#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00264 Uniform title: haṃsasāra Manuscript : BHU C4244 Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 7, 2012 Internet publisher : Muktabodha Indological Research Institute Publication year : Publication city : Publication country : India #################################################### ओं नमः शिवाय स शिवाय शिवदाय नमो नमः | ओं नमः परमात्मने | ओं नमो विघ्नहर्त्रे | अथ हंससारं लिख्यते || श्रुतं देव मया पूर्वममलं हंसयामलम् | पुनर्हि श्रोतुमिच्छामि सारात्सारतरं परम् || १ || यत्पुरा कथितं देव सूचितं न प्रकाशितम् | वदमे वस्तु सद्भावं प्रसादं कुरु शूल भृत् || २ || साधु साधु महाप्राज्ञे सर्वसत्वार्थबोधिनि | तदर्थं संप्रवक्ष्यामि तवस्नेहान्महेश्वरि || ३ || दुर्लभं सर्वदेवानां योगिनीनां तथैव च | यो सौ शान्तो ह्यजो देवः शक्त्याधारो ह्यविग्रहः || ४ || जीवभूतः सदा तिष्टेद्वामदक्षिणमध्यगः | प्. ६८ब्) च चैष परमोहंसः स वै देवः सनातनः || ५ || स ब्रह्मा स च वै रुद्र ईश्वरो विष्णुरेव च | सदाशिवः परंधाम तारकं ब्रह्म एव च || ६ || वाराणस्यां तु देवेशि स्वकं मार्गं प्रकाशितम् | अज्ञानं चैव तत्क्षेत्रं ज्ञानिनामव्रतः स्थितम् || ७ || लक्षणं तस्य वक्ष्यामि येन ज्ञास्यन्ति साधकाः | गुर्ववस्था गमः सो हि दृश्यते न तु लक्ष्यते || ८ || स परः सर्वतो ह्यात्मा चञ्चलत्वे व्यवस्थितः | स बाह्याभ्यन्तरस्थो हि स्पन्दते सर्वदेहिनाम् || ९ || नित्योदितश्च निष्टश्च अनादिर्निधनेश्वरः | अव्यक्तो व्यक्तरूपश्च अग्राह्यश्च चलाचलः || १० || भावग्राह्यस्सचिन्मात्रच्चैतन्यासुस्थितः स्थितः | तेजोरूपी हि भगवान्हृद्व्योम्नेवस्थितः परः || ११ || प्. ६९अ) बाह्यव्योम्नि स्थितो धूम्रो धूम्राग्रे प्रकृतिर्वपुः | शुद्ध स्फटिकसङ्काशं भिन्नं व्योम्नि तु व्योमवत् || १२ || मुक्तेर्लता तदाकारं चित्त्रावलिततादृशम् | भ्रमरेण प्रतीकाशं हकारमशिराहतम् || १३ || कुलनाथं परं शान्तं कुलसन्तति दृश्यते | सिद्धोति नूनं तत् तस्मिञ्चिव पुष्पाणि पश्यति || १४ || एकोनेक विभेदेन कोटिभेदेन दृश्यते | नानाकार विभागेन दृश्यते परमेश्वरः || १५ || हवितो पिङ्गलो दीप्तो निशि वेश्मनि दृश्यते | सद्व्योमज्योतिरूपोसौ नदते स मुहुर्मुहुः || १६ || स बाह्याभ्यन्तरं लक्ष्यं यो ददाति दिने दिने | अघंशमय ते देवि न क्वचिद्योनि सम्भवः || १७ || प्. ६९ब्) जन्मान्तर सहस्राणि शिवभक्ति परायणः | तस्य चापश्चिमंजन्म हंसो दृश्यो वरानने || १८ || भिद्यते हृदयग्रन्थि च्छिद्यन्ते सर्वसंशयः | क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे || १९ || हंसज्ञानप्रदाता वै दुर्लभो * विदैशिकः | पृथिव्यां नास्ति तद् द्रव्यं यद् दत्वा चारिणी * ? वेत् || २० || अथातः संप्रवक्ष्यामि कालज्ञानं च?णाम्बिके | कालचिह्नपरिज्ञानं नाधोगतिषु योगिनाम् || २१ || भु?जङ्ग कुटिलाकारमग्रतः सर्वतन्तुषु | तं दृष्ट्वापि चिरं देवि पुनर्जन्म न विद्यते || २२ || लिङ्गाकारे ऋ?