं मुखवृत्तं च मांसां चैव वपुस्तथा | दशाक्षरस्तु प्रोक्तोऽयं मनुः सर्वसमृद्धिदः | नारदोऽस्य मुनिः प्रोक्तच्छन्दोऽनुष्टवुदीरितं | देवता बालकृष्णोऽस्य मुनिभिः परिकीर्तितः || पृ० ६४ब) कल्पयेत् पूर्ववन्मंत्री चक्राद्यैरंगपंचकं | अतसी कुसुम श्यामं शंख चक्र लसत् करं | दोर्भ्यां वेणुं वादयंतं पीताम्बर युगावृतं | नानालंकारसुभगं भाव हाष विराजितं | एवं ध्यात्वा यजेद्देवं पंचांगैश्च दिशोऽधिपैः | तदस्त्रैरपि संपूज्य जपेल्लक्षं व्रते स्थितः | दशांशं जुहुयान्मंत्री पायसैर्म्मधुराप्लुतैः | एवं संसिद्धमंत्रस्तु सर्वकर्म्माणि साधयेत् | तिलाज्यैरक्षतं हुत्वा ग्रह रोगान् विनाशयेत् | पलाशकुसुमैर्हुत्वा वागीश समतां ब्रजेत् | प्रणवं पूर्वमुच्चार्यय नमो भगवते पदं | नन्दपुत्र पदं ङेन्तं भूधरो मुख वृत्तयुक् | वपुः पदं तथा ङेन्तमूणविंशति वर्णकः | नारदोऽस्य मुनिः प्रोक्तो विराट्छन्द उदीरितं | देवता नन्द तनयः सर्वलोकैक नन्दनः | पंचांगानि मनोरस्य चक्राद्यैः परिकल्पयेत् | नवीन वारिद श्यामं पद्मपत्र निभे क्षणं | मुक्तादामलसत् कंठ केयूरांगदभूषणं | अनेक रत्न संबद्ध स्फुर कर कुण्डलं | उद्दाम कौस्तुभोद्भासि वक्षः श्रीवत्स लांछनं | बर्हिवर्ह कृतोत्तं सं गोप गोपी गवावृतं | ध्यात्वैवं परमात्मानं जपेन्मनुरवं ततः | चतुर्लक्षजपान्ते तु दशांशं रक्तपंकजैः | होमयेच्छेषमन्यत्तु पूर्ववत् समुपाचरेत् | दशार्णयंत्रे विश्वेशं समावाह्य प्रपूजयेत् | प्रथमावृत्तिरंगैः स्यान्महिषीभर्द्वितीयिका | तृतीयादिगधीशैस्तु वज्राद्यैस्तु चतुर्थिका | एवं यः प्रपूजयेत् कृष्णं चतुरावृत्ति संयुतं | पृ० ६५अ) धर्म्मार्थकाममोक्षाणां संपूर्णं लभते फलं | पायसैरयुतं हुत्वा महाधनपतिर्भवेत् | पूर्णायुर्लभते मंत्री अयुतं घृतहोमतः | दूर्वया लक्षहोमेन जीवेद्वर्षशतं सुखं | इत्येष कथितो मंत्रः सर्वेषां सर्वसिद्धिदः | अथापरं प्रवक्ष्यामि मनुं सर्वसमृद्धिदं | यज्ञज्ञानान्मुनयः सर्वे भोगमोक्षैक भूमयः | लीलादण्डधरं चोक्त्ता गोपीजन ततः परं | दोर्द्दण्डन्तु पदं चोक्ता मेघ श्याम पदं ततः | विष्णः स्वाहेति मंत्रोऽयं समस्त पुरुषार्थदः | नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुवुदारितम् | श्रीकृष्णो देवता चास्य सर्वविश्वानुशासकः | पदैः पंचांग कऌप्तिः स्यात्ततो ध्यायेदथाच्युतं | तापिंज कुसुम श्यामं सदा षोड़शवार्षिकं | गोपीमध्य स्थितं ताभ्यां लिंगितं काम हृच्छया | सर्वालंकारसुभगं पीताम्बरधरं परं | भुवनैक गुरुं ध्यात्वा लक्षमेकं जपेन्मनुं | दशांशं कमलैर्हुत्वा शेषमन्यत् समापयेत् | तर्पयेन्नित्यशो देवं दुग्ध बुध्या शुभैर्ज्जलैः | मण्डलाद्वांछिता सिद्धिर्म्महाधनपतिर्भवेत् | यं० इमं भजते नित्यं जपहोमादि तत्परः | वांछितानी हितान् लब्धा देहांते तत्पदं व्रजेत् | वेदादिक मना माया कामबीजादथो वदेत् | श्रीकृष्णं च पदं ङेन्तं गोविन्दं च तथा वदेत् | गोपीजना पदस्यांते वल्लभं ङेन्तमीरयेत् | कामांतं च रमाबीजं संप्रोक्तो मंत्रनायकः | सिद्धगोपालमंत्रोऽयं सर्वसिद्धि प्रदो नृणाम् | पृ० ६५ब) बीजैः पदैश्च पंचांगं कृत्वा ध्यायेदथाच्युतं | पक्षिराजकृतच्छायौ सुरद्रुमतलासिनौ | शंखेंदु मरुता भासौ दध्युत्थ पायसाशिनौ | अनेकैरावृतमुखैर्ग्रहयुक्तो यथाविधुः | नानालंकारसुभगौ कस्तुभौ युक्त कन्दरौ | तारहारावली रभ्यौ सर्वाश्चर्यय मयौ शिशु | त्रैलौक्यशरणौ श्रीमद्रामकृष्णौ स्मरन् जपेत् | लक्षमेकं मनुवरं दशांशं श्रीफलैर्हुनेत् | होमांते विधिवन्मंत्री शेषमन्यत् समापयेत् | दशाक्षरोदिते पीठे वक्ष्यमाणेन पूजयेत् | षड़ंगं केशरे यद्वा दिगीशाः प्रहरानपि | एवं त्रयावृत्तिमयं संपूज्य पुरुषोत्तमं | दुग्ध बुध्या जलैर्नित्यं तर्पयेदिष्टसिद्धिदं | मुखे करं समायुज्य जपाद्वाग्मीकावर्भवेत् | नवनीता युतं हुत्वा धरापति वृत्ये भवेत् | रविवारेऽश्वत्थमूले चाष्टौत्तरशतं जपेत् | पुत्त्रैर्म्मित्रैश्च सम्पन्नो म्रियते नापमृत्युतः | अथापरं मनुवरं कथयामि समृद्धिदं | लक्ष्मी माया कामबीजैर्दशार्णां पूटयेत् क्रमात् | षोडशार्णो मनुः साक्षान्महालक्ष्मीं प्रयच्छति | ब्रह्मा ऋषिः समुद्दिष्टो गायत्री छन्द ईरितं | महासम्पत्प्रदः श्रीमान् देवता कृष्ण ईरितं | दशार्णवदंग कऌप्त्या ध्यायेद्देवमनन्यधीः | कालाभ्रनिचयप्रख्यं पाणिपादाम्बुजारुणं | तारहारावली रम्यं कौस्तुभायुक्त वक्षसं | किरीट केयूर ग्रैवेय कंकणोर्म्मि विराजितं | ध्यायेद्रत्न गृहान्तःस्थं रक्तपंकजमध्यगं | चतुर्ल्लक्षं जपेन्मंत्रं पायसैरयुतं हुनेत् | पृ० ६६अ) तर्पणादीनि सर्वाणि पूर्वोक्त विधिनाचरेत् | य० एनं भजते मंत्री लक्ष्मी गोपाल विग्रहं | ससर्व सम्पदं लब्ध्वा यात्पनं तम यत्नतः || इति श्रीगौतमीये चतुर्विंशोऽध्यायः || २४ || अथापरं प्रवक्ष्यामि मंत्रराजं सुदुर्ल्लभं | अवायुर्येन जपेन दिव्य ज्ञानं मुनीश्वराः | भ्रष्ट राज्यं सुरेश्रेष्ठो ह्यवापयदुपासनात् | अन्येऽपि बहवो देवाः स्वस्वाधिकारतां गताः | त्रिमात्र हृद्भगवते गोविन्द मुकुन्दायेति तन्मनुः | द्वादशाक्षर इत्युक्तो मंत्रः सर्वसमृद्धिदः | नारदोऽस्य मुनिः प्रोक्तो विराट् छन्द उदीरितं | श्रीकृष्णो देवता प्रोक्तः सर्वदेव नमस्कृतः | विनियोगोऽस्य मंत्रस्य पुरुषार्थं चतुष्टये | व्यस्तैः पदैः समस्तश्च पंचागानि प्रकल्पयेत् | सृष्टि संहृति स्थित्या च करशोधनमाचरेत् | स्थित्यंतं दशतत्त्वं च मातृका मनु संपुटम् | तत्त्वन्यासं तथा कृत्वा केशवादि पुरःसरं | जनिपालन संहार विधानैक विशारदं | कलाय कुसुम श्यामं नीलेन्दीवरलोचनं | अनेक रत्नाभरणं दीप्त्या विश्वावकाशकं | तथैवाशनसुवात पीतवस्त्र युगावृतं | श्रीवत्सलक्षणं देवं कौस्तुभोद्भासि वक्षसं | वेणुवाद्य