#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00360 Uniform title: guhyasamājatantra Secondary title: tathāgataguhyaka Editor : Benoytosh Bhattacharya Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: June 26, 2016 Publisher : Baroda Oriental Institute Publication year : 1931 Publication city : Baroda Publication country : India #################################################### श्रीगुह्यसमाजतन्त्रम् ओं नमः श्रीवज्रसत्त्वाय | प्रथमः पटलः | एवं मया श्रुतम् | एकस्मिन् समये भगवान् सर्वतथागतकायवाक्चित्तहृदयवज्रयोषिड्भगेषु [ख्: अद्द्स् गुह्य | ; ठे एxप्लनतिओन् ओf थिस् qउऐन्त् बेगिन्निन्ग् इस् गिवेन् ब्य इन्द्रभूति इन् हिस् ज्ञानसिद्धि (ङ्.O.ष्.) प्. ५८ थुस् :- हृदयं ज्ञानं तदेव वज्जयोषित् अभेद्यापक्षास्वभावत्वात् तदेव भगं सर्वक्लेशभञ्जनात् |] विजहार | अनभिलाप्यानभिलाप्यैः सर्वबुद्धक्षेत्रसुमेरुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैः | तद्यथा | समयवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | कायवज्रेण च नाम बोधिसत्त्वेन् महासत्त्वेन | वाग्वज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | चित्तवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | समाधिवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | जपवज्रेण च नाम बोधिसत्त्वेन महसत्त्वेन | पृथिवीवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | अब्वज्रेण [ख्: आप्] च नाम बोधिसत्त्वेन महासत्त्वेन | तेजोवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | वायुवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन [ख्: ओमित्स्] | आकाशवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | रूपवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | शब्दवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | गन्धवज्रेण च प्द्f २६, प्. २) नाम बोधिसत्त्वेन महासत्त्वेन | रसवज्रेण च नाम बोधिसत्त्वेनमहासत्त्वेन | स्पर्शवज्रेण [क् ग्: प्रष्टव्य |] च नाम बोधिसत्त्वेन महासत्त्वेन | धर्मधातुवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन | एवंप्रमुखैरनभिलाप्यानभिलाप्यैर्बुद्धक्षेत्रसुमेरुपरमाणुरजः##- ग् ख्यातै |] तथागतैः [क्; अद्द्स् सर्व |] | तद्यथा | अक्षोभ्यवज्रेण च नम [क्: ओमित्स्] तथागतेन | वैरोचनवज्रेण च नाम् [क्: ओमित्स्] तथागतेन | रत्नकेतुवज्रेण च नाम [क्: ओमित्स्] तथागतेन | अमितवज्रेण [क्: ताभ |] च नाम [क्: ओमित्स्] तथागतेन | अमोघवज्रेण च नाम [क्: ओमित्स्] तथागतेन | एवंप्रमुखैः सर्वाकाशधातुसमाध्मातैश्च [ख् ग्: ख्या |] तथागतैः | तद्यथा | अपि नाम तिलबिम्बमिव परिपूर्णः सर्वाकाशधातुः सर्वतथागतैः संदृश्यते स्म | अथ भगवान् महावैरोचनस्तथागतः [ख्, ग्: वच्च] सर्वतथागतमहारागनयं [ख्, ग्: नय |] नाम समाधिं समापद्य [क्: द्यते |] तं सर्वतथागतव्यूहं स्वकायवाक्चित्तवज्रेषु [क्; ओमित्स् षु | ] प्रवेशयामास [क्: प्रणिधिस |] | अथ ते सर्वतथागता भगवतः [क्: न्तः |] सर्वतथागतकायवाक्चित्तवज्राधिपतेः परितोषणार्थं स्वबिम्बानि [क्: पते पवित्रो वशार्थं स्वचितानि |] स्त्रीबिम्बान्यभिनिर्माय [क्: न्यत्र |] भगवतो वैरोचनस्य कायादभिनिष्क्रान्ता [ख्, ग्: हृदये |] अभूवन् | तत्र केचित् बुद्धलोचनाकारेण केचित् मामक्याकारेण केचित् पाण्डरवासिन्याकारेण केचित् समयताराकारेण संस्थिता अभूवन् | प्द्f २६, प्. ३) तत्र केचित् रूपस्वभावाकारेण केचित् शब्दस्वभावाकारेण केचित् रसस्वभावाकारेण केचित् स्पर्शस्वभावाकारेण संस्थिता अभूवन् | अथ खलु अक्षोभ्यस्तथागतः [ख्, ग्: वज्र] सर्वतथागतकायवाक्चित्तहृदयवज्रयोषिद्भगेषु [क्: ओमित्स् हृदय] चतुरस्रं [क्: ओमित्स्] विरजस्कं महासमयमण्डलमधिष्ठापयामास | स्वच्छं च तत्स्वभावं च नानारूपं [क्: वज्रा] समन्ततः | बुद्धमेघसमाकीर्णं [ख्, ग्: मेघ] स्फुलिङ्गगहनज्वलम् [ख्, ग्: नाकुल] | स्वच्छादिमण्डलैर्युक्तं सर्वताथागतं पुरम् || अथ भगवान् सर्वतथागतंकायवाक्चित्तवज्राधिपतिः सर्वतथागतमण्डलमध्ये प्रतिष्त्ःआपयामास | अथ खलु अक्षोभ्यस्तथागतः [ख्, ग्: अद्द् वज्र] रत्नकेतुस्तथागतः अमितायुस्तथागतः [क्: भ] अमोघसिद्धिस्तथागतः वैरोचनस्तथागतः बोधिचित्तवज्रस्य तथागतस्य हृदये विजहार | अथ भगवान् बोधिचित्तवज्रस्तथागतः सर्वतथागताभिभवनवज्रं नाम समाधिं समापन्नः | समनन्तरसमापन्नस्य च सर्वतथागताधिपतेः अथायं सर्वाकाशधातुः सर्वतथागतवज्रसमयः संस्थितोऽभूत् | अथ यावन्तः सर्वाकाशधातुसंस्थिताः सर्वसत्त्वाः सर्वे च [क्: ओमित्स्] तेन [क्: ते] वज्रसत्त्वाधिष्ठानेन सर्वतथागतसुखसौमनस्यलाभिनोऽभूवन् | अथ भगवान् बोधिचित्तवज्रस्तथागतः सर्वतथागतकायवाक्चित्तवज्रसमयोद्भववज्रं [क्: द्भवं] नाम समाधिं समापद्येमां प्द्f २७, प्. ४) महाविद्यापुरुषमूर्तिं सर्वतथागतमन्त्राधिष्ठानमधिष्ठापयामास | समनन्तराधिष्ठितमात्रे स एव भगवान् वैरोचनवज्रस्तथागतस्त्रिमुखाकारेण सर्वतथागतैः सन्दृश्यते स्म | अथ अक्षोभ्यप्रमुखाः सर्वतथागता भगवतो बोधिचित्तवज्रस्य [क्, ख्: वैरोचनस्य] हृदयादभिनिष्क्रम्य इदमुदानमुदानयामासुः [क्: ओमित्स् मुदान]- अहो हि सर्वबुद्धानां बोधिचित्तप्रवर्त्तनम् | सर्वताथागतं गुह्यं न प्रभव्यं मनाविलम् || इति || अथ भगवन्तः सर्वतथागताः पुनः [क्: पूत] समाजमागम्य भगवन्तं बोधिचित्तवज्रं सर्वतथागताभिषेकपूजास्फरणसमयतत्त्वरत्नमेघैः [क्: स्थलेन ; क्: मयैः] सम्पूज्य प्रणिपत्यैवमाहुः- भाषस्व भगवन् तत्त्वं [क्: त्व] वज्रसारसमुच्चयम् | सर्वताथागतं गुह्यं समाजं गुह्यसम्भवम् || इति || अथ [क्: ओमित्स्] भगवान् [क्: ओमित्स्] बोधिचित्तवज्रस्तथागतस्तान् सर्वतथागतान् एवमाह | साधु साधु भगवन्तः सर्वतथागताः [क्: ओमित्स्] | किन्तु [क्: अद्द्स् साधु साधु वज्रपाणि साधु साधु गुणाकर सर्वतथागतान्] सेर्वतथागतानामपि संशयकरोऽयं कुतोऽन्येषां बोधिसत्त्वानामिति | अथ भगवन्तः सर्वतथागताः आश्चर्यप्राप्ताः अद्भुतप्राप्ताः | सर्वतथागतसंशयच्छेत्तारं [क्: समय] भगवन्तं सर्वतथागतस्वामिनं पप्रच्छुः | यद्भगवानेवंगुणविशिष्टेऽपि सर्वतथागतपर्षदि [ख्: ओमित्स्] सर्वतथागतकायवाक्चित्तगुह्यं [क्: ताभिषेक ; ख्: अद्द्स् वज्र] निर्देष्टुं नोत्सहते तद्भग [क्; ततो] वान् सर्वतथागताधिष्ठानं कृत्वा सर्वतथागतवज्रसमयसम्भवपदैः प्द्f २७, प्. ५) सर्वतथागतानां मुखसौमनस्यानुभावनार्थं [क्: भ] यावत्सर्वतथागतज्ञानाभिज्ञावाप्तिफलहेतोः [क्; दाताः] संप्रकाश्यत्विति | अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतः [क्: अद्द्स् गुह्य ; क्, ख्: ओमित्स् वज्र] सर्वतथागताध्येषणां विदित्वा ज्ञानप्रदीपवज्रं नाम समाधिं समापद्येदं द्वेषकुलसर्वपरमसारहृदयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || वज्रधृक् || अथास्मिन् भाषितमात्रे [ख्: त्रेण] स एव [क्: समय] भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः अक्षोभ्बमहामुद्रासंयोगपरमपदैः कृष्णसितरक्ताकारेण सर्वतथागतकायवाक्चित्तवज्रस्य सर्वतथागतकायवाक्चित्तवज्रे [क्: ज्रेभ्यो] निषीदयामास | अथ भगवान् सर्वतथागतसमयसम्भववज्रं नाम समाधिं समापद्येदं मोहकुलपरमसारहृदयं [ख्: ओमित्स् परम] स्वकायवाक्चित्त वज्रेभ्यो निश्चारयामास || जिनजिक् || अथास्मिन् भाषितमात्रे स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरोषो वैरोचनमहामुद्रासंयोगपरमपदैः [ख्, ग्: पदेन] सितकृष्णरक्ताकारेण सर्वतथागतकायवाक्चित्तवज्रस्य [ख्: ज्रेभ्यो ठेरे इस् अ ब्रेअक् इन् ंस् ग्: उप् तो || रत्नधृक् ||] पुरतो निषीदयामास | अथ भगवान् सर्वतथागतरत्नसम्भववज्रेन्द्रियं नाम समाधिं समापद्येदं चिन्तामणिकुलपरमसारहृदयं [क्: अद्द्स् मन्त्र] स्वकायवाक्चित्तवज्रेभ्यो [क्; ओमित्स् वज्रेभ्यो वाक्चित्त] निश्चारयामास || रत्नधृक् || अथास्मिन् भाषितमात्रे स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषो प्द्f २८, प्. ६) रत्नकेतुमहामुद्रासंयोगपरमपदैः पीतसितकृष्णाकारेण सर्वतथागतकायवाक् चित्तवज्रस्य दक्षिणे निषीदयामास | अथ भगवान् सर्वतथागतमहारागसंभववज्रं [क्: अद्द्स् समय] नाम समाधिं समापद्येदं वज्ररागकुलपरमसारहृदयं [क्: अद्द्स् मन्त्र] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || आरोलिक् || अथास्मिन् भाषितमात्रे स [त्र ए] एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषो लोकेश्वरमहाविद्याधिपतिमहामुद्रासंयोगपरमपदै [ख्: देन] रक्तसितकृष्णाकारेण सर्वतथागतकायवाक्चित्तवज्रस्य पृष्ठतो निषोदयामास | अथ भगवान् सर्वतथागतामोघसमयसम्भववज्रं नाम समाधिं समापद्येदं समयाकर्षणकुलपरमसारहृदयं [क्: अद्द्स् मन्त्र] स्वकायवाक्चित्तवज्रेभ्यो [क्: वाक्काय] निश्चारयामास || प्रज्ञाधृक् || अथास्मिन् भाषितमात्रे स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषोऽमोघवज्रमहामुद्रासंयोग##- सर्वतथागतकायवाक्चित्तवज्रस्य उत्तरे निषीदयामास | द्वेषमोहस्तथा रागश्चिन्तामणिसमयस्तथा | कुला ह्येते तु वै पञ्च काममोक्षप्रसाधकाः [क्: प्रेष्यका] || इति || अथ भगवान् सर्वतथागतवज्रधरानुरागणसमयं [ख्: ओमित्स् ; क्; वज्रान्ध ; ख्: गे ; क्; अद्द्स् सम्भववज्र ओन्ल्य] नाम समाधिं समापद्येमां सर्ववज्रधराग्रमहिषींस्वकायवाक्चित्तवज्रेभ्यो [क्: महिषि; ख्: महर्षि] निश्चारयामास || द्वेषरति || अथास्यां विनिःसृतमात्रायां प्द्f २८, प्. ७) स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः [ख्: ओमित्स् विद्या] स्त्रीरूपधरो भूत्वा सर्वतथागतकायवाक्चित्तपूर्वकोणे [क्: दक्षिणकोणे; ख्, ग्: पूर्वकोणे बोथ् ओf wहिछ् सेएम् तो बे इन्चोर्रेच्त् द्वेषरति बेइन्ग् थे चोन्सोर्त् ओf अक्षोभ्य मुस्त् बे इन् थे मिद्द्ले ओf थे चक्र ओf थे मगिच् चिर्च्ले] निषीदयामास | अथ भगवान् सर्वतथागतानुरागणवज्रं नाम समाधिं समापद्येमां सर्वतथागताग्रमहिषीं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || मोहरति || अथास्यां विनिःसृतमात्रायां स प्द्f २९, प्. ८) एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः स्वीरूपधरो भूत्वा पूर्वकोणे [ख्, ग्: ५१ दक्षिण] निषीदयामास | अथ भगवान् सर्वतथागतरत्नधरानुरागणवज्रं नाम समाधिं समापद्येमां सर्वेर्ष्याधराग्रमहिषीं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || ईर्ष्यारति || अथास्यां विनिःसृतमात्रायां स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः स्त्रीरूपधरो भूत्वा दक्षिणकोणे निषीदयामास | [ठे दिअग्रम् fइग् १. wइल्ल् शोw च्लेअर्ल्य थत् अ लोन्ग् पोर्तिओन् (ओf wहिछ् अ चोन्जेच्तुरल् रेस्तोरतिओन् इस् गिवेन् हेरे मुस्त् हवे बेएन् ओमित्तेद् ब्य थे चोप्यिस्त्स्] अथ भगवान् सर्वतथागतरागधरानुरागणवज्रं नाम समाधिं समापदोमां सर्वरागधराग्रमहिषीं [क्: अद्द्स् तथागत] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || रागरति || अथास्यां विनिःसृतमात्रायां स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः स्त्रीरूपधरो भूत्वा पश्चिमकोणे निषीदयामास | अथ भगवान् सर्वतथागतकायवाक्चित्तविसम्बादनवज्रं नाम समाधिं समापद्येमां सर्वतथागतप्रज्ञाधराग्रमहिषीं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | वज्ररति | अथास्यां विनिःसृतमात्रायां स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः स्त्रीरूपधरो भूत्वा उत्तरकोणे निषीदयामास | [क्, ग्: अद्द् सर्वतथागताग्रमहिषीसम्यत्] अथ भगवान् महावैरोचनवज्रं समाधिं समापद्येदं सर्वतथागतमण्डलाधिष्ठानं नाम [ख्: ओमित्स्] महाक्रोधं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || यमान्तकृत् || अथास्मिन् विनिःसृतमात्रे प्द्f २९, प्. ९) स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः सर्वतथागतसन्त्रासनाकारेण पूर्वद्वारे निषीदयामास | अथ भगवान् सर्वतथागताभिसम्भोधिवज्रं [क्: अद्द्स् नय] नाम समाधिं समापद्येमं सर्वतथागतमण्डलाधिष्ठानं नाम [ख्: ओमित्स्] महाक्रोधं [क्: अद्द्स् वप्पं] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || प्रज्ञान्तकृत् || अथास्मिन् विनिःसृतमात्रे स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषो वज्रसमयसन्त्रासनाकारेण दक्षिणद्वारे निषीदयामास | अथ भगवान् सर्वतथागतधर्मवशङ्करीं [क्, ख्: रत्नाकरं] नाम समाधिं समापद्येमं सर्वतथागतरागधरमण्डलाधिष्ठानं [क्: र्म] नाम महाक्रोधं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || पद्मान्तकृत् || अथास्मिन् विनिःसृतमात्रे स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः [ख्: ओमित्स्] सर्वतथागतवागाकारेण पश्चिमद्वारे निषीदयामास | अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रं नाम समाधिं समापद्येमं सर्वतथागतकायवाक् चित्तमण्डलाधिष्ठानं नाम महाक्रोधं स्वकायवाक्चित्तवज्रेभ्यो निश्चारवामास || विघ्नान्तकृत् || अथास्मिन् विनिःसृतमात्रे स एव भगवान् सर्वतथागतकायवाक्चित्तविद्यापुरुषः सर्वतथागतकायवाक्चित्ताकारेण [ख्: तवज्जा] उत्तरद्वारे निषीदयामास | सर्वतथागतकायवाकचित्तसम्भाषणमण्डलसमयसत्ताः | प्द्f ३०, प्. १०) इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे [Fरोम् थे चोलोफोन्स् ओf थे छप्तेर्स् V अन्द् Vई wहेरे थे एपिथेत्स् महागुह्यतन्त्रराजे अन्द् रहस्यातिरहस्ये ओच्चुर्स् थिस् सेएम्स् तो थे fउल्ल् अन्द् थे चोर्रेच्त् तित्ले ओfथे बोओक्. ऊनिfओर्मित्य इन् थिस् रेस्पेच्त् हस् बेएन् सेचुरेद् इन् अल्ल् प्लचेस् अन्द् दिffएरेन्त् ओर् इन्चोम्प्लेते रेअदिन्ग्स् अरे नोत् नोतेद्.] मर्वतथागतसमाधिमण्डलाधिष्ठानपटलः प्रथमोऽध्यायः | प्द्f ३०, प्. ११) द्वितीयः पटलः अथ भगवन्तः सर्वतथागताः [ख्: त] भगवतः सर्वतथागतकायवाक्चित्ताधिपतेः पूजां कृत्वा प्रणिपत्यैवमाहुः [क्: कृत्वैव]- भाषस्व भगवन् सारं कायवाक्चित्तमुत्तमम् | सर्वताथागतं गुह्यं बोधिचित्तमनुत्तरम् || अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतः सर्वतथागतानामध्येषणां विदित्वा सर्वबोधिसन्नानां चेतसैव चित्तपरिवितर्कमाज्ञाय [क्: चेतक; ग्: चेतः परिचितकर्मा] बोधिसत्त्वानेवं आ | उत्पादयन्तु [क्: न्] भवन्तः [ख्: भगवन्] चित्तं कायाकारेण कायं चित्ताकारेण चित्तं वाक्प्रव्याहारेणेति | अथ ते महाबोधिसत्त्वाः सर्वतथागतकायवाक्चित्ताकाशाकारेण संयोज्य इदमुदानमुदानयामासुः [क्: नयामास]- अहो हि समन्तभद्रस्य कायवाक्चित्तवज्रिणः | अनुत्पादप्रयोगेण उत्पादोयं प्रगीयते [ख्: मी] || अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतः सर्वतथागताभिसम्बोधिनयवज्रं [क्: ओमित्स् नय] नाम समाधिं समापद्येदं बोधिचित्तमुदाजहार | अभावे [क्: वि] भावनाभावो [क्; ओमित्स्] भावना नैव भावना | इति भावो न भावः [क्: वाः] स्याद् भावना नोपलभ्यते || प्द्f ३१, प्. १२) इत्याह भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतः | अथ भगवान् वैरोचनवज्रस्तथागतः सर्वतथागताभिसमयवज्रं नाम समाधिं समापद्येदं बोधिचित्तमुदाजहार | सर्वभावविगतं स्कन्धधात्वायतनग्राह्यग्राहकवर्जितं धर्मनैरात्मासमतया [ख्: मय] स्वचित्तमाद्यनुत्पन्नं [ख्: मु] शून्यताभावम् | इत्याह् भगवान् वैरोचनवज्रस्तथागतः | अथ भगवानक्षोभ्यवज्रस्तथागतः [क्: ओमित्स् थिस् पोर्तिओन्] सर्वतथागताक्षयवज्रं नाम समाधिं समापद्येदं बोधिचित्तमुदाजहार- अनुत्पन्ना इमे भावा न धर्मा न च [ख्: धर्माधर्मान] धर्मता | आकाशमिव नैरात्म्यमिदं बोधिनयं दृढम् || इत्याह भगवानक्षोभ्यवज्रस्तथागतः | अथ भगवान् रत्नकेतुवज्रस्तथागतः सर्वतथागतनैरात्मावज्रं नाम समाधिं समापद्येदं बोधिचित्तमुदाजहार- अभावाः सर्वधर्मास्ते [क्: मेभ्यो] धर्मलक्षणवर्जिताः | धर्मनैरात्म्यसम्भूता इदं बोधिनयं दृढम् || इत्याह भगवान् रत्नकेतुवज्रस्तथागतः | अथ भगवानमितायुर्वज्रस्तथागतः [क्: भव] सर्वतथागतज्ञानार्चिःप्रदीपवज्रं [ख्: ओमित्स्] नाम समाधिं [क्: ब्रेअक्स् हेरे अन्द् रेसुमेस् अfतेर् थे श्लोक wहिछ् fओल्लोwस्] समापद्येदं बोधिचित्तमुदाजहार- अनुत्पन्नेषु धर्मेषु न भावो न च भावना | आकाशपदयोगेन इति भावः प्रगीयते || इत्याह भगवानमितायुर्वज्रस्तथागतः | प्द्f ३१, प्. १३) अथ भगवानमोघसिद्धिवज्रस्तथागतः सर्वतथागताभिभवनवज्रं नाम समाधिं समापद्येदं बोधिचित्तमुदाजहार- प्रकृतिप्रभास्वरा धर्माः [क्: न्] सुविशुद्धा [क्: आदि] नभःसमाः | न बोधिर्नाभिसमयमिदं [ग्: सत्त्वाभि] बोधिनयं दृढम् || इत्याह भगवानमोघसिद्धिवज्रस्तथागतः | अथ खलु मैत्रेयप्रमुखा महाबोधिसत्त्वाः सर्वतथागतकायवाक्चित्तगुह्यधर्मतत्राक्षरं [ख्: सत्त्वाक्षरं; क्; तत्त्वसन्धिः] आश्चर्यप्राप्ताः अद्भुतप्राप्ता इदमुदानमुदानयामासुः [क्: ओमित्स् मुदान] | अहो बुद्ध अहो धर्म अहो सङ्घस्य [ख्: धर्म] देशना | शुद्धतत्त्रार्थ शुद्धार्थ [क्: ओमित्स् शुद्धार्थ] बोधिचित्त नमोऽस्तु ते || धर्मनैरात्म्यसम्भूत बुद्धबोधिप्रपूरक [ख्: पा] | निर्विकल्प निरालम्ब बोधिचित्त नमोऽस्तु ते || समन्तभद्र सत्त्वार्थ [क्, ग्: सर्वार्थ] बोधिचित्तप्रवर्त्तक | बोधिचर्य महावज्र बोधिचित्त नमोऽस्तु ते || चित्तं ताथागतं शुद्धं कायवाक्चित्तवज्रधृक् [ख्: वज्जिणः] | बुद्धबोधिप्रदाता [क्: प्रणेता; ख्: प्रणीता] च बोधिचित्त नमोऽस्तु ते || इति सर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये [क्: अद्द्स् शुद्धा] गुह्यसमाजे महागुह्यतन्त्रराजे बोधिचित्तपटलो द्वितीयोऽध्यायः | प्द्f ३२, प्. १४) तृतीयः पटलः अथ भगवान् कायवाक्चित्तवज्रस्तथागतः [क्, ख्: अद्द् सर्तथागतगुह्य] सर्वतथागतस्फरणमेघव्यूहं [क्: वज्र] नाम समाधिं समापद्येदं वज्रव्यूहं वज्रव्यूहं नाम समाधिपटलसुदाजहार [क्: संश] | ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम् | आकाशधातुमध्यस्थं भावयेद् बुद्धमण्डलम् | रश्मिमेघमहाव्यूहं बुद्धज्वालासमप्रभम् || पञ्चरश्मिसमाकीर्णं समन्तात् परिमण्डलम् | पञ्चकामगुणाकीर्णं पञ्चोपहारमण्डितम् || भावयित्वा समासेन बिम्बमध्ये [ख्] विभावयेत् || वैरोचनमहामुद्रां कायवाक्चित्तलक्षिताम् | कायवाक्चित्तवज्रस्य मुद्रां वाऽथविभावयेत् [क्: चार्थ] || अक्षोभ्यप्रवरां मुद्रां सम्भारद्वययोगतः | रत्नकेतुमहामुद्राममितायुःप्रभाकरीम् [क्: ली] || अमोघसिद्धिमहामुद्रां भावयेद् बुद्धमण्डले | इन्द्रनीलप्रभाकारं कायवाक्चित्तवज्रिणम् || वज्रहस्तं महाज्वालं विकटोत्कटभीषणम् | स्फटिकेन्दुप्रभाकारं जटामुकुटमण्डितम् || चक्रहस्तं महाज्वालं नानालङ्कारभूषितम् | जाम्बूनदप्रभाकारं बुद्धमेघसमाकुलम् [ख्: कुला] || प्द्f ३२, प्. १५) नवशूलं [क्: क्तं] महावज्रं पाणी तस्य विभावयेत् | मरकतप्रभाकारं वज्रज्वालाविभूषितम् || रत्नहस्तं [क्: महारत्नं; ग्: हस्ते रत्नं] विभावित्वा ज्वालामेघं समन्ततः | पद्मरागप्रभाकारं जटामुकुटमण्डितम् [क्: दीषुरागधरप्रभम्] || पद्महस्तं महाज्वालं भावयेद् रागवज्रिणम् | पञ्चरश्मिप्रभाकारं बिम्बममोघवलिणम् || खड्गहस्तधरं सौम्यं भावयेद् बुद्धमण्डलम् [क्: ले] | अथ भगवान् कायवाक्चित्तवज्रस्तथागतः धर्मधातुस्वभाववज्रं नाम समाधिं समापद्येदं कायवाक्चित्ताधिष्ठानमन्त्रमुदाजहार || ओं धर्मधातुवज्रस्वभावात्मकोऽहम् || पञ्चवर्णं महारत्नं सर्षपस्थलमात्रकम् | नासिकाग्रे प्रयत्नेन [ख्: काग्रप्रपन्नेन] भावयेद्योगतः सदा || स्थिरं तु स्फारयेत् रत्नमस्थिरं नैव स्फारयेत् | स्फारयेत् प्रवरैर्मेघैर्वज्रज्वालासमप्रभैः [ख्: र्बुद्ध] || चक्रवज्रमहामेघैः [क्: रत्नैः] पद्मकोशवरायुधैः [क्: राग ; क्: बुधैः] | बोधिसत्त्वमहामेघैः स्फारयेत् स्फरणात्मकः || आकाशधातुमध्यस्थं वज्रमण्डलमालिखेत् | स्वच्छमण्डलमध्यस्थं भावयेत् चक्रमण्डलम् || पद्ममण्डलसङ्काशं भावयेत्पद्मभावनैः [क्: ज्जप] | रत्नमण्डलसङ्काशं भावयेत् रत्नतत्परः || प्द्f ३३,प्. १६) योगमण्डलसम्भूतं लिखेदाकाशसन्निधौ | एते वै प्रवरा बुद्धाः कायवाक्चित्तभावनैः [क्: साधनैः] || मण्डलवज्रसम्भूताः सर्वज्ञाकारलाभिनः || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाने महागुह्यतन्त्रराजे वज्रव्यूहो [क्: अद्द्स् स्फुरणावभास बेfओरे थिस्] नाम समाधिपटलस्तृतीयः | प्द्f ३३, प्. १७) चतुर्थः पटलः अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य भगवन्तं सर्वतथागतगुह्यकायवाक्चित्तवज्राधिपतिं [ख्, ग्: ताधिपतिं] अनेन स्तोत्रराजेनाध्येषितवन्तः | सर्वताथागतं [क्: त] शान्तं सर्वताथागतालयम् | सर्वधर्माग्रनैरात्म्यं देश मण्डलमुत्तमम् || सर्वलक्षणसम्पूर्णं सर्वलक्षणवर्जितम् | समन्तभद्रकायाग्र्यं भाष मण्डलमुत्तमम् || शान्तधर्माग्रसम्भूतं [क्: ङ्ग] ज्ञानचर्याविशोधकम् | समन्तभद्रवाचाग्र्यं भाष मण्डलमुत्तमम् || सर्वसत्त्वमहाचित्तं शुद्धं प्रकृतिनिर्मलम् | समन्तभद्रचिताग्र्यं घोष मण्डलमुत्तमम् [क्: सारथि] || अथ वज्रधरः शास्ता त्रिलोकस्तु त्रिधातुकः [क्: मूर्तिधातुक] | त्रिलोकवरवज्राग्रस्त्रिलोकाग्रानुशासकः || भासते मण्डलं रम्यं सर्वताथागतालयम् | सर्वताथागतं चित्तं मण्डलं मण्डलाकृतिम् || अथातः सम्प्रवक्ष्यामि चित्तमण्डलमुत्तमम् | चित्तवज्रप्रतीकाशं कायवाक्चित्तमण्डलम् || नवेन सुविशुद्धेन [क्: शुचिपक्षेण; ग्: सुवियुक्तेन] सुप्रमाणेन [क्: ओमित्स् सु] चारुणा [क्: चाणुना] | सूत्रेण सूत्रयेत् प्राज्ञः कायवाक्चित्तभावनैः || प्द्f ३४, प्. १८) द्वादशहस्तं प्रकुर्वीत चित्तमण्डलमुत्तमम् | चतुरस्रं चतुर्द्वारं चतुष्कोणं प्रकल्पयेत् || तस्याभ्यन्तरतश्चक्रमालिखेत्परिमण्डलम् | मुद्रान्यासं [क्: योग] ततः कुर्यात् विधिदृष्टेन कर्मणा || तस्य मध्ये लिखेत् वज्रमिन्द्रनीलसमप्रभम् | पंचशूलं महाज्वालं भयस्यापि भयङ्करम् || पूर्वेण तु महाचक्रं वज्रज्वालाविभूषितम् | दक्षिणेन महारत्नं स्फुलिङ्गगहनाकुलम् [क्: नादकेवलम्] || पश्चिमेन महापद्मं पद्मरागसमप्रभम् | उत्तरेण महाखड्गं रश्मिज्वालाकुलोज्ज्वलम् [क्: कुलं लिखेत्; ख्: कुलाकुलम्] || पूर्वकोणे लिखेन्नेत्रं मेघमध्यसमप्रभम् [ख्: न्नेत्रं मेघसङ्घ] | दक्षिणेन ततो वज्रं मामकीकुलसम्भवम् || पश्चिमेन लिखेत्पद्मं सकन्दं विकचाननम् [क्: नलम्] | उत्तरेणोत्पलं कुर्यान्नीलाभ्रमिव शोभनम् || आलिखेत् पूर्वद्वारे तु मुद्गरं ज्वालसुप्रभम् | दक्षिणेनालिखेद्दन्डं वज्रज्वालादिसुप्रभम् [क्: द्वारा] || पश्चिमेनालिखेत्पद्मं खड्गज्वालाप्रभाकरम् | उत्तरेण लिखेद्वज्रं वज्रकुण्डलिवज्रिणम् || परिस्फुटं तु विज्ञाय [क्: टाख्यो विज्ञानं] मण्डलं चित्तमुत्तमम् | पूजां कुर्वीत यत्नेन कायवाक्चित्तपूजनैः || प्द्f ३४, प्. १९) षोडशाब्दिकां संप्राप्य योषितं कान्तिसुप्रभाम् [ख्, ग्: कर्त्रि] | गन्धपुष्पाकुलां [क्; पुष्पक्चली] कृत्वा तस्य मध्ये तु कामयेत् || अधिवेष्टा च तां प्रज्ञां [क्: समधिष्य च तां प्राज्ञः; ख्: अधिवेष्टेच्च] मामकीं गुणमेखलाम् | सृजेद्बुद्धपदं सौम्यमाकाशधात्वलङ्कृतम् [ख्: वद] || विण्मूत्रशुक्ररक्तादीन् देवतानां निवेदयेत् | एवं तुष्यन्ति सम्बुद्धाः बोधिसत्त्वा महाशयाः || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे गुह्यकायवाक्चित्तमण्डलपटलश्चतुर्थोऽध्यायः | प्द्f ३५, प्. २०) पञ्चमः पटलः अथ भगवान् सर्वतथागतकायवाक्- चित्तवज्रधरो राजा सर्वाग्र्यो भुवनेश्वरः | धर्मचर्याग्राधर्मार्थं [क्: र्वी] भाषते चर्यालक्षणं || निर्विकल्पार्थसम्भूतां रागद्वेषमहाकुलाम् [क्, ख्: मोहा] | साधयेत् [क्, ग्: यन्ति] प्रवरां सिद्धिमग्रयानेह्ह्यनुत्तरे [ग्: घोर ; ख्: त्तमम्] || चण्डालवेणुकाराद्या मारणार्थार्थचिन्तकाः | सिध्यन्ति अग्रयानेऽस्मिन् महायाने ह्यनुत्तरे || आनन्तर्यप्रभृतयः [क्: भूतस्य; ख्: अद्द्स् सत्त्वा] महापापकृतोऽपि च | सिध्यन्ते [क्: सुब्स्तितुतेस् तेऽपि सर्वतः सिद्धन्ति महायानाग्रसाधने fओर् थिस् लिने] बुद्धयानेऽस्मिन् महायानमहोदधौ || आचार्यनिन्दनपरा नैव सिध्यन्ति साधने | प्राणातिपातिनः सत्त्वा मृषावादरताश्च ये || ये परद्रव्याभिरता नित्यं कामरताश्च ये | विण्मूत्राहारकृत्या ये [क्: छत्यार्थी; ग्: कृत्वार्था] भव्यास्ते खलु साधने || मातृभगिनीपुत्रीञ्च कामयेद्यस्तु साधकः | स सिद्धिं विपुलां गच्छेत् महायानाग्रधर्मताम [क्; धर्मेषु] || मातरं बुद्धस्य विभोः कामयन्न च लिप्यते | सिध्यतं तस्य बुद्धत्वं निर्विकल्पस्य धीमतः || प्द्f ३५, प्. २१) अथ खलु सर्वनिवरणविस्कम्भिप्रभृतयो महाबोधिसत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ताः | किमयं भगवान् सर्वतथागतस्वामी सर्वतथागतपर्षन्मण्डलमध्ये दुर्भाषितवचनोदाहारं [ख्: दाहरणं] भाषते | अथ ते [ख्, ग्: ओमित्] सर्वतथागताह् सर्वनिवरणविस्कम्भिप्रभृतीनां महाबोधिसत्त्वानां [क्; ओमित्स् महाबोधि] आश्चर्यवचनमुपश्रुत्यैतान् बोधिसत्त्वानेवं आहुः- अलं [क्: एवं] कुलपुत्रा मा एवम् वोचत [क्: एवमेतदवोचत] | इयं सा धर्मता शुद्धा बुद्धानां सारज्ञानिनाम् | सारधर्मार्थसम्भूता एषा [क्: एव] बोधिचरिपदम् [क्: सत्त्वनवी] || अथ खल्वनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमाबोधिसत्त्वा [क्: प्यै ; क्: अद्द्स् महासत्त्वा] भीताः सन्त्रस्ता [क्; समन्तात्] मूर्च्छिता अभूवन् | अथ भगवन्तः सर्वतथागतास्तान् सर्ववोधिसत्त्वान् मूर्च्छितान् दृष्ट्वा भगवन्तं सर्वतथागतकायवाक्चित्ताधिपतिमेवमाहुः | उत्थापयतु भगवन्नेतान् महाबोधिसत्त्वान् | अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतः आकाशसमताद्वयवज्रं नाम समाधिं समापन्नः | समनन्तरसमापन्नस्य च भगवतः सर्वतथागतकायवाक्चित्तवज्राधिपतेः [ग्: ओमित्स् वज्र] प्रभया स्पृष्टमात्रा [क्: मात्रया] अथ ते वोधिसत्त्वाः स्वेषु स्वेष्वासनस्थानेषु [ख्: सनेषु] स्थिता अभूवन् | अथ ते सर्वतथागता आश्चर्यप्राप्ता अद्भुतप्राप्ताः प्रीत्योद्वेलप्रायाः [ख्, ग्: प्राप्ताः] एवं [ग्: अद्द्स् धर्माणां] धर्मघोषमकार्षुः | प्द्f ३६, प्. २२) अहो धर्म अहो धर्म अहो धर्मार्थसम्भव | धर्मशुद्धार्थनैरात्मा वज्रराज [क्: धर्म] नमो नमः || कायवाकचित्तसंशुद्ध [ग्: भूत] आकाशसमतालय | निर्विकार निराभास वज्रकाय नमो नमः || चित्तं ताथागतं श्रेष्ठं त्रैयध्वपथवर्त्तिनम् [क्: त्रियध्व] | धातुभूत महाकाश [क्: चार्त्तचडामहाचित्त] आकाशार्थ नमो नमः || आकाशकायसम्भूत आकाशवाक्प्रवर्त्तक | आकाशचित्तधर्माग्र चर्यापद नमोऽस्तु ते || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे समन्तचर्याग्रपटलः पञ्चमोऽध्यायः | प्द्f ३६, प्. २३) षष्ठः पटलः | अथ खलु अक्षोभ्यवज्रस्तथागतः [ख्, ग्: ओमित् वच्च] सर्वतथागतकायवाक्चित्तगुह्यवज्रं नाम समाधिं समापद्येदं चित्ताधिष्ठानमन्त्रमुदाजहार | || ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहम् || अथ भगवान् वैरोचनवज्रस्तथागतो विरजपदवज्रं नाम समाधिं समापद्येदं कायाधिष्ठानमन्त्रमुदाजहार | || ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहम् || अथ भगवानमितायुर्वज्रस्तथागतः सर्वतथागतसमताद्वयवज्रं [ग्: गतासमया] नाम समाधिं समापद्येदं वागधिष्ठानमन्त्रमुजहार | || ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहम् || त्रिवज्रं ताथागतं शुद्धं [ख्: तगुह्य] पदं पदविभावनम् | निष्पादयेदेभिः [क्: भिर्मन्त्र] प्रवरैः मन्त्रलक्षणलक्षितम् [क्: वर्जितम्] || अथ भगवान् रत्नकेतुवज्रस्तथागतः ज्ञानप्रदीपवज्रं नाम समाधिं समापद्येदं अनुरागणमन्त्रमुदाजहार [ख्, ग्: ओमित्] | || ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहम् [ग्: गतरा] || अथ भगवानमोघसिद्धिवज्रस्तथागतोऽमोघवज्रं नाम समाधिं समापद्येदं पूजामन्त्रमुदाजहार [ख्, ग्: ओमित्] | || ओं सर्वतथागतपूजावज्रस्वभावात्मकोऽहम् || प्द्f ३७, प्. २४) पञ्चकामगुणैर्बुद्धान् [क्; गुणेनैव] पूजयेद्विधिवत्सदा [ग्: विधिना] पञ्चोपहारपूजाभिर्लघु बुद्धत्वमाप्नुयात् || इत्याह भगवान् सर्वतथागतकायवाक्चित्तवज्राधिपतिर्वज्रधरः | अथ भगवान् सर्वतथागतकायवाक्चित्तवज्राधिपतिर्वज्रधर [क्: भगवन्त] इदं सर्वतथागतमन्त्ररहस्यमुदाजहार | || ओं सर्वतथागतकायवाक्चित्तवज्रस्वब्भावात्मकोऽहम् || मन्त्रनिध्यप्तिकायेन वाचा मनसि चोदितः | साधयेत् प्रवरां सिद्धिं मनःसन्तोषणप्रियाम् [क्: सन्तः] || चित्तनिध्यप्तिनैरात्म्यं वाचा कायविभावनम् | निष्पादयन्ति [क्: येत् त्रि] संयोगमाकाशसमतालयम् || कायवाक्चित्तनिध्यप्तेः स्वभावो नोपलभ्यते [ख्: नैव] | मन्त्रमूर्तिप्रयोगेण [ईन् ग्: लस्त् पर्त् ओf थे ५थ् पटल अन्द् थे fइर्स्त् पर्त् ओf थे ६थ् अरे रेपेअतेद्] बोधिचित्ते च [क्: सत्त्ववि] भावना || विचार्येदं समासेन [क्: दृश्यमान] कायवाक्चित्तलक्षणम् | भावयेत् विधिसंयोगं समाधिं मन्त्रकल्पितम् || अथ वज्रधरः श्रीमान् सर्वताथागतान्वितः | सर्वबुद्धाग्रसर्वज्ञो भाषते भावनोत्तमम् || आकाशधातुमध्यस्थं भावयेच्चन्द्रमण्डलम् | बुद्धब्बिम्बं विभावित्वा सूक्ष्मयोगं समारभेत् || प्द्f ३७, प्. २५) नासाग्रे सर्षपं चिन्तेत् [ग्: सञ्चयन् चित्तं] सर्षपे स चराचरम् | भावयेत् ज्ञानदं रम्यं [क्: ओमित्स्] रहस्यं ज्ञानकल्पितम् || आकाशधातुमध्यस्थं भावयेत् सूर्यमण्डलम् [ख्: रत्न] | बुद्धबिम्बं विभावित्वा पदं तस्योपरि न्यसेत् || || हूं || आकाशधातुमध्यस्थं भावयेच्चक्रमण्डलम् | लोचनाकारसंयोगं वज्रपद्मे [ग्: वज्जं पद्मं] विभावयेत् || आकाशधातुमध्यस्थं भावयेत् रत्नमण्डलम् | आदियोगं प्रयत्नेन तस्योपरि विभावयेत् || आकाशधातुमध्यस्थं भावयेत् पद्ममण्डलम् | पद्माकारसुसंयोगं [क्; पद्मरागप्रभाकारं] भावयेत् रागवज्रिणम् || आकाशधातुमध्यस्थं भावयेत् रश्मिमण्डलम् | सृजेद्बुद्धपदं [क्: स्फुर] सौम्यं [क्; रम्यं] परिवारं विशेषतः || नीलोत्पलदलाकारं पञ्चशूलं विशेषतः | यवमात्रं प्रयत्नेन नासिकाग्रे विचिन्तयेत् || चणकास्थिप्रमाणं तु अष्टपत्रं सकेशरम् | नासिकाग्र इदं स्पष्टं [क्: शस्त्रं; ख्: शस्तं] भावयेत् बोधितत्परः || चक्रादीनां विशेषेण भावनां तत्र [क्: तत् प्र] कल्पयेत् | सिद्ध्येद्वोधिपदं [क्, ग्: सिद्धते वो] रम्यं मन्त्रसिद्धिगुणालयम् [क्, ख्: सर्व] || सृजेत्तत्र समासेन बुद्धबोधिप्रतिष्ठितम् | निश्चारयेद्धर्मपदं कायवाक्चित्तलक्षितम् || प्द्f ३८, प्. २६) अथ वज्रधरः श्रीमान् सर्वतत्त्वार्थदेशकः | सर्वचर्याग्रसम्भूतो [क्, ग्: संबुद्धो] भाषते गुह्यमुत्तमम् || षण्मासान् भावयेत् प्राज्ञो रूपशब्दरसान्वितः | गुह्यतत्त्वमहापूजां संपूज्य च विभावयेत् || विण्मूत्राहारकृत्यार्थं कुर्यात् सिद्धिफलार्थिनः | सिद्ध्यतेऽनुत्तरं तक्त्वं बोधिचित्तमनाविलम् || मांसाहारादिकृत्यार्थं [ख्: हारकृतार्थेन; क्: हारं च कृत्यर्थं] महामांसं प्रकल्पयेत् | सिद्ध्यते कायवाक्चित्तरहस्यं सर्वसिद्धिषु || हस्तिमांसं हयमांसं श्वानमांसं तथोत्तरम् | भक्षेदाहारकृत्यार्थं न चान्यत्तु [ख्: चान्नं तु] विभक्षयेत् || प्रियो भवति बुद्धानां बोधिसत्त्वश्च धीमताम् | अनेन खलु योगेन लघु बुद्धत्वमाप्नुयात् || कामधात्वीश्वरो [क्: तुश्चले] लोके स भवेत् परकर्मकृत् | तेजस्वी बलवान् श्रेष्ठः कान्तिमान् प्रियदर्शनः || सन्मानयेदिमं लोके [ख्: दर्शनं मानयेल्लोके] दर्शनेनैव चोदितः | इदं तत् सर्वबुद्धानां रहस्यं बोधिमुत्तमम् | मन्त्रगुह्यमिदं तत्त्वं [ख्: गुह्यं] कायवाक्चित्तलक्षितम् || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे कायवाक्चित्ताधिष्ठानपटलः षष्ठोऽध्यायः | प्द्f ३८, प्. २७) सप्तमः पटलः अथ भगवान् सर्वतथागतकायवाक्चित्ताध्हिपतिर्महासमुच्चयमन्त्रचर्याग्रसंबोधि##- सर्वकामोपभोगैश्च [ग्: कामार्थभोगार्थैः] सेव्यमानैर्यथेच्छतः | अनेन खलु योगेन लघु बुद्धत्वमाप्नुयात् || सर्वकामोपभोगैस्तु सेव्यमानैर्यथेच्छतः | स्वाधिदैवतयोगेन [ख्: योरैक्यं] पराङ्गैश्च [क्; परांशेन; ग्: चोपहारैश्च] प्रपूजयेत् || दुष्करैर्नियमैस्तीव्रैः सेव्यमानो न सिद्ध्यति | सर्वकामोपभोगैस्तु सेवयंश्चाशु सिद्ध्यति || भिक्षाशिना न जप्तव्यं नैव भैक्ष्यरतो भवेत् | जपमन्त्रैरभिन्नाङ्गः सर्वकामोपभोगकृत् || कायवाक्चित्तसौस्थिल्यं प्राप्य बोधिं समश्नुते | अन्यथाऽकालमरणं पच्यते [क्: पञ्चत्वे] नरके ध्रुवम् || बुद्धाश्च बोधिसत्त्वाश्च मन्त्रचर्याग्रचारिणः | प्राप्ता धर्म्मासनं [क्: प्राप्ता धर्माक्षरं; ग्; प्राप्य धर्माकरे] श्रेष्ठं सर्वकामोपसेवनैः || सेवयेत् कामगान् [क्: मांसगुणान्; ग्: कामना] पञ्च ज्ञानार्थिगणिनः [ख्: रागिणः; ग्: लाभिनः] सदा | तोषयेद्बोधिसत्त्वांश्च रागयेद् बोधिसौरिणा || रूपं विज्ञाय त्रिविधं पूजयेत् पूजनात्मकः | स एवं भगवान् विज्ञो बुद्धो वैरोचनः प्रभुः || प्द्f ३९, प्. २८) शब्दं त्रिविधं विज्ञाय देवतानां निवेदयेत् | स एवं भगवान् बुद्धो बुद्धरत्नाकरः प्रभुः || विज्ञाय त्रिविधं गन्धं [ग्: गन्धं ज्ञात्वा तु त्रिविधं; क्: गन्धज्ञा गन्धं त्रिविधं] बुद्धादौ तु निवेदयेत् | स एवं भगवान् बुद्धो [क्: बिम्बो] रागधर्मधरः प्रभुः || रसं ज्ञात्वा तु त्रिविधं देवतानां निवेदयेत् | स एवं भगवान् बिम्बो [क्, ग्: बुद्धो] बुद्धो योऽमोघवज्रिमान् || स्पर्शं ज्ञात्वा तु [क्: स्पर्शज्ञा तु; ख्: स्पर्शधातुं तु] त्रिविधं स्वकुलस्य निवेदयेत् | स एवं भगवान् वज्री अक्षोभ्याकारलाभिनः || रूपशब्दरसादीनां सदा चित्ते नियोजयेत् | इदन्तत् सर्वबुद्धानां गुह्यसारसमुच्चयम् || स्पर्शशब्दादिभिर्मन्त्री देवतां भावयेत् सदा | अथवा भावयेत् तत्र कुलभेदविभावनैः [क्: भेदेन भेदतः] || बुद्धानुस्मृतिसञ्घोद्योपस्थानस्मृतिभावना | भावना कायवाक्चित्तवज्रानुस्मृतिभावना || कुलानुस्मृतियोगेन क्रोधानुस्मृतिभावना | समयानुस्मृतियोगात् भावयन् बोधिमाप्नुयात् || तां तां तच्छक्तिकां [क्: षोडशाब्दिकां] प्राप्य योषितं रूपसुप्रभाम् | प्रच्छन्नमारभेत् पूजामधिष्ठानपदस्मृतिः [क्: पदैः] || तथागतमहाभासां लोचनां वा विभावयेत् [क्: वोधि] | द्वयेन्द्रियसमापत्या [क्; द्वेषेन्द्रिय; ख्: बुद्धीन्द्रियं] बुद्धसिद्धिमवाप्नुयात् || प्द्f ३९, प्. २९) हूंकारं च ओंकारं च पंकारं च विकल्पयेत् | पञ्चरश्मिसमाकीर्णं वज्रपद्मं च भावयेत् || वज्रांशुमिव सज्ज्वालां भावयेत्तां मनोरमाम् | बुद्धानुस्मृतियोगादीन् भावयेद् बोधिकाङ्क्षिणः || तत्र कथं बुद्धानुस्मृतिभावना | द्वयेन्द्रियसमापत्या बुद्धबिम्बं विभावयेत् | रोमकूपाग्रविवरे [क्: रैः] बुद्धमेघान् स्फरेद्बुधः || तत्र [क्: ओमित्स् तत्र तो थे एन्द् ओf थे पर] कथं धर्मानुस्मृतिभावना | द्वयेन्द्रियसमापत्या वज्रधर्मं विभावयेत् | रोमकूपाग्रविवरे धर्ममेघान् स्फरेद्बुधः || तत्र कथं वज्रानुस्मृतिभावना | द्वयेन्द्रियसमापत्या वज्रसत्त्वं विभावयेत् | रोमकूपाग्रविवरे वज्रमेघान् स्फरेद्बुधः || तत्र कथं कुलानुस्मृतिभावना | द्वयेन्द्रियसमापत्या बुद्धबिम्बं विभावयेत् | रोमकूपाग्रविवरे कुलमेधान् स्फरेद्बुधः || तत्र कथं क्रोधानुस्मृतिभावना | द्वयेन्द्रियसमापत्या क्रोधेश्वरं विभावयेत् | रोमकूपाग्रविवरे क्रोधमेघान् स्फरेद्बुधः || तत्र कथं समयानुस्मृतिभावना | स्ववज्रं पद्मसंयुक्तं द्वयेन्द्रियप्रयोगतः | स्वरेतोविन्दुभिर्बुद्धान् वज्रसत्त्वांश्च [ग्; सत्त्वं च] पूजयेत् || प्द्f ४०, प्. ३०) तत्र कथं मण्डलानुस्मृतिभावना | द्वयेन्द्रियसमापत्या स्वरेतस्तु विचक्षणः | निःसारयेत् सदा योगी मण्डलान् [क्: ओमित्स्] मण्डलाकरान् || तत्र कथं कायानुस्मृतिभावना | यत्कायं सर्वबुद्धानां पञ्चस्कन्दप्रपूरितम् | बुद्धकायस्वभावेन ममापि तादृशं [क्: समर्पितो दृढं] भवेत् || तत्र कथं वाचानुस्मृतिभावना | यदेव वज्रधर्मस्य वाचो निर्युक्तिसम्पदः | ममापि तादृशो वाचो भवेद्धर्मधरोपमः || तत्र कथं चित्तानुस्मृतिभावना | यच्चित्तं समन्तभद्रस्य गुह्यकेन्द्रस्य धीमतः | ममापि तादृशं चित्तं तद्वद्वज्रधरोपमम् [क्, ख्: भवे] || तत्र कथं सत्त्वानुस्मृतिभावना | यच्चित्तं सर्वसत्त्वानां कायवाक्चित्तलक्षितम् | ममापि तादृशं चित्तं आकाशसमसारिणम् || तत्र कथं सर्वमन्त्रमूर्तिकायवाक्चित्तानुस्मृतिभावना | यत्कायं मन्त्रवज्रस्य वाचा कायविभावनम् | ममापि तादृशं चित्तं [ग्: नित्यं] भवेन्मन्त्रधरोपमम् || तत्र कथं समयानुस्मृतिभावना | समयाक्षरेन्द्रविधिना विधिवत् फलकांक्षिणः | मानयेत् ताथागतं व्यूहं सुतरां सिद्धिमाप्नुयात् || प्द्f ४०, प्. ३१) तत्र कथं प्रज्ञापारमितासमयानुस्मृतिभावना | प्रकृतिप्रभास्वराः सर्वे [क्: सैव] अनुत्पन्ना निराश्रयाः [ख्, ग्: श्रवाः] | न बोधिर्नाभिसमयो नवान्तं न च सम्भवः || तत्र कथमनुत्पादानुस्मृतिभावना | प्रकृतिप्रभास्वरं सर्वं निर्णिमित्तं [ख्: सन्नि] निरक्षरम् | न द्वयं नाद्वयं शान्तं खसदृशं सुनिर्मलम् || तत्र कथं द्वेषकुलपूजानुम्मृतिभावना | द्वादशाब्दिकां संप्राप्य योषितं स्थिरचेतसम् | कुलयोगप्रभेदेन स्वशुक्रेण प्रपूजयेत् || अनेन तथागतं कायं [क्; अद्द्स् वाक्] चित्तं वज्रधरस्य च | वाचं [ख्: ची] धर्मधराग्रस्य [ख्: वरा] प्राप्येतेहैव जन्मनि [क्, ख्: वज्रवर्त्मनि] || कायवाक्चित्तसंसिद्धौ ये चान्ये हीनजाः स्मृताः | सिध्यन्ति तस्य जापेन [क्: तेषां सिध्यन्ति जापेन] त्रिवज्राभेद्यभावनैः [क्: साधनैः] || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे मन्त्रचर्यापटलः सप्तमेऽध्यायः | प्द्f ४१, प्. ३२) अष्टमः पटलः | अथ भगवान् रत्नकेतुस्तथागतो भगवन्तं सर्वतथागतकायवाकचित्ताधिपतिं [क्: अद्द्स् गुह्य] परमेश्वरं महावज्रधरमनेन स्तोत्रराजेणाध्येषयामास | वज्रसत्त्वं [क्; सत्त्व] महायानाकाशचर्य विशोधक | समन्तभद्र पूजाग्र देश पूजां जिनोत्तम || रागद्वेषमोहवज्र वज्रयानाप्रदेशक | आकाशधातुकल्पाग्र [क्: तस्या] घोष पूजां जिनालय || मोक्षमार्गप्रणेता च त्रियानपथवर्त्तक | बुद्ध सौभाग्यशुद्धात्म भाष पूजां नरोत्तम || बोधिचित्त विशालाक्ष धर्मचक्रप्रवर्तक | कायवाक्चित्तसंशुद्ध वज्रयान नमोऽस्तु ते || अथ वज्रधरो राजा सर्वाकाशमहाक्षरः | सर्वाभिषेकसर्वार्थः सर्वेशो वज्ररत्नधृक् || पूजां ताथागतीं श्रेष्ठां त्रिवज्राभेद्यसंस्थिताम् | कायवाक्चित्तसौभाग्यां भाषते जिनसम्भवाम् || प्राप्य कन्यां विशालाक्षीं रूपयौवनमण्डिताम् | पञ्चविंशतिकां गुह्ये तिर्यगस्याः [ख्: तिर्यक्ष्वपि; ग्: तिर्यग्भ्याऽपि] प्रकल्पयेत् || शुचौ विविक्ते पृथिवीप्रदेशे जिनात्मजं शान्तशिवालये च | विशुद्धतोयादिविलेपनं [ख्: वोधि] वा कुर्वीत शश्वज्जिनपूजहेतोः || प्द्f ४१, प्. ३३) स्तनान्तरं यावच्छिखान्तमध्ये वल्गान्तरे [ख्: चरणा] चापि न्यसेद्विधिज्ञः | नाभिकटिगुहो जिनात्मजानां [क्, ख्: ह्यजे] न्यासं प्रकुर्यात् कुलपञ्चकानाम् || आकाशधातुमध्यस्थं भावयेद् ज्ञानसागरम् | आत्मानं चन्द्रमध्यस्थं भावयेद् हृदये पुनः [क्: विधिवद्बुधः; ग्: हृदयेषु च] || संहारं च प्रकुर्वीत यदीच्छेत् शान्तवज्रधृक् | चतूरत्नमयं स्तूपं [क्; तं च] रश्मिज्वालाविभूषितम् || ज्ञानोदधिं स्त्रियं स्थाप्य [ख्: धेस्त्रिपथाभ्य] आलयन्तु विचिन्तयेत् | स्वरोमकूपविवरे पूजामेघान् स्फरेद्बुधः || पद्मं पञ्चविधं ज्ञात्वा [क्; विधिज्ञो हि |] उत्पलं च विचक्षणः | जातिकां त्रिविधं कृत्वा देवतानां निवेदयेत् || कर्णिकारस्य कुसुमं मल्लिकायूथिकां तथा [ख्: ततः] | करवीरस्य कुसुमं ध्यात्वा पूजां प्रकल्पयेत् || योजनशतविस्तारं भावयेत् चक्रमण्डलम् | कुलानान्तु [क्: नान्तः; ग्: नान्तं] प्रकुर्वीत सदाभ्यासविचक्षणः [क्: ध्यान] || पद्मं वज्रं तथा खड्गं उत्पलं भावयेद्बुधः | योजनकोटिविस्तारं चतुरस्रं [क्: गन्धराग्र] सुशोभनम् || चतूरत्नमयं चैत्यं स्वच्छं प्रकृतिनिर्मलम् | भावयेच्चामरं प्राज्ञः कुलानां पूजहेतुना || पञ्चकामगुणैः स्वच्छां यादवीं च समारभेत् | रत्नवस्त्रादिभिर्नित्यं पूजयेद्बोधिकांक्षया || प्द्f ४२, प्. ३४) पञ्चोपहारपूजाग्रैर्देवतां तोषयेत् सदा | कन्यां रत्नकरीं श्रेष्ठां नानारत्नाद्यलङ्कृताम् || दद्याद्वै सर्वबुद्धानां सिद्धये तीव्रसाधकाः | सप्तरत्नैरिदं कृत्वा परिपूर्णं विचक्षणः || दद्यात् प्रतिदिनं प्राज्ञो दानाब्धिसिद्धिकाङ्घया [क्: दानार्थी ; क्: सर्व] | अर्चिपतिमुद्रां [क्: अधिपति; ख्: अरिक्षिपति] समादाय बुद्धमण्डलमध्यतः || दद्यात् स्पर्शसमायोगं बुद्धानां रागबुद्धिना | आकाशधातुमध्यस्थंन् भावयेत् बुद्धमण्डलम् [ग्: व्यूह] || बिम्बं ताथागतमयं विधिभिः [क्, ख्: विण्मुत्रैः] पूजयन्ति ये | तूर्णं संप्राप्य सुभगां चारुवक्त्रां सुशोभनाम् || अधिष्ठानपदं ध्यात्वा तत्त्वपूजां प्रकल्पयेत् | गुह्यशुक्रं विशालाक्षो [ख्: क्षीं] भक्षयेत् दृढबुद्धिमान् [क्: ना] || इदं तत् सर्वमन्त्राणां कायवाक्चित्तपूजनम् [क्: वध्वकम्] | मन्त्रसिद्धिकरं [क्, ग्: परं] प्रोक्तं [ख्: प्राप्तं] रहस्यं ज्ञानवज्रिणाम् || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे चित्तसमयपटलः अष्टमोऽध्यायः | प्द्f ४२, प्. ३५) नवमः पटलः | अथ वज्रधरो राजा सर्वाकाशमहाक्षरः [क्: बलः] | सर्वाभिषेकचर्याग्रः सर्ववित् परमेश्वरः || कायवाक्चित्तसंयोगं [क्, ग्: समायोगात्] त्रिवज्राभेद्यमण्डलम् | घोषते [क्, ग्: येत्] परमं रम्यं रहस्यं बुद्धज्ञानिनाम् || आकाशधातुमध्यस्थं भावयेद्बुद्धम.डलम् | अक्षोभयवज्रं भावित्वा [क्: प्रञ्जत्या] पाणौ वज्रं विभावयेत् || स्फुलिङ्गगहनाकीर्णं [ख्, ग्: महसा दीप्तं] पञ्चरश्मिप्रपूरितम् | बुद्धस्य प्रभुतां [क्: प्रथमभूतां] ध्यात्वा तत्र [क्: ओमित्स्] वज्रेण चूर्णयेत् || कायवाक्चित्तसंयोगं [क्, ग्: सम्भोगं] अष्टवज्रेण [क्: नेष्टं; ग्: सादृ] चूर्णितम् | भावयेत् परमं ध्यानं चित्तसिद्धिसमावहम् [ग्: व्युहं] || अनेन गुह्यवज्रेण सर्वसत्त्वं विघातयेत् [ख्, ग्: सत्त्वाभिघातयेत्] | येऽप्यस्य तस्य [क्, ग्: ये ये तेभ्य] वज्रस्य बुद्धक्षेत्रजिनौरसाः [ख्, ग्: क्षिप्रं] | द्वेषकुलसमायोगं [ख्: द्वेषकुलसमं तत्र ज्ञेयः सर्वकुलोद्भवः | ग्: द्वेषकुलं समासाद्य ज्ञेयः सर्वकुलार्णवः |] ज्ञेयः सर्वकुलोन्नतम् || अथ वज्रधरो राजा ज्ञानमोक्षप्रसाधकः | स्वभावशुद्धनिर्लेपो [ख्: निलये; ग्: निरये] बोधिचर्याप्रवर्तकः || भाषते [ख्, ग्: भाष्यते] समयं तत्त्वं बुद्धबोधिप्रसाधकम् | आकाशधातुमध्यस्थं भावयेच्चक्रमण्डलम् || प्द्f ४३, प्. ३६) वैरोचनं विभावित्वा सर्वबुद्धान् विभावयेत् | सर्वरत्नप्रयोगेण वज्रबिम्बं प्रकल्पयेत् || हरणं सर्वद्रव्याणां [ग्: नि] त्रिवज्रेण विभावयेत् | भवन्ति चिन्तामणिसमा द्रव्योदधिप्रपूरिताः || औरसाः सर्वबुद्धानां भवन्ति मुनिपुङ्गवाः | मोहकुलसमं तत्त्वं [क्: समायोगं; ग्: तत्त्वसमं] ज्ञेयं सर्वकुलोद्भवैः [ख्, ग्: कुलार्णवे] || अथ वज्रधरो राजा रागमोहप्रसाधकः [क्, ग्: मोक्ष] | गुह्यशुद्धनिरालम्ब उद्घोषयति मण्डलम् || आकाशधातुमध्यस्थं भावयेत् पद्ममण्डलम् | अमिताभं [ग्: युं] प्रभावित्वा बुद्धैः सर्वं प्रपूरयेत् || योषिदाकारसंयोगं सर्वेषां तत्र भावयेत् | चतुःसमययोगेन इदं वज्रनयोत्तमम् || द्वयेन्द्रियप्रयोगेण सर्वांस्तानुपभुञ्जयेत् [ख्: ननु] | इदन्तत् सर्वबुद्धानां त्रिकायाभेदाभावनम् || रागकुलसमायोगं भावनीयं तु [ख्, ग्: रागकुले सत्त्वसमयो भावनीयस्तु] मन्त्रिणा || अथ वज्रधरो राजा वज्रमन्त्रार्थसाधकः | ज्ञानसम्भूतनैरात्मा इदं वचनमब्रवीत् || आकाशधातुमध्यस्थं भावयेद्बुद्धमण्डलम् | वज्रामोघं प्रभावित्वा सर्वबुद्धांस्तु भावयेत् || मृषावादं वज्रपदं सर्वबिम्बान् विभावयेत् | विसम्बादयेज्जिनान् [क्: दवज्जिणं] सर्वांस्तथा सर्वजिनालयान् || प्द्f ४३, प्. ३७) इदन्तत् सर्वबुद्धानां वागाकाशं सुनिर्मलम् | मन्त्रसिद्धिकरं प्रोक्तं रहस्यं ज्ञानबुद्धिनाम् || समयाकर्षणकुलं [क्: समा] प्रेरणीयं [ख्: यो] यथार्थतः | अथ वज्रधरो राजा त्रिवज्राभेद्यवज्रिणम् | सिद्धिवज्रप्रणेता च इदं [क्: रमिदं] वचनमव्रवीत् || आकाशधातुमध्यस्थं [ख्, ग्; ओमित् थ्रेए लिनेस् fरोम् हेरे] भावयेत् समयमण्डलम् | रत्नकेतुं प्रभावित्त्वा सर्वबिम्बैरिदं स्फरेत् || पारुष्यवचनाद्येस्तु सेवयन् ज्ञानमाप्नुयात् | इत्याह भगवान् सर्वतथागतवज्रव्यूहः [क्, ग्: ओमित् वज्ज] || अथ खलु सर्वतथागतसमयवज्रकेतुप्रमुखास्ते महाबोधिसत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता इदं वाग्वज्रघोषमकार्षुः [क्: बोधिसत्त्व कथं वज्र; ग्: वाक्कायवज्र] | किमर्थं भगवान् सर्वतथागताधिपतिः त्रैधातुव्यतिरिक्तान् [क्: व्यक्तरक्षां] सर्वलोकधातुव्यतिरिक्तान् सर्वतथागतसर्वबोधिसत्त्वपर्षन्मध्ये अद्भुतवाक्यार्थवज्रपदं [क्, ग्: वाक्य] भाषते स्म | अथ भगवन्तः सर्वतथागतास्तानभिलाप्यानभिलाप्यबुद्धक्षेत्रसुमेरुपरमाणुरजःसमान् सर्वतथागतसमयवज्रकेतुप्रमुखान् महाबोधिसत्त्वानेवमाहुः | मा कुलपुत्रा इमां हीनसंज्ञां जुगुप्सितसंज्ञां चोत्पादयथ | तत् कस्माद्धेतोः | रागचर्या [क्: अग्र] कुलपुत्रा यदुत बोधिसत्त्वचर्या यदुत-अग्रचर्या [ईन्स्तेअद् ओf यदुत एत्च्. क्: हस् कुलपुत्रा यदुत मन्त्रचर्या] | तद्यथा अपि नाम कुलपुत्रा आकाशं सर्वत्रानुगतं [क्: तथागतं] आकाशानुगतानि [ग्: न साका] प्द्f ४४, प्. ३८) सर्वधर्माणि | तानि [ख्, ग्: अद्द् च सर्वधर्माणि] न कामधातुस्थितानि न रूपधातुस्थितानि [क्, ख्: ओमित् न रूपधातुस्थितानि] नारूपधातुस्थितानि न चतुर्महाभूतस्थितानि | एवमेव कुलपुत्राः सर्वधर्मा अनुगन्तव्याः | इदमर्थवशं विज्ञाय [क्: नं] सर्वतथागताः सर्वसत्त्वानामाशयं [ख्, ग्: ओमित्] विज्ञाय ततो [अद्द्स् एतान्] धर्मं देशयन्ति | एवमेव कुलपुत्राः आकाशधातुपदनिरुक्त्या [ख्: ओमित्स् धातुपद ; क्: क्तानि] ते [क्: एव] तथागतसमया अनुगन्तव्याः | तद्यथा अपि नाम कुलपुत्राः काण्डं च मथनीयं च पुरुषहस्तव्यायामं च प्रतीत्य धूमः प्रादुर्भवति अग्निमभिवर्त्तयति [ग्: निवर्त्तयति] सचाम्निर्न काण्डस्थितो न मथनीयस्थितो न पुरुषहस्तव्यायामस्थितः | एवमेव कुलपुत्रा सर्वतथागतवज्रसमया अनुगन्तव्याः | गमनागमनाद्यैरिति | अथ ते सर्वे बोधिसत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता [ख्: ओमित्स्] विस्मयोत्फुल्ललोचना इदं घोषमकार्षुः | महाद्भुतेषु [क्: महद्गुणेषु] धर्मेषु आकाशसदृशेषु [क्: समयेषु] च | न्निर्विकल्पेषु शुद्धेषु संवृतिस्तु [ख्: हि] प्रगीयते || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे परमार्थाद्वयतत्त्वार्थसमयपटलः नवमोऽध्यायः | प्द्f ४४, प्. ३९) दशमः पटलः | अथ भगवन्तः सर्वतथागताः पुनः समाजमागत्य [ख्, ग्: म्य] भगवन्तं सर्वतथागताधिपतिं [क्, ग्: ओमित्तेद् इन्] महासमयवज्रतत्त्वाभिसम्बोधिकायवाक्चित्तगुह्यंन्न् तथागतं नमस्यैवमाहुः | भाषस्व भगवन् तत्त्वं मन्त्रसारसमुच्चयम् | कायवाक्चित्तगुह्याख्यं [क्: गुह्यं च] महासिद्धिनयोत्तमम् || इति | अथ वज्रधरो राजा सर्वक्लेशान्तकृत् [ग्: शार्णवः] प्रभुः | दीप्तवर्णो [क्: खण्डो] विशालाक्ष इदं वचनमब्रवीत् || कायवाक्चित्तवज्राणां कायवाक्चित्तभावनम् || निर्विकल्पनिरालम्बसमता न क्वचित् स्थितम् || अथ भगवान् स्वभावशुद्धस्तथागतः पारमितामन्त्रनयवज्रं नाम समाधिं समापन्नः तांश्च सर्वतथागतानेवं आह | अस्ति ब्भगवन्तः सर्वतथागता अक्षोभ्यप्रमुखाः सर्वतथागता [क्: खास्तवा] अनेकविद्याकोटिनियुतशतसहस्रैः [क्, ख्: कैः] सर्वार्थक्रियानाटकं दर्शयन्ति | दशदिग्लोकधातुपर्यवसानेषु सर्वलोकधातुषु [ख्, ग्: ओमित्] पञ्चकामगुणैः क्रीडन्ति रमन्ते परिवारयन्ति [क्: विचालयन्ति] | न च ते [क्: तेन] मन्त्रचर्याभियुक्तमवलोकयन्ति [क्: ओमित्स्] | तत् कस्माद्धेतोः (?) निष्पन्नो बतायं तथागतमन्त्रचर्यानयधर्मतत्त्रे [क्: धर्मे] | तत्र [ग्: तत्, ख्: ओमित्स्] तेषां महासत्पुरुषाणां [क्: महापु] व्यवलोकनार्थमिदं सर्वतथागतकायवाक्चित्तमन्त्ररहस्यं [क्: अद्द्स् वज्ज ; ग्: अद्द्स् सर्व बेfओरे] प्द्f ४५, प्. ४०) मन्त्रहृदयसंचोदनं [क्: अद्द्स् गुह्य] नाम महापरमगुह्यं सर्वतथागतकायवाक्चित्तसमयालम्बनं [ग्: ओमित्स् fरोम् सर्व एत्च् तो समयालम्बनं बेलोw] सर्ववज्रधरकायवाक्चित्तसमयालम्बनं सर्वधर्मधरकायवाक्चित्तसमयालम्बनं स्वकायवाक्चित्तवज्रेभ्यो वाक्पथनिरूक्त्या [क्: वाह्यार्थ] इदं मन्त्रसमुच्चयमुदाजहार | || हूं ओं आः स्वाहा || अथास्मिन् भाषितमात्रे सर्वबुद्धाः सहौरसाः [क्, ग्: स औ] | कम्पिता मूर्छामापेदे वज्रसत्त्वमनुस्मरन् || अथ वज्रपाणिः सर्वतथागताधिपतिरिमं समयमुदाजहार | आकाशधातुमध्यस्थं भावयेद् बुद्धमण्डलम् | हुंकारं तत्र मध्यस्थं स्वबिम्बेन [क्; बुद्धबिम्बं] प्रकल्पयेत् || वज्ररश्मिमहादीप्तं विस्फुरन्तं विचिन्तयेत् | बुद्धानां कायवाक्चित्तं हतं तेन [क्: हृद्गतेन] विभावयेत् || स भवेत्तत्क्षणात् एव कायवाक्चित्तवज्रधृक् | वज्रसत्त्वो महाराजः सर्वाग्रः [ग्; पर्वाग्रः; क्: सर्वार्थः] परमेश्वरः || स्वमण्डलं स्वमन्त्रेण निष्पादनविधिर्भवेत् | इदन्तत् सर्वबुद्धानां सारं वज्रसमुच्चयम् || स्वमन्त्रपुरुषं [ग्: रूपं] ध्यात्वा चतुःस्थानेषु रूपतः [क्: पुरतः] | त्रिमुखाकारयोगेन त्रिवर्णेन विभावयेत् || इत्याह भगवान् खवज्रसमयः | तत्रेदं परमं वज्ररहस्यम् | हृदयमध्यगतं सूक्ष्मं [क्: गुह्यं] मण्डलानां विभावनम् | तस्य मध्यगतं चिन्तेदक्षरं [क्: चित्तम] परमं पदम् || प्द्f ४५, प्. ४१) पञ्चशूलं महावज्रं भावयेत् योगवित् [ख्: गतः] सदा | चिन्तयेत् त्रीणि वज्राणि वज्राङ्कुशप्रभेदतः || हृदयं ताडयेत् तेन देवताद्यं [क्: नवतां वा] प्रचोदयेत् | इदं तत् सर्ववज्राणां बुद्धबिम्बप्रसाधनम् [क्: बोधि] || चक्रपद्मकराभ्यां तु [क्, ग्: कुलाद्यैस्तु] वज्राङ्कुशविभावनम् | चोदनं हृदये प्रोक्तं इदं नाटकसम्भवम् || सप्ताहं यावत् कुर्वीत इदं वज्रनयोत्तमम् | सिद्ध्यते कायवाक्चित्तरहस्यं ज्ञानवज्रिणाम् || व्यवलोकन्ति वरदा भीताः सन्त्रस्तमानसाः | ददन्ति विपुलां सिद्धिं मनःसन्तोषणप्रियाम् || बुद्धाश्च बोधिसत्त्वाश्च मन्त्रचर्याग्रसाधकाः | अतिक्रामेद्यदि मोहात् तदन्तं तस्य जीवितम् || अथ वज्रधरो राजा त्रिलोकाग्रानुशासकः | त्रिलोकवरवज्राग्रमिदं [क्: ग्र इदं] घोषमकार्षीत् || यावन्तो मन्त्रपुरुषास्त्रिवज्रज्ञानपूरिताः | द्वयेन्द्रियप्रयोगेण [ख्: यथे] सर्वभावविकल्पनम् || इदं तत् सर्वबुद्धानां मन्त्रसमयसाधनम् [क्, ग्: भावनम्] | विश्वेश्वरीप्रविष्टेषु [क्: विद्ये] वज्रसंयोगभावना [क्: नम्] | रक्तां रक्तेक्षणां वीक्ष्येत् [क्: क्ष्य] इदं समयमण्डलम् || अथ वज्रधरो राजा सर्वताथागतात्मजः | सर्वाभिषेकबुद्धाग्र इदं वचनमब्रवीत् || प्द्f ४६, प्. ४२) लोकधातुषु सर्वेषु यावत्यो योषितः [क्, ख्: बोधितः] स्मृताः | महामुद्राप्रयोगेण [ख्: दि] सर्वास्ता उपभुञ्जयेत् || स्फरेद्बुद्धपदं तत्र असंख्याकोटिवज्रिणाम् [ख्: ङ्ख्य ; ग्: न] | इत्याह भगवान् बोधिसमयः || अनेन प्राप्नुयाद्बोधिं त्रिवज्राकाशसन्निभाम् | स भवेत् वज्रसत्त्वाग्रो बोधिचित्तजिनोदधिः || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे सर्वतथागतहृदयसञ्चोदनो नाम पटलः दशमोऽध्यायः || प्द्f ४६, प्. ४३) एकादशः पटलः | अथ भगवान् [क्: अद्द्स् सर्वतथागतगुह्य बेfओरे थिस्] कायवाक्चित्तवज्रस्तथागतोवज्रपुरुषोत्तमं [क्: ओमित्स् वज्र ; क्; अद्द्स् सर्वतथागतवज्रमन्त्रविद्या अन्द् ग्: अद्द्स् सर्वतथागत बेfओरे थिस्] नाम समाधिं समापद्येदं सर्वतथागतमन्त्रवज्रपुरुषोत्तमपटलमुदाजहार [क्: अद्द्स् विद्या ; ख्, ग्: ष ; क्: पद] त्रिवज्राक्षरमन्त्राग्रैर्महामुद्राविभावनम् | कर्तव्यं ज्ञानवज्रेण सर्वबोधिसमावहम् || ओंकारं ज्ञानहृदयं कायवज्रसमावहम् | आःकारं बोधिनैरात्म्यंन् वाक्यवज्रसमावहम् [क्: वाग्] || हूंकारं कायवाक्चित्तं त्रिवज्राभेद्यमावहम् | इत्याह भगवान् सर्वतथागतकायवाक्चित्तमन्त्रपुरुषः [क्: अद्द्स् विद्या] | खवज्रमध्यगं चिन्तेत् [क्: चित्तं] मण्डलं सर्ववज्रगम् | भ्रुंकारं भावयेत्तत्र वज्रमेघस्फरावहम् [क्; समा] || तत्रेदं ज्ञानवज्रहृदयम् || || भ्रुं || वज्रमण्डलमध्यस्थं ओंकारं तु प्रभावयेत् | स्वच्छमण्डलमध्यस्थं आःकारं [ख्: आ] तु विचिन्तयेत् || धर्ममण्डलमध्यस्थहूंकारस्य [ख्: ओमित्स् थिस् लिने] विभावना [क्: प्रभावनम्] | भ्रुंकारमालयं ध्यात्वा त्रिवज्रोत्पत्तिभावना || इत्याह भगवान् गुह्यसमयः | प्द्f ४७, प्. ४४) हृदयं त्र्यध्वबुद्धेभ्यः [क्: सर्व] कायवाक्चित्तरञ्जनम् [ग्: पञ्जरः] | ओंकारं बुद्धकायाग्र्यां आःकारं वाक्पथम् [क्: बुद्धवाक्] तथा || हूंकारं चित्तज्ञानौघं इदं बोधिनयोत्तमम् | इदं तत्सर्वबुद्धानां बुद्धबोधिप्रसाधकम् || निर्मितं ज्ञानवज्रेण बुद्धहेतुफलोदयम् | एते वै बुद्धपुरुषा मन्त्रविद्येति कीर्तिताः || निष्पादनादिसमयैस्त्रिवज्राभेद्यभावनैः | || सर्वतथागतसमयतत्त्वज्ञानवज्राधिष्ठानहेतुर्नाम [क्: अद्द्स् चित्त ; क्: ये] समाधिः || विविक्तेषु च रम्येषु इदं योगं समारभेत् | सिद्ध्यते कायवाक्चित्तं पक्षैकेन न संशयः || खवज्रमध्यगं चिन्तेत् [क्: चित्तं] स्वच्छमण्डलमुत्तमम् | निष्पाद्य [क्; दयेत्] स्वमन्त्रसमयं ओंकारं हृदये न्यसेत् || पञ्चरश्मिमहामेघान् वैरोचनाग्रभावनैः | अनेन कायं बुद्धस्य वज्रवैरोचनोदधिः || सिध्यते पक्षमात्रेण बुद्धकायसमप्रभः | त्रिवज्रकल्पं तिष्ठेयुः सेवयन् [क्: न्नैव] पञ्चज्ञानिनाम् || इत्याह भगवान् कायवज्रगुह्यः [ग्: वाग्] | || सर्वतथागतकायरश्मिव्यूहो [ग्: वाग् ; क्: वज्ररश्मि; ग्: समयसम्भवो] नाम समाधिः || खवज्रमध्यगं [ग्: ओमित्स् ४ लिनेस् fरोम् हेरे] चिन्तेत् [क्; चित्तं] धर्ममण्डलमुत्तमम् || निष्पाद्य स्वमन्त्रपुरुषमाःकारं वाक्पथे न्यसेत् || प्द्f ४७, प्. ४५) पञ्चवर्णमहावज्रं लोकेश्वराग्रभावनैः | निष्पाद्य समयज्ञानवाक्समयप्रपञ्चकम् || धर्मवाक्यसमारूढो [ख्: क्पथ] धर्मवज्रसमो भवेत् | त्रिवज्रकल्पं