#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00288 Uniform title: gorakṣayogaśāstram Secondary title: mūlasāra Author : gorakṣanātha attributed to: Manuscript : NGMCP 5-332 reel number: B24/44 Description: Gorakṣayogaśāstram also called Mūlasāra the Essence of the Root this is a work on Yoga written in the manner of a stotra so that by reading and repeating it daily, one accfrues countless benefits. It opens with a summary of the contents of the subtle body, the vital channels, Sun, Moon and Fire, the Cakras and sacred Kaula sites, the Self that resides there, the 14 worlds, oceans, rivers all that is in the Egg of Brahmā is in the body. The Moon on the peak of the inner Mount Meru raisn down nectar throughout the body and so it goes on describing the activity and function of the inner contents of the body listed at the beginning. The treatise (śāstra) as its very name suggests is attributed to Gorakṣanātha, the founder of Haṭhayoga. Notes: December 17, 2013 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### नमो आदिनाथाय || ईश्वर उवाच || चन्द्रसूर्यस्तथा वह्नि शरीरे दश नाडिकाः | पञ्चस्थावायव पञ्च मनोबिन्दुस्तथैव च ||१|| षट्चक्रं मेरुदण्डञ्च ओड्डियानं तथैव च | जालंधरं कामरूपं पूर्णगिरि श्रीहस्तकः ||२|| प्रकीर्तिः क्षेत्रपुरुषो ब्रह्माविष्णुशिवस्तथा | नदानद्यः समुद्राश्च भुवनानि चतुर्दशः ||३|| ब्रह्माण्डे यै गुणाः संति ते तिष्ठंति कलेवरे | तेषां संक्षेपतः साध्यं प्रवदन्ति शुविस्मृते ||४|| २अ) मेरुशृङ्गे स्थिते चन्द्रो द्विरष्टा कलया युतः | अहर्निशं तुषाराभं शुधां वर्षत्यधो मुखं ||५|| शुधांशुर्द्धि विषश्रावी पीयूष बिंदुमेव च | तरलस्तु शुधाज्ञेया घनोबिंदुरुदाहृतः ||६|| एकबिंदु सदा ब्रह्मा उत्पत्तिस्थितितारकः | बिंदुवर्गस्य साध्येन देहसिद्धिः प्रजायते ||७|| जवाकुसुमसंकाशोवस्थिदेशे सुसोभने | मध्यमामूलसंव्याप्य सूर्यन् तिष्ठति देहिनां ||८|| २ब्) कलाद्वादशभिः सूर्यो वह्निर्दशकला युतः | सर्वेषां देहिनां तिष्थेत् अन्नादिः पावकः सदा ||९|| तुषारं वर्षते चन्द्रो रविः सुध्यति सर्वदा | तत्संयोगे स्थितः प्राणः वियोगात्मरणं भवेत् ||१०|| ऊर्द्धं यातिरवे रस्मिरधचंद्रामृतं सदा | अभ्यासात् कामरूपेन योगं योग विदोविदुः ||११|| अयं योगसमुद्रं च वसन्तः परिकीर्तितः | अरोगी च भवे देवी प्राणापानैक योगतः ||१२|| प्राणश्चन्द्र मयोज्ञायोऽपानः सूर्यमयं तथा | ३अ) अनयोः संगमं सध्यं रजोबीजस्य साधनं ||१३|| ओड्डीयानं दृढं बन्धं कृत्वा रेचकपूरकौ | समानापानयोर्योगः प्राणापानेकयोगतः ||१४|| कामरूपे त्रिर्योगः प्राणापाने समानकौ | नाभिशक्तिः द्वयोर्मध्ये ओड्डियानं तदुच्यते ||१५|| वह्नौ जालंधरो ज्ञेयः कामरूपश्च गर्भके | पूर्णगिरिः हृदिर्मध्ये श्रीहद्वं तालुकोपरि ||१६|| आकुंच्य गुडमूलन्तु चिबुकं हृदयोपरि | ३ब्) नवद्वाराणि संयम्य कुक्षिमापूर्य वायुना ||१८|| चारणं सर्वे नाडीनां देहवह्निः प्रदीपनं | वंह्नेः प्रदीपनात्नित्यं अन्नादेः पाचनं भवेत् ||१९|| अन्नादेः पाचनात्नित्यं रसवृद्धिः प्रजायते | स्वभावाद्बीज एवासौ बिंदुविभर्तिनान्यधा ||१९|| अधिकं सर्वगात्रेषु भवन्ति चाष्टधावतः | वायुरेव परो देहे मूलसारः प्रकीर्तितः ||२०|| वायोः प्रसाधना देव आयुर्वृद्धि दिने दिने | हृदिः प्राणो गुडऽपानः समानो नाभिसंस्थितः ||२१|| ४अ) उदानः कण्ठदेशे च व्यानः सर्व शरीरगः | स्थानवायुञ्च संक्षिप्य वस्थिदेशे पुनः पुनः ||२२|| उद्घाते ये चक्र नालं सुषुम्णाया सुगोपितं | ब्रह्मग्रन्थिं ततोतित्वा वायुर्विशति मध्यमां ||२३|| स्वाधि चक्र लिंगमूले ततो वायुर्विशत्यपि | मणिपूरं नाभिदेशे ततो विध्यात्सदा गतिः ||२४|| हृदिमध्ये विष्णुग्रंथिं भित्वा कण्ठगुणाकरं | ४ब्) तालुमूलं सुधाचक्रे भित्वारुद्रालयं व्रजेत् ||२५|| चक्रं चक्र यदाभित्वा वायुर्याति पुरे पुरे | वायुना सहयोगेण बिन्दु तत्रैव गच्छति ||२६|| यावनस्थां व्रजे वायु बिन्दुस्थानेन गच्छति | शंखिनी नालसंप्राप्य चास्थि शून्यं विभर्तिसः ||२७|| ततः क्षीरमयो देहः पिण्डसिद्धो भवेद्ध्रुवं | एवं मभ्यासयोगेण नरो ब्रह्मनि यः स्थितः ||२८|| तस्य पापं क्षयं याति जन्मकोटि शतार्जितं | मासे मासेऽश्वमेधश्च यज्ञस्य च फलं भवेत् ||२९|| ५अ) वर्षणराज सूर्यस्य फलं तस्य न संशयः | दह्यते सर्वपापानि कोटिजन्मार्जितानि च ||३०|| ईहैवाभ्यास योगेण तृणानि वह्निना जपा | तपांसि योनि कथ्यंते यज्ञदानव्रतानि च ||३१|| कोटि कोटि गुणैस्तानि भवत्यभ्यास योगतः | नन्दन्ति पितरः सर्वे पुत्रो योगानुसारिणी ||३२|| भुञ्जस्ते च सुखं सर्वं सर्वदुःखविवर्जिताम् | देव्युवाच || उपायं ध्यान योगस्य ब्रुहि मे शशि सेषर | ५ब्) यल्लब्ध्वा योगिनः सर्वे मुच्यते जन्म बंधनात् ||३३|| ईश्वरोवाच || नाभिमध्ये स्थितो ब्रह्मा हृदि मध्ये तु माधवः | शिरसि शङ्करो ज्ञेया त्रिस्थानं मुक्तिदं स्मृतं ||३४|| नाभि मध्ये परं ज्योतिः प्रदीपं तद्दशाङ्गुलं | ज्योतिपुञ्ज च चक्रवत् हृदिमध्ये च तिष्ठति ||३५|| शुद्धस्फटिकसंकाशं चंद्रकोटि समप्रभं | ध्यायेत् मूद्ध्नि शिवज्योति घृतपिण्डसिवोद्धृतं ||३६|| ६अ) अचञ्चलं मनं कृत्वा त्रयाणां ज्योतिषां शनैः | मेलकं वायुबिंदूभ्यां कर्तव्यं मनसा बुधैः ||३७|| कामरूपे चक्रनाले मध्यमां मध्यगोचरे | तथाचक्रेषु सर्वेषु प्रत्यं ज्योतिः प्रदृश्यते ||३८|| यस्मिन्नभ्यासतो वायुर्मनो बिंदुस्तथैव च | ज्योतिषि त्रीणि तत्रैव तेषु चात्मा प्रतिष्ठति ||३९|| नाभिमध्येषु सर्वेषु ज्योतिषां दीप्यते यथा | तत्रैव चास्थि शून्ये तु कालचारः पलायते ||४०|| ६ब्) एवं ध्यानं