निनादेन मोहयंतं चराचरम् | मुनिवृन्दैर्द्देववृन्दै ऋषिवृन्दैस्तु (स्तु) संस्तुतम् | आवृतं महिषी वृन्दैर्निधिभिः परिषेवितं | अथवा तप्तहेमाभं कांत्याक्रांतं जगत्त्रयं | कल्पद्रुम ललतासीनं रत्नसिंहासनोपरि | ध्यात्वा जपेन्मनु वरं लक्षद्वादशमादरात् | वार्त्ता कर्णा न मात्रं हि स्वीणां कृत्वा व्रते स्थितः | पयोमूल फलाशिना पूर्वोक्ताचारपालकं | पृ० ६६ब) दशांशं जुहुयाद्भक्तो कुसुमैर्ब्रह्मवृक्षजैः | ततः पूर्वोक्तविधिना शेष मन्यत् समापयेत् | गोष्ठे प्रतिष्ठितं देवं पुण्यावण्येऽथवा तथा | प्रासादे वा प्रतिष्ठाप्य पूजयन् भोग मोक्ष भाक् | वृन्दावन गतं ध्यायेन्महामाणिक्यमण्डपं | सामान्यार्घ्यं विशोध्याथ पूजये द्वारपालकान् | द्वाराग्रेऽवनिपीठे च पक्षीन्द्रं परिपूजयेत् | जपं च विजयं चैव बलप्रबलसंज्ञकौ | चण्डं प्रचण्डमथ च धातारं च विधातरं | द्वारो पूर्वादिषु तान् प्रादक्षिण्येन पूजयेत् | द्वारोर्धे द्वारश्रियं च देहल्यां देहलं जयेत् | द्वारस्य पार्श्वेयोस्तद्वद् गंगां च यमुनां तथा | विघ्नेशं क्षेत्रपालं च तयोः पार्श्वे प्रपूजयेत् | दूर्वाक्षतान् समादाय विघ्नानुत्सार्यय वाह्यतः | पादाघातकरा स्फोट समुदं चित वक्त्रकैः | विघ्नं त्रिविधमुत्सार्यय अस्त्रमंत्रेण मंत्रवित् | कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेश मर्च्चयेत् | अर्च्चयेद्वास्तुपुरुषं गृहमध्ये समाहितः | तारं शांर्गपदं ङेऽस्तं स पूर्वं च सवासनं | हुं फट नम इति प्रोक्ता मद्रयाग्रे स्थितो हरेः | विधेय मेतत् सर्वत्र स्थापितोक्त विशेषतः | आसनेषूपतिष्ठेत्तु तन्मंत्रेण विधानवित् | न्यासान्नास्य स्वदेहे च आत्मवागावसानकं | दशाक्षरोक्त विधिना पीठं संपाद्य पूजयेत् | नारदादि गुरूंस्तद्वदिष्ट्वा भागवतान् यजेत् | गुकारं मरणं विद्याद्रुकारस्तद्विरोधकः | गुरुरित्येव मुनिभिः प्रोक्तः कृष्णैक्य योगतः | नारदः पर्वतं जिष्णुं निशठोद्धव दारुकं | पृ० ६७अ) विश्वक्सेनं च शैलेयं वायवादीशांतमर्च्चयेत् | गुरून् परगुरूंश्चापि परमेष्ठि गुरूंस्तथा | परापरगुरूंस्तद्वत् पूर्वसिद्धाननंतरं | सनकश्च सनत्कुमार संज्ञकः सनातनश्च इत्यादि परान् भागतांस्तथा | गुरुनाम्ना प्रकृत्यैव पादुकाभ्यो नमो वदेत् | आपायां पाति नियतं दुःशंकाद्दुर्निमित्तकात् | कामितार्थ प्रदानाश्च पादुका परिकीर्त्तिता | गत्यर्थे चरधान्तस्तुणश्चाप्यानन्द उच्यते | आनन्दं प्रापयेद् यस्मात्तस्माच्चारणमुच्यते | पीठपूजां विधायाथ तत्रावाह्य हरिं यजेत् | सर्वोपचारान् कृत्यांते षडंगावृत्तिमर्च्चयेत् | रुक्मिणीं सत्यभामां च दक्षवामे प्रपूजयेत् | वासुदेवं संकर्षणं प्रद्युम्नं चानिरुद्धकं | कालिन्दी नाग्नजिताख्या सुशीला च सनन्दका | ऋक्षजा लक्षणा चैव इत्यष्टो महिषीः स्मृताः | कौमोदकीं पांचजन्यं वसुदेवं च देवकीं | नन्दगोपं यशोदां च संपूज्य तदनंतरं | किंकिणीं च तथाभ्यर्च्च्य दामादींश्च पूषू जयेत् | दिगर्धाशान् स्वदिक्ष्ववं गजानष्टौ तथार्च्चयेत् | कुमुदः कुमुदाख्यश्च पुण्डरीकोऽथवा मनः | शंकुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः | एककालं द्विकालम्वा त्रिकालं अद्धयान्वितः | मन्द्रवित् कृष्णमभ्यर्च्च्य भोगमुक्त्योश्च भाजनं | गोष्ठे वा शैल शृंगे वा पुण्यारण्ये नदीतटे | प्रासादे स्थापयन् कृष्णं तीर्थ कोटीफलं लभेत् | कोटि कोटि महादानात् कोटितीर्थ परिभ्रमात् | तत्फलं लभते भक्त्या संप्रतिष्ठाप्य केशवं | महामंत्र कोटि जापात् यत् फलं लभते पुनः | पृ० ६७ब) तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमं | कोटियज्ञेन यत्पुण्यं पुण्यारण्य निषेवणात् | यत्फलं लभते मर्त्य-स्तच्च० संस्थाप्य केशवं | यावज्जन्म हरेर्नाम ग्रहणाद् यत् फलं लभेत् | तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमं | सूर्ययग्रहे कुरुक्षेत्रे गोदानायुत यत् फलं | तत् फलं लभते भक्त्या संस्थाप्य पुरुषोत्तमं | सद्यः सार्गि समायुक्तः कामः पंचस्वरान्वितः | मांसांते नाथाय वदेन्न मोहंतो मंत्र ईरितः | नारदोऽस्य मुनिः प्रोक्तश्छन्दोऽनुष्टुवुदाहृतं | गोपवल्लभः श्रीकृष्णो देवता परिकीर्त्तिता | पंचांगानि मनोरस्य आचक्राद्यानि कल्पयेत् | ध्याये वृन्दावने कृष्णां गोप शिशु गणावृतं | हस्ताभ्यां वेणु शृंगं च श्यामलं विश्वमोहनं | बहुरत्नसमावद्ध किंकिणी हार नूपुरं | एवं ध्यात्वा जपेन्मंत्रं लक्षमात्रं समाहितः | होमयेत्तद्दशांशेन पायसैर्म्मधुरान्वितैः | अंगेन्द्र वज्रादि मुखैरित्यर्च्चन विधिः स्मृतः | य एवं लभते मंत्री श्रीगोपालवल्लभं हरिं | सगोगणवरैराट्यं सर्वैश्वर्यय समृद्धिमान् | देहांते भगवद्धाम प्राप्नुयान्नात्र संशयः | ऊर्द्धदंत युतः खांतो नांतो मांस द्वयं तथा | भीषणामुखवृत्तेन वीति होत्र समान्विता | सर्वार्थसाधकः प्रोक्तो नमोऽन्तोऽष्टाक्षरो मनुः | कामबीजं मुखे दद्यात् सर्वार्थः संप्रदायकः | कुण्डलीशाश्च ये मंत्रा गोपालस्य क्वचित् क्वचित् | कामबीजं मुखे तेषां दद्यात् सर्वार्थ सिद्धये | नारदोऽस्य मुनिः प्रोक्तोऽनुष्टुप्छन्दः समीरितं | पृ० ६८अ) श्रीकृष्णो देवता चास्य समस्त पुरुषादर्थः | पंचागानि मनोरस्य आचक्राद्यैः प्रकल्पयेत् | कलाय कुसुम श्यामं नीलेन्दीवरलोचनं | नानालंकरसुभगं वालंतं पंचहायनं | दध्युत्थपाय संस्फीतं कराभ्यां दधतं हरिं | तारहारावलीरम्यं गोप गोपी गवावृतं | ध्याचैवं परमात्मानं सृष्टिस्थित्यंत कारिणं | अर्कलक्षं जपेन्मंत्रं दशांशं पायसै हुनेत् | अथवा पंकर्हुत्वा सिद्ध मंत्रो भवेत् सुखी | दशाक्षरोदिते पीठे तद्विधानेन पूजयेत् | अथवांगेन्द्र वज्रादि पूजा चास्य समीरिता | नवनीताक्षतं हुत्वा सर्वसिद्धीश्वरो भवेत् | पुत्त्राप्तिश्च स्यकैर्हुत्वा