वेन्मोक्षं घनेन बन्धनं भवेत् | रक्तो यदा तनुर्विद्यात्पीते चार्थस्य सम्भवः || २३ || प्. ७०अ) व्यालैर्विशेषगमनं बिन्दुनादप्रसादनम् | सुभिक्षं च प्रचारे च दुर्भिक्षं चञ्चु बन्धने || २४ || मध्यच्छेदे त्रिभिर्मासैर्म्रियते नात्रसंशयः | त्रिदिवैर्दिवसे युक्ते म्रियते च ततो ध्रुवम् || २५ || पूर्वाह्णे पूर्वसंस्थं तु यथा दृष्ट्वा वरानने | अञ्जलिं वारिपूर्णायां भावयेत विचक्षणः || २६ || सामस्थो दक्षिणं गत्वा षण्मासान्मृत्युमादिशेत् | सोमसूयविभागेन अहोरात्रं निरीक्षयेत् || २७ || द्वौ मासौ सोमसूर्याभ्यां मासं सोमस्य दक्षिणे | पूर्वे दक्षिणमावस्यां प्रविशेद्रविमण्डले || २८ || सोमावस्यां दशाहेतु पञ्चाहं सूर्यगोत्तरे | एकः कालस्य पर्यायं कथितं तव सुन्दरि || २९ || प्. ७०ब्) कालस्य वञ्चनं देव कथं जानाति तत्त्वतः | एतद्धि संशयं ब्रूहि अत्रकौतूहलं मम || ३० || शृणु देवि परं गुह्यं रहस्यं भुवि दुर्लभम् | यन्न कस्य चिदाख्यातं तत् ते वक्ष्यामि सुव्रते || ३१ || चन्द्रमण्डलमध्ये तु ठकारं चिन्तयेत् प्रिये | ठ मध्यमे गतोहंसश्चिन्तनीयः प्रयत्नतः || ३२ || ब्रह्मरन्ध्रात्स्रवन्ती च परमामृतरूपिणी | अव्यया सर्वगा सूक्ष्मा परा चास्य पराकला || ३३ || हंसोदर गता सा तु स्रवन्ती चिन्तयेत् प्रिये | कालो न कलयेच्चात्र न जराव्याधिरेव च || ३४ || प्. ७१अ) कालस्य वञ्चनं देवि गोप्तव्यं वीरवन्दिते | गुप्तोसान्निध्यमिच्छन्ति मातरः साधकेश्वरि || ३५ || तस्मात् सर्वप्रयत्नेन न देयं यस्य कस्यचित् | दातव्यं भक्ति युक्तानां गुरुभक्तिरतात्मनाम् || ३६ || गुरुश्शिव गतोज्ञेयः शिवोगुरुमुखोद्गतः | यो गुरुः स शिवः साक्षात् पूजनीयः प्रयत्नतः || ३७ || शुचिर्दक्षो विनीतश्च शक्तिश्चाप्यस्य तत् प्लुता | तस्य ज्ञानं च मोक्षं च सिद्ध्यते परमार्थतः || ३८ || तस्मिन् स्थाने यदा लीनं चित्तं विगतवृत्तिकम् | वलीपलितनिर्मुक्तः षण्मासेन भविष्यति || ३९ || न कालं कलयेच्चात्र न च साव्याधिरेव च | हंससारं परं ब्रह्म परं व्योम परः शिवः || ४० || त्वच्छ्रेयोर्थमिदं ख्यातं हंससारसमुच्चयम् | प्. ७१ब्) अनास्तिकानां नादेयं शठानां क्रुरचेतसाम् || दाम्भिकानामभक्तानां तन्त्राचाररतात्मनाम् | यतस्ते पशवः कीटा महामार्गबहिष्कृताः || ३२ || शङ्काविकल्पनिर्दग्धा महामोहान्ध्यपीडिताः | अनाश्वस्ता असन्तुष्टाः पशुशास्त्रेषु भाविताः || ३३ || न ते लभन्ते परमं महोर्मिनिकराकुलम् | ओघसर्वस्वमतुलं गुरुवक्त्रे समागतम् || ३४ || तस्मात् सर्वप्रयत्नेन दातव्यं वीरवन्दिते | गुरुभक्ताय शान्ताय नित्याभ्यासरताय च || ३५ || वीराचारनिषण्णाय द्रव्याद्वैतपराय च | समया सेविने नित्यं कुलकालोदिते शिवे || ३६ || प्. ७२अ) अदाम्भिकाय गुप्ताय गुप्ताचाररताय च | यतः स्वरस्मिरूपस्थाः पीठेभ्यः पीठविग्रहः || ३७ || नित्यं भ्रान्ति विहीनानां परोक्षाकारितांश्रिताः | रक्षन्तिताः कृपाविष्टाः समयाचारपालकाः || ३८ || सर्वभावैः प्रयत्नेन प्राणमध्ये च मातरः | विकासयन्ति परमं तेजो यद्वान्तसम्भृतम् || ३९ || ते नोदितो नोदयन्ति मेलापादि समृद्धयः | प्रत्यक्षरूपो वीराणां स बाह्याभ्यन्तरं स्थिताः || ४० || संविद्या हृदयादीनां योगिनां कौलशासने | रहस्यं ज्ञेयगमनं भूमिरत्रमगाह्यगा || ४१ || जीवन्मुक्तिरहस्यं च वीरेशानां सुखागमम् | कथितं सारसर्वस्वमुमयासहरं परम् || ४२ || प्. ७२ब्) उपेय गह्वरं प्रायः सतशोथ सहस्रशः | तस्मात् सर्वप्रयत्नेन न देयं यस्य कस्यचित् || ४३ || एकशिष्यमिदं ज्ञानमप्रख्याप्यमहात्मभिः | सर्वशास्त्रबहिर्भूतं हृदयं योगिनी कुले || ४४ || ########### END OF FILE #######