#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00522 Uniform title: gorakṣaśataka Author : gorakṣanātha attributed to Description: A short yogic tract. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 12, 2021. Publisher : Oxford University Press Publication year : 1928 Publication city : Publication country : India #################################################### गोरक्षशतकम् ओं हठयोगगोरक्षशतकप्रारम्भः श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम् | यस्य संनिध्यमात्रेण चिदानन्दायते तनुः || १ || अन्तर्निश्चलितात्मदीपकलिकास्वाधारबन्धादिभिः यो योगी युगकल्पकालकलनात् त्वं जजेगीयते | ज्ञानामोदमहोदधिः समभवद् यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिकं तम् अनिशं श्रीमीननाथं भजे || २ || नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम् | अभीष्टं योगिनां ब्रूते परमानन्दकारकम् || ३ || गोरक्षः शतकं वक्ति योगिनां हितकाम्यया | ध्रुवं यस्यावबोधेन जायते परमं पदम् || ४ || एतद् विमुक्तिसोपानम् एतत् कालस्य वञ्चनम् | यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि || ५ || द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् | शमनं भवतापस्य योगं भजति सज्जनः || ६ || आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा | ध्यानं समाधिर् एतानि योगान्गानि भवन्ति षट् || ७ || आसनानि तु तावन्ति यावत्यो जीवजातयः | एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः || ८ || चतुराशीतिलक्षाणां एकम् एकम् उदाहृतम् | ततः शिवेन पीठानां षोडेशानं शतं कृतम् || ९ || आसनेभ्यः समस्तेभ्यो द्वयम् एव विशिष्यते | एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् || १० || योनिस्थानकम् अन्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन् मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम् | स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोर् अन्तरम् एतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते || ११ || वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् | अन्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद् एतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते || १२ || षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् | स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः || १३ || एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम् | स्वदेहं ये न जानन्ति कथं सिध्यन्ति योगिनः || १४ || चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्दलम् | नाभौ दशदलं पद्मं सूर्यसन्ख्यदलं हृदि || १५ || कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा | सहस्रदलम् आख्यातं ब्रह्मरन्ध्रे महापथे || १६ || आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् | योनिस्थानं द्वयोर् मध्ये कामरूपं निगद्यते || १७ || आधाराख्यं गुदस्थानं पन्कजं च चतुर्दलम् | तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता || १८ || योनिमध्ये महालिन्गं पश्चिमाभिमुखं स्थितम् | मस्तके मणिवद् बिम्बं यो जानाति स योगवित् || १९ || तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् | त्रिकोणं तत्पुरं वह्नेर् अधोमेढ्रात् प्रतिष्ठितम् || २० || यत् समाधौ परं ज्योतिर् अनन्तं विश्वतोमुखम् | तस्मिन् दृष्टे महायोगे यातायातं न विद्यते || २१ || स्वशब्देन भवेत् प्राणः स्वाधिष्ठानं तदाश्रयः | स्वाधिष्ठानात् पदाद् अस्मान् मेढ्रम् एवाभिधीयते || २२ || तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया | तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् || २३ || द्वादशारे महाचक्रे पुण्यपापविवर्जिते | तावज् जीवो भ्रमत्य एव यावत् तत्त्वं न विन्दति || २४ || ऊर्ध्वं मेढ्राद् अधो नाभेः कन्दयोनिः खगाण्डवत् | तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः || २५ || तेषु नाडिसहस्रेषु द्विसप्ततिर् उदाहृताः | प्रधानं प्राणवाहिन्यो भूयस् तत्र दश स्मृताः || २६ || इडा च पिन्गला चैव सुषुम्णा च तृतीयका | गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी || २७ || अलम्बुषा कुहूश् चैव शन्खिनी दशमी स्मृता | एतन् नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा || २८ || इडा वामे स्थिता भागे पिन्गला दक्षिणे तथा | सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि || २९ || दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे | यशस्विनी वामकर्णे चासने वाप्य अलम्बुषा || ३० || कुहूश् च लिन्गदेशे तु मूलस्थाने च शन्खिनी | एवं द्वारम् उपाश्रित्य तिष्ठन्ति दशनाडिकाः || ३१ || इडापिन्गलासुषुम्णा च तिस्रो नाड्य उदाहृताः | सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः || ३२ || प्राणोऽपानः समानश् च उदानो व्यानौ च वायवः | नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः || ३३ || हृदि प्राणो वसेन् नित्यं अपानो गुदमण्डले | समानो नाभिदेशे स्याद् उदानः कण्ठमध्यगः || ३४ || उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः | कृकरः क्षुतकृज् ज्ञेयो देवदत्तो विजृम्भणे || ३५ || न जहाति मृतं चापि सर्वव्यापि धनञ्जयः | एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः || ३६ || आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः | प्राणापानसमाक्षिप्तस् तथा जीवो न तिष्ठति || ३८ || प्राणापानवशो जीवो ह्य अधश् चोर्ध्वं च धावति | वामदक्षिणमार्गेण चञ्चलत्वान् न दृश्यते || ३९ || रज्जुबद्धो यथा श्येनो गतोऽप्य आकृष्यते(?) | गुणबद्धस् तथा जीवः प्राणापानेन कृष्यते || ४० || अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति | ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित् || ४१ || हकारेण बहिर् याति सकारेण विशेत् पुनः | हंसहंसेत्य अमुं मन्त्रं जीवो जपति सर्वदा || ४२ || षट्शतानि त्वहोरात्रे सहस्राण्य एकविंशतिः | एतत् सन्ख्यान्वितं मन्त्र जीवो जपति सर्वदा || ४३ || अजपा नाम गायत्री योगिनां मोक्षदायिनी | अस्याः सन्कल्पमात्रेण सर्वपापैः प्रमुच्यते || ४४ || अनया सदृशी विद्या अनया सदृशो जपः | अनया सदृशं ज्ञानं न भूतं न भविष्यति || ४५ || कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी | प्राणविद्या महाविद्या यस् तां वेत्ति स योगवित् || ४६ || कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृति | ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति || ४७ || येन द्वारेण गन्तव्यं ब्रह्मस्थानम् अनामयम् | मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी || ४८ || प्रबुद्धा वह्नियोगेन मनसा मारुता हता | सूचीवद् गुणम् आदाय व्रजत्य ऊर्ध्वं सुषुम्णया || ४९ || प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा | प्रबुद्धा वह्नियोगेन व्रत्य ऊर्ध्वं सुषुम्णया || ५० || उद्घटयेत् कपाटं तु यथा कुञ्चिकया हठात् | कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् || ५१ || कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत् प्रेक्षितम् | वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोच्चारयेत् पूरितं मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्तिप्रबोधान् नरः || ५२ || अन्गानां मर्दनं कुर्याच् छ्रमजातेन वारिणा | कट्वम्ललवणत्यागी क्षीरभोजनम् आचरेत् || ५३ || ब्रह्मचारी मिताहारी त्यागी योगपरायणः | अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा || ५४ || सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम् | भुज्यते सुरसम्प्रीत्यै मिताहारः स उच्यते || ५५ || कन्दोर्ध्वं कुण्डली शक्तिर् अष्टधा कुण्डलाकृतिः | बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता || ५६ || महामुद्रां नमोमुद्राम् उड्डियानं जलन्धरम् | मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम् || ५७ || शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः | रसानां शोषणं चैव महामुद्राभिधीयते || ५८ || वक्षोन्यस्तहनुर् निपीड्य सुचिरं योनिं च वामान्घ्रिणा हस्ताभ्याम् अवधारितं प्रसरितं पादं तथा दक्षिणम् | आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचयेद् एषा पातकनाशिनी सुमहती मुद्रा न्?णां प्रोच्यते || ५९ || चन्द्रान्गेन समभ्यस्य सूर्यान्गेनाभ्यसेत् पुनः | यावत् तुल्या भवेत् सन्ख्या ततो मुद्रां विसर्जयेत् || ६० || न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः | अपि मुक्तं विषं घोरं पीयूषम् अपि जीर्यते || ६१ || क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः | तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् || ६२ || कथितेयं महामुद्रा महासिद्धिकरा न्?