पाटलै राजपश्यता | अत्राद्यैर्होमतो नित्यं लक्ष्मीस्तस्य गृहे स्थिरा | पूर्वोक्त तर्पणे नैव सर्वाभीष्टानि साधयेत् || इति गौतमीये पंचविंशोऽध्यायः || २५ || कामश्चाष्टस्वरारूढः सर्गवान् मंत्रनायकः | कृष्णेति द्यक्षरः प्रोक्तः काम पूर्वो गुणाक्षरः | कामाद्यंतश्चतुर्वर्णश्चतुर्वर्ग फलप्रदः | ङेन्तः कृष्णो नमोऽन्तश्च पंचवर्णो महामनुः | स एव काम पूर्वश्चेत षडक्षर मनुः स्मृतः | एवं जप्त्वा त्रिकालज्ञः शाता तप मुनीश्वरः | अस्य संस्मरणादेव सार्वज्ञं कवितांवरां | लभते नात्र सन्देहः सत्यं सत्यं हि मद्वचः | कृष्ण गोविन्दकौ ङेऽन्तौ कामाद्यश्चाष्टवर्णकः | आद्यंते कामबीजश्चेन्नवाक्षरमनुर्म्मतः | सुप्रसन्तात्मने वह्नि वल्लभा सप्तवर्णकः | कामबीजं धरा बीजं पुनः कामं समुद्धरेत् | पृ० ६८ब) श्यामलांग पदं ङेऽन्तं नमोऽन्तोऽयं दशाक्षरः | शिवोऽन्तो बाल वपुषे कृष्णा यान्यो मनुर्म्मतः | ङेऽन्तं बालवपुः कामः कृष्णो ङेऽन्तः शिवोऽन्तकः | कृष्णायेति स्वरद्वन्द्व मध्ये पंचाक्षरोऽपरः | एकादशाक्षरो मंत्रो भजतां वांछितार्थदः | गोपालायाग्निजायाभ्यां षड़क्षर उदाहृतः | यस्य संस्मरणा देवकि मलभ्यं जगत्त्रये | एतेषां मनुवर्ययाणां नारदो मुनिरीरितः | उक्तं छन्दस्तु गायत्त्री बालकृष्णश्च देवता | षड्दीर्घभाजा कामेन षडंगानि समाचरेत् | नीलपद्मसमानाक्षं बालं श्यामल विग्रहं | नानारत्नसमावद्धा विचित्त्राभरणन्वितं | रक्तपद्म समासीनं दध्युत्थं पाप संवरं | दधतं कर पद्माभ्यां गोपाल शिशु संवृतं | एवं विचिंत्य प्रजफेल्लक्षमेकं यथाविधि | अंते जुहुयाद्विधिवद्दशांशं श्रीफलैर्नवैः | दशाक्षरोदिते पीठे विधिना पूजयेद्धरिं | षडगावृत्तिराद्यास्याद्द्वितीयादिगधीश्वरैः | तृतीया प्रहरै रुक्ता समर्प्या सर्वकामदा | अयुतं बिल्वपत्रैस्तु हवनाल्लभते नरः | तेजो बीजं तथा कांतिं लक्ष्मीं सर्वानिशायिनीं | रक्तपद्मायुतहोमाद्राजानश्चास्य किंकराः | बिल्वपत्रैस्तथा हुत्वा लभेद्राज्यमकंटकं | एतेषां मनुवर्ययाणां एकं यो भजते सुधीः | इहभ्युक्ता वरान् भोगान् देहांते तत् पदं व्रजेत् | अथा एवं मनुवरं वक्ष्ये सर्वसमृद्धिदं | स्मरणाद् यस्य मंत्रज्ञो वागीश समतां व्रजेत् | देवानामीश्वरः शक्रो धनदो धननायकः | स्मरणादस्य मंत्रस्य किं न सिध्यति भूतले | पृ० ६९अ) वाग्भवं कामबीजं च मायां लक्ष्मीमनंतरं | दशवर्णं मनुवरं चतुर्द्दशाक्षरो मनुः | वाग्भवाद्यो यथा चायं मंत्री वाक्पतिसन्निभः | वेद वेदांत वेदांग सिद्धांतमतिरुज्ज्वलः | अमृतस्पन्दनीर्वाचः कविता सर्वजित्वरी | सर्ववाङ्मयवेत्ता च सर्वज्ञो जायतेऽचिरात् | संविदाद्यं यदा मंत्रं साधको यदि वा भ्यसेत् | अचिरात् सर्वसिद्धीनामधीपो जायते सुधीः | राजानो वश्यते यांति सामान्यैः सपरिच्छदैः | देवाः सर्वे नमस्यंते किं परः कथ्यते परं | श्रीबीजाद्यं यदा जप्याद् भक्तितो मंत्रनायकं | अलभ्यगार मातस्य मन्दिरे सम्पदावहा | तस्य वंशे स्थिरा लक्ष्मीर्यावदाहूत संप्लवं | काम पूर्वो यदा मंत्रो जप्यते साधकोत्तमैः | त्रैलोक्यं वशतामेति मनोवाक्काय कर्म्मभिः | स्त्रीणां कन्दर्प सदृशो दर्शनादेव मोहकृत | चमत्कारकरो लोके जीवेद्वर्षशतं सुखी | ऋषिर्ब्रह्मास्य मंत्रस्य गायत्री छन्दः ईरितं | देवता सर्वजगतां मोहनः कृष्ण ईरितः | पंचांगानि मनोरस्य आचक्राद्यैः प्रकल्पयेत् | सृष्टिसंहारस्थितिभिर्द्दशवर्णान् करे न्यसेत् | तारसंपुटितान् कृत्वा नमो मध्यगतान्मुने | दशार्णांग न्यासदेशे दशवर्णं विनिर्द्दिशेत् | केशवादि तथा तत्त्वं दशतत्त्वं क्रमात् क्रमात् | ऋष्यादि न्यासमापाद्य षडंगन्यासमाचरेत् | कामाक्षरं परं बीजं स्वाहा प्रकृतिरीश्वरी | केवलं चित् पराशक्तिर्म्मंत्राधिष्टातृ देवता | ध्यायेद्वृन्दावने रम्ये कांचनी भूमि मध्यगे | पृ० ६९ब) नानापुष्पलताकीर्णे वृक्षषण्डैश्च मण्डिते | कल्पाटवी कुले सम्यक् श्रीमन्माणिक्यमण्डपे | देवकिन्नरगन्धर्वमुनिभिः परिषेविते | नारदाद्यैर्म्मुनिश्रेष्टैः स्तुतिभिः समुपस्थिते | रत्नसिंहासने ध्यायेत् आसीनं कमलोपरि | सजल जलद श्यामं रक्तपद्मदले क्षणं | रक्तपद्मनिभं पादं पाणिभ्यां परिमण्डितां | नवरत्न समावद्ध भूषणैः परिभूषितं | वेणुं धमंतं पाणिभ्यां जीताम्बर युगावृतं | आरक्तवक्षसि श्रीमत्कौस्तुभोद्भासिताम्बरं | तारहारावली रम्यं श्रीवत्सांकित वक्षसं | रोचना तिलक प्रांते कुण्डल भ्रमरायितं | कन्दर्प चापसदृश चिल्ली मणि विराजितं | अनेक रत्नसम्बद्ध स्फुरन्नूपुरकुण्डलं | वर्हिवर्हकृतोत्तंसं सर्वांगं सर्ववेदिभिः | उपासितं मुनिगणैरुपतिष्टेद्धविं सदा | एवं ध्यात्वा मनुवरं दशलक्षं व्रते स्थितः | दशाक्षर विधानेन जपात् सिद्धो भवेन्मनुः | सिद्धेनानेन मनुना सर्वाभीष्टानि साधयेत् | दशाक्षरोदिते पीठे तद्विधानेन पूजयेत् | अयुतं जुहुयान्मंत्री कुसुमैर्ब्रह्मवृक्षजैः | महाकविर्म्महाप्राज्ञो भवेन्मंत्री न संशयः | मालतीकुसुमैर्हुत्वा वाक्सिद्धिमतुलां लभेत् | तगरैः क्षीरसिक्तैश्च होमात् सर्वज्ञतां व्रजेत् | वकुलप्रसवैर्होमाच्छ्रियमाप्नोति ईप्सितां | भक्ष्यभोज्यादि होमेन समृद्धिमतुलां लभेत् | केवलं घृतहोमेन ब्रह्म तेजः प्रजायते | श्रीफलस्य दलैर्हुत्वा राज्यमाप्नोत्य यत्नतः | तत् फलैर्म्मंत्रसिद्धिः स्याद् दूर्वाभिरायुषे हुनेत् | पृ० ७०अ) तर्पणं पूर्व विहितं कृत्वा सर्वं प्रसादयेत् | दशाक्षरोदितं सर्वं प्रयोगमनुना चरेत् || इति श्रीगौतममीये षड्विंशोऽध्यायः || २६ || अथापरं प्रवक्ष्यामि मंत्रं सर्वार्थसाधनं | कृष्णेति त्र्यक्षरं मंत्रं मध्यस्थं कामबीजयोः | सद्यः फलप्रदं मंत्रं कथितं भक्तितस्तव | अस्यावधानतः शक्रः सुरेशत्वमवाप्तवान् | ऋषिर्ब्रह्मास्य मंत्रस्य गायत्री छन्द ईरितं | देवता