तिष्ठेयुः सेवयन् पञ्चज्ञानिनाम् || इत्याह भगवान् वाग्वज्रगुह्यः | || सर्वतथागतवाग्वज्रसमयसम्भवो नाम समाधिः || खवज्रमध्यगं चिन्तेत् वज्रमण्डलमुत्तमम् | निष्पाद्य स्वमन्त्रपुरुषं हूंकारं चित्तसंस्थितम् || महासमयतत्त्रं [क्: अद्द्स् वज्र] वै पञ्चवर्णं विभावयेत् | कर्त्तव्यं ज्ञानवज्रेण सर्ववज्रजिनालयम् || वज्रचित्तसमः शास्ता स भवेद्ज्ञानगुणोदधिः [क्: सर्व] | त्रिवज्रकल्पं तिष्ठेयुः सेवयन् पञ्चज्ञानिनाम् || इत्याह भगवान् वज्रचित्तगुह्यः | || सर्वतथागतकायवाक्चित्तवज्रो [क्: अद्द्स् समयसम्भव] नाम समाधिः || महावज्रं समाधाय ज्ञानमण्डलमध्यतः [क्: वज्र] | खंकारं सर्वकार्येषु खवज्रज्ञानसमो भवेत् || || खं || बुद्धैश्च बोधिसत्त्वैश्च पूज्यमानो मुहुर्मुहुः | तिष्टेत् त्रिकल्पसमयं [क्: ष्ठति कल्प] बुद्धैरपि न दृश्यते || इत्याह भगवान् खवज्रसमयः | प्द्f ४८, प्. ४६) || कायवाक्चित्तवज्रान्तर्ज्वाल [क्: द्वार] सम्भवव्यूहमाली [क्: मान्तिनी] नाम समाधिः || ध्यात्वा स्वमन्त्रपुरुषं वज्रमण्डलमध्यतः | हृदये हूंकारवज्राख्यं कृत्वा रश्मिविभावनम् || || हूं || मञ्जुश्रीसमयसम्भोगं कायवाक्चित्तवज्रिणः | म भवेद्बोधिसत्त्वात्मा दशभूमिप्रतिष्ठितः || || बोधिसत्त्वज्ञानसमयचन्द्रवज्रो नाम समाधिः || खधातुमध्यगं ध्यात्वा थ्लींकारं [ग्: प्लीं] ज्वालसुप्रभम् [क्: त्रिकालस्वप्रभाकरः] | परमास्रो [क्: शास्ता; ग्: परमन्त्री] वज्रकायेन वज्रकायसमो भवेत् [क्: माचरेत्] || || थ्लीं || || खवज्रसमयव्यूहालयो नाम समाधिः || बुद्धाभिज्ञाद्यसमयैः पञ्चाभिज्ञसमो [क्: समयो] भवेत् | इदन्तत् सर्वबुद्धानां [क्: सिद्धिं] बुद्धाभिज्ञाग्रसाधनम् || खधातुमध्यगं [ग्: वज्र] चिन्तेत् वज्रमण्डलमुत्तमम् [क्: बुद्ध] | वज्रसत्त्वं प्रभावित्वा ज्ञानाकारं [क्: नमा] प्रभावयेत् || || ओं || त्रिवज्रसमयध्यानेन त्रिवज्राक्षोभ्यसमो भवेदित्याह भगवानक्षोभ्यवज्रः [क्: राजः] | प्द्f ४८, प्. ४७) अक्षोभ्यसमकायेन वाक्चित्ताग्रधृक् सदा | लोकधातुषु सर्वेषु पूज्यतेऽक्षोभ्यवज्रिणः [क्: चित्तत्रिधारिणः ; क्: पूजयेद] || || अक्षोभ्यसमयकायाभिसम्बोधिवज्रो नाम समाधिः || खधातुमध्यगतं चिन्तेत् बुद्धमण्डलमुत्तमम् | आकाशवज्रं प्रभावित्वा त्रामाकारं [क्: रत्ना] प्रभावयेत् || || त्रां || [ग्: ओं] त्रिवज्रसमयध्यानेन त्रिवज्रकेतुसमो भवेदित्याह भगवान् रत्नकेतुवज्रः [ग्: ओमित्स् केतु] | कायवाक्चित्तवज्रेण रत्नकेतुसमप्रभः | स भवेद् बोधिनैरात्म्यज्ञानवज्रसमावहः [क्, ग्: गुह्य ; ख्, ग्: लयः] || || रत्नकेटुसमयसम्भोगवज्रो [ख्, ग्: ओमित् केतु] नाम समाधिः || खधातुमध्यगतं चिन्तेत् बुद्धमण्डलमुत्तमम् | लोकेश्वरं प्रभावित्वा धर्मोंकारं [क्: धन्वा; ग्: धर्मा] विभावयेत् || || ओं || त्रिवज्रसमयध्यानेन त्रिवज्रामितसमो [ग्: मृत] भवेदित्याह भगवानमितवज्रः | कायवाक्चित्तवज्रेण अमितायुःसमप्रभः | स भवेत् सर्वसत्त्वानां महायानपथोदयः || || अमितवज्रप्रभावश्रीर्नाम [क्, ग्: अद्द् गुण; ग्: ओमित्स् वज्र] समाधिः || खधातुमध्यगतं चिन्तेद् बुद्धमण्डलमुत्तमम् | वज्रोत्पलंप्रभावित्वा [ग्: त्प्रभं] समयौंकारं प्रभावयेत् || प्द्f ४९, प्. ४८) || ओं || त्रिवज्रसमयध्यानेन त्रिवज्रामोघसमो भवेदित्याह भगवानमोघवज्रः | कायवाक्चित्तवज्रेण वज्रामोघसमप्रभः | स भवेद् ज्ञानोदधिः श्रीमान् सर्वसत्त्वार्थसम्भवः || || अमोघसमयरश्मिज्ञानाग्रसम्भवो नाम समाधिः || खधातुमध्यगतं चिन्तेत् बुद्धमण्डलमुत्तमम् | वैरोचनवज्रं प्रभावित्वा त्रिरोंकारं [त्रिकालं, ग्: त्रयोंकारं] प्रभावयेत् || || ओं ओं ओं || त्रिवज्रसमयध्यानेन [ग्: अद्द्स् त्रिवज्र बेfओरे थिस्] वैरोचनवज्रसमो भवेदित्याह भगवान् वैरोचनवज्रः | कायवाक्चित्तवज्रेण वैरोचनसमप्रभः | स भवेद् ज्ञानसम्बोधिंस्त्रिकायाभेद्यसाधकः || || कायवाक्चित्तालम्बनसम्बोधिवज्रो [क्: ज्वज्ञानं] नाम समाधिः || पर्वतेषु विविक्तेषु नदीप्रस्रवणेषु च [क्: वा] | श्मशानादिष्वपि कार्यमिदं ध्यानसमुच्चयम् || अक्षोभ्यज्ञानवज्रादीन् ध्यात्वा खवज्रमध्यतः | पञ्चाभिज्ञप्रयोगेण स्थाने बुध्याग्रभावना || इत्याह भगवान् महावज्रसमयवज्राभिज्ञः | पञ्चशूलं महावज्रं पञ्चज्वालाविभूषितम् | पञ्चस्थानप्रयोगेण पञ्चाभिज्ञसमो [ख्: वज्रा] भवेत् || प्द्f ४९, प्. ४९) स्वमन्त्रं भावयेच्चक्रं स्फुलिङ्गहनाकुलम् | पञ्चवज्रप्रयोगेण पञ्चाभिज्ञसमो [क्, ग्: वज्रा] भवेत् || खवज्रमध्ह्यगं चिन्तेत् बुद्धज्वालासमप्रभम् | ध्यात्वा बुद्धप्रवेशेन बुद्धाश्रयसमो भवेत् || बुद्धमण्डलमध्यस्थं काये वैरोचनं न्यसेत् | ओंकारं हृदये ध्यात्वा मन्त्रविज्ञानभावना [क्: सर्व] || निरोधवज्रगतं [क्: चक्र] चित्ते यदा तस्य प्रजायते | स भवेच्चिन्तामणिः श्रीमान् सर्वबुद्धाग्रसाधकः [क्: धारकः] || बुद्धमण्डलमध्यस्थं वज्राक्षोभ्यं प्रभावयेत् | हूंकारं हृदये ध्यात्वा चित्तबिन्दुगतं न्यसेत् || बुद्धमण्डलमध्यस्थं अमिताभं [ख्, ग्: अमितवज्रं] प्रभावयेत् | आःकारं हृदये ध्यात्वा चित्तविन्दुगतं [क्: वज्र] न्यसेत् || इदन्तत् समयाग्राग्र्यं [क्; ग्रेण] त्रिवज्राभेद्यभावनम् [ख्: साधनम्] | निरोधसमयज्ञानं [क्; भावयन्] बुद्धिसिद्धिसमावहम् [ग्; कुलम्; क्: वहेत्] || खवज्रधातुमध्यस्थं भावयेत् स्वच्छमण्डलम् | ओंकारं कायवाक्चित्ते ध्यात्वा कल्पं च तिष्ठति || खवज्रधातुमध्यस्थं भावयेत् धर्ममण्डलम् | आःकारं कायवाक्चित्ते ध्यात्वा कल्पं च तिष्ठति || खवज्रधातुमध्यस्थं भावयेद् वज्रमण्डलम् | हूंकारं कायवाक्चित्ते ध्यात्वा कल्पं स तिष्ठति || प्द्f ५०, प्. ५०) इत्याह भगवान् त्रिवज्रज्ञानसमयः [क्, ख्: अद्द् कल्प] | यः प्रभूतमिमं योगं कायवाक्चित्तवज्रिणः | पठेद्वा चिन्तयेद्वापि सोऽपि वज्रधरो भवेत् [क्; पमं भवेत्] | इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे सर्वतथागतमन्त्रसमयतत्ववज्रविद्यापुरुषोत्तमपटल एकादशोऽध्यायः || प्द्f ५०, प्. ५१) द्वादशः पटलः | अथ वज्रधरः शास्ता स्रष्टा [ग्: भ्रष्टा] ज्ञानाग्रसाधकः त्रिवज्रसमयतत्त्ववाक्वज्रमुदाजहार [ग्: हरेत्] | खधातुसमभूतेषु [क्: खधातुसमयतुल्येषु] निर्विकल्पस्वभाविषु [ग्: ल्पेषु] | स्वभावशुद्धधर्मेषु नाटकोऽयं प्रभाव्यते || महाटवीप्रदेशेषु [ग्: वे] फलपुष्पाद्यलङ्कृते | पर्वते विजने साध्यं [क्: जिनसाध्यस्थं] सर्वसिद्धिसमुच्चयम् || || मं [क्: मूं] || कायवाक्चित्तवज्रेषु मञ्जुवज्रप्रभावना [क्: वज्रं] | स्फरणं कायवाक्चित्ते मञ्जुवज्रसमो भवेत् [क्: समुद्भवेत्] || योजनशतविस्तारं [क्: सङ्ग] प्रभया दीप्तवज्रया [ग्: मञ्जु] | आभासयति [ख्: अव] सिद्धात्मा [क्: दीप्ता] सर्वालङ्कारभूषितः [क्: सङ्घा] || ब्रह्मरुद्रादयो देवा न पश्यन्ति कदाचन | || मञ्जुश्रीवज्राग्रसमयान्तर्द्धानकरी [ख्: त्तद्बोध] नाम समाधिः || विण्मूत्रपञ्चसमयैस्त्रिवज्राभेदासम्भवैः [ख्: ख] | कृत्वा त्रिलोहसहितं मुखे प्रक्षिप्य भावयेत् || अभेदां सर्वबुद्धानां चित्तं तत्र [क्: ततः] प्रभावयेत् | स भवेत्तत्क्षणादेव [क्: दक्षयो देवो] मञ्जुवज्रसमप्रभः || प्द्f ५१, प्. ५२) स्वमन्त्रेण प्रभावित्वा चक्रं स्फुलिङ्गसुप्रभम् | आलयं सर्वबुद्धानां ध्यात्वा बुद्धसमो भवेत् || षट्त्रिंशत्सुमेरूणां यावन्तः परमाणवः [क्: अद्द्स् योषितस्तस्य तावन्त्यो भविष्यन्ति गुणान्तयाः त्रिधातुकमहावज्रो भवेदुद्रनमस्कृतः] | भवन्ति तस्यानुचराः सर्ववज्रधरोपमाः || || चक्रसमयो नाम समाधिः || स्वमन्त्रेण महावज्रं ध्यात्वा मण्डलमध्यतः | आलयं सर्ववज्राणां [क्; चित्त] चित्तवज्रसमो भवेत् || षट्त्रिंशत्सुमेरूणां यावन्तः परमाणवः | योषितस्तस्य तावन्त्यो भविष्यन्ति गुणालयाः || त्रैधातुकमहावज्रो भवेद्रुद्रनमस्कृतः [क्, ग्: ब्रह्मरुद्र] | || वज्रसमता नाम समाधिः || पद्मं स्वमन्त्रवज्रेण ध्यात्वा अष्टदलं महत् | आलयं सर्वधर्माणां चिन्त्य [क्: सर्व] धर्मसमो भवेत् || षट्त्रिंशत्सुमेरूणां यावन्तः परमाणवः | संस्थापयति [क्: पयेत्त्रि] शुद्धात्मा बुद्धपूजाग्रमण्डले [क्: वज्रा] || || पद्मसमता नाम समाधिः || तिष्ठेत् त्रिकल्पसमयं सेवयन् पञ्चज्ञानिनाम् | दशदिक्सर्वबुद्धानां त्रिगुह्यं पर्युपासते [क्: पूज्यमु] || स्वमन्त्रं भावयेत् खड्गं [क्: भगं] पञ्चरश्मिसमप्रभम् [ख्: माकुलम्] | पाणौ गृह्य विशालाक्षः वज्रविद्याधरो [ख्: त्रिव] भवेत् || प्द्f ५१, प्. ५३) त्रैधातुकमहापूज्यो दैत्यब्रह्मेन्द्रनमस्कृतः | त्रिसाहस्रमहाशूरो [क्: स्रैक] भवेद्ब्रह्मनरोत्तमः || यदभिलषति [क्: लषित] चित्तेन कायवाक्चित्तवज्रिणः | ददाति तादृशीं सिद्धिं चित्तवज्रप्रभाविताम् || || मर्वखड्गोत्तमो नाम समाधिः || ओं कारगुटिकां ध्यात्वा चणकास्थिप्रमाणतः | मध्ये स्वदेवताबिम्बं मुखे चिन्त्य विभावयेत् || स भवेत्तत्क्षणादेव बोधिसत्त्वसमप्रभः [क्, ग्: चित्त] | उदितादित्यसङ्काशो [ख्: ओमित्स् थिस् लिने] जाम्बूनदसमप्रभः || आःकारगुटिकां ध्यात्वा चणकास्थिप्रमाणतः | मध्ये [ओमित्तेद् इन् क् अन्द् ग्] स्वदेवताबिम्बं मुखे चिन्त्य विभावयेत् || स भवेत्तत्क्षणादेव बोधिचित्तसमप्रभः [ख्: ज्ञान] | उदितादित्यसङ्काशो जाम्बूनदसमप्रभः || हूंकारगुटिकां ध्यात्वा चणकास्थिप्रमाणतः | मध्ये स्वदेवताबिम्बं मुखे चिन्त्य विभावयेत् || स भवेत्तत्क्षणादेव वज्रकायसमप्रभः | उदितादित्यसङ्काशो जाम्बू नदसमप्रभः || खधातुस्वच्छमध्यस्थं वैरोचनं प्रभावयेत् | हस्ते चक्रं प्रभावित्वा चक्रविद्याधरो भवेत् || महाचक्रकुलं ध्यात्वा इदं चक्राग्रसाधनम् [क्: ज्ञाना] | कर्तव्यं ज्ञानवज्रेण चक्रकायाग्रयोगतः [क्: बुद्ध ; क्: जनात्] || प्द्f ५२, प्. ५४) खधातुवज्रमध्यस्थं ज्ञानाक्षोभ्यं [क्: त्वा] विभावयेत् | हस्ते वज्रं प्रभावित्वा वज्रविद्याधरो भवेत् || महावज्रकुलं ध्यात्वा इदं वज्राग्रसाधनम् | कर्तव्यं ज्ञानवज्रेण वज्रकायाग्रयोगतः || खधातुरत्नमध्यस्थं रत्नवज्रं प्रभावयेत् | हस्ते रत्नं प्रभावित्वा रत्नविद्याधरो भवेत् || महारत्नकुलं ध्यात्वा इदं रत्नाग्रसाधनम् | कर्तव्यं ज्ञानवज्रेण रत्नकायाग्रयोगतः [आ रेपेअत्स् fरोम् खधातुवज्रमध्यस्थं एत्च्. तो कर्तव्यं ज्ञानवज्रेण इन् थिस् लिने] || खधातुपद्ममध्यस्थं [ग्: धर्म |] अभिताभं [ग्: युं] प्रभावयेत् | हस्ते पद्मं प्रभावित्वा पद्मविद्याधरो भवेत् || महापद्मकुलं ध्यात्वा इदं पद्माग्रसाधनम् | कर्तव्यं ज्ञानवज्रेण धर्मकायप्रयोगतः || खधातुसमयमध्यस्थं अमोघाग्रं प्रभावयेत् | हस्ते खड्गं प्रभावित्वा खड्गविद्याधरो भवेत् || महासमयकुलं ध्यात्वा इदं समयाग्रसाधनम् [क्, ग्: भावनं] | कर्तव्यं ज्ञानवज्रेण कायसमययोगतः || त्रिशूलज्ञानाङ्कुशादयः [ख्: ज्वाला] साध्या वज्रप्रभेदतः | सिध्यन्ति तस्य ध्यानेन कायवाक्चित्तसाधनैः [ग्: भाव] || इत्याह भगवान् महासमयसिद्धिवज्रः [क्: सिद्धिसमय] | चतुष्पथैकवृक्षे वा एकलिङ्गे शिवालये | साधयेत् साधको नित्यम् वज्राकर्षं विशेषतः || प्द्f ५२, प्. ५५) त्रियोगमन्त्रपुरुषं ध्यात्वा त्रियोगवज्रिणम् | अङ्कुशं कायवाक्चित्तं बुद्धानां ज्ञानबुद्धिनाम् || वायव्यमण्डलाग्रस्थं [क्: मध्यस्थं; ग्: ग्रस्तं] बुद्धाकर्षणमुत्तमम् | दशदिक्समयसम्भूतं [क्: ओमित्स् समय] वज्रेणाकृष्य [क्: व्योप] भुञ्जयेत् [ख्: भुञ्जते] || || खधातुसमयवज्राकर्षणम् || वैरोचनं महाचक्रं ध्यात्वाङ्कुशं जिनालयम् | वज्रपद्मादिभिः कार्यं समयाकर्षणमुत्तमम् || || त्रैधातुकसमयाकर्षणम् [ख्: रेपेअत्स्] || सर्वाकारवरोपेतं बुद्धबिम्बं विभावयेत् | पाणौ च कायवाक्चित्तं अङ्कुशादीनि भावयेत् || अनेन खलु योगेन स भवेत्परकर्मकृत् | सर्वाकारवरोपेतं कायवज्रं विभावयेत् || जिह्वावज्रप्रयोगेण ध्यात्वा वाग्वज्रसमो भवेत् | त्रिगुह्यसमयपूजाग्रीं पूजां पूज्य [क्: पूज्यां] प्रभावयेत् || इदन्तत सर्वसिद्धीनां सारं गुह्यसमुच्चयम् | इत्याह भगवान् महागुह्यसमयः | महामांससमयाग्रेण साधयेत् त्रिवज्रमुत्तमम् | विण्मूत्रसमयाग्रेण [क्: योगेन] भवेत् विद्याधरः प्रभुः || हस्तिसमयमांसेन [क्: मांसमयाग्रेण] पञ्चाभिज्ञत्वमाप्नुयात् [क्: भिन्नाः समा] | अश्वसमयमांसेनान्तर्द्धानाधिपो [क्: अन्त्रवर्द्धनाधिपति] भवेत् || प्द्f ५३, प्. ५६) श्वानसमयमांसेन सर्वसिद्धिप्रसाधनम् | गोमांससमयाग्रेण वज्राकर्षणमुत्तमम् || अलाभे सर्वमांसानां ध्यात्वा सत्त्वं [क्: सर्वं] विकल्पयेत् | अनेन वज्रयोगेण सर्वबुद्धैरधिष्ठ्यते [क्: हिते] || सर्वाकारवरोपेतं कायवाक्चित्तवज्रिणम् | हृदये ज्ञानसमयं मुकुटे वज्राग्रधारिणम् || प्रीणनं सर्वबुद्धानां इदं समयनयोत्तमम् | कर्त्तव्यं समयाग्रेण सर्वसिद्धिकरं परम् || || सर्वसमयज्ञानवज्राहारो नाम समाधिः || जिह्वासमयवज्राग्रे [क्, ग्: जिह्वाग्र] ध्यात्वा हूं कारवज्रिणम् | पञ्चामृतप्रयोगेण वज्रसत्त्वत्वमाप्नुयात् [ग्: समो भवेत्; ख्: त्रिवज्रत्वमाप्नुयात्] || आःकारौंकारसमयमिदं वज्रनयोत्तमम् | अनेन खलु योगेन वज्रसत्त्वसमो भवेत् || || समयवज्रामृतमालिनी [ख्: ली] नाम समाधिः || त्रिवज्रसमयसिद्ध्यर्थं [क्: द्वाग्रे; ग्: द्व्यै] भवेत् त्रिकायवज्रिणः | दशदिक्सर्वबुद्धानां भवेच्चिन्तामण्योदधिः || आभासयति वज्रात्मा लोकधातुं समन्ततः | चक्रसमयसिद्ध्यन्ते [क्, ख्: सिद्धाग्रे] बुद्धकायसमो भवेत् || विचरेत् समन्ततः सिद्धो गङ्गावालुकसर्वतः [क्: लि] | सर्वेषु समयाग्रेषु विद्याधराप्रभुर्भवेत् || प्द्f ५३, प्. ५७) सर्वसमयसिद्धाग्रे कायवज्रप्रभावतः | अन्तर्द्धानेषु [ग्: द्वारे] सर्वेषु [क्: ओमित्स्] साहस्रैकावभासकः | हरते सर्वसिद्धीनां [ख्: बुद्धानां] भुंक्ते कन्यां [ख्: भुंजते च] सुराग्रजाम् || गंगावालुकसमान् बुद्धांस्त्रिवज्रालयसंस्थितान् | पश्यते चक्षुर्वज्रेण स्वहस्तैकं यथामलम् || गंगावालुकसमैः क्षेत्रैः ये शब्दाः सम्प्रकीर्त्तिताः | शृणोत्यभिज्ञावशतः श्रोत्रस्थमिव सर्वतः || गंगावालुकसमैः क्षेत्रैः कायवाक्चित्तलक्षणम् | स वेत्ति सर्वसत्त्वानां चित्ताख्यं नाटकोद्भवम् || गंगावालुकसमैः कल्पैः संसारस्थितिसम्भवम् | पूर्वनिवाससमयं [ग्: निरास] दिनचयमिव स्मरेत् || गंगावालुकसमैः कार्यैः बुद्धमेघाद्यलङ्कृतैः | गंगावालुकसमान् कल्पान् स्फरेद् [क्: ओमित्स्] दृढाग्रवज्रिणः || इत्याह भगवान् समयाभिज्ञः | वज्रचक्षुर्वज्रश्रोत्रं वज्रचित्तं वज्रवाणी [ख्, ग्: वज्रनिवास] वज्रऋद्धिश्चेति [ग्: ऋषि] | बुद्धाभिज्ञार्थसंसिद्धौ [ख्, ग्: सिद्धिस्तु] बुद्धकायसमो भवेत् | गंगावालुकसंख्यैश्च परिवारैः परीवृतः | विचरेत् कायवाग्वज्रो लोकधातुं समन्ततः || सेवासमयसंयोगमुपसाधनसम्भवम् | साधनार्थसमयं च महासाधनचतुर्थकम् || प्द्f ५४, प्. ५८) विज्ञाय वज्रभेदेन ततः कर्माणि साधयेत् | सेवासमाधिसंयोगं भावयेत् बोधिमुत्तमम् || उपसाधनसिद्ध्यग्रे [क्: ध्यते] वज्रायतनविचारणम् | साधने चोदनं प्रोक्तं मन्त्राधिपतिभावनम् || महासाधनकालेषु बिम्बं स्वमन्त्रवज्रिणः | मकुटेऽधिपतिं ध्यात्वा सिद्ध्यते ज्ञानवज्रिणः || सेवाज्ञानामृतेनैव [क्: मुत्र] कर्त्तव्यं सर्वतः सदा | एषो हि सर्वमन्त्राणां सर्वमन्त्रार्थसाधकः [क्: तन्त्रतत्त्वार्थ; ग्: मन्त्रतत्त्वार्थ] || महाटवीप्रदेशेषु विजनेषु महत्मु च | गिरिगह्वरकुलेषु सदा सिद्धिरवाप्यते || इत्याह भगवान् महासाधनवज्रः | अथ वज्रचतुष्केण [क्: कोणे; ख्: वज्राचार्येण] सेवा कार्या [ग्: सर्वा काया] दृढव्रतैः | त्रिवज्रकायमन्त्रेण [ख्: समेतेन; ग्: समानेन] भावयन् सिद्धिमश्नुते || चतुःसन्ध्यप्रयोगेन पंचस्थानेषु बुद्धिमान् | ओं कारज्ञानवज्रेण [क्: ओमित्स् ज्ञान] ध्यात्वा सम्बरमाविशेत् [क्; समाधिं] || दिनानि सप्त पक्षं च मासमप्यब्दमेव च | उत्पाद्य वज्रसमयं लघु सिद्धिरवाप्यते || विस्तरेण मया प्रोक्तं दिनभेदप्रचोदतः | पक्षाभ्यन्तरतः सिद्धिरुक्ता गुह्याग्रसम्भवैः || तत्रेदमुपसाधनसम्बरविषयम् | प्द्f ५४, प्. ५९) बुद्धकायधरः श्रीमान् त्रिवज्राभेद्यभावितः | अधिष्ठानपदं मेऽद्य करोतु [क्: कुर्वन्तु] कायवज्रिणः || [ठिस् वेर्से इस् रेपेअतेद् इन् च्.] दशदिक्संस्थिता बुद्धास्त्रिवज्राभेदाभाविताः | अधिष्ठानपदं मेऽद्य कुर्वन्तु कायलक्षितम् || तत्रेदं साधनसम्बरविषयम् || धर्मो वै [क्: समाधौ] वाक्पथः श्रीमान् त्रिवज्राभेद्यभावितः | अधिष्ठानपदं मेऽद्य करोतु वाक्यवज्रिणः [क्: वाग्] || दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः | अधिष्ठानपदं तस्य कुर्वन्तु वाक्पथोद्भवम् || तत्रेदं [ख्: ओमित्स् fरोम् तत्रेदं तो चित्तसम्भवाः] महासाधनसम्बरविषयम् | चित्तवज्रधरः श्रीमान् त्रिवज्राभेद्यभावितः | अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः || दशदिक्संस्थिता बुद्धाः त्रिवज्राभेद्यभाविताः | अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तसम्भवाः [क्: वज्रिणः; ग्: रेपेअत्स् दशदिक् संस्थिता तो वाक्पथोद्भवम् अfतेर् थिस्] || बुद्धो वा वज्रधर्मो वा वज्रसत्त्वो ऽपि वा यदि | अतिक्रमेद्यदि मोहात्मा स्फुटेयुर्नात्र संशयः || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे समयसाधनाग्रनिर्देशपटलो द्वादशोऽध्यायः | प्द्f ५५, प्. ६०) त्रयोदशः पटलः | अथ भगवन्तः सर्वतथागता ज्ञानवज्राग्रचारिणः सर्वसत्वार्थसंभूता [ख्, ग्: सम्भोगाः] बोधिसत्वाश्च धीमन्तः [क्: वामतः] प्रणिपत्य महाशास्तारं मुनिं सत्त्वार्थवज्रिणं पूजासमयतत्वज्ञं [क्: सर्वार्थ] वज्रघोषमुदीरयन् | अहो बुद्धनयं [ग्: धर्म] दिव्यमहो बोधिनयोत्तमम् | अहो धर्मनयं शान्तमहो मन्त्रनयं दृढम् || अनुत्पन्नेषु धर्मेषु स्वभावातिशयेषु च | निर्विकल्पेषु धर्मेषु [क्, ख्: भूतेषु] ज्ञानोत्पादः प्रगीयते || भाषस्व भगवन् रम्यं सर्वधर्मसमुच्चयम् [क्, ख्: मन्त्र] | वज्रजापं महाज्ञानं त्रिकायाभेदामण्डलम् || प्राप्यन्ते बुद्धज्ञानानि त्रिवज्राभेदाभावनैः | जपन् वज्रप्रयोगेण सर्वबुद्धैरधिष्ठ्यते || कुलानां सर्वमंत्राणां कायवाक् चित्तलक्षणम् | मंत्रजापं प्रघोषाथ वज्रजापमुदाहरन् [क्: शृण्वन्तु ज्ञानसागराः] || बुद्धाश्च त्र्यध्वसंभूताः कायवाक् चित्तवज्रिणः | संप्राप्ता ज्ञानमतुलं वज्र मंत्रप्रभावनैः || इति || अथ वज्रधरः शास्ता खवज्रज्ञानसंब्भवः | कर्ता स्रष्टा वराग्राग्र्यो वज्रजापमुदाहरत् [ग्: दीरयेत्] || प्द्f ५५, प्. ६१) सर्वमंत्रार्थजापेषु त्रिवज्राभेद्यलक्षणम् | त्रिभेदे [क्: द्य] वज्रपर्यन्तो न्यासोऽयं त्रिवज्रमुच्यते || इत्याह च | त्रिविधं स्फुरणं कार्यं कायवाक्चित्तसन्निधौ [क्: सम्विधौ] | अनेन जापवज्रेण वज्रचित्तसमो भवेत् || बुद्धानां [ग्: ठेसे त्wओ लिनेस् अरे रेपेअतेद् इन्] कायवाक्चित्तं ध्यात्वा पूजाप्रकल्पनम् [क्: ग्र] | कर्तव्यं ज्ञानवज्रेण इदं बोधिसमावहम् [क्, ख्: त्रिवज्रचित्तसमो भवेत्] || अथवा स्फुरणं कार्यं त्रिभेदेन प्रति प्रति | कायवाक्चित्तनैरात्म्यं ज्ञानचित्तेन संस्फरेत् [ख्: स्म] || उच्चारयन् स्फरेद्वज्रं समाप्तौ संहारमादिशेत् | इदन्तत् सर्वबुद्धानां ज्ञानोन्मीलितचक्षुषाम् || कायवज्राभिसम्बोधिं भावाभावविचारणम् | बुद्धकाय इति प्रोक्तः कायजापः स उच्यते || वाक्यसमयसंबोधिः [क्: क् ; क्: याभि] शब्दाशब्दविचारणम् | वाग्वज्र इति प्रोक्तो वाग्जापः स उच्यते || चित्तसमयसंबोधिः स्थितिवज्रविचारणम् | वज्रचित्तमिति प्रोक्तं चित्तजापः स उच्यते || अथानुगमजापेन निःस्वभावेन चारुणा | विचारणं त्र्यध्वबुद्धेभ्यो रत्नजापः स उच्यते || स्फ्रणं कायमेघेन बुद्धक्षेत्रात्समन्ततः | गमनागमनवज्रार्थममोघजापः स उच्यते || प्द्f ५६, प्. ६२) शृणोति मन्त्राक्षरपदं स्ववज्रैर्घुष्टमण्डलम् | क्रोधसमयज्ञानेन क्रोधजापः स उच्यते || कामार्थं [ठिस् लिने इस् इन्चोम्प्लेते इन् आ.] विह्वलीभूतान् सर्वत्राणहितैषिणः | मत्वान्मोहपदे [ग्: सर्वा ; ग्: दं] स्थाप्य मोहजाप इति स्मृतः || रागवज्रोद्भवं वाचं कायवाक्चित्तसंस्थिताम् | सत्वान् [ग्; सर्वान्] रागपदे [ग्: रागोदधि] स्थाप्य रागजाप इति स्मृतः || द्वेषवज्रोद्भवं चित्तं कायवाक् चित्तसंस्थितम् | सत्त्वान् द्वेषालये स्थाप्य द्वेषजापः स उच्यते || त्रिवज्रसमयं तत्त्वं मध्यमं समयवज्रिणम् | तदेव सर्ववज्राणां [ग्: समय] जापो नपुंसक उच्यते || वज्राधिपतयः सर्वे रागतत्वार्थचिन्तकाः [ग्: भावकाः] | कुर्वन्ति रागजां बोधिं सर्वसत्वहितैषिणीम् || लोचनाद्या महाविद्या नित्यं कामार्थतत्पराः | सिध्यन्ति कामभोगैस्तु [ग्: भोगेन] सेव्यमानैर्यथेच्छतः || मोहसमयसम्भूता [क्: सुव्रता] विद्याराजानो वज्रिणः | नपुंसकपदे सिद्धाः ददन्ति सिद्धिमुत्तमाम् || क्रोधा द्वेषालये जाता नित्यं मारणतत्पराः [आ हस् क्रोधात् द्वेषालये जाता नित्यं सिध्यन्ति मारणाः] | सिध्यन्ति मारणार्थेन सेव्यमानैर्यथेच्छतः [ठिस् लिने इस् इन्चोम्प्लेते इन् आ.] || इत्याह भगवान् महापुरुषसमयः | प्द्f ५६, प्. ६३) हृदि मध्यगतं चक्रं भावयेत् ज्ञानवज्रिणाम् [ग्: चक्रि] | स्वच्छमण्डलमध्यस्थं चक्रमन्त्रार्थभावना [मध्यचक्रार्थ] || हृदि मध्यगतं [ख्: वज्र] वज्रं [ख्: चक्रं] भावयेत् ज्ञानवज्रिणः | वज्रमण्डलमध्यस्थं वज्रमंत्रार्थब्भावना || हृदि मध्यगतं रत्नं भावयेत् रत्नज्ञानिनः | रत्नमण्डलमध्यस्थं रत्नमंत्रार्थभावना || हृदि मध्यगतं पद्मं भावयेत् पद्मज्ञानिनः | धर्ममण्डलमध्यस्थं पद्ममंत्रार्थभावना || हृदि मध्यगतं खड्गं भावयेत् खड्गज्ञानिनः | समयमण्डलमध्यस्थं खड्गमंत्रार्थभावना || सर्वमण्डलपार्श्वेषु सर्वबुद्धान्निवेशयेत् | पंचरश्मिप्रभेदेन [ग्: प्रदेशेन] स्फारयन् [क्, ग्: येत्] बोधिमाप्नुते || स्फुरणं सर्वमंत्राणां द्विधाभेदेन कीर्तितम् | त्रिकायवज्रभेदेन संहारस्फरणं भवेत् || कायस्वभावं कायेन चित्तं चित्तस्वभावतः | वाचं वाचस्वभावेन पूज्य पूजामवाप्नुयात् || महामण्डलचक्रेण पंचवज्रविभावना | मध्ये त्वधिपतिं ध्यात्वा स्वबिम्बं त्रिकायवज्रिणम् || बिम्बं स्वमंत्रवज्रस्य मण्डलानां चतुष्टयम् [क्, ख्: ये] | चतुर्वर्णेन संकल्प्य हृदि मंत्रार्थभावना || वज्रचतुष्टयं कर्म [क्: यमिदं] करोति ध्यानवज्रिणः | एषो हि सर्वमंत्राणां रहस्यं परमशाश्वतम् || प्द्f ५७, प्. ६४) शान्तिके लोचनाकारं पौष्टिके पद्मवज्रिणम् | वश्ये वैरोचनपदं वज्रक्रोधोऽभिचारके || इदं तत् सर्वमंत्राणां गुह्यं त्रिकायसंभवम् | निर्मितं ज्ञानवज्रेण क्रियानाटकलक्षितम् || अभक्तिवादिनः सत्वा निन्दकाचार्यवज्रिणे | अन्येषामपि दुष्टानामिदं कार्यं प्रचोदनम् || इत्याह भगवान् महाज्ञानचक्रवज्रः | त्रैधातुकस्थितान्सर्वान् बुद्धकाये [ख्: स बुद्धान्] विभावयेत् | सम्पुटोद्घाटितान् [क्: सम्पूर्णं घोटितं; ग्: सम्पुटोद्दोतिकां] कृत्वा ततः कर्मप्रसाधनम् || खधातुमध्यगं वज्रं पंचशूलं चतुर्मुखम् | सर्वाकारवरोपेतं वज्रसत्वं विभावयेत् || त्र्यध्वसमयसंभूतं बुद्धचक्रं विभावयेत् | दक्षपाणाविदं कार्यं बुद्धचक्रं महाबलम् || सत्वान् दशदिक्संभूतान् बुद्धकायप्रभेदतः | संहृत्य पिण्डयोगेन स्वकाये तान् प्रवेशयेत् || स्फुरणन्तु पुनः कार्यं बुद्धानां ज्ञानवज्रिणाम् | क्रुद्धान् क्रोधाकूलान् ध्यात्वा विकटोत्कटभीषणान् || नानाप्रहरणहस्ताग्रान् मारणार्थाग्र्यचिन्तकान् | घातयन्तो महादुष्टान् वज्रसत्वमपि स्वयम् || बुद्धास्त्रिकायवरदाः त्रिवज्रालयमण्डले | ददाति सिद्धिं मोहात्मा म्रियते नात्र संशयः || दिनानि सप्तेदं कार्यं बुद्धस्यापि न सिध्यति | प्द्f ५७, प्. ६५) || वज्रसमयाज्ञाचक्रो नाम समाधिः || खधातुमध्यगं चक्रं वज्रज्वालाविभूषितम् | सर्वाकारवरोपेतं वैरोचनं प्रभावयेत् || त्र्यध्वसमयसंभूतान् वज्रसत्त्वान् महायज्ञान् | वज्रं स्फुलिङ्गगहनं पाणौ तस्य विभावयेत् || सत्त्वान् दशदिक्संभूतान् [क्: दिशि] वज्रकायप्रभेदतः | संहृत्य रश्मियोगेन स्वकाये तान् प्रवेशयेत् || स्फुरणं सर्ववज्राणां कार्यं ज्ञानाग्रबुद्धिना [क्, ग्: बन्धुना] | शृण्वन्तु सर्वबुद्धात्मा कायवाक्चित्तयोगिनः [क्: योगतः] || अहं वज्रधरः श्रीमान् आज्ञाचक्रप्रभेदतः | वज्रेणादीप्तवपुषा स्फारयामि त्रिकायजान् || लंघयेद्यदि समयं विशीर्यते न संशयः | || चक्रसमयाज्ञावज्रो नाम समाधिः || खवज्रमध्यगं चिन्तेद्बुद्धमण्डलवज्रिणम् | यमान्तकं महाचक्रं खवज्राख्यं प्रकल्पयेत् || बुद्धांश्च त्र्यध्वसंभूतान् [ख्: सत्त्वांश्च] प्रविष्टांस्त्रिकायमण्डले | पुनः संस्फारयेद्बुद्धान् यमान्तकाकारसन्निभान् || सत्त्वांश्च त्र्यध्वसम्भूतान् रिपूणां दुष्टचेतसाम् | घातितान् भावयेत् क्रुद्ध इदं वज्राज्ञामण्डलम् || || सर्वसमयसंभवयमान्तकसमान्यत्रिकायाज्ञावज्रो [क्, ख्: ओमित् समान्य] नाम समाधिः || प्द्f ५८, प्. ६६) कायवाक्चित्तवज्रैस्तु स्वमन्त्रार्थगुणेन वा | अथवा पौष्प [क्: त्वीष; ख्; पीष; ग्: शीष] समये आज्ञाचक्रप्रवर्त्तनम् [क्: प्रयोजनम्] || रक्षार्थं सर्वमन्त्राणां कार्यं ज्ञानाग्रवज्रिणाम् | इदं तत् सर्वबुद्धानां बोधिरक्षार्थमुच्यते || इत्याह भगवान् बोधिचित्तः | खवज्रमध्यगं धर्मं वैरोचनाग्रसंभवम् | ध्यात्वा त्रिकायवज्राग्रं [क्: त्रिकायं; ग्: त्रिवज्जाग्रं] आसनन्तु प्रकल्पयेत् || खधातुं सर्वबुद्धैस्तु परिपूर्णं विभावयेत् | मन्त्राक्षरपदं ज्ञानं चित्ताकारं प्रकल्पयेत् || पुनस्तु संस्फरेत् बुद्धान् चित्तवज्रप्रभावितान् [ग्: विना] | चित्तवज्रमिति कृत्वा त्रिकाये तान् प्रवेशयेत् || इत्याह भगवान् खवज्रसमयः || वज्रमन्त्ररत्नप्रद्योतकरो नाम समाधिः || सर्वाकारवरोपेतं वज्रसक्षं विभावयेत् | बुद्धांस्तु क्रमशः स्थाप्य जलस्योपरि चंक्रमेत् [ग्: कल्पयेत्] | समयोदकप्रयोगेण मूर्ध्नि पादविभावनम् || इत्याह भगवान् स्वभावशुद्धः || वज्रोदधिपदाक्रान्तो नाम समाधिः || माहेन्द्रमण्डलं ध्यात्वा मध्ये क्रोधकुलं [ख्: धा] न्यसेत् | कर्मवज्रपदाक्रान्तं मूर्ध्नि तस्य विभावयेत् || इत्याह च || सर्वतीर्थप्रवादिस्तम्भनवज्रो [ख्, ग्: परवा] नाम समाधिः || प्द्f ५८, प्. ६७) क्रोधाकारं त्रिवज्राग्रान् पीतकिंजल्कसन्निभान् | गिरिराज इव सर्वान् ध्यात्वा मूर्ध्नि प्रभावयेत् | बुद्धसैन्यमपि [ख्: संघ] स्तम्भे [क्, ख्, ग्: त्रस्ते] म्रियते नात्र संशयः || इत्याह भगवान् सर्वतथागतकायवाक्चित्तसंभवः || सर्वसैन्यस्तम्भनो नाम समाधिः || रिपुसन्त्रासनसमये इदं ध्यानं प्रकल्पयेत् | अतिक्रमेद्यदि बुद्धः स्फुटते नात्र संशयः || इत्याह भगवान् त्रिवज्रसमयः | हूंकारकीलकं ध्यात्वा पञ्चशूअप्रमाणतः | वज्रकीलं कृतं तेन हृदये तद्विभावयेत् | बुद्धसैन्यमपि क्रुद्धं नाशं गच्छेन्न संशयः || || रिपुमहापहारो [ख्, ग्: मोहापहो] नाम समाधिः || नगरे वाऽप्यथवा ग्रामे विषये वा प्रयोजयेत् | अनेन नित्यं भवेत् शान्तिः सर्वरोगविवर्जिता || अन्तरिक्षगतं वज्रं पञ्चशूलं प्रभावयेत् | कल्पोद्दाहमिव ध्यात्वा पुनः संहारमादिशेत् || स्फुरणं च पुनः कार्यं रत्नचिन्तामणिप्रभैः | भावयेत् धर्ममेघान् [क्, ख्: संघान्] वै अभिषेकं समादिशेत् || अनेन ध्यानवज्रेण दुष्पूरोऽपि प्रपूर्यते [ग्: रयेत्] | स भवेत् चिन्तामणिः श्रीमान् दानवज्रप्रसाधकः || बुद्धमेघैर्महाधर्मैर्वज्रसत्त्वैश्च तत् स्फुरेत् | प्द्f ५९, प्. ६८) त्रिकल्पासंख्येयस्थानं सर्वबुद्धैरधिष्ठ्यते | इदं तत् सर्वबुद्धानां कायगुह्यमनाविलम् || || सर्वसत्त्वरोगापनयनवज्रसंभवो नाम समाधिः || ध्यानवज्रेण समादानं यत्र स्थाने समाचरेत् | अनेन ध्यानयोगेन तिष्ठन् बुद्धैरधिष्ठ्यते || ध्वजामृतमहाराजं वज्रकीलं प्रभावयेत् | निखनेद्दशदिक्चक्रं स्फुलिंगज्वालसन्निभम् || इत्याह च || जगद्विजयशान्तिवज्रो नाम समाधिः || खधातुमध्यगं चिन्तेत् शान्तिमण्डलमुत्तमम् | बिम्बं वैरोचनं ध्यात्वा हृदयेऽथ प्रविन्यसेत् || खधातुं लोचनाग्रैश्च [क्, ख्: स्तु] परिपूर्णं विभावयेत् | संहृत्य रश्मिपिण्डेन आरम्भस्य निपातने [क्, ग्: तयेत्] || रोमकूपाग्रविवरैर्बुद्धमेघान् स्फुरेत् व्रती [ग्: बुधः] | अभिषेकं तदा तस्य बुद्धमेघा ददन्ति हि | अनेन वज्रसमयः श्रीमान् भवति तत्क्षणात् || || बुद्धसमयमेघव्यूहो [ग्: ओमित्स् मेघ] नाम समाधिः || खवज्रमध्यगतं चिन्तेत् माहेन्द्रमण्डलं शुभम् | बिम्बं धर्मपरं [क्: धरं] ध्यात्वा हृदये वाऽथ विन्यसेत् || खधातुभवनंन् [क्, ख्: ने] रम्यं पाण्डराख्यैः प्रपूरयेत् | संहरेत् [ट्wओ लिनेस् fरोम् हेरे अरे रेपेअतेद् इन् क् अन्द् ग्] रश्मिपिण्डेन रत्नचिन्तामणिप्रभम् || प्द्f ५९, प्. ६९ कायवक्चित्तनिलयेऽर्थिने [ग्१: र्थिनेदं; ग्२: र्थिनं तु] तच्च निवेदयेत् | रोमकूपाग्रविवरे रत्नमेघान् स्फरेत् व्रती || भावयेत् धर्ममेघान्वै अभिषेकं समादिशेत् | अनेन ध्यानवज्रेण दुष्पूरोऽपि प्रपूर्यते [ख्: पूरयेत्] | स भवेत् चिन्तामणिः श्रीमान् दानवज्रप्रसाधकः [ग्: ज्वार्थ] || || धर्मसमयमेघव्यूहो नाम समाधिः || खधातुमध्यगं चिन्तेत् वज्रचन्द्रार्थमण्डलम् [ग्: र्क] | बिम्बं खवज्रधर्माग्रमर्थिनो हृदि विन्यसेत् [क्: हृदये] || बुद्धैश्च बोधिसत्त्वैश्च परिपूर्णं खमण्डलम् | पञ्चरश्मिप्रयोगेण तेजस्तत्र निपातयेत् || स भवेत् तत्क्षणादेव सर्वबुद्धमनोज्ञकः | मञ्जुश्रीतुल्यसङ्काशः स भवेत् परकर्मकृत् [क्: द] || ददाति च प्रहृष्टात्मा अभिषेकं महोत्मुकः | वशमानयति जनान् सर्वान् [क्, ग्: जगत् सर्वं] दर्शनेनैव चोदितान् [क्, ग्: तः] || || रत्नसमयमेघव्यूहो नाम समाधिः || खवज्रं राक्षसैः क्रूरैश्चण्डैः क्रोधसुदारुणैः | शृगालैर्विविधैः काकैर्गृध्रैः श्वानैः प्रभावयेत् || आग्नेयमण्डलस्थं तु [क्: लंस्तत्र] भावयेत् रिपवः सदा | अपकारी सर्वबुद्धानां ध्यात्वा योगं प्रयोजयेत् || अन्त्रमज्जारुधिराद्यं सर्वाकृष्टं प्रभावयेत् | नानाप्रहरणधरैराक्रान्तो [क्, ख्: अद्द् प्रभावयेत्] म्रियते रिपुः || प्द्f ६०. प्. ७०) बुद्धो वज्रधरो वापि यद्यनेन प्रभाव्यते | पक्षाभ्यन्तरपूर्णेन म्रियते नात्र संशयः || || वज्रमेघसमयव्यूहो नाम समधिः || त्रिमुखं वैरोचनं चिन्तेत् शरत्काण्डसमप्रभम् | सितकृष्णमहारक्तं जटामुकुटमण्डितम् || त्रिमुखं वज्रिणं चिन्तेत्कृष्णरक्तसिताननम् | जटामुकुटधरं दीप्तं लोकधातुसमाकुलम् || त्रिमुखं रागिणं चिन्तेद्रक्तकृष्णसिताननम् | जटामुकुटसंभोगं भावयन् सिध्यते ध्रुवम् || चक्रं वज्रं महापद्मं सव्यपाणौ [क्: दक्षिण] विभावयेत् | षड्भुजान् भावयेत् वज्रान्नानाप्रहरणधरान् शुभान् || लोचनां त्रिमुखां चिन्तेत् सर्वसत्त्वहितैषिणीम् | सितकृष्णमहारक्तां चारुरूपां विभावयेत् || खवज्रनेत्रीं महाराज्ञीं त्रिमुखां भावयेत्सदा | कृष्णरक्तसिताकारां चारुरूपां विभावयेत् || वाग्वज्रीं च [ज्र क्: नेत्रीं] महाराज्ञीं त्रिमुखां भावयेत्सदा | रक्तसितकृष्णाकारां चारुवर्णां विभावयेत् [ठेसे त्wओ लिनेस् अरे रेपेअतेद् इन् क् अन्द् ग्.] | वज्रोत्पलधरां विद्यां त्रिमुखां कान्तिसुप्रभाम् || पीतकृष्णसिताकारां भावयन् ज्ञानमाप्नुयात् | यमान्तकं महाक्रोधं त्रिमुखं क्रुद्धसुप्रभम् [क्; कुल] || भयस्यापि भयं तीक्ष्णं कृष्णवर्णं विभावयेत् | अपराजितं महाक्रोधमट्टाट्टहासनादिनम् || प्द्f ६०, प्. ७१) त्रिमुखं स्फुलिंगगहनं विस्फुरन्तं विचिन्तयेत् || हयग्रीवं महाक्रोधं कल्पोद्दाहमिवोद्भवम् | त्रिमुखं दुष्टपदाक्रान्तं भावयेत् योगतः सदा || वज्रामृतं महाक्रोधं स्फुलिंगाकुलचेतसम् | दीप्तवज्रनिभं क्रूरं भयस्यापि भयप्रदम् [ख्: भयंकरं] || टक्किराजं महाक्रोधं त्रिमुखं त्रिभयप्रदम् | चतुर्भुजं भयस्याग्रं टक्किराजं प्रभावयेत् || महाबलं महावज्रं त्रैलोक्यार्थार्थधारिणम् [क्: क्यधातुहारिणम्; ग्: क्यार्थान्तहारिणम्] | नाशकं सर्वदुष्टानां त्रिमुखं भावयेत् सदा [ईन् ख् अन्द् ग् थे देस्च्रिप्तिओन्स् ओf वज्रामृत अन्द् टक्किराज fओल्लोw थिस् लिने] || नीलदण्डं [क्: अद्द्स् च] महाक्रोधं [ग्: कायं] त्रैलोक्यस्य भयप्रदम् [ग्: भयंकरं] | त्रिमुखं त्रिवज्रसंभूतं तीक्ष्णज्वालं प्रभावयेत् || वज्राचलं महाक्रोधं केकरं वज्रसंभवम् | खड्गपाशधरं सौम्यं त्रिमुखं भावयेत् व्रती || एकाक्षरं [ख्: न्तरं] महोष्णीषं विस्फुरन्तं समन्ततः | त्रिमुखं वज्रिणं [ग्: चक्रिणं] दीप्तं भावयेत् ध्यानमण्डले || सुम्भं ज्ञानाग्रधरं क्रूरं भयोदधिसमप्रभम् | त्रिमुखं ज्वालार्चिवपुषं भावयेत् ध्यानसुप्रभम् || तेजोराशिजयोष्णीषं ये चान्ये मन्त्रवज्रिणः | एभिः समयसंभोगैर्भावनीयाः प्रति प्रति || अमितानि समाधीनि मन्त्राणां समुदाहृताः [ख्: दीरयेत्] | प्द्f ६१, प्. ७२) एकैकस्य तु क्रोधस्य बहुत्वे तु विशिष्यते || खधातुमध्यगं चिन्तेत् स्वच्छमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा वैरोचनं प्रभावयेत् || स्वच्छं चन्द्रनिभं शान्तं नानारश्मिसमप्रभम् | आदर्शमिव संभूतं त्रैधातुकस्य मण्डलम् | सर्वालङ्काररचितं ध्यात्वा बोधिं स पश्यति || अनेन बुद्धमाहात्म्यं सर्वलोकवशंकरम् [क्: सत्त्व] | प्राप्यते जन्मनीहैव ध्यानवज्रप्रभावनैः || || वैरोचनसमयसंभवचारुवज्रो [क्; ओमित्स् समय] नाम समाधिः || खधातुमध्यगं चिन्तेत् वज्रमण्डलमुत्तमम् | बुद्धंबिम्बं प्रभावित्वा वज्रसत्त्वं विभावयेत् || स्वच्छकायनिभं क्रुद्धं नानाज्वालभयप्रदम् | सर्वाकारवरोपेतं सर्वालङ्न्कारभूषितम् | ध्यात्वा ज्ञानपदं शान्तं लघु वज्रत्वमाप्नुयात् [क्: सत्त्व] || अनेन वज्रमाहात्म्यं सर्वसत्त्ववशंकरम् | प्राप्यते जन्मनीहैव ध्यानवज्रप्रयोगतः [क्, ग्: प्रचोदितः] | || सर्ववज्रममयसंभवचारुवज्रो नाम समाधिः || खवज्रमध्यगं चिन्तेद्धर्ममण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा धर्मसत्त्वं [क्: तत्त्वं] विचिन्तयेत् || स्वच्छकायधरं सौम्यं सर्वालङ्कारभूषितम् | रश्मिमेघमहाचक्रं [क्: वज्रं] विस्फुरन्तं प्रभावयेत् || प्द्f ६१, प्. ७३) अनेन धर्ममाहात्म्यं त्रिकायाभेद्यसम्भवम् | प्राप्यते जन्मनीहैव ज्ञानोदधिविभूषणम् || || धर्मसत्वसमयसंभवचारुवज्रो [क्: वज्र] नाम समाधिः || खवज्रमध्यगं चिन्तेत् चक्रमण्डलमुत्तमम् [क्: चन्द्र] | बुद्धबिम्बं प्रभावित्वा लोचनाग्रीं विभावयेत् || चारुवक्त्रां विशालाक्षीं नानाभरणभूषिताम् | सर्वलक्षणसंपूर्णां त्रिकायाग्रधारिणीम् [क्: त्रिमायाग्र; ग्: त्रियानाग्र ; ख्, ग्: अद्द् बुद्धबिम्बं प्रभावित्वा खवज्राग्रीं प्रभावयेत् अfतेर् थिस् लिने] || पाणौ प्रभावयेत् चक्रं त्रैधातुकवशङ्करम् | सर्वसिद्धिकरं ज्ञानं चक्रं चिन्तामणिप्रदम् || || लोचनासमयाज्ञानहस्ताग्रवती नाम समाधिः || खवज्रमध्यगं चिन्तेत् चन्द्रमण्डलमुत्तमम् [ग्: वज्रं] || बुद्धबिम्बं प्रभावित्वा खवज्राग्रीं प्रभावयेत् | चारुवक्त्रां विशालाक्षीं नीलोत्पलसमप्रभाम् || सर्वलक्षणसंपूर्णां स्वभायाग्रीं विभावयेत् | पाणौ नीलोत्पलं चक्रं [ग्: रक्तं] त्रैधातुकनमस्कृतम् || बुद्धबोधिकरं दिव्यं रहस्यं सिद्धिवज्रिणाम् | || खभानुरश्मिमेघवज्राल्हादनवती नाम समाधिः || खवज्रमध्यगं चिन्तेद्धर्ममण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा धर्मवज्रीं प्रभावयेत् || चारुवक्त्रां विशालाक्षीं पद्मरागेन्द्रसन्निभाम् | मायाजालाग्रसंभूतां रागरक्तवरप्रियाम् || प्द्f ६२, प्. ७४) सर्वलक्षणसंपूर्णां सर्वालङ्कारभूषिताम् | पाणौ रक्तोत्पलं दिव्यं सर्वबुद्धप्रभावितम् || धर्मज्ञानाकरं दिव्यं गुह्यं समयवज्रिणाम् | || धर्मसमयतत्वाभिसम्बोधिदर्शनवज्रो नाम समाधिः || खवज्रमध्यगं चिन्तेत् सिद्धिमण्डलमुत्तमम् [ख्: लक्षण] | बुद्धबिम्बं प्रभावित्वा ताराग्रीं तु प्रभावयेत् || चारुवक्त्रां विशालाक्षीं नानाभरणभूषिताम् | पीतवर्णनिभां ध्यात्वा स्त्रीशाठ्यमदनोत्सुकाम् [क्: त्रिसाध्य] || पाणौ प्रभावयेत् व्यक्तं उत्पलं पीतसन्निभम् | वज्रसमाधिसंभूतं सर्वसत्त्वनमस्कृतम् || || समयताराग्रवती नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा यमान्तकाग्रं विभावयेत् || स्फुलिङ्गगहनं दीप्तं संक्रुद्धं भवमण्डलम् [क्: सूर्य] | रक्ताक्षं [क्: चक्राक्षं] दंष्ट्राविकटं खड्गपाणिं विभावयेत् || मुकुटे वैरोचनपदं ध्यात्वा तुष्यन्ति वज्रिणः | एषो हि सर्वक्रोधानां समयो ज्ञानवज्रिणाम् || || यमान्तकस्फुरणावभासव्यूहो [क्: सन] नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वाऽपराजिताख्यं प्रभावयेत् || स्फुलिङ्गगहनं दीप्तं सर्पमण्डितमेखलम् [क्: सूर्य] | विकरालं विकटवक्त्रं [ग्: ज्रं] सितवर्णं प्रभावयेत् || प्द्f ६२, प्. ७५) मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्यन्ति वज्रिणः | एषो हि सर्वक्रोधानां समयो ज्ञानवज्रिणाम् || || अपराजितवज्रव्यूहो [ख्: ओमित्स् वज्र] नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा हयग्रीवं [ख्, ग्: वच्च] प्रभावयेत् || स्फुलिङ्गगहनं क्रुद्धं [क्: दीप्तं] विस्फुरन्तं समन्ततः | सर्वदुष्टपदाक्रान्तं रक्तवर्णं [क्: बिम्बं] विभावयेत् || मुकुटेऽमितसंबुद्धं ध्यात्वा तुष्यन्ति वज्रिणः | एषो हि सर्वक्रोधानां समयो ज्ञानवज्रिणाम् [ग्: वज्रधारिणाम्; ख्: चारिणाम्] || || हयग्रीवोत्पत्तिसंभवव्यूहो [क्: त्पादन] नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा वज्रामृतं प्रभावयेत् || स्फुलिङ्गगहनं दीप्तं वज्रमेघसमाकुलम् | क्रुद्धं सरोषणं कृष्णं तीक्ष्णदंष्ट्रं प्रभावयेत् || मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्यति क्रोधधृक् | एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || || अमृतसमयसम्भववज्रो नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं विभावित्वा टक्किसत्वं प्रभावयेत् || क्रूरं विकृतकेशाग्रं [क्: देहो] भयस्यापि भयङ्करम् | सर्वालङ्कारसंपूर्णं भावयेत् वज्रसुप्रभम् [क्: मुत्तमम्] || प्द्f ६३, प्. ७६) मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्टिप्रवर्धनम् [ग्: मर्दनं] | एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || || ध्ह्यानवज्रसम्बोधिरतिर्नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा महाबलं प्रभावयेत् || स्फुलिङ्गगहनं दीप्तं त्रिवज्रालयमण्डलम् | क्रूरं पाशधरं [ख्: पाप] क्रुद्धं भावयेत् बलवज्रिणम् || मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्टिप्रवर्धनम् | एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || त्रिबलवज्रो [क्: त्रिवज्रमहाबलो] नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा नीलवज्रं प्रभावयेत् || कृष्णरूपधरं तीक्ष्णं कृष्णोदधिविवर्धनम् | स्फुलिङ्गगहनं दीप्तं भावयेत् दण्डवज्रिणम् || मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्टिप्रवर्धनम् [ग्: पुष्टि] | एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || || वज्रदण्डसमयाग्रवती नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा अचलाग्रं विभावयेत् || केकरं विकृतं क्रुद्धं पाशखड्गधराकुलम् [क्: धरांकुशं] | स्फुलिङ्गगहनं दीप्तं भावयेदचलवज्रिणम् || मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्टिप्रवर्धनम् | प्द्f ६३, प्. ७७) एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || || खवज्रधातु [ग्: ओमित्स् धातु] समयपदाक्रान्तो नाम समाधिः || खवज्रमध्यगं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं प्रभावित्वा विद्याचक्रं विभावयेत् || सर्वलक्षणसंपूर्णंन् चक्रज्वालापरिवृतम् [ख्: वज्र] | उष्णीषचक्रसमयं विस्फुरन्तं प्रभावयेत् || मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्टिप्रवर्धनम् | एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || || उष्णीषविद्याचलचक्रो [क्: अद्द्स् समय ; क्: धर] नाम समाधिः || खवज्रमध्यगं [क्: धातु] चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धबिम्बं विभावित्वा वज्रसुम्भं प्रभावयेत् || तीक्ष्णज्वालार्चिर्वपुषं स्फुरन्तं मेघवज्रिणम् | वज्रहस्तं महाज्वालं भावयन् सिद्धिमाप्नुयात् || मुकुटेऽक्षोभ्यसमयं ध्यात्वा तुष्टिप्रवर्धनम् | एषो हि सर्वक्रोधानां समयो दुरतिक्रमः || || वज्रसमयसुम्भवज्रो नाम समाधिः || निरोधक्रोधचक्रेण बुद्धचक्रनिषेविणा [क्: वणं] | समाधिवज्रज्ञानानि सिध्यन्ते वज्रमण्डलात् || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे समयव्यूहतत्वार्थभावनासम्बोधिपटलस्त्रयोदशोऽध्यायः | प्द्f ६४, प्. ७८) चतुर्दशः पटलः | अथ भगवान् सर्वतथागतसमयाधिपतिर्महावज्रधरः शान्तिसमयाग्रं [ग्: शास्ता] नाम समाधिं समापद्येमां सर्वतथागतभार्यां कायवाक्त्रित्तवज्रेभ्यो निश्चारयामास | || ओं रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने [ग्: रो] सर्वार्थसाधनि स्वाहा || अथास्यां गीतमात्रायां सर्वसम्पन्मनीषिणः | तुष्टा हर्षं समापेदे बुद्धवज्रमनुस्मरन् || बुद्धानां शान्तिजननी सर्वकर्मप्रसाधनी | मृतसंजीवनी प्रोक्ता वज्रसमयचोदनी || इत्याह च || अथ भगवांस्त्रिकायसमयक्रोधवज्रः भावाभावसमयवज्रं नाम समाधिं समापद्येमां सर्ववज्रधराग्रमहिषीं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || ओं शङ्करे शान्तिकरे घुट्ट घुट्ट घुट्टनि घातय घातय [ख्: ओमित्स्] घुट्टनि स्वाहा [क्: गिवेस् घुट्ट घुट्टनि स्वाहा ओन्ल्य] || अथास्यां गीतमात्रायां त्रिवज्राभेद्यवज्रिणः | उत्फुल्लचारुनयना वज्रचित्तमनुस्मरन् || रक्षावज्रप्रयोगेषु नित्यं कर्मप्रसाधनी | महावज्रभयार्तानां नित्यं बलकरी स्मृता || प्द्f ६४, प्. ७९) अथ भगवान् महारागसमयावलोकनं [क्: ज] नाम समाधिं समापद्येमां धर्मकायाग्रभार्यां स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास [ग्: रयत्] | || ओं कटे विकटे [क्, ग्: अद्द् निकटे] कटङ्कटे करोटवीर्ये स्वाहा || अथास्यां गीतमात्रायां वज्रधर्माग्रचारिणः [क्: धा] | तुष्टा ध्यानं समापेदे वज्रधर्ममनुस्मरन् || धर्मपुष्टिं बलं नित्यं महाकोशवती सदा | करोति जापमात्रेण वाग्वज्रस्य वचो यथा [क्: धरो यथा] || अथ भगवान् समन्तसम्भववज्रं नाम समाधिं समापद्येमां समयसत्वाग्रभार्यां [ग्: त] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || ओं तारे तुत्तारे तुरे स्वाहा || अथास्यां गीतमात्रायां सर्वबुद्धा महात्मजाः | हर्षिता ज्ञानमापेदे वज्रकायमनुस्मरन् || बुद्धवज्रमहासैन्यं सत्वधातुं समन्ततः | करोति दासवत् सर्वं निश्चेष्टं वशकृत् क्षणात् || इत्याह च || अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतो विमलरश्मिमेघव्यूहवज्रं [ख्: ओमित्स् वज्र अन्द् क्: ओमित्स् व्यूह] नाम समाधिं समापद्येमं वज्रयमान्तकमहाक्रोधं [ख्: वज्र] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास [क्, ख्: येत्] || || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं ख ख खाहि खाहि सर्वदुष्टदमक [क्: अद्द्स् सत्त्व] असिमूषलपरशुपाशहस्त चतुर्मुख प्द्f ६५, प्. ८०) चतुर्भुज षट्चरणं आगच्छागच्छ [क्: गच्छ गच्छ] सर्वदुष्टप्राणहारिणे महाविघ्नान्तक [क्: विघ्नघातक] विकृतानन मर्वभूतभयङ्कर अट्टाट्टहासनादिने व्याघ्रचर्मनिवसने [ग्: निवेशने] कुरु कुरु सर्वकर्माणि छिन्द छिन्द सर्वमन्त्रान् भिन्द भिन्द परमुद्राणाकर्षय [क्: मन्त्रा] आकर्षय सर्वभूतान् निर्मथ निर्मथ सर्वदुष्टान् प्रवेशय प्रवेशय मण्डलमध्ये वैव स्वतजीवितान्तकर कुरु कुरु मम कार्यं [ख्: यं] दह दह पच पच मा विलम्ब विलम्ब समयमनुस्मर हूं हूं फट् फट् स्फोटय स्फोटय सर्वाशापरिपूरक सर्वान् नाशय रिपून् कर कर [क्: अद्द्स् सर्वाशापरिपूरक] हे हे भगवन् किं चिरायसि मम सर्वार्थान् साधय साधय स्वाहा || अथास्मिन् भाषितमात्रे सर्वे बुद्धा महायशाः | भीताः संत्रस्तमनसो वज्रचित्तमनुस्मरन् || कपालं निर्व्रणं प्राप्य चारुरूपं मनीषिणम् | पादाक्रान्तगतं कृत्वा मन्त्रमेनमनुस्मरन् [ग्: स्मरेत्] || लोचनां मामकीं चापि महावज्रकुलोच्चयाम् | द्वित्रीन् वारान् समुच्चार्य ध्रुवमाकृष्यते क्षणात् || इत्याह च भगवान् बोधिचित्तवज्रः [ख्, ग्: ओमित् बोधि बेfओरे चित्ते] || अथ भगवान् वैरोचनवज्रस्तथागतः समयरश्मिघनाग्रं [क्: गह] नाम समाधिं समापद्येमममृतसमयवज्रक्रोधं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || नमः समन्तकायवाक्चित्तवज्राणाम् | नमो वज्रक्रोधाय प्द्f ६५, प्. ८१) महादंष्ट्रोत्कटभैरवाय असिमुसलपरशुपाशगृहीतहस्ताय [ग्: पाशपरशु पर्शु इन् आ.] ओं अमृतकुण्डलि ख ख खाहि खाहि तिष्ठ तिष्ठ बन्ध बन्ध हन हन दह दह गर्ज गर्ज विस्फोटय विस्फोटय सर्वविघ्नविनायकान् महागणपतिजीवितान्तकराय [ख्: काय] स्वाहा || अथास्मिन् भाषितमात्रे सर्वे बुद्धा महायशाः | मूर्च्छिता भयमापेदे वज्रकायमनुस्मरन् [क्; म] || सर्वमन्त्रप्रयोगेषु वज्रोच्चाटनकर्मणि | उच्चाटयति विधिना बुद्धसैन्यमपि स्वयम् || अथ भगवान् रत्नकेतुस्तथागतो बुद्धरश्मिवज्रं नाम् समाधिं समापद्येमं वज्रापराजितमहाक्रोधं [ख्, ग्: ओमित्] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं हूं जिनरिटि हे [ग्: रितिह; क्: रिटिटादा] हूं हूं फट् फट् [ख्: ओमित्स्] स्वाहा || अथास्मिन् गीतमात्रे [क्: भाषित] तु सर्वे बुद्धा महायशाः [क्: त्मजाः] | भीताः सन्त्रस्तमनसो बोधिचित्तमनुस्मरन् || राक्षसव्याडक्रूरेषु महाभयसमाकुले | करोति विधिवत् कर्म वज्रचित्तमनुस्मरन् [ग्: प्रयुञ्जनात्; क्: प्रपूजनात्] || अथ भगवान् अमितायुस्तथागतोऽमितसम्भववज्रं नाम समाधिं समापद्येमं पद्मसम्भववज्रक्रोधं [क्: वं नाम महा] स्वकायवाक्चित्तवज्रभ्यो निश्चारयामास || प्द्f ६६, प्. ८२) नमः समन्तकायवाक्चित्तवज्राणाम् | ओं हूं हूं हूं तरुल विरुल सर्वविषघातक ज्वलितविस्फुलिङ्गाट्टाट्टहास केसरिसटाटोपटङ्कारवज्रखुरनिर्घातनचलितवसुधातल [ग्: सुर ; ग्, ख्: ओमित्स् चलित] निश्वासमारुतोत्क्षिप्तधरणीधर [ग्: ती] भीषणाट्टाट्टहास अपरिमितबलपराक्रम आर्यगणभीतभूतगणाध्युषित बुद्ध बुद्ध हयग्रीव खाद खाद परमन्त्रान् छिन्द छिन्द सिद्धिं मे दिश [क्: रेपेअत्स्] आवेशय [क्: रेपेअत्स्] सर्वज्वरपिपासादीन् [क्, ख्: पिशाचा] सर्वग्रहेष्वप्रतिहतो भव वज्रदंष्ट्र किं चिरायसि इमं सर्वदुष्टग्रहं [क्, ख्: ओमित्स्] दुष्टसङ्घं [क्: सर्प] वा धुन धुन विधुन विधुन मथ मथ मट मट घातय घातय बन्ध बन्ध बुद्धधर्मसङ्घानुज्ञातकर्म कुरु शीघ्रम् | हयग्रीवाय फट् [ग्: अद्द्स् वज्राय फट्] वज्रगात्राय फट् वज्रनेत्राय फट् वज्रदंष्ट्राय फट् वज्रखुराय [क्: स्व] फट् वज्रखुरनिर्घातनाय [क्: शर] फट् परमन्त्रविनाशाय फट् तैलोक्यभयङ्कराय फट् सर्वकर्मेष्वप्रतिहताय फट् वज्रकुलसन्त्रासनाय फट् हूं हूं हूं फट् फट् फट् स्वाहा || अथास्मिन् विनिःसृतमात्रे [क्: निसारित] धर्मवज्रा महाग्रजाः | भीताः संमूर्च्छमापेदे ज्ञानराजमनुस्मरन् || खधातुं विषसम्पूर्णं वज्रहालाहलप्रभम् | करोति निविर्षं सर्वं [ख्, ग्: रेअद् इन्स्तेअद् समाधिविधिभेदेन |] क्रोधराजप्रचोदनैः || इत्याह च | अथ भगवान् अमोघसिद्धिस्तथागतः अमोघसमयसम्भवकेतुवज्रं [ख्, ग्: ओमित्] प्द्f ६६, प्. ८३) नाम समाधिं समापद्येमं नीलवज्रदण्डक्रोधराजं [ग्: ओमित्स् वज्र] स्वकायवक्चित्तवज्रेभ्यो निश्चारयामास | || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं एह्येहि भगवन् नीलवज्रदण्ड तुरु तुरु हुलु हुलु हाहा [ख्, ग्: लघु लघु] गुलु गुलु गुलापय गुलापय क्रम क्रम भगवन् वायुवेगेन भूतान् शीघ्रं दह दह दर दर वह वह [क्: हस् ताट ताट चल चल दह दह इन्स्तेअद् ओf वह वह ओन्ल्य] पच पच मथ मथ पातय [क्: घाटय] पातय मट्ट मट्ट मट्टापय मट्टापय सर्वकर्माणि छिन्द छिन्द भक्ष [ख्, ग्: भक्षय] भक्ष मेदमांसरुधिरमत्स्यमेदमज्जाप्रिय एह्येहि भगवन् सर्वविघ्नानि [ख्, ग्: ओमित् सर्वविघ्नानि] सर्वमन्त्राणि सर्वमूलकर्माणि सर्वमूलग्रहान् हन हन [ग्: भर; ख्: हर ] भञ्ज भञ्ज मर्द मर्द इदं मे कार्यं साधय हूं नीलाय नीलवज्रदण्डाय [ग्: ओमित्स् वज्र] तुरु तुरु विघ्नविनायकनाशकाय [क्: विनायकं नासकाय] हुरु हुरु दीप्तचण्डाय सर्वशत्रूणां हृदयानि पीडय छिन्द छिन्द विद्यानां छेदक हूं [क्: अद्द्स् महाक्रोधकं हू] विद्यानां शिष्टान् स्मर स्मर समयं वज्रधरवचनं कर्माणि निकृन्तय हूं हूं हन हन [ग्: हर हर] दह दह कुरु कुरु [क्: हुरु हुरु] तुरु तुरु हुरु हुरु [क्, ग्: ओमित्] फट् फट् हूं हूं हूं भक्षापय कृतान्ताय देवऋषिविद्रापकाय हन हन [ग्: हर हर] वज्रदण्डाय [ग्: ण्डिणे] स्वाहा || अथास्मिन् भाषितमात्रे सर्वदुष्टाग्रसम्भवाः | भीताः सन्त्रस्तमनसो वज्रसत्त्वमनुस्मरन् || प्द्f ६७, प्. ८४) जपेनाष्टशतेनायं क्रोधराजो महायशः | घातकः सर्वदुष्टानां विधिचक्रप्रयोजनैः [क्: वज्र] || इत्याह च | अथ भगवान् अक्षोभ्यवज्रस्तथागतः समन्तमेघश्रियं नाम समाधिं समापद्येमं महाबलवज्रं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं हूं हूं हूं फट् फट् फट् ओं उग्रशूलपाणि हूं हूं हूं फट् फट् फट् ओं ज्योतिर्निर्णाद हूं हूं हूं [ग्: त्wइचे इन्] ओं फट् फट् फट् [ग्: ओमित्स्; क्: त्wइचे इन्] ओं [क्: थ्रिएचे इन्; क्, ग्: फट् फट् फट्] महाबलाय स्वाहा | अथास्मिन् भाषितमात्रे सर्वे नागा महाबलाः | भीताः सन्त्रस्तमनसः त्रिकायवज्रमनुस्मरन् || जापमात्रप्रयोगेण सर्वकर्माणि साधयेत् | अनावृष्टिसमये च पातयेद्वारिमण्डलम् || अथ भगवान् समन्तनिर्घातवज्रं नाम समाधिं समापद्येमं सर्वतथागतटक्किराजमहाक्रोधं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं टक्कि हूं जः || अथास्मिन् भाषितमात्रे सर्वबुद्धा महात्मजाः | भीताः समयमापेदे त्रिवज्रकायमनुस्मरन् || प्द्f ६७, प्. ८५) लिङ्गं दक्षिणपादेन [ग्: अद्द्स् क्रान्त्वा] वज्रसत्त्वप्रयोगतः [ख्, ग्: वज्रयोग] | त्रिवज्रमन्त्रचक्रेण सर्वसत्त्वाकर्षणम् [क्: मन्त्रा] भवेत् || अथ भगवान् ज्ञानमालाम्बुवज्रं नाम समाधिं समापद्येमं अचलवज्रचण्डसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं अचलकारण हूं हूं [ख्: थ्रिएचे इन्] मोट्ट मोट्ट [क्; ओमित्स्] सट्ट सट्ट ह ह मोह मोह सह सह [क्: सद; ग्: अद्द्स् हस हस] हन हन [ग्: हर हर] दह दह तट्ट तट्ट तिष्ठ तिष्ठ आविश आविश महामत्तपालक [क्: मन्त्रबालक; ग्: मट्टपालक] धुन धुन तिणि तिणि किणि किणि खाद खाद [ग्: ओमित्स्] विघ्नान् मारय मारय दूष्टान् भक्ष भक्ष सर्वान् [ग्: त्त्वान्] कुरु कुरु किरि किरि महाविषमवज्र स्फोटय स्फोटय हूं हूं हूं नृबलितरंगनर्त्तक [क्: गा] आं आं [ग्: आ] हां हां [ख्: थ्रिचे इन्] अचलचेत [ग्: अद्द्स् खाद खाद] स्फोटय स्फोटय ओं [क्: हूं] असमन्तिक त्राट् महाबल सातय समयं [क्; ओमित्स्] मं त्रां [क्: परमन्त्राणि समयमन्त्रान् ओं ओं इन्स्तेअद् ओf मं त्रां] हां मां शुध्यतु वज्री [क्: लोकं] तुष्यतु वज्री नमोऽस्त्वाप्रतिबलेभ्यः ज्वालय वाट् असह नमः स्वाहा || अथास्मिन् भाषितमात्रे सर्वे देवाः सकिङ्कराः | मूर्च्छितास्वस्तमनसो मन्त्रकायमनुस्मरन् [क्: वज्र] || अनेन क्रोधमन्त्रेण महादेवादयः सुराः | भीताः सम्पुटकायेन आकृष्यन्ति महर्धिकाः || प्द्f ६८, प्. ८६) अथ भगवान् समयविजृम्भितवज्रं [ग्: स्क] नाम समाधिं समापद्येमं सर्ववज्रधरसमयं सुम्भमहाक्रोधं [ख्: सम्भव] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || ओं नमः समन्तकायवाक्चित्तवज्राणाम् | ओं सुम्भ निसुम्भ [ग्: न्भे] हूं गृन्ह गृण्ह हूं [ग्: ओमित्स्] गृण्हापय गृण्हापय हूं आनय हो भगवन् विद्याराज हूं फट् || अथास्मिन् भाषितमात्रे सर्वकन्या महर्धिकाः | मुक्तकेशा विवस्वाङ्गा [क्, ग्: त्मा] वज्रसत्त्वमनुस्मरन् || वज्रसत्त्वपदाक्रान्तं सर्वताथागताधिपम् | वज्राङ्कुशपाशेन वज्रकन्याकर्षणं परम् || अथ भगवान् महासमयतत्त्वोत्पत्तिवज्रं नाम समाधिं समापद्येदं महासमयवज्रगुह्यवाक्समयतत्त्वपदं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || बुद्धवज्रत्रिकायेषु [क्: ज्रे] वज्रसत्त्वविभावना | पाशवज्राङ्कुशधरैर्बुद्धाकर्षणमुत्तमम् || बुद्धवाक्काययोगेन महाचक्रप्रयोगतः | वरसत्तो महाराजो ध्रुवमाकृष्यते सदा || चक्रपद्ममहावज्रैः त्रिवज्राभेद्यभावनैः | वज्राङ्कुशप्रभेदेन सर्वमन्त्राकर्षणं ध्रुवम् [क्: परं] || स्वमन्त्रपुरुषं ध्यात्वा सर्ववज्रमयं [ख्: सत्त्व] शिवम् | कन्यां तु मानुषीं श्रेष्ठां हृद्वज्राङ्कुशयोगतः || प्द्f ६८, प्. ८७) वातमण्डलसंयोगे [क्: लियोगेन] ध्रुवमाकृष्यते सदा | वैरोचनमहाबिम्बं भावयेच्चन्द्रमण्डलम् || शचीं तत्र स्थितां चिन्तेत् वज्रामृतप्रयोगतः | पञ्चाशवारानुच्चार्य ध्रुवमाकृष्यते सदा || वज्राङ्कुशमहाबिम्बं तीक्ष्णज्वालासमप्रभम् | वज्रमण्डलकं ध्यात्वा खकन्याकर्षणमुत्तमम् || स्वक्रोधवज्रसमयं वज्रपातालवासिनम् [क्, ग्: पोतल] | शूलवज्राङ्कुशपाशैर्दैत्यकन्याकर्षणमुत्तमम् [क्: पदै ; क्: परं] || गौरिकां खटिकां [क्; ओमित्स्; ग्: खतिकां] वापि वज्राङ्कुशप्रयोगतः | चन्द्रोपरागसमये मुखे प्रक्षिप्य साधयेत् || ब्रह्मेन्द्ररुद्रदेवानां यस्य नाम [क्: नामं यस्य] समालिखेत् [क्; लिखेत् स्वयम्] | आगच्छन्ति भयस्रस्ताः वाक्यवज्रवचो यथा || सर्वाकारवरोपेतं मञ्जुवज्रं विभावयेत् | यमान्तकं महाक्रोधं वज्राङ्कुशं विचिन्तयेत् || कल्पोद्दाहमहाचक्रं ध्यात्वा यक्षींस्तु साधयेत् [क्: भुञ्जयेत्] | इत्याह च || मुद्राभेदेन सर्वेषां मन्त्रभेदेन सर्वथा | आकर्षणपदं प्रोक्तं न चेन्नाशमवाप्नुयात् || वज्रसत्त्वो महाराजश्चोदनीयो मुहुर्मुहुः | स एव सर्वमन्त्राणां राजा परमशाश्वतः || अथ भगवान् समन्तविजृम्भितज्ञानवज्रं [ग्: स्क] नाम समाधिं प्द्f ६९, प्. ८८) समापद्येमां वज्रैकजटां नाम महासर्पापराजितवाग्वज्राग्रीं [ख्, ग्: समयराज] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || ओं शूलिनि [क्; अद्द्स् हूं] स्वाहा || अथास्यां भाषितमात्रायं [ख्, ग्: विनिःसृत] नागकन्या महर्धिकाः | दह्यमाना विवस्त्राङ्गा [क्: त्मा] बुद्धबोधिमनुस्मरन् || अनया मन्त्रविद्यया सर्वे आकृष्यन्ति पन्नगाः | नागकन्यांन् विशालाक्षीं समाक्रष्योपभुंजयेत् [ख्: अते] || अथ भगवान् गगनसमयसम्भववज्रं [ग्: नगर ; क्: ओमित्स् वज्रं] नाम समाधिं समापद्येमां