णाम् | गोपनीया प्रयत्नेन न देया यस्य कस्यचित् || ६३ || कपालकुहरे जिह्वा प्रविष्टा विपरीतगा | भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी || ६४ || न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा | न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् || ६५ || पीड्यते न स रोगेण लिप्यते न च कर्मणा | बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् || ६६ || चित्तं चरति खे यस्माज् जिह्वा चरति खे गता | तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता || ६७ || बिन्दुमूलं शरीरं तु शिरास् तत्र प्रतिष्ठिताः | भावयन्ति शरीरं या आपादतलमस्तकम् || ६८ || खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः | न तस्य क्षरते बिन्दुः कामिन्यालिन्गितस्य च || ६९ || यावद् बिन्दुः स्थितो देहे तावत् कालभयं कुतः | यावद् बद्धा नभोमुद्रा तावद् बिन्दुर् न गच्छति || ७० || चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम् | व्रजत्य ऊर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया || ७१ || स पुनर् द्विविधो बिन्दुः पण्डुरो लोहितस् तथा | पाण्डुरं शुक्रम् इत्य आहुर् लोहितं तु महाराजः || ७२ || सिन्दूरद्रवसन्काशं रविस्थाने स्थितं रजः | शशिस्थाने स्थितो बिन्दुस् तयोर् ऐक्यं सुदुर्लभम् || ७३ || बिन्दुः शिवो रजः शक्तिर् बिन्दुम् इन्दू रजो रविः | उभयोः सन्गमाद् एव प्राप्यते परमं पदम् || ७४ || वायुना शक्तिचारेण प्रेरितं तु महारजः | बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस् तदा || ७५ || शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् | तयोः समरसैकत्वं योजानाति स योगवित् || ७६ || उड्डीनं कुरुते यस्माद् अविश्रान्तं महाखगः | उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते || ७७ || उदरात् पश्चिमे भागे ह्य अधो नाभेर् निगद्यते | उड्डीयनस्य बन्धोऽयं तत्र बन्धो विधीयते || ७८ || बध्नाति हि सिराजालम् अधोगामि शिरोजलम् | ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः || ७९ || जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे | पीयूषं न पतत्य अग्नौ न च वायुः प्रकुप्यति || ८० || पार्ष्णिभागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् | अपानम् ऊर्ध्वम् आकृष्य मूलबन्धोऽभिधीयते || ८१ || अपानप्राणयोर् ऐक्यात् क्षयान् मूत्रपुरीषयोः | युवा भवति वृद्धोऽपि सततं मूलबन्धनात् || ८२ || पद्मासनं समारुह्य समकायशिरोधरः | नासाग्रदृष्टिर् एकान्ते जपेद् ओन्कारम् अव्ययम् || ८३ || भूर् भुवः स्वर् इमे लोकाः सोमसूर्याग्निदेवताः | यस्या मात्रासु तिष्ठन्ति तत् परं ज्योतिर् ओम् इति || ८४ || त्रयः कालास् त्रयो वेदास् त्रयो लोकास् त्रयः स्वेराः | त्रयो देवाः स्थिता यत्र तत् परं ज्योतिर् ओम् इति || ८५ || क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी | त्रिधा शक्तिः स्थिता यत्र तत् परं ज्योतिर् ओम् इति || ८६ || आकाराश् च तथोकारो मकारो बिन्दुसंज्ञकः | तिस्रो मात्राः स्थिता यत्र तत् परं ज्योतिर् ओम् इति || ८७ || वचसा तज् जयेद् बीजं वपुषा तत् समभ्यसेत् | मनसा तत् स्मरेन् नित्यं तत् परं ज्योतिर् ओम् इति || ८८ || शुचिर् वाप्य अशुचिर् वापि यो जपेत् प्रणवं सदा | लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा || ८९ || चले वाते चलो बिन्दुर् निश्चले निश्चलो भवेत् | योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् || ९० || यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते | मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत् || ९१ || यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् | यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् कालभयं कुतः || ९२ || अतः कालभयाद् ब्रह्मा प्राणायामपरायणः | योगिनो मुनयश् चैव ततो वायुं निरोधयेत् || ९३ || षट्त्रिंशदन्गुलो हंसः प्रयाणं कुरुते बहिः | वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते || ९४ || शुद्धिम् एति यदा सर्वं नाडीचक्रं मलाकुलम् | तदैव जायते योगी प्राणसंग्रहणे क्षमः || ९५ || बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् | धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् || ९६ || अमृतं दधिसन्काशं गोक्षीररजतोपमम् | ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् || ९७ || दक्षिणो श्वासम् आकृष्य पूरयेद् उदरं शनैः | कुम्भयित्वा विधानेन पुरश् चन्द्रेण रेचयेत् || ९८ || प्रज्वलज्ज्वलनज्वाला पुञ्जम् आदित्यमण्डलम् | ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् || ९९ || प्राणं चोदिडया पिबेन् परिमितं भूयोऽन्यया रेचयेत् पीत्वा पिन्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया | सूर्यचन्द्रमसोर् अनेन विधिना बिम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासत्रयाद् ऊर्ध्वतः || १०० || यथेष्ठं धारणं वायोर् अनलस्य प्रदीपनम् | नादाभिव्यक्तिर् आरोग्यं जायते नाडिशोधनात् || १०१ || इति गोरक्षशतकं सम्पूर्णम् ########### END OF FILE #######