जगतामादिर्म्मुनिभिः कृष्ण ईरितः | दीर्घषट्केन कामेन षडंगविधिनाचरेत् | एवमंगविधिं कृत्वा मंत्रं ध्यायेदथाच्युतं | कलाय कुसुम श्यामं द्रुतहेम निभं भुवा | पारिजात वने रत्न सिंहासनोपरि स्थितं | देहोत्थ स्वप्रभाभिश्च भासयंतं दिगंतरं | शिशुवेशधरं देवं वासुदेवं जगन्मयं | नानालंकार सुभगं गोपीभिः परिवीक्षितं | कल्पवृक्षविनिष्क्रांतं रत्नौद्यैः परिसिंचितं | तारहारावली रम्यं पीताम्बर युगावृतं | चतुर्लक्षं जपेन्मंत्रं व्रतस्थः साधकोत्तमः | दशांशं जुहुयादंते श्रीफलैः सर्वसिद्धये | अष्टच्छदाम्बुजे देवमावाह्य परिपूजयेत् | अष्ट षट्कावृते वांतं पूजयेद्दिगधीश्वरान् | तदस्ताण्यपि चांते च सपर्ययैषा समीरिता | नवनीता क्षमं हुत्वा श्रियमाप्नोत्य निन्दिताम् | श्रीफलायुतं होमे नरानयाप्तिर्म्मंत्रिणो भवेत् | धान्यस्य मंजरीं हुत्वा धनवान् जायतेऽचिरात् | अन्नवान् पुष्पहोमेन घृतहोमाछ्रियं लभेत् | पृ० ७०ब) य एनं भजते मंत्री जपहोमादि तत्परः | सुतु सम्यक् श्रियं लब्ध्वा देहांते तत्पदं ब्रजेत् | चूडामणिमथो वक्ष्ये मंत्रराजं सुदुर्ल्लभं | यज्ञज्ञानान्मुनयः सर्वे भृगुस्त्रैलोक्यदर्शिनः | चतुर्वर्णस्य मंत्रस्य कामाधो वह्णियोगतः | अयं शिखामणिः प्रोक्तस्त्रैलोक्यदर्शन क्षमः | नारदोऽस्य ऋषिः प्रोक्तो विराट्छन्द उदाहृतं | श्रीकृष्णो देवता चास्य मुनिभिः परिकीर्त्तितः | षड्दीर्घयुक्त कामेन बीजेनांग क्रिया मता | मंत्रसंपुटितं कृत्या वर्णन्यासं पुटितं कृत्या वर्णन्यासं तथा चरेत् | दशतत्त्वं ततो न्यस्य करांगन्यासमं ततः | वृन्दावनगतं ध्यायेत् कल्पकोट्यानमध्यगं | दोलायमानं गोपीभिः सुवर्णदोलिकागतं | सूर्ययायुत समाभासं लसन्मकरकुण्डलं | नानारत्नपरिभ्राजन्नानालंकारमण्डितं | पंचवर्षावधिं वाले कुंतलोल्लासि सन्मुखं | हसतोदार कांत्या च भासयंतं दिगंतरं | इति ध्यात्वा चतुर्ल्लक्षं जपेन्मनु शिखामणिं | तद्दशांशेन जुहुयात् पलाशैरथवाम्बुजैः | अंगेन्द्र वज्रावृत्तीभिः स्त्रीभिः पूजनमीरितं | ब्रह्मवृक्षोत्थ कुसुमैर्हुमेदयुतमादरात् | त्रिकालज्ञो भवेन्मंत्री नवनीत हुतादपि | श्रीफलस्य फलैर्होमाद्राज्यं प्राप्नोत्य कंटकं | लक्ष्मी पुष्पं हुतान्मंत्री चैव लक्ष्मीमवाप्नुयात् | मूल त्रिकोणमध्ये तु ज्योतीरूपं विचिन्तयन् | लक्षजापान्मनोरस्य त्रिकालज्ञो भवेद्ध्रुवं | करस्थामल कन्यायाद्विश्ववृत्तं च पश्यति | हृदि स्थितं जपानां च सर्वं पश्यति चुक्षुषा | पृ० ७१अ) रविवारेऽश्वत्थमूले शतमष्टोत्तरं जपेत् | एवं च नियतं कृत्वा म्रियतेनापमृत्युतः | वसंस्तत्र लक्ष जपात् सर्वज्ञो जायतेऽचिरात् || इति श्रीगौतमीये सप्तविंशतितमोऽध्यायः || २७ || गौतम उवाच एकाक्षरं मनुवरं विष्णुं त्रैलोक्यमोहनं | श्रवणे यदि योग्योऽस्मि मुने ब्रूहि च तत्त्वतः | नारद उवाच समस्त कृष्णमंत्राणामुद्दीपन करं पदं | केवलं तत् प्रयत्नेन कथयामि मुने शृणु | कामाक्षरं धरा संस्थं शांति बिन्दु विभूषितं | त्रैलोक्यमोहनं विष्णुं कथितं तव यत्नतः | आनन्द नारदश्चास्य ऋषि छन्दो विराडपि | त्रैलोक्यमोहनः प्रोक्तो देवता विष्णुरव्ययः | सर्वेषु कृष्णमंत्रेषु मंत्रोऽयं मंत्रनायकः | सृष्टिस्थिति दशतत्त्वं मातृकां मनु संपुटां | षडदीर्घभाजा बीजेन न्यासं करांगयोरपि | मूर्द्ध्णिभाले हृदि गुह्ये पादयोश्च यथाक्रमं | पंचबाणस्य बीजानि न्यस्य ध्यायेदथायुतं | थांतौ रेफ समायुक्तौ अनंत शांति भूषितौ | बिन्दुनादसमायुक्तौ बीजौ त्रैलोक्यमोहनौ | कामबीजं ततः पश्चज्जलंधरा समन्वितं | पंचम स्वरसंयुक्तं बिन्दुनाद समन्वितं | बीजान्येतानि चांते च चन्द्रः सर्ग समन्वितः | शोधन मोहन सन्दीपन तापनोन्मादनादथ | नामानुरूप फलदान् पंचार्ण मनुरप्यसौ | भंग विद्रुमसंकाश सर्वतेजो मयं वपुः | किरीटिनं कुण्डलिनं केयूरवलयान्वितं | मुक्ताली रत्नसम्बन्ध तुला कोटि युगान्वितं | नानालंकारसुभगं पीताम्बर युगावृतम् | पृ० ७१ब) गरुडोपरि सम्बध रक्तपंकज मध्यगम् | उत्तप्त हेमसंकाशां लक्ष्मीं रामोरु संस्थितां | सर्वालंकारसुभगां शुक्लवास युगान्वितां | सकामां लीलया देवं मोहयंतीं पुनः पुनः | शंख चक्र गदा पद्म पाशांकुशधनुः शरान् | धारयंतं जगन्नाथं रक्तपद्मारुणे क्षणं | लक्ष्मीं पद्मकरां वामे दक्षिणा लिंगितं पतिं | संस्थितां चिंतयेन्मंत्री मोहिनीं बिम्बमातरं | एवं ध्यात्वा जगन्नाथं विंशत्यक्षर पीठके | समावाह्य यजेन्मंत्री उपचारैरशेषतः | न्यास क्रमेण विधिवद् गन्धपुष्पादिभिर्यजेत् | लक्ष्मीस्तद्वामतः पूज्या श्रीबीजेन विधानवित् | कौस्तुभं गल देशे च किरीटं कुण्डल द्वयं | श्रीवत्सं वक्षः देशे च वनमाला गलोपरि | सर्वतेजो मया येति किरीटाय नम-इत्यथ | नाम मंत्रेण विधिवत् कौस्तुभादीन् समर्च्चयेत् | लयांगमेवमभ्यर्च्च्य भोगांगमथ पूजयेत् | पक्षान्द्रमग्रे संपूज्य कुर्वंतं स्तुति मादरात् | केशरेषु षडंगानि कोणमध्ये च दिक्षु च | अग्न्यादि दलमूले च वाणानि पुरतो विभोः | पुर आदि दलाग्नेषु प्रदक्षिण क्रमाद् यजेत् | लक्ष्मीं सरस्वतीं चैव रतिं प्रीति मनंतरं | कीर्ति कांति तुष्टि पुष्टीस्तथास्त्यादि कराग्रतः | वहिरिन्द्रादयः पूर्वास्तदस्त्राणि च तद्वहिः | एवं यः पूजयेन्मंत्री भक्त्या श्रीपुरुषोत्तमं | करप्रचेताः सर्वार्थास्तस्यांते तत् पदं व्रजेत् | रवि लक्षं जपेन्मंत्रं जहुयात्तद्दशांशतः | पृ० ७२अ) अमृतत्रय सिक्तेन पायसेन विधानचित् | अथवा रवि सहस्रं तु हुनेत्तावच्च तर्पणं | रक्तपद्मा युतं हुत्वा त्रैलौक्यं वशमानयेत् | केवलं घृतहोमेन जीवेद्वर्षशतं सुखी | पलाश लक्षहोमेन भवेत् वाक्पति सन्निभः | व्रतस्थः कोटि जापेन कैवल्यं लभते ध्रुवं | दशाष्टादशवर्णोक्त कर्म्म चानेन साधयेत् | अनेन सदृशो मंत्रः कृष्णमंत्रेण विद्यते | असौ समस्त मंत्राणां जीवनं कथितं मुने | निर्विर्ययाये च मंत्रो वै शक्तिहीनाश्च कुंठिताः | अरिपक्ष स्थिता ये च केवला वर्णरूपिणः | एतदाद्येन जप्तेन जीवंति च पुनंति च | हृषीकेश पदं ङेऽन्तं नमोऽन्तः कामपूर्वकः | अष्टाक्षर मनुः प्रोक्तः समस्त पुरुषार्थदः | ऋषि छन्दो दैवतानि पूजा प्रयोग कर्म्म च | एकाक्षर विष्णवत् सर्वं कुर्ययात् सर्वार्थ सिद्धये | त्रैलोक्य मोहनेत्युक्ता विद्महे तदनंतरं | कामदेवाय धीमही तन्नो विष्णुः प्रचोदयात् | कथिता विष्णु गायत्री समस्तजन रंजिनी | कामादि जपमात्रेण त्रैलोक्यवशकारिणी | सर्वपाप प्रशमनी सर्वायत् परिमोचनी | मंत्रसिद्धिं करी पुंसां प्रायश्चित्त विशोधनी || इति श्रीगौतमीयेऽष्टाविंशोऽध्यायः || २८ || अथापरं मंत्रवरं वक्ष्ये सर्वसमृद्धिदं | यमुपास्य सुराणां तु पालकोऽभूच्छत क्रतुः | सद्यः शौरच्छांतजांतौ क्रमेण सहसंयुताः | शांति बिन्दु समारूढाः प्रोक्तं बीज चतुष्टयं | जय कृष्णं द्विधा प्रोक्ता नित्यांते क्रीडा संशक्तं | पृ० ७२ब) ततः प्रमुदित चेतसे नित्य प्रियाय प्रोक्ता वै | कृष्णं ङेऽन्तं ततः प्रोक्ता कामांते दशवर्णकः | वाक् शक्तिः कमला बीजैः संपुटो मंत्रनायकः | सर्वेषां कृष्ण मंत्राणामयं मंत्रः शिखामणिः | धर्म्मार्थकाममोक्षाणामालयं संप्रदायतः | संप्रदाय विहीना ये मंत्रास्ते निष्फला मताः | आनन्द नारद ऋषिर्विराट् छन्द उदीरितं | श्रीकृष्णो देवता चास्य भक्ति मुक्ति फलप्रदः | पद्मषट्केन मतिमान् बीजाद्येनांग कल्पनं | पूर्ववन्न्यासजालं हि कृत्वा करांग शोधनं | ततश्च विविधन्न्यास मातृकां मनु संपुटां | ऋषि छन्दो देवतानि मूर्द्धिण् मुखे हृदि न्यसेत् | ध्यायेत् शितमतिर्म्मंत्री चराचर गुरुं हरिं | क्षीराम्भो निधि मध्यस्थं कनकाचल मध्यतः | ध्यायेत् स्वर्णमयीं भूमिं तन्मध्ये रत्नमण्डपं | अनेक योजनमितं विस्तीर्णं बहुयोजनं | नानारत्नमयस्तम्भ मुक्तादाम विराजितं | लसत्फेणमयैर्वस्त्रैश्चन्द्रा तप विचित्रितं | हंस कारण्ड चाकीर्णं पंकजोत् पलशालिभिः | मण्डितं दीर्घिका शतैर्म्महावाटी परिस्कृतं | स्वर्णप्राकार विकृते रत्नतोरणचित्रिते | तत्र रत्नासने रम्ये संस्थितं परमेश्वरं | रुक्मिणी भीष्मक सुते पार्श्वयोर्धृत चामरे | नानालंकार सुभगे वीक्षितं परया मुदा | कालिन्दी ऋक्षतनये पृष्टतो धृतवर्हके | महामेघ प्रभं श्यामं पद्मपत्रा रुणे क्षणं | पीताम्बर लसछ्रीमछ्रीवत्सकौस्तुभान्वितं | नानालंका *(र) सुभगं तारहार विराजितं | पृ० ७३अ) दीप्तरत्न किरीटं च स्फुरन्मकरकुण्डलं | गोरोचनाल *(स)द्भास तिलकं नीलकुंतलं | नारदाद्यैर्म्मुनिगणैरावृतं स्निग्धलोकेनैः | हृष्ट पुष्ट जनाकीर्णैर्नगरैर्बहुविस्तरैः | सौधैर्गृहैः समुत्कीर्ण पताकैः परिमण्डितैः | ब्रह्म क्षत्त्रिय विट्शूद्रैराकीर्णै रथपंक्तिभिः | रथपंक्ति द्वीपवरैः सर्वत्र परिमण्डितैः | ब्रह्म क्षत्त्रिय विद्शूद्र भवनैः पर्वतोयमैः | कामिनीभिः सुभव्याभिः सर्वत्र परिमण्डितैः | नानाविचित्रचित्रैश्च मण्डिताभिः समन्वितैः | एवं ध्यात्वा मुनिश्रेष्ठ लक्षमेकं जपेन्मनुं | बेल्वैः फलैस्त्रिमध्वक्तैर्ज्जुहुयात्तदनंतरं | तर्पयेत्तद्दशांशेन मंत्रज्ञो विप्र मुख्यकान् | रत्नाभिषेका गोपालपीठे देवं प्रपूजयेत् | षडंगावृति बाह्ये तु महिषीः पत्रगाः यजेत् | रुक्मिण्याद्या महारत्न भूषिताः प्रकृतयः शुभाः | तद्वहिरिन्द्रवज्राद्या जात्यधिपाः सवाहनाः | एवमभ्यर्च्चनं कृत्वा सिधमंत्रो द्विजोत्तमः | प्रयोगान् साधयेद्यस्तु कर्त्ता हर्त्ता च सर्वतः | श्रीपुष्पैर्लक्षमात्रेण होमाद्भूमि पुरन्दरः | पालाशैर्लक्षहोमेन वागीश समतां व्रजेत् | हयारि रक्तकुसुमैर्ज्जगद्रंजनकारकः | केनलं घृतहोमेन जीवेद्वर्षशतं सुखी | अन्नहोमेन धनवान् पशुमान् दुग्धहोमतः | कारस्करफलैर्होमाछत्रून्यूच्चाटयेत् क्षणात् | मरीच होमात्मतिमान् मारयेद्रिपुमात्मनः | पुण्डरीकायुतं हुत्वा मुच्यते सर्वपातकैः | अन्वक्षमात्रहोमेन राज्यैश्वर्ययमवाप्नुयात् | आत्मानं कंसमथनं रिपुंर्कसात्मकं स्मरन् | पृ० ७३ब) दक्षिणाभिमुखो भूत्वा दशसाहस्र जापतः | क्रुद्धाशयस्तथा मंत्री मलिनो मारयेद्रिपुं | अप्यमृतासने नित्यं शक्र वैवस्वता तिथिः | अस्य मंत्रान तत् कश्चिन्नास्त्येव भुवनत्रये | न शस्तं मारणं कर्म्म यतः स्याद्वैष्णवे मनौ | ब्रह्मन् ब्रह्मास्त्रमादाय शशकादौ नमश्चरेत् | यदि कुर्ययात् प्रमादेन एषु स्थानेषु संभवेत् | (+ यदि कुर्ययात् प्रमादेन एषु स्थानेषु संभवेत् |) पापिनेहे कायापि शठाय जनतापिने | आत्मवित्तं गृहक्षेत्र कलत्राद्वापहारिणे | अभिचारेणाभिचरेत्तदा दोषौर्न लिप्यते | दुष्टानां दमनं शस्तं कथितं त्वयि गोतम | अजः स्वयं प्रजायेते तत् पथानां विनिग्रहे | लक्षमेकं जपेन्मंत्रं प्रायश्चित्ताय देशिकः | तेन पापैर्विमुक्तोऽसौ भवेत् कल्याण संयुतः | साध्यं संकृत्यकृत्या च साधकं भोक्तुमिच्छति | तेनात्मानं सदा रक्षेत् कृत्येनानेन देशिकः | मृत्युंजयं चा प्रजपेन्मत्रादौ गुरुवक्त्रतः | सर्वत्र कर्म्मसु सदा गुरवे च हि कारणं | गुरोरनुज्ञामादाय सर्वकर्म्मणि साधयेत् || इति गौतमीये वनत्रिंशोऽध्यायः (एकोनत्रिंशोऽध्यायः)|| २९ || अथ शृणु प्रवक्ष्यामि मंत्रं श्रीपुरुषोत्तमं | यज ज्ञानात् साधकवरो भोगमुक्त्योश्च भाजनं | समस्तसिद्धि संयुक्तो जीवन्मुक्तो महीं चरेत् | देहांते केवलं धामयाति तत् परमं पदं | सर्वेषु कृष्णमंत्रेषु श्रेष्ठः श्रीपुरुषोत्तमः | भुक्ति मुक्ति करः साक्षात् स्मरणादेव वै नृणां | प्रणवं मारबीजं च रमांते नम इत्यथ | पृ० ७४अ) पुरुषोत्तम पदं चोक्ता तथा प्रहतरूपितः | ततो लक्ष्मी निवासांते सकलांते जगत्तथा | क्षोभणेति पदं चोक्ता समाहित मना भवेत् | सर्वस्त्री हृदयोपेता