महाधर्मसमयवज्रभृकुटीं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || ओं भयनाशनि त्रासनि [क्: अद्द्स् त्रासे] त्रासय [क्: त्wइचे इन्] भृकुटी तटि वेतटि वेतटि [क्: ओमित्स्] वैरटि वैरटि श्वेते [ख्: ओमित्स्] श्वेतजटिनि स्वाहा || अथास्यां गीतमात्रायां सर्वविद्याधरात्मजाः | कम्पिता भयमापेदे ज्ञानराजमनुस्मरन् || विद्याधरमहाकन्यां चलत्कनककुण्डलाम् | आकृष्य समयाद्येन अनया मन्त्रविद्यया || निरोधवज्रराजेन [क्: जापेन] निष्पणेनाग्रचारुणा [क्: रणा] | त्रिवज्रज्ञानसंभूताः क्षणात् कृष्यन्ति सर्वतः || अथवा [अथ भगवान्] सर्वक्रोधानां लक्षजापेन मन्त्रिणः | सर्वकर्मकराः प्रोक्ताः विजनेषु महत्सु च || प्द्f ६९, प्. ८९) आचार्यनिन्दनपरा महायानाग्रनिन्दकाः | मारणीयाः प्रयत्नेन अथवा स्थानचालनम् [ख्: चारिणम्] | अनेन बोधिं परमां मन्त्रसिद्धिञ्च प्राप्नुयात् || इत्याह च || दशदिक्सर्वबुद्धानां कायवाक्चित्तघातनम् | भावनीयं विधानेन [ग्: विचारेण] रिपूणां दुष्टचेतसाम् || रुधिरार्द्रं सलिलार्द्रं विण्मूत्रार्द्रं वापि कारयेत् | प्रावृत्य [क्: परा] लिङ्गं चाक्रम्य क्रोधराजं प्रयोजयेत् | शताष्टेन तु [क्: ष्टपरि] पूर्णेन ध्रुवं बुद्धोऽपि शीर्यते || इत्याह च | सलिलार्द्रगतं वस्त्रं कृत्वा क्रोधाग्रबन्धनात् | लिङ्गं पादेन [क्: वाम] चाक्रम्य ध्रुवं बुद्धोऽपि नश्यति || विण्मूत्रार्द्रगतं वस्त्रं पूतिगन्धजुगुप्सितम् | प्रावृत्य मन्त्रमावर्त्तेत् [ख्: माधत्ते] शुष्यते म्रियते क्षणात् || भस्मोदकार्द्रगतं वस्त्रं प्रावृत्य क्रोधसङ्कुलम् | शताष्टवारानुच्चार्य वज्रसत्त्वोऽपि शीर्यते || इत्याह च || सलिलार्द्रगतं वस्त्रं प्रावृत्य क्रुद्धचेतसा [ग्: क्रुर ; क्, ग्: सः] | नग्नो मुक्तशिखो भूत्वा विकटोत्कटसम्भ्रमः || लिङ्गं पादेन चाक्रम्य खधातुमपि नाशयेत् | इत्याह च || प्द्f ७०, प्. ९०) मातृगृहे श्मशाने [क्: अद्द्स् वा] शून्यवेश्मनि चतुष्पथे | एकलिङ्गैकवृक्षे वा अभिचारं समारभेत् || मानुषास्थिमयं कीलं अष्टाङ्गुलप्रमाणतः | शताष्टवारानुच्चार्य [नभिमन्त्र्य] अरिद्वारेषु गोपयेत् || बुद्धस्त्रिकायवरदो ज्ञानाज्ञानविवर्जितः | पक्षाभ्यन्तरपूर्णेन भ्रश्यते [ग्: भ्रत्स्यते] म्रियतेऽपि वा || कपालं परिपूर्णं वा प्राप्य विज्ञो [ख्, ग्: विधिज्ञो] विशेषतः | लिखेन्मन्त्रपदं तत्र जापया [क्: जपन्वा] वज्रभाषया || अरिद्वारेऽथवा ग्रामे गोप्योच्चाटयते [क्: टनं; ग्: टयेत्] ध्रुवम् | तालपत्रेऽथवान्यत्र क्रोधमन्त्रं समालिखेत् | अरिगृहेऽथवा [ग्: द्वारे] द्वारे गोप्य नश्यति [ख्: तस्य वि; ग्: ते तस्य वि] शुष्यति || इत्याह भगवान् महासमयकेतुवज्रः [ग्: हे] | अथ भगवान् सर्वतथागतकायवाक्चित्तनिबन्धनवज्रं नाम समाधिं समापद्येदं सर्वत्रैधातुककायवाक्चित्तकीलनवज्रं [क्: मन्त्रन्नाम] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || ओं घ घ घातय [ख्: ओन्चे इन्] घातय सर्वदुष्टान् फट् कीलय कीलय सर्वपापान् फट् हूं हूं हूं वज्र कीलय वज्रधर आज्ञापयति कायवाक्चित्तवज्रं कीलय हूं फट् || अथास्मिन् भाषितमात्रे सर्वे वज्रा महर्धिकाः | मूर्च्छिता भयमापन्नाः खवज्रचित्तमनुस्मरन् || प्द्f ७०, प्. ९१) मानुषास्थिमयं कीलं अथवा खदिराग्रजम् [ग्: रागवज्रिणः; ग्: ओमित्स् अ लोन्ग् पोर्तिओन् ओf ४ लिनेस् fरोम् हेरे] | अयोमयकृतं कीलं त्रिवज्रकायनाशनम् || वज्रसत्त्वं समाधाय स्फुलिङ्गाकुलसुप्रभम् | त्रिवज्रकायपर्यन्तं बिम्बं ध्यात्वा प्रयोजयेत् || वैरोचनमहामुद्रां अथवा रागवज्रिणः | यमान्तकमहामुद्रां [ग्; महान्तक] ध्यात्वा त्रिवज्रकीलनम् [ग्: क] || कुण्डलामृतवज्रेण [ग्: कीलेन] दुष्टक्रूरनिकृन्तनम् | कर्तव्यं वज्रययोगेन बुद्धस्यापि महात्मनः || हृदयं यावत् पादान्तं वज्रकीलविभावनम् | ऊर्ध्वन्तदेव समयमिदं [क्: येन इ] कीलविजृम्भितम् || ध्यानवज्रप्रयोगेण ध्रुवं बुद्धोऽपि कील्यते | वज्रसत्त्वो महाराजा कीलयन् म्रियते लघु || अथ भगवान् महावैरोचनः कायविजृम्भितवज्रं नाम समाधिं समापद्येदं स्वकायसमयाक्षेपवज्रकीलनमन्त्रं [ख्, ग्: ओमित् मन्त्रं] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || ओं छिन्द छिन्द भिन्द [क्, ग्: ओमित्] भिन्द हन हन दह दह दीप्तवज्रचक्र क्षुं [क्: हूं] फट् || अन्योन्यवेष्टनाकारमङ्गुष्ठपदमीलनम् | वैरोचनपदाक्रान्तं वज्रकीलनिपातनम् || हतमात्रे महासत्त्वे त्रिकायवज्रसम्भवः | उत्तिष्ठेत् समयाग्रेण [क्: यो] न चेन्नाशपदं भजेत् [ग्: वेत्] || @@@@@@@@@ तिमे : १२:४५, प्द्f ७१, प्द्f ७१, प्. ९२) अथ भगवान् लोकेश्वरो वाग्विजृम्भितं [क्: तवज्रं] नाम समाधिं समापद्येदं वाक्समयाक्षेपकीलनमन्त्रं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || ओं ह्रीः भूर्भुवः || विकसितज्ञानपद्मे [क्: ओमित्स् ज्ञान] वज्राङ्गुलिनिवेशनम् [ग्: ञ्ज] || वाक्यवज्रपदाक्रान्तं [क्, ख्, ग्: राग] वज्रकीलनिपातनम् | हतमात्रे महावज्रे त्रिकायालयसम्भवः | उत्तिष्ठेत् हतमात्रेण नचेन्नाशपदं भजेत् || अथ भगवान् महावज्रधरः चित्तविजृम्भितवज्रं नाम समाधिं समापद्येदं चित्तसमयाक्षेपकीलनमन्त्रं [ग्: परिकी] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || ओं वज्रराज हूं || पञ्चशूलनिवेशेन [क्, ग्: निबन्धेन] स्फुलिङ्गाकुलसाधनम् [क्, ग्: भावनं] | चित्तवज्रपदाक्रान्तं वज्रकीलनिपातनम् || हतमात्रे महावज्रे त्रिवज्रालयसम्भवः [क्: मल] | उत्तिष्टेत् हतमात्रेण न चेन्नाशपदं भजेत् || सम्यग्विधानमार्गेण [ख्, ग्: चार] कायवाक्चित्तयोगतः | खधातुवज्रपर्यन्तं कीलयेन्नात्र संशयः || इत्याह भगवान् महाकीलवज्रः | अथ बुद्धास्त्रिकायाग्राः सत्त्वधातुहितैषिणः | तुष्टाः प्रामोद्यसंप्राप्ताः इदं घोषमकारयन् || प्द्f ७१, प्. ९३) अहो गुह्यपदं श्रेष्ठमहो [ख्: महा] सारसमुच्चयम् | अहो धर्मपदं शान्तं अहो वज्रविदारणम् || कीलनं सर्वबुद्धानां बोधिसत्त्वा महायशाः | कायवाक्चित्तवज्राणां कीलनं समुदाहृतम् || इदं तत् सर्वमन्त्राणां कीलनं तत्त्वसम्भवम् [ग्: सत्त्व] | कायवाक्चित्तवरदं मन्त्रतत्त्वसमुच्चयम् || इति || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे कायवाक्चित्ताद्भुतमन्त्राकर्षणविजृम्भितराजो नाम समाधिपटलश्चतुर्दशोऽध्यायः || प्द्f ७२, प्. ९४) पञ्चदशः पटलः | अथ वज्रधरो राजा सर्वाकाशमहाक्षरः [क्: शो] | सर्वाभिषेकसर्वज्ञो वाग्वज्रं समुदीरयत् [क्: रयन्] || द्वादशाब्ब्दिकां कन्यां तां [क्: ओमित्स्] चण्डालस्य महात्मनः | साधयेत् साधको नित्यं विजनेषु विशेषतः || विण्मूत्रसमयाद्येन चतुरस्रं विधान्तः | मण्डलं कारयेत् तत्र वज्रमण्डलसाधनैः [क्: वज्रकुलविभावनैः] || सर्वलक्षणसंशुद्धां चारुवक्त्रां सुशोभनाम् | सर्वालङ्कारसम्पूर्णामङ्के स्थाप्य विभावयेत् || पञ्चमण्डलचक्रेण बुद्धबिम्बविभावनम् [ग्: ना] | भावयेत् पूजापदं रम्यं रहस्यं मन्त्रवज्रिणाम् [चक्रि] || वैरोचनमहाबिम्बं कायवाक्चित्तवज्रिणम् | ध्यानमन्त्रप्रयोगेण भवेद्बुद्धसमप्रभः || नीलोत्पलदलाकारां रजकस्य महात्मनः | कन्यां तु साधयेन्नित्यं वज्रसत्त्वप्रयोगतः || तदेव विधिसंयोगं कृत्वा कर्म समारभेत् | एषो हि सर्वमन्त्राणां समयो दुरतिक्रमः || स भवेत् तत्क्षणादेव वज्रसत्त्वसमप्रभः | सर्वधर्मधरो [ख्, ग्: समो] राजा काममोक्षप्रसाधकः || चारुवक्त्रां विशालाक्षीं नटकन्यां सुशोभनाम् | साधयेत् साधको नित्यं वज्रधर्मविभावनैः || प्द्f ७२, प्. ९५) स भवेत् वज्रधर्मात्मा दशभूमिप्रतिष्ठितः | वाक्समयधरो राजा सर्वाग्रः परमेश्वरः || ब्रह्मक्षत्रियवैश्यानां कन्यां शूद्रकुलोद्भवाम् | साधयेत् वज्रधर्मात्मा इदं गुह्यसमावहम् || अस्तमिते तु वज्रार्के साधनं तु समारभेत् | अरुणोद्गमवेलायां सिध्यते भावनोत्तमैः || सर्वालङ्कारसंपूर्णां गन्धपुष्पविभूषिताम् | ध्यात्वा तु वज्रसत्त्वाग्र्यां [क्: ग्री; ग्: प्यो] लघु सिद्धिमवाप्नुयात् || स भवेत् चिकायवरदो बुद्धलक्षणलक्षितः | योजनशतविस्तारमवभासं करोत्यसौ || द्वयेन्द्रियप्रयोगेण [क्: द्वे] सर्वयोगान् समारभेत् | एषो हि सर्वसिद्धीनां [क्: द्वा] समयो दुरतिक्रमः || विण्मूत्रसमयं भक्षेत् यदीच्छेत् सिद्धिवज्रिणः | एषो हि सर्वसिद्धीनां समयो दुरतिक्रमः || विण्मूत्रसमयं भक्षेत् यदीच्छेत् सिद्धिवज्रिणः | एषो हि सर्वसिद्धीनां समयो दुरतिक्रमः || विण्मूत्रसमयाद्येन द्वयेन्द्रियप्रयोगतः | सिध्यतेऽनुत्तरं तत्त्वं बुद्धबोधिपदं शिवम् || इत्याह भगवान् काममोक्षसमयवज्रः | अथ भगवान् महासमयवज्रक्रोधं नाम समाधिं समापद्येदं सर्वतथागतवज्रसन्त्रासनक्रोधं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || || ओं ह्रीः ष्ट्रीः विकृतानन सर्वशत्रून्नाशय स्तम्भय हूं [ख्: थ्रिचे इन्] हूं फट् फट् स्वाहा || प्द्f ७३, प्. ९६) विषरुधिरसंयुक्तं लवणं राजिकान्तथा | कण्टकाग्नौ जुहेत् क्रुद्धः कन्यानामपदैः सह || मध्याह्ने अर्धरात्रे वा इदं शस्यति सर्वथा | त्रिकोणे तु जुहेत् प्राज्ञोऽष्टसहस्रं [क्: थ] विधानतः || दिनत्रयमिदं कार्यं कन्यानां फलहेतुतः [क्: ना] | स्तंभनं भवते तेन त्रिकल्पासंख्यमपि सदा || बुद्धो धर्मधरो [क्: रज] वापि वज्रसत्त्वोऽपि वा यदि | अतिक्रमेद्यदि मोहात्मा तदन्तं तस्य जीवितम् || चतुर्दश्यां तथाष्टम्यां गृह्याङ्गारं श्मशान्तः | अभिमन्त्र्य विधानेन दासकः स भवेत् सदा || रेखां ददाति ध्यात्वा तु मन्त्रज्ञो यस्य कस्यचित् | शत्रोः प्रतिकृतिं कृत्वा म्रियते नात्र संशयः || मुद्गरं ध्यानयोगेन पातयन् पतितं [क्: ओमित्स्] ध्रुवम् | हूंकारं ज्वालसंयुक्तं दीप्तवज्रं प्रभावयेत् || नाशकः सर्वदुष्टानां वज्रपाणिकुलः स्मृतः | खटिकाङ्गारादिभिर्लेख्य पुरुषं वाऽथवा स्त्रियम् | कुठारं पाणौ विभावित्वा ग्रीवां छिन्नां विभावयेत् | बुद्धास्त्रिवज्ररत्नाग्राः सर्वसत्त्वहितैषिणः || अनेन हन्यते वापि म्रियते नात्र संशयः | कर्मवज्रमहादीप्तं स्फुलिङ्गगहनाकुलम् | मध्ये वज्रं विभावित्वा वारिस्तम्भनमुत्तमम् || मण्डले लिख्यमाने [क्: त्रे] तु वाताद्यं यदि जायते | प्द्f ७३, प्. ९७) दंष्ट्रामुद्रां ततो बद्धा दुष्टसत्त्वमनुस्मरेत् [ग्: शत्रु] | बुद्धैश्च बोधिसत्त्वैश्च निर्मितं वापि यद्भवेत् || शीर्यते दृष्टमात्रेण न चेन्नाशं समाप्नुयात् | बुद्धाश्च बोधिमत्त्वाश्च ये चान्ये दुष्टजन्तवः | त्रासितास्तेन मन्त्रेण म्रियन्ते नात्र संशयः || तत्रेदं सर्वतथागतमन्त्ररहस्यहृदयम् [क्: अद्द्स् फट्] | ज्ञानसत्त्वप्रयोगेन मध्ये बिम्बं प्रभावयेत् | चतुःस्थानेषु मन्त्रज्ञो योषितं स्थापयेत्सदा || सर्वालङ्कारसम्पूर्णां [ख्: संयुक्तां] सर्वलक्षणलक्षिताम् | पद्मं प्रसारितं कृत्वा इदं मन्त्रं विभावयेत् || || हूं || पञ्चरश्मिप्रभं दीप्तं भावयेत् योगवज्रिणम् [क्: वज्रयोगिनः] | कायवाक्चित्तवज्रेषु पातयन् बोधिमाप्नुयात् || स भवेत् तत्क्षणादेव वैरोचनसमप्रभः [क्: मञ्जुश्रीतुल्यतेजसा] | वज्रसत्त्वो महाराजः संबुद्धकायवज्रधृक् [बुद्धस्त्रि] || सर्वसत्त्वोत्पादनकरो [क्: वज्र ; क्, ग्: वज्रो] नाम समाधिः | योषितं प्राप्य विधिना चारुवक्त्रां हितैषिणीम् | प्रच्छन्ने प्रारभेत् पूजां गुह्यागुह्यं [ग्: ह्यं] विभक्षयेत् || स भवेत् तत्क्षणादेव मञ्जुश्रीतुल्यतेजसः [ग्: सा] | अन्तर्द्धानाधिपः श्रीमान् जाम्बूनदसमप्रभः || प्द्f ७४, प्. ९८) भक्ष्यं वा अथवा विष्ठं मांसं वापि प्रवेशयेत् | अभिमन्त्र्य [क्: ओमित्स् सिx लिनेस् fरोम् हेरे] विधानेन भक्ष्यं बुद्धैर्न दृश्यते || इत्याह च | विष्ठं संगृह्य विधिना [ग्: विष्ठां गृहे विधानेअ] शरावसम्पुटे न्यसेत् | शताष्टरावान् सञ्चोद्य बुद्धसूर्यर्न दृश्यते || श्वानमांसं हयमांसं महामांसं विधानतः | गृह्य सम्पुटयोगेन भक्षयंस्तैर्न दृश्यते || विष्ठेन [ख्: विश्वेन] सह संयुक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेन सर्वबुद्धैर्न दृश्यते || महामांसेन [ख्: ओमित्स् fओउर् लिनेस् fरोम् हेरे] संयुक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेन सर्वबुद्धैर्न दृश्यते || श्वानमांसेन संयुक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेन सर्वबुद्धैर्न दृश्यते || गोमांसेन च संयुक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेन सर्वबुद्धैर्न दृश्यते || प्राणकैर्विष्ठसंभूतैर्गुलिकां कारयेत् व्रती | द्वयेन्द्रियप्रयोगेन सर्वबुद्धैर्न दृश्यते || कर्पूरचन्दनैर्युक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेन सर्वबुद्धैर्न दृश्यते || रोचनागुरुसंयुक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेन भवेद्वज्रमहाबलः [ग्; सर्वबुद्धैर्न दृश्यते] || प्द्f ७४, प्. ९९) कर्पूरकुङ्कुमैर्युक्तां गुलिकां त्रिलोहवेष्टिताम् | द्वयेन्द्रियप्रयोगेण सर्वबुद्धैर्न दृश्यते || इत्याह च | अधिष्ठाय महामुद्रां यस्य कस्यापि [क्: कस्यचित्] वज्रिणः | स भवेत् तादृशं श्रीमान् महाबलपराक्रमः || योजनकोटिसंपूर्णमूर्द्धं [ख्: शत] वज्रगतिर्भवेत् | त्रिसाहस्रगतिः श्रीमान् भवेत् बुद्धसमप्रभः || कामधातुस्थितां कन्यां सुरभोगां कुलव्रताम् [क्: पुत्राम्] | रूपधातुस्थिताञ्चापि कामयेत [क्: यति] महाबलः || इत्याह भगवान् समयान्तर्द्धानमहावज्रः | अथ बुद्धाः प्रहृष्टात्माऽभ्रान्तचित्ता मनीषिणः | विस्मयोत्फुल्लनयना इदं घोषमुदीरयन् || अहो सुविस्मयमिदं अहो [क्: ओमित्स् थ्रेए लिनेस् fरोम् हेरे] गुह्यमहाक्षरम् | अहो स्वभावसंशुद्धमहो धर्मं सुनिर्मलम् || इति || अथ वज्रधरः शास्ता स्रष्टा कर्ता महाक्षरः | शुद्धवज्रो महाधर्मो वज्रघोषमकारयत् || सर्ववज्रप्रयोगेण [क्: सत्त्व] तोषणं बुद्धवज्रिणाम् | बुद्धबोधिप्रभेदेन तोषणं वज्रचारिणाम् || वज्रलोचनबिम्बाद्यैः [ख्: वज्रात्माचर] उष्णीषाराधनं स्मृतम् | क्रोधानामपि तच्छ्रेष्ठं बुद्धवज्रप्रभावनम् || विद्याराजाग्रधर्माणां रत्नकेतुविभावनम् | विद्याराज्ञीप्रयोगेषु अमितायुर्विभावनम् || प्द्f ७५, प्. १००) सर्वकर्मिकमन्त्राणां अमोघज्ञानभावनम् | सर्वेषामेव मन्त्राणां वज्रसत्त्वविभावनम् || इत्याह च | यक्षिणीमन्त्रतन्त्राणां यमान्तकस्य कल्पनम् | सर्वेषां योगमन्त्राणां सस्तम्भं विप्रचोदनम् [क्: शस्तं मूर्ध्नि] || इत्याह च भगवान् महासमयवज्रः [ख्, ग्: ओमित् वज्र] | अनेन ध्यानवज्रेण मन्त्राराधनमण्डलम् | साधकानां हितं प्रोक्तं महासमयसाधनम् || अथ वज्रधरः शास्ता सर्वधर्मेश्वरः प्रभुः | कायवाक्चित्तसंशुद्धो ज्ञानवज्रमुदीरयत् || पर्वताग्रेषु रम्येषु विजनेषु वनेषु च | ध्यानवज्रं प्रकुर्वीत जपमन्त्रप्रयोगतः || वज्रसत्त्वादयः सर्वे मन्त्रध्यानप्रचोदिताः | कुर्वन्ति चित्रकर्माणि वाक्यवज्रवचो [क्: वाक्कर्म] यथा || वज्रधर्ममहाबिम्बं पद्मरागस्मप्रभम् | कायवाक्चित्तमहावज्रं [क्: वज्रेषु] तत्स्थाने [क्: त्रि] कुलकल्पनम् || आवेशनविधिं सर्वं कारयन् सिध्यति ध्रुवम् | स्तोभस्तम्भंन् [क्: स्तोत्रं] महाबिम्बं [क्, ख्: दिव्यं] आर्यभौमं चतुर्थकम् || कर्तव्यं सिद्धिवज्रेण एवं सिध्यति शाश्वतम् | द्वादशवार्षिकां [क्, ग्: शाब्दिकां] कन्यां पुरुषं द्वादशाब्दिकम् || प्द्f ७५, प्. १०१) सर्वलक्षणसंपूर्णं गृह्यावेशं [ख्, ग्: ह्याथ सं] प्रकल्पयेत् | विधानानि तु सर्वाणि कृत्वा कर्मप्रसाधनम् | अन्यथा हास्यमाप्नोति त्रैधातुकेषु जन्तुषु || तत्रेमानि हृदयमन्त्राक्षरपदानि | खधातुमपि निश्चेष्टं सर्वकल्पविवर्जितम् | आवेशयति विधिना वज्रसत्त्वमपि स्वयम् || हूंकारे वज्रसत्त्वात्मा हःकारे कायवज्रिणः | आःकारे धर्मधरो राजा इदं गुह्यपदं दृढम् || ऐःकारं स्तोभनं प्रोक्तं भ्रमणं कम्पनं स्मृतम् | एषो हि सर्वस्तोभानां [क्: त्रा] रहस्योऽयं प्रगीयते || इत्याह च || हस्तमात्रं द्विहस्तं वा यावद्धस्ताष्टपञ्चकम् | उत्तिष्ठन्ति भयत्रस्ता वज्रराजप्रचोदिताः | तथैव सर्वं यथापूर्वमिदं गुह्यसमावहम् || इति || अथ वज्रधरो राजा सर्वतथागताधिपः | त्रिकायपदसंघोषमिदं [क्: शुद्ध] घोषमुदीरयत् || अनेकाग्रगतेनापि इदं कार्यं दृढव्रतैः | कर्तव्यं वान्ययोगेन [क्: ना] सर्वदुष्टविदारणम् || शत्रोः प्रतिकृतिं कृत्वा चिताङ्गारतुषादिभिः | नग्नो मुक्तशिखो भूत्वा त्रैलोक्यमपि नाशयेत् || प्द्f ७६, प्. १०२) शत्रोः प्रतिकृतिं कृत्वा श्मशानचितिभस्मना [क्: ओमित्स् सिx लिनेस् fरोम् हेरे] | सहस्राष्टशतेनापि म्रियते नात्र संशयः || गोमांसहयमांसेन श्वानमांसेन चित्रिणा | त्रिकोणमण्डले कार्यां ध्रुवं वज्रोऽपि नश्यति || महामांसेन सर्वेषां नाशनं वज्रजं स्मृतम् | एषो हि सर्वक्रूराणां नाशको [ग्: त्रा] दारुणः स्मृतः || शत्रोः प्रतिकृतिं कृत्वा विण्मूत्रेणाग्रधर्मिणा | कण्टकांग्नौ जुहेत् क्रुद्धो ध्रुवं बुद्धोऽपि नश्यति || इत्याह च | शत्रोः प्रतिकृतिं कृत्वा नदीस्रोतोगयोरपि | तिलमात्रमपि सर्वाङ्गं कण्टकैर्विषसम्भवैः || पूरयेच्चोदनपदैर्ध्रुवं [क्: रै] बुद्धोऽपि नश्यति | इत्याह च | राजिका लवणं तैलं विषं धत्तूरकं [क्: धूर्त्तरकं] तथा || मारणं सर्वबुद्धानां इदं श्रेष्ठतमं स्मृतम् | अङ्गारार्द्रगतं वस्त्रं प्रावृत्य क्रोधचेतसा || लिङ्गं पादेन चाक्रम्य राक्षसैर्गुह्यते ध्रुवम् | प्रतिकृतिमस्थिचूर्णेन विषेण रुधिरेण च || कृत्वा तु गृह्यते शीघ्रं वज्रसत्त्वोऽपि दारुणः | लिङ्गराजिकसंयुक्तं विण्मूत्रेणापि पूरितम् || पादाक्रान्तगतं कृत्वा महामेघेन [दाहेन] गृह्यते | इत्याह च | प्द्f ७६, प्. १०३) तत्रेदं सर्वतथागतवज्रमहाक्रोधसमयहृदयम् | || नमः समन्तकायवाक्चित्तवज्राणाम् | ओं हूलू हूलू तिष्ठ तिष्ठ बन्ध बन्ध हन हन दह दह गर्ज गर्ज विस्फोटय विस्फोटय सर्वविघ्नविनायकान्महागणपतिजीवितान्तकराय हूं फट् || होमं वाऽप्यथवा ध्यानं कायवाक्चित्तभेदनम् [क्: भिन्दनं] | कर्तव्यं नान्यचित्तेन इदं मारणमुत्तमम् || वज्रसत्त्वं महाक्रूरं विकटोत्कटभीषणम् | कुठारमुद्गरहस्तं ध्यात्वा ध्यानं प्रकल्पयेत् || || तत्रेदं महाक्रूरक्रोधसमयम् || खधातुं परिपूर्णं तु सर्वबुद्धैः प्रभावयेत् | घातितं तेन दुष्टेन [क्: पु] ध्यात्वा म्रियेत तत्क्षणात् || बुद्धैश्च बोधिसत्त्वैश्च परिपूर्णं विभावयेत् | घातितं सर्वदुष्टेन [क्: दुष्टसत्त्वेन] म्रियते वज्रधरः स्वयम् || चिन्तयेत्पुरतो मन्त्री रिपुं बुद्धापकारिणम् | भीतं भयाकुलं चिन्तेत् म्रियते नात्र संशयः || राक्षसैर्विविधैः क्रूरैः प्रचण्डैः क्रोधदारुणैः | त्रासितं भावयेत् तेन [ख्, ग्: तान्] म्रियते वज्रधरः स्वयम् || उलूकैः काकगृध्रैश्च शृगालैर्दीर्घतुण्डलैः | भक्षितं भावयंस्तेन [क्: ये त्तैस्तु] ध्रुवं बुद्धोऽपि नश्यति || कृष्णसर्पं महाक्रूरं भयस्यापि भयप्रदम् | प्द्f ७७, प्. १०४) ध्यात्वा विषाग्रसमयं ललाटे तं [क्, ग्: टेढं] विशिष्यते | भक्षितं तेन सर्पेण ध्रुवं बुद्धोऽपि नश्यति || दशदिक्सर्वसत्त्वानामीतेश्चोपद्रवस्य [ग्: मीनै] वा | निपातनं [ग्: अद्द्स् भयं बेfओरे] रिपवे श्रेष्ठमिदं [ग्: ओमित्स्] चोदनमुत्तमम् || मुद्गरेण प्रचण्डेन उरसि ताडयेत् व्रती | नश्यति जीवितात् शक्रः वज्रधर्मवचो यथा || स्फालनं कुट्टनं चिन्तेत् कुठाराद्याद्धि वज्रिणः | म्रियते त्रिकायवरदो वज्रसत्त्वोऽपि दारुणः || रक्षाद्यानि [क्: द्यादीनि] तु मन्त्राणि देवतानि च [क्; तादीनि] कीलयेत् | एषो हि मारणाग्राग्रः समयो दुरतिक्रमः || स्कन्धवज्रेण यावन्तः सत्त्वास्तिष्ठन्ति मण्डले | द्योतनात्मगतां [क्: घा] चिन्तेदेवं तुष्यन्ति नान्यथा || बुद्धो वज्रधरः शास्ता वज्रधर्मोऽपि चक्रिणः [क्: वा यदि] | म्रियते व्याडयोगेन [क्, ख्: ध्यान] चित्तवज्रवचो [क्: धरो] यथा || इत्याह भगवान् महाक्रूरसमयवज्रक्रोधः [ख्: ओमित्स्] | अथ वज्रधरो राजा सर्वाकाशो [ग्: कार] महामुनिः || सर्वाभिषेकसंबुद्धो ज्ञानवज्रमुदीरयत् | अहो स्वभावसंशुद्धं वज्रयानमनुत्तमम् || अनुत्पन्नेषु धर्मेषु उत्पत्तिः कथिता जिनैः | तत्रेदं क्षुद्रकर्मरहस्यम् [क्; अद्द्स् वज्र बेfओरे] | प्द्f ७७, प्. १०५) खटिकाङ्गारेण लिखेत् सर्पः [ख्: सर्व] विकृतं तु भयप्रदम् | कृष्णज्वालाकुलं क्रुद्धं द्विजिह्वं दंष्ट्रमालिनम् || तत्रेदं क्रूरनागचोदनहृदयम् | || खं || वक्तमध्यगतं [क्: चक्र] चिन्तेत् विषं हालाहलप्रभम् | तत्रेदं सर्वविषाकर्षणहृदयम् | || ह्रीः || त्रैधातुकस्थितं सर्वं विषं विविधसम्भवम् | हृतं तु भावयेत्तेन पतमानं विचिन्तयेत् || स भवेत्तत्क्षणादेव विषोदधिसुदारुणः | स्पृष्टमात्रे जगत्सर्वं नाशयेन्नात्र संशयः || इत्याह च | मण्डूकवृश्चिकादीनि सर्पाणि विविधानि च | कर्तव्यानि विधानेन यागोत्पत्तिकलक्षणैः [ख्: पक्षिक] || तत्रेदं सर्वविषमहासंक्रमणहृदयम् | || ओं || दुष्टवज्रविषादीनि ये चान्ये विषदारुणाः | आकृष्य [ग्: ष्यन्ति] ज्ञानचक्रेण [क्: वज्रेण] प्रेरणं खवज्रमण्डले || इत्याह भगवान्महाविषसमयवज्रः | तत्रेदं विषचिकित्सनवज्रहृदयम् [ग्: अद्द्स् ममय ; क्: त्मा नाम] || || हूं || प्द्f ७८, प्. १०६) हृदये तं महावज्रं सितवर्णं विचिन्तयेत् | रश्मिमेघं महादीप्तं चन्द्रांशुमिव निर्मलम् [ख्: शीतलम्] || चतुःस्थानप्रयोगेण संहरन् तत्र तिष्ठते [ख्: संहरन् तिष्ठति क्षणात्] | द्वित्रिवारान् प्रभावित्वा छेदयन्तं विचिन्तयेत् | खधातुं विषसम्पूर्णं [क्, ख्: मपि] निर्विषं कुरुते क्षणात् || इत्याह च || तत्रेदं सर्वविषाकर्षणहृदयम् | || आः || गण्डपिटकलूताश्च [क्: कैर्नृणां] ये चान्ये व्याधयः स्मृताः | नश्यन्ति [क्: भविष्य] ध्यानमात्रेण वज्रपाणिवचो यथा || अष्टपत्रं महापद्मं शशाङ्कमिव निर्मलम् | तत्र मध्यगतं चिन्तेत्पञ्चरश्मिप्रपूरितम् || संहरेत्कृष्णसमयं [ख्: संहारकं] चोदने [क्: नैः; ग्: रे] सितसन्निभम् | इदं ध्यानपदं गुह्यं रहस्यं ज्ञाननिर्मलम् || इति || तत्रेमानि बाह्याध्यात्मिकव्याधिचिकित्सावज्रहृदयमन्त्राक्षरपदानि | || जिनजिक् | आरोलिक् | वज्रधृक् || यदेवाक्षरपदमिष्टं भवेद्भक्तिगुणावहम् || भावयेत् तादृशं व्याधिं विश्ववज्रप्रचोदनैः [क्, ख्: बिम्बं] | वानराकारसमयमथवा श्वानसम्भवम् || स्वकायवाक्चित्तपदे [क्: देन] निश्चरन्तं [क्: लन्ति] विचिन्तयेत् | चक्रं वाऽप्यथवा वज्रं ध्यात्वा वज्रपदे स्थितः || प्द्f ७८, प्. १०७) कायवाक्चित्तसमयं चूर्णितं [क्: वर्णितं] तेन भावयेत् | ततः प्रभृति संबुद्धा बोधिसत्त्वा महायशाः || अधिष्ठानपदं रम्यं ददन्ति हृष्टचक्षुषः | इत्याह च || स्वकायचित्तवज्रेषु बुद्धमेघान् विचिन्तयेत् | वज्ररागमहामेघं [क्: जं] भावयेद्व्याधिमोक्षणम् || इति || दशदिक्सर्वबुद्धानां वज्रसत्त्वसुधीमताम् [क्: सत्त्वा धीमताः] | क्रुद्धो [ख्: द्वान्] भावयतस्तस्य [म्स्स्. भावयेत्तस्य] मारणं पारमार्थिकम् || अनेन ध्यानमात्रेण [क्, ख्: मार्गेण] कर्मजं वापि यत् स्मृतम् | शताष्टजपयोगेन सप्तदिनैर्विनश्यति [क्, ग्: दिनैः सप्तैः] || अथवा स्वमन्त्रराजेन वज्रध्यानविधिः स्मृतः | एषो हि सर्वव्याधीनां समयो दुरतिक्रमः || अथ वज्रधरो राज ज्ञानाङ्कुशमहाद्युतिः | काममोक्षमहावज्र इदं वचनमब्रवीत् || स्वप्नोपमेषु धर्मेषु अनुत्पादस्वभाविषु | स्वभावशुद्धतत्त्वेषु भ्रान्तिवज्रः प्रगीयते || पश्यन्ति साधका नित्यं जपध्यानार्थतत्पराः | बुद्धांश्च बोधिसत्त्वांश्च द्विधाभेदेन दर्शनम् || || तत्रेदं महास्वप्नसमयपदम् | बोधिज्ञानाग्रसंप्राप्तं [क्: प्रज्ञा] पश्यति ज्ञानसुप्रभम् [ग्: बुद्ध] | बुद्धसम्भोगकायं वा [क्: कार्यं च] आत्मानं लघु पश्यति || प्द्f ७९, प्. १०८) त्रैधातुकमहासत्त्वैः पूज्यमानं च पश्यति | बुद्धैश्च बोधिसत्त्वैश्च पञ्चकामगुणैरपि [क्, ग्: र्ध्रुवम्] | पूजितं पश्यते बिम्बं [ग्: विश्वं] महाज्ञानसमप्रभम् || वज्रसत्त्वं महाबिम्बं वज्रधर्मं महाशयम् [क्: यश] | स्वबिम्बं पश्यते स्वप्ने गुह्यवज्रमहायशाः || प्रणमन्ति महाबुद्धा बोधिसत्त्वाश्च वज्रिणः [क्: चक्रि] | द्रक्ष्यते ईदृशं स्वप्नं कायवाक्चित्तसिद्धिदम् || सर्वालङ्कारसंपूर्णां सुरकन्यां मनोरमाम् | दारकं दारिकां पश्यन् स सिद्धिमधिगच्छति || दशदिक्सर्वबुद्धानां क्षेत्रस्थं पश्यति ध्रुवम् | ददन्ति हृष्टचित्तात्मा धर्मगञ्जं [ख्: राज] मनोरमम् || धर्मचक्रगतं कायं सर्वबुद्धैः परिवृतम् | पश्यते योगसमये ध्यानवज्र प्रतिष्ठितः || आरामोद्यानविविधान् सुरकन्याद्यलङ्कृतान् | पश्यति ध्यानसमये सर्वबुद्धैरधिष्ठितान् || बुद्धैश्च बोधिसत्त्वैश्च अभिषिक्तं [क्: षेकं] स पश्यति | विद्याधरमहाराजैः पूज्यमानं स पश्यति || इत्याह च || विविधान् वज्रसंभूतान् स्वप्नान् पश्यति निर्मलान् | सिध्यतेऽनुत्तरं तस्य कायवाक्चित्तवज्रजम् || चण्डालश्वानयोगादीन् पश्यति यदि वज्रधीः [क्: धृक्] | सिध्यते चित्तनिलयं वज्रसत्त्वस्य [क्, ग्: सत्त्वोऽस्व] धीमतः [क्: वा] || प्द्f ७९, प्. १०९) तत्रेदं स्वप्नविचारणसमयहृदयम् | स्वचित्तं चित्तनिध्यप्तौ सर्वधर्माः प्रतिष्ठिताः | खवज्रस्था ह्यमी धर्मा न धर्मा न च धर्मा || अथ भगवन्तः सर्वतथागता आश्चर्यप्राप्ता अद्भुतप्राप्ताः [क्: ओमित्स्] सर्वतथागतकायवाक्चित्तसंशयच्छेत्तारं [क्: अद्द्स् समय] वज्रसत्त्वं पप्रच्छुः | किमिदं भगवन्- निःस्वभावेषु [क्: ओमित्स्] धर्मेषु धर्मतत्त्वं उदाहृतम् | अहो विस्मयसम्भूतं आकाशाकाशभावनम् || इति || अथ भगवान् कायवाक्चित्तवज्रपाणिस्तथागतः सर्वतथागतानेवमाह | भगवन्तः सर्वतथागता आकाशं न केनचिद्धर्मेण संयुक्तं नाप्यसंयुक्तम् [क्: ओमित्स्] न चाकाशस्यैवं भवति | सर्वगतोऽयं [क्: तथाग] सर्वत्रानुदर्शी च | एवमेव भगवन्तः सर्वतथागताः सर्वधर्माः [ख्: ओमित्स्] स्वप्नाः स्वप्नसमयसंभूताश्चानुगन्तव्याः | तद्यथापि नाम भगवन्तः सर्वतथागता आकाशं अनिरूप्यं अनिदर्शनं अप्रतिपाद्यम् [क्: ओमित्स्; ग्: अप्रतिघं] | एवमेव भगवन्तः सर्वतथागताः सर्वधर्मा अनुगन्तव्याः | तद्यथापि नाम भगवन्तः सर्वतथागताः सर्वधर्मकायवाक्चित्तवज्रपदसमयं [ग्: ओमित्स् fरोम् हेरे तो सर्वतथागताः बेलोw] सर्वत्रानुगतं एकस्वभावं यदुत चित्तस्वभावम् | यश्च कायवाक्चित्तधातुराकाशधातुश्चाद्वयमेतदद्वैधीकारम् | प्द्f ८०, प्. ११०) तद्यथापि नाम भगवन्तः सर्वतथागता आकाशधातुस्थिताः सर्वधर्माः [ख्, ग्: सत्त्वाः] स चाकाशधातुर्न कामधातुस्थितो न रूपधातुस्थितो नारूपधातुस्थितः [ग्: ओमित्स्] | यश्च धर्मधातुस्त्रैधातुके [क्: ओमित्स् धातु] न स्थितः तस्योत्पादो नास्ति यस्योत्पादो नास्ति नासौ केनचित् धर्मेण संभाव्यते | तस्मात्तर्हि भगवन्तः सर्वतथागता निःस्वभावाः सर्वधर्मा इति | तद्यथापि नाम भगवन्तः सर्वतथागता बोधिचित्तं सर्वतथागतज्ञानोत्पादनवज्रपदकरम् | तच्च बोधिचित्तं न कायस्थितं न वाक्स्थितं न चित्तस्थितम् | यश्च धर्मस्त्रैधातुके न स्थितः तस्योत्पादो नास्ति | इदं सर्वतथागतज्ञानोत्पादनवज्रपदम् | न च भगवन्तः सर्वतथागताः स्वप्नस्यैवं भवति अहं त्रैधातुके स्वप्नपदं दर्शयेयम् | न च पुरुषस्यैव भवति अहं स्वप्नं पश्येयमिति | सा च त्रैधातुकक्रिया स्वप्नोपमा स्वप्न सदृशी स्वप्नसम्भूता | एवमेव भगवन्तः सर्वतथागता यावन्तो दशदिक्सर्वलोकधातुषु बुद्धाश्च बोधिसत्त्वाश्च यावन्तः सर्वसत्त्वाः सर्वे ते स्वप्ननैरात्म्यपदेनानुगन्तव्याः | तद्यथापि नाम भगवन्तः सर्वतथागताः चिन्तामणिरत्नं सर्वरत्नप्रधानं सर्वगुणोपेतम् | ये च सत्त्वाः प्रार्थयन्ति सुवर्णं वा रत्नं वा रौप्यं वा तत् सर्वं चिन्तामात्रेणैव [क्, ख्: चिन्तित ; ख्: वं] संपादयन्ति | तच्च रत्नाद्यं न चित्तस्थितं न चिन्तामणिस्थितम् | एवमेव भगवन्तः सर्वतथागताः सर्वधर्मा [ख्, ग्: अद्द् बुद्धधर्मा] अनुगन्तव्याः | प्द्f ८०, प्. १११) अथ [क्: अद्द्स् ते] भगवन्तः सर्वतथागताः प्रहर्षोत्फुल्ललोचनाः सर्वतथागतकायवाक्चित्तवज्रं तथागतमेवमाहुः | आश्चर्यं भगवन् यत्र हि नाम आकाशधातुसमवसरेषु [ग्: ओमित्स् धातु ; क्: रणे] सर्वधर्मेषु [ख्, ग्: अद्द् बुद्धधर्मेषु] बुद्धधर्माः समवसरणं गच्छन्ति | अथ ते सर्वबुद्धबोधिसत्त्वा भगवन्तो वज्रपाणेस्तथागतस्य पादयोः प्रणिपत्यैवमाहुः | यत् भगवता सर्वमन्त्रवज्रसिद्धिसमुच्चयं [ग्: ओमित्स् वज्र] भाषितं तानि च सर्वमन्त्रवज्रसमुच्चयसिद्धीनि कुच स्थितानि [क्: अद्द्स् क्व सम्भूतानि] | अथ वज्रपाणिस्तेषां तथागतानां बोधिसत्त्वानां च साधुकारं दत्वा तान् सर्वतथागतानेवमाह | न च भगवन्तः सर्वतथागताः सर्वमन्त्रसिद्धीनि सर्वमन्त्रकायवाक्चित्तवज्रस्थितानि | तत्कस्य हेतोः [ख्, ग्: ओमित् परमाथतः सिद्धीनामसंभवात्] | परमार्थतः कायवाक्चित्तमन्त्रसिद्धीनामसंभवात् | किन्तु भगवन्तः सर्वतथागताः सर्वमन्त्रसिद्धीनि सर्वबुद्धधर्माणि स्वकायवाक्चित्तवज्रस्थितानि | तच्च कायवाक्चित्तं [क्: अद्द्स् वज्र] न कामधातुस्थितं न रूपधातुस्थितं [ख्: रूप्य] नारूपधातुस्थितम् [ख्: प्य] | न चित्तं कायस्थितं न कायश्चित्तस्थितः न वाक् चित्तस्थिता न चित्तं वाक्स्थितम् | तत् कस्य हेतोः (?) आकाशवत् स्वभावशुद्धत्वात् | अथ ते सर्वतथागताः सर्वतथागतकायवाक्चित्तवज्रं तथागतमेवमाहुः | सर्वतथागतधर्मा भगवन् कुत्र स्थिताः क्व वा संभूताः | वज्रसत्त्व आह | स्वकायवाक्चित्तसंस्थिताः प्द्f ८१, प्. ११२) स्वकायवाक्चित्तसंभूताः | भगवन्तः सर्वतथागता आहुः |स्वकायवाक्चित्तवज्रं कुत्र स्थितम् (?) आकाशस्थितम् [क्: ओमित्स्] | आकाशं कुत्र स्थितम् (?) न क्वचित् | अथ ते सर्वबुद्धबोधिसत्त्वा आश्चर्यप्राप्ता अद्भूतप्राप्ताः स्वचित्तधर्मताविहारं ध्यायंस्तूष्णींस्थिता [ग्: व्यापन्नं] अभूवन्निति | इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे सर्वचित्तसमयसारवज्रसम्भूतिर्नामपटलः पञ्चदशोऽध्यायः | प्द्f ८१, प्. ११३) षोडशः पटलः | अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य भगवन्तं सर्वतथागतकायवाक्चित्तवज्रं तथागतं सर्वतथागतकायवाक्चित्तवज्रपदैरध्येष्य सर्वतथागतरत्नवज्रपूजाव्यूहैः पूजयामासुः | अथ भगवान् वज्रपाणिस्तथागतः सर्ववज्रमण्डलसिद्धिसमयराजव्यूहं [क्: सिंह; ख्: सिध] नाम समाधिं समापद्येदं वज्रकायमण्डलं सर्वबुद्धानां [ग्: तथागतानां] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास [क्: उदाजहार] | अथातः संप्रवक्ष्यामि कायमण्डलमुत्तमम् | चित्तवज्रप्रतीकाशं सर्वमण्डलमुत्तमम् [ग्: त्त्व] || षोडशहस्तं प्रकुर्वीत चतुरस्रं सुशोभनम् | मण्डलं सर्वबुद्धानां कायवज्रप्रतिष्ठितम् || तस्याभ्यन्तरतश्चक्रं [क्: रं चक्रं] आलिखेद्विधिवज्रया [ख्, ग्: धिना] | मुद्रावज्रपदं कुर्यान्मन्त्राणां गुह्यमुत्तमम् || मध्ये वैरोचनपदं अक्षोभ्यादीन् समालिखेत् | कायवाक्चित्तवज्राग्रीन् [क्: वज्रश्री] सर्वकोणे [क्: णेषु] निवेशयेत् || क्रोधान् समालिखेत् द्वारि महाबलपराक्रमान् | पूजां कुर्वीत मन्त्रज्ञो गुह्यवज्रप्रभाविताम् || एषो हि सर्वक्रोधानां [क्: चक्राणां] समयो दुरतिक्रमः | अवश्यमेव दातव्यं विण्मूत्राद्यं विशेषतः || प्द्f ८२, प्. ११४) एषो हि सर्वमन्त्राणां [क्: धर्माणां] समयः कायवज्रिणाम् | || सर्वतथागतकायमण्डलम् || अथ भगवान् वज्रपाणिस्तथागतः सर्ववाग्वज्रसमयमेघव्यूहं नाम समाधिं समापद्येदं वाग्वज्रमण्डलं स्वकायवाक्चित्तवज्रेभ्य उदाजहार | अथातः संप्रवक्ष्यामि वाङ्मण्डलमुत्तमम् | चित्तवज्रप्रतीकाशं सर्वमण्डलमुत्तमम् || विंशतिहस्तं प्रकुर्वीत चतुरस्रं विधानतः | चतुष्कोणं चतुर्द्वारं सूत्रयेत् वज्रभावनैः || स्ववाङ्मण्डलपदं [ख्, ग्: काय] वाक्यवज्रगुणावहम् | वज्रधर्ममहाराजं विद्वेषमवतारयेत् || तस्य मध्ये महाचक्रमालिखेत्परिमण्डलम् | सर्वमुद्रां समासेन आलिखेद्विधितत्परः || अमितायुर्महामुद्रां तस्य मध्ये निवेशयेत् | तदेव वज्रपदं रम्यं सर्वेषां परिकल्पयेत् || परिस्फुटं विधानेन कृत्वा मण्डलमुत्तमम् | गुह्यपूजां ततः कुर्यादेवं [ख्: कृत्वा एवं] तुष्यन्ति वज्रिणः || विण्मूत्रशुक्रसमयैः पूज्य सिद्धिरवाप्यते | एषो हि सर्वबुद्धानां समयो दुरतिक्रमः || || सर्वतथागतवाङ्मण्डलम् || अथ भगवान् वज्रपाणिस्तथागतः समन्तमेघव्यूहं [ख्: स्व] नाम समाधिं समापद्येदं परमगुह्यमण्डलरहस्यं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | प्द्f ८२, प्. ११५) यस्य वज्रधराग्रस्य मध्ये बिम्बं समालिखेत् | भवेन्मण्डलपदं [क्, ख्, ग्: भव] तस्य कायवाक्चित्तगुह्यजम् || इति सर्वतथागतकायवाक्चित्तवज्रज्ञानरहस्योऽयं [ख्, ग्, द्: स्याद् गुह्यसमाजे] परमगुह्यः | अथ भगवान् वज्रपाणिस्तथागतः सर्वमण्डलचक्रसम्भवं नाम समाधिं समापद्येदं सर्वमण्डलकायवाक्चित्तगुह्यजं स्वकायवाक्चित्तवज्रेभ्य उदाजहार | ततो मण्डलमन्त्रः || मन्त्राक्षरहृदयसूत्राक्षरपदानि [ग्: ओमित्स् हृदयसूत्राक्षर] || हूं ओं आः || पातनं वज्रसूत्रस्य रजस्यापि निपातनम् | न कार्यं मन्त्रसत्त्वेन कारयन् बोधिदुर्लभः || तस्मात् समयविधानज्ञोऽवतार्य [क्, ग्: वसार्यं] मन्त्रदेवतान् [ख्: समयदेव; ग्: समतेव] | अधिष्ठानपदं ध्यात्वा मण्डलानां विकल्पनम् || वैरोचनमहाराजं लोचनां चावतारयेत् | कायमण्डलपदं रम्यं कायवज्रगुणावहम् || वज्रधर्ममहाराजं सधर्मं चावतारयेत् | इदं तत् सर्वमन्त्राणां [ग्: बुद्धानां] रहस्यं परमशाश्वतम् [ग्: माद्भुतम्] || वज्रसत्त्वमहाराजं [ग्: ओमित्स् त्wओ लिनेस्] मामकीं चावतारयेत् | इदं तत् सर्वमन्त्राणां [ख्: बुद्धानां] रहस्यं परमाद्भुतम् || एवं कृतेन सान्निध्यं स्वयमेव मनीषिणः | आगत्य गुह्यपरमं लिखन्ति हरिषान्विताः [क्, द्: हर्षा] || इत्याह च | प्द्f ८३, प्. ११६) कर्तव्यं मन्त्रमिद्धे च [क्, ग्, द्: सिद्धेन] वज्रगुह्यं महाद्भुतम् | आकृष्य क्रोधराजेन सर्वबुद्धांस्तु पूजयेत् || त्रिकालसमये [ख्: काय; द्: ष्काल] पूजा त्रिवज्रामलवज्रिणः | कर्तव्यं त्रिवज्रयोगेन मन्त्रसिद्धिप्रवर्तनम् || इति || इत्याह च || सर्वेषामेव मन्त्राणां बलिं दद्यान्महाद्भुतम् | विण्मूत्रमांसतैलं च पञ्चमं चित्तसम्भवम् || शुक्रेण सर्वमन्त्राणां प्राणनं [ग्: शन; क्: गेन] समुदाहृतम् | एषो हि समयश्रेष्ठो बुद्धबोधिप्रपूरकः || सूत्रस्य पातनमिदं स्वयमेव समाचरेत् | वैरोचनं प्रभावित्वा वज्रसत्त्वं विभावयेत् || अथवाऽमृतवज्राख्यं शिष्यं [ग्: लिख्यं] वज्रमहाद्युतिम् | विभावयेत् कर्मपदं सर्वबुद्धनिषेवितम् || पञ्चबुद्धमहाराजं सूत्रं वज्रगतं न्यसेत् | एषो हि सर्वबुद्धानां रहस्यं परमाद्भुतम् || पञ्चविंशतिभेदेन रजस्यापि [रह] निपातनम् | इदं तत् सर्ववज्राणां रहस्यं बोधिमुत्तमम् || सर्वेषामेव मन्त्राणां वज्रहूंकारभावना | कायवाक्चित्तसमयं [क्: अद्द्स् दिव्यं] पञ्चस्थानेषु भावयेत् || एवं कृतेन सान्निध्यं त्रिवज्राभेद्यवज्रजाः | कुर्वन्ति भयसंत्रस्ता वज्रसत्त्वस्य धीमतः || प्द्f ८३, प्. ११७) न्यासं कलशवज्राणां मन्त्रतन्त्रान्वितैः [ग्: तत्त्वा] स्मृतम् | वज्रसत्त्वं समाधिस्थं कल्पयेत् दृढबुद्धिमान् || होमं कुर्वीत मन्त्रज्ञः सर्वसिद्धिफलार्थिनः | विण्मूत्रमांसतैलाद्यैराहुतिं प्रतिपादयेत् || पूर्णां वज्राहुतिं दद्यात् त्रिवज्राद्यं समाचरेत् | शुक्रं वा अथवा विष्ठामभिमन्त्र्य विधानतः [ग्: भावतः] | भक्षयेद्वज्रयोगेन एवं सिद्धिर्न दुर्लभा || कृत्वा वज्रमहागुह्यं [क्, ग्, द्: यत्र] रहस्यं सर्ववज्रिणाम् || स्त्रीरूपमन्त्रचक्रेण स्थिताः सत्त्वार्थचर्यया | || तत्रेदं सर्ववज्रमण्डलमन्त्राराधनरहस्यम् || हस्तिमांसं हयमांसं [ंस्स् अद्द् श्वानमांसं] महामांसं च भक्षयेत् | दद्याद्वै सर्वमन्त्राणामेवं तुष्यन्ति नायकाः || प्रत्यहं वज्रशिष्यस्य दर्शयेत् मण्डलं बुधः | विण्मूत्रमांसकृत्येन वज्रगुह्यपदेन च | ओंकारं सर्वमन्त्राणां ध्यात्वा ज्वलति तत्क्षणात् || इत्याह च भगवान् महामन्त्रवज्रविद्यापुरुषवज्रः | साधनं सर्वसिद्धीनां महासमयसाधनम् | साधनीयं प्रयत्नेन बुद्धबोधिमपि स्वयम् || अन्तर्द्धानं बलं वीर्यं वज्राकर्षणमुत्तमम् | सिध्यते मण्डले सर्वं कायवज्रवचो यथा || विण्मूत्रं च [ग्: विष्ठामूत्रं] महामांसं समभागं तु कारयेत् | प्द्f ८४, प्. ११८) शरावसंपुटे स्थाप्य बुद्धैः सह च संवसेत् || इत्याह च तत्रेदं सर्वगुह्यवज्रकिङ्करमहासाधनपदं वरम् | खवज्रमध्यगतं चिन्तेत् ह्रीःकारं [ख्, ह्री; ग्; ह्रीं] ज्वालसुप्रभम् | खधातुं सर्वबुद्धैस्तु परिपूर्णं विभावयेत् | कायवाक्चित्तपदं तेषां [द्: ततो] तत्र [ग्: तन्त्र] मन्त्रे निपातयेत् || तत्रेदं कायवाक्चित्तमन्त्रवज्राधिष्ठानपदम् | || आः खं वीः [ख्: आं खं वीं; ग्; (१) वीं; (२) वी] || वज्रपाणिमहाबिम्बं पद्मपाणिमहाद्युतिम् | अपराजितमहाबिम्बं ध्यात्वा गुह्यपदं न्यसेत् || तत्रेदं वज्रगुह्यपदम् | सूर्यमण्डलमध्यस्थमक्षोभ्यं वा प्रकल्पयेत् | अमितायुर्महाबिम्बं वज्रवैरोचनं तथा | चोदयेद् हृदये सर्वान् तीव्रदुःखमहाद्युतीन् || तत्रेदं सर्ववज्रहृदयवज्रसंचोदनम् | || आं || महाशूलैर्महावज्रैरङ्कुशैर्विविधैर्बलैः [क्: सुरैः ; क्; रैः] | चोदयेद्विधिवद्वज्रं बुद्धबोधिः प्रसिध्यति | इत्याह च || पर्वतेषु च रम्येषु द्वीपेषु विविधेषु च | पक्षाभ्यन्तरपूर्णेन ध्रुवं बुद्धत्वमाप्नुयात् [ग्: सिद्धिम्वा] || षट्त्रिंशत्सुमेरूणां यावन्तः परमाणवः | परिवारगणास्तस्य सिध्यन्ते बोधिवज्रिणः || प्द्f ८४, प्. ११९) दशदिक्सर्वबुद्धानां बुद्धक्षेत्राणि कारयेत् [ख्: काम; क्, द्: क्राम] | मध्ये स्वदेवताबिम्बं [ख्, ग्: ऽस्य] ध्यात्वा वज्रेण [क्, द्; वक्षे नि] पातयेत् || इत्याह च | द्वयेन्द्रियप्रयोगेण जुहुयादयुतं बुधः | एषो हि सर्वबुद्धानां समयो दुरतिक्रमः || वैरोचनप्रयोगेण शिष्यं त्रिवज्रसम्भवम् | आःकारं कायवाक्चित्ते ध्यात्वा वज्रेण गृह्यते || वज्रसत्त्वो महाराजो वैरोचनो महायशाः | कायवाक्चित्तसमयमधिष्ठानम् ददाति हि || तत्रेदं महामण्डलप्रवेशनवज्रपदम् | || आः खं वीर हूं || सर्वसमयकायवाक्चित्तहृदयमन्त्रवज्रोऽयम् [ख्, ग्: अद्द् इति सर्वतथागतकायवाक्चित्तवज्रगुह्याद् गुह्यसमाजे बेfओरे सर्व ; द्; जापं] | तत्रेदं महावज्राभिषेकगुह्यज्ञानरहस्यकम् | खधातुं सर्वबुद्धैस्तु परिपूर्णं विभावयेत् | वाद्यगन्धमहामेघैर्भावयेद्वज्रश्रोत्रधीः [क्, द्: हवे इन्स्तेअद् वाद्यगन्धादिसमयैर्मेघौघान् भावयेद्बुधः] || इत्याह च | त्रिवज्रकायमन्त्रैस्तु [ग्: त्रिकायवज्रमेघैस्तु; ख्: मन्त्रैस्तु] सर्षपैस्ताडयेत् [ग्, द्: स्तोत्रयेत्] व्रती | अभिषेकं तदा तस्य स्वयमेव ददन्ति हि || अथवा भावयेत् बुद्धान् वज्रसत्त्वसमाधिना | कलशान् समयाग्रैस्तु धारितान् [ख्: वाचितान्; ग्: भाषितान्] भावयेत् बुधः [ग्; व्रती] || प्द्f ८५, प्. १२०) वज्रवैरोचनं चिन्तेत् शिष्यो दृढमतिस्तदा [क्, द्: तिं सदा] | न्यासं कुर्वीत मन्त्रज्ञः कायवाक्चित्तवज्रिणः || तत्रेदं सर्वाभिषेकरहस्यं सर्वाचार्यवाग्वज्रोदीरणम् | अभिषेकं महावज्रं त्रैधातुकनमस्कृतम् | ददामि सर्वबुद्धानां त्रिगुह्यालयसंभवम् [ग्; गुह्यं वज्र; द्: गुह्यवज्र] || तत्रेदं सर्वाभिषेकमहावज्रप्रार्थनाविधिरहस्यम् [क्: सर्वशिष्य] | बोधिवज्रेण बुद्धानां यथा दत्तो महामहः | ममापि त्राणनार्थाय खवज्राद्यं ददाहि मे || अभिषेकं तदा तस्य दद्यात् प्रहृष्टचेतसः | देवताबिम्बयोगेन हृदयेऽधिपतिं न्यसेत् || मन्त्राक्षरपदं दत्त्वा समयं च विधानतः | दर्शयेत् मण्डलं तस्य वज्रशिष्यस्य धीमतः | समयं श्रावयेत् गुह्यं सर्वबुद्धैरुदाहृतम् || प्राणिनश्च त्वया घात्या वक्तव्यं च मृसा वचः | अदत्तं च त्वया ग्राह्यं सेवनं योषितामपि [ग्: येत् योषिता अपि] || अनेन वज्रमार्गेण वज्रसत्त्वान्प्रचोदयेत् | एषो हि सर्वबुद्धानां समयः परमशाश्वतः || इत्याह च || मन्त्रं दद्यात् तदा तस्य मन्त्रचोदनभाषितैः | समाधिं मन्त्रराजस्य दत्वा गुह्यं समारभेत् [आfतेर् थिस् ख्, ग्: रेपेअत् अ लोन्ग् पोर्तिओन् fरोम् शुक्रं वा अथवा विष्ठां एत्च्. (प्. ११७) तो बुद्धक्षेत्राणि कारयेत् (प्. ११९)] || प्द्f ८५, प्. १२१) धर्मं शृणोति गाम्भीर्यं बुद्धभूमिं [ख्: बोधिं] च प्राप्नुयात् | इत्याह च भगवान् महासमयवज्रहासः [द्: हारः] | तत्रेदं सर्वकिङ्करगुह्यवज्ररहस्यम् [ग्: सत्त्व] | वज्रसत्त्वमहाज्ञानं वाक्यवज्रधरं तथा | कायवज्रमहान्यासैः [द्: मासैः] किङ्करं चोदयेत्सदा || तत्रेदं वज्रज्ञानचक्रं [ख्, ग्: अद्द् वज्रमन्त्र] चतुःसमयपदम् | समयचोदनं समयप्रेरणं समयमन्त्रणं समयबन्धनं चेति | खधातुंन् विमलं शुद्धं सर्वधर्मविवर्जितम् | कुर्वन्ति पिण्डरूपेण त्रिवज्राद्भुतरूपिणः || इत्याह भगवान् सर्वबुद्धैकपुत्रो महावज्रधरः [ख्, ग्: वज्रमहासत्त्वः] | बुद्धं वा वज्रसत्त्वं वा यदीच्छेत् वशमानितुम् | चिन्तयेदिदं महागुह्यं त्रिवज्राग्रधरं महत् || खवज्रमध्यगतं चिन्तेत् मञ्जुवज्रं [ख्, ग्: महावज्र] महाबलम् | पंचबाणप्रयोगेण मुकुटाग्रं [ख्: रोमकूपाग्रे] तु संस्मरेत् || पञ्चस्थानेषु मन्त्रज्ञः क्रूरवज्रेण पातयेत् [ख्: वा] | मूर्च्छितं [ग्; तान्] भावयेत् त्रस्तं [ग्: स्तान्] बालबुद्धिं [ग्: हीन्] महायशाः || पक्षमेकमिदं ध्यानं कर्तव्यं गुह्यचोदनैः | रहस्यं सर्वमन्त्राणां गीतं वज्रार्थबुद्धिना || खवज्रमध्यगतं चिन्तेत् बुद्धमण्डलमुत्तमम् | हूंकारवज्रमन्त्राद्यैः त्रिवज्रादीन्प्रभावयेत् || प्द्f ८६, प्. १२२) ओंकारं चक्षुर्गतं [क्; चक्र] ध्यात्वा दर्शयेत [क्: येदिदं] विधानतः | पश्येत सर्वमन्त्राणां बिम्बं त्रिकायवज्रिणाम् || क्षुत्तृषाद्यैर्महाक्लेशैरिदं योगं विचिन्तयेत् | नश्यन्ति [क्, ग्; भ्रश्यन्ते] सर्वदुःखानि चित्तवज्रवचोयथा || वैरोचनमहाबिंबं ध्यात्वा सर्वार्थसम्पदम् | वंकारं वक्त्रगतं ध्यात्वा ओंकारं जिह्वाग्रं न्यसेत् || आलयं सर्वभक्ष्याणां चिन्तामणिविभूषितम् | सर्वदुःखहरं शान्तं ज्ञानवज्रप्रभावितम् || इत्याह भगवान् चिन्तामणिवज्रः | अथ भगवान् वज्रपाणिस्तथागतः [ख्, ग्: अद्द् वज्र] महावीरवज्रतथागतं वज्रभावनावज्रपदाग्रं वाग्वज्रेभ्यो निश्चारयामास [क्: लयेत्; ग्, द्: रयत् ओर् रयेत्] | || वीः || खवज्रमध्यगतंचिन्तेत् बुद्धमण्डलसुप्रभम् | त्रिवज्रकाययोगेन निष्पाद्येदं विचिन्तयेत् || सर्वालङ्कारसंपूर्णं पीतं वज्रविजृम्भितम् | जटामुकुटधरं शान्तं ध्यात्वा सर्वं समारभेत् | || वीरवज्रोर्मिमाला नाम समाधिः || अथ भगवान् वज्रधरः समन्तनिर्घोषवज्रं नाम समाधिं समापद्येदं महावज्रभावनापदं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | प्द्f ८६, प्. १२३) || चुं [क्: ओमित्स्, ख्, ग्: वूं] || खवज्रमध्यगतं चिन्तेत् सूर्यमण्डलमुत्तमम् | बुद्धमेघान् विधानेन त्रिवज्रात्मा महायशाः || पातनं कायवाक्चित्ते चुन्दवज्रीं [क्: चन्द्र; ख्, ग्: वून्द] विभावयेत् | सर्वालङ्कारसम्पूर्णां सितवर्णां विभावयेत् || वज्रसत्त्वमहाराजं ध्यात्वा मन्त्रपदं न्यसेत् | || वज्ररश्मिज्ञानसमयं [क्, ग्, द्: वज्रसमयज्ञानरश्मिमाला] नाम समाधिः || अथ भगवान् वज्रपाणिस्तथागतः सर्वाशावज्रसम्भोगं नाम समाधिं समापद्येदं समाधिवज्रनयं [ख्, ग्: चक्र] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || || ज || खवज्रमध्यगतं चिन्तेत् बुद्धमण्डलमुत्तमम् | सर्वबुद्धान् विधानेन पातयेत् वज्रभावनैः || निष्पादयेत् महायक्षं जम्भलं द्रव्यसाधकम्| यक्षरूपधरं शान्तं जटामुकुटवज्रिणम् || पञ्चबुद्धान् विधानेन पञ्चस्थानेषु भावयेत् | वज्रामृतोदकं तस्य दद्यात् ध्यानपदे स्थितः || वज्रसत्त्वं विधानेन मुकुटे तस्य चिन्तयेत् | एवं तुष्यति यक्षेन्द्रो जम्भलेन्द्रो महाद्युतिः || || वज्रसमयद्रव्याराधनकेतुश्रीर्नाम समाधिः || अथ भगवान् वज्रपाणिस्तथागतो वज्रकामोपभोगश्रियं नाम प्द्f ८७, प्. १२४) समाधिं समापद्येदं सर्वयक्षिणीसमयवज्रपदं स्वकायवाक् चित्तवज्रेभ्यो निश्चारयामास || || क्षिं [ग्: क्षं] || खवज्रधातुमध्यस्थं चतुरस्रं सुशोभनम् | चतूरत्नमयं सर्वं पुष्पगन्धसमाकुलम् || खधातुं सर्वयक्षिण्यैः परिपूर्णं विचिन्तयेत् [ख्, ग्: अद्द् पातयेत् त्रिवज्रयोगेन बिम्बमेकं विचिन्तयेत् | त्रिकर्मवज्रयोगेन ध्यानं तस्य विचिन्तयेत् | मञ्जुवज्रः समाधिस्थो मुकुटे क्रोधं प्रभावयेत् |] | हृदयमन्त्रपदं ध्यात्वा वज्रयोगं समारभेत् || || सर्वयक्षिणीसमताविहारभावनवज्रो नाम समाधिः || अथ भगवान् वज्रपाणिस्तथागतः सर्वबुद्धमन्त्रसिद्धिविजृम्भितवज्रं [ख्, ग्: वज्र] नाम समाधिं समापद्येमां हीनसिद्धिं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | कायवाक्चित्तसंसिद्धा [ग्; शुद्धो; ख्: शुद्धा] बुद्धरूपधरप्रभाः | जाम्बूनदप्रभाकारा हीनसिद्धिसमाश्रिताः || अन्तर्द्धानादिसंसिद्धौ भवेत् वज्रधरः प्रभुः | यक्षराजादिसंसिद्धौ भवेत् विद्याधरः प्रभुः [ग्: ओमित्स् थिस् लिने] || तत्रेमानि सर्ववज्रसिद्धिरूपगुह्यमन्त्रसिद्धीनि | सर्वाणि चारुरूपाणि मन्त्रसिद्धिमनीषितैः | प्रीणयन्ति दर्शनेन लोकधातुं समन्ततः || उष्णीषः सर्वसिद्धीनां भवेत् चिन्तामणिप्रभुः | बुद्धबोधिकरं श्रेष्ठं बुद्धवज्रप्रभावितम् || इत्याह भगवान् सर्वाशापरिपूरकवज्रः | प्द्f ८७, प्. १२५) अथ भगवान् वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागतकायवाक्चित्तवज्रविद्याव्रतसमादानचर्यं स्वकायवाक्चित्तवज्रभ्यो निश्चारयामास | कायवाक्चित्तवज्राणां [क्: ओमित्स्] कायवाक्चितभावनम् | स्वरूपेणैव तत् कार्यमेवं [ग्; र्येणैव] सिद्धिरवाप्यते | तत्रेदं स्वकायवाक्चित्तविद्याव्रतम् | जटामुकुटधरं बिम्बं सितवर्णनिभं महत् | कारयेत् विधिवत् सर्वं मन्त्रसंवरसंवृतम् || षोडशाब्दिकां गृह्य सर्वालङ्कारभूषिताम् | चारुवक्त्रां विशालाक्षीं प्राप्य विद्याव्रतं चरेत् | लोचनापदसम्भोगौ [ख्, ग्: गैः] वज्रचिह्नं तु [ख्, ग्: चिन्हैस्तु] भावयेत् || मुद्रामन्त्रविधानज्ञो मन्त्रतन्त्रसुशिक्षिताम् | कारयेत् ताथागतीं भार्यां बुद्धबोधिप्रतिष्ठिताम् || गुह्यपूजां प्रकुर्वीत चतुःसन्ध्यं महाव्रती | कन्दमूलफलैः सर्वं भोज्यं भक्ष्यं समाचरेत् || एवं बुद्धो भवेत् शीघ्रं महाज्ञानोदधिः प्रभुः | षण्मासेनैव तत्सर्वं प्राप्नुयात् नात्र संशयः || इति || परस्वहरणं नित्यं घातनं च महाद्भुतम् | रागवज्रपदं गुप्तं [ख्, ग्, द्: भुंक्त] इदं संवरसंवृतम् || रागवज्राङ्कुशीं भार्यां [ग्: कार्यां] मामकीं गुणमेखलाम्| वाग्वज्राग्रचित्तेभ्य इदं पूजयति सर्वथा || स्वमुद्रां वाऽथवा चिन्तेत् ध्यानंन् त्र्यक्षरवज्रिणाम् | प्द्f ८८, प्. १२६) पञ्चबुद्धाश्च सर्वज्ञाः [ख्: पञ्चबुद्धाश्च सम्बुद्धाः; ख्, ग्: एवं बुद्धापि] प्रीणन्ते नात्र संशयः || वने [ग्: वनेषु] भिक्षां भ्रमेन्नित्यं साधको दृढनिश्चयः | ददन्ति भयसंत्रस्ता भोजनं दिव्यमण्डितम् | अतिक्रमेत् यदि [ख्, ग्: त्रि] वज्रात्मा नाशं वज्राक्षरं भवेत् || सुरीं नागीं महायक्षीमसुरीं मानुषीमपि | प्राप्य विद्याव्रतं कार्यं त्रिवज्रज्ञानसेवितम् || इदं तत् सर्वमन्त्राणां गुह्यं तत्त्वं महानयम् | त्रिवज्रज्ञानसम्भूतं [ग्; चक्रं] बुद्धबोधिप्रवेशकम् || इत्याह भगवान् सर्वतथागतविद्याव्रतसमयतत्त्वज्रः | इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे सर्वसिद्धिमण्डलवज्राभिसम्बोधिर्नाम पटलः षोडशोऽध्यायः || प्द्f ८८, प्. १२७) सप्तदशः पटलः | अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य भगवन्तं सर्वतथागतकायवाक्चित्तवज्रं तथागतं अनेन स्तोत्रराजेनाध्येषितवन्तः | अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध | त्रिमण्डल त्रिवज्राग्र घोष वज्र [ख्, ग्: गुह्य] नमोऽस्तु ते || वैरोचन महाशुद्ध [ख्: शान्त] वज्रशान्त महारत | प्रकृतिप्रभास्वरान् धर्मान् देश वज्र नमोऽस्तु ते || रत्नराजसुगाम्भीर्य खवज्राकाशनिर्मल | स्वभावशुद्धनिर्लेप कायवज्र नमोऽस्तु ते || वज्रामितमहाराज [ख्: मृत] निर्विकल्पं खवज्रधृक् | रागपारमिताप्राप्त भाष वज्र नमोऽस्तु ते || अमोघवज्र संबुद्ध [ख्, ग्: अमोघसिद्धिवज्र] सर्वाशापरिपूरक | शुद्धस्वभावसंभूत वज्रसत्त्व नमोऽस्तु ते || एभिः स्तोत्रपदैः शान्तैः सर्वबुद्धप्रचोदितैः | संस्तूयाद्वज्रसम्भोगात् [द्: गां] सोऽपि वज्रसमो [ख्: बुद्ध] भवेत् || अथ वज्रधरः शास्ता सर्वबुद्धानुकम्पकः | वज्रगुह्यपदं शुद्धं वाग्वज्रं समुदीरयत् || अहो हि सर्वबुद्धानां धर्मधातु महाक्षरम् | प्रकृतिप्रभास्वरं शुद्धं खधातुमिव निर्मलम् || इति || प्द्f ८९, प्. १२८) अथ वज्रपाणिः सर्वतथागताधिपतिरिदं सर्वबुद्धकायवज्रसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || समयचतुष्टयं रक्ष्यं [ख्: रक्षेद्] बुद्धैर्ज्ञानोदधिप्रभैः | महामांसं सदा भक्ष्यं इदं समयमुत्तमम् || अथ वज्रपाणिः सर्वतथागताधिपतिरिदं सर्वबुद्धवाग्वज्रसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || समयचतुष्टयं रक्ष्यं वाक्यवज्रमहाक्षरैः | विण्मूत्रं च सदा भक्ष्यमिदं गुह्यं महाद्भुतम् || अथ वज्रपाणिः सर्वतथागताधिपतिरिदं वज्रधरचित्तवज्रसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || समयचतुष्टयं रक्ष्यं वज्रसत्त्वैर्महर्द्धिकैः | रुधिरं शुक्रसंयुक्तं सदा भक्ष्यं दृढव्रतैः || कायवाक्चित्तवज्राणां समयोऽयं महाद्भुतः | शाश्वतं सर्वबुद्धानां संरक्ष्यो वज्रधारिभिः [ख्, ग्: चारिणैः] || यश्चेमं [क्: यश्चर्म] समयं रक्षेद्वज्रसत्त्वो महाद्युतिः | कायवाक्चित्तगतं तस्य बुद्धो भवति तत्क्षणात् || अथ वज्रपाणिः सर्वतथागताधिपतिः प्रत्येकबुद्धसमयवज्रं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | देशना कायिकी तेषां कायवज्रप्रतिष्ठिता | सत्त्वावतारणं शीलसमयः परमशाश्वतः || अथ वज्रपाणिः सर्वतथागताधिपतिः श्रावकशिक्षासमयं [ख्: ब्रह्म; ख्: शिञ्च] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | प्द्f ८९, प्. १२९) दशकुशलान् कर्सपथान् कुर्वन्ति ज्ञानवर्जिताः [ख्: वज्रिणः] | हीनाधिमुक्तिकास्मर्वे समयोऽयं महाद्भुतः || अथ वज्रपाणिः सर्वतथागताधिपतिब्रह्मसमयं स्वकायवाक्चित्तेभ्यो निश्चारयामास || मोहमात्रेण यत्कर्म करोति भयभैरवम् | बुद्धबोधिप्रणेतारं भवते [ग्: ने] कायवज्रता [ख्: वर्जिता] || अथ वज्रपाणिः सर्वतथागताधिपतिः रुद्रसमयं स्वकायवाक्चित्तेभ्यो निश्चारयामास || त्रैधातुकस्थितां सर्वामङ्गनां सुरतविह्वलाम् [ख्, ग्: त्रिवज्रसम्भवाम्] | कामयेत् विविधैर्भावैः [ग्: त्रि] समयः परमाद्भुतः || अथ वज्रपाणिं सर्वतथागताधिपतिः विष्णुसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || यावन्तः सत्त्वसम्भूताः [क्: सर्व] त्रिवज्राभेद्यसंस्थिताः [ख्, ग्: काया] | मारयेत् ध्यानवज्रेण वज्रधातुमपि स्वयम् || अथ वज्रपाणिः सर्वतथागताधिपतिः त्रिवज्रसमयं स्वकायवाक्चित्तेभ्यो निश्चारयामास || कायवज्रो भवेत् ब्रह्मा वाग्वज्रस्तु महेश्वरः | चित्तवज्रधरो राजा सैव विष्णुर्महर्धिकः || अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वयक्षयक्षिणीसमयं स्वकायवाक् चित्तवज्रेभ्यो निश्चारयामास || असृक्पिशिताहारा नित्यं कामपराः स्त्रियः | आराधयेत् महावज्रसमयैरेभिर्दरासदैः [क्: रतिदु] || प्द्f ९०, प्. १३०) अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वभुजगेन्द्रराज्ञीसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || पैशुन्यक्षीरिताहाराः [क्: क्षीरा] कामगन्धपराश्च ताः | साधयेत् समयैरेभिरन्यथा क्लिश्यते ध्रुवम् || अथ वज्रपाणिः सर्वतथागताधिपतिरसुरकन्यासमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || क्रूरा मानभराक्रान्ता [ग्: मारसमा; ख्: माररागवरा] गन्धपुष्पोपभोगजाः [ग्: काः] | समयो वज्रपात्रालिः [ख्: पाताले; ग्: योषितां] दुर्दान्ता वज्रभैरवाः [क्: श्चाति] || अथ वज्रपाणिः सर्वतथागताधिपतिः राक्षसस्त्रीसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || कपालास्थिधूपतैलवमया प्रीणनं महत् | समयः सर्वब्भूतानां पवित्रोऽयं [ख्, ग्: वज्र] महार्थकृत् || अथ वज्रपाणिः सर्वतथागताधिपतिः सर्ववज्रडाकिनीसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || विण्मूत्ररुधिरं भक्षेत् [ग्: भक्त्रं] मद्यादींश्च पिबेत् सदा | वज्रडाकिनीयोगेन मारयेत् पदलक्षणैः || स्वभावेनैव संभूता विचरन्ति त्रिधातुके | आचरेत् समयं कृत्स्नं सर्वसत्त्वहितैषिणा [क्: सिद्धि] || || सर्वत्रैधातुकसमयसमवसरणो [ख्, ग्: अद्द् वज्रं] नाम समाधिः || अथ वज्रपाणिः सर्वतथागताधिपतिः कायसिद्धिसमयवज्रं कायवाक्चित्तवज्रेभ्यो निश्चारयामास || प्द्f ९०, प्. १३१) कायिकं त्रिविधं सर्वं कारयेत् वज्रसम्भवम् | बुद्धकार्यकरं नित्यं सत्त्वधातोः समन्ततः || अथ वज्रपाणिः सर्वतथागताध्हिपतिर्वाक्सिद्धिसमयवज्रं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || वाक्यकर्मकृतं [क्, ग्: पदं] कृत्स्नं त्रैलोक्यामलमण्डलम् | वाक्सिद्धिपदरम्योऽयं समयो [क्: योऽपि; द्: योऽयं] दुरतिक्रमः || अथ वज्रपाणिः सर्वतथागताधिपतिः चित्तसिद्धिवज्रसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || मनोवज्रमयं सर्वं भावयेत् दृढवज्रधृक् | एषो हि समयः प्रोक्तः त्रिवज्राभेद्यवज्रिणाम् || इत्याह भगवान् समन्तभद्रो [क्: समन्त्रसुन्दरो] वज्रसत्त्वः | अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वमन्त्रवज्रसारसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || बुद्धांश्च बोधिसत्त्वांश्च प्रत्येकश्रावकांस्तथा [Fओर् थिस् लिने ख्, ग्: रेअद् न बुद्धान् बोधिसत्त्वांश्च प्रत्येकजिनश्रावकान्] | कायवाक्चित्तसंयोगैर्वन्दयन् [ख्, ग्: र्दर्श] नाशमाप्नुयात् || अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागतकायवाक्चित्तवज्रध्यानसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || वज्रसत्त्वस्य सर्वत्र कायवाक्चित्तमण्डले | ध्यानं त्रिवज्रयोगेन ध्यातव्यं मन्त्रजापिना || प्द्f ९१, १३२) अथ [ग्: ओमित्स् fरोम् हेरे तो समयो वज्रसम्भवः बेलोw] वज्रपाणिः सर्वतथागताधिपतिः सर्वमन्त्रवज्रसाधनसमयसम्बरं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || सत्त्वधातुं समासेन ध्यानवज्रेण चोदयेत् | त्रिवज्रवन्दनाग्राग्र्यः समयो वज्रसम्भवः || अथ वज्रपाणिः