सदा बुद्ध्या कुर्यात् ज्योतिर्मयं बुद्धः | ज्योटिषां वायु बिंदुर्नामेलकं मुक्तिदायकं ||४१|| एवं ध्यानस्थिरं यस्य न वाक्यं लभ्यते मनः | वायुर्बिन्दु मनश्चात्मा तस्य सर्वस्थिरं भवेत् ||४२|| चले बिन्दौ चले चित्ते चले वायौ च सर्वदा | चलते चलमानोसौ मृत्युमभ्येति शाश्वत ||४३|| ७अ) तस्मादेवञ्चला भूत्वा * * * * * * * *? | * * * * * * * * *? यं ब्रह्म समो भवेत् ||४४|| कथितं ध्यान योगस्य समुद्देशे च विस्मृते | ध्यानातीतं परं ब्रह्म सर्वशास्त्रेषु गोपितं ||४५|| ब्रह्माविष्णुशिवादीनां एकोसौ जनकाविभुः | आधारो भुवनानाञ्च देहस्था देहवर्जिताः ||४६|| ७ब्) एकोव्यापीशसं * *? निर्गुणः प्रकृते परः | जन्म वृद्ध्यादि रहित आत्मासर्वगतान्ययः ||४७|| निरालंवे मनः कृत्वा कुर्याच्छुन्ये मनस्थिरं | अनित्य खण्डयेत् सर्वं यत्किञ्चित् मनसार्जितं ||४८|| खण्डयेत् सततं देवि विनष्टं पञ्चभौतिकं | करणानि मनश्चैव यदा ब्रह्मणि नीयते ||४९|| तदा ब्रह्मपदं प्राप्य योगी मुक्ति पदं व्रजेत् | अनिमादि गुणास्तस्य * * * * * * * *? ||५०|| ८अ) देव्युवाच || इन्द्रियाना * * * * * * * * * * * *? | * * * * * * *? स्य शिष्यैश्चक्षुद्रबुद्धिभिः ||५१|| ईश्वरोवाच || ब्रह्माण्ड * * *? ब्रह्म परं ज्योतिर्मयं शुभं | तदूर्द्धञ्च परं विष्णोः हृदये च गुणान्वितं ||५२|| तदूर्द्धञ्चैव रुद्राणां दृश्यते नात्रसंशयः | तदूर्द्धञ्च महाशून्यं यत्र ब्रह्म यथाश्रमं ||५३|| तत्रैव च मनो नीत्वा महाशून्यमयोपरि | कालस्य रक्षयं ज्ञात्वा स्वयं ब्रह्म समो भवेत् ||५४|| ८ब्) अत एव शिवादीनां निद्राव्याजेन पार्वती | प्रत्यद्दे ज्ञानचिन्तायां न किञ्चिदन्यथा भवेत् ||५५|| एवं शक्रादयो देवाः सिद्धाश्च वरवर्णिन | सिद्धाः सिद्धं प्रकुर्वन्ति ते यान्ति परमा गतिः ||५६|| मानुषाश्चास्मि काये च गन्धर्वोरग किन्नरा | एवं योगसमासाध्य गच्छन्तिं परमां गति ||५७|| ९अ) हिंसार्थे च व्रजेत् कालं स्तेन नास्तिक वादिना | असत्यर्नोचता क्रूराः द्विजवेदविनिंदकाः ||५८|| असेवागुरुपादे च सर्वधर्म विवर्जिता | आलसौ पीडिता ये च कामक्रोधप्रपीडिता ||५९|| तथाभ्यास विहीनाश्च योगतः परिहीयते | तेन मुक्ति पदं याति धर्मे नानेन पार्वतै ||६०|| ९ब्) * * * * * * * * * * * * *? सोभने | केचित् ध्यानं युगंसंति विज्ञानञ्च परः परं ||६१|| धर्मकर्मादिके ये च विज्ञानमुपदेशतः | साध्यः चानु क्रमं कृत्वा ते यान्ति परमां गतिं ||६२|| यश्चेनं शृणुयान् नित्यं कथा सर्व यथा स्मृतां | सर्वपापक्षयं तस्य ब्रह्मणसदनं भजेत् ||६३|| स्वकृच्छ्रवणमात्रेण ब्रह्महत्यां व्यपोहतिः | १०अ) दिनेकनाश्वमेधानां यज्ञानाञ्च फलं लभेत् ||६४|| यः पठेत् पाठ्ययेद् वापि सर्वयज्ञफलं लभेत् | अतः पुण्यतरं शास्त्रं नोचात्र विद्यते क्वचित् ||६५|| मूलसारेति इति गोरक्षजोगशास्त्रसमाप्तं || || ########### END OF FILE #######