विदारण पदं तथा | उल्का ततस्ति भुवनमदोन्मादकरं तथा | सुरासुरांते मनुज सुन्दरी जनवल्लभं | मनसि तापय द्वन्द्वं दीपय द्वितयं ततः | शोशय द्वितयं भूयो मारय द्वितयं परं | स्तम्भय द्वितयं पश्चान्मोहय द्वितयं पुनः | द्रावय द्वितयं पश्चात् खड्गेन तदनंतरं | सर्वबाणैश्छिन्धि युगं पाशेनेति पदं ततः | कट्ट द्वयांते चांकुशेन ताडय द्वितयं पुनः | तुरुशब्दद्वयं मथोकं किं तिष्ठसि पदं पुनः | तावत् यावत् पदस्यांते समाहित मनंतरं | ततो मे सिद्धिराभाष्य भवत्वंते च ठ द्वयं | जैमिनिर्म्मनिराख्यातश्छन्दश्चामितमीरितं | समस्त जगतामादिर्द्देवता पुरुषोत्तमः | पुरुषोत्तम शब्दांते वदेत्त्रिभुवनं पुनः | मदोन्मादकरांते हुं हृदयं सकलं ततः | जगत् क्षोभण शब्दांते लक्ष्मी दयित हुं शिवः | मन्मथोत्तम संयुक्तमंगजे कामदायिनी | हुं शिखा परमोपेत सुभगाक्षर संयुतं | सर्वसौभाग्यकरं हुं कवचं परिकीर्त्तितं | मनांसि हर युग्मांते दारय द्वितयं च मे | वशमानय हुं नेत्रं ताराभ्यां षट् नमोऽन्तिकाः | अंगमंत्राः समुद्दिष्टा नेत्रांतास्तंत्र वेदिभिः | त्रैलोक्यमोहनांते च हृषीकेश पदं ततः | पश्चाद प्रतिरूपादि मन्मथानंतरं पुनः | पृ० ७४ब) सर्वादि स्वीपदं चोक्ता हृदयाकर्षणं ततः | आगच्छागच्छ मंत्रोऽयं ताराद्येन समन्वितं | अनेन मनुना कृत्वा व्यापकस्य च वाहुषु | अष्टविधानि मंत्राणि मंत्रैः सार्द्धम्विचिंतयेत् | क्षीराम्भो निधि मध्यस्थं निरंतर सुरद्रुमं | उद्यदर्केन्दु किरणं दूरीकृत मनोहरं | देव समालोक नृत्यत्यद्वर्हि वर्ह कदम्बकं | उत्फुल्लकुसुमामोद प्रहर्षादंगसंकुलं | कूजत् कोकिलमंचेन वा चालित दिगंतरं | नानाकुसुमसौरभ्य वाहि गन्धवहांचितं | कल्पवल्ली निकुंजेषु क्रीडत् सिद्ध कदम्बकं | देव गन्धर्व नारीभिर्गायंतीभिरलंकृतं | अनेक दीर्घिका युक्तं उद्यानं सुमहाद्भूतं | तस्य मध्ये मणिमये मण्डपे तोरणांचिते | ऋतुभिः षड्भिरनिशं सेवितस्य महौजसः | सुरद्रुमस्य मूलस्थे महासिंहासने शुभे | रक्तारविन्दमध्यस्थं गरुडोपरि संस्थितं | ध्यायेद्दर्ल्लभया सार्द्धं जगन्नाथं जगन्मयं | देवं श्रीपुरुषोत्तमं कमलया स्वांकस्थया | पंकजं विभ्रत्या परिणद्धमम्बुजरूचा | तस्यां निरुद्धे क्षणं ध्यायेच्चेतसि शंख पद्म मुषलांश्चापारि खड्गान् गदां हस्तैरंकुशमुद्वहंतमरुणं स्मेरारविन्दाननं | एवं ध्यात्वा श्रियः कांतं मनुं लक्ष चतुष्टयं | जपेद्वशी विधायाथ कुण्डमर्द्धेन्दुसन्निभं | जुहुयाद्वैष्णवे वह्नौ पुष्पैर्ज्जाती समुद्भवैः | पुष्पैर्यवैश्चक्रमुखे ब्राह्मणानपि भोजयेत् | अर्च्चयिष्यन् जगन्नाथं गायत्र्या परिशोधितं | आत्मानं यागवस्तूनि यागभूमिं च देशिकः | पृ० ७५अ) त्रैलोक्यमोहनायेति विद्महे पदमीरयेत् | स्मराय धीमहि पश्चात्तन्नो विष्णुः प्रचोदयात् | गायत्त्रीया समाख्याता वैष्णवी सर्वसिद्धिदा | प्राक् प्रोक्त वैष्णवे पीठे कल्पयेदासनं ततः | पक्षिराजाय च द्वन्द्वमस्य मंत्रः प्रकीर्त्तितः | संकल्पितायां मूलेन मूर्त्तौ देवमनन्यधीः | आवाह्यमनुना मंत्री व्यापकेन समर्च्चयेत् | भृगुर्वांतयुतं सेन्दुबीजं देव्याः प्रकीर्त्तितं | कर्णिकायां यजेदादौ विद्यानेनांग देवताः | दलमूलेषु पूजयेल्लक्ष्याद्याधृतचामराः | मुक्ताहारलसत्कांत पयोधर भरालसाः | जवाकुसुमसंकाशा मदविभ्रम मन्थराः | ह्रस्व त्रय क्लीवसर्ग रहित स्वर शोभितं | देवी बीजं क्रमादासां मंत्रमाहुर्म्मनीषिणः | दलाग्रेषु यजेच्छंखं शांर्गं चक्र मसिं गदां | अंकुशं मुषलं पाशमेतान्यस्त्राणि शांर्गिणः | स्वमुद्राभिः स्वममुभिः कथ्यंते मनवः क्रमात् | आद्यो जलचरायांते ठद्वयं मुनिरीरितः | शांर्गी यशः शवायांते स्वाहांतं परमो मनुः | सुदर्शन महाचक्रे जायांते स्याद्दहद्वयं | सर्वदुष्टान् ततः पश्चात् कुरु छिन्धि युगं पृथक् | विदारय पदद्वन्द्वं परमंत्रान् ग्रस ग्रस | भक्षय त्रासद्वय द्वन्द्वं प्रत्येकं रक्ष फट् द्वयं | चक्राय नम इत्येष तृतीयो मंत्र ईरितः | खड्ग तीक्ष्ण पदांते स्यात् प्रत्येकमस्व फट् द्वयं | चक्राय नम इत्यस्य द्वितीयो मनुरीरितः | खड्गतीक्ष्णे पदस्यांते छिन्धि खण्ड युगं पृथक् | चतुर्थोऽयं मनुः प्रोक्तः कौमोदकी महामते | सर्वासुरांतक पदं प्रसीद युग वर्म्म फट् पृ० ७५ब) स्वाहांतोऽयं मनुः प्रोक्तः सद्भिः कौमोदकी परः | अंकुशांते कट्टद्वयं षष्ठोऽयं मनुरीरितः | सम्वर्त्तकाले मूषलायाथ यद्वितयं पुनः | हुं फट् द्विठांतो मंत्रोऽयं सप्तमः परिकीर्तितः | पाशबद्धद्वयं पश्चादाकर्षण पद द्वयं | वह्णिजायावधिः सद्भिः अष्टमो मनुरीरितः | लोकेशान् पूजयेत् पश्चाद्वस्त्राद्यैरायुधैः सह | इत्थमभ्यर्च्चयेन्नित्यं यथावत् पुरुषोत्तमं | प्राप्नोति महतीं लक्ष्मीं सौभाग्यमतुलं यशः | आयुरारोग्यमन्यानि मनोऽभीष्टानि विन्दति | हयारि कुसुमैर्द्देवमर्च्चयित्वा मथा विधि | शशिप्रसुनैर्ज्जुहुयादष्टोत्तरसहस्रकं | मासमात्रेण वशगास्तस्य स्युः सकला नृपाः | हुत्वा बिल्वफलैः पत्रैः श्रियं विन्देद निन्दितां | प्रफुलैररूनाम्भोजैस्तामेव लभते नरः | हुत्वा ज्योतिष्मती तैलं सहस्रं वसुसंज्ञकं | सुभगो जायते सम्यक् सर्वेषां नात्र संशयः | विधानेनामुना मंत्री महारोगात् प्रमुच्यते | अश्वत्थ समिधा होमः पराकृत धनापहः | आज्याक्त दुर्वाहोमेन मुच्यते मृत्युतो भयात् | यस्म नाम युतं मंत्रं जपेदयुतं संख्यया | सभवेद्दासवत्तस्य नात्र कार्यया विचारणा | बहुना किमिहोक्तेन मनुना साधकोत्तमः | साधयेत् सकलान् कामान् साक्षाद्विष्णु शिवा परान् | अथ मंत्रं प्रवक्ष्यामि दृष्टादृष्ट फलप्रदं | पूर्वोत्तरं भुवं भीत्वा सूत्रं नव नवं न्यसेत् | जायते तत्र कोष्ठाणि चतुषष्टि प्रभेदतः | ईशानाद्राक्षसं यावद्राक्षसाद्वायुकोणगं | विलिखेन्मंत्रवर्णानि अनुष्टुभ भवानि