सर्वतथागताधिपतिः सेवासाधनोपसाधनमहासाधनसमयसम्बरं [क्: सर्व ; ग्; ओमित्स् महासाधन ; ख्, ग्: सम्भवं] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || खधातुं विण्मूत्रवज्रेण [ग्: योगेन] परिपूर्णं विचिन्तयेत् | दद्यात् त्रियध्वबुद्धेभ्यः समयः परमशाश्वतः || अथ वज्रपाणिः सर्वतथागताधिपतिः सर्ववज्रान्तर्धानसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || कामयेत् प्रतिदिनं वज्री [ख्, ग्: मन्त्री] चतुःसन्ध्यं यथोत्तमम् | द्रव्यं चोपहरेत् [ख्: वापि; ग्: चापि] नित्यं समयो वज्रपूरकः || अथ वज्रपाणिः सर्वतथागताधिपतिः खविद्याधरसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || कायवाक्चित्तवज्राणां मुकुटे ध्यानं विचिन्तयेत् | त्रिवज्रसमयैः सर्वैः क्रुद्धैर्जेतुं [ख्, ग्: रैः] न शक्यते || अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वमन्त्रधरादिकर्मिकसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || भजने [क्: भो] कायवज्रस्य बहिर्वज्रधरस्य च | वज्रधर्मैः [ख्: धर्मवज्रं] सदा कार्या [ख्: कार्यं] सूत्रोद्घाटविधिक्रिया || प्द्f ९१, प्. १३३) इत्याह भगवान् स्वभावशुद्धवज्रः | अथ वज्रपाणिः सर्वतथागताधिपतिः सर्ववज्रधरस्वकायवाक्चित्तहृदयवज्रसमतां विचिन्त्य तूष्णीमभूत् || अथ खल्वनभिलाप्यानभिलाप्यबुद्धक्षेत्रसुमेरुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वाः सर्वतथागतान् प्रणिपत्यैवमाहुः | किमयं भगवान् सर्वतथागताधिपतिर्वज्रधरः सर्वतथागतबोधिसत्त्वपर्षन्मण्डलमध्ये तूष्णीम्भावेनाधिवासयति | अथ भगवान् सर्वतथागताधिपतिस्तान् सर्वबोधिसत्त्वानेवमाह | कायवाक्चित्तवज्रानुपलब्धिस्वभावाक्षरपदं कुलपुत्रा अयं सर्वतथागतकायवाच्क्चित्तवज्राधिपतिः निःस्वभावाक्षरपदं विचार्य तूष्णीं [ख्: तूष्णीभावेन] व्यवस्थितः || अस्य च कुलपुत्राः सर्वतथागताधिपतेः चिन्तया एतदभृत् || कायाक्षरमनुत्पन्नं वाक्चित्तपदलक्षणम् | खवज्रंकल्पनाभूतं मिथ्यासंग्रहसंग्रहम् || इति || अथ मञ्जुश्रीप्रमुखा महाबोधिसत्त्वाः तान्सर्वतथागतानेवमाहुः | मा भगवन्तः सर्वतथागता वाग्वज्रपदं मिथ्यासमुदयेन कल्पयथ | तत्कस्मात् हेतोः | सर्वतथागतवज्रधातुष्ववचरितगतानुगतिकोऽयं [ख्: स्वभावे; ग्: स्वभाव] सर्वतथागतकायवाक्चित्तवज्राधिपतिः | तत्कस्मात् हेतोः | सन्ति ब्रह्माद्या महाबोधिसत्त्वा महाभिज्ञाज्ञानसंप्राप्ताः सर्वधर्मलक्षणस्वभावमजानन्त एवं विकल्पयन्ति || किमयं सर्वतथागतमहावज्रात्मा सर्वतथागतधर्मवज्रतत्त्वमनभिज्ञाय [ख्: मवि] गुह्याक्षरं निर्दिशतीति | प्द्f ९२, प्. १३४) अथ भगवन्तः सर्वतथागतास्तान् बोधिसत्त्वानेवमाहुः | तिष्ठन्तु तावत् भवन्तो महाबोधिसत्त्वा वयमपि सर्वतथागतकायवाक्चित्तवज्रगुह्याक्षरं प्राप्य कायवाक्चित्तबोधिं न जानीमहे | तत्कस्मात् हेतोः | निःस्वभावाक्षरसंभूत अनुत्पादवज्राभिसंबोधिर्यावन्तः कुलपुत्राः सत्त्वाः सत्त्वसंग्रहेण संगृहीताः सर्वे ते बोधिप्रतिष्ठिताः बुद्धवज्राः [ख्: क्रुद्ध] | तत्कस्मात् हेतोः | कायवाक्चित्तवज्रज्ञानप्राप्ता बतामी सत्त्वास्त्रिकायवज्रधर्मतामुपादाय [ख्: वचना; ग्; वरणा] | अथ वज्रपाणिः सर्वतथागतकायवाक्चित्तवज्राधिपतिस्तान् सर्वतथागतबोधिसत्त्वांश्चैवमाह || स्वभावशुद्धनैरात्म्ये धर्मधातुनिरालये | कल्पना वज्रसंभूता गीयते न च गीयते || अथ भगवन्तः सर्वतथागता भगवन्तं महावज्रपाणिं सर्वतथागतस्वामिनं [द्: सर्वत्र] नमस्कृत्यैवमाहुः | कुत इमानि भगवन् सर्वतथागतकायवाक्चित्तवज्रसिद्धीनि समवसरन्ति क्व वा प्रतिष्ठितानि | सर्वतथागताधिपतिर्वज्रधरः प्राह | स्वकायवाक्चित्तवज्रसमतासन्तानवज्रप्रतिष्ठितानि [ख्: वज्राधिपति] भगवन्तः सवेतथागताः सवेसिद्धीनि सर्ववज्रज्ञानानि सर्वं यावत् त्रैधातुकमिति | सर्वतथागताः प्रोचुः | सर्वतथागतकायवाक्चित्तवज्रसिद्धीनि [ख्, ग्: ओमित् वज्र] सर्वं त्रैधातुकं च भगवन् कुत्र स्थितम् | सर्वतथागतज्ञानाधिपतिः प्राह | [क्: अद्द्स् वज्र] प्द्f ९२, प्. १३५) आकाशधातुप्रतिष्ठितानि भगवन्तः मर्वतथागताः सर्वतथागतकायवाक्चित्तवज्रसिद्धीनि सर्वं त्रैधातुकं च | सर्वतथागताः प्रोचः | आकाशं भगवन् [क्, द्: ओमित्] कुत्र स्थितम् | वज्रधरः प्रोचुः | न क्वचित् | [क्: ओमित्स् थिस् सेन्तेन्चे] अथ ते सर्वतथागता बोधिसत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता इमं धर्मघोषमकार्षुः | अहो वज्र अहो वज्र अहो वज्रस्य देशना | यत्र न कायवाक्चित्तं तत्र रूपं विभाव्यते || अथ वज्रधरः शास्ता सर्वबुद्धनमस्कृतः | त्रिवज्राग्र्यो महाग्राग्र्यस्त्रिवज्रः परमेश्वरः || भाषते सर्वसिद्धीनां विद्यापुरुषभावनाम् | खवज्रधातुमध्यस्थं भावयेत् बुद्धमण्डलम् || कायवज्रं प्रभावित्वा वज्रं मूर्ध्नि प्रभावयेत् | त्रिमुखं त्रिकायसम्भूतं विस्फुरन्तं विचिन्तयेत् || वज्रचक्रधरं ध्यात्वा शीघ्रं बोधिमवाप्नुयात् | कुलभेदेन [ख्: धर्मेण] सर्वेषामिदं गुह्यं विचिन्तयेत् | अन्यथा भावना तेषां सिद्धिर्भवति नोत्तमा [ंस्स्. न चो] | इत्याह च भगवान् विद्यापुरुषवज्रगुह्यः || धातुभूतां [क्, द्: वान्त] महाराज्ञीं प्रीणयन्तीं विचिन्तयेत् | एवं तुष्यन्ति ते वृषभाः वज्रकायत्रिलक्षणाः [क्: त्रिरक्षिताः; ख्, ग्: त्रिलक्षिताः] || यश्चेदं भावयेत्कश्चिद्बोधिसत्त्वो महायशाः | त्रिकायसिद्धिमाप्नोति सप्ताहेन महाद्युतिः || प्द्f ९३, प्. १३६) अथ भगवान् वज्रपाणिः सर्वतथागताधिपतिः पुनरपि कायवाक्चित्तवज्रसमुच्चयगुह्यरहस्यं स्यकायवाक्चित्तवज्रेभ्यो निश्चारयामास | कायवाक्चित्तसमयं महामुद्रार्थकल्पनाम् | भावयेत् विधिवत् सर्वान् क्षणात् बुद्धत्वमाप्नुयात् || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वसाधककायवाक्चित्तवज्रेभ्यो निश्चारयामास | हस्तमुद्रां न बध्नीयात् यदीच्छेत् सिद्धिमुत्तमाम् [ख्, ग्: बोधि] | समयः सर्वमन्त्राणां नातिक्रम्यो जिनैरपि [ख्, ग्: बुधैः] || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वबुद्धसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || विण्मूत्रशुक्ररक्तानां जुगुप्सां नैव कारयेत् | भक्षयेत् विधिना नित्यमिदं गुह्यं त्रिवज्रजम् [ख्: गुह्य] || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि वाग्वज्रसमयं स्वकायवाकचित्तवज्रेभ्यो निश्चारयामास || त्रैधातुकपथे रम्ये यावन्त्यो योषितः स्मृताः | कामयेत् विधिवत् सर्वा वाग्वज्रैर्न जुगुप्स्यते || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि चित्तवज्रसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास || यावन्तः सर्वसमयास्त्रिवज्रकायसंस्थिताः [ख्, ग्: ज्ञान] | प्रीणयन्ति [क्: न्ते] वज्रसमयैः चित्तवज्रं न जुगुप्सयेत् || प्द्f ९३, प्. १३७) इत्याह भगवान् त्रिवज्रसमयः [ख्: अद्द्स् वज्रः] | अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वतथागतगुह्यवज्रं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | पञ्चस्कंधाः स्मासेन पञ्चबुद्धाः प्रकीर्तिताः | वज्र आयतनान्येव बोधिसत्त्वाग्र्यमण्डलमिति || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि त्रैधातुकसमुच्चयवज्रं [ग्: समय ; ख्, ग्: चक्रं] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | पृथिवी लोचना ख्याता अद्धातुर्मामकीइ स्मृता | पाण्डराख्या भवेत्तेजो [क्, ख्, द्: तेजोधातुस्तु पाण्डराख्याता] वायुस्तारा प्रकीर्तिता | खवज्रधातुसमयः सैव वज्रधरः स्मृतः || इत्याह भगवान् सर्वतथागतभुवनेश्वरो महावज्रसत्त्वः | अथ भगवान् सर्वतथागतकायवाक्चित्तवज्रस्तथागतः सर्वतथागतसमताविहारं नाम समाधिं समापन्नः | समापद्य च सर्वतथागतपर्षन्मण्डलमवलोक्य तूष्णीमभृत् | अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वं सर्वतथागतान् प्रणिपत्यैवमाह | सर्वतथागतकायवाक्चित्तवज्रगुह्यसमाजाभिषिक्तो [क्: अद्द्स् रहस्यं ; ख्: भिन्नो] भगवान् वज्राचार्यः सर्वतथागतैः सर्वब्बोधिसत्त्वैश्च कथं द्रष्टव्यः | सर्वतथागताः प्राहुः | बोधिचित्तो वज्र इव् कुलपुत्र सर्वतथागतैः सर्वबोधिसत्त्वैश्च द्रष्टव्यः | तत्कस्मात् हेतोः | बोधिचित्तश्चाचार्यश्चाद्वयमेतदद्वैधीकारम् | यावत् [ख्, ग्: एवं] कुलपुत्र संक्षेपेण कथयामः | यावन्तो दशदिग्लोकधातुषु बुद्धाश्च प्द्f ९४, प्. १३८) बोधिसत्त्वाश्च तिष्ठन्ति ध्रियन्ति यापयन्ति च सर्वे ते त्रिष्कालमागत्य [ख्: मालव्य] तमाचार्यं सर्वतथागतपूजाभिः संपूज्य स्वस्वबुद्धक्षेत्रं पुनरपि प्रक्रामन्ति एवं च वाग्वज्राक्षरपदं निश्चारयन्ति | पितास्माकं सर्वतथागतानां मातास्माकं [ग्: यावच्छास्तास्माकं] सर्वतथागतानाम् | तद्यथापि नाम कुलपुत्र यावन्तो बुद्धा [क्, द्: ओमित्] भगवन्तो [क्, द्: ओमित्] दशमु दिक्षु विहरन्ति तेषां च बुद्धानां भगवतां यावत् कायवाक्चित्तवज्रजः पुण्यस्कन्धः स च पुण्यस्कन्ध आचार्यस्यैव [क्: क] रोमकूपाग्रविवरे विशिष्यते | तत्कस्य हेतोः | बोधिचित्तं कुलपुत्र सर्वबुद्धज्ञानानां [क्: बुद्धानां] सारभूतमुत्पत्तिभूतं यावत् सर्वज्ञज्ञानाकरमिति | अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भीतः सन्त्रस्तमानसस्तूष्णीमभूत् [क्: सन्तप्त] अथ खलु अक्षोभ्यस्तथागतो रत्नकेतुस्तथागतोऽमितायुस्तथागतोऽमोघसिद्धिस्तथागतो वैरोचनस्तथागतः सर्वधर्मसिद्धिसमयालम्बनवज्रं [ख्, ग्: सरज्जधरः] नाम समाधिं समापद्यैतान् सर्वबोधिसत्त्वानामन्त्रयते स्म | शृण्वन्तु भगवन्तः सर्वबोधिसत्त्वाः येऽपि [क्: पथि] ते दशसुदिक्षु बुद्धा भगवन्तस्त्र्यध्ववज्रज्ञानसंभूतास्तेऽपि सर्वे [ख्, ग्: ओमित्] गुह्यसमाजाभिषिक्तं आचार्यमागत्य पूजयन्ति नमस्कुर्वन्ति च | तत्कस्मात् हेतोः | शास्ता सर्वबुद्धबोधिसत्त्वानां सर्वतथागतानां च स एव भगवान् महावज्रधरः सर्वबुद्धज्ञानाधिपतिरिति | प्द्f ९४, १३९) अथ [ख्: ओमित्स् थे wहोले परग्रफ्] ते सर्वे [क्: ओमित्स्] महाबोधिसत्त्वाः तान् सर्वतथागतानेवमाहुः | सर्वतथागतकायवाक्चित्तसिद्धीनि भगवन्तः कुत्र स्थितानि क्व वा संभूतानि | सर्वतथागताः प्राहुः | त्रिकायगुह्यं सर्वतथागतकायवाक्चित्तं [ग्: त्रिगुह्यकाय] वज्राचार्यस्य कायवाक्चित्तवज्रे स्थितम् | महाबोधिसत्त्वा आहुः | कायवाक्चित्तगुह्यवज्रं कुत्र स्थितम् | मर्वतथागताः प्राहुः | आकाशे स्थितम् | महाबोधिसत्त्वाः प्राहुः | आकाशं कुत्र स्थितम् | सर्वतथागताः प्राहुः | न क्वचित् | अथ ते महाबोधिसत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ताः तूष्णींस्थिता अभूवन् | अथ भगवन् वज्रपाणिस्तथागतः सर्वतथागतकायवाक्चित्तगुह्यवज्रसमाध्र्व्युत्थाय [क्, द्: अद्द्स् वज्जधर] सर्वतथागतान् सर्वबोधिसत्त्वांश्चामन्त्रयते स्म | शृण्वन्तु भगवन्तः सर्वतथागताः सर्वबोधिसत्त्वाश्च सर्वतथागतबोधिसत्त्वसंभववज्रं [क्: तो] नाम महामण्डलम् | अथ खलु सर्वतथागता बोधिसत्त्वाश्च कृताञ्जलिपुटा भगवन्तं वज्रधरमेवमाहुः | देशयतु भगवान् देशयतु सुगतो महामण्डलमिति | खधातुमध्यगतं चिन्तेत् चतुरस्रं सुशोभनम् | बुद्धमण्डलयोगेन ध्यानवज्रं प्रचोदयेत् || वज्रमण्डलध्यानेन आसनं सर्वचक्रिणाम् [ख्, ग्: वज्रि] | पूजां तेनैव विधिना कुर्वीत मतिमान् सदा || आचार्यं हृदये ध्यात्वा अभिषेकं समारभेत् | खधातुं सर्वबुद्धैस्तु परिपूर्णं विचिन्तयेत् || प्द्f ९५, प्. १४०) पातयेत् विधिवत् सर्वान् अभिषेकपदैस्त्रिभिः | अनेन बोधिमाप्नोति सर्वसत्त्वहितैषिणीम् | सिध्यति कायवाक्चित्तं सर्वसिद्धिमहाद्भुतम् || || सर्वबुद्धबोधिसत्त्वसमयचक्रं नाम ध्यानमण्डलम् || अथ खलु वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वतथागतवज्रयोगं [क्, द्: योगवज्रं] नाम कायवाक्चित्तगुह्यं [ख्, ग्: समयवज्रं] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || हूं ह्रीः [द्: ह्रीं] खं || खधातुमध्ह्यगतं चिन्तेदस्थिमांसादिमण्डलम् | त्रिकायवाक्चित्तहृदये वज्रसत्त्वम् विभावयेत् [ख्, ग्: सत्त्वस्य] || क्रूरं विकृतं संक्रुद्धं नीलोत्पलसमप्रभम् | चतुर्भुजं विधानेन कपालहस्तं [क्: कर] विभावयेत् || पञ्चरश्मिप्रभोद्योतां स्वजिह्वां भावयेत् व्रती | ध्यानमन्त्रप्रयोगेण रुधिराकर्षणमुत्तमम् || त्रिशूलं वज्रसमयं कीलकं दारुणोत्तमम् [ख्, ग्: मे] | पीडयेत् वज्रयोगेन बुद्धकायमपि [ख्: र्यं] स्वयम् || इति || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि वज्राहारसमयकृत्यार्थं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | अन्नं वा अथवा पानं यत्किञ्चित् भक्षयेत् व्रती | विण्मूत्रमांसयोगेन विधिवत् परिकल्पयेत् || प्द्f ९५, प्. १४१) अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वतथागतकायवाक्चित्तवज्रपूग्र्यं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | पञ्चोपहारपूजाग्रैः पूजनं च प्रकल्पयेत् | एषो हि सर्ववज्राणां [ख्, ग्: मन्त्रा] समयो दुरतिक्रमः || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वतथागतकायवाक्चित्तपूजारहस्यं [चद्द् वज्र] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | द्वयेन्द्रियप्रयोगेण स्वशुक्रादिपरिग्रहैः | पूजयेत् विधिवत् सर्वान् बुद्धबोधिमवाप्नुयात् || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वतथागतकायवाक्चित्तसम्बरं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | सत्त्वधातोरनन्तस्य मातां [क्: मात्रां] समयधारिणीम् [ग्: र] | काये त्रिवज्रसमयैः [ख्, ग्: कामयेत् त्रिवज्रसमयैः] सम्बरोऽयं महाद्भुतः || अथ वज्रपाणिः सर्वतथागतधिपतिः पुनरपि सर्वसाधकसम्बरवज्रं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | कायवाक्चित्तसंभोगं [ख्: ओमित्स् fरोम् हेरे तो निश्चारयामास बेलोw] त्रिगुह्यालयवज्रजम् | साधयामि अहं भद्रं संशयो नात्र सर्वथा || अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वसाधकवज्रसत्त्वसम्बरं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | प्द्f ९६, प्. १४२) वितस्तिमात्रमतिक्रम्य मूर्ध्नि मण्डलकल्पना | ओंकारं मध्ह्यगतं ध्यात्वा पञ्चामृतनिपातनम् || अनेन वज्रयोगेन तेजस्वी भवति क्षणात् | कायवाक्चित्तसौस्थित्यं भवति नात्र संशयः | अथ वज्रपाणिः सर्वतथागताधिपतिः पुनरपि सर्वमण्डलधरकायवाक्चित्तगुह्यं [ग्: मन्त्र] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | चैत्यकर्म न कुर्वीत न च पुस्तकवाचनम् | मण्डलं नैव कुर्वीत न त्रिवज्राग्रवन्दनम् || अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वविषपरिहारस्तम्भनाकर्षणगुह्यंन् [ख्, ग्: विषापहार] स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | || भ्रुं || चक्रमध्यगतं स्थाप्य सितांशुज्वालमालिनम् | पीतांशुरश्मिगहनं भावयेत् पीतसन्निभम् | त्रिवज्ररश्मिसमयैर्बीजोऽयं [ग्: र्विजयं] गुह्यसंभवः || अथ वज्रपाणिः सर्वतथागताधिपतिः कायवाक्चित्तरक्षाचक्रमन्त्रं वज्रसंयुक्तं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | उं हूलू हूलू तिष्ठ तिष्ठ बंध बंध हन हन दह दह अमृते हूं फट् स्वाहा | प्द्f ९६, प्. १४३) भूर्जपत्रादिषु चक्रं कर्मवज्रप्रतिष्ठितम् | हकारमध्यगं [क्, द्: हुं; ग्: हें] कृत्वा [ख्: ध्यात्वा] नाममध्ह्ये समालिखेत् || मन्त्राक्षरपदैः सम्यक् मण्डितं स्थापयेत् सदा | एषो हि सर्वमन्त्राणां त्रिगुह्यालयसम्भवः || अथ वज्रपाणिः सर्वतथागताधिपतिः वज्राञ्जनपदं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयामास | चतुष्पथैकवृक्षे च मातृस्थाने शिवालये | वज्राञ्जनपदं तत्र कपाले पातयेत्सदा || महातैलरुधिरं [ग्: भैरवं] विष्ठं पद्मसूत्रं अर्कतूलेन [क्: नाले] कृत्वा कृष्णचतुर्दश्यामर्द्धरात्रौ वज्राञ्जनं पातयेद्बुधः तत्रैवाष्टशताभिमन्त्रितं कृत्वा | त्रिविधा सिद्धिर्भवति इत्याह भगवान् समन्तब्भद्रः | अथ भगवन्तः सर्वतथागता वज्रपाणिं सर्वतथागताधिपतिमेवमाहुः | कतिभिर्भगवन् गुह्याक्षरैः समन्वागतास्ते बोधिसत्त्वा महासत्त्वा य इदं सर्वतथागतचर्यावज्रं सर्वतथागतगुह्यसमयं [ख्, ग्: ओमित्] श्रद्धास्यन्ति भावयिष्यन्ति च | अथ [ग्: ओमित्स् fरोम् हेरे तो भावयिष्यन्ति च] वज्रपाणिः सर्वतथागताधिपतिः तान् सर्वतथागतानेवमाह | त्रिगुह्याक्षरैर्भगवन्तः सर्वतथागताः समन्वागतास्ते बोधिसत्त्वा महासत्त्वा य इदं सर्वतथागतबोधिचर्यावज्रं श्रद्धास्यन्ति भावयिष्यन्ति च | सर्वतथागताः प्राहुः | कतमैस्त्रिभिः | वज्रधरः प्राह | यदुत सर्वतथागतकायवज्रेण प्द्f ९७, प्. १४४) सर्वतथागतवाग्वज्रेण सर्वतथागतचित्तवज्रेण एभिस्त्रिभिः | अथ ते सर्वतथागता भगवतो वज्रपाणेः पादयोर्निपत्य तूष्णींस्तथा अभूवन् | अथ वज्रपाणिः सर्वतथागताधिपतिः तान् सर्वतथागतान् बोधिसत्त्वांश्चामन्त्रयते स्म | भूतपूर्वं भगवन्तः सर्वतथागता अनभिलाप्यानभिलाप्यबुद्धक्षेत्रसुमेरुपरमाणुरजःसमाः कल्पाः क्षीणा यावद् भगवतो दीपङ्करस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यातिक्रान्तस्य काश्यपस्यापि महामुनेरभिमंबुद्धस्य न भाषितम् | तत्कस्मात् हेतोः | अभव्या [ख्: असेव्या] भगवन्तः सत्त्वा अस्य महागुह्यपदार्थस्य तेन [क्: अद्द्स् मया] कालेन तेन [क्: ओमित्स्] समयेन मया न भाषितम् | अपि तु भगवन्तः सर्वतथागता अस्मिन् गुह्यसमाजे बुद्धबोधिं क्षणलवमुहूर्तेनैव निष्पादयन्ति | यदनेकैर्गङ्गानदीवालुकासमैः [ख्, ग्: कोपमैः] कल्पैः घटयन्तो व्यायच्छन्तो बोधिसत्त्वा बोधिं न प्राप्नुवन्ति | तदिहैव जन्मनि गुह्यसमाजाभिरतो बोधिसत्त्वः सर्वतथागतानां बुद्ध इति संख्यां गच्छति | अथ ते महाबोधिसत्त्वा इदं वाग्वज्राक्षरपदं श्रुत्वा प्ररोदयामासुः | अथ ते सर्वतथागतास्तान्बोधिसत्त्वानेवमाहुः | मा भगवन्तः महाबोधिसत्त्वाः प्ररोदयत मा च त्रिदुःखं समुत्पादयत | अथ ते महाबोधिसत्त्वास्तान् सर्वतथागतानेवमाहुः | कथं ते भगवन्तः सर्वतथागता न प्ररोदामहे | कथं न दुःखमुत्पादयामहे | तत्कस्मात् प्द्f ९७, प्. १४५) हेतोः (?) अभव्या भगवन्तः त्रिगुह्याक्षरम् | अभव्या भगवन्तोऽन्तशो नाम श्रवणेनापि | सर्वतथागताः प्राहुः | सामान्याक्षरपदं कुलपुत्रा यथा भवद्भिर्न ज्ञातं न श्रुतं तथास्माभिरपि सर्वतथागतैः सर्वबुद्धबोधिसत्त्वैश्च कुलपुत्रास्ते गुह्याक्षरा न संप्राप्ता नाभिसंबुद्धाय | तत्कस्मात् हेतोः (?) त्रिगुह्याक्षरविशुद्धत्वात् | अथ ते सर्वै बोधिसत्त्वाः तूष्णीं व्यवस्थिता [ग्: भूता] अभूवन् | अथ भगवन्तः सर्वतथागताः सर्वतथागतकायवाक्चित्तवज्रयोषिद्भगेषु विजहार | अथ सा सर्वतथागतचित्तदयिता मामकौ भगवन्तं सर्वतथागताधिपतिं महावज्रधरं एभिर्वज्रधरकामरतिपूजाग्राक्षरपदैः प्रीत्या संस्तूयामास [ग्: स्तुव स्तनु] | त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिमनोज्ञ महार्थकामैः | कामाहि मां जनक सत्त्वमहाग्रबन्धो यदीच्छसे जीवितं मञ्जुनाथ || अथ सा बुद्धलोचना सर्वतथागतकायदयिता भगवन्तं सवतथागताधिपतिं महावज्रधरमेभिः सर्ववज्रकामरतिपूजाग्राक्षरपदैः सुखसौमनस्यप्रीत्या संस्तूयामास | त्वं वज्रकाय बहुसत्त्वप्रियाङ्कचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शी [क्: दर्भी] | रागेण रागसमयं [क्, ग्: यां; द्: यै] मम कामयस्व यदीच्छसे जीवितं मञ्जुनाथ || प्द्f ९८, प्. १४६) अथ सा लोकेश्वरदयिता कायावस्थितनेत्री [ख्, ग्: कायवाक्चित्तवज्रनेत्री] भगवन्तं सर्वतथागताधिपतिं महावज्रधरं कामोपभोगसमयैः संस्तूयामास || त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सद संप्रवृत्तः | कामाहि मां सुरतचर्य समन्तभद्र यदीच्छसे जीवितं मञ्जुनाथ || अथ सा सर्वतथागतकायवाक्चित्तसमयवज्रदयिता भगवन्तं सर्वतथागताधिपतिं महावज्रधरमनया सर्वतथागतसुखसौमनस्यप्रीत्या संस्तूयामास | क्त्वं वज्रकाय [ख्, ग्: म] समयाग्र महाहितार्थ संबुद्धवंशतिलकः समतानुकम्पी [ग्: सुगता] | कामाहि मां गुणनिधिं बहुरत्नभूतम् यदीच्छसे जीवितं मञ्जुनाथ || अथ भगवान् वज्रपाणिस्तथागतः सर्वकामोपभोगवज्रश्रियं नाम समाधिं समापन्नस्तां सर्वतथागतदयितां समयचक्रेण कामयन् तूष्णीमभूत् | अथायं सर्वाकाशधातुः सर्वतथागतकायवाक्चित्तवज्रसमयशुक्रेण [क्: च] परिपूर्णो वज्रोदकपरिपूर्णकुम्भ इव [द्: कुम्भेष्वव] संस्थितोऽभूत् | अथास्मिन्वज्राकाशधातौ ये सत्त्वास्त्रिकायसमयसंभूतास्त्रिवज्रश्रिया संस्पृष्टाः [ख्: ध्यस्ताः] सर्वे ते [ग्: अथ ते सर्व] तथागता अर्हन्तः सम्यक्संबुद्धास्त्रिवज्रज्ञानिनोऽभूवन् | ततः प्रभृति सर्वसत्त्वाः समन्तभद्र प्द्f ९८, प्. १४७) समन्तभद्र [ख्: अद्द्स् इति] इति सर्वतथागतकायवाक्चित्तवज्रेणाभिषिक्ता अभूवन् | अथ वज्रपाणिस्तथागतस्तान्सर्वतथागतानेवमाह [ख्, ग्: स्सर्वतथागताधिपति] | दृष्टा भगवन्तस्सर्वतथागताः सर्वबुद्धधर्मसमता | अथ ते सर्वतथागता वज्रपाणिं सर्वतथागताधिपतिमेवमाहुः | दृष्टा [ग्: ओमित्स् fरोम् हेरे तो तथागतमेवमाहुः बेलोw] भगवन् दृष्टा सुगत [ख्: अद्द्स् सर्वतथागत बेfओरे] वज्रज्ञानसमता वज्रज्ञानचर्येति | अथ भगवन्तः सर्वतथागताः सर्वतथागतयोषिद्भगेष्वभिनिष्क्रम्य भगवन्तं महावज्रपाणिं सर्वतथागताधिपतिं तथागतमेवमाहुः | आश्चर्यं भगवन्नाश्चर्यं सुगत यत्र हि नाम रागाक्षरपदैः बुद्धबोधिरनुगन्तव्येति | अथ वज्रपाणिः सर्वतथागताधिपतिस्तान्सर्वतथागतानेवमाह | मा भगवन्तः सर्वतथागता एवं वदथ | तत्कस्माद्धेतोः (?) खवज्रसमयतुल्यत्वात् सर्वधर्माणां न रूपस्कन्धो न वेदनास्कन्धो न संज्ञास्कन्धो न संस्कारस्कन्धो न विज्ञानस्कन्धो न धातुर्नायतनं न रागो न द्वेषो न मोहो न धर्मो नाधर्म इति | अथ ते सर्वतथागतास्तूष्णीमभूवन् | अथ भगवान्वज्रपाणिः तान्सर्वतथागतान्बोधिसत्त्वांश्चामन्त्रयते स्म | आलोचयन्तु भगवन्तः सर्वतथागताः सर्वलोकधातुष्विदं सर्वतथागतकायवाक्चित्तवज्रगुह्यम् | तत्कस्माद्धेतोः (?) भव्या बतामी दशदिक्संस्थिता बोधिसत्त्वा महासत्त्वा अस्य धर्मपर्यायस्य | प्द्f ९९, प्. १४८) अथ वज्रपाणिः सर्वतथागताधिपतिः वज्रधर्ममामन्त्रयते [ख्, ग्: पाणि] स्म | उद्गृहाण कुलपुत्र इदं सर्वतथागतसमयतत्त्वं त्वं हि सर्वतथागतैर्धर्मेश्वर वज्रगज इत्यभिषिक्तः | अथ वज्रधर्मो बोधिसत्त्वो महासत्त्वस्तथास्त्विति [क्: एवम] कृत्वा तूष्णीमभूत् | अथ ते भगवन्तः सर्वतथागताः त्रिवज्रतत्त्वाक्षरेषु कायवाक्चित्तं प्रवेशयामासुः | अथ वैरोचनस्तथागतः सर्वत्रैधातुककायवज्रेषु विहरन् सर्वतथागतकायसमतामध्यालम्ब्ब्यतूष्णीमभूत् | अथ वाग्वज्रः तथागतः सर्वत्रैधातुकवाग्वज्रेषु विहरन् सर्वतथागतवाक्समतामध्यालम्ब्य [क्: वाग्वज्र] तूष्णीमभूत् | अथ वज्रपाणिस्तथागतः सर्वत्रैधातुकचित्तवज्रेषु विहरन् सर्वतथागतचित्तसमतामध्यालम्ब्य [ग्: दयिता] तूष्णीमभूत् | इदमवोचत् भगवान् | इति सर्वतथागतकायवाक्चित्तगुह्यरहस्यातिरहस्ये श्रीगुह्यसमाजे महागुह्यतन्त्रराजे सर्वतथागतसमयसम्बरवज्राधिष्ठानपटलः सप्तदशोऽध्यायः | प्द्f ९९, प्. १४९) अष्टादशः पटलः | अथ खलु मैत्रेयप्रभृतयो महाबोधिसत्त्वाः सर्वतथाभिषेककायवाक्चित्तगुह्यनिर्देशं सर्वभावेन यथावद् यथासमयं दृष्ट्वा श्रुत्वा चाधिगम्य तान् सर्वतथागतान् दृष्टधार्मिकानेवमाहुः | अहो समन्तभद्रस्य कायवाक्चित्तनिर्णयः | विहरन्ति त्रिवज्रेण त्रिवज्रेषु समन्ततः || सर्वसत्त्वाः समुत्पन्नाख्यध्ववज्रस्वभावतः [क्: अथ] | बोधिवज्रपदं प्राप्ता बुद्धवज्रमहर्धिकाः || अहो सुविस्मयमिदमहो शान्तमतीन्द्रियम् | अहो परमनिर्वाणमहो संसारसन्ततिः || ततस्ते सर्वतथागतास्तान् बोधिसत्त्वान् महासत्त्वानेवमाहुः | एवमेव [क्, द्: महाबो] बोधिसत्त्वा एवमेव [ग्: ओमित्स्] महासत्त्वा [क्, द्: बोधि] इति | अथ ते सर्वे बोधिसत्त्वा महासत्त्वाः पुनः समाजमागम्य तान्सर्वतथागतान् गुह्येतरपूजाभिः संपूज्य प्रणिपत्यैककण्ठेनैवमाहुः [ख्: कण्ठैव] | अहो सुदुर्लभमिदमुपायं बोधिसाधनम् | तन्त्रं गुह्यसमाजाख्यं तन्त्राणामुत्तरोत्तरम् || अध्येषयामस्त्वां नाथ यदुक्तं भूतवादिना | तद्गूढावबोधनार्थाय [ख्, ग्: ढा] सत्त्वानां हितकाम्यया || अथ ते सर्वतथागतास्तान् बोधिसत्त्वानेवमाहुः | साधु साधु महासत्त्वाः साधु साधु गुणाकराः | यत् सुगूढपदं तन्त्रे [ख्: न्त्रं] तत्सर्वं पृच्छतेच्छया || प्द्f १००, प्. १५०) अथ ते- सर्वे महाबोधिसत्त्वाः प्रहर्षोत्फुल्ललोचनाः [क्, द्: र्षितो] | पृच्छन्तीह स्वसन्देहान् प्रणिपत्य मुहुर्मुहुः || गुह्येत्यत्र [क्: गुह्यतंत्र; ग्: गुह्येह्ह्यत्र] किमुच्येत समाजेति किमुच्यते | कीदृशस्तत्र [क्, द्: तन्त्र] सम्बन्धः योगेत्यत्र किमुच्यते || तत्त्वं कतिविधं प्रोक्तं गुह्यं कतिविधं तथा | रहस्येति किमुच्येत परमं कतिविधं भवेत् || बोधिचित्तेति किं ज्ञेयं विद्यापुरुषेति किं तथा | वज्रधृगिति किं ज्ञेयं जिनजिगीत् किं तथा || रत्नधृगिति किं तत्र आरोलिगिति किं तथा | प्रज्ञाधृगिति किं ज्ञेयं कुलमित्यत्र किं तथा || मोह इति किमुच्येत द्वेषेत्यत्र किमुच्यते | राग इति किमुच्येत वज्रमत्र किमुच्यते || रतीत्यत्र कुमुच्येत कथं सम्पदिति स्मृतम् | यमान्तकृत् किमर्थेन किन्तत् प्रज्ञान्तकृत्तथा [द्; कं] || पद्मान्तकृत् कथं नाम विघ्नान्तकृत्तथा [द्: कं] | समन्तचर्येति [क्, द्: सर्वमन्त्र] किं ज्ञेयं मन्त्रचर्येति किं तथा || जपमित्यत्र किं ज्ञेयं किमा मुद्रणमुच्यते [क्: द्रे] | धर्मोदयं कथं भाव्यं सम्बरं कीदृशं तथा || द्वेषमोहमहारागैः सत्त्वार्थं कुरुते कथम् | मण्डलेति किमुच्येत मुद्रान्यासं कथं भवेत् || प्द्f १००, प्. १५१) पुष्पमित्यत्र किं ज्ञेयं चैत्यं चेति किमुच्यते | ज्ञानचक्रं कथं ज्ञेयं पदमत्र किमुच्यते || चोदनं च कथं नाथाः प्रेरणं च कथं भवेत् | आमन्त्रणं कथं तेषां बन्धनं कथमत्र वै || अभिषेकं कथं देयं कथं विद्याव्रतं तथा | पञ्चामृतं कथं भक्ष्यं पञ्चवीर्यं कथं तथा || कीदृशं [ख्, ग्: ओमित् थिस् लिने] सिद्धिसामान्यमुत्तमं कीदृशं तथा | उपायाः कतिविधास्तत्र उपेयः [ख्, ग्: उपायं] कीदृशस्तथा || कथमाज्ञां प्रयच्छन्ति योगिनः सर्ववज्रिणाम् | कथं कुर्वन्ति नानात्वं [ख्, ग्: समयं] तत्सर्वं कथयाशु च [क्, द्: कर्माग्रप्रसराणि च] | अथ ते सर्वतथागतास्तेषां बोधिसत्त्वानां महासत्त्वानां प्रश्नवाक्यमुपश्रुत्य मुहूर्तं महाबोधिसत्त्वं महावज्रधरमालम्ब्य [ख्, ग्: ओमित्स् महावज्रधर] तूष्णीमभूवन् | अथ ते- सर्वे महाबोधिसत्त्वाः प्रहृष्टाः करुणात्मनः | संबुद्धान् सुगतान् नाथान् प्रचोदन्ति [क्: दयन्ति] पुनः पुनः || अथ ते सर्वतथागतास्तान्बोधिसत्त्वानेवमाहुः [ख्, ग्: महावो] | कायवाक्चित्तवज्रेण कायवाक्चित्तवज्रिणह् | सत्त्वार्थं [ख्, ग्: समुच्चार्य] बोधिसत्त्वेन्द्राः [ख्: सेन्द्राः] शृण्वन्तु प्रश्नविस्तरान् [ख्, ग्: शृणु गुह्यमविस्तारम] || अथ ते सर्वे महाबोधिसत्त्वास्तेषां सर्वतथागतानामनुग्रहवचनमुपगृह्य [ख्, ग्: परमगुह्यवचनमुपश्रुत्य; द्: प्रगृह्य] महाबोधिसत्त्वस्य महावज्रधरस्य कायवाक्चित्तवज्रं प्द्f १०१, प्. १५२) स्वकायवाक्चित्तवज्रैरालम्ब्य [ख्, ग्: वज्रवाक्यैः साधुकारमददुः] साधु साधु भगवन्तः साधु साधु सुगता [ख्, ग्: सर्वतथागता] इति तूष्णीमभूवन् | ततस्ते [ग्; ओमित्स् fरोम् ततः दश सप्त त्रयोदशम् बेलोw] सर्वतथागता महाकरुणात्मानः सहृद्यालम्ब्याधितिष्ठन् तेषां महाबोधिसत्त्वानामेककण्ठेनैव तान् प्रश्नान् [ख्: हस् इन्स्तेअद् सर्वे मिलित्वा एकमतेनैकस्वरेण] निर्दिशन्ति स्म [ख्: अद्द्स् अथ ते सर्वतथागतास्तेषां बोधिसत्त्वानां महासत्त्वानां प्रश्नवाक्यमुपश्रुत्य मुहूर्तं महाबोधिसत्त्वं वज्रधरमालम्ब्य उवाच |] | त्रिविधं कायवाक्चित्तं गुह्यमित्यभिधीयते | समाजं [ख्: ओमित्स् थिस् लिने] मीलनं प्रोक्तं सर्वबुद्धाभिधानकम् || पंचमं [ख्: अष्टमं] नवमं चैव दश सप्त त्रयोदशम् [ख्: दशमं तत्र षोडशं] | बुद्धानां बोधिसत्त्वानां देशना साधनं महत् || चतुर्थं षोडशं चैव अष्टमं द्वादशं तथा | आचार्यकर्मसामान्यं [ख्: वर्णनं नाम ग्; वर्णनामन्यं] सिद्धिश्च व्रतसम्बरम् || अष्टमं च [ख्: सप्तमं; ग्: षष्टं चैव] द्वितीयं च दश पञ्च चतुर्दशम् || हठमनुरागणं चैव उपसाधनसम्बरम् | सप्तमं च तृतीयं च दशैकादशपञ्चमम् [ख्, ग्: सेवासाधनमुत्तमम्] || सिद्धिक्षेत्रनिमित्तं च सेवासाधनसम्बरम् [क्: सत्त्व] | सर्वतथागतकर्म निग्रहानुग्रहक्षमम् || दान्तदौर्दान्तसौम्यानां सत्त्वानामेव तारणम् [क्, द्: मवतारणा] || उत्पत्तिक्रमसंबन्धं [ख्: क्रमशं चैव] सेवावज्रविधिश्चतुः || प्द्f १०१, प्. १५३) गुरूणां मन्त्रमार्गेण [क्; मामन्त्र्य] शिष्याणां परिपाचनम् | सुव्रतस्याभिषिक्तस्य सुशिष्यस्य महात्मनः | बुद्धानां बोधिसत्त्वानां देशना परिमोचना || प्रज्ञोपायसमापत्तिर्योग इत्यभिधीयते | योनिस्वभावतः [ख्, ग्: याभिः सन्तिष्ठते] प्रज्ञा उपायो भावलक्षणम् || प्रबन्धं तन्त्रमाख्यातं तत् प्रबन्धं त्रिधा भवेत् | आधारः प्रकृतिश्चैव असंहार्यप्रभेदतः || प्रकृतिश्चाकृतेर्हेतुरसंहार्यफलं तथा | आधारस्तदुपायश्च त्रिभिस्तन्त्रार्थसंग्रहः || पञ्चकं त्रिकुलं चैव स्वभावैकशतं कुलम् [ग्: वैकं कुलं तथा] | सहोक्तिर्बोधिवज्रस्य सोत्तरं तन्त्रमिष्यते || तत्त्वं पञ्चकुलं प्रोक्तं त्रिकुलं गुह्यमुच्यते | अधिदेवो रहस्यं च परमं शतधा कुलम् || अनादिनिधनं शान्तं भावाभावाक्ष्यं विभुम् | शून्यताकरुणाभिन्नं बोधिचित्तमिति स्मृतम् || कायवाक्चित्तवज्रेण [ख्: वज्राणां] भेद्याभेद्यस्वभावतः [क्, ख्: भेद्यतेयं स्वभावतः] | विद्यया सह संयुक्तो विद्यापुरुष उच्यते || पञ्च हेतिश्च वेतिश्च [क्: चे] वज्रमित्यभिधीयते | धारणं धृगिति ख्यातं विज्ञानं वज्रधृङ्मनः || सदसन्मध्यमं ख्यातं भूतभौतिकसम्भवम् | विग्रहः सर्वसत्त्वानां जिनजिग्जननं जिनः || प्द्f १०२, प्. १५४) चित्तं रत्नमिति ख्यातमर्थैः सर्वैः समुद्भवम् | वेदकेन ध्रुवं वेद्यं वेदना रत्नधृङ्मनः || लक्ष्यलक्षणभावैस्तु सर्वं सर्वेण सर्वतः | रमणं लक्षणं लक्ष्यमारोलिगिति कथ्यते || प्रकर्षकृतविज्ञानं यत् तत् प्रज्ञेति [ख्: कृति] भण्यते | संस्कारचेतनां धार्यं प्रज्ञाधृगिति कथ्यते || कुलमन्वयमाख्यातमन्वयैरादिरुच्यते [ख्, ग्: यमा] | अविनाशमनुत्पन्नं यन्नाम [ख्, ग्: यं] तत् प्रकथ्यते || विज्ञानं द्वेषमाख्यातं देति [क्: हेति, ग्; देहि] वेति द्वयैर्द्विषाम् | रूपं मोहमिति ख्यातं जडबन्धस्वभावतः || वेदना घट्टमानाख्या अहङ्कारस्वभावतः | सञ्ज्ञा संरागमात्मानं वस्तुतः शक्तिलक्षणम् || संस्कारस्तु सदा ईर्ष्या प्रतीत्य प्रेरणात्मनाम् | स्वभावं बोधिचित्तं तु सर्वत्र भवसम्भवम् || कामं चित्तमिति प्रोक्तं रागद्वेषतमोऽन्वितम् | समयं विश्वसङ्काशाभिमुखं कर्मजं फलम् || अद्वयज्ञानधर्मेर्ष्याऽहंकारो [ख्: धर्मेष्व] मोह उच्यते | अन्योन्यघट्टनं तत्र द्वेष इत्यभिधीयते || लक्षणं रागमासक्तिः [द्: समा] ज्ञानोऽयं वज्रमुच्यते | रतिरत्यन्तसम्भोगं सम्पदः स्त्रीसुखं परम् || मोहो द्वेषस्तथा रागः सदा वज्रे रतिः [ख्, ग्: ज्ररति] स्थिता | उपायस्तेन बुद्धानां वज्रयानमिति स्मृतम् || प्द्f १०२, प्. १५५) अविनाशात्मका धर्मा अनुत्पादस्वभावतः | समयः सर्वभावानां तेनैवान्तककृद्यमः || अविज्ञानात्मका धर्माः परमार्थविशुद्धितः [ग्: क्षर] | समयः सर्वचित्तानां तेन प्रज्ञान्तकृज्जिनः || अवाच्यात्मका धर्मा अभावनामरूपधीः [क्: धर्मोऽभावः] | समयः सर्वधर्माणां तेन पद्मान्तकृत् विभुः || निर्विकल्पात्मका धर्माः प्रकृत्या शान्तभावतः | समयः सर्ववज्राणां [ग्: धर्मा] तेन विघ्नान्तकृत् प्रभुः || अविनाशमविज्ञेयं अवाच्यमविकल्पितम् | बुद्धबोधिरिदं ज्ञानं ज्ञात्वा सुखमवाप्नुते || मोहो मोहोपभोगेन क्षयमोहो यमान्तकृत् | कायान्तकृत् [क्, ख्: स्कन्धा] ब्भवेत्तेन तथा [द् न ते; ग्; तेन] ज्ञेयान्तकृद्भवेत् || दोषो दोषोपभोगेन क्षयदोषः प्रज्ञान्तकृत् | चित्तान्तकृद्भवेत्तेन [द्: विघ्ना] तथा क्लेशान्तकृद्भवेत् || रागो रागोपभोगेन क्षयरागः पद्मान्तकृत् | वागन्तकृद्भवेत्तेन समापत्यन्तकृत्तथा || सर्वक्लेशक्षयं यत्तत्सर्वकर्मक्षयन्तथा | सर्वावरणक्षयं ज्ञानं विघ्नान्तकृदिति स्मृतम् || क्लेशवज्रावृते शुद्धे सर्वं कर्म विशुध्यते | सर्वकर्मविशुद्धत्वात् विशुद्धं कर्मजं फलम् || ग्रहणं रागणं चैव आकारनिश्चलन्तथा | हेतुत्वञ्च फलत्वञ्च षड्भिश्चित्तसमुद्भ्वः || प्द्f १०३, प्. १५६) टक्किराजादयः षट्काः क्रोधेन्द्रा इति विश्रुताः | भूतभौतिकविख्याता विद्याराजेति विश्रुताः || रूपवज्रादयः षट्का वज्राधिपतयः स्मृताः | समयवज्रादयः षट्काः पृथिव्यादिषु पञ्चकाः || चित्तवाक्कायवज्रैस्तु [क्: चित्तं च कायवाग्वज्रैः] सम्भ्वन्ति महात्मनः | प्रज्ञोपायोद्भवं स्कन्धधात्वायतनविग्रहम् || निश्चित्य योगतो मन्त्री निष्पन्नक्रमयोगतः | सर्वशुद्ध्यधिमोक्षेण सर्वसन्त्रासवर्जितः | सिंहवत् विचरेत् मन्त्री निर्विशङ्केन चेतसा || नाकार्यं विद्यते ह्यच नाभक्ष्यं विद्यते तथा | नावाच्यं विद्यते किञ्चिन्नाचिन्त्यं [ख्: नि] विद्यते सदा || असमाहितयोगेन नित्यमेव समाहितः | सर्वचित्तेषु या चर्या समन्तचर्येति [क्, ग्: समन्तचर्येति] कथ्यते || प्रतीत्योत्पद्यते यद्यदिन्द्रियैर्विषयैर्मनः [ग्: न] | तन्मनो मननं [ख्, ग्: मनोमतं] ख्यातं कारकत्राणनार्थतः [ख्, ग्: तकारं] || लोकाचारविनिर्मुक्तं यदुक्तं समयसम्बरम् | पालनं सर्ववज्रैस्तु [ख्: समय] मन्त्रचर्येति कथ्यते || स्वकस्वकस्वभावन्तु विचार्य मनसा हृदि | जपं तु सृष्टिसंहारं मन्त्रमुच्चार्य भेदतः || विश्ववज्रात्मकान् बुद्धान् ज्ञानवीजेन संहरेत् | बोधिनैरात्म्यबीजेन निरात्मां भावयेद् [क्: धार] व्रती || प्द्f १०३, प्. १५७) संस्फरेद् विश्ववद्विश्वं त्र्यध्वबीजेन तं जपेत् | जपं जल्पनमाख्यातं सर्ववाङ्मन्त्रमुच्यते || मन्त्रं मन्त्रमिति प्रोक्तं तत्त्वं चोदनभाषणम् [क्: तत् वादन] | यथैव हृद्यधिष्ठानं समाधिं च तथैव च || तेषां मूर्ध्न्यभिषेकं च [ख्: केण] तथा पूजां च सर्वतः | विद्यया विद्यते योगं यस्य वज्रधरस्य [ख्, ग्: चक्र] च || तस्य भोगाश्चतुर्ज्ञेयाः स्वाधिष्ठानादिभिस्तथा | वीराणामेकवक्त्राणामेकैकं [क्: वज्राणां] मूर्ध्नि सेचनम् || हृन्मुद्रा मन्त्रमार्गेण [ख्, ग्: त्रे] मुद्र्यते स्वकुलक्रमैः | फलेन हेतुमामुद्र्य फलमामुद्र्य हेतुना | विभाव्यमन्यथा सिद्धिः कल्पकोटिर्न जायते || चतुर्भोगसमायुक्तं विद्यापुरुषवज्रिणम् [ख्, ग्: णः] | कायवाक्चित्तभेदेन त्रिकोणेषु विभावयेत् || दशारं चक्रमापीतं तत्र मध्ये विभावयेत् | सर्वारेषु दऽसक्रोधान् दशज्ञानात्मकोदयान् || भावयेन्निरोधचक्रेण [ख्: वज्रेण; ग्: वज्रिणो] निष्पन्नेनाग्रचारुणा [क्: रूपिणा] | वज्रज्वालां स्फरेन्मेघैर्भ्रमन्तं निश्चलोपमम् || इति धर्मोदयज्ञानं प्रकृत्या निर्मलं शिवम् | भावितेन क्षणेनैव बुद्धचक्षुः प्रजायते || क्रमद्वयमुपाश्रित्य वज्रिणां तत्र देशना | क्रममौत्पत्तिकं [ख्: शोत्] चैव क्रममौत्पन्नकं [ख्: शोत्पत्तिकं] तथा || प्द्f १०४, प्. १५८) साधनं प्रतिपत्तिश्च समयसम्बरं तथा | सर्वं तद्विस्तरं पूर्वं भिद्यते [क्: वि] क्रमभेदतः || रूपशब्दादयः कामाः सुखदुःखोभयात्मकाः | जनयन्ति हृदये नित्यं रागद्वेषतमोदयम् || रागे रागमयं [ख्, ग्: समं] वज्रं वज्रवद्रत्नसम्भवम् | रत्नवज्जायते समयंन् कामस्ते समयोपमाः || साकारं [ख्: आकरं निकरं चैव; ग्: आकारं च निकरं च] च निराकारं सर्वगं त्र्यक्षरात्मकम् | करणं हरणं चैव स्फारणं कुर्यात् स्वजापतः || एवं द्वेषं च मोहं च निष्पाद्य भुवनत्रयम् | आमुद्र्यं [ख्, ग्: अमुद्रा] गुह्यसंशुद्धमर्थं कुर्वन्ति वज्रिणः || निष्पाद्य द्वेषचक्रं तु द्वेषयोगेन योगिनाम् | विदाह्य [क्: विघात्य] क्रूरवज्रेण [ख्: योगेण] संहरेत् ज्ञानवज्रिणः || तांस्तु संस्फार्य संबोध्य [क्: बोधेन] तद्वत्संहरणं पुनः | अभ्यसेद्योगमेवन्तु द्वेषवज्रः स्वयं भवेत् || मारणं जीवनं चैव त्रैधातुकमशेषतः | करोति क्षणमात्रेण व्यक्तशक्तिर्न संशयः || निष्पाद्य मोहचक्रं तु मोहयोगेन योगिना | भूषणाद्यानि यत्किंचित्तत्सर्वं चोदयेत्सदा || मोहचित्तोदधिं भाव्यं [क्: स्थाप्य] सर्वरत्नैः प्रपूरितम् | दानवर्षं प्रवर्षेत सर्वेषां मोहचक्रिणाम् || प्रदानं हरणं चैव सर्वद्रव्यमशेषतः | करोति क्षणमात्रेण चित्तवज्रस्थिरेण वै || प्द्f १०४, प्. १५९) निष्पाद्य रागचक्रं तु रागयोगेन योगिना | अपहृत्य सर्वदेवेभ्यः कामयेत् [क्: कारं] कामयोगतः || रतिप्रीतिसुखैर्हर्षैः कामक्रीडाविकुर्वितैः | प्रदातव्यं ततः पञ्चदेवेभ्यः [ख्: पश्चात्] सर्वचक्रिणा || चैधातुकसमुत्पन्ना भार्या देवासुरा अपि | कामयन्ति क्षणेनैव मानुष्यः किं पुनः स्त्रियः || मण्डलमभिषेकं च कर्माग्रप्रसराणि च | अनुष्ठानमधिष्ठानं सिद्धानां गतिरन्यथा || भगं मण्डलमाख्यातं बोधिचित्तं च मण्डलम् | देहं मण्डलमित्युक्तं चिषु मण्डलकल्पना || मुद्रितं मुद्रया सर्वं स्कन्धायतनधातुना | तेन मुद्रा सदा न्यस्ता [ख्: भस्ता] मण्डलेति विनिर्दिशेत् || अङ्कुशं दण्डशूलं [ग्: रूपं] च खड्गं कोणेषु विन्यसेत् | टक्किदण्डबलं बालं चक्रं सुम्भमधोर्द्धतः [ख्, ग्: शस्त्र] || विद्याराजादिवज्राणां मुद्रा षट्चक्रवर्तिनाम् | पृथिव्यादिषु सत्त्वानां मुद्रामण्डलकं स्वकम् || आदर्शं वीणां शङ्खं च पात्रं बिम्बपटांस्तथा | धर्मोदयाख्या मुद्रैषा वज्राधिपतिवज्रिणाम् || बुद्धाश्च बोधिसत्त्वाश्च क्रोधराजाभिमुद्रिताः | ततोऽन्या एकवीरास्तु कुलवर्णेन कल्पिताः || पुष्पंमित्यभिधीयन्ते नवयोषित्खधातवः | कायवाक्चित्तभेदेन न्यासं कुर्यात् कुलक्रमैः || प्द्f १०५, प्. १६०) चैत्यं च सर्वबुद्धानां आलयस्थानमुच्यते | ज्ञानसत्त्वेन यत् सृष्टं [क्: पृष्ठं] ज्ञानचक्रमिति स्मृतम् || बीजाक्षरपदं प्रोक्तं त्रिवज्राक्षरमक्षरम् | चोदनं बोधनं प्रोक्तं कायवाक्चित्तभावतः [ख्, ग्: तत्त्वतः] || प्रेरणं रश्मिसञ्चारं दशदिग्लोकधातुषु | आमन्त्रणं सवज्राणां सर्ववज्रनिमन्त्रणम् || रश्मिना सर्ववज्राणां सर्ववज्राणि तत्पदे | संहृत्य पिण्डरूपेण बंधो [ख्: वज्र] बन्धनमुच्यते || कायवाक्चित्तवज्रेण कायवाक्चित्तमण्डले | आमुद्र्य कायवाक्चित्तं कल्पयेत् लेख्यमण्डलम् [क्: ख] || अभिषेकं त्रिधा भेदमस्मिन्तन्त्रे प्रकल्पितम् | कलशाभिषेकं प्रथमं द्वितीयं गुह्याभिषेकतः | प्रज्ञाज्ञानं तृतीयं तु चतुर्थं तत् पुनस्तथा || मन्त्रयोग्यां विशालाक्षीं सपुष्पां [द्: स] शुक्रसम्भवाम् | गुह्यगुह्याभिषेकं तु दद्यात् शिष्यस्य [द्: ष्ये] मन्त्रिणः || खधातुमध्यगतं कृत्वा विण्मूत्रमज्जसंयुतम् | वज्रपद्मप्रयोगेण सर्ववज्रान् समाजयेत् [द्: वज्रसमो] || सर्वांस्तान् हृदये पात्य कायवाक्चित्तवज्रतः | उत्सृज्य वज्रमार्गेण शिष्यवक्त्रे [ग्: वज्रे] निपातयेत् || इदन्तत् सर्ववज्राणामभिषेकपदं परम [ख्: वरं पदम्] | सिद्ध्यन्ति सर्वमन्त्राणि कर्माग्रप्रसराणि च || प्द्f १०५, प्. १६१) अंतिश्रद्धां [ख्: श्रद्धां; द्: श्राद्धो] महाप्राज्ञीं सुरूपां साधकप्रियाम् | एकयोगक्रियाभ्यस्तां समयी [क्: ओमित्स्] समपश्य वै || दक्षिणा च [क्, ख्, ग्: य] प्रदातव्या गुरवे साधकेन वै | अध्येष्य गुरुणा तस्य दातव्या साधकस्य तु || मूढे मोहात्मकं योगं मोहरत्या [क्, द्: क्तां] समन्वितम् | निःसेकान्मोहधाराभिर्मोहवज्रः [ख्: शो] स्वयं भवेत् || द्विष्टे द्वेषात्मकं योगं द्वेपरत्या समन्वितम् | निःसेकाद् [ख्: शेषा] द्वेषधाराभिर्द्वेषवज्रः स्वयं भवेत् || रक्ते रागात्मकं योगं रागरत्या समन्वितम् | निःसेकाद्रागधाराभीइ रागवज्रः स्वयं भवेत् || प्रज्ञाज्ञानात्मकं योगं वज्ररत्या समन्वितम् | निःसेकाद् ज्ञानधाराभिः प्रज्ञाज्ञानः स्वयं भवेत् || तामेव देवतां विद्यां गृह्य शिष्यस्य [क्, ख्, ग्: गुह्याभिषेक] वज्रिणः | पाणौ पाणिः प्रदातव्यः साक्षीकृत्य तथागतान् || हस्तं दत्वा शिरे शिष्यमुच्यते [क्: शिष्यशिरसि] गुरुवज्रिणा | नान्योपायेन बुद्धत्वं तस्माद्विद्यामिमां वराम् || अद्वयाः सर्वधर्मास्तु द्वयभावेन लक्षिताः | तस्माद्वियोगः संसारे न कार्यो भवता सदा || इदं तत्सर्वबुद्धानां विद्याव्रतमनुत्तमम् | अतिक्रमति यो मूढः सिद्धिस्तस्य न चोत्तमा [ख्: तथो] || प्रकृत्या देहधर्मेषु भ्राजते मलपञ्चकम् | पञ्चज्ञानैरधिष्ठानात्पञ्चामृतमिति स्मृतम् || प्द्f १०६, प्. १६२) ज्वालनं [ख्: ज्व] तापनं चैवोद्योतनं रूपदर्शनम् | मन्त्रमूर्तिप्रयोगेण भक्षेत्पञ्चामृतामृतम् || अन्तरिक्षगतं चिन्तेद्वज्रहूङ्कारसम्भवम् [ग्, द्: वज्रं; ख्: ध्येयं] | अधस्तात्तु [क्, ख्: ओमित् थिस् लिने] तत्र भागे पद्ममाकारसम्भवम् [ग्: तत्र भावेन ; ग्: पद्मा] | ओंकाराङ्न्कितममृतं [ख्, ग्, द्: नमृतान्] तत्र मध्ये निवेशयेत् || वज्रपद्मसमायोगाज्ज्वाल्य [द्: ज्ञानं, ख्, ग्: ज्वाल] सन्ताप्य [क्: सन्ताप; द्: सन्तुष्य] योगिना | उद्यते [क्, ग्: उद्योत] स्फटिकाकारं ज्ञानसूर्यमिवापरम् || आकृष्य परमास्त्रेण दशदिग्लोकधातुषु | अमृतं तत्र संपात्य [क्: प्राप्य; ग्: योज्य; ख्: पाद्य] भक्षेद् भक्षणयोगतः || पञ्चवीर्यं तथा भक्ष्यं साध्यसिद्धिविधानतः | निष्पाद्य त्र्यक्षरैर्बीजैरन्यथा नैव सिद्धिदाः || अन्तर्द्धानादयः सिद्धाः सामान्या इति कीर्तिताः | सिद्धिरुत्तममित्याहुर्बुद्धा बुद्धत्वसाधनम् [क्: भावनं] || चतुर्विधमुपायन्तु बोधिवज्रेण वर्णितम् | योगतन्त्रेषु सर्वेषु शस्यते [ख्: चाख्यातं सम्पात; ग्: वा ख्यातं संस्था ते] योगिना सदा || सेवाविधानं प्रथमं द्वितीयमुपसाधनम् | साधनन्तु तृतीयं वै महासाधनं चतुर्थकम् || सामान्योत्तमभेदेन सेवा तु द्विविधा भवेत् [क्, ख्, ग्: चतुर्विधा] | वज्रचतुष्केण सामान्यमुत्तमं ज्ञानामृतेन च || प्द्f १०६, प्. १६३) प्रथमं शून्यताबोधिं द्वितीयं बीजसंहृतम् | तृतीयं बिम्बनिष्पत्तिश्चतुर्थं न्यासमक्षरम् || एभिर्वज्रचतुष्केण [ख्, ग्: ठिस् अन्द् थे नेxत् लिने अरे ओमित्तेद् इन्] सेवासामान्यसाधनम् | उत्तमे ज्ञानामृते चैव कार्यं योगषडङ्गतः || सेवाषडङ्गयोगेन [ख्: षडभिरेभिः सेवायोगैः] कृत्वा साधनमुत्तमम् | साधयेदन्यथा नैव जायते सिद्धिरुत्तमा || प्रत्याहारस्तथा ध्यानंन् प्राणायामोऽथ धारणा [ख्, ग्: णम्] | अनुस्मृतिः समाधिश्च षडङ्गो योग उचयते || दशानामिन्द्रियाणान्तु स्ववृत्तिस्थानान्तु [द्: शृण्वन्तु तिष्ठन्तु] सर्वतः | प्रत्याहारमिति प्रोक्तमाहारप्रतिपत्तये [क्: कामाहारं प्रति प्रति] || पञ्चकामाः समासेन पञ्चबुद्धप्रयोगतः | कल्पनं [ग्: ना] ध्यानमुच्येत तद् ध्यानं पञ्चधा भवेत् || वितर्कं च विचारं च प्रीतिश्चैव सुखं तथा | चित्तस्यैकाग्रता चैव पञ्चैते ध्यानसंग्रहाः || गुह्यतन्त्रेषु सर्वेषु विविधाः परिकीर्तिताः | गुह्यं तर्कोदयं तर्कं विचारं तत् प्रयोगतः [द्: प्रभागता] || तृतीयं प्रीतिसङ्काशं चतुर्थं सुखसंग्रहम् | स्वचित्तं पञ्चमं ज्ञेयं ज्ञानं ज्ञेयोदयक्षमम् [ग्: क्षेयं ज्ञानो] || सर्वबुद्धमयं शान्तं सर्वकामप्रतिष्ठितम् | पञ्चज्ञानमयं श्वासं [द्: त्रासं] पञ्चभूतस्वभावकम् || निश्चार्य पिण्डरूपेण नासिकाग्रे तु कल्पयेत् | पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् || प्द्f १०७, प्. १६४) स्वमन्त्रं हृदये ध्यात्वा प्राणबिन्दुगतं न्यसेत् | निरुध्य चेन्द्रियं रत्नं धारयन् धारणा स्मृतम् || निरोधवज्रगते चित्ते निमित्तमुपजायते | पञ्चधा तु निमित्तं तद् बोधिवज्रेण भाषितम् || प्रथमं मरीचिकाकारं धूम्राकारं द्वितीयकम् | तृतीयं खद्योताकारं [क्, ख्, ग्: तका] चतुर्थं दीपवज्ज्वलम् || पञ्चमन्तु सदालोकं निरभ्रं [द्: नियतं; ख्: निरतं] गगनसन्निभम् | स्थिरन्तु वज्रमार्गेण स्फारयीत स्वधातुषु || विभाव्य यदनुस्मृत्या तदाकारन्तु संस्मरेत् | अनुस्मृतिरिति ज्ञेया प्रतिभासोऽत्र जायते || प्रज्ञोपायसमापत्त्या सर्वभावान् समासतः | संहृत्य पिण्डयोगेन बिम्बमध्ये विभावनम् || झटिति ज्ञाननिष्पत्तिः समाधिरिति संक्षिता | प्रत्याहारं समासाद्य [द्: प] सर्वमन्त्रैरधिष्यते || ध्यानज्ञानं समापद्य पञ्चाभिज्ञत्वमाप्नुयात् | प्राणायामेन नियतं बोधिसत्त्वैरधिष्ठ्यते [क्, ख्, ग्: र्निरीक्ष्यते] || धारणानुबलान्नित्यं [ख्, ग्, द्: न्तु] वज्रसत्त्वः समाविशेत् | अनुस्मृतिसमायोगात्प्रभामण्डल जायते || समाधिवसितामात्रे निरावरणवान्भवेत् | तच्चित्तं हृदये लक्ष्य चतुर्वज्रप्रयोगतः [क्, ख्, ग्: चन्द्रव] || आकृष्य परमास्त्रेण चित्तं मन्त्रमयीकृतम् | मन्त्रमूर्तिप्रयोगेण बोधिगाथामुदाहरेत् || प्द्f १०७, प्. १६५) स्वमण्डलसमारूढं बोधिसंयोगभावनैः [ख्, ग्: विधि] | तच्चित्तं ज्ञानबिम्बेन भावनमुपसाधनम् || दर्शनंन् च द्विधा यावत् तावत् षण्मासभावनम् | सर्वकामोपभोगैस्तु कर्तव्यं सर्वतः सदा || दर्शनं यदि षण्मासैर्यदुक्तं नैव जायते | आरभेत त्रिभिर्वारैर्यथोक्तविधिसम्बरैः [ख्: सम्भवैः] || दर्शनं तु कृतेऽप्येवं साधकस्य न जायते | यदा न सिध्यते बोधिर्हटयोगेन साधयेत् || ज्ञानसिद्धिस्तदा तस्य योगेनैवोपजायते [ख्, ग्: तस्यावश्यमे] | कुलभेदप्रयोगेण वज्रकीलेन कीलयेत् || वशीकरणरक्षां च ततः कुर्यात्प्रयोगतः | महारागनयेनैव संहृत्य ज्ञानचक्रिणम् [द्: वज्रि] || योषितं स्फार्य नवधा साध्याया विग्रहे न्यसेत् | परिवर्त्य चतुर्मुद्रां मण्डलं तत्र कल्पयेत् || आत्ममध्यगतं कृत्वा संहरेत् सर्वचक्रिणम् [द्; वज्रि] | सर्ववज्रमयं कृत्वा तदा बोधिं विभावयेत् || चतुर्भिश्चोदनागीतैर्देवीभिश्चोदिते [द्: ति चोदते] हृदि | त्र्यध्ववज्रमयं चिन्तेद् [द्: चित्तं] ज्ञानवद्देहभावनम् || मदेन भिद्यते वर्णं रसेन हृदयं तथा | स्वहेतुरभिषेकेण फलमाधारभेदतः | मन्त्रेण भिद्यते चर्म [द्: ध] विद्यापि धर्ममुद्रया || षट्चक्रवर्तिनो राज्ञ उष्णीषात्तु विनिःसृताः | प्द्f १०८, प्. १६६) विद्याराज्ञीति विख्याता चतुर्भोगा महर्धिका | सर्वकामेति विज्ञेया वज्राधिपतयस्तथा || ध्यानवज्रेण सर्वेषामभिषेकः प्रशस्यते | अनेन विधियोगेन ज्ञानेन सह विग्रहम् || कायवाक्चित्तवज्रेणाद्वयी करणसाधनम् | पूर्वोक्तेनानुसारेण विद्यापुरुषवज्रिणः || आत्मवन्मण्डलसृष्टिर्महासाधनमुच्यते | सेवाकाले महोष्णीषं बिम्बमालंव्य योगतः || उपसाधनकाले तु बिम्बममृतकुण्डलम् | साधने देवतायोगं कुर्यान्मन्त्री विधानवित् [ख्: ण वशी ; क्: तः] || महासाधनकाले च बिम्बं बुद्धाधिपं विभुम् | इदं तत् सर्ववज्राणां [ख्, ग्: बुद्धानां] रहस्यं परमयोगिनाम् || इति बुद्धा विभागेन साधयेत्सिद्धिमुत्तमाम् | अन्यथा नैव संसिद्धिर्जायते उत्तमं शिवम् || कल्पकोटिसहस्रेऽपि बुद्धानामपि तायिनाम् | साध्यसाधनसंयोगं यत्तत् सेवेति भण्यते || वज्रपद्मसमायोगमुपसाधनमुच्यते | साधनं चालनं प्रोक्तं हूंफट्कारसमन्वितम् || खभावं खमुखं शान्तं महासाधनमुच्यते | सर्वबुद्धाधिपः श्रीमान् महावज्रधरैः [द्: धरो; ख्, ग्: धरो] पदम् || उपेयः सर्वबुद्धानां धर्माणां सैव धर्मता | यद्यत्कर्मानुरूपेण [द्: संसारेण] योगमालंव्य [द्: लभ्य] योगिनः || प्द्f १०८, प्. १६७) निष्पाद्य मण्डलं तत्र श्रावयेत्समयदारुणम् | समयं रक्षयेत्पूर्वं कायवाक्चित्तवज्रिणः || अथवोष्णीषसमयीयथोक्तविधिसम्भवैः [ख्: यैः ; ख्: भावनैः] | तत्तत् [क्: तत्त्व] कर्मान्तुरूपेण स्वचक्राज्ञां [क्, द्: स] तु दीयते || साध्यमस्यापि [द्: साधक] यद्देहं मण्डलेन विभावयेत् | अपरं [ख्: राधं] श्रावयेत् तस्य तेषां देहस्थचक्रिणाम् [द्: वज्रिणा] || तस्य पातं ततः कृत्वा निष्क्रान्तान् प्रविभावयेत् | आकृष्य सर्वभावेन स्वचक्रे [द्: ण] तान् प्रवेशयेत् || कृत्वा प्रतिकृतिं तस्य यथोक्तद्रव्यसम्भवैः | लिङ्गमाक्रम्य पादेन क्रोधाविष्टेन चेतसा || गृहीताज्ञान् [द्: त्वा तु] ततः क्रोधान् नानाभीतगणैर्वृतान् | प्रेषयेत् घातनार्थाय [ग्: घाट; ख्: द्योत] साध्यसाधकवज्रिणः || बन्धितं ताडितं तेन क्रोधराजेन वेष्टितम् | सन्तप्तं त्राससम्भूतं साध्यमाकर्षयेत्ततः || पातयेत्प्रतिकृतौ तस्य त्रिवज्रस्य तु मन्त्रिणः | कीलयेत्कीलमन्त्रेण मूर्ध्नि कण्ठे तथा हृदि || ईतिश्चोपद्रवान् रोगान् [क्, द्: नागा] नानाविषसमुद्भवान् | निपात्य तत्र बिम्बेषु तेषामपि सुकीलयेत् || ततः सर्वप्रयोगेण [ख्, ग्: ततः सर्वत्र योगेषु] यथोक्तविधिसम्भवैः | यन्त्रमन्त्रप्रयोगादीन् योजयेत्कर्मभेदतः || जपं वा [ग्: ख] लिङ्गमाक्रम्य होमं वा क्रोधमण्डले | ध्यानं वा क्रूरसत्त्वैस्तु खाद्यमानं प्रकल्पयेत् || प्द्f १०९, प्. १६८) शान्तिके शान्तचित्तं तु पौष्टिके पुष्टिमानसम् [ख्, ग्: पुष्ट] | वश्ये रक्तं मनः कृत्वा क्रोधे क्रुद्धं [क्, ख्, ग्: क्र्धान् क्रूरान्] प्रसाधयेत् || इति || अथ भगवन्तः सर्वतथागतास्तेषां बोधिसत्त्वानां महासत्त्वानां संशयच्छेदं [द्: त्तारं] कृत्वा सर्वसंशयच्छेत्तारं कायवाक्चित्तवज्रं [क्: अजं] स्वकायवाक्चित्तवज्रेषु विहरन्तं स्वकायवाक्चित्तेनालंव्यतूष्णीमवस्थिता अभूवन् | अथ ते सर्वे बोधिसत्त्वा महासत्त्वास्तान्सर्वतथागतान् अनेन स्तोत्रराजेन स्तुवन्ति स्म | नमस्ते सर्वकायेभ्यः सर्ववाग्भ्यो नमो नमः | नमस्ते [ग्; ओमित्स् थिस् लिने] सर्वचित्तेभ्यः सत्त्वहृद्भ्यो नमो नमः || कायवाक्चित्तवज्राणां कायवाक्चित्तभावतः [ख्, ग्: लाभतः] | सत्त्वासमसमा बुद्धाः कः साध्यः कश्च साधकः || सर्वबुद्धविघातेन साधकस्य [क्, ग्: केन्द्रं; द्: केन्द्रो] महात्मनः | कथं न लिप्यते पापैर्यदि लिप्तः फलं कथम् || अथ ते सर्वतथागतास्तेषां महाबोधिसत्त्वानां साधुकारमददुः | साधु साधु महासत्त्वाः साधु साधु महामुने [क्: त्मनः] | साधु साधु महाघोषाः साधु साधु महामहाः [ख्: शयाः] || सर्वबुद्धाधिपः श्रीमानाचार्यो बोधिवज्रिणः | मायावत्सर्वभावान्वै सृष्टिसंहारकारकः || तेन तस्य न पापं स्यात्पुण्यं नैव तथैव च | यस्य न पुण्यं पापोऽस्ति तस्य बोधिः प्रगीयते || प्द्f १०९, प्. १६९) वञ्चनं तस्य नाथस्य नाशनं सर्वदेहिनाम् | दुर्गतिर्नैव जायेत बोधिश्चापि न दुर्लभा || पूर्वेण कृतकर्मेण घोरेण यदि नारकम् [द्: मां] | जन्तूनां जायते तेषां नारकाणां महत्फलम् || ज्ञानेन मुद्रिता भोन्ति साध्योऽयं बोधिवज्रिणाम् | परमानुग्रहो ज्ञेयः सत्त्वानां तेन योगिनाम् || निग्रहानुग्रहं कर्म तेन कृत्यं महात्मनाम् | महासाधनपर्यन्तं कृत्वा कर्म समारभेत् || अथे ते सर्वे बोधिसत्त्वा महासत्त्वाः सर्ववज्राणां महाकरुणानयधर्मं [ख्: र्मतत्त्वं] श्रुत्वा तुष्टाः प्रतुष्टाः सन्तुष्टाः साधुकारमददुः | साधु साधु महानाथाः साधु साधु महामुने | साधु साधु महाधर्माः साधु साधु महाकृपाः || अहो समन्तभद्रस्य कृपा परमनिर्मला | क्रूरकर्मेऽपि दुष्टानां बुद्धत्वफलदायिका || अथे ते सर्वतथागतास्तेषां बोधिसत्त्वानां महासत्त्वानामेवमाहुः | तेन हि कुलपुत्रा अस्मिन्सर्वतथागताभिषेकगुह्यसमाजेऽभिषिक्तेन मन्त्रिणा न वसितव्यं न संचसितव्यं न संत्रासमाप्तव्यम् | तत्कस्य हेतोः (?) बोधिवज्राभिसम्भूता द्वेषवज्रादयो महाः [क्, ख्, द्: न्; ग्: न्ताः] | प्रतिक्षेपो न कर्तव्यः प्रबन्धे मन्त्रसंग्रहे || अथे ते बोधिसत्त्वा महासत्त्वास्तान् सर्वतथागतानेककण्ठेनाभिर्गाथाभिः स्तुवन्ति स्म | प्द्f ११०, प्. १७०) यं त्र्यध्ववज्रमुदयं भवमोक्षभूतं शान्तं निरावरणशुद्धस्वधातुभावनम् [क्: व्य] | बुद्धादिबुद्धपरमेश्वरबोधिवज्रं तं कायचित्तवचनैः [ंष्ष् अद्द् वाक् wहिछ् इस् रेदुन्दन्त् अन्द् दिस्तुर्ब्स् थे मेत्रे ; ख्: वज्र] सततं नमामः || यदूपवेदनसंज्ञसुसंस्कृतं च विज्ञानमायतनषट्कषडिन्द्रियं च | अप्तेजवायुपृथिवीगगनं च सर्वान् तान् बोधिचित्तसदृशान् विपुलान् [क्, द्: सततं] नमामः || यन्मोह द्वेष तथ राग सवज्रधर्मान् विद्याप्रयोगजनितान् सततं प्रधर्मान् | नानाविचित्ररतिविह्वलभावभूतान् तान् द्बोधिचित्तसदृशान् विपुलान् नमामः || संग्राहणं रति तथ कृतिनिश्चलं च हेतुफलप्रकृतिचित्तगतानुधर्मान् | भ्रमं [क्: तत्रम; ख्, ग्: तम] दोष राग तथ आवरणञ्च वज्रान् तान् बोधिवज्रसदृशान् [क्, ख्, ग्: चित्त] विपुलान् नमामः || ध्यायन्ति ये इमु [द्: इमं] विशुद्धमनादिभावं प्रज्ञा##- गुह्याभिषेकव्रतसम्बरयोगनित्यं तान् बोधिवज्र इव लक्ष्य सदा नमामः || प्द्f ११०, प्. १७१) ये भावयन्ति इमु उत्तमसिध्युपायं सेवाविधानमुपसाधनसाधनेन [द्: रेपेअत्स् ; द्: नस्य] | ये महासाधनमतिनिश्चितसाधकेन्द्रास्तान् [क्, ख्, ग्: निश्चल] बोधिवज्र इव लक्ष्य सदा नमामः || ये [ḻअचुनए बेगिन्स् इन् आ अन्द् चोन्तिनुएस् उप् तो बोधिसत्त्वा महायशाः |] साधयन्ति कृतसन्ध्यचतुष्कवज्रैरन्तर्हितादिविविधानिह हीनसिद्धीन् [द्: मंत्राः] | अविनष्टमार्ग इमु बुद्धगुरुप्रसादैस्तान् बोधिवज्र इव लक्ष्य सदा नमामः || शृण्वन्ति ये इमु समाजसुगुह्यतन्त्रं स्वाध्यां करोन्ति [ख्, ग्: करोति] च पठन्ति च विन्तयन्ति | पूजां करोन्ति च लिखन्ति च लेखयन्ति तान् बोधिवज्र इव लक्ष्य सदा नमामः || स्वाध्यां च ये [ख्, ग्: ध्यात्वापाय (?)] इमु अभियुक्तसुसाधकेन्द्राः [ख्, ग्: कैस्तैः] शान्त्यादिकर्मप्रसरेण सुकल्पितेन | यन्त्रेण मन्त्रविदितेन तथ मुद्रितेन तान् बोधिवज्र इव लक्ष्य सदा नमामः || ये देशयन्ति [ग्, ख्: दर्श] च स्पृशन्ति च संस्मरन्ति शृण्वन्ति साधकविभोः खलु नाममात्रम् | श्रद्धां करोन्ति [ख्: कुर्वन्ति; ग्: करोति] च वसन्ति च एकदेशे तान् बोधिवज्र इव लक्ष्य सदा नमामः || प्द्f १११, प्. १७२) एभिः स्तोत्रपदैः शान्तैस्तनुयात् सर्वनायकान् | अनुमोदयन्ति ते नाथा बोधिसत्त्वा महामहाः [ख्: दशाः] || सुभाषितमिदं तन्त्रं सर्वतन्त्राधिपं परम् | सर्वताथागतं गुह्यसमाजं गुह्यसम्भवम् || इति [द्: एन्द्स् हेरे] || इदमुक्ता ते सर्वतथागतास्ते च बोधिसत्त्वा महासत्त्वाः स्वकायवाक्चित्तवज्रेषु विहरन्तं कायवाक्चित्तवज्रस्य कायवाक्चित्तं स्वकायवाक्चित्तेनालम्ब्य तूष्णीमभूवन् || इति || || इति श्रीसर्वतथागतकायवाक्चित्तरहस्यातिरहस्ये गुह्यसमाजे महागुह्यतन्त्रराजे सर्वगुह्यनिर्देशवज्रज्ञानाधिष्ठानं नाम पटलोऽष्टादशः || || समाप्तोऽयं श्रीगुह्यसमाजस्य तन्त्रराजस्य पूर्वार्द्धकायः || ########### END OF FILE #######