च | पृ० ७६अ) यंत्रमेतत् समाख्यातं सर्वतोभद्र संज्ञकम् | सर्वरोग प्रमथनं समस्तपुरुषार्थदम् | लिखितं भूर्ज्जपत्रादौ यंत्रमेतद् यथाविधि | विधृतं वाहुना नित्यं सर्वकाम फलप्रदं | फलके खादिरे कॢप्ते गवां गोष्ठे निवेशितं | रक्ष कृच्चौरमारीघ्रं सवत्सानां गवांहितं | क्षीरगो ग गोक्षीर रक्षमा क्ष क्षमाक्षर गोनामो गगणो नागो पक्ष ग क्षय | इत्येवं यं तत्वं च कथितं तव सुव्रत | केवलं तत् प्रयत्नेन किमन्यत् श्रोतु मर्हसि || इति श्रीगौतमीये त्रींशोऽध्यायः || ३० || गौतम उवाच सर्वज्ञ सर्वतत्वज्ञ सर्वतत्त्वार्थ पारग | स्वायम्भुवे नमस्तुभ्यं कृपां कुरु कृपा कर | तवनाविदितं किंचित् त्रैलोक्ये स चराचरे | इदानीं कथय ब्रह्मन् मंत्रसिद्धेस्तु लक्षणं | सिद्ध्युपायं कतिविधं कथय स्वानुकम्पया | नारद उवाच मनोरथा नाम क्लेशं सिद्धेरुत्तमकारणं | मृत्युनां हरणं तद्वद्देवतादर्शनं तथा | प्रयोगिनां क्लेशसिद्धिः सिद्धेस्तु क्षणं परं | परकाय प्रवेशं च पुरप्रवेशनं तथा | उर्द्धोत् क्रमेण चैवं हि चराचरे मुरे गतिः | खेचरी मेलनं चैव तत् कथा श्रवणादिकं | भूछिद्राणि च वक्ष्यामि चाधमस्य च लक्षणं | खातिर्वाहन भूषादिर्लाभः सुचिरजीवनं | नृपाणां तद्गणानां च वशीकरणमुत्तमं | सर्वत्र सर्वलोकेषु चमत्कार करं सुखी | रोगापहरणं दृष्ट्या विषापहरणं तथा | पाण्डित्यं लभते मंत्री चतुर्विधं प्रयत्नतः | वैरात्पंच मुमुक्ष्वत्वं त्यागिता सर्ववश्यता | पृ० ७६ब) अष्टांग योगाभ्यसनं भोगेच्छा परिवर्त्तनं | सर्वभूतेष्वानुकम्पा सर्वज्ञादि गुणोदयः | इत्यादि गुण सम्पत्ति मथ सिद्धेस्तु लक्षणं | ख्यातिर्भूषण वाहादि लभः सुचिर जीवनं | नृपाणामंगनानां च वात्सल्यं लोक वश्यता | महैश्वर्ययं धनित्वं च पुत्त्रदारादि सम्पदः | अधमाः सिद्धयः प्रोक्ता मंत्री प्रथम भूमिकाः | सिद्धमंत्रस्तु यः साक्षात् स शिवो नात्र संशयः | सिद्धलक्षणमित्युक्तं तदुपायमिहोच्यते | पितृ मातृ विशुद्धा ये शुद्धाचारा जितेन्द्रियाः | संप्रदायेनोपदिष्टास्तेषां सिद्धिर्द्रुतं भवेत् | मलिना मलसंछन्नाः पापिनस्तरलाशयाः | देवार्च्चनादि विमुखा गुरवे शठवृत्तयः | तेषां कृतस्तेन सिध्यंति मंत्र जप हुत्वादिभिः | ये मंत्रा मलसंछन्ना केवला वर्णरूपिणः | निजीर्वाः सत्तहीना ये कुंठिताश्च तिरस्कृताः | अरिपक्षे स्थिता ये च पापादिगणसंयुताः | ये मंत्राश्च विधि प्राप्ता ये च सिद्धांत वर्जिताः | इत्यादि दोष दुष्टाश्च सिद्धिदानाल्पयोगतः | पशुभावे स्थिता मंत्राः केवला वर्णरूपिणः | सौषुम्न ध्वन्युच्चरिताः प्रभुत्वं प्राप्नुवंतु ते | वक्ष्यामि चरमेऽध्याये तदुपायं तवानघ | संस्कारादथकल्पांते येन मंत्रस्य सिद्धयः | स्वल्पयोगेन विधिवत्तांश्च वक्ष्यामि तत्त्वतः | जननं जीवनं पश्चात्ताडनं बोधनं तथा | अथाभिषेको विमलीकरणाप्यायने पुनः | तर्पणं दीपनं गोप्तिर्दशैता मंत्र संस्क्रियाः | स्वर्णादिपात्रे संलिख्य मातृका यंत्रमुत्तमं | काश्मीर चन्द्रनेनाथ भस्मना चाथ सुव्रत | पृ० ७७अ) काश्मीरं शक्ति संस्कारे चन्द्रनं वैष्णवे मनौ | शैवे भस्म समाख्यातं मातृकायंत्र लेखने | मंत्रारणां मातृका मध्यादुद्धारो जननं स्मृतं | पंक्ति क्रमेण विधिना मुनिभिस्तंत्रनिश्चयैः | प्रणवांतरितान् कृत्वा मंत्रवर्णान् जपेत् सुधीः | प्रत्येकं शतवारं तु जीवनं तदुदाहृतं | मंत्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा | प्रत्येकं वायुबीजेन पूर्ववत्ताडनं मतं | भस्मना कुसुमेनाथ चन्दनेनाथवा पुनः | शैवादि तंत्रभेदेन प्रोक्तं द्रव्यत्रयं शुभं | विलिख्य मंत्र पिण्डं तु प्रसूनैः करवीरजैः | तन्मंत्रवर्ण संख्याकैर्हत्याद्रेफेण बोधनं | तत्तन्मंत्रोक्त विधिना अभिषेकः प्रकीर्त्तितः | अश्वष्यपल्लवैः सिंचेन्मंत्री मंत्रार्ण संख्यया | संचिंत्य मनसा मंत्रं सुषुम्नामूल मध्यतः | ज्योतिर्म्मंत्रेण विधिवद्दहेन्मलत्रयं पतिः | तारं व्योमाग्निमरुयुग् दण्डीते पतिर्म्मनुर्म्मतः | मार्जनं कुशतोयेन पुष्पतोयेन वा तथा | तेन मंत्रेण विधिवदाप्यायन विधिः स्मृतः | दीपयेत् सर्वमंत्राणा योगतस्ताव कामयोः | दीप्यमानं च मंत्रं च गोपयेत् सर्वसिद्धिदं | अधुना शक्ति तंत्रैषु वैष्णवे चेन्दुमज्जलैः | शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितं | एते च कथितास्तुभ्यं दशैता मंत्रसंस्क्रियाः | यान् कृत्वा सम्प्रदायेन मंत्री वांछितमश्नुते || अथान्यत् संप्रवक्ष्यामि मंत्राणां सिद्धिलक्षणं | यत् कृत्वा मनुवित् सम्यक् शुद्धिमाप्नोत्य यत्नतः | निर्वीर्यया मनवो ये च तेषु बीजानि योजयेत् | पृ० ७७ब) कामं वा विषबीजं वा जपनात् सिद्धिदो मनुः | अथान्यत् संप्रवक्ष्यामि सिद्ध्युपायं मुने शृणु | स्थानस्थावरदामंत्रा ध्यानस्थाश्च फलप्रदाः | स्थान ध्यान विहीना ये कोटिजापात् फलं नहि | अथातोऽन्यत् प्रवक्ष्यामि मंत्रसिद्धेस्तु लक्षणं | मातृका पुटितं कृत्वा स्वमंत्र प्रजपेत् सुधीः | वर्णग्रंथात्य वृत्याह्या द्वारलक्षं समाप्यते | निश्चितं मंत्रसिद्धिः स्यादित्युक्तं तंत्रवेदिभिः | अथ संक्षेपतो वक्ष्ये पुरश्चरणमुत्तमं | चन्द्र सूर्यय ग्रहे चैव शुचिः पूर्वमुपोषितः | नद्यां समुद्र गामित्यां नाभिमात्र जले स्थितः | ग्रासावधिविमोक्षांतं जपेन्मंत्रं समाहितः | होमयेत्तद्दशांशेन तद्दशांशेन तर्पणं | अभिषिंचेद्दशांशेन दशांशं विप्र भोजनं | इत्येवं पंचकृत्तेन सिद्धमंत्रो भवेन्नरः | अथवा मूर्द्धि्णदेशे च गुरुं संचिन्त्य वाग्यतः | पूर्वाग्रे निवसेन्मंत्री मंत्रोक्तं जपमाचरेत् | अनंतरं दशाशेन क्रमाद्धोमादिकं चरेत् | एवं कृत्वा सिद्धमंत्रो भवेन्मंत्री न चान्यथा | गुरु संतोषमात्रेण सिद्धिः स्यादपवर्गदा | ना जप्तः सिध्यते मंत्री जाहुतश्च कदाचन | ना पूजितश्च विधिवन्नातर्पितो ना भोजितः | पंच तत्तमते मंत्रे कालसंख्या न विद्यते | कृते चोक्त जपात् सिद्धिस्त्रेतायां द्विगुणो जपः | द्वापरे त्रिगुणाच्चैव कलौ संख्या चतुर्गुणा | कृष्णमंत्रेण देवर्षे युगसंख्या न विद्यते | जप होम तर्पणाद्यैः सिध्यते कृत संख्यया | सिद्धमंत्र तयानात्र युगसेवा परिश्रमः || पृ० ७८अ) इति श्रीगौतमीये एकत्रिंशोऽध्यायः || ३१ || अथापरं प्रवक्ष्यामि सिद्ध्युपायं महाद्भूतं | येन सिद्धेन मनुवित् सृष्टि स्थित्यंत कारकः | तत्तत्कर्म्मानुरूपेण तत्तद्योगं प्रयोजयेत् | ग्रथनादि प्रभेदश्च मंत्राणां वक्ष्यतेऽधुना | ग्रथितं संपुटं ग्रस्तं समस्तं च विदर्भितं | तथा चाक्रांत माद्यंतं गर्भस्थं सर्वतो वृतं | तथा मुक्ति विदर्भं च विदर्भ ग्रथितं तथा | इत्येकादशधा मंत्राः प्रयुक्ताः कार्यया सिद्धिदाः | साध्यनामार्णमेककं मंत्रांते संप्रयोजितं | ग्रथितं तत् समाख्यातं वश्याकृष्टिकरं परं | मंत्रमादौ वदेत् सर्वं साध्यसंज्ञमनंतरं | विपरीतं पुनश्चांते मंत्रं तत् संपुटं स्मृतं | शांति पुष्टि करं ज्ञेयं त्रैलोक्यैश्वर्ययदायकं | अर्द्धमर्धं तथाढ्यंते मंत्रं कुर्ययाद्विचक्षणः | मध्ये चास्य भवेत् साध्यं ग्रस्तमित्यभिधीयते | अभिग्रस्तैस्तथा मंत्रैर्म्मारणोच्चाटनेषु च | अभिधानं वदेत् पूर्वं पश्चान्मंत्रं तथा वदेत् | एतत् समस्तमित्युक्तं शत्रूच्चाटन कारकं | द्वौ द्वौ मंत्राक्षरौ यत्र एकैकं साध्यवर्णंकं | विदर्भितं तु संप्रोक्तं दुष्टघ्न वश्यलक्षणं | मंत्रार्णं तरितं सर्वं स मंत्रात्तिष्ठते यदि | आक्रांतं तद्विजानीयात् सद्यः सर्वार्थदायकं | क्षोभः स्तम्भः समावेश वश्योच्चाटन कर्म्मसु | सकृत् पूर्वं वदेन्मंत्रमंते चैव तथा पुनः | मध्ये चास्य भवेत् साध्यमाद्यंतमिति तद्विदुः || पृ० ७८ब) अन्योऽन्यं प्रतियुक्तानां विद्वेषण करं परं | आदौ चांते तथा मंत्रं द्धिवारं संप्रयोजयेत् | साध्य नाम सकृन्मध्ये गर्भस्थं तु तदोच्यते | मारणोच्चाटनं वश्यं प्रयुक्तं कारयेन्नृणां | हेतिनौ सौम्यधीर्गर्भं स्तम्भयेच्च गते तथा | त्रिधामंत्रं वदेत् पूर्वन्तथैवांते पुनस्त्रिधा | सकृत् साध्यं भवेन्मध्यं तं विधात् सर्वतो वृत्तं | सर्वाभिचार शमनं महामृत्युनिवारणं | सर्वसौभाग्यजननं मृतानाम मृतप्रदं | आदौ मंत्रं ततो नाम साध्याक्षरमथा लिखेत् | एवमेवं त्रिधा कृत्वा भवेन्मुक्ति विदर्भितं | सर्वव्याधिहरं प्रोक्तं भूतापस्मारमर्द्दनं | एकैकं वर्णमध्यं तु कृत्वा मंत्र विदर्भितं | पूर्ववत् कथितं चान्यत्तस्यादांते प्रकल्पयेत् | विदर्भ ग्रथितं नाम मंत्ररामनुत्तमं | सर्व कर्म्मकरं प्रोक्तं सर्वैश्वर्यय फलप्रदं | एवमेते प्रयोगाः स्युः सिद्धमंत्रस्य सिद्धिदाः | अथापरं प्रवक्ष्यामि मंत्रसिद्धेस्तु लक्षणम् | यज्ज्ञात्वा साधकश्रेष्ठो मंत्रं सिद्धिं लभेद्ध्रुवं | सभ्यगनुष्ठितो मंत्रो यदि सिद्धिर्न जायते | पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद्ध्रुवं | पुनरनुष्टितो मंत्रो यदि सिधिर्न जायते | पुनस्तेनैव कर्त्तव्यं ततः सिद्धो न संशयः | पुनः सोऽनुष्ठितो मंत्रो यदि सिद्धिर्न जायते | उपायास्तत्र कर्तव्याः सप्तशंकर भाषितः | भ्रामणं बोधनं वश्यं पीडनं शोषपोषणं | दहनांतं क्रमात् कुर्ययात् ततः सिद्धो भवेद्ध्रुवं | भ्रामणं वारुणे बीजे ग्रथनं क्रमयोगतः | पृ० ७९अ) रोचना गुरु संमिश्रं एला कर्पूर कुंकुमैः | उशीरचन्दनाभ्यां तु मंत्रं संग्रथितं लिखेत् | क्षीराज्य मधुतोयानां मध्ये तल्लिखितं क्षिपेत् | पूजनाज्जपनाद्धोमाद् भ्रामितः सिद्धिदो भवेत् | भ्रामितो यदि सिध्येत बोधनं तस्य कारयेत् | भ्रमणं कामबीजेन संपुटीकृत्य संजपेत् | एवं रुद्धो भवेत् सिद्धो नचेदे तद्वशी कुरु | अलक्तं चन्दनं कुष्ठं हरिद्रा सदनं शिलाः | एतैस्तु मंत्रमालिख्य भूर्ज्जपत्रे सुशोभने | धार्यया कंठे भवेत् सिद्धः पीडनम्वापि कारयेत् | अधरोत्तर योगेन पदेन परिजाप्य वै | ध्यापीत देवतां तद्वदधरोत्तर रूपिणीं | विद्यामादित्य दुग्धेन लिखित्वा क्रम्य चांघ्रिणा | तथा भूतेति मंत्रेण होमः कार्ययो दिने दिने | पीडिते लज्जया विष्टः सदा तदथ पोषयेत् | वालायास्तृतीयं बीजमाद्यंते तस्य योजयेत् | गोक्षीरमधुना लिप्य विद्यां पाणौ विधारयेत् | पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वी न शोषणं | द्वाभ्यां च माथया बीजं धारयेत् कर कंठयोः | एषा विद्या गमे धार्यया बलवीर्यय समन्विता | शोषितोऽपि न सिद्धिश्चेद्दहनीयोऽग्निबीजतः | अग्ने येन तु बीजेन मंत्राद्य करमक्षरं | आद्यं तु मध्य उर्द्धं तु ये गोदोहन्न कर्म्मणि | ब्रह्मवृक्षस्य मूलेन कृत्वा दर्भमयं ततः | शुभे देशे तते मंत्रः सिद्धः स्याच्छंकरोदितं | इत्येवं कथितं सम्यक् केवलं तव भक्तितः | एकैन तु कृतार्थः स्याद्बहुभिः किं च सुव्रतः | पृ० ७९ब) अथापरं प्रवक्ष्यामि मंत्रौषधि महाद्भुतां | यः प्रयोग विधानेन सद्यः सिद्धो भवेद्ध्रुवं | करवीरस्य मूलेन पिष्टेन मधु पाणिना | तल्लिप्तांगा कृतः कंठे मनुं सद्यः प्रसीदति | विमुक्त सर्वपापौघः कृष्णं पश्यति चतुषा | जीवन्मुक्तो भवेन्मंत्री सत्यं सत्यं मयोदितं | यत्र वा कुत्रचिद्देशे गंतु कामो यथा भवेत् | अथवा भूतले मंत्री पाताले वापि कौतुकात् | तत्क्षणात्तप्रयात्येव सर्वसिद्धिश्वरो भवेत् | इत्येवं कथितं सम्यक् मंत्रसिद्धेस्तु लक्षणं | तदुपायं तदा ब्रह्मन् केवलं तव भाग्यतः | अनेक तंत्र संप्रोक्तमनेक मुनि सम्मतं | इदानीं तु पुनर्ब्रह्मन् किं पुनः श्रोतुमिच्छसि || इति श्रीगौतमीये महातंत्रे सर्वतंत्रोत्तमे द्वात्रिंशोऽध्यायः || ३२ || समाप्तः शुभम् || जम्बूमध्ये लिखितमिदम्पुस्तकं सं० १९४४ भाद्रपदे मासि ########### END OF FILE #######